श्रीः ओं तत्सद्ब्रह्मणे नमः । अथ रसरत्नसमुच्चयः । रसोत्पत्तिर्नाम प्रथमोऽध्यायः । यस्यानन्दभवेन मङ्गलकलासंभावितेन स्फुर- धाम्ना सिद्धरसामृतेन करुणावीक्षासुधासिन्धुना । भक्तानां प्रभवप्रसंहृतिजरारागादिरोगाः क्षणा- च्छान्तिं यान्ति जगत्प्रधानभिषजे तस्मै परस्मै नमः ॥ १.१ ॥ आदिमश्चन्द्रसेनश्च लङ्केशश्चविशारदः । कपाली मत्तमाण्डव्यौ भास्करः शूरसेनकः ॥ १.२ ॥ रत्नकोशश्च शंभुश्च सात्त्विको नरवाहनः । इन्द्रदो गोमुखश्चैव कम्बलिर्व्याडिरेव च ॥ १.३ ॥ नागार्जुनः सुरानन्दो नागबोधिर्यशोधनः । खण्डः कापालिको ब्रह्मा गोविन्दो लम्पको हरिः ॥ १.४ ॥ सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः । रसाङ्कुशो भैरवश्च नन्दी स्वच्छन्दभैरवः ॥ १.५ ॥ मन्थानभैरवश्चैव काकचण्डीश्वरस्तथा । वासुदेव ऋषिः शृङ्गः क्रियातन्त्रसमुच्चयी ॥ १.६ ॥ रसेन्द्रतिलको योगी भालुकी मैथिलाह्वयः । महादेवो नरेन्द्रश्च वासुदेवो हरीश्वरः ॥ १.७ ॥ एतेषां क्रियतेऽन्येषां तन्त्राण्यालोक्य संग्रहः । रसानामथ सिद्धानां चिकित्सार्थोपयोगिनाम् ॥ १.८ ॥ सूनुना सिंहगुप्तस्य रसरत्नसमुच्चयः । रसोपरसलोहानि यन्त्रादिकरणानि च ॥ १.९ ॥ शुद्ध्यर्थमपि लोहानां तन्त्रादिकरणानि च । शुद्धिः सत्त्वं द्रुतिर्भस्म- करणं च प्रवक्ष्यते ॥ १.१० ॥ अस्ति नीहारनिलयो महानुत्तरदिङ्मुखे । उत्तुङ्गशृङ्गसंघात- लङ्घिताभ्रो महीधरः ॥ १.११ ॥ विश्रामाय वियन्मार्ग- विलङ्घनघनश्रमः । अवतीर्ण इव क्षोणीं शरदम्बुमुचां गणः ॥ १.१२ ॥ राशिराशीविषाधीश- फणाफलकरोचिषाम् । भित्त्वा भुवमिवोत्तीर्णो यो विभाति भृशोन्नतः ॥ १.१३ ॥ ज्वलदौषधयो यस्य नितम्बमणिभूमयः । नक्तमुद्दामतडितामनुकुर्वन्ति वार्मुचाम् ॥ १.१४ ॥ कटके संचरन्तीनां यस्य किन्नरयोषिताम् । पादेषु धातुरागेण लाक्षाकृत्यमनुष्ठितम् ॥ १.१५ ॥ अवतंसितशीतांशुराच्छादितदिगम्बरः । यो गुहाधिगतो लोकैर्गिरीश इति गीयते ॥ १.१६ ॥ निमीलितदृशो नित्यं मुनयो यस्य सानुषु । प्रत्यक्षयन्ति गिरिशमवाङ्मनसगोचरम् ॥ १.१७ ॥ शिलातलप्रतिहतैर्यस्य निर्झरशीकरैः । अहन्यपि निरीक्षन्ते यक्षास्ताराङ्कितं नभः ॥ १.१८ ॥ नीहारपवनोद्रेक- निःसहा यत्र पुरुषाः । निजस्त्रीणां निषेवन्ते कुचोष्माणं निरन्तरम् ॥ १.१९ ॥ संचरन् कटके यस्य निदाघेऽपि दिवाकरः । उद्दामहिमरुद्धोष्मा न शीतांशोर्विभिद्यते ॥ १.२० ॥ गुहागृहेषु कस्तूरी- मृगनाभिसुगन्धिषु । गायन्ति यत्र किन्नर्यो गौरीपरिणयोत्सवम् ॥ १.२१ ॥ चकास्ति तत्र जगतामादिदेवो महेश्वरः । रसात्मना जगत्त्रातुं जातो यस्मान्महारसः ॥ १.२२ ॥ शताश्वमेधेन कृतेन पुण्यं गोकोटिभिः स्वर्णसहस्रदानात् । नृणां भवेत्सूतकदर्शनेन यत्सर्वतीर्थेषु कृताभिषेकात् ॥ १.२३ ॥ विधाय रसलिङ्गं यो भक्तियुक्तः समर्चयेत् । जगत्त्रितयलिङ्गानां पूजाफलमवाप्नुयात् ॥ १.२४ ॥ भक्षणं स्पर्शनं दानं ध्यानं च परिपूजनम् । पञ्चधा रसपूजोक्ता महापातकनाशिनी ॥ १.२५ ॥ हन्ति भक्षणमात्रेण पूर्वजन्माघसंभवम् । रोगसंघमशेषाणां नराणां नात्र संशयः ॥ १.२६ ॥ पूर्वजन्मकृतं पापं सद्यो नश्यति देहिनाम् । सुगन्धपिष्टसूतेन यदि शंभुर्विलेपितः ॥ १.२७ ॥ अभ्रकं त्रुटिमात्रं यो रसस्य परिजारयेत् । शतक्रतुफलं तस्य भवेदित्यब्रवीच्छिवः ॥ १.२८ ॥ यश्च निन्दति सूतेन्द्रं शंभोस्तेजः परात्परम् । स पतेन्नरके घोरे यावत्कल्पविकल्पना ॥ १.२९ ॥ रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् । तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥ १.३० ॥ सिद्धे रसे करिष्यामि निर्दारिद्र्यगदं जगत् । रसध्यानमिदं प्रोक्तं ब्रह्महत्यादिपापनुत् ॥ १.३१ ॥ अभ्रग्रासो हि सूतस्य नैवेद्यं परिकीर्तितम् । रसस्येत्यर्चनं कृत्वा प्राप्नुयात्क्रतुजं फलम् ॥ १.३२ ॥ उदरे संस्थिते सूते यस्योत्क्रामति जीवितम् । स मुक्तो दुष्कृताद्घोरात्प्रयाति परमं पदम् ॥ १.३३ ॥ मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ १.३४ ॥ सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् । श्वित्रं तदपि च शमयति यस्तस्मात्कः पवित्रतरः सूतात् ॥ १.३५ ॥ रसबन्ध एव धन्यः प्रारम्भे यस्य सततमितिकरणा । सेत्स्यति रसे करिष्ये महीमहं निर्जरामरणाम् ॥ १.३६ ॥ सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि । सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयम् ॥ १.३७ ॥ भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः । भोगाश्च सन्ति शरीरे तदनित्यमतो वृथा सकलं ॥ १.३८ ॥ इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयम् । मुक्तौ साच ज्ञनात्तच्चाभ्यासात्स च स्थिरे देहे ॥ १.३९ ॥ तत्स्थैर्ये न समर्थं रसायनं किमपि मूललोहादि । स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥ १.४० ॥ काष्ठौषध्यो नागे नागो वङ्गेऽथ वङ्गमपि शुल्बे । शुल्बं तारे तारं कनके कनकं च लीयते सूते ॥ १.४१ ॥ अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः । तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ॥ १.४२ ॥ परमात्मनीव सततं भवति लयो यत्र सर्वसत्त्वानाम् । एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥ १.४३ ॥ स्थिरदेहेऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् । प्राप्नोति ब्रह्मपदं न पुनर्भववासजन्मदुःखानि ॥ १.४४ ॥ एकांशेन जगद्युगपदवष्टभ्यावस्थितं परं ज्योतिः । पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ॥ १.४५ ॥ न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण । क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम् ॥ १.४६ ॥ नामापि देहसिद्धे को गृण्हीयाद्विना शरीरेण । यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वं ॥ १.४७ ॥ यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् । अत्यन्तभूयसी किल योगवशादात्मसंवित्तिः ॥ १.४८ ॥ भ्रूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि । केषांचित्पुण्यदृशामुन्मीलति चिन्मयं परं ज्योतिः ॥ १.४९ ॥ परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ॥ १.५० ॥ तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥ १.५१ ॥ रागद्वेषविमुक्ताः सत्याचारा मृषारहिताः । सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात् ॥ १.५२ ॥ तिष्ठन्त्यणिमादियुता विलसद्देहाः सदोदितानन्दाः । ब्रह्मस्वभावममृतं संप्राप्ताश्चैव कृतकृत्याः ॥ १.५३ ॥ आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकम् ॥ १.५४ ॥ प्रत्यक्षेण प्रमाणेन यो न जानाति सूतकम् । अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयम् ॥ १.५५ ॥ यज्जरया जर्जरितं कासश्वासादिदुःखविवशं च । योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम् ॥ १.५६ ॥ बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ॥ १.५७ ॥ अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः । देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम् ॥ १.५८ ॥ ब्रह्मादयो यतन्ते तस्मिन्दिव्यां तनुं समाश्रित्य । जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ॥ १.५९ ॥ तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् । दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥ १.६० ॥ शैलेऽस्मिञ्शिवयोः प्रीत्या परस्परजिगीषया । संप्रवृत्ते च संभोगे त्रिलोकीक्षोभकारिणि ६१ ॥ विनिवारयितुं वह्निः संभोगं प्रेषितः सुरैः । काङ्क्षमाणैस्तयोः पुत्रं तारकासुरमारकम् ॥ १.६२ ॥ कपोतरूपिणं प्राप्तं हिमवत्कन्दरेऽनलम् । अपक्षिभावसंक्षुब्धं स्मरलीलाविलोकिनम् ॥ १.६३ ॥ तं दृष्ट्वा लज्जितः शंभुर्विरतः सुरतात्तदा । प्रच्युतश्चरमो धातुर्गृहीतः शूलपाणिना ॥ १.६४ ॥ प्रक्षिप्तो वदने वह्नेर्गङ्गायामपि सोऽपतत् । बहिः क्षिप्तस्तया सोऽपि परिदन्दह्यमानया ॥ १.६५ ॥ संजातास्तन्मलाधानाद्धातवः सिद्धिहेतवः । यावदग्निमुखाद्रेतो न्यपतद्भूरिसारतः ॥ १.६६ ॥ शतयोजननिम्नांस्तान्कृत्वा कूपांस्तु पञ्च च । तदाप्रभृति कूपस्थं तद्रेतः पञ्चधाभवत् ॥ १.६७ ॥ रसो रसेन्द्रः सूतश्च पारदो मिश्रकस्तथा । इति पञ्चविधो जातः क्षेत्रभेदेन शंभुजः ॥ १.६८ ॥ रसो रक्तो विनिर्मुक्तः सर्वदोषै रसायनः । संजातास्त्रिदशास्तेन नीरुजा निर्जरामराः ॥ १.६९ ॥ रसेन्द्रो दोषनिर्मुक्तः श्यावो रूक्षोऽतिचञ्चलः । रसायिनोऽभवंस्तेन नागा मृत्युजरोज्झिताः ॥ १.७० ॥ देवैर्नागैश्च तौ कूपौ पूरितौ मृद्भिरश्मभिः । तदाप्रभृति लोकानां तौ जातावतिदुर्लभौ ॥ १.७१ ॥ ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः । दशाष्टसंस्कृतैः सिद्धो देहं लोहं करोति सः ॥ १.७२ ॥ अथान्य्कूपजः कोऽपि स चलः श्वेतवर्णवान् । पारदो विविधैर्योगैः सर्वरोगहरः स हि ॥ १.७३ ॥ मयूरचन्द्रिकाछायः स रसो मिश्रको मतः । सोऽप्यष्टादशसंस्कारयुक्तश्चातीव सिद्धिदः ॥ १.७४ ॥ त्रयः सूतादयः सूताः सर्वसिद्धिकरा अपि । निजकर्मविनिर्माणैः शक्तिमन्तोऽतिमात्रया ॥ १.७५ ॥ एतां रससमुत्पत्तिं यो जानाति स धार्मिकः । आयुरारोग्यसंतानं रससिद्धिं च विन्दति ॥ १.७६ ॥ रसनात्सर्वधातूनां रस इत्यभिधीयते । जरारुङ्मृत्युनाशाय रस्यते वा रसो मतः ॥ १.७७ ॥ रसोपरसराजत्वाद्रसेन्द्र इति कीर्तितः । देहलोहमयीं सिद्धिं सूते सूतस्ततः स्मृतः ॥ १.७८ ॥ रोगपङ्काब्धिमग्नानां पारदानाच्च पारदः । सर्वधातुगतं तेजोमिश्रितं यत्र तिष्ठति ॥ १.७९ ॥ तस्मात्स मिश्रकः प्रोक्तो नानारूपफलप्रदः । एवंभूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः । प्रभावान्मानुषा जाता देवतुल्यबलायुषः ॥ १.८० ॥ तान् दृष्ट्वाभ्यर्थितो रुद्रः शक्रेण तदनन्तरम् । दोषैश्च कञ्चुकाभिश्च रसराजो नियोजितः ॥ १.८१ ॥ तदाप्रभृति सूतोऽसौ नैव सिध्यत्यसंस्कृतः । जलगो जलरूपेण त्वरितो हंसगो भवेत् ॥ १.८२ ॥ मलगो मलरूपेण सधूमो धूमगो भवेत् । अन्या जीवगतिर्दैवी जीवोऽण्डादिव निष्क्रमेत् ॥ १.८३ ॥ स तांश्च जीवयेज्जीवांस्तेन जीवो रसः स्मृतः । चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ॥ १.८४ ॥ मन्त्रध्यानादिना तस्य रुध्यते पञ्चमी गतिः ॥ १.८५ ॥ इति भिन्नगतित्वाच्च सूतराज्यस्य दुर्लभः । संस्कारस्तस्य भिषजा निपुणेन तु रक्षयेत् ॥ १.८६ ॥ प्रथमे रजसि स्नातां हयारूढां स्वलंकृतां । वीक्षमाणां वधूं दृष्ट्वा जिघृक्षुः कूपगो रसः ॥ १.८७ ॥ उद्गच्छति जवात्सापि तं दृष्ट्वा याति वेगतः । अनुगच्छति तां सूतः सीमानं योजनोन्मितम् ॥ १.८८ ॥ प्रत्यायाति ततः कूपं वेगतः शिवसंभवः । मार्गनिर्मितगर्तेषु स्थितं गृह्णन्ति पारदम् । पतितो दरदे देशे गौरवाद्वह्निवक्त्रतः ॥ १.८९ ॥ स रसो भूतले लीनस्तत्तद्देशनिवासिनः । तां मृदं पातनायन्त्रे क्षिप्त्वा सूतं हरन्ति च ॥ १.९० ॥ इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्यस्य । कृतौ रसरत्नसमुच्चये रसोत्पत्तिर्नाम । प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः [महारसाः] अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद्रसान् ॥ २.१ ॥ [देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकमिति क्षेपकः] ॥ २.२ ॥ गौरीतेजः परमममृतं वातपित्तक्षयघ्नं प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् । बल्यं स्निग्धं रुचिदमकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद्व्योम सूतेन्द्रबन्धि ॥ २.३ ॥ राजहस्तादधस्ताद्यत्समानीतं घनं खनेः । भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥ २.४ ॥ पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् । श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ २.५ ॥ पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् । तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥ २.६ ॥ नागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् । तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥ २.७ ॥ उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् । तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥ २.८ ॥ वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् । देहलोहकरं तच्च सर्वरोगहरं परम् ॥ २.९ ॥ श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् । श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि । पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि ॥ २.१० ॥ चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने । तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम् ॥ २.११ ॥ स्निग्धं पृथुदलं वर्णसंयुक्तं भारतोऽधिकम् । सुखनिर्मोच्यपत्रं च तदभ्रं शस्तमीरितम् ॥ २.१२ ॥ सचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः । ग्रसितश्च नियोज्योऽसौ लोहे चैव रसायने ॥ २.१३ ॥ निश्चन्द्रिकं मृतं व्योम सेव्यं सर्गदेषु च । सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ २.१४ ॥ यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् । तैर्दृष्टं कालकूटाख्यं विषं जीवनहेतवे ॥ २.१५ ॥ सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् । अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम् ॥ २.१६ ॥ प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जकेऽभ्रकम् । निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ॥ २.१७ ॥ त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः । ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥ २.१८ ॥ चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे । पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥ २.१९ ॥ कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् । अर्धेभाख्यपुटैस्तद्वत्सप्तवारं पुटेत्खलु ॥ २.२० ॥ एवं वासारसेनापि तण्डुलीयरसेन च । प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः ॥ २.२१ ॥ एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ॥ २.२२ ॥ चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ २.२३ ॥ धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । पुटितं दशवारेण म्रियते नात्र संशयः ॥ २.२४ ॥ तद्वन्मुस्तारसेनापि तन्दुलीयरसेन च । पीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ॥ २.२५ ॥ पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते । क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः ॥ २.२६ ॥ वटमूलत्वचः क्वाथैस्ताम्बूलीपत्रसारतः । वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकटिल्लया ॥ २.२७ ॥ पयसा वटवृक्षस्य मर्दितं पुटितं घनम् । भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम् ॥ २.२८ ॥ पादांशटङ्कणोपेतं मुसलीरसमर्दितम् । रुन्ध्यात्कोष्ट्यां दृढं ध्मातं सत्त्वरूपं भवेद्धनम् ॥ २.२९ ॥ कासमर्दघनध्वानवासानां च पुनर्भुवः । मत्स्याक्ष्याः काण्डवल्ल्याश्च हंसपाद्या रसैः पृथक् ॥ २.३० ॥ पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्धर्मयोगतः । पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश्च टङ्कणम् ॥ २.३१ ॥ प्रत्येकमष्टमांशेन दत्वा दत्वा विमर्दयेत् । मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ॥ २.३२ ॥ पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च । क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतोऽधिकान् ॥ २.३३ ॥ पयो दधि घृतं मूत्रं सविट्कं चाजमुच्यते । अधःपातनकोष्ट्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥ २.३४ ॥ कोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान्हरेत् । तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च ॥ २.३५ ॥ गोलान्विधाय संशोष्य घर्मे भूयोऽपि पूर्ववत् । भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥ २.३६ ॥ अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः । शोधनीयगणोपेत्तं मूषामध्ये निरुध्य च ॥ २.३७ ॥ सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद्धनम् । इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने ॥ २.३८ ॥ मधुतैलवसाज्येषु द्रावितं परिवापितम् । मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ॥ २.३९ ॥ पट्टचुर्णं विधायाथ गोघृतेन परिप्लुतम् । भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ॥ २.४० ॥ अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् । तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत् ॥ २.४१ ॥ ततः सगन्धकं पिष्ट्वा वटमूलकषायतः । पुटेद्विंशतिवारेण वाराहेण पुटेन हि ॥ २.४२ ॥ पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः । त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः ॥ २.४३ ॥ भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया । सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम् ॥ २.४४ ॥ एवं चेच्छतवाराणि पुटपाकेन साधितम् । गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ॥ २.४५ ॥ गन्धर्वपत्रतोयेन गुडेन सह भावितम् । अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम् ॥ २.४६ ॥ क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया । तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम् ॥ २.४७ ॥ सत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके । निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया ॥ २.४८ ॥ संप्रताप्य घनस्थूलकणान्क्षिप्त्वाथ काञ्जिके । तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत् ॥ २.४९ ॥ गोघृतेन च तच्चूर्णं भर्जयेत्पूर्ववस्त्रिधा । धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा ॥ २.५० ॥ भर्जेन भर्जेन कार्यं शिलापट्टेन पषेणम् । ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ॥ २.५१ ॥ प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः । एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम् ॥ २.५२ ॥ यथेष्टं विनियोक्तव्यं जारणे च रसायने । द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् । विना शंभोः प्रसादेन न सिध्यन्ति कदाचन ॥ २.५३ ॥ वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् । जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥ २.५४ ॥ अथ वैक्रान्तः - अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः । शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ २.५५ ॥ श्वेतो रक्तश्च पीतश्च नीलः पारापतच्छविः । श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ २.५६ ॥ आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः । प्रज्ञाप्रदः सकलदोषगदापहारी । दीप्ताग्निकृत्पविसमानगुणस्तरस्वी । वैक्रान्तकः खलु वपुर्बललोहकारी ॥ २.५७ ॥ रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् । वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ॥ २.५८ ॥ [ग्रन्थान्तरे दैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः] । दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥ २.५९ ॥ तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम् ॥ २.६० ॥ विन्ध्यस्य दक्षिणे वास्ति ह्युत्तरे वास्ति सर्वतः । विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ २.६१ ॥ श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः । मयूरकण्ठसदृशश्चान्यो मरकतप्रभः ॥ २.६२ ॥ देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् । सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम् ॥ २.६३ ॥ शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥ २.६४ ॥ अथाहरणविधिः - यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् । विनायकं च संपूज्य गृह्णीयाच्छुद्धमानसः ॥ २.६५ ॥ वैक्रान्तो वज्रसदृशो देहलोहकरो मतः । विषघ्नो रसराजश्च ज्वरकुष्ठक्ष्यप्रणुत् ॥ २.६६ ॥ वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्वा । अम्लेषु मूत्रेषु कुलत्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ॥ २.६७ ॥ कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ २.६८ ॥ वैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् । पौनःपुन्येन वा कुर्याद्द्रवं दत्वा पुटं त्वनु ॥ २.६९ ॥ भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् । मोक्षमोरटपालाशक्षारगोमूत्रभावितम् ॥ २.७० ॥ वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् । तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम् ॥ २.७१ ॥ नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं । पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना ॥ २.७२ ॥ तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः । सत्त्वपातनयोगेन मर्दितश्च वटीकृतः । मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ २.७३ ॥ भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः । यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीमुरःक्षतमुखान्रोगाञ्जय्येद्देहकृत् ॥ २.७४ ॥ सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं । मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥ २.७५ ॥ क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् । निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः । त्रिःसप्तदिवसैर्न्.ऋणां गङ्गाम्भ इव पातकम् ॥ २.७६ ॥ अथ माक्षिकम् - सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः । ताप्यां किरातचीनेषु यवनेषु च निर्मितः ॥ २.७७ ॥ ताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते । मधुरः काञ्चनाभासः साम्लो रजतसंनिभः ॥ २.७८ ॥ किंचित्कषायमधुरः शीतः पाके कटुर्लघुः । तत्सेवनाज्जराव्याधिविषैर्न परिभूयते ॥ २.७९ ॥ माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभं ॥ २.८० ॥ तपतीतीरसंभूतं पञ्चवर्णसुवर्णवत् । पाषाणबहलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥ २.८१ ॥ माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । दुर्मेललोहद्वयमेलनश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥ २.८२ ॥ एरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकं । सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ॥ २.८३ ॥ तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् । मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ॥ २.८४ ॥ पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु । एरण्डस्नेहगव्याजैर्मातुलुङ्गरसेन वा ॥ २.८५ ॥ खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् । एवं मृतं रसे योज्यं रसायनविधावपि ॥ २.८६ ॥ त्रिंशांशनागसंयुक्तं क्षारैरम्लैश्च वर्तितम् । ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥ २.८७ ॥ सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे । माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम् ॥ २.८८ ॥ क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः ॥ २.८९ ॥ मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु ॥ २.९० ॥ गुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् । ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम् ॥ २.९१ ॥ माक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय । संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य ॥ २.९२ ॥ विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च । स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥ २.९३ ॥ संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव । दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥ २.९४ ॥ एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्ककणम् । मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत् ॥ २.९५ ॥ अथ विमलः - विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ २.९६ ॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥ २.९७ ॥ पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥ २.९८ ॥ आटरूषजले स्विन्नो विमलो विमलो भवेत् । जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसेऽथवा ॥ २.९९ ॥ आयाति शुद्धिं विमलो धातवश्च यथा परे । गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ॥ २.१०० ॥ सटङ्कलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना । पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥ २.१०१ ॥ षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभह् । सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ॥ २.१०२ ॥ विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् । वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ २.१०३ ॥ मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् । सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः ॥ २.१०४ ॥ तत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् । विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं ॥ २.१०५ ॥ शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु । तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं ॥ २.१०५ ॥ सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च । निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥ २.१०७ ॥ लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः । मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान् ॥ २.१०८ ॥ इति विमलः ॥ अथ शिलाधातुः - शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ॥ २.१०९ ॥ ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ २.११० ॥ स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् । स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः ॥ २.१११ ॥ सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् । रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ २.११२ ॥ शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् । ताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु ॥ २.११३ ॥ शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् । वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् । सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥ २.११४ ॥ नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् । गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ २.११५ ॥ रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ २.११६ ॥ क्षाराम्लगोजलैर्धौतं शुध्यत्येव शिलाजतु । शिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः ॥ २.११७ ॥ लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः । क्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः ॥ २.११८ ॥ स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति । शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ॥ २.११९ ॥ पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ २.१२० ॥ भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् । पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥ २.१२१ ॥ सेवेत यदि षण्मासं रसायनविधानतः । वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ २.१२२ ॥ पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ॥ २.१२३ ॥ सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् । पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ॥ २.१२४ ॥ मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् । एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सत्त्वपातनं विहितं बुद्धैः ॥ २.१२५ ॥ अथ सस्यकः - पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता । विषेणामृतयुक्तेन गिरौ मरकताह्वये ॥ २.१२६ ॥ तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु । मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ॥ २.१२७ ॥ द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् । हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥ २.१२८ ॥ निःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च । रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥ २.१२९ ॥ सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् । स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् ॥ २.१३० ॥ दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । गोमहिष्याजमूत्रेषु शुद्ध्यते पञ्चखर्परम् ॥ २.१३१ ॥ लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् । निरुध्य मूषिकामध्ये म्रियते कौक्वुटैः पुटैः ॥ २.१३२ ॥ सस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् । करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥ २.१३३ ॥ अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् । इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम् ॥ २.१३४ ॥ निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च । ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥ २.१३५ ॥ शुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् । नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ २.१३६ ॥ सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् । तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षनाद्भवेत् ॥ २.१३७ ॥ चराचरं विषं भूतडाकिनीदृग्गतं जयेत् । मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ॥ २.१३८ ॥ रामवत्सोमसेनानीमुद्रितेऽपि तथाक्षरम् । हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ॥ २.१३९ ॥ तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् । मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ॥ २.१४० ॥ सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् । अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ॥ २.१४१ ॥ लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् । सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥ २.१४२ ॥ अथ चपलः - गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः । हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ॥ २.१४३ ॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । वण्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥ २.१४४ ॥ चपलो लेखनः स्निग्धो देहलोहकरो मतः । रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः ॥ २.१४५ ॥ चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः । महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ॥ २.१४६ ॥ जम्बीरकर्कोटकशृङ्गवेरैर्विभावनाभिश्चपलस्य शुद्धिः ॥ २.१४७ ॥ शैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर्विषैः । पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा ॥ २.१४८ ॥ अथ रसकः - रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः । सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ २.१४९ ॥ सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु । रसकः सर्वमेहघ्नः कफपित्तविनाशनः ॥ २.१५० ॥ नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः । नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ॥ २.१५१ ॥ श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् । रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ॥ २.१५२ ॥ देहलोहमयी सिद्धिर्दासी तस्य न संशयः । कटुकालाबुनिर्यास आलोड्य रसकं पचेत् ॥ २.१५३ ॥ शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते । खर्परः परिसंतप्तः सप्तवारं निमज्जितः ॥ २.१५४ ॥ बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते । नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ॥ २.१५५ ॥ प्रताप्य मज्जितं सम्यक्खर्परं परिशुद्ध्यति । नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ॥ २.१५६ ॥ शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा । हरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः ॥ २.१५७ ॥ सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् । लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ॥ २.१५८ ॥ मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः । खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि ॥ २.१५९ ॥ तदा संदंशतो मूषां घृत्वा कृत्वा त्वधोमुखीम् । शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ॥ २.१६० ॥ वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् । एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत् ॥ २.१६१ ॥ साभयाजतुभूनागनिशाधूमजटङ्कणम् । मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति ॥ २.१६२ ॥ लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः । सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ॥ २.१६३ ॥ वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ २.१६४ ॥ मत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् । यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ॥ २.१६५ ॥ सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽघोमुखीं क्षिपेत् । मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् ॥ २.१६६ ॥ पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् । तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ॥ २.१६७ ॥ मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् । तद्भस्म मृतकान्तेन समेन सह योजयेत् ॥ २.१६८ ॥ अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् । कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ॥ २.१६९ ॥ निषेवितं निहन्त्याशु मधुमेहमपि धुवम् ॥ २.१७० ॥ पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च । रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥ २.१७१ ॥ योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥ २.१७२ ॥ इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्यस्य कृतौ रसरत्नसमुच्चये । सहारसाष्टकशुद्ध्यादिनिरूपणं नाम द्वितीयोऽधायः ॥ २ ॥ अथ तृतीयोऽध्यायः [अथोपरसाः साधारणरसाश्च] अथ गन्धकः - गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् । कङ्कुष्टं चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥ ३.१ ॥ पार्वत्युवाच - गन्धकस्य तु माहात्म्यं तद्गुह्यं वद मे प्रभो । ईश्वर उवाच - श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते । सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥ ३.२ ॥ विद्याधरादिमुख्याभिरङ्गनाभिश्च योगिनाम् । सिद्धाङ्गनाभिः श्रेष्ठाभिस्तथैवाप्सरसां गणैः ॥ ३.३ ॥ देवाङ्गनाभी रम्याभिः क्रीडिताभिर्मनोहरैः । गीतैर्नृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥ ३.४ ॥ एवं संक्रीडमानायाः प्राभवत्प्रसृतं रजः । तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥ ३.५ ॥ रजसश्चातिबाहुल्याद्वासस्ते रक्ततां ययौ । तत्र त्यक्त्वा तु तद्वस्त्रं सुस्नाता क्षीरसागरे ॥ ३.६ ॥ वृता देवाङ्गनाभिस्त्वं कैलासं पुनरागता । ऊर्मिभिस्तद्रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥ ३.७ ॥ एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे । क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥ ३.८ ॥ निजगन्धेन तान्सर्वान्हर्षयन्सर्वदानवान् । ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ३.९ ॥ रसस्य बन्धनार्थाय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥ ३.१० ॥ इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि । तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥ ३.११ ॥ स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः । मधमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ ३.१२ ॥ ग्रन्थान्तरे चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु । श्वेतोऽत्र खटिकाप्रोक्तो लेपने लोहमारणे ॥ ३.१३ ॥ तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् । शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥ ३.१४ ॥ रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः । दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ ३.१५ ॥ गन्धाश्मातिरसायनः सुमधुरः पाके कटूष्णो मतः कण्डूकुष्ठविसर्पदद्रुदलनो दीप्तानलः पाचनः । आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्यात्मकः सूतजित् ॥ ३.१६ ॥ बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥ ३.१७ ॥ वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता । वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥ ३.१८ ॥ गन्धकत्वं च संप्राप्ता गन्धोऽभूत्सविषः स्मृतः । तस्माद्बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ॥ ३.१९ ॥ पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः । गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति ॥ ३.२० ॥ एवं संशोधितः सोऽयं पाषाणानंबरा त्यजेत् । घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च ॥ ३.२१ ॥ इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् । अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥ ३.२२ ॥ गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । तद्रसैः सप्तधा भिन्नो गन्धकः परिशुध्यति ॥ ३.२३ ॥ स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च । गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ॥ ३.२४ ॥ छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकं । ज्वालयेत्खर्परस्योर्ध्वं वनच्छाणैस्तथोपलैः । दुग्धे निपतितो गन्धो गलितः परिशुध्यति ॥ ३.२५ ॥ इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः । गृघ्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ॥ ३.२६ ॥ कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् । अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्ट्य तत् ॥ ३.२७ ॥ सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् । घृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम् ॥ ३.२८ ॥ द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने । तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्लयास्त्रिबिन्दुकाम् ॥ ३.२९ ॥ वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् । अङ्गुल्याथ सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ३.३० ॥ करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् । कासं श्वासं च शूलार्ति ग्रहणीमतिदुर्धराम् ॥ ३.३१ ॥ आमं विनाशयत्याशु लघुत्वं प्रकरोति च । घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ॥ ३.३२ ॥ घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् । हन्ति क्षयमुखान्रोगान्कुष्ठरोगं विशेषतः ॥ ३.३३ ॥ क्षाराम्लतैलसौवीरविदाहि द्विदलं तथा । शुद्धगन्धकसेवायां त्यजेद्योगयुतेन हि ॥ ३.३४ ॥ गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः । घृष्टः शम्याकमूलेन पीतश्चाखिलकुष्ठहा ॥ ३.३५ ॥ तन्मूलसलिले पिष्ठं लेपयेत्प्रत्यहं तनौ । दृष्टप्रत्यययोगोऽयं सर्वत्र प्रतिवीर्यवान् ॥ ३.३६ ॥ श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः । द्विनिष्कप्रमितं गन्धं पिष्ट्वा तैलेन संयुतम् ॥ ३.३७ ॥ अथापामार्गतोयेन सतैलमरिचेन हि । विलिप्य सकलं देहं तिष्ठेद्धर्मे ततः परम् ॥ ३.३८ ॥ तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु । भजेद्रात्रौ तथा वह्निं समुत्थाय तथा प्रगे ॥ ३.३९ ॥ महिषीछगण्.अं लिप्त्वा स्नायाच्छीतेन वारिणा । ततोऽभ्यज्य घृतैर्देहं स्नायादिष्टोष्णवारिणा ॥ ३.४० ॥ अमुना क्रमयोगेन विनश्यत्यतिवेगतः । दुर्जया बहुकालीना पामा कण्डुः सुनिश्चितं ॥ ३.४१ ॥ गन्धकस्य प्रयोगाणां शतं तन्न प्रकीर्तितम् । ग्रन्थविस्तारभीतेन सोमदेवेन भूभुजा ॥ ३.४२ ॥ अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा । गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेद्धनम् ॥ ३.४३ ॥ तद्वर्तिं ज्वलितां दंशे घृतां कुर्यादधोमुखीम् । तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ ३.४४ ॥ शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ ३.४५ ॥ अथ गौरिकम् - पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् । पाषाणगैरिकं प्रोक्तं कठिण्.अं ताम्रवर्णकम् ॥ ३.४६ ॥ अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् । स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ ३.४७ ॥ हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् । पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥ ३.४८ ॥ गैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति । गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ॥ ३.४९ ॥ कैरप्युक्तं पतेत्सत्त्वं क्षाराम्लक्लिन्नगैरिकात् । उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम् ॥ ३.५० ॥ अथ कासीसम् - कासीसं वालुकाद्येकं पुष्पपुर्वमथापरम् । क्षाराम्लागरुधूमाभं सोष्णवीर्यं विषापहम् ॥ ३.५१ ॥ बालुकापुष्पकासीसं श्वित्रघ्नं केशरञ्जनम् ॥ ३.५२ ॥ पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाअम्लमतीव नेत्र्यम् । विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ ३.५३ ॥ सकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् । तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् । कासीसं शुद्धिमाप्नोति पित्तैश्च रजसा स्त्रियः ॥ ३.५४ ॥ बलिना हतकासीसं क्रान्तं कासीसमारितम् । उभयं समभागं हि त्रिफलावेल्लसंयुतम् ॥ ३.५५ ॥ विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे । सेवितं हन्ति वेगेन श्वित्रं पाण्डुक्षयामयम् ॥ ३.५६ ॥ गुल्मप्लीहगदं शूलं मूलरोगं विशेषतः । रसायनविधानेन सेवितं वत्सरावधि ॥ ३.५७ ॥ आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् । पलितं वलिभिः सार्धं विनाशयति निश्चितम् ॥ ३.५८ ॥ अथ तुवरी - सौराष्ट्र्य संभूता सा तुवरी मता । वस्त्रेषु लिप्यते यासौ मञ्जिष्टा रागबन्धिनी ॥ ३.५९ ॥ फटकी फुल्लिका चेति द्वितीया परिकीर्तिता । ईषत्पीता गुरुः स्निग्धा पीतिका विषनाशनी ॥ ३.६० ॥ व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ॥ ३.६१ ॥ निर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता । सा फुल्लतुवरी प्रोक्ता लेपात्ताम्रं चरेदयः ॥ ३.६२ ॥ काङ्क्षी कषाया कटुकाम्लकण्थ्या केश्या व्रणघ्नी विषनाशनी च । श्वित्रापहा नेत्रहिता त्रिदोष- शान्तिप्रदा पारदजारणी च ॥ ३.६३ ॥ तुवरी काञ्जिके क्षिप्त्वा त्रिदिनाच्छुद्धिमृच्छति । क्षाराम्लैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ॥ ३.६४ ॥ गोपित्तेन शतं वरान्सौराष्ट्रां भावयेत्ततः । धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ॥ ३.६५ ॥ अथ तालकः - हरितालं द्विधा प्रोक्तं प्रत्याद्यं पिण्डसंज्ञकम् । स्वर्णवर्ण गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ ३.६६ ॥ तत्पत्रतालकं प्रोक्तं बहुपत्रं रसायनम् । निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु । स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ॥ ३.६७ ॥ श्लेष्मरक्तविषवातभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः । स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥ ३.६८ ॥ स्निग्धं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा । तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ ३.६९ ॥ अशुद्धं तालमायुघ्नं कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ ३.७० ॥ तालकं कणशः कृत्वा दशांशेन च टङ्कणम् । जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्ततः ॥ ३.७१ ॥ वस्त्रे चतुर्गुणे बद्ध्वा दोलायन्त्रे दिनं पचेत् ॥ ३.७२ ॥ सचूर्णेनारनालेन दिनं कूष्माण्डजे रसे । स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥ ३.७३ ॥ मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे । त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥ ३.७४ ॥ उपलैर्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् । एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ ३.७५ ॥ कुलित्थक्वाथसौभाग्यमहिष्याज्यमधुप्लुतम् । स्थाल्यां क्षिप्त्वा विदध्याच्च त्वम्लेन च्छिद्रयोगिना ॥ ३.७६ ॥ सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् । एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ॥ ३.७७ ॥ यामान्ते छिद्रमुद्धाट्य दृष्टे धूमे च पाण्डुरे । शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ॥ ३.७८ ॥ सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः । ग्रन्थविस्तारभीत्यातो लिखिता न मया खलु ॥ ३.७९ ॥ पलालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् । क्षिप्त्वा षोडशिकातेलै मिश्रयित्वा ततः पचेत् ॥ ३.८० ॥ अनावृतप्रदेशे च सप्तयामावधि धुवम् । स्वाङ्गशीतमधस्थं च सत्त्वं श्वेतं समाहरेत् ॥ ३.८१ ॥ छागलस्याथबालस्य बलिना च समन्वितम् । तालकं दुवसद्वंद्वं मर्दयित्वातियत्नतः ॥ ३.८२ ॥ युक्तं द्रावणवर्गेण काचकुप्यां विनिक्षिपेत् । त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ॥ ३.८३ ॥ ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् । प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधि ॥ ३.८४ ॥ कुपिकण्ठस्थितं शीतं शुद्धं सत्त्वं समाहरेत् । पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ॥ ३.८५ ॥ बलिनालिप्य यत्नेन त्रिवारं परिशोष्य च । द्राविते त्रिफले ताम्रे क्षिपेत्तालकपोटलीम् ॥ ३.८६ ॥ भस्मना छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् । मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने ॥ ३.८७ ॥ अथ मनःशिला - मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका । खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ॥ ३.८८ ॥ श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता । तेजस्विनी च निर्गौरा ताम्राभा कणवीरका ॥ ३.८९ ॥ चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका । उत्तरोक्तगुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ॥ ३.९० ॥ मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री । सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ॥ ३.९१ ॥ अश्मरीं मूत्रकृच्छ्रं च अशुद्धा कुरुते शिला । मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥ ३.९२ ॥ अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । शृङ्गवेररसैर्वापि विशुद्ध्यति मनःशिला ॥ ३.९३ ॥ जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिलाम् । दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः । क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥ ३.९४ ॥ अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा । कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ॥ ३.९५ ॥ भूनागधौतसौभाग्यमदनैश्च विमर्दितैः । कारवल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ॥ ३.९६ ॥ शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् । कोकिलाद्वयमात्रं हि ध्मानात्सत्त्वं त्यजत्यसौ ॥ ३.९७ ॥ अथाञ्जनानि - सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् । स्रोतोञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ॥ ३.९८ ॥ नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते । सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ॥ ३.९९ ॥ विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् । रसाञ्जनं च पीताभं विषवक्त्रगदापहम् ॥ ३.१०० ॥ श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनं । स्रोतोञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ॥ ३.१०१ ॥ नेत्र्यं हिध्माविषच्छर्दिकफपित्तास्ररोगनुत् ॥ ३.१०२ ॥ पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् । अतिदुर्धरहिध्माघ्नं विषज्वरगदापहं ॥ ३.१०३ ॥ नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् । रसायनं सुवर्णघ्नं लोहमार्दवकारकं ॥ ३.१०४ ॥ अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः । मनोह्वासत्त्ववत्सत्त्वमञ्जनानां समाहरेत् ॥ ३.१०५ ॥ वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । घृष्टं तु गौरिकच्छायं स्रोतोजं लक्षयेद्बुधः ॥ ३.१०६ ॥ गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च । भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥ ३.१०७ ॥ सूर्यावर्तादियोगेन शुद्धिमेति रसाञ्जनम् । राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोञ्जनादपि ॥ ३.१०८ ॥ अथ कङ्कुष्ठम् - हिमवत्पादशिखरे कङ्कुष्ठमुपजायते । तत्रैकं नालिकाख्यं हि तदन्यद्रेणुकं मतम् ॥ ३.१०९ ॥ पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् । श्यामपीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ॥ ३.११० ॥ केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः । वर्चश्च श्यामपीताभं रेचनं परिकथ्यते ॥ ३.१११ ॥ कतिचित्तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् । वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥ ३.११२ ॥ रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम् । कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् । व्रणोदावर्तशूलार्तिगुल्मप्लीहगुदार्तिनुत् ॥ ३.११३ ॥ सूर्यावर्तककदली वन्ध्या कोशातकी च सुरदाली । शिग्रुश्च वज्रकन्दो निरङ्कणा काकमाची च ॥ ३.११४ ॥ आसामेकरसेन तु लवणक्षाराम्लभावितं बहुशः । शुद्ध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ॥ ३.११७ ॥ कङ्कुष्ठं शुद्धिमायाति त्रिधा शुण्ठ्यम्बुभावितम् । सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ॥ ३.११६ ॥ भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया । नाशयेदामपूर्तिं च विरेच्य क्षणमात्रतः ॥ ३.११७ ॥ भक्षितः सह ताम्बूलैर्विरिच्यासून्विनाशयेत् ॥ ३.११८ ॥ बर्बुरीमूलिकाक्वाथजीरसौभाग्यकं समम् । कङ्कुष्ठं विषनाशाय भूयो भूयः पिबेन्नरः ॥ ३.११९ ॥ इत्युपरसाः अथ साधारणरसाः - कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥ ३.१२० ॥ मोदारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः । रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः ॥ ३.१२१ ॥ अथ कम्पिल्लः - इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः । सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ॥ ३.१२२ ॥ पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिकृमिगुल्मवैरी । मूलामशोफज्वरशूलहारी कम्पिल्लको रेच्यगदापहारी ॥ ३.१२३ ॥ अथ गौरीपाषाणः - गौरीपाषाणकः पीतो विकटो हतचूर्णकः । स्फटिकाभश्च शुङ्खाभो हरिद्राभस्त्रयः स्मृताः ॥ ३.१२४ ॥ पूर्वं पूर्वं गुणैः श्रेष्ठः कारवल्लीफले क्षिपेत् । स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥ ३.१२५ ॥ तालवद्ग्राहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् । रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ ३.१२६ ॥ अथ नवसारः - करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः । क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ॥ ३.१२७ ॥ इष्टिकादहने जातं पाण्डुरं लवणं लघु । तदुक्तं नवसाराख्यं चूलिकालवणं च तत् । रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥ ३.१२८ ॥ गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । विडाख्यं च त्रिदोषघ्नं चूलिकालवणं मतम् ॥ ३.१२९ ॥ अथ वराटकाः - पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका । रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ ३.१३० ॥ सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा । पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ ३.१३१ ॥ परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी । कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ॥ ३.१३२ ॥ रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ॥ ३.१३३ ॥ तदन्ये तु वराटाः स्युर्गुरवः श्लेष्मपित्तलाः । वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ३.१३४ ॥ अथाग्निजारः - समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झितः । संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ ३.१३५ ॥ अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा । तदब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ॥ ३.१३६ ॥ अथ गिरिसिन्दूरम् - महागिरिषु चाल्पीयः पाषाणान्तःस्थितो रसः । शुष्कशोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥ ३.१३७ ॥ त्रिदोषशमनं भेदि रसबन्धनमग्रिमम् । देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ ३.१३८ ॥ अथ हिङ्गुलः -हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः । प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ॥ ३.१३९ ॥ श्वेतरेषः प्रवालाभो हंसपाकः स ईरितः । हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ॥ ३.१४० ॥ सर्वरोगहरो वृष्यो जारणायातिशस्यते । एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ ३.१४१ ॥ सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा । शोषितो भावयित्वा च निर्दोषो जायते खलु ॥ ३.१४२ ॥ किमत्रचित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः । एवं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥ ३.१४३ ॥ दरदः पातनायन्त्रे पातितश्च जलाश्रये । तत्सत्त्वं सूतसंकाशं पातयेन्नात्र संशयः ॥ ३.१४४ ॥ अथ मृद्दारशृङ्गकम् -सदलं पीतवर्णं च भवेद्गुर्जरमण्डले । अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ॥ ३.१४५ ॥ सीससत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ ३.१४६ ॥ साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना । त्रिरात्रं भाविताः शुष्का भवेयुर्दोष वर्जिताः ॥ ३.१४७ ॥ यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः । ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ॥ ३.१४८ ॥ इति करवालभैरवः । अथ राजावर्तः - राजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः । गुरुत्वमसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥ ३.१४९ ॥ प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः । दीपनः पाचनो वृष्यो राजावर्तो रसायनः ॥ ३.१५० ॥ निम्बुद्रवैः सगोमूत्रैः सक्षरैः स्वेदिताः खळु । द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ॥ ३.१५१ ॥ शिरीषपुष्पार्द्ररसै राजावर्तं विशोधयेत् ॥ ३.१५२ ॥ लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः । पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् ॥ ३.१५३ ॥ राजावर्तस्य चूर्णं तु कुनटीघृतमिश्रितम् । विपचेदायसे पात्रे महिषीक्षिरसंयुतं ॥ ३.१५४ ॥ सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत् । ध्मापितं खदिराङ्गारैः सत्त्वं मुञ्चति शोभनं ॥ ३.१५५ ॥ अनेन क्रमयोगेन गैरिकं विमलं भवेत् । क्रमात्पीतं च रक्तं च सत्त्वं पतति शोभनम् ॥ ३.१५६ [४१८] ॥ इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्यस्य कृतौ रसरत्नसमुच्चये । उपरससाधारणरसानां शुद्ध्यादिनिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । [अथ रत्नानि] अथ मणयः - मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः । वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ ४.१ ॥ चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः । गरुडोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी ॥ ४.२ ॥ पुष्परागं महानीलं पद्मरागं प्रवालकम् । वैदूर्यं च तथा नीलमेते च मणयो मताः । यत्नतः संग्रहीतव्या रसबन्धस्य कारणात् ॥ ४.३ ॥ पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः । पुष्परागः सवज्राख्यः पञ्चरत्नवराः स्मृताः ॥ ४.४ ॥ माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् । गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ ४.५ ॥ ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् । नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥ ४.६ ॥ रसे रसायने दाने धारणे देवतार्चने । सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥ ४.७ ॥ माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च । कुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम् ॥ ४.८ ॥ वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते ॥ ४.९ ॥ नीलं गङ्गाम्बुसंभूतं नीलगर्भारुणच्छवि । पूर्वमाणिक्यवच्छ्रेष्ठमाणिक्यं नीलगन्धि तत् ॥ ४.१० ॥ रन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् । चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ॥ ४.११ ॥ माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् । भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ॥ ४.१२ ॥ अथ मौक्तिकम् - ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ ४.१३ ॥ मुक्ताफलं लघु हिमं मधुरं च कान्ति- दृष्ट्यग्निपुष्टिकरणं विषहारि भेदि । वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर्दीप्ता च पक्तिरुजमाशु हरेदवश्यम् ॥ ४.१४ ॥ रूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् । अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥ ४.१५ ॥ कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ ४.१६ ॥ अथ प्रवालम् - पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् । स्निग्धमव्रणकं स्थूलं प्रवालं सप्तदा शुभम् ॥ ४.१७ ॥ पाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् । निर्भारं शुल्बवर्णं च प्रवालं नेष्यतेऽष्टधा ॥ ४.१८ ॥ क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ ४.१९ ॥ अथ तार्क्ष्यम् - हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुशम् । मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥ ४.२० ॥ कपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् । चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥ ४.२१ ॥ ज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् । दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥ ४.२२ ॥ अथ पुष्परागः - पुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु । कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ॥ ४.२३ ॥ निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् । कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् ॥ ४.२४ ॥ पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् । दाहकुष्ठास्रशमनं दीपनं पाचनं लघु ॥ ४.२५ ॥ अथ वज्रम् - वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः ॥ ४.२६ ॥ अष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥ ४.२७ ॥ तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् । वर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥ ४.२८ ॥ स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके । व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥ ४.२९ ॥ श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् । ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ ४.३० ॥ उत्तमोत्तमवर्णं हि नीचवर्णफलप्रदम् । न्यायोऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि ॥ ४.३१ ॥ आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम् ॥ ४.३२ ॥ गौरत्रासश्च बिन्दुश्च रेखा च जलगर्भता । सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ॥ ४.३३ ॥ क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते । कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ॥ ४.३४ ॥ एकयामावधि स्विन्नं वज्रं शुद्ध्यति निश्चितम् । वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् ॥ ४.३५ ॥ सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् । पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ॥ ४.३६ ॥ ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् । अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः ॥ ४.३७ ॥ कुलत्थक्वात्थसंयुक्तलकुचद्रवपिष्टया । शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ॥ ४.३८ ॥ अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः । शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ ४.३९ ॥ सत्यवाक्सोमसेनानीरेतद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान्रसकौतुकी ॥ ४.४० ॥ विलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम् ॥ ४.४१ ॥ कासमर्दरसापूर्णे लोहपात्रे निवेशितम् । सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु ॥ ४.४२ ॥ ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः । नीलज्योतिर्लताकन्दे धृष्टं घर्मे विशोषितम् ॥ ४.४३ ॥ वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना । मदनस्य फलोद्भूतरसेन क्षोणिनागकैः ॥ ४.४४ ॥ कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् । वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु ॥ ४.४५ ॥ तद्वज्रं चूर्णयित्वाथ किंचिट्टङ्कणसंयुतम् । खरभूनागसत्त्वेन विंशेनावर्तते ध्रुवम् । तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥ ४.४६ ॥ त्रिगुणेन रसेनैव संमर्द्य गुटिकीकृतम् । मुखे घृतं करोत्याशु चलद्दन्तविबन्धनम् ॥ ४.४७ ॥ त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् । पादांषं खलु ताप्यकं वसुगुणं वैक्रान्तकं षाड्गुणं भोगोऽप्युक्तरसै रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥ ४.४८ ॥ अथ नीलम् - जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् । श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ॥ ४.४९ ॥ काऋष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥ ४.५० ॥ एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् । मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ ४.५१ ॥ कोमलं विहितं रूक्सं निर्भारं रक्तगन्धि च । चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा ॥ ४.५२ ॥ श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ॥ ४.५३ ॥ अथ गोमेदः - गोमेदः समरागत्वाद्गोमेदं रत्नमुच्यते । सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु । निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥ ४.५४ ॥ विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् । निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ ४.५५ ॥ गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ ४.५६ ॥ अथ वैदूर्यम् - वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् । भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ ४.५७ ॥ श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् । रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते ॥ ४.५८ ॥ वैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् । पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ॥ ४.५९ ॥ अथ रत्नशुद्धिः - शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ॥ ४.६० ॥ पुष्परागं च संधानैः कुलत्थक्वाथसंपुतैः । तन्दुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ ४.६१ ॥ रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ॥ ४.६२ ॥ अथ रत्नभस्मक्रमः - लकुचद्रावसंपिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ ४.६३ ॥ रामठं पञ्चलवणं क्षाराणां त्रितयं तथा । मांसद्रवोऽम्लवेतश्च चूलिकालवणं तथा ॥ ४.६४ ॥ स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा । द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ ४.६५ ॥ दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः । गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥ ४.६६ ॥ गुणवन्नवरत्नानि जातिमन्ति शुभानि च । भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥ ४.६७ ॥ पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ॥ ४.६८ ॥ अहोरात्रत्रयं पावत्स्वेदयेत्तीव्रवह्निना । तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ॥ ४.६९ ॥ रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा । मुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम् ॥ ४.७० ॥ जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् । सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत् ॥ ४.७१ ॥ वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् । अम्लभाण्डगतं स्वेद्यं सप्ताहाद्द्रवतां व्रजेत् ॥ ४.७२ ॥ अथ वैक्रान्तम् - श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् । सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ ॥ ४.७३ ॥ केतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका । इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ ४.७४ ॥ सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् । लोहाष्टके तथा वज्रवापनात्स्वेदनाद्द्रुतिः ॥ ४.७५ ॥ जायते नात्र संदेहो योगस्यास्य प्रभावतः । कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥ ४.७६ ॥ कुसुम्भतैलमध्येतु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ ४.७७ ॥ सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् । दुश्छायाचलधूलिसंगतिभवालक्ष्मीहरं सर्वदा रत्नानां परिधारणं निगदितं भूतादिनिर्नाशनम् ॥ ४.७८ [४९६] ॥ इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्यस्य कृतौ रसरत्नसमुच्चये । रत्नानां शुद्ध्याअदिनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । [अथ लोहानि] अथ हेमगुणाः - शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् । मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर्लोहे लुह इति मतः सोऽपि कर्षार्थवाची ॥ ५.१ ॥ प्राकृतं सहजं वह्निसंभूतं स्वनिसंभवम् । रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥ ५.२ ॥ आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यं भूतावेशप्रशान्तिस्मरभरसुखदं सौख्यपुष्टिप्रकाशि । गाङ्गेयं चाथ रूप्यं गदहरमजराकारि मेहापहारि क्षीणानां पुष्टिकारि स्फुटमतिकरणं वीर्यवृद्धिप्रकारि ॥ ५.३ ॥ ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु । तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥ ५.४ ॥ ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा । तन्मेरुरूपतां यातं सुवर्णं सहजं हि तत् ॥ ५.५ ॥ विसृष्टमग्निना शैव्.अं तेजः पीतं सुदुःसहम् । अभूत्सर्वं समुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ ५.६ ॥ एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । धारणादेव तत्कुर्याच्छरीरमजरामरम् ॥ ५.७ ॥ तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् । तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ ५.८ ॥ रसेन्द्रवेधसंभूतं तद्वेधजमुदाह्र्तम् । रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥ ५.९ ॥ स्निग्धं मेध्यं विषगदहरं बृंहनं वृष्यमग्र्यम् । यक्षोन्मादप्रशमनपरं देहरोगप्रमाथि । मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं । रुच्यं दीपि प्रशामितरुजं खादुपाकं सुवर्णम् ॥ ५.१० ॥ सौख्यं वीर्यं बलं हन्ति रोगवर्गं करोति च । अशुद्धं न सृतं स्वर्णं तस्माच्छुद्दं समाचरेत् ॥ ५.११ ॥ कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् । अङ्गारसं स्थं प्रहरार्धमानं ध्मानेन तत्स्यान्ननु वर्णपुर्णम् ॥ ५.१२ ॥ लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ५.१३ ॥ अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । लुङ्गाबुभस्मसूतेन म्रियते दशभिः पुटैः ॥ ५.१४ ॥ द्रुते विनिक्षिपेत्स्वर्णे लोहमानं मृतं रसम् । विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ॥ ५.१५ ॥ जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ ५.१६ ॥ हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् । पत्रे लिप्त्वा पुटैः पच्यादष्टभिर्म्रियते ध्रुवम् ॥ ५.१७ ॥ मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः । प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ५.१८ ॥ चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः । भावितं सदृशं हेम करोति जलवद्द्रुतम् ॥ ५.१९ ॥ एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुचिम् । ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं पथ्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥ ५.२० ॥ [क्षेपकः] बलं च वीर्यं हरते नराणां रोगव्रजं कोपयतीव काये । असौख्यकारं च सदैव हेमापक्वं सदोषं मरणं करोति ॥ ५.२१ ॥ अथ रजतम् - सहजं खनिसंजातं कृत्रिमं त्रिविधं मतम् । रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ॥ ५.२२ ॥ कैलासाद्यद्रिसंभूतं सहजं रजतं भवेत् । तत्स्पृष्ठं हि सकृद्व्याधिनाशनं देहिनां भवेत् ॥ ५.२३ ॥ रसशास्त्राणि सर्वाणि समालोच्य यथाक्रमम् । साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ॥ ६.१ ॥ न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः । शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ॥ ६.२ ॥ आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः । मन्त्रसिद्धो महावीरो निश्चलशिववत्सलः ॥ ६.३ ॥ देवीभक्तः सदा धीरो देवतायागतत्परः । सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि । एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥ ६.४ ॥ गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः । निरालस्याः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥ ६.५ ॥ दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः । अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः । इत्येवं लक्षणैर्युक्ताः शिष्याः स्युः सूतसिद्धये ॥ ६.६ ॥ सहायाः सोद्यमास्तत्र यथा शिष्यास्ततोऽधिकाः । कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ॥ ६.७ ॥ नास्तिका ये दुराचाराश्चुम्बका गुरुतोऽपरात् । विद्यां ग्रहीतुमिच्छति चौर्यच्छद्मखलोत्सवात् ॥ ६.८ ॥ न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् । कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् । इह लोके सुखं नास्ति परलोके तथैव च ॥ ६.९ ॥ तस्माद्भक्तिबलादेव संतुष्यति यदा गुरुः । तदा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये । हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ॥ ६.१० ॥ आतङ्करहिते देशे धर्मराज्ये मनोरमे । उमामहेश्वरोपेते समृद्धे नगरे शुभे ॥ ६.११ ॥ कर्तव्यं साधनं तत्र रसराजस्य धीमता । अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ॥ ६.१२ ॥ तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा । सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ॥ ६.१३ ॥ तत्समीपे समे दीप्ते कर्तव्यं रसमण्डपम् । अतिगुप्तं सुविस्तीर्णं कपाटार्गलशोभितम् ॥ ६.१४ ॥ ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् । भेरीकाहलघण्टादिशृङ्गीनादावनादितम् ॥ ६.१५ ॥ भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा । तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ॥ ६.१६ ॥ निष्कत्रयं हेमपत्त्रं रसेन्द्रं नवनिष्ककम् । अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ॥ ६.१७ ॥ दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् । तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ॥ ६.१८ ॥ लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् । तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ ६.१९ ॥ ब्रह्महत्यासहस्राणि गोहत्याश्चायुतानि हि । तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ॥ ६.२० ॥ स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् । आग्नेय्यां श्रीघोरेण मन्त्रराजेन चार्चयेत् ॥ ६.२१ ॥ अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् । प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ॥ ६.२२ ॥ तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् । अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् । दधतीं तप्तहेमाभां पीतवस्त्रां विभावयेत् ॥ ६.२३ ॥ वाङ्मयी श्रीः कामराजशक्तिबीजं रसाङ्कुशा । यैः समा द्वादशाः शैवज्ञेया विद्या रसाङ्कुशा ॥ ६.२४ ॥ अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः । नन्दीभृङ्गीमहाकालकुलीरान् पूर्वदिक्क्रमात् । पूजयेन्नाममन्त्रैश्च प्रणवादिनमोऽन्तकैः ॥ ६.२५ ॥ एव नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥ ६.२६ ॥ रसविद्या शिवेनोक्ता दातव्या साधकाय वै । यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥ ६.२७ ॥ सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते । कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥ ६.२८ ॥ स्थापयेद्रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् । गन्धपुष्पाक्षतैर्धूपैर्नैवेद्यैश्च सुपूजयेत् ॥ ६.२९ ॥ पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे । तिलाज्यैः पायसैः पुष्पैः शतपुष्पादिकैः पृथक् ॥ ६.३० ॥ अघोरेण रसाङ्कुश्या होमान्ते शिष्यमाह्वयेत् । कालिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥ ६.३१ ॥ यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलोचना । सुरूपा तरुणी भिन्ना विस्तीर्णजघना शुभा ॥ ६.३२ ॥ संकीर्णहृदया पीनस्तनभारेण नम्रिता । चुम्बनालिङ्गस्पर्शकोमला मृदुभाषिणी ॥ ६.३३ ॥ अश्वत्थपत्त्रसदृशयोनिदेशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी कालिनी स्मृता । रसबन्धे प्रयोगे च उत्तमा सा रसायने ॥ ६.३४ ॥ तदभावे सुरूपा तु या काचित्तरुणाङ्गना । तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् । कर्षैकैकं प्रभाते तु सा भवेत्कालिनीसमा ॥ ६.३५ ॥ एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः । सुस्नातमभिषिञ्चेत मन्त्रेण कलशोदकैः ॥ ६.३६ ॥ अघोरामङ्कुशीं विद्यां दध्याच्छिष्याय सद्गुरुः । यथाशक्त्या सुशिष्येण दातव्या गुरुदक्षिणा । अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ॥ ६.३७ ॥ ओं ह्रां ह्रीं ह्रूमद्योरतर प्रस्फुट २ प्रकट २ कह २ शमय २ जात २ दह २ पातय २ ओं ह्रीं ह्रैं ह्रौं ह्रूमघोराय फटिममघोरमन्त्रं तु औं कामराजशक्तिबीजरसाङ्कुशायै आज्ञया विद्यां रसाङ्कुशाम् । अनया पूजयेद्देवीं शक्तिमङ्कुशविद्यया ॥ ६.३८ ॥ दशांशं जुहुयात्कुण्डे त्रिकोणे हस्तमात्रके । जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ॥ ६.३९ ॥ कृत्वाथ प्रविशेच्छालां शुद्धां लिप्तां सवेदिकाम् । षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ॥ ६.४० ॥ वेदिकायां लिखेत्सम्यक्तद्बहिश्चाष्टपत्त्रकम् । कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ॥ ६.४१ ॥ कर्णिकायां न्यसेत्खल्लं लोहजं स्वर्णलेखितम् । तन्मध्ये रसराजं तु पलानां शतमात्रकम् । पञ्चाशत्पञ्चविंशद्वा पूजयेद्रसलिङ्गवत् ॥ ६.४२ ॥ वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् । भूनागः शक्तयश्चैताः षट्कोणे पूजयेत्क्रमात् ॥ ६.४३ ॥ गन्धतालककासीसशिलाकङ्कुष्ठभूषणम् । राजावर्तो गैरिकं च ख्याता उपरसा अमी । पूज्या अष्टदलेष्वेते पूर्वादीशानगं क्रमात् ॥ ६.४४ ॥ रसकं विमला ताप्यं चपला तुत्थमञ्जनम् । हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः । पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥ ६.४५ ॥ पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके । पश्चिमे वङ्गकान्तौ च उत्तरे मुण्डतीक्ष्णके । सर्वमेतदघोरेण पूजयेदङ्कुशान्वितम् ॥ ६.४६ ॥ विडं काञ्जिकयन्त्राणि क्षारमृल्लवणानि च । कोष्ठी मूषा वङ्कनालतुषाङ्गारवनोपलाः ॥ ६.४७ ॥ भस्त्रिका दण्डिकानेका शिला खल्वान्युलूखलम् । स्वर्णकारोपकरणं समस्ततुलनानि च ॥ ६.४८ ॥ मृत्काष्ठताम्रलोहोत्थपात्राणि विविधानि च । दिव्यौषधीनां वर्गाश्च रञ्जकस्नेहनानि च । एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥ ६.४९ ॥ वाङ्माया ह्रीं ततः क्षें च क्ष्मश्च पञ्चाक्षरो मनुः । अनेन मन्त्रेण भैरवं तत्र पूजयेत् । सर्वेषां रससिद्धानां नाम संकीर्तयेत्तदा ॥ ६.५० ॥ व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः । नागार्जुनो रत्नघोषः सुरानन्दो यशोधनः ॥ ६.५१ ॥ इन्द्रश्च माण्डव्यश्चर्पटी शूरसेनकः । आगमो नागबुद्धिश्च खण्डः कापालिको मतः ॥ ६.५२ ॥ कामारिस्तान्त्रिकः शम्भुर्लङ्कालम्पटशारदौ । बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ॥ ६.५३ ॥ एते सर्वे तु सूतेन्द्रा रससिद्धा महाबलाः । चरन्ति सर्वलोकेषु नित्या भोगपरायणाः ॥ ६.५४ ॥ सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः । वैद्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसार्चनम् ॥ ६.५५ ॥ हर्षयन्द्विजदेवानां तर्पयेदिष्टदेवताः । कुमारीयोगिनीयोगीश्वरान्मेलकसाधकान् । तर्पयेत्पूजयेद्भक्त्या यथाशक्त्यनुसारतः ॥ ६.५६ ॥ इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् । सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥ ६.५७ ॥ अन्यथा यो विमूढात्मा मन्त्रदीक्षाक्रमाद्विना । कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥ ६.५८ ॥ नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि । तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥ ६.५९ ॥ सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मपराङ्मुखा रसपराश्चाढ्या जनैश्चार्थिताः । मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधे कोविदाः तेषां सिध्यति नान्यथा विधिबलाच्छ्रीपारदः पारदः ॥ ६.६० ॥ रसशास्त्रं प्रदातव्यं विप्राणां धर्महेतवे । राज्ञे वैश्याय वृद्ध्यर्थं दास्यार्थमितरस्य च ॥ ६.६१ ॥ गुरौ तुष्टे शिवस्तुष्येच्छिवे तुष्टे रसस्तथा । रसे तुष्टे क्रियाः सर्वाः सिध्यन्त्येव न संशयः ॥ ६.६२ ॥ रसविद्या दृढं गोप्या मातुर्गुह्यमिव ध्रुवम् । भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशनात् ॥ ६.६३ ॥ न रोगिविदितं कार्यं बहुभिर्विदितं तथा । रोगिणां बहुभिर्ज्ञातं भवेन्निर्वीर्यमौषधम् ॥ ६.६४ ॥ रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते । सर्वौषधिमये देशे रम्ये कूपसमन्विते ॥ ७.१ ॥ यक्षत्र्यक्षसहस्राक्षदिग्विभागे सुशोभने । नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥ ७.२ ॥ शालायाः पूर्वदिग्भागे स्थापयेद्रसभैरवम् । वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ॥ ७.३ ॥ नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् । शोषणं वायुकोणे च वेधकर्मोत्तरे तथा । स्थापनं सिद्धवस्तूनां प्रकुर्यादीशकोणके ॥ ७.४ ॥ पदार्थसंग्रहः कार्यो रससाधनहेतुकः । सत्त्वपातनकोष्ठीं च झरत्कोष्ठीं सुशोभनाम् ॥ ७.५ ॥ भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोण्योऽप्यनेकशः । भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः ॥ ७.६ ॥ स्वर्णायोघोषशुल्वाश्मकुण्ड्यश्चर्मकृतां तथा । करणानि विचित्राणि द्रव्याण्यपि समाहरेत् ॥ ७.७ ॥ कण्डणीपेषणीस्वल्पाद्रोणीरूपाश्च वर्तुलाः । आयसास्तप्तखल्लाश्च मर्दकाश्च तथाविधाः ॥ ७.८ ॥ सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे । चालनी च कटत्राणि शलाका हि च कुण्डली ॥ ७.९ ॥ चालनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते । वैणवीभिः शलाकाभिर्निर्मिता ग्रथिता गुणैः । कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ॥ ७.१० ॥ चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ॥ ७.११ ॥ कर्णिकारस्य शाल्मल्या हरिजातस्य कम्बया । चतुरङ्गुलविस्तारयुक्तया निर्मिता शुभा ॥ ७.१२ ॥ कुण्डल्यरत्निविस्तारा छागचर्माभिवेष्टिता । वाजिवालाम्बरानद्धतला चालनिका परा । तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ॥ ७.१३ ॥ मूषामृत्तुषकार्पासवनोपलकपिष्टकम् । त्रिविधं भेषजं धातुजीवमूलमयं तथा । शिखित्रा गोवरं चैव शर्करा च सितोपला ॥ ७.१४ ॥ शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः ॥ ७.१५ ॥ कोकिलाश्चेतिताङ्गारा निर्वाणाः पयसा विना ॥ ७.१६ ॥ पिष्टकं छगणं छाणमुपलं चोत्पलं तथा । गिरिण्डोपलसाठी च संशुष्कच्छगणाभिधाः ॥ ७.१७ ॥ काचायोमृद्वराटानां कूपिका चषकानि च ॥ ७.१८ ॥ कूपिका कुपिका सिद्धा गोला चैव गिरिण्डिका ॥ ७.१९ ॥ चषकं च कटोरी च वाटिका खारिका तथा । कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥ ७.२० ॥ शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शङ्खिकाः । क्षुरप्राश्च तथा पाक्यः यच्चान्यत्तत्र युज्यते । पालिका कर्णिका चैव शाकच्छेदनशस्त्रकाः ॥ ७.२१ ॥ शालासम्मार्जनाद्यं हि रसपाकान्तकर्म यत् । तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ॥ ७.२२ ॥ श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समर्चयेत् । अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः ॥ ७.२३ ॥ रससंचिन्तका वैद्या निघण्टुज्ञाश्च वार्त्तिकाः । सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ॥ ७.२४ ॥ रसपाकावसानं हि सदाघोरं च जापयेत् ॥ ७.२५ ॥ सोद्यमाः शुचयः शूरा बलिष्ठाः परिचारकाः ॥ ७.२६ ॥ धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः । सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ॥ ७.२७ ॥ पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः । अनामाधस्थरेखाङ्कः स स्यादमृतहस्तवान् ॥ ७.२८ ॥ अदेशिकः कृपामुक्तो लुब्धो गुरुविवर्जितः । कृष्णरेखाकरो वैद्यो दग्धहस्तः स उच्यते ॥ ७.२९ ॥ निग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ॥ ७.३० ॥ बलिष्ठाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः । भूतत्रासनविद्याश्च ते योज्या बलिसाधने ॥ ७.३१ ॥ निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः । यमिनः पथ्यभोक्तारो योजनीया रसायने ॥ ७.३२ ॥ धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः । गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ॥ ७.३३ ॥ तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः । नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ॥ ७.३४ ॥ शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् । संदेहोज्झितचित्तानां रसः सिध्यति सर्वदा ॥ ७.३५ ॥ दशाष्टक्रियया सिद्धो रसोऽसौ साधकोत्तमः । हा रसो नष्टमित्युक्त्वा सेवेतान्यत्र तं रसम् ॥ ७.३६ ॥ रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः । जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ॥ ७.३७ ॥ कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये । परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ ८.१ ॥ अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः । यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥ ८.२ ॥ भैषज्यक्रीणितद्रव्यभागोऽप्येकादशो हि यः । वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ॥ ८.३ ॥ प्रगृह्याधिकरुद्रांशं योऽसमीचीनमौषधम् । दापयेल्लुब्धधीर्वैद्यः स स्याद्विश्वासघातकः ॥ ८.४ ॥ धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः । सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥ ८.५ ॥ सद्रवा मर्दिता सैव रसपङ्क इति स्मृता ॥ ८.६ ॥ अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽभिखल्ले । अर्कातपे तीव्रतरे विमर्द्यात्पिष्टी भवेत्सा नवनीतरूपा ॥ ८.७ ॥ खल्ले विमर्द्य गन्धेन दुग्धेन सह पारदम् । पेषणात्पिष्टतां याति सा पिष्टीति मता परैः ॥ ८.८ ॥ चतुर्थांशसुवर्णेन रसेन घृष्टिषष्टिका । भवेत्पातनपिष्टी सा रसस्योत्तमसिद्धिदा ॥ ८.९ ॥ रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् । समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ॥ ८.१० ॥ पिष्टीं क्षिपेत्सुवर्णातर्न वर्णो हीयते तया ॥ ८.११ ॥ स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ॥ ८.१२ ॥ ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः । सगन्धलकुचद्रावे निर्गतं वरलोहकम् ॥ ८.१३ ॥ तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृतम् ॥ ८.१४ ॥ निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी । तारस्य रञ्जनी चापि बीजरागविधायिनी ॥ ८.१५ ॥ एवमेव प्रकर्तव्या ताररक्ती मनोहरा । रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥ ८.१६ ॥ मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् । सितं च पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥ ८.१७ ॥ मासकृतबद्धेन रसेन सह योजितम् । साधितं वान्यलोहेन सितं पीतं च तद्दलम् ॥ ८.१८ ॥ माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् । तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥ ८.१९ ॥ नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् । इति संसिद्धमेतद्धि शुल्वनागं प्रकीर्त्यते ॥ ८.२० ॥ साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् । निहन्ति मासमात्रेण मेहव्यूहं विशेषतः ॥ ८.२१ ॥ पथ्याशनस्य वर्षेण पलितवलिभिः सह । गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ॥ ८.२२ ॥ लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे । पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥ ८.२३ ॥ भागाः षोडश तारस्य तथा द्वादश भास्वतः । एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ॥ ८.२४ ॥ साध्यलोहेऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः । निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥ ८.२५ ॥ क्षिपेन्निर्वापणं द्रव्यं निर्वाह्ये समभागिकम् । आवाह्य वापनीये च भागे दृष्टे च दृष्टवत् ॥ ८.२६ ॥ मृतं तरति यत्तोये लोहं वारितरं हि तत् ॥ ८.२७ ॥ अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत् । मृतलोहं तदुद्दिष्टं रेखापूर्वाभिधानतः ॥ ८.२८ ॥ गुडगुञ्जासुखस्पर्शं मध्वाज्यैः सह योजितम् । नायाति प्रकृतिं ध्मातादपुनर्भवमुच्यते ॥ ८.२९ ॥ तस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्ध्रुवम् । हंसवत्तीर्यते वारिण्युत्तमं परिकीर्तितम् ॥ ८.३० ॥ रौप्येण सह संयुक्तं ध्मातं रौप्येण चेल्लगेत् । तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥ ८.३१ ॥ निर्वापणविशेषेण तत्तद्वर्णं भवेद्यदा । मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥ ८.३२ ॥ इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु । संस्पृष्टलोहयोरेकलोहस्य परिनाशनम् ॥ ८.३३ ॥ प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥ ८.३४ ॥ चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ ८.३५ ॥ क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके । यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥ ८.३६ ॥ कोष्ठिका शिखरापूर्णैः कोकिलैर्ध्मानयोगतः । आकण्ठमनुप्राप्यैरेककोलीसको मतः ॥ ८.३७ ॥ द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः । दुर्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ॥ ८.३८ ॥ विद्याधराख्ययन्त्रस्थादार्द्रकद्रावमर्दितात् । समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥ ८.३९ ॥ स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् । मुक्तरङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ॥ ८.४० ॥ तीक्ष्णनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् । कृष्णं द्रुतद्रावं वरनागं तदुच्यते ॥ ८.४१ ॥ मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया ॥ ८.४२ ॥ द्रुतद्रवस्य निक्षेपो द्रवे तद्ढालनं मतम् ॥ ८.४३ ॥ त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् । विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम् ॥ ८.४४ ॥ न तत्पुटसहस्रेण क्षयमायाति सर्वथा । चपलोऽयं समादिष्टो वार्त्तिकैर्नागसम्भवः ॥ ८.४५ ॥ इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥ ८.४६ ॥ तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ॥ ८.४७ ॥ स रसो धातुवादेषु शस्यते न रसायने । अयं हि खर्वणाख्येन लोकनाथेन कीर्तितः ॥ ८.४८ ॥ भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः । कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥ ८.४९ ॥ द्रव्ययोर्मर्दनाध्मानाद्द्वंद्वानं परिकीर्तितम् ॥ ८.५० ॥ भागाद्याधिके क्षेपमनुवर्णसुवर्णके । द्रवैर्वा वह्निकाग्रासो भञ्जनी वादिभिर्मता ॥ ८.५१ ॥ पतङ्गीकल्कतो जाता लोहे तारे च हेमता । दिनानि कतिचित्स्थित्वा यात्यसौ चुल्लका मता ॥ ८.५२ ॥ रञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिरकालतः । विनिर्यासः स निर्दिष्टः पतङ्गीरागसंज्ञकः ॥ ८.५३ ॥ द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः । स आवापः प्रतीवापस्तदेवाच्छादनं मतम् ॥ ८.५४ ॥ वह्निस्थिते लोहे विरम्याष्टनिमेषकम् । सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ॥ ८.५५ ॥ तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ॥ ८.५६ ॥ प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले ॥ ८.५७ ॥ यदा हुताशो दीप्तार्चिः शुल्कोत्थानसमन्वितः । शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥ ८.५८ ॥ द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा । द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ॥ ८.५९ ॥ वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥ ८.६० ॥ अग्नेराकृष्य शीतं यत्तद्बहिः शीतमुच्यते ॥ ८.६१ ॥ क्षाराम्लैरौषधैर्वापि दोलायन्त्रे स्थितस्य हि । पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ॥ ८.६२ ॥ उदितैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि । पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ॥ ८.६३ ॥ मर्दनादिष्टभैषज्यैर्नष्टपिष्टत्वकारकम् । तन्मूर्छनं हि वङ्गाहिभुजकञ्चुकनाशनम् ॥ ८.६४ ॥ स्वेदातपादियोगेन स्वरूपापादनं हि यत् । तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनम् ॥ ८.६५ ॥ स्वरूपस्य विनाशेन पिष्टत्वाद्बन्धनं हि तत् । विद्वद्भिर्निर्जितः सूतो नष्टपिष्टिः स उच्यते ॥ ८.६६ ॥ उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् । निर्यातनं पातनसंज्ञमुक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥ ८.६७ ॥ जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् । स्थितिरास्थापनी कुम्भे यासौ रोधनमुच्यते ॥ ८.६८ ॥ रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये । क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत् ॥ ८.६९ ॥ धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः । ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥ ८.७० ॥ इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः । इयतीत्युच्यते यासौ ग्रासमानं समीरितम् ॥ ८.७१ ॥ ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा । इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ॥ ८.७२ ॥ ग्रासः पिण्डः परिणामस्तिस्रश्चाख्याः परा पुनः ॥ ८.७३ ॥ समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥ ८.७४ ॥ निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥ ८.७५ ॥ शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ८.७६ ॥ चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥ ८.७७ ॥ एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् । कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् । इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ॥ ८.७८ ॥ दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठीषु । भुंजीताखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ॥ ८.७९ ॥ रसस्य जठरे ग्रासक्षपणं चारणा मता ॥ ८.८० ॥ ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ॥ ८.८१ ॥ बहिरेवं द्रुतिं कृत्वा घनसत्त्वादिकं खलु । जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते ॥ ८.८२ ॥ निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा । असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥ ८.८३ ॥ औषधाध्मानयोगेन लोहधात्वादिकं तथा । संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥ ८.८४ ॥ द्रुतग्रासपरीणामो विडयन्त्रादियोगतः । जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ॥ ८.८५ ॥ क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैश्च पटुभिस्तथा । रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ॥ ८.८६ ॥ सुसिद्धबीजधात्वादि जारणेन रसस्य हि । पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥ ८.८७ ॥ सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् । वेधाधिक्यकरं लोहे सारणा सा प्रकीर्त्तिता ॥ ८.८८ ॥ व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु । वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ॥ ८.८९ ॥ लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ॥ ८.९० ॥ लेपनं कुरुते लोहं स्वर्णं वा रजतं तथा । लेपवेधः स विज्ञेयः पुटमत्र च सौरकम् ॥ ८.९१ ॥ प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः ॥ ८.९२ ॥ संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या । सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते ॥ ८.९३ ॥ वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः । स्वर्णाद्यापादनं लोहे वेधः स उच्यते ॥ ८.९४ ॥ मुखस्थितरसेनाल्पलोहस्य धमनात्खलु । स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ॥ ८.९५ ॥ सिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् । प्रकाशनं च वर्णस्य तदुद्घाटनमीरितम् ॥ ८.९६ ॥ क्षाराम्लैरौषधैः सार्द्धं भाण्डं रुद्ध्वाऽतियत्नतः । भूमौ निखन्यते यत्नात्स्वेदनं संप्रकीर्तितम् ॥ ८.९७ ॥ रसस्यौषधयुक्तस्य भाण्डरुद्धस्य यत्नतः । मन्दाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥ ८.९८ ॥ द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् । गुणप्रभावजनकौ शीघ्रव्याप्तिकरौ तथा ॥ ८.९९ ॥ रसनिगममहाब्धेः सोमदेवः समन्तात्स्फुटतरपरिभाषानामरत्नानि हृत्वा । व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयतु भिषगग्र्यो मण्डनार्थं सभायाम् ॥ ८.१०० ॥ भवेत्पठितवारोऽयमध्यायो रसवादिनाम् । रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ॥ ८.१०१ ॥ अथ यन्त्राणि वच्यन्ते रसतन्त्राण्यशेषतः । समालोच्य समासेन सोमदेवेन साम्प्रतम् ॥ ९.१ ॥ स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः । यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमिति स्मृतम् ॥ ९.२ ॥ द्रवद्रव्येण भाण्डस्य पूरितार्धोदकस्य च । मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ ९.३ ॥ तयोस्तु निक्षिपेद्दण्डं तन्मध्ये रसपोटलीम् । बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ॥ ९.४ ॥ साम्बुस्थालीमुखे बद्धवस्त्रे पाक्यं निवेशयेत् । पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥ ९.५ ॥ अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् । चतुरङ्गुलकोत्सेधं तोयाधारं गलादधः ॥ ९.६ ॥ अधोभाण्डे मुखं तस्य भाण्डस्योपरि वर्तिनः । षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥ ९.७ ॥ पार्श्वयोर्महिषीक्षीरचूर्णमण्डूरफाणितैः । लिप्त्वा विशोषयेत्संधिं जलाधारे जलं क्षिपेत् । चुल्ल्यामारोपयेदेतत्पातनायन्त्रमुच्यते ॥ ९.८ ॥ अथोर्ध्वभाजने लिप्तस्थापितस्य जले सुधीः । दीप्तैर्वनोपलः कुर्यादधः पातं प्रयत्नतः ॥ ९.९ ॥ जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् । तदुपरि विडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ॥ ९.१० ॥ लघुलोहकटोरिकया कृतषण्मृत्संधिलेपयाच्छाद्य । पूर्वोक्तघटखर्परमध्येऽङ्गारैः खदिरकोलभवैः ॥ ९.११ ॥ स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति । अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि ॥ ९.१२ ॥ कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः । यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् ॥ ९.१३ ॥ भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥ ९.१४ ॥ नलिकास्य तत्र योज्यं दृढं तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ॥ ९.१५ ॥ अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः । यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि । जायते रससंधानं डेकीयन्त्रमितीरितम् ॥ ९.१६ ॥ लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः । ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् ॥ ९.१७ ॥ मूषायां रसयुक्तायामन्यस्यां तां प्रवेशयेत् । तोयं स्यात्सूतकस्याध ऊर्ध्वाधो वह्निदीपनम् ॥ ९.१८ ॥ रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् । दापयेत्प्रचुरं यत्नादाप्लाव्य रसगन्धकौ ॥ ९.१९ ॥ स्थालीकायां पिधायोर्ध्वं स्थालीमन्यां दृढां कुरु । संधिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि ॥ ९.२० ॥ स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा । यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥ ९.२१ ॥ एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् । तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतलां क्रियाम् ॥ ९.२२ ॥ न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् । अनेन च क्रमेणैव कुर्याद्गन्धकजारणम् ॥ ९.२३ ॥ यन्त्रं विद्याधरं ज्ञेयं स्थालीद्वितयसम्पुटात् । चुल्लीं चतुर्मुखीं कृत्वा यन्त्रभाण्डं निवेशयेत् ॥ ९.२४ ॥ तत्रौषधं विनिक्षिप्य निरुन्ध्याद्भाण्डकाननम् । यन्त्रं विद्याधरं नाम तन्त्रज्ञैः परिकीर्तितम् ॥ ९.२५ ॥ ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः । सोमानलमिदं प्रोक्तं जारयेद्गगनादिकम् ॥ ९.२६ ॥ गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् । चतुरङ्गुलदीर्घां च त्र्यङ्गुलोन्मितविस्तराम् ॥ ९.२७ ॥ मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् । लोणस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ॥ ९.२८ ॥ सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः । मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ॥ ९.२९ ॥ कर्षेत्तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् । अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ ९.३० ॥ खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् । अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ ९.३१ ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणं च विडं ततः । हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः ॥ ९.३२ ॥ सरसां गूढवक्त्रां मृद्वस्त्राङ्गुलघनावृताम् । शोषितां काचकलशीं त्रिषु भागेषु पूरयेत् ॥ ९.३३ ॥ भाण्डे वितस्तिगम्भीरे वालुकासुप्रतिष्ठिता । तद्भाण्डं पूरयेत्त्रिभिरन्याभिरवगुण्ठयेत् ॥ ९.३४ ॥ भाण्डवक्त्रं मणिकया संधिं लिम्पेन्मृदा पचेत् । चुल्ल्यां तृष्णस्य चादाहान्मणिकापृष्ठवर्तिनः । एतद्धि वालुकायन्त्रं तद्यन्त्रं लवणाश्रयम् ॥ ९.३५ ॥ पञ्चाढवालुकापूर्णभाण्डे निक्षिप्य यत्नतः । पच्यते रसगोलाद्यं वालुकायन्त्रमीरितम् ॥ ९.३६ ॥ एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ॥ ९.३७ ॥ अन्तःकृतरसालेपताम्रपात्रमुखस्य च । लिप्त्वा मृल्लवणेनैव संधिं भाण्डतलस्य च ॥ ९.३८ ॥ तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् । एव लवणयन्त्रं स्याद्रसकर्मणि शस्यते ॥ ९.३९ ॥ लोहनालगतं सूतं भाण्डे लवणपूरिते । निरुद्धं विपचेत्प्राग्वन्नालिकायन्त्रमीरितम् ॥ ९.४० ॥ वालुकागूढसर्वाङ्गां गर्ते मूषां रसान्विताम् । दीप्तोपलैः संवृणुयाद्यन्त्रं तद्भूधराह्वयम् ॥ ९.४१ ॥ शरावसम्पुटान्तस्थं करीषेष्वग्निमानवित् । पचेच्चुल्ल्यां द्वियामं वा रसं तत्पुटयन्त्रकम् ॥ ९.४२ ॥ षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं समम् । धातुसत्त्वनिपातार्थं कोष्ठीयन्त्रमिति स्मृतम् ॥ ९.४३ ॥ यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् । तादृक्स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ॥ ९.४४ ॥ पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् । रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥ ९.४५ ॥ द्वियामं स्वेदयेदेव रसोत्थापनहेतवे । एतत्स्याद्वलभीयन्त्रं रसे षाड्गुण्यकारकम् । सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ॥ ९.४६ ॥ क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते । तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥ ९.४७ ॥ तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ । अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥ ९.४८ ॥ इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादु शीतलम् । तिर्यक्पातनमेतद्धि वार्त्तिकैरभिधीयते ॥ ९.४९ ॥ चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् । एतद्धि पालिकायन्त्रं बलिजारणहेतवे ॥ ९.५० ॥ चतुष्प्रस्थजलाधारश्चतुरङ्गुलिकाननः । घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम् ॥ ९.५१ ॥ विधाय वर्तुलं गर्तं मल्लमत्र निधाय च । विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ॥ ९.५२ ॥ गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयाम् । गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ॥ ९.५३ ॥ निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च । मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ॥ ९.५४ ॥ वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् । इष्टिकायन्त्रमेतत्स्याद्गन्धकं तेन जारयेत् ॥ ९.५५ ॥ स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च । ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः । एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥ ९.५६ ॥ यन्त्रस्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुन्धयेत् । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ॥ ९.५७ ॥ मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् । गर्तस्य परितः कुड्यं प्रकुर्यादङ्गुलोच्छ्रितम् ॥ ९.५८ ॥ ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया । सम्यक्तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥ ९.५९ ॥ लेहवत्कृतबब्बूलक्वाथेन परिमर्दितम् । जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् । इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ॥ ९.६० ॥ खटिकापटुकिट्टैश्च महिषीदुग्धमदितैः । वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु ॥ ९.६१ ॥ एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः । विदग्धवनिताप्रौढप्रेम्णा रुद्धः पुमानिव ॥ ९.६२ ॥ नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर्मुनीश्वरः । वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ॥ ९.६३ ॥ ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः । नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना । अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ॥ ९.६४ ॥ मूषां मूषोदराविष्ठामाद्यन्तःसमवर्तुलाम् । चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः । सूतेन्द्ररन्धनार्थं हि रसविद्भिरुदीरितम् ॥ ९.६५ ॥ स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्य निरुध्य च । पच्यते स्थालिकाधस्तात्स्थालीयन्त्रमिदं स्मृतम् ॥ ९.६६ ॥ विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् । कण्ठाधो ह्यङ्गुले देशे गलाधारे हि तत्र च ॥ ९.६७ ॥ तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग्विनिक्षिपेत् । तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ॥ ९.६८ ॥ पत्त्राधो निक्षिपेद्वक्ष्यमाणमिहैव हि । तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥ ९.६९ ॥ मृदा विलिप्य संधिं च वह्निं प्रज्वालयेदधः । तेन पत्त्राणि कृत्स्नानि हतान्युक्तविधानतः ॥ ९.७० ॥ रसश्चरति वेगेन द्रुतं गर्भे द्रवन्ति च । गन्धालकशिलानां हि कज्जल्या वा मृताहिना ॥ ९.७१ ॥ धूपनं स्वर्णपत्त्राणां प्रथमं परिकीर्तितम् । तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ॥ ९.७२ ॥ धूपयेच्च यथायोग्यैरन्यैरुपरसैरपि । धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधने ॥ ९.७३ ॥ स्थूलस्थाल्यां जलं क्षिप्त्वा वासो बद्ध्वा मुके दृढम् । तत्र स्वेद्यं विनिक्षिप्य तन्मुखं प्रपिधाय च ॥ ९.७४ ॥ अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाभिधम् । स्वेदनीयन्त्रमित्यन्ये प्राहुश्चेदं मनीषिणः ॥ ९.७५ ॥ यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं क्षिप्त्वा मुखोपरि । स्वेद्यद्रव्यं परिक्षिप्य पिधानं प्रविधाय च । अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकं स्मृतम् ॥ ९.७६ ॥ खल्लयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः । षोडशाङ्गुलकोत्सेधा नवाङ्गुलकविस्तरा ॥ ९.७७ ॥ चतुर्विंशाङ्गुला दीर्घा घर्षणी द्वादशाङ्गुला । विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला । खल्लप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसकर्मणि ॥ ९.७८ ॥ खल्लयन्त्रं त्रिधा प्रोक्तं रसादिसुखमर्दने ॥ ९.७९ ॥ निरुद्गारौ सुमसृणौ कार्यौ पुत्रिकया युतौ ॥ ९.८० ॥ उत्सेधे स दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो मुनिमितैर्निम्नस्तयैवाङ्गुलैः । पाल्यां द्व्यङ्गुलिविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्लो मतः सिद्धये ॥ ९.८१ ॥ अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये । तत्तदौचित्ययोगेन खल्लेष्वन्येषु योजयेत् ॥ ९.८२ ॥ द्वादशाङ्गुलविस्तारः खल्लोऽतिमसृणोपलः । चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ॥ ९.८३ ॥ मर्दकश्चिपिटोऽधस्तात्सुग्राहश्च शिखोपरि । अयं तु वर्तुलः खल्लो मर्दनेऽतिसुखप्रदः ॥ ९.८४ ॥ लौहो नवाङ्गुलः खल्लो निम्नत्वे च षडङ्गुलः । मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्लाभिधोऽप्ययम् ॥ ९.८५ ॥ कृत्वा खल्लाकृतिं चुल्लीमङ्गारैः परिपूरिताम् । तस्यां निवेश्य तं खल्लं पार्श्वे भस्त्रिकया धमेत् ॥ ९.८६ ॥ तदन्तर्मर्दिता पिष्टिः क्षारैरम्लैश्च संयुता । प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः । कृतः कान्तायसा सोऽयं भवेत्कोटिगुणो रसः ॥ ९.८७ ॥ मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका । पाचनी वह्निमित्रा च रसवादिभिरीर्यते ॥ १०.१ ॥ मुष्णाति दोषान्मूषा या सा मूषेति निगद्यते ॥ १०.२ ॥ उपादानं भवेत्तस्या मृत्तिका लोहमेव च ॥ १०.३ ॥ मूषा मुखविनिष्क्रान्ता वरमेकापि काकिणी । दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनाम् ॥ १०.४ ॥ मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् । अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ॥ १०.५ ॥ मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा । चिराध्मानसहा सा हि मूषार्थमतिशस्यते । तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥ १०.६ ॥ या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च । लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थे ॥ १०.७ ॥ श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणखर्परे । लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि ॥ १०.८ ॥ मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः । किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥ १०.९ ॥ दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका । तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ॥ १०.१० ॥ तया या विहिता मूषा योगमूषेति कथ्यते । अनया साधितः सूतो जायते गुणवत्तरः ॥ १०.११ ॥ गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि । समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ १०.१२ ॥ क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता । तया विरचिता मूषा वज्रद्रावणिकोचिता ॥ १०.१३ ॥ दुग्धषड्गुणागाराष्टकिट्टाङ्गारशणान्विता । कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता । यामयुग्मपरिध्मानान्नासौ द्रवति वह्निना ॥ १०.१४ ॥ वज्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका । गारा च मृत्तिकातुल्या सर्वैरेतैर्विनिर्मिता । वरमूषेति निर्दिष्टा याममग्निं सहेत सा ॥ १०.१५ ॥ पाषाणरहिता रक्ता रक्तवर्गानुसाधिता । मृत्तया साधिता मूषा क्षितिखेचरलेपिता । वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥ १०.१६ ॥ पाषाणरहिता श्वेता श्वेतवर्गानुसाधिता । मृत्तया साधिता मूषा क्षितिखेचरलेपिता । रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥ १०.१७ ॥ तत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता । देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ॥ १०.१८ ॥ गारभूनागधौताभ्यां तुषमृष्टशणेन च । समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ १०.१९ ॥ क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता । तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ॥ १०.२० ॥ बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका । सहतेऽग्निं चतुर्यामं द्रवेण व्याधिता सती ॥ १०.२१ ॥ द्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः । क्षणमुद्धरणं यत्तन्मूषाप्यायनमुच्यते ॥ १०.२२ ॥ वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् । धत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ॥ १०.२३ ॥ अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका । अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ १०.२४ ॥ मूषा या गोस्तनाकारा शिखायुक्तपिधानका । सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥ १०.२५ ॥ निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् । पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥ १०.२६ ॥ कुलालभाण्डरूपा या दृढा च परिपाचिता । पक्वमूषेति सा प्रोक्ता पोटल्यादिविपाचने ॥ १०.२७ ॥ निर्वक्रगोलकाकारा पुटनद्रव्यगर्भिणी । गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी ॥ १०.२८ ॥ तले या कूर्पराकारा क्रमादुपरि विस्तृता । स्थूलवृन्ताकवत्स्थूला महामूषेत्यसौ स्मृता । सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ॥ १०.२९ ॥ मण्डूकाकारा या निम्नतायामविस्तरा । षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका । भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥ १०.३० ॥ मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया । मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता ॥ १०.३१ ॥ सत्त्वानां पातनार्थाय पातितानां विशुद्धये । कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ॥ १०.३२ ॥ राजहस्तसमुत्सेधा तदर्धायामविस्तरा । चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च ॥ १०.३३ ॥ एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् । द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ॥ १०.३४ ॥ देहल्यधो विधातव्यं धमनाय यथोचितम् । प्रादेशप्रमिता भित्तिरुत्तरङ्गस्य चोर्ध्वतः ॥ १०.३५ ॥ द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु । ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ॥ १०.३६ ॥ शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च । शिखित्रान् धमनद्रव्यमूर्ध्वद्वारेण निक्षिपेत् ॥ १०.३७ ॥ सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः । भवेदङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ॥ १०.३८ ॥ दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् । वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ॥ १०.३९ ॥ चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् । गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ॥ १०.४० ॥ किंचित्समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् । मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत् ॥ १०.४१ ॥ आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया । पातालकोष्ठिका ह्येषा मृदूनां सत्त्वपातिनी । ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥ १०.४२ ॥ द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा । चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥ १०.४३ ॥ भूरिच्छिद्रवती चक्रीं वलयोपरि निक्षिपेत् । शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः । गारकोष्ठीयमाख्याता मृष्टलोहविनाशिनी ॥ १०.४४ ॥ मूषामृद्भिर्विधातव्यमरत्निप्रमितं दृढम् । अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु । वङ्कनालमिदं प्रोक्तं दृढध्मानाय कीर्तितम् ॥ १०.४५ ॥ कोष्ठी सिद्धरसादीनां विधानाय विधीयते । द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला । तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी ॥ १०.४६ ॥ रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् । नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ॥ १०.४७ ॥ लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता । अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ॥ १०.४८ ॥ पुटाद्ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ १०.४९ ॥ यथाश्मनि विशेद्वह्निर्बहिस्थपुटयोगतः । चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ॥ १०.५० ॥ निम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके । वनोत्पलसहस्रेण पूरिते पुटनौषधम् ॥ १०.५१ ॥ क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् । वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् । वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥ १०.५२ ॥ राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् । पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत् ॥ १०.५३ ॥ विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् । पूर्णच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् । एतद्गजपुटं प्रोक्तं महागुणविधायकम् ॥ १०.५४ ॥ इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥ १०.५५ ॥ पुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रेयम् । तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥ १०.५६ ॥ यत्पुटं दीयते भूमावष्टसंख्यैर्वनोपलैः । बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते ॥ १०.५७ ॥ गोष्ठान्तर्गोक्षुरणं शुष्कं चूर्णितगोमयम् । गोवरं तत्समादिष्टं वरिष्ठं रससाधने ॥ १०.५८ ॥ गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते । तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ १०.५९ ॥ स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते । वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥ १०.६० ॥ अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु । वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ॥ १०.६१ ॥ वह्निमित्राः क्षितौ सम्यङ्निखन्याद्द्वयंगुलादधः । उपरिष्टात्पुटं यत्र पुटं तद्भूधराह्वयम् ॥ १०.६२ ॥ ऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् । यत्र तल्लावकाख्यं स्यात्सुमृदुद्रव्यसाधने ॥ १०.६३ ॥ अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् । पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥ १०.६४ ॥ पिष्टकं छगणं छाणमुत्पलं चोपलं तथा । गिरिण्डोपलसाठी च वराटी छगणाभिधाः ॥ १०.६५ ॥ सुवर्णं रजतं ताम्रं त्रपु सीसकमायसम् । षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ ॥ १०.६६ ॥ लवणानि षडुच्यन्ते सामुद्रं सैन्धवं विडम् । सौवर्चलं रोमकं च चूल्लिकालवणं तथा ॥ १०.६७ ॥ क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ॥ १०.६८ ॥ पलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका । तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम् ॥ १०.६९ ॥ घृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम् ॥ १०.७० ॥ कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् । कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम् ॥ १०.७१ ॥ अतसीजं महाकालीनिम्बजं तिलजं तथा । अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात् ॥ १०.७२ ॥ अङ्कोलोन्मत्तभल्लातपलाशेभ्यस्तथैव च । एतेभ्यस्तैलमादाय रसकर्मणि योजयेत् ॥ १०.७३ ॥ जम्बूकमण्डूकवसा वसा कच्छपसम्भवा । कर्कटीशिशुमारी च गोशूकरनरोद्भवा । अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ॥ १०.७४ ॥ मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् । गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ॥ १०.७५ ॥ माहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः । तत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम् ॥ १०.७६ ॥ अम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् । चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम् ॥ १०.७७ ॥ अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका । करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः ॥ १०.७८ ॥ चणकाम्लश्च सर्वेषामेक एव प्रशस्यते । अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् । रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम् ॥ १०.७९ ॥ कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः । पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ॥ १०.८० ॥ इष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका । रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ॥ १०.८१ ॥ शृङ्गीकं कालकुटं च वत्सनाभं सकृत्रिमम् । पित्तं च विषवर्गोऽयं स वरः परिकीर्तितः ॥ १०.८२ ॥ रसकर्मणि शस्तोऽयं तद्भेदनविधावपि । अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥ १०.८३ ॥ लाङ्गली विषमुष्टिश्च करवीरं जया तथा । नीलकः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः ॥ १०.८४ ॥ हस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका । उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम् ॥ १०.८५ ॥ दुग्धिका स्नुग्गुणश्चैव तथैवोत्तमकण्टिका । एषां दुग्धैर्विनिर्दिष्टो दुग्धवर्गो रसादिषु ॥ १०.८६ ॥ पारावतस्य चाषस्य कपोतस्य कलापिनः । गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विंगणः । शोधनं सर्वलोहानां पुटनाल्लेपनात्खलु ॥ १०.८७ ॥ कुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् । अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी । माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ॥ १०.८८ ॥ किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा । पीतवर्गोऽयमादिष्टो रसराजस्य कर्मणि ॥ १०.८९ ॥ तगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा । सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ॥ १०.९० ॥ कदली कारवेल्ली च त्रिफला नीलिका नलः । पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ॥ १०.९१ ॥ रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् । भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ॥ १०.९२ ॥ काचटङ्कणक्षिप्राभिः शोधनीयो गणो मतः ॥ १०.९३ ॥ सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः । कापालीकङ्गुणध्वंसी रसवादिभिरुच्यते ॥ १०.९४ ॥ महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् । शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ॥ १०.९५ ॥ गुडगुग्गुलुगुञ्जाज्यसारघैष्टङ्गणान्वितैः । दुर्द्रावाखिललोहादेर्द्रावणाय गणो मतः ॥ १०.९६ ॥ क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् । मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥ १०.९७ ॥ षट्त्रुट्यश्चैकलिक्षा स्यात्षड्लिक्षा यूकमुच्यते । षड्यूकास्तु रजःसंज्ञं कथितं तव सुव्रते ॥ ११.१ ॥ षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः । षट्सिद्धार्थेन देवेशि यवस्त्वेकः प्रकीर्तितः ॥ ११.२ ॥ षड्यवैरेकगुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते । षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्तितः । माषा द्वादश तोलः स्यादष्टौ तोलाः पलं भवेत् ॥ ११.३ ॥ त्रुटिः स्यादणुभिः षड्भिस्तैर्लिक्षा षड्भिरीरिता । ताभिः षड्भिर्भवेद्यूका षड्यूकास्तद्रजः स्मृतम् ॥ ११.४ ॥ षड्रजः सर्षपः प्रोक्तस्तैः षड्भिर्यव ईरितः । एका गुञ्जा यवैः षड्भिर्निष्पावस्तु द्विगुञ्जकः ॥ ११.५ ॥ स्याद्गुञ्जात्रितयं वल्लो द्वौ वल्लौ माष उच्यते । द्वौ माषौ धरणं ते द्वे शाणनिष्ककलाः स्मृताः ॥ ११.६ ॥ निष्कद्वयं तु वटकः स च कोल इतीरितः । स्यात्कोलत्रितयं तोलः कर्षो निष्कचतुष्टयम् ॥ ११.७ ॥ उदुम्बरं पाणितलं सुवर्णं कवलग्रहः । अक्षं बिडालपदकं शुक्तिः पाणितलद्वयम् ॥ ११.८ ॥ शुक्तिद्वयं पलं केचिदन्ये शुक्तित्रयं विदुः । तदेव कथितं मुष्टिः प्रकुञ्चो बिल्वमित्यपि ॥ ११.९ ॥ पलद्वयं तु प्रसृतं तद्द्वयं कुडवोऽञ्जलिः । कुडवौ मानिका तौ स्यात्प्रस्थो द्वे मानिके स्मृतः ॥ ११.१० ॥ प्रस्थद्वयं शुभं तौ द्वौ पात्रकं द्वयमाढकम् । तैश्चतुर्भिर्घटोन्माननल्वनार्मणशूर्पकाः ॥ ११.११ ॥ द्रोणस्य शब्दाः पर्यायाः पलानां शतकं तुला । चत्वारिंशत्पलशततुला भारः प्रकीर्तितः ॥ ११.१२ ॥ रसार्णवादिशास्त्राणि निरीक्ष्य कथितं मया । रसोपयोगि यत्किंचिद्दिङ्मात्रं तत्प्रदर्शितम् ॥ ११.१३ ॥ अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे ॥ ११.१४ ॥ स्यात्स्वेदनं तदनु मर्दनमूर्छने च उत्थापनं पतनरोधनियामनानि । संदीपनं गगनभक्षणमानमत्र संचारणा तदनु गर्भगता द्रुतिश्च ॥ ११.१५ ॥ बाह्या द्रुतिः सूतकजारणा स्याद्ग्रासस्तथा सारणकर्म पश्चात् । संक्रामणं वेधविधिः शरीरे योगस्तथाष्टादशधात्र कर्म ॥ ११.१६ ॥ न योज्यो मर्मणि छिन्ने न च क्षाराग्निदग्धयोः ॥ ११.१७ ॥ शुद्धः स मृद्वग्निसहो मूर्छितो व्याधिनाशनः ॥ ११.१८ ॥ निष्कम्पवेगस्तीव्राग्नावायुरारोग्यदो मृतः । विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः ॥ ११.१९ ॥ रसे मरणसंतापमूर्छानां हेतवः क्रमात् ॥ ११.२० ॥ योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥ ११.२१ ॥ औपाधिकाः पुनश्चान्ये कीर्तिताः सप्तकञ्चुकाः । भूमिजा गिरिजा वार्जास्ते च द्वे नागवङ्गजौ ॥ ११.२२ ॥ द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ॥ ११.२३ ॥ भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च । वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ॥ ११.२४ ॥ पर्पटी पाटिनी भेदी द्रावी मलकरी तथा । अन्धकारी तथा ध्वाङ्क्षी विज्ञेयाः सप्त कञ्चुकाः ॥ ११.२५ ॥ तस्मात्सूतविधानार्थं सहायैर्निपुणैर्युतः । सर्वोपस्करमादाय रसकर्म समारभेत् ॥ ११.२६ ॥ द्वे सहस्रे पलानां तु सहस्रं शतमेव वा । अष्टाविंशत्पलान्येव दश पञ्चैकमेव वा ॥ ११.२७ ॥ पलार्धेनैव कर्तव्यः संस्कारः सूतकस्य च । सुदिने शुभनक्षत्रे रसशोधनमारभेत् ॥ ११.२८ ॥ त्र्यूषणं लवणासूर्यौ चित्रकार्द्रकमूलकम् । क्षिप्त्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥ ११.२९ ॥ गृहधूमेष्टिकाचूर्णं तथा दधि गुडान्वितम् । लवणासुरीसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥ ११.३० ॥ षोडशांशं तु तद्द्रव्यं सूतमानान्नियोजयेत् । सूतं क्षिप्त्वा समं तेन दिनानि त्रीणि मर्दयेत् ॥ ११.३१ ॥ जीर्णाभ्रकं तथा बीजं जीर्णसूतं तथैव च । नैर्मल्यार्थं हि सूतस्य खल्ले धृत्वा विमर्दयेत् ॥ ११.३२ ॥ गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः । मर्दनाख्यं हि यत्कर्म तत्सूतगुणकृद्भवेत् ॥ ११.३३ ॥ गृहकन्या मलं हन्यात्त्रिफला वह्निनाशिनी । चित्रमूलं विषं हन्ति तस्मादेभिः प्रयत्नतः ॥ ११.३४ ॥ मिश्रितं सूतकं द्रव्यैः सप्तवाराणि मूर्छयेत् । इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥ ११.३५ ॥ अस्माद्विरेकात्संशुद्धो रसः पात्यस्ततः परम् । उद्धृतः काञ्जिकक्वाथात्पूतिदोषनिवृत्तये ॥ ११.३६ ॥ ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वभाजने । वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ ११.३७ ॥ शुल्लेन पातयेत्पिष्टीं त्रिधोर्ध्वं सप्तधा त्वधः ॥ ११.३८ ॥ त्रिफलाशिग्रुशिखिभिर्लवणासुरीसंयुतैः । नष्टपिष्टं रसं कृत्वा लेपयेच्चोर्ध्वभाजने । ततो दीप्तैरधः पातमुत्पलैस्तत्र कारयेत् ॥ ११.३९ ॥ हरिद्राङ्कोलशम्पाककुमारीत्रिफलाग्निभिः । तण्डुलीयकवर्षाभूहिङ्गुसैन्धवमाक्षिकैः ॥ ११.४० ॥ पिष्टं रसं सलवणैः सर्पाक्ष्यादिभिरेव वा । पातयेदथवा देवि व्रणघ्नो यक्षलोचनैः ॥ ११.४१ ॥ इत्थं ह्यधऊर्ध्वपातेन पातितोऽसौ यदा भवेत् । तदा रसायने योग्यो भवेद्द्रव्यविशेषतः ॥ ११.४२ ॥ अथवा दीपकयन्त्रे निपातितः सर्वदोषनिर्मुक्तः ॥ ११.४३ ॥ तिर्यक्पातनविधिना निपातितः सूतराजस्तु । श्लक्ष्णीकृतमभ्रदलं रसेन्द्रयुक्तं तथारनालेन ॥ ११.४४ ॥ खले दत्त्वा मृदितं यावत्तन्नष्टपिष्टतामेति । कुर्यात्तिर्यक्पातनपातितसूतं क्रमेण दृढवह्निम् ॥ ११.४५ ॥ संस्वेद्यः पात्योऽसौ न पतति यावद्दृढश्चाग्नौ । तदासौ शुध्यते सूतः कर्मकारी भवेद्ध्रुवम् ॥ ११.४६ ॥ मर्दनैर्मूर्छनैः पातैर्मन्दः शान्तो भवेद्रसः ॥ ११.४७ ॥ सृष्ट्यम्बुजैर्निरोधेन ततो मुखकरो रसः । स्वेदनादिवशात्सूतो वीर्यं प्राप्नोत्यनुत्तमम् ॥ ११.४८ ॥ नियम्योऽसौ ततः सम्यक्चपलत्वनिवृत्तये । कर्कोटी फणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः । समं कृत्वारनालेन स्वेदयेच्च दिनत्रयम् ॥ ११.४९ ॥ मरिचैर्भूखगयुक्तैर्लवणासुरीशिग्रुटङ्कणोपेतैः । काञ्जिकयुक्तैस्त्रिदिनं ग्रासार्थी जायते स्वेदात् ॥ ११.५० ॥ त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैर्लवणोषणाम्लैः । नेपालताम्रदलशोषितमारनाले साम्लासवाम्लपुटितं रसदीपनं तत् ॥ ११.५१ ॥ स्वेदयेदासवाम्लेन वीर्यतेजःप्रवृद्धये । यथोपयोगं स्वेद्यः स्यान्मूलिकानां रसेषु च ॥ ११.५२ ॥ सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका । काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुकर्णिका ॥ ११.५३ ॥ वर्षाभूः कम्बुकी दूर्वा सैर्यकोत्पलशिम्बिकाः । शतावरी वज्रलता वज्रकन्दाग्निकर्णिका ॥ ११.५४ ॥ श्वेतार्कशिग्रुधत्तूरमृगदूर्वारसाङ्कुशाः । रम्भा रक्ताभनिर्गुण्डी लज्जालुः सुरदालिका ॥ ११.५५ ॥ मण्डूकपर्णी पाताली चित्रकं ग्रीष्मसुन्दरा । काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ॥ ११.५६ ॥ जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः । कोशातकी नीरं कणा लाङ्गली कटुतुम्बिका ॥ ११.५७ ॥ चक्रमर्दोऽमृता कन्दः सूर्यावर्तेषु पुङ्खिका । वाराही हस्तिशुण्डी च प्रायेण रसमूलिकाः ॥ ११.५८ ॥ रसस्य भावने स्वेदे मृषालेपे च पूजिताः । इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने । कार्यास्ते प्रथमं शेषा नोक्ता द्रव्योपयोगिनः ॥ ११.५९ ॥ पञ्चविंशतिसंख्याकान्रसबन्धान् प्रचक्ष्महे । येन येन हि चाञ्चल्यं दुर्ग्रहत्वं च नश्यति । रसराजस्य सम्प्रोक्तो बन्धनार्थो हि वार्त्तिकैः ॥ ११.६० ॥ हठारोटौ तथाभासः क्रियाहीनश्च पिष्टिका । क्षारः खोटश्च पोटश्च कल्कबन्धश्च कज्जलिः ॥ ११.६१ ॥ सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः । शृङ्खलाद्रुतिबन्धौ च बालकश्च कुमारकः ॥ ११.६२ ॥ तरुणश्च तथा वृद्धो मूर्तिबद्धस्तथापरः । जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः । महाबन्धाभिधश्चेति पञ्चविंशतिरीरिताः ॥ ११.६३ ॥ केचिद्वदन्ति षड्विंशो जलूकाबन्धसंज्ञकः । स तावन्नेष्यते देहे स्त्रीणां द्रावेऽतिशस्यते ॥ ११.६४ ॥ हठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः । स सेवितो नृणां कुर्यान्मृत्युं वा व्याधिमुद्धतम् ॥ ११.६५ ॥ सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥ ११.६६ ॥ पुटितो यो रसो याति योगं मुक्त्वा स्वभावताम् । भावितो धातुमूलाद्यैराभासो गुणवैकृतेः ॥ ११.६७ ॥ असंशोधितलोहाद्यैः साधितो यो रसोत्तमः । क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥ ११.६८ ॥ तीव्रातपे गाढतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा । स रसः पिष्टिकाबन्धो दीपनः पाचनस्तराम् ॥ ११.६९ ॥ शङ्खशुक्तिवराटाद्यैर्योऽसौ संसाधितो रसः । क्षारबन्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥ ११.७० ॥ बन्धो यः खोटतां याति ध्मातो ध्मातः क्षयं व्रजेत् । खोटबन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ॥ ११.७१ ॥ द्रुतकज्जलिका मोचापत्त्रके चिपिटीकृता । स पोटः पर्पटी सैव बालाद्यखिलरोगनुत् ॥ ११.७२ ॥ स्वेदाद्यैः साधितः सूतः पङ्कत्वं समुपागतः । कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः ॥ ११.७३ ॥ कज्जली रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा । तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥ ११.७४ ॥ भस्मीकृतो गच्छति वह्नियोगाद्रसः सजीवः स खलु प्रदिष्टः । संसेवितोऽसौ न करोति भस्मकार्यं जवाद्रोगविनाशनं च ॥ ११.७५ ॥ जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः । निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति सद्यः ॥ ११.७६ ॥ रसस्तु पादांशवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च । तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ॥ ११.७७ ॥ पिष्टीकृतैरभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः । हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥ ११.७८ ॥ वज्रादिनिहतः सूतो हतः सूतः समोऽपरः । शृङ्खलाबद्धसूतस्तु देहलोहविधायकः । चित्रप्रभावां वेगेन व्याप्तिं जानाति शंकरः ॥ ११.७९ ॥ युक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धंगतो वा भसितस्व पः । स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा ॥ ११.८० ॥ समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन । रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ११.८१ ॥ हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ । त्रिः सप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥ ११.८२ ॥ चतुर्गुणव्योमकृताशनोऽसौ रसायनाग्र्यस्तरुणाभिधानः । स सप्तरात्रात्सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥ ११.८३ ॥ यस्याभ्रकः षड्गुणितो हि जीर्णः प्राप्ताग्निसख्यः स हि वृद्धनामा । देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति ॥ ११.८४ ॥ यो दिव्यमूलिकाभिश्च कृतोऽत्यग्निसहो रसः । विनाभ्रजारणात्स स्यान्मूर्तिबन्धो महारसः ॥ ११.८५ ॥ अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः । योजितः सर्वयोगेषु निरौपम्यफलप्रदः ॥ ११.८६ ॥ शिलातोयमुखैस्तोयैर्बद्धोऽसौ जलबन्धवान् । स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥ ११.८७ ॥ केवलो योगेषु वा ध्मातः स्याद्गुटिकाकृतिः । अक्षीणश्चाग्निबद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ११.८८ ॥ विष्णुक्रान्ताशशिलताकुम्भीकनकमूलकैः । विशालानागिनीकन्दव्याघ्रपादीकुरुण्टकैः ॥ ११.८९ ॥ वृश्चिकालीभशुण्डीभ्यां हंसपादा सहासुरैः । अप्रसूतगवां मूत्रैः पिष्टं वा कुलके पचेत् ॥ ११.९० ॥ पक्वमेवं मृतैर्लोहैर्मर्दितं विपचेद्रसम् । यन्त्रेषु मूर्छा सूतानामेष कल्पः समासतः ॥ ११.९१ ॥ हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकतामक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीर्घोज्ज्वलः । चूर्णत्वं पटुवत्प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि महाबन्धाभिधानो रसः ॥ ११.९२ ॥ सूते गर्भनियोजितार्धकनके पादांशनागेऽथवा पञ्चाङ्गुष्ठकशाल्मलीकृतमदाश्लेष्मातबीजैस्तथा । तद्वत्तेजिनीकोलकाख्यफलजैश्चूर्णं तिलं पत्त्रकं तप्ते खल्लतले निधाय मृदिते जाता जलूका वरा ॥ ११.९३ ॥ सैषा स्यात्कपिकच्छूरोमपटले चन्द्रावती तैलके चन्द्रे टङ्कणकामपिप्पलीजले स्विन्ना भवेत्तेजिनी । तप्ते खल्लतले विमर्द्य विधिवद्यत्नाद्वटी या कृता सा स्त्रीणां मददर्पनाशनकरी ख्याता जलूका वरा ॥ ११.९४ ॥ बाल्ये चाष्टाङ्गुला योज्या यौवने च दशाङ्गुला । द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ११.९५ ॥ धृत्वा सूतमुखे पात्रं मेषीक्षीरं प्रदापयेत् । स्थापयेदातपे तीव्रे वासराण्येकविंशतिः ॥ ११.९६ ॥ द्वितीयात्र मया प्रोक्ता जलौका द्रावणे हिता । पुरुषाणां स्थिता मूर्ध्नि द्रावयेद्बीजमद्भुतम् ॥ ११.९७ ॥ मुनिपत्त्ररसं चैव शाल्मलीवृन्तवारि च । जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥ ११.९८ ॥ श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च । कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद्बुधः ॥ ११.९९ ॥ जलूका जायते दिव्या रामाजनमनोहरा । सा योज्या कामकाले तु कामयेत्कामिनी स्वयम् ॥ ११.१०० ॥ त्रिफलाभृङ्गमहौषधमधुसर्पिश्छागदुग्धगोमूत्रे । नागं सप्तनिषिक्तं समरसजारितं जलूका स्यात् ॥ ११.१०१ ॥ भानुस्वरदिनसंख्याप्रमाणसूतं गृही तदीनारम् । अङ्कोलराजवृक्षककन्यारसतश्च शोधनं कुर्यात् ॥ ११.१०२ ॥ शशिरेखावरवर्णिनीसकोकिलाक्षापामार्गकनकानाम् । चूर्णैः सहैकविंशतिदिनानि संमर्दयेत्सम्यक् ॥ ११.१०३ ॥ निशायाः काञ्जिकं यूषं दत्त्वा योनौ प्रवेशयेत् । बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् । नीरसानामपि नॄणां योषा स्यात्संगमोत्सुका ॥ ११.१०४ ॥ रसभागं चतुष्कं च वङ्गभागं च पञ्चमम् । सुरसारसमं युक्तं टङ्कणेन समन्वितम् ॥ ११.१०५ ॥ त्रिदिनं मर्दयित्वा च गोलकं तं रसोद्भवम् । लिङ्गाग्रे योनिनिक्षिप्तं यावदायुर्वशंकरम् ॥ ११.१०६ ॥ कर्पूरसूरणसुभृङ्गसुमेघनादैर्नागं निषिच्य तु मिथो वलयेद्रसेन । लिङ्गस्थितेन वलयेन नितम्बिनीनां स्वामी भवत्यनुदिनं स तु जीवहेतुः ॥ ११.१०७ ॥ टङ्कणपिप्पलिकाभिः सूरणकर्पूरमातुलुङ्गरसैः । कृत्वा स्वलिङ्गलेपं योनिं विद्रावयेत्स्त्रीणाम् ॥ ११.१०८ ॥ अग्न्यावर्तितनागे हरबीजं निक्षिपेत्ततो द्विगुणम् । मुनिकनकनागसर्पैर्दन्त्याथ सिञ्याच्च तन्मध्यम् ॥ ११.१०९ ॥ तक्रेण मर्दयित्वा गणेन मदनवलयं कुर्यात् । रतिसमये वनितानां रतिगर्वविनाशनं कुरुते ॥ ११.११० ॥ व्याघ्रीबृहतीफलरससूरणकन्दं च चणकपत्त्राम्लम् । कपिकच्छुवज्रवल्लीपिप्पलिकाम्लिकाचूर्णम् ॥ ११.१११ ॥ अग्न्यावर्तितनागं नववारं मर्दयेद्धिमैर्द्रव्यैः । स्मरवलयं कृत्वैतद्वनितानां द्रावणं कुरुते ॥ ११.११२ ॥ पलाशबीजकं रक्तजम्बीराम्लेन सूतकम् । सजीवं मर्दितं यन्त्रे पाचितं म्रियते ध्रुवम् ॥ ११.११३ ॥ खरमञ्जरि बीजान्वितपुष्करबीजैः सुचूर्णितैः कल्कम् । कृत्वा सूतं पुटयेद्दृढमूषायां भवेद्भस्म ॥ ११.११४ ॥ काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः । मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥ ११.११५ ॥ देवदालीं हरिक्रान्तामारनालेन पेषयेत् । तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम् ॥ ११.११६ ॥ तत्सूतं खर्परे दद्याद्दत्त्वा दत्त्वा तु तद्द्रवम् । चुल्ल्योपरि पचेच्चाह्नि भस्म स्याल्लवणोपमम् ॥ ११.११७ ॥ अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् । तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् । रुद्ध्वा लघुपुटैः पच्याच्चतुर्भिर्भस्मतां नयेत् ॥ ११.११८ ॥ कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुते । सप्तधा स्वेदितः सूतो म्रियते गोमयाग्निना ॥ ११.११९ ॥ अङ्कोलस्य शिफावारिपिष्टं खल्ले विमर्दयेत् । सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् । पुटयेद्भूधरे यन्त्रे दिनान्ते स मृतो भवेत् ॥ ११.१२० ॥ वटक्षीरेण सूताभ्रौ मर्दयेत्प्रहरत्रयम् । पाचयेत्तेन काष्ठेन भस्मीभवति तद्रसः ॥ ११.१२१ ॥ अथातुरो रसाचार्यं साक्षाद्देवं महेश्वरम् । साधितं च रसं शृङ्गदन्तवेण्वादिधारितम् ॥ ११.१२२ ॥ अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि । पर्णखण्डे धृतं सूतं जग्ध्वा स्यादनुपानतः ॥ ११.१२३ ॥ घृतसैन्धवधान्यकजीरकार्द्रकसंस्कृतम् । तण्डुलीयकधान्यकपटोलालम्बुषादिकम् ॥ ११.१२४ ॥ गोजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि । हंसोदकं मुद्गरसः पथ्यवर्गः समासतः ॥ ११.१२५ ॥ बृहती बिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् । माषं मसूरं निष्पावं कुलत्थं सर्षपं तिलम् ॥ ११.१२६ ॥ लङ्घनोद्वर्तनस्नानताम्रसुरासवान् । आनूपमांसं धान्याम्लं भोजनं कदलीदले । कांस्ये च गुरुविष्टम्भि तीक्ष्णोष्णं च भृशं त्यजेत् ॥ ११.१२७ ॥ कण्टारीफलकाञ्जिकं च कमठस्तैलं तथा राजिकां निम्बूकं कतकं कलिङ्गकफलं कूष्माण्डकं कर्कटी । कारी कुक्कुटकारवेल्लकफलं कर्कोटिकायाः फलं वृन्ताकं च कपित्थकं खलु गणः प्रोक्तः ककारादिकः ॥ ११.१२८ ॥ देवीशास्त्रोदितः सोऽयं ककारादिगणो मतः । शास्त्रान्तरविनिर्दिष्टः कथ्यतेऽन्यप्रकारतः ॥ ११.१२९ ॥ कङ्गुः कन्दुककोलकुक्कुटकलक्रोडाः कुलत्थास्तथा कण्टारी कटुतैलकृष्णगलकः कूर्मः कलायः कणा । कर्कारुश्च कठिल्लकं च कतकं कर्कोटकं कर्कटी काली काञ्जिकमेषकादिकगणः श्रीकृष्णदेवोदितः ॥ ११.१३० ॥ यस्मिन्रसे च कण्ठोक्त्या ककारादिर्निषेधितः । तत्र तत्र निषेद्धव्यं तदौचित्यमतोऽन्यतः ॥ ११.१३१ ॥ उद्गारे सति दध्यन्नं कृष्णमीनं सजीरकम् । अभ्यङ्गमनिलक्षोभे तैलैर्नारायणादिभिः ॥ ११.१३२ ॥ अरतौ शीततोयेन मस्तकोपरि सेचनम् । तृष्णायां नारिकेलाम्बु मुद्गं सशर्करम् ॥ ११.१३३ ॥ द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् । रसवीर्यविवृद्ध्यर्थं दधिक्षीरेक्षुशर्कराः । शीतोपचारमन्यं च रसत्यागविधौ पुनः ॥ ११.१३४ ॥ भक्षयेद्बृहतीं बिल्वं सकृत्साधारणो विधिः ॥ ११.१३५ ॥ ज्वरस्य रक्तपित्तस्य कासस्य श्वासहिध्मयोः । वैस्वर्यस्य क्षयस्यापि तथारोचप्रसेकयोः ॥ १२.१ ॥ छर्दिहृद्रोगयोश्चैव तृष्णामद्योद्भवार्शसाम् । उदावर्तातिसाराणां ग्रहण्यर्तिप्रवाहिणोः ॥ १२.२ ॥ विसूच्या वह्निमान्द्यस्य मूत्रकृच्छ्राश्मरुजाम् । मेहस्य सोमरोगस्य पिटिकानां च विद्रधेः ॥ १२.३ ॥ वृद्धिगुल्मादिरोगाणां शूलानामुदरस्य च । पाण्डुशोफविसर्पाणां कुष्ठश्वित्रनभस्वताम् ॥ १२.४ ॥ वातास्रस्यावृतानां च वन्ध्यानां गर्भिणीरुजाम् । सूतिकाबालरोगाणामुन्मादेऽपस्मृतावपि ॥ १२.५ ॥ नेत्ररोगे कर्णरोगे नासारोगास्यरोगयोः । शिरःसंजातरोगेषु व्रणे भङ्गे भगंदरे ॥ १२.६ ॥ ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे विषेषु च । जरायास्त्वनपत्यानां बीजपोषणहेतवे ॥ १२.७ ॥ परिपाट्यानया सर्वं रोगाणां हि चिकित्सनम् । रसलोहविषैरत्र योगैर्वक्ष्ये यथागमम् ॥ १२.८ ॥ रोमाञ्चकम्पौ वदने मधुत्वमुज्जृम्भणं मस्तकतोददाहौ । वातज्वरस्योक्तमिदं हि लक्ष्म भुक्तोत्तरं स्याद्यदि शश्वदेव ॥ १२.९ ॥ विरेकशोषास्यकटुत्वतीव्रतापप्रलापभ्रममूर्छनानि । एतानि पित्तज्वरलक्षणानि वमिः सतृष्णाङ्गविदाहिता च ॥ १२.१० ॥ कासश्वासौ मुखे जाड्यं माधुर्यं बहुनिद्रता । प्रस्वेदः स्वल्पदाहश्च श्लेष्मजज्वरलक्षणम् ॥ १२.११ ॥ मिश्रितं लक्षणं यत्तु द्वयोस्त्रिषु भवेच्च तत् ॥ १२.१२ ॥ विमर्दिताभ्यां रसगन्धकाभ्यां नीरेण कुर्यादिह गोलकं तम् । भाण्डे नवीने विनिवेश्य पश्चात्तद्गोलकस्योपरि ताम्रपात्रम् ॥ १२.१३ ॥ सार्धं मुहूर्तं विनिरुध्य धीमानुद्दीपयेद्दीप्तकृशानुनास्य । अधस्ततः सिध्यति पर्पटीयं नवज्वरारण्यकृशानुमेघः ॥ १२.१४ ॥ विलिप्य पूर्वं रसनां च तालुदेशं च सिन्धूद्भवजीरकार्द्रैः । वल्लोन्मितां चार्द्रकतोयमिश्रामेनां नियोज्य स्थगयेत्पटेन ॥ १२.१५ ॥ घर्मोद्गमो यावदतः परं च तक्रौदनं पथ्यमिह प्रयोज्यम् । कुर्याद्दिनानां त्रितयं यदीत्थं ज्वरस्य शङ्कापि तदा भवेत्किम् ॥ १२.१६ ॥ सूतार्कगन्धचपलाजयपालतिक्तापथ्यात्रिवृच्च विषतिन्दुकजान् समांशान् । संभाव्य वज्रिपयसा मधुना त्रिवल्लस्त्रैलोक्यडम्बररसोऽभिनवज्वरघ्नः ॥ १२.१७ ॥ पादांशकं साररविः समांशगन्धो विपक्वः स्वकषायपिष्टः । रसः क्रमान्माषमितोऽनिलादिज्वरेषु नाम्ना किल मेघनादः ॥ १२.१८ ॥ दरदजलदयुक्तं शुद्धसूतं च गन्धं प्रहरमथ सुपिष्टं वल्लयुग्मं च दद्यात् । ज्वरगजहरिसंज्ञं शृङ्गवेरोदकेन प्रथमजनितदाही क्षीरभक्तेन भोज्यः ॥ १२.१९ ॥ संतप्तसीसभागं च पारदं गन्धकं कणाम् । समभागं पृथक्तत्र मेलयेच्च यथाविधि ॥ १२.२० ॥ जम्बीरस्य रसे सर्वं मर्दयेच्च दिनत्रयम् । मेघनादकुमार्योश्च रसे चापि दिनत्रयम् ॥ १२.२१ ॥ दिनद्वयमजामूत्रे गवां मूत्रे दिनत्रयम् । भावयेच्च यथायोग्यं तस्मिन्नेतानि दापयेत् ॥ १२.२२ ॥ सैन्धवं चित्रकं भागं सौवर्चललवणं तथा । तेन सम्मेलनं कृत्वा भावयेच्च पुनः पुनः ॥ १२.२३ ॥ अनेन विधिना सम्यक्सिद्धो भवति तद्रसः । शर्कराघृतसंयुक्तं दद्याद्वल्लत्रयं रसम् ॥ १२.२४ ॥ गोधूमस्यौदनं पथ्यं माषसूपं च वास्तुकम् । धात्रीफलसमायुक्तं सर्वज्वरविनाशनम् । दीपिकारस इत्येष तन्त्रज्ञैः परिकीर्तितः ॥ १२.२५ ॥ पारदं रसकं तालं तुत्थं गन्धकटङ्कणम् । सर्वमेतत्समं शुद्धं कारवल्ल्या द्रवैर्दिनम् ॥ १२.२६ ॥ मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिम्पेत् । अङ्गुलार्धार्धमानेन तं पचेत्सिकताह्वये ॥ १२.२७ ॥ यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः । ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद्भिषक् ॥ १२.२८ ॥ शीतभञ्जी रसो नाम चूर्णयेन्मरिचैः समम् । माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् । त्रिदिनैर्विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥ १२.२९ ॥ सूततालशिलास्तुल्या मर्दयेत्कर्कटीरसे । ताम्रपात्रे विनिक्षिप्य तत्कल्कं कज्जलीकृतम् ॥ १२.३० ॥ विपचेद्वालुकायन्त्रे यथोक्तविधिना ततः । दद्यान्मरिचचूर्णेन माषमात्रं भिषग्वरः ॥ १२.३१ ॥ प्रपिबेदुष्णतोयस्य चुलुकं शीतकज्वरे । शीतभञ्जी रसः सोऽयं शीतज्वरनिवारणः ॥ १२.३२ ॥ कूष्माण्डचूर्णतिलजैः प्रविशुद्धतालं गाढं विमर्द्य सुषवीसलिलेन तुल्यम् । सूतेन हिङ्गुलभुवा सिकताख्ययन्त्रे गोलं विधाय परिवृत्तकपालमध्ये ॥ १२.३३ ॥ पत्त्रेण तं दिनपतेश्च पिधाय रुद्ध्वा संधिं तयोर्गुडसुधाखटिकाशिवाभिः । वह्नौ पचेन्मृदुनि पात्रशिरःस्थशालीवैवर्ण्यमात्रमवधिं प्रविधाय धीमान् ॥ १२.३४ ॥ वल्लं ततः सुरसमिश्रममुष्य दद्यात्सर्पिः सिताकणपयोमधु चानुपेयम् । जेतुं ज्वरान् प्रविषमानिह वान्तिशान्त्यै मौलौ सुशीतलजलस्य ददीत धाराम् ॥ १२.३५ ॥ अथामयान्तं रसराजमौलिभूषामणिं तं मृतजीवनाख्यम् । सुधारसेनेव रसेन येन संजीवनं स्यात्सहसातुराणाम् ॥ १२.३६ ॥ रसहिङ्गुलजेपालैर्वृद्ध्या दन्त्यम्बुमर्दितैः । दिनार्धेन ज्वरं हन्याद्गुञ्जैकं सितया सह ॥ १२.३७ ॥ शुद्धं सूतं विषं गन्धं धूर्तबीजं त्रिभिः समम् । चतुर्भिश्च समं व्योषं चूर्णीकृत्य निधापयेत् ॥ १२.३८ ॥ दन्तभाण्डेऽथ वा शार्ङ्गे काष्ठे नैव कदाचन । वातश्लेष्मज्वरे देयं द्वंद्वजे वा त्रिदोषजे ॥ १२.३९ ॥ रसेन शृङ्गवेरस्य जम्बीरस्याथवा पुनः । गुञ्जाद्वयं च जीर्णेऽस्मिन्दधिभक्तं प्रयोजयेत् ॥ १२.४० ॥ एकद्वित्रिदिनैर्हन्याज्ज्वरान् दोषक्रमेण तु । महाज्वराङ्कुशो नाम रसोऽयं शम्भुनोदितः ॥ १२.४१ ॥ तालं ताम्ररजो रसश्च गगनं गन्धश्च नेपालकं दीनारप्रमितं तदर्धमुदितं टङ्कं शिलामाक्षिकम् । दीनारद्वितयं विषस्य शिखिनः पिष्ट्वा रसैः पाचितो यश्चिन्तामणिवज्ज्वरौघविजयी नाम्ना तु मृत्युंजयः ॥ १२.४२ ॥ तालं ताम्रमयोरजश्च चपला तुत्थाभ्रकं कान्तकं नागं स्याच्च समांशकं सुमृदितं मूलं च पौनर्नवम् । भृङ्गीकासहरीपुनर्नवामहामन्दारपत्त्रोद्भवैः कल्कं वालुकयन्त्रपाचितमिदं सर्वज्वरस्यान्तकृत् ॥ १२.४३ ॥ तुत्थेन तुल्यः शिवजश्च गन्धो जम्बीरनीरेण विमर्दनीयः । दिनत्रयं मेलय तेन तुल्यं व्योषं ततः सिध्यति चन्द्रसूर्यः ॥ १२.४४ ॥ वल्लो विजेतुं विषमावलम्बि दलेन देयो भुजगाख्यवल्ल्याः । दुग्धं हितं स्यादिह शृङ्गवेररसेन शैत्येषु निषेवणीयः ॥ १२.४५ ॥ तक्रं सगर्भाज्वरशूलयोस्तु द्राक्षाम्बुना पथ्यमनन्तरोक्तम् । रोधं वरायाः सलिलेन शूलं जम्बीरनीरेण वराजलेन ॥ १२.४६ ॥ अपस्मृतावत्र नियोजनीयमभ्यञ्जनं बिम्बपयोभवाभ्याम् । घृतौदनं स्यादिह भोजनाय जम्बीरनीरेण निहन्ति गुल्मम् ॥ १२.४७ ॥ हिङ्ग्वम्लिकानिम्बुरसेन देयं प्लीहोदरे स्यादिह तक्रभक्तः । स्तम्भार्थमस्मिन्ससितं पयः स्याद्गुडो नियोज्यो वमनप्रशान्त्यै ॥ १२.४८ ॥ अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा । विषं तस्य न दातव्यं दत्तं चेद्दोषकारकम् ॥ १२.४९ ॥ मेघपारदगन्धाश्मविषव्योषपटूनि च । जीरकद्वयमेतानि समभागानि कारयेत् ॥ १२.५० ॥ सिन्दुवाररसेनापि लशुनस्य रसेन च । अपामार्गरसेनापि सप्तरात्रं विमर्दयेत् ॥ १२.५१ ॥ तत्पक्वं वालुकायन्त्रे गुञ्जामात्रं प्रयोजयेत् । सनागवल्लीमरिचं ततः शीताम्बु पाययेत् ॥ १२.५२ ॥ उमाप्रसादनो नाम रसः शीतज्वरापहः । चातुर्थिकं त्रिरात्रं वा नाशयेत्किमुतापरान् ॥ १२.५३ ॥ टङ्कणं रसगन्धौ च समभागान्प्रकल्पयेत् । नेपालं द्विगुणं दत्त्वा मर्दयेत्खल्लमध्यतः ॥ १२.५४ ॥ श्लक्ष्णतां याति तद्यावत्तावत्तन्मर्दयेच्छनैः । सैन्धवं मरिचं शङ्खं चिञ्चाक्षारं समाक्षिकम् ॥ १२.५५ ॥ तत्तुल्यमेतत्कृत्वाथ निम्बूतोयेन मर्दयेत् । चणप्रमाणवटिकां भक्षयेद्दिवसत्रयम् ॥ १२.५६ ॥ ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् । सर्वज्वरविनाशाय ज्वराङ्कुश इति स्मृतः ॥ १२.५७ ॥ अभ्रकं गन्धकं सूतं तोलकैकं पृथक्पृथक् । गृहीत्वा विषतोलार्धं तोलार्धं तिन्तिडीफलम् ॥ १२.५८ ॥ एतत्सर्वं समं कृत्वा मर्दयेत्खल्लमध्यतः । श्लक्ष्णतां याति तद्यावत्तावत्संमर्दयेच्छनैः ॥ १२.५९ ॥ विस्तारे परिणाहे च गर्तां कृत्वा षडङ्गुलाम् । फणिवल्लीदलान्यन्तर्गर्तायां प्रक्षिपेन्नरः ॥ १२.६० ॥ पर्णेषु सूतकल्कं तं गर्तायां स्थापयेद्दृढम् । कल्कादुपरि तत्पर्णैर्गर्तावक्त्रं प्रपूरयेत् ॥ १२.६१ ॥ गर्तायां तु ततो देयं पुटमारण्यकोत्पलैः । स्वाङ्गशीतलतां ज्ञात्वा समाकर्षेत्ततः परम् ॥ १२.६२ ॥ सूतलिप्तदलैः सार्धं कल्कं खल्ले विमर्दयेत् । तोलार्धममृतं क्षिप्त्वा तोलार्धं तिन्तिडीफलम् ॥ १२.६३ ॥ स्थापयेत्खल्लितं कल्कं योजयेद्गुञ्जमात्रया । शृङ्गवेराम्भसा युक्तं तीक्ष्णचित्रकसैन्धवैः ॥ १२.६४ ॥ संनिपाते तथा वाते त्रिदोषे विषमज्वरे । अग्निमान्द्ये ग्रहिण्यां च तथा देयोऽतिसारिणि ॥ १२.६५ ॥ भोजनं दधिभक्तं च रसेऽस्मिन् संप्रयोजयेत् । व्याध्यादिकं यथा कुर्यादुदकं ढालयेत्ततः ॥ १२.६६ ॥ एष योगवरः श्रीमान्प्राणिनां प्राणदायकः । चिन्तामणिरितिख्यातो रसः सर्वाङ्गसुन्दरः ॥ १२.६७ ॥ सूतेन्द्रं परिमर्द्य पञ्चपटुभिः क्षारैस्त्रिभिस्तं ततः पिण्डे हिङ्गुमहौषधासुरीमये संस्वेद्य धान्योदके । निर्गुण्ड्यम्बुहुताशमन्थतिलपर्ण्युन्मत्तभृङ्गार्द्रकं कामातागिरिकर्णिकाप्लवदलापञ्चाङ्गुलोत्थैर्जलैः ॥ १२.६८ ॥ सूतेन्द्रेण समैर्विमर्द्य सहजैः पित्तैस्ततो भावयेद्दंष्ट्रिच्छागलुलायमत्स्यशिखिनां सा संनिपाताञ्जयेत् । विख्याता भुवि लोकनाथगुटिका मारीचमात्रा हिता स्यादस्याः सहितं दधीक्षुशकलं वीर्यं भवेच्छीतलम् ॥ १२.६९ ॥ वज्रवैक्रान्तयोर्भस्म प्रत्येकं निष्कसम्मितम् । शृङ्गीविषं द्विनिष्कं च त्रिनिष्कं चूलिकापटु ॥ १२.७० ॥ पञ्चनिष्कोऽग्निजारश्च सर्वमेकत्र मेलयेत् । तावद्भस्म रसं यावन्मर्दयेद्दिवसत्रयम् ॥ १२.७१ ॥ शार्ङ्गष्टादिकवर्गस्य क्षारनीरेण भावयेत् । त्रयोविंशतिवाराणि विमर्द्य च विशोष्य च ॥ १२.७२ ॥ ततो विमर्द्य दिवसं क्षिपेद्दन्तकरण्डके । मृतसंजीवनाख्योऽयं सूचिकाभरणो रसः ॥ १२.७३ ॥ संनिपातेन तीव्रेण मुमुर्षोर्भूगतस्य च । तालुनि वृश्चयित्वाथ रसमेनं विनिक्षिपेत् ॥ १२.७४ ॥ सूच्यातिसूक्ष्मया तोयभिन्नयातिप्रयत्नतः । ततस्तैलेन तं लिप्त्वा निर्वाते संनिवेशयेत् ॥ १२.७५ ॥ ततोऽर्धप्रहरादूर्ध्वं मुक्तमूत्रपुरीषकम् । लब्धसंज्ञं प्रतापाढ्यं दोलयन्तं शिरो मुहुः ॥ १२.७६ ॥ आयुष्मन्तं विजानीयादन्यथा चान्यथा खलु । ततः शीताम्बुसम्पूर्णे कटाहे तं निवेशयेत् ॥ १२.७७ ॥ तत्र चोत्क्वथितं तोयमपनीयापरं क्षिपेत् । याचमानममुं पश्चात्पाययेत्ससितं पयः ॥ १२.७८ ॥ दधि वा सितयोपेतं नारिकेलजलं तथा । रम्भाफलानि दद्याच्च म्रियते सोऽन्यथा खलु ॥ १२.७९ ॥ लब्धसंज्ञं प्रभाषन्तं याचमानं फलादिकम् । तस्मादाकृष्य तैलाक्तं तैलं पिष्ट्वापनीय च ॥ १२.८० ॥ लेपयेद्गन्धकर्पूरैरा पादतलमस्तकम् । इत्यादिशिशिरैर्द्रव्यैः सप्तरात्रमुपाचरेत् ॥ १२.८१ ॥ कर्णाक्षिनासिकावक्त्रे क्षिपेत्पोताश्रयं मुहुः । अष्टमेऽहनि सम्प्राप्ते दर्दुरीमूलजं रसम् ॥ १२.८२ ॥ ससितं पाययेद्वेगमवतारयितुं रसम् । रसेऽवतारिते पश्चाद्यथेष्टं भोजनं दधि ॥ १२.८३ ॥ श्वासोच्छ्वासयुतं चान्यैर्मुक्तजीवनलक्षणैः । कटाहे जलसम्पूर्णे निक्षिपेद्बोधलब्धये ॥ १२.८४ ॥ लब्धबोधं तमाकृष्य पूर्ववत्समुपाचरेत् । जीवित्वा यावदायुष्यं म्रियते तदनन्तरम् ॥ १२.८५ ॥ संनिपाते महाघोरे मज्जन्तं मृत्युसागरे । उद्धरेत्तस्य धर्मस्य ब्रह्माप्यन्तं न विन्दति ॥ १२.८६ ॥ संनिपातमहामृत्युभयनिर्मुक्तमानवः । अपि सर्वस्वदानेन प्राणाचार्यं प्रपूजयेत् ॥ १२.८७ ॥ अन्यथा नरके तावद्यावत्कल्पविकल्पना । इत्याज्ञा शांकरी ज्ञेया शम्भुना परिकीर्तिता ॥ १२.८८ ॥ प्रकाशा नैव कर्तव्या रसोत्तरणमूलिका । शास्त्रं विना प्रयच्छन्ते मन्दा वित्ताभिकाङ्क्षया । गुरुप्रसादमासाद्य संनिपाते प्रयुज्यताम् ॥ १२.८९ ॥ शार्ङ्गष्टा च तथा व्याघ्री करीरस्तिलपर्णिका । इन्द्रवारुणिका मुस्ता हरिद्राङ्कोलमूलिका ॥ १२.९० ॥ अपामार्गः कणा स्वर्णं कटुतुम्बी च तिन्तिडी । शार्ङ्गष्टादिकवर्गोऽयं संनिपातहरः परम् ॥ १२.९१ ॥ सूतं गन्धकतालकं मणिशिलां ताप्यं लवं तुत्थकं जेपालं विषटङ्कणं मधुफलं कृत्वा समांशं दृढम् । कृत्वा कज्जलिकां विषोल्बणफणेः पित्तैश्च संभावयेत्क्षिप्त्वा सीसककूपिके रसवरं सूचीमुखं नामतः ॥ १२.९२ ॥ ब्रह्मद्वारि विकीर्णलोहितलवे गुञ्जैकमात्रं ददेद्दत्त्वा सम्पुटबद्धतन्द्रिकधनुर्वाते सशाखाहिमे । कासं श्वासमरोचकं प्रलपनं कम्पं च हिक्कातुरं मूकत्वं बधिरत्वमुन्मदमपस्मारं जयेत्तत्क्षणात् ॥ १२.९३ ॥ रसगन्धकताम्राभ्रं लाङ्गलीवह्निरामठम् । वन्ध्यापटोलनिर्गुण्डीसुगन्धानिम्बपल्लवाः ॥ १२.९४ ॥ पाठाक्षारत्रयं क्ष्वेडबोलधत्तूरतण्डुलैः । शृङ्गीमधुकसारं च जम्बीराम्लेन मर्दयेत् ॥ १२.९५ ॥ कुर्याद्धि निष्कमानेन वटिका सा नियच्छति । सस्वेददाहाभिन्यासं संनिपातगजांकुशः ॥ १२.९६ ॥ ससारा वैष्णवी सेना अचला कादि कङ्कणा । रागरुद्रोपमोपेता प्रौढा मस्तकशालिनी ॥ १२.९७ ॥ त्रिभागं तालकं विद्यादेकभागं तु पारदम् । तदर्धं गन्धकं चैव तदर्धं तु मनःशिला ॥ १२.९८ ॥ कारवल्लीदलरसैर्मर्दयेत्तत्प्रहरत्रयम् । पाचितो वालुकायन्त्रे चातुर्थिकहरो रसः ॥ १२.९९ ॥ स्याद्रसेन समायुक्तो गन्धकः सुमनोहरः । हियावल्लित्रिगुणितो निर्गुण्डीरसमर्दितः ॥ १२.१०० ॥ सप्तवाराणि तद्योज्यमार्द्रकस्वरसेन तु । संततादिज्वरं हन्याच्चातुर्थिकगजांकुशः ॥ १२.१०१ ॥ ताप्यतालकजेपालवत्सनाभमनःशिलाः । ताम्रगन्धकसूतं च मुसलीरसमर्दितः । मृत्युंजय इति ख्यातः कुक्कुटीपुटपाचितः ॥ १२.१०२ ॥ वल्लद्वयं प्रयुञ्जीत यथेष्टं दधिभोजनम् । नवज्वरं संनिपातं हन्यादेष महारसः ॥ १२.१०३ ॥ शुद्धं सूतं विषं गन्धं मरिचं टङ्कणं कणाम् । मर्दयेद्धूर्तजद्रावैर्दिनमेकं तु शोषयेत् ॥ १२.१०४ ॥ पञ्चवक्त्रो रसो नाम द्विगुञ्जः संनिपातजित् । अर्कमूलकषायं च सत्र्यूषमनुपाययेत् । दध्योदनं हितं तत्र जलयोगं च कारयेत् ॥ १२.१०५ ॥ रसगन्धकतुल्यांशं धत्तूरफलजद्रवैः । मर्दयेद्दिनमेकं तु तत्तुल्यं त्रिकटु क्षिपेत् । उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्संनिपातजित् ॥ १२.१०६ ॥ निस्त्वग्जेपालजं बीजं दशनिष्कं प्रचूर्णयेत् । मरिचं पिप्पलीं सूतं प्रतिनिष्कं विमिश्रयेत् ॥ १२.१०७ ॥ भाव्यं जम्बीरजैर्द्रावैः सप्ताहं तत्प्रयत्नतः । संनिपातं निहन्त्याशु अञ्जने यः शिवः स्मृतः ॥ १२.१०८ ॥ मदनफलं विडलवणं सर्षपाः प्रतिनिष्कद्वयम् । चूर्णयित्वा त्रिफलाक्वाथेन सटङ्कणं पिबेत् ॥ १२.१०९ ॥ कुष्ठे ज्वरे कामलायां कण्ठरोगे ह्यजीर्णके । नस्ये च गिरिकर्ण्युत्थबीजैकं शीतवारिणा ॥ १२.११० ॥ प्रत्येकं रसगन्धयोर्द्विपलयोः कृत्वा मषीं शुद्धयोर्रम्यां म्लेच्छलुलायलोचनमनोधात्रीप्रकुञ्चत्रयम् । पथ्याया बदरत्रिकं त्रिकटु षट्शाणं वचा धर्मिणी वेल्लाम्भोधरपत्त्रकद्विरदकिञ्जल्काश्वगन्धाह्वयम् ॥ १२.१११ ॥ पिष्ट्वैतत्समसारमखिलं कर्षोन्मितं न्यस्य तत्प्रोन्मर्द्यार्धकरञ्जकामृतयुतं सागस्तिकत्र्यूषणैः । भूधात्रीविजयासरित्पतिफलं ज्वालामुखीमार्कवैः प्रत्येकं विदधीत निश्चलमतिः सप्त क्रमाद्भावनाः ॥ १२.११२ ॥ पित्तैरथो पञ्च विधाय पञ्चभिः करञ्जपत्त्रामृतधूपनं ततः । दत्त्वार्द्रकस्य स्वरसेन तण्डुलाकृतिं विदध्याद्गुटिकां भिषग्वरः ॥ १२.११३ ॥ देयैका संनिपाते प्रतिहतविषये मोहनेत्रप्रसुप्त्योः स्याद्गुल्मे साजमोदा पवनविकृतिषु त्र्यूषणेन ग्रहण्याम् । दातव्या जीरकेण द्विपतुरगनृणां प्राणसंरक्षणाय कायाम्भोधिरेतं रसकसमरसं वैद्यनाथोऽभ्यधत्त ॥ १२.११४ ॥ गन्धकाभ्रसमः सूतो वाराहीरसमर्दितः । पाचितो वालुकायन्त्रे त्रिफलाव्योषचित्रकैः ॥ १२.११५ ॥ त्रिक्षारं पञ्चलवणहिङ्गुगुग्गुलुदीप्यकैः । सजीरकैः सेन्द्रयवैः पृथग्रससमैर्युतः ॥ १२.११६ ॥ माषमात्रोऽनुपानेन द्विपलस्योष्णवारिणः । अभिन्यासानलभ्रंशग्रहणीपाण्डुगुल्मिनाम् ॥ १२.११७ ॥ कुर्यात्प्राणपरित्राणमतः प्राणेश्वरः स्मृतः । व्याधिवृद्धौ प्रयोगोऽस्य द्वौ वारौ वैद्यसंमतः ॥ १२.११८ ॥ रसायोव्योषकङ्कुष्ठशिलातालाभ्रहिङ्गुलान् । कुम्भ्यग्निभृङ्गमारीतण्डुलीयकमाक्षिकान् ॥ १२.११९ ॥ हस्तिशुण्डीयुतांस्तुल्यांस्तदर्धशिवगन्धकान् । त्र्यहमार्द्राम्बुना पिष्ट्वा कूपीस्थं वालुकाग्निना ॥ १२.१२० ॥ जयाजम्बीरनिर्गुण्डीचाङ्गेरीवारि निक्षिपेत् । पक्त्वा चतुर्दशाहानि पिष्ट्वार्द्राक्तं विशोषयेत् ॥ १२.१२१ ॥ मृतसंजीवनाख्योऽयं रसो वल्लमितोऽशितः । द्राग्जयेदौषधं संनिपातादीन् सकलान् गदान् ॥ १२.१२२ ॥ रसभागो भवेदेको गन्धको द्विगुणो मतः । विषतालककङ्कुष्ठशिलाहिङ्गुललोहकम् ॥ १२.१२३ ॥ वह्नित्रिकटुभृङ्गाह्वहेममाक्षिकमभ्रकम् । हस्तिशुण्डी विषं कुम्भी तण्डुलीयकताम्रकौ ॥ १२.१२४ ॥ एषां प्रत्येकमेकैकं भागमादाय चूर्णयेत् । आर्द्रकस्य द्रवेणैव मर्दयेच्च दिनत्रयम् ॥ १२.१२५ ॥ जम्बीरस्य रसो ग्राह्यः पलत्रयपरीक्षितः । त्रिफलायाश्च निर्गुण्ड्याः प्रत्येकं च पलत्रयम् ॥ १२.१२६ ॥ रसस्य पलमात्रं तु चाङ्गेर्याः परिकीर्तितम् । काचकूप्यां विनिक्षिप्य यन्त्रे क्षिप्त्वा प्रयत्नवान् ॥ १२.१२७ ॥ उद्धृत्यार्द्रकनिर्यासैर्मर्दयित्वा विशोषयेत् । मृतसंजीवनो नाम रसोऽयंविदितो भुवि । गुञ्जाद्वयं ददीतास्य संनिपातापनुत्तये ॥ १२.१२८ ॥ वङ्गं नागं च सूतं च नेपालं गन्धकं तथा । शुल्बं विषं समांशेन रसेनार्द्रेण मर्दयेत् ॥ १२.१२९ ॥ पुनर्मर्द्येत निर्गुण्ड्याश्चाङ्गेर्या रसमर्दितः । वल्लप्रयोगेण रसोऽयं संनिपातनुत् ॥ १२.१३० ॥ गन्धकं च रसं शुद्धं प्रत्येकं कर्षसम्मितम् । एकत्र कज्जलीं कृत्वा ततः कुर्वीत गोलकम् ॥ १२.१३१ ॥ नवभाण्डे विनिक्षिप्य ताम्रपात्रेण गोपयेत् । दृढं निरुध्य तत्पात्रमग्नावारोपयेत्ततः ॥ १२.१३२ ॥ व्रीहिस्फुटनमात्रेण स्वाङ्गशीतं समुद्धरेत् । नवज्वरे प्रयुञ्जीत रसं पर्पटिकाह्वयम् ॥ १२.१३३ ॥ आर्द्रकस्य रसेनैव त्रिवल्लं त्रिदिनं भिषक् । ज्वरितं छादयेद्गाढं यावत्स्वेदः समुद्भवेत् ॥ १२.१३४ ॥ तक्रभक्तं भवेत्पथ्यं ज्वरमुक्तस्य देहिनः । नवज्वरारिरित्येष रसः परमदुर्लभः । वातज्वरे विशेषेण रसः साधारणो मतः ॥ १२.१३५ ॥ टङ्कणं रसगन्धौ च मरिचानि समांशकम् । सर्वं जम्बीरनीरेण दिनानि त्रीणि मर्दयेत् ॥ १२.१३६ ॥ संशोष्य शर्करायुक्तं मत्स्यपित्तेन भावयेत् । भावितं तद्रसं सिद्धमार्द्रकस्वरसैस्त्र्यहम् ॥ १२.१३७ ॥ वल्लं वारत्रयं देयं पानार्थं वारि शीतलम् । तक्रभक्तं भवेत्पथ्यं वृन्ताकफलसंयुतम् । सर्वान्नवज्वरान् हन्ति रसोऽयं जलमञ्जरी ॥ १२.१३८ ॥ कान्तस्य कण्टवेध्यानां पात्राणां भस्म कारयेत् । तत्समश्च रसो गन्धष्टङ्कणो निम्बवारिणा । ततः संपेष्य तत्कल्कं मर्दयेत्त्रिदिनं पुनः ॥ १२.१३९ ॥ रसतुल्येन मत्स्यस्य पित्तेन परिभावयेत् । सिद्धः कान्तरसो ह्येष प्रयोज्योऽभिनवज्वरे । शृङ्गवेरानुपानेन मात्रया भिषगुत्तमैः ॥ १२.१४० ॥ रसगन्धौ तथा वङ्गमभ्रकं समभागतः । मेलयित्वाथ वङ्गेन समं सूतं विमर्दयेत् ॥ १२.१४१ ॥ तत्रैकीकृत्य गन्धाभ्रे पेष्यं जम्बीरवारिणा । सामान्यं पुटमादद्यात्सप्तधा साधितं रसम् ॥ १२.१४२ ॥ कुमार्या चित्रकेणापि भावयित्वाथ सप्तधा । गुडेन जीरकेणापि ज्वरे जीर्णे प्रयोजयेत् ॥ १२.१४३ ॥ कासे श्वासे कुमार्या च त्रिफलाक्वाथयोगतः । उन्मादं च धनुर्वातममृताक्वाथयोगतः । इत्येवं रोगतापघ्नो रसश्चन्द्रोदयाभिधः ॥ १२.१४४ ॥ नागं वङ्गं रसं ताम्रं गन्धकं टङ्कणं तथा । विषं च नेपालं हरितालं समं तथा ॥ १२.१४५ ॥ वटक्षीरेण संमर्द्य सर्वं कुर्यात्तु गोलकम् । तं गोलकं भाण्डमध्ये पाचयेद्दीपवह्निना ॥ १२.१४६ ॥ तं गोलं शीतलं कृत्वा भृङ्गराजेन मर्दयेत् । आर्द्रकस्य रसेनापि मर्दयेच्च पुनः पुनः ॥ १२.१४७ ॥ चणप्रमाणवटकान् रसेनार्द्रस्य दापयेत् । गुञ्जाद्वयप्रमाणेन ज्वरं जीर्णं हरत्यसौ ॥ १२.१४८ ॥ हरश्च गन्धकं चैव कुनटी च समं समम् । मर्द्यं कर्कोटिकायाश्च रसेन विनियोजयेत् ॥ १२.१४९ ॥ नवज्वरमुरारिः स्याद्वल्लं शर्करया सह । तण्डुलीयरसेनानुपानं शर्करयापि वा । गुञ्जाद्वयप्रमाणेन ज्वरान्हन्ति नवान्हठात् ॥ १२.१५० ॥