रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान् । औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै ॥ १ ॥ आयुःकामयमानेन धर्मार्थसुखसाधनम् । आयुर्वेदोपदेशेषु विधेयः परमादरः ॥ २ ॥ ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिमजिग्रहत् । सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन् ॥ ३ ॥ तेऽग्निवेशादिकांस्ते तु पृथक्तन्त्राणि तेनिरे । तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः ॥ ४ ॥ क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम् । कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् ॥ ५ ॥ १.५ व् नातिसंक्षिप्तविस्तृतम् अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता । वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ॥ ६ ॥ विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च । ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः ॥ ७ ॥ १.७ व् घ्नन्ति ते वर्धयन्ति च वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात् । तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः ॥ ८ ॥ कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि । शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः ॥ ९ ॥ तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक् । समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः ॥ १० ॥ १.१० व् समधातुः समैस्तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः । पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥ ११ ॥ स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः । संसर्गः संनिपातश्च तद्द्वित्रिक्षयकोपतः ॥ १२ ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्त दूष्या मला मूत्रशकृत्स्वेदादयोऽपि च ॥ १३ ॥ वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः । रसाः स्वाद्व्अम्ललवणतिक्तोषणकषायकाः ॥ १४ ॥ षड्द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः । तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् ॥ १५ ॥ कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते । शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा ॥ १६ ॥ उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम् । त्रिधा विपाको द्रव्यस्य स्वाद्व्अम्लकटुकात्मकः ॥ १७ ॥ गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः । गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ॥ १८ ॥ कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः । सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् ॥ १९ ॥ रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता । निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः ॥ २० ॥ तेषां कायमनोभेदादधिष्ठानमपि द्विधा । रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ ॥ २१ ॥ १.२१ व्ऽत्र द्वौ दोषावुदाहृतौ दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम् । रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः ॥ २२ ॥ १.२२ व् संपरीक्षेत रोगिणम् १.२२ व् परीक्षेताथ रोगिणम् भूमिदेहप्रभेदेन देशमाहुरिह द्विधा । जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्बणम् ॥ २३ ॥ साधारणं सममलं त्रिधा भूदेशमादिशेत् । क्षणादिर्व्याध्य्अवस्था च कालो भेषजयोगकृत् ॥ २४ ॥ शोधनं शमनं चेति समासादौषधं द्विधा । शरीरजानां दोषाणां क्रमेण परमौषधम् ॥ २५ ॥ वस्तिर्विरेको वमनं तथा तैलं घृतं मधु । धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम् ॥ २६ ॥ भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं प्रत्य्एकं तच्चतुर्गुणम् ॥ २७ ॥ दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक् । बहुकल्पं बहुगुणं संपन्नं योग्यमौषधम् ॥ २८ ॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः । आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि ॥ २९ ॥ साध्योऽसाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा । सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चान्उपक्रमः ॥ २९+(१) ॥ सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः । अमर्मगोऽल्पहेत्व्अग्ररूपरूपोऽन्उपद्रवः ॥ ३० ॥ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसंपदि । ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः ॥ ३१ ॥ शस्त्रादिसाधनः कृच्छ्रः संकरे च ततो गदः । शेषत्वादायुषो याप्यः पथ्याभ्यासाद्विपर्यये ॥ ३२ ॥ अन्उपक्रम एव स्यात्स्थितोऽत्य्अन्तविपर्यये । औत्सुक्यमोहारतिकृद्दृष्टरिष्टोऽक्षनाशनः ॥ ३३ ॥ त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम् । हीनोपकरणं व्यग्रमविधेयं गतायुषम् ॥ ३४ ॥ चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम् । तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसंग्रहः ॥ ३५ ॥ आयुष्कामदिनर्त्व्ईहारोगान्उत्पादनद्रवाः । अन्नज्ञानान्नसंरक्षामात्राद्रव्यरसाश्रयाः ॥ ३६ ॥ दोषादिज्ञानतद्भेदतच्चिकित्साद्व्य्उपक्रमाः । शुद्ध्य्आदिस्नेहनस्वेदरेकास्थापननावनम् ॥ ३७ ॥ धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम् । सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ ॥ ३८ ॥ १.३८ व् सिराव्यधः शल्यविधिः सूत्रस्थानमिमेऽध्यायास्त्रिंशच्छारीरमुच्यते । गर्भावक्रान्तितद्व्यापद्अङ्गमर्मविभागिकम् ॥ ३९ ॥ विकृतिर्दूतजं षष्ठं निदानं सार्वरोगिकम् । ज्वरासृक्श्वासयक्ष्मादिमदाद्य्अर्शोऽतिसारिणाम् ॥ ४० ॥ मूत्राघातप्रमेहाणां विद्रध्य्आद्य्उदरस्य च । पाण्डुकुष्ठानिलार्तानां वातास्रस्य च षोडश ॥ ४१ ॥ चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि । वमौ मदात्ययेऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ ४२ ॥ विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु । कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ॥ ४३ ॥ द्वाविंशतिरिमेऽध्यायाः कल्पसिद्धिरतः परम् । कल्पो वमेर्विरेकस्य तत्सिद्धिर्वस्तिकल्पना ॥ ४४ ॥ सिद्धिर्वस्त्य्आपदां षष्ठो द्रव्यकल्पोऽत उत्तरम् । बालोपचारे तद्व्याधौ तद्ग्रहे द्वौ च भूतगे ॥ ४५ ॥ उन्मादेऽथ स्मृतिभ्रंशे द्वौ द्वौ वर्त्मसु संधिषु । दृक्तमोलिङ्गनाशेषु त्रयो द्वौ द्वौ च सर्वगे ॥ ४६ ॥ कर्णनासामुखशिरोव्रणे भङ्गे भगन्दरे । ग्रन्थ्य्आदौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम् ॥ ४७ ॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने । चत्वारिंशोऽन्अपत्यानामध्यायो बीजपोषणः ॥ ४८ ॥ १.४८ व् अध्यायो बीजपोषणे इत्यध्यायशतं विंशं षड्भिः स्थानैरुदीरितम् ॥ ४८ª ॥ षूत्रस्थान ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः ॥ १ ॥ अर्कन्यग्रोधखदिरकरञ्जककुभादिजम् । प्रातर्भुक्त्वा च मृद्व्अग्रं कषायकटुतिक्तकम् ॥ २ ॥ कनीन्य्अग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम् । भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन् ॥ ३ ॥ २.३ व् भक्षयेद्दन्तधवनं नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती । तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत् ॥ ४ ॥ सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत् । चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम् ॥ ५ ॥ २.५ व् विशेषाच्छ्लेष्मणो भयम् भुक्तवांश्च शिरःस्नातः श्रान्तः छर्दननावनैः । रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च ॥ ५.१+१ ॥ योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थं रसाञ्जनम् । ततो नावनगण्डूषधूमताम्बूलभाग्भवेत् ॥ ६ ॥ २.६ व् स्रावणार्थे रसाञ्जनम् ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् । विषमूर्छामदार्तानामपथ्यं शोषिणामपि ॥ ७ ॥ अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा । दृष्टिप्रसादपुष्ट्य्आयुःस्वप्नसुत्वक्त्वदार्ढ्यकृत् ॥ ८ ॥ शिरःश्रवणपादेषु तं विशेषेण शीलयेत् । वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्य्अजीर्णिभिः ॥ ९ ॥ लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः । विभक्तघनगात्रत्वं व्यायामादुपजायते ॥ १० ॥ वातपित्तामयी बालो वृद्धोऽजीर्णो च तं त्यजेत् । अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः ॥ ११ ॥ शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा । तं कृत्वानुसुखं देहं मर्दयेच्च समन्ततः ॥ १२ ॥ तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः । अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते ॥ १३ ॥ व्यायामजागराध्वस्त्रीहास्यभाष्यादिसाहसम् । गजं सिंह इवाकर्षन् भजन्नति विनश्यति ॥ १४ ॥ २.१४ व् भजन् यतोऽति नश्यति उद्वर्तनं कफहरं मेदसः प्रविलायनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ॥ १५ ॥ दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम् । कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित् ॥ १६ ॥ २.१६ व् स्नानमोजोबलप्रदम् उष्णाम्बुनाधःकायस्य परिषेको बलावहः । तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम् ॥ १७ ॥ २.१७ व् तेनैव चोत्तमाङ्गस्य २.१७ व् स एव चोत्तमाङ्गस्य २.१७ व् स एव तूत्तमाङ्गस्य स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु । आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ॥ १८ ॥ जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात् । न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम् ॥ १९ ॥ सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत् ॥ २० ॥ भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः । हिंसास्तेयान् यथाकामं पैशुन्यं परुषान्ऋते ॥ २१ ॥ संभिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम् । पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ॥ २२ ॥ अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः । आत्मवत्सततं पश्येदपि कीटपिपीलिकम् ॥ २३ ॥ अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन् । विमुखान्नार्थिनः कुर्यान्नावमन्येत नाक्षिपेत् ॥ २४ ॥ उपकारप्रधानः स्यादपकारपरेऽप्यरौ । संपद्विपत्स्वेकमना हेतावीर्ष्येत्फले न तु ॥ २५ ॥ काले हितं मितं ब्रूयादविसंवादि पेशलम् । पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः ॥ २६ ॥ नैकः सुखी न सर्वत्र विश्रब्धो न च शङ्कितः । न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम् ॥ २७ ॥ प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः । जनस्याशयमालक्ष्य यो यथा परितुष्यति ॥ २८ ॥ २.२८ व् प्रकाशयेन्नावमानं तं तथैवानुवर्तेत पराराधनपण्डितः । न पीडयेदिन्द्रियाणि न चैतान्यति लालयेत् ॥ २९ ॥ त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन् । अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम् ॥ ३० ॥ नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायनः । स्नानशीलः सुसुरभिः सुवेषोऽन्उल्बणोज्ज्वलः ॥ ३१ ॥ २.३१ व् स्नानशीलः ससुरभिः धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः । सातपत्रपदत्राणो विचरेद्युगमात्रदृक् ॥ ३२ ॥ निशि चात्ययिके कार्ये दण्डी मौली सहायवान् । चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन् ॥ ३३ ॥ नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च । नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत् ॥ ३४ ॥ संदिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत् । नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम् ॥ ३५ ॥ २.३५ व् क्षुतिं हास्यं विजृम्भणम् २.३५ व् क्षुत्हास्यं च विजृम्भणम् नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम् । नाङ्गैश्चेष्टेत विगुणं नासीतोत्कटकश्चिरम् ॥ ३६ ॥ २.३६ व् नाकस्माद्विलिखेन्महीम् २.३६ व् नासीतोत्कटकस्थितः देहवाक्चेतसां चेष्टाः प्राक्श्रमाद्विनिवर्तयेत् । नोर्ध्वजानुश्चिरं तिष्ठेन्नक्तं सेवेत न द्रुमम् ॥ ३७ ॥ तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान् । सूनाटवीशून्यगृहश्मशानानि दिवापि न ॥ ३८ ॥ असंमार्जितमादर्शमन्उपस्कृतकामिनीम् । रजस्वलां च नेक्षेत सदा प्रातरमङ्गलम् ॥ ३८+१ ॥ सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत् । नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥ ३९ ॥ मद्यविक्रयसंधानदानादानानि नाचरेत् । पुरोवातातपरजस्तुषारपरुषानिलान् ॥ ४० ॥ अन्ऋजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम् । कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः ॥ ४१ ॥ हीनान्आर्यातिनिपुणसेवां विग्रहमुत्तमैः । संध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम् ॥ ४२ ॥ शत्रुसत्त्रगणाकीर्णगणिकापणिकाशनम् । गात्रवक्त्रनखैर्वाद्यं हस्तकेशावधूननम् ॥ ४३ ॥ तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम् । मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥ ४४ ॥ आचार्यः सर्वचेष्टासु लोक एव हि धीमतः । अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः ॥ ४५ ॥ आर्द्रसंतानता त्यागः कायवाक्चेतसां दमः । स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम् ॥ ४६ ॥ नक्तन्दिनानि मे यान्ति कथम्भूतस्य संप्रति । दुःखभाङ्न भवत्येवं नित्यं संनिहितस्मृतिः ॥ ४७ ॥ एवं कृत्स्नदिनं नीत्वा रात्रौ यामे गृहे गते । देवानृषीन् गुरून् स्मृत्वा ततः शयनमाचरेत् ॥ ४७+१ ॥ २.४७+१ व् रात्रेर्यामे गते सति इत्याचारः समासेन यं प्राप्नोति समाचरन् । आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान् ॥ ४८ ॥ षूत्रस्थान मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः । शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः ॥ १ ॥ शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् । आदानं च तदादत्ते नृणां प्रतिदिनं बलम् ॥ २ ॥ तस्मिन् ह्यत्य्अर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः । आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ ३ ॥ तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात् । तस्मादादानमाग्नेयमृतवो दक्षिणायनम् ॥ ४ ॥ वर्षादयो विसर्गश्च यद्बलं विसृजत्ययम् । सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः ॥ ५ ॥ मेघवृष्ट्य्अनिलैः शीतैः शान्ततापे महीतले । स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः ॥ ६ ॥ शीतेऽग्र्यं वृष्टिघर्मेऽल्पं बलं मध्यं तु शेषयोः । बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः ॥ ७ ॥ भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरितः । अतो हिमेऽस्मिन् सेवेत स्वाद्व्अम्ललवणान् रसान् ॥ ८ ॥ दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः । अवश्यकार्यं संभाव्य यथोक्तं शीलयेदनु ॥ ९ ॥ वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् । नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥ १० ॥ ३.१० व् मूर्धतैलं विमर्दनम् कषायापहृतस्नेहस्ततः स्नातो यथाविधि । कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः ॥ ११ ॥ रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम् । गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः ॥ १२ ॥ नवमन्नं वसां तैलं शौचकार्ये सुखोदकम् । प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम् ॥ १३ ॥ ३.१३ व् प्रवेणीकुथकास्तृतम् उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत् । युक्त्यार्ककिरणान् स्वेदं पादत्राणं च सर्वदा ॥ १४ ॥ पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः । हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः ॥ १५ ॥ अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः । शीतपारुष्यजनितो न दोषो जातु जायते ॥ १६ ॥ अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः । तदा हि शीतमधिकं रौक्ष्यं चादानकालजम् ॥ १७ ॥ कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः । हत्वाग्निं कुरुते रोगानतस्तं त्वरया त्यजेत् ॥ १८ ॥ तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः । व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम् ॥ १९ ॥ स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः । पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥ २० ॥ सहकाररसोन्मिश्रानास्वाद्य प्रिययार्पितान् । प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान् ॥ २१ ॥ सौमनस्यकृतो हृद्यान् वयस्यैः सहितः पिबेत् । निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान् ॥ २२ ॥ शृङ्गवेराम्बु साराम्बु मध्व्अम्बु जलदाम्बु च । दक्षिणानिलशीतेषु परितो जलवाहिषु ॥ २३ ॥ ३.२३ व् मध्व्अम्बु जलदाम्बु वा अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु । परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु ॥ २४ ॥ ३.२४ व् अदृष्टानष्टसूर्येषु विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु । गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी ॥ २५ ॥ गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत् । तीक्ष्णांशुरतितीक्ष्णांशुर्ग्रीष्मे संक्षिपतीव यत् ॥ २६ ॥ ३.२६ व् स्नेहमर्कोऽतितीक्ष्णांशुर् प्रत्य्अहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते । अतोऽस्मिन् पटुकट्व्अम्लव्यायामार्ककरांस्त्यजेत् ॥ २७ ॥ भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम् । सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सशर्करान् ॥ २८ ॥ मद्यं न पेयं पेयं वा स्व्अल्पं सुबहुवारि वा । अन्यथा शोषशैथिल्यदाहमोहान् करोति तत् ॥ २९ ॥ ३.२९ व् अन्यथा शोफशैथिल्य कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः । पिबेद्रसं नातिघनं रसालां रागखाण्डवौ ॥ ३० ॥ ३.३० व् कुन्देन्दुधवलाञ्छालीन् ३.३० व् रसालां रागखाडवौ ३.३० व् रसालां रागषाडवौ पानकं पञ्चसारं वा नवमृद्भाजने स्थितम् । मोचचोचदलैर्युक्तं साम्लं मृन्मयशुक्तिभिः ॥ ३१ ॥ ३.३१ व्नवमृद्भाजनस्थितम् पाटलावासितं चाम्भः सकर्पूरं सुशीतलम् । शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ ३२ ॥ ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम् । अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ॥ ३३ ॥ वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु । सुगन्धिहिमपानीयसिच्यमानपटालिके ॥ ३४ ॥ कायमाने चिते चूतप्रवालफललुम्बिभिः । कदलीदलकल्हारमृणालकमलोत्पलैः ॥ ३५ ॥ कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे । मध्यन्दिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा ॥ ३६ ॥ पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि । निशाकरकराकीर्णे सौधपृष्ठे निशासु च ॥ ३७ ॥ आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः । निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ॥ ३८ ॥ जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः । उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः ॥ ३९ ॥ कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः । मनोहरकलालापाः शिशवः सारिकाः शुकाः ॥ ४० ॥ मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः । जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ ४१ ॥ आदानग्लानवपुषामग्निः सन्नोऽपि सीदति । वर्षासु दोषैर्दुष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे ॥ ४२ ॥ ३.४२ व् आदानम्लानवपुषाम् सतुषारेण मरुता सहसा शीतलेन च । भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा ॥ ४३ ॥ वह्निनैव च मन्देन तेष्वित्यन्योऽन्यदूषिषु । भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत् ॥ ४४ ॥ आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान् । जाङ्गलं पिशितं यूषान्मध्व्अरिष्टं चिरन्तनम् ॥ ४५ ॥ मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम् । दिव्यं कौपं शृतं चाम्भो भोजनं त्वतिदुर्दिने ॥ ४६ ॥ ३.४६ व् मस्तु सौवर्चलाढ्यं च व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु । अपादचारी सुरभिः सततं धूपिताम्बरः ॥ ४७ ॥ हर्म्यपृष्ठे वसेद्बाष्पशीतसीकरवर्जिते । नदीजलोदमन्थाहःस्वप्नायासातपांश्त्यजेत् ॥ ४८ ॥ वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः । तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ ४९ ॥ तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम् । तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु ॥ ५० ॥ शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम् । तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः ॥ ५१ ॥ समन्तादप्यहोरात्रमगस्त्योदयनिर्विषम् । शुचि हंसोदकं नाम निर्मलं मलजिज्जलम् ॥ ५२ ॥ नाभिष्यन्दि न वा रूक्षं पानादिष्वमृतोपमम् । चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः ॥ ५३ ॥ सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे । तुषारक्षारसौहित्यदधितैलवसातपान् ॥ ५४ ॥ तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत् । शीते वर्षासु चाद्यांस्त्रीन् वसन्तेऽन्त्यान् रसान् भजेत् ॥ ५५ ॥ स्वादुं निदाघे शरदि स्वादुतिक्तकषायकान् । शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः ॥ ५६ ॥ अन्नपानं समासेन विपरीतमतोऽन्यदा । नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ ॥ ५७ ॥ ऋत्वोरन्त्यादिसप्ताहावृतुसंधिरिति स्मृतः । तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात् ॥ ५८ ॥ ३.५८ व् ऋत्वोरन्त्यादिसप्ताहाद् असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात् ॥ ५८ª ॥ षूत्रस्थान वेगान्न धारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम् । निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम् ॥ १ ॥ अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः । वातमूत्रशकृत्सङ्गदृष्ट्य्अग्निवधहृद्गदाः ॥ २ ॥ स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च । पानानि वस्तयश्चैव शस्तं वातानुलोमनम् ॥ २+१ ॥ शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः । ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम् ॥ ३ ॥ ४.३ व् ऊर्ध्वं वायुः परीकर्तो मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः । अङ्गभङ्गाश्मरीवस्तिमेढ्रवङ्क्षणवेदनाः ॥ ४ ॥ मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तद्औषधम् । वर्त्य्अभ्यङ्गावगाहाश्च स्वेदनं वस्तिकर्म च ॥ ५ ॥ अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु । मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम् ॥ ६ ॥ ४.६ व् मूत्रजेषु च पानं तु ४.६ व् मूत्रजेषु प्रयुञ्जीत ४.६ व् सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम् । अवपीडकमेतच्च संज्ञितं धारणात्पुनः ॥ ७ ॥ उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः । आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम् ॥ ८ ॥ शिरोऽर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः । तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः ॥ ९ ॥ प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत् । शोषाङ्गसादबाधिर्यसंमोहभ्रमहृद्गदाः ॥ १० ॥ तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः । अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः ॥ ११ ॥ ४.११ व् कार्श्यशूलश्रमभ्रमाः तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम् । निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः ॥ १२ ॥ ४.१२ व् वैवर्ण्यं च क्षुधस्तत्र ४.१२ व् स्निग्धोष्णं लघु भोजनम् अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च । कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृद्आमयाः ॥ १३ ॥ शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः । गुल्महृद्रोगसंमोहाः श्रमश्वासाद्विधारितात् ॥ १४ ॥ ४.१४ व् श्रमश्वासाविधारणात् हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः । जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः ॥ १५ ॥ ४.१५ च् जृम्भायाः क्षुतिवद्रोगाः पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः । सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः ॥ १६ ॥ विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्व्आमयज्वराः । सकासश्वासहृल्लासव्यङ्गश्वयथवो वमेः ॥ १७ ॥ गण्डूषधूमान्आहारा रूक्षं भुक्त्वा तद्उद्वमः । व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम् ॥ १८ ॥ ४.१८ व् गण्डूषधूमान्आहारं ४.१८ व् गण्डूषधूमान्आहारान् ४.१८ व् रूक्षं भुक्त्वा तदुद्वमेत् ४.१८ व् रूक्षान् भुक्त्वा तदुद्वमेत् सक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते । शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः ॥ १९ ॥ ४.१९ व् अभ्यङ्गार्थे च शस्यते हृद्व्यथामूत्रसङ्गाङ्गभङ्गवृद्ध्य्अश्मषण्ढताः । ताम्रचूडसुराशालिवस्त्य्अभ्यङ्गावगाहनम् ॥ २० ॥ वस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्त्रियः । तृट्शूलार्तं त्यजेत्क्षीणं विड्वमं वेगरोधिनम् ॥ २१ ॥ रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः । निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥ ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति । अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम् ॥ २३ ॥ धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च । लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः ॥ २४ ॥ यतेत च यथाकालं मलानां शोधनं प्रति । अत्य्अर्थसंचितास्ते हि क्रुद्धाः स्युर्जीवितच्छिदः ॥ २५ ॥ दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः । ये तु संशोधनैः शुद्धा न तेषां पुनर्उद्भवः ॥ २६ ॥ ४.२६ व् ये तु संशोधनैः शुद्धास् ४.२६ व् तेषां न पुनर्उद्भवःच यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत् । रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् ॥ २७ ॥ ४.२७ व्यथाक्रमं यथायोग्यम् भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात् । शालिषष्टिकगोधूममुद्गमांसघृतादिभिः ॥ २८ ॥ ४.२८ व् मुद्गमांसरसादिभिः हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः । साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहवस्तिभिः ॥ २९ ॥ तथा स लभते शर्म सर्वपावकपाटवम् । धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः ॥ ३० ॥ ये भूतविषवाय्व्अग्निक्षतभङ्गादिसंभवाः । रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः ॥ ३१ ॥ ४.३१ व् कामक्रोधभायाद्याश् त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः । देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम् ॥ ३२ ॥ अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम् । भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक्पृथक् ॥ ३३ ॥ अन्उत्पत्त्यै समासेन विधिरेष प्रदर्शितः । निजागन्तुविकाराणामुत्पन्नानां च शान्तये ॥ ३४ ॥ ४.३४ व् अन्उत्पत्तौ समासेन शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले । घनात्यये वार्षिकमाशु सम्यक्प्राप्नोति रोगानृतुजान्न जातु ॥ ३५ ॥ नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः । दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः ॥ ३६ ॥ षूत्रस्थान जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम् । तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम् ॥ १ ॥ गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः । हिताहितत्वे तद्भूयो देशकालावपेक्षते ॥ २ ॥ येनाभिवृष्टममलं शाल्य्अन्नं राजते स्थितम् । अक्लिन्नमविवर्णं च तत्पेयं गाङ्गमन्यथा ॥ ३ ॥ ५.३ व् शाल्य्अन्नं राजतस्थितम् ५.३ व् अक्लिन्नमविवर्णं स्यात् ५.३ व् अक्लिन्नमविवर्णं वा ५.३ व् तत्तोयं गाङ्गमन्यथा सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना । ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत् ॥ ४ ॥ तद्अभावे च भूमिष्ठमान्तरिक्षानुकारि यत् । शुचिपृथ्व्असितश्वेते देशेऽर्कपवनाहतम् ॥ ५ ॥ ५.५ व् तद्अभावे च भूयिष्ठम् ५.५ व् तद्अभावे पिबेद्भौमम् न पिबेत्पङ्कशैवालतृणपर्णाविलास्तृतम् । सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु ॥ ६ ॥ फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः । अन्आर्तवं च यद्दिव्यमार्तवं प्रथमं च यत् ॥ ७ ॥ लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम् । पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ॥ ८ ॥ पथ्याः समासात्ता नद्यो विपरीतास्त्वतोऽन्यथा । उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ॥ ९ ॥ ५.९ व् पथ्याः समासतो नद्यो हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः । कृमिश्लीपदहृत्कण्थशिरोरोगान् प्रकुर्वते ॥ १० ॥ प्राच्यावन्त्य्अपरान्तोत्था दुर्नामानि महेन्द्रजाः । उदरश्लीपदातङ्कान् सह्यविन्ध्योद्भवाः पुनः ॥ ११ ॥ ५.११ व् सह्यविन्ध्यभवाः पुनः कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः । बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत् ॥ १२ ॥ ५.१२ व् सागराम्बु त्रिदोषकृत् आविलं समलं नीलं घनं पीतमथापि च । सक्षारं पिच्छिलं चैव सामुद्रं तन्निगद्यते ॥ १२+१ ॥ विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः । नाम्बु पेयमशक्त्या वा स्व्अल्पमल्पाग्निगुल्मिभिः ॥ १३ ॥ पाण्डूदरातिसारार्शोग्रहणीशोषशोथिभिः । ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः ॥ १४ ॥ ५.१४ व् ग्रहणीदोषशोथिभिः समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः । शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान् ॥ १५ ॥ ५.१५ व् समस्थूलकृशा भक्त तृष्णोष्णदाहपित्तास्रविषाण्यम्बु नियच्छति । दीपनं पाचनं कण्ठ्यं लघूष्णं वस्तिशोधनम् ॥ १६ ॥ ५.१६ व् तृष्णोष्मदाहपित्तास्र हिध्माध्मानानिलश्लेष्मसद्यःशुद्धिनवज्वरे । कासामपीनसश्वासपार्श्वरुक्षु च शस्यते ॥ १७ ॥ ५.१७ व् सद्यःशुद्धे नवज्वरे अन्अभिष्यन्दि लघु च तोयं क्वथितशीतलम् । पित्तयुक्ते हितं दोषे व्युषितं तत्त्रिदोषकृत् ॥ १८ ॥ ५.१८ व् रूक्षमन्अभिष्यन्दि ५.१८ व् लघु क्वथितशीतलम् ५.१८ व् ऽध्युषितं तत्त्रिदोषकृत् नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु । तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥ १९ ॥ वर्षासु दिव्यनादेये परं तोये वरावरे । स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम् ॥ २० ॥ वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् । प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम् ॥ २१ ॥ क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम् । श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः ॥ २२ ॥ ५.२२ व् श्वासकासार्तितृट्क्षुधः ५ .२२ व् श्वासकासाधितृट्क्षुधः जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत् । हितमत्य्अग्न्य्अनिद्रेभ्यो गरीयो माहिषं हिमम् ॥ २३ ॥ अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु । आजं शोषज्वरश्वासरक्तपित्तातिसारजित् ॥ २४ ॥ ईषद्रूक्षोष्णलवणमौष्ट्राकं दीपनं लघु । शस्तं वातकफानाहकृमिशोफोदरार्शसाम् ॥ २५ ॥ मानुषं वातपित्तासृग्अभिघाताक्षिरोगजित् । तर्पणाश्च्योतनैर्नस्यैरहृद्यं तूष्णमाविकम् ॥ २६ ॥ वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम् । हस्तिन्याः स्थैर्यकृद्बाढमुष्णं त्वैकशफं लघु ॥ २७ ॥ शाखावातहरं साम्ललवणं जडताकरम् । पयोऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा ॥ २८ ॥ विना तु वनितास्तन्यमाममेव हितं हि तत् ॥ २८+१ ब् ॥ भवेद्गरीयोऽतिशृतं धारोष्णममृतोपमम् । अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित् ॥ २९ ॥ मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत् । रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ॥ ३० ॥ पीनसे मूत्रकृच्छ्रे च रूक्षं तु ग्रहणीगदे । नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न ॥ ३१ ॥ ५.३१ व् शरद्ग्रीष्मवसन्तेषु ५.३१ व्नाद्यान्नोष्णं न रात्रिषु नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम् । न चान्आमलकं नापि नित्यं नो मन्दमन्यथा ॥ ३२ ॥ ज्वरासृक्पित्तवीसर्पकुष्ठपाण्डुभ्रमप्रदम् । तक्रं लघु कषायाम्लं दीपनं कफवातजित् ॥ ३३ ॥ शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः । प्लीहगुल्मघृतव्यापद्गरपाण्ड्व्आमयाञ्जयेत् ॥ ३४ ॥ तद्वन्मस्तु सरं स्रोतःशोधि विष्टम्भजिल्लघु । नवनीतं नवं वृष्यं शीतं वर्णबलाग्निकृत् ॥ ३५ ॥ संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासजित् । क्षीरोद्भवं तु संग्राहि रक्तपित्ताक्षिरोगजित् ॥ ३६ ॥ शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम् । बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम् ॥ ३७ ॥ क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् । वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥ ३८ ॥ स्नेहानामुत्तमं शीतं वयसः स्थापनं परम् । सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत् ॥ ३९ ॥ ५.३९ व् सहस्रवीर्यं विधिवद् मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान् । पुराणं जयति व्याधीन् व्रणशोधनरोपणम् ॥ ४० ॥ बल्याः किलाटपीयूषकूर्चिकामोरणादयः । शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः ॥ ४१ ॥ ५.४१ व् कूचिकामोरणादयः गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसंभवे । इक्षोः सरो गुरुः स्निग्धो बृंहणः कफमूत्रकृत् ॥ ४२ ॥ वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः । सोऽग्रे सलवणो दन्तपीडितः शर्करासमः ॥ ४३ ॥ मूलाग्रजन्तुजग्धादिपीडनान्मलसंकरात् । किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ ४४ ॥ ५.४४ व् किञ्चित्कालविधृत्या च विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः । शैत्यप्रसादमाधुर्यैर्वरस्तमनु वांशिकः ॥ ४५ ॥ ५.४५ व् गुरुर्विदाही विष्टम्भी शतपर्वककान्तारनैपालाद्यास्ततः क्रमात् । सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः ॥ ४६ ॥ ५.४६ व् शातपर्वककान्तार ५.४६ व् नेपालाद्यास्ततः क्रमात् फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् । नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद्गुडः ॥ ४७ ॥ प्रभूतकृमिमज्जासृङ्मेदोमांसकफोऽपरः । हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत् ॥ ४८ ॥ वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः । मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः ॥ ४९ ॥ तद्गुणा तिक्तमधुरा कषाया यासशर्करा । दाहतृट्छर्दिमूर्छासृक्पित्तघ्न्यः सर्वशर्कराः ॥ ५० ॥ शर्करेक्षुविकाराणां फाणितं च वरावरे । चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत् ॥ ५१ ॥ मेहकुष्ठकृमिच्छर्दिश्वासकासातिसारजित् । व्रणशोधनसंधानरोपणं वातलं मधु ॥ ५२ ॥ रूक्षं कषायमधुरं तत्तुल्या मधुशर्करा । उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत् ॥ ५३ ॥ यक्ष्मार्शोऽर्दितपित्तासृङ्नाशनं ग्राहि दीपनम् ॥ ५३.१+१ ॥ प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते । अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते ॥ ५४ ॥ ५.५४ व् अलब्धपाकमेवाशु तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च । त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च ॥ ५५ ॥ कृशानां बृंहणायालं स्थूलानां कर्शनाय च । बद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित् ॥ ५६ ॥ ५.५६ व् संस्कारात्सर्वदोषजित् सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु । वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम् ॥ ५७ ॥ रुक्शोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ॥ ५८ ॥ कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम् । लघु पित्तास्रकृत्कोठकुष्ठार्शोव्रणजन्तुजित् ॥ ५९ ॥ आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । नात्य्उष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत् ॥ ६० ॥ उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत् । वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ ॥ ६१ ॥ कषायतिक्तकटुकं कारञ्जं व्रणशोधनम् ॥ ६१.१+१ ॥ मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव । दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम् ॥ ६२ ॥ सस्वादुतिक्तकटुकमम्लपाकरसं सरम् । सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ॥ ६३ ॥ नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् । कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ॥ ६४ ॥ वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा । गुरु तद्दोषजननं नवं जीर्णमतोऽन्यथा ॥ ६५ ॥ द्राक्षेक्षवः सखर्जूराः शालिपिष्टं यवस्य च । पञ्च मद्याकाराः श्रेष्ठा द्राक्षा तेषां विशिष्यते ॥ ६५.१+१ ॥ ५.६५.१+१ व् शालेः पिष्टं यवस्य च पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः । नात्य्अर्थतीक्ष्णमृद्व्अल्पसंभारं कलुषं न च ॥ ६६ ॥ गुल्मोदरार्शोग्रहणीशोषहृत्स्नेहनी गुरुः । सुरानिलघ्नी मेदोऽसृक्स्तन्यमूत्रकफावहा ॥ ६७ ॥ तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च । शूलकासवमिश्वासविबन्धाध्मानपीनसान् ॥ ६८ ॥ नातितीव्रमदा लघ्वी पथ्या वैभीतकी सुरा । व्रणे पाण्ड्व्आमये कुष्ठे न चात्य्अर्थं विरुध्यते ॥ ६९ ॥ विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला । यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः ॥ ७० ॥ ग्रहणीपाण्डुकुष्ठार्शःशोफशोषोदरज्वरान् । हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः ॥ ७१ ॥ ५.७१ व् कषायः कटुवातलः मार्द्वीकं लेखनं हृद्यं नात्य्उष्णं मधुरं सरम् । अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम् ॥ ७२ ॥ अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु । शार्करः सुरभिः स्वादुहृद्यो नातिमदो लघुः ॥ ७३ ॥ ५.७३ व् शार्करं सुरभि स्वादु ५.७३ व् हृद्यं नातिमदं लघु सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः । वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा ॥ ७४ ॥ मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः । छेदी मध्व्आसवस्तीक्ष्णो मेहपीनसकासजित् ॥ ७५ ॥ रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम् । भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम् ॥ ७६ ॥ ५.७६ व् हृद्यं रुचिकरं परम् दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम् । गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम् ॥ ७७ ॥ ५.७७ व् पाण्डुहृत्कृमिनाशनम् ५.७७ व् गुडेक्षुमद्यमाध्वीक कन्दमूलफलाद्यं च तद्वद्विद्यात्तद्आसुतम् । शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु ॥ ७८ ॥ धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम् । श्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥ ७९ ॥ शस्तमास्थापने हृद्यं लघु वातकफापहम् । एभिरेव गुणैर्युक्ते सौवीरकतुषोदके ॥ ८० ॥ गण्डूषधारणाद्वक्त्रमलदौर्गन्ध्यशोषजित् ॥ ८०.१+१ ॥ कृमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे । ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते ॥ ८१ ॥ ५.८१ व् कृमिहृद्रोगगुल्मार्शो ५.८१ व् ग्रहणीपाण्डुनाशने मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥ ८२ ॥ कृमिशोफोदरानाहशूलपाण्डुकफानिलान् । गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥ ८३ ॥ ५.८३ व् शूलपाण्डुकफामयान् तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात् । इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः ॥ ८४ ॥ षूत्रस्थान रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः । सारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥ १ ॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ । काञ्चनो महिषः शूकः दूषकः कुसुमाण्डकः ॥ २ ॥ ६.२ व् पाण्डुकः पुण्डरीकश्च ६.२ व् पौण्ड्रकः पुण्डरीकश्च ६.२ व् प्रमोदो गौरशालिकः लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः । पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः ॥ ३ ॥ ६.३ व् जाङ्गला लोहवालाख्याः ६.३ व् लाङ्गला लोहवालाश्च ६.३ व् लाङ्गलो लोहवालाख्यः ६.३ व् कर्दमः शीतभीरुकः स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः । कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ॥ ४ ॥ शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा । महांस्तमनु कलमस्तं चाप्यनु ततः परे ॥ ५ ॥ ६.५ व् महांस्तस्यानु कलमस् यवका हायनाः पांसुबाष्पनैषधकादयः । स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः ॥ ६ ॥ ६.६ व् वाप्यनैषधकादयः सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः । स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः ॥ ७ ॥ षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः । ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः ॥ ८ ॥ कुक्कुटाण्डकलावाख्यपारावतकशूकराः । वरकोद्दालकोज्ज्वालचीनशारददर्दुराः ॥ ९ ॥ ६.९ व् कुक्कुटाण्डकपालाक्ष ६.९ व् कुक्कुटाण्डकपालाख्य ६.९ व् कुक्कुटाण्डकलावाक्ष ६.९ व् चीनशारददुर्दराः गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः । स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः ॥ १० ॥ बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः । कङ्गुकोद्रवनीवारश्यामाकादि हिमं लघु ॥ ११ ॥ तृणधान्यं पवनकृल्लेखनं कफपित्तहृत् । भग्नसंधानकृत्तत्र प्रियङ्गुर्बृंहणी गुरुः ॥ १२ ॥ कोरदूषः परं ग्राही स्पर्शो शीतो विषापहः । रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः ॥ १३ ॥ ६.१३ व् स्पर्शो शीतो गरापहः ६.१३ व् स्पर्शशीतो विषापहः वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ्जयेत् । पीनसश्वासकासोरुस्तम्भकण्ठत्वग्आमयान् ॥ १४ ॥ न्यूनो यवादनुयवो रूक्षोष्णो वंशजो यवः । वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ॥ १५ ॥ ६.१५ व् न्यूनो यावदन्ययवो संधानकारी मधुरो गोधूमः स्थैर्यकृत्सरः । पथ्या नन्दीमुखी शीता कषायमधुरा लघुः ॥ १६ ॥ निःसारा वातला रूक्षा जूर्णाध्मानकरा सरा ॥ १६+१ ॥ मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत् । कषायं स्वादु संग्राहि कटुपाकं हिमं लघु ॥ १७ ॥ मेदःश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः । वरोऽत्र मुद्गोऽल्पचलः कलायस्त्वतिवातलः ॥ १८ ॥ असृक्पित्तहरो रूक्षो वातलश्चणकः स्मृतः ॥ १८.१+१ ॥ राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः । उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान् ॥ १९ ॥ कासार्शःकफवातांश्च घ्नन्ति पित्तास्रदाः परम् । निष्पावो वातपित्तास्रस्तन्यमूत्रकरो गुरुः ॥ २० ॥ ६.२० व् निष्पावो वातपित्तासृक् सरो विदाही दृक्शुक्रकफशोफविषापहः । माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः ॥ २१ ॥ गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत् । फलानि माषवद्विद्यात्काकाण्डोलात्मगुप्तयोः ॥ २२ ॥ उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः । अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत् ॥ २३ ॥ ६.२३ व् उष्णस्त्वच्यो हिमस्पर्शः स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः । दृक्शुक्रहृत्कटुः पाके तद्वद्बीजं कुसुम्भजम् ॥ २४ ॥ माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च । नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ॥ २५ ॥ ६.२५ व् यवकः शूकजेष्वपि ६.२५ व् लघु वर्षोषितं च यत् शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम् । मण्डपेयाविलेपीनामोदनस्य च लाघवम् ॥ २६ ॥ यवगोधूममाषाश्च तिलाश्चाभिनवा हिताः । पुराणा विरसाः सूक्ष्मा न तथार्थकरा मताः ॥ २६.१+१ ॥ यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः । तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् ॥ २७ ॥ स्रोतोमार्दवकृत्स्वेदी संधुक्षयति चानलम् । क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ २८ ॥ मलानुलोमनी पथ्या पेया दीपनपाचनी । विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ॥ २९ ॥ व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् । सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः ॥ ३० ॥ यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः । विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः ॥ ३१ ॥ ६.३१ व् यश्चाग्नेयौषधक्वाथे ६.३१ व् साधितो भृष्टतण्डुलैः इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत् । बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः ॥ ३२ ॥ मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम् । वातानुलोमी कौलत्थो गुल्मतूणीप्रतूणिजित् ॥ ३३ ॥ अकृतं कृतयूषं च तनु संस्कारितं रसम् । सूपमम्लमन्अम्लं च गुरु विद्याद्यथोत्तरम् ॥ ३३+१ ॥ तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् । शाण्डाकीवटकं दृङ्घ्नं दोषलं ग्लपनं गुरु ॥ ३४ ॥ रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा । श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ॥ ३५ ॥ विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत् । लाजास्तृट्छर्द्य्अतीसारमेहमेदःकफच्छिदः ॥ ३६ ॥ कासपित्तोपशमना दीपना लघवो हिमाः । पृथुका गुरवो बल्याः कफविष्टम्भकारिणः ॥ ३७ ॥ धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः । सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान् ॥ ३८ ॥ ६.३८ व् श्रमनेत्रगलामयान् घ्नन्ति संतर्पणाः पानात्सद्य एव बलप्रदाः । नोदकान्तरितान्न द्विर्न निशायां न केवलान् ॥ ३९ ॥ न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून् । पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ॥ ४० ॥ रौक्ष्याद्विष्टम्भते कोष्ठे विष्टम्भित्वाद्विदह्यते । विदाहात्कुरुते ग्लानिं पिण्याको निशि सेवितः ॥ ४०+१ ॥ वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः । मुद्गादिजास्तु गुरवो यथाद्रव्यगुणानुगाः ॥ ४१ ॥ कुकूलकर्परभ्राष्ट्रकन्द्व्अङ्गारविपाचितान् । एकयोनीÀ लघून् विद्यादपूपानुत्तरोत्तरम् ॥ ४२ ॥ ६.४२ व् कुकूलखर्परभ्राष्ट्र ६.४२ व् कट्व्अङ्गारविपाचितान् ६.४२ व् अपूपांस्तु यथोत्तरम् हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः । शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः ॥ ४३ ॥ लाववार्तीकवर्तीररक्तवर्त्मककुक्कुभाः । कपिञ्जलोपचक्राख्यचकोरकुरुबाहवः ॥ ४४ ॥ ६.४४ व् रक्तवर्त्मककुर्कुभाः वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी । ताम्रचूडाख्यबकरगोनर्दगिरिवर्तिकाः ॥ ४५ ॥ ६.४५ व् कुक्कुटो बकरः कङ्क ६.४५ व् ताम्रचूडाख्यवरक तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः । जीवञ्जीवकदात्यूहभृङ्गाह्वशुकसारिकाः ॥ ४६ ॥ ६.४६ व् वारटाद्याश्च विष्किराः ६.४६ व् वारटाश्चेति विष्किराः ६.४६ व् वरटाश् चेति विष्किराः लट्वाकोकिलहारीतकपोतचटकादयः । प्रतुदा भेकगोधाहिश्वाविद्आद्या बिलेशयाः ॥ ४७ ॥ गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः । मार्जारमूषकव्याघ्रवृकबभ्रुतरक्षवः ॥ ४८ ॥ लोपाकजम्बुकश्येनचाषवान्तादवायसाः । शशघ्नीभासकुररगृध्रोलूककुलिङ्गकाः ॥ ४९ ॥ ६.४९ व् शशारिभासकुरर धूमिका मधुहा चेति प्रसहा मृगपक्षिणः । वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ५० ॥ सृमरश्चमरः खड्गो गवयश्च महामृगाः । हंससारसकादम्बबककारण्डवप्लवाः ॥ ५१ ॥ बलाकोत्क्रोशचक्राह्वमद्गुक्रौञ्चादयोऽप्चराः । मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः ॥ ५२ ॥ शुक्तिशङ्खोद्रशम्बूकशफरीवर्मिचन्द्रिकाः । चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः ॥ ५३ ॥ ६.५३ व् शुक्तिशङ्खोद्रुशम्बूक ६.५३ व् चुल्लकीनक्रमकर राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा । योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते ॥ ५४ ॥ मृग्यं वैष्किरिकं किं च प्रातुदं च बिलेशयम् । प्रासहं च महामृग्यमप्चरं मात्स्यमष्टधा ॥ ५४.१+१ ॥ आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ । तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः ॥ ५५ ॥ पित्तोत्तरे वातमध्ये संनिपाते कफानुगे । दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ॥ ५६ ॥ ईषद्उष्णगुरुस्निग्धा बृंहणा वर्तकादयः । तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत् ॥ ५७ ॥ ग्राही वर्ण्योऽनिलोद्रिक्तसंनिपातहरः परम् । नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम् ॥ ५८ ॥ तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः । मेधानलकरा हृद्याः क्रकराः सोपचक्रकाः ॥ ५९ ॥ गुरुः सलवणः काणकपोतः सर्वदोषकृत् । चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् ॥ ६० ॥ ६.६० व् वातघ्नाः शुक्रलाः भृशम् गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् । मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः ॥ ६१ ॥ शीता महामृगास्तेषु क्रव्यादप्रसहाः पुनः । लवणानुरसाः पाके कटुका मांसवर्धनाः ॥ ६२ ॥ ६.६२ व् क्रव्यादाः प्रसहाः पुनः जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः । नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् ॥ ६३ ॥ ६.६३ व् नातिशीतं गुरु स्निग्धं शरीरधातुसामान्यादन्अभिष्यन्दि बृंहणम् । विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत् ॥ ६४ ॥ शुष्ककासश्रमात्य्अग्निविषमज्वरपीनसान् । कार्श्यं केवलवातांश्च गोमांसं संनियच्छति ॥ ६५ ॥ उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत् । तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः ॥ ६६ ॥ मत्स्याः परं कफकराश्चिलिचीमस्त्रिदोषकृत् । लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम् ॥ ६७ ॥ मत्स्यादिपक्षिणां चैव गुरूण्यण्डानि चादिशेत् । तानि स्निग्धानि वृष्याणि स्वादुपाकरसानि च ॥ ६७.१+१ ॥ ६.६७.१+१ व् गुरूण्यण्डान्यतो दिशेत् ६.६७.१+१ व्गुरूण्यण्डानि चान्यतो मांसं सद्योहतं शुद्धं वयःस्थं च भजेत्त्यजेत् । मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम् ॥ ६८ ॥ पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः । लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान् ॥ ६९ ॥ शिरःस्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम् । तथामपक्वाशययोर्यथापूर्वं विनिर्दिशेत् ॥ ७० ॥ शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम् । मांसाद्गरीयो वृषणमेढ्रवृक्कयकृद्गुदम् ॥ ७१ ॥ शाकं पाठाशठीसूषासुनिषण्णसतीनजम् । त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम् ॥ ७२ ॥ ६.७२ व् शाकं पाठाशठीशूषा सुनिषण्णोऽग्निकृद्वृष्यस्तेषु राजक्षवः परम् । ग्रहण्य्अर्शोविकारघ्नो वर्चोभेदि तु वास्तुकम् ॥ ७३ ॥ हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी । काकमाची सरा स्वर्या चाङ्गेर्यम्लाग्निदीपनी ॥ ७४ ॥ ६.७४ व् वृष्या सोष्णा रसायनम् ग्रहण्य्अर्शोऽनिलश्लेष्मन्हितोष्णा ग्राहिणी लघुः । पटोलसप्तलारिष्टशार्ङ्गष्टावल्गुजामृताः ॥ ७५ ॥ ६.७५ व् पटोलं सप्तलारिष्ट वेत्राग्रबृहतीवासाकुतिलीतिलपर्णिकाः । मण्डूकपर्णीकर्कोटकारवेल्लकपर्पटाः ॥ ७६ ॥ ६.७६ व् वेत्राग्रं बृहतीवासा ६.७६ व् कुन्तिलीतिलपर्णिकाः ६.७६ व् कुन्तलीतिलपर्णिकाः नाडीकलायगोजिह्वावार्ताकं वनतिक्तकम् । करीरं कुलकं नन्दी कुचैला शकुलादनी ॥ ७७ ॥ कठिल्लं केम्बुकं शीतं सकोशातककर्कशम् । तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित् ॥ ७८ ॥ ६.७८ व् कठिल्लकेम्बुकं शीतं हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम् । पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम् ॥ ७९ ॥ वृषं तु वमिकासघ्नं रक्तपित्तहरं परम् । कारवेल्लं सकटुकं दीपनं कफजित्परम् ॥ ८० ॥ वार्ताकं कटुतिक्तोष्णं मधुरं कफवातजित् । सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम् ॥ ८१ ॥ करीरमाध्मानकरं कषायं स्वादु तिक्तकम् । कोशातकावल्गुजकौ भेदिनावग्निदीपनौ ॥ ८२ ॥ ६.८२ व् भेदनावग्निदीपनौ तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः । मदपित्तविषास्रघ्नो मुञ्जातं वातपित्तजित् ॥ ८३ ॥ स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम् । गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्युपोदका ॥ ८४ ॥ पालङ्क्यावत्स्मृतश्चञ्चुः स तु संग्रहणात्मकः । विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला ॥ ८५ ॥ ६.८५ व् पालङ्क्यावत्स्मृतश्चुच्चुः ६.८५ व् पालङ्क्यावत्स्मृतश्चुञ्चुः जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् । चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ॥ ८६ ॥ कूष्माण्डतुम्बकालिङ्गकर्कार्व्एर्वारुतिण्डिशम् । तथा त्रपुसचीनाकचिर्भटं कफवातकृत् ॥ ८७ ॥ भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु । वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित् ॥ ८८ ॥ वस्तिशुद्धिकरं वृष्यं त्रपुसं त्वतिमूत्रलम् । तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम् ॥ ८९ ॥ बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा । शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित् ॥ ९० ॥ रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु । मृणालबिसशालूककुमुदोत्पलकन्दकम् ॥ ९१ ॥ नन्दीमाषककेलूटशृङ्गाटककसेरुकम् । क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥ ९२ ॥ कदम्बनालिकामार्षकुटिञ्जरकुतुम्बकम् । चिल्लीलट्वाकलोणीकाकुरूटकगवेधुकम् ॥ ९३ ॥ ६.९३ व् कलम्बुनालिकामार्ष ६.९३ व् कुटिञ्जरकुरुम्बकम् ६.९३ व् कुलिञ्जरकुरुम्बकम् ६.९३ व् कुरूढकगवेधुकाः ६.९३ व् कुरण्टकगवेधुकाः ६.९३ व् कुरण्टकगवेधुकम् जीवन्तझुञ्झ्व्एडगजयवशाकसुवर्चलाः । आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥ ९४ ॥ ६.९४ व् यवशाकसुवर्चलम् ६.९४ व् तथा सूप्यानि लाक्ष्मणम् ६.९४ व् तथा सूप्यानि लक्ष्मणा स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु । शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति ॥ ९५ ॥ स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम् । लघुपत्त्रा तु या चिल्ली सा वास्तुकसमा मता ॥ ९६ ॥ तर्कारीवरुणं स्वादु सतिक्तं कफवातजित् । वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम् ॥ ९७ ॥ ६.९७ व् तर्कारीवरणं स्वादु दीपनं भेदनं हन्ति गरशोफकफानिलान् । दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः ॥ ९८ ॥ संग्राहि शाल्मलीपुष्पं पित्तास्रघ्नं विशेषतः ॥ ९८.१+१ ॥ शतावर्य्अङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः । रूक्षो वंशकरीरस्तु विदाही वातपित्तलः ॥ ९९ ॥ पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित् । कृमिकासकफोत्क्लेदान् कासमर्दो जयेत्सरः ॥ १०० ॥ रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम् । गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत् ॥ १०१ ॥ यद्बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम् । तन्मूलकं दोषहरं लघु सोष्णं नियच्छति ॥ १०२ ॥ गुल्मकासक्षयश्वासव्रणनेत्रगलामयान् । स्वराग्निसादोदावर्तपीनसांश्च महत्पुनः ॥ १०३ ॥ रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत् । गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित् ॥ १०४ ॥ ६.१०४ व् स्विन्नं तदपि वातजित् वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम् । कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः ॥ १०५ ॥ कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणम् । फणिज्जार्जकजम्बीरप्रभृति ग्राहि शालनम् ॥ १०६ ॥ विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम् । दृक्शुक्रकृमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु ॥ १०७ ॥ हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा । सुरसः सुमुखो नातिविदाही गरशोफहा ॥ १०८ ॥ ६.१०८ व् हिध्माकासवमिश्वास ६.१०८ व् हिध्माकासश्रमश्वास आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत् । लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः ॥ १०९ ॥ हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः । भग्नसंधानकृद्बल्यो रक्तपित्तप्रदूषणः ॥ ११० ॥ ६.११० व् स्निग्धो दीपनपाचनः किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् । सहिध्मापीनसश्वासकासान् हन्ति रसायनम् ॥ १११ ॥ ६.१११ व् कासान् हन्त्यस्रपित्तकृत् पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः । कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतौ तथा ॥ ११२ ॥ तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हितकृन्न सः । दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः ॥ ११३ ॥ विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः । पत्त्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात् ॥ ११४ ॥ ६.११४ व् पुष्पे पत्त्रे फले नाले वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम् । द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट् ॥ ११५ ॥ ६.११५ व् सार्षपस्त्ववरः परम् ६.११५ व् सर्षपास्त्ववराः परम् स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः । निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान् ॥ ११६ ॥ ६.११६ व् निहन्त्यनिलपित्तासृक् तृष्णाकासश्रमश्वासस्वरभेदक्षतक्षयान् । उद्रिक्तपित्ताञ्जयति त्रीन् दोषान् स्वादु दाडिमम् ॥ ११७ ॥ पित्ताविरोधि नात्य्उष्णमम्लं वातकफापहम् । सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम् ॥ ११८ ॥ मोचखर्जूरपनसनारिकेलपरूषकम् । आम्राततालकाश्मर्यराजादनमधूकजम् ॥ ११९ ॥ सौवीरबदराङ्कोल्लफल्गुश्लेष्मातकोद्भवम् । वातामाभिषुकाक्षोटमुकूलकनिकोचकम् ॥ १२० ॥ उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् । दाहक्षतक्षयहरं रक्तपित्तप्रसादनम् ॥ १२१ ॥ स्वादुपाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत् । फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम् ॥ १२२ ॥ ६.१२२ व् श्लेष्मलं वातपित्तजित् शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम् । वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम् ॥ १२३ ॥ परं वातहरं स्निग्धमन्उष्णं तु प्रियालजम् । प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः ॥ १२४ ॥ कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः । पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम् ॥ १२५ ॥ दीपनं कफवातघ्नं बालं ग्राह्युभयं च तत् । कपित्थमामं कण्ठघ्नं दोषलं दोषघाति तु ॥ १२६ ॥ ६.१२६ व् बालं ग्राह्युभयं तु तत् पक्वं हिध्मावमथुजित्सर्वं ग्राहि विषापहम् । जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम् ॥ १२७ ॥ संग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित् । वातपित्तास्रकृद्बालं बद्धास्थि कफपित्तकृत् ॥ १२८ ॥ ६.१२८ व् अकण्ठ्यं कफपित्तनुत् गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत् । वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु ॥ १२९ ॥ तृष्णाघ्नमुष्णमम्लायाः फलं पित्तकरं सरम् ॥ १२९.१+१ ॥ शम्या गुरूष्णं केशघ्नं रूक्षं पीलु तु पित्तलम् । कफवातहरं भेदि प्लीहार्शःकृमिगुल्मनुत् ॥ १३० ॥ सतिक्तं स्वादु यत्पीलु नात्य्उष्णं तत्त्रिदोषजित् । त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित् ॥ १३१ ॥ बृंहणं मधुरं मांसं वातपित्तहरं गुरु । लघु तत्केसरं कासश्वासहिध्मामदात्ययान् ॥ १३२ ॥ आस्यशोषानिलश्लेष्मविबन्धच्छर्द्य्अरोचकान् । गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत् ॥ १३३ ॥ मधुरं किञ्चिदम्लं च हृद्यं भक्तप्ररोचकम् । गुरु वातप्रशमनं विद्यान्नारङ्गजं फलम् ॥ १३३+१ ॥ भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम् । तद्अस्थ्य्अग्निसमं मेध्यं कफवातहरं परम् ॥ १३४ ॥ स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु । रुच्यमत्य्अग्निशमनं रुच्यं मधुरमारुकम् ॥ १३५ ॥ ६.१३५ व् हृद्यं मधुरमारुकम् पक्वमाशु जरां याति नात्य्उष्णगुरुदोषलम् । द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम् ॥ १३६ ॥ ६.१३६ व् नात्य्उष्णं गुरु दोषलम् गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम् । तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम् ॥ १३७ ॥ ६.१३७ व् तद्वच्च कोलकर्कन्धु ६.१३७ व् लिकुचाम्रातमारुकम् ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम् । नातिपित्तकरं पक्वं शुष्कं च करमर्दकम् ॥ १३८ ॥ दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम् । तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः ॥ १३९ ॥ स्वाद्वम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥ १३९.१+१ ॥ फलानामवरं तत्र लिकुचं सर्वदोषकृत् । हिमानलोष्णदुर्वातव्याललालादिदूषितम् ॥ १४० ॥ ६.१४० व् हिमानिलोष्णदुर्वात वातघ्नं दुर्जरं प्रोक्तं नारङ्गं कफकृद्गुरु । तृष्णाशूलकफोत्क्लेदच्छर्दिश्वासनिवारणम् ॥ १४०.१+१ ॥ नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् । बलमांसकरं हृद्यं बृंहणं वस्तिशोधनम् ॥ १४०.१+२ ॥ जन्तुजुष्टं जले मग्नमभूमिजमन्आर्तवम् । अन्यधान्ययुतं हीनवीर्यं जीर्णतयाति च ॥ १४१ ॥ ६.१४१ व् वीर्यं जीर्णतयापि च धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम् । असंजातरसं तद्वच्छुष्कं चान्यत्र मूलकात् ॥ १४२ ॥ प्रायेण फलमप्येवं तथामं बिल्ववर्जितम् । विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः ॥ १४३ ॥ ६.१४३ व् सूक्ष्मं सृष्टमलं मृदु वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत् । सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत् ॥ १४४ ॥ लघ्वन्उष्णं दृशः पथ्यमविदाह्यग्निदीपनम् । लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम् ॥ १४५ ॥ कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम् । ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम् ॥ १४६ ॥ ६.१४६ व् कटु पाके विबन्धघ्नं विबन्धानाहविष्टम्भशूलगौरवनाशनम् । विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम् ॥ १४७ ॥ सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् । कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः ॥ १४८ ॥ रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु । लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥ १४९ ॥ ६.१४९ व् सैन्धवादीन् प्रयोजयेत् गुल्महृद्ग्रहणीपाण्डुप्लीहानाहगलामयान् । श्वासार्शःकफकासांश्च शमयेद्यवशूकजः ॥ १५० ॥ ६.१५० व् श्वासार्शःकफवातांश्च ६.१५० व् शमयेद्यावशूकजः क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः । पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः ॥ १५१ ॥ अपथ्यः कटुलावण्याच्छुक्रौजःकेशचक्षुषाम् । हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् ॥ १५२ ॥ कटुपाकरसं रुच्यं दीपनं पाचनं लघु । कषाया मधुरा पाके रूक्षा विलवणा लघुः ॥ १५३ ॥ दीपनी पाचनी मेध्या वयसः स्थापनी परम् । उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ॥ १५४ ॥ कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् । शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ॥ १५५ ॥ सशोषशोफातीसारमेदमोहवमिकृमीन् । श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम् ॥ १५६ ॥ ६.१५६ व् मेहमोहवमिकृमीन् विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् । हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान् ॥ १५७ ॥ तद्वदामलकं शीतमम्लं पित्तकफापहम् । कटु पाके हिमं केश्यमक्षमीषच्च तद्गुणम् ॥ १५८ ॥ ६.१५८ व् कटु पाकेऽहिमं केश्यम् इयं रसायनवरा त्रिफलाक्ष्य्आमयापहा । रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित् ॥ १५९ ॥ सकेसरं चतुर्जातं त्वक्पत्त्रैलं त्रिजातकम् । पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम् ॥ १६० ॥ सुगन्धि सर्वपेयानां व्यञ्जनानां च वासनम् । लेहानां खाद्यपाकानां चूर्णानां च प्रयोजयेत् ॥ १६०.१+१ ॥ रसे पाके च कटुकं कफघ्नं मरिचं लघु । श्लेष्मला स्वादुशीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥ १६१ ॥ सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः । स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा ॥ १६२ ॥ न तामत्युपयुञ्जीत रसायनविधिं विना । नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् ॥ १६३ ॥ रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् । तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत् ॥ १६४ ॥ स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान् । चविकापिप्पलीमूलं मरिचाल्पान्तरं गुणैः ॥ १६५ ॥ चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा । पञ्चकोलकमेतच्च मरिचेन विना स्मृतम् ॥ १६६ ॥ ६.१६६ व् पञ्चकोलकमेतत्तु गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम् । बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत् ॥ १६७ ॥ ६.१६७ व् शूलघ्नं दीपनं लघु जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ । ह्रस्वं बृहत्य्अंशुमतीद्वयगोक्षुरकैः स्मृतम् ॥ १६८ ॥ ६.१६८ व् जयेत्कषायतीक्ष्णोष्णं स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित् । बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु ॥ १६९ ॥ ६.१६९ व् बलापुनर्नवैरण्डैः ६.१६९ व् शूर्पपर्णीद्वयेन च ६.१६९ व् शूर्पपर्णीद्वयेन च ६.१६९ व् शूर्पपर्णीद्वयेन तु मध्यमं कफवातघ्नं नातिपित्तकरं सरम् । अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम् ॥ १७० ॥ जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् । तृणाख्यं पित्तजिद्दर्भकाशेक्षुशरशालिभिः ॥ १७१ ॥ ६.१७१ व् जीवनाख्यं च चक्षुष्यं शूकशिम्बीजपक्वान्नमांसशाकफलौषधैः । वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः ॥ १७२ ॥ ६.१७२ व् उक्तो नित्यौपयोगिकः षूत्रस्थान राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत् । सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः ॥ १ ॥ अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः । योगक्षेमौ तद्आयत्तौ धर्माद्या यन्निबन्धनाः ॥ २ ॥ ७.२ व् धर्माद्यास्तन्निबन्धनाः ओदनो विषवान् सान्द्रो यात्यविस्राव्यतामिव । चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः ॥ ३ ॥ मयूरकण्ठतुल्योष्मा मोहमूर्छाप्रसेककृत् । हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः ॥ ४ ॥ ७.४ व् क्लिद्यते चन्द्रिकान्वितः ७.४ व् क्लिद्यते चन्द्रकाचितः ७.४ व् क्लिद्यते चन्द्रकान्वितः व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च । हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥ ५ ॥ ७.५ व् छाया दृश्येत वा न वा फेनोर्ध्वराजिसीमन्ततन्तुबुद्बुदसंभवः । विच्छिन्नविरसाः रागाः खाण्डवाः शाकमामिषम् ॥ ६ ॥ ७.६ व् विच्छिन्नविरसा राग ७.६ व् विच्छिन्ना विरसा रागाः ७.६ व् खाण्डवाः शाकमामिषम् नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावापीतासिता तक्रे घृते पानीयसंनिभा ॥ ७ ॥ ७.७ व् क्षीरे दध्नि च दृश्यते मस्तुनि स्यात्कपोताभा राजी कृष्णा तुषोदके । काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा ॥ ८ ॥ पाकः फलानामामानां पक्वानां परिकोथनम् । द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णते ॥ ९ ॥ मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः । माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भवः ॥ १० ॥ ७.१० व् माल्यानां स्फुटिताग्रत्वं ७.१० व् ग्लानिर्गन्धान्तरोद्भवः ७.१० व् म्लानिगन्धान्तरोद्भवः ध्याममण्डलता वस्त्रे शदनं तन्तुपक्ष्मणाम् । धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता ॥ ११ ॥ ७.११ व् शातनं तन्तुपक्ष्मणाम् स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृन्मये । विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः ॥ १२ ॥ स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते । प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति ॥ १३ ॥ ७.१३ व् एकावर्तः स्फुटत्यपि शिखिकण्ठाभधूमार्चिरन्अर्चिर्वोग्रगन्धवान् । म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत् ॥ १४ ॥ उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः । हंसः प्रस्खलति ग्लानिर्जीवञ्जीवस्य जायते ॥ १५ ॥ चकोरस्याक्षिवैराग्यं क्रौञ्चस्य स्यान्मदोदयः । कपोतपरभृद्दक्षचक्रवाका जहत्यसून् ॥ १६ ॥ उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः । हृष्येन्मयूरस्तद्दृष्ट्या मन्दतेजो भवेद्विषम् ॥ १७ ॥ ७.१७ व् उद्वेजयति मार्जारः ७.१७ व् हृष्येन्मयूरस्तद्दृष्ट्वा इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः । यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः ॥ १८ ॥ ७.१८ व् इत्यन्नं सविषं ज्ञात्वा ७.१८ व् त्यजेदेव प्रयत्नतः स्पृष्टे तु कण्डूदाहोषाज्वरार्तिस्फोटसुप्तयः । नखरोमच्युतिः शोफः सेकाद्या विषनाशनाः ॥ १९ ॥ शस्तास्तत्र प्रलेपाश्च सेव्यचन्दनपद्मकैः । ससोमवल्कतालीशपत्त्रकुष्ठामृतानतैः ॥ २० ॥ लाला जिह्वौष्ठयोर्जाड्यमूषा चिमिचिमायनम् । दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्त्रगे ॥ २१ ॥ ७.२१ व् लाला जिह्वौष्ठयोर्जाड्यं ७.२१ व् मुखे चिमिचिमायनम् सेव्याद्यैस्तत्र गण्डूषाः सर्वं च विषजिद्धितम् । आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः ॥ २२ ॥ रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम् । बिन्दुभिश्चाचयोऽङ्गानां पक्वाशयगते पुनः ॥ २३ ॥ अनेकवर्णं वमति मूत्रयत्यतिसार्यते । तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसंक्षयः ॥ २४ ॥ तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारितनिष्पावबाष्पिकाशतपर्विकाः ॥ २५ ॥ तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम् । नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥ २६ ॥ विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ २७ ॥ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । न सज्जते हेमपाङ्गे पद्मपत्त्रेऽम्बुवद्विषम् ॥ २८ ॥ जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः । विरुद्धमपि चाहारं विद्याद्विषगरोपमम् ॥ २९ ॥ ७.२९ व् विद्याद्गरविषोपमम् आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः । विरुध्यते सह बिसैर्मूलकेन गुडेन वा ॥ ३० ॥ विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः । विरुद्धमम्लं पयसा सह सर्वं फलं तथा ॥ ३१ ॥ तद्वत्कुलत्थचणककङ्गुवल्लमकुष्टकाः । भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत् ॥ ३२ ॥ ७.३२ व् तद्वत्कुलत्थवरक ७.३२ व् भक्षयित्वा हरित्कन्द ७.३२ व् मूलकादि पयस्त्यजेत् वाराहं श्वाविधा नाद्याद्दध्ना पृषतकुक्कुटौ । आममांसानि पित्तेन माषसूपेन मूलकम् ॥ ३३ ॥ ७.३३ व् वराहं श्वाविधा नाद्याद् अविं कुसुम्भशाकेन बिसैः सह विरूढकम् । माषसूपगुडक्षीरदध्य्आज्यैर्लाकुचं फलम् ॥ ३४ ॥ फलं कदल्यास्तक्रेण दध्ना तालफलेन वा । कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ ३५ ॥ सिद्धां वा मत्स्यपचने पचने नागरस्य वा । सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम् ॥ ३६ ॥ ७.३६ व् पचने नागरस्य च ७.३६ व् कामात्तामुषितां निशि ७.३६ व् कपोताम् उषितां निशाम् ७.३६ व् नाद्यात्तामुषितां निशाम् ७.३६ व् कामातामुषितां निशाम् ७.३६ व् कामाचीमुषितां निशाम् मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस्त्यजेत् । कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे ॥ ३७ ॥ ७.३७ व् मत्स्यनिस्तलनस्नेह ७.३७ व् साधिताः पिप्पलीस्त्यजेत् ७.३७ व् सर्पिर् उष्णं त्वरुष्करैः भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः । ऐकध्यं पायससुराकृशराः परिवर्जयेत् ॥ ३८ ॥ मधुसर्पिर्वसातैलपानीयानि द्विशश्त्रिशः । एकत्र वा समांशानि विरुध्यन्ते परस्परम् ॥ ३९ ॥ भिन्नांशे अपि मध्व्आज्ये दिव्यवार्यनुपानतः । मधुपुष्करबीजं च मधुमैरेयशार्करम् ॥ ४० ॥ मन्थानुपानः क्षैरेयो हारिद्रः कटुतैलवान् । उपोदकातिसाराय तिलकल्केन साधिता ॥ ४१ ॥ बलाका वारुणीयुक्ता कुल्माषैश्च विरुध्यते । भृष्टा वराहवसया सैव सद्यो निहन्त्यसून् ॥ ४२ ॥ तद्वत्तित्तिरिपत्त्राढ्यगोधालावकपिञ्जलाः । ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्छिताः ॥ ४३ ॥ हारीतमांसं हारिद्रशूलकप्रोतपाचितम् । हरिद्रावह्निना सद्यो व्यापादयति जीवितम् ॥ ४४ ॥ ७.४४ व् हारिद्रवह्निना सद्यो भस्मपांसुपरिध्वस्तं तदेव च समाक्षिकम् । यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः ॥ ४५ ॥ विरुद्धं शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः । द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः ॥ ४६ ॥ व्यायामस्निग्धदीप्ताग्निवयःस्थबलशालिनाम् । विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम् ॥ ४७ ॥ ७.४७ व् व्यायामिस्निग्धदीप्ताग्नि पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत् । निषेवेत हितं तद्वदेकद्वित्र्य्अन्तरीकृतम् ॥ ४८ ॥ अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा । सात्म्यासात्म्यविकाराय जायते सहसान्यथा ॥ ४९ ॥ ७.४९ व् सात्म्यासात्म्यं विकाराय क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः । सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ॥ ५० ॥ ७.५० व् नाप्नुवन्ति पुनर्भावम् अत्य्अन्तसंनिधानानां दोषाणां दूषणात्मनाम् । अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति ॥ ५१ ॥ आहारशयनाब्रह्मचर्यैर्युक्त्या प्रयोजितैः । शरीरं धार्यते नित्यमागारमिव धारणैः ॥ ५२ ॥ ७.५२ व् चर्यैर्युक्त्या निषेवितैः आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते । निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ॥ ५३ ॥ ७.५३ व् तत्र तत्र च लक्ष्यते वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च । अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ॥ ५४ ॥ सुखायुषी पराकुर्यात्कालरात्रिरिवापरा । रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥ ५५ ॥ अरूक्षमन्अभिष्यन्दि त्वासीनप्रचलायितम् । ग्रीष्मे वायुचयादानरौक्ष्यरात्र्य्अल्पभावतः ॥ ५६ ॥ ७.५६ व् ग्रीष्मे वातचयादान दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः । मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः ॥ ५७ ॥ क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः । वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान् ॥ ५८ ॥ ७.५८ व् क्षुत्तृट्शूलनिपीडितान् अजीर्ण्य्अभिहतोन्मत्तान् दिवास्वप्नोचितानपि । धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति ॥ ५९ ॥ ७.५९ व् अजीर्णाभिहतोन्मत्तान् बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि । विषार्तः कण्ठरोगी च नैव जातु निशास्वपि ॥ ६० ॥ अकालशयनान्मोहज्वरस्तैमित्यपीनसाः । शिरोरुक्शोफहृल्लासस्रोतोरोधाग्निमन्दताः ॥ ६१ ॥ तत्रोपवासवमनस्वेदनावनमौषधम् । योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम् ॥ ६२ ॥ नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः । एभिरेव च निद्राया नाशः श्लेष्मातिसंक्षयात् ॥ ६३ ॥ निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः । जाड्यग्लानिभ्रमापक्तितन्द्रा रोगाश्च वातजाः ॥ ६४ ॥ ७.६४ व् जाड्यं ग्लानिभ्रमापक्ति कफोऽल्पो वायुनोद्धूतो धमनीः संनिरुध्य तु । कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकारिणीम् ॥ ६४+१ ॥ उन्मीलितविनिर्भुग्ने परिवर्तिततारके । भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी ॥ ६४+२ ॥ अर्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम् ॥ ६४+३ ब् ॥ यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः । असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान् ॥ ६५ ॥ ७.६५ व् असात्म्यजागरादर्धं शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि । अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम् ॥ ६६ ॥ कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता । मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः ॥ ६७ ॥ ब्रह्मचर्यरतेर्ग्राम्यसुखनिःस्पृहचेतसः । निद्रा संतोषतृप्तस्य स्वं कालं नातिवर्तते ॥ ६८ ॥ ग्राम्यधर्मे त्यजेन्नारीमन्उत्तानां रजस्वलाम् । अप्रियामप्रियाचारां दुष्टसंकीर्णमेहनाम् ॥ ६९ ॥ अतिस्थूलकृशां सूतां गर्भिणीमन्ययोषितम् । वर्णिनीमन्ययोनिं च गुरुदेवनृपालयम् ॥ ७० ॥ ७.७० व् गर्भिणीमन्ययोषिताम् चैत्यश्मशानायतनचत्वराम्बुचतुष्पथम् । पर्वाण्यन्अङ्गं दिवसं शिरोहृदयताडनम् ॥ ७१ ॥ अत्य्आशितोऽधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः । बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम् ॥ ७२ ॥ सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे । त्र्य्अहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः ॥ ७३ ॥ ७.७३ व् तृप्तो वाजीकरैर्हिमे ७.७३ व् तृप्तो वाजीकृतैर्हिमे ७.७३ व् द्व्य्अहाद् वसन्तशरदोः ७.७३ व् पक्षाद्वृष्टिनिदाघयोः भ्रमक्लमोरुदौर्बल्यबलधात्व्इन्द्रियक्षयाः । अपर्वमरणं च स्यादन्यथा गच्छतः स्त्रियम् ॥ ७४ ॥ ७.७४ व् भ्रमक्लमोरुदौर्बल्यं ७.७४ व् बलधात्व्इन्द्रियक्षयः स्मृतिमेधायुर्आरोग्यपुष्टीन्द्रिययशोबलैः । अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः ॥ ७५ ॥ ७.७५ व् भवन्ति स्त्रीषु संयुताः स्नानानुलेपनहिमानिलखण्डखाद्यशीताम्बुदुग्धरसयूषसुराप्रसन्नाः । सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम ॥ ७६ ॥ श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निर्अनुबन्धं देहरक्षां निवेश्य । भवति विपुलतेजःस्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः ॥ ७७ ॥ षूत्रस्थान मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका । मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि ॥ १ ॥ गुरूणामर्धसौहित्यं लघूनां नातितृप्तता । मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति ॥ २ ॥ ८.२ व् सुखं यावद्धि जीर्यते भोजनं हीनमात्रं तु न बलोपचयौजसे । सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते ॥ ३ ॥ अतिमात्रं पुनः सर्वानाशु दोषान् प्रकोपयेत् । पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः ॥ ४ ॥ ८.४ व् संपीड्यमाना वाताद्या आमेनान्नेन दुष्टेन तदेवाविश्य कुर्वते । विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम् ॥ ५ ॥ अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः । प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते ॥ ६ ॥ आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः । विविधैर्वेदनोद्भेदैर्वाय्व्आदिभृशकोपतः ॥ ७ ॥ सूचीभिरिव गात्राणि विध्यतीति विषूचिका । तत्र शूलभ्रमानाहकम्पस्तम्भादयोऽनिलात् ॥ ८ ॥ पित्ताज्ज्वरातिसारान्तर्दाहतृट्प्रलयादयः । कफाच्छर्द्य्अङ्गगुरुतावाक्सङ्गष्ठीवनादयः ॥ ९ ॥ विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः । पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा ॥ १० ॥ अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रांश्छर्द्य्अतीसारवर्जितान् ॥ ११ ॥ ८.११ व् शल्यत्वेनेव संस्थितम् सोऽलसोऽत्य्अर्थदुष्टास्तु दोषा दुष्टामबद्धखाः । यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत् ॥ १२ ॥ दण्डकालसकं नाम तं त्यजेदाशुकारिणम् । विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम् ॥ १३ ॥ आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम् । विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः ॥ १४ ॥ अथाममलसीभूतं साध्यं त्वरितमुल्लिखेत् । पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः ॥ १५ ॥ स्वेदनं फलवर्तिं च मलवातानुलोमनीम् । नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ १६ ॥ ८.१६ व् मलदोषानुलोमनीम् मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः । गुडक्षारसमायुक्ता फलवर्तिः प्रशस्यते ॥ १६.१+१ ॥ विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते । तद्अहश्चोपवास्यैनं विरिक्तवदुपाचरेत् ॥ १७ ॥ तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् । आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ १८ ॥ निहन्यादपि चैतेषां विभ्रमः सहसातुरम् । जीर्णाशने तु भैषज्यं युञ्ज्यात्स्तब्धगुरूदरे ॥ १९ ॥ ८.१९ व् व्यापत्तिः सहसातुरम् दोषशेषस्य पाकार्थमग्नेः संधुक्षणाय च । शान्तिरामविकाराणां भवति त्वपतर्पणात् ॥ २० ॥ त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत् । तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् ॥ २१ ॥ ८.२१ व् तत्समीक्ष्य प्रकल्पयेत् प्रभूते शोधनं तद्धि मूलादुन्मूलयेन्मलान् । एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात् ॥ २२ ॥ चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम् । त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम् ॥ २३ ॥ तद्अर्थकारि वा पक्वे दोषे त्विद्धे च पावके । हितमभ्यञ्जनस्नेहपानवस्त्य्आदि युक्तितः ॥ २४ ॥ ८.२४ व् दोषे वृद्धे च पावके ८.२४ व् दोषे त्वृद्धे तु पावके अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः । सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम् ॥ २५ ॥ विष्टब्धमनिलाच्छूलविबन्धाध्मानसादकृत् । पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत् ॥ २६ ॥ ८.२६ व् भ्रमाम्लोद्गारदाहकृत् लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम् । विदग्धे वमनं यद्वा यथावस्थं हितं भवेत् ॥ २७ ॥ ८.२७ व् यथावस्थं हितं भजेत् गरीयसो भवेल्लीनादामादेव विलम्बिका । कफवातानुबद्धामलिङ्गा तत्समसाधना ॥ २८ ॥ ८.२८ व् कफवातानुविद्धाम अश्रद्धा हृद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः । शयीत किञ्चिदेवात्र सर्वश्चान्आशितो दिवा ॥ २९ ॥ ८.२९ व् सर्वश्चान्अशितो दिवा स्वप्यादजीर्णी संजातबुभुक्षोऽद्यान्मितं लघु । विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता ॥ ३० ॥ ८.३० व् ग्लानिर्मारुतशूलता अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः । न चातिमात्रमेवान्नमामदोषाय केवलम् ॥ ३१ ॥ द्विष्टविष्टम्भिदग्धामगुरुरूक्षहिमाशुचि । विदाहि शुष्कमत्य्अम्बुप्लुतं चान्नं न जीर्यति ॥ ३२ ॥ उपतप्तेन भुक्तं च शोकक्रोधक्षुद्आदिभिः । मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् ॥ ३३ ॥ ८.३३ व् शोकक्रोधक्षुधादिभिः ८.३३ व् क्रोधशोकभयादिभिः विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् । अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥ ३४ ॥ त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा । काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्मनाः ॥ ३५ ॥ षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम् । स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः ॥ ३६ ॥ तर्पयित्वा पितॄन् देवानतिथीन् बालकान् गुरून् । प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान् ॥ ३७ ॥ समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम् । इष्टमिष्टैः सहाश्नीयाच्छुचिभक्तजनाहृतम् ॥ ३८ ॥ भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः । शाकावरान्नभूयिष्ठमत्य्उष्णलवणं त्यजेत् ॥ ३९ ॥ किलाटदधिकूचीकाक्षारशुक्ताममूलकम् । कृशशुष्कवराहाविगोमत्स्यमहिषामिषम् ॥ ४० ॥ ८.४० व् क्षारशुक्ताम्लमूलकम् माषनिष्पावशालूकबिसपिष्टविरूढकम् । शुष्कशाकानि यवकान् फाणितं च न शीलयेत् ॥ ४१ ॥ ८.४१ व् तिलपिष्टविरूढकम् शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम् । सुनिषण्णकजीवन्तीबालमूलकवास्तुकम् ॥ ४२ ॥ पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः । घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम् ॥ ४३ ॥ त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च । स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत् ॥ ४४ ॥ बिसेक्षुमोचचोचाम्रमोदकोत्कारिकादिकम् । अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ ४५ ॥ विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम् । अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ॥ ४६ ॥ आश्रयं पवनादीनां चतुर्थमवशेषयेत् । अनुपानं हिमं वारि यवगोधूमयोर्हितम् ॥ ४७ ॥ दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्टमयेषु तु । शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम् ॥ ४८ ॥ ८.४८ व् कोष्णं पिष्टमयेषु च सुरा कृशानां पुष्ट्य्अर्थं स्थूलानां तु मधूदकम् । शोषे मांसरसो मद्यं मांसे स्व्अल्पे च पावके ॥ ४९ ॥ ८.४९ व् स्थूलानां च मधूदकम् ८.४९ व् मांसेष्वल्पे च पावके व्याध्य्औषधाध्वभाष्यस्त्रीलङ्घनातपकर्मभिः । क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥ ५० ॥ ८.५० व् व्याध्य्औषधाध्वभारस्त्री विपरीतं यदन्नस्य गुणैः स्यादविरोधि च । अनुपानं समासेन सर्वदा तत्प्रशस्यते ॥ ५१ ॥ अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम् । अन्नसंघातशैथिल्यविक्लित्तिजरणानि च ॥ ५२ ॥ नोर्ध्वजत्रुगदश्वासकासोरःक्षतपीनसे । गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम् ॥ ५३ ॥ प्रक्लिन्नदेहमेहाक्षिगलरोगव्रणातुराः । पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत् ॥ ५४ ॥ पीत्वा भुक्त्वातपं वह्निं यानं प्लवनवाहनम् ॥ ५५ ब् ॥ प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे ॥ ५५ ॥ विशुद्धे चोद्गारे क्षुद्उपगमने वातेऽनुसरति ॥ ५५ ॥ तथाग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ ॥ ५५ ॥ प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः ॥ ५५ ॥ ८.५५ व् प्रयुञ्जीताहारं विधिनियमितः कालः स हि मतः षूत्रस्थान द्रव्यमेव रसादीनां श्रेष्ठं ते हि तद्आश्रयाः । पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते ॥ १ ॥ अम्बुयोन्य्अग्निपवननभसां समवायतः । तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा ॥ २ ॥ ९.२ व् व्यपदेशश्च भूयसा तस्मान्नैकरसं द्रव्यं भूतसंघातसंभवात् । नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः ॥ ३ ॥ ९.३ व् तन्नैकभूतजं द्रव्यं अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते । गुर्व्आदयो गुणा द्रव्ये पृथिव्य्आदौ रसाश्रये ॥ ४ ॥ रसेषु व्यपदिश्यन्ते साहचर्योपचारतः । तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम् ॥ ५ ॥ पार्थिवं गौरवस्थैर्यसंघातोपचयावहम् । द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम् ॥ ६ ॥ ९.६ व् मन्दसान्द्रगुणोल्बणम् आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत् । रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम् ॥ ७ ॥ आग्नेयं दाहभावर्णप्रकाशपवनात्मकम् । वायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम् ॥ ८ ॥ रौक्ष्यलाघववैशद्यविचारग्लानिकारकम् । नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम् ॥ ९ ॥ ९.९ व् विचारग्लपनात्मकम् सौषिर्यलाघवकरं जगत्येवमन्औषधम् । न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः ॥ १० ॥ द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम् । अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम् ॥ ११ ॥ इति द्रव्यं रसान् भेदैरुत्तरत्रोपदेक्ष्यते । वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु ॥ १२ ॥ ९.१२ व् इति द्रव्यं रसो भेदैर् लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा । चरकस्त्वाह वीर्यं तत्क्रियते येन या क्रिया ॥ १३ ॥ ९.१३ व् चरकस्त्वाह वीर्यं तु ९.१३ व् येन या क्रियते क्रिया नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सा । गुर्व्आदिष्वेव वीर्याख्या तेनान्व्अर्थेति वर्ण्यते ॥ १४ ॥ समग्रगुणसारेषु शक्त्य्उत्कर्षविवर्तिषु । व्यवहाराय मुख्यत्वाद्बह्व्अग्रग्रहणादपि ॥ १५ ॥ ९.१५ व् समग्रगुणसारत्वाच् ९.१५ व् छक्त्य्उत्कर्षविवर्तनात् अतश्च विपरीतत्वात्संभवत्यपि नैव सा । विवक्ष्यते रसाद्येषु वीर्यं गुर्व्आदयो ह्यतः ॥ १६ ॥ उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि च । नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ॥ १७ ॥ व्यक्ताव्यक्तं जगदिव नातिक्रामति जातु चित् । तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः ॥ १८ ॥ ९.१८ व् व्यक्ताव्यक्तं जगदिदं ९.१८ व् व्यक्ताव्यक्तं यथा विश्वं शमं च वातकफयोः करोति शिशिरं पुनः । ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः ॥ १९ ॥ जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ २० ॥ स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः । तिक्तोषणकषायाणां विपाकः प्रायशः कटुः ॥ २१ ॥ रसैरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम् । किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम् ॥ २२ ॥ गुणान्तरेण वीर्येण प्रभावेणैव किञ्चन । यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते ॥ २३ ॥ अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते । विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते ॥ २४ ॥ रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति । बलसाम्ये रसादीनामिति नैसर्गिकं बलम् ॥ २५ ॥ ९.२५ व् प्रभावस्तान् व्यपोहति रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम् । दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी ॥ २६ ॥ मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । इति सामान्यतः कर्म द्रव्यादीनां पुनश्च तत् ॥ २७ ॥ विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते । स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः ॥ २८ ॥ उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥ २८ª ॥ षूत्रस्थान क्ष्माम्भोऽग्निक्ष्माम्बुतेजःखवाय्व्अग्न्य्अनिलगोऽनिलैः । द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः ॥ १ ॥ तेषां विद्याद्रसं स्वादुं यो वक्त्रमनुलिम्पति । आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः ॥ २ ॥ १०.२ व् यो वक्त्रमुपलिम्पति प्रियः पिपीलिकादीनामम्लः क्षालयते मुखम् । हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः ॥ ३ ॥ १०.३ व् अम्लः स्रावयते मुखम् लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् । तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च ॥ ४ ॥ १०.४ व् रसनां प्रतिहन्ति च उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः । स्रावयत्यक्षिनासास्यं कपोलं दहतीव च ॥ ५ ॥ कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत् । रसानामिति रूपाणि कर्माणि मधुरो रसः ॥ ६ ॥ आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम् । बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम् ॥ ७ ॥ प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसंधानकृद्गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ॥ ८ ॥ कुरुतेऽत्य्उपयोगेन स मेदःश्लेष्मजान् गदान् । स्थौल्याग्निसादसंन्यासमेहगण्डार्बुदादिकान् ॥ ९ ॥ १०.९ व् स मेदःकफजान् गदान् अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः । उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ॥ १० ॥ १०.१० व् उष्णवीर्यो हिमः स्पर्शे १०.१० व् प्रीणनो भेदनो लघुः करोति कफपित्तास्रं मूढवातानुलोमनः । सोऽत्य्अभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम् ॥ ११ ॥ १०.११ व् मूढवातानुलोमनम् कण्डूपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान् । लवणः स्तम्भसंघातबन्धविध्मापनोऽग्निकृत् ॥ १२ ॥ स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् । सोऽतियुक्तोऽस्रपवनं खलतिं पलितं वलीम् ॥ १३ ॥ तृट्कुष्ठविषवीसर्पान् जनयेत्क्षपयेद्बलम् । तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम् ॥ १४ ॥ कुष्ठमूर्छाज्वरोत्क्लेशदाहपित्तकफाञ्जयेत् । क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः ॥ १५ ॥ लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः । धातुक्षयानिलव्याधीनतियोगात्करोति सः ॥ १६ ॥ १०.१६ व् धातुक्षयं चलव्याधीन् कटुर्गलामयोदर्दकुष्ठालसकशोफजित् । व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः ॥ १७ ॥ दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः । छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥ १८ ॥ १०.१८ व् शोधनोऽन्नस्य हाषणः कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् । मूर्छामाकुञ्चनं कम्पं कटीपृष्ठादिषु व्यथाम् ॥ १९ ॥ १०.१९ व् कुरुते सोऽतिवेगेन कषायः पित्तकफहा गुरुरस्रविशोधनः । पीडनो रोपणः शीतः क्लेदमेदोविशोषणः ॥ २० ॥ आमसंस्तम्भनो ग्राही रूक्षोऽति त्वक्प्रसादनः । करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः ॥ २१ ॥ तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान् । घृतहेमगुडाक्षोटमोचचोचपरूषकम् ॥ २२ ॥ १०.२२ व् स्रोतोरोधगलग्रहान् १०.२२ व् स्रोतोबन्धमलग्रहान् अभीरुवीरापनसराजादनबलात्रयम् । मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥ २३ ॥ मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम् । क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥ २४ ॥ १०.२४ व् क्षीरशुक्ला तवक्षीरी क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर्मधुरो गणः । अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम् ॥ २५ ॥ दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि । आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम् ॥ २६ ॥ वृक्षाम्लकोललिकुचकोशाम्लातकधन्वनम् । मस्तुधान्याम्लमद्यानि जम्बीरं तिलकण्टकम् ॥ २६+१ ॥ वरं सौवर्चलं कृष्णं विडं सामुद्रमौद्भिदम् । रोमकं पांसुजं सीसं क्षारश्च लवणो गणः ॥ २७ ॥ १०.२७ व् क्षाराश्च लवणो गणः तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम् । भूनिम्बनिम्बकटुकातगरागुरुवत्सकम् ॥ २८ ॥ नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम् । पाठापामार्गकांस्यायोगुडूचीधन्वयासकम् ॥ २९ ॥ पञ्चमूलं महद्व्याघ्र्यौ विशालातिविषा वचा । कटुको हिङ्गुमरिचकृमिजित्पञ्चकोलकम् ॥ ३० ॥ १०.३० व् कटुको हिङ्गुमरिचं १०.३० व् कृमिजित्पञ्चकोलकम् कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम् । वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥ ३१ ॥ १०.३१ व् पित्तं मूत्रमरुष्करः १०.३१ व् वर्गः कषायः पथ्याक्षः कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम् । बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च ॥ ३२ ॥ १०.३२ व् बिसपद्मोत्पलानि च मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते । मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात् ॥ ३३ ॥ प्रायोऽम्लं पित्तजननं दाडिमामलकादृते । अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात् ॥ ३४ ॥ तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम् । ऋतेऽमृतापटोलीभ्यां शुण्ठीकृष्णारसोनतः ॥ ३५ ॥ कषायं प्रायशः शीतं स्तम्भनं चाभयां विना । रसाः कट्व्अम्ललवणा वीर्येणोष्णा यथोत्तरम् ॥ ३६ ॥ १०.३६ व् स्तम्भनं चाभयामृते तिक्तः कषायो मधुरस्तद्वदेव च शीतलाः । तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा ॥ ३७ ॥ पट्व्अम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः । पटोः कषायस्तस्माच्च मधुरः परमं गुरुः ॥ ३८ ॥ लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः । संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा ॥ ३९ ॥ लवणादम्लमधुरौ कार्यौ स्यातां यथाक्रमम् । वायोर्निर्अनुबन्धस्य पाकशान्तिप्रवृत्तये ॥ ३९.१+१ ॥ १०.३९.१+१ व् पाकशान्तिप्रसक्तये प्राक्तिक्तो मधुरः पश्चात्कषायोऽन्ते विधीयते । तैः पित्तं शममभ्येति पक्वाच्छीकृतपिण्डितम् ॥ ३९.१+२ ॥ कटुः प्राक्तिक्तकः पश्चात्कषायोऽन्ते विधीयते । तैः श्लेष्मा शममभ्येति पक्वाच्छीकृतपिण्डितः ॥ ३९.१+३ ॥ १०.३९.१+३ व् कटुकः प्राक्ततस्तिक्तः १०.३९.१+३ व् पक्वोऽच्छीकृतपिण्डितः रसानां यौगिकत्वेन यथास्थूलं विभज्यते । एकैकहीनास्तान् पञ्चदश यान्ति रसा द्विके ॥ ४० ॥ १०.४० व् एकैकहीनास्ते पञ्च १०.४० व् पञ्च यान्ति रसा द्विके स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम् । द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशेति तु ॥ ४०+१ ॥ त्रिके स्वादुर्दशाम्लः षट्त्रीन् पटुस्तिक्त एककम् । चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत् ॥ ४१ ॥ १०.४१ व् चतुष्के तु दश स्वादुश् पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते । द्रव्यमेकं षड्आस्वादमसंयुक्ताश्च षड्रसाः ॥ ४२ ॥ षट्पञ्चका षट्च पृथग्रसाः स्युश्चतुर्द्विकौ पञ्चदशप्रकारौ । भेदास्त्रिका विंशतिरेकमेव द्रव्यं षड्आस्वादमिति त्रिषष्टिः ॥ ४३ ॥ ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च । संभवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः ॥ ४४ ॥ षूत्रस्थान दोषधातुमला मूलं सदा देहस्य तं चलः । उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः ॥ १ ॥ सम्यग्गत्या च धातूनामक्षाणां पाटवेन च । अनुगृह्णात्यविकृतः पित्तं पक्त्य्ऊष्मदर्शनैः ॥ २ ॥ क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः । श्लेष्मा स्थिरत्वस्निग्धत्वसंधिबन्धक्षमादिभिः ॥ ३ ॥ प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे । गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम् ॥ ४ ॥ अवष्टम्भः पुरीषस्य मूत्रस्य क्लेदवाहनम् । स्वेदस्य क्लेदविधृतिर्वृद्धस्तु कुरुतेऽनिलः ॥ ५ ॥ ११.५ व् स्वेदस्य केशविधृतिर् ११.५ व् वृद्धश्च कुरुतेऽनिलः कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृद्ग्रहान् । बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः ॥ ६ ॥ ११.६ व् कार्श्यकार्ष्ण्योष्णकामित्व पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः । पित्तं श्लेष्माग्निसदनप्रसेकालस्यगौरवम् ॥ ७ ॥ श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः । रसोऽपि श्लेष्मवद्रक्तं विसर्पप्लीहविद्रधीन् ॥ ८ ॥ कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः । व्यङ्गाग्निनाशसंमोहरक्तत्वङ्नेत्रमूत्रताः ॥ ९ ॥ ११.९ व् व्यङ्गाग्निसादसंमोह मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः । कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम् ॥ १० ॥ ११.१० व् गण्डोरूदरवृद्धताः अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम् । अस्थ्यध्य्अस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम् ॥ ११ ॥ ११.१३ व् मूत्रं तु वस्तेर्निस्तोदं पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च । अतिस्त्रीकामतां वृद्धं शुक्तं शुक्राश्मरीमपि ॥ १२ ॥ कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत् । मूत्रं तु वस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम् ॥ १३ ॥ स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूरेवं च लक्षयेत् । दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः ॥ १४ ॥ लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम् । संज्ञामोहस्तथा श्लेष्मवृद्ध्य्उक्तामयसंभवः ॥ १५ ॥ पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः । श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसंधिता ॥ १६ ॥ ११.१६ व् हृद्गदः श्लथसंधिता रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता । रक्तेऽम्लशिशिरप्रीतिसिराशैथिल्यरूक्षताः ॥ १७ ॥ मांसेऽक्षग्लानिगण्डस्फिक्शुष्कतासंधिवेदनाः । मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता ॥ १८ ॥ अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषु । अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम् ॥ १९ ॥ ११.१९ व् अस्थ्न्यस्थितोदः सदनं शुक्रे चिरात्प्रसिच्येत शुक्रं शोणितमेव वा । तोदोऽत्य्अर्थं वृषणयोर्मेढ्रं धूमायतीव च ॥ २० ॥ पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव । कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम् ॥ २१ ॥ ११.२१ व् कुक्षिं भ्रमति यात्यूर्ध्वं मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा । स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः ॥ २२ ॥ मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत्क्षयम् । स्वमलायनसंशोषतोदशून्यत्वलाघवैः ॥ २३ ॥ दोषादीनां यथास्वं च विद्याद्वृद्धिक्षयौ भिषक् । क्षयेण विपरीतानां गुणानां वर्धनेन च ॥ २४ ॥ वृद्धिं मलानां सङ्गाच्च क्षयं चातिविसर्गतः । मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः ॥ २५ ॥ तत्रास्थनि स्थितो वायुः पित्तं तु स्वेदरक्तयोः । श्लेष्मा शेषेषु तेनैषामाश्रयाश्रयिणां मिथः ॥ २६ ॥ यदेकस्य तदन्यस्य वर्धनक्षपणौषधम् । अस्थिमारुतयोर्नैवं प्रायो वृद्धिर्हि तर्पणात् ॥ २७ ॥ श्लेष्मणानुगता तस्मात्संक्षयस्तद्विपर्ययात् । वायुनानुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान् ॥ २८ ॥ विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः । वायोरन्यत्र तज्जांस्तु तैरेवोत्क्रमयोजितैः ॥ २९ ॥ विशेषाद्रक्तवृद्ध्य्उत्थान् रक्तस्रुतिविरेचनैः । मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः ॥ ३० ॥ स्थौल्यकार्श्योपचारेण मेदोजानस्थिसंक्षयात् । जातान् क्षीरघृतैस्तिक्तसंयुतैर्वस्तिभिस्तथा ॥ ३१ ॥ ११.३१ व् संयुक्तैर्वस्तिभिस्तथा मज्जशुक्रोद्भवान् रोगान् भोजनैः स्वादुतिक्तकैः । वृद्धं शुक्रं व्यवायाद्यैर्यच्चान्यच्छुक्रशोषिकम् ॥ ३१+१ ॥ ११.३१+१ व् प्रत्य्अनीकौषधं मज्ज ११.३१+१ व् शुक्रवृद्धिक्षये हितम् विड्वृद्धिजानतीसारक्रियया विट्क्षयोद्भवान् । मेषाजमध्यकुल्माषयवमाषद्वयादिभिः ॥ ३२ ॥ मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया । व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान् ॥ ३३ ॥ ११.३३ व् मूत्रवृद्धिक्षयोत्थांस्तु स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः । तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः ॥ ३४ ॥ पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधम् । दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान् ॥ ३५ ॥ अधो द्वे सप्त शिरसि खानि स्वेदवहानि च । मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः ॥ ३६ ॥ ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् । हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् ॥ ३७ ॥ स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम् । यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति ॥ ३८ ॥ निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः । ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः ॥ ३९ ॥ बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः । दुश्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये ॥ ४० ॥ ११.४० व् विच्छायो दुर्मना रूक्षो ११.४० व् भवेत्क्षामश्च तत्क्षयात् जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम् । ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः ॥ ४१ ॥ ११.४१ व् ओजोवृद्धौ च देहस्य ११.४१ व् ओजोवृद्धौ तु देहस्य ११.४१ व् तुष्टिपुष्टिबलोदयाः यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु । तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत् ॥ ४२ ॥ ११.४२ व् तत्तत्त्यजन् समश्नन् वा कुर्वते हि रुचिं दोषा विपरीतसमानयोः । वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न ॥ ४३ ॥ ११.४३ व् कुर्वन्ति हि रुचिं दोषा यथाबलं यथास्वं च दोषा वृद्धा वितन्वते । रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥ ४४ ॥ य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय । यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः ॥ ४५ ॥ ११.४५ व् क्षयाद्विवृद्धेरपि रक्षणीयाः षूत्रस्थान पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम् । स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥ १ ॥ नाभिरामाशयः स्वेदो लसीका रुधिरं रसः । दृक्स्पर्शनं च पित्तस्य नाभिरत्र विशेषतः ॥ २ ॥ उरःकण्ठशिरःक्लोमपर्वाण्यामाशयो रसः । मेदो घ्राणं च जिह्वा च कफस्य सुतरामुरः ॥ ३ ॥ प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः । उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक् ॥ ४ ॥ ष्ठीवनक्षवथूद्गारनिःश्वासान्नप्रवेशकृत् । उरः स्थानमुदानस्य नासानाभिगलांश्चरेत् ॥ ५ ॥ १२.५ व् नासानाभिगलांश्चरन् वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः । व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः ॥ ६ ॥ गत्य्अपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः । प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥ ७ ॥ समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः । अन्नं गृह्णाति पचति विवेचयति मुञ्चति ॥ ८ ॥ अपानोऽपानगः श्रोणिवस्तिमेढ्रोरुगोचरः । शुक्रार्तवशकृन्मूत्रगर्भनिष्क्रमणक्रियः ॥ ९ ॥ पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् । पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥ १० ॥ त्यक्तद्रव्यत्वं पाकादिकर्मणानलशब्दितम् । पचत्यन्नं विभजते सारकिट्टौ पृथक्तथा ॥ ११ ॥ १२.११ व् सारकिट्टे पृथक्तथा तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम् । करोति बलदानेन पाचकं नाम तत्स्मृतम् ॥ १२ ॥ आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात् । बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात् ॥ १३ ॥ साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम् । दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः ॥ १४ ॥ श्लेष्मा तु पञ्चधोरःस्थः स त्रिकस्य स्ववीर्यतः । हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा ॥ १५ ॥ १२.१५ व् श्लेष्मापि पञ्चधोरःस्थः कफधाम्नां च शेषाणां यत्करोत्यवलम्बनम् । अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः ॥ १६ ॥ १२.१६ व् यस्त्वामाशयसंश्रितः क्लेदकः सोऽन्नसंघातक्लेदनाद्रसबोधनात् । बोधको रसनास्थायी शिरःसंस्थोऽक्षतर्पणात् ॥ १७ ॥ तर्पकः संधिसंश्लेषाच्छ्लेषकः संधिषु स्थितः । इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम् ॥ १८ ॥ १२.१८ व् छ्लेषकः संधिसंस्थितः व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक् । उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति संचयम् ॥ १९ ॥ शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः । शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते ॥ २० ॥ उष्णेन कोपं मन्दाद्याः शमं शीतोपसंहिताः । शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम् ॥ २१ ॥ उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम् । चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु ॥ २२ ॥ विपरीतगुणेच्छा च कोपस्तून्मार्गगमिता । लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसंभवः ॥ २३ ॥ स्वस्थानस्थस्य समता विकारासंभवः शमः । चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ॥ २४ ॥ वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु । चीयते लघुरूक्षाभिरोषधिभिः समीरणः ॥ २५ ॥ १२.२५ व् वर्षादिषु च पित्तस्य तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति । अद्भिरम्लविपाकाभिरोषधिभिश्च तादृशम् ॥ २६ ॥ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः । चीयते स्निग्धशीताभिरुदकौषधिभिः कफः ॥ २७ ॥ तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति । इति कालस्वभावोऽयमाहारादिवशात्पुनः ॥ २८ ॥ १२.२८ व् स्कन्नत्वान्न विकुप्यति चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु । व्याप्नोति सहसा देहमापादतलमस्तकम् ॥ २९ ॥ निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत् । नानारूपैरसंख्येयैर्विकारैः कुपिता मलाः ॥ ३० ॥ तापयन्ति तनुं तस्मात्तद्धेत्व्आकृतिसाधनम् । शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते ॥ ३१ ॥ दोषा एव हि सर्वेषां रोगाणामेककारणम् । यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः ॥ ३२ ॥ छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः । विकारजातं विविधं त्रीन् गुणान्नातिवर्तते ॥ ३३ ॥ तथा स्वधातुवैषम्यनिमित्तमपि सर्वदा । विकारजातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥ ३४ ॥ अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम् । हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्त्रिधा ॥ ३५ ॥ हीनोऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा । अतियोगोऽतिसंसर्गः सूक्ष्मभासुरभैरवम् ॥ ३६ ॥ अत्य्आसन्नातिदूरस्थं विप्रियं विकृतादि च । यदक्ष्णा वीक्ष्यते रूपं मिथ्यायोगः स दारुणः ॥ ३७ ॥ १२.३७ व् मिथ्यायोगः सुदारुणः एवमत्य्उच्चपूत्य्आदीनिन्द्रियार्थान् यथायथम् । विद्यात्कालस्तु शीतोष्णवर्षाभेदात्त्रिधा मतः ॥ ३८ ॥ १२.३८ व् वर्षभेदात्त्रिधा मतः स हीनो हीनशीतादिरतियोगोऽतिलक्षणः । मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः ॥ ३९ ॥ कायवाक्चित्तभेदेन कर्मापि विभजेत्त्रिधा । कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः ॥ ४० ॥ १२.४० व् कायादिकर्मणां हीना १२.४० व् प्रवृत्तिर्हीनसंज्ञिका अतियोगोऽतिवृत्तिस्तु वेगोदीरणधारणम् । विषमाङ्गक्रियारम्भपतनस्खलनादिकम् ॥ ४१ ॥ १२.४१ व् अतियोगोऽतिवृत्तिश्च भाषणं सामिभुक्तस्य रागद्वेषभयादि च । कर्म प्राणातिपातादि दशधा यच्च निन्दितम् ॥ ४२ ॥ मिथ्यायोगः समस्तोऽसाविह वामुत्र वा कृतम् । निदानमेतद्दोषाणां कुपितास्तेन नैकधा ॥ ४३ ॥ १२.४३ व् इह चामुत्र वा कृतम् कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसंधिषु । शाखा रक्तादयस्त्वक्च बाह्यरोगायनं हि तत् ॥ ४४ ॥ १२.४४ व् बाह्यरोगायनं हि सा तद्आश्रया मषव्यङ्गगण्डालज्य्अर्बुदादयः । बहिर्भागाश्च दुर्नामगुल्मशोफादयो गदाः ॥ ४५ ॥ अन्तः कोष्ठो महास्रोत आमपक्वाशयाश्रयः । तत्स्थानाः छर्द्य्अतीसारकासश्वासोदरज्वराः ॥ ४६ ॥ अन्तर्भागं च शोफार्शोगुल्मविसर्पविद्रधि । शिरोहृदयवस्त्य्आदिमर्माण्यस्थ्नां च संधयः ॥ ४७ ॥ १२.४७ व् मर्माण्यस्थ्नां तु संधयः तन्निबद्धाः सिरास्नायुकण्डराद्याश्च मध्यमः । रोगमार्गः स्थितास्तत्र यक्ष्मपक्षवधार्दिताः ॥ ४८ ॥ मूर्धादिरोगाः संध्य्अस्थित्रिकशूलग्रहादयः । स्रंसव्यासव्यधस्वापसादरुक्तोदभेदनम् ॥ ४९ ॥ सङ्गाङ्गभङ्गसंकोचवर्तहर्षणतर्पणम् । कम्पपारुष्यसौषिर्यशोषस्पन्दनवेष्टनम् ॥ ५० ॥ स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा । कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः ॥ ५१ ॥ स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्छनं मदः । कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः ॥ ५२ ॥ श्लेष्मणः स्नेहकाठिन्यकण्डूशीतत्वगौरवम् । बन्धोपलेपस्तैमित्यशोफापक्त्य्अतिनिद्रताः ॥ ५३ ॥ वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता । इत्यशेषामयव्यापि यदुक्तं दोषलक्षणम् ॥ ५४ ॥ दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत् । व्याध्य्अवस्थाविभागज्ञः पश्यन्नार्तान् प्रतिक्षणम् ॥ ५५ ॥ अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी । रत्नादिसद्असज्ज्ञानं न शास्त्रादेव जायते ॥ ५६ ॥ १२.५६ व् अभ्यासाज्जायते दृष्टिः १२.५६ व् अभ्यासात्केवलं दृष्टिः दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः । तत्संकराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः ॥ ५७ ॥ १२.५७ व् कश्चित्पूर्वापचारजः १२.५७ व् व्याधिरेवं त्रिधा मतः यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना । महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः ॥ ५८ ॥ विपक्षशीलनात्पूर्वः कर्मजः कर्मसंक्षयात् । गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम् ॥ ५९ ॥ द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा । पूर्वजाः पूर्वरूपाख्या जाताः पश्चादुपद्रवाः ॥ ६० ॥ यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः । विपरीतास्ततोऽन्ये तु विद्यादेवं मलानपि ॥ ६१ ॥ ताÀ लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम् । तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा ॥ ६२ ॥ पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम् । व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः ॥ ६३ ॥ १२.६३ व् पश्चाच्चिकित्सेत्पूर्वं वा विकारनामाकुशलो न जिह्रीयात्कदाचन । न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ॥ ६४ ॥ स एव कुपितो दोषः समुत्थानविशेषतः । स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून् ॥ ६५ ॥ तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च । बुद्ध्वा हेतुविशेषांश्च शीघ्रं कुर्यादुपक्रमम् ॥ ६६ ॥ दूष्यं देशं बलं कालमनलं प्रकृतिं वयः । सत्त्वं सात्म्यं तथाहारमवस्थाश्च पृथग्विधाः ॥ ६७ ॥ सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे । यो वर्तते चिकित्सायां न स स्खलति जातु चित् ॥ ६८ ॥ गुर्व्अल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात् । दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत् ॥ ६९ ॥ गुरुं लघुमिति व्याधिं कल्पयंस्तु भिषग्ब्रुवः । अल्पदोषाकलनया पथ्ये विप्रतिपद्यते ॥ ७० ॥ १२.७० व् कलयंस्तु भिषग्ब्रुवः १२.७० व् कल्पयंस्तु भिषग्ध्रुवम् ततोऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम् । उदीरयेत्तरां रोगान् संशोधनमयोगतः ॥ ७१ ॥ शोधनं त्वतियोगेन विपरीतं विपर्यये । क्षिणुयान्न मलानेव केवलं वपुरस्यति ॥ ७२ ॥ १२.७२ व् केवलं वपुरप्यति अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा । तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम् ॥ ७३ ॥ १२.७३ व् आरोग्याय यथा भवेत् वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः । पृथक्त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव ॥ ७४ ॥ १२.७४ व् पृथक्त्रीन् विद्धि संसर्गं त्रीनेव समया वृद्ध्या षडेकस्यातिशायने । त्रयोदश समस्तेषु षड्द्व्य्एकातिशयेन तु ॥ ७५ ॥ १२.७५ व् षड्द्व्य्एकातिशयेन च एकं तुल्याधिकैः षट्च तारतम्यविकल्पनात् । पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः ॥ ७६ ॥ १२.७६ व् पञ्चविंशतिरित्येवं एकैकवृद्धिसमताक्षयैः षट्ते पुनश्च षट् । एकक्षयद्वन्द्ववृद्ध्या सविपर्यययापि ते ॥ ७७ ॥ भेदा द्विषष्टिर्निर्दिष्टास्त्रिषष्टिः स्वास्थ्यकारणम् ॥ ७८ ब् ॥ संसर्गाद्रसरुधिरादिभिस्तथैषाम् ॥ ७८ ॥ १२.७८ व् संसर्गाद्रसरुधिरादिभिस्तथैतान् दोषांस्तु क्षयसमताविवृद्धिभेदैः ॥ ७८ ॥ १२.७८ व् दोषाणां क्षयसमताविवृद्धिभेदैः आनन्त्यं तरतमयोगतश्च यातान् ॥ ७८ ॥ जानीयादवहितमानसो यथास्वम् ॥ ७८ ॥ षूत्रस्थान वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु । स्वाद्व्अम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम् ॥ १ ॥ वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम् । स्निग्धोष्णा वस्तयो वस्तिनियमः सुखशीलता ॥ २ ॥ दीपनैः पाचनैः स्निग्धाः स्नेहाश्चानेकयोनयः । विशेषान्मेद्यपिशितरसतैलानुवासनम् ॥ ३ ॥ पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम् । स्वादुतिक्तकषायाणि भोजनान्यौषधानि च ॥ ४ ॥ सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम् । कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः ॥ ५ ॥ कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे । प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः ॥ ६ ॥ अयन्त्रणसुखं मित्रं पुत्रः संदिग्धमुग्धवाक् । छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः ॥ ७ ॥ १३.७ व् अयन्त्रणमुखं मित्रं शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः । सुतीर्थविपुलस्वच्छसलिलाशयसैकते ॥ ८ ॥ साम्भोजजलतीरान्ते कायमाने द्रुमाकुले । सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः ॥ ९ ॥ १३.९ व् कायमानं द्रुमाकुले श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम् । अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् ॥ १० ॥ दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः । अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम् ॥ ११ ॥ विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम् । धूमोपवासगण्डूषा निःसुखत्वं सुखाय च ॥ १२ ॥ उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः । संसर्गसंनिपातेषु तं यथास्वं विकल्पयेत् ॥ १३ ॥ १३.१३ व् तं यथास्वं प्रकल्पयेत् ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते । मरुतो योगवाहित्वात्कफपित्ते तु शारदः ॥ १४ ॥ चय एव जयेद्दोषं कुपितं त्वविरोधयन् । सर्वकोपे बलीयांसं शेषदोषाविरोधतः ॥ १५ ॥ प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत् । नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत् ॥ १६ ॥ १३.१६ व् प्रयोगः शमयेद्व्याधिं १३.१६ व् योऽन्यमन्यमुदीरयेत् व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि । कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च ॥ १७ ॥ दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात् । वृद्ध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात् ॥ १८ ॥ तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः । ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि ॥ १९ ॥ तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु । कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु ॥ २० ॥ आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा । प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम् ॥ २१ ॥ साधारणं वा कुर्वीत क्रियामुभययोगिनीम् ॥ २१.१+१ ॥ कुर्यान्न तेषु त्वरया देहाग्निबलवित्क्रियाम् । शमयेत्तान् प्रयोगेण सुखं वा कोष्ठमानयेत् ॥ २२ ॥ ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत् । स्रोतोरोधबलभ्रंशगौरवानिलमूढताः ॥ २३ ॥ १३.२३ व् गौरवानिलमूढता आलस्यापक्तिनिष्ठीवमलसङ्गारुचिक्लमाः । लिङ्गं मलानां सामानां निर्आमाणां विपर्ययः ॥ २४ ॥ विण्मूत्रनखदन्तत्वक्चक्षुषां पीतता भवेत् । रक्तत्वमथ कृष्णत्वं पृष्ठास्थिकटिसंधिरुक् ॥ २४.१+१ ॥ १३.२४.१+१ व् पृष्ठास्थिकटिसंधिषु शिरोरुक्जायते तीव्रा निद्रा विरसता मुखे । क्वचिच्च श्वयथुर्गात्रे ज्वरातीसारहर्षणम् ॥ २४.१+२ ॥ ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम् । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ २५ ॥ अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योऽन्यमूर्छनात् । कोद्रवेभ्यो विषस्येव वदन्त्यामस्य संभवम् ॥ २६ ॥ आमेन तेन संपृक्ता दोषा दूष्याश्च दूषिताः । सामा इत्युपदिश्यन्ते ये च रोगास्तद्उद्भवाः ॥ २७ ॥ वायुः सामो विबन्धाग्निसादस्तम्भान्त्रकूजनैः । वेदनाशोफनिस्तोदैः क्रमशोऽङ्गानि पीडयन् ॥ २७+१ ॥ विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम् । स्नेहाद्यैर्वृद्धिमायाति सूर्यमेघोदये निशि ॥ २७+२ ॥ निर्आमो विशदो रूक्षो निर्विबन्धोऽल्पवेदनः । विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ॥ २७+३ ॥ दुर्गन्धि हरितं श्यावं पित्तमम्लं घनं गुरु । अम्लीकाकण्ठहृद्दाहकरं सामं विनिर्दिशेत् ॥ २७+४ ॥ आताम्रपीतमत्य्उष्णं रसे कटुकमस्थिरम् । पक्वं विगन्धि विज्ञेयं रुचिपक्तिबलप्रदम् ॥ २७+५ ॥ १३.२७+५ व् रुचिवह्निबलप्रदम् आविलस्तन्तुलः स्त्यानः कण्ठदेशेऽवतिष्ठते । सामो बलासो दुर्गन्धिः क्षुद्उद्गारविघातकृत् ॥ २७+६ ॥ फेनवान् पिण्डितः पाण्दुर्निःसारोऽगन्ध एव च । पक्वः स एव विज्ञेयश्छेदवान् वक्त्रशुद्धिदः ॥ २७+७ ॥ सर्वदेहप्रविसृतान् सामान् दोषान्न निर्हरेत् । लीनान् धातुष्वन्उत्क्लिष्टान् फलादामाद्रसानिव ॥ २८ ॥ आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः । पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान् ॥ २९ ॥ शोधयेच्छोधनैः काले यथासन्नं यथाबलम् । हन्त्याशु युक्तं वक्त्रेण द्रव्यमामाशयान्मलान् ॥ ३० ॥ घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद्गुदेन च । उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥ ३१ ॥ धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः । प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः ॥ ३२ ॥ विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा । श्रावणे कार्त्तिके चैत्रे मासि साधारणे क्रमात् ॥ ३३ ॥ १३.३३ व् पाचयेन्निर्हरेत्तथा प्रावृट्शरद्वसन्तेषु मासेष्वेतेषु शोधयेत् । साधारणेषु विधिना त्रिमासान्तरितान्मलान् ॥ ३३+१ ॥ ग्रीष्मवर्षाहिमचितान् वाय्व्आदीनाशु निर्हरेत् । अत्य्उष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः ॥ ३४ ॥ संधौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत् । स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ॥ ३५ ॥ त्रयः साधारणास्तेषामन्तरे प्रावृषादयः । प्रावृट्शुचिनभौ तेषु शरदूर्जसहौ स्मृतौ ॥ ३५.१+१ ॥ तपस्यो मधुमासश्च वसन्तः शोधनं प्रति । एतानृतून् विकल्प्यैवं दद्यात्संशोधनं भिषक् ॥ ३५.१+२ ॥ कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम् । प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥ ३६ ॥ युञ्ज्यादन्अन्नमन्नादौ मध्येऽन्ते कवडान्तरे । ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥ ३७ ॥ कफोद्रेके गदेऽन्अन्नं बलिनो रोगरोगिणोः । अन्नादौ विगुणेऽपाने समाने मध्य इष्यते ॥ ३८ ॥ व्यानेऽन्ते प्रातर्आशस्य सायम्आशस्य तूत्तरे । ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥ ३९ ॥ मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्श्वासकासिषु । योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके ॥ ४० ॥ कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम् । ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते ॥ ४१ ॥ षूत्रस्थान उपक्रम्यस्य हि द्वित्वाद्द्विधैवोपक्रमो मतः । एकः संतर्पणस्तत्र द्वितीयश्चापतर्पणः ॥ १ ॥ बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ । बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत् ॥ २ ॥ देहस्य भवतः प्रायो भौमापमितरच्च ते । स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ ३ ॥ भूतानां तदपि द्वैध्याद्द्वितयं नातिवर्तते । शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम् ॥ ४ ॥ यदीरयेद्बहिर्दोषान् पञ्चधा शोधनं च तत् । निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः ॥ ५ ॥ न शोधयति यद्दोषान् समान्नोदीरयत्यपि । समीकरोति विषमान् शमनं तच्च सप्तधा ॥ ६ ॥ पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः । बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च ॥ ७ ॥ बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान् । भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान् ॥ ८ ॥ गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि । मांसक्षीरसितासर्पिर्मधुरस्निग्धवस्तिभिः ॥ ९ ॥ स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः । मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः ॥ १० ॥ विसर्पविद्रधिप्लीहशिरःकण्ठाक्षिरोगिणः । स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि ॥ ११ ॥ तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान् । आमदोषज्वरच्छर्दिर्अतीसारहृद्आमयैः ॥ १२ ॥ विबन्धगौरवोद्गारहृल्लासादिभिरातुरान् । मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः ॥ १३ ॥ एभिरेवामयैरार्तान् हीनस्थौल्यबलाधिकान् । क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान् ॥ १४ ॥ १४.१४ व् क्षुत्तृष्णानिग्रहैर्दोषैर् १४.१४ व् क्षुत्तृष्णानिग्रहैर्दोषैश् १४.१४ व् चार्तान्मध्यबलैर्दृढान् समीरणातपायासैः किमुताल्पबलैर्नरान् । न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत् ॥ १५ ॥ युक्त्या वा देशकालादिबलतस्तानुपाचरेत् । बृंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसंक्षयः ॥ १६ ॥ विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः । क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता ॥ १७ ॥ व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते । अन्अपेक्षितमात्रादिसेविते कुरुतस्तु ते ॥ १८ ॥ अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः । रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते ॥ १९ ॥ १४.१९ व् रूपं तैरेव विज्ञेयम् अतिस्थौल्यापचीमेहज्वरोदरभगन्दरान् । काससंन्यासकृच्छ्रामकुष्ठादीनतिदारुणान् ॥ २० ॥ तत्र मेदोऽनिलश्लेष्मनाशनं सर्वमिष्यते । कुलत्थजूर्णश्यामाकयवमुद्गमधूदकम् ॥ २१ ॥ मस्तुदण्डाहतारिष्टचिन्ताशोधनजागरम् । मधुना त्रिफलां लिह्याद्गुडूचीमभयां घनम् ॥ २२ ॥ रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः । शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः ॥ २३ ॥ १४.२३ व् शिलाह्वस्य प्रयोगश्च विडङ्गं नागरं क्षारः काललोहरजो मधु । यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित् ॥ २४ ॥ व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः । हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः ॥ २५ ॥ निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् । एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥ २६ ॥ १४.२६ व् तैलं च सदृशांशिकम् सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् । अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान् ॥ २७ ॥ हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान् । बुद्धिमेधास्मृतिकरं संनस्याग्नेश्च दीपनम् ॥ २८ ॥ अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः । स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः ॥ २९ ॥ १४.२९ व् अतिकार्श्यं भ्रमः श्वास १४.२९ व् तृष्णाधिक्यमरोचकः वस्तिहृन्मूर्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः । प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम् ॥ ३० ॥ १४.३० व् च्छर्दिःपर्वास्थिभेदनम् वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात् । कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम् ॥ ३१ ॥ १४.३१ व् विण्मूत्रादिग्रहाद्याश्च १४.३१ व् न हि स्थौल्यस्य भेषजम् बृंहणं लङ्घनं वालमतिमेदोऽग्निवातजित् । मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति ॥ ३२ ॥ १४.३२ व् बृंहणं लङ्घनं नालम् १४.३२ व् मधुरस्नेहसौहित्यैर् १४.३२ व् यत्सौख्येन विनश्यति क्रशिमा स्थविमात्य्अन्तविपरीतनिषेवणैः । योजयेद्बृंहणं तत्र सर्वं पानान्नभेषजम् ॥ ३३ ॥ अचिन्तया हर्षणेन ध्रुवं संतर्पणेन च । स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति ॥ ३४ ॥ १४.३४ व् अचिन्तया प्रहर्षेण १४.३४ व् स्वप्नप्रसङ्गाच्च नरो न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत् । मांसादमांसं मांसेन संभृतत्वाद्विशेषतः ॥ ३५ ॥ १४.३५ व् संभृतत्वाद्विशिष्यते १४.३५ व् संभृतत्वाद्बृहत्त्वकृत् गुरु चातर्पणं स्थूले विपरीतं हितं कृशे । यवगोधूममुभयोस्तद्योग्याहितकल्पनम् ॥ ३६ ॥ १४.३६ व् तद्योग्यहितकल्पनम् १४.३६ व् ततो ग्राहितकल्पनम् दोषगत्यातिरिच्यन्ते ग्राहिभेद्य्आदिभेदतः । उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव ॥ ३७ ॥ १४.३७ व् उपक्रमा न तु द्वित्वाद् षूत्रस्थान मदनमधुकलम्बानिम्बबिम्बीविशालात्रपुसकुटजमूर्वादेवदालीकृमिघ्नम् । विदुलदहनचित्राः कोशवत्यौ करञ्जः कणलवणवचैलासर्षपाश्छर्दनानि ॥ १ ॥ निकुम्भकुम्भत्रिफलागवाक्षीस्नुक्शङ्खिनीनीलिनितिल्वकानि । शम्याककम्पिल्लकहेमदुग्धा दुग्धं च मूत्रं च विरेचनानि ॥ २ ॥ मदनकुटजकुष्ठदेवदालीमधुकवचादशमूलदारुरास्नाः । यवमिशिकृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि ॥ ३ ॥ १५.३ व् यवमिशिकृतवेधनं कुलत्थो वेल्लापामार्गव्योषदार्वीसुराला बीजं शैरीषं बार्हतं शैग्रवं च । सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम् ॥ ४ ॥ भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम् । वायुं वीरतरादिश्च विदार्य्आदिश्च नाशयेत् ॥ ५ ॥ १५.५ व् दशमूलं बलात्रयम् १५.५ व् विदार्य्आदिश्च शोधयेत् दूर्वानन्ता निम्बवासात्मगुप्ता गुन्द्राभीरुः शीतपाकी प्रियङ्गुः । न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं शारिवादिश्च पित्तम् ॥ ६ ॥ आरग्वधादिरर्कादिर्मुष्ककाद्योऽसनादिकः । सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित् ॥ ७ ॥ जीवन्तीकाकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च । ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः ॥ ८ ॥ विदारिपञ्चाङ्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः । कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ ९ ॥ १५.९ व् वृश्चीवदेवाद्वयशूर्पपर्ण्यः १५.९ व् कण्डूकरी गोपसुता त्रिपादी विदार्य्आदिरयं हृद्यो बृंहणो वातपित्तहा । शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः ॥ १० ॥ १५.१० व् शोषगुल्माङ्गसादोर्ध्व शारिवोशीरकाश्मर्यमधूकशिशिरद्वयम् । यष्टी परूषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ॥ ११ ॥ पद्मकपुण्ड्रौ वृद्धितुगर्द्ध्यः शृङ्ग्यमृता दश जीवनसंज्ञाः । स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः ॥ १२ ॥ परूषकं वरा द्राक्षा कट्फलं कतकात्फलम् । राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् ॥ १३ ॥ अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम् । सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् ॥ १४ ॥ १५.१४ व् विषान्तर्दाहपित्तजित् १५.१४ व् विषान्तर्दाहपित्तहृत् पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम् । निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम् ॥ १५ ॥ गुडूचीपद्मकारिष्टधानकारक्तचन्दनम् । पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् ॥ १६ ॥ १५.१६ व् धान्यकारक्तचन्दनम् १५.१६ व् धान्यकं रक्तचन्दनम् १५.१६ व् धनिकारक्तचन्दनम् आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठाः । भूनिम्बसैर्यकपटोलकरञ्जयुग्मसप्तच्छदाग्निसुषवीफलबाणघोण्टाः ॥ १७ ॥ आरग्वधादिर्जयति च्छर्दिकुष्ठविषज्वरान् । कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः ॥ १८ ॥ १५.१८ व् मेदोदरविशोधनः असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशिपामेषशृङ्ग्यः । त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः ॥ १९ ॥ असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन् । पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः ॥ २० ॥ १५.२० व् श्वित्रकुष्ठवमिक्रिमीन् वरुणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः । द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः ॥ २१ ॥ १५.२१ व् वरणसैर्यकयुग्मशतावरी वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति । आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम् ॥ २२ ॥ १५.२२ व् वरणादिः कफं मेदो १५.२२ व् अधोवातं शिरःशूलं ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम् । सशिलाजतु कृच्छ्राश्मगुल्ममेदःकफापहम् ॥ २३ ॥ १५.२३ व् गुल्ममेहकफापहम् वेल्लन्तरारणिकबूकवृषाश्मभेदगोकण्टकेत्कटसहाचरबाणकाशाः । वृक्षादनीनलकुशद्वयगुण्ठगुन्द्राभल्लूकमोरटकुरण्टकरम्भपार्थाः ॥ २४ ॥ १५.२४ व् गोकण्टकोत्कटसहाचरबाणकाशाः १५.२४ व् वृक्षादनीनलकुशद्वयगुन्थगुन्द्रा १५.२४ व् वृक्षादनीनलकुशद्वयगुञ्छगुन्द्रा १५.२४ व् वृक्षादनीनलकुशद्वयगुच्छगुन्द्रा वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान् । अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः ॥ २५ ॥ १५.२५ व् कृच्छ्राघातरुजापहः लोध्रशाबरकलोध्रपलाशा जिङ्गिनीसरलकट्फलयुक्ताः । कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः ॥ २६ ॥ १५.२६ व् लोध्रशाबरकदम्बपलाशा १५.२६ व् झिञ्झिणीसरलकट्फलयुक्ताः एष लोध्रादिको नाम मेदःकफहरो गणः । योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥ २७ ॥ अर्कालर्कौ नागदन्ती विशल्या भार्गी रास्ना वृश्चिकाली प्रकीर्या । प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः ॥ २८ ॥ अयमर्कादिको वर्गः कफमेदोविषापहः । कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ॥ २९ ॥ १५.२९ व् अयमर्कादिको नाम सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णीकट्फलं कासमर्दः । क्षवकसरसिभार्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी ॥ ३० ॥ १५.३० व् खरबुकवृषकर्णीकट्फलाः कासमर्दः १५.३० व् खरबुसवृषकर्णीकट्फलाः कासमर्दः १५.३० च् खरमुखवृषकर्णीकट्फलं कासमर्दः १५.३० व् क्षवकसुरसिभार्गीकार्मुकाः काकमाची १५.३० व् क्षवकसुरसिभार्गीकामुकाः काकमाची १५.३० व् क्षवकसरसिभार्गीकामुकाः काकमाची १५.३० व् क्षवकस्वरसिभार्गीकार्मुकाः काकमाची सुरसादिर्गणः श्लेष्ममेदःकृमिनिषूदनः । प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ॥ ३१ ॥ मुष्ककस्नुग्वराद्वीपिपलाशधवशिंशिपाः । गुल्ममेहाश्मरीपाण्डुमेदोऽर्शःकफशुक्रजित् ॥ ३२ ॥ १५.३२ व् पलाशधवशिंशिपम् वत्सकमूर्वाभार्गीकटुका मरीचं घुणप्रिया च गण्डीरम् । एला पाठाजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः ॥ ३३ ॥ जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति । चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः ॥ ३४ ॥ १५.३४ व् पशुगन्धा पञ्चकोलकं घ्नन्ति वचाजलददेवाह्वनागरातिविषाभयाः । हरिद्राद्वययष्ट्य्आह्वकलशीकुटजोद्भवाः ॥ ३५ ॥ वचाहरिद्रादिगणावामातीसारनाशनौ । मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ ॥ ३६ ॥ १५.३६ व् आमातीसारपाचनौ प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता । मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः ॥ ३७ ॥ १५.३७ व् सारद्रुमो मोचरसः समङ्गा १५.३७ व् पुन्नामशीतं मदनीयहेतुः अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुराः । लोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः ॥ ३८ ॥ गणौ प्रियङ्ग्व्अम्बष्ठादी पक्वातीसारनाशनौ । संधानीयौ हितौ पित्ते व्रणानामपि रोपणौ ॥ ३९ ॥ मुस्तावचाग्निद्विनिशाद्वितिक्ताभल्लातपाठात्रिफलाविषाख्याः । कुष्ठं त्रुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च ॥ ४० ॥ न्यग्रोधपिप्पलसदाफललोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः । प्लक्षाम्रवञ्जुलपियालपलाशनन्दीकोलीकदम्बविरलामधुकं मधूकम् ॥ ४१ ॥ १५.४१ व् न्यग्रोधपिप्पलसदाफललोध्रयुग्म १५.४१ व् जम्बूद्वयार्जुनकपीतनसोमवल्काः न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधनः । मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः ॥ ४२ ॥ १५.४२ व् न्यग्रोधादिर्गणो वर्ण्यः १५.४२ व् योनिदोषनिबर्हणः एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकम् ॥ ४३ ॥ स्पृक्काचोरकचोचपत्त्रतगरस्थौणेयजातीरसाः ॥ ४३ ॥ १५.४३ व् स्पृक्काचोरकचोचपत्त्रतगरस्थौणेयजातीरसाः शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमम् ॥ ४३ ॥ १५.४३ व् शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकं कुङ्कुमं १५.४३ व् शुक्तिव्याघ्रनखौ सुराह्वमगुरुः श्रीवेष्टकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम् ॥ ४३ ॥ एलादिको वातकफौ विषं च विनियच्छति । वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः ॥ ४४ ॥ १५.४४ व् वर्ण्यः प्रसादनः कण्डू श्यामादन्तीद्रवन्तीक्रमुककुटरणाशङ्खिनीचर्मसाह्वा ॥ ४५ ॥ १५.४५ व् श्यामादन्तीद्रवन्तीक्रमुककुटरणीशङ्खिनीचर्मसाह्वा स्वर्णक्षीरीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरञ्जाः ॥ ४५ ॥ बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात्फलानि ॥ ४५ ॥ १५.४५ व् बस्तान्त्री व्याधिघातो बहुलबहुरसस्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम् ॥ ४५ ॥ त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः । युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम् ॥ ४६ ॥ एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः । पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान् ॥ ४७ ॥ १५.४७ व् एते वर्गा दोषदूष्याद्यवेक्ष्य १५.४७ व् सेकालेपैर्घ्नन्ति रोगान् सुकृच्छ्रान् १५.४७ व् स्वेदाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान् षूत्रस्थान गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम् । औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् ॥ १ ॥ सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम् । तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ २ ॥ माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात् । पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम् ॥ ३ ॥ घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च । द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ॥ ४ ॥ स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः । वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः ॥ ५ ॥ वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः । स्नेह्या न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ॥ ६ ॥ ऊरुस्तम्भातिसारामगलरोगगरोदरैः । मूर्छाछर्द्य्अरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ॥ ७ ॥ अपप्रसूता युक्ते च नस्ये वस्तौ विरेचने । तत्र धीस्मृतिमेधादिकाङ्क्षिणां शस्यते घृतम् ॥ ८ ॥ १६.८ व् तत्र धीस्मृतिमेधाग्नि ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु । तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु ॥ ९ ॥ वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु । रूक्षक्लेशक्षमात्य्अग्निवातावृतपथेषु च ॥ १० ॥ शेषौ वसा तु संध्य्अस्थिमर्मकोष्ठरुजासु च । तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि ॥ ११ ॥ तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे । ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ ॥ १२ ॥ तैलं त्वरायां शीतेऽपि घर्मेऽपि च घृतं निशि । निश्येव पित्ते पवने संसर्गे पित्तवत्यपि ॥ १३ ॥ निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततो दिवा । युक्त्यावचारयेत्स्नेहं भक्ष्याद्य्अन्नेन वस्तिभिः ॥ १४ ॥ नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः । रसभेदैककत्वाभ्यां चतुःषष्टिर्विचारणाः ॥ १५ ॥ स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः । यथोक्तहेत्व्अभावाच्च नाच्छपेयो विचारणा ॥ १६ ॥ १६.१६ व् स्नेहस्यान्नाभिभूतत्वाद् १६.१६ व् नाच्छः पेयो विचारणा स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात् । द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात् ॥ १७ ॥ ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम् । कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम् ॥ १८ ॥ ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः । शमनः क्षुद्वतोऽन्अन्नो मध्यमात्रश्च शस्यते ॥ १९ ॥ बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च । बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु ॥ २० ॥ १६.२० व् सभक्तोऽल्पो हितश्च सः स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु । मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च ॥ २१ ॥ प्राङ्मध्योत्तरभक्तोऽसावधोमध्योर्ध्वदेहजान् । व्याधीञ्जयेद्बलं कुर्यादङ्गानां च यथाक्रमम् ॥ २२ ॥ वार्युष्णमच्छेऽनुपिबेत्स्नेहे तत्सुखपक्तये । आस्योपलेपशुद्ध्यै च तौबरारुष्करे न तु ॥ २३ ॥ मूर्छा दाहोऽरतिस्तृष्णा जृम्भा मोहभ्रमक्लमाः । भवन्ति जीर्यति स्नेहे जीर्णः स्यात्तैः शमं गतैः ॥ २३+१ ॥ जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत् । तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः ॥ २४ ॥ भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि । द्रवोष्णमन्अभिष्यन्दि नातिस्निग्धमसंकरम् ॥ २५ ॥ उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः । न वेगरोधी व्यायामक्रोधशोकहिमातपान् ॥ २६ ॥ प्रवातयानयानाध्वभाष्यात्य्आसनसंस्थितीः । नीचात्य्उच्चोपधानाहःस्वप्नधूमरजांसि च ॥ २७ ॥ १६.२७ व् भाष्याभ्यासनसंस्थितीः १६.२७ व् भाष्यात्य्अशनसंस्थितीः १६.२७ व् भाष्यात्य्आशनसंस्थितीः यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत् । सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः ॥ २८ ॥ उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत् । त्र्य्अहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत् ॥ २९ ॥ सम्यक्स्निग्धोऽथवा यावदतः सात्म्यीभवेत्परम् । वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् ॥ ३० ॥ स्नेहोद्वेगः क्लमः सम्यक्स्निग्धे रूक्षे विपर्ययः । अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः ॥ ३१ ॥ १६.३१ व् मृदुस्निग्धाङ्गता ग्लानिः १६.३१ व् स्नेहोद्वेगोऽथ लाघवम् १६.३१ व् स्नेहोद्वेगोऽङ्गलाघवम् १६.३१ व् अतिस्निग्धे तु पाण्डुत्व १६.३१ व् विमलेन्द्रियता सम्यक् १६.३१ व् घ्राणवक्त्रगुदस्रवाः १६.३१ व् स्निग्धे रूक्षे विपर्ययः अमात्रयाहितोऽकाले मिथ्याहारविहारतः । स्नेहः करोति शोफार्शस्तन्द्रास्तम्भविसंज्ञताः ॥ ३२ ॥ कण्डूकुष्ठज्वरोत्क्लेशशूलानाहभ्रमादिकान् । क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम् ॥ ३३ ॥ १६.३३ व् शूलानाहबलक्षयान् १६.३३ व् क्षुत्तृष्णोल्लेखनं स्वेदो १६.३३ व् रूक्षं पानान्नभेषजम् तक्रारिष्टखलोद्दालयवश्यामाककोद्रवाः । पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु ॥ ३४ ॥ १६.३४ व् तक्रारिष्टं खलोद्दाल १६.३४ व् यवश्यामाककोद्रवम् यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम् । विरूक्षणे लङ्घनवत्कृतातिकृतलक्षणम् ॥ ३५ ॥ स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत् । स्निग्धस्त्र्य्अहं स्थितः कुर्याद्विरेकं वमनं पुनः ॥ ३६ ॥ १६.३६ व् रसभुक्स्वेदमाचरन् एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः । मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः ॥ ३७ ॥ स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः । संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते ॥ ३८ ॥ अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः । बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ॥ ३९ ॥ योगानिमानन्उद्वेगान् सद्यःस्नेहान् प्रयोजयेत् । प्राज्यमांसरसास्तेषु पेया वा स्नेहभर्जिता ॥ ४० ॥ १६.४० व् पेया वा स्नेहभर्जिताः तिलचूर्णश्च सस्नेहफाणितः कृशरा तथा । क्षीरपेया घृताढ्योष्णा दध्नो वा सगुडः सरः ॥ ४१ ॥ १६.४१ व् तिलचूर्णं च सस्नेह १६.४१ व् फाणितं कृशरा तथा पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः । सप्तैते स्नेहनाः सद्यः स्नेहाश्च लवणोल्बणाः ॥ ४२ ॥ १६.४२ व् स्नेहश्च लवणोल्बणः तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च । गुडानूपामिषक्षीरतिलमाषसुरादधि ॥ ४३ ॥ १६.४३ व् तद्धि विष्यन्द्यरूक्षं च कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत् । त्रिफलापिप्पलीपथ्यागुग्गुल्व्आदिविपाचितान् ॥ ४४ ॥ स्नेहान् यथास्वमेतेषां योजयेदविकारिणः । क्षीणानां त्वामयैरग्निदेहसंधुक्षणक्षमान् ॥ ४५ ॥ १६.४५ व् क्षीणानामामयैरग्नि दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः । दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ॥ ४६ ॥ षूत्रस्थान स्वेदस्तापोपनाहोष्मद्रवभेदाच्चतुर्विधः । तापोऽग्नितप्तवसनफालहस्ततलादिभिः ॥ १ ॥ उपनाहो वचाकिण्वशताह्वादेवदारुभिः । धान्यैः समस्तैर्गन्धैश्च रास्नैरण्डजटामिषैः ॥ २ ॥ उद्रिक्तलवणैः स्नेहचुक्रतक्रपयःप्लुतैः । केवले पवने श्लेष्मसंसृष्टे सुरसादिभिः ॥ ३ ॥ पित्तेन पद्मकाद्यैस्तु शाल्वणाख्यैः पुनः पुनः । स्निग्धोष्णवीर्यैर्मृदुभिश्चर्मपट्टैरपूतिभिः ॥ ४ ॥ १७.४ व् पित्तेन पद्मकाद्यैश्च १७.४ व् शाल्वलाख्यैः पुनः पुनः अलाभे वातजित्पत्त्रकौशेयाविकशाटकैः । बद्धं रात्रौ दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवाकृतम् ॥ ५ ॥ ऊष्मा तूत्कारिकालोष्टकपालोपलपांसुभिः । पत्त्रभङ्गेन धान्येन करीषसिकतातुषैः ॥ ६ ॥ अनेकोपायसंतप्तैः प्रयोज्यो देशकालतः । शिग्रुवारणकैरण्डकरञ्जसुरसार्जकात् ॥ ७ ॥ शिरीषवासावंशार्कमालतीदीर्घवृन्ततः । पत्त्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवारिजैः ॥ ८ ॥ दशमूलेन च पृथक्सहितैर्वा यथामलम् । स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः ॥ ९ ॥ कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम् । वाससाच्छादितं गात्रं स्निग्धं सिञ्चेद्यथासुखम् ॥ १० ॥ १७.१० व् वस्त्रावच्छादितं गात्रं तैरेव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गगेऽनिले । अवगाह्यातुरस्तिष्ठेदर्शःकृच्छ्रादिरुक्षु च ॥ ११ ॥ निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत् । व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम् ॥ १२ ॥ १७.१२ व् निर्वातेऽन्तर्बहिःस्निग्धो कफार्तो रूक्षणं रूक्षो रूक्षः स्निग्धं कफानिले । आमाशयगते वायौ कफे पक्वाशयाश्रिते ॥ १३ ॥ १७.१३ व् कफे तं रूक्षणै रूक्षो रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः । अल्पं वङ्क्षणयोः स्व्अल्पं दृङ्मुष्कहृदये न वा ॥ १४ ॥ १७.१४ व् अल्पं वङ्क्षणयोः स्वेदं शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे । स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत् ॥ १५ ॥ पित्तास्रकोपतृण्मूर्छास्वराङ्गसदनभ्रमाः । संधिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम् ॥ १६ ॥ स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम् । विषक्षाराग्न्य्अतीसारच्छर्दिमोहातुरेषु च ॥ १७ ॥ स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा । द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम् ॥ १८ ॥ स्वेदनं स्तम्भनं श्लक्ष्णं रूक्षसूक्ष्मसरद्रवम् । प्रायस्तिक्तं कषायं च मधुरं च समासतः ॥ १९ ॥ स्तम्भितः स्याद्बले लब्धे यथोक्तामयसंक्षयात् । स्तम्भत्वक्स्नायुसंकोचकम्पहृद्वाग्घनुग्रहैः ॥ २० ॥ पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत् । न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्छितान् ॥ २१ ॥ स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः । तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः ॥ २२ ॥ १७.२२ व् कुष्ठशोफाढ्यरोगिणः पीतदुग्धदधिस्नेहमधून् कृतविरेचनान् । भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् ॥ २३ ॥ १७.२३ व् क्रोधशोकभयान्वितान् १७.२३ व् क्रोधरक्तक्षयान्वितान् क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान् । गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे ॥ २४ ॥ १७.२४ व् मृदु त्वात्ययिके गदे श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु । स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे ॥ २५ ॥ अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे । महत्त्वे मुष्कयोः खल्यामायामे वातकण्टके ॥ २६ ॥ मूत्रकृच्छ्रार्बुदग्रन्थिशुक्राघाताढ्यमारुते । स्वेदं यथायथं कुर्यात्तद्औषधविभागतः ॥ २७ ॥ स्वेदो हितस्त्वन्आग्नेयो वाते मेदःकफावृते । निवातं गृहमायासो गुरुप्रावरणं भयम् ॥ २८ ॥ उपनाहाहवक्रोधा भूरिपानं क्षुधातपः ॥ २८ª ॥ १७.२८ªअव् उपनाहाहवक्रोध १७.२८ªब्व् भूरिपानं क्षुधातपः १७.२८ªब्व् भूरिपानक्षुद्आतपः स्वेदयन्ति दशैतानि नरमग्निगुणादृते ॥ २८ª+१ ॥ स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः । दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक्शुद्धिभिर्निर्ह्रियन्ते ॥ २९ ॥ षूत्रस्थान कफे विदध्याद्वमनं संयोगे वा कफोल्बणे । तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत् ॥ १ ॥ नवज्वरातिसाराधःपित्तासृग्राजयक्ष्मिणः । कुष्ठमेहापचीग्रन्थिश्लीपदोन्मादकासिनः ॥ २ ॥ श्वासहृल्लासवीसर्पस्तन्यदोषोर्ध्वरोगिणः । अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः ॥ ३ ॥ १८.३ व् स्तन्यरोगोर्ध्वरोगिणः १८.३ व् अवाम्या गर्भिणीरूक्ष १८.३ व् क्षुधिता नित्यदुःखिताः बालवृद्धकृशस्थूलहृद्रोगिक्षतदुर्बलाः । प्रसक्तवमथुप्लीहतिमिरकृमिकोष्ठिनः ॥ ४ ॥ ऊर्ध्वप्रवृत्तवाय्व्अस्रदत्तवस्तिहतस्वराः । मूत्राघात्युदरी गुल्मी दुर्वमोऽत्य्अग्निरर्शसः ॥ ५ ॥ १८.५ व् ऊर्ध्वप्रवृत्तवातास्र उदावर्तभ्रमाष्ठीलापार्श्वरुग्वातरोगिणः । ऋते विषगराजीर्णविरुद्धाभ्यवहारतः ॥ ६ ॥ १८.६ व् उदावर्तश्रमाष्ठीला प्रसक्तवमथोः पूर्वे प्रायेणामज्वरोऽपि च । धूमान्तैः कर्मभिर्वर्ज्याः सर्वैरेव त्वजीर्णिनः ॥ ७ ॥ विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः । जीर्णज्वरोदरगरच्छर्दिप्लीहहलीमकाः ॥ ८ ॥ १८.८ व् जीर्णज्वरोदरच्छर्दि १८.८ व् प्लीहानाहहलीमकाः १८.८ व् प्लीहपाण्डुहलीमकाः विद्रधिस्तिमिरं काचः स्यन्दः पक्वाशयव्यथा । योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः ॥ ९ ॥ १८.९ व् योनिशुक्रगता रोगाः १८.९ व् योनिशुक्राशया रोगाः वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः । वाम्यश्च कुष्ठमेहाद्या न तु रेच्या नवज्वरी ॥ १० ॥ १८.१० व् वातासृगूर्ध्वगं रक्तं १८.१० व् न तु रेच्यो नवज्वरी अल्पाग्न्य्अधोगपित्तास्रक्षतपाय्व्अतिसारिणः । सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः ॥ ११ ॥ १८.११ व् सशल्याभिहतक्रूर अथ साधारणे काले स्निग्धस्विन्नं यथाविधि । श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः ॥ १२ ॥ १८.१२ व् मत्स्यमांसतिलादिभिः १८.१२ व् मांसमाषतिलादिभिः निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम् । निर्अन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम् ॥ १३ ॥ १८.१३ व् निशां सुप्तं च जीर्णान्नं वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः । आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम् ॥ १४ ॥ १८.१४ व् आकण्ठं पाययेन्मद्यं यथाविकारविहितां मधुसैन्धवसंयुताम् । कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् ॥ १५ ॥ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः । ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु वः ॥ १६ ॥ रसायनमिवर्षीणाममराणामिवामृतम् । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ १७ ॥ १८.१७ व् रसायनमिवर्षीणां १८.१७ व् देवानाममृतं यथा नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय ॥ १७+१ ॥ तथागतायार्हते सम्यक्संबुद्धाय ॥ १७+२ ॥ तद्यथा ॥ १७+३ ॥ भैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा ॥ १७+४ ॥ १८.१७+४ भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा १८.१७+४ भैषज्ये महाभैषज्ये समुद्गते स्वाहा प्राङ्मुखं पाययेत्पीतो मुहूर्तमनुपालयेत् । तन्मना जातहृल्लासप्रसेकश्छर्दयेत्ततः ॥ १८ ॥ १८.१८ व् प्राङ्मुखं पाययेत्पीतं १८.१८ व् प्राङ्मुखं पाययेत्पीते १८.१८ व् प्रसेकं छर्दयेत्ततः अङ्गुलीभ्यामन्आयस्तो नालेन मृदुनाथवा । गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन् ॥ १९ ॥ १८.१९ व् नाप्रवृत्तान् प्रवर्तयन् १८.१९ व् नाप्रवृत्तान् प्रवर्तयेत् १८.१९ व् अप्रवृत्तान् प्रवर्तयेत् प्रवर्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः । उभे पार्श्वे ललाटं च वमतश्चास्य धारयेत् ॥ २० ॥ प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः । कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति ॥ २१ ॥ वमेत्स्निग्धाम्ललवणैः संसृष्टे मरुता कफे । पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत् ॥ २२ ॥ हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः । वमेत्पुनः पुनस्तत्र वेगानामप्रवर्तनम् ॥ २३ ॥ प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा । अयोगस्तेन निष्ठीवकण्डूकोठज्वरादयः ॥ २४ ॥ निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात् । सम्यग्योगेऽतियोगे तु फेनचन्द्रकरक्तवत् ॥ २५ ॥ १८.२५ व् फेनचन्द्रिकरक्तवत् मनःप्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत् । वैपरीत्यमयोगानां न चातिमहती व्यथा ॥ २५.१+(१) ॥ १८.२५.१+(१)अव् मनःप्रसादः स्वास्थ्यं च १८.२५.१+(१)ब्व् अवस्थानं स्वयं भवेत् वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः । घोरा वाय्व्आमया मृत्युर्जीवशोणितनिर्गमात् ॥ २६ ॥ सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत् । धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत् ॥ २७ ॥ ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना । भुञ्जानो रक्तशाल्य्अन्नं भजेत्पेयादिकं क्रमम् ॥ २८ ॥ १८.२८ व् पुराणरक्तशालीनाम् १८.२८ व् भुञ्जानोऽन्नमपेक्षेत १८.२८ व् अस्नेहलवणोषणम् १८.२८ व् पेयादिकमिमं क्रमम् १८.२८ व् पेयादिकमिमं क्रमात् १८.२८ व् पेयादिकममुं क्रमम् पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम् । क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः ॥ २९ ॥ यथाणुरग्निस्तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण । महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः ॥ ३० ॥ १८.३० व् शुद्धस्य पेयादिभिरन्तर्अग्निः जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ । दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च ॥ ३१ ॥ पित्तावसानं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः । द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम् ॥ ३२ ॥ अथैनं वामितं भूयः स्नेहस्वेदोपपादितम् । श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत् ॥ ३३ ॥ बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते । प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि ॥ ३४ ॥ कषायमधुरैः पित्ते विरेकः कटुकैः कफे । स्निग्धोष्णलवणैर्वायावप्रवृत्तौ तु पाययेत् ॥ ३५ ॥ उष्णाम्बु स्वेदयेदस्य पाणितापेन चोदरम् । उत्थानेऽल्पे दिने तस्मिन् भुक्त्वान्येद्युः पुनः पिबेत् ॥ ३६ ॥ अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः । भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम् ॥ ३७ ॥ यौगिकं सम्यगालोच्य स्मरन् पूर्वमतिक्रमम् । हृत्कुक्ष्य्अशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः ॥ ३८ ॥ १८.३८ व् स्मरन् पूर्वमनुक्रमम् कण्डूविदाहः पिटिकाह्पीनसो वातविड्ग्रहः । अयोगलक्षणं योगो वैपरीत्ये यथोदितात् ॥ ३९ ॥ १८.३९ व् कण्डूविदाहः पिटिका विट्पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत् । निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम् ॥ ४० ॥ मांसधावनतुल्यं वा मेदःखण्डाभमेव वा । गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम् ॥ ४१ ॥ १८.४१ व् श्रमो नेत्रप्रवेशनम् भवन्त्यतिविरिक्तस्य तथातिवमनामयाः । सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत् ॥ ४२ ॥ धूमवर्ज्येन विधिना ततो वमितवानिव । क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम् ॥ ४३ ॥ मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम् । अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम् ॥ ४४ ॥ स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते । संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः ॥ ४५ ॥ यात्यग्निर्मन्दतां तस्मात्क्रमं पेयादिमाचरेत् । स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् ॥ ४६ ॥ पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः । अपक्वं वमनं दोशान् पच्यमानं विरेचनम् ॥ ४७ ॥ १८.४७ व् तर्पणादिः क्रमो हितः १८.४७ व् तर्पणादिः क्रमो मतः १८.४७ व् तर्पणादिक्रमो मतः निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत् । दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम् ॥ ४८ ॥ विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत् । दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः ॥ ४९ ॥ १८.४९ व् भोज्यैस्तं समुपाचरेत् अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम् । वरं तदसकृत्पीतमन्यथा संशयावहम् ॥ ५० ॥ १८.५० व् वरं तदसकृत्पीतं १८.५० व् नान्यथा संशयावहम् हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः । दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान् ॥ ५१ ॥ क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः । मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः ॥ ५२ ॥ १८.५२ व् हन्युश्चैनमनिर्हृताः संधुक्षिताग्निं विजितकफवातं च शोधयेत् । रूक्षबह्व्अनिलक्रूरकोष्ठव्यायामशीलिनाम् ॥ ५३ ॥ दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति । तेभ्यो वस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम् ॥ ५४ ॥ १८.५४ व् तेभ्यो वस्तिं पुरो दद्यात् शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः । प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम् ॥ ५५ ॥ विषाभिघातपिटिकाकुष्ठशोफविसर्पिणः । कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत् ॥ ५६ ॥ १८.५६ व् नातिस्निग्धान् विरेचयेत् सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान् । कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे ॥ ५७ ॥ १८.५७ व् रूक्षैश्च स्नेहभावितान् स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च । मलो हि देहादुत्क्लेश्य ह्रियते वाससो यथा ॥ ५८ ॥ स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः । स्नेहस्वेदावन्अभ्यस्य कुर्यात्संशोधनं तु यः ॥ ५९ ॥ १८.५९ व् स्नेहस्वेदैस्तथोत्क्लेश्य १८.५९ व् ह्रियते शोधनैर्मलः दारु शुष्कमिवान्आमे शरीरं तस्य दीर्यते ॥ ५९ªअब् ॥ बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम् । चिराच्च पाकं वयसः करोति संशोधनं सम्यग्उपास्यमानम् ॥ ६०ª ॥ १८.६०ªअव् बुद्धेः प्रसादं बलमिन्द्रियाणां १८.६०ªब्व् धातोः स्थिरत्वं ज्वलनस्य दीप्तिम् षूत्रस्थान वातोल्बणेषु दोषेषु वाते वा वस्तिरिष्यते । उपक्रमाणां सर्वेषां सोऽग्रणीस्त्रिविधस्तु सः ॥ १ ॥ १९.१ व् सोऽग्रणीस्त्रिविधश्च सः निरूहोऽन्वासनं वस्तिरुत्तरस्तेन साधयेत् । गुल्मानाहखुडप्लीहशुद्धातीसारशूलिनः ॥ २ ॥ जीर्णज्वरप्रतिश्यायशुक्रानिलमलग्रहान् । वर्ध्माश्मरीरजोनाशान् दारुणांश्चानिलामयान् ॥ ३ ॥ अन्आस्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः । आमातीसारी वमिमान् संशुद्धो दत्तनावनः ॥ ४ ॥ श्वासकासप्रसेकार्शोहिध्माध्मानाल्पवह्नयः । शूनपायुः कृताहारो बद्धच्छिद्रोदकोदरी ॥ ५ ॥ १९.५ व् बद्धच्छिद्रदकोदरी कुष्ठी च मधुमेही च मासान् सप्त च गर्भिणी । आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः ॥ ६ ॥ रूक्षाः केवलवातार्ता नानुवास्यास्त एव च । येऽन्आस्थाप्यास्तथा पाण्डुकामलामेहपीनसाः ॥ ७ ॥ निर्अन्नप्लीहविड्भेदिगुरुकोष्ठकफोदराः । अभिष्यन्दिभृशस्थूलकृमिकोष्ठाढ्यमारुताः ॥ ८ ॥ १९.८ व् गुरुकोष्ठः कफोदरी १९.८ व् अभिष्यन्दिकृशस्थूल पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान् । तयोस्तु नेत्रं हेमादिधातुदार्व्अस्थिवेणुजम् ॥ ९ ॥ गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जु गुटिकामुखम् । ऊनेऽब्दे पञ्च पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट् ॥ १० ॥ सप्तमे सप्त तान्यष्टौ द्वादशे षोडशे नव । द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च ॥ ११ ॥ वयोबलशरीराणि प्रमाणमभिवर्धयेत् । स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया ॥ १२ ॥ पूर्णेऽब्देऽङ्गुलमादाय तद्अर्धार्धप्रवर्धितम् । त्र्य्अङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत् ॥ १३ ॥ मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात् । मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम् ॥ १४ ॥ वर्त्याग्रे पिहितं मूले यथास्वं द्व्य्अङ्गुलान्तरम् । कर्णिकाद्वितयं नेत्रे कुर्यात्तत्र च योजयेत् ॥ १५ ॥ १९.१५ व् यथास्वं द्व्य्अङ्गुलान्तरे १९.१५ व् कुर्यात्तत्र प्रयोजयेत् १९.१५ व् कुर्यात्तत्र तु योजयेत् अजाविमहिषादीनां वस्तिं सुमृदितं दृढम् । कषायरक्तं निश्छिद्रग्रन्थिगन्धसिरं तनुम् ॥ १६ ॥ १९.१६ व् गोऽजाविमहिषादीनां ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम् । वस्त्य्अभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम् ॥ १७ ॥ १९.१७ व् ग्रन्थितं साधु सूत्रेण निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम् । प्रकुञ्चवृद्धिः प्रत्य्अब्दं यावत्षट्प्रसृतास्ततः ॥ १८ ॥ १९.१८ व् प्रकुञ्चो वत्सरात्परम् प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु । आसप्ततेरिदं मानं दशैव प्रसृताः परम् ॥ १९ ॥ १९.१९ व् द्वादशाष्टादशस्य च यथायथं निरूहस्य पादो मात्रानुवासने । आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः ॥ २० ॥ अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत् । शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा ॥ २१ ॥ १९.२१ व् रात्रौ केचित्ततोऽन्यथा अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु । अस्निग्धरूक्षमशितं सानुपानं द्रवादि च ॥ २२ ॥ १९.२२ व् सानुपानं द्रवादि वा कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे । नात्य्उच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः ॥ २३ ॥ संकोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम् । अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे ॥ २४ ॥ १९.२४ व् स्निग्धं स्निग्धमुखे गुदे उच्छ्वास्य वस्तेर्वदने बद्धे हस्तमकम्पयन् । पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम् ॥ २५ ॥ नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत् । सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति ॥ २६ ॥ १९.२६ व् सावशेषं प्रकुर्वीत दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ । तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत् ॥ २७ ॥ ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके । आहन्यान्मुष्टिनाङ्गं च स्नेहेनाभ्यज्य मर्दयेत् ॥ २८ ॥ वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते । योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत् ॥ २९ ॥ दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु । निवृत्तिकालः परमस्त्रयो यामस्ततः परम् ॥ ३० ॥ अहोरात्रमुपेक्षेत परतः फलवर्तिभिः । तीक्ष्णैर्वा वस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये ॥ ३१ ॥ अतिरौक्ष्यादन्आगच्छन्न चेज्जाड्यादिदोषकृत् । उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत् ॥ ३२ ॥ प्रातर्नागरधान्याम्भः कोष्णं केवलमेव वा । अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम् ॥ ३३ ॥ यथा वा स्नेहपक्तिः स्यादतोऽत्य्उल्बणमारुतान् । व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम् ॥ ३४ ॥ आध्मानसंकोचपुरीषबन्धक्षीणेन्द्रियत्वारुचिभङ्गशूलाः । पाङ्गुल्यशाखाश्रितवातभग्नबन्धाश्च साध्या ह्यनुवासनेन ॥ ३४+१ ॥ १९.३४+१ व् वाताश्च साध्या ह्यनुवासनेन इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये । निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः ॥ ३५ ॥ पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे । मध्याह्ने किञ्चिद्आवृत्ते प्रयुक्ते बलिमङ्गले ॥ ३६ ॥ अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम् । अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात् ॥ ३७ ॥ १९.३७ व् अवेत्य पुरुषं दोष वस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सह । क्वाथयेद्विंशतिपलं द्रव्यस्याष्टौ फलानि च ॥ ३८ ॥ १९.३८ व् तद्वेद्यैर्बहुभिः सह १९.३८ व् तद्विधैर्बहुभिः सह ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत् । पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके ॥ ३९ ॥ १९.३९ व् स्नेहं वातेऽनु कल्पयेत् १९.३९ व् स्नेहं वाते तु कल्पयेत् सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा । नात्य्अच्छसान्द्रता वस्तेः पलमात्रं गुडस्य च ॥ ४० ॥ मधुपट्व्आदिशेषं च युक्त्या सर्वं तदेकतः । उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम् ॥ ४१ ॥ प्रक्षिप्य वस्तौ प्रणयेत्पायौ नात्य्उष्णशीतलम् । नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु ॥ ४२ ॥ नात्य्अच्छसान्द्रं नोनातिमात्रं नापटु नाति च । लवणं तद्वदम्लं च पठन्त्यन्ये तु तद्विदः ॥ ४३ ॥ १९.४३ व् वदन्त्यन्ये तु तद्विदः मात्रां त्रिपलिकां कुर्यात्स्नेहमाक्षिकयोः पृथक् । कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम् ॥ ४४ ॥ सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत् । माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात् ॥ ४५ ॥ आवपेत निरूहाणामेष संयोजने विधिः । उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत् ॥ ४६ ॥ कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत् । आगतौ परमः कालो मुहूर्तो मृत्यवे परम् ॥ ४७ ॥ १९.४७ व् वेगश्चोत्कटुकः सृजेत् १९.४७ व् वेगश्चोत्कुटकः सृजेत् १९.४७ व् मुहूर्तो मृत्यवे परः तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम् । त्वरितं स्निग्धतीक्ष्णोष्णं वस्तिमन्यं प्रपीडयेत् ॥ ४८ ॥ १९.४८ व् तत्रानुलोमिकस्नेह विदद्यात्फलवर्तिं वा स्वेदनोत्त्रासनादि च । स्वयमेव निवृत्ते तु द्वितीयो वस्तिरिष्यते ॥ ४९ ॥ १९.४९ व् स्वेदनोत्रासनादि वा तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता । विरिक्तवच्च योगादीन् विद्याद्योगे तु भोजयेत् ॥ ५० ॥ १९.५० व् यावद्वा सुनिरूहता १९.५० व् विद्याद्योगे तु योजयेत् कोष्णेन वारिणा स्नातं तनुधन्वरसौदनम् । विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः ॥ ५१ ॥ १९.५१ व् कोष्णेन वारिणा स्नानं १९.५१ व् विकारा ये निरूहस्य ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम् । अथ वातार्दितं भूयः सद्य एवानुवासयेत् ॥ ५२ ॥ सम्यग्धीनातियोगाश्च तस्य स्युः स्नेहपीतवत् । किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते ॥ ५३ ॥ १९.५३ व् किञ्चित्कालं स्थितो यस्य सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम् । एकं त्रीन् वा बलासे तु स्नेहवस्तीन् प्रकल्पयेत् ॥ ५४ ॥ १९.५४ व् स्नेहवस्तीन् प्रयोजयेत् पञ्च वा सप्त वा पित्ते नवैकादश वानिले । पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः ॥ ५५ ॥ कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात् । वातघ्नौषधनिःक्वाथत्रिवृतासैन्धवैर्युतः ॥ ५६ ॥ वस्तिरेकोऽनिले स्निग्धः स्वाद्व्अम्लोष्णो रसान्वितः । न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ ॥ ५७ ॥ १९.५७ व् स्वाद्व्अम्लोष्णरसान्वितः पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ । आरग्वधादिनिःक्वाथवत्सकादियुतास्त्रयः ॥ ५८ ॥ रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे । त्रयस्ते संनिपातेऽपि दोषान् घ्नन्ति यतः क्रमात् ॥ ५९ ॥ १९.५९ व् त्रयश्च संनिपातेऽपि त्रिभ्यः परं वस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः । न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति ॥ ६० ॥ १९.६० व् नाचार्यचरकस्यातो १९.६० व् वस्तिस्त्रिभ्यः परं मतः उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात् । त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते ॥ ६१ ॥ १९.६१ व् त्रिधैवं कल्पयेद्वस्तिम् दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत् । सम्यङ्निरूढलिङ्गं तु नासंभाव्य निवर्तयेत् ॥ ६२ ॥ प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च । सान्वासनानि कर्मैवं वस्तयस्त्रिंशदीरिताः ॥ ६३ ॥ कालः पञ्चदशैकोऽत्र प्राक्स्नेहोऽन्ते त्रयस्तथा । षट्पञ्चवस्त्य्अन्तरिता योगोऽष्टौ वस्तयोऽत्र तु ॥ ६४ ॥ त्रयो निरूहाः स्नेहाश्च स्नेहावाद्य्अन्तयोरुभौ । स्नेहवस्तिं निरूहं वा नैकमेवातिशीलयेत् ॥ ६५ ॥ उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम् । तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः ॥ ६६ ॥ स्नेहशोधनयुक्त्यैवं वस्तिकर्म त्रिदोषजित् । ह्रस्वया स्नेहपानस्य मात्रया योजितः समः ॥ ६७ ॥ मात्रावस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः । बालवृद्धाध्वभारस्त्रीव्यायामासक्तचिन्तकैः ॥ ६८ ॥ १९.६८ व् बालवृद्धाध्वभाष्यस्त्री वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः । दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः ॥ ६९ ॥ १९.६९ व् नृपैश्वर्यसुखात्मभिः वस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च । द्वित्रास्थापनशुद्धेभ्यो विदध्याद्वस्तिमुत्तरम् ॥ ७० ॥ आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम् । वृत्तं गोपुच्छवन्मूलमद्ययोः कृतकर्णिकम् ॥ ७१ ॥ सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसंभवम् । कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम् ॥ ७२ ॥ तस्य वस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा । अथ स्नाताशीतस्यास्य स्नेहवस्तिविधानतः ॥ ७३ ॥ १९.७३ व् मात्रा शुक्तिर्विकल्प्य च १९.७३ व् मात्रा शुक्तिः प्रकल्प्य वा ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ । हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये ॥ ७४ ॥ सूक्ष्मां शलाकां प्रणयेत्तया शुद्धे अनुसेवनि । आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः ॥ ७५ ॥ १९.७५ व् तया शुद्धे अनुसेवनीम् पीडितेऽन्तर्गते स्नेहे स्नेहवस्तिक्रमो हितः । वस्तीननेन विधिना दद्यात्त्रींश्चतुरोऽपि वा ॥ ७६ ॥ १९.७६ व् पीडितेऽनुगते स्नेहे अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत् । स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः ॥ ७७ ॥ विदधीत तदा तस्मादन्ऋतावपि चात्यये । योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे ॥ ७८ ॥ नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुर्अङ्गुलम् । अपत्यमार्गे योज्यं स्याद्द्व्य्अङ्गुलं मूत्रवर्त्मनि ॥ ७९ ॥ मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् । प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिरेव तु ॥ ८० ॥ उत्तानायाः शयानायाः सम्यक्संकोच्य सक्थिनी । ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत् ॥ ८१ ॥ वस्तींस्त्रिरात्रमेवं च स्नेहमात्रां विवर्धयन् । त्र्य्अहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्य्अहम् ॥ ८२ ॥ १९.८२ व् स्नेहमात्रां विवर्धयेत् पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम् । सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः ॥ ८३ ॥ यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः । तथा द्रवीकृताद्देहाद्वस्तिर्निर्हरते मलान् ॥ ८४ ॥ शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च । ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ॥ ८५ ॥ १९.८५ व् ये सन्ति तेषां न हि कश्चिदन्यो विट्श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात् । तस्यातिवृद्धस्य शमाय नान्यद्वस्तेर्विना भेषजमस्ति किञ्चित् ॥ ८६ ॥ १९.८६ व् विट्श्लेष्मपित्तादिमलाचयानां १९.८६ व् विट्श्लेष्मपित्तादिमलाशयानां १९.८६ व् विण्मूत्रपित्तादिमलाशयानां १९.८६ व् विक्षेपसंहारकरो हि वायुः १९.८६ व् वस्तेः समं भेषजमस्ति यस्मात् तस्माच्चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्सापि च वस्तिरेकैः । तथा निजागन्तुविकारकारिरक्तौषधत्वेन सिराव्यधोऽपि ॥ ८७ ॥ १९.८७ व् तस्माच्चिकित्सार्धमिति प्रदिष्टः १९.८७ व् कृत्स्ना चिकित्सापि च वस्तिरेके षूत्रस्थान ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते । नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान् ॥ १ ॥ विरेचनं बृंहणं च शमनं च त्रिधापि तत् । विरेचनं शिरःशूलजाड्यस्यन्दगलामये ॥ २ ॥ २०.२ व् शमनं च त्रिधा भवेत् मर्शध्मानावपीडाख्यैस्तत्पुनः षड्विधं स्मृतम् ॥ २.१+१ ॥ २०.२.१+१ व् मर्शध्मानावपीडाख्यात् शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे । बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये ॥ ३ ॥ स्नेहेन तीक्ष्णैः सिद्धेन कल्कक्वाथादिभिश्च तत् ॥ ३.१+१ ॥ नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके । शमनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु ॥ ४ ॥ २०.४ व् केशदोषाक्षिरोगिषु २०.४ व् केशदोषाक्षिरोगजित् यथास्वं यौगिकैः स्नेहैर्यथास्वं च प्रसाधितैः । कल्कक्वाथादिभिश्चाद्यं मधुपट्व्आसवैरपि ॥ ५ ॥ बृंहणं धन्वमांसोत्थरसासृक्खपुरैरपि । शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा ॥ ६ ॥ २०.६ व् क्षीरेण सलिलेन च २०.६ व् क्षीरेण च जलेन च मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया । कल्काद्यैरवपीडस्तु स तीक्ष्णैर्मूर्धरेचनः ॥ ७ ॥ २०.७ व् तीक्ष्णैर्मूर्धविरेचनः ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना । षड्अङ्गुलद्विमुखया नाड्या भेषजगर्भया ॥ ८ ॥ २०.८ व् ध्मानं विरेचनैश्चूर्णैर् २०.८ व् नाड्या भैषज्यगर्भया स हि भूरितरं दोषं चूर्णत्वादपकर्षति । प्रदेशिन्य्अङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात् ॥ ९ ॥ यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट्क्रमेण ते । मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात् ॥ १० ॥ बिन्दुद्वयोनाः कल्कादेर्योजयेन्न तु नावनम् । तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ॥ ११ ॥ भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम् । नवपीनसवेगार्तसूतिकाश्वासकासिनाम् ॥ १२ ॥ २०.१२ व् भुक्ताभ्यक्तशिरःस्नात शुद्धानां दत्तवस्तीनां तथान्आर्तवदुर्दिने । अन्यत्रात्ययिकाद्व्याधेरथ नस्यं प्रयोजयेत् ॥ १३ ॥ प्रातः श्लेष्मणि मध्याह्ने पित्ते सायन्निशोश्चले । स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः ॥ १४ ॥ शीते मध्यन्दिने ग्रीष्मे सायं वर्षासु सातपे । वाताभिभूते शिरसि हिध्मायामपतानके ॥ १५ ॥ मन्यास्तम्भे स्वरभ्रंशे सायं प्रातर्दिने दिने । एकाहान्तरमन्यत्र सप्ताहं च तदाचरेत् ॥ १६ ॥ स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च । निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत्पुनः ॥ १७ ॥ अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते । किञ्चिद्उन्नतपादस्य किञ्चिन्मूर्धनि नामिते ॥ १८ ॥ नासापुटं पिधायैकं पर्यायेण निषेचयेत् । उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाथवा ॥ १९ ॥ २०.१९ व् प्रणाल्या पिचुनाथवा दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत् । शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः ॥ २० ॥ २०.२० व् शनैरुच्छिन्द्य निष्ठीवेत् आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत् । मूर्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः ॥ २१ ॥ स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्य्अपेक्षया । नस्यान्ते वाक्शतं तिष्ठेदुत्तानो धारयेत्ततः ॥ २२ ॥ २०.२२ व् स्नेहं रेचननस्यान्ते धूमं पीत्वा कवोष्णाम्बुकवडान् कण्ठशुद्धये । सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षपाटवम् ॥ २३ ॥ रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता । स्निग्धेऽति कण्डूगुरुताप्रसेकारुचिपीनसाः ॥ २४ ॥ २०.२४ व् स्निग्धेऽति कण्डूर्गुरुता २०.२४ व् प्रसेकारुचिपीनसाः सुविरिक्तेऽक्षिलघुतावक्त्रस्वरविशुद्धयः । दुर्विरिक्ते गदोद्रेकः क्षामतातिविरेचिते ॥ २५ ॥ प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु । प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे ॥ २६ ॥ मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्धनि । उत्कृष्टोत्क्लिष्टदोषे च हीनमात्रतया हि सः ॥ २७ ॥ २०.२७ व् हीनमानतया हि सः निशाहर्भुक्तवान्ताहःस्वप्नाध्वश्रमरेतसाम् । शिरोऽभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम् ॥ २८ ॥ दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः । पञ्चसु स्रोतसां शुद्धिः क्लमनाशस्त्रिषु क्रमात् ॥ २९ ॥ दृग्बलं पञ्चसु ततो दन्तदार्ढ्यं मरुच्छमः । न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे ॥ ३० ॥ न चोनाष्टादशे धूमः कवडो नोनपञ्चमे । न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ ॥ ३१ ॥ २०.३१ व् कवडो न्यूनपञ्चमे आजन्ममरणं शस्तः प्रतिमर्शस्तु वस्तिवत् । मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात् ॥ ३२ ॥ न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम् । तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते ॥ ३३ ॥ २०.३३ व् तैलमेव च नस्यार्थं शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे । आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता ॥ ३४ ॥ २०.३४ व् गुणोत्कृष्टापकृष्टता २०.३४ व् गुणोत्कृष्टापकर्षता २०.३४ व् गुणोत्कर्षापकर्षता मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि । को मर्शं सपरीहारं सापदं च भजेत्ततः ॥ ३५ ॥ २०.३५ व् सापदं च वदेत्ततः अच्छपानविचाराख्यौ कुटीवातातपस्थिती । अन्वासमात्रावस्ती च तद्वदेव विनिर्दिशेत् ॥ ३६ ॥ २०.३६ व् तद्वदेव च निर्दिशेत् पटोलमुद्गवार्ताकह्रस्वमूलकजाङ्गलैः । रसैः शालियवानद्यान्नस्यकर्मणि षड्विधे ॥ ३६+१ ॥ उच्चैर्भाषणमायासमजीर्णासात्म्यभोजनम् । दत्तनस्यो नरः क्रोधं यानादींश्च विवर्जयेत् ॥ ३६+२ ॥ जीवन्तीजलदेवदारुजलदत्वक्सेव्यगोपीहिमम् ॥ ३७ ॥ दार्वीत्वङ्मधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम् ॥ ३७ ॥ धावन्यौ सुरभिं स्थिरे कृमिहरं पत्त्रं त्रुटीं रेणुकाम् ॥ ३७ ॥ किञ्जल्कं कमलाद्बलां शतगुणे दिव्येऽम्भसि क्वाथयेत् ॥ ३७ ॥ तैलाद्रसं दशगुणं परिशेष्य तेन तैलं पचेत सलिलेन दशैव वारान् । पाके क्षिपेच्च दशमे सममाजदुग्धं नस्यं महागुणमुशन्त्यणुतैलमेतत् ॥ ३८ ॥ २०.३८ व् तैलं पचेच्च सलिलेन दशैव वारान् घनोन्नतप्रसन्नत्वक्स्कन्धग्रीवास्यवक्षसः । दृढेन्द्रियास्तपलिता भवेयुर्नस्यशीलिनः ॥ ३९ ॥ २०.३९ व् दृढेन्द्रियास्त्वपलिता षूत्रस्थान जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने । उच्छेदाय च जातानां पिबेद्धूमं सदात्मवान् ॥ १ ॥ २१.१ व् जत्रूर्ध्वं कफवातोत्थ स्निग्धो मध्यः स तीक्ष्णश्च वाते वातकफे कफे । योज्यो न रक्तपित्तार्तिविरिक्तोदरमेहिषु ॥ २ ॥ २१.२ व् योज्यो न पित्तरक्तार्त २१.२ व् योज्यो न पित्तरक्तार्ति तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तवस्तिषु । मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु ॥ ३ ॥ शिरस्यभिहते पाण्डुरोगे जागरिते निशि । रक्तपित्तान्ध्यबाधिर्यतृण्मूर्छामदमोहकृत् ॥ ४ ॥ धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः । क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्मणाम् ॥ ५ ॥ २१.५ व् स्त्रीसेवाशस्त्रकर्मिणाम् हासस्य दन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम् । कालेष्वेषु निशाहारनावनान्ते च मध्यमम् ॥ ६ ॥ २१.६ व् हास्यस्य दन्तकाष्ठस्य निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम् । वस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु ॥ ७ ॥ मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम् । तीक्ष्णस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च ॥ ८ ॥ २१.८ व् मूलेऽग्रेऽङ्गुष्ठकोलास्थि अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत् । ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम् ॥ ९ ॥ २१.९ व् ऋजूपविष्टस्तच्चित्तो पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत् । प्राक्पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते ॥ १० ॥ २१.१० व् दोषे नासाशिरोगते उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठगे । मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत् ॥ ११ ॥ आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः । अह्नः पिबेत्सकृत्स्निग्धं द्विर्मध्यं शोधनं परम् ॥ १२ ॥ २१.१२ व् धूमस्त्रींस्त्रींस्त्रिभिस्त्रिभिः त्रिश्चतुर्वा मृदौ तत्र द्रव्याण्यगुरु गुग्गुलु । मुस्तस्थौणेयशैलेयनलदोशीरवालकम् ॥ १३ ॥ २१.१३ व् त्रिश्चतुर्वा मृदोस्तत्र वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम् । श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम् ॥ १४ ॥ शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः । स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम् ॥ १५ ॥ शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम् । न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः सिता ॥ १६ ॥ यष्टीमधु सुवर्णत्वक्पद्मकं रक्तयष्टिका । गन्धाश्चाकुष्ठतगरास्तीक्ष्णे ज्योतिष्मती निशा ॥ १७ ॥ दशमूलमनोह्वालं लाक्षा श्वेता फलत्रयम् । गन्धद्रव्याणि तीक्ष्णानि गणो मूर्धविरेचनः ॥ १८ ॥ २१.१८ व् दशमूलमनोह्वाल २१.१८ व् लाक्षा श्वेता फलत्रयम् जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम् । पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत् ॥ १९ ॥ २१.१९ व् पिष्टैर्धूमौषधैरेव वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत् । छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम् ॥ २० ॥ २१.२० व् वर्तिरङ्गुष्ठवत्स्थूला धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत् । शरावसंपुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलाम् ॥ २१ ॥ अष्टाङ्गुलां वा वक्त्रेण कासवान् धूममापिबेत् ॥ २१ªअब् ॥ कासः श्वासः पीनसो विस्वरत्वं पूतिर्गन्धः पाण्डुता केशदोषः । कर्णास्याक्षिस्रावकण्ड्व्अर्तिजाड्यं तन्द्रा हिध्मा धूमपं न स्पृशन्ति ॥ २२ª ॥ हृत्कण्ठेन्द्रियसंशुद्धिर्लाघवं शिरसः शमः । यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम् ॥ २२ª+१ ॥ षूत्रस्थान चतुःप्रकारो गण्डूषः स्निग्धः शमनशोधनौ । रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चलादिषु ॥ १ ॥ अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्व्अम्लपटुसाधितैः । स्नेहैः संशमनस्तिक्तकषायमधुरौषधैः ॥ २ ॥ शोधनस्तिक्तकट्व्अम्लपटूष्णै रोपणः पुनः । कषायतिक्तकैस्तत्र स्नेहः क्षीरं मधूदकम् ॥ ३ ॥ शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम् । कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत् ॥ ४ ॥ दन्तहर्षे दन्तचाले मुखरोगे च वातिके । सुखोष्णमथवा शीतं तिलकल्कोदकं हितम् ॥ ५ ॥ गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा । ऊषादाहान्विते पाके क्षते चागन्तुसंभवे ॥ ६ ॥ २२.६ व् क्षते वागन्तुसंभवे विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा । वैशद्यं जनयत्याशु संदधाति मुखे व्रणान् ॥ ७ ॥ २२.७ व् विषक्षाराग्निदग्धे च २२.७ व् वैशद्यं जनयत्यास्ये २२.७ व् संदधाति मुखव्रणान् दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् । धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम् ॥ ८ ॥ तदेवालवणं शीतं मुखशोषहरं परम् । आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम् ॥ ९ ॥ सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम् । निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः ॥ १० ॥ गण्डूषमपिबन् किञ्चिद्उन्नतास्यो विधारयेत् । कफपूर्णास्यता यावत्स्रवद्घ्राणाक्षताथवा ॥ ११ ॥ असंचार्यो मुखे पूर्णे गण्डूषः कवडोऽन्यथा ॥ ११ªअब् ॥ २२.११ªअव् असंचार्यो मुखेऽपूर्णे मन्याशिरःकर्णमुखाक्षिरोगाः प्रसेककण्ठामयवक्त्रशोषाः । हृल्लासतन्द्रारुचिपीनसाश्च साध्या विशेषात्कवडग्रहेण ॥ १२ ॥ कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम् ॥ १३ ब् ॥ २२.१३ व् कल्को रसक्रिया चूर्णं युञ्ज्यात्तत्कफरोगेषु गण्डूषविहितौषधैः । मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः ॥ १४ ॥ २२.१४ व् मुखलेपस्त्रिधा दोष व्याधेरपचयः पुष्टिर्वैशद्यं वक्त्रलाघवम् । इन्द्रियाणां प्रसादश्च कवडे शुद्धिलक्षणम् ॥ १४.१+१ ॥ हीनाज्जाड्यकफोत्क्लेशावरसज्ञानमेव च । अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमः ॥ १४.१+२ ॥ २२.१४.१+२ व् हीनाद्ध्मानकफोत्लेशाव् उष्णो वातकफे शस्तः शेषेष्वत्य्अर्थशीतलः । त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोन्नतिः ॥ १५ ॥ अशुष्कस्य स्थितिस्तस्य शुष्को दूषयति च्छविम् । तमार्द्रयित्वापनयेत्तद्अन्तेऽभ्यङ्गमाचरेत् ॥ १६ ॥ विवर्जयेद्दिवास्वप्नभाष्याग्न्य्आतपशुक्क्रुधः । न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे ॥ १७ ॥ २२.१७ व् दत्ते नस्ये हनुग्रहे अरोचके जागरिते स तु हन्ति सुयोजितः । अकालपलितव्यङ्गवलीतिमिरनीलिकाः ॥ १८ ॥ २२.१८ व् स च हन्ति सुयोजितः कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः । सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्निस्तुषा यवाः ॥ १९ ॥ दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः । कुमुदोत्पलकल्हारदूर्वामधुकचन्दनम् ॥ २० ॥ कालीयकतिलोशीरमांसीतगरपद्मकम् । तालीशगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु ॥ २१ ॥ इत्यर्धार्धोदिता लेपा हेमन्तादिषु षट्स्मृताः । मुखालेपनशीलानां दृढं भवति दर्शनम् ॥ २२ ॥ वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम् । अभ्यङ्गसेकपिचवो वस्तिश्चेति चतुर्विधम् ॥ २३ ॥ मूर्धतैलं बहुगुणं तद्विद्यादुत्तरोत्तरम् । तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु ॥ २४ ॥ २२.२४ व् रूक्षकण्डूमलादिषु अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु । परिषेकः पिचुः केशशातस्फुटनधूपने ॥ २५ ॥ २२.२५ व् दाहपाकव्रणेषु च नेत्रस्तम्भे च वस्तिस्तु प्रसुप्त्य्अर्दितजागरे । नासास्यशोषे तिमिरे शिरोरोगे च दारुणे ॥ २६ ॥ विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ । शुद्धाक्तस्विन्नदेहस्य दिनान्ते गव्यमाहिषम् ॥ २७ ॥ द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम् । आकर्णबन्धनस्थानं ललाटे वस्त्रवेष्टिते ॥ २८ ॥ चैलवेणिकया बद्ध्वा माषकल्केन लेपयेत् । ततो यथाव्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥ २९ ॥ ऊर्ध्वं केशभुवो यावदङ्गुलं धारयेच्च तम् । आवक्त्रनासिकोत्क्लेदाद्दशाष्टौ षट्चलादिषु ॥ ३० ॥ २२.३० व् आवक्त्रनासिकाक्लेदाद् मात्रासहस्राण्यरुजे त्वेकं स्कन्धादि मर्दयेत् । मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥ ३१ ॥ २२.३१ व् सप्ताहं तस्य सेचनम् धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन् । रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ॥ ३२ ॥ २२.३२ व् कर्णमूलं विमर्दयेत् यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम् । निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता ॥ ३३ ॥ २२.३३ व् निमेषोन्मेषमात्रेण कचसदनसितत्वपिञ्जरत्वं परिफुटनं शिरसः समीररोगान् । जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम् ॥ ३४ ॥ २२.३४ व् कचशदनसितत्वपिञ्जरत्वं २२.३४ व् कचशदनसितत्वपिञ्जरत्व २२.३४ व् कचसदनसितत्वपिञ्जरत्व षूत्रस्थान सर्वेषामक्षिरोगाणामादावाश्च्योतनं हितम् । रुक्तोदकण्डुघर्षाश्रुदाहरागनिबर्हणम् ॥ १ ॥ २३.१ व् दाहरोगनिबर्हणम् उष्णं वाते कफे कोष्णं तच्छीतं रक्तपित्तयोः । निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥ २ ॥ शुक्तौ प्रलम्बयान्येन पिचुवर्त्या कनीनिके । दश द्वादश वा बिन्दून् द्व्य्अङ्गुलादवसेचयेत् ॥ ३ ॥ ततः प्रमृज्य मृदुना चैलेन कफवातयोः । अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु ॥ ४ ॥ अत्य्उष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम् । अतिशीतं तु कुरुते निस्तोदस्तम्भवेदनाः ॥ ५ ॥ कषायवर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु । विकारवृद्धिमत्य्अल्पं संरम्भमपरिस्रुतम् ॥ ६ ॥ गत्वा संधिशिरोघ्राणमुखस्रोतांसि भेषजम् । ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान् ॥ ७ ॥ २३.७ व् गत्वा संधिसिराघ्राण अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले । पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते ॥ ८ ॥ २३.८ व् पक्वलिङ्गेऽल्पशोफार्ति मन्दघर्षाश्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके । आर्ते पित्तकफासृग्भिर्मारुतेन विशेषतः ॥ ९ ॥ लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा । अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः ॥ १० ॥ रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम् । तीक्ष्णाञ्जनाभिसंतप्ते नयने तत्प्रसादनम् ॥ ११ ॥ प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम् । दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना ॥ १२ ॥ प्रशस्ता लेखने ताम्री रोपणे काललोहजा । अङ्गुली च सुवर्णोत्था रूप्यजा च प्रसादने ॥ १३ ॥ पिण्डो रसक्रिया चूर्णस्त्रिधैवाञ्जनकल्पना । गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥ १४ ॥ २३.१४ व् गुरुमध्यलघौ दोषे २३.१४ व् ताः क्रमेण प्रयोजयेत् पिण्डस्य तीक्ष्णद्रव्यस्य मृदुद्रव्यकृतस्य च । हरेणुमात्रं द्विगुणं प्रमाणं कथयन्त्यपि ॥ १४+१ ॥ रसक्रियायामप्येवं विडङ्गफलमात्रकम् । शलाकां द्विगुणां तीक्ष्णे चूर्णे च त्रिगुणां मृदौ ॥ १४+२ ॥ हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया । तीक्ष्णस्य द्विगुणं तस्य मृदुनश्चूर्णितस्य च ॥ १५ ॥ २३.१५ व् पिण्डो हरेणुमात्रस्तु २३.१५ व् हरेणुमात्रं पिण्डस्य २३.१५ व् हरेणुमात्रः पिण्डस्तु २३.१५ व् वल्लमात्रा रसक्रिया २३.१५ व् मृदोश्चूर्णाञ्जनस्य च द्वे शलाके तु तीक्ष्णस्य तिस्रस्तद्इतरस्य च । निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः ॥ १६ ॥ २३.१६ व् तिस्रः स्युरितरस्य च २३.१६ व् निशि स्वप्नेन मध्याह्ने २३.१६ व् पानान्नोष्णगभस्तिभिः अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्रुताः । प्रातः सायं च तच्छान्त्यै व्य्अभ्रेऽर्केऽतोऽञ्जयेत्सदा ॥ १७ ॥ वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम् । विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति ॥ १८ ॥ स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता । शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः ॥ १९ ॥ अत्य्उद्रिक्ते बलासे तु लेखनीयेऽथवा गदे । काममह्न्यपि नात्य्उष्णे तीक्ष्णमक्ष्णि प्रयोजयेत् ॥ २० ॥ अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता । उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः ॥ २१ ॥ न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम् । दोषमस्रावयेत्स्तब्धं कण्डूजाड्यादिकारि तत् ॥ २२ ॥ २३.२२ व् दोषमस्रावयत्स्तब्धं २३.२२ व् दोषमस्रावयत्स्तम्भ २३.२२ व् दोषं न स्रावयेत्स्तम्भ २३.२२ व् कण्डूजाड्यादिकारि तत् नाञ्जयेद्भीतवमितविरिक्ताशितवेगिते । क्रुद्धज्वरिततान्ताक्षिशिरोरुक्शोकजागरे ॥ २३ ॥ अदृष्टेऽर्के शिरःस्नाते पीतयोर्धूममद्ययोः । अजीर्णेऽग्न्य्अर्कसंतप्ते दिवासुप्ते पिपासिते ॥ २४ ॥ २३.२४ व् दिवास्वप्ने पिपासिते अतितीक्ष्णमृदुस्तोकबह्व्अच्छघनकर्कशम् । अत्य्अर्थशीतलं तप्तमञ्जनं नावचारयेत् ॥ २५ ॥ २३.२५ व् अत्य्अर्थं शीतलं तप्तम् अथानुमीलयन् दृष्टिमन्तः संचारयेच्छनैः । अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम् ॥ २६ ॥ तीक्ष्णं व्याप्नोति सहसा न चोन्मेषनिमेषणम् । निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥ २७ ॥ अपेतौषधसंरम्भं निर्वृतं नयनं यदा । व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा ॥ २८ ॥ दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा । ऊर्ध्ववर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥ २९ ॥ वर्त्मप्राप्तोऽञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा । कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत्पुनः ॥ ३० ॥ २३.३० व् वर्त्मप्राप्ताञ्जनाद्दोषो २३.३० व् रोगान् कुर्यात्ततोऽन्यथा तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम् ॥ ३०ªअब् ॥ २३.३०ªअव् तीक्ष्णाञ्जनातितप्ते तु २३.३०ªअव् तीक्ष्णाञ्जनातियोगे तु २३.३०ªब्व् चूर्णं प्रत्यञ्जनं हितम् षूत्रस्थान नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते । वातपित्तातुरे जिह्मे शीर्णपक्ष्माविलेक्षणे ॥ १ ॥ कृच्छ्रोन्मीलसिराहर्षसिरोत्पाततमोऽर्जुनैः । स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः ॥ २ ॥ आतुरे शान्तरागाश्रुशूलसंरम्भदूषिके । निवाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः ॥ ३ ॥ काले साधारणे प्रातः सायं वोत्तानशायिनः । यवमाषमयीं पालीं नेत्रकोशाद्बहिः समाम् ॥ ४ ॥ २४.४ व् सायं चोत्तानशायिनः द्व्य्अङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत् । सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम् ॥ ५ ॥ २४.५ व् तप्ताम्बुप्रविलापितम् नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम् । आपक्ष्माग्रादथोन्मेषं शनकैस्तस्य कुर्वतः ॥ ६ ॥ मात्रा विगणयेत्तत्र वर्त्मसंधिसितासिते । दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च ॥ ७ ॥ २४.७ व् मात्रां विगणयेत्तत्र शतानि सप्त चाष्टौ च दश मन्थे दशानिले । पित्ते षट्स्वस्थवृत्ते च बलासे पञ्च धारयेत् ॥ ८ ॥ २४.८ व् दश मन्थेऽनिले दश कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् । पिबेच्च धूमं नेक्षेत व्योम रूपं च भास्वरम् ॥ ९ ॥ २४.९ व् व्योम रूपं च भास्करम् इत्थं प्रतिदिनं वायौ पित्ते त्वेकान्तरं कफे । स्वस्थे तु द्व्य्अन्तरं दद्यादातृप्तेरिति योजयेत् ॥ १० ॥ प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम् । तृप्ते विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः ॥ ११ ॥ २४.११ व् तृप्तेऽति श्लेष्मजा रुजः स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति । तर्पणान्अन्तरं तस्माद्दृग्बलाधानकारिणम् ॥ १२ ॥ पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव यक्ष्मसु । स वाते स्नेहनः श्लेष्मसहिते लेखनो हितः ॥ १३ ॥ २४.१३ व् पूर्वोक्तेष्वेषु यक्ष्मसु २४.१३ व् पूर्वोक्तेषु च यक्ष्मसु दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः । भूशयप्रसहानूपमेदोमज्जवसामिषैः ॥ १४ ॥ स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत् । मृगपक्षियकृन्मांसमुक्तायस्ताम्रसैन्धवैः ॥ १५ ॥ स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः । मृगपक्षियकृन्मज्जवसान्त्रहृदयामिषैः ॥ १६ ॥ मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम् । बिल्वमात्रं पृथक्पिण्डं मांसभेषजकल्कयोः ॥ १७ ॥ उरुबूकवटाम्भोजपत्त्रैः स्नेहादिषु क्रमात् । वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः ॥ १८ ॥ २४.१८ व् पत्त्रैः स्निग्धादिषु क्रमात् पचेत्प्रदीप्तैरग्न्य्आभं पक्वं निष्पीड्य तद्रसम् । नेत्रे तर्पणवद्युञ्ज्यात्शतं द्वे त्रीणि धारयेत् ॥ १९ ॥ लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ हिमोऽपरः । धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत् ॥ २० ॥ तर्पणं पुटपाकं च नस्यान्अर्हे न योजयेत् । यावन्त्यहानि युञ्जीत द्विस्ततो हितभाग्भवेत् ॥ २१ ॥ मालतीमल्लिकापुष्पैर्बद्धाक्षो निवसेन्निशाम् ॥ २१ªअब् ॥ २४.२१ªब्व् बद्धाक्षो निवसेन्निशि सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः । दृष्टिश्च नष्टा विविधं जगच्च तमोमयं जायत एकरूपम् ॥ २२ª ॥ षूत्रस्थान नानाविधानां शल्यानां नानादेशप्रबोधिनाम् । आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने ॥ १ ॥ २५.१ व् नानादेशविबाधिनाम् अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने । शेषाङ्गपरिरक्षायां तथा वस्त्य्आदिकर्मणि ॥ २ ॥ घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि च । अनेकरूपकार्याणि यन्त्राणि विविधान्यतः ॥ ३ ॥ विकल्प्य कल्पयेत्बुद्ध्या यथास्थूलं तु वक्ष्यते । तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम् ॥ ४ ॥ मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च । अष्टादशाङ्गुलायामान्यायसानि च भूरिशः ॥ ५ ॥ मसूराकारपर्य्अन्तैः कण्ठे बद्धानि कीलकैः । विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च ॥ ६ ॥ २५.६ व् मूलेऽङ्कुशनिभानि च तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते । कीलबद्धविमुक्ताग्रौ संदंशौ षोडशाङ्गुलौ ॥ ७ ॥ त्वक्सिरास्नायुपिशितलग्नशल्यापकर्षणौ । षड्अङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम् ॥ ८ ॥ मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा । गम्भीरव्रणमांसानामर्मणः शेषितस्य च ॥ ९ ॥ २५.९ व् मुचुटी सूक्ष्मदन्तर्जुर् द्वे द्वादशाङ्गुले मत्स्यतालवत्द्व्य्एकतालके । तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी ॥ १० ॥ २५.१० व् तालुवत्द्व्य्एकतालुके २५.१० व् तालुयन्त्रे स्मृते कर्ण २५.१० व् नाडीशल्यापहारणे २५.१० व् नाडीशल्यापकर्षणी नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च । स्रोतोगतानां शल्यानामामयानां च दर्शने ॥ ११ ॥ २५.११ व् एकानेकमुखानि तु क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च । तद्विस्तारपरीणाहदैर्घ्यं स्रोतोऽनुरोधतः ॥ १२ ॥ दशाङ्गुलार्धनाहान्तःकण्ठशल्यावलोकिनी । नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य संग्रहे ॥ १३ ॥ २५.१३ व् कण्ठशल्यावलोकने वारङ्गस्य द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः । वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः ॥ १४ ॥ नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत् । पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला ॥ १५ ॥ चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता । अर्शसां गोस्तनाकारं यन्त्रकं चतुर्अङ्गुलम् ॥ १६ ॥ नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षड्अङ्गुलम् । द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि ॥ १७ ॥ मध्येऽस्य त्र्य्अङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम् । अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तद्ऊर्ध्वतः ॥ १८ ॥ २५.१८ व् कर्णिकं तु तद्ऊर्ध्वतः शम्य्आख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम् । सर्वथापनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे ॥ १९ ॥ घ्राणार्बुदार्शसामेकच्छिद्रा नाड्य्अङ्गुलद्वया । प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत् ॥ २० ॥ अङ्गुलीत्राणकं दान्तं वार्क्षं वा चतुर्अङ्गुलम् । द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम् ॥ २१ ॥ योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम् । मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम् ॥ २२ ॥ २५.२२ व् मुद्राबद्धं चतुर्भिन्नम् २५.२२ व् मुद्राबद्धं चतुष्कोणम् चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखे । यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षड्अङ्गुले ॥ २३ ॥ वस्तियन्त्राकृती मूले मुखेऽङ्गुष्ठकलायखे । अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी ॥ २४ ॥ द्विद्वारा नलिका पिच्छनलिका वोदकोदरे । धूमवस्त्य्आदियन्त्राणि निर्दिष्टानि यथायथम् ॥ २५ ॥ त्र्य्अङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम् । अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति ॥ २६ ॥ स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः । चतुस्त्र्य्अङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत् ॥ २७ ॥ तद्वद्घटी हिता गुल्मविलयोन्नमने च सा । शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च ॥ २८ ॥ २५.२८ व् नानाकर्माकृतीनि तु यथायोगप्रमाणानि तेषामेषणकर्मणी । उभे गण्डूपदमुखे स्रोतोभ्यः शल्यहारिणी ॥ २९ ॥ २५.२९ व् तेषामेषणकर्मणि मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले । शङ्कवः षडुभौ तेषां षोडशद्वादशाङ्गुलौ ॥ ३० ॥ व्यूहनेऽहिफणावक्त्रौ द्वौ दशद्वादशाङ्गुलौ । चालने शरपुङ्खास्यावाहार्ये बडिशाकृती ॥ ३१ ॥ नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः । अष्टाङ्गुलायतस्तेन मूढगर्भं हरेत्स्त्रियाः ॥ ३२ ॥ अश्मर्य्आहरणं सर्पफणावद्वक्रमग्रतः । शरपुङ्खमुखं दन्तपातनं चतुर्अङ्गुलम् ॥ ३३ ॥ २५.३३ व् अश्मर्य्आहरणे सर्प २५.३३ व् फणावद्वक्त्रमग्रतः कार्पासविहितोष्णीषाः शलाकाः षट्प्रमार्जने । पायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले ॥ ३४ ॥ द्वे षट्सप्ताङ्गुले घ्राणे द्वे कर्णेऽष्टनवाङ्गुले । कर्णशोधनमश्वत्थपत्त्रप्रान्तं स्रुवाननम् ॥ ३५ ॥ शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक्त्रयम् । युञ्ज्यात्स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि ॥ ३६ ॥ मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसंनिभाम् । कोलास्थिदलतुल्यास्या नासार्शोऽर्बुददाहकृत् ॥ ३७ ॥ अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे । कनीनीमध्यमानामीनखमानसमैर्मुखैः ॥ ३८ ॥ २५.३८ व् कनिष्ठामध्यमानामी स्वं स्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्य्अञ्जनादिषु । अनुयन्त्राण्ययस्कान्तरज्जूवस्त्राश्ममुद्गराः ॥ ३९ ॥ २५.३९ व् अणुयन्त्राण्ययस्कान्त वध्रान्त्रजिह्वावालाश्च शाखानखमुखद्विजाः । कालः पाकः करः पादो भयं हर्षश्च तत्क्रियाः ॥ ४० ॥ २५.४० व् वध्र्य्अन्त्रजिह्वावालाश्च २५.४० व् वर्ध्रान्त्रजिह्वावालाश्च २५.४० व् शाखानखमुखद्विजाः उपायवित्प्रविभजेदालोच्य निपुणं धिया ॥ ४०ªअब् ॥ निर्घातनोन्मथनपूरणमार्गशुद्धिसंव्यूहनाहरणबन्धनपीडनानि । आचूषणोन्नमननामनचालभङ्गव्यावर्तनर्जुकरणानि च यन्त्रकर्म ॥ ४१ª ॥ विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् । यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च ॥ ४२ª ॥ २५.४२ªअव् निवर्तते साध्ववगाहते च २५.४२ªद्व् स्थानेषु सर्वेष्वविकारि यच् च षूत्रस्थान षड्विंशतिः सुकर्मारैर्घटितानि यथाविधि । शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट् ॥ १ ॥ सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत् । अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि ॥ २ ॥ समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च । नामानुगतरूपाणि सदा संनिहितानि च ॥ ३ ॥ स्वोन्मानार्धचतुर्थांशफलान्येकैकशोऽपि च । प्रायो द्वित्राणि युञ्जीत तानि स्थानविशेषतः ॥ ४ ॥ २६.४ व् स्वमानार्धचतुर्थांश मण्डलाग्रं वृद्धिपत्त्रमुत्पलाध्य्अर्धधारके । सर्पैषण्यौ वेतसाख्यं शरार्य्आस्यत्रिकूर्चके ॥ ४+(१) ॥ कुशास्यं साटवदनमन्तर्वक्त्रार्धचन्द्रके । व्रीहिमुखं कुठारी च शलाकाङ्गुलिशस्त्रके ॥ ४+(२) ॥ २६.४+(२)अव् कुशास्या साटवदना २६.४+(२)ब्व् अन्तर्वक्त्रार्धचन्द्रकम् २६.४+(२)ब्व् छन्नवक्त्रार्धचन्द्रके २६.४+(२)ब्व् छन्नवक्त्रार्धचन्द्रकम् बडिशं करपत्त्राख्यं कर्तरी नखशस्त्रकम् । दन्तलेखनकं सूच्यः कूर्चो नाम खजाह्वयम् ॥ ४+(३) ॥ आरा चतुर्विधाकारा तथा स्यात्कर्णवेधनी ॥ ४+(४)अब् ॥ २६.४+(४)ब्व् तथा स्यात्कर्णवेधनम् मण्डलाग्रं फले तेषां तर्जन्य्अन्तर्नखाकृति । लेखने छेदने योज्यं पोथकीशुण्डिकादिषु ॥ ५ ॥ २६.५ व् मण्डलाग्रं फलं तेषां वृद्धिपत्त्रं क्षुराकारं छेदभेदनपाटने । ऋज्व्अग्रमुन्नते शोफे गम्भीरे च तदन्यथा ॥ ६ ॥ २६.६ व् गम्भीरे तु ततोऽन्यथा नताग्रं पृष्ठतो दीर्घह्रस्ववक्त्रं यथाश्रयम् । उत्पलाध्य्अर्धधाराख्ये भेदने छेदने तथा ॥ ७ ॥ २६.७ व् ह्रस्ववक्त्रं यथाशयम् २६.७ व् ह्रस्ववक्त्रं यथाक्रमम् २६.७ व् ह्रस्ववक्त्रं यथायथम् २६.७ व् ह्रस्ववक्त्रे यथायथम् सर्पास्यं घ्राणकर्णार्शश्छेदनेऽर्धाङ्गुलं फले । गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी ॥ ८ ॥ भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा । वेतसं व्यधने स्राव्ये शरार्य्आस्यत्रिकूर्चके ॥ ९ ॥ कुशाटावदने स्राव्ये द्व्य्अङ्गुलं स्यात्तयोः फलम् । तद्वदन्तर्मुखं तस्य फलमध्य्अर्धमङ्गुलम् ॥ १० ॥ २६.१० च् कुशाटा वदने स्राव्ये अर्धचन्द्राननं चैतत्तथाध्य्अर्धाङ्गुलं फले । व्रीहिवक्त्रं प्रयोज्य च तत्सिरोदरयोर्व्यधे ॥ ११ ॥ पृथुः कुठारी गोदन्तसदृशार्धाङ्गुलानना । तयोर्ध्वदण्डया विध्येदुपर्यस्थ्नां स्थितां सिराम् ॥ १२ ॥ ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः । लिङ्गनाशं तया विध्येत्कुर्यादङ्गुलिशस्त्रकम् ॥ १३ ॥ २६.१३ व् ताम्री शलाका द्विमुखा मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम् । योगतो वृद्धिपत्त्रेण मण्डलाग्रेण वा समम् ॥ १४ ॥ तत्प्रदेशिन्य्अग्रपर्वप्रमाणार्पणमुद्रिकम् । सूत्रबद्धं गलस्रोतोरोगच्छेदनभेदने ॥ १५ ॥ २६.१५ व् प्रमाणार्पितमुद्रिकम् ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम् । छेदेऽस्थ्नां करपत्त्रं तु खरधारं दशाङ्गुलम् ॥ १६ ॥ २६.१६ व् बडिशः सुनताननः विस्तारे द्व्य्अङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम् । स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा ॥ १७ ॥ वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम् । सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने ॥ १८ ॥ २६.१८ व् भेदप्रच्छन्नलेखने एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः । दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम् ॥ १९ ॥ २६.१९ व् प्रवृद्धाकृति चैकतः वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने । मांसलानां प्रदेशानां त्र्य्अश्रा त्र्य्अङ्गुलमायता ॥ २० ॥ अल्पमांसास्थिसंधिस्थव्रणानां द्व्य्अङ्गुलायता । व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु ॥ २१ ॥ सा सार्धद्व्य्अङ्गुला सर्ववृत्तास्ताश्चतुर्अङ्गुलाः । कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः ॥ २२ ॥ २६.२२ व् सा सार्धद्व्य्अङ्गुला सर्वा २६.२२ व् वृत्तास्ताश्चतुर्अङ्गुलाः स योज्यो नीलिकाव्यङ्गकेशशातेषु कुट्टने । अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः ॥ २३ ॥ २६.२३ व् केशशातनकुट्टने पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक् । व्यधनं कर्णपालीनां यूथिकामुकुलाननम् ॥ २४ ॥ २६.२४ व् व्यधने कर्णपालीनां २६.२४ व् यूथिकामुकुलानना आरार्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः । चतुर्अश्रा तया विध्येच्छोफं पक्वामसंशये ॥ २५ ॥ कर्णपालीं च बहलां बहलायाश्च शस्यते । सूची त्रिभागसुषिरा त्र्य्अङ्गुला कर्णवेधनी ॥ २६ ॥ २६.२६ व् तस्या एव च शस्यते जलौकःक्षारदहनकाचोपलनखादयः । अलौहान्यनुशस्त्राणि तान्येवं च विकल्पयेत् ॥ २७ ॥ अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम् । उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम् ॥ २८ ॥ २६.२८ व् उत्पाट्यपाट्यसेव्यैष्य २६.२८ व् लेख्यप्रच्छन्नकुट्टनम् छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः । कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः ॥ २९ ॥ शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः । छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे ॥ ३० ॥ तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः । विस्रावणानि वृन्ताग्रे तर्जन्य्अङ्गुष्ठकेन च ॥ ३१ ॥ तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे । मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम् ॥ ३२ ॥ २६.३२ व् मूलेष्वाहरणार्थे तु २६.३२ व् मूलेष्वाहरणार्थेषु स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः । क्षौमपत्त्रोर्णकौशेयदुकूलमृदुचर्मजः ॥ ३३ ॥ विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः । शलाकापिहितास्यश्च शस्त्रकोशः सुसंचयः ॥ ३४ ॥ जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत् । दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः ॥ ३५ ॥ २६.३५ व् दुष्टाम्बुमत्स्यभेकादि रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः । इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः ॥ ३६ ॥ सविषा वर्जयेत्ताभिः कण्डूपाकज्वरभ्रमाः । विषपित्तास्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः ॥ ३७ ॥ २६.३७ व् विषपित्तास्रजित्कार्यं २६.३७ व् तत्र शुद्धाम्बुसंभवाः निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः । कषायपृष्ठास्तन्व्अङ्ग्यः किञ्चित्पीतोदराश्च याः ॥ ३८ ॥ ता अप्यसम्यग्वमनात्प्रततं च निपातनात् । सीदन्तिः सलिलं प्राप्य रक्तमत्ता इति त्यजेत् ॥ ३९ ॥ २६.३९ व् सीदन्ति सलिलं प्राप्य अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः । अवन्तिसोमे तक्रे वा पुनश्चाश्वासिता जले ॥ ४० ॥ २६.४० व् काञ्जिके कालशेये वा लागयेद्घृतमृत्स्तन्यरक्तशस्त्रनिपातनैः । पिबन्तीरुन्नतस्कन्धाश्छादयेन्मृदुवाससा ॥ ४१ ॥ २६.४१ व् लागयेत्पलमृत्स्तन्य संपृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम् । आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव ॥ ४२ ॥ २६.४२ व् संसृष्टाद्दुष्टशुद्धास्राज् गुल्मार्शोविद्रधीन् कुष्ठवातरक्तगलामयान् । नेत्ररुग्विषवीसर्पान् शमयन्ति जलौकसः ॥ ४२+(१) ॥ दंशस्य तोदे कण्ड्वां वा मोक्षयेद्वामयेच्च ताम् । पटुतैलाक्तवदनां श्लक्ष्णकण्डनरूषिताम् ॥ ४३ ॥ २६.४३ व् मोक्षयेद्वामयेच्च ताः २६.४३ व् पटुतैलाक्तवदनाः २६.४३ व् श्लक्ष्णकण्डनरूक्षिताम् २६.४३ व् श्लक्ष्णकण्डनरूषिताः २६.४३ व् श्लक्ष्णकण्डनरूक्षिताः रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत् । पूर्ववत्पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम् ॥ ४४ ॥ क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः । अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि ॥ ४५ ॥ लालादिकोथनाशार्थं सविषाः स्युस्तद्अन्वयात् । अशुद्धौ स्रावयेद्दंशान् हरिद्रागुडमाक्षिकैः ॥ ४६ ॥ शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः । दुष्टरक्तापगमनात्सद्यो रागरुजां शमः ॥ ४७ ॥ अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये । व्य्अम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः ॥ ४८ ॥ २६.४८ व् अम्लीभवेत्पर्युषितं युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते । तासामनलसंयोगाद्युञ्ज्यात्तु कफवायुना ॥ ४९ ॥ २६.४९ व् युञ्ज्याच्च कफवायुना कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत् । स्कन्नत्वाद्वातपित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत् ॥ ५० ॥ २६.५० व् न शृङ्गेणाति निर्हरेत् २६.५० व् न शृङ्गेणाभिनिर्हरेत् गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम् । स्नायुसंध्य्अस्थिमर्माणि त्यजन् प्रच्छानमाचरेत् ॥ ५१ ॥ अधोदेश प्रविसृतैः पदैरुपरिगामिभिः । न गाढघनतिर्यग्भिर्न पदे पदमाचरन् ॥ ५२ ॥ २६.५२ व् न पदे पदमाचरेत् प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः । हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि सिराव्यधैः ॥ ५३ ॥ २६.५३ व् ग्रन्थितं जलजन्मभिः प्रच्छानं पिण्डिते वा स्यादवगाढे जलौकसः । त्वक्स्थेऽलाबुघटीशृङ्गं सिरैव व्यापकेऽसृजि ॥ ५४ ॥ वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात् । स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः ॥ ५५ ॥ सतोदकण्डुः शोफस्तं सर्पिषोष्णेन सेचयेत् ॥ ५५ªअब् ॥ २६.५५ªअव् सतोदकण्डूशोफस्तं षूत्रस्थान मधुरं लवणं किञ्चिदशीतोष्णमसंहतम् । पद्मेन्द्रगोपहेमाविशशलोहितलोहितम् ॥ १ ॥ लोहितं प्रभवः शुद्धं तनोस्तेनैव च स्थितः । तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः ॥ २ ॥ २७.२ व् लोहितं प्रवदेच्छुद्धं विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान् । मुखनेत्रशिरोरोगमदतृड्लवणास्यताः ॥ ३ ॥ कुष्ठवातास्रपित्तास्रकट्व्अम्लोद्गिरणभ्रमान् । शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ॥ ४ ॥ सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः । तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम् ॥ ५ ॥ न तूनषोडशातीतसप्तत्य्अब्दस्रुतासृजाम् । अस्निग्धास्वेदितात्य्अर्थस्वेदितानिलरोगिणाम् ॥ ६ ॥ २७.६ व् न न्यूनषोडशातीत गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम् । अतीसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम् ॥ ७ ॥ स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु । नायन्त्रितां सिरां विध्येन्न तिर्यङ्नाप्यन्उत्थिताम् ॥ ८ ॥ २७.८ व् न तिर्यङ्नाप्यन्उच्छ्रिताम् नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात् । शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम् ॥ ९ ॥ २७.९ व् लालाट्यां मोक्षयेत्सिराम् २७.९ व् लालाट्या मोक्षयेत्सिराः २७.९ व् ललाट्या मोक्षयेत्सिराः अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम् । नासारोगेषु नासाग्रे स्थितां नासाललाटयोः ॥ १० ॥ २७.१० व् अपाङ्ग्या उपनास्या वा पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः । जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः ॥ ११ ॥ २७.११ व् जत्रूर्ध्वं ग्रन्थिषु ग्रीवा उरोऽपाङ्गललाटस्था उन्मादेऽपस्मृतौ पुनः । हनुसंधौ समस्ते वा सिरां भ्रूमध्यगामिनीम् ॥ १२ ॥ २७.१२ व् उरोऽपाङ्गललाटस्थाम् २७.१२ व् सिरा भ्रूमध्यगामिनीः विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे । तृतीयकेऽंसयोर्मध्ये स्कन्धस्याधश्चतुर्थके ॥ १३ ॥ प्रवाहिकायां शूलिन्यां श्रोणितो द्व्य्अङ्गुले स्थिताम् । शुक्रमेढ्रामये मेढ्र ऊरुगां गलगण्डयोः ॥ १४ ॥ गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुर्अङ्गुले । इन्द्रवस्तेरधोऽपच्यां द्व्य्अङ्गुले चतुर्अङ्गुले ॥ १५ ॥ ऊर्ध्वं गुल्फस्य सक्थ्य्अर्तौ तथा क्रोष्टुकशीर्षके । पाददाहे खुडे हर्षे विपाद्यां वातकण्टके ॥ १६ ॥ २७.१६ व् ऊर्ध्वं गुल्फस्य संध्य्अर्तौ चिप्ये च द्व्य्अङ्गुले विध्येदुपरि क्षिप्रमर्मणः । गृध्रस्यामिव विश्वाच्यां यथोक्तानामदर्शने ॥ १७ ॥ मर्महीने यथासन्ने देशेऽन्यां व्यधयेत्सिराम् । अथ स्निग्धतनुः सज्जसर्वोपकरणो बली ॥ १८ ॥ कृतस्वस्त्य्अयनः स्निग्धरसान्नप्रतिभोजितः । अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः ॥ १९ ॥ मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः । मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत् ॥ २० ॥ २७.२० व् मन्ये गाढं प्रपीडयेत् दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत् । पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः ॥ २१ ॥ २७.२१ व् वस्त्रमावेष्टयेन्नरः कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम् । एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः ॥ २२ ॥ २७.२२ व् तस्यान्तर्वामतर्जनीम् २७.२२ व् एषोऽन्तर्मुखवर्जानां ततो मध्यमयाङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया । ताडयेदुत्थितां ज्ञात्वा स्पर्शाद्वाङ्गुष्ठपीडनैः ॥ २३ ॥ २७.२३ व् स्पर्शाङ्गुष्ठप्रपीडनैः कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया । फलोद्देशे सुनिष्कम्पं सिरां तद्वच्च मोक्षयेत् ॥ २४ ॥ ताडयन् पीडयंश्चैनां विध्येद्व्रीहिमुखेन तु । अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम् ॥ २५ ॥ २७.२५ व् ताडयन् पीडयन् वैनां २७.२५ व् ताडयन् पीडयेच्चैनां अभ्युन्नतविदष्टाग्रजिह्वस्याधस्तद्आश्रयाम् । यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे ॥ २६ ॥ पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे । कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके ॥ २७ ॥ विध्येद्धस्तसिरां बाहावन्आकुञ्चितकूर्परे । बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगर्भिणम् ॥ २८ ॥ २७.२८ व् मुष्टिमङ्गुष्ठगर्भिणीम् ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुर्अङ्गुले । विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् ॥ २९ ॥ प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते । पादे तु सुस्थितेऽधस्ताज्जानुसंधेर्निपीडिते ॥ ३० ॥ २७.३० व् पादे तु भूस्थितेऽधस्ताज् गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि । द्वितीये कुञ्चिते किञ्चिद्आरूढे हस्तवत्ततः ॥ ३१ ॥ बद्ध्वा विध्येत्सिरामित्थमन्उक्तेष्वपि कल्पयेत् । तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित् ॥ ३२ ॥ मांसले निक्षिपेद्देशे व्रीह्य्आस्यं व्रीहिमात्रकम् । यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम् ॥ ३३ ॥ २७.३३ व् सिरां विध्यन् कुठारया २७.३३ व् सिरां विध्येत्कुठारया २७.३३ व् सिरां विध्येत्कुठारिकाम् सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत् । अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः ॥ ३४ ॥ २७.३४ व् सम्यग्विद्धे स्रवेद्धारा २७.३४ व् यन्त्रे मुक्ते च न स्रवेत् २७.३४ व् दुर्विद्धा तैलचूर्णितैः सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते । भीमूर्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः ॥ ३५ ॥ क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः । असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः ॥ ३६ ॥ सागारधूमलवणतैलैर्दिह्यात्सिरामुखम् । सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ ३७ ॥ २७.३७ व् तैलेन लवणेन वा अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका । सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत् ॥ ३८ ॥ यन्त्रं विमुच्य मूर्छायां वीजिते व्यजनैः पुनः । स्रावयेन्मूर्छति पुनस्त्वपरेद्युस्त्र्य्अहेऽपि वा ॥ ३९ ॥ वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम् । पित्तात्पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम् ॥ ४० ॥ २७.४० व् अस्कन्द्यौष्ण्यात्सचन्द्रकम् वातिकं शोणितं शीघ्रं भूमिः पिबति चावृतम् । मक्षिकाणामकान्तं च रक्तं भवति पैत्तिकम् ॥ ४०+१ ॥ श्लैष्मिकं मक्षिकाक्रान्तं शुष्यत्यपि न चेणयत् ॥ ४०+२ ब् ॥ कफात्स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम् । संसृष्टलिङ्गं संसर्गात्त्रिदोषं मलिनाविलम् ॥ ४१ ॥ अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम् । अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः ॥ ४२ ॥ २७.४२ व् अशुद्धं बलिनोऽप्यस्रं तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम् । स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना ॥ ४३ ॥ प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम् । अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा ॥ ४४ ॥ २७.४४ व् अशुद्धौ स्रावयेद्भूयः स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम् । किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते ॥ ४५ ॥ सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत् । हरेच्छृङ्गादिभिः शेषं प्रसादमथवा नयेत् ॥ ४६ ॥ शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः । दुष्टं रक्तमन्उद्रिक्तमेवमेव प्रसादयेत् ॥ ४७ ॥ रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम् । लोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्य्आह्वगैरिकैः ॥ ४८ ॥ मृत्कपालाञ्जनक्षौममषीक्षीरित्वग्अङ्कुरैः । विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत् ॥ ४९ ॥ तामेव वा सिरां विध्येद्व्यधात्तस्मादन्अन्तरम् । सिरामुखं वा त्वरितं दहेत्तप्तशलाकया ॥ ५० ॥ २७.५० व् सिरामुखं च त्वरितं उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत् । दोषाः प्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक्स्यात् ॥ ५१ ॥ नात्य्उष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम् । तदा शरीरं ह्यन्अवस्थितासृगग्निर्विशेषादिति रक्षितव्यः ॥ ५२ ॥ २७.५२ व् तदा शरीरं ह्यन्अवस्थितास्रम् २७.५२ व् अग्निर्विशेषादिति रक्षणीयः २७.५२ व् अग्निर्विशेषेण च रक्षितव्यः प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम् । सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ॥ ५३ ॥ रक्तजा व्यङ्गकुष्ठाद्याः कण्ठास्याक्षिशिरोगदाः । पलितारूंषिकाबाधाः शाम्यन्त्येते सिराव्यधात् ॥ ५३+१ ॥ निर्व्याधिनीलोत्पलपत्त्रनेत्रं सुव्यक्तमूलासितबद्धकेशम् । चन्द्रोपमं पद्मसुगन्धि वक्त्रं भवेल्ललाटे तु सिराव्यधेन ॥ ५३+२ ॥ षूत्रस्थान वक्रर्जुतिर्यग्ऊर्ध्वाधः शल्यानां पञ्चधा गतिः । ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः ॥ १ ॥ अभ्युद्गतं बुद्बुदवत्पिटिकोपचितं व्रणम् । मृदुमांसं च जानीयादन्तःशल्यं समासतः ॥ २ ॥ २८.२ व् अभ्युन्नतं बुद्बुदवत् २८.२ व् मृदुमांसं विजानीयाद् विशेषात्त्वग्गते शल्ये विवर्णः कठिनायतः । शोफो भवति मांसस्थे चोषः शोफो विवर्धते ॥ ३ ॥ पीडनाक्षमता पाकः शल्यमार्गो न रोहति । पेश्य्अन्तरगते मांसप्राप्तवच्छ्वयथुं विना ॥ ४ ॥ २८.४ व् पीडनेऽक्षमता पाकः २८.४ व् प्राप्तवच्छ्वयथोर्विना आक्षेपः स्नायुजालस्य संरम्भस्तम्भवेदनाः । स्नायुगे दुर्हरं चैतत्सिराध्मानं सिराश्रिते ॥ ५ ॥ २८.५ व् स्नावगे दुर्हरं चैतत् स्वकर्मगुणहानिः स्यात्स्रोतसां स्रोतसि स्थिते । धमनीस्थेऽनिले रक्तं फेनयुक्तमुदीरयेत् ॥ ६ ॥ २८.६ व् फेनयुक्तमुदीरयन् निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः । संघर्षो बलवानस्थिसंधिप्राप्तेऽस्थिपूर्णता ॥ ७ ॥ २८.७ व् संहर्षो बलवानस्थि नैकरूपा रुजोऽस्थिस्थे शोफस्तद्वच्च संधिगे । चेष्टानिवृत्तिश्च भवेदाटोपः कोष्ठसंश्रिते ॥ ८ ॥ आनाहोऽन्नशकृन्मूत्रदर्शनं च व्रणानने । विद्यान्मर्मगतं शल्यं मर्मविद्धोपलक्षणैः ॥ ९ ॥ यथास्वं च परिस्रावैस्त्वग्आदिषु विभावयेत् । रुह्यते शुद्धदेहानामनुलोमस्थितं तु तत् ॥ १० ॥ २८.१० व् यथायथं परिस्रावैस् दोषकोपाभिघातादिक्षोभाद्भूयोऽपि बाधते । त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः ॥ ११ ॥ रागरुग्दाहसंरम्भा यत्र चाज्यं विलीयते । आशु शुष्यति लेपो वा तत्स्थानं शल्यवद्वदेत् ॥ १२ ॥ २८.१२ व् यत्र वाज्यं विलीयते २८.१२ व् आशुष्यति प्रलेपो वा मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लथतां गतम् । क्षोभाद्रागादिभिः शल्यं लक्षयेत्तद्वदेव च ॥ १३ ॥ २८.१३ व् कर्षणाच्छ्लथतां गतम् पेश्य्अस्थिसंधिकोष्ठेषु नष्टमस्थिषु लक्षयेत् । अस्थ्नामभ्यञ्जनस्वेदबन्धपीडनमर्दनैः ॥ १४ ॥ प्रसारणाकुञ्चनतः संधिनष्टं तथास्थिवत् । नष्टे स्नायुसिरास्रोतोधमनीष्वसमे पथि ॥ १५ ॥ अश्वयुक्तं रथं खण्डचक्रमारोप्य रोगिणम् । शीघ्रं नयेत्ततस्तस्य संरम्भाच्छल्यमादिशेत् ॥ १६ ॥ मर्मनष्टं पृथङ्नोक्तं तेषां मांसादिसंश्रयात् । सामान्येन सशल्यं तु क्षोभिण्या क्रियया सरुक् ॥ १७ ॥ वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः । अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत् ॥ १८ ॥ तेषामाहरणोपायौ प्रतिलोमानुलोमकौ । अर्वाचीनपराचीने निर्हरेत्तद्विपर्ययात् ॥ १९ ॥ २८.१९ व् अवाचीनपराचीने सुखाहार्यं यतश्छित्त्वा ततस्तिर्यग्गतं हरेत् । शल्यं न निर्घात्यमुरःकक्षावङ्क्षणपार्श्वगम् ॥ २० ॥ प्रतिलोममन्उत्तुण्डं छेद्यं पृथुमुखं च यत् । नैवाहरेद्विशल्यघ्नं नष्टं वा निर्उपद्रवम् ॥ २१ ॥ अथाहरेत्करप्राप्यं करेणैवेतरत्पुनः । दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः ॥ २२ ॥ अदृश्यं व्रणसंस्थानाद्ग्रहीतुं शक्यते यतः । कङ्कभृङ्गाह्वकुररशरारिवायसाननैः ॥ २३ ॥ संदंशाभ्यां त्वग्आदिस्थं तालाभ्यां सुषिरं हरेत् । सुषिरस्थं तु नलकैः शेषं शेषैर्यथायथम् ॥ २४ ॥ शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम् । कृत्वा घृतेन संस्वेद्य बद्धाचारिकमादिशेत् ॥ २५ ॥ २८.२५ व् बद्धाचारिकमाचरेत् सिरास्नायुविलग्नं तु चालयित्वा शलाकया । हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना ॥ २६ ॥ २८.२६ व् सिरास्नायुविलग्नं च २८.२६ व् सिरास्नावविलग्नं तु ततः स्थानान्तरं प्राप्तमाहरेत्तद्यथायथम् । यथामार्गं दुर्आकर्षमन्यतोऽप्येवमाहरेत् ॥ २७ ॥ अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत् । इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः ॥ २८ ॥ २८.२८ व् अस्थिदृष्टे नरं पद्भ्यां २८.२८ व् अस्थिनष्टे नरं पद्भ्यां २८.२८ व् अस्थिलग्नं नरं पद्भ्यां २८.२८ व् अस्थिस्थं न परं पद्भ्यां तथाप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया । सुबद्धं वक्त्रकटके बध्नीयात्सुसमाहितः ॥ २९ ॥ सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् । ताडयेदिति मूर्धानं वेगेनोन्नमयन् यथा ॥ ३० ॥ २८.३० व् वेगेनोन्नमयेद्यथा उद्धरेच्छल्यमेवं वा शाखायां कल्पयेत्तरोः । बद्ध्वा दुर्बलवारङ्गं कुशाभिः शल्यमाहरेत् ॥ ३१ ॥ श्वयथुग्रस्तवारङ्गं शोफमुत्पीड्य युक्तितः । मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत् ॥ ३२ ॥ तैरेव चानयेन्मार्गममार्गोत्तुण्डितं तु यत् । मृदित्वा कर्णिनां कर्णं नाड्य्आस्येन निगृह्य वा ॥ ३३ ॥ २८.३३ व् तेनैव वा नयेन्मार्गम् २८.३३ व् अमार्गोत्तुण्डितं च यत् अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम् । पक्वाशयगतं शल्यं विरेकेण विनिर्हरेत् ॥ ३४ ॥ दुष्टवातविषस्तन्यरक्ततोयादि चूषणैः । कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत् ॥ ३५ ॥ बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् । नाड्याग्नितापितां क्षिप्त्वा शलाकामप्स्थिरीकृताम् ॥ ३६ ॥ २८.३६ व् जतुदिग्धमजातुषम् आनयेज्जातुषं कण्ठाज्जतुदिग्धामजातुषम् । केशोन्दुकेन पीतेन द्रवैः कण्टकमाक्षिपेत् ॥ ३७ ॥ २८.३७ व् जतुदिग्धमजातुषम् २८.३७ व् केशाण्डकेन पीतेन २८.३७ व् केशाण्डुकेन पीतेन २८.३७ व् केशोण्डुकेन पीतेन सहसा सूत्रबद्धेन वमतस्तेन चेतरत् । अशक्यं मुखनासाभ्यामाहर्तुं परतो नुदेत् ॥ ३८ ॥ अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत् । सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर्हरेत् ॥ ३९ ॥ अपां पूर्णं विधुनुयादवाक्शिरसमायतम् । वामयेच्चामुखं भस्मराशौ वा निखनेन्नरम् ॥ ४० ॥ २८.४० व् वामयेदामुखं भस्म २८.४० व् वामयेद्वामुखं भस्म २८.४० व् वामयेद्वा सुखं भस्म कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी । क्षिपेदधोमुखं कर्णं हन्याद्वाचूषयेत वा ॥ ४१ ॥ २८.४१ व् हन्याद्वाचूषयेत्तदा २८.४१ व् हन्याद्वाचूषयेत च कीटे स्रोतोगते कर्णं पूरयेद्लवणाम्बुना । शुक्तेन वा सुखोष्णेन मृते क्लेदहरो विधिः ॥ ४२ ॥ जातुषं हेमरूप्यादिधातुजं च चिरस्थितम् । ऊष्मणा प्रायशः शल्यं देहजेन विलीयते ॥ ४३ ॥ मृद्वेणुदारुशृङ्गास्थिदन्तवालोपलानि न । विषाणवेण्व्अयस्तालदारुशल्यं चिरादपि ॥ ४४ ॥ २८.४४ व् दन्तवालोपलादि न प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी । शल्ये मांसावगाढे चेत्स देशो न विदह्यते ॥ ४५ ॥ २८.४५ व् शल्ये मांसावगाढे च ततस्तं मर्दनस्वेदशुद्धिकर्षणबृंहणैः । तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः ॥ ४६ ॥ २८.४६ व् शुद्धिकर्शनबृंहणैः पाचयित्वा हरेच्छल्यं पाटनैषणभेदनैः । शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम् ॥ ४७ ॥ तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत् ॥ ४७ªअब् ॥ २८.४७ªब्व् शल्यं विद्यात्ततो हरेत् षूत्रस्थान व्रणः संजायते प्रायः पाकाच्छ्वयथुपूर्वकात् । तमेवोपचरेत्तस्माद्रक्षन् पाकं प्रयत्नतः ॥ १ ॥ सुशीतलेपसेकास्रमोक्षसंशोधनादिभिः । शोफोऽल्पोऽल्पोष्मरुक्सामः सवर्णः कठिनः स्थिरः ॥ २ ॥ २९.२ व् सुशीतलेपसेकासृङ् २९.२ व् शोफोऽल्पोऽल्पोष्मरुक्चामः पच्यमानो विवर्णस्तु रागी वस्तिरिवाततः । स्फुटतीव सनिस्तोदः साङ्गमर्दविजृम्भिकः ॥ ३ ॥ संरम्भारुचिदाहोषातृड्ज्वरानिद्रतान्वितः । स्त्यानं विष्यन्दयत्याज्यं व्रणवत्स्पर्शनासहः ॥ ४ ॥ पक्वेऽल्पवेगता म्लानिः पाण्डुता वलिसंभवः । नामोऽन्तेषून्नतिर्मध्ये कण्डूशोफादिमार्दवम् ॥ ५ ॥ २९.५ व् पक्वेऽल्पवेगता ग्लानिः २९.५ व् पक्वेऽल्पवेदना ग्लानिः २९.५ व् पक्वेऽल्पवेदना म्लानिः २९.५ व् पक्वेऽल्पा वेदना म्लानिः स्पृष्टे पूयस्य संचारो भवेद्वस्ताविवाम्भसः । शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात् ॥ ६ ॥ रागो रक्ताच्च पाकः स्यादतो दोषैः सशोणितैः । पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभक्षितः ॥ ७ ॥ वलीभिराचितः श्यावः शीर्यमाणतनूरुहः । कफजेषु तु शोफेषु गम्भीरं पाकमेत्यसृक् ॥ ८ ॥ २९.८ व् वलीभिराचितः श्यामः पक्वलिङ्गं ततोऽस्पष्टं यत्र स्याच्छीतशोफता । त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् ॥ ९ ॥ रक्तपाकमिति ब्रूयात्तं प्राज्ञो मुक्तसंशयः । अल्पसत्त्वेऽबले बाले पाकाद्वात्य्अर्थमुद्धते ॥ १० ॥ २९.१० व् पाकादत्य्अर्थमुद्धते २९.१० व् पाके वात्य्अर्थमुद्धते दारणं मर्मसंध्य्आदिस्थिते चान्यत्र पाटनम् । आमच्छेदे सिरास्नायुव्यापदोऽसृग्अतिस्रुतिः ॥ ११ ॥ रुजोऽतिवृद्धिर्दरणं विसर्पो वा क्षतोद्भवः । तिष्ठन्नन्तः पुनः पूयः सिरास्नाय्व्असृग्आमिषम् ॥ १२ ॥ विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः । यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते ॥ १३ ॥ २९.१३ व् तृणोलुपमिवानलः २९.१३ व् तृणोपलमिवानलः २९.१३ व् तृणोच्चयम् इवानलः श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ । प्राक्शस्त्रकर्मणश्चेष्टं भोजयेदन्नमातुरम् ॥ १४ ॥ २९.१४ व् श्वपचाविव जानीयात् २९.१४ व् द्वावनिश्चितकारिणौ २९.१४ व् प्राक् शस्त्रकर्मणः श्रेष्ठं पानपं पाययेन्मद्यं तीक्ष्णं यो वेदनाक्षमः । न मूर्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते ॥ १५ ॥ अन्यत्र मूढगर्भाश्ममुखरोगोदरातुरात् । अथाहृतोपकरणं वैद्यः प्राङ्मुखमातुरम् ॥ १६ ॥ २९.१६ व् अथाहृतोपकरणो संमुखो यन्त्रयित्वाशु न्यस्येन्मर्मादि वर्जयन् । अनुलोमं सुनिशितं शस्त्रमापूयदर्शनात् ॥ १७ ॥ २९.१७ व् संमुखं यन्त्रयित्वाशु सकृदेवाहरेच्तच्च पाके तु सुमहत्यपि । पाटयेद्द्व्य्अङ्गुलं सम्यग्द्व्य्अङ्गुलत्र्य्अङ्गुलान्तरम् ॥ १८ ॥ एषित्वा सम्यगेषिण्या परितः सुनिरूपितम् । अङ्गुलीनालवालैर्वा यथादेशं यथाशयम् ॥ १९ ॥ यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च । तत्र तत्र व्रणं कुर्यात्सुविभक्तं निर्आशयम् ॥ २० ॥ २९.२० व् उत्सङ्गं यत्र यत्र च आयतं च विशालं च यथा दोषो न तिष्ठति । शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू ॥ २१ ॥ २९.२१ व् शौर्यमाशुक्रिया तीक्ष्ण २९.२१ व् शस्त्रमस्वेदवेपथू असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते । तिर्यक्छिन्द्याल्ललाटभ्रूदन्तवेष्टकजत्रुणि ॥ २२ ॥ कुक्षिकक्षाक्षिकूटौष्ठकपोलगलवङ्क्षणे । अन्यत्र च्छेदनात्तिर्यक्सिरास्नायुविपाटनम् ॥ २३ ॥ शस्त्रेऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम् । आश्वास्य परितोऽङ्गुल्या परिपीड्य व्रणं ततः ॥ २४ ॥ क्षालयित्वा कषायेण प्लोतेनाम्भोऽपनीय च । गुग्गुल्व्अगुरुसिद्धार्थहिङ्गुसर्जरसान्वितैः ॥ २५ ॥ धूपयेच्पटुषड्ग्रन्थानिम्बपत्त्रैर्घृतप्लुतैः । तिलकल्काज्यमधुभिर्यथास्वं भेषजेन च ॥ २६ ॥ दिग्धां वर्तिं ततो दद्यात्तैरेवाच्छादयेच्च ताम् । घृताक्तैः सक्तुभिश्चोर्ध्वं घनां कवलिकां ततः ॥ २७ ॥ २९.२७ व् तैरेवाच्छादयेच्च तम् निधाय युक्त्या बध्नीयात्पट्टेन सुसमाहितम् । पार्श्वे सव्येऽपसव्ये वा नाधस्तान्नैव चोपरि ॥ २८ ॥ २९.२८ व् पट्टेन सुसमाहितः शुचिसूक्ष्मदृढाः पट्टाः कवल्यः सविकेशिकाः । धूपिता मृदवः श्लक्ष्णा निर्वलीका व्रणे हिताः ॥ २९ ॥ २९.२९ व् कवल्यः सुविकेशिकाः कुर्वीतान्अन्तरं तस्य रक्षां रक्षोनिषिद्धये । बलिं चोपहरेत्तेभ्यः सदा मूर्ध्ना च धारयेत् ॥ ३० ॥ २९.३० व् कुर्वीतान्अन्तरं सम्यग् २९.३० व् रक्षां रक्षोनिवृत्तये २९.३० व् रक्षां रक्षोनिषिद्धये २९.३० व् सदा मूर्ध्नावधारयेत् लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम् । वचां छत्त्रामतिच्छत्त्रां दूर्वां सिद्धार्थकानपि ॥ ३१ ॥ ततः स्नेहदिनेहोक्तं तस्याचारं समादिशेत् । दिवास्वप्नो व्रणे कण्डूरागरुक्शोफपूयकृत् ॥ ३२ ॥ २९.३२ व् ततः स्नेहविधानोक्तं स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलितस्रुते । शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात् ॥ ३३ ॥ व्रणे श्वयथुरायासात्स च रागश्च जागरात् । तौ च रुक्च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् ॥ ३३+(१) ॥ भोजनं च यथासात्म्यं यवगोधूमषष्टिकाः । मसूरमुद्गतुबरीजीवन्तीसुनिषण्णकाः ॥ ३४ ॥ २९.३४ व् भोजनं तु यथासात्म्यं बालमूलकवार्ताकतण्डुलीयकवास्तुकम् । कारवेल्लककर्कोटपटोलकटुकाफलम् ॥ ३५ ॥ सैन्धवं दाडिमं धात्री घृतं तप्तहिमं जलम् । जीर्णशाल्य्ओदनं स्निग्धमल्पमुष्णोदकोत्तरम् ॥ ३६ ॥ २९.३६ व् अल्पमुष्णं द्रवोत्तरम् भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति । अशितं मात्रया काले पथ्यं याति जरां सुखम् ॥ ३७ ॥ अजीर्णात्त्वनिलादीनां विभ्रमो बलवान् भवेत् । ततः शोफरुजापाकदाहानाहानवाप्नुयात् ॥ ३८ ॥ २९.३८ व् अजीर्णे त्वनिलादीनां नवं धान्यं तिलान्माषान्मद्यं मांसमजाङ्गलम् । क्षीरेक्षुविकृतीरम्लं लवणं कटुकं त्यजेत् ॥ ३९ ॥ २९.३९ व् मद्यं मांसं त्वजाङ्गलम् यच्चान्यदपि विष्टम्भि विदाहि गुरु शीतलम् । वर्गोऽयं नवधान्यादिर्व्रणिनः सर्वदोषकृत् ॥ ४० ॥ २९.४० व् व्रणिनां सर्वदोषकृत् मद्यं तीक्ष्णोष्णरूक्षाम्लमाशु व्यापादयेद्व्रणम् । वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत् ॥ ४१ ॥ २९.४१ व् बालोशीरैश्च वीज्येत न तुदेन्न च कण्डूयेच्चेष्टमानश्च पालयेत् । स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रियाः ॥ ४२ ॥ २९.४२ व् छयानः परिपालयेत् २९.४२ व् सिद्धवृद्धद्विजातीनां आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति । तृतीयेऽह्नि पुनः कुर्याद्व्रणकर्म च पूर्ववत् ॥ ४३ ॥ प्रक्षालनादि दिवसे द्वितीये नाचरेत्तथा । तीव्रव्यथो विग्रथितश्चिरात्संरोहति व्रणः ॥ ४४ ॥ स्निग्धां रूक्षां श्लथां गाढां दुर्न्यस्तां च विकेशिकाम् । व्रणे न दद्यात्कल्कं वा स्नेहात्क्लेदो विवर्धते ॥ ४५ ॥ मांसच्छेदोऽतिरुग्रौक्ष्याद्दरणं शोणितागमः । श्लथातिगाढदुर्न्यासैर्व्रणवर्त्मावघर्षणम् ॥ ४६ ॥ २९.४६ व् श्लथातिगाढदुर्न्यस्तैर् सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम् । व्रणं विशोधयेच्छीघ्रं स्थिता ह्यन्तर्विकेशिका ॥ ४७ ॥ व्य्अम्लं तु पाटितं शोफं पाचनैः समुपाचरेत् । भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः ॥ ४८ ॥ २९.४८ व् नातिव्रणविशोधिभिः सद्यः सद्योव्रणान् सीव्येद्विवृतानभिघातजान् । मेदोजाÀ लिखितान् ग्रन्थीन् ह्रस्वाः पालीश्च कर्णयोः ॥ ४९ ॥ शिरोऽक्षिकूटनासौष्ठगण्डकर्णोरुबाहुषु । ग्रीवाललाटमुष्कस्फिङ्मेढ्रपायूदरादिषु ॥ ५० ॥ गम्भीरेषु प्रदेशेषु मांसलेष्वचलेषु च । न तु वङ्क्षणकक्षादावल्पमांसे चले व्रणान् ॥ ५१ ॥ २९.५१ व् अल्पमांसचले व्रणान् २९.५१ व् अल्पमांसचलान् व्रणान् वायुनिर्वाहिणः शल्यगर्भान् क्षारविषाग्निजान् । सीव्येच्चलास्थिशुष्कास्रतृणरोमापनीय तु ॥ ५२ ॥ २९.५२ व् तृणरोमापनीय च प्रलम्बि मांसं विच्छिन्नं निवेश्य स्वनिवेशने । संध्य्अस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ॥ ५३ ॥ २९.५३ व् संध्य्अस्थ्यवस्थिते रक्ते २९.५३ व् स्नाव्ना सूत्रेण वल्कलैः सीव्येन्न दूरे नासन्ने गृह्णन्नाल्पं न वा बहु । सान्त्वयित्वा ततश्चार्तं व्रणे मधुघृतद्रुतैः ॥ ५४ ॥ २९.५४ व् व्रणे मधुघृतप्लुतैः अञ्जनक्षौमजमषीफलिनीशल्लकीफलैः । २९.५४ व् गृह्णन् स्व्अल्पं न वा बहु २९.५४ व् शान्तयित्वा ततश्चार्तं २९.५४ व् सान्तयित्वा ततश्चार्तं सलोध्रमधुकैर्दिग्धे युञ्ज्याद्बन्धादि पूर्ववत् ॥ ५५ ॥ व्रणो निःशोणितौष्ठो यः किञ्चिदेवावलिख्य तम् । संजातरुधिरं सीव्येत्संधानं ह्यस्य शोणितम् ॥ ५६ ॥ बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च । २९.५६ व् किञ्चिदेव विलिख्य तम् आविकाजिनकौशेयमुष्णं क्षौमं तु शीतलम् ॥ ५७ ॥ शीतोष्णं तुलासंतानकार्पासस्नायुवल्कजम् । ताम्रायस्त्रपुसीसानि व्रणे मेदःकफाधिके ॥ ५८ ॥ २९.५८ व् कार्पासस्नाववल्कजम् भङ्गे च युञ्ज्यात्फलकं चर्मवल्ककुशादि च । स्वनामानुगताकारा बन्धास्तु दश पञ्च च ॥ ५९ ॥ कोशस्वस्तिकमुत्तोलीचीनदामानुवेल्लितम् । खट्वाविबन्धस्थगिकावितानोत्सङ्गगोष्फणाः ॥ ६० ॥ २९.६० व् वितानोत्सङ्गगोफणाः यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत् । यो यत्र सुनिविष्टः स्यात्तं तेषां तत्र बुद्धिमान् ॥ ६१ ॥ २९.६१ व् यो यत्र संनिविष्टः स्यात् विदध्यात्तेषु तेष्वेव कोशमङ्गुलिपर्वसु । स्वस्तिकं कर्णकक्षादिस्तनेषूक्तं च संधिषु ॥ ६१.१+(१) ॥ मुत्तोलीं मेढ्रग्रीवादौ युञ्ज्याच्चीनमपाङ्गयोः । संबाधेऽङ्गे तथा दाम शाखास्वेवानुवेल्लितम् ॥ ६१.१+(२) ॥ खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे । अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकामन्त्रवृद्धिषु ॥ ६१.१+(३) ॥ वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत् । विलम्बिनि तथोत्सङ्गं नासौष्ठचिबुकादिषु ॥ ६१.१+(४) ॥ गोष्फणं संधिषु तथा यमकं यमिके व्रणे । वृत्तेऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्वजत्रुषु ॥ ६१.१+(५) ॥ बध्नीयाद्गाढमूरुस्फिक्कक्षावङ्क्षणमूर्धसु । शाखावदनकर्णोरःपृष्ठपार्श्वगलोदरे ॥ ६२ ॥ समं मेहनमुष्के च नेत्रे संधिषु च श्लथम् । बध्नीयाच्छिथिलस्थाने वातश्लेष्मोद्भवे समम् ॥ ६३ ॥ गाढमेव समस्थाने भृशं गाढं तद्आशये । शीते वसन्तेऽपि च तौ मोक्षणीयौ त्र्य्अहात्त्र्य्अहात् ॥ ६४ ॥ २९.६४ व् भृशं गाढं तद्आश्रये २९.६४ व् शीते वसन्ते च तथा २९.६४ व् मोक्षयेत्तौ त्र्य्अहात्त्र्य्अहात् २९.६४ व् मोक्षणीयस्त्र्य्अहात्त्र्य्अहात् पित्तरक्तोत्थयोर्बन्धो गाढस्थाने समो मतः । समस्थाने श्लथो नैव शिथिलस्याशये तथा ॥ ६५ ॥ सायं प्रातस्तयोर्मोक्षो ग्रीष्मे शरदि चेष्यते । अबद्धो दंशमशकशीतवातादिपीडितः ॥ ६६ ॥ दुष्टीभवेच्चिरं चात्र न तिष्ठेत्स्नेहभेषजम् । कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो विवर्णताम् ॥ ६७ ॥ बद्धस्तु चूर्णितो भग्नो विश्लिष्टः पाटितोऽपि वा । छिन्नस्नायुसिरोऽप्याशु सुखं संरोहति व्रणः ॥ ६८ ॥ उत्थानशयनाद्यासु सर्वेहासु न पीड्यते । उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक् ॥ ६९ ॥ २९.६९ व् सर्वेहासु न पीडयेत् २९.६९ व् उद्धृतौष्ठः समुत्सन्नो समो मृदुररुक्शीघ्रं व्रणः शुध्यति रोहति । स्थिराणामल्पमांसानां रौक्ष्यादन्उपरोहताम् ॥ ७० ॥ प्रच्छाद्यमौषधं पत्त्रैर्यथादोषं यथर्तु च । अजीर्णतरुणाच्छिद्रैः समन्तात्सुनिवेशितैः ॥ ७१ ॥ २९.७१ व् अजीर्णातरुणाच्छिद्रैः धौतैरकर्कशैः क्षीरिभूर्जार्जुनकदम्बजैः । कुष्ठिनामग्निदग्धानां पिटिका मधुमेहिनाम् ॥ ७२ ॥ कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः । बन्धनीया न मांस्पाके गुदपाके च दारुणे ॥ ७३ ॥ २९.७३ व् न मांस्पाके च बध्नीयाद् २९.७३ व् मांसपाके न बध्नीयाद् शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः । अरक्षया व्रणे यस्मिन्मक्षिका निक्षिपेत्कृमीन् ॥ ७४ ॥ ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान् । सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे ॥ ७५ ॥ २९.७५ व् रुजाशोफास्रविस्रुतीः सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः । गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः ॥ ७६ ॥ २९.७६ व् गोमूत्रकल्कितालेपः प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत् । न चैनं त्वरमाणोऽन्तः सदोषमुपरोहयेत् ॥ ७७ ॥ सोऽल्पेनाप्यपचारेण भूयो विकुरुते यतः । रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥ ७८ ॥ हर्षं क्रोधं भयं चापि यावदास्थैर्यसंभवात् । आदरेणानुवर्त्योऽयं मासान् षट्सप्त वा विधिः ॥ ७९ ॥ २९.७९ व् हर्षं क्रोधं भयं वापि उत्पद्यमानासु च तासु तासु वार्तासु दोषादिबलानुसारी । तैस्तैरुपायैः प्रयतश्चिकित्सेदालोचयन् विस्तरमुत्तरोक्तम् ॥ ८० ॥ षूत्रस्थान सर्वशस्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत् । छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि ॥ १ ॥ दुःखावचार्यशास्त्रेषु तेन सिद्धिमयात्सु च । अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते ॥ २ ॥ ३०.२ व् तेन सिद्धिं न यात्सु च स पेयोऽर्शोऽग्निसादाश्मगुल्मोदरगरादिषु । योज्यः साक्षान्मषश्वित्रबाह्यार्शःकुष्ठसुप्तिषु ॥ ३ ॥ भगन्दरार्बुदग्रन्थिदुष्टनाडीव्रणादिषु । न तूभयोऽपि योक्तव्यः पित्ते रक्ते चलेऽबले ॥ ४ ॥ ३०.४ व् भगन्दरापचीग्रन्थि ३०.४ व् पित्ते रक्ते बलेऽबले ज्वरेऽतीसारे हृन्मूर्धरोगे पाण्ड्व्आमयेऽरुचौ । तिमिरे कृतसंशुद्धौ श्वयथौ सर्वगात्रगे ॥ ५ ॥ ३०.५ व् श्वयथौ सर्वगात्रजे भीरुगर्भिण्य्ऋतुमतीप्रोद्वृत्तफलयोनिषु । अजीर्णेऽन्ने शिशौ वृद्धे धमनीसंधिमर्मसु ॥ ६ ॥ तरुणास्थिसिरास्नायुसेवनीगलनाभिषु । देशेऽल्पमांसे वृषणमेढ्रस्रोतोनखान्तरे ॥ ७ ॥ ३०.७ व् देशेऽल्पमांसे वृषणे ३०.७ व् मेढ्रे स्रोतोनखान्तरे वर्त्मरोगादृतेऽक्ष्णोश्च शीतवर्षोष्णदुर्दिने । कालमुष्ककशम्याककदलीपारिभद्रकान् ॥ ८ ॥ अश्वकर्णमहावृक्षपलाशास्फोतवृक्षकान् । इन्द्रवृक्षार्कपूतीकनक्तमालाश्वमारकान् ॥ ९ ॥ काकजङ्घामपामार्गमग्निमन्थाग्नितिल्वकान् । सार्द्रान् समूलशाखादीन् खण्डशः परिकल्पितान् ॥ १० ॥ कोशातकीस्चतस्रश्च शूकं नालं यवस्य च । निवाते निचयीकृत्य पृथक्तानि शिलातले ॥ ११ ॥ ३०.११ व् शूकनालं यवस्य च प्रक्षिप्य मुष्ककचये सुधाश्मानि च दीपयेत् । ततस्तिलानां कुतलैर्दग्ध्वाग्नौ विगते पृथक् ॥ १२ ॥ ३०.१२ व् ततस्तिलानां कुतिलैर् ३०.१२ व् ततस्तिलानां कुन्तालैर् कृत्वा सुधाश्मनां भस्म द्रोणं त्वितरभस्मनः । मुष्ककोत्तरमादाय प्रत्य्एकं जलमूत्रयोः ॥ १३ ॥ ३०.१३ व् द्रोणं चेतरभस्मनः गालयेदर्धभारेण महता वाससा च तत् । यावत्पिच्छिलरक्ताच्छस्तीक्ष्णो जातस्तदा च तम् ॥ १४ ॥ गृहीत्वा क्षारनिष्यन्दं पचेल्लौह्यां विघट्टयन् । पच्यमाने ततस्तस्मिंस्ताः सुधाभस्मशर्कराः ॥ १५ ॥ शुक्तीः क्षीरपकं शङ्खनाभीश्चायसभाजने । कृत्वाग्निवर्णान् बहुशः क्षारोत्थे कुडवोन्मिते ॥ १६ ॥ ३०.१६ व् ंनाभींश्चायसभाजने ३०.१६ व् क्षाराच्छे कुडवोन्मिते निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत् । श्लक्ष्णं शकृद्दक्षशिखिगृध्रकङ्ककपोतजम् ॥ १७ ॥ चतुष्पात्पक्षिपित्तालमनोह्वालवणानि च । परितः सुतरां चातो दर्व्या तमवघट्तयेत् ॥ १८ ॥ सबाष्पैश्च यदोत्तिष्ठेद्बुद्बुदैर्लेहवद्घनः । अवतार्य तदा शीतो यवराशावयोमये ॥ १९ ॥ ३०.१९ व् सबाष्पैश्च यदा तिष्ठेद् ३०.१९ व् अवतार्य ततः शीते ३०.१९ व् अवतार्य ततः शीतो ३०.१९ व् अवतार्य तदा शीते स्थाप्योऽयं मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन्मृदौ । निर्वाप्यापनयेत्तीक्ष्णे पूर्ववत्प्रतिवापनम् ॥ २० ॥ तथा लाङ्गलिकादन्तीचित्रकातिविषावचाः । स्वर्जिकाकनकक्षीरीहिङ्गुपूतिकपल्लवाः ॥ २१ ॥ तालपत्त्री विडं चेति सप्तरात्रात्परं तु सः । योज्यस्तीक्ष्णोऽनिलश्लेष्ममेदोजेष्वर्बुदादिषु ॥ २२ ॥ ३०.२२ व् तालपत्त्री विडङ्गं च मध्येष्वेष्वेव मध्योऽन्यः पित्तास्रगुदजन्मसु । बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत् ॥ २३ ॥ ३०.२३ व् मध्येष्वेव च मध्योऽन्यः ३०.२३ व् मध्येष्वेषु च मध्यो ऽन्यः ३०.२३ व् पित्तासृग्गुदजन्मसु नातितीक्ष्णमृदुः श्लक्ष्णः पिच्छिलः शीघ्रगः सितः । शिखरी सुखनिर्वाप्यो न विष्यन्दी न चातिरुक् ॥ २४ ॥ ३०.२४ व् नातितीक्ष्णो मृदुः श्लक्ष्णः क्षारो दशगुणः शस्त्रतेजसोरपि कर्मकृत् । आचूषन्निव संरम्भाद्गात्रमापीडयन्निव ॥ २५ ॥ सर्वतोऽनुसरन् दोषानुन्मूलयति मूलतः । कर्म कृत्वा गतरुजः स्वयमेवोपशाम्यति ॥ २६ ॥ क्षारसाध्ये गदे छिन्ने लिखिते स्रावितेऽथवा । क्षारं शलाकया दत्त्वा प्लोतप्रावृतदेहया ॥ २७ ॥ ३०.२७ व् प्लोतप्लावितदेहया मात्राशतमुपेक्षेत तत्रार्शःस्वावृताननम् । हस्तेन यन्त्रं कुर्वीत वर्त्मरोगेषु वर्त्मनी ॥ २८ ॥ निर्भुज्य पिचुनाच्छाद्य कृष्णभागं विनिक्षिपेत् । पद्मपत्त्रतनुः क्षारलेपो घ्राणार्बुदेषु च ॥ २९ ॥ ३०.२९ व् लेपो घ्राणार्बुदेषु तु प्रत्य्आदित्यं निषण्णस्य समुन्नम्याग्रनासिकाम् । मात्रा विधार्यः पञ्चाशत्तद्वदर्शसि कर्णजे ॥ ३० ॥ ३०.३० व् समुन्नस्याग्रनासिकाम् ३०.३० व् मात्रा विधार्य पञ्चाशत् ३०.३० व् मात्रा विधार्याः पञ्चाशत् क्षारं प्रमार्जनेनानु परिमृज्यावगम्य च । सुदग्धं घृतमध्व्अक्तं तत्पयोमस्तुकाञ्जिकैः ॥ ३१ ॥ ३०.३१ व् क्षारं प्रमार्जनेनाशु निर्वापयेत्ततः साज्यैः स्वादुशीतैः प्रदेहयेत् । अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ॥ ३२ ॥ यदि च स्थिरमूलत्वात्क्षारदग्धं न शीर्यते । धान्याम्लबीजयष्ट्य्आह्वतिलैरालेपयेत्ततः ॥ ३३ ॥ तिलकल्कः समधुको घृताक्तो व्रणरोपणः । पक्वजम्ब्व्असितं सन्नं सम्यग्दग्धं विपर्यये ॥ ३४ ॥ ३०.३४ व् पक्वजम्बूनिभं सन्नं ताम्रतातोदकण्ड्व्आद्यैर्दुर्दग्धं तं पुनर्दहेत् । अतिदग्धे स्रवेद्रक्तं मूर्छादाहज्वरादयः ॥ ३५ ॥ ३०.३५ व् दुर्दग्धं तत्पुनर्दहेत् गुदे विशेषाद्विण्मूत्रसंरोधोऽतिप्रवर्तनम् । पुंस्त्वोपघातो मृत्युर्वा गुदस्य शातनाद्ध्रुवम् ॥ ३६ ॥ ३०.३६ व् गुदस्य शातनं ध्रुवम् ३०.३६ व् गुदस्य सदनाद्ध्रुवम् ३०.३६ व् गुदस्य सदनं ध्रुवम् नासायां नासिकावंशदरणाकुञ्चनोद्भवः । भवेच्च विषयाज्ञानं तद्वच्छ्रोत्रादिकेष्वपि ॥ ३७ ॥ विशेषादत्र सेकोऽम्लैर्लेपो मधु घृतं तिलाः । वातपित्तहरा चेष्टा सर्वैव शिशिरा क्रिया ॥ ३८ ॥ अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः । यात्याशु स्वादुतां तस्मादम्लैर्निर्वापयेत्तराम् ॥ ३९ ॥ विषाग्निशस्त्राशनिमृत्युतुल्यः क्षारो भवेदल्पमतिप्रयुक्तः । रोगान्निहन्यादचिरेण घोरान् स धीमता सम्यग्अनुप्रयुक्तो ॥ ३९+(१) ॥ अग्निः क्षारादपि श्रेष्ठस्तद्दग्धानामसंभवात् । भेषजक्षारशस्त्रैश्च न सिद्धानां प्रसाधनात् ॥ ४० ॥ त्वचि मांसे सिरास्नायुसंध्य्अस्थिषु स युज्यते । मषाङ्गग्लानिमूर्धार्तिमन्थकीलतिलादिषु ॥ ४१ ॥ ३०.४१ व् संध्य्अस्थिषु स योज्यते त्वग्दाहो वर्तिगोदन्तसूर्यकान्तशरादिभिः । अर्शोभगन्दरग्रन्थिनाडीदुष्टव्रणादिषु ॥ ४२ ॥ मांसदाहो मधुस्नेहजाम्बवौष्ठगुडादिभिः । श्लिष्टवर्त्मन्यसृक्स्रावनील्य्असम्यग्व्यधादिषु ॥ ४३ ॥ ३०.४३ व् श्लिष्टवर्त्मन्यसृक्स्रावे ३०.४३ व् नील्य्असम्यग्व्यधादिषु सिरादिदाहस्तैरेव न दहेत्क्षारवारितान् । अन्तःशल्यासृजो भिन्नकोष्ठान् भूरिव्रणातुरान् ॥ ४४ ॥ ३०.४४ व् न दहेत्क्षारवर्जितान् सुदग्धं घृतमध्व्अक्तं स्निग्धशीतैः प्रदेहयेत् । तस्य लिङ्गं स्थिते रक्ते शब्दवल्लसिकान्वितम् ॥ ४५ ॥ पक्वतालकपोताभं सुरोहं नातिवेदनम् । प्रमाददग्धवत्सर्वं दुर्दग्धात्य्अर्थदग्धयोः ॥ ४६ ॥ चतुर्धा तत्तु तुच्छेन सह तुच्छस्य लक्षणम् । त्वग्विवर्णोष्यतेऽत्य्अर्थं न च स्फोटसमुद्भवः ॥ ४७ ॥ ३०.४७ व् चतुर्धा तच्च तुच्छेन ३०.४७ व् चतुर्धा तत्तु तुत्थेन ३०.४७ व् चतुर्धा तत्र तुच्छेन ३०.४७ व् सह तुत्थस्य लक्षणम् सस्फोटदाहतीव्रोषं दुर्दग्धमतिदाहतः । मांसलम्बनसंकोचदाहधूपनवेदनाः ॥ ४८ ॥ सिरादिनाशस्तृण्मूर्छाव्रणगाम्भीर्यमृत्यवः । तुच्छस्याग्निप्रतपनं कार्यमुष्णं च भेषजम् ॥ ४९ ॥ ३०.४९ व् सिरादिनाशतृण्मूर्छा ३०.४९ व् तुत्थस्याग्निप्रतपनं स्त्यानेऽस्रे वेदनात्य्अर्थं विलीने मन्दता रुजः । दुर्दग्धे शीतमुष्णं च युञ्ज्यादादौ ततो हिमम् ॥ ५० ॥ सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः । लिम्पेत्साज्यामृतैरूर्ध्वं पित्तविद्रधिवत्क्रिया ॥ ५१ ॥ ३०.५१ व् सम्यग्दग्धे तुकाक्षीरी ३०.५१ व् पित्तविद्रधिवत्क्रियाम् ३०.५१ व् पित्तविद्रधिवत्क्रियाः अतिदग्धे द्रुतं कुर्यात्सर्वं पित्तविसर्पवत् । स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत् ॥ ५२ ॥ शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम् । अप्रमत्तो भिषक्तस्मात्तान् सम्यगवचारयेत् ॥ ५२+(१) ॥ ३०.५२+(१)द्व् तत्सम्यगवचारयेत् समाप्यते स्थानमिदं हृदयस्य रहस्यवत् । अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः ॥ ५३ ॥ ३०.५३ व् अत्रार्थाः सूचिताः सूक्ष्माः ॡआरीरस्थान शुद्धे शुक्रार्तवे सत्त्वः स्वकर्मक्लेशचोदितः । गर्भः संपद्यते युक्तिवशादग्निरिवारणौ ॥ १ ॥ १.१ व् स्वकर्मफलनोदितः बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्त्वानुगैश्च सः । मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्धते ॥ २ ॥ तेजो यथार्करश्मीनां स्फटिकेन तिरस्कृतम् । नेन्धनं दृश्यते गच्छत्सत्त्वो गर्भाशयं तथा ॥ ३ ॥ कारणानुविधायित्वात्कार्याणां तत्स्वभावता । नानायोन्य्आकृतीः सत्त्वो धत्तेऽतो द्रुतलोहवत् ॥ ४ ॥ अत एव च शुक्रस्य बाहुल्याज्जायते पुमान् । रक्तस्य स्त्री तयोः साम्ये क्लीबः शुक्रार्तवे पुनः ॥ ५ ॥ वायुना बहुशो भिन्ने यथास्वं बह्व्अपत्यता । वियोनिविकृताकारा जायन्ते विकृतैर्मलैः ॥ ६ ॥ मासि मासि रजः स्त्रीणां रसजं स्रवति त्र्य्अहम् । वत्सराद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ॥ ७ ॥ पूर्णषोडशवर्षा स्त्री पूर्णविंशेन संगता । शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥ ८ ॥ वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥ ९ ॥ वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयम् । बीजासमर्थं रेतोऽस्रं स्वलिङ्गैर्दोषजं वदेत् ॥ १० ॥ १.१० व् प्रजासमर्थं रेतोऽस्रं रक्तेन कुणपं श्लेष्मवाताभ्यां ग्रन्थिसंनिभम् । पूयाभं रक्तपित्ताभ्यां क्षीणं मारुतपित्ततः ॥ ११ ॥ कृच्छ्राण्येतान्यसाध्यं तु त्रिदोषं मूत्रविट्प्रभम् । कुर्याद्वातादिभिर्दुष्टे स्वौषधं कुणपे पुनः ॥ १२ ॥ धातकीपुष्पखदिरदाडिमार्जुनसाधितम् । पाययेत्सर्पिरथवा विपक्वमसनादिभिः ॥ १३ ॥ पलाशभस्माश्मभिदा ग्रन्थ्य्आभे पूयरेतसि । परूषकवटादिभ्यां क्षीणे शुक्रकरी क्रिया ॥ १४ ॥ स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् । योजयेच्छुक्रदोषार्तं सम्यगुत्तरवस्तिभिः ॥ १४+१ ॥ संशुद्धो विट्प्रभे सर्पिर्हिङ्गुसेव्यादिसाधितम् । पिबेद्ग्रन्थ्य्आर्तवे पाठाव्योषवृक्षकजं जलम् ॥ १५ ॥ १.१५ व् हिङ्गुसेव्याग्निसाधितम् पेयं कुणपपूयास्रे चन्दनं वक्ष्यते तु यत् । गुह्यरोगे च तत्सर्वं कार्यं सोत्तरवस्तिकम् ॥ १६ ॥ शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु । घृतमाक्षिकतैलाभं सद्गर्भायार्तवं पुनः ॥ १७ ॥ १.१७ व् शुद्धं शुक्रं गुरु स्निग्धं लाक्षारसशशास्राभं धौतं यच्च विरज्यते । शुद्धशुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः ॥ १८ ॥ स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितवस्तिकम् । नरं विशेषात्क्षीराज्यैर्मधुरौषधसंस्कृतैः ॥ १९ ॥ १.१९ व् मधुरौषधसाधितैः नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत् । क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम् ॥ २० ॥ १.२० व् क्षामां प्रसन्नवदनां स्रस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम् । पद्मं संकोचमायाति दिनेऽतीते यथा तथा ॥ २१ ॥ ऋतावतीते योनिः सा शुक्रं नातः प्रतीच्छति । मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः ॥ २२ ॥ १.२२ व् शुक्रं नान्तः प्रतीच्छति ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् । ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्य्अहम् ॥ २३ ॥ मृजालङ्काररहिता दर्भसंस्तरशायिनी । क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् ॥ २४ ॥ १.२४ व् कोष्ठशोधनकर्शनम् पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी । चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः ॥ २५ ॥ इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम् । ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽत्र निन्दिताः ॥ २६ ॥ १.२६ व् पूर्वास्तिस्रश्च निन्दिताः एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका । उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम् ॥ २७ ॥ १.२७ व् स्यात्पुत्रोऽन्यत्र कन्यका नमस्कारपरायास्तु शूद्राया मन्त्रवर्जितम् । अवन्ध्य एवं संयोगः स्यादपत्यं च कामतः ॥ २८ ॥ सन्तो ह्याहुरपत्यार्थं दम्पत्योः संगतिं रहः । दुर्अपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि ॥ २९ ॥ १.२९ व् दम्पत्योः संगतं रहः १.२९ व् दुर्अपत्यं कुलाङ्गारं इच्छेतां यादृशं पुत्रं तद्रूपचरितांश्च तौ । चिन्तयेतां जनपदांस्तद्आचारपरिच्छदौ ॥ ३० ॥ कर्मान्ते च पुमान् सर्पिःक्षीरशाल्य्ओदनाशितः । प्राग्दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया ॥ ३१ ॥ आरोहेत्स्त्री तु वामेन तस्य दक्षिणपार्श्वतः । तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत् ॥ ३२ ॥ १.३२ व् आरोहेत्स्त्री च वामेन आहिरस्यायुरसि सर्वतः प्रतिष्ठासि ॥ ३२+१ ॥ १.३२+१ व् अहिरसि सर्वतः प्रतिष्ठासि धाता त्वां दधातु विधाता त्वां दधातु ॥ ३२+१ ॥ ब्रह्मवर्चसा भवेति ॥ ३२+१ ॥ १.३२+१ व् ब्रह्मवर्चसा भवेदिति ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथाश्विनौ । भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥ ३३ ॥ सान्त्वयित्वा ततोऽन्यन्यं संविशेतां मुदान्वितौ । उत्ताना तन्मना योषित्तिष्ठेदङ्गैः सुसंस्थितैः ॥ ३४ ॥ १.३४ व् सान्तयित्वा ततोऽन्योऽन्यं १.३४ व् संवसेतां मुदान्वितौ तथा हि बीजं गृह्णाति दोषैः स्वस्थानमास्थितैः । लिङ्गं तु सद्योगर्भाया योन्या बीजस्य संग्रहः ॥ ३५ ॥ १.३५ व् दोषैः स्वस्थानमाश्रितैः १.३५ व् योन्यां बीजस्य संग्रहः तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्रान्अनु बन्धनम् । हृदयस्पन्दनं तन्द्रा तृड्ग्लानी रोमहर्षणम् ॥ ३६ ॥ अव्यक्तः प्रथमे मासि सप्ताहात्कललीभवेत् । गर्भः पुंसवनान्यत्र पूर्वं व्यक्तेः प्रयोजयेत् ॥ ३७ ॥ बली पुरुषकारो हि दैवमप्यतिवर्तते । पुष्ये पुरुषकं हैमं राजतं वाथवायसम् ॥ ३८ ॥ कृत्वाग्निवर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत् । गौरदण्डमपामार्गं जीवकर्षभसैर्यकान् ॥ ३९ ॥ पिबेत्पुष्ये जले पिष्टानेकद्वित्रिसमस्तशः । क्षीरेण श्वेतबृहतीमूलं नासापुटे स्वयम् ॥ ४० ॥ पुत्रार्थं दक्षिणे सिञ्चेद्वामे दुहितृवाञ्छया । पयसा लक्ष्मणामूलं पुत्रोत्पादस्थितिप्रदम् ॥ ४१ ॥ नासयास्येन वा पीतं वटशुङ्गाष्टकं तथा । ओषधीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत् ॥ ४२ ॥ १.४२ व् वटशृङ्गाष्टकं तथा उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक् । नवनीतघृतक्षीरैः सदा चैनामुपाचरेत् ॥ ४३ ॥ अतिव्यवायमायासं भारं प्रावरणं गुरु । अकालजागरस्वप्नं कठिनोत्कटकासनम् ॥ ४४ ॥ १.४४ व् अतिव्यवायं व्यायामं १.४४ व् अकालजागरस्वप्न १.४४ व् कठिनोत्कटकासनम् १.४४ व् कठिनोत्कटुकासनम् १.४४ व् कठिनोत्कुटकासनम् शोकक्रोधभयोद्वेगवेगश्रद्धाविधारणम् । उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम् ॥ ४५ ॥ १.४५ व् उपवासादितीक्ष्णोष्ण रक्तं निवसनं श्वभ्रकूपेक्षां मद्यमामिषम् । उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत्त्यजेत् ॥ ४६ ॥ १.४६ व् रक्तं विवसनं श्वभ्र तथा रक्तस्रुतिं शुद्धिं वस्तिमामासतोऽष्टमात् । एभिर्गर्भः स्रवेदामः कुक्षौ शुष्येन्म्रियेत वा ॥ ४७ ॥ १.४७ व् एवं गर्भः स्रवेदामः वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः । पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥ ४८ ॥ व्याधींश्चास्या मृदुसुखैरतीक्ष्णैरौषधैर्जयेत् । द्वितीये मासि कललाद्घनः पेश्यथवार्बुदम् ॥ ४९ ॥ पुंस्त्रीक्लीबाः क्रमात्तेभ्यस्तत्र व्यक्तस्य लक्षणम् । क्षामता गरिमा कुक्षेर्मूर्छा छर्दिररोचकः ॥ ५० ॥ १.५० व् क्षामता गरिमा कुक्षौ जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम् । अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ ॥ ५१ ॥ पादशोफो विदाहोऽन्ये श्रद्धाश्च विविधात्मिकाः । मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत् ॥ ५२ ॥ १.५२ व् पादशोफो विदाहोऽन्ने संबद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम् । देयमप्यहितं तस्यै हितोपहितमल्पकम् ॥ ५३ ॥ १.५३ व् नेष्टं श्रद्धाविधारणम् १.५३ व् नेष्टं श्रद्धावमाननम् श्रद्धाविघाताद्गर्भस्य विकृतिश्च्युतिरेव वा । व्यक्तीभवति मासेऽस्य तृतीये गात्रपञ्चकम् ॥ ५४ ॥ १.५४ व् श्रद्धाभिघाताद्गर्भस्य मूर्धा द्वे सक्थिनी बाहू सर्वसूक्ष्माङ्गजन्म च । सममेव हि मूर्धाद्यैर्ज्ञानं च सुखदुःखयोः ॥ ५५ ॥ १.५५ व् सर्वसूक्ष्माङ्गजन्म तु १.५५ व् विज्ञानं सुखदुःखयोः गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते । यया स पुष्टिमाप्नोति केदार इव कुल्यया ॥ ५६ ॥ १.५६ व् यया पुष्टिमवाप्नोति चतुर्थे व्यक्तताङ्गानां चेतनायाश्च पञ्चमे । षष्ठे स्नायुसिरारोमबलवर्णनखत्वचाम् ॥ ५७ ॥ सर्वैः सर्वाङ्गसंपूर्णो भावैः पुष्यति सप्तमे ॥ ५८ ब् ॥ गर्भेणोत्पीडिता दोषास्तस्मिन् हृदयमाश्रिताः ॥ ५८ द् ॥ कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च ॥ ५८ f ॥ नवनीतं हितं तत्र कोलाम्बुमधुरौषधैः । सिद्धमल्पपटुस्नेहं लघु स्वादु च भोजनम् ॥ ५९ ॥ चन्दनोशीरकल्केन लिम्पेदूरुस्तनोदरम् । श्रेष्ठया वैणहरिणशशशोणितयुक्तया ॥ ६० ॥ अश्वघ्नपत्त्रसिद्धेन तैलेनाभ्यज्य मर्दयेत् । पटोलनिम्बमञ्जिष्ठासुरसैः सेचयेत्पुनः ॥ ६१ ॥ दार्वीमधुकतोयेन मृजां च परिशीलयेत् । ओजोऽष्टमे संचरति मातापुत्रौ मुहुः क्रमात् ॥ ६२ ॥ तेन तौ म्लानमुदितौ तत्र जातो न जीवति । शिशुरोजोऽन्अवस्थानान्नारी संशयिता भवेत् ॥ ६३ ॥ १.६३ व् स्यातामत्र न जीवति १.६३ व् स्यातां जातो न जीवति क्षीरपेया च पेयात्र सघृतान्वासनं घृतम् । मधुरैः साधितं शुद्ध्यै पुराणशकृतस्तथा ॥ ६४ ॥ १.६४ व् सघृतान्वासनं हितम् शुष्कमूलककोलाम्लकषायेण प्रशस्यते । शताह्वाकल्कितो वस्तिः सतैलघृतसैन्धवः ॥ ६५ ॥ तस्मिंस्त्वेकाहयातेऽपि कालः सूतेरतः परम् । वर्षाद्विकारकारी स्यात्कुक्षौ वातेन धारितः ॥ ६६ ॥ १.६६ व् तस्मिन्नेकाहयातेऽपि शस्तश्च नवमे मासि स्निग्धो मांसरसौदनः । बहुस्नेहा यवागूर्वा पूर्वोक्तं चानुवासनम् ॥ ६७ ॥ १.६७ व् स्निग्धमांसरसौदनः तत एव पिचुं चास्या योनौ नित्यं निधापयेत् । वातघ्नपत्त्रभङ्गाम्भः शीतं स्नानेऽन्व्अहं हितम् ॥ ६८ ॥ निःस्नेहाङ्गी न नवमान्मासात्प्रभृति वासयेत् । प्राग्दक्षिणस्तनस्तन्या पूर्वं तत्पार्श्वचेष्टिनी ॥ ६९ ॥ पुंनामदौर्हृदप्रश्नरता पुंस्वप्नदर्शिनी । उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥ ७० ॥ पुत्रं सूतेऽन्यथा कन्यां या चेच्छति नृसंगतिम् । नृत्यवादित्रगान्धर्वगन्धमाल्यप्रिया च या ॥ ७१ ॥ क्लीबं तत्संकरे तत्र मध्यं कुक्षेः समुन्नतम् । यमौ पार्श्वद्वयोन्नामात्कुक्षौ द्रोण्यामिव स्थिते ॥ ७२ ॥ प्राक्चैव नवमान्मासात्सा सूतिगृहमाश्रयेत् । देशे प्रशस्ते संभारैः संपन्नं साधकेऽहनि ॥ ७३ ॥ १.७३ व् सूतिकागृहमाश्रयेत् तत्रोदीक्षेत सा सूतिं सूतिकापरिवारिता । अद्यश्वःप्रसवे ग्लानिः कुक्ष्य्अक्षिश्लथता क्लमः ॥ ७४ ॥ १.७४ व् आसन्नप्रसवे ग्लानिः अधोगुरुत्वमरुचिः प्रसेको बहुमूत्रता । वेदनोरूदरकटीपृष्ठहृद्वस्तिवङ्क्षणे ॥ ७५ ॥ योनिभेदरुजातोदस्फुरणस्रवणानि च । आवीनामनु जन्मातस्ततो गर्भोदकस्रुतिः ॥ ७६ ॥ अथोपस्थितगर्भां तां कृतकौतुकमगलाम् । हस्तस्थपुंनामफलां स्व्अभ्यक्तोष्णाम्बुसेचिताम् ॥ ७७ ॥ १.७७ व् स्व्अक्तामुष्णाम्बुसेचिताम् पाययेत्सघृतां पेयां तनौ भूशयने स्थिताम् । आभुग्नसक्थिमुत्तानामभ्यक्ताङ्गीं पुनः पुनः ॥ ७८ ॥ अधो नाभेर्विमृद्नीयात्कारयेज्जृम्भचङ्क्रमम् । गर्भः प्रयात्यवागेवं तल्लिङ्गं हृद्विमोक्षतः ॥ ७९ ॥ आविश्य जठरं गर्भो वस्तेरुपरि तिष्ठति । आव्योऽभित्वरयन्त्येनां खट्वामारोपयेत्ततः ॥ ८० ॥ १.८० व् आव्यो हि त्वरयन्त्येनां अथ संपीडिते गर्भे योनिमस्याः प्रसारयेत् । मृदु पूर्वं प्रवाहेत बाढमाप्रसवाच्च सा ॥ ८१ ॥ १.८१ व् योनिमस्याः प्रसाधयेत् हर्षयेत्तां मुहुः पुत्रजन्मशब्दजलानिलैः । प्रत्यायान्ति तथा प्राणाः सूतिक्लेशावसादिताः ॥ ८२ ॥ धूपयेद्गर्भसङ्गे तु योनिं कृष्णाहिकञ्चुकैः । हिरण्यपुष्पीमूलं च पाणिपादेन धारयेत् ॥ ८३ ॥ सुवर्चलां विशल्यां वा जराय्व्अपतनेऽपि च । कार्यमेतत्तथोत्क्षिप्य बाह्वोरेनां विकम्पयेत् ॥ ८४ ॥ १.८४ व् कार्यमेतत्तथोत्कृष्य १.८४ व् बाह्वोरेतां विकम्पयेत् कटीमाकोटयेत्पार्ष्ण्या स्फिजौ गाढं निपीडयेत् । तालुकण्ठं स्पृशेद्वेण्या मूर्ध्नि दद्यात्स्नुहीपयः ॥ ८५ ॥ भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः । पृथग्द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥ ८६ ॥ १.८६ व् योनिधूपं च लेपनम् कुष्ठतालीशकल्कं वा सुरामण्डेन पाययेत् । यूषेण वा कुलत्थानां बाल्बजेनासवेन वा ॥ ८७ ॥ १.८७ व् बिल्वजेनासवेन वा शताह्वासर्षपाजाजीशिग्रुतीक्ष्णकचित्रकैः । सहिङ्गुकुष्ठमदनैर्मूत्रे क्षीरे च सार्षपम् ॥ ८८ ॥ तैलं सिद्धं हितं पायौ योन्यां वाप्यनुवासनम् । शतपुष्पावचाकुष्ठकणासर्षपकल्कितः ॥ ८९ ॥ १.८९ व् योन्यां वा ह्यनुवासनम् निरूहः पातयत्याशु सस्नेहलवणोऽपराम् । तत्सङ्गे ह्यनिलो हेतुः सा निर्यात्याशु तज्जयात् ॥ ९० ॥ कुशला पाणिनाक्तेन हरेत्कॢप्तनखेन वा । मुक्तगर्भापरां योनिं तैलेनाङ्गं च मर्दयेत् ॥ ९१ ॥ मक्कल्लाख्ये शिरोवस्तिकोष्ठशूले तु पाययेत् । सुचूर्णितं यवक्षारं घृतेनोष्णजलेन वा ॥ ९२ ॥ धान्याम्बु वा गुडव्योषत्रिजातकरजोऽन्वितम् । अथ बालोपचारेण बालं योषिदुपाचरेद् ॥ ९३ ॥ सूतिका क्षुद्वती तैलाद्घृताद्वा महतीं पिबेत् । पञ्चकोलकिनीं मात्रामनु चोष्णं गुडोदकम् ॥ ९४ ॥ वातघ्नौषधतोयं वा तथा वायुर्न कुप्यति । विशुध्यति च दुष्टास्रं द्वित्रिरात्रमयं क्रमः ॥ ९५ ॥ १.९५ व् यथा वायुर्न कुप्यति स्नेहायोग्या तु निःस्नेहममुमेव विधिं भजेत् । पीतवत्याश्च जठरं यमकाक्तं विवेष्टयेत् ॥ ९६ ॥ जीर्णे स्नाता पिबेत्पेयां पूर्वोक्तौषधसाधिताम् । त्र्य्अहादूर्ध्वं विदार्य्आदिवर्गक्वाथेन साधिता ॥ ९७ ॥ हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाथवा । सप्तरात्रात्परं चास्यै क्रमशो बृंहणं हितम् ॥ ९८ ॥ १.९८ व् सप्तरात्रात्परं चास्याः १.९८ व् सप्तरात्रात्परं वास्याः द्वादशाहेऽन्अतिक्रान्ते पिशितं नोपयोजयेत् । यत्नेनोपचरेत्सूतां दुःसाध्यो हि तद्आमयः ॥ ९९ ॥ १.९९ व् पिशितं नैव योजयेत् गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनैः । एवं च मासादध्य्अर्धान्मुक्ताहारादियन्त्रणा ॥ १०० ॥ गतसूताभिधाना स्यात्पुनरार्तवदर्शनात् ॥ १००ªअब् ॥ ॡआरीरस्थान गर्भिण्याः परिहार्याणां सेवया रोगतोऽथवा । पुष्पे दृष्टेऽथवा शूले बाह्यान्तः स्निग्धशीतलम् ॥ १ ॥ २.१ व् सेवया रोगतोऽपि वा सेव्याम्भोजहिमक्षीरिवल्ककल्काज्यलेपितान् । धारयेद्योनिवस्तिभ्यामार्द्रार्द्रान् पिचुनक्तकान् ॥ २ ॥ २.२ व् धारयेद्वस्तियोनिभ्याम् शतधौतघृताक्तां स्त्रीं तद्अम्भस्यवगाहयेत् । ससिताक्षौद्रकुमुदकमलोत्पलकेसरम् ॥ ३ ॥ लिह्यात्क्षीरघृतं खादेच्छृङ्गाटककसेरुकम् । पिबेत्कान्ताब्जशालूकबालोदुम्बरवत्पयः ॥ ४ ॥ शृतेन शालिकाकोलीद्विबलामधुकेक्षुभिः । पयसा रक्तशाल्य्अन्नमद्यात्समधुशर्करम् ॥ ५ ॥ रसैर्वा जाङ्गलैः शुद्धिवर्जं चास्रोक्तमाचरेत् । असंपूर्णत्रिमासायाः प्रत्याख्याय प्रसाधयेत् ॥ ६ ॥ २.६ व् वर्जं वास्रोक्तमाचरेत् आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम् । उपवासो घनोशीरगुडूच्य्अरलुधान्यकाः ॥ ७ ॥ दुरालभापर्पटकचन्दनातिविषाबलाः । क्वथिताः सलिले पानं तृणधान्यानि भोजनम् ॥ ८ ॥ २.८ व् तृणधान्यादि भोजनम् मुद्गादियूषैरामे तु जिते स्निग्धादि पूर्ववत् । गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत् ॥ ९ ॥ गर्भकोष्ठविशुद्ध्य्अर्थमर्तिविस्मरणाय च । लघुना पञ्चमूलेन रूक्षां पेयां ततः पिबेत् ॥ १० ॥ पेयाममद्यपा कल्के साधितां पाञ्चकौलिके । बिल्वादिपञ्चकक्वाथे तिलोद्दालकतण्डुलैः ॥ ११ ॥ मासतुल्यदिनान्येवं पेयादिः पतिते क्रमः । लघुरस्नेहलवणो दीपनीययुतो हितः ॥ १२ ॥ २.१२ व् दीपनीययुतो हि सः दोषधातुपरिक्लेदशोषार्थं विधिरित्ययम् । स्नेहान्नवस्तयश्चोर्ध्वं बल्यदीपनजीवनाः ॥ १३ ॥ संजातसारे महति गर्भे योनिपरिस्रवात् । वृद्धिमप्राप्नुवन् गर्भः कोष्ठे तिष्ठति सस्फुरः ॥ १४ ॥ उपविष्टकमाहुस्तं वर्धते तेन नोदरम् । शोकोपवासरूक्षाद्यैरथवा योन्य्अतिस्रवात् ॥ १५ ॥ वाते क्रुद्धे कृशः शुष्येद्गर्भो नागोदरं तु तम् । उदरं वृद्धमप्यत्र हीयते स्फुरणं चिरात् ॥ १६ ॥ २.१६ व् गर्भो नागोदरं तु तत् तयोर्बृंहणवातघ्नमधुरद्रव्यसंस्कृतैः । घृतक्षीररसैस्तृप्तिरामगर्भांश्च खादयेत् ॥ १७ ॥ तैरेव च सुभिक्षायाः क्षोभणं यानवाहनैः । लीनाख्ये निस्फुरे श्येनगोमत्स्योत्क्रोशबर्हिजाः ॥ १८ ॥ २.१८ व् तैरेव च सुतृप्तायाः रसा बहुघृता देया माषमूलकजा अपि । बालबिल्वं तिलान्माषान् सक्तूंश्च पयसा पिबेत् ॥ १९ ॥ समेद्यमांसं मधु वा कट्य्अभ्यङ्गं च शीलयेत् । हर्षयेत्सततं चैनामेवं गर्भः प्रवर्धते ॥ २० ॥ पुष्टोऽन्यथा वर्षगणैः कृच्छ्राज्जायेत नैव वा । उदावर्तं तु गर्भिण्याः स्नेहैराशुतरां जयेत् ॥ २१ ॥ योग्यैश्च वस्तिभिर्हन्यात्सगर्भां स हि गर्भिणीम् । गर्भेऽतिदोषोपचयादपथ्यैर्दैवतोऽपि वा ॥ २२ ॥ मृतेऽन्तरुदरं शीतं स्तब्धं ध्मातं भृशव्यथम् । गर्भास्पन्दो भ्रमतृष्णा कृच्छ्रादुच्छ्वसनं क्लमः ॥ २३ ॥ २.२३ व् मृतेऽन्तर्जठरं शीतं २.२३ व् स्तब्धाध्मातं भृशव्यथम् अरतिः स्रस्तनेत्रत्वमावीनामसमुद्भवः । तस्याः कोष्णाम्बुसिक्तायाः पिष्ट्वा योनिं प्रलेपयेत् ॥ २४ ॥ गुडं किण्वं सलवणं तथान्तः पूरयेन्मुहुः । घृतेन कल्कीकृतया शाल्मल्य्अतसिपिच्छया ॥ २५ ॥ मन्त्रैर्योगैर्जरायूक्तैर्मूढगर्भो न चेत्पतेत् । अथापृच्छ्येश्वरं वैद्यो यत्नेनाशु तमाहरेत् ॥ २६ ॥ २.२६ व् अथ पृष्ट्वेश्वरं वैद्यो २.२६ व् अथापृष्ट्वेश्वरं वैद्यो हस्तमभ्यज्य योनिं च साज्यशाल्मलिपिच्छया । हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम् ॥ २७ ॥ २.२७ व् गात्रं च विषमस्थितम् आञ्छनोत्पीडसंपीडविक्षेपोत्क्षेपणादिभिः । आनुलोम्य समाकर्षेद्योनिं प्रत्यार्जवागतम् ॥ २८ ॥ २.२८ व् आनुलोम्ये समाकर्षेद् हस्तपादशिरोभिर्यो योनिं भुग्नः प्रपद्यते । पादेन योनिमेकेन भुग्नोऽन्येन गुदं च यः ॥ २९ ॥ विष्कम्भौ नाम तौ मूढौ शस्त्रदारणमर्हतः । मण्डलाङ्गुलिशस्त्राभ्यां तत्र कर्म प्रशस्यते ॥ ३० ॥ वृद्धिपत्त्रं हि तीक्ष्णाग्रं न योनाववचारयेत् । पूर्वं शिरःकपालानि दारयित्वा विशोधयेत् ॥ ३१ ॥ कक्षोरस्तालुचिबुकप्रदेशेऽन्यतमे ततः । समालम्ब्य दृढं कर्षेत्कुशलो गर्भशङ्कुना ॥ ३२ ॥ २.३२ व् कक्षोरस्तालुचिबुके २.३२ व् प्रदेशेऽन्यतमे ततः अभिन्नशिरसं त्वक्षिकूटयोर्गण्डयोरपि । बाहुं छित्त्वांससक्तस्य वाताध्मातोदरस्य तु ॥ ३३ ॥ विदार्य कोष्ठमन्त्राणि बहिर्वा संनिरस्य च । कटीसक्तस्य तद्वच्च तत्कपालानि दारयेत् ॥ ३४ ॥ यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः । तत्तच्छित्त्वाहरेत्सम्यग्रक्षेन्नारीं च यत्नतः ॥ ३५ ॥ २.३५ व् तत्तच्छित्त्वाहरन् सम्यग् गर्भस्य हि गतिं चित्रां करोति विगुणोऽनिलः । तत्रान्अल्पमतिस्तस्मादवस्थापेक्षमाचरेत् ॥ ३६ ॥ छिन्द्याद्गर्भं न जीवन्तं मातरं स हि मारयेत् । सहात्मना न चोपेक्ष्यः क्षणमप्यस्तजीवितः ॥ ३७ ॥ योनिसंवरणभ्रंशमक्कल्लश्वासपीडिताम् । पूत्य्उद्गारां हिमाङ्गीं च मूढगर्भां परित्यजेत् ॥ ३८ ॥ अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक् । एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा ॥ ३९ ॥ दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः । योनिर्मृदुर्भवेत्तेन शूलं चास्याः प्रशाम्यति ॥ ४० ॥ दीप्यकातिविषारास्नाहिङ्ग्व्एलापञ्चकोलकात् । चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्ततः ॥ ४१ ॥ २.४१ व् क्वाथं तां पाययेत्ततः कटुकातिविषापाठाशाकत्वग्घिङ्गुतेजिनीः । तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च ॥ ४२ ॥ २.४२ व् शाकत्वग्घिङ्गुतेजनीः त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत् । सायं पिबेदरिष्टं च तथा सुकृतमासवम् ॥ ४३ ॥ शिरीषककुभक्वाथपिचून् योनौ विनिक्षिपेत् । उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत् ॥ ४४ ॥ पयो वातहरैः सिद्धं दशाहं भोजने हितम् । रसो दशाहं च परं लघुपथ्याल्पभोजना ॥ ४५ ॥ स्वेदाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत् । ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च ॥ ४६ ॥ बलामूलकषायस्य भागाः षट्पयसस्तथा । यवकोलकुलत्थानां दशमूलस्य चैकतः ॥ ४७ ॥ निःक्वाथभागो भागश्च तैलस्य तु चतुर्दशः । द्विमेदादारुमञ्जिष्ठाकाकोलीद्वयचन्दनैः ॥ ४८ ॥ २.४८ व् तैलस्य च चतुर्दशः शारिवाकुष्ठतगरजीवकर्षभसैन्धवैः । कालानुसार्याशैलेयवचागुरुपुनर्नवैः ॥ ४९ ॥ २.४९ व् कालानुसारीशैलेय २.४९ व् कालानुसार्यशैलेय अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः । शताह्वाशूर्पपर्ण्य्एलात्वक्पत्त्रैः श्लक्ष्णकल्कितैः ॥ ५० ॥ पक्वं मृद्व्अग्निना तैलं सर्ववातविकारजित् । सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम् ॥ ५१ ॥ २.५१ व् क्षतक्षीणेषु पूजितम् ज्वरगुल्मग्रहोन्मादमूत्राघातान्त्रवृद्धिजित् । धन्वन्तरेरभिमतं योनिरोगक्षयापहम् ॥ ५२ ॥ वस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि । जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम् ॥ ५३ ॥ मधुकं शाकबीजं च पयस्या सुरदारु च । अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी ॥ ५४ ॥ २.५४ व् पयस्यामरदारु च वृक्षादनी पयस्या च लता सोत्पलशारिवा । अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका ॥ ५५ ॥ २.५५ व् लता चोत्पलशारिवा २.५५ व् पद्माथ मधुयष्टिका २.५५ व् पद्माह्वमधुयष्टिका २.५५ व् पद्मकं मधुयष्टिका बृहतीद्वयकाश्मर्यक्षीरिशुङ्गत्वचा घृतम् । पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥ ५६ ॥ २.५६ व् बृहतीद्वयकाश्मर्यः २.५६ व् क्षीरिशृङ्गत्वचा घृतम् २.५६ व् क्षीरिशुङ्गत्वचा घृतम् शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता । सप्तैतान् पयसा योगानर्धश्लोकसमापनान् ॥ ५७ ॥ क्रमात्सप्तसु मासेषु गर्भे स्रवति योजयेत् । कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात् ॥ ५८ ॥ २.५८ व् पटोलेक्षुनिदिग्धिजैः मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे । नवमे शारिवानन्तापयस्यामधुयष्टिभिः ॥ ५९ ॥ योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया । अथवा यष्टिमधुकनागरामरदारुभिः ॥ ६० ॥ अवस्थितं लोहितमङ्गनाया वातेन गर्भं ब्रुवतेऽन्अभिज्ञाः । गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः स्रुते पुनः केवल एव रक्ते ॥ ६१ ॥ गर्भं जडा भूतहृतं वदन्ति मूर्तेर्न दृष्टं हरणं यतस्तैः । ओजोऽशनत्वादथवाव्यवस्थैर्भूतैरुपेक्ष्येत न गर्भमाता ॥ ६२ ॥ ॡआरीरस्थान शिरोऽन्तर्आधिर्द्वौ बाहू सक्थिनीति समासतः । षड्अङ्गमङ्गं प्रत्यङ्गं तस्याक्षिहृदयादिकम् ॥ १ ॥ ३.१ व् सक्थिनी च समासतः शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाद्गुणाः । खानिलाग्न्य्अब्भुवामेकगुणवृद्ध्य्अन्वयः परे ॥ २ ॥ ३.२ व् खानिलाग्न्य्अम्बुभूष्वेक ३.२ व् गुणवृद्ध्यान्वयः परे तत्र खात्खानि देहेऽस्मिन् श्रोत्रं शब्दो विविक्तता । वातात्स्पर्शत्वग्उच्छ्वासा वह्नेर्दृग्रूपपक्तयः ॥ ३ ॥ आप्या जिह्वारसक्लेदा घ्राणगन्धास्थि पार्थिवम् । मृद्वत्र मातृजं रक्तमांसमज्जगुदादिकम् ॥ ४ ॥ पैतृकं तु स्थिरं शुक्रधमन्य्अस्थिकचादिकम् । चैतनं चित्तमक्षाणि नानायोनिषु जन्म च ॥ ५ ॥ ३.५ व् आत्मजं चित्तमक्षाणि सात्म्यजं त्वायुरारोग्यमन्आलस्यं प्रभा बलम् । रसजं वपुषो जन्म वृत्तिर्वृद्धिरलोलता ॥ ६ ॥ ३.६ व् सात्म्यजं चायुरारोग्यम् सात्त्विकं शौचमास्तिक्यं शुक्लधर्मरुचिर्मतिः । राजसं बहुभाषित्वं मानक्रुद्दम्भमत्सरम् ॥ ७ ॥ ३.७ व् मानक्रुद्दम्भमत्सराः तामसं भयमज्ञानं निद्रालस्यं विषादिता । इति भूतमयो देहस्तत्र सप्त त्वचोऽसृजः ॥ ८ ॥ पच्यमानात्प्रजायन्ते क्षीरात्संतानिका इव । धात्व्आशयान्तरक्लेदो विपक्वः स्वं स्वमूष्मणा ॥ ९ ॥ श्लेष्मस्नाय्व्अपराच्छन्नः कलाख्यः काष्ठसारवत् । ताः सप्त सप्त चाधारा रक्तस्याद्यः क्रमात्परे ॥ १० ॥ ३.१० च् श्लेष्मस्नाय्व्अपराछन्नः ३.१० व् रक्तस्याधः क्रमात्परे कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृताः । गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ॥ ११ ॥ कोष्ठाङ्गानि स्थितान्येषु हृदयं क्लोम फुप्फुसम् । यकृत्प्लीहोण्डुकं वृक्कौ नाभिडिम्बान्त्रवस्तयः ॥ १२ ॥ ३.१२ व् हृदयं क्लोम फुप्फुसः ३.१२ व् हृदयं क्लोमफुप्फुसे दश जीवितधामानि शिरोरसनबन्धनम् । कण्ठोऽस्रं हृदयं नाभिर्वस्तिः शुक्रौजसी गुदम् ॥ १३ ॥ ३.१३ व् वस्तिः शुक्रौजसी गुदः जालानि कण्डराश्चाङ्गे पृथक्षोडश निर्दिशेत् । षट्कूर्चाः सप्त सीवन्यो मेढ्रजिह्वाशिरोगताः ॥ १४ ॥ ३.१४ व् षट्कूर्चाः सप्त सेवन्यो ३.१४ व् षट्कूर्चाः सप्त सेविन्यो शस्त्रेण ताः परिहरेच्चतस्रो मांसरज्जवः । चतुर्दशास्थिसंघाताः सीमन्ता द्विगुणा नव ॥ १५ ॥ ३.१५ व् शस्त्रेणैताः परिहरेच् अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनखैः सह । धन्वन्तरिस्तु त्रीण्याह संधीनां च शतद्वयम् ॥ १६ ॥ ३.१६ व् अस्थ्नां शतानि षष्ठीनि दशोत्तरं सहस्रे द्वे निजगादात्रिनन्दनः । स्नाव्नां नवशती पञ्च पुंसां पेशीशतानि तु ॥ १७ ॥ ३.१७ व् स्नायोर्नवशती पञ्च ३.१७ व् पुंसां पेशीशतानि च अधिका विंशतिः स्त्रीणां योनिस्तनसमाश्रिताः । दश मूलसिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः ॥ १८ ॥ ३.१८ व् योनिस्तनसमाश्रयाः रसात्मकं वहन्त्योजस्तन्निबद्धं हि चेष्टितम् । स्थूलमूलाः सुसूक्ष्माग्राः पत्त्ररेखाप्रतानवत् ॥ १९ ॥ भिद्यन्ते तास्ततः सप्तशतान्यासां भवन्ति तु । तत्रैकैकं च शाखायां शतं तस्मिन्न वेधयेत् ॥ २० ॥ ३.२० व् तत्रैकैकत्र शाखायां सिरां जालन्धरां नाम तिस्रश्चाभ्यन्तराश्रिताः । षोडशद्विगुणाः श्रोण्यां तासां द्वे द्वे तु वङ्क्षणे ॥ २१ ॥ द्वे द्वे कटीकतरुणे शस्त्रेणाष्टौ स्पृशेन्न ताः । पार्श्वयोः षोडशैकैकामूर्ध्वगां वर्जयेत्तयोः ॥ २२ ॥ ३.२२ व् ऊर्ध्वगां वर्जयेत्सिराम् द्वादशद्विगुणाः पृष्ठे पृष्ठवंशस्य पार्श्वयोः । द्वे द्वे तत्रोर्ध्वगामिन्यौ न शस्त्रेण परामृशेत् ॥ २३ ॥ ३.२३ व् पृष्ठवंशस्य पार्श्वगे पृष्ठवज्जठरे तासां मेहनस्योपरि स्थिते । रोमराजीमुभयतो द्वे द्वे शस्त्रेण न स्पृशेत् ॥ २४ ॥ चत्वारिंशदुरस्यासां चतुर्दश न वेधयेत् । स्तनरोहिततन्मूलहृदये तु पृथग्द्वयम् ॥ २५ ॥ अपस्तम्भाख्ययोरेकां तथापालापयोरपि । ग्रीवायां पृष्ठवत्तासां नीले मन्ये कृकाटिके ॥ २६ ॥ विधुरे मातृकाश्चाष्टौ षोडशेति परित्यजेत् । हन्वोः षोडश तासां द्वे संधिबन्धनकर्मणी ॥ २७ ॥ ३.२७ व् षोडशैताः परित्यजेत् जिह्वायां हनुवत्तासामधो द्वे रसबोधने । द्वे च वाचःप्रवर्तिन्यौ नासायां चतुर्उत्तरा ॥ २८ ॥ विंशतिर्गन्धवेदिन्यौ तासामेकां च तालुगाम् । षट्पञ्चाशन्नयनयोर्निमेषोन्मेषकर्मणी ॥ २९ ॥ द्वे द्वे अपाङ्गयोर्द्वे च तासां षडिति वर्जयेत् । नासानेत्राश्रिताः षष्टिर्ललाटे स्थपनीश्रिताम् ॥ ३० ॥ तत्रैकां द्वे तथावर्तौ चतस्रश्च कचान्तगाः । सप्तैवं वर्जयेत्तासां कर्णयोः षोडशात्र तु ॥ ३१ ॥ द्वे शब्दबोधने शङ्खौ सिरास्ता एव चाश्रिताः । द्वे शङ्खसंधिगे तासां मूर्ध्नि द्वादश तत्र तु ॥ ३२ ॥ एकैकां पृथगुत्क्षेपसीमन्ताधिपतिस्थिताम् । इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः ॥ ३३ ॥ अवेध्यास्तत्र कार्त्स्न्येन देहेऽष्टानवतिस्तथा । संकीर्णा ग्रथिताः क्षुद्रा वक्राः संधिषु चाश्रिताः ॥ ३४ ॥ तासां शतानां सप्तानां पादोऽस्रं वहते पृथक् । वातपित्तकफैर्जुष्टं शुद्धं चैवं स्थिता मलाः ॥ ३५ ॥ शरीरमनुगृह्णन्ति पीडयन्त्यन्यथा पुनः । तत्र श्यावारुणाः सूक्ष्माः पूर्णरिक्ताः क्षणात्सिराः ॥ ३६ ॥ प्रस्पन्दिन्यश्च वातास्रं वहन्ते पित्तशोणितम् । स्पर्शोष्णाः शीघ्रवाहिन्यो नीलपीताः कफं पुनः ॥ ३७ ॥ गौर्यः स्निग्धाः स्थिराः शीताः संसृष्टं लिङ्गसंकरे । गूढाः समस्थिताः स्निग्धा रोहिण्यः शुद्धशोणितम् ॥ ३८ ॥ धमन्यो नाभिसंबद्धा विंशतिश्चतुर्उत्तरा । ताभिः परिवृता नाभिश्चक्रनाभिरिवारकैः ॥ ३९ ॥ ३.३९ व् ताभिः परिवृतो नाभिश् ताभिश्चोर्ध्वमधस्तिर्यग्देहोऽयमनुगृह्यते । स्रोतांसि नासिके कर्णौ नेत्रे पाय्व्आस्यमेहनम् ॥ ४० ॥ स्तनौ रक्तपथश्चेति नारीणामधिकं त्रयम् । जीवितायतनान्यन्तः स्रोतांस्याहुस्त्रयोदश ॥ ४१ ॥ प्राणधातुमलाम्भोऽन्नवाहीन्यहितसेवनात् । तानि दुष्टानि रोगाय विशुद्धानि सुखाय च ॥ ४२ ॥ स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च । स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च ॥ ४३ ॥ आहारश्च विहारश्च यः स्याद्दोषगुणैः समः । धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः ॥ ४४ ॥ अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा । विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम् ॥ ४५ ॥ ३.४५ व् स्रोतसां दुष्टलक्षणम् बिसानामिव सूक्ष्माणि दूरं प्रविसृतानि च । द्वाराणि स्रोतसां देहे रसो यैरुपचीयते ॥ ४६ ॥ व्यधे तु स्रोतसां मोहकम्पाध्मानवमिज्वराः । प्रलापशूलविण्मूत्ररोधा मरणमेव वा ॥ ४७ ॥ स्रोतोविद्धमतो वैद्यः प्रत्याख्याय प्रसाधयेत् । उद्धृत्य शल्यं यत्नेन सद्यःक्षतविधानतः ॥ ४८ ॥ अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम् । दोषधातुमलादीनामूष्मेत्यात्रेयशासनम् ॥ ४९ ॥ वामपार्श्वाश्रितं नाभेः किञ्चित्सूर्यस्य मण्डलम् । तन्मध्ये मण्डलं सौम्यं तन्मध्येऽग्निर्व्यवस्थितः ॥ ४९+१ ॥ जरायुमात्रप्रच्छन्नः काचकोशस्थदीपवत् ॥ ४९+२ ब् ॥ तद्अधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता । सैव धन्वन्तरिमते कला पित्तधराह्वया ॥ ५० ॥ आयुर्आरोग्यवीर्यौजोभूतधात्व्अग्निपुष्टये । स्थिता पक्वाशयद्वारि भुक्तमार्गार्गलेव सा ॥ ५१ ॥ ३.५१ व् भुक्तमार्गार्गलेव या भुक्तमामाशये रुद्ध्वा सा विपाच्य नयत्यधः । बलवत्यबला त्वन्नमाममेव विमुञ्चति ॥ ५२ ॥ ग्रहण्या बलमग्निर्हि स चापि ग्रहणीबलः । दूषितेऽग्नावतो दुष्टा ग्रहणी रोगकारिणी ॥ ५३ ॥ यदन्नं देहधात्व्ओजोबलवर्णादिपोषणम् । तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः ॥ ५४ ॥ अन्नं कालेऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम् । द्रवैर्विभिन्नसंघातं नीतं स्नेहेन मार्दवम् ॥ ५५ ॥ ३.५५ व् कोष्ठे प्राणानिलाहृतम् संधुक्षितः समानेन पचत्यामाशयस्थितम् । औदर्योऽग्निर्यथा बाह्यः स्थालीस्थं तोयतण्डुलम् ॥ ५६ ॥ आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत् । फेनीभूतं कफं यातं विदाहादम्लतां ततः ॥ ५७ ॥ ३.५७ व् फेनभूतं कफं यातं पित्तमामाशयात्कुर्याच्च्यवमानं च्युतं पुनः । अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम् ॥ ५८ ॥ भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्यनु ॥ ५९ ॥ यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान् पृथक् । पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान् ॥ ६० ॥ ३.६० व् यथास्वं ते च पुष्यन्ति किट्टं सारश्च तत्पक्वमन्नं संभवति द्विधा । तत्राच्छं किट्टमन्नस्य मूत्रं विद्याद्घनं शकृत् ॥ ६१ ॥ ३.६१ व् किट्टं सारस्तथा पक्वम् सारस्तु सप्तभिर्भूयो यथास्वं पच्यतेऽग्निभिः । रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ॥ ६२ ॥ ३.६२ व् मांसान्मेदोऽस्थि मेदसः अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते । कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च ॥ ६३ ॥ ३.६३ व् कफः पित्तं मलः खेषु स्नेहोऽक्षित्वग्विषामोजो धातूनां क्रमशो मलाः । प्रसादकिट्टौ धातूनां पाकादेवं द्विधर्च्छतः ॥ ६४ ॥ परस्परोपसंस्तम्भाद्धातुस्नेहपरम्परा । केचिदाहुरहोरात्रात्षड्अहादपरे परे ॥ ६५ ॥ मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः । संतता भोज्यधातूनां परिवृत्तिस्तु चक्रवत् ॥ ६६ ॥ वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते । प्रायः करोत्यहोरात्रात्कर्मान्यदपि भेषजम् ॥ ६७ ॥ ३.६७ व् सद्यः शुक्रं प्रकुर्वते व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा । युगपत्सर्वतोऽजस्रं देहे विक्षिप्यते सदा ॥ ६८ ॥ क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः । तस्मिन् विकारं कुरुते खे वर्षमिव तोयदः ॥ ६९ ॥ दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् । अन्नभौतिकधात्व्अग्निकर्मेति परिभाषितम् ॥ ७० ॥ अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः । तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः ॥ ७१ ॥ तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः । पालयेत्प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः ॥ ७२ ॥ समः समाने स्थानस्थे विषमोऽग्निर्विमार्गगे । पित्ताभिमूर्छिते तीक्ष्णो मन्दोऽस्मिन् कफपीडिते ॥ ७३ ॥ समोऽग्निर्विषमस्तीक्ष्णो मन्दश्चैवं चतुर्विधः । यः पचेत्सम्यगेवान्नं भुक्तं सम्यक्समस्त्वसौ ॥ ७४ ॥ ३.७४ व् भुक्तं सम्यक्समस्तु सः विषमोऽसम्यगप्याशु सम्यग्वापि चिरात्पचेत् । तीक्ष्णो वह्निः पचेच्छीघ्रमसम्यगपि भोजनम् ॥ ७५ ॥ ३.७५ व् विषमोऽसम्यगेवाशु ३.७५ व् सम्यगेव चिरात्पचेत् मन्दस्तु सम्यगप्यन्नमुपयुक्तं चिरात्पचेत् । कृत्वास्यशोषाटोपान्त्रकूजनाध्मानगौरवम् ॥ ७६ ॥ ३.७६ व् उपभुक्तं चिरात्पचेत् शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यन्आमयः । रोगी स्याद्विकृते मूलमग्निस्तम्भान्निरुच्यते ॥ ७६+१ ॥ ३.७६+१ व् अग्निस्तम्भान्निरूप्यते सहजं कालजं युक्तिकृतं देहबलं त्रिधा । तत्र सत्त्वशरीरोत्थं प्राकृतं सहजं बलम् ॥ ७७ ॥ वयःकृतमृतूत्थं च कालजं युक्तिजं पुनः । विहाराहारजनितं तथोर्जस्करयोगजम् ॥ ७८ ॥ देशोऽल्पवारिद्रुनगो जाङ्गलः स्व्अल्परोगदः । आनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः ॥ ७९ ॥ मज्जमेदोवसामूत्रपित्तश्लेष्मशकृन्त्यसृक् । रसो जलं च देहेऽस्मिन्नेकैकाञ्जलिवर्धितम् ॥ ८० ॥ पृथक्स्वप्रसृतं प्रोक्तमोजोमस्तिष्करेतसाम् । द्वावञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः ॥ ८१ ॥ समधातोरिदं मानं विद्याद्वृद्धिक्षयावतः ॥ ८२ ब् ॥ शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयर्तुषु । यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता ॥ ८३ ॥ ३.८३ व् प्रकृतिः सप्तधा स्मृता विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात् । स्वातन्त्र्याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः ॥ ८४ ॥ प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः । शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः ॥ ८५ ॥ अल्पवित्तबलजीवितनिद्राः सन्नसक्तचलजर्जरवाचः । नास्तिका बहुभुजः सविलासा गीतहासमृगयाकलिलोलाः ॥ ८६ ॥ ३.८६ व् अल्पपित्तकफजीवितनिद्राः ३.८६ व् अल्पवित्तकफजीवितनिद्राः ३.८६ व् अल्पपित्तबलजीवितनिद्राः मधुराम्लपटूष्णसात्म्यकाङ्क्षाः कृशदीर्घाकृतयः सशब्दयाताः । न दृढा न जितेन्द्रिया न चार्या न च कान्तादयिता बहुप्रजा वा ॥ ८७ ॥ ३.८७ व् कृशदीर्घाकृतयः सशब्दयानाः नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि । उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति ॥ ८८ ॥ ३.८८ व् नेत्राणि वैषां खरधूसराणि अधन्या मत्सराध्माताः स्तेनाः प्रोद्बद्धपिण्डिकाः । श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः ॥ ८९ ॥ ३.८९ व् स्तेनाः प्रोद्वृत्तपिण्डिकाः पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रिक्तस्तीक्ष्णतृष्णाबुभुक्षः । गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा ॥ ९० ॥ ३.९० व् पित्तोद्रिक्तस्तीव्रतृष्णाबुभुक्षः दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः । विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि ॥ ९१ ॥ मेधावी प्रशिथिलसंधिबन्धमांसो नारीणामन्अभिमतोऽल्पशुक्रकामः । आवासः पलिततरङ्गनीलिकानां भुङ्क्तेऽन्नं मधुरकषायतिक्तशीतम् ॥ ९२ ॥ घर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्य्उच्चारक्रोधपानाशनेर्ष्यः । सुप्तः पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युद्अर्कानलांश्च ॥ ९३ ॥ तनूनि पिङ्गानि चलानि चैषां तन्व्अल्पपक्ष्माणि हिमप्रियाणि । क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि ॥ ९४ ॥ ३.९४ व् तनूनि पिङ्गानि चलानि वैषां मध्यायुषो मध्यबलाः पिण्डिताः क्लेशभीरवः । व्याघ्रर्क्षकपिमार्जारयक्षानूकाश्च पैत्तिकाः ॥ ९५ ॥ ३.९५ व् वृकानूकाश्च पैत्तिकाः श्लेष्मा सोमः श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसंध्य्अस्थिमांसः । क्षुत्तृड्दुःखक्लेशघर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसंधः ॥ ९६ ॥ प्रियङ्गुदूर्वाशरकाण्डशस्त्र गोरोचनापद्मसुवर्णवर्णः । प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः ॥ ९७ ॥ मृद्व्अङ्गः समसुविभक्तचारुदेहो बह्व्ओजोरतिरसशुक्रपुत्रभृत्यः । धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥ ९८ ॥ ३.९८ व् मृद्व्अङ्गः समसुविभक्तचारुवर्ष्मा समदद्विरदेन्द्रतुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः । स्मृतिमानभियोगवान् विनीतो न च बाल्येऽप्यतिरोदनो न लोलः ॥ ९९ ॥ ३.९९ व् जलदाम्भोधिमृदङ्गशङ्खघोषः तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुङ्क्ते बलवांस्तथापि । रक्तान्तसुस्निग्धविशालदीर्घ सुव्यक्तशुक्लासितपक्ष्मलाक्षः ॥ १०० ॥ अल्पव्याहारक्रोधपानाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः । श्राद्धो गम्भीरः स्थूललक्षः क्षमावानार्यो निद्रालुर्दीर्घसूत्रः कृतज्ञः ॥ १०१ ॥ ३.१०१ व् अल्पव्याहारक्रोधपानाशनेर्ष्यः ३.१०१ व् प्राज्यायुर्वृत्तो दीर्घदर्शी वदान्यः ३.१०१ व् श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावान् ३.१०१ व् आर्यो निद्रालुर् दीर्घसूत्री कृतज्ञः ऋजुर्विपश्चित्सुभगः सुलज्जो भक्तो गुरूणां स्थिरसौहृदश्च । स्वप्ने सपद्मान् सविहङ्गमालांस्तोयाशयान् पश्यति तोयदांश्च ॥ १०२ ॥ ३.१०२ व् ऋजुर्विपश्चित्सुभगः सलज्जो ब्रह्मरुद्रेन्द्रवरुणतार्क्ष्यहंसगजाधिपैः । श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः ॥ १०३ ॥ प्रकृतीर्द्वयसर्वोत्था द्वन्द्वसर्वगुणोदये । शौचास्तिक्यादिभिश्चैवं गुणैर्गुणमयीर्वदेत् ॥ १०४ ॥ वयस्त्वाषोडशाद्बालं तत्र धात्व्इन्द्रियौजसाम् । वृद्धिरासप्ततेर्मध्यं तत्रावृद्धिः परं क्षयः ॥ १०५ ॥ स्वं स्वं हस्तत्रयं सार्धं वपुः पात्रं सुखायुषोः । न च यद्युक्तमुद्रिक्तैरष्टाभिर्निन्दितैर्निजैः ॥ १०६ ॥ अरोमशासितस्थूलदीर्घत्वैः सविपर्ययैः । सुस्निग्धा मृदवः सूक्ष्मा नैकमूलाः स्थिराः कचाः ॥ १०७ ॥ ललाटमुन्नतं श्लिष्टशङ्खमर्धेन्दुसंनिभम् । कर्णौ नीचोन्नतौ पश्चान्महान्तौ श्लिष्टमांसलौ ॥ १०८ ॥ नेत्रे व्यक्तासितसिते सुबद्धघनपक्ष्मणी । उन्नताग्रा महोच्छ्वासा पीनर्जुर्नासिका समा ॥ १०९ ॥ ३.१०९ व् सुबद्धे घनपक्ष्मणी ओष्ठौ रक्तावन्उद्वृत्तौ महत्यौ नोल्बणे हनू । महदास्यं घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताः समाः ॥ ११० ॥ जिह्वा रक्तायता तन्वी मांसलं चिबुकं महत् । ग्रीवा ह्रस्वा घना वृत्ता स्कन्धावुन्नतपीवरौ ॥ १११ ॥ उदरं दक्षिणावर्तगूढनाभि समुन्नतम् । तनुरक्तोन्नतनखं स्निग्धमाताम्रमांसलम् ॥ ११२ ॥ दीर्घाच्छिद्राङ्गुलि महत्पाणिपादं प्रतिष्ठितम् । गूढवंशं बृहत्पृष्ठं निगूढाः संधयो दृढाः ॥ ११३ ॥ ३.११३ व् गूढवंशं महत्पृष्ठं धीरः स्वरोऽनुनादी च वर्णः स्निग्धः स्थिरप्रभः । स्वभावजं स्थिरं सत्त्वमविकारि विपत्स्वपि ॥ ११४ ॥ उत्तरोत्तरसुक्षेत्रं वपुर्गर्भादिनीरुजम् । आयामज्ञानविज्ञानैर्वर्धमानं शनैः शुभम् ॥ ११५ ॥ इति सर्वगुणोपेते शरीरे शरदां शतम् । आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः ॥ ११६ ॥ त्वग्रक्तादीनि सत्त्वान्तान्यग्र्याण्यष्टौ यथोत्तरम् । बलप्रमाणज्ञानार्थं साराण्युक्तानि देहिनाम् ॥ ११७ ॥ ३.११७ व् अग्राण्यष्टौ यथोत्तरम् सारैरुपेतः सर्वैः स्यात्परं गौरवसंयुतः । सर्वारम्भेषु चाशावान् सहिष्णुः सन्मतिः स्थिरः ॥ ११८ ॥ ३.११८ व् सहिष्णुः सुमतिः स्थिरः अन्उत्सेकमदैन्यं च सुखं दुःखं च सेवते । सत्त्ववांस्तप्यमानस्तु राजसो नैव तामसः ॥ ११९ ॥ ३.११९ व् सत्त्ववान् स्तभ्यमानस्तु दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः । रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः ॥ १२० ॥ ॡआरीरस्थान सप्तोत्तरं मर्मशतं तेषामेकादशादिशेत् । पृथक्सक्थ्नोस्तथा बाह्वोस्त्रीणि कोष्ठे नवोरसि ॥ १ ॥ पृष्ठे चतुर्दशोर्ध्वं तु जत्रोस्त्रिंशच्च सप्त च । मध्ये पादतलस्याहुरभितो मध्यमाङ्गुलीम् ॥ २ ॥ तलहृन्नाम रुजया तत्र विद्धस्य पञ्चता । अङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रमाक्षेपमारणम् ॥ ३ ॥ तस्योर्ध्वं द्व्य्अङ्गुले कूर्चः पादभ्रमणकम्पकृत् । गुल्फसंधेरधः कूर्चशिरः शोफरुजाकरम् ॥ ४ ॥ जङ्घाचरणयोः संधौ गुल्फो रुक्स्तम्भमान्द्यकृत् । जङ्घान्तरे त्विन्द्रवस्तिर्मारयत्यसृजः क्षयात् ॥ ५ ॥ ४.५ व् गुल्फो रुक्स्तम्भषाण्ढ्यकृत् ४.५ व् गुल्फो रुक्स्तम्भखाञ्ज्यकृत् ४.५ व् गुल्फो रुक्स्तम्भजाड्यकृत् जङ्घोर्वोः संगमे जानु खञ्जता तत्र जीवतः । जानुनस्त्र्य्अङ्गुलादूर्ध्वमाण्य्ऊरुस्तम्भशोफकृत् ॥ ६ ॥ उर्व्यूरुमध्ये तद्वेधात्सक्थिशोषोऽस्रसंक्षयात् । ऊरुमूले लोहिताक्षं हन्ति पक्षमसृक्क्षयात् ॥ ७ ॥ ४.७ व् ऊरुमूले लोहिताख्यं मुष्कवङ्क्षणयोर्मध्ये विटपं षण्ढताकरम् । इति सक्थ्नोस्तथा बाह्वोर्मणिबन्धोऽत्र गुल्फवत् ॥ ८ ॥ ४.८ व् विटिपं षण्ढताकरम् कूर्परं जानुवत्कौण्यं तयोर्विटपवत्पुनः । कक्षाक्षमध्ये कक्षाधृक्कुणित्वं तत्र जायते ॥ ९ ॥ स्थूलान्त्रबद्धः सद्योघ्नो विड्वातवमनो गुदः । मूत्राशयो धनुर्वक्रो वस्तिरल्पास्रमांसगः ॥ १० ॥ एकाधोवदनो मध्ये कट्याः सद्यो निहन्त्यसून् । ऋतेऽश्मरीव्रणाद्विद्धस्तत्राप्युभयतश्च सः ॥ ११ ॥ ४.११ व् तत्राप्युभयतश्च यः मूत्रस्राव्येकतो भिन्ने व्रणो रोहेच्च यत्नतः । देहामपक्वस्थानानां मध्ये सर्वसिराश्रयः ॥ १२ ॥ नाभिः सोऽपि हि सद्योघ्नो द्वारमामाशयस्य च । सत्त्वादिधाम हृदयं स्तनोरःकोष्ठमध्यगम् ॥ १३ ॥ स्तनरोहितमूलाख्ये द्व्य्अङ्गुले स्तनयोर्वदेत् । ऊर्ध्वाधोऽस्रकफापूर्णकोष्ठो नश्येत्तयोः क्रमात् ॥ १४ ॥ ४.१४ व् ऊर्ध्वाधोऽसृक्कफापूर्ण अपस्तम्भावुरःपार्श्वे नाड्यावनिलवाहिनी । रक्तेन पूर्णकोष्ठोऽत्र श्वासात्कासाच्च नश्यति ॥ १५ ॥ ४.१५ व् रक्तस्य पूर्णकोष्ठोऽत्र पृष्ठवंशोरसोर्मध्ये तयोरेव च पार्श्वयोः । अधोऽंसकूटयोर्विद्यादपालापाख्यमर्मणी ॥ १६ ॥ तयोः कोष्ठेऽसृजा पूर्णे नश्येद्यातेन पूयताम् । पार्श्वयोः पृष्ठवंशस्य श्रोणिकर्णौ प्रति स्थिते ॥ १७ ॥ ४.१७ व् श्रोणिकर्णप्रतिष्ठिते ४.१७ व् श्रोणिकर्णौ प्रतिष्ठितौ वंशाश्रिते स्फिजोरूर्ध्वं कटीकतरुणे स्मृते । तत्र रक्तक्षयात्पाण्दुर्हीनरूपो विनश्यति ॥ १८ ॥ पृष्ठवंशं ह्युभयतो यौ संधी कटिपार्श्वयोः । जघनस्य बहिर्भागे मर्मणी तौ कुकुन्दरौ ॥ १९ ॥ ४.१९ व् पृष्ठवंशस्योभयतो चेष्टाहानिरधःकाये स्पर्शाज्ञानं च तद्व्यधात् । पार्श्वान्तरनिबद्धौ यावुपरि श्रोणिकर्णयोः ॥ २० ॥ आशयच्छादनौ तौ तु नितम्बौ तरुणास्थिगौ । अधःशरीरे शोफोऽत्र दौर्बल्यं मरणं ततः ॥ २१ ॥ ४.२१ व् आशयाच्छादनौ तौ तु पार्श्वान्तरनिबद्धौ च मध्ये जघनपार्श्वयोः । तिर्यगूर्ध्वं च निर्दिष्टौ पार्श्वसंधी तयोर्व्यधात् ॥ २२ ॥ ४.२२ व् मध्यौ जघनपार्श्वयोः ४.२२ व् निर्दिष्टौ पार्श्वसंधी तौ ४.२२ व् तिर्यगूर्ध्वं तयोर्व्यधात् रक्तपूरितकोष्ठस्य शरीरान्तरसंभवः । स्तनमूलार्जवे भागे पृष्ठवंशाश्रये सिरे ॥ २३ ॥ बृहत्यौ तत्र विद्धस्य मरणं रक्तसंक्षयात् । बाहुमूलाभिसंबद्धे पृष्ठवंशस्य पार्श्वयोः ॥ २४ ॥ अंसयोः फलके बाहुस्वापशोषौ तयोर्व्यधात् । ग्रीवामुभयतः स्नाव्नी ग्रीवाबाहुशिरोऽन्तरे ॥ २५ ॥ ४.२५ व् स्वापशोषौ तयोर्व्यधे ४.२५ व् स्वापशोफौ तयोर्व्यधे ४.२५ व् स्वापशोफौ तयोर्व्यधात् स्कन्धांसपीठसंबन्धावंसौ बाहुक्रियाहरौ । कण्ठनालीमुभयतः सिरा हनुसमाश्रिताः ॥ २६ ॥ ४.२६ व् स्कन्धांसपीठबद्धार्थाव् ४.२६ व् स्कन्धांसपीठबन्धार्थाव् ४.२६ व् स्कन्धांसपीठसंबद्धाव् चतस्रस्तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते । स्वरप्रणाशवैकृत्यं रसाज्ञानं च तद्व्यधे ॥ २७ ॥ ४.२७ व् स्वरप्रणाशवैकृत्य ४.२७ व् स्वरप्रणाशो वैकृत्यं ४.२७ व् रसाज्ञानं च तद्व्यधे कण्ठनालीमुभयतो जिह्वानासागताः सिराः । पृथक्चतस्रस्ताः सद्यो घ्नन्त्यसून्मातृकाह्वयाः ॥ २८ ॥ कृकाटिके शिरोग्रीवासंधौ तत्र चलं शिरः । अधस्तात्कर्णयोर्निम्ने विधुरे श्रुतिहारिणी ॥ २९ ॥ ४.२९ व् संधी तत्र चलं शिरः फणावुभयतो घ्राणमार्गं श्रोत्रपथानुगौ । अन्तर्गलस्थितौ वेधाद्गन्धविज्ञानहारिणौ ॥ ३० ॥ नेत्रयोर्बाह्यतोऽपाङ्गौ भ्रुवोः पुच्छान्तयोरधः । तथोपरि भ्रुवोर्निम्नावावर्तावान्ध्यमेषु तु ॥ ३१ ॥ अनुकर्णं ललाटान्ते शङ्खौ सद्योविनाशनौ । केशान्ते शङ्खयोरूर्ध्वमुत्क्षेपौ स्थपनि पुनः ॥ ३२ ॥ भ्रुवोर्मध्ये त्रयेऽप्यत्र शल्ये जीवेदन्उद्धृते । स्वयं वा पतिते पाकात्सद्यो नश्यति तूद्धृते ॥ ३३ ॥ जिह्वाक्षिनासिकाश्रोत्रखचतुष्टयसंगमे । तालून्यास्यानि चत्वारि स्रोतसां तेषु मर्मसु ॥ ३४ ॥ विद्धः शृङ्गाटकाख्येषु सद्यस्त्यजति जीवितम् । कपाले संधयः पञ्च सीमन्तास्तिर्यग्ऊर्ध्वगाः ॥ ३५ ॥ ४.३५ व् कपालसंधयः पञ्च भ्रमोन्मादमनोनाशैस्तेषु विद्धेषु नश्यति । आन्तरो मस्तकस्योर्ध्वं सिरासंधिसमागमः ॥ ३६ ॥ ४.३६ व् अन्तरे मस्तकस्योर्ध्वं रोमावर्तोऽधिपो नाम मर्म सद्यो हरत्यसून् । विषमं स्पन्दनं यत्र पीडिते रुक्च मर्म तत् ॥ ३७ ॥ मांसास्थिस्नायुधमनीसिरासंधिसमागमः । स्यान्मर्मेति च तेनात्र सुतरां जीवितं स्थितम् ॥ ३८ ॥ बाहुल्येन तु निर्देशः षोढैवं मर्मकल्पना । प्राणायतनसामान्यादैक्यं वा मर्मणां मतम् ॥ ३९ ॥ ४.३९ व् ऐक्यं वा मर्मणां स्मृतम् मांसजानि दशेन्द्राख्यतलहृत्स्तनरोहिताः । शङ्खौ कटीकतरुणे नितम्बावंसयोः फले ॥ ४० ॥ अस्थ्न्यष्टौ स्नावमर्माणि त्रयोविंशतिराणयः । कूर्चकूर्चशिरोऽपाङ्गक्षिप्रोत्क्षेपांसवस्तयः ॥ ४१ ॥ ४.४१ व् अस्थ्न्यष्टौ स्नायुमर्माणि गुदापस्तम्भविधुरशृङ्गाटानि नवादिशेत् । मर्माणि धमनीस्थानि सप्तत्रिंशत्सिराश्रयाः ॥ ४२ ॥ ४.४२ व् गुदोऽपस्तम्भविधुर बृहत्यौ मातृका नीले मन्ये कक्षाधरौ फणौ । विटपे हृदयं नाभिः पार्श्वसंधी स्तनाधरे ॥ ४३ ॥ ४.४३ व् पार्श्वसंधी स्तनान्तरे अपालापौ स्थपन्युर्व्यश्चतस्रो लोहितानि च । संधौ विंशतिरावर्तौ मणिबन्धौ कुकुन्दरौ ॥ ४४ ॥ सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः । मांसमर्म गुदोऽन्येषां स्नाव्नि कक्षाधरौ तथा ॥ ४५ ॥ ४.४५ व् स्नाव्नी कक्षाधरौ तथा विटपौ विधुराख्ये च शृङ्गाटानि सिरासु तु । अपस्तम्भावपाङ्गौ च धमनीस्थं न तैः स्मृतम् ॥ ४६ ॥ विद्धेऽजस्रमसृक्स्रावो मांसधावनवत्तनुः । पाण्डुत्वमिन्द्रियाज्ञानं मरणं चाशु मांसजे ॥ ४७ ॥ ४.४७ व् मरणं वाशु मांसजे मज्जान्वितोऽच्छो विच्छिन्नः स्रावो रुक्चास्थिमर्मणि । आयामाक्षेपकस्तम्भाः स्नावजेऽभ्यधिकं रुजा ॥ ४८ ॥ ४.४८ व् स्नावजेऽभ्यधिकं रुजः ४.४८ व् स्नावजेऽभ्यधिका रुजः ४.४८ व् स्नायुगेऽभ्यधिकं रुजा यानस्थानासनाशक्तिर्वैकल्यमथ वान्तकः । रक्तं सशब्दफेनोष्णं धमनीस्थे विचेतसः ॥ ४९ ॥ सिरामर्मव्यधे सान्द्रमजस्रं बह्वसृक्स्रवेत् । तत्क्षयात्तृड्भ्रमश्वासमोहहिध्माभिरन्तकः ॥ ५० ॥ वस्तु शूकैरिवाकीर्णं रूढे च कुणिखञ्जता । बलचेष्टाक्षयः शोषः पर्वशोफश्च संधिजे ॥ ५१ ॥ नाभिशङ्खाधिपापानहृच्छृङ्गाटकवस्तयः । अष्टौ च मातृकाः सद्यो निघ्नन्त्येकान्नविंशतिः ॥ ५२ ॥ ४.५२ व् निघ्नन्त्येकोनविंशतिः सप्ताहः परमस्तेषां कालः कालस्य कर्षणे । त्रयस्त्रिंशद्अपस्तम्भतलहृत्पार्श्वसंधयः ॥ ५३ ॥ ४.५३ व् सप्ताहः परमं तेषां कटीतरुणसीमन्तस्तनमूलेन्द्रवस्तयः । क्षिप्रापालापबृहतीनितम्बस्तनरोहिताः ॥ ५४ ॥ कालान्तरप्राणहरा मासमासार्धजीविताः । उत्क्षेपौ स्थपनी त्रीणि विशल्यघ्नानि तत्र हि ॥ ५५ ॥ ४.५५ व् विशल्यघ्नानि तत्र तु वायुर्मांसवसामज्जमस्तुलुङ्गानि शोषयेत् । शल्यापाये विनिर्गच्छन् श्वासात्कासाच्च हन्त्यसून् ॥ ५६ ॥ फणावपाङ्गौ विधुरे नीले मन्ये कृकाटिके । अंसांसफलकावर्तविटपोर्वीकुकुन्दराः ॥ ५७ ॥ ४.५७ व् फणावपाङ्गौ विधुरौ सजानुलोहिताक्षाणिकक्षाधृक्कूर्चकूर्पराः । वैकल्यमिति चत्वारि चत्वारिंशच्च कुर्वते ॥ ५८ ॥ ४.५८ व् सजानुलोहिताख्यानि हरन्ति तान्यपि प्राणान् कदाचिदभिघाततः । अष्टौ कूर्चशिरोगुल्फमणिबन्धा रुजाकराः ॥ ५९ ॥ तेषां विटपकक्षाधृग्उर्व्यः कूर्चशिरांसि च । द्वादशाङ्गुलमानानि द्व्य्अङ्गुले मणिबन्धने ॥ ६० ॥ ४.६० व् उर्वीकूर्चशिरांसि च गुल्फौ च स्तनमूले च त्र्य्अङ्गुलं जानुकूर्परम् । अपानवस्तिहृन्नाभिनीलाः सीमन्तमातृकाः ॥ ६१ ॥ ४.६१ व् त्र्य्अङ्गुलौ जानुकूर्परौ ४.६१ व् नीलासीमन्तमातृकाः कूर्चशृङ्गाटमन्याश्च त्रिंशदेकेन वर्जिताः । आत्मपाणितलोन्मानाः शेषाण्यर्धाङ्गुलं वदेत् ॥ ६२ ॥ पञ्चाशत्षट्च मर्माणि तिलव्रीहिसमान्यपि । इष्टानि मर्माण्यन्येषां चतुर्धोक्ताः सिरास्तु याः ॥ ६३ ॥ तर्पयन्ति वपुः कृत्स्नं ता मर्माण्याश्रितास्ततः । तत्क्षतात्क्षतजात्य्अर्थप्रवृत्तेर्धातुसंक्षये ॥ ६४ ॥ ४.६४ व् तत्क्षतात्क्षतजात्य्अर्थं ४.६४ व् प्रवृत्तिर्धातुसंक्षये वृद्धश्चलो रुजस्तीव्राः प्रतनोति समीरयन् । तेजस्तदुद्धृतं धत्ते तृष्णाशोषमदभ्रमान् ॥ ६५ ॥ स्विन्नस्रस्तश्लथतनुं हरत्येनं ततोऽन्तकः । वर्धयेत्संधितो गात्रं मर्मण्यभिहते द्रुतम् ॥ ६६ ॥ छेदनात्संधिदेशस्य संकुचन्ति सिरा ह्यतः । जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति ॥ ६७ ॥ सुविक्षतोऽप्यतो जीवेदमर्मणि न मर्मणि । प्राणघातिनि जीवेत्तु कश्चिद्वैद्यगुणेन चेत् ॥ ६८ ॥ असमग्राभिघाताच्च सोऽपि वैकल्यमश्नुते । तस्मात्क्षारविषाग्न्य्आदीन् यत्नान्मर्मसु वर्जयेत् ॥ ६९ ॥ मर्माभिघातः स्व्अल्पोऽपि प्रायशो बाधतेतराम् । रोगा मर्माश्रयास्तद्वत्प्रक्रान्ता यत्नतोऽपि च ॥ ७० ॥ ४.७० व् रोगा मर्माश्रितास्तद्वत् ॡआरीरस्थान पुष्पं फलस्य धूमोऽग्नेर्वर्षस्य जलदोदयः । यथा भविष्यतो लिङ्गं रिष्टं मृत्योस्तथा ध्रुवम् ॥ १ ॥ आयुष्मति क्रियाः सर्वाः सफलाः संप्रयोजिताः । भवन्ति भिषजां भूत्यै कृतज्ञ इव भूभुजि ॥ १+(१) ॥ क्षीणायुषि कृतं कर्म व्यर्थं कृतमिवाधमे । अयशो देहसंदेहं स्वार्थहानिं च यच्छति ॥ १+(२) ॥ ५.१+(२)च्व् आयासाद्देहसंदेहं तर्हीदानीं गतासूनां लक्षणं संप्रचक्षते । विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्टसंज्ञया ॥ १+(३) ॥ ५.१+(३)अव् तदिदानीं गतासूनां अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम् । अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात् ॥ २ ॥ केचित्तु तद्द्विधेत्याहुः स्थाय्य्अस्थायिविभेदतः । दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत् ॥ ३ ॥ स दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे । रूपेन्द्रियस्वरच्छायाप्रतिच्छायाक्रियादिषु ॥ ४ ॥ ५.४ व् तद्दोषाणां शमे शाम्येत् अन्येष्वपि च भावेषु प्राकृतेष्वनिमित्ततः । विकृतिर्या समासेन रिष्टं तदिति लक्षयेत् ॥ ५ ॥ केशरोमनिर्अभ्यङ्गं यस्याभ्यक्तमिवेक्ष्यते । यस्यात्य्अर्थं चले नेत्रे स्तब्धान्तर्गतनिर्गते ॥ ६ ॥ जिह्मे विस्तृतसंक्षिप्ते संक्षिप्तविनतभ्रुणी । उद्भ्रान्तदर्शने हीनदर्शने नकुलोपमे ॥ ७ ॥ कपोताभे अलाताभे स्रुते लुलितपक्ष्मणी । नासिकात्य्अर्थविवृता संवृता पिटिकाचिता ॥ ८ ॥ उच्छूना स्फुटिता म्लाना यस्यौष्ठो यात्यधोऽधरः । ऊर्ध्वं द्वितीयः स्यातां वा पक्वजम्बूनिभावुभौ ॥ ९ ॥ दन्ताः सशर्कराः श्यावास्ताम्राः पुष्पितपङ्किताः । सहसैव पतेयुर्वा जिह्वा जिह्मा विसर्पिणी ॥ १० ॥ शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता सकण्टका । शिरः शिरोधरा वोढुं पृष्ठं वा भारमात्मनः ॥ ११ ॥ हनू वा पिण्डमास्यस्थं शक्नुवन्ति न यस्य च । यस्यानिमित्तमङ्गानि गुरूण्यतिलघूनि वा ॥ १२ ॥ विषदोषाद्विना यस्य खेभ्यो रक्तं प्रवर्तते । उत्सिक्तं मेहनं यस्य वृषणावतिनिःसृतौ ॥ १३ ॥ अतोऽन्यथा वा यस्य स्यात्सर्वे ते कालचोदिताः । यस्यापूर्वाः सिरालेखा बालेन्द्व्आकृतयोऽपि वा ॥ १४ ॥ ५.१४ व् सर्वे ते कालनोदिताः ललाटे वस्तिशीर्षे वा षण्मासान्न स जीवति । पद्मिनीपत्त्रवत्तोयं शरीरे यस्य देहिनः ॥ १५ ॥ प्लवते प्लवमानस्य षण्मासास्तस्य जीवितम् । हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः ॥ १६ ॥ ५.१६ व् षण्मासं तस्य जीवितम् ५.१६ व् षण्मासात्तस्य जीवितम् ५.१६ व् षण् मासांस्तस्य जीवितम् सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते । यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि मुखेऽपि वा ॥ १७ ॥ सस्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम् । मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः ॥ १८ ॥ ५.१८ व् मूर्ध्नि भ्रुवोर्वा यस्य स्युः मृत्युं स्वस्थस्य षड्रात्रात्त्रिरात्रादातुरस्य तु । जिह्वा श्यावा मुखं पूति सव्यमक्षि निमज्जति ॥ १९ ॥ ५.१९ व् त्रिरात्रादातुरस्य च खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् । यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् ॥ २० ॥ आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति । अकस्माद्युगपद्गात्रे वर्णौ प्राकृतवैकृतौ ॥ २१ ॥ तथैवोपचयग्लानिरौक्ष्यस्नेहादि मृत्यवे । यस्य स्फुटेयुरङ्गुल्यो नाकृष्टा न स जीवति ॥ २२ ॥ क्षवकासादिषु तथा यस्यापूर्वो ध्वनिर्भवेत् । ह्रस्वो दीर्घोऽति वोच्छ्वासः पूतिः सुरभिरेव वा ॥ २३ ॥ आप्लुतान्आप्लुते काये यस्य गन्धोऽतिमानुषः । मलवस्त्रव्रणादौ वा वर्षान्तं तस्य जीवितम् ॥ २४ ॥ ५.२४ व् मलवस्त्रव्रणाद्ये वा भजन्तेऽत्य्अङ्गसौरस्याद्यं यूकामक्षिकादयः । त्यजन्ति वातिवैरस्यात्सोऽपि वर्षं न जीवति ॥ २५ ॥ सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते । शीतेषु भृशमौष्ण्यं वा स्वेदः स्तम्भोऽप्यहेतुकः ॥ २६ ॥ ५.२६ व् स्वेदः स्तम्भोऽत्यहेतुकः यो जातशीतपिटिकः शीताङ्गो वा विदह्यते । उष्णद्वेषी च शितार्तः स प्रेताधिपगोचरः ॥ २७ ॥ ५.२७ व् शीताङ्गो वातिदह्यते ५.२७ व् शीताङ्गो वापि दह्यते उरस्यूष्मा भवेद्यस्य जठरे चातिशीतता । भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः ॥ २८ ॥ ५.२८ व् जठरे वातिशीतता मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाप्सु निमज्जति । निष्ठ्यूतं बहुवर्णं वा यस्य मासात्स नश्यति ॥ २९ ॥ घनीभूतमिवाकाशमाकाशमिव यो घनम् । अमूर्तमिव मूर्तं च मूर्तं चामूर्तवत्स्थितम् ॥ ३० ॥ तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत् । अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम् ॥ ३१ ॥ ५.३१ व् तेजस्यतेजस्तद्वच्च ५.३१ व् अनेत्ररोगी चन्द्रं च जाग्रद्रक्षांसि गन्धर्वान् प्रेतानन्यांश्च तद्विधान् । रूपं व्य्आकृति तत्तच्च यः पश्यति स नश्यति ॥ ३२ ॥ ५.३२ व् रूपं व्य्आकृति तद्वच्च सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् । ध्रुवमाकाशगङ्गां वा स न पश्यति तां समाम् ॥ ३३ ॥ मेघतोयौघनिर्घोषवीणापणववेणुजान् । शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा ॥ ३४ ॥ निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम् । तद्वद्गन्धरसस्पर्शान्मन्यते यो विपर्ययात् ॥ ३५ ॥ ५.३५ व् न यो धुकधुकस्वनम् सर्वशो वा न यो यश्च दीपगन्धं न जिघ्रति । विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः ॥ ३६ ॥ यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा । अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ॥ ३७ ॥ ५.३७ व् यो भस्मनेव कीर्णाङ्गो जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत् । हीनो दीनः स्वरोऽव्यक्तो यस्य स्याद्गद्गदोऽपि वा ॥ ३८ ॥ सहसा यो विमुह्येद्वा विवक्षुर्न स जीवति । स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः ॥ ३९ ॥ रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत् । अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः ॥ ४० ॥ श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत् । संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा ॥ ४१ ॥ ५.४१ व् श्रोतारं तस्य शब्दस्य ५.४१ व् श्रोतारं वास्य शब्दस्य छाया विवर्तते यस्य स्वप्नेऽपि प्रेत एव सः । आतपादर्शतोयादौ या संस्थानप्रमाणतः ॥ ४२ ॥ छायाङ्गात्संभवत्युक्ता प्रतिच्छायेति सा पुनः । वर्णप्रभाश्रया या तु सा छायैव शरीरगा ॥ ४३ ॥ भवेद्यस्य प्रतिच्छाया छिन्ना भिन्नाधिकाकुला । विशिरा द्विशिरा जिह्मा विकृता यदि वान्यथा ॥ ४४ ॥ तं समाप्तायुषं विद्यान्न चेल्लक्ष्यनिमित्तजा । प्रतिच्छायामयी यस्य न चाक्ष्णीक्ष्येत कन्यका ॥ ४५ ॥ खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः । नाभसी निर्मलानीला सस्नेहा सप्रभेव च ॥ ४६ ॥ वाताद्रजोऽरुणा श्यावा भस्मरूक्षा हतप्रभा । विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥ ४७ ॥ शुद्धवैडूर्यविमला सुस्निग्धा तोयजा सुखा । स्थिरा स्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी ॥ ४८ ॥ ५.४८ व् सुस्निग्धा तोयजा हि सा वायवी रोगमरणक्लेशायान्याः सुखोदयाः । प्रभोक्ता तैजसी सर्वा सा तु सप्तविधा स्मृता ॥ ४९ ॥ ५.४९ व् वायव्या रोगमरण रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता । तासां याः स्युर्विकासिन्यः स्निग्धाश्च विमलाश्च याः ॥ ५० ॥ ५.५० व् रक्ता पीता सिता श्यामा ताः शुभा मलिना रूक्षाः संक्षिप्ताश्चाशुभोदयाः । वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिनी ॥ ५१ ॥ ५.५१ व् संक्षिप्ताश्चासुखोदयाः ५.५१ व् प्रभा वर्णविकाशिनी आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते । नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु ॥ ५२ ॥ नृणां शुभाशुभोत्पत्तिं काले छायासमाश्रयाः । निकषन्निव यः पादौ च्युतांसः परिसर्पति ॥ ५३ ॥ ५.५३ व् काले छायासमाश्रिताः हीयते बलतः शश्वद्योऽन्नमश्नन् हितं बहु । योऽल्पाशी बहुविण्मूत्रो बह्व्आशी चाल्पमूत्रविट् ॥ ५४ ॥ ५.५४ व् बह्व्आशी वाल्पमूत्रविट् यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते । दीर्घमुच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति ॥ ५५ ॥ ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् । शिरो विक्षिपते कृच्छ्राद्योऽञ्चयित्वा प्रपाणिकौ ॥ ५६ ॥ यो ललाटात्स्रुतस्वेदः श्लथसंधानबन्धनः । उत्थाप्यमानः संमुह्येद्यो बली दुर्बलोऽपि वा ॥ ५७ ॥ उत्तान एव स्वपिति यः पादौ विकरोति च । शयनासनकुड्यादेर्योऽसदेव जिघृक्षति ॥ ५८ ॥ ५.५८ व् शयनासनकुड्यादौ ५.५८ व् यः सदैव जिघृक्षति अहास्यहासी संमुह्यन् यो लेढि दशनच्छदौ । उत्तरौष्ठं परिलिहन् फूत्कारांश्च करोति यः ॥ ५९ ॥ ५.५९ व् नोत्कारांश्च करोति यः यमभिद्रवति च्छाया कृष्णा पीतारुणापि वा । भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये ॥ ६० ॥ ५.६० व् कृष्णा पीतारुणापि च वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः । ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम् ॥ ६१ ॥ उष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः । योऽणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ॥ ६२ ॥ पूर्वरूपाणि सर्वाणि ज्वरादिष्वतिमात्रया । यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः ॥ ६२.१+(१) ॥ बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते । निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम् ॥ ६३ ॥ ५.६३ व् बलिं बलिभुजो यस्य प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम् । गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा ॥ ६४ ॥ ५.६४ व् गुणागुणमयी यस्य यात्यन्यथात्वं प्रकृतिः षण्मासान्न स जीवति । भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम् ॥ ६५ ॥ षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः । मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः ॥ ६६ ॥ नश्यत्यजानन् षड्अहात्केशलुञ्चनवेदनाम् । न याति यस्य चाहारः कण्ठं कण्ठामयादृते ॥ ६७ ॥ प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते । यस्य निद्रा भवेन्नित्या नैव वा न स जीवति ॥ ६८ ॥ ५.६८ व् यस्य निद्रा भवेन्नित्यं वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणौ भृशम् । चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः ॥ ६९ ॥ ५.६९ व् यमराष्ट्रं गमिष्यतः यैः पुरा रमते भावैररतिस्तैर्न जीवति । सहसा जायते यस्य विकारः सर्वलक्षणः ॥ ७० ॥ निवर्तते वा सहसा सहसा स विनश्यति । ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः ॥ ७१ ॥ सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम् । अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम् ॥ ७२ ॥ सशुष्ककासः पूर्वाह्णे योऽपराह्णेऽपि वा भवेत् । बलमांसविहीनस्य श्लेष्मकाससमन्वितः ॥ ७३ ॥ ५.७३ व् संशुष्ककासः पूर्वाह्णे रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम् । ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत् ॥ ७४ ॥ रोमकूपप्रविसृतं कण्ठास्यहृदये सजत् । वाससोऽरञ्जनं पूति वेगवच्चाति भूरि च ॥ ७५ ॥ ५.७५ व् वाससो रञ्जनं पूति वृद्धं पाण्डुज्वरच्छर्दिकासशोफातिसारिणम् । कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम् ॥ ७६ ॥ यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्य्अंसतापिनम् । छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका ॥ ७७ ॥ ५.७७ व् रक्तच्छर्द्य्अङ्गतापिनम् सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी । तृष्णान्यरोगक्षपितं बहिर्जिह्वं विचेतनम् ॥ ७८ ॥ ५.७८ व् बहिर्जिह्वमचेतनम् ५.७८ व् बहिर्जिह्वं विचेतसम् मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम् । अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम् ॥ ७९ ॥ ५.७९ व् गुदमुष्कादिशोफिनम् हृत्पार्श्वाङ्गरुजाछर्दिपायुपाकज्वरातुरम् । अतीसारो यकृत्पिण्डमांसधावनमेचकैः ॥ ८० ॥ तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः । मस्तुलुङ्गमषीपूयवेसवाराम्बुमाक्षिकैः ॥ ८१ ॥ अतिरक्तासितस्निग्धपूत्य्अच्छघनवेदनः । कर्बुरः प्रस्रवन् धातून्निष्पुरीषोऽथवातिविट् ॥ ८२ ॥ तन्तुमान्मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः । शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम् ॥ ८३ ॥ ५.८३ व् तालं पर्वास्थिशूलिनम् ५.८३ व् ताडं पर्वास्थिशूलिनम् स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयन् । सतृट्श्वासज्वरच्छर्दिदाहानाहप्रवाहिकः ॥ ८४ ॥ ५.८४ व् अन्नमेवोपवेशयेत् अश्मरी शूनवृषणं बद्धमूत्रं रुजार्दितम् । मेहस्तृड्दाहपिटिकामांसकोथातिसारिणम् ॥ ८५ ॥ पिटिका मर्महृत्पृष्ठस्तनांसगुदमूर्धगाः । पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम् ॥ ८६ ॥ ५.८६ व् स्तनांसगुदमूर्धजाः ५.८६ व् पर्वपादकरस्थाश्च सर्वं च मांससंकोथदाहतृष्णामदज्वरैः । विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः ॥ ८७ ॥ ५.८७ व् सर्वं च मांससंकोच गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः । सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः ॥ ८८ ॥ कासपीनसहृल्लासश्वासातीसारशोफवान् । विण्मूत्रसंग्रहश्वासशोफहिध्माज्वरभ्रमैः ॥ ८९ ॥ मूर्छाछर्द्य्अतिसारैश्च जठरं हन्ति दुर्बलम् । शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् ॥ ९० ॥ विरेचनहृतानाहमानह्यन्तं पुनः पुनः । पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम् ॥ ९१ ॥ ५.९१ व् विरेचनहतानाहम् तन्द्रादाहारुचिच्छर्दिमूर्छाध्मानातिसारवान् । अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम् ॥ ९२ ॥ नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि । राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारिणम् ॥ ९३ ॥ ज्वरातीसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः ॥ ९४ ॥ श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके । सीदतः सक्थिनी चैव तं भिषक्परिवर्जयेत् ॥ ९५ ॥ आननं हस्तपादं च विशेषाद्यस्य शुष्यतः । शूयेते वा विना देहात्स मासाद्याति पञ्चताम् ॥ ९६ ॥ ५.९६ व् विशेषाद्यस्य शुष्यति विसर्पः कासवैवर्ण्यज्वरमूर्छाङ्गभङ्गवान् । भ्रमास्यशोफहृल्लासदेहसादातिसारवान् ॥ ९७ ॥ ५.९७ व् भ्रमास्यशोषहृल्लास कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम् । मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम् ॥ ९८ ॥ वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम् । वातास्रं मोहमूर्छायमदास्वप्नज्वरान्वितम् ॥ ९९ ॥ ५.९९ व् वायुः सुप्तत्वचं भग्नं शिरोग्रहारुचिश्वाससंकोचस्फोटकोथवत् । शिरोरोगारुचिश्वासमोहविड्भेदतृड्भ्रमैः ॥ १०० ॥ घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम् । वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी ॥ १०१ ॥ गुल्मी मेही च तान् क्षीणान् विकारेऽल्पेऽपि वर्जयेत् । बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः ॥ १०२ ॥ यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति । वाताष्ठीलातिसंवृद्धा तिष्ठन्ति दारुणा हृदि ॥ १०३ ॥ तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् । शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम् ॥ १०४ ॥ ५.१०४ व् तृष्णया तु परीतस्य क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् । नाभिगुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ॥ १०५ ॥ ५.१०५ व् क्षीणस्यायस्य मन्ये वा गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली । मलान् वस्तिशिरो नाभिं विबध्य जनयन् रुजम् ॥ १०६ ॥ कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्नपुरीषताम् । श्वासं वा जनयन् वायुर्गृहीत्वा गुदवङ्क्षणम् ॥ १०७ ॥ ५.१०७ व् गृहीत्वा गुदवङ्क्षणौ वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः । स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥ १०८ ॥ ५.१०८ व् वितत्य पार्श्वकाग्राणि सहसा ज्वरसंतापस्तृष्णा मूर्छा बलक्षयः । विश्लेषणं च संधीनां मुमूर्षोरुपजायते ॥ १०९ ॥ गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् ॥ ११० ॥ प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः । उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति ॥ १११ ॥ मसूरविदलप्रख्यास्तथा विद्रुमसंनिभाः । अन्तर्वक्त्राः किणाभाश्च विस्फोटा देहनाशनाः ॥ ११२ ॥ कामलाक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता । संत्रासश्चोष्णताङ्गे च यस्य तं परिवर्जयेत् ॥ ११३ ॥ अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम् । यो वातजो न शूलाय स्यान्न दाहाय पित्तजः ॥ ११४ ॥ चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः । शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः ॥ ११४.१+(१) ॥ ५.११४.१+(१)द्व् नक्तमालमषीप्रभाः ५.११४.१+(१)द्व् कुन्दशालिमयप्रभाः अन्तर्दाहा निर्ऊष्मणः प्राणनाशकरा व्रणाः ॥ ११४.१+(२)अब् ॥ कफजो न च पूयाय मर्मजश्च रुजे न यः । अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते ॥ ११५ ॥ रूपं शक्तिध्वजादीनां सर्वांस्तान् वर्जयेद्व्रणान् । विण्मूत्रमारुतवहं कृमिणं च भगन्दरम् ॥ ११६ ॥ घट्टयञ्जानुना जानु पादावुद्यम्य पातयन् । योऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति ॥ ११७ ॥ दन्तैश्छिन्दन्नखाग्राणि तैश्च केशांस्तृणानि च । भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन् ॥ ११८ ॥ ५.११८ व् तैश्च केशांस्तृणानि वा हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः । मुहुर्हसन्मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः ॥ ११९ ॥ ५.११९ व् शय्यां पादेन हन्ति च मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति । मृत्यवे सहसार्तस्य तिलकव्यङ्गविप्लवः ॥ १२० ॥ मुखे दन्तनखे पुष्पं जठरे विविधाः सिराः । ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम् ॥ १२१ ॥ शर्म चान्अधिगच्छन्तं बुद्धिमान् परिवर्जयेत् । विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते ॥ १२२ ॥ ५.१२२ व् शर्म वान्अधिगच्छन्तं सहसा सहसा तस्य मृत्युर्हरति जीवितम् । यमुद्दिश्यातुरं वैद्यः संपादयितुमौषधम् ॥ १२३ ॥ यतमानो न शक्नोति दुर्लभं तस्य जीवितम् । विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम् ॥ १२४ ॥ न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् । भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्ययः ॥ १२५ ॥ अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति । निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति ॥ १२६ ॥ आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा । अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥ १२७ ॥ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥ १२८ ॥ ५.१२८ व् संशयं प्राप्तमात्रेयो कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक् । गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम् ॥ १२९ ॥ ५.१२९ व् कथयेन्नैव पृष्टोऽपि यमदूतपिशाचाद्यैर्यत्परासुरुपास्यते । घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत् ॥ १३० ॥ आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्ठितम् । रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक् ॥ १३१ ॥ मरणं प्राणिनां दृष्टमायुःपुण्योभयक्षयात् । तयोरप्यक्षयाद्दृष्टं विषमापरिहारिणाम् ॥ १३२ ॥ ॡआरीरस्थान पाषण्डाश्रमवर्णानां सवर्णाः कर्मसिद्धये । त एव विपरीताः स्युर्दूताः कर्मविपत्तये ॥ १ ॥ दीनं भीतं द्रुतं त्रस्तं रूक्षामङ्गलवादिनम् । शस्त्रिणं दण्डिनं षण्ढं मुण्डश्मश्रुजटाधरम् ॥ २ ॥ ६.२ व् शस्त्रिणं दण्डिनं खण्डं ६.२ व् मुण्डश्मश्रुं जटाधरम् ६.२ व् मुण्डं श्मश्रुजटाधरम् अमङ्गलाह्वयं क्रूरकर्माणं मलिनं स्त्रियम् । अनेकं व्याधितं व्यङ्गं रक्तमाल्यानुलेपनम् ॥ ३ ॥ तैलपङ्काङ्कितं जीर्णविवर्णार्द्रैकवाससम् । खरोष्ट्रमहिषारूढं काष्ठलोष्टादिमर्दिनम् ॥ ४ ॥ ६.४ व् काष्ठलोहादिमर्दिनम् नानुगच्छेद्भिषग्दूतमाह्वयन्तं च दूरतः । अशस्तचिन्तावचने नग्ने छिन्दति भिन्दति ॥ ५ ॥ जुह्वाने पावकं पिण्डान् पितृभ्यो निर्वपत्यपि । सुप्ते मुक्तकचेऽभ्यक्ते रुदत्यप्रयते तथा ॥ ६ ॥ ६.६ व् रुदत्यप्रयतेऽथवा वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम् । विकारसामान्यगुणे देशे कालेऽथवा भिषक् ॥ ७ ॥ दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् । स्पृशन्तो नाभिनासास्यकेशरोमनखद्विजान् ॥ ८ ॥ ६.८ व् स्पृशन्तो नाभिनासाक्षि गुह्यपृष्ठस्तनग्रीवाजठरानामिकाङ्गुलीः । कार्पासबुससीसास्थिकपालमुसलोपलम् ॥ ९ ॥ ६.९ व् जठरानामिकाङ्गुलि मार्जनीशूर्पचैलान्तभस्माङ्गारदशातुषान् । रज्जूपानत्तुलापाशमन्यद्वा भग्नविच्युतम् ॥ १० ॥ ६.१० व् अन्यद्वा भग्नविद्युतम् तत्पूर्वदर्शने दूता व्याहरन्ति मरिष्यताम् । तथार्धरात्रे मध्याह्ने संध्ययोः पर्ववासरे ॥ ११ ॥ षष्ठीचतुर्थीनवमीराहुकेतूदयादिषु । भरणीकृत्तिकाश्लेषापूर्वार्द्रापैत्र्यनैरृते ॥ १२ ॥ यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् । पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक् ॥ १३ ॥ तद्यथा विकलः प्रेतः प्रेतालङ्कार एव वा । छिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥ १४ ॥ ६.१४ व् प्रेतालङ्कार एव च रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान् । स्पर्शो वा विपुलः क्रूरो यद्वान्यदपि तादृशम् ॥ १५ ॥ ६.१५ व् स्पर्शो वा विपुलक्रूरो तत्सर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः । दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् ॥ १६ ॥ हाहाक्रन्दितमुत्क्रुष्टमाक्रुष्टं स्खलनं क्षुतम् । वस्त्रातपत्रपादत्रव्यसनं व्यसनीक्षणम् ॥ १७ ॥ चैत्यध्वजानां पात्राणां पूर्णानां च निमज्जनम् । हतान्इष्टप्रवादाश्च दूषणं भस्मपांसुभिः ॥ १८ ॥ पथश्छेदोऽहिमार्जारगोधासरटवानरैः । दीप्तां प्रति दिशं वाचः क्रूराणां मृगपक्षिणाम् ॥ १९ ॥ कृष्णधान्यगुडोदश्विल्लवणासवचर्मणाम् । सर्षपाणां वसातैलतृणपङ्केन्धनस्य च ॥ २० ॥ क्लीबक्रूरश्वपाकानां जालवागुरयोरपि । छर्दितस्य पुरीषस्य पूतिदुर्दर्शनस्य च ॥ २१ ॥ निःसारस्य व्यवायस्य कार्पासादेररेरपि । शयनासनयानानामुत्तानानां तु दर्शनम् ॥ २२ ॥ ६.२२ व् उत्तानानां च दर्शनम् न्युब्जानामितरेषां च पात्रादीनामशोभनम् । पुंसंज्ञाः पक्षिणो वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः ॥ २३ ॥ प्रदक्षिणं खगमृगा यान्तो नैवं श्वजम्बुकाः । अयुग्माश्च मृगाः शस्ताः शस्ता नित्यं च दर्शने ॥ २४ ॥ चाषभासभरद्वाजनकुलच्छागबर्हिणः । अशुभं सर्वथोलूकबिडालसरटेक्षणम् ॥ २५ ॥ प्रशस्ताः कीर्तने कोलगोधाहिशशजाहकाः । न दर्शने न विरुते वानरर्क्षावतोऽन्यथा ॥ २६ ॥ धनुरैन्द्रं च लालाटमशुभं शुभमन्यतः । अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च ॥ २७ ॥ दध्य्अक्षतादि निर्गच्छद्वक्ष्यमाणं च मङ्गलम् । वैद्यो मरिष्यतां वेश्म प्रविशन्नेव पश्यति ॥ २८ ॥ दूताद्यसाधु दृष्ट्वैवं त्यजेदार्तमतोऽन्यथा । करुणाशुद्धसंतानो यत्नतस्तमुपाचरेत् ॥ २९ ॥ ६.२९ व् यत्नतः समुपाचरेत् दध्य्अक्षतेक्षुनिष्पावप्रियङ्गुमधुसर्पिषाम् । यावकाञ्जनभृङ्गारघण्टादीपसरोरुहाम् ॥ ३० ॥ दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः । रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च ॥ ३१ ॥ नरस्य वर्धमानस्य देवतानां नृपस्य च । शुक्लानां सुमनोवालचामराम्बरवाजिनाम् ॥ ३२ ॥ शङ्खसाधुद्विजोष्णीषतोरणस्वस्तिकस्य च । भूमेः समुद्धतायाश्च वह्नेः प्रज्वलितस्य च ॥ ३३ ॥ मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च । नृभिर्धेन्वाः सवत्साया वडबायाः स्त्रिया अपि ॥ ३४ ॥ जीवञ्जीवकसारङ्गसारसप्रियवादिनाम् । हंसानां शतपत्त्राणां बद्धस्यैकपशोस्तथा ॥ ३५ ॥ रुचकादर्शसिद्धार्थरोचनानां च दर्शनम् । गन्धः सुसुरभिर्वर्णः सुशुक्लो मधुरो रसः ॥ ३६ ॥ गोपतेरनुकूलस्य स्वनस्तद्वद्गवामपि । मृगपक्षिनराणां च शोभिनां शोभना गिरः ॥ ३७ ॥ ६.३७ व् गोपतेरनुलोमस्य छत्त्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः । भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिःस्वनाः ॥ ३८ ॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम् ॥ ३९ ॥ इत्युक्तं दूतशकुनं स्वप्नानूर्ध्वं प्रचक्षते । स्वप्ने मद्यं सह प्रेतैर्यः पिबन् कृष्यते शुना ॥ ४० ॥ ६.४० व् स्वप्नानूर्ध्वं प्रचक्ष्यते ६.४० व् स्वप्नानूर्ध्वं प्रवक्ष्यते स मर्त्यो मृत्युना शीघ्रं ज्वररूपेण नीयते । रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया ॥ ४१ ॥ ६.४१ व् स मर्त्यो मृत्युना तूर्णं सोऽस्रपित्तेन महिषश्ववराहोष्ट्रगर्दभैः । यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा ॥ ४२ ॥ लता कण्टकिनी वंशस्तालो वा हृदि जायते । यस्य तस्याशु गुल्मेन यस्य वह्निमन्अर्चिषम् ॥ ४३ ॥ जुह्वतो घृतसिक्तस्य नग्नस्योरसि जायते । पद्मं स नश्येत्कुष्ठेन चण्डालैः सह यः पिबेत् ॥ ४४ ॥ स्नेहं बहुविधं स्वप्ने स प्रमेहेण नश्यति । उन्मादेन जले मज्जेद्यो नृत्यन् राक्षसैः सह ॥ ४५ ॥ अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते । यानं खरोष्ट्रमार्जारकपिशार्दूलशूकरैः ॥ ४६ ॥ यस्य प्रेतैः शृगालैर्वा स मृत्योर्वर्तते मुखे । अपूपशष्कुलीर्जग्ध्वा विबुद्धस्तद्विधं वमन् ॥ ४७ ॥ न जीवत्यक्षिरोगाय सूर्येन्दुग्रहणेक्षणम् । सूर्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम् ॥ ४८ ॥ मूर्ध्नि वंशलतादीनां संभवो वयसां तथा । निलयो मुण्डता काकगृध्राद्यैः परिवारणम् ॥ ४९ ॥ तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः । सङ्गो वेत्रलतावंशतृणकण्टकसंकटे ॥ ५० ॥ श्वभ्रश्मशानशयनं पतनं पांसुभस्मनोः । मज्जनं जलपङ्कादौ शीघ्रेण स्रोतसा हृतिः ॥ ५१ ॥ नृत्यवादित्रगीतानि रक्तस्रग्वस्त्रधारणम् । वयोऽङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म च ॥ ५२ ॥ पक्वान्नस्नेहमद्याशः प्रच्छर्दनविरेचने । हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ ॥ ५३ ॥ ६.५३ व् प्रच्छर्दनविरेचनम् उपानद्युगनाशश्च प्रपातः पादचर्मणोः । हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम् ॥ ५४ ॥ प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषाम् । पतनं वा विनाशो वा भेदनं पर्वतस्य च ॥ ५५ ॥ ६.५५ व् भेदनं पर्वतस्य वा कानने रक्तकुसुमे पापकर्मनिवेशने । चितान्धकारसंबाधे जनन्यां च प्रवेशनम् ॥ ५६ ॥ ६.५६ च् चिन्तान्धकारसंबाधे पातः प्रासादशैलादेर्मत्स्येन ग्रसनं तथा । काषायिणामसौम्यानां नग्नानां दण्डधारिणाम् ॥ ५७ ॥ रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते । कृष्णा पापाननाचारा दीर्घकेशनखस्तनी ॥ ५८ ॥ विरागमाल्यवसना स्वप्ने कालनिशा मता । मनोवहानां पूर्णत्वात्स्रोतसां प्रबलैर्मलैः ॥ ५९ ॥ दृश्यन्ते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम् । अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते ॥ ६० ॥ दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा । भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः ॥ ६१ ॥ ६.६१ व् स्वप्नः सप्तविधः स्मृतः तेष्वाद्या निष्फलाः पञ्च यथास्वप्रकृतिर्दिवा । विस्मृतो दीर्घह्रस्वोऽति पूर्वरात्रे चिरात्फलम् ॥ ६२ ॥ ६.६२ व् यथास्वं प्रकृतिर्दिवा ६.६२ व् विस्मृतो दीर्घह्रस्वोऽपि ६.६२ व् विस्मृतो दीर्घह्रस्वो वा दृष्टः करोति तुच्छं च गोसर्गे तद्अहर्महत् । निद्रया वान्उपहतः प्रतीपैर्वचनैस्तथा ॥ ६३ ॥ ६.६३ व् दृष्टः करोति तुच्छं वा ६.६३ व् निद्रया चान्उपहतः याति पापोऽल्पफलतां दानहोमजपादिभिः । अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ॥ ६४ ॥ ६.६४ व् याति पापोऽप्यफलतां पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत् । देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान् ॥ ६५ ॥ साधून् यशस्विनो वह्निमिद्धं स्वच्छान् जलाशयान् । कन्याः कुमारकान् गौरान् शुक्लवस्त्रान् सुतेजसः ॥ ६६ ॥ ६.६६ व् कन्यां कुमारकान् गौरान् नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम् । यः पश्येल्लभते यो वा छत्त्रादर्शविषामिषम् ॥ ६७ ॥ ६.६७ व् नराशनं दीप्ततनुः ६.६७ व् समन्ताद्रुधिरोक्षितः शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् । शैलप्रासादसफलवृक्षसिंहनरद्विपान् ॥ ६८ ॥ आरोहेद्गोऽश्वयानं च तरेन्नदह्रदोदधीन् । पूर्वोत्तरेण गमनमगम्यागमनं मृतम् ॥ ६९ ॥ ६.६९ व् तरेन्नदमहोदधीन् संबाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम् । रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ ७० ॥ ६.७० व् संकटान्निःसृतिर्देवैः ६.७० व् द्विषतां चापमर्दनम् यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते । मङ्गलाचारसंपन्नः परिवारस्तथातुरः ॥ ७१ ॥ ६.७१ व् वित्तं स बहुशोऽश्नुते श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः । सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु ॥ ७२ ॥ चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम् । इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम् ॥ ७३ ॥ शरीरस्य ततः स्थानं शारीरमिदमुच्यते ॥ ७३ªअब् ॥ णिदानस्थान रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयः । यक्ष्मातङ्कगदाबाधाः शब्दाः पर्यायवाचिनः ॥ १ ॥ निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ २ ॥ निमित्तहेत्व्आयतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ ३ ॥ उत्पित्सुरामयो दोषविशेषेणान्अधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥ ४ ॥ तदेव व्यक्ततां यातं रूपमित्यभिधीयते । संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥ ५ ॥ हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् । औषधान्नविहाराणामुपयोगं सुखावहम् ॥ ६ ॥ विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः । विपरीतोऽन्उपशयो व्याध्य्असात्म्याभिसंज्ञितः ॥ ७ ॥ यथादुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः ॥ ८ ॥ संख्याविकल्पप्राधान्यबलकालविशेषतः । सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥ ९ ॥ दोषाणां समवेतानां विकल्पोऽंशांशकल्पना । स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥ १० ॥ हेत्व्आदिकार्त्स्न्यावयवैर्बलाबलविशेषणम् । नक्तन्दिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् ॥ ११ ॥ इति प्रोक्तो निदानार्थस्तं व्यासेनोपदेक्ष्यति । सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ १२ ॥ १.१२ व् इति प्रोक्तो निदानार्थः १.१२ व् तं व्यासेनोपदेक्ष्यते १.१२ व् तं व्यासेनोपदिश्यते १.१२ व् स व्यासेनोपदेक्ष्यति १.१२ व् स व्यासेनोपदेक्ष्यते १.१२ व् स व्यासेनोपदिश्यते तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् । अहितं त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ १३ ॥ १.१३ व् अहितस्त्रिविधो योगस् तिक्तोषणकषायाल्परूक्षप्रमितभोजनैः । धारणोदीरणनिशाजागरात्य्उच्चभाषणैः ॥ १४ ॥ क्रियातियोगभीशोकचिन्ताव्यायाममैथुनैः । ग्रीष्माहोरात्रिभुक्तान्ते प्रकुप्यति समीरणः ॥ १५ ॥ पित्तं कट्व्अम्लतीक्ष्णोष्णपटुक्रोधविदाहिभिः । शरन्मध्याह्नरात्र्य्अर्धविदाहसमयेषु च ॥ १६ ॥ १.१६ व् निदाघसमयेषु च स्वाद्व्अम्ललवणस्निग्धगुर्व्अभिष्यन्दिशीतलैः । आस्यास्वप्नसुखाजीर्णदिवास्वप्नातिबृंहणैः ॥ १७ ॥ १.१७ व् अतिस्वप्नसुखाजीर्ण प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः । पूर्वाह्णे पूर्वरात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥ १८ ॥ मिश्रीभावात्समस्तानां संनिपातस्तथा पुनः । संकीर्णाजीर्णविषमविरुद्धाध्यशनादिभिः ॥ १९ ॥ व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः । पिण्याकमृद्यवसुरापूतिशुष्ककृशामिषैः ॥ २० ॥ दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्तनात् । ऋतोर्दुष्टात्पुरोवाताद्ग्रहावेशाद्विषाद्गरात् ॥ २१ ॥ १.२१ व् तथान्नपरिवर्ततः १.२१ व् तथान्नपरिवृत्तितः दुष्टान्नात्पर्वताश्लेषाद्ग्रहैर्जन्मर्क्षपीडनात् । मिथ्यायोगाच्च विविधात्पापानां च निषेवणात् ॥ २२ ॥ १.२२ व् दुष्टामात्पर्वताश्लेषाद् स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः । प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः ॥ २३ ॥ रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥ २३ªअब् ॥ णिदानस्थान ज्वरो रोगपतिः पाप्मा मृत्युरोजोऽशनोऽन्तकः । क्रोधो दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भवः ॥ १ ॥ २.१ व् मृत्युस्तेजोऽशनोऽन्तकः जन्मान्तयोर्मोहमयः संतापात्मापचारजः । विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ २ ॥ स जायतेऽष्टधा दोषैः पृथङ्मिश्रैः समागतैः । आगन्तुश्च मलास्तत्र स्वैः स्वैर्दुष्टाः प्रदूषणैः ॥ ३ ॥ आमाशयं प्रविश्याममनुगम्य पिधाय च । स्रोतांसि पक्तिस्थानाच्च निरस्य ज्वलनं बहिः ॥ ४ ॥ सह तेनाभिसर्पन्तस्तपन्तः सकलं वपुः । कुर्वन्तो गात्रमत्य्उष्णं ज्वरं निर्वर्तयन्ति ते ॥ ५ ॥ २.५ व् कुर्वन्तो गात्रमाशुष्कं स्रोतोविबन्धात्प्रायेण ततः स्वेदो न जायते । तस्य प्राग्रूपमालस्यमरतिर्गात्रगौरवम् ॥ ६ ॥ आस्यवैरस्यमरुचिजृम्भा सास्राकुलाक्षिता । अङ्गमर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता ॥ ७ ॥ २.७ व् जृम्भा सास्राकुलाक्षता रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः । हितोपदेशेष्वक्षान्तिः प्रीतिरम्लपटूषणे ॥ ८ ॥ द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड्भृशम् । शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः ॥ ९ ॥ इच्छा द्वेषश्च तदनु ज्वरस्य व्यक्तता भवेत् । आगमापगमक्षोभमृदुतावेदनोष्मणाम् ॥ १० ॥ वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः । पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं शमः ॥ ११ ॥ २.११ व् पिण्डिकोद्वेष्टनं क्लमः विश्लेष इव संधीनां साद ऊर्वोः कटीग्रहः । पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम् ॥ १२ ॥ छिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः । हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः ॥ १३ ॥ स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः । अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः ॥ १४ ॥ निस्तोदः शङ्खयोर्मूर्ध्नि वेदना विरसास्यता । कषायास्यत्वमथवा मलानामप्रवर्तनम् ॥ १५ ॥ रूक्षारुणत्वग्आस्याक्षिनखमूत्रपुरीषता । प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः ॥ १६ ॥ कण्ठौष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता । हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः ॥ १७ ॥ २.१७ व् श्वयथुः क्षवथोर्ग्रहः भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे । युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता ॥ १८ ॥ नासास्यपाकः शीतेच्छा भ्रमो मूर्छा मदोऽरतिः । विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः ॥ १९ ॥ रक्तकोठोद्गमः पीतहरितत्वं त्वग्आदिषु । स्वेदो निःश्वासवैगन्ध्यमतितृष्णा च पित्तजे ॥ २० ॥ विशेषादरुचिर्जाड्यं स्रोतोरोधोऽल्पवेगता । प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः ॥ २१ ॥ हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वग्आदिषु । अङ्गेषु शीतपिटिकास्तन्द्रोदर्दः कफोद्भवे ॥ २२ ॥ काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा ॥ २३ ब् ॥ निदानोक्तान्उपशयो विपरीतोपशायिता ॥ २३ द् ॥ यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजोऽपि च ॥ २३ f ॥ शिरोऽर्तिमूर्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः । उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात्सपित्तात् ॥ २४ ॥ तापहान्य्अरुचिपर्वशिरोरुक्पीनसश्वसनकासविबन्धाः । शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम् ॥ २५ ॥ शीतस्तम्भस्वेददाहाव्यवस्था तृष्णाकासश्लेष्मपित्तप्रवृत्तिः । मोहस्तन्द्रा लिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥ २६ ॥ २.२६ व् तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः । तद्वच्छीतं महानिद्रा दिवा जागरणं निशि ॥ २७ ॥ सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा । गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम् ॥ २८ ॥ २.२८ व् महान् स्वेदोऽति नैव वा साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिकापार्श्वमूर्धपर्वास्थिरुग्भ्रमः ॥ २९ ॥ सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवाचितः । परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसंधिता ॥ ३० ॥ २.३० व् गुरुः स्रस्ताङ्गसंधिता रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतिरुक् । कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥ ३१ ॥ २.३१ व् लोलनं शिरसोऽतितृट् हृद्व्यथा मलसंसङ्गः प्रवृत्तिर्वाल्पशोऽति वा । स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता ॥ ३२ ॥ २.३२ व् हृद्व्यथा मलसंसर्गः दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् । संनिपातमभिन्यासं तं ब्रूयाच्च हृतौजसम् ॥ ३३ ॥ २.३३ व् तं ब्रूयाच्च हतौजसम् वायुना कफरुद्धेन पित्तमन्तः प्रपीडितम् । व्यवायित्वाच्च सूक्ष्मत्वाद्बहिर्मार्गं प्रवर्तते ॥ ३३+१ ॥ तेन हारिद्रनेत्रत्वं संनिपातोद्भवे ज्वरे ॥ ३३+२ ब् ॥ दोषे विबद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः । असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा ॥ ३४ ॥ अन्यच्च संनिपातोत्थो यत्र पित्तं पृथक्स्थितम् । त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा ॥ ३५ ॥ २.३५ व् अन्यश्च संनिपातोत्थो तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः । शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते ॥ ३६ ॥ शीते शान्तेऽम्लको मूर्छा मदस्तृष्णा च जायते । दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः ॥ ३७ ॥ आगन्तुरभिघाताभिषङ्गशापाभिचारतः । चतुर्धात्र क्षतच्छेददाहाद्यैरभिघातजः ॥ ३८ ॥ श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् । सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥ ३९ ॥ ग्रहावेशौषधिविषक्रोधभीशोककामजः । अभिषङ्गाद्ग्रहेणास्मिन्नकस्माद्धासरोदने ॥ ४० ॥ ओषधिगन्धजे मूर्छा शिरोरुग्वमथुः क्षवः । विषान्मूर्छातिसारास्यश्यावतादाहहृद्गदाः ॥ ४१ ॥ २.४१ व् शिरोरुक्श्वयथुः क्षवः २.४१ व् शिरोरुग्वेपथुः क्षवः २.४१ व् श्यावतादाहहृद्ग्रहाः क्रोधात्कम्पः शिरोरुक्च प्रलापो भयशोकजे । कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयः ॥ ४२ ॥ २.४२ व् भीनिद्राधीधृतिक्षयः ग्रहादौ संनिपातस्य भयादौ मरुतस्त्रये । कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ ॥ ४३ ॥ २.४३ व् कोपः कोपे तु पित्तस्य २.४३ व् कोपः क्रोधे तु पित्तस्य संनिपातज्वरौ घोरौ तावसह्यतमौ मतौ । तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते ॥ ४४ ॥ २.४४ व् तावसाध्यतमौ मतौ पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः । सदाहमूर्छैर्ग्रस्तस्य प्रत्य्अहं वर्धते ज्वरः ॥ ४५ ॥ इति ज्वरोऽष्टधा दृष्टः समासाद्विविधस्तु सः । शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्बहिर्आश्रयः ॥ ४६ ॥ प्राकृतो वैकृतः साध्योऽसाध्यः सामो निर्आमकः । पूर्वं शरीरे शारीरे तापो मनसि मानसे ॥ ४७ ॥ पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् । दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः ॥ ४८ ॥ ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः । बहिरेव बहिर्वेगे तापोऽपि च सुसाध्यता ॥ ४९ ॥ वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् । वैकृतोऽन्यः स दुःसाध्यः प्रायश्च प्राकृतोऽनिलात् ॥ ५० ॥ वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् । कुर्यात्पित्तं च शरदि तस्य चानुबलं कफः ॥ ५१ ॥ २.५१ व् तस्य चानुबलः कफः तत्प्रकृत्या विसर्गाच्च तत्र नान्अशनाद्भयम् । कफो वसन्ते तमपि वातपित्तं भवेदनु ॥ ५२ ॥ २.५२ व् तत्प्रकृत्या विसर्गस्य बलवत्स्वल्पदोषेषु ज्वरः साध्योऽन्उपद्रवः । सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ॥ ५३ ॥ ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता । न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः ॥ ५४ ॥ ज्वरवेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः । मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥ ५५ ॥ २.५५ व् ज्वरवेगोऽधिकस्तृष्णा जीर्णतामविपर्यासात्सप्तरात्रं च लङ्घनात् । ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात् ॥ ५६ ॥ प्रायशः संनिपातेन भूयसा तूपदिश्यते । संततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ॥ ५७ ॥ २.५७ व् प्रायः स संनिपातेन धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः । तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्धिताः ॥ ५८ ॥ बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः । संततं निष्प्रतिद्वन्द्वा ज्वरं कुर्युः सुदुःसहम् ॥ ५९ ॥ मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत्ततः । सर्वाकारं रसादीनां शुद्ध्याशुद्ध्यापि वा क्रमात् ॥ ६० ॥ २.६० व् मलाञ्ज्वरोष्मा धातून् वा वातपित्तकफैः सप्त दश द्वादश वासरान् । प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च ॥ ६१ ॥ २.६१ व् विमोक्षाय वधाय वा इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः । द्विगुणा सप्तमी यावन्नवम्येकादशी तथा ॥ ६२ ॥ एषा त्रिदोषमर्यादा मोक्षाय च वधाय च । शुद्ध्य्अशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते ॥ ६३ ॥ २.६३ व् शुद्ध्य्अशुद्ध्योर्ज्वरः कालं कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम् । अल्पोऽपि दोषो दूष्यादेर्लब्ध्वान्यतमतो बलम् ॥ ६४ ॥ सविपक्षो ज्वरं कुर्याद्विषमं क्षयवृद्धिभाक् । दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली ॥ ६५ ॥ २.६५ व् स्वकाले ज्वरयन् बली निवर्तते पुनश्चैष प्रत्य्अनीकबलाबलः । क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥ ६६ ॥ लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनादधाति सः । आसन्नविवृतास्यत्वात्स्रोतसां रसवाहिनाम् ॥ ६७ ॥ आशु सर्वस्य वपुषो व्याप्तिर्दोषेण जायते । संततः सततस्तेन विपरीतो विपर्ययात् ॥ ६८ ॥ विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान् । दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम् ॥ ६९ ॥ अहोरात्रस्य स द्विः स्यात्सकृदन्येद्युराश्रितः । तस्मिन्मांसवहा नाडीर्मेदोनाडीस्तृतीयके ॥ ७० ॥ २.७० व् अस्मिन्मांसवहा नाडीर् ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः । सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥ ७१ ॥ २.७१ व् स वैकाहान्तरः स्मृतः चतुर्थको मले मेदोमज्जास्थ्य्अन्यतमस्थिते । मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत् ॥ ७२ ॥ द्विधा कफेन जङ्घाभ्यां स पूर्वं शिरसोऽनिलात् । अस्थिमज्जोभयगते चतुर्थकविपर्ययः ॥ ७३ ॥ २.७३ व् चातुर्थिकविपर्ययः त्रिधा द्व्य्अहं ज्वरयति दिनमेकं तु मुञ्चति । बलाबलेन दोषाणामन्नचेष्टादिजन्मना ॥ ७४ ॥ २.७४ व् त्र्य्अहाद्द्व्य्अहं ज्वरयति २.७४ व् दिनमेकं विमुञ्चति ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा । दोषदूष्यर्त्व्अहोरात्रप्रभृतीनां बलाज्ज्वरः ॥ ७५ ॥ मनसो विषयाणां च कालं तं तं प्रपद्यते । धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते ॥ ७६ ॥ ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते । वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः ॥ ७७ ॥ विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते । सदोषशब्दं च शकृद्द्रवं सृजति वेगवत् ॥ ७८ ॥ देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् । स्वेदः क्षवः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥ ७९ ॥ णिदानस्थान भृशोष्णतीक्ष्णकट्व्अम्ललवणादिविदाहिभिः । कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः ॥ १ ॥ कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते । ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम् ॥ २ ॥ पित्तं रक्तस्य विकृतेः संसर्गाद्दूषणादपि । गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते ॥ ३ ॥ ३.३ व् पित्तं रक्तस्य विकृतिः प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च तत् । शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः ॥ ४ ॥ छर्दिश्छर्दितबैभत्स्यं कासः श्वासो भ्रमः क्लमः । लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः ॥ ५ ॥ रक्तहारिद्रहरितवर्णता नयनादिषु । नीललोहितपीतानां वर्णानामविवेचनम् ॥ ६ ॥ स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति । ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ॥ ७ ॥ कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते । ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम् ॥ ८ ॥ बह्व्औषधं च पित्तस्य विरेको हि वरौषधम् । अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् ॥ ९ ॥ कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः । किमु तिक्ताः कषाया वा ये निसर्गात्कफापहाः ॥ १० ॥ अधो याप्यं चलाद्यस्मात्तत्प्रच्छर्दनसाधनम् । अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥ ११ ॥ अनुबन्धी चलो यश्च शान्तयेऽपि न तस्य तत् । कषायाश्च हितास्तस्य मधुरा एव केवलम् ॥ १२ ॥ कफमारुतसंसृष्टमसाध्यमुभयायनम् । अशक्यप्रातिलोम्यत्वादभावादौषधस्य च ॥ १३ ॥ न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमगम् । शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम् ॥ १४ ॥ ३.१४ व् अस्त्यस्य प्रतिलोमनम् ३.१४ व् अस्त्यस्य प्रतिलोमकम् एवमेवोपशमनं सर्वशो नास्य विद्यते । संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम् ॥ १५ ॥ तत्र दोषानुगमनं सिरास्र इव लक्षयेत् । उपद्रवांश्च विकृतिज्ञानतस्तेषु चाधिकम् ॥ १६ ॥ आशुकारी यतः कासस्तमेवातः प्रवक्ष्यति । पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥ १७ ॥ ३.१७ व् तमेवातः प्रचक्ष्यते ३.१७ व् तमेवातः प्रचक्षते क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् । तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥ १८ ॥ ३.१८ व् बलिनश्च यथोत्तरम् शूकपूर्णाभकण्ठत्वं तत्राधो विहतोऽनिलः । ऊर्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे च संसजन् ॥ १९ ॥ शिरःस्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्निव । क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे च पीडयन् ॥ २० ॥ प्रवर्तते स वक्त्रेण भिन्नकांस्योपमध्वनिः । हेतुभेदात्प्रतीघातभेदो वायोः सरंहसः ॥ २१ ॥ यद्रुजाशब्दवैषम्यं कासानां जायते ततः । कुपितो वातलैर्वातः शुष्कोरःकण्ठवक्त्रताम् ॥ २२ ॥ ३.२२ व् कुपितो वातलैर्वायुः हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् । करोति शुष्कं कासं च महावेगरुजास्वनम् ॥ २३ ॥ ३.२३ व् करोति शुष्ककासं च सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् । पित्तात्पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः ॥ २४ ॥ पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमकोऽम्लकः । प्रततं कासवेगेन ज्योतिषामिव दर्शनम् ॥ २५ ॥ ३.२५ व् वैस्वर्यं धूमको मदः कफादुरोऽल्परुङ्मूर्धहृदयं स्तिमितं गुरु । कण्ठोपलेपः सदनं पीनसच्छर्द्य्अरोचकाः ॥ २६ ॥ ३.२६ व् कण्ठास्यलेपः सदनं रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम् । युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ॥ २७ ॥ उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली । कुपितः कुरुते कासं कफं तेन सशोणितम् ॥ २८ ॥ पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु । ष्ठीवेत्कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ २९ ॥ ३.२९ व् पीतं श्यामं च शुष्कं च सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना । पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥ ३० ॥ पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च । क्रमाद्वीर्यं रुचिः पक्ता बलं वर्णश्च हीयते ॥ ३१ ॥ क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः । वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः ॥ ३२ ॥ कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत्कफं ततः । पूतिपूयोपमं पीतं विस्रं हरितलोहितम् ॥ ३३ ॥ लुच्येते इव पार्श्वे च हृदयं पततीव च । अकस्मादुष्णशीतेच्छा बह्व्आशित्वं बलक्षयः ॥ ३४ ॥ ३.३४ व् लुप्येते इव पार्श्वे च स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता । ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥ ३५ ॥ ३.३५ व् श्रीमद्दशननेत्रता इत्येष क्षयजः कासः क्षीणानां देहनाशनः । याप्यो वा बलिनां तद्वत्क्षतजोऽभिनवौ तु तौ ॥ ३६ ॥ सिध्येतामपि सानाथ्यात्साध्या दोषैः पृथक्त्रयः । मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च ॥ ३७ ॥ ३.३७ व् सिध्येतामपि सामर्थ्यात् कासाच्छ्वासक्षयच्छर्दिस्वरसादादयो गदाः । भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत् ॥ ३८ ॥ णिदानस्थान कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः । आमातीसारवमथुविषपाण्डुज्वरैरपि ॥ १ ॥ रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना । क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः ॥ २ ॥ कफोपरुद्धगमनः पवनो विष्वग्आस्थितः । प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन् ॥ ३ ॥ उरःस्थः कुरुते श्वासमामाशयसमुद्भवम् । प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ॥ ४ ॥ आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः । प्रेरितः प्रेरयेत्क्षुद्रं स्वयं संशमनं मरुत् ॥ ५ ॥ प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम् । परिगृह्य शिरोग्रीवमुरः पार्श्वे च पीडयन् ॥ ६ ॥ कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम् । करोति तीव्रवेगं च श्वासं प्राणोपतापिनम् ॥ ७ ॥ प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी । कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमृच्छति ॥ ८ ॥ उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् । विशुष्कास्यो मुहुःश्वासी काङ्क्षत्युष्णं सवेपथुः ॥ ९ ॥ मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते । स याप्यस्तमको साध्यो नवो वा बलिनो भवेत् ॥ १० ॥ ज्वरमूर्छायुतः शीतैः शाम्येत्प्रतमकस्तु सः । छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः ॥ ११ ॥ सस्वेदमूर्छः सानाहो वस्तिदाहनिरोधवान् । अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः ॥ १२ ॥ शुष्कास्यः प्रलपन् दीनो नष्टच्छायो विचेतनः । महता महता दीनो नादेन श्वसिति क्रथन् ॥ १३ ॥ ४.१३ व् महतो महता दीनो उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् । प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ॥ १४ ॥ वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक् । शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरोऽतिरुक् ॥ १५ ॥ दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः । श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ॥ १६ ॥ ऊर्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन् । मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् ॥ १७ ॥ एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम् । श्वासैकहेतुप्राग्रूपसंख्याप्रकृतिसंश्रयाः ॥ १८ ॥ ४.१८ व् संख्याप्रकृतिसंश्रया हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च । गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ॥ १९ ॥ रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः । करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम् ॥ २० ॥ शमं सात्म्यान्नपानेन या प्रयाति च सान्नजा । आयासात्पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत् ॥ २१ ॥ ४.२१ व् आयासात्पवनः क्रुद्धः जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा । वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम् ॥ २२ ॥ चिरेण यमलैर्वेगैराहारे या प्रवर्तते । परिणामोन्मुखे वृद्धिं परिणामे च गच्छति ॥ २३ ॥ कम्पयन्ती शिरोग्रीवमाध्मातस्यातितृष्यतः । प्रलापच्छर्द्य्अतीसारनेत्रविप्लुतिजृम्भिणः ॥ २४ ॥ ४.२४ व् कम्पयन्ती शिरोग्रीवाम् यमला वेगिनी हिध्मा परिणामवती च सा । स्तब्धभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः ॥ २५ ॥ ४.२५ व् ध्वस्तभ्रूशङ्खयुग्मस्य ४.२५ व् साश्रुविप्लुतचक्षुषः स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती । रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम् ॥ २६ ॥ पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते । महामूला महाशब्दा महावेगा महाबला ॥ २७ ॥ पक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते । तद्रूपा सा मुहुः कुर्याज्जृम्भामङ्गप्रसारणम् ॥ २८ ॥ गम्भीरेणानुनादेन गम्भीरा तासु साधयेत् । आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम् ॥ २९ ॥ सर्वाश्च संचितामस्य स्थविरस्य व्यवायिनः । व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा ॥ ३० ॥ सर्वेऽपि रोगा नाशाय न त्वेवं शीघ्रकारिणः । हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥ ३१ ॥ णिदानस्थान अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ १ ॥ नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥ २ ॥ देहौषधक्षयकृतेः क्षयस्तत्संभवाच्च सः । रसादिशोषणाच्छोषो रोगराट्तेषु राजनात् ॥ ३ ॥ ५.३ व् रोगराट्रोगराजनात् साहसं वेगसंरोधः शुक्रौजःस्नेहसंक्षयः । अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः ॥ ४ ॥ तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः । शरीरसंधीनाविश्य तान् सिराश्च प्रपीडयन् ॥ ५ ॥ मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा । सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेद्गदान् ॥ ६ ॥ रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः । प्रसेको मुखमाधुर्यं सदनं वह्निदेहयोः ॥ ७ ॥ स्थाल्य्अमत्रान्नपानादौ शुचावप्यशुचीक्षणम् । मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः ॥ ८ ॥ हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः । पाण्योरवेक्षा पादास्यशोफोऽक्ष्णोरतिशुक्लता ॥ ९ ॥ बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम् । स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम् ॥ १० ॥ नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत् । पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः ॥ ११ ॥ ५.११ व् कपिश्वापदपत्त्रिभिः केशास्थितुषभस्मादिराशौ समधिरोहणम् । शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसो ॥ १२ ॥ ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम् । पीनसश्वासकासांसमूर्धस्वररुजोऽरुचिः ॥ १३ ॥ ऊर्ध्वं विड्भ्रंशसंशोषावधश्छर्दिश्च कोष्ठगे । तिर्यक्स्थे पार्श्वरुग्दोषे संधिगे भवति ज्वरः ॥ १४ ॥ ५.१४ व् ऊर्ध्वं विट्स्रंससंशोषाव् ५.१४ व् अधश्छर्दिस्तु कोष्ठगे रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः । तेषामुपद्रवान् विद्यात्कण्ठोद्ध्वंसमुरोरुजम् ॥ १५ ॥ जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः । तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम् ॥ १६ ॥ कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात्पादांसपाणिषु । दाहोऽतीसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः ॥ १७ ॥ कफादरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम् । प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता ॥ १८ ॥ ५.१८ व् स्वरभेदोऽल्पवह्निता दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः । स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च ॥ १९ ॥ विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान् । कुर्यादगच्छन्मांसादीनसृक्चोर्ध्वं प्रधावति ॥ २० ॥ पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत् । प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये ॥ २१ ॥ रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु । उपस्तब्धः स शकृता केवलं वर्तते क्षयी ॥ २२ ॥ ५.२२ व् उपष्टब्धः स शकृता लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्य्औषधबलाक्षमम् । वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा ॥ २३ ॥ ५.२३ व् वर्जयेत्साधयेदेवं क्षीणमांसबलं जह्यात्पूर्वलिङ्गैरुपद्रुतम् । प्रत्याख्याय नरं चाशु द्रव्यवन्तमुपाचरेत् ॥ २३+१ ॥ दोषैर्व्यस्तैः समस्तैश्च क्षयात्षष्ठश्च मेदसा । स्वरभेदो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः ॥ २४ ॥ ५.२४ व् क्षयात्षष्ठश्च मेदसः शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात् । पित्तात्तालुगले दाहः शोष उक्तावसूयनम् ॥ २५ ॥ लिम्पन्निव कफात्कण्ठं मन्दः खुरखुरायते । स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात्कषेत् ॥ २६ ॥ धूमायतीव चात्य्अर्थं मेदसा श्लेष्मलक्षणः । कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत् ॥ २७ ॥ अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः । संनिपातेन मनसः संतापेन च पञ्चमः ॥ २८ ॥ ५.२८ व् जिह्वाहृदयसंश्रितैः कषायतिक्तमधुरं वातादिषु मुखं क्रमात् । सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम् ॥ २९ ॥ छर्दिर्दोषैः पृथक्सर्वैर्द्विष्टैरर्थैश्च पञ्चमी । उदानो विकृतो दोषान् सर्वास्वप्यूर्ध्वमस्यति ॥ ३० ॥ तासूत्क्लेशास्यलावण्यप्रसेकारुचयोऽग्रगाः । नाभिपृष्ठं रुजन् वायुः पार्श्वे चाहारमुत्क्षिपेत् ॥ ३१ ॥ ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत् । शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत् ॥ ३२ ॥ कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः । पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम् ॥ ३३ ॥ सासृगम्लं कटूष्णं च तृण्मूर्छातापदाहवत् । कफात्स्निग्धं घनं शीतं श्लेष्मतन्तुगवाक्षितम् ॥ ३४ ॥ ५.३४ व् तृण्मूर्छातापदाहवान् मधुरं लवणं भूरि प्रसक्तं रोमहर्षणम् । मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् ॥ ३५ ॥ सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत् । पूत्य्अमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः ॥ ३६ ॥ तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा । वातादीनेव विमृशेत्कृमितृणामदौर्हृदे ॥ ३७ ॥ शूलवेपथुहृल्लासैर्विशेषात्कृमिजां वदेत् । कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गदाः ॥ ३८ ॥ तेषां गुल्मनिदानोक्तैः समुत्थानैश्च संभवः । वातेन शूल्यतेऽत्य्अर्थं तुद्यते स्फुटतीव च ॥ ३९ ॥ ५.३९ व् समुत्थानैः समुद्भवः भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः । अकस्माद्दीनता शोको भयं शब्दासहिष्णुता ॥ ४० ॥ ५.४० व् हृदयं शून्यताद्रवम् वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता । पित्तात्तृष्णा भ्रमो मूर्छा दाहः स्वेदोऽम्लकः क्लमः ॥ ४१ ॥ छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः । श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् ॥ ४२ ॥ ५.४२ व् तमकः पीतता ज्वरः कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः । सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता ॥ ४३ ॥ ५.४३ व् सर्वलिङ्गं त्रिभिर्दोषैः तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः । हृदयं प्रततं चात्र क्रकचेनेव दार्यते ॥ ४४ ॥ चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम् । वातात्पित्तात्कफात्तृष्णा संनिपाताद्रसक्षयात् ॥ ४५ ॥ षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम् । सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात् ॥ ४६ ॥ सर्वदेहभ्रमोत्कम्पतापतृड्दाहमोहकृत् । जिह्वामूलगलक्लोमतालुतोयवहाः सिराः ॥ ४७ ॥ संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् । मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः ॥ ४८ ॥ कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः । प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथामयाः ॥ ४९ ॥ मारुतात्क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः । गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ॥ ५० ॥ ५.५० व् गन्धाज्ञानास्यवैरस्यं ५.५० व् श्रुतिनिद्राबलक्षयः ५.५० व् श्रुतिनिद्राबलक्षयः शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्छास्यतिक्तता । रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः ॥ ५१ ॥ कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम् । स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः ॥ ५२ ॥ शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता । आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्य्अरोचकाः ॥ ५३ ॥ आलस्यमविपाकश्च सर्वैः स्यात्सर्वलक्षणा । आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा ॥ ५४ ॥ उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम् । ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात्पित्तजैव सा ॥ ५५ ॥ या च पानातिपानोत्था तीक्ष्णाग्नेः स्नेहजा च या । स्निग्धगुर्व्अम्ललवणभोजनेन कफोद्भवा ॥ ५६ ॥ ५.५६ व् तीक्ष्णाग्निस्नेहजा च या तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका । शोषमेहज्वराद्य्अन्यदीर्घरोगोपसर्गतः ॥ ५७ ॥ ५.५७ व् शोषमोहज्वराद्य्अन्य या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ ५७ªअब् ॥ णिदानस्थान तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु । विकाषि विशदं मद्यमोजसोऽस्माद्विपर्ययः ॥ १ ॥ ६.१ व् तीक्ष्णोष्णरूक्षसूक्ष्माम्ल ६.१ व् व्यवाय्याशुकरं लघु ६.१ व् विकाशि विशदं मद्यम् तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः । जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥ २ ॥ तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान् । दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम् ॥ ३ ॥ आद्ये मदे द्वितीये तु प्रमादायतने स्थितः । दुर्विकल्पहतो मूढः सुखमित्यधिमुच्यते ॥ ४ ॥ ६.४ व् आद्ये मदे द्वितीये च ६.४ व् आद्ये मदे द्वितीये स ६.४ व् सुखमित्य् अभिमुच्यते ६.४ व् सुखमित्यभिमन्यते ६.४ व् सुखमित्यवमन्यते मध्यमोत्तमयोः संधिं प्राप्य राजसतामसः । निर्अङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥ ५ ॥ ६.५ व् न किं किं वाचरेज्जडः इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम् । एकोऽयं बहुमार्गाय दुर्गतेर्देशिकः परम् ॥ ६ ॥ ६.६ व् इयं भूमिरविद्यानां निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः । मरणादपि पापात्मा गतः पापतरां दशाम् ॥ ७ ॥ धर्माधर्मं सुखं दुःखमर्थान्अर्थं हिताहितम् । यदासक्तो न जानाति कथं तच्छीलयेद्बुधः ॥ ८ ॥ मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः । सोन्मादमदमूर्छायाः सापस्मारापतानकाः ॥ ९ ॥ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत् । अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥ १० ॥ मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम् । नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥ ११ ॥ स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तद्अन्वयाः । मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः ॥ १२ ॥ विपर्ययेऽतिमाद्यन्ति विश्रब्धाः कुपिताश्च ये । मद्येन चाम्लरूक्षेण साजीर्णे बहुनाति च ॥ १३ ॥ ६.१३ व् साजीर्णे बहुनापि च वातात्पित्तात्कफात्सर्वैश्चत्वारः स्युर्मदात्ययाः । सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा ॥ १४ ॥ सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा । विड्भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरोऽरुचिः ॥ १५ ॥ ६.१५ व् प्रमोहो हृदये व्यथा शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः । उरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः ॥ १६ ॥ ६.१६ व् शिरःपार्श्वास्थिरुक्स्तम्भो स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः । प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम् ॥ १७ ॥ विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात् । स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते ॥ १८ ॥ पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः । देहो हरितहारिद्रो रक्तनेत्रकपोलता ॥ १९ ॥ श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम् । सर्वजे सर्वलिङ्गत्वं मुक्त्वा मद्यं पिबेत्तु यः ॥ २० ॥ ६.२० व् श्लेष्मणश्छर्दिहृल्लास सहसान्उचितं वान्यत्तस्य ध्वंसकविक्षयौ । भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः ॥ २१ ॥ ६.२१ व् सहसान्उचितं चान्यत् ६.२१ व् तस्य ध्वंसकविट्क्षयौ ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता । शब्दासहत्वं तन्द्रा च विक्षयेऽङ्गशिरोऽतिरुक् ॥ २२ ॥ ६.२२ व् विट्क्षयेऽङ्गशिरोऽतिरुक् हृत्कण्ठरोगः संमोहः कासस्तृष्णा वमिर्ज्वरः । निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥ २३ ॥ ६.२३ व् हृत्कण्ठरोधः संमोहः विकारैः स्पृश्यते जातु न स शारीरमानसैः । रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः ॥ २४ ॥ रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः । मदमूर्छायसंन्यासा यथोत्तरबलोत्तराः ॥ २५ ॥ मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि । सक्तान्अल्पद्रुताभाषश्चलः स्खलितचेष्टितः ॥ २६ ॥ रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत् । पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥ २७ ॥ ६.२७ व् मदे वातकृते भवेत् स्व्अल्पसंबद्धवाक्पाण्डुः कफाद्ध्यानपरोऽलसः । सर्वात्मा संनिपातेन रक्तात्स्तब्धाङ्गदृष्टिता ॥ २८ ॥ ६.२८ व् स्व्अल्पासंबद्धवाक्पाण्डुः पित्तलिङ्गं च मद्येन विकृतेहस्वराङ्गता । विषे कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकस्तु सः ॥ २९ ॥ ६.२९ व् विषात्कम्पोऽतिनिद्रा च ६.२९ व् सर्वेभ्योऽभ्यधिकश्च सः लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु । अरुणं कृष्णनीलं वा खं पश्यन् प्रविशेत्तमः ॥ ३० ॥ शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः । कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके ॥ ३१ ॥ ६.३१ व् कार्श्यं श्यावारुणच्छाये पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः । विबुध्येत च सस्वेदो दाहतृट्तापपीडितः ॥ ३२ ॥ भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः । कफेन मेघसंकाशं पश्यन्नाकाशमाविशेत् ॥ ३३ ॥ तमश्चिराच्च बुध्येत सहृल्लासः प्रसेकवान् । गुरुभिः स्तिमितैरङ्गैरार्द्रचर्मावनद्धवत् ॥ ३४ ॥ सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः । पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥ ३५ ॥ ६.३५ व् विना बैभत्स्यचेष्टितैः दोषेषु मदमूर्छायाः कृतवेगेषु देहिनाम् । स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना ॥ ३६ ॥ वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः । संन्यासं संनिपतिताः प्राणायतनसंश्रयाः ॥ ३७ ॥ कुर्वन्ति तेन पुरुषः काष्ठीभूतो मृतोपमः । म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥ ३८ ॥ ६.३८ व् काष्ठभूतो मृतोपमः अगाधे ग्राहबहुले सलिलौघ इवाटते । संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥ ३९ ॥ ६.३९ व् अभिन्यासे च मज्जन्तं मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः । युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन ॥ ४० ॥ बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि । प्रविभज्य तद्अनुरूपं यदि पिबति ततः पिबत्यमृतम् ॥ ४१ ॥ णिदानस्थान अरिवत्प्राणिनो मांसकीलका विशसन्ति यत् । अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधतः ॥ १ ॥ दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन् । मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः ॥ २ ॥ सहजन्मोत्तरोत्थानभेदाद्द्वेधा समासतः । शुष्कस्राविविभेदाच्च गुदः स्थूलान्त्रसंश्रयः ॥ ३ ॥ अर्धपञ्चाङ्गुलस्तस्मिंस्तिस्रोऽध्य्अर्धाङ्गुलाः स्थिताः । बल्यः प्रवाहिणी तासामन्तर्मध्ये विसर्जनी ॥ ४ ॥ बाह्या संवरणी तस्या गुदौष्ठो बहिरङ्गुले । यवाध्य्अर्धः प्रमाणेन रोमाण्यत्र ततः परम् ॥ ५ ॥ ७.५ व् बाह्या संवरणी तस्यां ७.५ व् यवाध्य्अर्धप्रमाणेन तत्र हेतुः सहोत्थानां वलीबीजोपतप्तता । अर्शसां बीजतप्तिस्तु मातापित्र्अपचारतः ॥ ६ ॥ ७.६ व् वलीबीजोपतप्तिता दैवाच्च ताभ्यां कोपो हि संनिपातस्य तान्यतः । असाध्यान्येवमाख्याताः सर्वे रोगाः कुलोद्भवाः ॥ ७ ॥ सहजानि विशेषेण रूक्षदुर्दर्शनानि च । अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥ ८ ॥ षोढान्यानि पृथग्दोषसंसर्गनिचयास्रतः । शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्रपित्ततः ॥ ९ ॥ दोषप्रकोपहेतुस्तु प्रागुक्तस्तेन सादिते । अग्नौ मलेऽतिनिचिते पुनश्चातिव्यवायतः ॥ १० ॥ यानसंक्षोभविषमकठिनोत्कटकासनात् । वस्तिनेत्राश्मलोष्टोर्वीतलचैलादिघट्टनात् ॥ ११ ॥ भृशं शीताम्बुसंस्पर्शात्प्रततातिप्रवाहणात् । वातमूत्रशकृद्वेगधारणात्तद्उदीरणात् ॥ १२ ॥ ज्वरगुल्मातिसारामग्रहणीशोफपाण्डुभिः । कर्शनाद्विषमाभ्यश्च चेष्टाभ्यो योषितां पुनः ॥ १३ ॥ आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात् । ईदृशैश्चापरैर्वायुरपानः कुपितो मलम् ॥ १४ ॥ पायोर्वलीषु तं धत्ते तास्वभिष्यण्णमूर्तिषु । जायन्तेऽर्शांसि तत्पूर्वलक्षणं मन्दवह्निता ॥ १५ ॥ ७.१५ व् पायुवलीषु तं धत्ते ७.१५ व् पायोर्वलीषु संधत्ते विष्टम्भः सक्थिसदनं पिण्डिकोद्वेष्टनं भ्रमः । सादोऽङ्गे नेत्रयोः शोफः शकृद्भेदोऽथवा ग्रहः ॥ १६ ॥ मारुतः प्रचुरो मूढः प्रायो नाभेरधश्चरन् । सरुक्सपरिकर्तश्च कृच्छ्रान्निर्गच्छति स्वनम् ॥ १७ ॥ अन्त्रकूजनमाटोपः क्षामतोद्गारभूरिता । प्रभूतं मूत्रमल्पा विडश्रद्धा धूमकोऽम्लकः ॥ १८ ॥ ७.१८ व् प्रभूतमूत्रताल्पा विड् शिरःपृष्ठोरसां शूलमालस्यं भिन्नवर्णता । तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचारता ॥ १९ ॥ आशङ्का ग्रहणीदोषपाण्डुगुल्मोदरेषु च । एतान्येव विवर्धन्ते जातेषु हतनामसु ॥ २० ॥ ७.२० व् एतान्येव च वर्धन्ते निवर्तमानोऽपानो हि तैरधोमार्गरोधतः । क्षोभयन्ननिलानन्यान् सर्वेन्द्रियशरीरगान् ॥ २१ ॥ तथा मूत्रशकृत्पित्तकफान् धातूंश्च साशयान् । मृद्नात्यग्निं ततः सर्वो भवति प्रायशोऽर्शसः ॥ २२ ॥ कृशो भृशं हतोत्साहो दीनः क्षामोऽतिनिष्प्रभः । असारो विगतच्छायो जन्तुजुष्ट इव द्रुमः ॥ २३ ॥ कृत्स्नैरुपद्रवैर्ग्रस्तो यथोक्तैर्मर्मपीडनैः । तथा कासपिपासास्यवैरस्यश्वासपीनसैः ॥ २४ ॥ क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः । क्लैब्यबाधिर्यतैमिर्यशर्कराश्मरिपीडितः ॥ २५ ॥ क्षामभिन्नस्वरो ध्यायन्मुहुः ष्ठीवनरोचकी । सर्वपर्वास्थिहृन्नाभिपायुवङ्क्षणशूलवान् ॥ २६ ॥ गुदेन स्रवता पिच्छां पुलाकोदकसंनिभाम् । विबद्धमुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥ २७ ॥ पाण्डु पीतं हरिद्रक्तं पिच्छिलं चोपवेश्यते । गुदाङ्कुरा बह्व्अनिलाः शुष्काश्चिमिचिमान्विताः ॥ २८ ॥ म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः । मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः ॥ २९ ॥ बिम्बीकर्कन्धुखर्जूरकार्पासीफलसंनिभाः । केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः ॥ ३० ॥ शिरःपार्श्वांसकट्य्ऊरुवङ्क्षणाभ्यधिकव्यथाः । क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः ॥ ३१ ॥ ७.३१ व् हृद्रवारोचकप्रदाः कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः । तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् ॥ ३२ ॥ रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते । कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते ॥ ३३ ॥ गुल्मप्लीहोदराष्ठीलासंभवस्तत एव च । पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः ॥ ३४ ॥ तन्व्अस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः । शुकजिह्वायकृत्खण्डजलौकोवक्त्रसंनिभाः ॥ ३५ ॥ दाहपाकज्वरस्वेदतृण्मूर्छारुचिमोहदाः । सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः ॥ ३६ ॥ यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः । श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः ॥ ३७ ॥ ७.३७ व् यवमध्या हरित्पीता ७.३७ व् हारिद्रत्वङ्नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्धवृत्तगुरुस्थिराः । पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्आढ्याः स्पर्शनप्रियाः ॥ ३८ ॥ करीरपनसास्थ्य्आभास्तथा गोस्तनसंनिभाः । वङ्क्षणानाहिनः पायुवस्तिनाभिविकर्तिनः ॥ ३९ ॥ सकासश्वासहृल्लासप्रसेकारुचिपीनसाः । मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः ॥ ४० ॥ क्लैब्याग्निमार्दवच्छर्दिर्आमप्रायविकारदाः । वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः ॥ ४१ ॥ ७.४१ व् वसाभाः सकफप्राज्य न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वग्आदयः । संसृष्टलिङ्गाः संसर्गान्निचयात्सर्वलक्षणाः ॥ ४२ ॥ रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः । वटप्ररोहसदृशा गुञ्जाविद्रुमसंनिभाः ॥ ४३ ॥ तेऽत्य्अर्थं दुष्टमुष्णं च गाढविट्प्रतिपीडिताः । स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ॥ ४४ ॥ भेकाभः पीड्यते दुःखैः शोणितक्षयसंभवैः । हीनवर्णबलोत्साहो हतौजः कलुषेन्द्रियः ॥ ४५ ॥ मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः । रूक्षैः संग्राहिभिर्वायुः स्वे स्थाने कुपितो बली ॥ ४६ ॥ ७.४६ व् स्वस्थाने कुपितो बली अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् । पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम् ॥ ४७ ॥ तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् । आध्मानमुदरावेष्टो हृल्लासो परिकर्तनम् ॥ ४८ ॥ वस्तौ च सुतरां शूलं गण्डश्वयथुसंभवः । पवनस्योर्ध्वगामित्वं ततश्छर्द्य्अरुचिज्वराः ॥ ४९ ॥ हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः । बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः ॥ ५० ॥ मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः । ते ते च वातजा रोगा जायन्ते भृशदारुणाः ॥ ५१ ॥ दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः । वाताभिभूतकोष्ठानां तैर्विनापि स जायते ॥ ५२ ॥ सहजानि त्रिदोषाणि यानि चाभ्यन्तरे वलौ । स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः ॥ ५३ ॥ द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च । कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥ ५४ ॥ बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च । अर्शांसि सुखसाध्यानि न चोत्पतितानि च ॥ ५५ ॥ मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु । गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ॥ ५६ ॥ व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः । कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः ॥ ५७ ॥ वातेन तोदः पारुष्यं पित्तादसितरक्तता । श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता ॥ ५८ ॥ अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान् । तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम् ॥ ५९ ॥ णिदानस्थान दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः । अतीसारः स सुतरां जायतेऽत्य्अम्बुपानतः ॥ १ ॥ कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकैः । मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात् ॥ २ ॥ कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः । विस्रंसयत्यधोऽब्धातुं हत्वा तेनैव चानलम् ॥ ३ ॥ व्यापद्यानुशकृत्कोष्ठं पुरीषं द्रवतां नयन् । प्रकल्पतेऽतिसाराय लक्षणं तस्य भाविनः ॥ ४ ॥ तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः । आध्मानमविपाकश्च तत्र वातेन विड्जलम् ॥ ५ ॥ अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते । रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः ॥ ६ ॥ तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम् । शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन् ॥ ७ ॥ ८.७ व् हृष्टरोमा विनष्टवाक् पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम् । सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान् ॥ ८ ॥ ८.८ व् तृण्मूर्छास्वेददाहवत् सशूलं पायुसंतापपाकवाञ्छ्लेष्मणा घनम् । पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम् ॥ ९ ॥ ८.९ व् पाकवच्छ्लेष्मणा घनम् अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक् । निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम् ॥ १० ॥ सरोमहर्षं सोत्क्लेशो गुरुवस्तिगुदोदरः । कृतेऽप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः ॥ ११ ॥ ८.११ व् गुरुवस्तिर्गुरूदरः भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत् । वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम् ॥ १२ ॥ वातपित्तसमं लिङ्गैराहुस्तद्वच्च शोकतः । अतीसारः समासेन द्विधा सामो निर्आमकः ॥ १३ ॥ ८.१३ व् द्वेधा सामो निर्आमकः सासृङ्निर्अस्रस्तत्राद्ये गौरवादप्सु मज्जति । शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥ १४ ॥ विपरीतो निर्आमस्तु कफात्पक्वोऽपि मज्जति । अतीसारेषु यो नातियत्नवान् ग्रहणीगदः ॥ १५ ॥ तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः । सामं शकृन्निर्आमं वा जीर्णे येनातिसार्यते ॥ १६ ॥ सोऽतीसारोऽतिसरणादाशुकारी स्वभावतः । सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा ॥ १७ ॥ अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः । चिरकृद्ग्रहणीदोषः संचयाच्चोपवेशयेत् ॥ १८ ॥ स चतुर्धा पृथग्दोषैः संनिपाताच्च जायते । प्राग्रूपं तस्य सदनं चिरात्पचनमम्लकः ॥ १९ ॥ प्रसेको वक्त्रवैरस्यमरुचिस्तृट्क्लमो भ्रमः । आनद्धोदरता छर्दिः कर्णक्ष्वेडोऽन्त्रकूजनम् ॥ २० ॥ सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः । मूर्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः ॥ २१ ॥ तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः । पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विषूचिका ॥ २२ ॥ रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका । जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ॥ २३ ॥ वातहृद्रोगगुल्मार्शःप्लीहपाण्डुत्वशङ्कितः । चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ॥ २४ ॥ पुनः पुनः सृजेद्वर्चः पायुरुक्श्वासकासवान् । पित्तेन नीलपीताभं पीताभः सृजति द्रवम् ॥ २५ ॥ ८.२५ व् पित्तेन नीलं पीताभं ८.२५ व् पित्तेन पीतनीलाभं पूत्य्अम्लोद्गारहृत्कण्ठदाहारुचितृड्अर्दितः । श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः ॥ २६ ॥ आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः । हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ॥ २७ ॥ ८.२७ व् आस्योपदेहमाधुर्य ८.२७ व् कासष्ठीवनपीनसाः उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम् । भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् ॥ २८ ॥ अकृशस्यापि दौर्बल्यं सर्वजे सर्वसंकरः । विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः ॥ २९ ॥ तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम् ॥ ३० ब् ॥ वातव्याध्य्अश्मरीकुष्ठमेहोदरभगन्दराः ॥ ३० द् ॥ अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ ३० f ॥ णिदानस्थान वस्तिवस्तिशिरोमेढ्रकटीवृषणपायवः । एकसंबन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः ॥ १ ॥ अधोमुखोऽपि वस्तिर्हि मूत्रवाहिसिरामुखैः । पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैरन्आरतम् ॥ २ ॥ यैस्तैरेव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् । मूत्राघातान् प्रमेहांश्च कृच्छ्रान्मर्मसमाश्रयान् ॥ ३ ॥ वस्तिवङ्क्षणमेढ्रार्तियुक्तोऽल्पाल्पं मुहुर्मुहुः । मूत्रयेद्वातजे कृच्छ्रे पैत्ते पीतं सदाहरुक् ॥ ४ ॥ रक्तं वा कफजे वस्तिमेढ्रगौरवशोफवान् । सपिच्छं सविबन्धं च सर्वैः सर्वात्मकं मलैः ॥ ५ ॥ यदा वायुर्मुखं वस्तेरावृत्य परिशोषयेत् । मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् ॥ ६ ॥ संजायतेऽश्मरी घोरा पित्ताद्गोरिव रोचना । श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् ॥ ७ ॥ वस्त्य्आध्मानं तद्आसन्नदेशेषु परितोऽतिरुक् । मूत्रे च बस्तगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ॥ ८ ॥ ९.८ व् मूत्रे बस्तसगन्धत्वं सामान्यलिङ्गं रुङ्नाभिसेवनीवस्तिमूर्धसु । विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने ॥ ९ ॥ ९.९ व् तथा मार्गनिरोधने तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम् । तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत् ॥ १० ॥ तत्र वाताद्भृशार्त्य्आर्तो दन्तान् खादति वेपते । मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ॥ ११ ॥ सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः । श्यावा रूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव ॥ १२ ॥ पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् । भल्लातकास्थिसंस्थाना रक्ता पीतासिताश्मरी ॥ १३ ॥ ९.१३ व् रक्तपीतासिताश्मरी वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः । अश्मरी महती श्लक्ष्णा मधुवर्णाथवा सिता ॥ १४ ॥ एता भवन्ति बालानां तेषामेव च भूयसा । आश्रयोपचयाल्पत्वाद्ग्रहणाहरणे सुखाः ॥ १५ ॥ शुक्राश्मरी तु महतां जायते शुक्रधारणात् । स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः ॥ १६ ॥ शोषयत्युपसंगृह्य शुक्रं तच्छुष्कमश्मरी । वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी ॥ १७ ॥ तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते । पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा ॥ १८ ॥ अणुशो वायुना भिन्ना सा त्वस्मिन्ननुलोमगे । निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥ १९ ॥ मूत्रसंधारिणः कुर्याद्रुद्ध्वा वस्तेर्मुखं मरुत् । मूत्रसङ्गं रुजं कण्डूं कदाचिच्च स्वधामतः ॥ २० ॥ प्रच्याव्य वस्तिमुद्वृत्तं गर्भाभं स्थूलविप्लुतम् । करोति तत्र रुग्दाहस्पन्दनोद्वेष्टनानि च ॥ २१ ॥ बिन्दुशश्च प्रवर्तेत मूत्रं वस्तौ तु पीडिते । धारया द्विविधोऽप्येष वातवस्तिरिति स्मृतः ॥ २२ ॥ दुस्तरो दुस्तरतरो द्वितीयः प्रबलानिलः । शकृन्मार्गस्य वस्तेश्च वायुरन्तरमाश्रितः ॥ २३ ॥ अष्ठीलाभं घनं ग्रन्थिं करोत्यचलमुन्नतम् । वाताष्ठीलेति साध्मानविण्मूत्रानिलसङ्गकृत् ॥ २४ ॥ विगुणः कुण्डलीभूतो वस्तौ तीव्रव्यथोऽनिलः । आविध्य मूत्रं भ्रमति सस्तम्भोद्वेष्टगौरवः ॥ २५ ॥ ९.२५ व् आविश्य मूत्रं भ्रमति मूत्रमल्पाल्पमथवा विमुञ्चति शकृत्सृजन् । वातकुण्डलिकेत्येषा मूत्रं तु विधृतं चिरम् ॥ २६ ॥ न निरेति विबद्धं वा मूत्रातीतं तदल्परुक् । विधारणात्प्रतिहतं वातोदावर्तितं यदा ॥ २७ ॥ नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा । कुर्यात्तीव्ररुगाध्मानमपक्तिं मलसंग्रहम् ॥ २८ ॥ तन्मूत्रजठरं छिद्रवैगुण्येनानिलेन वा । आक्षिप्तमल्पं मूत्रं तद्वस्तौ नालेऽथवा मणौ ॥ २९ ॥ ९.२९ व् आक्षिप्तमल्पं मूत्रस्य स्थित्वा स्रवेच्छनैः पश्चात्सरुजं वाथ नीरुजम् । मूत्रोत्सङ्गः स विच्छिन्नतच्छेषगुरुशेफसः ॥ ३० ॥ ९.३० व् सरुजं वाथवारुजम् ९.३० व् मूत्रोत्सङ्गः स विच्छिन्नस् ९.३० व् मूत्रोत्सङ्गः स विच्छिन्नं ९.३० व् तच्छेषगुरुशेफसः अन्तर्वस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् । अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ॥ ३१ ॥ मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम् । स्थानाच्च्युतं मूत्रयतः प्राक्पश्चाद्वा प्रवर्तते ॥ ३२ ॥ भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते । रूक्षदुर्बलयोर्वातादुदावर्तं शकृद्यदा ॥ ३३ ॥ ९.३३ व् उदावृत्तं शकृद्यदा मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा । मूत्रं विट्तुल्यगन्धं स्याद्विड्विघातं तमादिशेत् ॥ ३४ ॥ पित्तं व्यायामतीक्ष्णोष्णभोजनाध्वातपादिभिः । प्रवृद्धं वायुना क्षिप्तं वस्त्य्उपस्थार्तिदाहवत् ॥ ३५ ॥ मूत्रं प्रवर्तयेत्पीतं सरक्तं रक्तमेव वा । उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् ॥ ३६ ॥ रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ । मूत्रक्षयं सरुग्दाहं जनयेतां तद्आह्वयम् ॥ ३७ ॥ पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् । कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ ३८ ॥ सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् । शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् ॥ ३९ ॥ इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः । निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः ॥ ४० ॥ णिदानस्थान प्रमेहा विंशतिस्तत्र श्लेष्मतो दश पित्ततः । षट्चत्वारोऽनिलात्तेषां मेदोमूत्रकफावहम् ॥ १ ॥ अन्नपानक्रियाजातं यत्प्रायस्तत्प्रवर्तकम् । स्वाद्व्अम्ललवणस्निग्धगुरुपिच्छिलशीतलम् ॥ २ ॥ नवधान्यसुरानूपमांसेक्षुगुडगोरसम् । एकस्थानासनरतिः शयनं विधिवर्जितम् ॥ ३ ॥ वस्तिमाश्रित्य कुरुते प्रमेहान् दूषितः कफः । दूषयित्वा वपुःक्लेदस्वेदमेदोरसामिषम् ॥ ४ ॥ १०.४ व् स्वेदमेदोवसामिषम् पित्तं रक्तमपि क्षीणे कफादौ मूत्रसंश्रयम् । धातून् वस्तिमुपानीय तत्क्षयेऽपि च मारुतः ॥ ५ ॥ साध्ययाप्यपरित्याज्या मेहास्तेनैव तद्भवाः । समासमक्रियतया महात्ययतयापि च ॥ ६ ॥ सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता । दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः ॥ ७ ॥ १०.७ व् प्रभूताकुलमूत्रता मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते । अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ॥ ८ ॥ मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम् । इक्षो रसमिवात्य्अर्थं मधुरं चेक्षुमेहतः ॥ ९ ॥ सान्द्रीभवेत्पर्युषितं सान्द्रमेहेन मेहति । सुरामेही सुरातुल्यमुपर्यच्छमधो घनम् ॥ १० ॥ संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम् । शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ ११ ॥ १०.११ व् पिष्टवद्बहुलं सितम् मूर्ताणून् सिकतामेही सिकतारूपिणो मलान् । शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ १२ ॥ १०.१२ व् मूत्राणून् सिकतामेही १०.१२ व् मूत्रेऽणून् सिकतामेही शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति । लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ १३ ॥ गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् । नीलमेहेन नीलाभं कालमेही मषीनिभम् ॥ १४ ॥ हारिद्रमेही कटुकं हरिद्रासंनिभं दहत् । विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ॥ १५ ॥ विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः । वसामेही वसामिश्रं वसां वा मूत्रयेन्मुहुः ॥ १६ ॥ मज्जानं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः । हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम् ॥ १७ ॥ १०.१७ व् मज्जाभं मज्जमिश्रं वा सलसीकं विबद्धं च हस्तिमेही प्रमेहति । मधुमेही मधुसमं जायते स किल द्विधा ॥ १८ ॥ १०.१८ व् मधुमेहे मधुसमं क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा । आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत् ॥ १९ ॥ १०.१९ व् दोषावृतपथेऽपि वा क्षीणः क्षणात्क्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् । कालेनोपेक्षिताः सर्वे यद्यान्ति मधुमेहताम् ॥ २० ॥ मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति । सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः ॥ २१ ॥ अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः । उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ॥ २२ ॥ वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः । दाहस्तृष्णाम्लको मूर्छा विड्भेदः पित्तजन्मनाम् ॥ २३ ॥ वातिकानामुदावर्तकम्पहृद्ग्रहलोलताः । शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ॥ २४ ॥ १०.२४ व् कण्ठहृद्ग्रहलोलताः शराविका कच्छपिका जालिनी विनतालजी । मसूरिका सर्षपिका पुत्रिणी सविदारिका ॥ २५ ॥ १०.२५ व् पुत्रिणी च विदारिका विद्रधिश्चेति पिटिकाः प्रमेहोपेक्षया दश । संधिमर्मसु जायन्ते मांसलेषु च धामसु ॥ २६ ॥ अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुजान्विता । शरावमानसंस्थाना पिटिका स्याच्छराविका ॥ २७ ॥ अवगाढार्तिनिस्तोदा महावस्तुपरिग्रहा । श्लक्ष्णा कच्छपपृष्ठाभा पिटिका कच्छपी मता ॥ २८ ॥ स्तब्धा सिराजालवती स्निग्धस्रावा महाशया । रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी ॥ २९ ॥ १०.२९ व् स्निग्धस्रावा महाश्रया अवगाढरुजाक्लेदा पृष्ठे वा जठरेऽपि वा । महती पिटिका नीला विनता विनता स्मृता ॥ ३० ॥ दहति त्वचमुत्थाने भृशं कष्टा विसर्पिणी । रक्तकृष्णातितृट्स्फोटदाहमोहज्वरालजी ॥ ३१ ॥ मानसंस्थानयोस्तुल्या मसूरेण मसूरिका । सर्षपामानसंस्थाना क्षिप्रपाका महारुजा ॥ ३२ ॥ सर्षपी सर्षपातुल्यपिटिकापरिवारिता । पुत्रिणी महती भूरिसुसूक्ष्मपिटिकाचिता ॥ ३३ ॥ १०.३३ व् सर्षपा सर्षपातुल्य १०.३३ व् सुसूक्ष्मपिटिकावृता १०.३३ व् सुसूक्ष्मपिटिकान्विता विदारीकन्दवद्वृत्ता कठिना च विदारिका । विद्रधिर्वक्ष्यतेऽन्यत्र तत्राद्यं पिटिकात्रयम् ॥ ३४ ॥ पुत्रिणी च विदारी च दुःसहा बहुमेदसः । सह्याः पित्तोल्बणास्त्वन्याः संभवन्त्यल्पमेदसः ॥ ३५ ॥ तासु मेहवशाच्च स्याद्दोषोद्रेको यथायथम् ॥ ३६ ब् ॥ प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ॥ ३६ द् ॥ तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः ॥ ३६ f ॥ हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम् । यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तद्विदुः ॥ ३७ ॥ १०.३७ व् रक्तपित्तं तु तं विदुः १०.३७ व् रक्तपित्तं च तद्विदुः स्वेदोऽङ्गगन्धः शिथिलत्वमङ्गे शय्यासनस्वप्नसुखाभिषङ्गः । हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः ॥ ३८ ॥ १०.३८ व् शय्यासनस्थानसुखाभिलाषः शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः । भविष्यतो मेहगणस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च ॥ ३९ ॥ दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्विविधो विचारः । संपूरणाद्वा कफसंभवः स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥ ४० ॥ १०.४० व् संतर्पणाद्वा कफसंभवः स्यात् सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः । साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम् ॥ ४१ ॥ १०.४१ व् साध्याश्च मेदो यदि नातिदुष्टम् णिदानस्थान भुक्तैः पर्युषितात्य्उष्णरूक्षशुष्कविदाहिभिः । जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः ॥ १ ॥ दुष्टत्वङ्मांसमेदोऽस्थिस्नाय्व्असृक्कण्डराश्रयः । यः शोफो बहिरन्तर्वा महामूलो महारुजः ॥ २ ॥ ११.२ व् दुष्टस्त्वङ्मांसमेदोऽस्थि वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः । दोषैः पृथक्समुदितैः शोणितेन क्षतेन च ॥ ३ ॥ बाह्योऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः । आन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः ॥ ४ ॥ वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत् । नाभिवस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे ॥ ५ ॥ स्याद्वृक्कयोरपाने च वातात्तत्रातितीव्ररुक् । श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः ॥ ६ ॥ ११.६ व् स्याद्वृक्कयोरपाने वा व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान् । रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान् ॥ ७ ॥ क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् । सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः ॥ ८ ॥ चिरोत्थानविपाकश्च संकीर्णः संनिपाततः । सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम् ॥ ९ ॥ ११.९ व् चिरोत्थानप्रपाकश्च कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः । पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथान्तरः ॥ १० ॥ शस्त्राद्यैरभिघातेन क्षते वापथ्यकारिणः । क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन् ॥ ११ ॥ ११.११ व् सरक्तं पित्तमीरयेत् पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्य्उपद्रवम् । तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः ॥ १२ ॥ नाभ्यां हिध्मा भवेद्वस्तौ मूत्रं कृच्छ्रेण पूति च । श्वासो यकृति रोधस्तु प्लीह्न्युच्छ्वासस्य तृट्पुनः ॥ १३ ॥ गलग्रहश्च क्लोम्नि स्यात्सर्वाङ्गप्रग्रहो हृदि । प्रमोहस्तमकः कासो हृदये घट्टनं व्यथा ॥ १४ ॥ कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च । सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः ॥ १५ ॥ पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् । आमपक्वविदग्धत्वं तेषां शोफवदादिशेत् ॥ १६ ॥ नाभेरूर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात् । गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्रधौ ॥ १७ ॥ ११.१७ व् उभाभ्यां नाभिजो विद्याद् यथास्वं व्रणवत्तत्र विवर्ज्यः संनिपातजः । पक्वो हृन्नाभिवस्तिस्थो भिन्नोऽन्तर्बहिरेव वा ॥ १८ ॥ पक्वश्चान्तः स्रवन् वक्त्रात्क्षीणस्योपद्रवान्वितः । एवमेव स्तनसिरा विवृताः प्राप्य योषिताम् ॥ १९ ॥ सूतानां गर्भिणीनां वा संभवेच्छ्वयथुर्घनः । स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः ॥ २० ॥ नाडीनां सूक्ष्मवक्त्रत्वात्कन्यानां न स जायते । क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन् ॥ २१ ॥ ११.२१ व् कन्यानां तु न जायते ११.२१ व् क्रुद्धोऽन्ऊर्ध्वगतिर्वायुः मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः । प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः ॥ २२ ॥ दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः । मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम् ॥ २३ ॥ वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् । पक्वोदुम्बरसंकाशः पित्ताद्दाहोष्मपाकवान् ॥ २४ ॥ कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् । कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः ॥ २५ ॥ ११.२५ व् कृष्णः स्फोटावृतः पित्त कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः । मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः ॥ २६ ॥ अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः । मूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः ॥ २७ ॥ वातकोपिभिराहारैः शीततोयावगाहनैः । धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः ॥ २८ ॥ क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा । पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् ॥ २९ ॥ ११.२९ व् पवनो द्विगुणीकृत्य कुर्याद्वङ्क्षणसंधिस्थो ग्रन्थ्य्आभं श्वयथुं तदा ॥ ३० ब् ॥ उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः ॥ ३० द् ॥ प्रपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः ॥ ३० f ॥ अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः ॥ ३१ ॥ इति वृद्धिनिदानमथ गुल्मनिदानम् ॥ ३१+१ ॥ रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः । गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः ॥ ३२ ॥ आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः । ज्वरच्छर्द्य्अतिसाराद्यैर्वमनाद्यैश्च कर्मभिः ॥ ३३ ॥ कर्शितो वातलान्यत्ति शीतं वाम्बु बुभुक्षितः । यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम् ॥ ३४ ॥ ११.३४ व् शीतं चाम्बु बुभुक्षितः सेवते देहसंक्षोभि च्छर्दिं वा समुदीरयेत् । अन्उदीर्णामुदीर्णान् वा वातादीन्न विमुञ्चति ॥ ३५ ॥ स्नेहस्वेदावन्अभ्यस्य शोधनं वा निषेवते । शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥ ३६ ॥ वातोल्बणास्तस्य मलाः पृथक्क्रुद्धा द्विशोऽथवा । सर्वे वा रक्तयुक्ता वा महास्रोतोऽनुशायिनः ॥ ३७ ॥ ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम् । स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम् ॥ ३८ ॥ ११.३८ व् उन्नतं ग्रन्थिरूपिणम् कर्शनात्कफविट्पित्तैर्मार्गस्यावरणेन वा । वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥ ३९ ॥ स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये । पिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः ॥ ४० ॥ गुल्म इत्युच्यते वस्तिनाभिहृत्पार्श्वसंश्रयः । वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम् ॥ ४१ ॥ व्यधः सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः । स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता ॥ ४२ ॥ रूक्षकृष्णत्वग्आदित्वं चलत्वादनिलस्य च । अनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः ॥ ४३ ॥ पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते । पित्ताद्दाहोऽम्लको मूर्छाविड्भेदस्वेदतृड्ज्वराः ॥ ४४ ॥ हारिद्रत्वं त्वग्आद्येषु गुल्मश्च स्पर्शनासहः । दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च ॥ ४५ ॥ कफात्स्तैमित्यमरुचिः सदनं शिशिरज्वरः । पीनसालस्यहृल्लासकासशुक्लत्वग्आदिताः ॥ ४६ ॥ गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्परुक् । स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः ॥ ४७ ॥ प्रायस्त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः । सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥ ४८ ॥ सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते । ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ॥ ४९ ॥ सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः । निरुणद्ध्यार्तवं योन्यां प्रतिमासमवस्थितम् ॥ ५० ॥ कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च । हृल्लासदौर्हृदस्तन्यदर्शनक्षामतादिकम् ॥ ५१ ॥ क्रमेण वायुसंसर्गात्पित्तयोनितया च तत् । शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान् ॥ ५२ ॥ रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान् । गर्भाशये च सुतरां शूलं दुष्टासृग्आश्रये ॥ ५३ ॥ योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाः । न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान् ॥ ५४ ॥ ११.५४ व् तोदस्फुरणवेदनाः ११.५४ व् क्लेदस्वेदनवेदनाः पिण्डीभूतः स एवास्याः कदाचित्स्पन्दते चिरात् । न चास्या वर्धते कुक्षिर्गुल्म एव तु वर्धते ॥ ५५ ॥ स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सः । पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥ ५६ ॥ पच्यते शीघ्रमत्य्अर्थं दुष्टरक्ताश्रयत्वतः । अतः शीघ्रविदाहित्वाद्विद्रधिः सोऽभिधीयते ॥ ५७ ॥ गुल्मेऽन्तर्आश्रये वस्तिकुक्षिहृत्प्लीहवेदनाः । अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम् ॥ ५८ ॥ ११.५८ व् कुक्षिहृत्पार्श्ववेदनाः अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक् । वैवर्ण्यमवकाशस्य बहिरुन्नतताधिकम् ॥ ५९ ॥ साटोपमत्य्उग्ररुजमाध्मानमुदरे भृशम् । ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते ॥ ६० ॥ घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः । आनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तद्आकृतिः ॥ ६१ ॥ ११.६१ व् आनाहलिङ्गस्तिर्यक्च पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजः प्रयान् । तूणी प्रतूणी तु भवेत्स एवातो विपर्यये ॥ ६२ ॥ उद्गारबाहुल्यपुरीषबन्धतृप्त्य्अक्षमत्वान्त्रविकूजनानि । आटोपमाध्मानमपक्तिशक्तिमासन्नगुल्मस्य वदन्ति चिह्नम् ॥ ६३ ॥ ११.६३ व् आटोपमाध्मानमपक्त्य्अशक्तिम् णिदानस्थान रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु । अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसंचयात् ॥ १ ॥ ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः । प्राणाग्न्य्अपानान् संदूष्य कुर्युस्त्वङ्मांससंधिगाः ॥ २ ॥ आध्माप्य कुक्षिमुदरमष्टधा तच्च भिद्यते । पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ॥ ३ ॥ तेनार्ताः शुष्कताल्व्ओष्ठाः शूनपादकरोदराः । नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः ॥ ४ ॥ स्युः प्रेतरूपाः पुरुषा भाविनस्तस्य लक्षणम् । क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते ॥ ५ ॥ १२.५ व् सविदाहं विपच्यते जीर्णाजीर्णं न जानाति सौहित्यं सहते न च । क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते ॥ ६ ॥ वृद्धिर्विषोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः । रुग्वस्तिसंधौ ततता लघ्व्अल्पाभोजनैरपि ॥ ७ ॥ १२.७ व् वृद्धिर्विषोऽप्रवृत्तिर्वा राजीजन्म वलीनाशो जठरे जठरेषु तु । सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता ॥ ८ ॥ दाहः श्वयथुराध्मानमन्ते सलिलसंभवः । सर्वं त्वतोयमरुणमशोफं नातिभारिकम् ॥ ९ ॥ गवाक्षितं सिराजालैः सदा गुडगुडायते । नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥ १० ॥ मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः । सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम् ॥ ११ ॥ १२.११ व् पायुवङ्क्षणवेदना नातिमन्दोऽनलो लौल्यं न च स्याद्विरसं मुखम् । तत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु ॥ १२ ॥ कुक्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभेदनम् । शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसंग्रहः ॥ १३ ॥ श्यावारुणत्वग्आदित्वमकस्माद्वृद्धिह्रासवत् । सतोदभेदमुदरं तनुकृष्णसिराततम् ॥ १४ ॥ १२.१४ व् तनु कृष्णसिराततम् आध्मातदृतिवच्छब्दमाहतं प्रकरोति च । वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः ॥ १५ ॥ पित्तोदरे ज्वरो मूर्छा दाहस्तृट्कटुकास्यता । भ्रमोऽतीसारः पीतत्वं त्वग्आदावुदरं हरित् ॥ १६ ॥ पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते । धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ॥ १७ ॥ १२.१७ व् धूमायते मृदुस्पर्शं श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम् । निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वग्आदिता ॥ १८ ॥ १२.१८ व् स्वापश्वयथुगौरवम् उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत् । चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् ॥ १९ ॥ १२.१९ व् उदरं स्तिमितं स्निग्धं त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः । गरदूषीविषाद्यैश्च सरक्ताः संचिता मलाः ॥ २० ॥ कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् । कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ॥ २१ ॥ बाधते तच्च सुतरां शीतवाताभ्रदर्शने । अत्य्आशितस्य संक्षोभाद्यानयानादिचेष्टितैः ॥ २२ ॥ १२.२२ व् शीतवाताभ्रदर्शनैः अतिव्यवायकर्माध्ववमनव्याधिकर्शनैः । वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्धते ॥ २३ ॥ शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् । सोऽष्ठीलेवातिकठिनः प्राक्ततः कूर्मपृष्ठवत् ॥ २४ ॥ १२.२४ व् प्राकृतः कूर्मपृष्ठवत् क्रमेण वर्धमानश्च कुक्षावुदरमावहेत् । श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः ॥ २५ ॥ पाण्डुत्वमूर्छाछर्दीभिर्दाहमोहैश्च संयुतम् । अरुणाभं विवर्णं वा नीलहारिद्रराजिमत् ॥ २६ ॥ १२.२६ व् पाण्डुत्वमूर्छातिछर्दि १२.२६ व् दाहमोहैश्च संयुतम् उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः । गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ॥ २७ ॥ १२.२७ व् उदावर्तरुग्आनाहैर् प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् । पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे ॥ २८ ॥ दुर्नामभिरुदावर्तैरन्यैर्वान्त्रोपलेपिभिः । वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः ॥ २९ ॥ १२.२९ व् अन्नैर्वान्त्रोपलेपिभिः अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः । कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् ॥ ३० ॥ १२.३० व् स्युर्दाहज्वरतृट्क्षुधाः १२.३० व् स्युर्दाहज्वरतृट्क्षुतः मलसङ्गोऽरुचिश्छर्दिरुदरं मूढमारुतम् । स्थिरं नीलारुणसिराराजीनद्धमराजि वा ॥ ३१ ॥ नाभेरुपरि च प्रायो गोपुच्छाकृति जायते । अस्थ्य्आदिशल्यैः सान्नैश्चेद्भुक्तैरत्य्अशनेन वा ॥ ३२ ॥ १२.३२ व् अस्थ्य्आदिशल्यैः सान्नैश्च भिद्यते पच्यते वान्त्रं तच्छिद्रैश्च स्रवन् बहिः । आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः ॥ ३३ ॥ १२.३३ व् भिद्यते पच्यते चान्त्रं १२.३३ व्ऽल्पाल्पः सविड्रसः तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः । शेषश्चापूर्य जठरं जठरं घोरमावहेत् ॥ ३४ ॥ वर्धयेत्तदधो नाभेराशु चैति जलात्मताम् । उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः ॥ ३५ ॥ १२.३५ व् वर्धते तदधो नाभेर् १२.३५ व् व्याप्तं च श्वासतृड्ज्वरैः छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे । प्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः ॥ ३६ ॥ अत्य्अम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा । रुद्ध्वाम्बुमार्गाननिलः कफश्च जलमूर्छितः ॥ ३७ ॥ वर्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ । ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम् ॥ ३८ ॥ १२.३८ व् गुदस्रुतिरुजायुतम् कासश्वासारुचियुतं नानावर्णसिराततम् । तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु ॥ ३९ ॥ १२.३९ व् नानावर्णसिरान्वितम् १२.३९ व् नानावर्णसिराचितम् १२.३९ व् नानावर्णसिरावृतम् दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभि तत् । उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः ॥ ४० ॥ पाकाद्द्रवा द्रवीकुर्युः संधिस्रोतोमुखान्यपि । स्वेदश्च बाह्यस्रोतःसु विहतस्तिर्यग्आस्थितः ॥ ४१ ॥ १२.४१ व् पाकाद्द्रवाद्द्रवीकुर्युः तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत् । गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत् ॥ ४२ ॥ मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति । तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिकम् ॥ ४३ ॥ सिरान्तर्धानमुदकजठरोक्तं च लक्षणम् । वातपित्तकफप्लीहसंनिपातोदकोदरम् ॥ ४४ ॥ कृच्छ्रं यथोत्तरं पक्षात्परं प्रायोऽपरे हतः । सर्वं च जातसलिलं रिष्टोक्तोपद्रवान्वितम् ॥ ४५ ॥ जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् । बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥ ४६ ॥ णिदानस्थान पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः । तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥ १ ॥ धमनीर्दश संप्राप्य व्याप्नुवत्सकलां तनुम् । श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम् ॥ २ ॥ त्वङ्मांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान् । पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम् ॥ ३ ॥ यतोऽतः पाण्डुरित्युक्तः स रोगस्तेन गौरवम् । धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः ॥ ४ ॥ ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः । मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च ॥ ५ ॥ १३.५ व् निःसारः शिथिलेन्द्रियः १३.५ व् द्रवता हृदयेन वा शूनाक्षिकूटः सदनः कोपनः ष्ठीवनोऽल्पवाक् । अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः ॥ ६ ॥ १३.६ व् शूनाक्षिकूटवदनः १३.६ व् कोपनः स्वेदनोऽल्पवाक् १३.६ व् कोपनः सदनोऽल्पवाक् सन्नसक्थो ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी । स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् ॥ ७ ॥ १३.७ व् सन्नसक्थी ज्वरी श्वासी प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि । अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता ॥ ८ ॥ सादः श्रमोऽनिलात्तत्र गात्ररुक्तोदकम्पनम् । कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता ॥ ९ ॥ शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक् । पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः ॥ १० ॥ तृट्स्वेदमूर्छाशीतेच्छा दौर्गन्ध्यं कटुवक्त्रता । वर्चोभेदोऽम्लको दाहः कफाच्छुक्लसिरादिता ॥ ११ ॥ तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः । कासश्छर्दिश्च निचयान्मिश्रलिङ्गोऽतिदुःसहः ॥ १२ ॥ १३.१२ व् हर्षो रोम्णां स्वरक्षयः मृत्कषायानिलं पित्तमूषरा मधुरा कफम् । दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च ॥ १३ ॥ स्रोतांस्यपक्वैवापूर्य कुर्याद्रुद्ध्वा च पूर्ववत् । पाण्डुरोगं ततः शूननाभिपादास्यमेहनः ॥ १४ ॥ पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः । यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम् ॥ १५ ॥ कोष्ठशाखाश्रयां पित्तं दग्ध्वासृङ्मांसमावहेत् । हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया ॥ १६ ॥ १३.१६ व् कोष्ठशाखाश्रयं पित्तं दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः । भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च ॥ १७ ॥ उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामला । हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत् ॥ १८ ॥ वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुर्ज्वरः । तन्द्रा बलानलभ्रंशो लोढरं तं हलीमकम् ॥ १९ ॥ अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः । शोफप्रधानाः कथिताः स एवातो निगद्यते ॥ २० ॥ पित्तरक्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः । नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् ॥ २१ ॥ उत्सेधं संहतं शोफं तमाहुर्निचयादतः । सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम् ॥ २२ ॥ दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि । द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम् ॥ २३ ॥ पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः । सामान्यहेतुः शोफानां दोषजानां विशेषतः ॥ २४ ॥ व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम् । अतिमात्रमथान्यस्य गुर्व्अम्लस्निग्धशीतलम् ॥ २५ ॥ १३.२५ व् क्षीणस्य भजतो द्रवम् १३.२५ व् अतिमात्रमथान्नं च लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम् । मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम् ॥ २६ ॥ पदातेर्मार्गगमनं यानेन क्षोभिणापि वा । श्वासकासातिसारार्शोजठरप्रदरज्वराः ॥ २७ ॥ विषूच्य्अलसकच्छर्दिगर्भविसर्पपाण्डवः । अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः ॥ २८ ॥ १३.२८ व् गर्भविसर्पपाण्डुता ऊर्ध्वं शोफमधो वस्तौ मध्ये कुर्वन्ति मध्यगाः । सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तद्आश्रयाः ॥ २९ ॥ तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम् । वाताच्छोफश्चलो रूक्षः खररोमारुणासितः ॥ ३० ॥ संकोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान् । क्षिप्रोत्थानशमः शीघ्रमुन्नमेत्पीडितस्तनुः ॥ ३१ ॥ स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान् । त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते ॥ ३२ ॥ पीतरक्तासिताभासः पित्तादाताम्ररोमकृत् । शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनुः ॥ ३३ ॥ सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः । शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः ॥ ३४ ॥ कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः । स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राछर्द्य्अग्निसादकृत् ॥ ३५ ॥ आक्रान्तो नोन्नमेत्कृच्छ्रशमजन्मा निशाबलः । स्रवेन्नासृक्चिरात्पिच्छां कुशशस्त्रादिविक्षतः ॥ ३६ ॥ स्पर्शोष्णकाङ्क्षी च कफाद्यथास्वं द्वन्द्वजास्त्रयः । संकराद्धेतुलिङ्गानां निचयान्निचयात्मकः ॥ ३७ ॥ अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः । हिमानिलोदध्य्अनिलैर्भल्लातकपिकच्छुजैः ॥ ३८ ॥ १३.३८ व् हिमानलोदध्य्अनिलैर् रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् । भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ ३९ ॥ विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्तनखापातादविषप्राणिनामपि ॥ ४० ॥ १३.४० व् दंष्ट्रादन्तनखाघाताद् विण्मूत्रशुक्रोपहतमलवद्वस्त्रसंकरात् । विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥ ४१ ॥ १३.४१ व् मलवद्वस्त्रधारणात् मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः । नवोऽन्उपद्रवः शोफः साध्योऽसाध्यः पुरेरितः ॥ ४२ ॥ स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत् । त्र्य्अधिष्ठानं च तं प्राहुर्बाह्यान्तर्उभयाश्रयात् ॥ ४३ ॥ यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथम् । प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥ ४४ ॥ देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः । बहिःस्था द्वितये द्विस्था विद्यात्तत्रान्तर्आश्रयम् ॥ ४५ ॥ मर्मोपतापात्संमोहादयनानां विघट्टनात् । तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात् ॥ ४६ ॥ १३.४६ व् मर्मोपघातात्संमोहाद् १३.४६ व् विषमाच्च प्रवर्तनात् आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात् । तत्र वातात्परीसर्पो वातज्वरसमव्यथः ॥ ४७ ॥ शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान् । पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ॥ ४८ ॥ कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् । स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः ॥ ४९ ॥ ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम् । वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः ॥ ५० ॥ अस्थिभेदाग्निसदनतमकारोचकैर्युतः । करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् ॥ ५१ ॥ यं यं देशं विसर्पश्च विसर्पति भवेत्स सः । शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥ ५२ ॥ अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं च सः । मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः ॥ ५३ ॥ व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत् । हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना ॥ ५४ ॥ क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु । चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम् ॥ ५५ ॥ दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निविसर्प उच्यते । कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् ॥ ५६ ॥ रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम् । दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम् ॥ ५७ ॥ ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् । श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः ॥ ५८ ॥ मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम् । इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ ५९ ॥ कफपित्ताज्ज्वरः स्तम्भो निद्रातन्द्राशिरोरुजः । अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥ ६० ॥ मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् । आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ ६१ ॥ प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक् । पिटिकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः ॥ ६२ ॥ मेचकाभोऽसितः स्निग्धो मलिनः शोफवान् गुरुः । गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते ॥ ६३ ॥ १३.६३ व् मेचकाभोऽसितस्निग्धो पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः । शवगन्धिश्च वीसर्पं कर्दमाख्यमुशन्ति तम् ॥ ६४ ॥ सर्वजो लक्षणैः सर्वैः सर्वधात्व्अतिसर्पणः । बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन् ॥ ६५ ॥ १३.६५ व् सर्वधात्व्अभिसर्पणः विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम् । स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम् ॥ ६६ ॥ पृथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चान्उपद्रवाः । असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः ॥ ६७ ॥ शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः ॥ ६७ªअब् ॥ णिदानस्थान मिथ्याहारविहारेण विशेषेण विरोधिना । साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः ॥ १ ॥ पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः । सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृग्आमिषम् ॥ २ ॥ १४.२ व् प्राक्तनैः प्रेरिता मलाः दूषयन्ति श्लथीकृत्य निश्चरन्तस्ततो बहिः । त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत् ॥ ३ ॥ १४.३ व् दूषयन्तः श्लथीकृत्य कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः । प्रपद्य धातून् व्याप्यान्तः सर्वान् संक्लेद्य चावहेत् ॥ ४ ॥ सस्वेदक्लेदसंकोथान् कृमीन् सूक्ष्मान् सुदारुणान् । रोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात् ॥ ५ ॥ भक्षयेच्छ्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम् । कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः ॥ ६ ॥ १४.६ व् पृथग्द्वन्द्वैः समागतैः सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः । वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात् ॥ ७ ॥ मण्डलाख्यं विचर्ची च ऋक्षाख्यं वातपित्तजम् । चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः ॥ ८ ॥ १४.८ व् ऋक्षाक्षं वातपित्तजम् वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी । पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥ ९ ॥ सर्वैः स्यात्काकणं पूर्वं त्रिकं दद्रु सकाकणम् । पुण्डरीकर्क्षजिह्वे च महाकुष्ठानि सप्त तु ॥ १० ॥ १४.१० व् त्रिकं दद्रूः सकाकणा १४.१० व् पुण्डरीकर्श्यजिह्वे च अतिश्लक्ष्णखरस्पर्शखेदास्वेदविवर्णताः । दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः ॥ ११ ॥ व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम् ॥ १२ ॥ रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् । कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु ॥ १३ ॥ विस्तृतासमपर्य्अन्तं हृषितैर्रोमभिश्चितम् । तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च ॥ १४ ॥ १४.१४ व् दूषितैर्रोमभिश्चितम् पक्वोदुम्बरताम्रत्वग्रोम गौरसिराचितम् । बहलं बहलक्लेदरक्तं दाहरुजाधिकम् ॥ १५ ॥ १४.१५ व् रोम गौरसिराततम् १४.१५ व् बहुलं बहुलक्लेद आशूत्थानावदरणकृमि विद्यादुदुम्बरम् । स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमन्आशुगम् ॥ १६ ॥ अन्योऽन्यसक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि । श्लक्ष्णपीताभपर्य्अन्तं मण्डलं परिमण्डलम् ॥ १७ ॥ १४.१७ व् अन्योऽन्यसक्तमुच्छूनं १४.१७ व् अन्योऽन्यसक्तमुत्सङ्गं सकण्डूपिटिका श्यावा लसीकाढ्या विचर्चिका । परुषं तनु रक्तान्तमन्तःश्यावं समुन्नतम् ॥ १८ ॥ सतोददाहरुक्क्लेदं कर्कशैः पिटिकैश्चितम् । ऋक्षजिह्वाकृति प्रोक्तमृक्षजिह्वं बहुक्रिमि ॥ १९ ॥ १४.१९ व् ऋश्यजिह्वाकृति प्रोक्तम् १४.१९ व् ऋश्यजिह्वं बहुक्रिमि हस्तिचर्मखरस्पर्शं चर्मैकाख्यं महाश्रयम् । अस्वेदं मत्स्यशकलसंनिभं किटिभं पुनः ॥ २० ॥ रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम् । सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् ॥ २१ ॥ श्लक्ष्णस्पर्शं तनु श्वेतताम्रं दौग्धिकपुष्पवत् । प्रायेण चोर्ध्वकाये स्याद्गण्डैः कण्डूयुतैश्चितम् ॥ २२ ॥ रक्तैरलसकं पाणिपाददार्यो विपादिकाः । तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः ॥ २३ ॥ दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः । उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी ॥ २४ ॥ स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम् । शतारुः क्लेदजन्त्व्आढ्यं प्रायशः पर्वजन्म च ॥ २५ ॥ रक्तान्तमन्तरा पाण्डु कण्डूदाहरुजान्वितम् । सोत्सेधमाचितं रक्तैः पद्मपत्त्रमिवांशुभिः ॥ २६ ॥ घनभूरिलसीकासृक्प्रायमाशु विभेदि च । पुण्डरीकं तनुत्वग्भिश्चितं स्फोटैः सितारुणैः ॥ २७ ॥ विस्फोटं पिटिकाः पामा कण्डूक्लेदरुजाधिकाः । सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पाणिकूर्परे ॥ २८ ॥ सस्फोटमस्पर्शसहं कण्डूषातोददाहवत् । रक्तं दलच्चर्मदलं काकणं तीव्रदाहरुक् ॥ २९ ॥ पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम् । कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत् ॥ ३० ॥ दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः । कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत् ॥ ३१ ॥ रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम् । याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम् ॥ ३२ ॥ अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत् । तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः ॥ ३३ ॥ स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः । पाणिपादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकम् ॥ ३४ ॥ कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि । नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः ॥ ३५ ॥ क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम् । यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृग्आदिषु ॥ ३६ ॥ १४.३६ व् स्वदारापत्यधावनम् कुष्ठैकसंभवं श्वित्रं किलासं दारुणं च तत् । निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ ३७ ॥ १४.३७ व् किलासं चारुणं च तत् वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्त्रवत् । सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ॥ ३८ ॥ सकण्डु च क्रमाद्रक्तमांसमेदःसु चादिशेत् । वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ ३९ ॥ अशुक्लरोमाबहलमसंसृष्टं मिथो नवम् । अन्अग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥ ४० ॥ १४.४० व् अशुक्लरोमाबहुलम् १४.४० व् असंसृष्टमथो नवम् गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् । स्पर्शैकाहारशय्यादिसेवनात्प्रायशो गदाः ॥ ४१ ॥ सर्वे संचारिणो नेत्रत्वग्विकारा विशेषतः । कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः ॥ ४२ ॥ बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः । नामतो विंशतिविधा बाह्यास्तत्रामृजोद्भवाः ॥ ४३ ॥ १४.४३ व् बाह्यास्तत्र मलोद्भवाः १४.४३ व् बाह्यास्तत्रासृग्उद्भवाः तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः । बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥ ४४ ॥ द्विधा ते कोठपिटिकाकण्डूगण्डान् प्रकुर्वते । कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजास्तेषु चाधिकम् ॥ ४५ ॥ मधुरान्नगुडक्षीरदधिसक्तुनवौदनैः । शकृज्जा बहुविड्धान्यपर्णशाकोलकादिभिः ॥ ४६ ॥ १४.४६ व् मधुराम्लगुडक्षीर १४.४६ व् पर्णशाकौकुलादिभिः कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः । पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥ ४७ ॥ रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः । श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ ४८ ॥ अन्त्रादा उदरावेष्टा हृदयादा महाकुहाः । कुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥ ४९ ॥ १४.४९ व् अन्त्रादा उदराविष्टा १४.४९ व् हृदयादा महारुहाः १४.४९ व् चुरवो दर्भकुसुमाः हृल्लासमास्यस्रवणमविपाकमरोचकम् । मूर्छाछर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥ ५० ॥ रक्तवाहिसिरोत्थाना रक्तजा जन्तवोऽणवः । अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥ ५१ ॥ १४.५१ व् रक्तवाहिसिरास्थानाद् १४.५१ व् रक्तवाहिसिरास्थाना केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः । षट्ते कुष्ठैककर्माणः सहसौरसमातरः ॥ ५२ ॥ १४.५२ च् सहजा रसमातरः पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः । वृद्धाः सन्तो भवेयुश्च ते यदामाशयोन्मुखाः ॥ ५३ ॥ १४.५३ व् वृद्धास्ते स्युर्भवेयुश्च तदास्योद्गारनिःश्वासा विड्गन्धानुविधायिनः । पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥ ५४ ॥ ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः । सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च ॥ ५५ ॥ १४.५५ व् सौसुरादाः शलूनाख्या विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः । रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात् ॥ ५६ ॥ १४.५६ व् गुदकण्डूर्विनिर्गताः १४.५६ व् गुदकण्डूर्विमार्गगाः णिदानस्थान सर्वार्थान्अर्थकरणे विश्वस्यास्यैककारणम् । अदुष्टदुष्टः पवनः शरीरस्य विशेषतः ॥ १ ॥ स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः । स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः ॥ २ ॥ तद्अदुष्टौ प्रयत्नेन यतितव्यमतः सदा । तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम् ॥ ३ ॥ समासाद्व्यासतो दोषभेदीये नाम धाम च । प्रत्य्एकं पञ्चधा चारो व्यापारश्चेह वैकृतम् ॥ ४ ॥ तस्योच्यते विभागेन सनिदानं सलक्षणम् । धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः ॥ ५ ॥ असंख्यमपि संख्याय यदशीत्या पुरेरितम् ५.१+(१)अब् ॥ १५.५.१+(१)ब्व् यथाशीत्यपरेरितम् चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन् । तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली ॥ ६ ॥ तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम् । मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम् ॥ ७ ॥ करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान् । आमाशये तृड्वमथुश्वासकासविषूचिकाः ॥ ८ ॥ १५.८ व् करोत्यधरकायेषु कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः । श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते ॥ ९ ॥ रक्ते तीव्रा रुजः स्वापं तापं रागं विवर्णताम् । अरूंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम् ॥ १० ॥ १५.१० व् अरूंष्यङ्गस्य विष्टम्भम् मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशाञ्छ्रमम् । गुर्वङ्गं चातिरुक्स्तब्धं मुष्टिदण्डहतोपमम् ॥ ११ ॥ १५.११ व् तोदाढ्यान् कर्कशाञ्छ्रमान् १५.११ व् तोदाढ्यान् कर्कशान् भृशम् अस्थिस्थः सक्थिसंध्य्अस्थिशूलं तीव्रं बलक्षयम् । मज्जस्थोऽस्थिषु सौषिर्यमस्वप्नं संततां रुजम् ॥ १२ ॥ १५.१२ व् अस्वप्नं स्तब्धतां रुजम् शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा । तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते ॥ १३ ॥ तत्स्थः स्नावस्थितः कुर्याद्गृध्रस्य्आयामकुब्जताः । वातपूर्णदृतिस्पर्शं शोफं संधिगतोऽनिलः ॥ १४ ॥ १५.१४ व् गृध्रस्य्आयामकुब्जताम् प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम् । सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ॥ १५ ॥ स्तम्भनाक्षेपणस्वापसंध्य्आकुञ्चनकम्पनम् । यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः ॥ १६ ॥ तदाङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः । अधः प्रतिहतो वायुर्व्रजन्नूर्ध्वं हृद्आश्रिताः ॥ १७ ॥ १५.१७ व् व्रजन्नूर्ध्वं हृद्आश्रयाः नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन् । आक्षिपेत्परितो गात्रं धनुर्वच्चास्य नामयेत् ॥ १८ ॥ १५.१८ व् शिरः शङ्खौ च पीडयेत् कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः । कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ॥ १९ ॥ स एव चापतानाक्य्हो मुक्ते तु मरुता हृदि । अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते ॥ २० ॥ १५.२० व् अश्नुवीत इव स्वास्थ्यं गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः । अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः ॥ २१ ॥ मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा । व्याप्नोति सकलं देहं जत्रुरायम्यते तदा ॥ २२ ॥ १५.२२ व् आगच्छन् धमनीर्यदा अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः । करोति जृम्भां दशनं दशनानां कफोद्वमम् ॥ २३ ॥ पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहम् । अन्तर्आयाम इत्येष बाह्यायामश्च तद्विधः ॥ २४ ॥ देहस्य बहिर्आयामात्पृष्ठतो नीयते शिरः । उरश्चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते ॥ २५ ॥ १५.२५ व् पृष्ठतो ह्रियते शिरः दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता । बाह्यायामं धनुःष्कम्भं ब्रुवते वेगिनं च तम् ॥ २६ ॥ १५.२६ व् बाह्यायामं धनुःस्तम्भं व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात् । व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम् ॥ २७ ॥ १५.२७ व् व्रणं मर्माश्रयं प्राप्य तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः । गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु च ॥ २८ ॥ १५.२८ व् सर्वेष्वाक्षेपकेषु तु जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः । कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू ॥ २९ ॥ करोति विवृतास्यत्वमथवा संवृतास्यताम् । हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् ॥ ३० ॥ वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः । जिह्वास्तम्भः स तेनान्नपानवाक्येष्वन्ईशता ॥ ३१ ॥ शिरसा भारहरणादतिहास्यप्रभाषणात् । उत्त्रासवक्त्रक्षवथोः खरकार्मुककर्षणात् ॥ ३२ ॥ १५.३२ व् उच्छ्वासवक्रक्षवथु १५.३२ व् उत्त्रासवक्त्रक्षवथु १५.३२ व् खरकार्मुककर्षणात् विषमादुपधानाच्च कठिनानां च चर्वणात् । वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः ॥ ३३ ॥ वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम् । ततोऽस्य कम्पते मूर्धा वाक्सङ्गः स्तब्धनेत्रता ॥ ३४ ॥ १५.३४ व् वाग्भङ्गः स्तब्धनेत्रता दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः । गन्धाज्ञानं स्मृतेर्मोहस्त्रासः सुप्तस्य जायते ॥ ३५ ॥ निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णो निमीलनम् । जत्रोरूर्ध्वं रुजा तीव्रा शरीरार्धेऽधरेऽपि वा ॥ ३६ ॥ तमाहुरर्दितं केचिदेकायाममथापरे । रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः ॥ ३७ ॥ रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात्सिराग्रहः । गृहीत्वार्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च ॥ ३८ ॥ पक्षमन्यतरं हन्ति संधिबन्धान् विमोक्षयन् । कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः ॥ ३९ ॥ एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः । सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले ॥ ४० ॥ शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः । कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षयहेतुकः ॥ ४१ ॥ आमबद्धायनः कुर्यात्संस्थभ्याङ्गं कफान्वितः । असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत् ॥ ४२ ॥ अंसमूलस्थितो वायुः सिराः संकोच्य तत्रगाः । बाहुप्रस्पन्दितहरं जनयत्यवबाहुकम् ॥ ४३ ॥ तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः । बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता ॥ ४४ ॥ १५.४४ व् बाह्वोः कर्मक्षयकरी वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा । तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि ॥ ४५ ॥ कम्पते गमनारम्भे खञ्जन्निव च याति यः । कलायखञ्जं तं विद्यान्मुक्तसंधिप्रबन्धनम् ॥ ४६ ॥ शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः । जीर्णाजीर्णे तथायाससंक्षोभस्वप्नजागरैः ॥ ४७ ॥ सश्लेष्ममेदःपवनमाममत्य्अर्थसंचितम् । अभिभूयेतरं दोषमूरू चेत्प्रतिपद्यते ॥ ४८ ॥ सक्थ्य्अस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत् । तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ ४९ ॥ १५.४९ व् तदा स्कन्दति तेनोरू १५.४९ व् तदा स्कन्नाति तेनोरू परकीयाविव गुरू स्यातामतिभृशव्यथौ । ध्यानाङ्गमर्दस्तैमित्यतन्द्राछर्द्य्अरुचिज्वरैः ॥ ५० ॥ संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः । तमूरुस्तम्भमित्याहुराढ्यवातमथापरे ॥ ५१ ॥ १५.५१ व् संयुक्तौ पादसदन वातशोणितजः शोफो जानुमध्ये महारुजः । ज्ञेयः क्रोष्टुकशीर्षश्च स्थूलः क्रोष्टुकशीर्षवत् ॥ ५२ ॥ १५.५२ व् स्थूलः क्रोष्टुकमूर्धवत् रुक्पादे विषमन्यस्ते श्रमाद्वा जायते यदा । वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् ॥ ५३ ॥ पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता । सक्थ्य्उत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ ५४ ॥ विश्वाची गृध्रसी चोक्ता खल्लिस्तीव्ररुजान्विते । हृष्येते चरणौ यस्य भवेतां च प्रसुप्तवत् ॥ ५५ ॥ १५.५५ व् खल्लिस्तीव्ररुजान्विता पादहर्षः स विज्ञेयः कफमारुतकोपजः । पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ॥ ५६ ॥ विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत् ॥ ५६ªअब् ॥ १५.५६ªअव् विशेषतश्चङ्क्रमतः णिदानस्थान विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम् । भजतां विधिहीनं च स्वप्नजागरमैथुनम् ॥ १ ॥ १६.१ व् तत्तथासृक्प्रदूषणम् प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम् । अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥ २ ॥ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः । तादृशैवासृजा रुद्धः प्राक्तदेव प्रदूषयेत् ॥ ३ ॥ १६.३ व् तादृशेनासृजा रुद्धः आढ्यरोगं खुडं वातबलासं वातशोणितम् । तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति ॥ ४ ॥ १६.४ व् पलाशं वातशोणितम् विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम् । भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता ॥ ५ ॥ जानुजङ्घोरुकट्य्अंसहस्तपादाङ्गसंधिषु । कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ॥ ६ ॥ भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च । पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ॥ ७ ॥ आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति । त्वङ्मांसाश्रयमुत्तानं तत्पूर्वं जायते ततः ॥ ८ ॥ कालान्तरेण गम्भीरं सर्वान् धातूनभिद्रवत् । कण्ड्व्आदिसंयुतोत्ताने त्वक्ताम्रा श्यावलोहिता ॥ ९ ॥ सायामा भृशदाहोषा गम्भीरेऽधिकपूर्वरुक् । श्वयथुर्ग्रथितः पाकी वायुः संध्य्अस्थिमज्जसु ॥ १० ॥ छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान् । करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन् ॥ ११ ॥ १६.११ व् छिन्दन्निव चरन्नन्तर् वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् । शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः ॥ १२ ॥ धमन्य्अङ्गुलिसंधीनां संकोचोऽङ्गग्रहोऽतिरुक् । शीतद्वेषान्उपशयौ स्तम्भवेपथुसुप्तयः ॥ १३ ॥ रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते । स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ॥ १४ ॥ पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः सतृट् । स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता ॥ १५ ॥ कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशितताः । कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च संकरे ॥ १६ ॥ एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् । त्रिदोषजं त्यजेत्स्रावि स्तब्धमर्बुदकारि च ॥ १७ ॥ १६.१७ व् त्रिदोषं तत्त्यजेत्स्रावि रक्तमार्गं निहत्याशु शाखासंधिषु मारुतः । निविश्यान्योऽन्यमावार्य वेदनाभिर्हरत्यसून् ॥ १८ ॥ १६.१८ व् रक्तमार्गं निहन्त्याशु वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः । अत्य्आहाराभिघाताध्ववेगोदीरणधारणैः ॥ १९ ॥ १६.१९ व् रूक्षव्यायामलङ्घनैः कुपितश्चक्षुर्आदीनामुपघातं प्रवर्तयेत् । पीनसार्दिततृट्कासश्वासादींश्चामयान् बहून् ॥ २० ॥ उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः । गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान् ॥ २१ ॥ १६.२१ व् च्छर्दिनिद्रावधारणैः कण्ठरोधमनोभ्रंशच्छर्द्य्अरोचकपीनसान् । कुर्याच्च गलगण्डादींस्तांस्ताञ्जत्रूर्ध्वसंश्रयान् ॥ २२ ॥ व्यानोऽतिगमनध्यानक्रीडाविषमचेष्टितैः । विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ २३ ॥ १६.२३ व् व्यानोऽतिगमनस्थान पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान् । सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः ॥ २४ ॥ १६.२४ व् रोमहर्षाङ्गसुप्तिताः कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान् । समानो विषमाजीर्णशीतसंकीर्णभोजनैः ॥ २५ ॥ करोत्यकालशयनजागराद्यैश्च दूषितः । शूलगुल्मग्रहण्य्आदीन् पक्वामाशयजान् गदान् ॥ २६ ॥ अपानो रूक्षगुर्व्अन्नवेगाघातातिवाहनैः । यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः ॥ २७ ॥ १६.२७ व् वेगघातातिवाहनैः कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् । मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून् ॥ २८ ॥ सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः । स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः ॥ २९ ॥ कटुरूक्षाभिलाषेण तद्विधोपशयेन च । युक्तं विद्यान्निर्आमं तु तन्द्रादीनां विपर्ययात् ॥ ३० ॥ वायोरावरणं चातो बहुभेदं प्रवक्ष्यते । लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥ ३१ ॥ १६.३१ व् बहुभेदं प्रचक्ष्यते कटुकोष्णाम्ललवणैर्विदाहः शीतकामता । शैत्यगौरवशूलानि कट्व्आद्य्उपशयोऽधिकम् ॥ ३२ ॥ लङ्घनायासरूक्षोष्णकामता च कफावृते । रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजा भृशम् ॥ ३३ ॥ भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च । मांसेन कठिनः शोफो विवर्णः पिटिकास्तथा ॥ ३४ ॥ हर्षः पिपीलिकानां च संचार इव जायते । चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः ॥ ३५ ॥ १६.३५ व् हर्षः पिपीलिकादीनां आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते । स्पर्शमस्थ्य्आवृतेऽत्य्उष्णं पीडनं चाभिनन्दति ॥ ३६ ॥ सूच्येव तुद्यतेऽत्य्अर्थमङ्गं सीदति शूल्यते । मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ ३७ ॥ शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम् । शुक्रावृतेऽतिवेगो वा न वा निष्फलतापि वा ॥ ३८ ॥ १६.३८ व् शूलं च पीड्यमाने च १६.३८ व् शूलं च पीड्यमाने तु १६.३८ व् न वा निष्फलतापि च भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले । मूत्राप्रवृत्तिराध्मानं वस्तेर्मूत्रावृते भवेत् ॥ ३९ ॥ १६.३९ व् वस्तौ मूत्रावृते भवेत् विड्आवृते विबन्धोऽधः स्वस्थाने परिकृन्तति । व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ॥ ४० ॥ १६.४० व् विड्आवृतेऽतिविड्रोधः १६.४० व् स्वे स्थाने परिकृन्तति शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत् । सर्वधात्व्आवृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ ४१ ॥ विलोमो मारुतोऽस्वस्थं हृदयं पीड्यतेऽति च । भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ ४२ ॥ १६.४२ व् विलोमो मारुतोऽस्वास्थ्यं १६.४२ व् भ्रमो मूर्छा रुजानाहः विदग्धेऽन्ने च वमनमुदानेऽपि भ्रमादयः । दाहोऽन्तरूर्जाभ्रंशश्च दाहो व्याने च सर्वगः ॥ ४३ ॥ १६.४३ व् दाहो व्याने तु सर्वगः क्लमोऽङ्गचेष्टासङ्गश्च ससंतापः सवेदनः । समान ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट् ॥ ४४ ॥ १६.४४ व् क्लमोऽङ्गचेष्टाभङ्गश्च दाहश्च स्यादपाने तु मले हारिद्रवर्णता । रजोऽतिवृत्तिस्तापश्च योनिमेहनपायुषु ॥ ४५ ॥ १६.४५ व् रजोऽतिवृद्धिस्तापश्च श्लेष्मणा त्वावृते प्राणे सादस्तन्द्रारुचिर्वमिः । ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः ॥ ४६ ॥ उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः । बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः ॥ ४७ ॥ १६.४७ व् व्याने पार्श्वास्थिवाग्ग्रहः गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता ॥ ४८ ॥ अपाने सकफं मूत्रशकृतः स्यात्प्रवर्तनम् । इति द्वाविंशतिविधं वायोरावरणं विदुः ॥ ४९ ॥ १६.४९ व् अपाने सकफं मूत्रं १६.४९ व् शकृतः स्यात्प्रवर्तनम् प्राणादयस्तथान्योऽन्यमावृण्वन्ति यथाक्रमम् । सर्वेऽपि विंशतिविधं विद्यादावरणं च तत् ॥ ५० ॥ १६.५० व् आवृण्वन्ति यथायथम् निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः । हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते ॥ ५१ ॥ १६.५१ व् हृद्रोगो मुखरोगश्च उदानेनावृते प्राणे वर्णौजोबलसंक्षयः । दिशानया च विभजेत्सर्वमावरणं भिषक् ॥ ५२ ॥ स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् । प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः ॥ ५३ ॥ पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः । मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा ॥ ५४ ॥ तारतम्यविकल्पाच्च यात्यावृतिरसंख्यताम् । तां लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥ ५५ ॥ शनैः शनैश्चोपशयाद्गूढामपि मुहुर्मुहुः । विशेषाज्जीवितं प्राण उदानो बलमुच्यते ॥ ५६ ॥ स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च । आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥ ५७ ॥ प्रयत्नेनापि दुःसाध्या भवेयुर्वान्उपक्रमाः । विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः ॥ ५८ ॥ भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् ॥ ५८ªअब् ॥ व्याधीनां संशयं छेत्तुमन्यतो योऽप्रमत्तवान् । निदानं सततं तेन चिन्तनीयं विपश्चिता ॥ ५८ª+१ ॥ Cइकित्सास्थान आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधाय यत् । विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम् ॥ १ ॥ प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन् । बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः ॥ २ ॥ १.२ व् आरोग्यार्थं क्रियाक्रमः लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति । स्वास्थ्यं क्षुत्तृड्रुचिः पक्तिर्बलमोजश्च जायते ॥ ३ ॥ तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले । सहृल्लासप्रसेकान्नद्वेषकासविषूचिके ॥ ४ ॥ सद्योभुक्तस्य संजाते ज्वरे सामे विशेषतः । वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा ॥ ५ ॥ श्वासातीसारसंमोहहृद्रोगविषमज्वरान् । पिप्पलीभिर्युतान् गालान् कलिङ्गैर्मधुकेन वा ॥ ६ ॥ उष्णाम्भसा समधुना पिबेत्सलवणेन वा । पटोलनिम्बकर्कोटवेत्रपत्त्रोदकेन वा ॥ ७ ॥ तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि वा । वमनानि प्रयुञ्जीत बलकालविभागवित् ॥ ८ ॥ कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम् । दोषाणां समुदीर्णानां पाचनाय शमाय च ॥ ९ ॥ दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते । तस्मादादोषपचनाज्ज्वरितानुपवासयेत् ॥ १० ॥ १.१० व् आमेन भस्मनेवाग्नौ तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे । तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत् ॥ ११ ॥ १.११ व् तृष्यन्नल्पाल्पमुष्णाम्बु उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत् । लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम् ॥ १२ ॥ निद्राजाड्यारुचिहरं प्राणानामवलम्बनम् । विपरीतमतः शीतं दोषसंघातवर्धनम् ॥ १३ ॥ उष्णमेवङ्गुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले । उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि ॥ १४ ॥ विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि । घनचन्दनशुण्ठ्य्अम्बुपर्पटोशीरसाधितम् ॥ १५ ॥ शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम् । ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना ॥ १६ ॥ तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम् । स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम् ॥ १७ ॥ अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे । न पिबेदौषधं तद्धि भूय एवाममावहेत् ॥ १८ ॥ आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव । सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि ॥ १९ ॥ १.१९ व् जङ्घापार्श्वास्थिशूलिनि वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत् । स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम् ॥ २० ॥ स्नेहोक्तमाचारविधिं सर्वशश्चानुपालयेत् । लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः ॥ २१ ॥ १.२१ व् यवागूस्तिक्तको रसः मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा । शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम् ॥ २२ ॥ नेष्यते तेषु हि हितं शमनं यन्न कर्शनम् । तत्र सामज्वराकृत्या जानीयादविशोषितम् ॥ २३ ॥ १.२३ व् शमनं यन्न कर्षणम् द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने । युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत् ॥ २४ ॥ यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः । षड्अहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात् ॥ २५ ॥ तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः । प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम् ॥ २६ ॥ ससैन्धवां तथाम्लार्थी तां पिबेत्सहदाडिमाम् । सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम् ॥ २७ ॥ वस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम् । पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ॥ २८ ॥ सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम् । ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान् ॥ २९ ॥ पञ्चमूलेन महता कफार्तो यवसाधिताम् । विबद्धवर्चाः सयवां पिप्पल्य्आमलकैः कृताम् ॥ ३० ॥ १.३० व् पिप्पल्य्आमलकैः शृतां यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम् । चविकापिप्पलीमूलद्राक्षामलकनागरैः ॥ ३१ ॥ कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि । कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम् ॥ ३२ ॥ १.३२ व् धावनीश्रीबलाकृताम् अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः । सिताबदरमृद्वीकाशारिवामुस्तचन्दनैः ॥ ३३ ॥ १.३३ व् अस्वेदनिद्रातृष्णार्तः तृष्णाछर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम् । कुर्यात्पेयौषधैरेव रसयूषादिकानपि ॥ ३४ ॥ १.३४ व् तृष्णाछर्दिपरीवार १.३४ व् तृष्णाछर्दिपरो दाह मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे । ग्रीष्मे तयोर्वाधिकयोस्तृट्छर्दिर्दाहपीडिते ॥ ३५ ॥ १.३५ व् तृट्छर्दिदाहपीडिते ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु । ज्वरापहैः फलरसैरद्भिर्वा लाजतर्पणात् ॥ ३६ ॥ १.३६ व् अद्भिर्वा लाजतर्पणम् पिबेत्सशर्कराक्षौद्रान् ततो जीर्णे तु तर्पणे । यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम् ॥ ३७ ॥ १.३७ व् पिबेत्सशर्कराक्षौद्रं १.३७ व् ततो जीर्णे च तर्पणे १.३७ व् यवाग्वामोदनं क्षुद्वान् १.३७ व् यवाग्वां चौदनं क्षुद्वान् दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः । इत्ययं षड्अहो नेयो बलं दोषं च रक्षता ॥ ३८ ॥ ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते । कषायो दोषशेषस्य पाचनः शमनोऽथवा ॥ ३९ ॥ तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे । पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते ॥ ४० ॥ १.४० व् कषायस्तु न शस्यते नवज्वरे मलस्तम्भात्कषायो विषमज्वरम् । कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि ॥ ४१ ॥ सप्ताहादौषधं केचिदाहुरन्ये दशाहतः । केचिल्लघ्व्अन्नभुक्तस्य योज्यमामोल्बणे न तु ॥ ४२ ॥ १.४२ व् आहुश्चान्ये दशाहतः तीव्रज्वरपरीतस्य दोषवेगोदये यतः । दोषेऽथवातिनिचिते तन्द्रास्तैमित्यकारिणि ॥ ४३ ॥ अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम् । मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा ॥ ४४ ॥ अचिरज्वरितस्यापि भेषजं योजयेत्तदा । मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयापि वा ॥ ४५ ॥ पाक्यं शीतकषायं वा पाठोशीरं सवालकम् । पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम् ॥ ४६ ॥ यथायोगमिमे योज्याः कषाया दोषपाचनाः । ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः ॥ ४७ ॥ कलिङ्गकाः पटोलस्य पत्त्रं कटुकरोहिणी ॥ ४८ ब् ॥ पटोलं शारिवा मुस्ता पाठा कटुकरोहिणी । पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः ॥ ४९ ॥ किराततिक्तममृता चन्दनं विश्वभेषजम् । धात्रीमुस्तामृताक्षौद्रमर्धश्लोकसमापनाः ॥ ५० ॥ पञ्चैते संततादीनां पञ्चानां शमना मताः । दुरालभामृतामुस्तानागरं वातजे ज्वरे ॥ ५१ ॥ अथवा पिप्पलीमूलगुडूचीविश्वभेषजम् । कनीयः पञ्चमूलं च पित्ते शक्रयवा घनम् ॥ ५२ ॥ १.५२ व् पित्ते क्षौद्रसमन्विताः कटुका चेति सक्षौद्रं मुस्तापर्पटकं तथा । सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे ॥ ५३ ॥ १.५३ व् कलिङ्गमुस्तकटुका अथवा वृषगाङ्गेयीशृङ्गवेरदुरालभाः । रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम् ॥ ५४ ॥ अभयापिप्पलीमूलशम्याककटुकाघनम् । द्राक्षामधूकमधुकलोध्रकाश्मर्यशारिवाः ॥ ५५ ॥ मुस्तामलकह्रीवेरपद्मकेसरपद्मकम् । मृणालचन्दनोशीरनीलोत्पलपरूषकम् ॥ ५६ ॥ फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः । युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम् ॥ ५७ ॥ ज्वरं मदात्ययं छर्दिं मूर्छां दाहं श्रमं भ्रमम् । ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि ॥ ५८ ॥ १.५८ व् ज्वरं मदात्ययं छर्दिर् पाचयेत्कटुकां पिष्ट्वा कर्परेऽभिनवे शुचौ । निष्पीडितो घृतयुतस्तद्रसो ज्वरदाहजित् ॥ ५९ ॥ कफवाते वचातिक्तापाठारग्वधवत्सकाः । पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः ॥ ६० ॥ व्याघ्रीशुण्ठ्य्अमृताक्वाथः पिप्पलीचूर्णसंयुतः । वातश्लेष्मज्वरश्वासकासपीनसशूलजित् ॥ ६१ ॥ पथ्याकुस्तुम्बुरीमुस्ताशुण्ठीकट्तृणपर्पटम् । सकट्फलवचाभार्गीदेवाह्वं मधुहिङ्गुमत् ॥ ६२ ॥ कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः । कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति ॥ ६३ ॥ १.६३ व् कफवातज्वरे ष्ठेव आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत् । तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः ॥ ६४ ॥ पटोलातिविषानिम्बमूर्वाधन्वयवासकाः । संनिपातज्वरे व्याघ्रीदेवदारुनिशाघनम् ॥ ६५ ॥ पटोलपत्त्रनिम्बत्वक्त्रिफलाकटुकायुतम् । नागरं पौष्करं मूलं गुडूची कण्टकारिका ॥ ६६ ॥ सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे । मधूकपुष्पमृद्वीकात्रायमाणापरूषकम् ॥ ६७ ॥ सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम् । कषायं तं पिबन् काले ज्वरान् सर्वानपोहति ॥ ६८ ॥ १.६८ व् ज्वरान् सर्वान् व्यपोहति जात्य्आमलकमुस्तानि तद्वद्धन्वयवासकम् । बद्धविट्कटुकाद्राक्षात्रायन्तीत्रिफलागुडम् ॥ ६९ ॥ १.६९ व् त्रायन्तीत्रिफलागुडान् १.६९ व् त्रायन्तीत्रिफलागुडाः जीर्णौषधोऽन्नं पेयाद्यमाचरेच्छ्लेष्मवान्न तु । पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत् ॥ ७० ॥ श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत् । यूषान् कुलत्थचणककलायादिकृतान् लघून् ॥ ७१ ॥ १.७१ व् श्लेष्माभिषवदेहानाम् १.७१ व् श्लेष्माभिस्पन्ददेहानाम् रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून् । रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः ॥ ७२ ॥ श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः । ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् ॥ ७३ ॥ दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः । मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः ॥ ७४ ॥ कारवेल्लककर्कोटबालमूलकपर्पटैः । वार्ताकनिम्बकुसुमपटोलफलपल्लवैः ॥ ७५ ॥ अत्य्अन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः । व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः ॥ ७६ ॥ संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः । सितामधुभ्यां प्रायेण संयुता वा कृताकृताः ॥ ७७ ॥ अन्अम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च । अच्छान्यनलसंपन्नान्यनुपानेऽपि योजयेत् ॥ ७८ ॥ तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः । सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ॥ ७९ ॥ श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा । यथोचितेऽथवा काले देशसात्म्यानुरोधतः ॥ ८० ॥ प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते । कषायपानपथ्यान्नैर्दशाह इति लङ्घिते ॥ ८१ ॥ सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे । पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा ॥ ८२ ॥ दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत् । लङ्घनादिक्रमं तत्र कुर्यादाकफसंक्षयात् ॥ ८३ ॥ देहधात्व्अबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते । रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च ॥ ८४ ॥ वमनस्वेदकालाम्बुकषायलघुभोजनैः । यः स्यादतिबलो धातुः सहचारी सदागतिः ॥ ८५ ॥ तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः । वातपित्तजितामग्र्यं संस्कारं चानुरुध्यते ॥ ८६ ॥ १.८६ व् संस्कारमनुरुध्यते सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम् । विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः ॥ ८७ ॥ स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम् । पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम् ॥ ८८ ॥ त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम् । समसूरदलं क्वाथः सघृतो ज्वरकासहा ॥ ८९ ॥ पिप्पलीन्द्रयवधावनितिक्ताशारिवामलकतामलकीभिः । बिल्वमुस्तहिमपालनिसेव्यैर्द्राक्षयातिविषया स्थिरया च ॥ ९० ॥ घृतमाशु निहन्ति साधितं ज्वरमग्निं विषमं हलीमकम् । अरुचिं भृशतापमंसयोर्वमथुं पार्श्वशिरोरुजं क्षयम् ॥ ९१ ॥ १.९१ व् ज्वरमुग्रं विषमं हलीमकम् तैल्वकं पवनजन्मनि ज्वरे योजयेत्त्रिवृतया वियोजितम् । तिक्तकं वृषघृतं च पैत्तिके यच्च पालनिकया शृतं हविः ॥ ९२ ॥ विडङ्गसौवर्चलचव्यपाठाव्योषाग्निसिन्धूद्भवयावशूकैः । पलांशकैः क्षीरसमं घृतस्य प्रस्थं पचेज्जीर्णकफज्वरघ्नम् ॥ ९३ ॥ १.९३ व् पलांशिकैः क्षीरसमं घृतस्य गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य वा । मृद्वीकाया बलायाश्च स्नेहाः सिद्धा ज्वरच्छिदः ॥ ९४ ॥ जीर्णे घृते च भुञ्जीत मृदुमांसरसौदनम् । बलं ह्यलं दोषहरं परं तच्च बलप्रदम् ॥ ९५ ॥ १.९५ व् मृदुमांसरसाशनम् कफपित्तहरा मुद्गकारवेल्लादिजा रसाः । प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे ॥ ९६ ॥ शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः । न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम् ॥ ९७ ॥ शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत् । आमाशयगते दोषे बलिनः पालयन् बलम् ॥ ९८ ॥ पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे । मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः ॥ ९९ ॥ ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम् । द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम् ॥ १०० ॥ लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा ॥ १००.१+१ ब् ॥ आरग्वधं वा पयसा मृद्वीकानां रसेन वा । त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ १०१ ॥ विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम् । च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ॥ १०२ ॥ पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः । अतिप्रवर्तमानं वा पाचयन् संग्रहं नयेत् ॥ १०३ ॥ आमसंग्रहणे दोषा दोषोपक्रम ईरिताः । पाययेद्दोषहरणं मोहादामज्वरे तु यः ॥ १०४ ॥ १.१०४ व् आमसंग्रहणाद्दोषो १.१०४ व् दोषोपक्रम ईरितः प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत् । ज्वरक्षीणस्य न हितं वमनं न विरेचनम् ॥ १०५ ॥ कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान् । क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृड्वतः ॥ १०६ ॥ क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः । तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना ॥ १०७ ॥ दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति । संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा ॥ १०८ ॥ १.१०८ व् तद्वद्धारोष्णमेव वा विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा । पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम् ॥ १०९ ॥ शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम् । तद्वद्द्राक्षाबलायष्टीशारिवाकणचन्दनैः ॥ ११० ॥ चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत् । कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात् ॥ १११ ॥ मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः । शृतमेरण्डमूलेन बालबिल्वेन वा ज्वरात् ॥ ११२ ॥ धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः । सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात् ॥ ११३ ॥ सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः । शोफमूत्रशकृद्वातविबन्धज्वरकासजित् ॥ ११४ ॥ वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत् । शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम् ॥ ११५ ॥ १.११५ व् शिंशिपासारसिद्धं वा निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम् । दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते ॥ ११६ ॥ पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत् । स्रंसनं त्रीनपि मलान् वस्तिः पक्वाशयाश्रयान् ॥ ११७ ॥ १.११७ व् वस्तिः पक्वाशयाश्रितान् प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटीग्रहे । दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम् ॥ ११८ ॥ पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः । स्थिराबलागोक्षुरकमदनोशीरवालकैः ॥ ११९ ॥ पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम् । कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः ॥ १२० ॥ वस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम् । चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान् ॥ १२१ ॥ क्वाथयेत्कल्कयेद्यष्टीशताह्वाफलिनीफलम् । मुस्तं च वस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः ॥ १२२ ॥ जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम् । ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम् ॥ १२३ ॥ पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम् । ज्वरेऽनुवासनं दद्याद्यथास्नेहं यथामलम् ॥ १२४ ॥ १.१२४ व् ज्वरेऽनुवासनं दद्यात् १.१२४ व् तथा स्नेहं यथा मलम् १.१२४ व् यथादोषं यथाबलम् ये च सिद्धिषु वक्ष्यन्ते वस्तयो ज्वरनाशनाः । शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम् ॥ १२५ ॥ जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम् । स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम् ॥ १२६ ॥ धूमगण्डूषकवडान् यथादोषं च कल्पयेत् । प्रतिश्यायास्यवैरस्यशिरःकण्ठामयापहान् ॥ १२७ ॥ अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम् । धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत् ॥ १२८ ॥ यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान् । अभ्यङ्गालेपसेकादीञ्ज्वरे जीर्णे त्वग्आश्रिते ॥ १२९ ॥ कुर्यादञ्जनधूमांश्च तथैवागन्तुजेऽपि तान् । दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत् ॥ १३० ॥ सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः । दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः ॥ १३१ ॥ शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत् । तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरोपहम् ॥ १३२ ॥ शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत् । तत्क्वाथेन परीषेकमवगाहं च योजयेत् ॥ १३३ ॥ तथारनालसलिलक्षीरशुक्तघृतादिभिः । कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः ॥ १३४ ॥ बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा । लिप्तेऽङ्गे दाहरुङ्मोहाश्छर्दिस्तृष्णा च शाम्यति ॥ १३५ ॥ १.१३५ व् फेनेनारिष्टकस्य च १.१३५ व् फेनेनारिष्टजेन वा यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः । तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः ॥ १३६ ॥ वीर्योष्णैरुष्णसंस्पर्शैस्तगरागुरुकुङ्कुमैः । कुष्ठस्थौणेयशैलेयसरलामरदारुभिः ॥ १३७ ॥ नखरास्नापुरवचाचण्डैलाद्वयचोरकैः । पृथ्वीकाशिग्रुसुरसाहिंस्राध्यामकसर्षपैः ॥ १३८ ॥ १.१३८ व् नखरास्नामुखवचा दशमूलामृतैरण्डद्वयपत्तूररोहिषैः । तमालपत्त्रभूतीकशल्लकीधान्यदीप्यकैः ॥ १३९ ॥ १.१३९ व् तमालपत्त्रपूतीक मिशिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः । अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत् ॥ १४० ॥ क्वथितैः कल्कितैर्युक्तैः सुरासौवीरकादिभिः । तेनाभ्यञ्ज्यात्सुखोष्णेन तैः सुपिष्टैश्च लेपयेत् ॥ १४१ ॥ १.१४१ व् तेनाभ्यज्य सुखोष्णेन कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत् । केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः ॥ १४२ ॥ आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने । धूपानगुरुजान् यांश्च वक्ष्यन्ते विषमज्वरे ॥ १४३ ॥ १.१४३ व् धूपानगुरुजान् ये च अग्न्य्अन्अग्निकृतान् स्वेदान् स्वेदि भेषजभोजनन् । गर्भभूवेश्मशयनं कुथकम्बलरल्लकान् ॥ १४४ ॥ निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः । मद्यं सत्र्य्ऊषणं तक्रं कुलत्थव्रीहिकोद्रवान् ॥ १४५ ॥ संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम् । दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः ॥ १४६ ॥ १.१४६ व् भजेच्छीतार्दितो युक्त्या यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः । वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः ॥ १४७ ॥ १.१४७ व् वीतशीतं तु वियतास् वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा । कफस्थानानुपूर्व्या वा तुल्यकक्षाञ्जयेन्मलान् ॥ १४८ ॥ १.१४८ व् क्षपणेनोच्छ्रितस्य च शमयेत्पित्तमेवादौ ज्वरेषु समवायिषु । दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः ॥ १४८+१ ॥ छर्दिमूर्छापिपासादीनविरोधाञ्ज्वरस्य तु ॥ १४८+२ ब् ॥ संनिपातज्वरस्यान्ते कर्णमूले सुदारुणः । शोफः संजायते येन कश्चिदेव विमुच्यते ॥ १४९ ॥ १.१४९ व् शोफः संजायते तेन १.१४९ व् कश्चिदेव प्रमुच्यते रक्तावसेचनैः शीघ्रं सर्पिःपानैश्च तं जयेत् । प्रदेहैः कफपित्तघ्नैर्नावनैः कवडग्रहैः ॥ १५० ॥ १.१५० व् प्रदेहैः कफवातघ्नैर् शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति । शाखानुसारी तस्याशु मुञ्चेद्बाह्वोः क्रमात्सिराम् ॥ १५१ ॥ अयमेव विधिः कार्यो विषमेऽपि यथायथम् । ज्वरे विभज्य वातादीन् यश्चान्अन्तरमुच्यते ॥ १५२ ॥ १.१५२ व् विषमे च यथायथम् पटोलकटुकामुस्ताप्राणदामधुकैः कृताः । त्रिचतुःपञ्चशः क्वाथा विषमज्वरनाशनाः ॥ १५३ ॥ योजयेत्त्रिफलां पथ्यां गुडूचीं पिप्पलीं पृथक् । तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा ॥ १५४ ॥ लङ्घनं बृंहणं वादौ ज्वरागमनवासरे । प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम् ॥ १५५ ॥ १.१५५ व् लङ्घनं बृंहणं वापि जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम् । कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम् ॥ १५६ ॥ त्रिफलाकोलतर्कारीक्वाथे दध्ना शृतं घृतम् । तिल्वकत्वक्कृतावापं विषमज्वरजित्परम् ॥ १५७ ॥ सुरां तीक्ष्णं च यन्मद्यं शिखितित्तिरिदक्षजम् । मांसं मेद्योष्णवीर्यं च सहान्नेन प्रकामतः ॥ १५८ ॥ १.१५८ व् शिखितित्तिरिकुक्कुटात् १.१५८ व् मांसं मध्योष्णवीर्यं च १.१५८ व् मांसं मेध्योष्णवीर्यं च सेवित्वा तद्अहः स्वप्यादथवा पुनरुल्लिखेत् । सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत्पुनः ॥ १५९ ॥ नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम् । पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः ॥ १६० ॥ मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम् । योज्यं हिङ्गुसमा व्याघ्रीवसा नस्यं ससैन्धवम् ॥ १६१ ॥ पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा । पलङ्कषा निम्बपत्त्रं वचा कुष्ठं हरीतकी ॥ १६२ ॥ सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा । पुरध्यामवचासर्जनिम्बार्कागुरुदारुभिः ॥ १६३ ॥ धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः । धूपनस्याञ्जनोत्त्रासा ये चोक्ताश्चित्तवैकृते ॥ १६४ ॥ १.१६४ व् प्रयोक्तव्योऽपराजितः १.१६४ व् धूपनस्याञ्जनत्रासा दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति । विशेषाद्विषमान् प्रायस्ते ह्यागन्त्व्अनुबन्धजाः ॥ १६५ ॥ यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे । केवलानिलवीसर्पविस्फोटाभिहतज्वरे ॥ १६६ ॥ १.१६६ व् अशान्ते विषमज्वरे १.१६६ व् विस्फोटाभिहते ज्वरे सर्पिःपानहिमालेपसेकमांसरसाशनम् । कुर्याद्यथास्वमुक्तं च रक्तमोक्षादि साधनम् ॥ १६७ ॥ १.१६७ व् सर्पिःपानं हिमालेप १.१६७ व् सेकान्मांसरसाशनम् ग्रहोत्थे भूतविद्योक्तं बलिमन्त्रादि साधनम् । ओषधिगन्धजे पित्तशमनं विषजिद्विषे ॥ १६८ ॥ १.१६८ व् औषधिगन्धजे पित्त इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च । हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत् ॥ १६९ ॥ क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः । भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ ॥ १७० ॥ शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः । ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽन्अन्तरं मलैः ॥ १७१ ॥ तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत् । न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः ॥ १७२ ॥ ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत् । करुणार्द्रं मनः शुद्धं सर्वज्वरविनाशनम् ॥ १७३ ॥ १.१७३ व् सर्वज्वरविमोक्षणम् त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम् । गुर्व्असात्म्यविदाह्यन्नं यच्चान्यज्ज्वरकारणम् ॥ १७४ ॥ न विज्वरोऽपि सहसा सर्वान्नीनो भवेत्तथा । निवृत्तोऽपि ज्वरः शीघ्रं व्यापादयति दुर्बलम् ॥ १७५ ॥ १.१७५ व् सर्वान्नीनो भवेत्तदा १.१७५ व् निवृत्तो हि ज्वरः शीघ्रं सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः । तस्यां तस्यामवस्थायां तत्तत्कुर्याद्भिषग्जितम् ॥ १७६ ॥ १.१७६ व् तत्तत्कुर्याच्चिकित्सितम् ओषधयो मणयश्च सुमन्त्राः साधुगुरुद्विजदैवतपूजाः । प्रीतिकरा मनसो विषयाश्च घ्नन्त्यपि विष्णुकृतं ज्वरमुग्रम् ॥ १७७ ॥ १.१७७ व् औषधयो मणयश्च सुमन्त्राः Cइकित्सास्थान ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम् । रक्तपित्तं सुखे काले साधयेन्निर्उपद्रवम् ॥ १ ॥ अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम् । शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरं च यत् ॥ २ ॥ अतिप्रवृत्तं मन्दाग्नेस्त्रिदोषं द्विपथं त्यजेत् । ज्ञात्वा निदानमयनं मलावनुबलौ बलम् ॥ ३ ॥ देशकालाद्य्अवस्थां च रक्तपित्ते प्रयोजयेत् । लङ्घनं बृंहणं वादौ शोधनं शमनं तथा ॥ ४ ॥ २.४ व् लङ्घनं बृंहणं चादौ संतर्पणोत्थं बलिनो बहुदोषस्य साधयेत् । ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम् ॥ ५ ॥ २.५ व् वमनेन त्वधोगमम् शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च । ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ ॥ ६ ॥ २.६ व् लङ्घ्यबृंह्यानपेक्ष्य च उपवासश्च निःशुण्ठीषड्अङ्गोदकपायिनः । अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः ॥ ७ ॥ ऊर्ध्वगे तर्पणं योज्यं प्राक्च पेया त्वधोगते । अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत् ॥ ८ ॥ २.८ व् पेया पूर्वमधोगते २.८ व् प्राक्च पेया त्वधोगमे २.८ व् वा प्राक् पेया त्वधोगमे धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत् । त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम् ॥ ९ ॥ गलग्रहं पूतिनस्यं मूर्छायमरुचिं ज्वरम् । गुल्मं प्लीहानमानाहं किलासं मूत्रकृच्छ्रताम् ॥ ९.१+१ ॥ कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम् । बुद्धीन्द्रियोपरोधं च कुर्यात्स्तम्भितमादितः ॥ ९.१+२ ॥ साधयेद्विधिवल्लेहं लिह्यात्पाणितलं ततः । त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु ॥ १० ॥ मोदकः संनिपातोर्ध्वरक्तशोफज्वरापहः । त्रिवृत्समसिता तद्वत्पिप्पलीपादसंयुता ॥ ११ ॥ २.११ व् रक्तपित्तज्वरापहः वमनं फलसंयुक्तं तर्पणं ससितामधु । ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम् ॥ १२ ॥ क्षीरं वा रसमिक्षोर्वा शुद्धस्यान्अन्तरो विधिः । यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम् ॥ १३ ॥ मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलैः कृतः । मधुखर्जूरमृद्वीकापरूषकसिताम्भसा ॥ १४ ॥ मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः । दाडिमामलकाम्लो वा मन्दाग्न्य्अम्लाभिलाषिणाम् ॥ १५ ॥ २.१५ व् मन्दाग्न्य्अम्लाभिलाषिणः कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः । उशीरं शबरं लोध्रं शृङ्गवेरं कुचन्दनम् ॥ १६ ॥ ह्रीवेरं धातकीपुष्पं बिल्वमध्यं दुरालभा । अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः ॥ १७ ॥ २.१७ व् अर्धर्चैर्विहिताः पेया २.१७ व् अर्धार्धविहिताः पेया भूनिम्बसेव्यजलदा मसूराः पृश्निपर्ण्यपि । विदारिगन्धा मुद्गाश्च बला सर्पिर्हरेणुकाः ॥ १८ ॥ २.१८ व् बला सर्पिः प्रियङ्गुकाः जाङ्गलानि च मांसानि शीतवीर्याणि साधयेत् । पृथक्पृथग्जले तेषां यवागूः कल्पयेद्रसे ॥ १९ ॥ शीताः सशर्कराक्षौद्रास्तद्वन्मांसरसानपि । ईषद्अम्लानन्अम्लान् वा घृतभृष्टान् सशर्करान् ॥ २० ॥ शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते । अन्नस्वरूपविज्ञाने यदुक्तं लघुशीतलम् ॥ २१ ॥ पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम् । लघुना शृतशीतं वा मध्व्अम्भो वा फलाम्बु वा ॥ २२ ॥ शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः । उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके ॥ २३ ॥ प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः । यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत् ॥ २४ ॥ वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम् । पित्तासृक्शमयेत्पीतं निर्यासो वाटरूषकात् ॥ २५ ॥ शर्करामधुसंयुक्तः केवलो वा शृतोऽपि वा । वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम् ॥ २६ ॥ पटोलमालतीनिम्बचन्दनद्वयपद्मकम् । लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका ॥ २७ ॥ २.२७ व् पटोलामलकीनिम्ब शतावरी गोपकन्या काकोल्यौ मधुयष्टिका । रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः ॥ २८ ॥ पलाशवल्कक्वाथो वा सुशीतः शर्करान्वितः । लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम् ॥ २९ ॥ २.२९ व् पिबेद्वा मधुसर्पिर्भ्यां सक्षौद्रं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत् । अतिनिःस्रुतरक्तश्च क्षौद्रेण रुधिरं पिबेत् ॥ ३० ॥ २.३० व् लिह्यात्पारावतं शकृत् २.३० व् अतिनिःसृतरक्तश्च २.३० व् अतिनिःसृतरक्तो वा २.३० व् अतिनिःस्रुतरक्तो वा जाङ्गलं भक्षयेद्वाजमामं पित्तयुतं यकृत् । चन्दनोशीरजलदलाजमुद्गकणायवैः ॥ ३१ ॥ बलाजले पर्युषितैः कषायो रक्तपित्तहा । प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः ॥ ३२ ॥ सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित् । आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः ॥ ३३ ॥ स्थितं तद्गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम् । मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम् ॥ ३४ ॥ ये च पित्तज्वरे चोक्ताः कषायास्तांश्च योजयेत् । कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे ॥ ३५ ॥ रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः । युञ्ज्याच्छागं शृतं तद्वद्गव्यं पञ्चगुणेऽम्भसि ॥ ३६ ॥ पञ्चमूलेन लघुना शृतं वा ससितामधु । जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः ॥ ३७ ॥ पृथक्पृथक्शृतं क्षीरं सघृतं सितयाथवा । गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः ॥ ३८ ॥ हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम् । विण्मार्गगे विशेषेण हितं मोचरसेन तु ॥ ३९ ॥ वटप्ररोहैर्शुङ्गैर्वा शुण्ठ्य्उदीच्योत्पलैरपि । रक्तातीसारदुर्नामचिकित्सां चात्र कल्पयेत् ॥ ४० ॥ २.४० व् वटप्ररोहैर्शृङ्गैर्वा पीत्वा कषायान् पयसा भुञ्जीत पयसैव च । कषाययोगैरेभिर्वा विपक्वं पाययेद्घृतम् ॥ ४१ ॥ समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि । पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत् ॥ ४२ ॥ तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम् । पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः ॥ ४३ ॥ तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत् । पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत् ॥ ४४ ॥ सक्षौद्रं तच्च रक्तघ्नं तथैव त्रायमाणया । रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे ॥ ४५ ॥ लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम् । पृथक्पृथक्तथाम्भोजरेणुश्यामामधूकजम् ॥ ४६ ॥ गुदागमे विशेषेण शोणिते वस्तिरिष्यते । घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत् ॥ ४७ ॥ कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्व्आदिरसाप्लुतान् । क्षीरादीन् ससितांस्तोयं केवलं वा जलं हितम् ॥ ४८ ॥ २.४८ व् क्षीरेक्ष्व्आदिरसप्लुतान् रसो दाडिमपुष्पाणामाम्रास्थ्नः शाद्वलस्य वा । कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु ॥ ४९ ॥ २.४९ व् आम्रास्थ्नः शाद्वलस्य च सुसूक्ष्मा माषपिष्टी च घृतभृष्टा शिवस्य च । रुणद्धि मूर्धलेपेन नासारक्तं न संशयः ॥ ४९.१+१ ॥ यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् । रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत् ॥ ५० ॥ Cइकित्सास्थान केवलानिलजं कासं स्नेहैरादावुपाचरेत् । वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः ॥ १ ॥ लेहैर्धूमैस्तथाभ्यङ्गस्वेदसेकावगाहनैः । वस्तिभिर्बद्धविड्वातं सपित्तं तूर्ध्वभक्तिकैः ॥ २ ॥ ३.२ व् सपित्तं वोर्ध्वभक्तिकैः ३.२ व् सपित्तं वोर्ध्वभक्तिकैः घृतैः क्षीरैश्च सकफं जयेत्स्नेहविरेचनैः । गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे ॥ ३ ॥ प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः । क्षाररास्नावचाहिङ्गुपाठायष्ट्य्आह्वधान्यकैः ॥ ४ ॥ द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत् । दशमूलस्य निर्यूहे पीतो मण्डानुपायिना ॥ ५ ॥ स कासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत् । द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः ॥ ६ ॥ पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम् । तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम् ॥ ७ ॥ समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत् । प्रयुक्तं वातरोगेषु पाननावनवस्तिभिः ॥ ८ ॥ पञ्चकासाञ्छिरःकम्पं योनिवङ्क्षणवेदनाम् । सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ॥ ९ ॥ विदार्य्आदिगणक्वाथकल्कसिद्धं च कासजित् । अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः ॥ १० ॥ सविडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम् । लिह्यात्पयश्चानुपिबेदाजं कासातिपीडितः ॥ ११ ॥ ३.११ व् आजं कासाभिपीडितः ३.११ व् आजं कासादिपीडितः विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् । भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया ॥ १२ ॥ सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु । दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥ १३ ॥ ३.१३ व् शुण्ठीं द्राक्षां सितोपलाम् लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे । दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम् ॥ १४ ॥ पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत् । तद्वत्सकृष्णां शुण्ठीं च सभार्गीं तद्वदेव च ॥ १५ ॥ पिबेच्च कृष्णां कोष्णेन सलिलेन ससैन्धवाम् । मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम् ॥ १६ ॥ ३.१६ व् दध्ना वा कणरेणुकम् पिबेद्बदरमज्ज्ञो वा मदिरादधिमस्तुभिः । अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥ १७ ॥ ३.१७ व् पिबेद्बदरमज्जां वा कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत् । हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः ॥ १८ ॥ ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान् । रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ॥ १९ ॥ ३.१९ व् ग्राम्यानूपोद्भवैः शालि यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः । रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः ॥ २० ॥ सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत् । कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम् ॥ २१ ॥ दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम् । पिबेत्पेयां समतिलां क्षैरेयीं वा ससैन्धवाम् ॥ २२ ॥ मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम् । वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः ॥ २३ ॥ कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् । स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥ २४ ॥ दधिमस्त्व्आरनालाम्लफलाम्बुमदिराः पिबेत् । पित्तकासे तु सकफे वमनं सर्पिषा हितम् ॥ २५ ॥ तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः । फलयष्ट्य्आह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः ॥ २६ ॥ पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् । युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः ॥ २७ ॥ हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् । घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥ २८ ॥ लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः । सघृतः सानिले हितः सकफे साब्दमरिचः ॥ २९ ॥ ३.२९ व् लेहः पित्ते सिताधात्री मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम् । लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम् ॥ ३० ॥ त्वग्एलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः । लाजमुस्ताशठीरास्नाधात्रीफलविभीतकैः ॥ ३१ ॥ शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा । मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः ॥ ३२ ॥ मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः । घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः ॥ ३३ ॥ शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः । शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः ॥ ३४ ॥ काकोलीबृहतीमेदाद्वयैः सवृषनागरैः । पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत् ॥ ३५ ॥ द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले । तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करम् ॥ ३६ ॥ साधितां तेन पेयां वा सुशीतां मधुनान्विताम् । शठीह्रीवेरबृहतीशर्कराविश्वभेषजम् ॥ ३७ ॥ पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्छितम् । मेदां विदारीं काकोलीं स्वयङ्गुप्ताफलं बलाम् ॥ ३८ ॥ शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम् । कल्कीकृत्य पचेत्सर्पिः क्षीरेणाष्टगुणेन तत् ॥ ३९ ॥ पानभोजनलेहेषु प्रयुक्तं पित्तकासजित् । लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत् ॥ ४० ॥ कफकासी पिबेदादौ सुरकाष्ठात्प्रदीपितात् । स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम् ॥ ४१ ॥ ३.४१ व् कफकासे पिबेदादौ स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः । तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत् ॥ ४२ ॥ यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः । कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः ॥ ४३ ॥ धान्वबैलरसैः स्नेहैस्तिलसर्षपनिम्बजैः । दशमूलाम्बु घर्माम्बु मद्यं मध्व्अम्बु वा पिबेत् ॥ ४४ ॥ ३.४४ व् धान्वबैलरसैर्लेहैस् ३.४४ व् तिलसर्षपबिल्वजैः मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम् । पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु ॥ ४५ ॥ ३.४५ व् पटोलैरन्वितं निशाम् पिप्पली पिप्पलीमूलं शृङ्गवेरं विभीतकम् । शिखिकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः ॥ ४६ ॥ विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः । कफकासहरा लेहास्त्रयः श्लोकार्धयोजिताः ॥ ४७ ॥ मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम् । पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान् ॥ ४८ ॥ कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च । देवदारुशठीरास्नाकर्कटाख्यादुरालभाः ॥ ४९ ॥ ३.४९ व् सुरसस्यासितस्य वा पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला । लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा ॥ ५० ॥ ३.५० व् शृङ्गी धात्रीफलाद्रजः मधुतैलयुता लेहास्त्रयो वातानुगे कफे । द्वे पले दाडिमादष्टौ गुडाद्व्योषात्पलत्रयम् ॥ ५१ ॥ रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् । गुडक्षारोषणकणादाडिमं श्वासकासजित् ॥ ५२ ॥ ३.५२ व् दाडिमाच्छ्वासकासजित् क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम् । पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम् ॥ ५३ ॥ ३.५३ व् कर्षाक्षार्धपलोन्मितम् अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम् । सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा ॥ ५४ ॥ तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम् । पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतम् ॥ ५५ ॥ दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् । पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः ॥ ५६ ॥ ३.५६ व् पुष्कराख्यशठीबिल्व पेयानुपानं तत्सर्ववातश्लेष्मामयापहम् । निर्गुण्डीपत्त्रनिर्याससाधितं कासजिद्घृतम् ॥ ५७ ॥ घृतं रसे विडङ्गानां व्योषगर्भं च साधितम् ॥ ५७ªअब् ॥ पुनर्नवशिवातिकासरलकासमर्दामृता ॥ ५८ ॥ पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः ॥ ५८ ॥ घृतं त्रिकटुना च सिद्धमुपयुज्य संजायते ॥ ५८ ॥ न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम् ॥ ५८ ॥ समूलफलपत्त्रायाः कण्टकार्या रसाढके ॥ ५९ ब् ॥ ३.५९ व् समूलफलशाखायाः घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः । सौवर्चलयवक्षारमूलामलकपौष्करैः ॥ ६० ॥ वृश्चीवबृहतीपथ्यायवानीचित्रकर्द्धिभिः । मृद्वीकाचव्यवर्षाभूदुरालभाम्लवेतसैः ॥ ६१ ॥ शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् । कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते ॥ ६२ ॥ कण्टकारीघृतं चैतत्कफव्याधिविनाशनम् । पचेद्व्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते ॥ ६३ ॥ क्षिपेत्पूते तु संचूर्ण्य व्योषरास्नामृताग्निकान् । शृङ्गीभार्गीघनग्रन्थिधन्वयासान् पलार्धकान् ॥ ६४ ॥ ३.६४ व् क्षिपेत्पूते च संचूर्ण्य सर्पिषः षोडशपलं चत्वारिंशत्पलानि च । मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत् ॥ ६५ ॥ दर्वीलेपिनि शीते च पृथग्द्विकुडवं क्षिपेत् । पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च ॥ ६६ ॥ ३.६६ व् पिप्पलीनां तुकाक्षीर्या लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित् । शमनं च पिबेद्धूमं शोधनं बहले कफे ॥ ६७ ॥ ३.६७ व् शोधनं बहुले कफे मनःशिलालमधुकमांसीमुस्तेङ्गुदीत्वचः । धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु ॥ ६८ ॥ निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः । वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान् ॥ ६९ ॥ तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः । पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ॥ ७० ॥ कफानुबन्धे पवने कुर्यात्कफहरां क्रियाम् । पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम् ॥ ७१ ॥ वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम् । कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम् ॥ ७२ ॥ ३.७२ व् स्निग्धं चार्द्रे विरूक्षणम् उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् । क्षीरेण शालीन् जीर्णेऽद्यात्क्षीरेणैव सशर्करान् ॥ ७३ ॥ पार्श्ववस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम् । भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम् ॥ ७४ ॥ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयं गणं सिताम् । त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ ७५ ॥ ३.७५ व् त्वक्क्षीरीं संमितं क्षीरे इक्ष्वारिकाबिसग्रन्थिपद्मकेसरचन्दनैः । शृतं पयो मधुयुतं संधानार्थं पिबेत्क्षती ॥ ७६ ॥ यवानां चूर्णमामानां क्षीरे सिद्धं घृतान्वितम् । ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत् ॥ ७७ ॥ ३.७७ व् क्षीरसिद्धं घृतान्वितम् कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम् । गुडोदकं वा क्वथितं सक्षौद्रमरिचं हितम् ॥ ७८ ॥ ३.७८ व् कासवांश्च पिबेत्सर्पिर् चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम् । रसायनविधानेन पिप्पलीर्वा प्रयोजयेत् ॥ ७९ ॥ ३.७९ व् क्षीरपक्वं घृतान्वितम् कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः । मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः ॥ ८० ॥ ३.८० व् लिह्यात्सघृतमाक्षिकान् ३.८० व् त्वक्क्षीरीपिप्पलीबलान् त्रिजातमर्धकर्षांशं पिप्पल्य्अर्धपलं सिता । द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्णचूर्णितम् ॥ ८१ ॥ मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम् । कासश्वासारुचिच्छर्दिमूर्छाहिध्मामदभ्रमान् ॥ ८२ ॥ ३.८२ व् मूर्छाहिध्मावमिभ्रमान् क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान् । रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि ॥ ८३ ॥ ३.८३ व् प्लीहशोफाढ्यमारुतान् वर्षाभूशर्करारक्तशालितण्डुलजं रजः । रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारसपयोघृतैः ॥ ८४ ॥ मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम् । यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम् ॥ ८५ ॥ मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम् । क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान् ॥ ८६ ॥ शृतक्षीरसरेणाद्यात्सघृतक्षौद्रशर्करम् । शर्करायवगोधूमं जीवकर्षभकौ मधु ॥ ८७ ॥ ३.८७ व् शर्करां यवगोधूमं शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः । क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः ॥ ८८ ॥ पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् । न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः ॥ ८९ ॥ तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः । साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा ॥ ९० ॥ शाल्य्ओदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः । वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः ॥ ९१ ॥ तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना । हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः ॥ ९२ ॥ ३.९२ व् हृतपार्श्वार्तौ तु पानं स्याज् कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत् । यष्ट्य्आह्वनागबलयोः क्वाथे क्षीरसमे घृतम् ॥ ९३ ॥ पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम् । जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ॥ ९४ ॥ बलाभार्गीस्वगुप्तर्द्धिशठीतामलकीकणाः । शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु ॥ ९५ ॥ द्राक्षाक्षोटादि च फलं मधुरस्निग्धबृंहणम् । तैः पचेत्सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः ॥ ९६ ॥ क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः ॥ ९७ ॥ पलार्धकं च मरिचत्वग्एलापत्त्रकेसरम् । विनीय प्रसृतं तस्माल्लिह्यान्मात्रां यथाबलम् ॥ ९८ ॥ ३.९८ व् लिह्यान्मात्रां यथानलम् अमृतप्राशमित्येतन्नराणाममृतं घृतम् । सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ॥ ९९ ॥ नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान् । स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत् ॥ १०० ॥ ३.१०० व् दुर्बलव्याधिकर्षितान् कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत् । पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम् ॥ १०१ ॥ श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकट्तृणम् । दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥ १०२ ॥ पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे । कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः ॥ १०३ ॥ शतावर्य्ऋद्धिमृद्वीकाशर्कराश्रावणीबिसैः । प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥ १०४ ॥ ३.१०४ व् पित्तहृद्द्रवशूलनुत् मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः । धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ॥ १०५ ॥ मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद्घृतम् । पिप्पल्य्अष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥ १०६ ॥ पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् । समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम् ॥ १०७ ॥ धात्रीफलविदारीक्षुजीवनीयरसाद्घृतात् । गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥ १०८ ॥ सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत्ततः । यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम् ॥ १०९ ॥ ३.१०९ व् सिद्धपूते सिताक्षौद्रं ३.१०९ व् कासमेहज्वरापहम् वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम् । घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत् ॥ ११० ॥ ३.११० व् लिह्याद्वाताधिके पिबेत् लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम् । आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च ॥ १११ ॥ क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु । त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत् ॥ ११२ ॥ ३.११२ व् त्वक्क्षीरीपिप्पलीलाज ३.११२ व् चूर्णैः पानानि योजयेत् सर्पिर्गुडान् समध्व्अंशान् कृत्वा दद्यात्पयोऽनु च । रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात् ॥ ११३ ॥ वीतत्वग्अस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत् । घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत् ॥ ११४ ॥ ३.११४ व् क्षौद्रवर्णे तु निक्षिपेत् खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि । त्रिजातधान्यमरिचं पृथगर्धपलांशकम् ॥ ११५ ॥ अवतारितशीते च दत्त्वा क्षौद्रं घृतार्धकम् । खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ॥ ११६ ॥ कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान् । उरःसंधानजननं मेधास्मृतिबलप्रदम् ॥ ११७ ॥ अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम् । पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धितम् ॥ ११८ ॥ ३.११८ व् ंयार्धकर्षादिवर्धितम् ३.११८ व् ंयार्धकर्षविवर्धितम् पलं क्षीरयुतं मासं क्षीरवृत्तिरन्अन्नभुक् । एष प्रयोगः पुष्ट्य्आयुर्बलवर्णकरः परम् ॥ ११९ ॥ मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च । पादशेषं जलद्रोणे पचेन्नागबलातुलाम् ॥ १२० ॥ तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् । पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः ॥ १२१ ॥ प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः । अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः ॥ १२२ ॥ काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः । मृणालबिसखर्जूरशृङ्गाटककसेरुकैः ॥ १२३ ॥ ३.१२३ व् क्षीरशुक्लाद्विजीवकैः एतन्नागबलासर्पिः पित्तरक्तक्षतक्षयान् । जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम् ॥ १२४ ॥ वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम् । उपयुज्य च षण्मासान् वृद्धोऽपि तरुणायते ॥ १२५ ॥ ३.१२५ व् उपयुज्य तु षण्मासाद् दीप्तेऽग्नौ विधिरेष स्यान्मन्दे दीपनपाचनः । यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥ १२६ ॥ दशमूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् । हस्तिपिप्पल्य्अपामार्गपिप्पलीमूलचित्रकान् ॥ १२७ ॥ भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् । हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥ १२८ ॥ ३.१२८ व् द्विपलांशान् यवाढकम् ३.१२८ व् जले पञ्चाढके पचेत् यवस्वेदे कषायं तं पूतं तच्चाभयाशतम् । पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ १२९ ॥ ३.१२९ व् यवे स्विन्ने कषायं तं तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् । लेहं द्वे चाभये नित्यमतः खादेद्रसायनात् ॥ १३० ॥ ३.१३० व् लेहे द्वे चाभये नित्यम् तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम् । पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम् ॥ १३१ ॥ मेहगुल्मग्रहण्य्अर्शोहृद्रोगारुचिपीनसान् । अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ॥ १३२ ॥ दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम् । पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः ॥ १३३ ॥ ३.१३३ व् हरिद्रापिप्पलीद्वयम् ३.१३३ व् स्वगुप्तातिविषामृतम् बालबिल्वं त्रिवृद्दन्तीमूलं पत्त्रं च चित्रकात् । पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥ १३४ ॥ बोटस्थविरभल्लातविकङ्कतशतावरीः । पूतिकरञ्जशम्याकचन्द्रलेखासहाचरम् ॥ १३५ ॥ ३.१३५ व् चन्द्रलेखासहाचरात् शौभाञ्जनकनिम्बत्वग्इक्षुरं च पलांशकम् । पथ्यासहस्रं सशतं यवानां चाढकद्वयम् ॥ १३६ ॥ पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत् । पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम् ॥ १३७ ॥ ३.१३७ व् पूते क्षिपेत्सपथ्यां च तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः । अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च ॥ १३८ ॥ शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत् । चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत्ततः ॥ १३९ ॥ धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत् । रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम् ॥ १४० ॥ स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते । पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले ॥ १४१ ॥ कुडवांशानि वृक्षाम्लं दाडिमं पत्त्रमार्जकात् । एकैकां मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके ॥ १४२ ॥ ३.१४२ व् दाडिमं पत्त्रमार्जकम् शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् । कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् ॥ १४३ ॥ रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित् । एकां षोडशिकां धान्याद्द्वे द्वे चाजाजिदीप्यकात् ॥ १४४ ॥ ३.१४४ व् पार्श्वार्तिश्वासकासनुत् ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विः सौवर्चलात्पलम् । शुण्ठ्याः कर्षं दधित्थस्य मध्यात्पञ्च पलानि च ॥ १४५ ॥ ३.१४५ व् शुण्ठ्याः कर्षं कपित्थस्य तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत् । षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत् ॥ १४६ ॥ विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः । निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः ॥ १४७ ॥ दाल्यते कासिनो यस्य स ना धूमान् पिबेदिमान् । द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते ॥ १४८ ॥ ३.१४८ व् दाल्येते कासिनो यस्य ३.१४८ व् स धूमान्ना पिबेदिमान् वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः । मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः ॥ १४९ ॥ तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम् । पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया ॥ १५० ॥ ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् । क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम् ॥ १५१ ॥ ३.१५१ व् तित्तिरिप्रतिभोजितम् बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् । शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया ॥ १५२ ॥ तिल्वकस्य कषायेण विदारीस्वरसेन च । सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् ॥ १५३ ॥ पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान् । घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ॥ १५४ ॥ विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम् । घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ॥ १५५ ॥ शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे । घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा ॥ १५६ ॥ जाङ्गलैर्प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः । क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः ॥ १५७ ॥ औष्ण्यात्प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते । कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन् रसः ॥ १५८ ॥ चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः । कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले ॥ १५९ ॥ शृतैर्नागरदुःस्पर्शापिप्पलीशठिपौष्करैः । पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् ॥ १६० ॥ सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च । दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः ॥ १६१ ॥ ३.१६१ व् द्वौ पञ्च लवणानि तु कासमर्दाभयामुस्तापाठाकट्फलनागरैः । पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च ॥ १६२ ॥ अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके । पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ॥ १६३ ॥ वृषव्याघ्रीगुडूचीनां पत्त्रमूलफलाङ्कुरात् । रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः ॥ १६४ ॥ द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम् । पिबेदुपरि भुक्तस्य यवक्षारयुतं नरः ॥ १६५ ॥ ३.१६५ व् पिबेदुपरि भक्तस्य ३.१६५ व् यवक्षारघृतं नरः ३.१६५ व् यवक्षारयुतं घृतम् पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम् । एतान्यग्निविवृद्ध्य्अर्थं सर्पींषि क्षयकासिनाम् ॥ १६६ ॥ स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये । प्रस्थोन्मिते यवक्वाथे विंशतिं विजयाः पचेत् ॥ १६७ ॥ स्विन्ना मृदित्वा तास्तस्मिन् पुराणात्षट्पलं गुडात् । पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् ॥ १६८ ॥ दत्त्वार्धाक्षं पचेद्भूयः स लेहः श्वासकासजित् । श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः ॥ १६९ ॥ ३.१६९ व् स लेहः श्वासकासनुत् श्वासकासहरा बर्हिपादौ वा मधुसर्पिषा । एरण्डपत्त्रक्षारं वा व्योषतैलगुडान्वितम् ॥ १७० ॥ लेहयेत्क्षारमेवं वा सुरसैरण्डपत्त्रजम् । लिह्यात्त्र्य्ऊषणचूर्णं वा पुराणगुडसर्पिषा ॥ १७१ ॥ पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च । बला रास्ना च तच्चूर्णं समस्तं समशर्करम् ॥ १७२ ॥ ३.१७२ व् समस्तसमशर्करम् खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम् । तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करम् ॥ १७३ ॥ ३.१७३ व् तद्वन्मरिचचूर्णं च पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे । सर्वेषु श्वासकासेषु केवलं वा विभीतकम् ॥ १७४ ॥ पत्त्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम् । पेया वोत्कारिका छर्दितृट्कासामातिसारजित् ॥ १७५ ॥ ३.१७५ व् पेया चोत्कारिका छर्दि ३.१७५ व् तृट्कासामातिसारनुत् कण्टकारीरसे सिद्धो क्षीरं यूषान् रसानपि । सगौरामलकः साम्लः सर्वकासभिषग्जितम् ॥ १७६ ॥ वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि । वैष्किरान् प्रातुदान् बैलान् दापयेत्क्षयकासिने ॥ १७७ ॥ क्षतकासे च ये धूमाः सानुपाना निदर्शिताः । क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि ॥ १७८ ॥ ३.१७८ व् वक्ष्यन्ते ये च यक्ष्मणि बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् । व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते ॥ १७९ ॥ संनिपातोद्भवो घोरः क्षयकासो यतस्ततः । यथादोषबलं तस्य संनिपातहितं हितम् ॥ १८० ॥ Cइकित्सास्थान श्वासहिध्मा यतस्तुल्यहेत्व्आद्याः साधनं ततः । तुल्यमेव तद्आर्तं च पूर्वं स्वेदैरुपाचरेत् ॥ १ ॥ स्निग्धैर्लवणतैलाक्तं तैः खेषु ग्रथितः कफः । सुलीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः ॥ २ ॥ स्रोतसां स्यान्मृदुत्वं च मरुतश्चानुलोमता । स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः ॥ ३ ॥ ४.३ व् मारुतस्यानुलोमता दध्य्उत्तरेण वा दद्यात्ततोऽस्मै वमनं मृदु । विशेषात्कासवमथुहृद्ग्रहस्वरसादिने ॥ ४ ॥ पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत् । निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे ॥ ५ ॥ स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः । ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः ॥ ६ ॥ हिङ्गुपीलुविडैर्युक्तमन्नं स्यादनुलोमनम् । ससैन्धवं फलाम्लं वा कोष्णं दद्याद्विरेचनम् ॥ ७ ॥ एते हि कफसंरुद्धगतिप्राणप्रकोपजाः । तस्मात्तन्मार्गशुद्ध्य्अर्थमूर्ध्वाधः शोधनं हितम् ॥ ८ ॥ उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम् । यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत् ॥ ९ ॥ अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत् । हरिद्रापत्त्रमेरण्डमूलं लाक्षां मनःशिलाम् ॥ १० ॥ ४.१० व् मूलं द्राक्षां मनःशिलाम् सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् । तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान् ॥ ११ ॥ मधूच्छिष्टं सर्जरसं घृतं वा गुरु वागुरु । चन्दनं वा तथा शृङ्गं वालान् वा स्नाव वा गवाम् ॥ १२ ॥ ४.१२ व् वालान् वा स्नायु वा गवाम् ऋक्षगोधाकुरङ्गैणचर्मशृङ्गखुराणि वा । गुग्गुलुं वा मनोह्वां वा शालनिर्यासमेव वा ॥ १३ ॥ ४.१३ व् ऋश्यगोधाकुरङ्गैण ४.१३ व् चर्मशृङ्गखुराणि च शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम् । अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम् ॥ १४ ॥ ४.१४ व् पद्मकं वा घृतप्लुतम् स्वेदयेत्ससिताक्षीरसुखोष्णस्नेहसेचनैः । उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः ॥ १५ ॥ उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत् । अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः ॥ १६ ॥ स्निग्धै रसाद्यैर्नात्य्उष्णैरभ्यङ्गैश्च शमं नयेत् । अन्उत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात् ॥ १७ ॥ वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून् । कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः ॥ १८ ॥ क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान् । मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत् ॥ १९ ॥ कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः । यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः ॥ २० ॥ पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः । व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः ॥ २१ ॥ सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले । तद्वद्रास्नाबृहत्य्आदिबलामुद्गैः सचित्रकैः ॥ २२ ॥ ४.२२ व् यूषः स्यात्क्वथितैर्जलैः पेया च चित्रकाजाजीशृङ्गीसौवर्चलैः कृता । दशमूलेन वा कासश्वासहिध्मारुजापहा ॥ २३ ॥ दशमूलशठीरास्नाभार्गीबिल्वर्द्धिपौष्करैः । कुलीरशृङ्गीचपलातामलक्य्अमृतौषधैः ॥ २४ ॥ पिबेत्कषायं जीर्णेऽस्मिन् पेयां तैरेव साधिताम् । शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक् ॥ २५ ॥ कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये । सक्तून् वार्काङ्कुरक्षीरभावितानां समाक्षिकान् ॥ २६ ॥ यवानां दशमूलादिनिःक्वाथलुलितान् पिबेत् । अन्ने च योजयेत्क्षारहिङ्ग्व्आज्यविडदाडिमान् ॥ २७ ॥ सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान् । दशमूलस्य वा क्वाथमथवा देवदारुणः ॥ २८ ॥ ४.२८ व् दशमूलस्य निःक्वाथम् पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः । पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः ॥ २९ ॥ कल्कितैर्लेपिते रूढे निःक्षिपेद्घृतभाजने । तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित् ॥ ३० ॥ पाठां मधुरसां दारु सरलं च निशि स्थितम् । सुरामण्डेऽल्पलवणं पिबेत्प्रसृतसंमितम् ॥ ३१ ॥ ४.३१ व् सरलं निशि संस्थितम् ४.३१ व् पिबेत्प्रसृतिसंमितम् भार्गीशुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम् । स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा ॥ ३२ ॥ स्वरसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः । हिध्माश्वासे मधुकणायुक्तः पित्तकफानुगे ॥ ३३ ॥ उत्कारिका तुगाकृष्णामधूलीघृतनागरैः । पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि ॥ ३४ ॥ श्वाविच्छशामिषकणाघृतशल्यकशोणितैः । सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः ॥ ३५ ॥ अनु शाल्य्ओदनं पेयं वातपित्तानुबन्धिनि । चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम् ॥ ३६ ॥ पिप्पलीमूलमधुकगुडगोऽश्वशकृद्रसान् । हिध्माभिष्यन्दकासघ्नाÀ लिह्यान्मधुघृतान्वितान् ॥ ३७ ॥ गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसम् । समध्वेकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत् ॥ ३८ ॥ चतुष्पाच्चर्मरोमास्थिखुरशृङ्गोद्भवां मषीम् । तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः ॥ ३९ ॥ शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम् । गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम् ॥ ४० ॥ रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः । घृतक्षौद्रेण वा पथ्याविडङ्गोषणपिप्पलीः ॥ ४१ ॥ कोललाजामलद्राक्षापिप्पलीनागराणि वा । गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा ॥ ४२ ॥ पिबेद्रसाम्बुमद्याम्लैर्लेहौषधरजांसि वा । जीवन्तीमुस्तसुरसत्वग्एलाद्वयपौष्करम् ॥ ४३ ॥ चण्डातामलकीलोहभार्गीनागरवालकम् । कर्कटाख्याशठीकृष्णानागकेसरचोरकम् ॥ ४४ ॥ उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम् । पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम् ॥ ४५ ॥ शठीतामलकीभार्गीचण्डावालकपौष्करम् । शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम् ॥ ४६ ॥ तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा । लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा ॥ ४७ ॥ चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम् । स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा ॥ ४८ ॥ ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम् । कल्कितैर्मधुरद्रव्यैस्तत्पिबेन्नावयेत वा ॥ ४९ ॥ सकृदुष्णं सकृच्छीतं व्यत्यासात्ससितामधु । तद्वत्पयस्तथा सिद्धमधोभागौषधैर्घृतम् ॥ ५० ॥ कणासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः । सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत् ॥ ५१ ॥ तत्पिबेज्जीवनीयैर्वा लिह्यात्समधु साधितम् । तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ॥ ५२ ॥ भूतिकं पौष्करं मूलं पलाशश्चित्रकः शठी । पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका ॥ ५३ ॥ वचा पत्त्रं च तालीशं कर्षांशैस्तैर्विपाचयेत् । हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत् ॥ ५४ ॥ ४.५४ व् वचा पत्त्रं च तालीशात् शाखानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः । अर्धांशेन पिबेत्सर्पिः क्षारेण पटुनाथवा ॥ ५५ ॥ धान्वन्तरं वृषघृतं दाधिकं हपुषादि वा । शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः ॥ ५६ ॥ हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम् । यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम् ॥ ५७ ॥ ४.५७ व् हर्षेर्ष्योच्छ्वाससंरोधा तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम् । सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् ॥ ५८ ॥ नात्य्अर्थं शमनेऽपायो भृशोऽशक्यश्च कर्षणे । शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत् ॥ ५९ ॥ ४.५९ व् भृशोऽशक्यश्च कर्शने कासश्वासक्षयच्छर्दिहिध्माश्चान्योऽन्यभेषजैः ॥ ५९ªअब् ॥ Cइकित्सास्थान बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम् । ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम् ॥ १ ॥ ५.१ व् सस्नेहं यन्न कर्षणम् पयसा फलयुक्तेन मधुरेण रसेन वा । सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया ॥ २ ॥ वमेद्विरेचनं दद्यात्त्रिवृच्छ्यामानृपद्रुमान् । शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा ॥ ३ ॥ द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान् । शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ॥ ४ ॥ ५.४ व् मांसानां वा रसैर्युतम् हृद्यानि चान्नपानानि वातघ्नानि लघूनि च । शालिषष्टिकगोधूमयवमुद्गं समोषितम् ॥ ५ ॥ लघुमच्युतवीर्यं च सुजरं बलकृच्च यत् ॥ ५+(१)अब् ॥ ५.५+(१)अव् लघुं चाच्युतवीर्यं च ५.५+(१)अव् लघुमद्भुतवीर्यं च आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित् । काकोलूकवृकद्वीपिगवाश्वनकुलोरगम् ॥ ६ ॥ गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम् । ज्ञातं जुगुप्सितं तद्धि च्छर्दिषे न बलौजसे ॥ ७ ॥ ५.७ व् गृध्रचाषखरोष्ट्रं च मृगाद्याः पित्तकफयोः पवने प्रसहादयः । वेसवारीकृताः पथ्या रसादिषु च कल्पिताः ॥ ८ ॥ भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम् । रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः ॥ ९ ॥ हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः । सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥ १० ॥ सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत् । तेन षड्विनिवर्तन्ते विकाराः पीनसादयः ॥ ११ ॥ ५.११ व् स्निग्धमाजरसं पिबेत् पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम् । पित्तादिषु विशेषेण मध्व्अरिष्टाच्छवारुणीः ॥ १२ ॥ ५.१२ व् मध्व्अरिष्टं च वारुणीम् सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम् । पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा ॥ १३ ॥ कल्पयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान् । दशमूलेन पयसा सिद्धं मांसरसेन वा ॥ १४ ॥ बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा । सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा ॥ १५ ॥ जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥ १६ ॥ ५.१६ व् व्याघ्रीं गोक्षुरकं बलाः नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । कल्कीकृत्य घृतं पक्वं रोगराजहरं परम् ॥ १७ ॥ घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः । सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् ॥ १८ ॥ दशमूलशृतात्क्षीरात्सर्पिर्यदुदियान्नवम् । सपिप्पलीकं सक्षौद्रं तत्परं स्वरबोधनम् ॥ १९ ॥ शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम् । पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम् ॥ २० ॥ पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे । सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम् ॥ २१ ॥ ५.२१ व् यक्ष्मिणः सप्तकं बलम् पञ्चकोलयवक्षारषट्पलेन पचेद्घृतम् । प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम् ॥ २२ ॥ गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान् । श्वासकासाग्निसदनश्वयथूर्ध्वानिलाञ्जयेत् ॥ २३ ॥ रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि । जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम् ॥ २४ ॥ अश्वगन्धाशृतात्क्षीराद्घृतं च ससितापयः । साधारणामिषतुलां तोयद्रोणद्वये पचेत् ॥ २५ ॥ तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः । साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम् ॥ २६ ॥ मांससर्पिरिदं पीतं युक्तं मांसरसेन वा । कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित् ॥ २७ ॥ ५.२७ व् युक्तं मांसरसेषु वा एलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान् । सारानरिष्टगायत्रीशालबीजकसंभवान् ॥ २८ ॥ भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम् । सलिले षोडशगुणे षोडशांशस्थितं पचेत् ॥ २९ ॥ पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट् । तवक्षीर्याः क्षिपेत्त्रिंशत्सिताया द्विगुणं मधु ॥ ३० ॥ घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम् । पयोऽनुपानं तत्प्राह्णे रसायनमयन्त्रणम् ॥ ३१ ॥ मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात् । मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान् ॥ ३२ ॥ ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते । त्वग्एलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात् ॥ ३३ ॥ चूर्णिता भक्षिताः क्षौद्रसर्पिषा वावलेहिताः । स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः ॥ ३४ ॥ ५.३४ व् सर्पिषा चावलेहिताः विशेषात्स्वरसादेऽस्य नस्यधूमादि योजयेत् । तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम् ॥ ३५ ॥ ५.३५ व् पिबेदुत्तरभक्तिकम् कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम् । साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा ॥ ३६ ॥ बदरीपत्त्रकल्कं वा घृतभृष्टं ससैन्धवम् । तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः ॥ ३७ ॥ ५.३७ व् पिप्पलीकृमिहृत्फलैः हंसपद्याश्च मूलेन पक्वं नस्तो निषेचयेत् । सुखोदकानुपानं च ससर्पिष्कं गुडौदनम् ॥ ३८ ॥ अश्नीयात्पायसं चैवं स्निग्धं स्वेदं नियोजयेत् । पित्तोद्भवे पिबेत्सर्पिः शृतशीतपयोऽनुपः ॥ ३९ ॥ क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम् । अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ॥ ४० ॥ बलाविदारिगन्धाभ्यां विदार्या मधुकेन च । सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमन्उत्तमम् ॥ ४१ ॥ प्रपौण्डरीकं मधुकं पिप्पली बृहती बला । साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम् ॥ ४२ ॥ लिह्यान्मधुरकाणां च चूर्णं मधुघृताप्लुतम् । पिबेत्कटूनि मूत्रेण कफजे रूक्षभोजनः ॥ ४३ ॥ कट्फलामलकव्योषं लिह्यात्तैलमधुप्लुतम् । व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा ॥ ४४ ॥ यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत् । भुक्त्वाद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥ ४५ ॥ शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह । पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥ ४६ ॥ विचित्रमन्नमरुचौ हितैरुपहितं हितम् । बहिर्अन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम् ॥ ४७ ॥ द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः । कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत् ॥ ४८ ॥ तालीशचूर्णवटकाः सकर्पूरसितोपलाः । शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम् ॥ ४९ ॥ ५.४९ व् भक्ष्या रुचिकरा भृशम् वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया । हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात् ॥ ५० ॥ एलाभार्गीयवक्षारहिङ्गुयुक्ताद्घृतेन वा । छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः ॥ ५१ ॥ लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम् । कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम् ॥ ५२ ॥ पानं समध्व्अरिष्टाश्च तीक्ष्णाः समधुमाधवाः । पिबेच्चूर्णं च पूर्वोक्तं हरेण्व्आद्य्उष्णवारिणा ॥ ५३ ॥ एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम् । भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम् ॥ ५४ ॥ प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान् । यवानीतिन्तिडीकाम्लवेतसौषधदाडिमम् ॥ ५५ ॥ कृत्वा कोलं च कर्षांशं सितायाश्च चतुःपलम् । धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥ ५६ ॥ पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च । चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥ ५७ ॥ ५.५७ व् तच्चूर्णं दीपनं रुच्यं विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान् । तालीशपत्त्रं मरिचं नागरं पिप्पली शुभा ॥ ५८ ॥ यथोत्तरं भागवृद्ध्या त्वग्एले चार्धभागिके । तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम् ॥ ५९ ॥ ५.५९ व् यथोत्तरं भागवृद्धास् ५.५९ व् तद्द्रव्यं दीपनं चूर्णं कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलनुत् । पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ॥ ६० ॥ अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः । प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद्बली वमेत् ॥ ६१ ॥ ५.६१ व् अर्कामृताक्षीरजले कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम् । शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः ॥ ६२ ॥ श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति । कफप्रसेकं तं विद्वान् स्निग्धोष्णैरेव निर्जयेत् ॥ ६३ ॥ ५.६३ व् स्निग्धोष्णेनैव निर्जयेत् पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत् । विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत् ॥ ६४ ॥ ५.६४ व् पीनसे च क्रममिमं स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु । लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान् ॥ ६५ ॥ शिरोऽंसपार्श्वशूलेषु यथादोषविधिं चरेत् । औदकानूपपिशितैरुपनाहाः सुसंस्कृताः ॥ ६६ ॥ तत्रेष्टाः सचतुःस्नेहा दोषसंसर्ग इष्यते । प्रलेपो नतयष्ट्य्आह्वशताह्वाकुष्ठचन्दनैः ॥ ६७ ॥ बलारास्नातिलैस्तद्वत्ससर्पिर्मधुकोत्पलैः । पुनर्नवाकृष्णगन्धाबलावीराविदारिभिः ॥ ६८ ॥ नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः । तैलान्यभ्यङ्गयोगीनि वस्तिकर्म तथा परम् ॥ ६९ ॥ शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक् । प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः ॥ ७० ॥ दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः । वटादिसिद्धतैलेन शतधौतेन सर्पिषा ॥ ७१ ॥ अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना । प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते ॥ ७२ ॥ तस्यातीसारग्रहणीविहितं हितमौषधम् । पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः ॥ ७३ ॥ सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम् । मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च ॥ ७४ ॥ अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम् । सुरां समण्डां मार्द्वीकमरिष्टान् सीधुमाधवान् ॥ ७५ ॥ ५.७५ व् अरिष्टं सीधुमाधवान् यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन् । स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत् ॥ ७६ ॥ स्नेहक्षीराम्बुकोष्ठेषु स्व्अभ्यक्तमवगाहयेत् । उत्तीर्णं मिश्रकैः स्नेहैर्भूयोऽभ्यक्तं सुखैः करैः ॥ ७७ ॥ ५.७७ व् उत्तीर्णं मिश्रकस्नेहैर् मृद्नीयात्सुखमासीनं सुखं चोद्वर्तयेत्परम् । जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ॥ ७८ ॥ अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम् । विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम् ॥ ७९ ॥ माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत् । यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम् ॥ ८० ॥ एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम् । गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः ॥ ८१ ॥ ५.८१ व् एतदुत्सादनं कार्यं ५.८१ व् स्नानैरौषधिभिश्च सः स्नायादृतुसुखैस्तोयैर्जीवनीयोपसाधितैः । गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत् ॥ ८२ ॥ ५.८२ व् गन्धमाल्यादिकैर्भूषाम् सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः । वस्तयः क्षीरसर्पींषि मद्यमांससुशीलता ॥ ८३ ॥ ५.८३ व् मद्यं मांसं सुशीलता दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितम् ॥ ८३ªअब् ॥ Cइकित्सास्थान आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः । लङ्घनं प्रागृते वायोर्वमनं तत्र योजयेत् ॥ १ ॥ ६.१ व् प्रायश्छर्द्यो हितं मतम् बलिनो बहुदोषस्य वमतः प्रततं बहु । ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः ॥ २ ॥ क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः । शमनं चौषधं रूक्षदुर्बलस्य तदेव तु ॥ ३ ॥ परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते । उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः ॥ ४ ॥ शाकानि लेहा भोज्यानि रागषाडवपानकाः । भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम् ॥ ५ ॥ गन्धाः सुगन्धयो गन्धफलपुष्पान्नपानजाः । भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम् ॥ ६ ॥ हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम् । किञ्चिद्उष्णं विशेषेण सकासहृदयद्रवाम् ॥ ७ ॥ व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना । सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः ॥ ८ ॥ ६.८ व् शृतं तुल्याम्बुना पयः ६.८ व् पीतं तुल्याम्बुना पयः व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः । स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम् ॥ ९ ॥ कोष्णं सलवणं चात्र हितं स्नेहविरेचनम् । पित्तजायां विरेकार्थं द्राक्षेक्षुस्वरसैस्त्रिवृत् ॥ १० ॥ सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम् । ऊर्ध्वमेव हरेत्पित्तं स्वादुतिक्तैर्विशुद्धिमान् ॥ ११ ॥ पिबेन्मन्थं यवागूं वा लाजैः समधुशर्कराम् । मुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम् ॥ १२ ॥ ६.१२ व् लाजैः समधुशर्करैः मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत् । मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम् ॥ १३ ॥ द्राक्षारसं रसं वेक्षोर्गुडूच्य्अम्बु पयोऽपि वा । जम्ब्व्आम्रपल्लवोशीरवटशुङ्गावरोहजः ॥ १४ ॥ ६.१४ व् द्राक्षारसं रसं चेक्षोर् ६.१४ व् वटशृङ्गावरोहजः क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति । छर्दिं ज्वरमतीसारं मूर्छां तृष्णां च दुर्जयाम् ॥ १५ ॥ धात्रीरसेन वा शीतं पिबेन्मुद्गदलाम्बु वा । कोलमज्जसितालाजामक्षिकाविट्कणाञ्जनम् ॥ १६ ॥ ६.१६ व् कोलमज्जसितालाक्षा ६.१६ व् मक्षिकाविट्रसाञ्जनम् लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा । कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः ॥ १७ ॥ युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत् । आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत् ॥ १८ ॥ ६.१८ व् आरग्वधादेर्निर्यूहं मन्थान् यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः । कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः ॥ १९ ॥ लीढं मनःशिलाकृष्णामरिचं बीजपूरकात् । स्वरसेन कपित्थस्य सक्षौद्रेण वमिं जयेत् ॥ २० ॥ खादेत्कपित्थं सव्योषं मधुना वा दुरालभाम् । लिह्यान्मरिचचोचैलागोशकृद्रसमाक्षिकम् ॥ २१ ॥ अनुकूलोपचारेण याति द्विष्टार्थजा शमम् । कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः ॥ २२ ॥ यथास्वं परिशेषाश्च तत्कृताश्च तथामयाः ॥ २२ªअब् ॥ छर्दिप्रसङ्गेन हि मातरिश्वा धातुक्षयात्कोपमुपैत्यवश्यम् । कुर्यादतोऽस्मिन् वमनातियोगप्रोक्तं विधिं स्तम्भनबृंहणीयम् ॥ २३ ॥ ६.२३ व् कुर्यादतोऽस्मिन् वमनातियोगे ६.२३ व् प्रोक्तं विधिं स्तम्भनबृंहणीयम् सर्पिर्गुडा मांसरसा घृतानि कल्याणकत्र्य्ऊषणजीवनानि । पयांसि पथ्योपहितानि लेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ २४ ॥ ६.२४ व् सर्पिर्गुडो मांसरसा घृतानि इति छर्दिचिकित्सितमथ हृद्रोगचिकित्सितम् ॥ २४+१ ॥ हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत् ॥ २५ ॥ तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम् ॥ २६ ॥ पिबेत्सुखोष्णं सविडं गुल्मानाहार्तिजिच्च तत् । तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम् ॥ २६ ॥ बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम् । कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् पचेज्जले ॥ २७ ॥ तैलं तन्नावने पाने वस्तौ च विनियोजयेत् । शुण्ठीवयःस्थालवणकायस्थाहिङ्गुपौष्करैः ॥ २८ ॥ ६.२८ व् शुण्ठीकयस्थालवण ६.२८ व् वयःस्थाहिङ्गुपौष्करैः पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम् । सौवर्चलस्य द्विपले पथ्यापञ्चाशद्अन्विते ॥ २९ ॥ घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मजित् । दाडिमं कृष्णलवणं शुण्ठीहिङ्ग्व्अम्लवेतसम् ॥ ३० ॥ ६.३० व् हृद्रोगश्वासगुल्महृत् ६.३० व् शुण्ठी हिङ्ग्वम्लवेतसः अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम् । पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः ॥ ३१ ॥ पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः । विकर्तिकाशूलहराः क्वाथः कोष्णश्च तद्गुणः ॥ ३२ ॥ यवानीलवणक्षारवचाजाज्य्औषधैः कृतः । सपूतिदारुबीजाह्वपलाशशठिपौष्करैः ॥ ३३ ॥ ६.३३ व् स पूतिदारुबीजाह्व ६.३३ व् विजयाशठिपौष्करैः यवक्षारो यवानी च पिबेदुष्णेन वारिणा । एतेन वातजं शूलं गुल्मं चैव चिरोत्थितम् ॥ ३३+(१) ॥ भिद्यते सप्तरात्रेण पवनेन यथा घनः ॥ ३३+(१ª)अब् ॥ पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम् । वारुणीकल्कितं भृष्टं यमके लवणान्वितम् ॥ ३४ ॥ हृत्पार्श्वयोनिशूलेषु खादेद्गुल्मोदरेषु च । स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥ ३५ ॥ ६.३५ व् संस्कृतानि घृतानि तु लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम् । वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि ॥ ३६ ॥ ६.३६ व् वारुणीं दधिमण्डं वा सायामस्तम्भशूलामे हृदि मारुतदूषिते । क्रियैषा सद्रवायामप्रमोहे तु हिता रसाः ॥ ३७ ॥ स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः । बलातैलं सहृद्रोगः पिबेद्वा सुकुमारकम् ॥ ३८ ॥ ६.३८ व् स्नेहाद्यास्तित्तिरिक्रौञ्च यष्ट्य्आह्वशतपाकं वा महास्नेहं तथोत्तमम् । रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः ॥ ३९ ॥ भार्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत् । दधिपादं तथाम्लैश्च लाभतः स निषेवितः ॥ ४० ॥ तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः । दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम् ॥ ४१ ॥ क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम् । एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि ॥ ४२ ॥ शेषेषु स्तम्भजाड्यामसंयुक्तेऽपि च वातिके । कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम् ॥ ४३ ॥ पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः । युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा ॥ ४४ ॥ ६.४४ व् युक्तो विरेचो हृद्यः स्यात् क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम् । कट्वीमधुककल्कं च पिबेत्ससितमम्भसा ॥ ४५ ॥ श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः । बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम् ॥ ४६ ॥ सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम् । प्रपौण्डरीकमधुकबिसग्रन्थिकसेरुकाः ॥ ४७ ॥ सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेद्घृतम् । शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत् ॥ ४८ ॥ वस्तिं च दद्यात्सक्षौद्रं तैलं मधुकसाधितम् । कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा ॥ ४९ ॥ ६.४९ व् वस्तिं च दद्यात्सक्षौद्र ६.४९ व् तैलं मधुकसाधितम् ६.४९ व् पिचुमन्दवचाम्बुना कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः । पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात् ॥ ५० ॥ सैलायवानककणायवक्षारात्सुखाम्बुना । फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा ॥ ५१ ॥ ६.५१ व् सैलायवानिककणा पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात् । क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात् ॥ ५२ ॥ ६.५२ च् शठीरास्नावचाकणा ६.५२ च् क्वाथं तथाभयाशुण्ठी क्वाथे रोहीतकाश्वत्थखदिरोदुम्बरार्जुने । सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः ॥ ५३ ॥ सुखोदकानुपानश्च लेहः कफविकारहा । श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत् ॥ ५४ ॥ ६.५४ व् सुखोदकानुपानस्य प्रयोजयेच्छिलाह्वं वा ब्राह्मं वात्र रसायनम् । तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम् ॥ ५५ ॥ ६.५५ व् ब्राह्मं चात्र रसायनम् ६.५५ व् प्राश्यं वागस्त्यनिर्मितम् ६.५५ व् प्राश्यं चागस्त्यनिर्मितम् स्याच्छूलं यस्य भुक्तेऽति जीर्यत्यल्पं जरां गते । शाम्येत्स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः ॥ ५६ ॥ ६.५६ व् स्याच्छूलं यस्य भुक्तेऽन्ने सदेवदार्व्अतिविषैश्चूर्णमुष्णाम्बुना पिबेत् । यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ॥ ५७ ॥ जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके । प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः ॥ ५८ ॥ ६.५८ व् कुप्यत्यामाशये ततः ६.५८ व् कुप्यत्यामाशये यतः तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः । कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये ॥ ५९ ॥ ६.५९ व् कृमिजे च हृद्आमये तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते । सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः ॥ ६० ॥ ६.६० व् विधिः प्रायेण युज्यते ६.६० व् तथा शमनशोधनम् दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम् । निर्वापितं तप्तलोष्टकपालसिकतादिभिः ॥ ६१ ॥ सशर्करं वा क्वथितं पञ्चमूलेन वा जलम् । दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः ॥ ६२ ॥ वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः । यवागूः शालिभिस्तद्वत्कोद्रवैश्च चिरन्तनैः ॥ ६३ ॥ शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम् । हिमाम्बुपरिषिक्तस्य पयसा ससितामधु ॥ ६४ ॥ रसैश्चान्अम्ललवणैर्जाङ्गलैर्घृतभर्जितैः । मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः ॥ ६५ ॥ ६.६५ व् रसैश्चान्अल्पलवणैर् नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः । निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः ॥ ६६ ॥ ६.६६ व् शीतैरिक्षोस्तथा रसैः ६.६६ व् शीतैरिक्षोस्तथा रसे दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः । महासरिद्ध्रदादीनां दर्शनस्मरणानि च ॥ ६७ ॥ ६.६७ व् दर्शनस्मरणादि च तृष्णायां पवनोत्थायां सगुडं दधि शस्यते । रसाश्च बृंहणाः शीता विदार्य्आदिगणाम्बु च ॥ ६८ ॥ ६.६८ व् विदार्य्आदिगणाम्बु वा पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः । तत्क्वाथो वा हिमस्तद्वच्छारिवादिगणाम्बु वा ॥ ६९ ॥ तद्विधैश्च गणैः शीतकषायान् ससितामधून् । मधुरैरौषधैस्तद्वत्क्षीरिवृक्षैश्च कल्पितान् ॥ ७० ॥ बीजपूरकमृद्वीकावटवेतसपल्लवान् । मूलानि कुशकाशानां यष्ट्य्आह्वं च जले शृतम् ॥ ७१ ॥ ज्वरोदितं वा द्राक्षादि पञ्चसाराम्बु वा पिबेत् । कफोद्भवायां वमनं निम्बप्रसववारिणा ॥ ७२ ॥ बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम् । जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम् ॥ ७३ ॥ ६.७३ व् दर्भकच्छकसाधितम् ६.७३ व् जलं पिबेद्रजन्यां वा मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम् । यवान्नं तीक्ष्णकवडनस्यलेहांश्च शीलयेत् ॥ ७४ ॥ सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा । त्र्य्ऊषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः ॥ ७५ ॥ अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित् । तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत् ॥ ७६ ॥ ६.७६ व् मद्यं वा ससितं पिबेत् आतपात्ससितं मन्थं यवकोलजसक्तुभिः । सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः ॥ ७७ ॥ शीतस्नानाच्च मद्याम्बु पिबेत्तृण्मान् गुडाम्बु वा । मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम् ॥ ७८ ॥ ६.७८ व् शीतस्नानात्तु मद्याम्बु ६.७८ व् पिबेत्तृड्वान् गुडाम्बु वा ६.७८ व् स्नातोऽम्ललवणायुतम् स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम् । स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः ॥ ७९ ॥ ६.७९ व् स्नेहात्तीक्ष्णतराग्निस्तु पिबेत्स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम् । गुर्व्आद्य्अन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत् ॥ ८० ॥ क्षयजायां क्षयहितं सर्वं बृंहणमौषधम् । कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा ॥ ८१ ॥ क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम् । रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु ॥ ८२ ॥ ६.८२ व् रोगोपसर्गजातायां पाने प्रशस्तं सर्वा च क्रिया रोगाद्य्अपेक्षया । तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि ॥ ८३ ॥ ६.८३ व् तृष्णन् पूर्वामयक्षीणो ६.८३ च् तृष्णक्पूर्वामयक्षीणो मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः । सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा ॥ ८४ ॥ ६.८४ व् तृष्णां तस्य जयेत्पुरस् तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ॥ ८४ªअब् ॥ Cइकित्सास्थान यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत् । कफस्थानानुपूर्व्या च तुल्यदोषे मदात्यये ॥ १ ॥ ७.१ व् कफस्थानानुपूर्व्या तु पित्तमारुतपर्य्अन्तः प्रायेण हि मदात्ययः । हीनमिथ्यातिपीतेन यो व्याधिरुपजायते ॥ २ ॥ समपीतेन तेनैव स मद्येनोपशाम्यति । मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः ॥ ३ ॥ तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते । तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना ॥ ४ ॥ मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः । यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान् ॥ ५ ॥ मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः । सुतीव्रा वेदना याश्च शिरस्यस्थिषु संधिषु ॥ ६ ॥ जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति । यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान् ॥ ७ ॥ क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः । मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम् ॥ ८ ॥ ७.८ व् दोषविस्रावणादलम् तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः । सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम् ॥ ९ ॥ सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम् । जीर्यत्येतावता पानं कालेन विपथाश्रितम् ॥ १० ॥ परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम् । यथायथं प्रयुञ्जीत कृतपानात्ययौषधः ॥ ११ ॥ ७.११ व् कृतपानात्ययौषधम् तत्र वातोल्बणे मद्यं दद्यात्पिष्टकृतं युतम् । बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः ॥ १२ ॥ यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः । शूल्यमांसैर्हरीतकैः स्नेहवद्भिश्च सक्तुभिः ॥ १३ ॥ ७.१३ व् व्योषत्रिलवणार्जकैः ७.१३ व् शूल्यमांसैर्हरितकैः उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः । आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः ॥ १४ ॥ ७.१४ व् उष्णाः स्निग्धाम्ललवणा ७.१४ व् मद्यमांसरसा हिताः ७.१४ व् संस्कृता रागखाण्डवाः गोधूममाषविकृतिर्मृदुश्चित्रा मुखप्रिया । आर्द्रिकार्द्रककुल्माषशुक्तमांसादिगर्भिणी ॥ १५ ॥ सुरभिर्लवणा शीता निर्गदा वाच्छवारुणी । स्वरसो दाडिमात्क्वाथः पञ्चमूलात्कनीयसः ॥ १६ ॥ ७.१६ व् निगदा वाच्छवारुणी शुण्ठीधान्यात्तथा मस्तु शुक्ताम्भोऽच्छाम्लकाञ्जिकम् । अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम् ॥ १७ ॥ घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमः । कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः ॥ १८ ॥ हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च । पित्तोल्बणे बहुजलं शार्करं मधु वा युतम् ॥ १९ ॥ रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः । सुशीतं ससितासक्तु योज्यं तादृक्च पानकम् ॥ २० ॥ ७.२० व् भव्यद्राक्षापरूषकैः ७.२२ व् पटोलीदाडिमैरपि स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम् । शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः ॥ २१ ॥ सतीनमुद्गामलकपटोलीदाडिमै रसैः । कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान् ॥ २२ ॥ पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम् । द्राक्षारसं वा संसर्गी तर्पणादिः परं हितः ॥ २३ ॥ तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचनः । कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च ॥ २४ ॥ तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि । गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम् ॥ २५ ॥ सशृङ्गवेरं युञ्जीत तित्तिरिप्रतिभोजनम् । तृष्यते चाति बलवद्वातपित्ते समुद्धते ॥ २६ ॥ ७.२६ व् सनागरं योजयेत दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनम् । जीर्णेऽद्यान्मधुराम्लेन च्छागमांसरसेन च ॥ २७ ॥ तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम् । मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम् ॥ २८ ॥ पाटल्य्उत्पलकन्दैर्वा स्वभावादेव वा हिमम् । मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते ॥ २९ ॥ ७.२९ व् पटोल्य्उत्पलकन्दैर्वा यः शुष्कगलताल्व्ओष्ठो जिह्वां निष्कृष्य चेष्टते । पाययेत्कामतोऽम्भस्तं निशीथपवनाहतम् ॥ ३० ॥ कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः । पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥ ३१ ॥ त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः । दाहं प्रकुरुते घोरं तत्रातिशिशिरो विधिः ॥ ३२ ॥ ७.३२ व् त्वचं प्राप्तस्तु पानोष्मा ७.३२ व् त्वचं प्राप्तः स पानोष्मा अशाम्यति रसैस्तृप्ते रोहिणीं व्यधयेत्सिराम् । उल्लेखनोपवासाभ्यां जयेच्छ्लेष्मोल्बणं पिबेत् ॥ ३३ ॥ शीतं शुण्ठीस्थिरोदीच्यदुःस्पर्शान्यतमोदकम् । निर्आमं क्षुधितं काले पाययेद्बहुमाक्षिकम् ॥ ३४ ॥ शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा । रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् ॥ ३५ ॥ यूषेण यवगोधूमं तनुनाल्पेन भोजयेत् । उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा ॥ ३६ ॥ ७.३६ व् उष्णाम्बुकटुतिक्तेन शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम् । साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः ॥ ३७ ॥ ७.३७ व् पाटलीव्योषदाडिमैः प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम् । बीजपूररसाद्य्अम्लभृष्टनीरसवर्तितम् ॥ ३८ ॥ करीरकरमर्दादि रोचिष्णु बहुशालनम् । प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम् ॥ ३९ ॥ ७.३९ व् विकल्पितविमर्दकम् यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत् । सितासौवर्चलाजाजीतिन्तिडीकाम्लवेतसम् ॥ ४० ॥ ७.४० व् माधवं निर्गदं पिबेत् त्वग्एलामरिचार्धांशमष्टाङ्गलवणं हितम् । स्रोतोविशुद्ध्य्अग्निकरं कफप्राये मदात्यये ॥ ४१ ॥ रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः । सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च ॥ ४२ ॥ मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति । यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति ॥ ४३ ॥ संनिपाते दशविधे तच्छेषेऽपि विकल्पयेत् । त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः ॥ ४४ ॥ परूषकमधूकैलासुराह्वैश्च सितान्वितैः । सकपित्थरसं हृद्यं पानकं शशिबोधितम् ॥ ४५ ॥ मदात्ययेषु सर्वेषु पेयं रुच्य्अग्निदीपनम् । नाविक्षोभ्य मनो मद्यं शरीरमविहन्य वा ॥ ४६ ॥ ७.४६ व् नाक्षोभ्य हि मनो मद्यं ७.४६ व् शरीरमविहत्य वा कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया । संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि ॥ ४७ ॥ न चेच्छाम्येत्कफे क्षीणे जाते दौर्बल्यलाघवे । तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च ॥ ४८ ॥ ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः । मद्यक्षीणस्य हि क्षीणं क्षीरमाश्वेव पुष्यति ॥ ४९ ॥ ७.४९ व् मद्यक्षीणस्य हि क्षीरं ७.४९ व् पीतमाश्वेव पुष्यति ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः । पयसा विहते रोगे बले जाते निवर्तयेत् ॥ ५० ॥ ७.५० व् पयसा विजिते रोगे क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् । न विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर्यथा ॥ ५१ ॥ ७.५१ व् न विट्क्षयध्वंसकोत्थैः ७.५१ व् स्पृश्येतोपद्रवैर्यथा तयोस्तु स्याद्घृतं क्षीरं वस्तयो बृंहणाः शिवाः । अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित् ॥ ५२ ॥ युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते । अतोऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥ ५३ ॥ आश्विनं या महत्तेजो बलं सारस्वतं च या । दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥ ५४ ॥ अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या । सौत्रामण्यां द्विजमुखे या हुताशे च ह्वयते ॥ ५५ ॥ ७.५५ व् पुरुषार्थो बलस्य च या सर्वौषधिसंपूर्णान्मथ्यमानात्सुरासुरैः । महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह ॥ ५६ ॥ मधुमाधवमैरेयसीधुगौडासवादिभिः । मदशक्तिमन्उज्झन्ती या रूपैर्बहुभिः स्थिता ॥ ५७ ॥ ७.५७ व् मदशक्तिमत्यजन्ती यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति । कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा ॥ ५८ ॥ ७.५८ व् यामासाद्य विलासिन्यो अन्अङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि । तरङ्गभङ्गभ्रूकुटीतर्जनैर्मानिनीमनः ॥ ५९ ॥ एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम् । यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे ॥ ६० ॥ ७.६० व् यथाकामभटावाप्ति तृणवत्पुरुषा युद्धे यामास्वाद्य त्यजन्त्यसून् । यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम् ॥ ६१ ॥ ७.६१ व् यामासाद्य त्यजन्त्यसून् नित्यं हर्षातिवेगेन तत्पूर्वमिव सेवते । शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते ॥ ६२ ॥ गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना । स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया ॥ ६३ ॥ ७.६३ व् स्मृत्वा तु यां च बहुशो अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या । अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया ॥ ६४ ॥ अनिर्देश्यसुखास्वादा स्वयंवेद्यैव या परम् । इति चित्रास्ववस्थासु प्रियामनुकरोति या ॥ ६५ ॥ प्रियातिप्रियतां याति यत्प्रियस्य विशेषतः । या प्रीतिर्या रतिर्वा वाग्या पुष्टिरिति च स्तुता ॥ ६६ ॥ देवदानवगन्धर्वयक्षराक्षसमानुषैः । पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥ ६७ ॥ ७.६७ व् यक्षराक्षसमानवैः ७.६७ व् यक्षराक्षसमानवैः संभवन्ति न ते रोगा मेदोऽनिलकफोद्भवाः । विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः ॥ ६८ ॥ ७.६८ व् संभवन्ति च ये रोगा ७.६८ व् विधियुक्तादृते मद्यात् ७.६८ व् ते न सिध्यन्ति दारुणाः अस्ति देहस्य सावस्था यस्यां पानं निवार्यते । अन्यत्र मद्यान्निगदाद्विविधौषधसंस्कृतात् ॥ ६९ ॥ ७.६९ व् विविधौषधसंभृतात् आनूपं जाङ्गलं ंांसं विधिनाप्युपकल्पितम् । मद्यं सहायमप्राप्य सम्यक्परिणमेत्कथम् ॥ ७० ॥ सुतीव्रमारुतव्याधिघातिनो लशुनस्य च । मद्यमांसवियुक्तस्य प्रयोगे स्यात्कियान् गुणः ॥ ७१ ॥ ७.७१ व् प्रयोगः स्यात्कियान् गुणः ७.७१ व् प्रयोगात्स्यात्कियान् गुणः निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि । पीतमद्यश्विषहते सुखं वैद्यविकत्थनाम् ॥ ७२ ॥ ७.७२ व् शस्त्रक्षाराग्निकर्मसु अनलोत्तेजनं रुच्यं शोकश्रमविनोदकम् । न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत् ॥ ७३ ॥ ७.७३ व् शोकश्रमविनोदनम् रक्षता जीवितं तस्मात्पेयमात्मवता सदा । आश्रितोपाश्रितहितं परमं धर्मसाधनम् ॥ ७४ ॥ स्नातः प्रणम्य सुरविप्रगुरून् यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य । आपानभूमिमथ गन्धजलाभिषिक्तामाहारमण्डपसमीपगतां श्रयेत् ॥ ७५ ॥ स्व्आस्तृतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः । स्वं यशः कथकचारणसंघैरुद्धतं निशमयन्नतिलोकम् ॥ ७६ ॥ विलासिनीनां च विलासशोभि गीतं सनृत्यं कलतूर्यघोषैः । काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम् ॥ ७७ ॥ ७.७७ व् गीतं सनृत्तं कलतूर्यघोषैः ७.७७ व् काञ्चीकलापैः स्फुटकिङ्किणीकैः मणिकनकसमुत्थैरावनेयैर्विचित्रैः ॥ ७८ ॥ ७.७८ व् मणिकनकसमुत्थैरौपगेयैर्विचित्रैः ७.७८ व् मणिकनकसमुत्थैः पानपात्रैर्विचित्रैः सजलविविधलेखक्षौमवस्त्रावृताङ्गैः ॥ ७८ ॥ ७.७८ व् सजलविविधभक्तिक्षौमवस्त्रावृताङ्गैः अपि मुनिजनचित्तक्षोभसंपादिनीभिश् ॥ ७८ ॥ चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः ॥ ७८ ॥ ७.७८ व् चकितहरिणलोलप्रेक्षणाभिः प्रियाभिः स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंभ्रमात् । इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम् ॥ ७९ ॥ यौवनासवमत्ताभिर्विलासाधिष्ठितात्मभिः । संचार्यमाणं युगपत्तन्व्अङ्गीभिरितस्ततः ॥ ८० ॥ तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः । दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः ॥ ८१ ॥ ७.८१ व् सेवितं किमुत चित्तजन्मनः चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम् । स्फाटिकशुक्तिगतं सतरङ्गं कान्तमन्अङ्गमिवोद्वहदङ्गम् ॥ ८२ ॥ ७.८२ व् मल्लिकयोज्ज्वलयाथ सनाथम् ७.८२ व् स्फाटिकशुक्तिगतं सुतरङ्गं तालीशाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा । तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च ॥ ८३ ॥ ७.८३ व् हृद्यं प्राश्यं प्राग्वयःस्थापनं वा धृतिमान् स्मृतिमान्नित्यमन्ऊनाधिकमाचरन् । उचितेनोपचारेण सर्वमेवोपपादयन् ॥ ८४ ॥ ७.८४ व् अन्यूनाधिकमाचरन् ७.८४ व् उदितेनोपचारेण ७.८४ व् सर्वम् एवोपपालयन् जितविकसितासितसरोजनयनसंक्रान्तिवर्धितश्रीकम् । कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम् ॥ ८५ ॥ ७.८५ व् जनयनसंक्रान्तवर्धितश्रीकम् ७.८५ व् जनयनं सत् कान्तिवर्धितश्रीकम् पीत्वैवं चषकद्वयं परिजनं सन्मान्य सर्वं ततो ॥ ८६ ॥ ७.८६ व् पीत्वैवं चषकत्रयं परिजनं सन्मान्य सर्वं ततो ७.८६ व् पीत्वैवं चषकद्वयं परिजनं संभाव्य सर्वं ततो गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च ॥ ८६ ॥ मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैर् ॥ ८६ ॥ द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत् ॥ ८६ ॥ रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् ॥ ८७ ॥ पुलकिततनुं जातस्वेदां सकम्पपयोधराम् ॥ ८७ ॥ यदि सरभसं सीधोर्वारं न पाययते कृती ॥ ८७ ॥ ७.८७ व् यदि सरभसं सीधूद्गारं न पाययते कृती किमनुभवति क्लेशप्रायं ततो गृहतन्त्रताम् ॥ ८७ ॥ ७.८७ व् किमनुभवति क्लेशप्रायां वृथा गृहतन्त्रताम् ७.८७ व् किमनुभवति क्लेशप्रायां तदा गृहतन्त्रताम् वरतनुवक्त्रसंगतिसुगन्धितरं सरकम् ॥ ८८ ॥ द्रुतमिव पद्मरागमणिमासवरूपधरम् ॥ ८८ ॥ भवति रतिश्रमेण च मदः पिबतोऽल्पमपि ॥ ८८ ॥ क्षयमत ओजसः परिहरन् स शयीत परम् ॥ ८८ ॥ इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते । असारसंसारसुखं परमं चाधिगच्छति ॥ ८९ ॥ ऐश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि । अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम् ॥ ९० ॥ ७.९० व् अन्यथा हि विपत्स्वस्य उपभोगेन रहितो भोगवानिति निन्द्यते । निर्मितोऽतिकद्अर्योऽयं विधिना निधिपालकः ॥ ९१ ॥ तस्माद्व्यवस्थया पानं पानस्य सततं हितम् । जित्वा विषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम् ॥ ९२ ॥ ७.९२ व् तस्मादवस्थया पानं विधिर्वसुमतामेष भविष्यद्वसवस्तु ये । यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् ॥ ९३ ॥ यावद्दृष्टेर्न संभ्रान्तिर्यावन्न क्षोभते मनः । तावदेव विरन्तव्यं मद्यादात्मवता सदा ॥ ९४ ॥ अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः । स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत् ॥ ९५ ॥ शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः । पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति ॥ ९६ ॥ उपचारैरशिशिरैर्यवगोधूमभुक्पिबेत् । श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह ॥ ९७ ॥ ७.९७ व् श्लैष्मिको जाङ्गलैर्मांसैर् ७.९७ व् मद्यं मरिचकैः सह तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम् । पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम् ॥ ९८ ॥ ७.९८ व् माध्वीकारिष्टमाधवम् प्राक्पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः । वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छया ॥ ९९ ॥ ७.९९ व् समदोषो यथेच्छति ७.९९ व् समदोषो यद्ऋच्छया मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते । सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत् ॥ १०० ॥ शीताः प्रदेहा मणयः सेका व्यजनमारुताः । सिता द्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः ॥ १०१ ॥ सिद्धं मधुरवर्गेण रसा यूषाः सदाडिमाः । षष्टिकाः शालयो रक्ता यवाः सर्पिश्च जीवनम् ॥ १०२ ॥ कल्याणकं महातिक्तं षट्पलं पयसाग्निकः । पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः ॥ १०३ ॥ त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा । प्रसक्तवेगेषु हितं मुखनासावरोधनम् ॥ १०४ ॥ पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम् । मृणालबिसकृष्णा वा लिह्यात्क्षौद्रेण साभयाः ॥ १०५ ॥ ७.१०५ व् पिबेद्वा मानुषं क्षीरं दुरालभां वा मुस्तं वा शीतेन सलिलेन वा । पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम् ॥ १०६ ॥ धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम् । कुर्यात्क्रियां यथोक्तां च यथादोषबलोदयम् ॥ १०७ ॥ पञ्च कर्माणि चेष्टानि सेचनं शोणितस्य च । सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च ॥ १०८ ॥ मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत् । तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च ॥ १०९ ॥ ७.१०९ व् कर्म संन्यासविहितं ७.१०९ व् विषघ्नं विषजेषु तु आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम् । धूमः प्रधमनं तोदः सूचीभिश्च नखान्तरे ॥ ११० ॥ ७.११० व् धूमं प्रधमनं तोदः ७.११० व् सूचीभिश्च नखान्तरैः केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः । कट्व्अम्लगालनं वक्त्रे कपिकच्छ्व्अवघर्षणम् ॥ १११ ॥ ७.१११ व् कपिकच्छ्वावघर्षणम् उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत् । खादेत्सव्योषलवणं बीजपूरककेसरम् ॥ ११२ ॥ लघ्व्अन्नप्रति तीक्ष्णोष्णमद्यात्स्रोतोविशुद्धये । विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः ॥ ११३ ॥ ७.११३ व् लघ्वन्नं कटुतीक्ष्णोष्णम् पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः । स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः ॥ ११४ ॥ उपाचरेत्तं प्रततमनुबन्धभयात्पुनः । तस्य संरक्षितव्यं च मनः प्रलयहेतुतः ॥ ११५ ॥ Cइकित्सास्थान काले साधारणे व्य्अभ्रे नातिदुर्बलमर्शसम् । विशुद्धकोष्ठं लघ्व्अल्पमनुलोमनमाशितम् ॥ १ ॥ ८.१ व् विशुद्धकोष्ठं लघ्व्अन्नम् शुचिं कृतस्वस्त्य्अयनं मुक्तविण्मूत्रमव्यथम् । शयने फलके वान्यनरोत्सङ्गे व्यपाश्रितम् ॥ २ ॥ पूर्वेण कायेनोत्तानं प्रत्य्आदित्यगुदं समम् । समुन्नतकटीदेशमथ यन्त्रणवाससा ॥ ३ ॥ सक्थ्नोः शिरोधरायां च परिक्षिप्तमृजु स्थितम् । आलम्बितं परिचरैः सर्पिषाभ्यक्तपायवे ॥ ४ ॥ ततोऽस्मै सर्पिषाभ्यक्तं निदध्यादृजु यन्त्रकम् । शनैरनुसुखं पायौ ततो दृष्ट्वा प्रवाहणात् ॥ ५ ॥ यन्त्रे प्रविष्टं दुर्नाम प्लोतगुण्ठितयानु च । शलाकयोत्पीड्य भिषग्यथोक्तविधिना दहेत् ॥ ६ ॥ ८.६ व् यन्त्रे प्रविष्टे दुर्नाम क्षारेणैवार्द्रमितरत्क्षारेण ज्वलनेन वा । महद्वा बलिनश्छित्त्वा वीतयन्त्रमथातुरम् ॥ ७ ॥ स्व्अभ्यक्तपायुजघनमवगाहे निधापयेत् । निर्वातमन्दिरस्थस्य ततोऽस्याचारमादिशेत् ॥ ८ ॥ ८.८ व् निर्वातागारसंस्थस्य एकैकमिति सप्ताहात्सप्ताहात्समुपाचरेत् । प्राग्दक्षिणं ततो वाममर्शः पृष्ठाग्रजं ततः ॥ ९ ॥ बह्व्अर्शसः सुदग्धस्य स्याद्वायोरनुलोमता । रुचिरन्नेऽग्निपटुता स्वास्थ्यं वर्णबलोदयः ॥ १० ॥ वस्तिशूले त्वधो नाभेर्लेपयेच्छ्लक्ष्णकल्कितैः । वर्षाभूकुष्ठसुरभिमिशिलोहामराह्वयैः ॥ ११ ॥ शकृन्मूत्रप्रतीघाते परिषेकावगाहयोः । वरणालम्बुषैरण्डगोकण्टकपुनर्नवैः ॥ १२ ॥ ८.१२ व् शकृन्मूत्रपरीघाते सुषवीसुरभीभ्यां च क्वाथमुष्णं प्रयोजयेत् । सस्नेहमथवा क्षीरं तैलं वा वातनाशनम् ॥ १३ ॥ युञ्जीतान्नं शकृद्भेदि स्नेहान् वातघ्नदीपनान् । अथाप्रयोज्यदाहस्य निर्गतान् कफवातजान् ॥ १४ ॥ सस्तम्भकण्डूरुक्शोफानभ्यज्य गुदकीलकान् । बिल्वमूलाग्निकक्षारकुष्ठैः सिद्धेन सेचयेत् ॥ १५ ॥ ८.१५ व् संरम्भकण्डूरुक्शोफान् ८.१५ व् संस्तम्भकण्डूरुक्शोफान् तैलेनाहिबिडालोष्ट्रवराहवसयाथवा । स्वेदयेदनु पिण्डेन द्रवस्वेदेन वा पुनः ॥ १६ ॥ कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली । शिलाभ्रकाश्वमारं च जन्तुहृद्दन्तिचित्रकौ ॥ १६.१+(१) ॥ हरितालं तथा स्वर्णक्षीरी तैश्च पचेत्समैः । तैलं सुधार्कपयसी गवां मूत्रे चतुर्गुणे ॥ १६.१+(२) ॥ एतदभ्यङ्गतोऽर्शांसि क्षारवत्पातयेद्द्रुतम् । क्षारकर्मकरं ह्येतन्न च दूषयते वलीम् ॥ १६.१+(३) ॥ सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा । रास्नाया हपुषाया वा पिण्डैर्वा कार्ष्ण्यगन्धिकैः ॥ १७ ॥ ८.१७ व् पिण्डैर्वा कार्षकान्वितैः अर्कमूलं शमीपत्त्रं नृकेशः सर्पकञ्चुकम् । मार्जारचर्म सर्पिश्च धूपनं हितमर्शसाम् ॥ १८ ॥ तथाश्वगन्धा सुरसा बृहती पिप्पली घृतम् । धान्याम्लपिष्टैर्जीमूतबीजैस्तज्जालकं मृदु ॥ १९ ॥ लेपितं छायया शुष्कं वर्तिर्गुदजशातनी । सजालमूलजीमूतलेहे वा क्षारसंयुते ॥ २० ॥ गुञ्जासूरणकूष्माण्डबीजैर्वर्तिस्तथागुणा । स्नुक्क्षीरार्द्रनिशालेपस्तथा गोमूत्रकल्कितैः ॥ २१ ॥ कृकवाकुशकृत्कृष्णानिशागुञ्जाफलैस्तथा । स्नुक्क्षीरपिष्टैः षड्ग्रन्थाहलिनीवारणास्थिभिः ॥ २२ ॥ कुलीरशृङ्गीविजयाकुष्ठारुष्करतुत्थकैः । शिग्रुमूलकजैर्बीजैः पत्त्रैरश्वघ्ननिम्बजैः ॥ २३ ॥ ८.२३ व् शिग्रुमूलकबीजैर्वा पीलुमूलेन बिल्वेन हिङ्गुना च समन्वितैः । कुष्ठं शिरीषबीजानि पिप्पल्यः सैन्धवं गुडः ॥ २४ ॥ अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम् । आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः ॥ २५ ॥ ८.२५ व् आर्कं पयः स्नुहीकाण्डं करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम् । आनुवासनिकैर्लेपः पिप्पल्य्आद्यैश्च पूजितः ॥ २६ ॥ एभिरेवौषधैः कुर्यात्तैलान्यभ्यञ्जनाय च । धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः ॥ २७ ॥ ८.२७ व् एभिर्लेपौषधैः कुर्यात् ८.२७ व् तैलान्यभ्यञ्जनानि च संचितं दुष्टरुधिरं ततः संपद्यते सुखी । अवर्तमानमुच्छूनकठिनेभ्यो हरेदसृक् ॥ २८ ॥ अर्शोभ्यो जलजाशस्त्रसूचीकूर्चैः पुनः पुनः । शीतोष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति ॥ २९ ॥ ८.२९ व् शीतोष्णस्निग्धरूक्षाद्यैर् रक्ते दुष्टे भिषक्तस्माद्रक्तमेवावसेचयेत् । यो जातो गोरसः क्षीराद्वह्निचूर्णावचूर्णितात् ॥ ३० ॥ ८.३० व् बहुमूलावचूर्णितात् पिबंस्तमेव तेनैव भुञ्जानो गुदजान् जयेत् । कोविदारस्य मूलानां मथितेन रजः पिबन् ॥ ३१ ॥ ८.३१ व् मथितेन रजः पिबेत् अश्नन् जीर्णे च पथ्यानि मुच्यते हतनामभिः । गुदश्वयथुशूलार्तो मन्दाग्निर्गौल्मिकान् पिबेत् ॥ ३२ ॥ हिङ्ग्व्आदीननुतक्रं वा खादेद्गुडहरीतकीम् । तक्रेण वा पिबेत्पथ्यावेल्लाग्निकुटजत्वचः ॥ ३३ ॥ ८.३३ व् हिङ्ग्व्आदीननुतक्रां वा ८.३३ व् तक्रेण वा पिबेत्पथ्यां ८.३३ व् वेल्लाग्निकुटजत्वचः कलिङ्गमगधाज्योतिःसूरणान् वांशवर्धितान् । कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्व्अम्लवेतसम् ॥ ३४ ॥ युक्तं बिल्वकपित्थाभ्यां महौषधविडेन वा । अरुष्करैर्यवान्या वा प्रदद्यात्तक्रतर्पणम् ॥ ३५ ॥ ८.३५ व् आरुष्करैर्यवान्या वा दद्याद्वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम् । मासं तक्रानुपानानि खादेत्पीलुफलानि वा ॥ ३६ ॥ पिबेदहरहस्तक्रं निर्अन्नो वा प्रकामतः । अत्य्अर्थं मन्दकायाग्नेस्तक्रमेवावचारयेत् ॥ ३७ ॥ ८.३७ व् अत्य्अर्थमन्दकायाग्नेस् सप्ताहं वा दशाहं वा मासार्धं मासमेव च । बलकालविकारज्ञो भिषक्तक्रं प्रयोजयेत् ॥ ३८ ॥ सायं वा लाजसक्तूनां दद्यात्तक्रावलेहिकाम् । जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम् ॥ ३९ ॥ तक्रानुपानं सस्नेहं तक्रौदनमतः परम् । यूषै रसैर्वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया ॥ ४० ॥ रूक्षमर्धोद्धृतस्नेहं यतश्चान्उद्धृतं घृतम् । तक्रं दोषाग्निबलवित्त्रिविधं तत्प्रयोज्येत् ॥ ४१ ॥ न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः । निषिक्तं तद्धि दहति भूमावपि तृणोलुपम् ॥ ४२ ॥ ८.४२ व् निषिक्तं तद्विदहति स्रोतःसु तक्रशुद्धेषु रसो धातूनुपैति यः । तेन पुष्टिर्बलं वर्णः परं तुष्टिश्च जायते ॥ ४३ ॥ वातश्लेष्मविकाराणां शतं च विनिवर्तते । मथितं भाजने क्षुद्रबृहतीफललेपिते ॥ ४४ ॥ निशां पर्युषितं पेयमिच्छद्भिर्गुदजक्षयम् । धान्योपकुञ्चिकाजाजीहपुषापिप्पलीद्वयैः ॥ ४५ ॥ कारवीग्रन्थिकशठीयवान्य्अग्नियवानकैः । चूर्णितैर्घृतपात्रस्थं नात्य्अम्लं तक्रमासुतम् ॥ ४६ ॥ ८.४६ व् यवान्य्अग्नियवानिकैः तक्रारिष्टं पिबेज्जातं व्यक्ताम्लकटु कामतः । दीपनं रोचनं वर्ण्यं कफवातानुलोमनम् ॥ ४७ ॥ गुदश्वयथुकण्ड्व्अर्तिनाशनं बलवर्धनम् । त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥ ४८ ॥ तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत् । भार्ग्य्आस्फोतामृतापञ्चकोलेष्वप्येष संविधिः ॥ ४९ ॥ पिष्टैर्गजकणापाठाकारवीपञ्चकोलकैः । तुम्बुर्व्अजाजीधनिकाबिल्वमध्यैश्च कल्पयेत् ॥ ५० ॥ फलाम्लान् यमकस्नेहान् पेयायूषरसादिकान् । एभिरेवौषधैः साध्यं वारि सर्पिश्च दीपनम् ॥ ५१ ॥ क्रमोऽयं भिन्नशकृतां वक्ष्यते गाढवर्चसाम् । स्नेहाढ्यैः सक्तुभिर्युक्तां लवणां वारुणीं पिबेत् ॥ ५२ ॥ लवणा एव वा तक्रसीधुधान्याम्लवारुणीः । प्राग्भक्तान् यमके भृष्टान् सक्तुभिश्चावचूर्णितान् ॥ ५३ ॥ ८.५३ व् प्राग्भक्तं यमके भृष्टान् करञ्जपल्लवान् खादेद्वातवर्चोऽनुलोमनान् । सगुडं नागरं पाठां गुडक्षारघृतानि वा ॥ ५४ ॥ ८.५४ व् सगुडं नागरं पाठा ८.५४ व् गुडक्षारघृतानि वा गोमूत्राध्युषितामद्यात्सगुडां वा हरीतकीम् । पथ्याशतद्वयान्मूत्रद्रोणेनामूत्रसंक्षयात् ॥ ५५ ॥ ८.५५ व् पथ्याशतद्वयं मूत्र पक्वात्खादेत्समधुनी द्वे द्वे हन्ति कफोद्भवान् । दुर्नामकुष्ठश्वयथुगुल्ममेहोदरकृमीन् ॥ ५६ ॥ ८.५६ व् पक्त्वा खादेत्समधुनी ग्रन्थ्य्अर्बुदापचीस्थौल्यपाण्डुरोगाढ्यमारुतान् । अजशृङ्गीजटाकल्कमजामूत्रेण यः पिबेत् ॥ ५७ ॥ गुडवार्ताकभुक्तस्य नश्यन्त्याशु गुदाङ्कुराः । श्रेष्ठारसेन त्रिवृतां पथ्यां तक्रेण वा सह ॥ ५८ ॥ पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडान्विताम् । अथवा सत्रिवृद्दन्तीं भक्षयेदनुलोमनीम् ॥ ५९ ॥ हते गुदाश्रये दोषे गुदजा यान्ति संक्षयम् । दाडिमस्वरसाजाजीयवानीगुडनागरैः ॥ ६० ॥ ८.६० व् हृते गुदाश्रये दोषे पाठया वा युतं तक्रं वातवर्चोऽनुलोमनम् । सीधुं वा गौडमथवा सचित्रकमहौषधम् ॥ ६१ ॥ पिबेत्सुरां वा हपुषापाठासौवर्चलान्विताम् । दशादिदशकैर्वृद्धाः पिप्पलीर्द्विपिचुं तिलान् ॥ ६२ ॥ ८.६२ व् पिप्पलीर्द्विपिचुं तिलात् पीत्वा क्षीरेण लभते बलं देहहुताशयोः । दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा ॥ ६३ ॥ ८.६३ व् यवान्या नागरेण च एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम् । सलिलस्य वहे पक्त्वा प्रस्थार्धमभयात्वचाम् ॥ ६४ ॥ ८.६४ व् प्रस्थार्धमभयात्वचम् प्रस्थं धात्र्या दशपलं कपित्थानां ततोऽर्धतः । विशालां लोध्रमरिचकृष्णावेल्लैलवालुकम् ॥ ६५ ॥ द्विपलांशं पृथक्पादशेषे पूते गुडात्तुले । दत्त्वा प्रस्थं च धातक्याः स्थापयेद्घृतभाजने ॥ ६६ ॥ ८.६६ व् दत्त्वा प्रस्थं तु धातक्याः पक्षात्स शीलितोऽरिष्टः करोत्यग्निं निहन्ति च । गुदजग्रहणीपाण्डुकुष्ठोदरगरज्वरान् ॥ ६७ ॥ श्वयथुप्लीहहृद्रोगगुल्मयक्ष्मवमिकृमीन् । जलद्रोणे पचेद्दन्तीदशमूलवराग्निकान् ॥ ६८ ॥ पालिकान् पादशेषे तु क्षिपेद्गुडतुलां परम् । पूर्ववत्सर्वमस्य स्यादानुलोमितरस्त्वयम् ॥ ६९ ॥ पचेद्दुरालभाप्रस्थं द्रोणेऽपां प्रासृतैः सह । दन्तीपाठाग्निविजयावासामलकनागरैः ॥ ७० ॥ ८.७० व् द्रोणेऽपां द्विपलैः सह तस्मिन् सिताशतं दद्यात्पादस्थेऽन्यच्च पूर्ववत् । लिम्पेत्कुम्भं तु फलिनीकृष्णाचव्याज्यमाक्षिकैः ॥ ७१ ॥ प्राग्भक्तमानुलोम्याय फलाम्लं वा पिबेद्घृतम् । चव्यचित्रकसिद्धं वा यवक्षारगुडान्वितम् ॥ ७२ ॥ पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम् । पिप्पलीपिप्पलीमूलधानकादाडिमैर्घृतम् ॥ ७३ ॥ ८.७३ व् धान्यकादाडिमैर्घृतम् दध्ना च साधितं वातशकृन्मूत्रविबन्धनुत् । पलाशक्षारतोयेन त्रिगुणेन पचेद्घृतम् ॥ ७४ ॥ ८.७४ व् शकृन्मूत्रविबन्धहृत् वत्सकादिप्रतीवापमर्शोघ्नं दीपनं परम् । पञ्चकोलाभयाक्षारयवानीविडसैन्धवैः ॥ ७५ ॥ सपाठाधान्यमरिचैः सबिल्वैर्दधिमत्घृतम् । साधयेत्तज्जयत्याशु गुदवङ्क्षणवेदनाम् ॥ ७६ ॥ प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् । पाठाजमोदधनिकाश्वदंष्ट्रापञ्चकोलकैः ॥ ७७ ॥ सबिल्वैर्दध्नि चाङ्गेरीस्वरसे च चतुर्गुणे । हन्त्याज्यं सिद्धमानाहं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ ७८ ॥ गुदभ्रंशार्तिगुदजग्रहणीगदमारुतान् । शिखितित्तिरिलावानां रसानम्लान् सुसंस्कृतान् ॥ ७९ ॥ दक्षाणां वर्तकानां वा दद्याद्विड्वातसंग्रहे । वास्तुकाग्नित्रिवृद्दन्तीपाठाम्लीकादिपल्लवान् ॥ ८० ॥ अन्यच्च कफवातघ्नं शाकं च लघु भेदि च । सहिङ्गु यमके भृष्टं सिद्धं दधिसरैः सह ॥ ८१ ॥ ८.८१ व् सिद्धं दधिसरेण च धनिकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना । आर्द्रिकायाः किसलयैः शकलैरार्द्रकस्य च ॥ ८२ ॥ युक्तमङ्गारधूपेन हृद्येन सुरभीकृतम् । सजीरकं समरिचं विडसौवर्चलोत्कटम् ॥ ८३ ॥ ८.८३ व् युक्तमङ्गारधूमेन वातोत्तरस्य रूक्षस्य मन्दाग्नेर्बद्धवर्चसः । कल्पयेद्रक्तशाल्य्अन्नव्यञ्जनं शाकवद्रसान् ॥ ८४ ॥ ८.८४ व् कल्पयेद्रक्तशाल्य्अन्नं ८.८४ व् व्यञ्जनं शाकवद्रसान् ८.८४ व् व्यञ्जनाञ्छाकवद्रसान् गोगोधाछगलोष्ट्राणां विशेषात्क्रव्यभोजिनाम् । मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ॥ ८५ ॥ अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् । धान्येन धान्यशुण्ठीभ्यां कण्टकारिकयाथवा ॥ ८६ ॥ अन्ते भक्तस्य मध्ये वा वातवर्चोऽनुलोमनम् । विड्वातकफपित्तानामानुलोम्ये हि निर्मले ॥ ८७ ॥ गुदे शाम्यन्ति गुदजाः पावकश्चाभिवर्धते । उदावर्तपरीता ये ये चात्य्अर्थं विरूक्षिताः ॥ ८८ ॥ विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम् । पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम् ॥ ८९ ॥ कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च । पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ॥ ९० ॥ ८.९० व् कुष्ठं शठीं पुष्कराह्वं ८.९० व् कुष्ठं शठीं पौष्कराख्यं ८.९० व् कुष्ठं शुण्ठीं पुष्कराख्यं अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम् । गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम् ॥ ९१ ॥ कट्य्ऊरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम् । पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम् ॥ ९२ ॥ उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात् । निरूहं वा प्रयुञ्जीत सक्षीरं पाञ्चमूलिकम् ॥ ९३ ॥ समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः । अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ॥ ९४ ॥ ८.९४ व् मारुतस्य कफस्य च अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद्धिमम् । शकृच्छ्यावं खरं रूक्षमधो निर्याति नानिलः ॥ ९५ ॥ कट्य्ऊरुगुदशूलं च हेतुर्यदि च रूक्षणम् । तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट्श्लथा ॥ ९६ ॥ श्वेता पीता गुरुः स्निग्धा सपिच्छः स्तिमितो गुदः । हेतुः स्निग्धगुरुर्विद्याद्यथास्वं चास्रलक्षणात् ॥ ९७ ॥ दुष्टेऽस्रे शोधनं कार्यं लङ्घनं च यथाबलम् । यावच्च दोषैः कालुष्यं स्रुतेस्तावदुपेक्षणम् ॥ ९८ ॥ दोषाणां पाचनार्थं च वह्निसंधुक्षणाय च । संग्रहाय च रक्तस्य परं तिक्तैरुपाचरेत् ॥ ९९ ॥ यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य वा । स्नेहैस्तत्साधयेत्युक्तैः पानाभ्यञ्जनवस्तिषु ॥ १०० ॥ यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते । स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम् ॥ १०१ ॥ सकफेऽस्रे पिबेत्पाक्यं शुण्ठीकुटजवल्कलम् । किराततिक्तकं शुण्ठीं धन्वयासं कुचन्दनम् ॥ १०२ ॥ दार्वीत्वङ्निम्बसेव्यानि त्वचं वा दाडिमोद्भवाम् । कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ॥ १०३ ॥ पिबेत्तण्डुलतोयेन कल्कितं वा मयूरकम् । तुलां दिव्याम्भसि पचेदार्द्रायाः कुटजत्वचः ॥ १०४ ॥ नीरसायां त्वचि क्वाथे दद्यात्सूक्ष्मरजीकृतान् । समङ्गाफलिनीमोचरसान्मुष्ट्य्अंशकान् समान् ॥ १०५ ॥ तैश्च शक्रयवान् पूते ततो दर्वीप्रलेपनम् । पक्त्वावलेहं लीढ्वा च तं यथाग्निबलं पिबेत् ॥ १०६ ॥ ८.१०६ व् तैश्च शक्रयवान् पूतं पेयां मण्डं पयश्छागं गव्यं वा छागदुग्धभुक् । लेहोऽयं शमयत्याशु रक्तातीसारपायुजान् ॥ १०७ ॥ बलवद्रक्तपित्तं च स्रवदूर्ध्वमधोऽपि वा । कुटजत्वक्तुलां द्रोणे पचेदष्टांशशेषितम् ॥ १०८ ॥ ८.१०८ व् पचेदष्टांशशेषिताम् कल्कीकृत्य क्षिपेत्तत्र तार्क्ष्यशैलं कटुत्रयम् । लोध्रद्वयं मोचरसं बलां दाडिमजं त्वचम् ॥ १०९ ॥ बिल्वकर्कटिकां मुस्तं समङ्गां धातकीफलम् । पलोन्मितं दशपलं कुटजस्यैव च त्वचः ॥ ११० ॥ त्रिंशत्पलानि गुडतो घृतात्पूते च विंशतिः । तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् ॥ १११ ॥ सर्वार्शोग्रहणीदोषश्वासकासान्नियच्छति । लोध्रं तिलान्मोचरसं समङ्गां चन्दनोत्पलम् ॥ ११२ ॥ ८.११२ व् श्वासकासान्निबर्हति पाययित्वाजदुग्धेन शालींस्तेनैव भोजयेत् । यष्ट्य्आह्वपद्मकानन्तापयस्याक्षीरमोरटम् ॥ ११३ ॥ ससितामधु पातव्यं शीततोयेन तेन वा । लोध्रकट्वङ्गकुटजसमङ्गाशाल्मलीत्वचम् ॥ ११४ ॥ ८.११४ व् समङ्गाशाल्मलीत्वचः हिमकेसरयष्ट्य्आह्वसेव्यं वा तण्डुलाम्बुना । यवानीन्द्रयवाः पाट्ःा बिल्वं शुण्ठी रसाञ्जनम् ॥ ११५ ॥ चूर्णश्चले हितः शूले प्रवृत्ते चातिशोणिते । दुग्धिकाकण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ॥ ११६ ॥ अथवा धातकीलोध्रकुटजत्वक्फलोत्पलैः । सकेसरैर्यवक्षारदाडिमस्वरसेन वा ॥ ११७ ॥ शर्कराम्भोजकिञ्जल्कसहितं सह वा तिलैः । अभ्यस्तं रक्तगुदजान्नवनीतं नियच्छति ॥ ११८ ॥ छागानि नवनीताज्यक्षीरमांसानि जाङ्गलः । अन्अम्लो वा कद्अम्ल वा सवास्तुकरसो रसः ॥ ११९ ॥ रक्तशालिः सरो दध्नः षष्टिकस्तरुणी सुरा । तरुणश्च सुरामण्डः शोणितस्यौषधं परम् ॥ १२० ॥ पेयायूषरसाद्येषु पलाण्डुः केवलोऽपि वा । स जयत्युल्बणं रक्तं मारुतं च प्रयोजितः ॥ १२१ ॥ वातोल्बणानि प्रायेण भवन्त्यस्रेऽतिनिःसृते । अर्शांसि तस्मादधिकं तज्जये यत्नमाचरेत् ॥ १२२ ॥ दृष्ट्वास्रपित्तं प्रबलमबलौ च कफानिलौ । शीतोपचारः कर्तव्यः सर्वथा तत्प्रशान्तये ॥ १२३ ॥ न चेदेवं शमस्तस्य स्निग्धोष्णैस्तर्पयेत्ततः । रसैः कोष्णैश्च सर्पिर्भिरवपीडकयोजितैः ॥ १२४ ॥ ८.१२४ व् यदा चैवं शमो न स्यात् सेचयेत्तं कवोष्णैश्च कामं तैलपयोघृतैः । यवासकुशकाशानां मूलं पुष्पं च शाल्मलेः ॥ १२५ ॥ न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः । त्रिप्रस्थे सलिलस्यैतत्क्षीरप्रस्थे च साधयेत् ॥ १२६ ॥ क्षीरशेषे कषाये च तस्मिन् पूते विमिश्रयेत् । कल्कीकृतं मोचरसं समङ्गां चन्दनोत्पलम् ॥ १२७ ॥ प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् । पिच्छावस्तिरयं सिद्धः सघृतक्षौद्रशर्करः ॥ १२८ ॥ प्रवाहिकागुदभ्रंशरक्तस्रावज्वरापहः । यष्ट्य्आह्वपुण्डरीकेण तथा मोचरसादिभिः ॥ १२९ ॥ क्षीरद्विगुणितः पक्वो देयः स्नेहोऽनुवासनम् । मधुकोत्पललोध्राम्बु समङ्गा बिल्वचन्दनम् ॥ १३० ॥ चविकातिविषा मुस्तं पाठा क्षारो यवाग्रजः । दार्वीत्वङ्नागरं मांसी चित्रको देवदारु च ॥ १३१ ॥ चाङ्गेरीस्वरसे सर्पिः साधितं तैस्त्रिदोषजित् । अर्शोऽतीसारग्रहणीपाण्डुरोगज्वरारुचौ ॥ १३२ ॥ मूत्रकृच्छ्रे गुदभ्रंशे वस्त्य्आनाहे प्रवाहणे । पिच्छास्रावेऽर्शसां शूले देयं तत्परमौषधम् ॥ १३३ ॥ व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत् । नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान् ॥ १३४ ॥ ८.१३४ व् जयत्यर्शःकृतां रुजम् उदावर्तार्तमभ्यज्य तैलैः शीतज्वरापहैः । सुस्निग्धैः स्वेदयेत्पिण्डैर्वर्तिमस्मै गुदे ततः ॥ १३५ ॥ अभ्यक्तां तत्कराङ्गुष्ठसंनिभामनुलोमनीम् । दद्याच्छ्यामात्रिवृद्दन्तीपिप्पलीनीलिनीफलैः ॥ १३६ ॥ विचूर्णितैर्द्विलवणैर्गुडगोमूत्रसंयुतैः । तद्वन्मागधिकाराठगृहधूमैः ससर्षपैः ॥ १३७ ॥ ८.१३७ व् गुडगोमूत्रपाचितैः एतेषामेव वा चूर्णं गुदे नाड्या विनिर्धमेत् । तद्विघाते सुतीक्ष्णं तु वस्तिं स्निग्धं प्रपीडयेत् ॥ १३८ ॥ ऋजूकुर्याद्गुदसिराविण्मूत्रमरुतोऽस्य सः । भूयोऽनुबन्धे वातघ्नैर्विरेच्यः स्नेहरेचनैः ॥ १३९ ॥ ८.१३९ व् ऋजूकुर्याद्गुदशिरो अनुवास्यश्च रौक्ष्याद्धि सङ्गो मारुतवर्चसोः । त्रिपटुत्रिकटुश्रेष्ठादन्त्य्अरुष्करचित्रकम् ॥ १४० ॥ जर्जरं स्नेहमूत्राक्तमन्तर्धूमं विपाचयेत् । शरावसंधौ मृल्लिप्ते क्षारः कल्याणकाह्वयः ॥ १४१ ॥ स पीतः सर्पिषा युक्तो भक्ते वा स्निग्धभोजिना । उदावर्तविबन्धार्शोगुल्मपाण्डूदरकृमीन् ॥ १४२ ॥ मूत्रसङ्गाश्मरीशोफहृद्रोगग्रहणीगदान् । मेहप्लीहरुजानाहश्वासकासांश्च नाशयेत् ॥ १४३ ॥ सर्वं च कुर्याद्यत्प्रोक्तमर्शसां गाढवर्चसाम् ॥ १४४ ब् ॥ द्रोणेऽपां पूतिवल्कद्वितुलमथ पचेत्पादशेषे च तस्मिन् ॥ १४४ ॥ ८.१४४ व् द्रोणेऽपां पूतिवल्कं द्वितुलमथ पचेत्पादशेषे च तस्मिन् देयाशीतिर्गुडस्य प्रतनुकरजसो व्योषतोऽष्टौ पलानि ॥ १४४ ॥ एतन्मासेन जातं जनयति परमामूष्मणः पक्तिशक्तिम् ॥ १४४ ॥ शुक्तं कृत्वानुलोम्यं प्रजयति गुदजप्लीहगुल्मोदराणि ॥ १४४ ॥ पचेत्तुलां पूतिकरञ्जवल्काद्द्वे मूलतश्चित्रककण्टकार्योः । द्रोणत्रयेऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥ १४५ ॥ पलिकं च सुचूर्णितं त्रिजातत्रिकटुग्रन्थिकदाडिमाश्मभेदम् । पुरपुष्करमूलधान्यचव्यं हपुषामार्द्रकमम्लवेतसं च ॥ १४६ ॥ शीतीभूतं क्षौद्रविंशत्य्उपेतमार्द्रद्राक्षाबीजपूरार्द्रकैश्च । युक्तं कामं गण्डिकाभिस्तथेक्षोः सर्पिःपात्रे मासमात्रेण जातम् ॥ १४७ ॥ चुक्रं क्रकचमिवेदं दुर्नाम्नां वह्निदीपनं परमम् । पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम् ॥ १४८ ॥ द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने ॥ १४९ ॥ युञ्जीत द्विपलैर्मदामधुफलाखर्जूरधात्रीफलैः ॥ १४९ ॥ पाठामाद्रिदुरालभाम्लविदुलव्योषत्वग्एलोल्लकैः ॥ १४९ ॥ ८.१४९ व् पाठामाद्रिदुरालभाम्लविदुलव्योषत्वग्एल्लाल्लकैः स्पृक्काकोललवङ्गवेल्लचपलामूलाग्निकैः पालिकैः ॥ १४९ ॥ गुडपलशतयोजितं निवाते निहितमिदं प्रपिबंश्च पक्षमात्रात् । निशमयति गुदाङ्कुरान् सगुल्माननलबलं प्रबलं करोति चाशु ॥ १५० ॥ ८.१५० व् प्रशमयति गुदाङ्कुरान् सगुल्मान् एकैकशो दशपले दशमूलकुम्भपाठाद्वयार्कघुणवल्लभकट्फलानाम् । दग्धे स्रुतेऽनु कलशेन जलेन पक्वे पादस्थिते गुडतुलां पलपञ्चकं च ॥ १५१ ॥ ८.१५१ व् पाठाभयार्कघुणवल्लभकट्फलानाम् दद्यात्प्रत्य्एकं व्योषचव्याभयानां वह्नेर्मुष्टी द्वे यवक्षारतश्च । दर्वीमालिम्पन् हन्ति लीढो गुडोऽयं गुल्मप्लीहार्शःकुष्ठमेहाग्निसादान् ॥ १५२ ॥ तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत्पाददलस्थमथेदम् । अष्टौ दत्त्वा जीर्णगुडस्य पलानि क्वाथ्यं भूयः सान्द्रतया सममेतत् ॥ १५३ ॥ ८.१५३ व् साध्यं यावत्पादजलस्थमप्यिदम् त्रिकटुकमिशिपथ्याकुष्ठमुस्तावराङ्गकृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः । जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः ॥ १५४ ॥ ८.१५४ व् जयति गुदजयुक्तप्लीहगुल्मोदराणि गुडव्योषवरावेल्लतिलारुष्करचित्रकैः । अर्शांसि हन्ति गुटिका त्वग्विकारं च शीलिता ॥ १५५ ॥ मृल्लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् । अद्यात्सतैललवणं दुर्नामविनिवृत्तये ॥ १५६ ॥ मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसमाहृतान् । शिखिचतुर्गुणसूरणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदः ॥ १५७ ॥ चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्धेन च चित्रकस्य । महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥ १५८ ॥ पथ्यानागरकृष्णाकरञ्जवेल्लाग्निभिः सितातुल्यैः । वडबामुख इव जरयति बहुगुर्वपि भोजनं चूर्णः ॥ १५९ ॥ ८.१५९ व् बहुगुर्वपि भोजनं चूर्णम् कलिङ्गलाङ्गलीकृष्णावह्न्य्अपामार्गतण्डुलैः । भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः ॥ १६० ॥ लवणोत्तमवह्निकलिङ्गयवांश्चिरिबिल्वमहापिचुमन्दयुतान् । पिब सप्तदिनं मथितालुडितान् यदि मर्दितुमिच्छसि पायुरुहान् ॥ १६१ ॥ ८.१६१ व् पिब सप्तदिनं मथितालुलितान् ८.१६१ व् यदि मर्दितुमिच्छसि पायुरुहः शुष्केषु भल्लातकमग्र्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक् । सर्वेषु सर्वर्तुषु कालशेयमर्शःसु बल्यं च मलापहं च ॥ १६२ ॥ भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च । तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात् ॥ १६३ ॥ अर्शोऽतिसारग्रहणीविकाराः प्रायेण चान्योऽन्यनिदानभूताः । सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्निम् ॥ १६४ ॥ ८.१६४ व् रक्षेत्ततस्तेषु विशेषतोऽग्निम् Cइकित्सास्थान अतीसारो हि भूयिष्ठं भवत्यामाशयान्वयः । हत्वाग्निं वातजेऽप्यस्मात्प्राक्तस्मिÀ लङ्घनं हितम् ॥ १ ॥ ९.१ व् प्रागस्मिÀ लङ्घनं हितम् शूलानाहप्रसेकार्तं वामयेदतिसारिणम् । दोषाः संनिचिता ये च विदग्धाहारमूर्छिताः ॥ २ ॥ अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम् । भृशोत्क्लेशप्रवृत्तेषु स्वयमेव चलात्मसु ॥ ३ ॥ न तु संग्रहणं योज्यं पूर्वमामातिसारिणि । अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि ॥ ४ ॥ ९.४ व् प्रयोज्यं न तु संग्राहि ९.४ व् पूर्वमामोल्बणे न तु प्राणदा प्राणदा दोषे विबद्धे संप्रवर्तिनी । पिबेत्प्रक्वथितास्तोये मध्यदोषो विशोषयन् ॥ ५ ॥ भूतिकपिप्पलीशुण्ठीवचाधान्यहरीतकीः । अथवा बिल्वधनिकामुस्तनागरवालकम् ॥ ६ ॥ विडपाठावचापथ्याकृमिजिन्नागराणि वा । शुण्ठीघनवचामाद्रीबिल्ववत्सकहिङ्गु वा ॥ ७ ॥ शस्यते त्वल्पदोषाणामुपवासोऽतिसारिणाम् । वचाप्रतिविषाभ्यां वा मुस्तापर्पटकेन वा ॥ ८ ॥ ह्रीवेरनागराभ्यां वा विपक्वं पाययेज्जलम् । युक्तेऽन्नकाले क्षुत्क्षामं लघ्व्अन्नप्रति भोजयेत् ॥ ९ ॥ ९.९ व् लघ्वन्नं प्रतिभोजयेत् तथा स शीघ्रं प्राप्नोति रुचिमग्निबलं बलम् । तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा ॥ १० ॥ सुरया मधुना वाथ यथासात्म्यमुपाचरेत् । भोज्यानि कल्पयेदूर्ध्वं ग्राहिदीपनपाचनैः ॥ ११ ॥ ९.११ व् सुरया मधुना चाथ बालबिल्वशठीधान्यहिङ्गुवृक्षाम्लदाडिमैः । पलाशहपुषाजाजीयवानीविडसैन्धवैः ॥ १२ ॥ लघुना पञ्चमूलेन पञ्चकोलेन पाठया । शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता ॥ १३ ॥ दाडिमाम्ला हिता पेया कफपित्ते समुल्बणे । अभयापिप्पलीमूलबिल्वैर्वातानुलोमनी ॥ १४ ॥ विबद्धं दोषबहुलो दीप्ताग्निर्योऽतिसार्यते । कृष्णाविडङ्गत्रिफलाकषायैस्तं विरेचयेत् ॥ १५ ॥ पेयां युञ्ज्याद्विरिक्तस्य वातघ्नैर्दीपनैः कृताम् । आमे परिणते यस्तु दीप्तेऽग्नावुपवेश्यते ॥ १६ ॥ सफेनपिच्छं सरुजं सविबन्धं पुनः पुनः । अल्पाल्पमल्पशमलं निर्विड्वा सप्रवाहिकम् ॥ १७ ॥ ९.१७ व् अल्पाल्पमल्पं समलं दधितैलघृतक्षीरैः स शुण्ठीं सगुडां पिबेत् । स्विन्नानि गुडतैलेन भक्षयेद्बदराणि वा ॥ १८ ॥ गाढविड्विहितैः शाकैर्बहुस्नेहैस्तथा रसैः । क्षुधितं भोजयेदेनं दधिदाडिमसाधितैः ॥ १९ ॥ ९.१९ व् दधिदाडिमसंस्कृतैः शाल्य्ओदनं तिलैर्माषैर्मुद्गैर्वा साधु साधितम् । शठ्या मूलकपोतायाः पाठायाः स्वस्तिकस्य वा ॥ २० ॥ ९.२० व् शुण्ठ्या मूलकपोतायाः सूषायवानीकर्कारुक्षीरिणीचिर्भटस्य वा । उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा ॥ २१ ॥ सुवर्चलायाश्चुञ्चोर्वा लोणिकाया रसैरपि । कूर्मवर्तकलोपाकशिखितित्तिरिकौक्कुटैः ॥ २२ ॥ ९.२२ व् शिखितित्तिरिदक्षजैः बिल्वमुस्ताक्षिभैषज्यधातकीपुष्पनागरैः । पक्वातीसारजित्तक्रे यवागूर्दाधिकी तथा ॥ २३ ॥ कपित्थकच्छुराफञ्जीयूथिकावटशेलुजैः । दाडिमीशणकार्पासीशाल्मलीनां च पल्लवैः ॥ २४ ॥ ९.२४ व् शाल्मलीमोचपल्लवैः कल्को बिल्वशलाटूनां तिलकल्कश्च तत्समः । दध्नः सरोऽम्लः सस्नेहः खलो हन्ति प्रवाहिकाम् ॥ २५ ॥ मरिचं धनिकाजाजी तिन्तिडीकं शठी विडम् । दाडिमं धातकी पाठा त्रिफला पञ्चकोलकम् ॥ २६ ॥ यावशूकं कपित्थाम्रजम्बूमध्यं सदीप्यकम् । पिष्टैः षड्गुणबिल्वैस्तैर्दध्नि मुद्गरसे गुडे ॥ २७ ॥ स्नेहे च यमके सिद्धः खलोऽयमपराजितः । दीपनः पाचनो ग्राही रुच्यो बिम्बिशिनाशनः ॥ २८ ॥ कोलानां बालबिल्वानां कल्कैः शालियवस्य च । मुद्गमाषतिलानां च धान्ययूषं प्रकल्पयेत् ॥ २९ ॥ ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम् । वर्चःक्षये शुष्कमुखं शाल्य्अन्नं तेन भोजयेत् ॥ ३० ॥ दध्नः सरं वा यमके भृष्टं सगुडनागरम् । सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत् ॥ ३१ ॥ फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा । भृष्टान् वा यमके सक्तून् खादेद्व्योषावचूर्णितान् ॥ ३२ ॥ माषान् सुसिद्धांस्तद्वद्वा घृतमण्डोपसेवनान् । रसं सुसिद्धपूतं वा छागमेषान्तर्आधिजम् ॥ ३३ ॥ ९.३३ व् रसं सुसिद्धं पूतं वा पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम् । रक्तशाल्य्ओदनं तेन भुञ्जानः प्रपिबंश्च तम् ॥ ३४ ॥ वर्चःक्षयकृतैराशु विकारैः परिमुच्यते । बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम् ॥ ३५ ॥ ९.३५ व् पिप्पलीविश्वभेषजम् लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः । वल्कलं शाबरं पुष्पं धातक्या बदरीदलम् ॥ ३६ ॥ ९.३६ व् सशूले सप्रवाहिके ९.३६ व् धातक्या बदरीफलम् एरण्डबिल्वयवगोक्षुरकाम्लसिद्धां पथ्यां लिहन्मधुयुतामथ वा गुडेन । कृच्छ्रप्रवृत्तमतिशूलमसृग्विमिश्रं हन्यादवश्यमतिसारमुदीर्णवेगम् ॥ ३६.१+१ ॥ पिबेद्दधिसरक्षौद्रकपित्थस्वरसाप्लुतम् । विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः ॥ ३७ ॥ सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति । यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत् ॥ ३८ ॥ शृतमेरण्डमूलेन बालबिल्वेन वा पुनः । पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणेऽम्भसि ॥ ३९ ॥ ९.३९ व् विंशतिं त्रिगुणाम्भसि क्षीरावशिष्टं तत्पीतं हन्यादामं सवेदनम् । पिप्पल्याः पिबतः सूक्ष्मं रजो मरिचजन्म वा ॥ ४० ॥ चिरकालानुषक्तापि नश्यत्याशु प्रवाहिका । निर्आमरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ॥ ४१ ॥ रूक्षकोष्ठमपेक्ष्याग्निं सक्षारं पाययेद्घृतम् । सिद्धं दधिसुरामण्डे दशमूलस्य चाम्भसि ॥ ४२ ॥ ९.४२ व् दशमूलस्य वाम्भसि सिन्धूत्थपञ्चकोलाभ्यां तैलं सद्योऽर्तिनाशनम् । षड्भिः शुण्ठ्याः पलैर्द्वाभ्यां द्वाभ्यां ग्रन्थ्य्अग्निसैन्धवात् ॥ ४३ ॥ तैलप्रस्थं पचेद्दध्ना निःसारकरुजापहम् । एकतो मांसदुग्धाज्यं पुरीषग्रहशूलजित् ॥ ४४ ॥ पानानुवासनाभ्यङ्गप्रयुक्तं तैलमेकतः । तद्धि वातजितामग्र्यं शूलं च विगुणोऽनिलः ॥ ४५ ॥ धात्व्अन्तरोपमर्देद्धश्चलो व्यापी स्वधामगः । तैलं मन्दानलस्यापि युक्त्या शर्मकरं परम् ॥ ४६ ॥ ९.४६ व् धात्व्अन्तरोपमर्दाद्वै ९.४६ व् धात्व्अन्तरोपमर्देन वाय्व्आशये सतैले हि बिम्बिशिर्नावतिष्ठते ॥ ४६ªअब् ॥ क्षीणे मले स्वायतनच्युतेषु दोषान्तरेष्वीरण एकवीरे । को निष्टनन् प्राणिति कोष्ठशूली नान्तर्बहिस्तैलपरो यदि स्यात् ॥ ४७ ॥ गुदरुग्भ्रंशयोर्युञ्ज्यात्सक्षीरं साधितं हविः ॥ ४८ ब् ॥ रसे कोलाम्लचाङ्गेर्योर्दध्नि पिष्टे च नागरे । तैरेव चाम्लैः संयोज्य सिद्धं सुश्लक्ष्णकल्कितैः ॥ ४९ ॥ ९.४९ व् तैरेव चाम्लैः संयुक्तैः धान्योषणविडाजाजीपञ्चकोलकदाडिमैः । योजयेत्स्नेहवस्तिं वा दशमूलेन साधितम् ॥ ५० ॥ शठीशताह्वाकुष्ठैर्वा वचया चित्रकेण वा । प्रवाहणे गुदभ्रंशे मूत्राघाते कटीग्रहे ॥ ५१ ॥ मधुराम्लैः शृतं तैलं घृतं वाप्यनुवासनम् । प्रवेशयेद्गुदं ध्वस्तमभ्यक्तं स्वेदितं मृदु ॥ ५२ ॥ कुर्याच्च गोफणाबन्धं मध्यच्छिद्रेण चर्मणा । पञ्चमूलस्य महतः क्वाथं क्षीरे विपाचयेत् ॥ ५३ ॥ ९.५३ व् क्वाथं क्षीरेण पाचयेत् उन्दुरुं चान्त्ररहितं तेन वातघ्नकल्कवत् । तैलं पचेद्गुदभ्रंशं पानाभ्यङ्गेन तज्जयेत् ॥ ५४ ॥ पैत्ते तु सामे तीक्ष्णोष्णवर्ज्यं प्रागिव लङ्घनम् । तृड्वान् पिबेत्षड्अङ्गाम्बु सभूनिम्बं सशारिवम् ॥ ५५ ॥ पेयादि क्षुधितस्यान्नमग्निसंधुक्षणं हितम् । बृहत्य्आदिगणाभीरुद्विबलाशूर्पपर्णिभिः ॥ ५६ ॥ पाययेदनुबन्धे तु सक्षौद्रं तण्डुलाम्भसा । कुटजस्य फलं पिष्टं सवल्कं सघुणप्रियम् ॥ ५७ ॥ ९.५७ व् सक्षौद्रं तण्डुलाम्बुना ९.५७ व् वत्सकस्य फलं पिष्टं पाठावत्सकबीजत्वग्दार्वीग्रन्थिकशुण्ठि वा । क्वाथं वातिविषाबिल्ववत्सकोदीच्यमुस्तजम् ॥ ५८ ॥ अथवातिविषामूर्वानिशेन्द्रयवतार्क्ष्यजम् । समध्व्अतिविषाशुण्ठीमुस्तेन्द्रयवकट्फलम् ॥ ५९ ॥ पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत् । यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम् ॥ ६० ॥ मुस्ताकषायमेवं वा पिबेन्मधुसमायुतम् । सक्षौद्रं शाल्मलीवृन्तकषायं वा हिमाह्वयम् ॥ ६१ ॥ किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम् । कटङ्कटेरी ह्रीवेरं बिल्वमध्यं दुरालभा ॥ ६२ ॥ तिला मोचरसं लोध्रं समङ्गा कमलोत्पलम् । नागरं धातकीपुष्पं दाडिमस्य त्वगुत्पलम् ॥ ६३ ॥ अर्धश्लोकैः स्मृता योगाः सक्षौद्रास्तण्डुलाम्बुना । निशेन्द्रयवलोध्रैलाक्वाथः पक्वातिसारजित् ॥ ६४ ॥ ९.६४ व् क्वाथः पक्वातिसारनुत् नागरातिविषामुस्ताभूनिम्बामृतवत्सकैः । सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः ॥ ६४+१ ॥ गुडूच्य्अतिविषाधान्यशुण्ठीबिल्वाब्दवालकैः । पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः ॥ ६४+२ ॥ कषायः शितलः पेयो ज्वरातीसारशान्तये । हृल्लासारोचकच्छर्दिपिपासादाहनाशनः ॥ ६४+३ ॥ लोध्राम्बष्ठाप्रियङ्ग्व्आदिगणांस्तद्वत्पृथक्पिबेत् । कट्वङ्गवल्कयष्ट्य्आह्वफलिनीदाडिमाङ्कुरैः ॥ ६५ ॥ पेयाविलेपीखलकान् कुर्यात्सदधिदाडिमान् । तद्वद्दधित्थबिल्वाम्रजम्बूमध्यैः प्रकल्पयेत् ॥ ६६ ॥ अजापयः प्रयोक्तव्यं निर्आमे तेन चेच्छमः । दोषाधिक्यान्न जायेत बलिनं तं विरेचयेत् ॥ ६७ ॥ व्यत्यासेन शकृद्रक्तमुपवेश्येत योऽपि वा । पलाशफलनिर्यूहं युक्तं वा पयसा पिबेत् ॥ ६८ ॥ ततोऽनु कोष्णं पातव्यं क्षीरमेव यथाबलम् । प्रवाहिते तेन मले प्रशाम्यत्युदरामयः ॥ ६९ ॥ पलाशवत्प्रयोज्या वा त्रायमाणा विशोधनी । संसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते ॥ ७० ॥ ९.७० व् त्रायमाणा विशोधने स्रुतदोषस्य तं शीघ्रं यथावह्न्यनुवासयेत् । शतपुष्पावरीभ्यां च बिल्वेन मधुकेन च ॥ ७१ ॥ तैलपादं पयोयुक्तं पक्वमन्वासनं घृतम् । अशान्तावित्यतीसारे पिच्छावस्तिः परं हितः ॥ ७२ ॥ परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः । कृष्णमृत्तिकयालिप्य स्वेदयेद्गोमयाग्निना ॥ ७३ ॥ मृच्छोषे तानि संक्षुद्य तत्पिण्डं मुष्टिसंमितम् । मर्दयेत्पयसः प्रस्थे पूतेनास्थापयेत्ततः ॥ ७४ ॥ नतयष्ट्य्आह्वकल्काज्यक्षौद्रतैलवतानु च । स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा ॥ ७५ ॥ पित्तातिसारज्वरशोफगुल्मसमीरणास्रग्रहणीविकारान् । जयत्ययं शीघ्रमतिप्रवृत्तिं विरेचनास्थापनयोश्च वस्तिः ॥ ७६ ॥ कट्वङ्गबिल्वजं त्वस्थि कपित्थं सुरसाञ्जनम् । लाक्षाहरिद्रे ह्रीवेरं कट्फलं शुकनासिका ॥ ७६+१ ॥ लोध्रं मोचरसं मुस्तं धातकी वटशुङ्गकान् । पिष्ट्वा तण्डुलतोयेन वटकानक्षसंमितान् ॥ ७६+२ ॥ पिबेत्तेनैव तोयेन ज्वरातीसारनाशनः । रक्तप्रसादनो ह्येष शोफातीसारनाशनः ॥ ७६+३ ॥ फाणितं कुटजोत्थं च सर्वातीसारनाशनम् । वत्सकादिसमायुक्तं साम्बष्ठादि समाक्षिकम् ॥ ७७ ॥ नीरुङ्निर्आमं दीप्ताग्नेरपि सास्रं चिरोत्थितम् । नानावर्णमतीसारं पुटपाकैरुपाचरेत् ॥ ७८ ॥ त्वक्पिण्डाद्दीर्घवृन्तस्य श्रीपर्णीपत्त्रसंवृतात् । मृल्लिप्तादग्निना स्विन्नाद्रसं निष्पीडितं हिमम् ॥ ७९ ॥ अतीसारी पिबेद्युक्तं मधुना सितयाथवा । एवं क्षीरिद्रुमत्वग्भिस्तत्प्ररोहैश्च कल्पयेत् ॥ ८० ॥ ९.८० व् एवं क्षीरद्रुमत्वग्भिस् कट्वङ्गत्वग्घृतयुता स्वेदिता सलिलोष्मणा । सक्षौद्रा हन्त्यतीसारं बलवन्तमपि द्रुतम् ॥ ८१ ॥ पित्तातीसारी सेवेत पित्तलान्येव यः पुनः । रक्तातीसारं कुरुते तस्य पित्तं सतृड्ज्वरम् ॥ ८२ ॥ दारुणं गुदपाकं च तत्र च्छागं पयो हितम् । पद्मोत्पलसमङ्गाभिः शृतं मोचरसेन च ॥ ८३ ॥ शारिवायष्टिलोध्रैर्वा प्रसवैर्वा वटादिजैः । सक्षौद्रशर्करं पाने भोजने गुदसेचने ॥ ८४ ॥ तद्वद्रसादयोऽन्अम्लाः साज्याः पानान्नयोर्हिताः । काश्मर्यफलयूषश्च किञ्चिद्अम्लः सशर्करः ॥ ८५ ॥ पयस्यर्धोदके छागे ह्रीवेरोत्पलनागरैः । पेया रक्तातिसारघ्नी पृश्निपर्णीरसान्विता ॥ ८६ ॥ प्राग्भक्तं नवनीतं वा लिह्यान्मधुसितायुतम् । बलिन्यस्रेऽस्रमेवाजं मार्गं वा घृतभर्जितम् ॥ ८७ ॥ क्षीरानुपानं क्षीराशी त्र्य्अहं क्षीरोद्भवं घृतम् । कपिञ्जलरसाशी वा लिहन्नारोग्यमश्नुते ॥ ८८ ॥ पीत्वा शतावरीकल्कं क्षीरेण क्षीरभोजनः । रक्तातीसारं हन्त्याशु तया वा साधितं घृतम् ॥ ८९ ॥ लाक्षानागरवैदेहीकटुकादार्विवल्कलैः । सर्पिः सेन्द्रयवैः सिद्धं पेयामण्डावचारितम् ॥ ९० ॥ अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् । कृष्णमृच्छङ्खयष्ट्य्आह्वक्षौद्रासृक्तण्डुलोदकम् ॥ ९१ ॥ जयत्यस्रं प्रियङ्गुश्च तण्डुलाम्बुमधुप्लुता । कल्कस्तिलानां कृष्णानां शर्करापाञ्चभागिकः ॥ ९२ ॥ ९.९२ व् शर्कराभागसंयुतः आजेन पयसा पीतः सद्यो रक्तं नियच्छति । पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्बुना ॥ ९३ ॥ दाहतृष्णाप्रमोहेभ्यो रक्तस्रावाच्च मुच्यते । गुदस्य दाहे पाके वा सेकलेपा हिता हिमाः ॥ ९४ ॥ ९.९४ व् दाहतृष्णाप्रमेहेभ्यो ९.९४ व् सेका लेपा हिता हिमाः अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते । यदा विबद्धो वायुश्च कृच्छ्राच्चरति वा न वा ॥ ९५ ॥ पिच्छावस्तिं तदा तस्य पूर्वोक्तमुपकल्पयेत् । पल्लवान् जर्जरीकृत्य शिंशिपाकोविदारयोः ॥ ९६ ॥ पचेद्यवांश्च स क्वाथे घृतक्षीरसमन्वितः । पिच्छास्रुतौ गुदभ्रंशे प्रवाहणरुजासु वा ॥ ९७ ॥ पिच्छावस्तिः प्रयोक्तव्यः क्षतक्षीणबलावहः । प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासनम् ॥ ९८ ॥ रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते । शतावरीघृतं तस्य लेहार्थमुपकल्पयेत् ॥ ९९ ॥ शर्करार्धांशकं लीढं नवनीतं नवोद्धृतम् । क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः ॥ १०० ॥ न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत् । अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत् ॥ १०१ ॥ तदर्धशर्करायुक्तं लेहयेत्क्षौद्रपादिकम् । अधो वा यदि वाप्युर्ध्वं यस्य रक्तं प्रवर्तते ॥ १०२ ॥ ९.१०२ व् अधो वा यदि वात्य्उर्ध्वं श्लेष्मातीसारे वातोक्तं विशेषादामपाचनम् । कर्तव्यमनुबन्धेऽस्य पिबेत्पक्त्वाग्निदीपनम् ॥ १०३ ॥ बिल्वकर्कटिकामुस्तप्राणदाविश्वभेषजम् । वचाविडङ्गभूतीकधानकामरदारु वा ॥ १०४ ॥ ९.१०४ व् धान्यकामरदारु वा अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकम् । पाठाग्निवत्सकग्रन्थितिक्ताशुण्ठीवचाभयाः ॥ १०५ ॥ ९.१०५ व् पिप्पलीद्वयचित्रकान् क्वथिता यदि वा पिष्टाः श्लेष्मातीसारभेषजम् । सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः ॥ १०६ ॥ पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताः कोष्णवारिणा । मध्यं लीढ्वा कपित्थस्य सव्योषक्षौद्रशर्करम् ॥ १०७ ॥ ९.१०७ व् सक्षौद्रं व्योषशर्करम् कट्फलं मधुयुक्तं वा मुच्यते जठरामयात् । कणां मधुयुतां लीढ्वा तक्रं पीत्वा सचित्रकम् ॥ १०८ ॥ भुक्त्वा वा बालबिल्वानि व्यपोहत्युदरामयम् । पाठामोचरसाम्भोदधातकीबिल्वनागरम् ॥ १०९ ॥ सुकृच्छ्रमप्यतीसारं गुडतक्रेण नाशयेत् । यवानीपिप्पलीमूलचातुर्जातकनागरैः ॥ ११० ॥ मरिचाग्निजलाजाजीधान्यसौवर्चलैः समैः । वृषाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः ॥ १११ ॥ ९.१११ च् वृक्षाम्लधातकीकृष्णा ९.१११ च् बिल्वदाडिमतिन्दुकैः त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः । चूर्णोऽतीसारग्रहणीक्षयगुल्मगलामयान् ॥ ११२ ॥ ९.११२ व् त्रिगुणैः षड्गुणसिते ९.११२ व् कपित्थेऽष्टगुणे कृतः ९.११२ व् क्षयगुल्मोदरामयान् कासश्वासाग्निसादार्शःपीनसारोचकाञ्जयेत् । कर्षोन्मिता तवक्षीरी चातुर्जातं द्विकार्षिकम् ॥ ११३ ॥ ९.११३ व् कर्षोन्मितं तवक्षीरी ९.११३ व् चातुर्जातं द्विकार्षिकम् यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशकम् । पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः ॥ ११४ ॥ ९.११४ व् यवानीधान्यकाजाजि ९.११४ व् ग्रन्थिव्योषं पलांशकम् गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः । भोज्यो वातातिसारोक्तैर्यथावस्थं खलादिभिः ॥ ११५ ॥ सविडङ्गः समरिचः सकपित्थः सनागरः । चाङ्गेरीतक्रकोलाम्लः खलः श्लेष्मातिसारजित् ॥ ११६ ॥ क्षीणे श्लेष्मणि पूर्वोक्तमम्लं लाक्षादि षट्पलम् । पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम् ॥ ११७ ॥ कट्फलं मधुकं लोध्रं त्वग्दाडिमफलस्य च । वातपित्तातिसारघ्नं पिबेत्तण्डुलवारिणा ॥ ११७+१ ॥ मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्समम् । कषायं क्षौद्रसंयुक्तं श्लेष्मवातातिसारिणे ॥ ११७+२ ॥ पीतदारु वचा लोध्रं कलिङ्गफलनागरम् । दाडिमाम्बुयुतं दद्यात्पित्तश्लेष्मातिसारिणे ॥ ११७+३ ॥ वातश्लेष्मविबन्धे वा स्रवत्यति कफेऽपि वा । शूले प्रवाहिकायां वा पिच्छावस्तिः प्रशस्यते ॥ ११८ ॥ ९.११८ व् वातश्लेष्मविबन्धे च वचाबिल्वकणाकुष्ठशताह्वालवणान्वितः । बिल्वतैलेन तैलेन वचाद्यैः साधितेन वा ॥ ११९ ॥ बहुशः कफवातार्ते कोष्णेनान्वासनं हितम् । क्षीणे कफे गुदे दीर्घकालातीसारदुर्बले ॥ १२० ॥ अनिलः प्रबलोऽवश्यं स्वस्थानस्थः प्रजायते । स बली सहसा हन्यात्तस्मात्तं त्वरया जयेत् ॥ १२१ ॥ वायोरन्अन्तरं पित्तं पित्तस्यान्अन्तरं कफम् । जयेत्पूर्वं त्रयाणां वा भवेद्यो बलवत्तमः ॥ १२२ ॥ भीशोकाभ्यामपि चलः शीघ्रं कुप्यत्यतस्तयोः । कार्या क्रिया वातहरा हर्षणाश्वासनानि च ॥ १२३ ॥ यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते । दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः ॥ १२४ ॥ Cइकित्सास्थान ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत् । अतीसारोक्तविधिना तस्यामं च विपाचयेत् ॥ १ ॥ अन्नकाले यवाग्व्आदि पञ्चकोलादिभिर्युतम् । वितरेत्पटुलघ्व्अन्नं पुनर्योगांश्च दीपनान् ॥ २ ॥ दद्यात्सातिविषां पेयामामे साम्लां सनागराम् । पानेऽतीसारविहितं वारि तक्रं सुरादि च ॥ ३ ॥ ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात् । पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम् ॥ ४ ॥ कषायोष्णविकाशित्वाद्रूक्षत्वाच्च कफे हितम् । वाते स्वाद्व्अम्लसान्द्रत्वात्सद्यस्कमविदाहि तत् ॥ ५ ॥ १०.५ व् कषायोष्णविकाषित्वाद् चतुर्णां प्रस्थमम्लानां त्र्य्ऊषणाच्च पलत्रयम् । लवणानां च चत्वारि शर्करायाः पलाष्टकम् ॥ ६ ॥ तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत् । कासाजीर्णारुचिश्वासहृत्पाण्डुप्लीहगुल्मनुत् ॥ ७ ॥ १०.७ व् हृत्पार्श्वामयशूलनुत् १०.७ व् हृत्पाण्ड्व्आमयशूलनुत् नागरातिविषामुस्तं पाक्यमामहरं पिबेत् । उष्णाम्बुना वा तत्कल्कं नागरं वाथवाभयाम् ॥ ८ ॥ ससैन्धवं वचादिं वा तद्वन्मदिरयाथवा । वर्चस्यामे सप्रवाहे पिबेद्वा दाडिमाम्बुना ॥ ९ ॥ विडेन लवणं पिष्टं बिल्वचित्रकनागरम् । सामे कफानिले कोष्ठरुक्करे कोष्णवारिणा ॥ १० ॥ कलिङ्गहिङ्ग्व्अतिविषावचासौवर्चलाभयम् । छर्दिहृद्रोगशूलेषु पेयमुष्णेन वारिणा ॥ ११ ॥ पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम् । पिप्पलीं नागरं पाठां शारिवां बृहतीद्वयम् ॥ १२ ॥ चित्रकं कौटजं क्षारं तथा लवणपञ्चकम् । चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकैः ॥ १३ ॥ पिबेदग्निविवृद्ध्य्अर्थं कोष्ठवातहरं परम् । पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्चकोलकम् ॥ १४ ॥ दीप्यकं हिङ्गु गुटिका बीजपूररसे कृता । कोलदाडिमतोये वा परं पाचनदीपनी ॥ १५ ॥ तालीशपत्त्रचविकामरिचानां पलं पलम् । कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम् ॥ १६ ॥ चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम् । गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत् ॥ १७ ॥ मद्ययूषरसारिष्टमस्तुपेयापयोऽनुपः । वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम् ॥ १८ ॥ ज्वरश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम् । प्रसेकपीनसश्वासकासानां च निवृत्तये ॥ १९ ॥ अभयां नागरस्थाने दद्यात्तत्रैव विड्ग्रहे । छर्द्य्आदिषु च पैत्तेषु चतुर्गुणसितान्विताः ॥ २० ॥ १०.२० व् दद्यादत्रैव विड्ग्रहे पक्वेन वटकाः कार्या गुडेन सितयापि वा । परं हि वह्निसंपर्काल्लघिमानं भजन्ति ते ॥ २१ ॥ अथैनं परिपक्वामं मारुतग्रहणीगदम् । दीपनीययुतं सर्पिः पाययेदल्पशो भिषक् ॥ २२ ॥ १०.२२ व् अथैनं परिपक्वाम १०.२२ व् मारुतग्रहणीगदम् किञ्चित्संधुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम् । द्व्य्अहं त्र्य्अहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥ २३ ॥ तत एरण्डतैलेन सर्पिषा तैल्वकेन वा । सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् ॥ २४ ॥ शुद्धरूक्षाशयं बद्धवर्चस्कं चानुवासयेत् । दीपनीयाम्लवातघ्नसिद्धतैलेन तं ततः ॥ २५ ॥ निरूढं च विरिक्तं च सम्यक्चाप्यनुवासितम् । लघ्व्अन्नप्रतिसंयुक्तं सर्पिरभ्यासयेत्पुनः ॥ २६ ॥ १०.२६ व् सम्यग्वाप्यनुवासितम् पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः । रास्नाक्षारद्वयाजाजीविडङ्गशठिभिर्घृतम् ॥ २७ ॥ शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च । शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च ॥ २८ ॥ तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः । काञ्जिकेन च तत्पक्वमग्निदीप्तिकरं परम् ॥ २९ ॥ शूलगुल्मोदरश्वासकासानिलकफापहम् । सबीजपूरकरसं सिद्धं वा पाययेद्घृतम् ॥ ३० ॥ तैलमभ्यञ्जनार्थं च सिद्धमेभिश्चलापहम् । एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना ॥ ३१ ॥ वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते । अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा ॥ ३२ ॥ हत्वा तिक्तलघुग्राहिदीपनैरविदाहिभिः । अन्नैः संधुक्षयेदग्निं चूर्णैः स्नेहैश्च तिक्तकैः ॥ ३३ ॥ पटोलनिम्बत्रायन्तीतिक्तातिक्तकपर्पटम् । कुटजत्वक्फलं मूर्वा मधुशिग्रुफलं वचा ॥ ३४ ॥ दार्वीत्वक्पद्मकोशीरयवानीमुस्तचन्दनम् । सौराष्ट्र्य्अतिविषाव्योषत्वग्एलापत्त्रदारु च ॥ ३५ ॥ चूर्णितं मधुना लेह्यं पेयं मद्यैर्जलेन वा । हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान् ॥ ३६ ॥ कामलां संनिपातं च मुखरोगांश्च नाशयेत् । भूनिम्बकटुकामुस्तात्र्य्ऊषणेन्द्रयवान् समान् ॥ ३७ ॥ द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत् । गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ॥ ३८ ॥ कामलाज्वरपाण्डुत्वमेहारुच्य्अतिसारजित् । नागरातिविषामुस्तापाठाबिल्वं रसाञ्जनम् ॥ ३९ ॥ १०.३९ व् मेहारुच्य्अतिसारनुत् कुटजत्वक्फलं तिक्ता धातकी च कृतं रजः । क्षौद्रतण्डुलवारिभ्यां पैत्तिके ग्रहणीगदे ॥ ४० ॥ प्रवाहिकार्शोगुदरुग्रक्तोत्थानेषु चेष्यते । चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ॥ ४१ ॥ षड्ग्रन्थाशारिवास्फोतासप्तपर्णाटरूषकान् । पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान् ॥ ४२ ॥ १०.४२ व् वटप्लक्षकपीतनम् कटुकां रोहिणीं मुस्तां निम्बं च द्विपलांशकान् । द्रोणेऽपां साधयेत्तेन पचेत्सर्पिः पिचून्मितैः ॥ ४३ ॥ किराततिक्तेन्द्रयववीरामागधिकोत्पलैः । पित्तग्रहण्यां तत्पेयं कुष्ठोक्तं तिक्तकं च यत् ॥ ४४ ॥ ग्रहण्यां श्लेष्मदुष्टायां तीक्ष्णैः प्रच्छर्दने कृते । कट्व्अम्ललवणक्षारैः क्रमादग्निं विवर्धयेत् ॥ ४५ ॥ पञ्चकोलाभयाधान्यपाठागन्धपलाशकैः । बीजपूरप्रगाढैश्च सिद्धैः पेयादि कल्पयेत् ॥ ४६ ॥ द्रोणं मधूकपुष्पाणां विडङ्गं च ततोऽर्धतः । चित्रकस्य ततोऽर्धं च तथा भल्लातकाढकम् ॥ ४७ ॥ मञ्जिष्ठाष्टपलं चैतज्जलद्रोणत्रये पचेत् । द्रोणशेषं शृतं शीतं मध्व्अर्धाढकसंयुतम् ॥ ४८ ॥ एलामृणालागुरुभिश्चन्दनेन च रूषिते । कुम्भे मासं स्थितं जातमासवं तं प्रयोजयेत् ॥ ४९ ॥ १०.४९ व् कुम्भे मासस्थितं जातम् ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत् । शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः ॥ ५० ॥ १०.५० व् बृंहणो रक्तपित्तनुत् मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम् । क्षौद्रपादयुतं शीतं पूर्ववत्संनिधापयेत् ॥ ५१ ॥ १०.५१ व् मधूकपुष्पकुडवं तत्पिबन् ग्रहणीदोषान् जयेत्सर्वान् हिताशनः । तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत् ॥ ५२ ॥ हिङ्गुतिक्तावचामाद्रीपाठेन्द्रयवगोक्षुरम् । पञ्चकोलं च कर्षांशं पलांशं पटुपञ्चकम् ॥ ५३ ॥ घृततैलद्विकुडवे दध्नः प्रस्थद्वये च तत् । आपोथ्य क्वाथयेदग्नौ मृदावनुगते रसे ॥ ५४ ॥ अन्तर्धूमं ततो दग्ध्वा चूर्णीकृत्य घृताप्लुतम् । पिबेत्पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः ॥ ५५ ॥ वातश्लेष्मामयान् सर्वान् हन्याद्विषगरांश्च सः । भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम् ॥ ५६ ॥ दग्ध्वा माहिषमूत्रेण पिबेदग्निविवर्धनम् । द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी ॥ ५७ ॥ मुस्ता च च्छागमूत्रेण सिद्धः क्षारोऽग्निवर्धनः । चतुःपलं सुधाकाण्डात्त्रिपलं लवणत्रयात् ॥ ५८ ॥ १०.५८ व् त्रिफलालवणानि च वार्ताककुडवं चार्कादष्टौ द्वे चित्रकात्पले । दग्ध्वा रसेन वार्ताकाद्गुटिका भोजनोत्तराः ॥ ५९ ॥ १०.५९ व् वार्ताकात्कुडवं चार्काद् भुक्तमन्नं पचन्त्याशु कासश्वासार्शसां हिताः । विषूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः ॥ ६० ॥ मातुलुङ्गशठीरास्नाकटुत्रयहरीतकि । स्वर्जिकायावशूकाख्यौ क्षारौ पञ्चपटूनि च ॥ ६१ ॥ १०.६१ व् कटुत्रयहरीतकीः सुखाम्बुपीतं तच्चूर्णं बलवर्णाग्निवर्धनम् । श्लैष्मिके ग्रहणीदोषे सवाते तैर्घृतं पचेत् ॥ ६२ ॥ धान्वन्तरं षट्पलं च भल्लातकघृताभयम् । विडकाचोषलवणस्वर्जिकायावशूकजान् ॥ ६३ ॥ सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत् । सप्तकृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत् ॥ ६४ ॥ आढकं सर्पिषः पेयं तदग्निबलवृद्धये । निचये पञ्च कर्माणि युञ्ज्याच्चैतद्यथाबलम् ॥ ६५ ॥ प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम् । योज्यं कृशस्य व्यत्यासात्स्निग्धरूक्षं कफोदये ॥ ६६ ॥ क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् । दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम् ॥ ६७ ॥ स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते । स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् ॥ ६८ ॥ नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि । योऽल्पाग्नित्वात्कफे क्षीणे वर्चः पक्वमपि श्लथम् ॥ ६९ ॥ मुञ्चेत्पट्व्औषधयुतं स पिबेदल्पशो घृतम् । तेन स्वमार्गमानीतः स्वकर्मणि नियोजितः ॥ ७० ॥ समानो दीपयत्यग्निमग्नेः संधुक्षको हि सः । पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति ॥ ७१ ॥ १०.७१ व् अग्नेः संधुक्षको ह्यसौ स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् । रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत् ॥ ७२ ॥ क्षारचूर्णासवारिष्टन्मन्दे स्नेहातिपानतः । उदावर्तात्तु योक्तव्या निरूहस्नेहवस्तयः ॥ ७३ ॥ १०.७३ व् उदावर्तात्प्रयोक्तव्या दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत् । व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम् ॥ ७४ ॥ १०.७४ व् संशुद्धोऽन्नविधिं भजेत् अध्वोपवासक्षामत्वैर्यवाग्वा पाययेद्घृतम् । अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ॥ ७५ ॥ दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् । प्रसहानां रसैः साम्लैर्भोजयेत्पिशिताशिनाम् ॥ ७६ ॥ लघूष्णकटुशोधित्वाद्दीपयन्त्याशु तेऽनलम् । मांसोपचितमांसत्वात्परं च बलवर्धनाः ॥ ७७ ॥ १०.७७ व् लघूष्णकटुशोधित्वैर् स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः । सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते ॥ ७८ ॥ दीप्तो यथैव स्थाणुश्च बाह्योऽग्निः सारदारुभिः । सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः ॥ ७९ ॥ नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् । यथा निर्इन्धनो वह्निरल्पो वातीन्धनावृतः ॥ ८० ॥ १०.८० व् अल्पो वातीन्धनान्वितः यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम् । प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलोऽनलः ॥ ८१ ॥ पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च संक्षिपन् । मारयेत्स्यात्स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ॥ ८२ ॥ १०.८२ व् मारयेत्तं स ना स्वस्थो तृट्कासदाहमूर्छाद्या व्याधयोऽत्य्अग्निसंभवाः । तमत्य्अग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः ॥ ८३ ॥ अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः । मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् ॥ ८४ ॥ १०.८४ व् भोज्यान्यस्योपकल्पयेत् निर्इन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत् । कृशरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम् ॥ ८५ ॥ १०.८५ व् तथैनं न विपादयेत् अश्नीयादौदकानूपपिशितानि भृतानि च । मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये ॥ ८६ ॥ आविकं सुभृतं मांसमद्यादत्य्अग्निवारणम् । पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत् ॥ ८७ ॥ गोधूमचूर्णं पयसा बहुसर्पिःपरिप्लुतम् । आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान् ॥ ८८ ॥ श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् । असकृत्पित्तहरणं पायसप्रतिभोजनम् ॥ ८९ ॥ यत्किञ्चिद्गुरु मेद्यं च श्लेष्मकारि च भोजनम् । सर्वं तदत्य्अग्निहितं भुक्त्वा च स्वपनं दिवा ॥ ९० ॥ आहारमग्निः पचति दोषानाहारवर्जितः । धातून् क्षीणेषु दोषेषु जीवितं धातुसंक्षये ॥ ९१ ॥ एतत्प्रकृत्यैव विरुद्धमन्नं संयोगसंस्कारवशेन चेदम् । इत्य्आदि अविज्ञाय यथेष्टचेष्टाश्चरन्ति यत्साग्निबलस्य शक्तिः ॥ ९२ ॥ तस्मादग्निं पालयेत्सर्वयत्नैस्तस्मिन्नष्टे याति ना नाशमेव । दोषैर्ग्रस्ते ग्रस्यते रोगसंघैर्युक्ते तु स्यान्नीरुजो दीर्घजीवी ॥ ९३ ॥ Cइकित्सास्थान लिङ्गाग्रसुषिरे सम्यग्योन्यां वा संप्रवेशयेत् । मूत्रदुःखहरं मुख्यं कर्पूरं परिसंक्षिपेत् ॥ ०+१ ॥ कृच्छ्रे वातघ्नतैलाक्तमधो नाभेः समीरजे । सुस्निग्धैः स्वेदयेदङ्गं पिण्डसेकावगाहनैः ॥ १ ॥ दशमूलबलैरण्डयवाभीरुपुनर्नवैः । कुलत्थकोलपत्तूरवृश्चीवोपलभेदकैः ॥ २ ॥ तैलसर्पिर्वराहर्क्षवसाः क्वथितकल्कितैः । सपञ्चलवणाः सिद्धाः पीताः शूलहराः परम् ॥ ३ ॥ द्रव्याण्येतानि पानान्ने तथा पिण्डोपनाहने । सह तैलफलैर्युञ्ज्यात्साम्लानि स्नेहवन्ति च ॥ ४ ॥ सौवर्चलाढ्यां मदिरां पिबेन्मूत्ररुजापहाम् । पैत्ते युञ्जीत शिशिरं सेकलेपावगाहनम् ॥ ५ ॥ पिबेद्वरीं गोक्षुरकं विदारीं सकसेरुकाम् । तृणाख्यं पञ्चमूलं च पाक्यं समधुशर्करम् ॥ ६ ॥ वृषकं त्रपुसैर्वारुलट्वाबीजानि कुङ्कुमम् । द्राक्षाम्भोभिः पिबन् सर्वान्मूत्राघातानपोहति ॥ ७ ॥ एर्वारुबीजयष्ट्य्आह्वदार्वीर्वा तण्डुलाम्बुना । तोयेन कल्कं द्राक्षायाः पिबेत्पर्युषितेन वा ॥ ८ ॥ कफजे वमनं स्वेदं तीक्ष्णोष्णकटुभोजनम् । यवानां विकृतीः क्षारं कालशेयं च शीलयेत् ॥ ९ ॥ पिबेन्मद्येन सूक्ष्मैलां धात्रीफलरसेन वा । सारसास्थिश्वदंष्ट्रैलाव्योषं वा मधुमूत्रवत् ॥ १० ॥ स्वरसं कण्टकार्या वा पाययेन्माक्षिकान्वितम् । शितिवारकबीजं वा तक्रेण श्लक्ष्णचूर्णितम् ॥ ११ ॥ धवसप्ताह्वकुटजगुडूचीचतुरङ्गुलम् । केम्बुकैलाकरञ्जं च पाक्यं समधु साधिताम् ॥ १२ ॥ ११.१२ व् कटुकैलाकरञ्जं च तैर्वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना । सतैलं पाटलाक्षारं सप्तकृत्वोऽथवा स्रुतम् ॥ १३ ॥ पाटलीयावशूकाभ्यां पारिभद्रात्तिलादपि । क्षारोदकेन मदिरां त्वग्एलोषणसंयुताम् ॥ १४ ॥ पिबेद्गुडोपदंशान् वा लिह्यादेतान् पृथक्पृथक् । संनिपातात्मके सर्वं यथावस्थमिदं हितम् ॥ १५ ॥ अश्मन्यप्यचिरोत्थाने वातवस्त्य्आदिकेषु च । अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः ॥ १६ ॥ ११.१६ व् वातवस्त्य्आदिकेष्वपि तरुणो भेषजैः साध्यः प्रवृद्धश्छेदमर्हति । तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ॥ १७ ॥ पाषाणभेदो वसुको वशिरोऽश्मन्तको वरी । कपोतवङ्कातिबलाभल्लूकोशीरकच्छकम् ॥ १८ ॥ ११.१८ व् भल्लूकोशीरकन्तकम् वृक्षादनी शाकफलं व्याघ्र्यौ गुण्ठस्त्रिकण्टकः । यवाः कुलत्थाः कोलानि वरुणः कतकात्फलम् ॥ १९ ॥ ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम् । भिनत्ति वातसंभूतां तत्पीतं शीघ्रमश्मरीम् ॥ २० ॥ गन्धर्वहस्तबृहतीव्याघ्रीगोक्षुरकेक्षुरात् । मूलकल्कं पिबेद्दध्ना मधुरेणाश्मभेदनम् ॥ २१ ॥ कुशः काशः शरो गुण्ठ इत्कटो मोरटोऽश्मभित् । दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥ २२ ॥ भल्लूकः पाटली पाठा पत्तूरः सकुरण्टकः । पुनर्नवे शिरीषश्च तेषां क्वाथे पचेद्घृतम् ॥ २३ ॥ पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च । मधुकेन शिलाजेन तत्पित्ताश्मरिभेदनम् ॥ २४ ॥ वरुणादिः समीरघ्नौ गणावेला हरेणुका । गुग्गुलुर्मरिचं कुष्ठं चित्रकः ससुराह्वयः ॥ २५ ॥ तैः कल्कितैः कृतावापमूषकादिगणेन च । भिनत्ति कफजामाशु साधितं घृतमश्मरीम् ॥ २६ ॥ क्षारक्षीरयवाग्व्आदि द्रव्यैः स्वैः स्वैश्च कल्पयेत् । पिचुकाङ्कोल्लकतकशाकेन्दीवरजैः फलैः ॥ २७ ॥ पीतमुष्णाम्बु सगुडं शर्करापातनं परम् । क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालपत्त्रिका ॥ २८ ॥ ११.२८ व् पीतमुष्णाम्बु सघृतं अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम् । पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ॥ २९ ॥ ११.२९ व् मूलं बिल्वस्य चौषधम् नृत्यकुण्डकबीजानां चूर्णं माक्षिकसंयुतम् । अविक्षीरेण सप्ताहं पीतमश्मरिपातनः ॥ ३० ॥ ११.३० व् नृत्यकुण्डलबीजानां ११.३० व् मर्कटकस्य बीजानां क्वाथश्च शिग्रुमूलोत्थः कद्उष्णोऽश्मरीपातनः । तिलापामार्गकदलीपलाशयवसंभवः ॥ ३१ ॥ क्षारः पेयोऽविमूत्रेण शर्करास्वश्मरीषु च । कपोतवङ्कामूलं वा पिबेदेकं सुरादिभिः ॥ ३२ ॥ तत्सिद्धं वा पिबेत्क्षीरं वेदनाभिरुपद्रुतः । हरीतक्य्अस्थिसिद्धं वा साधितं वा पुनर्नवैः ॥ ३३ ॥ क्षीरान्नभुग्बर्हिशिखामूलं वा तण्डुलाम्बुना । मूत्राघातेषु विभजेदतः शेषेष्वपि क्रियाम् ॥ ३४ ॥ बृहत्य्आदिगणे सिद्धं द्विगुणीकृतगोक्षुरे । तोयं पयो वा सर्पिर्वा सर्वमूत्रविकारजित् ॥ ३५ ॥ देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम् । मूत्राघातेषु सर्वेषु सुराक्षीरजलैः पिबेत् ॥ ३६ ॥ रसं वा धन्वयासस्य कषायं ककुभस्य वा । सुखाम्भसा वा त्रिफलां पिष्टां सैन्धवसंयुताम् ॥ ३७ ॥ व्याघ्रीगोक्षुरकक्वाथे यवागूं वा सफाणिताम् । क्वाथे वीरतरादेर्वा ताम्रचूडरसेऽपि वा ॥ ३८ ॥ अद्याद्वीरतराद्येन भावितं वा शिलाजतु । मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ॥ ३९ ॥ ११.३९ व् मद्यं वा निर्गदं पीत्वा शीघ्रवेगेन संक्षोभात्तथास्य च्यवतेऽश्मरी । सर्वथा चोपयोक्तव्यो वर्गो वीरतरादिकः ॥ ४० ॥ रेकार्थं तैल्वकं सर्पिर्वस्तिकर्म च शीलयेत् । विशेषादुत्तरान् वस्तीञ्छुक्राश्मर्यां तु शोधिते ॥ ४१ ॥ ११.४१ व् छुक्राश्मर्यां च शोधिते तैर्मूत्रमार्गे बलवान् शुक्राशयविशुद्धये । पुमान् सुतृप्तो वृष्याणां मांसानां कुक्कुटस्य च ॥ ४२ ॥ कामं सकामः सेवेत प्रमदा मददायिनीः । सिद्धैरुपक्रमैरेभिर्न चेच्छान्तिस्तदा भिषक् ॥ ४३ ॥ ११.४३ व् न चेच्छान्तिस्ततो भिषक् इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत् । अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ ४४ ॥ निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः । अथातुरमुपस्निग्धशुद्धमीषच्च कर्शितम् ॥ ४५ ॥ ११.४५ व् अथातुरमुपस्निग्धं ११.४५ व् शुद्धमीषच्च कर्षितम् ११.४५ व् शुद्धमीषच्च कर्शितम् अभ्यक्तस्विन्नवपुषमभुक्तं कृतमङ्गलम् । आजानुफलकस्थस्य नरस्याङ्के व्यपाश्रितम् ॥ ४६ ॥ पूर्वेण कायेनोत्तानं निषण्णं वस्त्रचुम्भले । ततोऽस्याकुञ्चिते जानुकूर्परे वाससा दृढम् ॥ ४७ ॥ सहाश्रयमनुष्येण बद्धस्याश्वासितस्य च । नाभेः समन्तादभ्यज्यादधस्तस्याश्च वामतः ॥ ४८ ॥ मृदित्वा मुष्टिनाक्रामेद्यावदश्मर्यधोगता । तैलाक्ते वर्धितनखे तर्जनीमध्यमे ततः ॥ ४९ ॥ अदक्षिणे गुदेऽङ्गुल्यौ प्रणिधायानुसेवनि । आसाद्य बलयत्नाभ्यामश्मरीं गुदमेढ्रयोः ॥ ५० ॥ ११.५० व् प्रणिधायानुसेवनीम् कृत्वान्तरे तथा वस्तिं निर्वलीकमन्आयतम् । उत्पीडयेदङ्गुलीभ्यां यावद्ग्रन्थिरिवोन्नतम् ॥ ५१ ॥ शल्यं स्यात्सेवनीं मुक्त्वा यवमात्रेण पाटयेत् । अश्ममानेन न यथा भिद्यते सा तथाहरेत् ॥ ५२ ॥ समग्रं सर्पवक्त्रेण स्त्रीणां वस्तिस्तु पार्श्वगः । गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः ॥ ५३ ॥ न्यसेदतोऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत् । मूत्रप्रसेकक्षणनान्नरस्याप्यपि चैकधा ॥ ५४ ॥ वस्तिभेदोऽश्मरीहेतुः सिद्धिं याति न तु द्विधा । विशल्यमुष्णपानीयद्रोण्यां तमवगाहयेत् ॥ ५५ ॥ तथा न पूर्यतेऽस्रेण वस्तिः पूर्णे तु पीडयेत् । मेढ्रान्तः क्षीरिवृक्षाम्बु मूत्रसंशुद्धये ततः ॥ ५६ ॥ ११.५६ व् मेढ्रतः क्षीरिवृक्षाम्बु ११.५६ व् मेढ्रेऽन्तः क्षीरिवृक्षाम्बु कुर्याद्गुडस्य सौहित्यं मध्व्आज्याक्तव्रणः पिबेत् । द्वौ कालौ सघृतां कोष्णां यवागूं मूत्रशोधनैः ॥ ५७ ॥ त्र्य्अहं दशाहं पयसा गुडाढ्येनाल्पमोदनम् । भुञ्जीतोर्ध्वं फलाम्लैश्च रसैर्जाङ्गलचारिणाम् ॥ ५८ ॥ क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य लेपयेत् । प्रपौण्डरीकमञ्जिष्ठायष्ट्य्आह्वनयनौषधैः ॥ ५९ ॥ व्रणाभ्यङ्गे पचेत्तैलमेभिरेव निशान्वितैः । दशाहं स्वेदयेच्चैनं स्वमार्गं सप्तरात्रतः ॥ ६० ॥ ११.६० व् दशाहं स्वेदयेच्चैव ११.६० व् दशाहं स्वेदयेच्चैवं मूत्रे त्वगच्छति दहेदश्मरीव्रणमग्निना । स्वमार्गप्रतिपत्तौ तु स्वादुप्रायैरुपाचरेत् ॥ ६१ ॥ तं वस्तिभिर्न चारोहेद्वर्षं रूढव्रणोऽपि सः । नगनागाश्ववृक्षस्त्रीरथान्नाप्सु प्लवेत च ॥ ६२ ॥ मूत्रशुक्रवहौ वस्तिवृषणौ सेवनीं गुदम् । मूत्रप्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत् ॥ ६३ ॥ Cइकित्सास्थान मेहिनो बलिनः कुर्यादादौ वमनरेचने । स्निग्धस्य सर्षपारिष्टनिकुम्भाक्षकरञ्जजैः ॥ १ ॥ तैलस्त्रिकण्टकाद्येन यथास्वं साधितेन वा । स्नेहेन मुस्तदेवाह्वनागरप्रतिवापवत् ॥ २ ॥ सुरसादिकषायेण दद्यादास्थापनं ततः । न्यग्रोधादेस्तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ॥ ३ ॥ १२.३ व् न्यग्रोधादेस्तु पित्तार्ते मूत्रग्रहरुजागुल्मक्षयाद्यास्त्वपतर्पणात् । ततोऽनुबन्धरक्षार्थं शमनानि प्रयोजयेत् ॥ ४ ॥ असंशोध्यस्य तान्येव सर्वमेहेषु पाययेत् । धात्रीरसप्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ॥ ५ ॥ दार्वीसुराह्वत्रिफलामुस्ता वा क्वथिता जले । चित्रकत्रिफलादार्वीकलिङ्गान् वा समाक्षिकान् ॥ ६ ॥ मधुयुक्तं गुडूच्या वा रसमामलकस्य वा ॥ ७ ब् ॥ लोध्राभयातोयदकट्फलानां पाठाविडङ्गार्जुनधन्वनानाम् ॥ ७ द् ॥ गायत्रिदार्वीकृमिहृद्धवानां कफे त्रयः क्षौद्रयुताः कषायाः ॥ ७ f ॥ उशीरलोध्रार्जुनचन्दनानां पटोलनिम्बामलकामृतानाम् । लोध्राम्बुकालीयकधातकीनां पित्ते त्रयः क्षौद्रयुताः कषायाः ॥ ८ ॥ यथास्वमेभिः पानान्नं यवगोधूमभावनाः ॥ ९ ब् ॥ १२.९ व् यवगोधूमभावनाम् १२.९ व् यवगोधूमभावनम् वातोल्बणेषु स्नेहांश्च प्रमेहेषु प्रकल्पयेत् । अपूपसक्तुवाट्यादिर्यवानां विकृतिर्हिता ॥ १० ॥ गजाश्वगुदमुक्तानामथवा वेणुजन्मनाम् । तृणधान्यानि मुद्गाद्याः शालिर्जीर्णः सषष्टिकः ॥ ११ ॥ श्रीकुक्कुटोऽम्लः खलकस्तिलसर्षपकिट्टजः । कपित्थं तिन्दुकं जम्बूस्तत्कृता रागषाडवाः ॥ १२ ॥ तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः ससक्तवः । धन्वमांसानि शूल्यानि परिशुष्काण्ययस्कृतिः ॥ १३ ॥ मध्व्अरिष्टासवा जीर्णाः सीधुः पक्वरसोद्भवः । तथासनादिसाराम्बु दर्भाम्भो माक्षिकोदकम् ॥ १४ ॥ वासितेषु वराक्वाथे शर्वरीं शोषितेष्वहः । यवेषु सुकृतान् सक्तून् सक्षौद्रान् सीधुना पिबेत् ॥ १५ ॥ शालसप्ताह्वकम्पिल्लवृक्षकाक्षकपित्थजम् । रोहीतकं च कुसुमं मधुनाद्यात्सुचूर्णितम् ॥ १६ ॥ कफपित्तप्रमेहेषु पिबेद्धात्रीरसेन वा । त्रिकण्टकनिशालोध्रसोमवल्कवचार्जुनैः ॥ १७ ॥ पद्मकाश्मन्तकारिष्टचन्दनागुरुदीप्यकैः । पटोलमुस्तमञ्जिष्ठामाद्रीभल्लातकैः पचेत् ॥ १८ ॥ तैलं वातकफे पित्ते घृतं मिश्रेषु मिश्रकम् । दशमूलशठीदन्तीसुराह्वं द्विपुनर्नवम् ॥ १९ ॥ मूलं स्नुग्अर्कयोः पथ्यां भूकदम्बमरुष्करम् । करञ्जौ वरुणान्मूलं पिप्पल्याः पौष्करं च यत् ॥ २० ॥ १२.२० व् करञ्जवरुणान्मूलं पृथग्दशपलं प्रस्थान् यवकोलकुलत्थतः । त्रींश्चाष्टगुणिते तोये विपचेत्पादवर्तिना ॥ २१ ॥ तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः । त्रिवृद्विडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत् ॥ २२ ॥ १२.२२ व् भार्गीबिल्वैश्च साधयेत् प्रस्थं घृताज्जयेत्सर्वांस्तन्मेहान् पिटिका विषम् । पाण्डुविद्रधिगुल्मार्शःशोषशोफगरोदरम् ॥ २३ ॥ श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम् । कुष्ठोन्मादावपस्मारं धान्वन्तरमिदं घृतम् ॥ २४ ॥ लोध्रमूर्वाशठीवेल्लभार्गीनतनखप्लवान् । कलिङ्गकुष्ठक्रमुकप्रियङ्ग्व्अतिविषाग्निकान् ॥ २५ ॥ द्वे विशाले चतुर्जातं भूनिम्बं कटुरोहिणीम् । यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम् ॥ २६ ॥ कर्षांशमम्बुकलशे पादशेषे स्रुते हिमे । द्वौ प्रस्थौ माक्षिकात्क्षिप्त्वा रक्षेत्पक्षमुपेक्षया ॥ २७ ॥ लोध्रासवोऽयं मेहार्शःश्वित्रकुष्ठारुचिकृमीन् । पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति ॥ २८ ॥ साधयेदसनादीनां पलानां विंशतिं पृथक् । द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात् ॥ २९ ॥ क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम् । तत्क्षौद्रपिप्पलीचूर्णप्रदिग्धे घृतभाजने ॥ ३० ॥ १२.३० व् वत्सकादि च कल्कितम् स्थितं दृढे जतुसृते यवराशौ निधापयेत् । खदिराङ्गारतप्तानि बहुशोऽत्र निमज्जयेत् ॥ ३१ ॥ तनूनि तीक्ष्णलोहस्य पत्त्राण्यालोहसंक्षयात् । अयस्कृतिः स्थिता पीता पूर्वस्मादधिका गुणैः ॥ ३२ ॥ रूक्षमुद्वर्तनं गाढं व्यायामो निशि जागरः । यच्चान्यच्छ्लेष्ममेदोघ्नं बहिरन्तश्च तद्धितम् ॥ ३३ ॥ सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात् । साराम्बुनैव भुञ्जानः शालीञ्जाङ्गलजै रसैः ॥ ३४ ॥ १२.३४ व् शालिं जाङ्गलजै रसैः सर्वानभिभवेन्मेहान् सुबहूपद्रवानपि । गण्डमालार्बुदग्रन्थिस्थौल्यकुष्ठभगन्दरान् ॥ ३५ ॥ कृमिश्लीपदशोफांश्च परं चैतद्रसायनम् । अधनश्छत्त्रपादत्ररहितो मुनिवर्तनः ॥ ३६ ॥ चन्दनमुत्पलं द्राक्षा उशीरं च पुनर्नवा । यष्टीमधुकश्रीखण्डं त्रिफलोत्पलशारिवा ॥ ३६.१+१ ॥ शमी वंशफलं लोध्रं त्रिजातं नागकेसरम् । पद्मकं च कणाचूर्णं तत्तुल्या शर्करा शुभा ॥ ३६.१+२ ॥ एतच्चूर्णं पिबेत्प्रातस्तण्डुलोदकवारिणा । प्रमेहे रक्तपित्ते च कृच्छ्रदोषे च दारुणे ॥ ३६.१+३ ॥ योजनानां शतं यायात्खनेद्वा सलिलाशयान् । गोशकृन्मूत्रवृत्तिर्वा गोभिरेव सह भ्रमेत् ॥ ३७ ॥ बृंहयेदौषधाहारैरमेदोमूत्रलैः कृशम् । शराविकाद्याः पिटिकाः शोफवत्समुपाचरेत् ॥ ३८ ॥ अपक्वा व्रणवत्पक्वास्तासां प्राग्रूपमेव च । क्षीरिवृक्षाम्बु पानाय बस्तमूत्रं च शस्यते ॥ ३९ ॥ तीक्ष्णं च शोधनं प्रायो दुर्विरेच्या हि मेहिनः । तैलमेलादिना कुर्याद्गणेन व्रणरोपणम् ॥ ४० ॥ उद्वर्तने कषायं तु वर्गेणारग्वधादिना । परिषेकोऽसनाद्येन पानान्ने वत्सकादिना ॥ ४१ ॥ १२.४१ व् परिषेकेऽसनाद्येन पाठाचित्रकशार्ङ्गष्टाशारिवाकण्टकारिकाः । सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ॥ ४२ ॥ संचूर्ण्य मधुना लिह्यात्तद्वच्चूर्णं नवायसम् । मधुमेहित्वमापन्नो भिषग्भिः परिवर्जितः ॥ ४३ ॥ शिलाजतुतुलामद्यात्प्रमेहार्तः पुनर्नवः ॥ ४३ªअब् ॥ Cइकित्सास्थान विद्रधिं सर्वमेवामं शोफवत्समुपाचरेत् । प्रततं च हरेद्रक्तं पक्वे तु व्रणवत्क्रिया ॥ १ ॥ पञ्चमूलजलैर्धौतं वातिकं लवणोत्तरैः । भद्रादिवर्गयष्ट्य्आह्वतिलैरालेपयेद्व्रणम् ॥ २ ॥ वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च । विदारीवर्गसिद्धेन त्रैवृतेनैव रोपयेत् ॥ ३ ॥ क्षालितं क्षीरितोयेन लिम्पेद्यष्ट्य्अमृतातिलैः । पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीरपद्मकैः ॥ ४ ॥ पयस्याद्विनिशाश्रेष्ठायष्टीदुग्धैश्च रोपयेत् । न्यग्रोधादिप्रवालत्वक्फलैर्वा कफजं पुनः ॥ ५ ॥ आरग्वधादिना धौतं सक्तुकुम्भनिशातिलैः । लिम्पेत्कुलत्थिकादन्ती त्रिवृच्छ्यामाग्नितिल्वकैः ॥ ६ ॥ १३.६ व् आरग्वधाम्बुना धौतं ससैन्धवैः सगोमूत्रैस्तैलं कुर्वीत रोपणम् । रक्तागन्तूद्भवे कार्या पित्तविद्रधिवत्क्रिया ॥ ७ ॥ वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते । ऊषकादिप्रतीवापं पूर्वाह्णे विद्रधौ पिबेत् ॥ ८ ॥ १३.८ व् अपक्वेऽभ्यन्तरस्थिते घृतं विरेचनद्रव्यैः सिद्धं ताभ्यां च पाययेत् । निरूहं स्नेहवस्तिं च ताभ्यामेव प्रकल्पयेत् ॥ ९ ॥ पानभोजनलेपेषु मधुशिग्रुः प्रयोजितः । दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम् ॥ १० ॥ त्रायन्तीत्रिफलानिम्बकटुकामधुकं समम् । त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक्पृथक् ॥ ११ ॥ मसूरान्निस्तुषादष्टौ तत्क्वाथः सघृतो जयेत् । विद्रधिगुल्मवीसर्पदाहमोहमदज्वरान् ॥ १२ ॥ तृण्मूर्छाछर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः । कुडवं त्रायमाणायाः साध्यमष्टगुणेऽम्भसि ॥ १३ ॥ कुडवं तद्रसाद्धात्रीस्वरसात्क्षीरतो घृतात् । कर्षांशं कल्कितं तिक्तात्रायन्तीधन्वयासकम् ॥ १४ ॥ मुस्तातामलकीवीराजीवन्तीचन्दनोत्पलम् । पचेदेकत्र संयोज्य तद्घृतं पूर्ववद्गुणैः ॥ १५ ॥ द्राक्षा मधूकं खर्जूरं विदारी सशतावरी । परूषकाणि त्रिफला तत्क्वाथे पाचयेद्घृतम् ॥ १६ ॥ क्षीरेक्षुधात्रीनिर्यासप्राणदाकल्कसंयुतम् । तच्छीतं शर्कराक्षौद्रपादिकं पूर्ववद्गुणैः ॥ १७ ॥ १३.१७ व् क्षीरेक्षुधात्रीनिर्यासे १३.१७ व् प्राणदाकल्कसंयुतम् हरेच्छृङ्गादिभिरसृक्सिरया वा यथान्तिकम् । विद्रधिं पच्यमानं च कोष्ठस्थं बहिर्उन्नतम् ॥ १८ ॥ ज्ञात्वोपनाहयेत्शूले स्थिते तत्रैव पिण्डिते । तत्पार्श्वपीडनात्सुप्तौ दाहादिष्वल्पकेषु च ॥ १९ ॥ पक्वः स्याद्विद्रधिं भित्त्वा व्रणवत्तमुपाचरेत् । अन्तर्भागस्य चाप्येतच्चिह्नं पक्वस्य विद्रदेः ॥ २० ॥ पक्वः स्रोतांसि संपूर्य स यात्यूर्ध्वमधोऽथवा । स्वयम्प्रवृत्तं तं दोषमुपेक्षेत हिताशिनः ॥ २१ ॥ १३.२१ व् स यात्यूर्ध्वमधोऽपि वा दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवात् । असम्यग्वहति क्लेदे वरुणादिं सुखाम्भसा ॥ २२ ॥ १३.२२ व् रक्षेद्भिषगुपद्रवात् पाययेन्मधुशिग्रुं वा यवागूं तेन वा कृताम् । यवकोलकुलत्थोत्थयूषैरन्नं च शस्यते ॥ २३ ॥ ऊर्ध्वं दशाहात्त्रायन्तीसर्पिषा तैल्वकेन वा । शोधयेद्बलतः शुद्धः सक्षौद्रं तिक्तकं पिबेत् ॥ २४ ॥ सर्वशो गुल्मवच्चैनं यथादोषमुपाचरेत् । सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च ॥ २५ ॥ १३.२५ व् सर्वावस्थासु सर्वेषु कषायैर्यौगिकैर्युञ्ज्यात्स्वैः स्वैस्तद्वच्छिलाजतु । पाकं च वारयेद्यत्नात्सिद्धिः पक्वे हि दैविकी ॥ २६ ॥ अपि चाशु विदाहित्वाद्विद्रधिः सोऽभिधीयते । सति चालोचयेन्मेहे प्रमेहाणां चिकित्सितम् ॥ २७ ॥ शौभाञ्जनकनिर्यूहो हिङ्गुसैन्धवसंयुतः । अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितः ॥ २७+१ ॥ कटुत्रिकं तिक्तकरोहिणी घनं किराततिक्तोऽथ शतक्रतोर्यवाः । ससप्तपर्णातिविषा दुरालभा पटोलमूलं सह त्रायमाणया ॥ २७+२ ॥ गुडूचीचव्यं सविडङ्गनिम्बं प्रियङ्गुनीलोत्पललोध्रमञ्जनम् । सधातकीमोचरसं फलत्रिकं सनागरं बिल्वकपित्थशारिवाः ॥ २७+३ ॥ समाः स्युरेते द्विगुणं तु चित्रकं द्विरष्टभागं कुटजत्वचं स्यात् । सुसूक्ष्मपिष्टं शिशिराम्बुयोजितं पिबेन्मनुष्योऽर्धपलं गुडान्वितम् ॥ २७+४ ॥ बुभुक्षिते स्यान्मृदु भोजनं हितं शशैः सलावैरथवाऽपि तित्तिरैः । निहन्ति गुल्मान् कफपित्तसंभवान् विराजते शारदपूर्णचन्द्रवत् ॥ २७+५ ॥ अजीर्णकासं क्षयपाण्डुते तथा ज्वरातिसारग्रहणीगदापचीः । प्रमेहमूत्रक्षयवर्ध्मविद्रधीञ्जयेत्प्रयुक्तः सगुडः कटुत्रिकः ॥ २७+६ ॥ भूनिम्बार्धपलं निशापलयुक्तं दार्वीपले द्वे तथा ॥ २७+७ ॥ दार्व्य्अर्धेन पुनर्नवां कुरु तथा दार्व्या समः प्रग्रहः ॥ २७+७ ॥ सार्धं दुःस्पर्शतः पलं तु कटुका योज्या तद्अर्धेन वा ॥ २७+७ ॥ अश्वाह्वं निशया समानममृतापादाधिकं स्यात्पलम् ॥ २७+७ ॥ एतद्वत्सकसप्तकर्षसहितं सुश्लक्ष्णचूर्णीकृतम् ॥ २७+८ ॥ वासायाः स्वरसेन पञ्च चतुरस्त्रीन् वा पिबेद्वासरान् ॥ २७+८ ॥ भूयस्तद्गुडवारिणा प्रतिदिनं पेयं पुरःस्थे रवौ ॥ २७+८ ॥ एतद्विद्रधिरोगिणां निरुजकृच्चूर्णं तु गुह्योत्तमम् ॥ २७+८ ॥ नापुत्राय न चाभ्रात्रे नाशिष्यायाहितैषिणे । आरोग्यशास्त्रसर्वस्वं देयमेतत्कथञ्चन ॥ २७+९ ॥ स्तनजे व्रणवत्सर्वं न त्वेनमुपनाहयेत् । पाटयेत्पालयन् स्तन्यवाहिनीः कृष्णचूचुकौ ॥ २८ ॥ सर्वास्वामाद्य्अवस्थासु निर्दुहीत च तत्स्तनम् । शोधयेत्त्रिवृता स्निग्धं वृद्धौ स्नेहैश्चलात्मके ॥ २९ ॥ कौशाम्रतिल्वकैरण्डसुकुमारकमिश्रकैः । ततोऽनिलघ्ननिर्यूहकल्कस्नेहैर्निरूहयेत् ॥ ३० ॥ रसेन भोजितं यष्टीतैलेनान्वासयेदनु । स्वेदप्रलेपा वातघ्नाः पक्वे भित्त्वा व्रणक्रियाम् ॥ ३१ ॥ पित्तरक्तोद्भवे वृद्धावामपक्वे यथायथम् । शोफव्रणक्रियां कुर्यात्प्रततं च हरेदसृक् ॥ ३२ ॥ गोमूत्रेण पिबेत्कल्कं श्लैष्मिके पीतदारुजम् । विम्लापनादृते चास्य श्लेष्मग्रन्थिक्रमो हितः ॥ ३३ ॥ १३.३३ व् विम्लापनादृते चात्र पक्वे च पाटिते तैलमिष्यते व्रणशोधनम् । सुमनोऽरुष्कराङ्कोल्लसप्तपर्णेषु साधितम् ॥ ३४ ॥ पटोलनिम्बरजनीविडङ्गकुटजेषु च । मेदोजं मूत्रपिष्टेन सुस्विन्नं सुरसादिना ॥ ३५ ॥ शिरोविरेकद्रव्यैर्वा वर्जयन् फलसेवनीम् । दारयेद्वृद्धिपत्त्रेण सम्यङ्मेदसि सूद्धृते ॥ ३६ ॥ १३.३६ व् सम्यङ्मेदसि चोद्धृते व्रणं माक्षिककासीससैन्धवप्रतिसारितम् । सीव्येदभ्यञ्जनं चास्य योज्यं मेदोविशुद्धये ॥ ३७ ॥ मनःशिलैलासुमनोग्रन्थिभल्लातकैः कृतम् । तैलमाव्रणसंधानात्स्नेहस्वेदौ च शीलयेत् ॥ ३८ ॥ मूत्रजं स्वेदितं स्निग्धैर्वस्त्रपट्टेन वेष्टितम् । विध्येदधस्तात्सेवन्याः स्रावयेच्च यथोदरम् ॥ ३९ ॥ व्रणं च स्थगिकाबद्धं रोपयेदन्त्रहेतुके । फलकोशमसंप्राप्ते चिकित्सा वातवृद्धिवत् ॥ ४० ॥ पचेत्पुनर्नवतुलां तथा दशपलाः पृथक् । दशमूलपयस्याश्वगन्धैरण्डशतावरीः ॥ ४१ ॥ द्विदर्भशरकाशेक्षुमूलपोटगलान्विताः । वहेऽपामष्टभागस्थे तत्र त्रिंशत्पलं गुडात् ॥ ४२ ॥ प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा । आवपेद्द्विपलांशं च कृष्णातन्मूलसैन्धवम् ॥ ४३ ॥ यष्टीमधुकमृद्वीकायवानीनागराणि च । तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ॥ ४४ ॥ वातातपाध्वयानादिपरिहार्येष्वयन्त्रणम् । प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनाम् ॥ ४५ ॥ नृणां स्त्रीवृन्दभर्तॄणामलक्ष्मीकलिनाशनम् । सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम् ॥ ४६ ॥ वर्ध्मविद्रधिगुल्मार्शोयोनिमेढ्रानिलार्तिषु । शोफोदरखुडप्लीहविड्विबन्धेषु चोत्तमम् ॥ ४७ ॥ रास्नायष्ट्य्अमृतैरण्डबलागोक्षुरसाधितः । क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रितः ॥ ४७+१ ॥ यायाद्वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः । वस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत् ॥ ४८ ॥ अग्निना मार्गरोधार्थं मरुतोऽर्धेन्दुवक्रया । अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत् ॥ ४९ ॥ उत्क्षिप्य सूच्या तत्तिर्यग्दहेच्छित्त्वा यतो गदः । ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वानामिकाङ्गुलेः ॥ ५० ॥ गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः । कनिष्ठिकानामिकयोर्विश्वाच्यां च यतो गदः ॥ ५१ ॥ मूलं बिल्वकपित्थयोः अरलुकस्याग्नेर्बृहत्योर्द्वयोः ॥ ५१+१ ॥ श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ॥ ५१+१ ॥ कृष्णाग्रन्थिकवेल्लपञ्चलवणक्षाराजमोदान्वितम् ॥ ५१+१ ॥ पीतं काञ्जिकतोय...मथितैश्चूर्णीकृतं वर्ध्मजित् ॥ ५१+१ ॥ अजाजीकुष्ठगोमेदहपुषाबदराणि च । आरनालेन लेपः स्याद्वर्ध्मजित्परमौषधम् ॥ ५१+२ ॥ अविक्षीरेण गोधूमचूर्णं कन्दुरुकस्य च । प्रलेपनं सुखोष्णं स्याद्वर्ध्मजित्परमौषधम् ॥ ५१+३ ॥ मृतमात्रे तु वै काके विशस्तेन प्रलेपयेत् । मुहूर्तं वर्ध्म मेधावी तत्क्षणादरुजो भवेत् ॥ ५१+४ ॥ Cइकित्सास्थान गुल्मं बद्धशकृद्वातं वातिकं तीव्रवेदनम् । रूक्षशीतोद्भवं तैलैः साधयेद्वातरोगिकैः ॥ १ ॥ पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदमाचरेत् । आनाहवेदनास्तम्भविबन्धेषु विशेषतः ॥ २ ॥ स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् । भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥ ३ ॥ स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे । पक्वाशयगते वस्तिरुभयं जठराश्रये ॥ ४ ॥ दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः । बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रदापयेत् ॥ ५ ॥ पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः । प्रयोज्या वातजे गुल्मे कफपित्तानुरक्षिणः ॥ ६ ॥ १४.६ व् कफपित्तानुरक्षिणा वस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम् । स्वस्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति ॥ ७ ॥ तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः । प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः ॥ ८ ॥ हिङ्गुसौवर्चलव्योषविडदाडिमदीप्यकैः । पुष्कराजाजीधान्याम्लवेतसक्षारचित्रकैः ॥ ९ ॥ शठीवचाजगन्धैलासुरसैर्दधिसंयुतैः । शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १० ॥ हपुषोषणपृथ्वीकापञ्चकोलकदीप्यकैः । साजाजीसैन्धवैर्दध्ना दुग्धेन च रसेन च ॥ ११ ॥ दाडिमान्मूलकात्कोलात्पचेत्सर्पिर्निहन्ति तत् । वातगुल्मोदरानाहपार्श्वहृत्कोष्ठवेदनाः ॥ १२ ॥ योन्य्अर्शोग्रहणीदोषकासश्वासारुचिज्वरान् । दशमूलं बलां कालां सुषवीं द्वौ पुनर्नवौ ॥ १३ ॥ १४.१३ व् दशमूलं बलां कालीं पौष्करैरण्डरास्नाश्वगन्धाभार्ग्य्अमृताशठीः । पचेद्गन्धपलाशं च द्रोणेऽपां द्विपलोन्मितम् ॥ १४ ॥ यवैः कोलैः कुलत्थैश्च माषैश्च प्रास्थिकैः सह । क्वाथेऽस्मिन् दधिपात्रे च घृतप्रस्थं विपाचयेत् ॥ १५ ॥ स्वरसैर्दाडिमाम्रातमातुलुङ्गोद्भवैर्युतम् । तथा तुषाम्बुधान्याम्लशुक्तैः श्लक्ष्णैश्च कल्कितैः ॥ १६ ॥ भार्गीतुम्बुरुषड्ग्रन्थाग्रन्थिरास्नाग्निधान्यकैः । यवानकयवान्य्अम्लवेतसासितजीरकैः ॥ १७ ॥ अजाजीहिङ्गुहपुषाकारवीवृषकोषकैः । निकुम्भकुम्भमूर्वेभपिप्पलीवेल्लदाडिमैः ॥ १८ ॥ श्वदंष्ट्रात्रपुसैर्वारुबीजहिंस्राश्मभेदकैः । मिशिद्विक्षारसुरसशारिवानीलिनीफलैः ॥ १९ ॥ त्रिकटुत्रिपटूपेतैर्दाधिकं तद्व्यपोहति । रोगानाशुतरान् पूर्वान् कष्टानपि च शीलितम् ॥ २० ॥ अपस्मारगदोन्मादमूत्राघातानिलामयान् । त्र्य्ऊषणत्रिफलाधान्यचविकावेल्लचित्रकैः ॥ २१ ॥ १४.२१ व् अपस्मारगरोन्माद कल्कीकृतैर्घृतं पक्वं सक्षीरं वातगुल्मनुत् । तुलां लशुनकन्दानां पृथक्पञ्चपलांशकम् ॥ २२ ॥ पञ्चमूलं महच्चाम्बुभारार्धे तद्विपाचयेत् । पादशेषं तद्अर्धेन दाडिमस्वरसं सुराम् ॥ २३ ॥ धान्याम्लं दधि चादाय पिष्टांश्चार्धपलांशकान् । त्र्य्ऊषणत्रिफलाहिङ्गुयवानीचव्यदीप्यकान् ॥ २४ ॥ साम्लवेतससिन्धूत्थदेवदारून् पचेद्घृतात् । तैः प्रस्थं तत्परं सर्ववातगुल्मविकारजित् ॥ २५ ॥ १४.२५ व् साम्लवेतससिन्धूत्थं १४.२५ व् देवदारु पचेद्घृतात् षट्पलं वा पिबेत्सर्पिर्यदुक्तं राजयक्ष्मणि । प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा ॥ २६ ॥ घृते मारुतगुल्मघ्नः कार्यो दध्नः सरेण वा । वातगुल्मे कफो वृद्धो हत्वाग्निमरुचिं यदि ॥ २७ ॥ हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम् । शूलानाहविबन्धेषु ज्ञात्वा सस्नेहमाशयम् ॥ २८ ॥ निर्यूहचूर्णवटकाः प्रयोज्या घृतभेषजैः । कोलदाडिमघर्माम्बुतक्रमद्याम्लकाञ्जिकैह् ॥ २९ ॥ मण्डेन वा पिबेत्प्रातश्चूर्णान्यन्नस्य वा पुरः । चूर्णानि मातुलुङ्गस्य भावितान्यसकृद्रसे ॥ ३० ॥ कुर्वीत कार्मुकतरान् वटकान् कफवातयोः ॥ ३१ ब् ॥ हिङ्गुवचाविजयापशुगन्धादाडिमदीप्यकधान्यकपाठाः ॥ ३१ द् ॥ पुष्करमूलशठीहपुषाग्निक्षारयुगत्रिपटुत्रिकटूनि ॥ ३१ f ॥ साजाजिचव्यं सहतिन्तिडीकं सवेतसाम्लं विनिहन्ति चूर्णम् । हृत्पार्श्ववस्तित्रिकयोनिपायुशूलानि वाय्व्आमकफोद्भवानि ॥ ३२ ॥ कृच्छ्रान् गुल्मान् वातविण्मूत्रसङ्गं कण्ठे बन्धं हृद्ग्रहं पाण्डुरोगम् । अन्नाश्रद्धाप्लीहदुर्नामहिध्मावर्ध्माध्मानश्वासकासाग्निसादान् ॥ ३३ ॥ लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम् । सर्वसमांशहरीतकी चूर्णं वैश्वानरः साक्षात् ॥ ३४ ॥ १४.३४ व् सर्वसमांशं हरीतकी १४.३४ व् सर्वसमांशा विजया १४.३४ व् चूर्णो वैश्वानरः साक्षात् त्रिकटुकमजमोदा सैन्धवं जीरके द्वे ॥ ३५ ॥ समधरणघृतानामष्टमो हिङ्गुभागः ॥ ३५ ॥ प्रथमकवडभोज्यः सर्पिषा संप्रयुक्तो ॥ ३५ ॥ १४.३५ व् प्रथमकवडभोज्यः सर्पिषा चूर्णकोऽयं जनयति जठराग्निं वातगुल्मं निहन्ति ॥ ३५ ॥ १४.३५ व् जनयति भृशमग्निं वातगुल्मं निहन्ति हिङ्गूग्राविडशुण्ठ्य्अजाजिविजयावाट्याभिधानामयैश् ॥ ३६ ॥ चूर्णः कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः ॥ ३६ ॥ पीतः कोष्णजलेन कोष्ठजरुजो गुल्मोदरादीनयम् ॥ ३६ ॥ शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन्मृगौघानिव ॥ ३६ ॥ सिन्धूत्थपथ्याकणदीप्यकानाम् ॥ ३७ ॥ चूर्णानि तोयैः पिबतां कवोष्णैः ॥ ३७ ॥ प्रयाति नाशं कफवातजन्मा ॥ ३७ ॥ नाराचनिर्भिन्न इवामयौघः ॥ ३७ ॥ पूतीकपत्त्रगजचिर्भटचव्यवह्नि ॥ ३८ ॥ व्योषं च संस्तरचितं लवणोपधानम् ॥ ३८ ॥ दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यम् ॥ ३८ ॥ गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ ३८ ॥ १४.३८ व् गुल्मोदरश्वयथुपाण्डुगदोद्भवेषु हिङ्गुत्रिगुणं सैन्धवमस्मात्त्रिगुणं च तैलमैरण्डम् ॥ ३९ ब् ॥ तत्त्रिगुणलशुनरसं गुल्मोदरवर्ध्मशूलघ्नम् । मातुलुङ्गरसो हिङ्गु दाडिमं विडसैन्धवम् ॥ ४० ॥ सुरामण्डेन पातव्यं वातगुल्मरुजापहम् । शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात्कृष्णतिलात्पलम् ॥ ४१ ॥ १४.४१ व् वातगुल्मज्वरापहम् खादन्नेकत्र संचूर्ण्य कोष्णक्षीरानुपो जयेत् । वातहृद्रोगगुल्मार्शोयोनिशूलशकृद्ग्रहान् ॥ ४२ ॥ पिबेदेरण्डतैलं तु वातगुल्मी प्रसन्नया । श्लेष्मण्यनुबले वायौ पित्ते तु पयसा सह ॥ ४३ ॥ विवृद्धं यदि वा पित्तं संतापं वातगुल्मिनः । कुर्याद्विरेचनीयोऽसौ सस्नेहैरानुलोमिकैः ॥ ४४ ॥ तापानुवृत्तावेवं च रक्तं तस्यावसेचयेत् । साधयेच्छुद्धशुष्कस्य लशुनस्य चतुःपलम् ॥ ४५ ॥ क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाचयेत् । वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम् ॥ ४६ ॥ हृद्रोगं विद्रधिं शोषं साधयत्याशु तत्पयः । तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः ॥ ४७ ॥ १४.४७ व् नाशयत्याशु तत्पयः गुल्मं जठरमानाहं पीतमेकत्र साधयेत् । चित्रकग्रन्थिकैरण्डशुण्ठीक्वाथः परं हितः ॥ ४८ ॥ शूलानाहविबन्धेषु सहिङ्गुविडसैन्धवैः । पुष्करैरण्डयोर्मूलं यवधन्वयवासकम् ॥ ४९ ॥ जलेन क्वथितं पीतं कोष्ठदाहरुजापहम् । वाट्याह्वैरण्डदर्भाणां मूलं दारु महौषधम् ॥ ५० ॥ पीतं निःक्वाथ्य तोयेन कोष्ठपृष्ठांसशूलजित् । शिलाजं पयसान्अल्पपञ्चमूलशृतेन वा ॥ ५१ ॥ १४.५१ व् कोष्ठपृष्ट्य्अंसशूलजित् वातगुल्मी पिबेद्वाट्यमुदावर्ते तु भोजयेत् । स्निग्धं पैप्पलिकैर्यूषैर्मूलकानां रसेन वा ॥ ५२ ॥ बद्धविण्मारुतोऽश्नीयात्क्षीरेणोष्णेन यावकम् । कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् ॥ ५३ ॥ नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह । समलाय घृतं देयं सविडक्षारनागरम् ॥ ५४ ॥ नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम् । पचेद्विडङ्गं व्याघ्रीं च पालिकानि जलाढके ॥ ५५ ॥ रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत् । दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च ॥ ५६ ॥ ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् । जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् ॥ ५७ ॥ गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्व्आमयज्वरान् । श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम् ॥ ५८ ॥ कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः । शालयो मदिरा सर्पिर्वातगुल्मचिकित्सितम् ॥ ५९ ॥ मितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम् । समण्डा वारुणी पानं तप्तं वा धान्यकैर्जलम् ॥ ६० ॥ स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् । द्राक्षाभयागुडरसं कम्पिल्लं वा मधुद्रुतम् ॥ ६१ ॥ १४.६१ व् कम्पिल्लं वा मधुद्रवम् कल्पोक्तं रक्तपित्तोक्तं गुल्मे रूक्षोष्णजे पुनः । परं संशमनं सर्पिस्तिक्तं वासाघृतं शृतम् ॥ ६२ ॥ तृणाख्यपञ्चकक्वाथे जीवनीयगणेन वा । शृतं तेनैव वा क्षीरं न्यग्रोधादिगणेन वा ॥ ६३ ॥ तत्रापि स्रंसनं युञ्ज्याच्छीघ्रमात्ययिके भिषक् । वैरेचनिकसिद्धेन सर्पिषा पयसापि वा ॥ ६४ ॥ रसेनामलकेक्षूणां घृतप्रस्थं विपाचयेत् । पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत् ॥ ६५ ॥ पिबेद्वा तैल्वकं सर्पिर्यच्चोक्तं पित्तविद्रधौ । द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु ॥ ६६ ॥ पिबेत्तण्डुलतोयेन पित्तगुल्मोपशान्तये । द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम् ॥ ६७ ॥ अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत् । पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम् ॥ ६८ ॥ तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः । दाहेऽभ्यङ्गो घृतैः शीतैः साज्यैर्लेपो हिमौषधैः ॥ ६९ ॥ स्पर्शः सरोरुहां पत्त्रैः पात्रैश्च प्रचलज्जलैः । विदाहपूर्वरूपेषु शूले वह्नेश्च मार्दवे ॥ ७० ॥ बहुशोऽपहरेद्रक्तं पित्तगुल्मे विशेषतः । छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ॥ ७१ ॥ रक्तं हि व्य्अम्लतां याति तच्च नास्ति न चास्ति रुक् । हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः ॥ ७२ ॥ समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत्पुनः । रक्तपित्तातिवृद्धत्वात्क्रियामन्उपलभ्य वा ॥ ७३ ॥ गुल्मे पाकोन्मुखे सर्वा पित्तविद्रधिवत्क्रिया । शालिर्गव्याजपयसी पटोली जाङ्गलं घृतम् ॥ ७४ ॥ धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता । भोज्यं पानेऽम्बु बलया बृहत्य्आद्यैश्च साधितम् ॥ ७५ ॥ श्लेष्मजे वामयेत्पूर्वमवम्यमुपवासयेत् । तिक्तोष्णकटुसंसर्ग्या वह्निं संधुक्षयेत्ततः ॥ ७६ ॥ १४.७६ व् कफजे वामयेत्पूर्वम् हिङ्ग्व्आदिभिश्च द्विगुणक्षारहिङ्ग्व्अम्लवेतसैः । निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम् ॥ ७७ ॥ आनाहादियुतं गुल्मं संस्वेद्य विनयेदनु । घृतं सक्षारकटुकं पातव्यं कफगुल्मिनाम् ॥ ७८ ॥ १४.७८ व् संशोध्य विनयेदनु सव्योषक्षारलवणं सहिङ्गुविडदाडिमम् । कफगुल्मं जयत्याशु दशमूलशृतं घृतम् ॥ ७९ ॥ भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् । अल्पं तोयाढके साध्यं पादशेषेण तेन च ॥ ८० ॥ तुल्यं घृतं तुल्यपयो विपचेदक्षसंमितैः । विडङ्गहिङ्गुसिन्धूत्थयावशूकशठीविडैः ॥ ८१ ॥ सद्वीपिरास्नायष्ट्य्आह्वषड्ग्रन्थाकणनागरैः । एतद्भल्लातकघृतं कफगुल्महरं परम् ॥ ८२ ॥ प्लीहपाण्ड्व्आमयश्वासग्रहणीरोगकासजित् । ततोऽस्य गुल्मे देहे च समस्ते स्वेदमाचरेत् ॥ ८३ ॥ १४.८३ व् ग्रहणीरोगकासनुत् सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते । या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते ॥ ८४ ॥ स्निग्धस्विन्नशरीरस्य गुल्मे शैथिल्यमागते । यथोक्तां घटिकां न्यस्येद्गृहीतेऽपनयेच्च ताम् ॥ ८५ ॥ वस्त्रान्तरं ततः कृत्वा भिन्द्याद्गुल्मं प्रमाणवित् । विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत् ॥ ८६ ॥ प्रमृज्याद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत् । तिलैरण्डातसीबीजसर्षपैः परिलिप्य च ॥ ८७ ॥ १४.८७ व् सर्षपैः परिलिप्य वा श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेत्ततः । एवं च विसृतं स्थानात्कफगुल्मं विरेचनैः ॥ ८८ ॥ सस्नेहैर्वस्तिभिश्चैनं शोधयेद्दाशमूलिकैः । पिप्पल्य्आमलकद्राक्षाश्यामाद्यैः पालिकैः पचेत् ॥ ८९ ॥ एरण्डतैलहविषोः प्रस्थौ पयसि षड्गुणे । सिद्धोऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम् ॥ ९० ॥ वृद्धिविद्रधिशूलेषु वातव्याधिषु चामृतम् । पिबेद्वा नीलिनीसर्पिर्मात्रया द्विपलीनया ॥ ९१ ॥ १४.९१ व् मात्रया द्विपलीकया तथैव सुकुमाराख्यं घृतान्यौदरिकाणि वा । द्रोणेऽम्भसः पचेद्दन्त्याः पलानां पञ्चविंशतिम् ॥ ९२ ॥ चित्रकस्य तथा पथ्यास्तावतीस्तद्रसे स्रुते । द्विप्रस्थे साधयेत्पूते क्षिपेद्दन्तीसमं गुडम् ॥ ९३ ॥ १४.९३ व् तावतीस्तद्रसे शृते तैलात्पलानि चत्वारि त्रिवृतायश्च चूर्णतः । कणाकर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले ॥ ९४ ॥ मधु तैलसमं दद्याच्चतुर्जाताच्चतुर्थिकाम् । अतो हरीतकीमेकां सावलेहपलामदन् ॥ ९५ ॥ सुखं विरिच्यते स्निग्धो दोषप्रस्थमन्आमयः । गुल्महृद्रोगदुर्नामशोफानाहगरोदरान् ॥ ९६ ॥ कुष्ठोत्क्लेशारुचिप्लीहग्रहणीविषमज्वरान् । घ्नन्ति दन्तीहरीतक्यः पाण्डुतां च सकामलाम् ॥ ९७ ॥ १४.९७ व् पाण्डुतां च सकामलान् सुधाक्षीरद्रवं चूर्णं त्रिवृतायाः सुभावितम् । कार्षिकं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ॥ ९८ ॥ कुष्ठश्यामात्रिवृद्दन्तीविजयाक्षारगुग्गुलून् । गोमूत्रेण पिबेदेकं तेन गुग्गुलुमेव वा ॥ ९९ ॥ निरूहान् कल्पसिद्ध्य्उक्तान् योजयेद्गुल्मनाशनान् । कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम् ॥ १०० ॥ गूढमांसं जयेद्गुल्मं क्षारारिष्टाग्निकर्मभिः । एकान्तरं द्व्य्अन्तरं वा विश्रमय्याथवा त्र्य्अहम् ॥ १०१ ॥ शरीरदोषबलयोर्वर्धनक्षपणोद्यतः । अर्शोऽश्मरीग्रहण्य्उक्ताः क्षारा योज्याः कफोल्बणे ॥ १०२ ॥ देवदारुत्रिवृद्दन्तीकटुकापञ्चकोलकम् । स्वर्जिकायावशूकाख्यौ श्रेष्ठापाठोपकुञ्चिकाः ॥ १०३ ॥ कुष्ठं सर्पसुगन्धां च द्व्य्अक्षांशं पटुपञ्चकम् । पालिकं चूर्णितं तैलवसादधिघृताप्लुतम् ॥ १०४ ॥ घटस्यान्तः पचेत्पक्वमग्निवर्णे घटे च तम् । क्षारं गृहीत्वा क्षीराज्यतक्रमद्यादिभिः पिबेत् ॥ १०५ ॥ गुल्मोदावर्तवर्ध्मार्शोजठरग्रहणीकृमीन् । अपस्मारगरोन्मादयोनिशुक्रामयाश्मरीः ॥ १०६ ॥ क्षारागदोऽयं शमयेद्विषं चाखुभुजङ्गजम् । श्लेष्माणं मधुरं स्निग्धं रसक्षीरघृताशिनः ॥ १०७ ॥ छित्त्वा भित्त्वाशयात्क्षारः क्षारत्वात्क्षारयत्यधः । मन्देऽग्नावरुचौ सात्म्यैर्मद्यैः सस्नेहमश्नताम् ॥ १०८ ॥ १४.१०८ व् छित्त्वा छित्त्वाशयात्क्षारः १४.१०८ व् छित्त्वा भित्त्वाशयं क्षारः १४.१०८ व् क्षारत्वात्पातयत्यधः योजयेदासवारिष्टान्निगदान्मार्गशुद्धये । शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम् ॥ १०९ ॥ चिरिबिल्वाग्नितर्कारीयवानीवरुणाङ्कुराः । शिग्रुस्तरुणबिल्वानि बालं शुष्कं च मूलकम् ॥ ११० ॥ १४.११० व् शिग्रोस्तरुणमूलानि बीजपूरकहिङ्ग्व्अम्लवेतसक्षारदाडिमम् । व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी ॥ १११ ॥ धान्याम्लं मस्तु तक्रं च यवानीविडचूर्णितम् । पञ्चमूलशृतं वारि जीर्णं मार्द्वीकमेव वा ॥ ११२ ॥ पिप्पलीपिप्पलीमूलचित्रकाजाजीसैन्धवैः । सुरा गुल्मं जयत्याशु जगलश्च विमिश्रितः ॥ ११३ ॥ १४.११३ व् जाङ्गलश्च विमिश्रितः वमनैर्लङ्घनैः स्वेदैः सर्पिःपानैर्विरेचनैः । वस्तिक्षारासवारिष्टगुटिकापथ्यभोजनैः ॥ ११४ ॥ १४.११४ व् वस्तिक्षारासवारिष्टैर् १४.११४ व् गुल्मिकापथ्यभोजनैः १४.११४ व् गौल्मिकैः पथ्यभोजनैः श्लैष्मिको बद्धमूलत्वाद्यदि गुल्मो न शाम्यति । तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः ॥ ११५ ॥ अथ गुल्मं सपर्य्अन्तं वाससान्तरितं भिषक् । नाभिवस्त्य्अन्त्रहृदयं रोमराजीं च वर्जयन् ॥ ११६ ॥ नातिगाढं परिमृशेच्छरेण ज्वलताथवा । लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा ॥ ११७ ॥ ततोऽग्निवेगे शमिते शीतैर्व्रण इव क्रिया । आमान्वये तु पेयाद्यैः संधुक्ष्याग्निं विलङ्घिते ॥ ११८ ॥ स्वं स्वं कुर्यात्क्रमं मिश्रं मिश्रदोषे च कालवित् । गतप्रसवकालायै नार्यै गुल्मेऽस्रसंभवे ॥ ११९ ॥ स्निग्धस्विन्नशरीरायै दद्यात्स्नेहविरेचनम् । तिलक्वाथे घृतगुडव्योषभार्गीरजोऽन्वितः ॥ १२० ॥ पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषितः । भार्गीकृष्णाकरञ्जत्वग्ग्रन्थिकामरदारुजम् ॥ १२१ ॥ चूर्णं तिलानां क्वाथेन पीतं गुल्मरुजापहम् । पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः ॥ १२२ ॥ गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत् । न प्रभिद्येत यद्येवं दद्याद्योनिविरेचनम् ॥ १२३ ॥ क्षारेण युक्तं पललं सुधाक्षीरेण वा ततः । ताभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान् ॥ १२४ ॥ वराहमत्स्यपित्ताभ्यां नक्तकान् वा सुभावितान् । किण्वं वा सगुडक्षारं दद्याद्योनौ विशुद्धये ॥ १२५ ॥ रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा । लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रयोजयेत् ॥ १२६ ॥ वस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम् । अवर्तमाने रुधिरे हितं गुल्मप्रभेदनम् ॥ १२७ ॥ १४.१२७ व् वस्तिं सक्षौद्रगोमुत्रं यमकाभ्यक्तदेहायाः प्रवृत्ते समुपेक्षणम् । रसौदनस्तथाहारः पानं च तरुणी सुरा ॥ १२८ ॥ रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहराः क्रियाः । कार्या वातरुग्आर्तायाः सर्वा वातहराः पुनः ॥ १२९ ॥ आनाहादावुदावर्तबलासघ्न्यो यथायथम् ॥ १२९ªअब् ॥ Cइकित्सास्थान दोषातिमात्रोपचयात्स्रोतोमार्गनिरोधनात् । संभवत्युदरं तस्मान्नित्यमेनं विरेचयेत् ॥ १ ॥ १५.१ व् स्रोतोमार्गविघातनात् पाययेत्तैलमैरण्डं समूत्रं सपयोऽपि वा । मासं द्वौ वाथवा गव्यं मूत्रं माहिषमेव वा ॥ २ ॥ १५.२ व् मासं द्वौ वा तथा गव्यं पिबेद्गोक्षीरभुक्स्याद्वा करभीक्षीरवर्तनः । दाहानाहातितृण्मूर्छापरीतस्तु विशेषतः ॥ ३ ॥ रूक्षाणां बहुवातानां दोषसंशुद्धिकाङ्क्षिणाम् । स्नेहनीयानि सर्पींषि जठरघ्नानि योजयेत् ॥ ४ ॥ षट्पलं दशमूलाम्बुमस्तुद्व्य्आढकसाधितम् । नागरत्रिपलं प्रस्थं घृततैलात्तथाढकम् ॥ ५ ॥ १५.५ व् नागरं त्रिपलं प्रस्थं मस्तुनः साधयित्वैतत्पिबेत्सर्वोदरापहम् । कफमारुतसंभूते गुल्मे च परमं हितम् ॥ ६ ॥ चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले । कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥ ७ ॥ यवकोलकुलत्थानां पञ्चमूलस्य चाम्भसा । सुरासौवीरकाभ्यां च सिद्धं वा पाययेद्घृतम् ॥ ८ ॥ एभिः स्निग्धाय संजाते बले शान्ते च मारुते । स्रस्ते दोषाशये दद्यात्कल्पदृष्टं विरेचनम् ॥ ९ ॥ पटोलमूलं त्रिफलां निशां वेल्लं च कार्षिकम् । कम्पिल्लनीलिनीकुम्भभागान् द्वित्रिचतुर्गुणान् ॥ १० ॥ पिबेत्संचूर्ण्य मूत्रेण पेयापूर्वं ततो रसैः । विरिक्तो जाङ्गलैरद्यात्ततः षड्दिवसं पयः ॥ ११ ॥ शृतं पिबेद्व्योषयुतं पीतमेवं पुनः पुनः । हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि ॥ १२ ॥ गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् । पिबेत्कर्कन्धुमृद्वीकाकोलाम्भोमूत्रसीधुभिः ॥ १३ ॥ यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका । कारवी पिप्पलीमूलमजगन्धा शठी वचा ॥ १४ ॥ चित्रकोऽजाजिकं व्योषं स्वर्णक्षीरी फलत्रयम् । द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ १५ ॥ विडङ्गं च समांशानि दन्त्या भागत्रयं तथा । त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा ॥ १६ ॥ एष नारायणो नाम चूर्णो रोगगणापहः । नैनं प्राप्याभिवर्धन्ते रोगा विष्णुमिवासुराः ॥ १७ ॥ १५.१७ व् नैनं प्राप्यातिवर्तन्ते तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना । आनाहवाते सुरया वातरोगे प्रसन्नया ॥ १८ ॥ दधिमण्डेन विट्सङ्गे दाडिमाम्भोभिरर्शसैः । परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ १९ ॥ भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे । हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे ॥ २० ॥ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे दोषे । यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ॥ २१ ॥ हपुषां काञ्चनक्षीरीं त्रिफलां नीलिनीफलम् । त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् ॥ २२ ॥ सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत् । दाडिमत्रिफलामांसरसमूत्रसुखोदकैः ॥ २३ ॥ पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च । श्वित्रे कुष्ठेष्वजरके सदने विषमेऽनले ॥ २४ ॥ शोफार्शःपाण्डुरोगेषु कामलायां हलीमके । वातपित्तकफांश्चाशु विरेकेण प्रसाधयेत् ॥ २५ ॥ नीलिनीं निचुलं व्योषं क्षारौ लवणपञ्चकम् । चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत् ॥ २६ ॥ पूर्ववच्च पिबेद्दुग्धं क्षामः शुद्धोऽन्तरान्तरा । कारभं गव्यमाजं वा दद्यादात्ययिके गदे ॥ २७ ॥ स्नेहानेव विरेकार्थे दुर्बलेभ्यो विशेषतः । हरीतकीसूक्ष्मरजःप्रस्थयुक्तं घृताढकम् ॥ २८ ॥ १५.२८ व् स्नेहमेव विरेकार्थे अग्नौ विलाप्य मथितं खजेन यवपल्लके । निधापयेत्ततो मासादुद्धृतं गालितं पचेत् ॥ २९ ॥ हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् । उदरं गरमष्ठीलामानाहं गुल्मविद्रधी ॥ ३० ॥ हन्त्येतत्कुष्ठमुन्मादमपस्मारं च पानतः । स्नुक्क्षीरयुक्ताद्गोक्षीराच्छृतशीतात्खजाहतात् ॥ ३१ ॥ यज्जातमाज्यं स्नुक्क्षीरसिद्धं तच्च तथागुणम् । क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि ॥ ३२ ॥ १५.३२ व् प्रस्थार्धेन युतं दधि जातं मथित्वा तत्सर्पिस्त्रिवृत्सिद्धं च तद्गुणम् । तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ॥ ३३ ॥ १५.३३ व् पयस्यष्टगुणे पचेत् स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च । एषां चानु पिबेत्पेयां रसं स्वादु पयोऽथवा ॥ ३४ ॥ घृते जीर्णे विरिक्तश्च कोष्णं नागरसाधितम् । पिबेदम्बु ततः पेयां ततो यूषं कुलत्थजम् ॥ ३५ ॥ पिबेद्रूक्षस्त्र्य्अहं त्वेवं भूयो वा प्रतिभोजितः । पुनः पुनः पिबेत्सर्पिरानुपूर्व्यानयैव च ॥ ३६ ॥ घृतान्येतानि सिद्धानि विदध्यात्कुशलो भिषक् । गुल्मानां गरदोषाणामुदराणां च शान्तये ॥ ३७ ॥ पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम् । तैल्वकं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत् ॥ ३८ ॥ हृतदोषः क्रमादश्नन् लघुशाल्य्ओदनप्रति । उपयुञ्जीत जठरी दोषशोषनिवृत्तये ॥ ३९ ॥ हरीतकीसहस्रं वा गोमूत्रेण पयोऽनुपः । सहस्रं पिप्पलीनां वा स्नुक्क्षीरेण सुभावितम् ॥ ४० ॥ पिप्पलीवर्धमानं वा क्षीराशी वा शिलाजतु । तद्वद्वा गुग्गुलुं क्षीरं तुल्यार्द्रकरसं तथा ॥ ४१ ॥ १५.४१ व् पिप्पलीं वर्धमानं वा चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् । मासं युक्तस्तथा हस्तिपिप्पलीविश्वभेषजम् ॥ ४२ ॥ विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः । कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत् ॥ ४३ ॥ भोज्यं भुञ्जीत वा मासं स्नुहीक्षीरघृतान्वितम् । उत्कारिकां वा स्नुक्क्षीरपीतपथ्याकणाकृताम् ॥ ४४ ॥ पार्श्वशूलमुपस्तम्भं हृद्ग्रहं च समीरणः । यदि कुर्यात्ततस्तैलं बिल्वक्षारान्वितं पिबेत् ॥ ४५ ॥ पक्वं वा टुण्टुकबलापलाशतिलनालजैः । क्षारैः कदल्य्अपामार्गतर्कारीजैः प्र्ठक्कृतैः ॥ ४६ ॥ कफे वातेन पित्ते वा ताभ्यां वाप्यावृतेऽनिले । बलिनः स्वौषधयुतं तैलमेरण्डजं हितम् ॥ ४७ ॥ देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः । साश्वकर्णैः सगोमूत्रैः प्रदिह्यादुदरं बहिः ॥ ४८ ॥ वृश्चिकालीवचाशुण्ठीपञ्चमूलपुनर्नवात् । वर्षाभूधान्यकुष्ठाच्च क्वाथैर्मूत्रैश्च सेचयेत् ॥ ४९ ॥ विरिक्तम्लानमुदरं स्वेदितं शाल्वणादिभिः । वाससा वेष्टयेदेवं वायुर्नाध्मापयेत्पुनः ॥ ५० ॥ १५.५० व् स्वेदितं शाल्वलादिभिः सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम् । सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत् ॥ ५१ ॥ सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम् । तीक्ष्णाः सक्षारगोमूत्राः शस्यन्ते तस्य वस्तयः ॥ ५२ ॥ इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः । वातोदरेऽथ बलिनं विदार्य्आदिशृतं घृतम् ॥ ५३ ॥ १५.५३ व् इति सामान्यतः प्रोक्ता १५.५३ व् सिद्धा जठरिणां क्रिया पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् । बहुशस्तैल्वकेनैनं सर्पिषा मिश्रकेण वा ॥ ५४ ॥ कृते संसर्जने क्षीरं बलार्थमवचारयेत् । प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात्पयः ॥ ५५ ॥ १५.५५ व् प्रागुत्क्लेशान्निवर्तेत यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम् । सोदावर्तं पुनः स्निग्धस्विन्नमास्थापयेत्ततः ॥ ५६ ॥ तीक्ष्णाधोभागयुक्तेन दशमूलिकवस्तिना । तिलोरुबूकतैलेन वातघ्नाम्लशृतेन च ॥ ५७ ॥ १५.५७ व् दशमूलेन वस्तिना स्फुरणाक्षेपसंध्य्अस्थिपार्श्वपृष्ठत्रिकार्तिषु । रूक्षं बद्धशकृद्वातं दीप्ताग्निमनुवासयेत् ॥ ५८ ॥ अविरेच्यस्य शमना वस्तिक्षीरघृतादयः । बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्य सर्पिषा ॥ ५९ ॥ श्यामात्रिभण्डीत्रिफलाविपक्वेन विरेचयेत् । सितामधुघृताढ्येन निरूहोऽस्य ततो हितः ॥ ६० ॥ न्यग्रोधादिकषायेण स्नेहवस्तिश्च तच्छृतः । दुर्बलं त्वनुवास्यादौ शोधयेत्क्षीरवस्तिभिः ॥ ६१ ॥ जाते चाग्निबले स्निग्धं भूयो भूयो विरेचयेत् । क्षीरेण सत्रिवृत्कल्केनोरुबूकशृतेन वा ॥ ६२ ॥ १५.६२ व् जाते त्वग्निबले स्निग्धं १५.६२ व् ंनोरुबूकशृतेन तम् सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा । सकफे वा समूत्रेण सतिक्ताज्येन सानिले ॥ ६३ ॥ १५.६३ व् सप्तलात्रायमाणाभ्यां पयसान्यतमेनैषां विदार्य्आदिशृतेन वा । भुञ्जीत जठरं चास्य पायसेनोपनाहयेत् ॥ ६४ ॥ पुनः क्षीरं पुनर्वस्तिं पुनरेव विरेचनम् । क्रमेण ध्रुवमातिष्ठन् यत्तः पित्तोदरं जयेत् ॥ ६५ ॥ १५.६५ व् यतः पित्तोदरं जयेत् वत्सकादिविपक्वेन कफे संस्नेह्य सर्पिषा । स्विन्नं स्नुक्क्षीरसिद्धेन बलवन्तं विरेचितम् ॥ ६६ ॥ संसर्जयेत्कटुक्षारयुक्तैरन्नैः कफापहैः । मूत्रत्र्य्ऊषणतैलाढ्यो निरूहोऽस्य ततो हितः ॥ ६७ ॥ मुष्ककादिकषायेण स्नेहवस्तिश्च तच्छृतः । भोजनं व्योषदुग्धेन कौलत्थेन रसेन वा ॥ ६८ ॥ स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च । दद्यादरिष्टान् क्षारांश्च कफस्त्यानस्थिरोदरे ॥ ६९ ॥ १५.६९ व् स्तैमित्यारुचिहृल्लासैर् १५.६९ व् कफे स्त्याने स्थिरोदरे हिङ्गूपकुल्ये त्रिफलां देवदारु निशाद्वयम् । भल्लातकं शिग्रुफलं कटुकां तिक्तकं वचाम् ॥ ७० ॥ शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटुपञ्चकम् । दाहयेज्जर्जरीकृत्य दधिस्नेहचतुष्कवत् ॥ ७१ ॥ अन्तर्धूमं ततः क्षाराद्बिडालपदकं पिबेत् । मदिरादधिमण्डोष्णजलारिष्टसुरासवैः ॥ ७२ ॥ १५.७२ व् जलारिष्टसुधासवैः उदरं गुल्ममष्ठीलां तूण्यौ शोफं विषूचिकाम् । प्लीहहृद्रोगगुदजानुदावर्तं च नाशयेत् ॥ ७३ ॥ जयेदरिष्टगोमूत्रचूर्णायस्कृतिपानतः । सक्षारतैलपानैश्च दुर्बलस्य कफोदरम् ॥ ७४ ॥ उपनाह्यं ससिद्धार्थकिण्वैर्बीजैश्च मूलकात् । कल्कितैरुदरं स्वेदमभीक्ष्णं चात्र योजयेत् ॥ ७५ ॥ १५.७५ व् कल्कितैरुदरस्वेदम् संनिपातोदरे कुर्यान्नातिक्षीणबलानले । दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियामिमाम् ॥ ७६ ॥ दन्तीद्रवन्तीफलजं तैलं पाने च शस्यते । क्रियानिवृत्ते जठरे त्रिदोषे तु विशेषतः ॥ ७७ ॥ दद्यादापृच्छ्य तज्ज्ञातीन् पातुं मद्येन कल्कितम् । मूलं काकादनीगुञ्जाकरवीरकसंभवम् ॥ ७८ ॥ पानभोजनसंयुक्तं दद्याद्वा स्थावरं विषम् । यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ॥ ७९ ॥ तेनास्य दोषसंघातः स्थिरो लीनो विमार्गगः । बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना ॥ ८० ॥ तथा व्रजत्यगदतां शरीरान्तरमेव वा । हृतदोषं तु शीताम्बुस्नातं तं पाययेत्पयः ॥ ८१ ॥ पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा । कालशाकं यवाख्यं वा खादेत्स्वरससाधितम् ॥ ८२ ॥ निर्अम्ललवणस्नेहं स्विन्नास्विन्नमन्अन्नभुक् । मासमेकं ततश्चैव तृषितः स्वरसं पिबेत् ॥ ८३ ॥ १५.८३ व् मासमेकं ततश्चैवं एवं विनिर्हृते शाकैर्दोषे मासात्परं ततः । दुर्बलाय प्रयुञ्जीत प्राणभृत्कारभं पयः ॥ ८४ ॥ प्लीहोदरे यथादोषं स्निग्धस्य स्वेदितस्य च । सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत् ॥ ८५ ॥ लब्धे बले च भूयोऽपि स्नेहपीतं विशोधितम् । समुद्रशुक्तिजं क्षारं पयसा पाययेत्तथा ॥ ८६ ॥ अम्लस्रुतं विडकणाचूर्णाढ्यं नक्तमालजम् । शौभाञ्जनस्य वा क्वाथं सैन्धवाग्निकणान्वितम् ॥ ८७ ॥ हिङ्ग्व्आदिचूर्णं क्षाराज्यं युञ्जीत च यथाबलम् । पिप्पलीनागरं दन्तीसमांशं द्विगुणाभयम् ॥ ८८ ॥ १५.८८ व् समांशं द्विगुणाभया विडार्धांशयुतं चूर्णमिदमुष्णाम्बुना पिबेत् । विडङ्गं चित्रकं सक्तून् सघृतान् सैन्धवं वचाम् ॥ ८९ ॥ दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत् । तैलोन्मिश्रैर्बदरकपत्त्रैः संमर्दितैः समुपनद्धः ॥ ९० ॥ मुसलेन पीडितोऽनु च याति प्लीहा पयोभुजो नाशम् । रोहीतकलताः कॢप्ताः खण्डशः साभया जले ॥ ९१ ॥ मूत्रे वासुनुयात्तच्च सप्तरात्रस्थितं पिबेत् । कामलाप्लीहगुल्मार्शःकृमिमेहोदरापहम् ॥ ९२ ॥ १५.९२ व् मूत्रे वासुनुयात्तत्तु रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम् । कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ ९३ ॥ पालिकैः पञ्चकोलैस्तु तैः समस्तैश्च तुल्यया । रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ९४ ॥ प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम् । कदल्यास्तिलनालानां क्षारेण क्षुरकस्य च ॥ ९५ ॥ १५.९५ व् प्लीहाभिवृद्धिं शमयेद् १५.९५ च् प्लीहातिवृद्धिं शमयत्य् १५.९५ व् क्षारेणेक्षुरकस्य च तैलं पक्वं जयेत्पानात्प्लीहानं कफवातजम् । अशान्तौ गुल्मविधिना योजयेदग्निकर्म च ॥ ९६ ॥ अप्राप्तपिच्छासलिले प्लीह्नि वातकफोल्बणे । पैत्तिके जीवनीयानि सर्पींषि क्षीरवस्तयः ॥ ९७ ॥ रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते । यकृति प्लीहवत्कर्म दक्षिणे तु भुजे सिराम् ॥ ९८ ॥ स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् । सतैललवणं दद्यान्निरूहं सानुवासनम् ॥ ९९ ॥ परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् । उदावर्तहरं कर्म कार्यं यच्चानिलापहम् ॥ १०० ॥ छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत् । जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक् ॥ १०१ ॥ अपां दोषहराण्यादौ योजयेदुदकोदरे । मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च ॥ १०२ ॥ दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत् । क्षारं छागकरीषाणां स्रुतं मूत्रेऽग्निना पचेत् ॥ १०३ ॥ घनीभवति तस्मिंश्च कर्षांशं चूर्णितं क्षिपेत् । पिप्पली पिप्पलीमूलं शुण्ठी लवणपञ्चकम् ॥ १०४ ॥ निकुम्भकुम्भत्रिफलास्वर्णक्षीरीविषाणिकाः । स्वर्जिकाक्षारषड्ग्रन्थासातलायवशूकजम् ॥ १०५ ॥ कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः । पिबेदजरके शोफे प्रवृद्धे चोदकोदरे ॥ १०६ ॥ १५.१०६ व् प्रवृद्धे च दकोदरे इत्यौषधैरप्रशमे त्रिषु बद्धोदरादिषु । प्रयुञ्जीत भिषक्शस्त्रमार्तबन्धुनृपार्थितः ॥ १०७ ॥ स्निग्धस्विन्नतनोर्नाभेरधो बद्धक्षतान्त्रयोः । पाटयेदुदरं मुक्त्वा वामतश्चतुर्अङ्गुलात् ॥ १०८ ॥ चतुर्अङ्गुलमानं तु निष्कास्यान्त्राणि तेन च । निरीक्ष्यापनयेद्वालमललेपोपलादिकम् ॥ १०९ ॥ छिद्रे तु शल्यमुद्धृत्य विशोध्यान्त्रपरिस्रवम् । मर्कोटैर्दंशयेच्छिद्रं तेषु लग्नेषु चाहरेत् ॥ ११० ॥ १५.११० व् विशोध्यान्त्रं परिस्रवम् कायं मूर्ध्नोऽनु चान्त्राणि यथास्थानं निवेशयेत् । अक्तानि मधुसर्पिर्भ्यामथ सीव्येद्बहिर्व्रणम् ॥ १११ ॥ १५.१११ व् यथास्थानं विवेशयेत् ततः कृष्णमृदालिप्य बध्नीयाद्यष्टिमिश्रया । निवातस्थः पयोवृत्तिः स्नेहद्रोण्यां वसेत्ततः ॥ ११२ ॥ सजले जठरे तैलैरभ्यक्तस्यानिलापहैः । स्विन्नस्योष्णाम्बुनाकक्षमुदरे पट्टवेष्टिते ॥ ११३ ॥ १५.११३ व् उदरे परिवेष्टिते बद्धच्छिद्रोदितस्थाने विध्येदङ्गुलमात्रकम् । निधाय तस्मिन्नाडीं च स्रावयेदर्धमम्भसः ॥ ११४ ॥ अथास्य नाडीमाकृष्य तैलेन लवणेन च । व्रणमभ्यज्य बद्ध्वा च वेष्टयेद्वाससोदरम् ॥ ११५ ॥ तृतीयेऽह्नि चतुर्थे वा यावदाषोडशं दिनम् । तस्य विश्रम्य विश्रम्य स्रावयेदल्पशो जलम् ॥ ११६ ॥ १५.११६ व् यावद्वादिनषोडश विवेष्टयेद्गाढतरं जठरं वाससा श्लथम् । निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत् ॥ ११७ ॥ १५.११७ व् जठरं च श्लथाश्लथम् स्यात्क्षीरवृत्तिः षण्मासांश्त्रीन् पेयां पयसा पिबेत् । त्रींश्चान्यान् पयसैवाद्यात्फलाम्लेन रसेन वा ॥ ११८ ॥ अल्पशोऽस्नेहलवणं जीर्णं श्यामाककोद्रवम् । प्रयतो वत्सरेणैवं विजयेत जलोदरम् ॥ ११९ ॥ वर्ज्येषु यन्त्रितो दिष्टे नात्य्अदिष्टे जितेन्द्रियः । सर्वमेवोदरं प्रायो दोषसंघातजं यतः ॥ १२० ॥ अतो वातादिशमनी क्रिया सर्वत्र शस्यते । वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते ॥ १२१ ॥ १५.१२१ व् क्रिया सर्वा प्रशस्यते तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च । सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च ॥ १२२ ॥ भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः । यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम् ॥ १२३ ॥ पिबेदिक्षुरसं चानु जठराणां निवृत्तये । स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा ॥ १२४ ॥ अत्य्अर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु । गुडं तैलकृतं शाकं वारि पानावगाहयोः ॥ १२५ ॥ १५.१२५ व् अत्य्अर्थोष्णाम्बुलवणं आयासाध्वदिवास्वप्नयानानि च परित्यजेत् । नात्य्अच्छसान्द्रमधुरं तक्रं पाने प्रशस्यते ॥ १२६ ॥ सकणालवणं वाते पित्ते सोषणशर्करम् । यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे ॥ १२७ ॥ त्र्य्ऊषणक्षारलवणैः संयुतं निचयोदरे । मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ॥ १२८ ॥ १५.१२८ व् मधुतैलवराशुण्ठी १५.१२८ व् मधुतैलवसाशुण्ठी प्लीह्नि बद्धे तु हपुषायवानीपट्व्अजाजिभिः । सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे ॥ १२९ ॥ गौरवारोचकानाहमन्दवह्न्य्अतिसारिणाम् । तक्रं वातकफार्तानाममृतत्वाय कल्पते ॥ १३० ॥ प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत् । स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत् ॥ १३१ ॥ भेषजापचिताङ्गानां क्षीरमेवामृतायते ॥ १३१ªअब् ॥ Cइकित्सास्थान पाण्ड्व्आमयी पिबेत्सर्पिरादौ कल्याणकाह्वयम् । पञ्चगव्यं महातिक्तं शृतं वारग्वधादिना ॥ १ ॥ १६.१ व् पाण्डुरोगी पिबेत्सर्पिर् दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम् । चित्रकाच्छृङ्गवेराच्च पिप्पल्य्अर्धपलं च तैः ॥ २ ॥ कल्कितैर्विंशतिपलं घृतस्य सलिलाढके । सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत् ॥ ३ ॥ दीपनं श्वासकासघ्नं मूढवातानुलोमनम् । दुःखप्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥ ४ ॥ स्नेहितं वामयेत्तीक्ष्णैः पुनः स्निग्धं च शोधयेत् । पयसा मूत्रयुक्तेन बहुशः केवलेन वा ॥ ५ ॥ दन्तीफलरसे कोष्णे काश्मर्याञ्जलिमासुतम् । द्राक्षाञ्जलिं वा मृदितं तत्पिबेत्पाण्डुरोगजित् ॥ ६ ॥ १६.६ व् दन्तीपलरसे कोष्णे मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम् । स्वर्णक्षीरीत्रिवृच्छ्यामाभद्रदारुमहौषधम् ॥ ७ ॥ गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् । साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम् ॥ ८ ॥ मूत्रे स्थितं वा सप्ताहं पयसायोरजः पिबेत् । जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥ ९ ॥ शुद्धश्चोभयतो लिह्यात्पथ्यां मधुघृतद्रुताम् । विशालाकटुकामुस्ताकुष्ठदारुकलिङ्गकाः ॥ १० ॥ १६.१० व् पथ्या मधुघृतद्रुताः १६.१० व् विशालां कटुकां मुस्तां १६.१० व् कुष्ठं दारुकलिङ्गकाः कर्षांशा द्विपिचुर्मूर्वा कर्षार्धांशा घुणप्रिया । पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यात्ततो मधु ॥ ११ ॥ पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम् । गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत् ॥ १२ ॥ वासागुडूचीत्रिफलाकट्वीभूनिम्बनिम्बजः । क्वाथः क्षौद्रयुतो हन्ति पाण्डुपित्तास्रकामलाः ॥ १३ ॥ व्योषाग्निवेल्लत्रिफलामुस्तैस्तुल्यमयोरजः । चूर्णितं तक्रमध्व्आज्यकोष्णाम्भोभिः प्रयोजितम् ॥ १४ ॥ कामलापाण्डुहृद्रोगकुष्ठार्शोमेहनाशनम् । गुडनागरमण्डूरतिलांशान्मानतः समान् ॥ १५ ॥ पिप्पलीद्विगुणान् दद्याद्गुटिकां पाण्डुरोगिणे । ताप्यं दार्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु च ॥ १६ ॥ व्योषादिनवकं चैतच्चूर्णयेद्द्विगुणं ततः । मण्डूरं चाञ्जननिभं सर्वतोऽष्टगुणेऽथ तत् ॥ १७ ॥ १६.१७ व् व्योषादिनवकं चेति पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे । प्रक्षिप्य वटकान् कुर्यात्तान् खादेत्तक्रभोजनः ॥ १८ ॥ एते मण्डूरवटकाः प्राणदाः पाण्डुरोगिणाम् । कुष्ठान्यजरकं शोफमूरुस्तम्भमरोचकम् ॥ १९ ॥ अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च । ताप्याद्रिजतुरौप्यायोमलाः पञ्चपलाः पृथक् ॥ २० ॥ चित्रकत्रिफलाव्योषविडङ्गैः पालिकैः सह । शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना द्रुताः ॥ २१ ॥ १६.२१ व् चूर्णिता मधुना युताः १६.२१ व् चूर्णिताः समधुद्रुताः पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम् । कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम् ॥ २२ ॥ विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च । कौटजत्रिफलानिम्बपटोलघननागरैः ॥ २३ ॥ भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा । शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥ २४ ॥ त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्याः पलोन्मिताः । निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिजातकम् ॥ २५ ॥ १६.२५ व् निदिग्धाफलमूलाभ्यां मधुत्रिपलसंयुक्तान् कुर्यादक्षसमान् गुडान् । दाडिमाम्बुपयःपक्षिरसतोयसुरासवान् ॥ २६ ॥ १६.२६ व् मधुत्रिपलसंयुक्तं तान् भक्षयित्वानुपिबेन्निर्अन्नो भुक्त एव वा । पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरम् ॥ २७ ॥ हृन्मूत्रपूतिशुक्राग्निदोषशोषगरोदरम् । कासासृग्दरपित्तासृक्शोफगुल्मगलामयान् ॥ २८ ॥ मेहवर्ध्मभ्रमान् हन्युः सर्वदोषहराः शिवाः । द्राक्षाप्रस्थं कणाप्रस्थं शर्करार्धतुलां तथा ॥ २९ ॥ द्विपलं मधुकं शुण्ठीं त्वक्क्षीरीं च विचूर्णितम् । धात्रीफलरसद्रोणे तत्क्षिप्त्वा लेहवत्पचेत् ॥ ३० ॥ शीतान्मधुप्रस्थयुताद्लिह्यात्पाणितलं ततः । हलीमकं पाण्डुरोगं कामलां च नियच्छति ॥ ३१ ॥ कनीयःपञ्चमूलाम्बु शस्यते पानभोजने । पाण्डूनां कामलार्तानां मृद्वीकामलकाद्रसः ॥ ३२ ॥ इति सामान्यतः प्रोक्तं पाण्डुरोगे भिषग्जितम् । विकल्प्य योज्यं विदुषा पृथग्दोषबलं प्रति ॥ ३३ ॥ १६.३३ व् पाण्डुरोगभिषग्जितम् स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके । श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सांनिपातिके ॥ ३४ ॥ १६.३४ व् श्लैष्मिके कटुतीक्ष्णोष्णं १६.३४ व् विमिश्रं संनिपातजे मृदं निर्यापयेत्कायात्तीक्ष्णैः संशोधनैः पुरः । बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥ ३५ ॥ १६.३५ व् मृदं निर्वापयेत्कायात् १६.३५ व् शुद्धे कोष्ठे नियोजयेत् व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम् । मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ॥ ३६ ॥ वृश्चिकाली च भार्गी च सक्षीरैस्तैः शृतं घृतम् । सर्वान् प्रशमयत्याशु विकारान्मृत्तिकाकृतान् ॥ ३७ ॥ तद्वत्केसरयष्ट्य्आह्वपिप्पलीक्षीरशाद्वलैः । मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम् ॥ ३८ ॥ वेल्लाग्निनिम्बप्रसवैः पाठया मूर्वयाथवा । मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम् ॥ ३९ ॥ कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत् । पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः ॥ ४० ॥ प्रस्थः सिद्धो घृताद्गुल्मकामलापाण्डुरोगनुत् । आरग्वधं रसेनेक्षोर्विदार्य्आमलकस्य वा ॥ ४१ ॥ सत्र्य्ऊषणं बिल्वमात्रं पाययेत्कामलापहम् । पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा ॥ ४२ ॥ १६.४२ व् द्विगुणं शीतवारिणा कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा । त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥ ४३ ॥ प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत् । निशागैरिकधात्रीभिः कामलापहमञ्जनम् ॥ ४४ ॥ १६.४४ व् शिलागैरिकधात्रीभिः तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम् । कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत् ॥ ४५ ॥ रूक्षशीतगुरुस्वादुव्यायामबलनिग्रहैः । कफसंमूर्छितो वायुर्यदा पित्तं बहिः क्षिपेत् ॥ ४६ ॥ हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चास्तदा नरः । भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च ॥ ४७ ॥ दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः । क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते ॥ ४८ ॥ रसैस्तं रूक्षकट्व्अम्लैः शिखितित्तिरिदक्षजैः । शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत् ॥ ४९ ॥ भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते । सबीजपूरकरसं लिह्याद्व्योषं तथाशयम् ॥ ५० ॥ स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते । वायुश्च याति प्रशमं सहाटोपाद्य्उपद्रवैः ॥ ५१ ॥ निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः । गोमूत्रेण पिबेत्कुम्भकामलायां शिलाजतु ॥ ५२ ॥ मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम् । गुडूचीस्वरसक्षीरसाधितेन हलीमकी ॥ ५३ ॥ महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु । त्रिवृतां तद्विरिक्तोऽद्यात्स्वादु पित्तानिलापहम् ॥ ५४ ॥ द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च । यापनान् क्षीरवस्तींश्च शीलयेत्सानुवासनान् ॥ ५५ ॥ मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये । कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम् ॥ ५६ ॥ १६.५६ व् कासिकं वाभयालेहं पयसा च प्रयुञ्जीत यथादोषं यथाबलम् । पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम् ॥ ५७ ॥ अयस्तिलत्र्य्ऊषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् । तैर्मोदकः क्षौद्रयुतोऽनुतक्रः पाण्ड्व्आमये दूरगतेऽपि शस्तः ॥ ५७+१ ॥ Cइकित्सास्थान सर्वत्र सर्वाङ्गसरे दोषजे श्वयथौ पुरा । सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत् ॥ १ ॥ नागरातिविषादारुविडङ्गेन्द्रयवोषणम् । अथवा विजयाशुण्ठीदेवदारुपुनर्नवम् ॥ २ ॥ नवायसं वा दोषाढ्यः शुद्ध्यै मूत्रहरीतकीः । वराक्वाथेन कटुकाकुम्भायस्त्र्य्ऊषणानि च ॥ ३ ॥ १७.३ व् शुद्ध्यै मूत्रहरीतकीम् अथवा गुग्गुलुं तद्वज्जतु वा शैलसंभवम् । मन्दाग्निः शीलयेदामगुरुभिन्नविबन्धविट् ॥ ४ ॥ तक्रं सौवर्चलव्योषक्षौद्रयुक्तं गुडाभयाम् । तक्रानुपानामथवा तद्वद्वा गुडनागरम् ॥ ५ ॥ आर्द्रकं वा समगुडं प्रकुञ्चार्धविवर्धितम् । परं पञ्चपलं मासं यूषक्षीररसाशनः ॥ ६ ॥ गुल्मोदरार्शःश्वयथुप्रमेहाञ्छ्वासप्रतिश्यालसकाविपाकान् । सकामलाशोषमनोविकारान् कासं कफं चैव जयेत्प्रयोगः ॥ ७ ॥ घृतमार्द्रकनागरस्य कल्कस्वरसाभ्यां पयसा च साधयित्वा । श्वयथुक्षवथूदराग्निसादैरभिभूतोऽपि पिबन् भवत्यरोगः ॥ ८ ॥ रसस्तथैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसान्नमद्यात् । शिलाह्वयं वा त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य ॥ ८+१ ॥ पुनर्नवानिम्बपटोलशुण्ठी तिक्तामृतादार्व्य्अभयाकषायः । सर्वाङ्गशोफोदरकासशूलश्वासान्वितं पाण्डुगदं च हन्ति ॥ ८+२ ॥ निर्आमो बद्धशमलः पिबेच्छ्वयथुपीडितः । त्रिकटुत्रिवृतादन्तीचित्रकैः साधितं पयः ॥ ९ ॥ मूत्रं गोर्वा महिष्या वा सक्षीरं क्षीरभोजनः । सप्ताहं मासमथवा स्यादुष्ट्रक्षीरवर्तनः ॥ १० ॥ १७.१० व् स्यादुष्ट्रीक्षीरवर्तनः यवानकं यवक्षारं यवानीं पञ्चकोलकम् । मरिचं दाडिमं पाठां धानकामम्लवेतसम् ॥ ११ ॥ बालबिल्वं च कर्षांशं साधयेत्सलिलाढके । तेन पक्वो घृतप्रस्थः शोफार्शोगुल्ममेहहा ॥ १२ ॥ दध्नश्चित्रकगर्भाद्वा घृतं तत्तक्रसंयुतम् । पक्वं सचित्रकं तद्वद्गुणैर्युञ्ज्याच्च कालवित् ॥ १३ ॥ धान्वन्तरं महातिक्तं कल्याणमभयाघृतम् । दशमूलकषायस्य कंसे पथ्याशतं पचेत् ॥ १४ ॥ दत्त्वा गुडतुलां तस्मिन् लेहे दद्याद्विचूर्णितम् । त्रिजातकं त्रिकटुकं किञ्चिच्च यवशूकजम् ॥ १५ ॥ प्रस्थार्धं च हिमे क्षौद्रात्तन्निहन्त्युपयोजितम् ॥ १६ ब् ॥ प्रवृद्धशोफज्वरमेहगुल्मकार्श्यामवाताम्लकरक्तपित्तम् ॥ १६ द् ॥ वैवर्ण्यमूत्रानिलशुक्रदोषश्वासारुचिप्लीहगरोदरं च ॥ १६ f ॥ पुराणयवशाल्य्अन्नं दशमूलाम्बुसाधितम् ॥ १७ ब् ॥ अल्पमल्पपटुस्नेहं भोजनं श्वयथोर्हितम् । क्षारव्योषान्वितैर्मौद्गैः कौलत्थैः सकणै रसैः ॥ १८ ॥ १७.१८ व् भोजनं श्वयथौ हितम् तथा जाङ्गलजैः कूर्मगोधाशल्यकजैरपि । अन्अम्लं मथितं पाने मद्यान्यौषधवन्ति च ॥ १९ ॥ अजाजीशठीजिवन्तीकारवीपौष्कराग्निकैः । बिल्वमध्ययवक्षारवृक्षाम्लैर्बदरोन्मितैः ॥ २० ॥ कृता पेयाज्यतैलाभ्यां युक्तिभृष्टा परं हिता । शोफातीसारहृद्रोगगुल्मार्शोऽल्पाग्निमेहिनाम् ॥ २१ ॥ गुणैस्तद्वच्च पाठायाः पञ्चकोलेन साधिता । शैलेयकुष्ठस्थौणेयरेणुकागुरुपद्मकैः ॥ २२ ॥ श्रीवेष्टकनखस्पृक्कादेवदारुप्रियङ्गुभिः । मांसीमागधिकावन्यधान्यध्यामकवालकैः ॥ २३ ॥ चतुर्जातकतालीशमुस्तागन्धपलाशकैः । कुर्यादभ्यञ्जनं तैलं लेपं स्नानाय तूदकम् ॥ २४ ॥ स्नानं वा निम्बवर्षाभूनक्तमालार्कवारिणा । एकाङ्गशोफे वर्षाभूकरवीरककिंशुकैः ॥ २५ ॥ विशालात्रिफलालोध्रनलिकादेवदारुभिः । हिंस्राकोशातकीमाद्रीतालपर्णीजयन्तिभिः ॥ २६ ॥ स्थूलकाकादनीशालनाकुलीवृषपर्णिभिः । वृद्ध्यर्द्धिहस्तिकर्णैश्च सुखोष्णैर्लेपनं हितम् ॥ २७ ॥ अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत् । तैलमेरण्डजं वातविड्विबन्धे तदेव तु ॥ २८ ॥ प्राग्भक्तं पयसा युक्तं रसैर्वा कारयेत्तथा । स्वेदाभ्यङ्गान् समीरघ्नान् लेपमेकाङ्गगे पुनः ॥ २९ ॥ मातुलुङ्गाग्निमन्थेन शुण्ठीहिंस्रामराह्वयैः । पैत्ते तिक्तं पिबेत्सर्पिर्न्यग्रोधाद्येन वा शृतम् ॥ ३० ॥ क्षीरं तृड्दाहमोहेषु लेपाभ्यङ्गाश्च शीतलाः । पटोलमूलत्रायन्तीयष्ट्य्आह्वकटुकाभयाः ॥ ३१ ॥ १७.३१ व् पटोलमूर्वात्रायन्ती दारु दार्वी हिमं दन्ती विशाला निचुलं कणा । तैः क्वाथः सघृतः पीतो हन्त्यन्तस्तापतृड्भ्रमान् ॥ ३२ ॥ १७.३२ व् तत्क्वाथः सघृतः पीतो ससंनिपातवीसर्पशोफदाहविषज्वरान् । आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत् ॥ ३३ ॥ १७.३३ व् शोफदाहमदज्वरान् स्रोतोविबन्धे मन्देऽग्नावरुचौ स्तिमिताशयः । क्षारचूर्णासवारिष्टमूत्रतक्राणि शीलयेत् ॥ ३४ ॥ कृष्णापुराणपिण्याकशिग्रुत्वक्सिकतातसीः । प्रलेपोन्मर्दने युञ्ज्यात्सुखोष्णा मूत्रकल्किताः ॥ ३५ ॥ स्नानं मूत्राम्भसी सिद्धे कुष्ठतर्कारिचित्रकैः । कुलत्थनागराभ्यां वा चण्डागुरु विलेपने ॥ ३६ ॥ कालाजशृङ्गीसरलबस्तगन्धाहयाह्वयाः । एकैषीका च लेपः स्याच्छ्वयथावेकगात्रगे ॥ ३७ ॥ यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः । शोफमारुष्करं हन्ति वृन्तैः शालदलस्य वा ॥ ३७+१ ॥ यथादोषं यथासन्नं शुद्धिं रक्तावसेचनम् । कुर्वीत मिश्रदोषे तु दोषोद्रेकबलात्क्रियाम् ॥ ३८ ॥ अजाजिपाठाघनपञ्चकोलव्याघ्रीरजन्यः सुखतोयपीताः । शोफं त्रिदोषं चिरजं प्रवृद्धं निघ्नन्ति भूनिम्बमहौषधे च ॥ ३९ ॥ अमृताद्वितयं शिवातिका सुरकाष्ठं सपुरं सगोजलम् । श्वयथूदरकुष्ठपाण्डुताकृमिमेहोर्ध्वकफानिलापहम् ॥ ४० ॥ इति निजमधिकृत्य पथ्यमुक्तं क्षतजनिते क्षतजं विशोधनीयम् । स्रुतिहिमघृतलेपसेकरेकैर्विषजनिते विषजिच्च शोफ इष्टम् ॥ ४१ ॥ ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नम् ॥ ४२ ॥ गौडं पिष्टान्नं दधि सलवणं विज्जलं मद्यमम्लम् ॥ ४२ ॥ १७.४२ व् गौडं पिष्टान्नं दधि सलवणं निर्जलं मद्यमम्लम् धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि ॥ ४२ ॥ स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च ॥ ४२ ॥ Cइकित्सास्थान आदावेव विसर्पेषु हितं लङ्घनरूक्षणम् । रक्तावसेको वमनं विरेकः स्नेहनं न तु ॥ १ ॥ प्रच्छर्दनं विसर्पघ्नं सयष्टीन्द्रयवं फलम् । पटोलपिप्पलीनिम्बपल्लवैर्वा समन्वितम् ॥ २ ॥ रसेन युक्तं त्रायन्त्या द्राक्षायास्त्रैफलेन वा । विरेचनं त्रिवृच्चूर्णं पयसा सर्पिषाथवा ॥ ३ ॥ योज्यं कोष्ठगते दोषे विशेषेण विशोधनम् । अविशोध्यस्य दोषेऽल्पे शमनं चन्दनोत्पलम् ॥ ४ ॥ मुस्तनिम्बपटोलं वा पटोलादिकमेव वा । शारिवामलकोशीरमुस्तं वा क्वथितं जले ॥ ५ ॥ दुरालभां पर्पटकं गुडूचीं विश्वभेषजम् । पाक्यं शीतकषायं वा तृष्णाविसर्पवान् पिबेत् ॥ ६ ॥ दार्वीपटोलकटुकामसूरत्रिफलास्तथा । सनिम्बयष्टीत्रायन्तीः क्वथिता घृतमूर्छिताः ॥ ७ ॥ अमृतवृषपटोलं मुस्तकं सप्तपर्णम् ॥ ७+१ ॥ खदिरमसितवेत्रं निम्बपत्त्रं हरिद्रे ॥ ७+१ ॥ विविधविषविसर्पान् कुष्ठविस्फोटकण्डूर् ॥ ७+१ ॥ अपनयति मसूरीं शीतपित्तं ज्वरं च ॥ ७+१ ॥ शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत् । त्वङ्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते ॥ ८ ॥ निर्आमे श्लेष्मणि क्षीणे वातपित्तोत्तरे हितम् । घृतं तिक्तं महातिक्तं शृतं वा त्रायमाणया ॥ ९ ॥ निर्हृतेऽस्रे विशुद्धेऽन्तर्दोषे त्वङ्मांससंधिगे । बहिःक्रियाः प्रदेहाद्याः सद्यो विसर्पशान्तये ॥ १० ॥ शताह्वामुस्तवाराहीवंशार्तगलधान्यकम् । सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ॥ ११ ॥ १८.११ व् कुष्ठं वालेपनं चले न्यग्रोधादिगणः पित्ते तथा पद्मोत्पलादिकम् । न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः ॥ १२ ॥ बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः । पद्मिनीकर्दमः शीतः पिष्टं मौक्तिकमेव वा ॥ १३ ॥ शङ्खः प्रवालं शुक्तिर्वा गैरिकं वा घृतान्वितम् । त्रिफलापद्मकोशीरसमङ्गाकरवीरकम् ॥ १४ ॥ १८.१४ व् समङ्गाकरवीरजम् नलमूलान्यनन्ता च लेपः श्लेष्मविसर्पहा । धवसप्ताह्वखदिरदेवदारुकुरण्टकम् ॥ १५ ॥ समुस्तारग्वधं लेपो वर्गो वा वरुणादिकः । आरग्वधस्य पत्त्राणि त्वचः श्लेष्मातकोद्भवाः ॥ १६ ॥ इन्द्राणिशाकं काकाह्वा शिरीषकुसुमानि च । सेकव्रणाभ्यङ्गहविर्लेपचूर्णान् यथायथम् ॥ १७ ॥ १८.१७ व् इन्द्राणिशाककाकाह्वा १८.१७ व् शिरीषकुसुमानि च एतैरेवौषधैः कुर्याद्वायौ लेपा घृताधिकाः । कफस्थानगते सामे पित्तस्थानगतेऽथवा ॥ १८ ॥ अशीतोष्णा हिता रूक्षा रक्तपित्ते घृतान्विताः । अत्य्अर्थशीतास्तनवस्तनुवस्त्रान्तरास्थिताः ॥ १९ ॥ १८.१९ व् तनुवस्त्रान्तरस्थिताः योज्याः क्षणे क्षणेऽन्येऽन्ये मन्दवीर्यास्त एव च । संसृष्टदोषे संसृष्टमेतत्कर्म प्रशस्यते ॥ २० ॥ शतधौतघृतेनाग्निं प्रदिह्यात्केवलेन वा । सेचयेद्घृतमण्डेन शीतेन मधुकाम्बुना ॥ २१ ॥ सिताम्भसाम्भोदजलैः क्षीरेणेक्षुरसेन वा । पानलेपनसेकेषु महातिक्तं परं हितम् ॥ २२ ॥ १८.२२ व् सिताम्भसाम्भोजजलैः ग्रन्थ्य्आख्ये रक्तपित्तघ्नं कृत्वा सम्यग्यथोदितम् । कफानिलघ्नं कर्मेष्टं पिण्डस्वेदोपनाहनम् ॥ २३ ॥ ग्रन्थिविसर्पशूले तु तैलेनोष्णेन सेचयेत् । दशमूलविपक्वेन तद्वन्मूत्रैर्जलेन वा ॥ २४ ॥ सुखोष्णया प्रदिह्याद्वा पिष्टया कृष्णगन्धया । नक्तमालत्वचा शुष्कमूलकैः कलिनाथवा ॥ २५ ॥ दन्ती चित्रकमूलत्वक्सौधार्कपयसी गुडः । भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि ॥ २६ ॥ १८.२६ व् स्नुह्य्अर्कपयसी गुडः बहिर्मार्गाश्रितं ग्रन्थिं किं पुनः कफसंभवम् । दीर्घकालस्थितं ग्रन्थिमेभिर्भिन्द्याच्च भेषजैः ॥ २७ ॥ मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः । गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशार्करैः ॥ २८ ॥ १८.२८ व् गोधूमान्नैर्यवान्नैश्च १८.२८ व् ससीधुमधुशर्करैः सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः । त्रिफलायाः प्रयोगैश्च पिप्पल्याः क्षौद्रसंयुतैः ॥ २९ ॥ १८.२९ व् पिप्पलीक्षौद्रसंयुतैः देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च । मुस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च ॥ ३० ॥ धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः । तप्तायोहेमलवणपाषाणादिप्रपीडनैः ॥ ३१ ॥ आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बले स्थितः । ग्रन्थिः पाषाणकठिनो यदि नैवोपशाम्यति ॥ ३२ ॥ अथास्य दाहः क्षारेण शरैर्हेम्नापि वा हितः । पाकिभिः पाचयित्वा वा पाटयित्वा तमुद्धरेत् ॥ ३३ ॥ १८.३३ व् पाकिभिः पाचयित्वा च मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम् । पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम् ॥ ३४ ॥ प्रक्लिन्ने दाहपाकाभ्यां बाह्यान्तर्व्रणवत्क्रिया । दार्वीविडङ्गकम्पिल्लैः सिद्धं तैलं व्रणे हितम् ॥ ३५ ॥ दूर्वास्वरससिद्धं तु कफपित्तोत्तरे घृतम् । एकतः सर्वकर्माणि रक्तमोक्षणमेकतः ॥ ३६ ॥ विसर्पो न ह्यसंसृष्टः सऽस्रपित्तेन जायते । रक्तमेवाश्रयश्चास्य बहुशोऽस्रं हरेदतः ॥ ३७ ॥ न घृतं बहुदोषाय देयं यन्न विरेचनम् । तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत् ॥ ३८ ॥ Cइकित्सास्थान कुष्ठिनं स्नेहपानेन पूर्वं सर्वमुपाचरेत् । तत्र वातोत्तरे तैलं घृतं वा साधितं हितम् ॥ १ ॥ दशमूलामृतैरण्डशार्ङ्गष्टामेषशृङ्गिभिः । पटोलनिम्बकटुकादार्वीपाठादुरालभाः ॥ २ ॥ पर्पटं त्रायमाणां च पलांशं पाचयेदपाम् । द्व्य्आढकेऽष्टांशशेषेण तेन कर्षोन्मितैस्तथा ॥ ३ ॥ त्रायन्तीमुस्तभूनिम्बकलिङ्गकणचन्दनैः । सर्पिषो द्वादशपलं पचेत्तत्तिक्तकं जयेत् ॥ ४ ॥ पित्तकुष्ठपरीसर्पपिटिकादाहतृड्भ्रमान् । कण्डूपाण्ड्व्आमयान् गण्डान् दुष्टनाडीव्रणापचीः ॥ ५ ॥ विस्फोटविद्रधीगुल्मशोफोन्मादमदानपि । हृद्रोगतिमिरव्यङ्गग्रहणीश्वित्रकामलाः ॥ ६ ॥ भगन्दरमपस्मारमुदरं प्रदरं गरम् । अर्शोऽस्रपित्तमन्यांश्च सुकृच्छ्रान् पित्तजान् गदान् ॥ ७ ॥ सप्रच्छदः पर्पटकः शम्याकः कटुका वचा । त्रिफला पद्मकं पाठा रजन्यौ शारिवे कणे ॥ ८ ॥ निम्बचन्दनयष्ट्य्आह्वविशालेन्द्रयवामृताः । किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी ॥ ९ ॥ पटोलातिविषामुस्तात्रायन्तीधन्वयासकम् । तैर्जलेऽष्टगुणे सर्पिर्द्विगुणामलकीरसे ॥ १० ॥ सिद्धं तिक्तान्महातिक्तं गुणैरभ्यधिकं मतम् । कफोत्तरे घृतं सिद्धं निम्बसप्ताह्वचित्रकैः ॥ ११ ॥ कुष्ठोषणवचाशालप्रियालचतुरङ्गुलैः । सर्वेषु चारुष्करजं तौबरं सार्षपं पिबेत् ॥ १२ ॥ स्नेहं घृतं वा कृमिजित्पथ्याभल्लातकैः शृतम् । आरग्वधस्य मूलेन शतकृत्वः शृतं घृतम् ॥ १३ ॥ १९.१३ व् पथ्याभल्लातकशृतम् १९.१३ व् सप्तकृत्वः शृतं घृतम् पिबन् कुष्ठं जयत्याशु भजन् सखदिरं जलम् । एभिरेव यथास्वं च स्नेहैरभ्यञ्जनं हितम् ॥ १४ ॥ १९.१४ व् पिबेत्कुष्ठं जयत्याशु स्निग्धस्य शोधनं योज्यं विसर्पे यदुदाहृतम् । ललाटहस्तपादेषु सिराश्चास्य विमोक्षयेत् ॥ १५ ॥ प्रच्छानमल्पके कुष्ठे शृङ्गाद्याश्च यथायथम् । स्नेहैराप्याययेच्चैनं कुष्ठघ्नैरन्तरान्तरा ॥ १६ ॥ मुक्तरक्तविरिक्तस्य रिक्तकोष्ठस्य कुष्ठिनः । प्रभञ्जनस्तथा ह्यस्य न स्याद्देहप्रभञ्जनः ॥ १७ ॥ वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम् । सर्पिर्विसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति ॥ १८ ॥ त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः । सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या ॥ १९ ॥ पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च । कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात्कृच्छ्रांस्तन्महावज्रकाख्यम् ॥ २० ॥ दन्त्य्आढकमपां द्रोणे पक्त्वा तेन घृतं पचेत् । धामार्गवपले पीतं तदूर्ध्वाधो विशुद्धिकृत् ॥ २१ ॥ आवर्तकीतुलां द्रोणे पचेदष्टांशशेषितम् । तन्मूलैस्तत्र निर्यूहे घृतप्रस्थं विपाचयेत् ॥ २२ ॥ पीत्वा तदेकदिवसान्तरितं सुजीर्णे भुञ्जीत कोद्रवमसंस्कृतकाञ्जिकेन । कुष्ठं किलासमपचीं च विजेतुमिच्छनिच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च ॥ २३ ॥ १९.२३ व् भुञ्जीत कोद्रवसुसंस्कृतकाञ्जिकेन यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता । कुष्ठघ्नी समसर्पिर्वा सगायत्र्य्असनोदका ॥ २४ ॥ शालयो यवगोधूमाः कोरदूषाः प्रियङ्गवः । मुद्गा मसूरास्तुबरी तिक्तशाकानि जाङ्गलम् ॥ २५ ॥ वरापटोलखदिरनिम्बारुष्करयोजितम् । मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत् ॥ २६ ॥ अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम् । दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम् ॥ २७ ॥ पटोलमूलत्रिफलाविशालाः पृथक्त्रिभागापचितत्रिशाणाः । स्युस्त्रायमाणा कटुरोहिणी च भागार्धिके नागरपादयुक्ते ॥ २८ ॥ एतत्पलं जर्जरितं विपक्वं जले पिबेद्दोषविशोधनाय । जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्य्ओदनमाददीत ॥ २९ ॥ कुष्ठं किलासं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च । षड्रात्रयोगेन निहन्ति चैतधृद्वस्तिशूलं विषमज्वरं च ॥ ३० ॥ १९.३० व् षड्रात्रयोगेन निहन्ति चैष विडङ्गसारामलकाभयानां पलत्रयं त्रीणि पलानि कुम्भात् । गुडस्य च द्वादश मासमेष जितात्मनां हन्त्युपयुज्य्मानः ॥ ३१ ॥ कुष्ठश्वित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान् । सिद्धं योगं प्राह यक्षो मुमुक्षोर्भिक्षोः प्राणान्माणिभद्रः किलेमम् ॥ ३२ ॥ भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः । मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः ॥ ३३ ॥ सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम् । लिह्याद्दन्तीत्रिवृद्ब्राह्मीस्चूर्णिता मधुसर्पिषा ॥ ३४ ॥ कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम् । वराविडङ्गकृष्णा वा लिह्यात्तैलाज्यमाक्षिकैः ॥ ३५ ॥ १९.३५ व् कुष्ठमेहप्रतप्तानां काकोदुम्बरिकावेल्लनिम्बाब्दव्योषकल्कवान् । हन्ति वृक्षकनिर्यूहः पानात्सर्वांस्त्वग्आमयान् ॥ ३६ ॥ १९.३६ व् पानात्सर्वत्वग्आमयान् कुटजाग्निनिम्बनृपतरुखदिरासनसप्तपर्णनिर्यूहे । सिद्धा मधुघृतयुक्ताः कुष्ठघ्नीर्भक्षयेदभयाः ॥ ३७ ॥ दार्वीखदिरनिम्बानां त्वक्क्वाथः कुष्ठसूदनः ॥ ३७ªअब् ॥ निशोत्तमानिम्बपटोलमूलतिक्तावचालोहितयष्टिकाभिः । कृतः कषायः कफपित्तकुष्ठं सुसेवितो धर्म इवोच्छिनत्ति ॥ ३८ ॥ एभिरेव च शृतं घृतमुख्यं भेषजैर्जयति मारुतकुष्ठम् । कल्पयेत्खदिरनिम्बगुडूचीदेवदारुरजनीः पृथगेवम् ॥ ३९ ॥ पाठादार्वीवह्निघुणेष्टाकटुकाभिर् ॥ ४० ॥ मूत्रं युक्तं शक्रयवैश्चोष्णजलं वा ॥ ४० ॥ कुष्ठी पीत्वा मासमरुक्स्याद्गुदकीली ॥ ४० ॥ मेही शोफी पाण्डुरजीर्णी कृमिमांश्च ॥ ४० ॥ लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्ग ॥ ४१ ॥ १९.४१ व् लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्गं प्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम् ॥ ४१ ॥ १९.४१ व् प्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम् रक्ता निम्बं सुरतरु कृतं पञ्चमूल्यौ च चूर्णम् ॥ ४१ ॥ पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम् ॥ ४१ ॥ निशाकणानागरवेल्लतौबरं सवह्निताप्यं क्रमशो विवर्धितम् । गवाम्बुपीतं वटकीकृतं तथा निहन्ति कुष्ठानि सदारुणान्यपि ॥ ४२ ॥ त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता । गुटिका रसायनं कुष्ठजिच्च वृष्या च सप्तसमा ॥ ४३ ॥ १९.४३ व् गुटिका रसायनं स्यात् १९.४३ च् ंठहृच्च वृष्या च सप्तसमा १९.४३ व् कुष्ठजिच्च वृष्या च सप्तसमा चन्द्रशकलाग्निरजनीविडङ्गतुबरास्थ्य्अरुष्करत्रिफलाभिः । वटका गुडांशकॢप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः ॥ ४४ ॥ विडङ्गभल्लातकवाकुचीनां सद्वीपिवाराहिहरीतकीनाम् । सलाङ्गलीकृष्णतिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम् ॥ ४५ ॥ शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला । सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा ॥ ४६ ॥ १९.४६ व् शशाङ्कलेखा सविडङ्गमूला पथ्यातिलगुडैः पिण्डी कुष्ठं सारुष्करैर्जयेत् । गुडारुष्करजन्तुघ्नसोमराजीकृताथवा ॥ ४७ ॥ विडङ्गाद्रिजतुक्षौद्रसर्पिष्मत्खादिरं रजः । किटिभश्वित्रदद्रूघ्नं खादेन्मितहिताशनः ॥ ४८ ॥ सितातैलकृमिघ्नानि धात्र्य्अयोमलपिप्पलीः । लिहानः सर्वकुष्ठानि जयत्यतिगुरूण्यपि ॥ ४९ ॥ मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूले द्वे । सप्तच्छदनिम्बत्वक्सविशाला चित्रको मूर्वा ॥ ५० ॥ चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्व्अंशम् । नित्यं कुष्ठनिबर्हणमेतत्प्रायोगिकं खादन् ॥ ५१ ॥ श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि । वर्ध्मभगन्दरपिटिकाकण्डूकोठापचीर्हन्ति ॥ ५२ ॥ रसायनप्रयोगेण तुबरास्थीनि शीलयेत् । भल्लातकं वाकुचिकां वह्निमूलं शिलाह्वयम् ॥ ५३ ॥ इति दोषे विजितेऽन्तस्त्वक्स्थे शमनं बहिः प्रलेपादि हितम् । तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिमेति मलिने देहे ॥ ५४ ॥ स्थिरकठिनमण्डलानां कुष्ठानां पोटलैर्हितः स्वेदः । स्विन्नोत्सन्नं कुष्ठं शस्त्रैर्लिखितं प्रलेपनैर्लिम्पेत् ॥ ५५ ॥ येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु । तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ॥ ५६ ॥ लेपोऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च । पीतागदस्य कार्यो विषैः समन्त्रोऽगदैश्चानु ॥ ५७ ॥ १९.५७ व् विषैः समन्त्रागदैश्चानु स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि । घृष्टानि शुष्कगोमयफेनकशस्त्रैः प्रदेह्यानि ॥ ५८ ॥ मुस्ता त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः । सप्ताह्वकुष्ठफलिनीदार्व्यः सिद्धार्थकं स्नानम् ॥ ५९ ॥ एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः । त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः ॥ ६० ॥ करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम् । मूत्रे दर्वीलेपी क्वाथो लेपेन कुष्ठघ्नः ॥ ६१ ॥ श्वेतकरवीरमूलं कुटजकरञ्जात्फलं त्वचो दार्व्याः । सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः ॥ ६२ ॥ शैरीषी त्वक्पुष्पं कार्पास्या राजवृक्षपत्त्राणि । पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः ॥ ६३ ॥ व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रककुष्ठैः । कोलमात्रगुटिकार्धविषांशा श्वित्रकुष्ठहरणो वरलेपः ॥ ६४ ॥ निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः । ससर्षपं तुम्बुरुधान्यवन्यं चण्डा च चूर्णानि समानि कुर्यात् ॥ ६५ ॥ तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत । तथास्य कण्डूः पिटिकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ॥ ६६ ॥ १९.६६ व् तेनास्य कण्डूः पिटिकाः सकोठाः मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठलोध्राः । गन्धोपलः सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक् ॥ ६७ ॥ तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम् । दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ॥ ६८ ॥ स्नुग्गण्डे सर्षपात्कल्कः कुकूलानलपाचितः । लेपाद्विचर्चिकां हन्ति रागवेग इव त्रपाम् ॥ ६९ ॥ मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः । तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम् ॥ ७० ॥ गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः । श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः ॥ ७१ ॥ उभयहरिद्रासहितैश्चाक्रिकतैलेन मिश्रितैरेभिः । दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च ॥ ७२ ॥ मरिचं तमालपत्त्रं कुष्ठं समनःशिलं सकासीसम् । तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ॥ ७३ ॥ तेनालिप्तं सिध्मं सप्ताहाद्घर्मसेविनोऽपैति । मासान्नवं किलासं स्नानेन विना विशुद्धस्य ॥ ७४ ॥ मयूरकक्षारजले सप्तकृत्वः परिस्रुते । सिद्धं ज्योतिष्मतीतैलमभ्यङ्गात्सिध्मनाशनम् ॥ ७५ ॥ वायसजङ्घामूलं वमनीपत्त्राणि मूलकाद्बीजम् । तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः ॥ ७६ ॥ जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस्तुत्थम् । एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः ॥ ७७ ॥ देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता । चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च ॥ ७८ ॥ मूलं सप्ताह्वात्त्वक्शिरीषाश्वमारादर्कान्मालत्याश्चित्रकास्फोतनिम्बात् । बीजं कारञ्जं सार्षपं प्रापुनाटं श्रेष्ठा जन्तुघ्नं त्र्य्ऊषणं द्वे हरिद्रे ॥ ७९ ॥ तैलं तैलं साधितं तैः समूत्रैस्त्वग्दोषाणां दुष्टनाडीव्रणानाम् । अभ्यङ्गेन श्लेष्मवातोद्भवानां नाशायालं वज्रकं वज्रतुल्यम् ॥ ८० ॥ एरण्डतार्क्ष्यघननीपकदम्बभार्गी ॥ ८१ ॥ कम्पिल्लवेल्लफलिनीसुरवारुणीभिः ॥ ८१ ॥ निर्गुण्ड्य्अरुष्करसुराह्वसुवर्णदुग्धा ॥ ८१ ॥ श्रीवेष्टगुग्गुलुशिलापटुतालविश्वैः ॥ ८१ ॥ तुल्यस्नुग्अर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम् । अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम् ॥ ८२ ॥ कुष्ठाश्वमारभृङ्गार्कमूत्रस्नुक्क्षीरसैन्धवैः । तैलं सिद्धं विषापहमभ्यङ्गात्कुष्ठजित्परम् ॥ ८३ ॥ सिद्धं सिक्थकसिन्दूरपुरतुत्थकतार्क्ष्यजैः । कच्छूं विचर्चिकां चाशु कटुतैलं निबर्हति ॥ ८४ ॥ १९.८४ व् पुरतुत्थकतार्क्ष्यकैः १९.८४ व् पामां विचर्चिकां चाशु १९.८४ व् कटुतैलं नियच्छति लाक्षा व्योषं प्रापुनाटं च बीजं सश्रीवेष्टं कुष्ठसिद्धार्थकाश्च । तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम् ॥ ८५ ॥ चित्रकशोभाञ्जनकौ गुडूच्य्अपामार्गदेवदारूणि । खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च ॥ ८६ ॥ लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनां लेपाः । दधिमण्डयुताः पादैः षट्प्रोक्ता मारुतकफघ्नाः ॥ ८७ ॥ जलवाप्यलोहकेसरपत्त्रप्लवचन्दनमृणालानि । भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ॥ ८८ ॥ तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु । तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च ॥ ८९ ॥ क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्मदले । शीताः प्रदेहसेका व्यधनविरेकौ घृतं तिक्तम् ॥ ९० ॥ खदिरवृषनिम्बकुटजाः श्रेष्ठाकृमिजित्पटोलमधुपर्ण्यः । अन्तर्बहिः प्रयुक्ताः कृमिकुष्ठनुदः सगोमुत्राः ॥ ९१ ॥ प्रलेपोद्वर्तनस्नानपानभोजनकर्मणि । शीलितं खादिरं वारि सर्वत्वग्दोषनाशनम् ॥ ९१+१ ॥ वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ ९२ ॥ १९.९२ व् रक्तस्य विरेचनं चाग्र्यम् ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम् । संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम् ॥ ९३ ॥ दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने । स्नेहे च कालयुक्ते न कुष्ठमतिवर्तते साध्यम् ॥ ९४ ॥ बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् । दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु ॥ ९५ ॥ पक्षात्पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनान्यप्यधस्तात् । शुद्धिर्मूर्ध्नि स्यात्त्रिरात्रात्त्रिरात्रात्षष्ठे षष्ठे मास्यसृङ्मोक्षणं च ॥ ९६ ॥ १९.९६ व् षष्ठे षष्ठे मास्यसृङ्मोक्षणानि यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् ॥ ९७ ॥ कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ ॥ ९७ ॥ निःसंदेहं यात्यसाध्यत्वमेवम् ॥ ९७ ॥ तस्मात्कृत्स्नान्निर्हरेदस्य दोषान् ॥ ९७ ॥ व्रतदमयमसेवात्यागशीलाभियोगो ॥ ९८ ॥ द्विजसुरगुरुपूजा सर्वसत्त्वेषु मैत्री ॥ ९८ ॥ शिवशिवसुतताराभास्कराराधनानि ॥ ९८ ॥ १९.९८ व् जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति ॥ ९८ ॥ Cइकित्सास्थान कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम् । श्वित्रमतस्तच्छान्त्यै यतेत दीप्ते यथा भवने ॥ १ ॥ संशोधनं विशेषात्प्रयोजयेत्पूर्वमेव देहस्य । श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः ॥ २ ॥ तं पीत्वाभ्यक्ततनुर्यथाबलं सूर्यपादसंतापम् । सेवेत विरिक्ततनुर्त्र्य्अहं पिपासुः पिबेत्पेयाम् ॥ ३ ॥ श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् । स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत्त्रिदिनम् ॥ ४ ॥ २०.४ व् प्रातः प्रातः पिबेत्पक्षम् मलयूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य । पालाशं वा क्षारं यथाबलं फाणितोपेतम् ॥ ५ ॥ फल्ग्व्अक्षवृक्षवल्कलनिर्यूहेणेन्दुराजिकाकल्कम् । पीत्वोष्णस्थितस्य जाते स्फोटे तक्रेण भोजनं निर्लवणम् ॥ ६ ॥ गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे स्थापितं क्षौद्रमिश्रम् । पक्षादूर्ध्वं श्वित्रिणा पेयमेतत्कार्यं चास्मै कुष्ठदिष्टं विधानम् ॥ ७ ॥ २०.७ व् पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् मार्कवमथवा स्वादेद्भृष्टं तैलेन लोहपात्रस्थम् । बीजकशृतं च दुग्धं तदनु पिबेच्छ्वित्रनाशाय ॥ ८ ॥ पूतीकार्कव्याधिघातस्नुहीनां मूत्रे पिष्टाः पल्लवा जातिजाश्च । घ्नन्त्यालेपाच्छ्वित्रदुर्नामदद्रूपामाकोठान् दुष्टनाडीव्रणांश्च ॥ ९ ॥ द्वैपं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः । पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति ॥ १० ॥ २०.१० व् क्षारेणाक्तः श्वित्रमेको निहन्ति रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्नि च्छायायां शोषयेत्स्फोटहेतून् । एवं वारांस्त्रींस्तैस्ततः श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः ॥ ११ ॥ अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मषी । शिखिपित्तं तथा दग्धं ह्रीवेरं वा तद्आप्लुतम् ॥ १२ ॥ २०.१२ व् अक्षतैलकृतो लेपः २०.१२ व् अक्षतैलद्रुतो लेपः कुडवोऽवल्गुजबीजाद्धरितालचतुर्भागसंमिश्रः । मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे ॥ १३ ॥ क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण परिस्रुते च । द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजानाम् ॥ १४ ॥ २०.१४ व् क्षारे सुदग्धे गजलिण्डजे वा २०.१४ व् गजस्य मूत्रे च परिस्रुते च श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिम्पन् बहुशः प्रघृष्टम् । कुष्ठं मषं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम् ॥ १५ ॥ भल्लातकं द्वीपिसुधार्कमूलं गुञ्जाफलं त्र्य्ऊषणशङ्खचूर्णम् । तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा ॥ १६ ॥ २०.१६ व् भल्लातकद्वीपिसुधार्कमूल २०.१६ व् गुञ्जाफलत्र्य्ऊषणशङ्खचूर्णम् स्नुग्अर्कदुग्धे घनमायसस्थं शलाकया तद्विदधीत लेपम् । कुष्ठे किलासे तिलकालकेषु मषेषु दुर्नामसु चर्मकीले ॥ १७ ॥ शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम् । श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य ॥ १८ ॥ स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे । उत्क्लेशितकृमिकफे शर्वरीं तां सुखोषिते ॥ १९ ॥ सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि । तं कषायं कणागालकृमिजित्कल्कयोजितम् ॥ २० ॥ सतैलस्वर्जिकाक्षारं युञ्ज्याद्वस्तिं ततोऽहनि । तस्मिन्नेव निरूढं तं पाययेत विरेचनम् ॥ २१ ॥ त्रिवृत्कल्कं फलकणाकषायालोडितं ततः । ऊर्ध्वाधःशोधिते कुर्यात्पञ्चकोलयुतं क्रमम् ॥ २२ ॥ कटुतिक्तकषायाणां कषायैः परिषेचनम् । काले विडङ्गतैलेन ततस्तमनुवासयेत् ॥ २३ ॥ २०.२३ व् कषायैः परिषेचयेत् शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु । उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम् ॥ २४ ॥ २०.२४ व् अल्पस्नेहं च भोजयेत् विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः । पिबेत्सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम् ॥ २५ ॥ २०.२५ व् विडङ्गकृष्णामधुक २०.२५ व् पिबेत्सस्वर्जिकाक्षारां रसं शिरीषकिणिहीपारिभद्रककेम्बुकात् । पलाशबीजपत्तूरपूतिकाद्वा पृथक्पिबेत् ॥ २६ ॥ सक्षौद्रं सुरसादीन् वा लिह्यात्क्षौद्रयुतान् पृथक् । शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम् ॥ २७ ॥ कृमिमान्मधुना लिह्याद्भावितं वा वरारसैः । शिरोगतेषु कृमिषु चूर्णं प्रधमनं च तत् ॥ २८ ॥ आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः । पक्त्वा पूपलिकां खादेद्धान्याम्लं च पिबेदनु ॥ २९ ॥ २०.२९ व् आखुपर्णीकिसलयैः सपञ्चकोललवणमसान्द्रं तक्रमेव वा । नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः ॥ ३० ॥ २०.३० व् निम्बापामार्गनिर्गुण्डी विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत् । विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम् ॥ ३१ ॥ २०.३१ व् अर्धांशैरातपस्थितम् दिनमारुष्करं तैलं पाने वस्तौ च योजयेत् । सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत् ॥ ३२ ॥ पुरीषजेषु सुतरां दद्याद्वस्तिविरेचने । शिरोविरेकं वमनं शमनं कफजन्मसु ॥ ३३ ॥ रक्तजानां प्रतीकारं कुर्यात्कुष्ठचिकित्सितात् । इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु ॥ ३४ ॥ क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति । समासतोऽम्लान्मधुरान् रसांश्च कृमीञ्जिहासुः परिवर्जयेत ॥ ३५ ॥ Cइकित्सास्थान केवलं निर्उपस्तम्भमादौ स्नेहैरुपाचरेत् । वायुं सर्पिर्वसामज्जतैलपानैर्नरं ततः ॥ १ ॥ स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत्पुनः । यूषैर्ग्राम्यौदकानूपरसैर्वा स्नेहसंयुतैः ॥ २ ॥ पायसैः कृशरैः साम्ललवणैः सानुवासनैः । नावनैस्तर्पणैश्चान्नैः सुस्निग्धैः स्वेदयेत्ततः ॥ ३ ॥ स्व्अभ्यक्तं स्नेहसंयुक्तैः शङ्कराद्यैः पुनः पुनः । स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धं सवेदनम् ॥ ४ ॥ २१.४ व् स्नेहाक्तस्विन्नमङ्गं तु यथेष्टमानामयितुं सुखमेव हि शक्यते । शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः ॥ ५ ॥ २१.५ व् स्नेहस्वेदोपनाहनैः शक्यं कर्मण्यतां नेतुं किमु गात्राणि जीवताम् । हर्षतोदरुग्आयामशोफस्तम्भग्रहादयः ॥ ६ ॥ स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते । स्नेहश्च धातून् संशुष्कान् पुष्णात्याशूपयोजितः ॥ ७ ॥ २१.७ व् पुष्णात्याशु प्रयोजितः बलमग्निबलं पुष्टिं प्राणांश्चास्याभिवर्धयेत् । असकृत्तं पुनः स्नेहैः स्वेदैश्च प्रतिपादयेत् ॥ ८ ॥ २१.८ व् प्राणं चास्याभिवर्धयेत् तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः । यद्येतेन सदोषत्वात्कर्मणा न प्रशाम्यति ॥ ९ ॥ मृदुभिः स्नेहसंयुक्तैर्भेषजैस्तं विशोधयेत् । घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा ॥ १० ॥ पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम् । स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ॥ ११ ॥ स्रोतो बद्ध्वानिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् । दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत् ॥ १२ ॥ २१.१२ व् स्रोतो रुद्ध्वानिलं रुन्ध्यात् दीपनैः पाचनीयैर्वा भोज्यैर्वा तद्युतैर्नरम् । संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ ॥ १३ ॥ आमाशयगते वायौ वमितप्रतिभोजिते । सुखाम्बुना षड्धरणं वचादिं वा प्रयोजयेत् ॥ १४ ॥ २१.१४ व् सुखाम्बुना षट्चरणं संधुक्षितेऽग्नौ परतो विधिः केवलवातिकः । मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः ॥ १५ ॥ वस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः । कोष्ठगे क्षारचूर्णाद्या हिताः पाचनदीपनाः ॥ १६ ॥ हृत्स्थे पयः स्थिरासिद्धं शिरोवस्तिः शिरोगते । स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥ १७ ॥ स्वेदाभ्यङ्गनिवातानि हृद्यं चान्नं त्वग्आश्रिते । शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥ १८ ॥ २१.१८ व् स्वेदाभ्यङ्गानि शस्तानि विरेको मांसमेदःस्थे निरूहः शमनानि च । बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ॥ १९ ॥ प्रहर्षोऽन्नं च शुक्रस्थे बलशुक्रकरं हितम् । विबद्धमार्गं दृष्ट्वा तु शुक्रं दद्याद्विरेचनम् ॥ २० ॥ २१.२० व् बल्यं शुक्रकरं हितम् विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत्क्रियाम् । गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥ २१ ॥ २१.२१ व् विरिक्तप्रतिभुक्तस्य सिताकाश्मर्यमधुकैः सिद्धमुत्थापने पयः । स्नावसंधिसिराप्राप्ते स्नेहदाहोपनाहनम् ॥ २२ ॥ तैलं संकुचितेऽभ्यङ्गो माषसैन्धवसाधितम् । आगारधूमलवणतैलैर्लेपः स्रुतेऽसृजि ॥ २३ ॥ सुप्तेऽङ्गे वेष्टयुक्ते तु कर्तव्यमुपनाहनम् । अथापतानकेनार्तमस्रस्ताक्षमवेपनम् ॥ २४ ॥ अस्तब्धमेढ्रमस्वेदं बहिर्आयामवर्जितम् । अखट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥ २५ ॥ तत्र प्रागेव सुस्निग्धस्विन्नाङ्गे तीक्ष्णनावनम् । स्रोतोविशुद्धये युञ्ज्यादच्छपानं ततो घृतम् ॥ २६ ॥ विदार्य्आदिगणक्वाथदधिक्षीररसैः शृतम् । नातिमात्रं तथा वायुर्व्याप्नोति सहसैव वा ॥ २७ ॥ कुलत्थयवकोलानि भद्रदार्व्आदिकं गणम् । निःक्वाथ्यानूपमांसं च तेनाम्लैः पयसापि च ॥ २८ ॥ स्वादुस्कन्धप्रतीवापं महास्नेहं विपाचयेत् । सेकाभ्यङ्गावगाहान्नपाननस्यानुवासनैः ॥ २९ ॥ स हन्ति वातं ते ते च स्नेहस्वेदाः सुयोजिताः । वेगान्तरेषु मूर्धानमसकृच्चास्य रेचयेत् ॥ ३० ॥ अवपीडैः प्रधमनैस्तीक्ष्णैः श्लेष्मनिबर्हणैः । श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ॥ ३१ ॥ सौवर्चलाभयाव्योषसिद्धं सर्पिश्चलेऽधिके ॥ ३१ªअब् ॥ पलाष्टकं तिल्वकतो वरायाः प्रस्थं पलांशं गुरुपञ्चमूलम् । सैरण्डसिंहीत्रिवृतं घटेऽपां पक्त्वा पचेत्पादशृतेन तेन ॥ ३२ ॥ दध्नः पात्रे यावशूकात्त्रिबिल्वैः सर्पिःप्रस्थं हन्ति तत्सेव्यमानम् । दुष्टान् वातानेकसर्वाङ्गसंस्थान् योनिव्यापद्गुल्मवर्ध्मोदरं च ॥ ३३ ॥ २१.३३ व् दध्नः पात्रे यावशूकत्रिबिल्वैः विधिस्तिल्वकवज्ज्ञेयो रम्यकाशोकयोरपि ॥ ३४ ब् ॥ २१.३४ व् शम्याकाशोकयोरपि चिकित्सितमिदं कुर्याच्छुद्धवातापतानके । संसृष्टदोषे संसृष्टं चूर्णयित्वा कफान्विते ॥ ३५ ॥ तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम् । यवक्वाथाम्बुना पेयं हृत्पार्श्वार्त्य्अपतन्त्रके ॥ ३६ ॥ हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्लवेतसम् । पिबेद्वा श्लेष्मपवनहृद्रोगोक्तं च शस्यते ॥ ३७ ॥ आयामयोरर्दितवद्बाह्याभ्यन्तरयोः क्रिया । तैलद्रोण्यां च शयनमान्तरोऽत्र सुदुस्तरः ॥ ३८ ॥ विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः । प्रस्विद्यंश्च धनुःष्कम्भी दशरात्रं न जीवति ॥ ३९ ॥ २१.३९ व् प्रस्विद्यंश्च धनुःस्तम्भी वेगेष्वतो अन्यथा जीवेन्मन्देषु विनतो जडः । खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोऽथवा ॥ ४० ॥ २१.४० व् पङ्गुलो विकलोऽपि वा हनुस्रंसे हनू स्निग्धस्विन्नौ स्वस्थानमानयेत् । उन्नामयेच्च कुशलश्चिबुकं विवृत्ते मुखे ॥ ४१ ॥ नामयेत्संवृते शेषमेकायामवदाचरेत् । जिह्वास्तम्भे यथावस्थं कार्यं वातचिकित्सितम् ॥ ४२ ॥ वाग्ग्रहे कोष्णतोयेन वेतसाम्लं पिबेन्नरः । मातुलुङ्गरसं तद्वद्धिङ्गुसौवर्चलान्वितम् ॥ ४२+१ ॥ अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षितर्पणम् । सशोफे वमनं दाहरागयुक्ते सिराव्यधः ॥ ४३ ॥ नवनीतेन संयुक्तां खादेन्माषेण्डरीं नरः । दुर्वारमर्दितं हन्ति सप्ताहान्नात्र संशयः ॥ ४३+१ ॥ स्नेहनं स्नेहसंयुक्तं पक्षाघाते विरेचनम् । अवबाहौ हितं नस्यं स्नेहश्चोत्तरभक्तिकः ॥ ४४ ॥ माषबलाशुकशिम्बीकट्तृणरास्नाश्वगन्धोरुबूकाणाम् । क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः ॥ ४४.१+१ ॥ अपनयति पक्षवातं मन्यास्तम्भं सकर्णनादरुजम् । दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम् ॥ ४४.१+२ ॥ गुडमञ्जर्या खपुरं वृषभीमूलं च शिशिरजलपिष्टम् । नावनविधौ प्रयोजितमवबाहुकगलरुजार्तिहरम् ॥ ४४+१ ॥ दशमूलबलामाषक्वाथं तैलाज्यमिश्रितम् । सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामवबाहुके ॥ ४४+२ ॥ ऊरुस्तम्भे तु न स्नेहो न च संशोधनं हितम् । श्लेष्माममेदोबाहुल्याद्युक्त्या तत्क्षपणान्यतः ॥ ४५ ॥ २१.४५ व् ऊरुस्तम्भे न च स्नेहो कुर्याद्रूक्षोपचारश्च यवश्यामाककोद्रवाः । शाकैरलवणैः शस्ताः किञ्चित्तैलैर्जलैः शृतैः ॥ ४६ ॥ जाङ्गलैरघृतैर्मांसैर्मध्व्अम्भोऽरिष्टपायिनः । वत्सकादिर्हरिद्रादिर्वचादिर्वा ससैन्धवः ॥ ४७ ॥ आढ्यवाते सुखाम्भोभिः पेयः षड्धरणोऽथवा । लिह्यात्क्षौद्रेण वा श्रेष्ठाचव्यतिक्ताकणाघनात् ॥ ४८ ॥ २१.४८ व् आमवाते सुखाम्भोभिः २१.४८ व् पेयः षट्चरणोऽथवा २१.४८ व् चव्यतिक्ताकणाघनान् चित्रकेन्द्रयवाः पाठा कटुकातिविषा निशा । वातव्याधिप्रशमनो योगः षड्धरणाह्वयः ॥ ४८.१+१ ॥ कल्कं समधु वा चव्यपथ्याग्निसुरदारुजम् । मूत्रैर्वा शीलयेत्पथ्यां गुग्गुलुं गिरिसंभवम् ॥ ४९ ॥ व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम् । खादन् सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान् ॥ ५० ॥ शाम्यत्येवं कफाक्रान्तः समेदस्कः प्रभञ्जनः । क्षारमूत्रान्वितान् स्वेदान् सेकानुद्वर्तनानि च ॥ ५१ ॥ कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः । मूलैर्वाप्यर्कतर्कारीनिम्बजैः ससुराह्वयैः ॥ ५२ ॥ सक्षौद्रसर्षपापक्वलोष्टवल्मीकमृत्तिकैः । कफक्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥ ५३ ॥ स्थलान्युल्लङ्घयेन्नारीः शक्तितः परिशीलयेत् । स्थिरतोयं सरः क्षेमं प्रतिस्रोतो नदीं तरेत् ॥ ५४ ॥ श्लेष्ममेदःक्षये चात्र स्नेहादीनवचारयेत् । स्थानदूष्यादि चालोच्य कार्या शेषेष्वपि क्रिया ॥ ५५ ॥ २१.५५ व् स्थानं दूष्यादि चालोच्य बृहन्निम्बतरोर्मूलं वारिणा परिपेषितम् । संपीतं नाशयेत्क्षिप्रमसाध्यामपि गृध्रसीम् ॥ ५५.१+१ ॥ तूणीप्रतूण्योर्लवनं सघृतं क्षारहिङ्गु वा । रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके ॥ ५५.१+२ ॥ पिबेदेरण्डतैलं वा दहेत्सूचीभिरेव वा । साज्यैः सक्तुभिरभ्यक्तौ न चाक्षीरसमन्वितैः ॥ ५५.१+३ ॥ शाल्मलीत्वग्विलिप्तौ वा पादौ संतापमुद्गतः ॥ ५५.१+४ ब् ॥ सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम् । पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया ॥ ५६ ॥ रास्नामहौषधद्वीपिपिप्पलीशठिपौष्करम् । पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम् ॥ ५७ ॥ निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथक्दश पलान् विपचेद्घटेऽपाम् । अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः ॥ ५८ ॥ २१.५८ व् निम्बामृतावृषपटोलकरञ्जकानां पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिशिचव्यकुष्ठैः । तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्य्अरुष्करवचाकणमूलयुक्तैः ॥ ५९ ॥ मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । तत्सेवितं विधमति प्रबलं समीरं संध्य्अस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ ६० ॥ २१.६० व् तत्सेवितं प्रधमति प्रबलं समीरं नाडीव्रणार्बुदभगन्दरगण्डमालाजत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् । यक्ष्मारुचिश्वसनपीनसकासशोफहृत्पाण्डुरोगमदविद्रधिवातरक्तम् ॥ ६१ ॥ २१.६१ व् हृत्पार्श्वरोगमदविद्रधिवातरक्तम् रास्नाटरूषसुरदार्व्अमृताशतावर्य्एरण्डपुष्करधमासकशुण्ठिपथ्याः । निघ्नन्ति वातजरुजं खलु सश्वदंष्ट्राः शैलेयशठ्य्अतिविषाः क्वथिताः प्रयुक्ता ॥ ६१+१ ॥ बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् । तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते ॥ ६२ ॥ तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा । विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥ ६३ ॥ जीर्णं पिण्याकं पञ्चमूलं पृथक्च क्वाथ्यं क्वाथाभ्यामेकतस्तैलमाभ्याम् । क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुः श्लेष्मयुक्ता विशेषात् ॥ ६४ ॥ प्रसारिणीतुलाक्वाथे तैलप्रस्थं पयःसमम् । द्विमेदामिशिमञ्जिष्ठाकुष्ठरास्नाकुचन्दनैः ॥ ६५ ॥ जीवकर्षभकाकोलीयुगलामरदारुभिः । कल्कितैर्विपचेत्सर्वमारुतामयनाशनम् ॥ ६६ ॥ समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च । पलानि पञ्चाशदभीरुतश्च पादावशेषं विपचेद्वहेऽपाम् ॥ ६७ ॥ तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः । लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च ॥ ६८ ॥ तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्राञ्छीलितं हन्ति वातान् । कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसं योनिरोगान् ॥ ६९ ॥ २१.६९ व् तुल्यं क्षीरं पालिकैस्तैलपात्रं सहचरतुलायास्तु रसे तैलाढकं पचेत् । मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम् ॥ ७० ॥ अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात् । सैलानलदशैलेयशताह्वारक्तचन्दनात् ॥ ७१ ॥ २१.७१ व् स्थिराकुष्ठसुराह्वयान् २१.७१ व् शताह्वारक्तचन्दनान् सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं क्षिपेत् । भेडस्य संमतं तैलं तत्कृच्छ्राननिलामयान् ॥ ७२ ॥ वातकुण्डलिकोन्मादगुल्मवर्ध्मादिकाञ्जयेत् । बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम् ॥ ७३ ॥ जलाढकशते पक्त्वा शतभागस्थिते रसे । दधिमस्त्व्इक्षुनिर्यासशुक्तैस्तैलाढकं समैः ॥ ७४ ॥ पचेत्साजपयोऽर्धांशं कल्कैरेभिः पलोन्मितैः । शठीसरलदार्व्एलामञ्जिष्ठागुरुचन्दनैः ॥ ७५ ॥ पद्मकातिबलामुस्ताशूर्पपर्णीहरेणुभिः । यष्ट्य्आह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥ ७६ ॥ पलाशरसकस्तूरीनलिकाजातिकोशकैः । स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः ॥ ७७ ॥ २१.७७ व् जातिकाकट्फलाम्बुभिः त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः । लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः ॥ ७८ ॥ स्थौणेयतगरध्यामवचामदनकप्लवैः । सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते ॥ ७९ ॥ २१.७९ व् वचामदनपल्लवैः पत्त्रकल्कं ततः पूतं विधिना तत्प्रयोजितम् । कासं श्वासं ज्वरं छर्दिं मूर्छां गुल्मक्षतक्षयान् ॥ ८० ॥ प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत् । बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ॥ ८१ ॥ पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः । दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नारीः पुत्रभाजश्च कुर्युः ॥ ८२ ॥ २१.८२ व् वन्ध्या नारीः पुत्रभाजः प्रकुर्युः स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः । पित्तं वा दर्शयेद्रूपं वस्तिभिस्तं विनिर्जयेत् ॥ ८३ ॥ २१.८३ व् यदा पक्वाशयं स्थितः Cइकित्सास्थान वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् । अल्पाल्पं पालयन् वायुं यथादोषं यथाबलम् ॥ १ ॥ रुग्रागतोददाहेषु जलौकोभिर्विनिर्हरेत् । शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्दूयनान्वितम् ॥ २ ॥ प्रच्छानेन सिराभिर्वा देशाद्देशान्तरं व्रजत् । अङ्गग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ॥ ३ ॥ २२.३ व् अङ्गम्लानौ तु न स्राव्यं २२.३ व् रूक्षं वातोत्तरं च यत् गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान् । ग्लानिमन्यांश्च वातोत्थान् कुर्याद्वायुरसृक्क्षयात् ॥ ४ ॥ विरेच्यः स्नेहयित्वा तु स्नेहयुक्तैर्विरेचनैः । वातोत्तरे वातरक्ते पुराणं पाययेद्घृतम् ॥ ५ ॥ श्रावणीक्षीरकाकोलीक्षीरिणीजीवकैः समैः । सिद्धं सर्षभकैः सर्पिः सक्षीरं वातरक्तनुत् ॥ ६ ॥ द्राक्षामधूकवारिभ्यां सिद्धं वा ससितोपलम् । घृतं पिबेत्तथा क्षीरं गुडूचीस्वरसे शृतम् ॥ ७ ॥ तैलं पयः शर्करां च पाययेद्वा सुमूर्छितम् । बलाशतावरीरास्नादशमूलैः सपीलुभिः ॥ ८ ॥ श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः । धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम् ॥ ९ ॥ पैत्ते पक्त्वा वरीतिक्तापटोलत्रिफलामृताः । पिबेद्घृतं वा क्षीरं वा स्वादुतिक्तकसाधितम् ॥ १० ॥ क्षीरेणैरण्डतैलं च प्रयोगेण पिबेन्नरः । बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ॥ ११ ॥ कषायमभयानां वा पाययेद्घृतभर्जितम् । क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ॥ १२ ॥ निर्हरेद्वा मलं तस्य सघृतैः क्षीरवस्तिभिः । न हि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् ॥ १३ ॥ विशेषात्पायुपार्श्वोरुपर्वास्थिजठरार्तिषु । मुस्ताधात्रीहरिद्राणां पिबेत्क्वाथं कफोल्बणे ॥ १४ ॥ २२.१४ व् मुस्तद्राक्षाहरिद्राणां सक्षौद्रं त्रिफलाया वा गुडूचीं वा यथा तथा । यथार्हस्नेहपीतं च वामितं मृदु रूक्षयेत् ॥ १५ ॥ २२.१५ व् गुडूचीं वा यथाबलम् २२.१५ व् गुडूचीं वा यथायथम् त्रिफलाव्योषपत्त्रैलात्वक्क्षीरीचित्रकं वचाम् । विडङ्गं पिप्पलीमूलं रोमशां वृषकं त्वचम् ॥ १६ ॥ २२.१६ व् रोमशं वृषकं त्वचम् ऋद्धिं लाङ्गलिकीं चव्यं समभागानि पेषयेत् । कल्ये लिप्त्वायसीं पात्रीं मध्याह्ने भक्षयेदिदम् ॥ १७ ॥ वातास्रे सर्वदोषेऽपि परं शूलान्विते हितम् । कोकिलाक्षकनिर्यूहः पीतस्तच्छाकभोजिना ॥ १८ ॥ २२.१८ व् पीतस्तच्छाकभक्षिणा कृपाभ्यास इव क्रोधं वातरक्तं नियच्छति । पञ्चमूलस्य धात्र्या वा रसैर्लेलीतकीं वसाम् ॥ १९ ॥ खुडं सुरूढमप्यङ्गे ब्रह्मचारी पिबन् जयेत् । इत्याभ्यन्तरमुद्दिष्टं कर्म बाह्यमतः परम् ॥ २० ॥ त्रिफलाष्टपलं क्वाथ्य पादशेषं जलाढके । षोडशैव पलान्यत्र प्रक्षिपेच्छुद्धगुग्गुलोः ॥ २०.१+१ ॥ ततस्तस्मिन् घनीभूते कल्कीकृत्य द्विकार्षिकाः । पथ्याविडङ्गकटुका गुडूची पलसंमिता ॥ २०.१+२ ॥ कर्षांशे त्रिवृता दन्ती खादेदिष्टानुपानतः । विविधमपि वातरक्तं स्रुतशुष्कस्फुटितमपि हन्ति ॥ २०.१+३ ॥ व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुमेहमर्शांसि । अभिभूय जरादोषं करोति कैशोरकं कायम् ॥ २०.१+४ ॥ आरनालाढके तैलं पादसर्जरसं शृतम् । प्रभूते खजितं तोये ज्वरदाहार्तिनुत्परम् ॥ २१ ॥ समधूच्छिष्टमञ्जिष्ठं ससर्जरसशारिवम् । पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम् ॥ २२ ॥ दशमूलशृतं क्षीरं सद्यः शूलनिवारणम् । परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ॥ २३ ॥ स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत् । स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः ॥ २४ ॥ तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः । निःक्वाथैर्जीवनीयानां पञ्चमूलस्य वा लघोः ॥ २५ ॥ द्राक्षेक्षुरसमद्यानि दधिमस्त्व्अम्लकाञ्जिकम् । सेकार्थं तण्डुलक्षौद्रशर्कराम्भश्च शस्यते ॥ २६ ॥ प्रियाः प्रियंवदाः नार्याश्चन्दनार्द्रकरस्तनाः । स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥ २७ ॥ सरागे सरुजे दाहे रक्तं हृत्वा प्रलेपयेत् । प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः ॥ २८ ॥ सितोपलैरकासक्तुमसूरोशीरपद्मकैः । लेपो रुग्दाहवीसर्परागशोफनिबर्हणः ॥ २९ ॥ २२.२९ व् ससितोपलकासेक्षु २२.२९ व् मसूरैरकसक्तुभिः वातघ्नैः साधितः स्निग्धः कृशरो मुद्गपायसः । तिलसर्षपपिण्डैश्च शूलघ्नमुपनाहनम् ॥ ३० ॥ २२.३० व् तिलसर्षपपिण्डश्च औदकप्रसहानूपवेसवाराः सुसंस्कृताः । जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने ॥ ३१ ॥ २२.३१ व् जीवनीयौषधस्नेह स्तम्भतोदरुग्आयामशोफाङ्गग्रहनाशनाः । जीवनीयौषधैः सिद्धा सपयस्का वसापि वा ॥ ३२ ॥ घृतं सहचरान्मूलं जीवन्ती छागलं पयः । लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः ॥ ३३ ॥ क्षीरपिष्टक्षुमां लेपमेरण्डस्य फलानि वा । कुर्याच्छूलनिवृत्त्य्अर्थं शताह्वां वानिलेऽधिके ॥ ३४ ॥ २२.३४ व् क्षीरपिष्टामुमां लेपम् मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम् । सिद्धं समधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे ॥ ३५ ॥ २२.३५ व् मुस्तक्षारसितापक्वं २२.३५ व् सेकाभ्यङ्गः कफोत्तरे गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम् । प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे ॥ ३६ ॥ मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम् । मुहूर्तलिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरे ॥ ३७ ॥ उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः । विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् ॥ ३८ ॥ वातश्लेष्मोत्तरे कोष्णा लेपाद्यास्तत्र शीतलैः । विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ॥ ३९ ॥ पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः । उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः ॥ ४० ॥ मधुयष्ट्याः पलशतं कषाये पादशेषिते । तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः ॥ ४१ ॥ स्थिरातामलकीदूर्वापयस्याभीरुचन्दनैः । लोहहंसपदीमांसीद्विमेदामधुपर्णिभिः ॥ ४२ ॥ काकोलीक्षीरकाकोलीशतपुष्पर्द्धिपद्मकैः । जीवकर्षभजीवन्तीत्वक्पत्त्रनखवालकैः ॥ ४३ ॥ प्रपौण्डरीकमञ्जिष्ठाशारिवैन्द्रीवितुन्नकैः । चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत् ॥ ४४ ॥ २२.४४ व् चतुष्प्रयोगात्तद्धन्ति २२.४४ व् तैलं मारुतशोणितम् सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा । वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत् ॥ ४४+१ ॥ बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत् । सहस्रशतपाकं तद्वातासृग्वातरोगनुत् ॥ ४५ ॥ रसायनं मुख्यतममिन्द्रियाणां प्रसादनम् । जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् ॥ ४६ ॥ कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा । अतिवृद्ध्यानिले शस्तं नादौ स्नेहनबृंहणम् ॥ ४७ ॥ कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः । भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम् ॥ ४८ ॥ प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम् । यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम् ॥ ४९ ॥ नीते निर्आमतां सामे स्वेदलङ्घनपाचनैः । रूक्षैश्चालेपसेकाद्यैः कुर्यात्केवलवातनुत् ॥ ५० ॥ शोषाक्षेपणसंकोचस्तम्भस्वपनकम्पनम् । हनुस्रंसोऽर्दितं खाञ्ज्यं पाङ्गुल्यं खुडवातता ॥ ५१ ॥ संधिच्युतिः पक्षवधो मेदोमज्जास्थिगा गदाः । एते स्थानस्य गाम्भीर्यात्सिध्येयुर्यत्नतो नवाः ॥ ५२ ॥ तस्माज्जयेन्नवानेतान् बलिनो निर्उपद्रवान् । वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम् ॥ ५३ ॥ व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत् । धन्वमांसं यवाः शालिर्विरेकः क्षीरवान्मृदुः ॥ ५४ ॥ सक्षीरा वस्तयः क्षीरं पञ्चमूलबलाशृतम् । कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः ॥ ५५ ॥ २२.५५ व् कालेऽनुवासनं तैलं २२.५५ व् मधुरौषधसाधितम् यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम् । पञ्चमूलकषायेण वारिणा शीतलेन वा ॥ ५६ ॥ २२.५६ व् वारिणा शीतलेन च कफावृते यवान्नानि जाङ्गला मृगपक्षिणः । स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ॥ ५७ ॥ पुराणसर्पिस्तैलं च तिलसर्षपजं हितम् । संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ॥ ५८ ॥ कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम् । स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम् ॥ ५९ ॥ २२.५९ व् स्नेहो मांसावृते हितः प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम् । महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसावृते ॥ ६० ॥ अन्नावृते पाचनीयं वमनं दीपनं लघु । मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरवस्तयः ॥ ६१ ॥ २२.६१ व् स्वेदा उत्तरवस्तयः एरण्डतैलं वर्चःस्थे वस्तिस्नेहाश्च भेदिनः । कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ॥ ६२ ॥ सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि । अन्अभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम् ॥ ६३ ॥ २२.६३ व् सर्वस्थानावृते चाशु २२.६३ व् सर्वस्थानावृते त्वाशु यापना वस्तयः प्रायो मधुराः सानुवासनाः । प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ॥ ६४ ॥ २२.६४ व् मृदु कायविरेचनम् रसायनानां सर्वेषामुपयोगः प्रशस्यते । शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः ॥ ६५ ॥ लेहो वा भार्गवस्तद्वदेकादशसिताशितः । अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम् ॥ ६६ ॥ २२.६६ व् एकादशसितासितः वातानुलोमनं कार्यं मूत्राशयविशोधनम् । इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम् ॥ ६७ ॥ प्राणादीनां भिषक्कुर्याद्वितर्क्य स्वयमेव तत् । उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ॥ ६८ ॥ समानं शमयेद्विद्वांस्त्रिधा व्यानं तु योजयेत् । प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः ॥ ६९ ॥ २२.६९ व् त्रिधा व्यानं च योजयेत् स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान् । सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम् ॥ ७० ॥ रसायनविधानेन लशुनो हन्ति शीलितः । पित्तावृते पित्तहरं मरुतश्चानुलोमनम् ॥ ७१ ॥ रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्च भेषजम् । रक्तपित्तानिलहरं विविधं च रसायनम् ॥ ७२ ॥ यथानिदानं निर्दिष्टमिति सम्यक्चिकित्सितम् । आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात् ॥ ७३ ॥ २२.७३ व् एतत्सद्योऽर्तिनाशनम् चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम् । भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम् ॥ ७४ ॥ Kअल्पस्थान वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने । नित्यमन्यस्य तु व्याधिविशेषेण विशिष्टता ॥ १ ॥ फलानि नातिपाण्डूनि न चातिहरितान्यपि । आदायाह्नि प्रशतर्क्षे मध्ये ग्रीष्मवसन्तयोः ॥ २ ॥ १.२ व् फलानि तानि पाण्डूनि १.२ व् न चातिहरितानि च १.२ व् न चातिहरितान्य् अथ प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा बद्ध्वा प्रलेपयेत् । गोमयेनानु मुत्तोलीं धान्यमध्ये निधापयेत् ॥ ३ ॥ १.३ व् प्रमृज्य कुशपूतोल्यां १.३ व् गोमयेनानु पूतोलीं मृदुभूतानि मध्व्इष्टगन्धानि कुशवेष्टनात् । निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे ॥ ४ ॥ १.४ व् मृदुभूतानि मद्येष्ट १.४ व् निष्कृष्टानि गताष्टाहे १.४ व् निष्कृष्य निर्गतेऽष्टाहे १.४ व् निष्कृष्य विगतेऽष्टाहे तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः । दधिमध्व्आज्यपललैर्मृदित्वा शोषयेत्पुनः ॥ ५ ॥ १.५ व् दधिमध्व्आम्बुपललैर् ततः सुगुप्तं संस्थाप्य कार्यकाले प्रयोजयेत् । अथादाय ततो मात्रां जर्जरीकृत्य वासयेत् ॥ ६ ॥ शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले । कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा ॥ ७ ॥ १.७ व् जीमूतकस्य बिम्ब्या वा शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्य्उदकेऽथवा । ततः पिबेत्कषायं तं प्रातर्मृदितगालितम् ॥ ८ ॥ १.८ व् प्रत्यक्पुष्पोदकेऽथवा १.८ व् प्रत्यक्पुष्पोदकेन वा सूत्रोदितेन विधिना साधु तेन तथा वमेत् । श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्रधीषु च ॥ ९ ॥ १.९ व् साधु तेन यथा वमेत् १.९ व् साधु तेन ततो वमेत् प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम् । फलपिप्पलीचूर्णं वा क्वाथेन स्वेन भावितम् ॥ १० ॥ त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा । पिबेज्ज्वरारुचिष्ठेवग्रन्थ्य्अपच्य्अर्बुदोदरी ॥ ११ ॥ १.११ व् पिबेज्ज्वरगरष्ठीव १.११ व् पिबेज्ज्वरगरष्ठेव १.११ व् पिबेज् ज्वरगरस्वेद १.११ व् पिबेज्ज्वरारुचिष्ठीव १.११ व् पिबेज्ज्वरारुचिष्वेवं १.११ व् ग्रन्थ्य्अपच्य्अर्बुदोदरी पित्ते कफस्थानगते जीमूतादिजलेन तत् । हृद्दाहेऽधोऽस्रपित्ते च क्षीरं तत्पिप्पलीशृतम् ॥ १२ ॥ क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु तु । दध्य्उत्तरं वा दधि वा तच्छृतक्षीरसंभवम् ॥ १३ ॥ १.१३ व् प्रसेकतमकेषु च फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम् । सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम् ॥ १४ ॥ १.१४ व्शुष्कदेहे च वामनम् १.१४ व्शुष्यद्देहे तु वामनम् स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम् । आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम् ॥ १५ ॥ तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च योजयेत् । वत्सकादिप्रतीवापः कषायः फलमज्जजः ॥ १६ ॥ निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति । बद्धमूलानपि व्याधीन् सर्वान् संतर्पणोद्भवान् ॥ १७ ॥ १.१७ व् श्लेष्मसंतर्पणोद्भवान् राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम् । वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥ १८ ॥ १.१८ व् चूर्णैर्माल्यं विरूक्षितम् १.१८ व् चूर्णैर्माल्यं सुरूषितम् १.१८ व् चूर्णैर्मालां सुरूषिताम् १.१८ व् वमेन्नरो रसादीनां एवमेव फलाभावे कल्प्यं पुष्पं शलाटु वा । जीमूताद्याश्च फलवज्जीमूतं तु विशेषतः ॥ १९ ॥ १.१९ व् एवमेव फलालाभे प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम् । पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता ॥ २० ॥ रोमशे क्षीरसंतानं दध्य्उत्तरमरोमशे । शृते पयसि दध्य्अम्लं जातं हरितपाण्डुके ॥ २१ ॥ १.२१ व् जाते हरितपाण्डुके १.२१ व् जाते हरितपाण्डुरे १.२१ व् जातं हरितपाण्डुरे आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम् । कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि ॥ २२ ॥ इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि । पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम् ॥ २३ ॥ १.२३ व् फलानां वेणुजन्मनाम् १.२३ व् फलानां चोणिजन्मनाम् चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत् । द्वे वा त्रीण्यपि वापोथ्य क्वाथे तिक्तोत्तमस्य वा ॥ २४ ॥ १.२४ व् द्वे वा त्रीण्यथवापोथ्य आरग्वधादिनवकादासुत्यान्यतमस्य वा । विमृद्य पूतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत् ॥ २५ ॥ १.२५ व् विमृज्य पूतं तं क्वाथं जीमूतकल्कं चूर्णं वा पिबेच्छीतेन वारिणा । ज्वरे पैत्ते कवोष्णेन कफवातात्कफादपि ॥ २६ ॥ १.२६ व् जीमूतचूर्णं कल्कं वा कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते । इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे ॥ २७ ॥ १.२७ व् ज्वरार्ते कफकर्षिते १.२७ व् इक्ष्वाकुर्वमने श्रेष्ठः फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम् । पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत् ॥ २८ ॥ १.२८ व् प्रवालैस्तेन साधितम् १.२८ व् पित्तोद्रेके प्रयोजयेत् हृतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि । स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत् ॥ २९ ॥ १.२९ व् हृतमध्ये फले पक्वे १.२९ व् श्वासे वम्यां च पाययेत् मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः । तेन तक्रं विपक्वं वा पिबेत्समधुसैन्धवम् ॥ ३० ॥ १.३० व् पाण्दुः कुष्ठी विषार्दितः भावयित्वाजदुग्धेन बीजं तेनैव वा पिबेत् । विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ॥ ३१ ॥ सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः । कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके ॥ ३२ ॥ गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत् । नरः साधु वमत्येवं न च दौर्बल्यमश्नुते ॥ ३३ ॥ १.३३ व् गुल्मे ज्वरे प्रसेके च तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् । छर्दयेन्माल्यमाघ्राय गन्धसंपत्सुखोचितः ॥ ३४ ॥ १.३४ व् तुम्ब्याः फलरसैः शुष्कं १.३४ व् गन्धं सम्यक्सुखोचितः १.३४ व् गन्धसंपत्सुखोचितम् १.३४ व् गन्धं सम्यक्सुखोचितम् कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते । कफे च कण्ठवक्त्रस्थे कफसंचयजेषु च ॥ ३५ ॥ १.३५ व् कफसंचयजेषु तु धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च । जीवकर्षभकौ वीरा कपिकच्छूः शतावरी ॥ ३६ ॥ काकोली श्रावणी मेदा महामेदा मधूलिका । तद्रजोभिः पृथग्लेहा धामार्गवरजोऽन्विताः ॥ ३७ ॥ कासे हृदयदाहे च शस्ता मधुसिताद्रुताः । ते सुखाम्भोऽनुपानाः स्युः पित्तोष्मसहिते कफे ॥ ३८ ॥ १.३८ व् शस्ता मधुसितायुताः १.३८ व् शस्ता मधुसितान्विताः धान्यतुम्बुरुयूषेण कल्कस्तस्य विषापहः । बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे ॥ ३९ ॥ १.३९ व् बिम्ब्याः पुनर्नवायाश्च एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत् । तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः ॥ ४० ॥ क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते । कुष्ठपाण्ड्व्आमयप्लीहशोफगुल्मगरादिषु ॥ ४१ ॥ १.४१ व् प्रगाढेषु च शस्यते पृथक्फलादिषट्कस्य क्वाथे मांसमनूपजम् । कोशातक्या समं सिद्धं तद्रसं लवणं पिबेत् ॥ ४२ ॥ १.४२ व् कोशातक्याः समं सिद्धं फलादिपिप्पलीतुल्यं सिद्धं क्ष्वेडरसेऽथवा । क्ष्वेडक्वाथं पिबेत्सिद्धं मिश्रमिक्षुरसेन वा ॥ ४३ ॥ १.४३ व् सिद्धं क्ष्वेडरसेन वा १.४३ व् क्ष्वेडक्वाथे पिबेत्सिद्धं कौटजं सुकुमारेषु पित्तरक्तकफोदये । ज्वरे विसर्पे हृद्रोगे खुडे कुष्ठे च पूजितम् ॥ ४४ ॥ १.४४ व् कुटजं सुकुमारेषु सर्षपाणां मधूकानां तोयेन लवणस्य वा । पाययेत्कौटजं बीजं युक्तं कृशरयाथवा ॥ ४५ ॥ सप्ताहं वार्कदुग्धाक्तं तच्चूर्णं पाययेत्पृथक् । फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः ॥ ४६ ॥ १.४६ व् सप्ताहं चार्कदुघाक्तं वमनौषधमुख्यानामिति कल्पदिगीरिता । बीजेनानेन मतिमानन्यान्यपि च कल्पयेत् ॥ ४७ ॥ १.४७ व् विधिनानेन मतिमान् १.४७ व् अन्यानपि च कल्पयेत् १.४७ व् अन्यानपि च योजयेत् Kअल्पस्थान कषायमधुरा रूक्षा विपाके कटुका त्रिवृत् । कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ॥ १ ॥ २.१ व् कषाया मधुरा रूक्षा २.१ व् रौक्ष्यात्सानिलकोपनी २.१ व् रौक्ष्याद् अनिलकोपनी सेदानीमौषधैर्युक्ता वातपित्तकफापहैः । कल्पवैशेष्यमासाद्य जायते सर्वरोगजित् ॥ २ ॥ द्विधा ख्यातं च तन्मूलं श्यामं श्यामारुणं त्रिवृत् । त्रिवृद्आख्यं वरतरं निर्अपायं सुखं तयोः ॥ ३ ॥ सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम् । मूर्छासंमोहहृत्कण्ठकषणक्षणनप्रदम् ॥ ४ ॥ २.४ व् कर्षणक्षणनप्रदम् श्यामं तीक्ष्णाशुकारित्वादतस्तदपि शस्यते । क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे ॥ ५ ॥ २.५ व् क्रूरे कोष्ठे बहुदोषे २.५ व् क्रूरे कोष्ठे महादोषे गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत् । गृहीत्वा विसृजेत्काष्ठं त्वचं शुष्कां निधापयेत् ॥ ६ ॥ २.६ व् अतिर्यग्विस्तृतं च यत् अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम् । वातामये पिबेदम्लैः पैत्ते साज्यसितामधु ॥ ७ ॥ २.७ व् अथ काले च तच्चूर्णं २.७ व् अथ काले तु तच्चूर्णं २.७ व् अथ काले त्रिवृच्चूर्णं २.७ व् अथ कालेन तच्चूर्णं २.७ व् वातामयी पिबेदम्लैः २.७ व् पित्ते साज्यसितामधु क्षीरद्राक्षेक्षुकाश्मर्यस्वादुस्कन्धवरारसैः । कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः ॥ ८ ॥ पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः । त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः ॥ ९ ॥ २.९ व् त्रिवृत्कल्ककषायेण २.९ व् युक्तं युञ्ज्यात्कफापहैः मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम् । अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत् ॥ १० ॥ २.१० व् अजगन्धा तुकाक्षीरी चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते । संनिपातज्वरस्तम्भपिपासादाहपीडितः ॥ ११ ॥ २.११ व् तच्चूर्णं मधुसर्पिर्भ्यां लिम्पेदन्तस्त्रिवृतया द्विधा कृत्वेक्षुगण्डिकाम् । एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत् ॥ १२ ॥ २.१२ व् द्विधा कृत्वेक्षुगण्डिकाः २.१२ व् द्विधा कृत्वेक्षुकण्डिकाम् २.१२ व् द्विधा कृत्वेक्षुकाण्डिकाम् २.१२ व् एकीकृतं च तत्स्विन्नं २.१२ व् एकीकृत्य च सुस्विन्नं २.१२ व् एकीकृत्य तु तत्स्विन्नं भृङ्गैलाभ्यां समा नीली तैस्त्रिवृतैश्च शर्करा । चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत् ॥ १३ ॥ २.१३ व् त्वग्एलाभ्यां समा नीली वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च । नरेषु सुकुमारेषु निर्अपायं विरेचनम् ॥ १४ ॥ विडङ्गतण्डुलवरायावशूककणास्त्रिवृत् । सर्वतोऽर्धेन तल्लीढं मध्व्आज्येन गुडेन वा ॥ १५ ॥ गुल्मं प्लीहोदरं कासं हलीमकमरोचकम् । कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून् ॥ १६ ॥ विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् । मरीचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ॥ १७ ॥ २.१७ व् त्रिफलाधान्यचित्रकम् २.१७ व् पिप्पलीहस्तिपिप्पलि दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक् । तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ॥ १८ ॥ २.१८ व् भागावष्टपलोन्मितौ धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान् । पक्त्वा मृद्व्अग्निना खादेत्ततो मात्रामयन्त्रणः ॥ १९ ॥ २.१९ व् त्रीन् गुडार्धतुलोन्मितान् २.१९ व् ततो मात्रामयन्त्रितः मन्दाग्नित्वं ज्वरं मूर्छां मूत्रकृच्छ्रमरोचकम् ॥ १९+१ ब् ॥ कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान् । ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः ॥ २० ॥ गुडः कल्याणको नाम सर्वेष्वृतुषु यौगिकः । व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत् ॥ २१ ॥ सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः । मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये ॥ २२ ॥ २.२२ व् सर्वैः समाना ससिता २.२२ व् क्षौद्रेण गुटिकीकृता भक्षयेत्प्रातरुत्थाय शीतं चानु पिबेज्जलम् ॥ २२.१+१ ब् ॥ तापे पाण्ड्व्आमयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च । अविपत्तिरयं योगः प्रशस्तः पित्तरोगिणाम् ॥ २३ ॥ त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् । क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम् ॥ २४ ॥ त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् । द्राक्षाम्बुना सयष्ट्य्आह्वसातलं जलदात्यये ॥ २५ ॥ २.२५ व् द्राक्षाम्बुना सयष्ट्य्आह्वं २.२५ व् शीतलं जलदात्यये २.२५ व् शीतलं जलदात्यये त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम् । स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत् ॥ २६ ॥ त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् । त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः ॥ २७ ॥ स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्य्अहम् । एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत् ॥ २८ ॥ श्यामात्रिवृद्दुरालभाहस्तिपिप्पलीवत्सकम् । नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम् ॥ २९ ॥ रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा । ज्वरहृद्रोगवातासृग्उदावर्तादिरोगिषु ॥ ३० ॥ सैन्धवं पिप्पलीमूलमभया द्विगुणोत्तरम् । चूर्णमुष्णाम्बुना पेयं स्वस्थे सुखविरेचनम् ॥ ३०.१+१ ॥ २.३०.१+१ व् चूर्णमुष्णाम्बुना पीतं राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः । बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ॥ ३१ ॥ योज्यो मृद्व्अन्अपायित्वाद्विशेषाच्चतुरङ्गुलः । फलकाले परिणतं फलं तस्य समाहरेत् ॥ ३२ ॥ तेषां गुणवतां भारं सिकतासु विनिक्षिपेत् । सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः ॥ ३३ ॥ २.३३ व् शोषयेच्चातपे ततः २.३३ व् शोषयेदातपे पुनः ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत् । द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते ॥ ३४ ॥ चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके । चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम् ॥ ३५ ॥ दधिमण्डसुरामण्डधात्रीफलरसैः पृथक् । सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ॥ ३६ ॥ दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत् । तमरिष्टं स्थितं मासं पाययेत्पक्षमेव वा ॥ ३७ ॥ त्वचं तिल्वकमूलस्य त्यक्त्वाभ्यन्तरवल्कलम् । विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः ॥ ३८ ॥ लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् । कषाये दशमूलस्य तं भागं भावितं पुनः ॥ ३९ ॥ २.३९ व् लोध्रस्य तु कषायेण शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत् । मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः ॥ ४० ॥ २.४० व् शुष्कचूर्णं ततः कुर्यात् २.४० व् शुष्कचूर्णं पुनः कृत्वा २.४० व् शुष्कं चूर्णं ततः कृत्वा तिल्वकस्य कषायेण कल्केन च सशर्करः । सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥ ४१ ॥ २.४१ व् स च श्रेष्ठो विरेचनम् सुधा भिनत्ति दोषाणां महान्तमपि संचयम् । आश्वेव कष्टविभ्रंशान्नैव तां कल्पयेदतः ॥ ४२ ॥ २.४२ व् आश्वेव कष्टविभ्रंशां २.४२ व् आश्वेव कोष्ठविभ्रंशान् २.४२ व् नैव तां कल्पयेत्ततः मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि । कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु ॥ ४३ ॥ पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि । सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता ॥ ४४ ॥ द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः । तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः ॥ ४५ ॥ बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः । मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत् ॥ ४६ ॥ पिबेत्कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः । त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम् ॥ ४७ ॥ सप्ताहं स्नुक्पयःपीतान् रसेनाज्येन वा पिबेत् । तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना ॥ ४८ ॥ २.४८ व् निकुम्भादीन् गुडाम्बुना नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम् । सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी ॥ ४९ ॥ श्लेष्मामयोदरगरश्वयथ्व्आदिषु कल्पयेत् । अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम् ॥ ५० ॥ हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत् । दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्रवन्तिजम् ॥ ५१ ॥ २.५१ व् तद्वद्गुल्मे प्रयोजयेत् आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि च । गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम् ॥ ५२ ॥ २.५२ व् आशुकारि विकाषि च तत्क्षौद्रपिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम् । शोष्यं मन्दातपेऽग्न्य्अर्कौ हतो ह्यस्य विकाशिताम् ॥ ५३ ॥ २.५३ व् तत्क्षौद्रपिप्पलीमिश्रं २.५३ व् तत्क्षौद्रपिप्पलीयुक्तं २.५३ व् हतो ह्यस्य विकाषिताम् तत्पिबेन्मस्तुमदिरातक्रपीलुरसासवैः । अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी ॥ ५४ ॥ २.५४ व् अभिष्यन्दतनुर्गुल्मी २.५४ व् अभिष्यन्दितनुर्गुल्मी गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी । सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च ॥ ५५ ॥ विसर्पविद्रध्य्अलजीकक्षादाहान् जयेद्घृतम् । तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान् ॥ ५६ ॥ महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः । विरेचने मुख्यतमा नवैते त्रिवृतादयः ॥ ५७ ॥ २.५७ व् महास्नेहश्च विट्शुक्र हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत् । गुडस्याष्टपले पथ्या विंशतिः स्यात्पलं पलम् ॥ ५८ ॥ दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश । प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि ॥ ५९ ॥ उष्णाम्भोऽनुपिबेत्खादेत्तान् सर्वान् विधिनामुना । एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः ॥ ६० ॥ २.६० व् उष्णाम्भोऽनुपिबन् खादेत् विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः । अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ॥ ६१ ॥ २.६१ व् कण्डूकोष्ठाऋशसां हिताः २.६१ व् कण्डूकुष्ठाऋशसां हिताः कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः ॥ ६१ªअब् ॥ २.६१ªब्व् कालसंस्कारयुक्तितः त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः । मद्येन तैस्तैश्च मनोऽनुकूलैर्युक्तानि देयानि विरेचनानि ॥ ६२ ॥ २.६२ व् मद्यैश्च तैस्तैश्च मनोऽनुकूलैर् Kअल्पस्थान वमनं मृदुकोष्ठेन क्षुद्वताल्पकफेन वा । अतितीक्ष्णहिमस्तोकमजीर्णे दुर्बलेन वा ॥ १ ॥ पीतं प्रयात्यधस्तस्मिन्निष्टहानिर्मलोदयः । वामयेत्तं पुनः स्निग्धं स्मरन् पूर्वमतिक्रमम् ॥ २ ॥ ३.२ व् स्मरन् पूर्वमनुक्रमम् अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम् । अतितीक्ष्णोष्णलवणमहृद्यमतिभूरि वा ॥ ३ ॥ तत्र पूर्वोदिता व्यापत्सिद्धिश्च न तथापि चेत् । आशये तिष्ठति ततस्तृतीयं नावचारयेत् ॥ ४ ॥ अन्यत्र सात्म्याद्धृद्याद्वा भेषजान्निर्अपायतः । अस्निग्धस्विन्नदेहस्य पुराणं रूक्षमौषधम् ॥ ५ ॥ ३.५ व् अन्यत्र सात्म्याद्धृद्याद्च ३.५ व् अस्निग्धास्विन्नदेहस्य दोषानुत्क्लेश्य निर्हर्तुमशक्तं जनयेद्गदान् । विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम् ॥ ६ ॥ ३.६ व् चिद्भ्रंशं श्वयथुं हिध्मां पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम् । स्निग्धस्विन्नस्य वात्य्अल्पं दीप्ताग्नेर्जीर्णमौषधम् ॥ ७ ॥ ३.७ व् स्निग्धस्विन्नस्य चात्य्अल्पं शीतैर्वा स्तब्धमामे वा समुत्क्लेश्याहरन्मलान् । तानेव जनयेद्रोगानयोगः सर्व एव सः ॥ ८ ॥ ३.८ व् शीतैर्वा स्तब्धमामैर्वा ३.८ व् समुत्क्लेश्याहरेन्मलान् ३.८ व् समुत्क्लेश्य हरेन्मलान् तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसंकरैः । निरूढः जाङ्गलरसैर्भोजयित्वानुवासयेत् ॥ ९ ॥ ३.९ व् स्विन्नं संस्तरसंकरैः ३.९ व् स्विन्नं संस्तरशङ्करैः फलमागधिकादारुसिद्धतैलेन मात्रया । स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत् ॥ १० ॥ बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम् । सोदावर्तस्य चोत्क्लेश्य दोषान्मार्गान्निरुध्य तैः ॥ ११ ॥ ३.११ व् दोषान्मार्गं निरुध्य तैः भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम् । श्वासं विण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम् ॥ १२ ॥ ३.१२ व् भृशमाध्मापयेन्नाभि ३.१२ व् पृष्ठपार्श्वशिरोरुजम् अभ्यङ्गस्वेदवर्त्य्आदि सनिरूहानुवासनम् । उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते ॥ १३ ॥ पञ्चमूलयवक्षारवचाभूतिकसैन्धवैः । यवागूः सुकृता शूलविबन्धानाहनाशनी ॥ १४ ॥ ३.१४ व् पञ्चकोलयवक्षार पिप्पलीदाडिमक्षारहिङ्गुशुण्ठ्य्अम्लवेतसान् । ससैन्धवान् पिबेन्मद्यैः सर्पिषोष्णोदकेन वा ॥ १५ ॥ प्रवाहिकापरिस्राववेदनापरिकर्तने । पीतौषधस्य वेगानां निग्रहान्मारुतादयः ॥ १६ ॥ ३.१६ व् प्रवाहिकापरिस्रावे ३.१६ व् वेदनापरिकर्तने कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम् । हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः ॥ १७ ॥ जिह्वां खादति निःसंज्ञो दन्तान् कटकटाययन् । न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक् ॥ १८ ॥ ३.१८ व् दन्तान् कटकटायते मधुरैः पित्तमूर्छार्तं कटुभिः कफमूर्छितम् । पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत् ॥ १९ ॥ ३.१९ व् पाचनीयैस्ततश्चाशु ३.१९ व् दोषशेषं च पाचयेत् कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत् । पवनेनातिवमतो हृदयं यस्य पीड्यते ॥ २० ॥ ३.२० व् क्रमेणाभिप्रवर्तयेत् तस्मै स्निग्धाम्ललवणान् दद्यात्पित्तकफेऽन्यथा । पीतौषधस्य वेगानां निग्रहेण कफेन वा ॥ २१ ॥ ३.२१ व् तस्मै स्निग्धाम्ललवणं रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः । स्तम्भवेपथुनिस्तोदसादोद्वेष्टार्तिभेदनैः ॥ २२ ॥ ३.२२ व् रुद्धो वाति विशुद्धस्य ३.२२ व् सादोद्वेष्टाधिभेदनैः तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते । बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम् ॥ २३ ॥ हृत्वाशु विट्पित्तकफान् धातूनास्रावयेद्द्रवान् । तत्रातियोगे मधुरैः शेषमौषधमुल्लिखेत् ॥ २४ ॥ ३.२४ व् धातून् प्रस्रावयेद्द्रवान् योज्योऽतिवमने रेको विरेके वमनं मृदु । परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम् ॥ २५ ॥ ३.२५ व् योज्योऽति रेको वमिते अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम् । लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् ॥ २६ ॥ ३.२६ व् अञ्जनं चन्दनोशीर ३.२६ व् मज्जासृक्शर्करोदकम् वमनस्यातियोगे तु शीताम्बुपरिषेचितः । पिबेत्फलरसैर्मन्थं सघृतक्षौद्रशर्करम् ॥ २७ ॥ सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः । समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ॥ २८ ॥ ३.२८ व् मूर्छायां धान्यमुस्तयोः वमतोऽन्तः प्रविष्टायां जिह्वायां कवडग्रहाः । स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः ॥ २९ ॥ ३.२९ व् स्निग्धाम्ललवणा हृद्याश् ३.२९ व् छागमांसरसा हिताः फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः । निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत् ॥ ३० ॥ ३.३० व् तस्य चान्येऽग्रतो जनाः ३.३० व् तस्य चैवाग्रतो नराः ३.३० व् कल्कलिप्तां प्रयोजयेत् वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम् । यवागूं तनुकां दद्यात्स्नेहस्वेदौ च कालवित् ॥ ३१ ॥ अतियोगाच्च भैषज्यं जीवं हरति शोणितम् । तज्जीवादानमित्युक्तमादत्ते जीवितं यतः ॥ ३२ ॥ ३.३२ व् आधत्ते जीवनं नृणाम् शुने काकाय वा दद्यात्तेनान्नमसृजा सह । भुक्तेऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम् ॥ ३३ ॥ ३.३३ व् भुक्ताभुक्तं वदेज्जीवं ३.३३ व् भुक्ते तस्मिन् वदेज्जीवम् ३.३३ व् भुक्त्वाभुक्ते वदेज्जीवं ३.३३ व् अभुक्ते पित्तमादिशेत् शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा । प्रक्षालितं विवर्णं स्यात्पित्ते शुद्धं तु शोणिते ॥ ३४ ॥ ३.३४ व् पित्तं शुद्धं तु शोणितं तृष्णामूर्छामदार्तस्य कुर्यादामरणात्क्रियाम् । रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम् ॥ ३५ ॥ ३.३५ व् कुर्यादामरणक्रियाम् ३.३५ व् तस्यापि प्राणरक्षणीम् मृगगोमहिषाजानां सद्यस्कं जीवतामसृक् । पिबेज्जीवाभिसंधानं जीवं तद्ध्याशु गच्छति ॥ ३६ ॥ ३.३६ व् जीवं तद्ध्याशु यच्छति तदेव दर्भमृदितं रक्तं वस्तौ निषेचयेत् । श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः ॥ ३७ ॥ घृतमण्डाञ्जनयुतं वस्तिं वा योजयेद्धिमम् । पिच्छावस्तिं सुशीतं वा घृतमण्डानुवासनम् ॥ ३८ ॥ गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत् । विसंज्ञं श्रावयेत्सामवेणुगीतादिनिस्वनम् ॥ ३९ ॥ ३.३९ व् स्तम्भयित्वा प्रयोजयेत् Kअल्पस्थान बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि । अष्टौ फलान्यर्धतुलां च मांसाच्छागात्पचेदप्सु चतुर्थशेषम् ॥ १ ॥ पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम् । कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युक्तः सुखोष्णो लवणान्वितश्च ॥ २ ॥ ४.२ व् पूतं यवानीफलबिल्वकुष्ठ वस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च । वस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र ॥ ३ ॥ ४.३ व् वस्तौ च यस्मिन् कथितो न कल्कः द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः । त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः ॥ ४ ॥ ४.४ व् सच्छागमांसस्य सपूर्वकल्कः बलापटोलीलघुपञ्चमूलत्रायन्तिकैरण्डयवात्सुसिद्धात् । प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत् ॥ ५ ॥ प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च । स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः ॥ ६ ॥ एरण्डमूलात्त्रिपलं पलाशात्तथा पलांशं लघुपञ्चमूलम् । रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु ॥ ७ ॥ ४.७ व् तथा पलांशं लघुपञ्चमूलात् फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन् । वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम् ॥ ८ ॥ दद्यात्सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम् । समाक्षिकस्तैलयुतः समूत्रो वस्तिर्जयेल्लेखनदीपनोऽसौ ॥ ९ ॥ ४.९ व् वस्तिर्जयेद्दीपनपाचनोऽसौ जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम् । गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तास्तांश्च रोगान् कफवातजातान् ॥ १० ॥ ४.१० व् गुल्माश्मवर्ध्मग्रहणीविकारांस् ४.१० व् तांस्तांश्च रोगान् कफवातजांश्च यष्ट्य्आह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च । सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम् ॥ ११ ॥ ४.११ व् सशर्करं क्षौद्रयुतं सुशीतं ४.११ व् पित्तामयं हन्ति सजीवनीयम् रास्नां वृषं लोहितिकामनन्तां बलां कनीयस्तृणपञ्चमूल्यौ । गोपाङ्गनाचन्दनपद्मकर्द्धियष्ट्य्आह्वलोध्राणि पलार्धकानि ॥ १२ ॥ ४.१२ व् गोपाङ्गनाचन्दनपद्मकाह्व निःक्वाथ्य तोयेन रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम् । जीवन्तिमेदर्द्धिवरीविदारीवीराद्विकाकोलिकसेरुकाभिः ॥ १३ ॥ सितोपलाजीवकपद्मरेणुप्रपौण्डरीकोत्पलपुण्डरीकैः । लोध्रात्मगुप्तामधुयष्टिकाभिर्नागाह्वमुञ्जातकचन्दनैश्च ॥ १४ ॥ ४.१४ व् लोहात्मगुप्तामधुयष्टिकाभिर् पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात् । प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाद्यात्परिषिक्तगात्रः ॥ १५ ॥ दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च । सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति ॥ १६ ॥ ४.१६ व् दाहातिसारप्रदराम्लपित्त ४.१६ व् हृत्पाण्डुरोगान् विषमज्वरांश्च ४.१६ व् हृत्पाण्डुरोगान् विषमान् ज्वरांश्च कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः । पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः ॥ १७ ॥ तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान् । क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य ॥ १८ ॥ ४.१८ व् क्षारस्य तैलस्य च सर्षपस्य दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च । वक्ष्ये मृदून् स्नेहकृतो निरूहान् सुखोचितानां प्रसृतैः पृथक्तु ॥ १९ ॥ अथेमान् सुकुमाराणां निरूहान् स्नेहनान्मृदून् । कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् ॥ २० ॥ ४.२० व् कर्मणा विप्लुतानां तु क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः । खजेन मथितो वस्तिर्वातघ्नो बलवर्णकृत् ॥ २१ ॥ एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम् । बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातजित् ॥ २२ ॥ ४.२२ व् एकैकः प्रसृतिस्तैल पटोलनिम्बभूतीकरास्नासप्तच्छदाम्भसः । प्रसृतः पृथगाज्याच्च वस्तिः सर्षपकल्कवान् ॥ २३ ॥ ४.२३ व् पटोलनिम्बपूतीक ४.२३ व् रास्नासप्तच्छदाम्भसाम् ४.२३ व् प्रसृताः पृथगाज्याच्च स पञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा । चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात् ॥ २४ ॥ ४.२४ व् कृमिकुष्ठप्रमोहहा ४.२४ व् कृमिकुष्ठप्रमेहजित् प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः । पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम् ॥ २५ ॥ ४.२५ व् विट्सङ्गानाहभेदनाः ४.२५ व् विट्सङ्गानाहभेदिनः ४.२५ व् विदारीक्षौद्रसर्पिषः एकैकः प्रसृतो वस्तिः कृष्णाकल्को वृषत्वकृत् । सिद्धवस्तीनतो वक्ष्ये सर्वदा यान् प्रयोजयेत् ॥ २६ ॥ निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान् । मधुतैले समे कर्षः सैन्धवाद्द्विपिचुर्मिशिः ॥ २७ ॥ एरण्डमूलक्वाथेन निरूहो माधुतैलिकः । रसायनं प्रमेहार्शःकृमिगुल्मान्त्रवृद्धिनुत् ॥ २८ ॥ ४.२८ व् निरूहो मधुतैलिकः ४.२८ व् कृमिगुल्मान्त्रवृद्धिहृत् सयष्टीमधुकश्चैष चक्षुष्यो रक्तपित्तजित् । यापनो घनकल्केन मधुतैलरसाज्यवान् ॥ २९ ॥ पायुजानूरुवृषणवस्तिमेहनशूलजित् । प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रकल्पयेत् ॥ ३० ॥ ४.३० व् पायुजङ्घोरुवृषण यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम् । एरण्डमूलनिःक्वाथो मधुतैलं ससैन्धवम् ॥ ३१ ॥ ४.३१ व् मधुतैलं ससैन्धवः एष युक्तरथो वस्तिः सवचापिल्ललीफलः । स क्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवम् ॥ ३२ ॥ ४.३२ व् तत्क्वाथो मधुषड्ग्रन्था ४.३२ व् शताह्वाहिङ्गुसैन्धवः सुरदारु च रास्ना च वस्तिर्दोषहरः शिवः । पञ्चमूलस्य निःक्वाथस्तैलं मागधिका मधु ॥ ३३ ॥ ४.३३ व् सुरदारु वचा रास्ना ४.३३ व् वस्तिर्दोषहरश्च सः ४.३३ व् वस्तिर् दोषहरः परः ससैन्धवः समधुकः सिद्धवस्तिरिति स्मृतः । द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत् ॥ ३४ ॥ गोमूत्रे तेन पिष्टैश्च पाठावत्सकतोयदैः । सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च ॥ ३५ ॥ ४.३५ व् क्षारेण लवणेन वा युक्तो वस्तिः कफव्याधिपाण्डुरोगविषूचिषु । शुक्रानिलविबन्धेषु वस्त्य्आटोपे च पूजितः ॥ ३६ ॥ ४.३६ व् वस्त्य्आटोपेषु पूजितः मुस्तापाठामृतैरण्डबलारास्नापुनर्नवाः । मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः ॥ ३७ ॥ ४.३७ व् बलारास्नापुनर्नवम् ४.३७ व् त्रायमाणाक्षरोहिणि कनीयः पञ्चमूलं च पालिकं मदनाष्टकम् । जलाढके पचेत्तच्च पादशेषं परिस्रुतम् ॥ ३८ ॥ क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत् । सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः ॥ ३९ ॥ पिष्टैर्यष्टीमिशिश्यामाकलिङ्गकरसाञ्जनैः । वस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्धनः ॥ ४० ॥ वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसंग्रहान् । विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः ॥ ४१ ॥ ४.४१ व् वातरक्तप्रमेहार्शो ४.४१ व् वातासृङ्मेहमेदोऽर्शो ४.४१ व् गुल्मविण्मूत्रसंग्रहम् वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः । हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान् ॥ ४२ ॥ चक्षुष्यः पुत्रदो राजा यापनानां रसायनम् । मृगाणां लघुवद्राणां दशमूलस्य चाम्भसा ॥ ४३ ॥ ४.४३ व् यापनानां रसायनः ४.४३ व् मृगाणां लघुबभ्रूणां ४.४३ व् मृगाणां लघुबर्हाणां ४.४३ व् मृगाणां लघुवड्राणां ४.४३ व् मृगाणां लघुवभ्राणां ४.४३ व् मृगाणां लघुबभ्राणां ४.४३ व् मृगाणां लघुवर्गाणां हपुषामिशिगाङ्गेयीकल्कैर्वातहरः परम् । निरूहोऽत्य्अर्थवृष्यश्च महास्नेहसमन्वितः ॥ ४४ ॥ ४.४४ व् कल्कैर्वातहरैः परम् ४.४४ व् कल्को वातहरः परम् मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम् । लघुना पञ्चमूलेन पालिकेन समन्वितम् ॥ ४५ ॥ पक्त्वा क्षीरजले क्षीरशेषं सघृतमाक्षिकम् । तद्विदारीकणायष्टीशताह्वाफलकल्कवत् ॥ ४६ ॥ ४.४६ व् शताह्वाफलकल्कवान् वस्तिरीषत्पटुयुतः परमं बलशुक्रकृत् । कल्पनेयं पृथक्कार्या तित्तिरिप्रभृतिष्वपि ॥ ४७ ॥ ४.४७ व् परमं बलवर्णकृत् विष्किरेषु समस्तेषु प्रतुदप्रसहेषु च । जलचारिषु तद्वच्च मत्स्येषु क्षीरवर्जिता ॥ ४८ ॥ गोधानकुलमार्जारशल्यकोन्दुरजं पलम् । पृथग्दशपलं क्षीरे पञ्चमूलं च साधयेत् ॥ ४९ ॥ तत्पयः फलवैदेहीकल्कद्विलवणान्वितम् । ससितातैलमध्व्आज्यो वस्तिर्योज्यो रसायनम् ॥ ५० ॥ ४.५० व् ससितातैलमध्व्आज्यं ४.५० व् ससितातैलमध्व्आज्यं व्यायाममथितोरस्कक्षीणेन्द्रियबलौजसाम् । विबद्धशुक्रविण्मूत्रखुडवातविकारिणाम् ॥ ५१ ॥ ४.५१ व् विबन्धशुक्रविण्मूत्र गजवाजिरथक्षोभभग्नजर्जरितात्मनाम् । पुनर्नवत्वं कुरुते वाजीकरणमुत्तमम् ॥ ५२ ॥ ४.५२ व् वाजीकरणसत्तमम् सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः । स्नेहांश्चायन्त्रणान् सिद्धान् सिद्धद्रव्यैः प्रकल्पयेत् ॥ ५३ ॥ ४.५३ व् स्नेहांश्चाढ्यगुणान् सिद्धान् दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहवस्तयः । दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम् ॥ ५४ ॥ ४.५४ व् दोषघ्ना निष्परीहारा गुडूच्यैरण्डभूतीकभार्गीवृषकरोहिषम् । शतावरीं सहचरं काकनासां पलांशकम् ॥ ५५ ॥ ४.५५ व् गुडूच्यैरण्डपूतीक ४.५५ व् काकनासां पलांशिकम् ४.५५ व् काकनासां पलांशिकाम् यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान् । वहे विपाच्य तोयस्य द्रोणशेषेण तेन च ॥ ५६ ॥ पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः । अनुवासनमित्येतत्सर्ववातविकारनुत् ॥ ५७ ॥ ४.५७ व् पचेत्तैलाड्ःकं कल्कैर् ४.५७ व् सर्ववातविकारजित् आनूपानां वसा तद्वज्जीवनीयोपसाधिता । शताह्वाचिरिबिल्वाम्लैस्तैलं सिद्धं समीरणे ॥ ५८ ॥ ४.५८ व् शताह्वायवबिल्वाम्लैस् ४.५८ व् तैलं तद्वत्समीरणे सैन्धवेनाग्निवर्णेन तप्तं चानिलजिद्घृतम् । जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ॥ ५९ ॥ शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् । स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम् ॥ ६० ॥ पिष्ट्वा तैलघृतं क्षीरे साधयेत्तच्चतुर्गुणे । बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम् ॥ ६१ ॥ ४.६१ व् पिष्ट्वा तैलं घृतं क्षीरे ४.६१ व् साधयेत्च चतुर्गुणे रजःशुक्रामयहरं पुत्रीयं चानुवासनम् । सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा ॥ ६२ ॥ ४.६२ व् रजःशुक्रानिलहरं ४.६२ व् पुत्रीयमनुवासनम् ह्रीवेरं मधुकं भार्गी देवदारु सकट्फलम् । नागरं पुष्करं मेदा चविका चित्रकः शठी ॥ ६३ ॥ ४.६३ व् ह्रीवेरं पद्मकं भार्गी विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा । बिल्वाजमोदचपला दन्ती रास्ना च तैः समैः ॥ ६४ ॥ ४.६४ व् विडङ्गातिविषाश्यामा ४.६४ व् बिल्वाजमोदाचपला ४.६४ व् बिल्वाजमोदे चपला साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत् । वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ॥ ६५ ॥ ४.६५ व् साध्यमेरण्डजं तैलं ४.६५ व् कफवातजरोगनुत् आनाहमश्मरीं चाशु हन्यात्तदनुवासनम् । साधितं पञ्चमूलेन तैलं बिल्वादिनाथवा ॥ ६६ ॥ कफघ्नं कल्पयेत्तैलं द्रव्यैर्वा कफघातिभिः । फलैरष्टगुणैश्चाम्लैः सिद्धमन्वासनं कफे ॥ ६७ ॥ ४.६७ व् फलैरष्टगुणे चाम्ले मृदुवस्तिजडीभूते तीक्ष्णोऽन्यो वस्तिरिष्यते । तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः ॥ ६८ ॥ ४.६८ व् मृदुवस्तौ जडीभूते तीक्ष्णत्वं मूत्रपील्व्अग्निलवणक्षारसर्षपैः । प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम् ॥ ६९ ॥ ४.६९ व् तीक्ष्णत्वं मूत्रबिल्वाग्नि ४.६९ व् क्षीराज्याद्यैश्च मार्दवम् ४.६९ व् क्षीराद्यैश्चैव मार्दवम् ४.६९ व् घृतक्षीरैस्तु मार्दवम् बलकालरोगदोषप्रकृतीः प्रविभज्य योजितो वस्तिः । स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्निवर्तयति ॥ ७० ॥ ४.७० व् प्रकृतीः प्रविवीक्ष्य योजितो वस्तिः ४.७० व् स्वान् स्वान् दोषान्निवर्तयति उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च । तद्योग्यौषधयुक्तान् वस्तीन् संतर्क्य युञ्जीत ॥ ७१ ॥ वस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु । मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः ॥ ७२ ॥ ४.७२ व् दद्याद्व्याधिषु च शोधनीयेषु न क्षीणक्षतदुर्बलमूर्छितकृशशुष्कशुद्धदेहानाम् । दद्याद्विशोधनीयान् दोषनिबद्धायुषो ये च ॥ ७३ ॥ Kअल्पस्थान अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः । शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा ॥ १ ॥ ५.१ व् द्रवमात्रो घनोऽपि वा वस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन् । करोत्ययोगं तेन स्याद्वातमूत्रशकृद्ग्रहः ॥ २ ॥ ५.२ व् वस्तिः संस्तभ्य तं दोषं नाभिवस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे । कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम् ॥ ३ ॥ ५.३ व् नाभिवस्तिरुजानाहो ५.३ व् कण्डूर्गण्डातिवैवर्ण्यम् ५.३ व् कण्डूर् गण्डाक्षिवैवर्ण्यम् क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि । उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते ॥ ४ ॥ ५.४ व् तत्र पानं विधीयते फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम् । बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान् ॥ ५ ॥ सुरादिमूत्रवान् वस्तिः सप्राक्पेष्यस्तमानयेत् । युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा ॥ ६ ॥ ५.६ व् सुरादिमांस्तत्र वस्तिः वस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात्समीरणम् । स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम् ॥ ७ ॥ विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम् । रुणद्धि हृदयं शूलैरितश्चेतश्च धावति ॥ ८ ॥ स्व्अभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत् । बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान् ॥ ९ ॥ ५.९ व् अभ्यक्तस्विन्नगात्रस्य ५.९ व् स्व्अभ्यक्तस्विन्नगात्राय ५.९ व् स्व्अभ्यक्तस्विन्नदेहस्य सरलामरदारुभ्यां साधितं चानुवासनम् । कुर्वतो वेगसंरोधं पीडितो वातिमात्रया ॥ १० ॥ ५.१० व् साधितं वानुवासनम् ५.१० व् पीडितश्चातिमात्रया अस्निग्धलवणोष्णो वा वस्तिरल्पोऽल्पभेषजः । मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात् ॥ ११ ॥ निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन् । मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम् ॥ १२ ॥ ५.१२ व् तृड्दाहादीन् प्रकल्पयेत् ५.१२ व् तृड्दाहादीन् प्रवर्तयेत् व्यजेदाक्लमनाशाच्च प्राणायामं च कारयेत् । पृष्ठपार्श्वोदरं मृज्यात्करैरुष्णैरधोमुखम् ॥ १३ ॥ ५.१३ व् वीजेत्क्लमविनाशाच्च ५.१३ व् वीजेदाक्लमनाशाच्च ५.१३ व् वीज्येद् आक्लमनाशाच्च ५.१३ व् पृष्ठपार्श्वोदरं मृद्यात् केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः । शस्त्रोल्काराजपुरुषैर्वस्तिरेति तथा ह्यधः ॥ १४ ॥ ५.१४ व् भाययेद्व्यालदंष्ट्रिभिःव् ५.१४ व् भापयेद्व्यालदंष्ट्रिभिः पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा । प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः ॥ १५ ॥ अपानः पवनो वस्तिं तमाश्वेवापकर्षति । कुष्ठक्रमुककल्कं च पाययेताम्लसंयुतम् ॥ १६ ॥ ५.१६ व् तथाश्वेवापकर्षति ५.१६ व् कुष्ठक्रमुककल्कं वा ५.१६ व् पाययेदम्लसंयुतम् औष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च वस्तिं सोऽस्यानुलोमयेत् । गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोऽनुलोमनम् ॥ १७ ॥ ५.१७ व् कल्कं चाधोऽनुलोमनम् पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः । यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः ॥ १८ ॥ ५.१८ व् विधेयो मूत्रसाधितः वस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः । पूतिकरञ्जत्वक्पत्त्रशठीदेवाह्वरोहिषैः ॥ १९ ॥ सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान् । बिल्वादिपञ्चमूलेन सिद्धो वस्तिरुरःस्थिते ॥ २० ॥ शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः । वस्तिरत्य्उष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा ॥ २१ ॥ अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः । अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः ॥ २२ ॥ विरेचनातियोगेन स तुल्याकृतिसाधनः । वस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा ॥ २३ ॥ ५.२३ व् लवणः पैत्तिकस्य च गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम् । स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः ॥ २४ ॥ ५.२४ व् करोत्यस्रपरिस्रवम् बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत् । रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते ॥ २५ ॥ ५.२५ व् बहुशश्चातियोगेन ५.२५ व् मोहं गच्छति चासकृत् ५.२५ व् मोहं गच्छति वासकृत् दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत् । तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत् ॥ २६ ॥ ५.२६ व् हत्वा दाहादिकाञ्जयेत् विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम् । युञ्ज्याद्वातिविरिक्तस्य क्षीणविट्कस्य भोजनम् ॥ २७ ॥ ५.२७ व् यवागूं शर्करान्विताम् माषयूषेण कुल्माषान् पानं दध्यथवा सुराम् । सिद्धिर्वस्त्य्आपदामेवं स्नेहवस्तेस्तु वक्ष्यते ॥ २८ ॥ ५.२८ व् स्नेहवस्तिषु वक्ष्यते ५.२८ व् स्नेहकल्पस्तु वक्ष्यते शीतोऽल्पो वाधिके वाते पित्तेऽत्य्उष्णः कफे मृदुः । अतिभुक्ते गुरुर्वर्चःसंचयेऽल्पबलस्तथा ॥ २९ ॥ दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि । स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः ॥ ३० ॥ ५.३० व् नायात्यभिभवादधः पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम् । स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः ॥ ३१ ॥ सौवीरकसुराकोलकुलत्थयवसाधितैः । निरूहैर्निर्हरेत्सम्यक्समूत्रैः पाञ्चमूलिकैः ॥ ३२ ॥ ५.३२ व् सौवीरकसुराङ्कोल्ल ५.३२ व् समूत्रैः पाञ्चमौलिकैः ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत् । तृड्दाहरागसंमोहवैवर्ण्यतमकज्वरैः ॥ ३३ ॥ ५.३३ व् ताभ्यामेव तु तैलाभ्यां ५.३३ व् तैलाभ्यामेव ताभ्यां वा विद्यात्पित्तावृतं स्वादुतिक्तैस्तं वस्तिभिर्हरेत् । तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः ॥ ३४ ॥ ५.३४ व् तिक्तैस्तं च विनिर्हरेत् संमूर्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम् । कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः ॥ ३५ ॥ ५.३५ व् समूर्छाग्लानिभिर्विद्याच् ५.३५ व् सुरामूत्रैः प्रसाधितैः ५.३५ व् सुरागोमूत्रसाधितैः फलतैलयुतैः साम्लैर्वस्तिभिस्तं विनिर्हरेत् । छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः ॥ ३६ ॥ ५.३६ व् शूलतन्द्राङ्गमर्दनैः आमलिङ्गैः सदाहैस्तं विद्यादत्य्अशनावृतम् । कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम् ॥ ३७ ॥ ५.३७ व् विद्यादामावृतं तु तम् मृदुर्विरेकः सर्वं च तत्रामविहितं हितम् । विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः ॥ ३८ ॥ स्नेहं विड्आवृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः । श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः ॥ ३९ ॥ निर्हरेद्विधिना सम्यगुदावर्तहरेण च । अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा ॥ ४० ॥ ५.४० व् उदावर्तहरेण वा ५.४० व् पेयामात्राशितस्य च गुदे प्रणिहितः स्नेहो वेगाद्धावत्यन्आवृतः । ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि ॥ ४१ ॥ ५.४१ व् ऊर्ध्वकायं ततः कण्ठाद् मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान् । तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः ॥ ४२ ॥ कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः । छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम् ॥ ४३ ॥ नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति । ततः कुर्यात्सरुङ्मोहकण्डूशोफान् क्रियात्र च ॥ ४४ ॥ ५.४४ व् नापक्वं स्नेहयेत्स्नेहं ५.४४ व् ततः कुर्यात्सतृण्मोह ५.४४ व् स कुर्यात्सक्थिरुङ्मोह तीक्ष्णो वस्तिस्तथा तैलमर्कपत्त्ररसे शृतम् । अन्उच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा ॥ ४५ ॥ ५.४५ व् अन्उच्छ्वास्य नु बद्धे वा ५.४५ व् अन्उच्छ्वास्यानुबद्धे वा ५.४५ व् दत्ते निःशेष एव च प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत् । तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च ॥ ४६ ॥ ५.४६ व् वातघ्नान्यशनान्यथ द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा । स्यात्कटीगुदजङ्घोरुवस्तिस्तम्भार्तिभेदनम् ॥ ४७ ॥ भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सवस्तयः । पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः ॥ ४८ ॥ उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली । वस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान् ॥ ४९ ॥ ५.४९ व् वस्तिः स्यात्तत्र बिल्वादिः ५.४९ व् फलश्यामादिमूत्रवान् अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम् । तत्र वस्तिर्विरेकश्च गलपीडादि कर्म च ॥ ५० ॥ ५.५० व् तिष्ठन्नायाति वा गलम् वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम् । यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा ॥ ५१ ॥ ५.५१ व् कर्मभिर्वमनाद्यैश्च ५.५१ व् वमनाद्यैर्विशुद्धं तु भिषक्प्रयत्नतो रक्षेत्सर्वस्मादपचारतः । दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ ॥ ५२ ॥ ५.५२ व् सर्वस्मादपवादतः स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः । अन्योऽन्यप्रत्य्अनीकानां रसानां स्निग्धरूक्षयोः ॥ ५३ ॥ व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत् । सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः ॥ ५४ ॥ Kअल्पस्थान धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ । श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते ॥ १ ॥ ६.१ व् धन्वसाधारणे देशे ६.१ व् श्मशानचैत्याद्यतन मृदौ प्रदक्षिणजले कुशरोहिषसंस्तृते । अफालकृष्टेऽन्आक्रान्ते पादपैर्बलवत्तरैः ॥ २ ॥ ६.२ व् कुशरोहिषसंस्कृते शस्यते भेषजं जातं युक्तं वर्णरसादिभिः । जन्त्व्अजग्धं दवादग्धमविदग्धं च वैकृतैः ॥ ३ ॥ ६.३ व् जन्त्व्अजुष्टं दवादग्धम् ६.३ व् अविजग्धं च वैकृतैः भूतैश्छायातपाम्ब्व्आद्यैर्यथाकालं च सेवितम् । अवगाढमहामूलमुदीचीं दिशमाश्रितम् ॥ ४ ॥ ६.४ व् उदीचीं दिशमास्थितम् महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै ॥ ४+(१) ॥ ६.४+(१)च्व् तपसां तेजसां वापि ६.४+(१)द्व् प्रशाम्यध्वं शमाय वै मन्त्रेणानेन मतिमान् सर्वमप्यौषधं नयेत् ॥ ४+(२)अब् ॥ अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः । गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ॥ ५ ॥ सक्षीरं तदसंपत्तावन्अतिक्रान्तवत्सरम् । ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः ॥ ६ ॥ ६.६ व् ऋते घृतगुडक्षौद्र पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम् । वयोबलवतां धातुपिच्छशृङ्गखुरादिकम् ॥ ७ ॥ ६.७ व् विण्मूत्रं तच्च नीरुजि ६.७ व् विण्मूत्रं तच्च नीरुजम् ६.७ व् पुच्छशृङ्गखुरादिकम् ६.७ व् पित्तशृङ्गखुरादिकम् कषाययोनयः पञ्च रसा लवणवर्जिताः । रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना ॥ ८ ॥ ६.८ व् फाण्टश्चेति प्रकल्पनाः पञ्चधैव कषायाणां पूर्वं पूर्वं बलाधिका । सद्यःसमुद्धृतात्क्षुण्णाद्यः स्रवेत्पटपीडितात् ॥ ९ ॥ ६.९ व् पञ्च चैव कषायाणां ६.९ व् पूर्वं पूर्वं बलाधिकाः ६.९ व् पूर्वं पूर्वं बलावहाः ६.९ व् सद्यःसमुद्धृतक्षुण्णाद् ६.९ व् यः स्रवेत्पटपीडनात् स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः । चूर्णोऽप्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः ॥ १० ॥ ६.१० व् शीतो रात्रौ द्रवे स्थितः सद्योऽभिषुतपूतस्तु फाण्टस्तन्मानकल्पने । युञ्ज्याद्व्याध्य्आदिबलतस्तथा च वचनं मुनेः ॥ ११ ॥ ६.११ व् सद्योऽभिक्षुण्णपूतस्तु मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः । आलोच्य देशकालौ च योज्या तद्वच्च कल्पना ॥ १२ ॥ ६.१२ व् मात्राया नास्त्यवस्थानं ६.१२ व् दोषमग्निं बलं वयः मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुःपलम् । पेष्यस्य कर्षमालोड्यं तद्द्रवस्य पलत्रये ॥ १३ ॥ ६.१३ व् मध्यमानं विनिर्दिष्टं क्वाथं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम् । शीतं पले पलैः षड्भिश्चतुर्भिस्तु ततोऽपरम् ॥ १४ ॥ ६.१४ व् चतुर्भिश्च ततोऽपरम् ६.१४ व् चतुर्भिस्तु ततः परम् स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम् । कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः ॥ १५ ॥ स्नेहे सिध्यति शुद्धाम्बुनिःक्वाथस्वरसैः क्रमात् । कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम् ॥ १६ ॥ पृथक्स्नेहसमं दद्यात्पञ्चप्रभृति तु द्रवम् । नाङ्गुलीग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता ॥ १७ ॥ ६.१७ व् द्रवं तु पञ्चप्रभृति ६.१७ व् पृथक्स्नेहसमं क्षिपेत् शुष्कद्रव्यं यदा न स्यात्तदा सद्यःसमुद्धृतम् । द्विगुणं तत्प्रयोक्तव्यं कुडवादि द्रवं तथा ॥ १७.१+१ ॥ वर्णादिसंपच्च यदा तदैनं शीघ्रमाहरेत् । घृतस्य फेनोपशमस्तैलस्य तु तद्उद्भवः ॥ १८ ॥ ६.१८ च् तैलस्य च तद्उद्भवः लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च । पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः ॥ १९ ॥ ६.१९ व् मज्जनं शरणं न च मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे । किञ्चित्सीदति कृष्णे च वर्त्यमाने च पश्चिमः ॥ २० ॥ ६.२० व् वर्तिमाने च पश्चिमः ६.२० व् वर्तमाने च पश्चिमः ६.२० व् वर्तमाने तु पश्चिमः दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत् । मृदुर्नस्ये खरोऽभ्यङ्गे पाने वस्तौ च चिक्कणः ॥ २१ ॥ शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम् । द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम् ॥ २२ ॥ द्विगुणं योजयेदार्द्रं कुडवादि तथा द्रवम् । पेषणालोडने वारि स्नेहपाके च निर्द्रवे ॥ २३ ॥ कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम् । कल्कीकुर्याच्च भैषज्यमनिरूपितकल्पनम् ॥ २४ ॥ अङ्गान्उक्तौ तु मूलं स्यादप्रसिद्धौ तदेव तु । द्वौ शाणौ वटकः कोलं बदरं द्रङ्क्षणश्च तौ ॥ २५ ॥ ६.२५ व् अनिर्दिष्टाप्रसिद्धेषु ६.२५ व् मूलं ग्राह्यं त्वग्आदिषु ६.२५ व् द्वौ शाणौ वटकः कोलो षड्वंश्यस्तु मरीचिः स्यात्षण्मरीच्यस्तु सर्षपः । तण्डुलः सर्षपास्त्वष्टौ धान्यमाषस्तु तौ यवः ॥ २५.१+(१) ॥ ६.२५.१+(१)द्व् धान्यमाषश्च तौ यवः तावण्डिका चतुर्भिस्तैर्माषकः शाणकस्तथा ॥ २५.१+(२)अब् ॥ ६.२५.१+(२)अव् तावन्तो गदिता माषाः ६.२५.१+(२)अव् तैस्तुर्यैर्गुञ्जका माषस् ६.२५.१+(२)ब्व् शाणोऽयं मुनिभिः स्मृतः ६.२५.१+(२)ब्व् तुर्याभिः शाणकः स्मृतः अक्षं पिचुः पाणितलं सुवर्णं कवडग्रहः । कर्षो बिडालपदकं तिन्दुकः पाणिमानिका ॥ २६ ॥ ६.२६ व् सुवर्णं कवडग्रहम् ६.२६ व् तिन्दुकं पाणिमानिका शब्दान्यत्वमभिन्नेऽर्थे शुक्तिरष्टमिका पिचू । पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका ॥ २७ ॥ ६.२७ व् शब्दानेवमभिन्नेऽर्थे ६.२७ व् शब्दा ह्यमी अभिन्नेऽर्थे द्वे पले प्रसृतस्तौ द्वावञ्जलिस्तौ तु मानिका । आढकं भाजनं कंसो द्रोणः कुम्भो घटोऽर्मणम् ॥ २८ ॥ ६.२८ व् द्वे पले प्रसृतिस्तौ द्वाव् तुला पलशतं तानि विंशतिर्भार उच्यते । हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा ॥ २९ ॥ ६.२९ व् तुला पलशतं तासां सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम् ॥ २९ªअब् ॥ ६.२९ªअव् सौम्यं तत्राद्यमाग्नेयं ६.२९ªब्व् वैन्ध्यमौषधमीरितम् ऊत्तरस्थान जातमात्रं विशोध्योल्बाद्बालं सैन्धवसर्पिषा । प्रसूतिक्लेशितं चानु बलातैलेन सेचयेत् ॥ १ ॥ अश्मनोर्वादनं चास्य कर्णमूले समाचरेत् । अथास्य दक्षिणे कर्णे मन्त्रमुच्चारयेदिमम् ॥ २ ॥ अङ्गादङ्गात्संभवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि संजीव शरदां शतम् ॥ ३ ॥ १.३ व् संजीव शरदः शतम् शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि । नक्षत्राणि दिशो रात्रिरहश्च त्वाभिरक्षतु ॥ ४ ॥ १.४ व् अहश्चत्वारि रक्षतु स्वस्थीभूतस्य नाभिं च सूत्रेण चतुर्अङ्गुलात् । बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायामवसञ्जयेत् ॥ ५ ॥ १.५ व् बद्ध्वोर्ध्वं वर्धयित्वा तु १.५ व् ग्रीवायामवसज्जयेत् नाभिं च कुष्ठतैलेन सेचयेत्स्नापयेदनु । क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा ॥ ६ ॥ १.६ व् नाभिं तु कुष्ठतैलेन १.६ व् सेचयेत्स्नपयेदनु कोष्णेन तप्तरजततपनीयनिमज्जनैः । ततो दक्षिणतर्जन्या तालून्नम्यावगुण्ठयेत् ॥ ७ ॥ शिरसि स्नेहपिचुना प्राश्यं चास्य प्रयोजयेत् । हरेणुमात्रं मेधायुर्बलार्थमभिमन्त्रितम् ॥ ८ ॥ १.८ व् प्राशं चास्य प्रयोजयेत् ऐन्द्रीब्राह्मीवचाशङ्खपुष्पीकल्कं घृतं मधु । चामीकरवचाब्राह्मीताप्यपथ्या रजीकृताः ॥ ९ ॥ १.९ व् कुष्ठपथ्या रजीकृताः लिह्यान्मधुघृतोपेता हेमधात्रीरजोऽथवा । गर्भाम्भः सैन्धववता सर्पिषा वामयेत्ततः ॥ १० ॥ १.१० व् गर्भाम्भः सैन्धववचा १.१० व् सर्पिषा वामयेत्ततः प्राजापत्येन विधिना जातकर्माणि कारयेत् । सिराणां हृदयस्थानां विवृतत्वात्प्रसूतितः ॥ ११ ॥ तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते । प्रथमे दिवसे तस्मात्त्रिकालं मधुसर्पिषी ॥ १२ ॥ अनन्तामिश्रिते मन्त्रपाविते प्राशयेच्छिशुम् । द्वितीये लक्ष्मणासिद्धं तृतीये च घृतं ततः ॥ १३ ॥ प्राङ्निषिद्धस्तनस्यास्य तत्पाणितलसंमितम् । स्तन्यानुपानं द्वौ कालौ नवनीतं प्रयोजयेत् ॥ १४ ॥ मातुरेव पिबेत्स्तन्यं तद्ध्यलं देहवृद्धये । स्तन्यधात्र्यावुभे कार्ये तद्असंपदि वत्सले ॥ १५ ॥ १.१५ व् तत्परं देहवृद्धये अव्यङ्गे ब्रह्मचारिण्यौ वर्णप्रकृतितः समे । नीरुजे मध्यवयसौ जीवद्वत्से न लोलुपे ॥ १६ ॥ हिताहारविहारेण यत्नादुपचरेच्च ते । शुक्क्रोधलङ्घनायासाः स्तन्यनाशस्य हेतवः ॥ १७ ॥ स्तन्यस्य सीधुवर्ज्यानि मद्यान्यानूपजा रसाः । क्षीरं क्षीरिण्य ओषध्यः शोकादेश्च विपर्ययः ॥ १८ ॥ १.१८ व् क्षीरं क्षीरिण्यौषधयः विरुद्धाहारभुक्तायाः क्षुधिताया विचेतसः । प्रदुष्टधातोर्गर्भिण्याः स्तन्यं रोगकरं शिशोः ॥ १९ ॥ १.१९ व् विरुद्धाहारचेष्टायाः स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् । ह्रस्वेन पञ्चमूलेन स्थिराभ्यां वा सितायुतम् ॥ २० ॥ १.२० व् मूलैः सिद्धं बृहत्य्आद्यैः षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः । जागृयुर्बान्धवास्तस्य दधतः परमां मुदम् ॥ २१ ॥ दशमे दिवसे पूर्णे विधिभिः स्वकुलोचितैः । कारयेत्सूतिकोत्थानं नाम बालस्य चार्चितम् ॥ २२ ॥ १.२२ व् विधिवत्स्वकुलोचितैः बिभ्रतोऽङ्गैर्मनोह्वालरोचनागुरुचन्दनम् । नक्षत्रदेवतायुक्तं बान्धवं वा समाक्षरम् ॥ २३ ॥ ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम् । प्राग्उदक्शिरसः कुर्याद्बालस्य ज्ञानवान् भिषक् ॥ २४ ॥ शुचिधौतोपधानानि निर्वलीनि मृदूनि च । शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च ॥ २५ ॥ काको विशस्तः शस्तश्च धूपने त्रिवृतान्वितः । जीवत्खड्गादिशृङ्गोत्थान् सदा बालः शुभान्मणीन् ॥ २६ ॥ १.२६ व् कङ्को विशस्तः शस्तश्च १.२६ व् जीवत्खड्गादिशृङ्गस्थान् धारयेदौषधीः श्रेष्ठाः ब्राह्म्य्ऐन्द्रीजीवकादिकाः । हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात्सततं वचाम् ॥ २७ ॥ १.२७ व् धारयेच्चौषधीः श्रेष्ठा १.२७ व् धारयेदौषधीश्चेष्टा आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोऽभिरक्षिणीम् । षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि ॥ २८ ॥ १.२८ व् षट्सप्ताष्टसु मासेषु कर्णौ हिमागमे विध्येद्धात्र्य्अङ्कस्थस्य सान्त्वयन् । प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥ २९ ॥ दक्षिणेन दधत्सूचीं पालीमन्येन पाणिना । मध्यतः कर्णपीठस्य किञ्चिद्गण्डाश्रयं प्रति ॥ ३० ॥ जरायुमात्रप्रच्छन्ने रविरश्म्य्अवभासिते । घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ॥ ३१ ॥ विध्येद्दैवकृते च्छिद्रे सकृदेवर्जु लाघवात् । नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः ॥ ३२ ॥ कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः । सशोफदाहसंरम्भमन्यास्तम्भापतानकाः ॥ ३३ ॥ १.३३ व् तद्बाधाद्रागरुग्ज्वराः तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम् । स्थाने व्यधान्न रुधिरं न रुग्रागादिसंभवः ॥ ३४ ॥ १.३४ व् स्थानव्यधान्न रुधिरं स्नेहाक्तं सूच्य्अनुस्यूतं सूत्रं चानु निधापयेत् । आमतैलेन सिञ्चेच्च बहलां तद्वदारया ॥ ३५ ॥ विध्येत्पालीं हितभुजः संचार्याथ स्थवीयसी । वर्तिस्त्र्य्अहात्ततो रूढं वर्धयेत शनैः शनैः ॥ ३६ ॥ १.३६ व् संचार्यान्या स्थवीयसी १.३६ व् वर्तिस्त्र्य्अहात्ततो रूढां अथैनं जातदशनं क्रमेणापनयेत्स्तनात् । पूर्वोक्तं योजयेत्क्षीरमन्नं च लघु बृंहणम् ॥ ३७ ॥ १.३७ व् जातदन्तं शिशुं शीते १.३७ व् क्रमशोऽपनयेत्स्तनात् प्रियालमज्जमधुकमधुलाजसितोपलैः । अपस्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥ ३८ ॥ दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः । संग्राही धातकीपुष्पशर्करालाजतर्पणैः ॥ ३९ ॥ रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः । अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत् ॥ ४० ॥ १.४० व् भेषजैरविषादिकैः १.४० व् भेषजैरविपादिकैः १.४० व् भेषजैर् अविपादकैः त्रासयेन्नाविधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः । वस्त्रवातात्परस्पर्शात्पालयेल्लङ्घनाच्च तम् ॥ ४१ ॥ १.४१ व् त्रासयेन्नाविधेयं च १.४१ व् वस्त्रपातात्खरस्पर्शात् १.४१ व् वस्त्रपातात्परस्पर्शात् १.४१ व् पालयेल्लङ्घिताच्च तम् ब्राह्मीसिद्धार्थकवचाशारिवाकुष्ठसैन्धवैः । सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद्घृतम् ॥ ४२ ॥ आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम् । वचेन्दुलेखामण्डूकीशङ्खपुष्पीशतावरीः ॥ ४३ ॥ १.४३ व् वचेन्दुलेखा मण्डूकी १.४३ व् शङ्खपुष्पी शतावरी ब्रह्मसोमामृताब्राह्मीः कल्कीकृत्य पलांशिकाः । अष्टाङ्गं विपचेत्सर्पिः प्रस्थं क्षीरचतुर्गुणम् ॥ ४४ ॥ १.४४ व् ब्रह्मसोमांर्ता ब्राह्मी १.४४ व् कल्कीकृत्य पलांशिकैः १.४४ व् प्रस्थं क्षीरं चतुर्गुणम् तत्पीतं धन्यमायुष्यं वाङ्मेधास्मृतिबुद्धिकृत् । अजाक्षीराभयाव्योषपाठोग्राशिग्रुसैन्धवैः ॥ ४५ ॥ १.४५ व् वाङ्मेधास्मृतिकृत्परम् १.४५ व् वाङ्मेधास्मृतिवह्निकृत् १.४५ व् पाठोग्राशक्रसैन्धवैः सिद्धं सारस्वतं सर्पिर्वाङ्मेधास्मृतिवह्निकृत् । वचामृताशठीपथ्याशङ्खिनीवेल्लनागरैः ॥ ४६ ॥ १.४६ व् वाङ्मेधास्मृतिबुद्धिकृत् १.४६ व् वचामृतावरीपथ्या अपामार्गेण च घृतं साधितं पूर्ववद्गुणैः । हेम श्वेतवचा कुष्ठमर्कपुष्पी सकाञ्चना ॥ ४७ ॥ १.४७ व् हेम श्वेतवचा कुष्ठं १.४७ व् शङ्खपुष्पी सकाञ्चना १.४७ व् शङ्खपुष्पी सरोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा । चत्वार एते पादोक्ताः प्राशा मधुघृतप्लुताः ॥ ४८ ॥ १.४८ व् हेम मत्स्याक्षकः फञ्जी १.४८ व् कैडर्यं कनकं वचा १.४८ व् प्राश्या मधुघृतप्लुताः वर्षं लीढा वपुर्मेधाबलवर्णकराः शुभाः । वचायष्ट्य्आह्वसिन्धूत्थपथ्यानागरदीप्यकैः ॥ ४९ ॥ शुध्यते वाग्घविर्लीढैः सकुष्ठकणजीरकैः ॥ ४९ªअब् ॥ १.४९ªअव् शुध्यते वाग्घृतालीढैः ऊत्तरस्थान त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः । स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसंभवः ॥ १ ॥ यदद्भिरेकतां याति न च दोषैरधिष्ठितम् । तद्विशुद्धं पयो वाताद्दुष्टं तु प्लवतेऽम्भसि ॥ २ ॥ २.२ व् दुष्टं तु प्लवते जले कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत् । पित्तादुष्णाम्लकटुकं पीतराज्यप्सु दाहकृत् ॥ ३ ॥ कफात्सलवणं सान्द्रं जले मज्जति पिच्छिलम् । संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सांनिपातिकम् ॥ ४ ॥ यथास्वलिङ्गांस्तद्व्याधीन् जनयत्युपयोजितम् । शिशोस्तीक्ष्णमभीक्ष्णं च रोदनाल्लक्षयेद्रुजम् ॥ ५ ॥ २.५ व् शिशोस्तीक्ष्णमतीक्ष्णं च स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः । तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ॥ ६ ॥ २.६ व् स्वयं स्पृशेद्भृशं देशं २.६ व् यत्र च स्पर्शनाक्षमम् हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः । कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः ॥ ७ ॥ २.७ व् श्वासमुष्टिनिपीडितैः २.७ व् स्तन्यद्वेषान्त्रकूजनैः आध्मानपृष्ठनमनजठरोन्नमनैरपि । वस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिग्ईक्षणैः ॥ ८ ॥ अथ धात्र्याः क्रियां कुर्याद्यथादोषं यथामयम् । तत्र वातात्मके स्तन्ये दशमूलं त्र्य्अहं पिबेत् ॥ ९ ॥ अथवाग्निवचापाठाकटुकाकुष्ठदीप्यकम् । सभार्गीदारुसरलवृश्चिकालीकणोषणम् ॥ १० ॥ ततः पिबेदन्यतमं वातव्याधिहरं घृतम् । अनु चाच्छसुरामेवं स्निग्धां मृदु विरेचयेत् ॥ ११ ॥ २.११ व् वातव्याधिहितं घृतम् वस्तिकर्म ततः कुर्यात्स्वेदादींश्चानिलापहान् । रास्नाजमोदासरलदेवदारुरजोऽन्वितम् ॥ १२ ॥ बालो लिह्याद्घृतं तैर्वा विपक्वं ससितोपलम् । पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम् ॥ १३ ॥ धात्री कुमारश्च पिबेत्क्वाथयित्वा सशारिवम् । अथवा त्रिफलामुस्तभूनिम्बकटुरोहिणीः ॥ १४ ॥ शारिवादिं पटोलादिं पद्मकादिं तथा गणम् । घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम् ॥ १५ ॥ शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्याच्छ्लेष्मात्मके पुनः । यष्ट्य्आह्वसैन्धवयुतं कुमारं पाययेद्घृतम् ॥ १६ ॥ सिन्धूत्थपिप्पलीमद्वा पिष्टैः क्षौद्रयुतैरथ । राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ ॥ १७ ॥ २.१७ व् सिन्धूत्थपिप्पलीमद्य २.१७ व् सिन्धूत्थपिप्पलीमुस्ता २.१७ व् सिन्धूत्थपिप्पलीमूर्वा २.१७ व् पिष्टैः क्षौद्रयुतैरथ सुखमेवं वमेद्बालः तीक्ष्णैर्धात्रीं तु वामयेत् । अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत् ॥ १८ ॥ तद्वत्तगरपृथ्वीकासुरदारुकलिङ्गकान् । अथवातिविषामुस्तषड्ग्रन्थापञ्चकोलकम् ॥ १९ ॥ २.१९ व् सुरदारुकलिङ्गकम् २.१९ व् षड्ग्रन्थापञ्चकोलकान् स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम् । विबद्धमच्छं विच्छिन्नं फेनिलं चोपवेश्यते ॥ २० ॥ शकृन्नानाव्यथावर्णं मूत्रं पीतं सितं घनम् । ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः ॥ २१ ॥ अङ्गभङ्गोऽङ्गविक्षेपः कूजनं वेपथुर्भ्रमः । घ्राणाक्षिमुखपाकाद्या जायन्तेऽन्येऽपि तं गदम् ॥ २२ ॥ २.२२ व् क्वणनं वेपथुर्भ्रमः क्षीरालसकमित्याहुरत्ययं चातिदारुणम् । तत्राशु धात्रीं बालं च वमनेनोपपादयेत् ॥ २३ ॥ विहितायां च संसर्ग्यां वचादिं योजयेद्गणम् । निशादिं वाथवा माद्रीपाठातिक्ताघनामयान् ॥ २४ ॥ पाठाशुण्ठ्य्अमृतातिक्ततिक्तादेवाह्वशारिवाः । समुस्तमूर्वेन्द्रयवाः स्तन्यदोषहराः परम् ॥ २५ ॥ अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित् । दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम् ॥ २६ ॥ विशेषाज्ज्वरविड्भेदकासच्छर्दिशिरोरुजाम् । अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥ २७ ॥ पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्भवे । दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते ॥ २८ ॥ २.२८ व् दन्तोद्भवे च बालानां यथादोषं यथारोगं यथोद्रेकं यथाभयम् । विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम् ॥ २९ ॥ २.२९ व् यथोद्रेकं यथाबलम् २.२९ व् यथोद्रेकं यथावयः २.२९ व् यथोद्रेकं यथाशयम् त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत् । अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥ ३० ॥ २.३० व् ज्वराद्या व्याधयश्च ते सौकुमार्याल्पकायत्वात्सर्वान्नान्उपसेवनात् । स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात् ॥ ३१ ॥ २.३१ व् सर्वान्नान्उपसेवनैः सद्यस्तान् वमनं तस्मात्पाययेन्मतिमान्मृदु । स्तन्यस्य तृप्तं वमयेत्क्षीरक्षीरान्नसेविनम् ॥ ३२ ॥ पीतवन्तं तनुं पेयामन्नादं घृतसंयुताम् । वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ॥ ३३ ॥ युञ्ज्याद्विरेचनादींस्तु धात्र्या एव यथोदितान् । मूर्वाव्योषवराकोलजम्बूत्वग्दारुसर्षपाः ॥ ३४ ॥ २.३४ व् युञ्ज्याद्विरेचनादींश्च २.३४ व् मूर्वाव्योषवचाकोल २.३४ व् मूर्वाव्योषवराङ्कोल्ल सपाठा मधुना लीढाः स्तन्यदोषहराः परम् । दन्तपालीं समधुना चूर्णेन प्रतिसारयेत् ॥ ३५ ॥ २.३५ व् स्तन्यदोषनिबर्हणाः पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा । लावतित्तिरिवल्लूररजः पुष्परसद्रुतम् ॥ ३६ ॥ २.३६ व् धात्रीफलरसेन वा २.३६ व् रजः पुष्परसप्लुतम् २.३६ व् रजः पुष्परसाप्लुतम् द्रुतं करोति बालानां दन्तकेसरवन्मुखम् । वचाद्विबृहतीपाठाकटुकातिविषाघनैः ॥ ३७ ॥ मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि । रजनीदारुसरलश्रेयसीबृहतीद्वयम् ॥ ३८ ॥ २.३८ व् रजनीदारुसरलाः २.३८ व् श्रेयसीबृहतीद्वयम् पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा । ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥ ३९ ॥ अतीसारज्वरश्वासकामलापाण्डुकासनुत् । बालस्य सर्वरोगेषु पूजितं बलवर्णदम् ॥ ४० ॥ २.४० व् कामलापाण्डुरोगनुत् समङ्गाधातकीलोध्रकुटन्नटबलाद्वयैः । महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः ॥ ४१ ॥ २.४१ व् कुटन्नटबलाह्वयैः २.४१ व् कुटन्नटवटाह्वयैः सकार्पासीफलैस्तोये साधितैः साधितं घृतम् । क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ॥ ४२ ॥ विविधानामयानेतद्वृद्धकाश्यपनिर्मितम् । दन्तोद्भवेषु रोगेषु न बालमतियन्त्रयेत् ॥ ४३ ॥ २.४३ व् दन्तोद्भेदोत्थरोगेषु स्वयमप्युपशाम्यन्ति जातदन्तस्य यद्गदाः । अत्य्अहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः ॥ ४४ ॥ २.४४ व् श्लैष्मिकस्तन्यपायिनः शिशोः कफेन रुद्धेषु स्रोतःसु रसवाहिषु । अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते ॥ ४५ ॥ कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः । सैन्धवव्योषशार्ङ्गष्टापाठागिरिकदम्बकान् ॥ ४६ ॥ २.४६ व् पाठागिरिकदम्बकम् शुष्यतो मधुसर्पिर्भ्यामरुच्य्आदिषु योजयेत् । अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम् ॥ ४७ ॥ बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम् । स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः ॥ ४८ ॥ २.४८ व् चूर्णं वा सर्पिषाप्लुतम् निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः । सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम् ॥ ४९ ॥ सिंह्य्अश्वगन्धासुरसाकणागर्भं च तद्गुणम् । यष्ट्य्आह्वपिप्पलीलोध्रपद्मकोत्पलचन्दनैः ॥ ५० ॥ तालीशशारिवाभ्यां च साधितं शोषजिद्घृतम् । शृङ्गीमधूलिकाभार्गीपिप्पलीदेवदारुभिः ॥ ५१ ॥ अश्वगन्धाद्विकाकोलीरास्नर्षभकजीवकैः । शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम् ॥ ५२ ॥ शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत्परम् । वचावयःस्थातगरकायस्थाचोरकैः शृतम् ॥ ५३ ॥ बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम् । लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम् ॥ ५४ ॥ २.५४ व् तैलान्मस्तु चतुर्गुणम् २.५४ व् लाक्षारससमं तैलं २.५४ व् प्रस्थं मस्तु चतुर्गुणम् अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः । समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः ॥ ५५ ॥ सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिदम् । बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत् ॥ ५६ ॥ यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते । मधुनातिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम् ॥ ५७ ॥ एकां वातिविषां कासज्वरच्छर्दिर्उपद्रुतम् । पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा ॥ ५८ ॥ २.५८ व् ज्वरच्छर्दिभिरर्दितम् २.५८ व् पीतं पीतं च वमति २.५८ व् यः स्तन्यं मधुसर्पिषा द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत् । पिप्पलीपञ्चलवणं कृमिजित्पारिभद्रकम् ॥ ५९ ॥ २.५९ व् पिप्पलीपञ्चलवण २.५९ व् कृमिजित्पारिभद्रकम् २.५९ व् विडङ्गं पारिभद्रकम् तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम् । लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम् ॥ ६० ॥ खदिरार्जुनतालीशकुष्ठचन्दनजे रसे । सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति ॥ ६१ ॥ हनुमूलगतो वायुर्दन्तदेशास्थिगोचरः । यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्विजाः ॥ ६१+(१) ॥ २.६१+(१)अव् हनुमूलाश्रितो वायुर् २.६१+(१)ब्व् दन्तदेशान् विशोषयेत् २.६१+(१)ब्व् दन्तदेशान् विशोधयेत् रूक्षाशिनो वातिकस्य चालयत्यनिलः सिराः । हन्व्आश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्यतः ॥ ६१+(२) ॥ सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः । कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजातये ॥ ६२ ॥ २.६२ व् शान्तिकं च द्विजातये दद्यात्सदक्षिणं बालं नैगमेषं च पूजयेत् । तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ॥ ६३ ॥ २.६३ व् सैनिकेशं च पूजयेत् तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते । तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्रवम् ॥ ६४ ॥ तृड्आस्यकण्ड्व्अक्षिरुजा ग्रीवादुर्धरता वमिः । तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत् ॥ ६५ ॥ तालु तद्वत्कणाशुण्ठीगोशकृद्रससैन्धवैः । शृङ्गवेरनिशाभृङ्गं कल्कितं वटपल्लवैः ॥ ६६ ॥ बद्ध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः । रसेन लिम्पेत्ताल्व्आस्यं नेत्रे च परिषेचयेत् ॥ ६७ ॥ हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम् । पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥ ६८ ॥ मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः । ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्य्उपद्रवः ॥ ६९ ॥ केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनम् । पृष्ठारुर्गुदकुट्टं च केचिच्च तमनामिकम् ॥ ७० ॥ २.७० व् केचिच्च तमनामकम् २.७० व् वदन्त्यन्येऽपि पूतनम् २.७० व् वदन्त्यन्ये तु पूतनम् २.७० च् वदन्त्यन्ये हि पूतनम् २.७० व् पृष्ठारुर्गुदकण्डूं च २.७० व् पृष्ठारुर्गुदकिट्टं च २.७० व् पृष्ठारुर्गुदकुष्ठं च तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः । शृतशीतं च शीताम्बुयुक्तमन्तरपानकम् ॥ ७१ ॥ २.७१ व् सितशीतं च शीताम्बु सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत् । त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितम् ॥ ७२ ॥ कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः । लेपयेदम्लपिष्टैर्वा चूर्णितैर्वावचूर्णयेत् ॥ ७३ ॥ सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः । शारिवाशङ्खनाभिभ्यामसनस्य त्वचाथवा ॥ ७४ ॥ रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा । सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके ॥ ७५ ॥ २.७५ व् छस्यते गुदकिट्टके पाठावेल्लद्विरजनीमुस्तभार्गीपुनर्नवैः । सबिल्वत्र्य्ऊषणैः सर्पिः वृश्चिकालीयुतैः शृतम् ॥ ७६ ॥ लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः ॥ ७७ ब् ॥ व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः ॥ ७७ द् ॥ स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदम् ॥ ७७ f ॥ २.७७ व् पीतस्तत्तं जयेद्गदम् ऊत्तरस्थान पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना । मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः ॥ १ ॥ स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृसंज्ञितः । शकुनिः पूतना शीतपूतनादृष्टिपूतना ॥ २ ॥ ३.२ व् स्कन्दो विशाखो मेषास्यः मुखमण्डितिका तद्वद्रेवती शुष्करेवती । तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥ ३ ॥ ३.३ व् मुखमण्डनिका तद्वद् ३.३ व् मुखमण्डिनिका तद्वद् सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः । फेनस्रावोर्ध्वदृष्ट्य्ओष्ठदन्तदंशप्रजागराः ॥ ४ ॥ ३.४ व् जृम्भाभ्रूत्क्षेपदीनताः रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम् । नखैरकस्मात्परितः स्वधात्र्य्अङ्गविलेखनम् ॥ ५ ॥ तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः । हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ॥ ६ ॥ ३.६ व् शिरो विक्षेपते मुहुः ३.६ व् शिरो विक्षिप्यते मुहुः दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरम् । वक्रवक्त्रो वमन् लालां भृशमूर्ध्वं निरीक्षते ॥ ७ ॥ ३.७ व् त्रसन् रोदिति विस्वरम् ३.७ व् वक्रवक्त्रो वमेल्लालां वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः । चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः ॥ ८ ॥ स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम् । संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः ॥ ९ ॥ ३.९ व् मरणं वा भवेद्द्रुतम् ३.९ व् संज्ञानाशो भवेत्केश विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम् । फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम् ॥ १० ॥ स्तनस्वजिह्वासंदंशसंरम्भज्वरजागराः । पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम् ॥ ११ ॥ आध्मानं पाणिपादस्य स्पन्दनं फेननिर्वमः । तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः ॥ १२ ॥ ३.१२ व् आध्मानं पाणिपादास्य ३.१२ व् स्पन्दनं फेननिर्वमः ३.१२ व् स्पन्दनं फेननिर्गमः ३.१२ व् स्पन्दनं हननं भ्रमः कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः । ओष्ठदंशाङ्गसंकोचस्तम्भबस्ताभगन्धताः ॥ १३ ॥ ३.१३ व् कूजनं श्वसनं छर्दिः ३.१३ व् कूजनं स्तम्भनं छर्दिः ३.१३ व् कूजनं स्वननं छर्दिः ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः । मूर्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः ॥ १४ ॥ कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम् । बहिर्आयामनं जिह्वादंशोऽन्तःकण्ठकूजनम् ॥ १५ ॥ ३.१५ व् कम्पो हर्षितरोमत्वं धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि । रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः ॥ १६ ॥ ३.१६ व् क्रोशनं श्वानवच्छुनि ३.१६ व् रोमहर्षो मुहुः श्वासः कासातीसारवमथुजृम्भातृट्शवगन्धताः । अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः ॥ १७ ॥ मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे । स्रस्ताङ्गत्वमतीसारो जिह्वातालुगले व्रणाः ॥ १८ ॥ स्फोटाः सदाहरुक्पाकाः संधिषु स्युः पुनः पुनः । निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपि वा ॥ १९ ॥ भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे । पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः ॥ २० ॥ हिध्माध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः । स्रस्तहृष्टाङ्गरोमत्वं काकवत्पूतिगन्धिता ॥ २१ ॥ शीतपूतनया कम्पो रोदनं तिर्यग्ईक्षणम् । तृष्णान्त्रकूजोऽतीसारो वसावद्विस्रगन्धता ॥ २२ ॥ पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च । अन्धपूतनया छर्दिर्ज्वरः कासोऽल्पनिद्रता ॥ २३ ॥ ३.२३ व् ज्वरः कासोऽल्पवह्निता वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम् । दृष्टेः सादातिरुक्कण्डूपोथकीजन्मशूनताः ॥ २४ ॥ ३.२४ व् दृष्टिप्रसादो रुक्कण्डू ३.२४ व् दृष्टिसादोऽक्षिरुक्कण्डू ३.२४ व् दृष्टिसादोऽतिरुक्कण्डूः ३.२४ व् दृष्टिसादोऽतिरुक्कण्डू ३.२४ व् दृष्टेः सादोऽक्षिरुक्कण्डू ३.२४ व् पोथकीजन्म शूनता ३.२४ व् पोथकीजन्म शूनता ३.२४ व् पोथकीजन्म शून्यता हिध्मोद्वेगस्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः । वेपथुर्मत्स्यगन्धत्वमथवा साम्लगन्धता ॥ २५ ॥ ३.२५ व् वैवर्ण्यं स्वरतीक्ष्णता ३.२५ व् वमथुर्मत्स्यगन्धत्वम् मुखमण्डितया पाणिपादास्यरमणीयता । सिराभिरसिताभाभिराचितोदरता ज्वरः ॥ २६ ॥ ३.२६ व् मुखमण्डिकया पाणि ३.२६ व् पादस्य रमणीयता अरोचकोऽङ्गग्लपनं गोमूत्रसमगन्धता । रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम् ॥ २७ ॥ ३.२७ व् रेवत्या श्यावनीलत्वं कासहिध्माक्षिविक्षेपवक्रवक्त्रत्वरक्तताः । बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्रवम् ॥ २८ ॥ जायते शुष्करेवत्यां क्रमात्सर्वाङ्गसंक्षयः । केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता ॥ २९ ॥ ३.२९ व् जायते शुष्करेवत्या नानावर्णपुरीषत्वमुदरे ग्रन्थयः सिराः ॥ २९+१ ब् ॥ रोदनं गृध्रगन्धत्वं दीर्घकालानुवर्तनम् । उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत् ॥ ३० ॥ जिह्वाया निम्नता मध्ये श्यावं तालु च तं त्यजेत् । भुञ्जानोऽन्नं बहुविधं यो बालः परिहीयते ॥ ३१ ॥ ३.३१ व् जिह्वायां निम्नता मध्ये तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती । हिंसारत्य्अर्चनाकाङ्क्षा ग्रहग्रहणकारणम् ॥ ३२ ॥ तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः । क्षतजिह्वः क्वणेद्बाढमसुखी साश्रुलोचनः ॥ ३३ ॥ ३.३३ व् क्षतजिह्वः क्वणन् बाढम् ३.३३ व् क्षतजिह्वः क्वणेद्गाढम् ३.३३ व् क्षतजिह्वो वमेद्बाढम् ३.३३ व् असुखी सास्रलोचनः दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते । क्षामो मूत्रपुरीषं स्वं मृद्नाति न जुगुप्सते ॥ ३४ ॥ ३.३४ व् पूतिगन्धिस्तु जायते ३.३४ व् गृह्णाति न जुगुप्सते हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथा परम् । तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत् ॥ ३५ ॥ ३.३५ व् हस्तौ चोद्यम्य संक्रुद्धो अप्सु मज्जेत्पतेत्कूपे कुर्यादन्यच्च तद्विधम् । तृड्दाहमोहान् पूयस्य च्छर्दनं च प्रवर्तयेत् ॥ ३६ ॥ ३.३६ व् तृड्दाहमोहाः पूयस्य रक्तं च सर्वमार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत् । रहःस्त्रीरतिसंलापगन्धस्रग्भूषणप्रियः ॥ ३७ ॥ ३.३७ व् रिष्टोत्पत्तिश्च तं त्यजेत् हृष्टः शान्तश्च दुःसाध्यो रतिकामेन पीडितः । दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः ॥ ३८ ॥ ३.३८ व् दीनः परिमृशेद्वक्त्रं शङ्कितं वीक्षते रौति ध्यायत्यायाति दीनताम् । अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते ॥ ३९ ॥ गृहीतं बलिकामेन तं विद्यात्सुखसाधनम् । हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः ॥ ४० ॥ ३.४० व् गृहीतं महकामेन इतरौ तु यथाकामं रतिबल्य्आदिदानतः । अथ साध्यग्रहं बालं विविक्ते शरणे स्थितम् ॥ ४१ ॥ त्रिरह्नः सिक्तसंमृष्टे सदा संनिहितानले । विकीर्णभूतिकुसुमपत्त्रबीजान्नसर्षपे ॥ ४२ ॥ ३.४२ व् त्रिरह्नं सिक्तसंमृष्टे ३.४२ व् त्रिरह्नः सिक्तसंसृष्टे ३.४२ व् त्रिर् अह्नि सिक्तसंमृष्टे ३.४२ व् त्रिरह्नि सिक्तसंसृष्टे ३.४२ व् विकीर्णभूरिकुसुम रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि । व्यवायमद्यपिशितनिवृत्तपरिचारके ॥ ४३ ॥ ३.४३ व् प्रदीपे हतपाप्मनि पुराणसर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना । साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः ॥ ४४ ॥ पारिभद्रककट्वङ्गजम्बूवरुणकट्तृणैः । कपोतवङ्कापामार्गपाटलामधुशिग्रुभिः ॥ ४५ ॥ ३.४५ व् पाटलीमधुशिग्रुभिः ३.४५ व् मालतीमधुशिग्रुभिः काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः । सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत् ॥ ४६ ॥ ३.४६ व् कपित्थक्षीरपादपैः द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः । पूतिदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः ॥ ४७ ॥ ३.४७ व् पूतिदशाङ्गीसिद्धार्थ सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः । सर्षपा निम्बपत्त्राणि मूलमश्वखुरा वचा ॥ ४८ ॥ ३.४८ व् सकुष्ठैः साधितो धूपः ३.४८ व् मूत्रमश्वखुरा वचा ३.४८ व् मूलमश्वखुरं वचा भूर्जपत्त्रं घृतं धूपः सर्वग्रहनिवारणः । अनन्ताम्रास्थितगरं मरिचं मधुरो गणः ॥ ४९ ॥ ३.४९ व् सर्वग्रहनिबर्हणः ३.४९ व् अनन्ताम्रास्थितगर ३.४९ व् मरिचं मधुरो गणः शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत् । दशमूलरसक्षीरयुक्तं तद्ग्रहजित्परम् ॥ ५० ॥ रास्नाद्व्य्अंशुमतीवृद्धपञ्चमूलबलाघनात् । क्वाथे सर्पिः पचेत्पिष्टैः शारिवाव्योषचित्रकैः ॥ ५१ ॥ ३.५१ व् रास्नाद्व्य्अंशुमतीपत्त्र ३.५१ व् रास्नाद्व्य्अंशुमतीलोध्र ३.५१ व् पञ्चमूलवचाघनात् पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः । सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत्सततं हितम् ॥ ५२ ॥ ३.५२ व् शिशोस्तु सततं हितम् सर्वरोगग्रहहरं दीपनं बलवर्णदम् । शारिवासुरभिब्राह्मीशङ्खिनीकुष्ठसर्षपैः ॥ ५३ ॥ ३.५३ व् दीपनं बलवर्धनम् ३.५३ व् शङ्खिनीकृष्णसर्षपैः वचाश्वगन्धासुरसयुक्तैः सर्पिर्विपाचयेत् । तन्नाशयेद्ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ॥ ५४ ॥ ३.५४ व् वचाश्वगन्धासुरसा गोशृङ्गचर्मवालाहिनिर्मोकं वृषदंशविट् । निम्बपत्त्राज्यकटुकामदनं बृहतीद्वयम् ॥ ५५ ॥ ३.५५ व् गोशृङ्गचर्मवालास्थि ३.५५ व् गोशृङ्गरोमवालाहि कार्पासास्थियवच्छागरोमदेवाह्वसर्षपम् । मयूरपत्त्रश्रीवासं तुषकेशं सरामठम् ॥ ५६ ॥ ३.५६ व् कार्पासास्थियववचा ३.५६ व् कार्पासास्थिवचाबिल्व ३.५६ व् कार्पासास्थिवचालोध्र ३.५६ व् मयूरपिच्छश्रीवास ३.५६ व् मयूरपिच्छश्रीवासं ३.५६ व् लोध्रदेवाह्वसर्षपम् ३.५६ व् देवाह्वं यवसर्षपम् ३.५६ व् मयूरपत्त्रश्रीवास ३.५६ व् नरकेशं सरामठम् मृद्भाण्डे बस्तमूत्रेण भावितं श्लक्ष्णचूर्णितम् । धूपनं च हितं सर्वभूतेषु विषमज्वरे ॥ ५७ ॥ ३.५७ व् धूपनार्थं हितं सर्व घृतानि भूतविद्यायां वक्ष्यन्ते यानि तानि च । युञ्ज्यात्तथा बलिं होमं स्नपनं मन्त्रतन्त्रवित् ॥ ५८ ॥ पूतिकरञ्जत्वक्पत्त्रं क्षीरिभ्यो बर्बरादपि । तुम्बीविशालारलुकशमीबिल्वकपित्थतः ॥ ५९ ॥ ३.५९ व् पूतिकरञ्जत्वक्पत्त्र ३.५९ व् पूतिकरञ्जात्त्वक्पत्त्रं ३.५९ व् क्षीरिभ्यो वेदरादपि ३.५९ व् मूलेभ्यो बर्बरादपि ३.५९ व् मूलेभ्यो वर्धरादपि ३.५९ व् शमीबिल्वकपित्थकम् उत्क्वाथ्य तोयं तद्रात्रौ बालानां स्नपनं शिवम् । अनुबन्धान् यथाकृच्छ्रं ग्रहापायेऽप्युपद्रवान् ॥ ६० ॥ ३.६० व् ग्रहव्यापद्युपद्रवान् बालामयनिषेधोक्तभेषजैः समुपाचरेत् ॥ ६०ªअब् ॥ ३.६०ªब्व् भैषज्यैः समुपाचरेत् ऊत्तरस्थान लक्षयेज्ज्ञानविज्ञानवाक्चेष्टाबलपौरुषम् । पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत् ॥ १ ॥ भूतस्य रूपप्रकृतिभाषागत्य्आदिचेष्टितैः । यस्यानुकारं कुरुते तेनाविष्टं तमादिशेत् ॥ २ ॥ सोऽष्टादशविधो देवदानवादिविभेदतः । हेतुस्तद्अनुषक्तौ तु सद्यः पूर्वकृतोऽथवा ॥ ३ ॥ ४.३ व् सद्यः पूर्वं कृतोऽथवा प्रज्ञापराधः सुतरां तेन कामादिजन्मना । लुप्तधर्मव्रताचारः पूज्यानप्यतिवर्तते ॥ ४ ॥ ४.४ व् पूज्यानामतिवर्तनैः तं तथा भिन्नमर्यादं पापमात्मोपघातिनम् । देवादयोऽप्यनुघ्नन्ति ग्रहाश्छिद्रप्रहारिणः ॥ ५ ॥ छिद्रं पापक्रियारम्भः पाकोऽन्इष्टस्य कर्मणः । एकस्य शून्येऽवस्थानं श्मशानादिषु वा निशि ॥ ६ ॥ दिग्वासस्त्वं गुरोर्निन्दा रतेरविधिसेवनम् । अशुचेर्देवतार्चादि परसूतकसंकरः ॥ ७ ॥ ४.७ व् अशुचेर्देवताराद्धिः ४.७ व् परसूतकसंकरात् होममन्त्रबलीज्यानां विगुणं परिकर्म च । समासाद्दिनचर्यादिप्रोक्ताचारव्यतिक्रमः ॥ ८ ॥ ४.८ व् प्रोक्तानां च विपर्ययः गृह्णन्ति शुक्लप्रतिपत्त्रयोदश्योः सुरा नरम् । शुक्लत्रयोदशीकृष्णद्वादश्योर्दानवा ग्रहाः ॥ ९ ॥ ४.९ व् द्वादश्योर्दानवग्रहाः गन्धर्वास्तु चतुर्दश्यां द्वादश्यां चोरगाः पुनः । पञ्चम्यां शुक्लसप्तम्य्एकादश्योस्तु धनेश्वराः ॥ १० ॥ ४.१० व् पञ्चम्यां शुक्लसप्तम्याम् ४.१० व् एकादश्यां धनेश्वराः शुक्लाष्टपञ्चमीपौर्णमासीषु ब्रह्मराक्षसाः । कृष्णे रक्षःपिशाचाद्या नवद्वादशपर्वसु ॥ ११ ॥ ४.११ व् शुक्लाष्टपञ्चमीपूर्ण ४.११ व् मासीषु ब्रह्मराक्षसाः दशामावास्ययोरष्टनवम्योः पितरोऽपरे । गुरुवृद्धादयः प्रायः कालं संध्यासु लक्षयेत् ॥ १२ ॥ ४.१२ व् दर्शामावास्ययोरष्ट ४.१२ व् दशामावास्ययोः षष्ठी फुल्लपद्मोपममुखं सौम्यदृष्टिमकोपनम् । अल्पवाक्स्वेदविण्मूत्रं भोजनान्अभिलाषिणम् ॥ १३ ॥ ४.१३ व् स्व्अल्पवाक्स्वेदविण्मूत्रं देवद्विजातिपरमं शुचिं संस्कृतवादिनम् । मीलयन्तं चिरान्नेत्रे सुरभिं वरदायिनम् ॥ १४ ॥ शुक्लमाल्याम्बरसरिच्छैलोच्चभवनप्रियम् । अनिद्रमप्रधृष्यं च विद्याद्देववशीकृतम् ॥ १५ ॥ ४.१५ व् शुक्लमाल्याम्बरधरं ४.१५ व् शैलोच्चभवनप्रियम् जिह्मदृष्टिं दुर्आत्मानं गुरुदेवद्विजद्विषम् । निर्भयं मानिनं शूरं क्रोधनं व्यवसायिनम् ॥ १६ ॥ ४.१६ व् निर्भयं मानिनं क्रूरं रुद्रः स्कन्दो विशाखोऽहमिन्द्रोऽहमिति वादिनम् । सुरामांसरुचिं विद्याद्दैत्यग्रहगृहीतकम् ॥ १७ ॥ ४.१७ व् रुद्रः स्कन्दः पिशाचोऽहम् ४.१७ व् मद्यमांसरुचिं विद्याद् ४.१७ व् दैत्यग्रहवशीकृतम् स्व्आचारं सुरभिं हृष्टं गीतनर्तनकारिणम् । स्नानोद्यानरुचिं रक्तवस्त्रमाल्यानुलेपनम् ॥ १८ ॥ ४.१८ व् स्व्आचारसुरभिशिष्ट ४.१८ व् स्वेचरं सुरभिं हृष्टं ४.१८ व् गीतनर्तनकारिणम् ४.१८ व् स्नानोद्यानरतं रक्त शृङ्गारलीलाभिरतं गन्धर्वाध्युषितं वदेत् । रक्ताक्षं क्रोधनं स्तब्धदृष्टिं वक्रगतिं चलम् ॥ १९ ॥ ४.१९ व् शृङ्गारमाल्याभिरतं ४.१९ व् शृङ्गारलीलाभिहितं श्वसन्तमनिशं जिह्वालोलिनं सृक्किणीलिहम् । प्रियदुग्धगुडस्नानमधोवदनशायिनम् ॥ २० ॥ उरगाधिष्ठितं विद्यात्त्रस्यन्तं चातपत्रतः । विप्लुतत्रस्तरक्ताक्षं शुभगन्धं सुतेजसम् ॥ २१ ॥ प्रियनृत्यकथागीतस्नानमाल्यानुलेपनम् । मत्स्यमांसरुचिं हृष्टं तुष्टं बलिनमव्यथम् ॥ २२ ॥ ४.२२ व् प्रियनर्तकथागीत ४.२२ व् मत्स्यमांसरुचिं हृष्ट ४.२२ व् तुष्टं बलिनमव्यथम् ४.२२ व् तुष्टं बलिनमव्ययम् चलिताग्रकरं कस्मै किं ददामीति वादिनम् । रहस्यभाषिणं वैद्यद्विजातिपरिभाविनम् ॥ २३ ॥ ४.२३ व् द्विजातिपरिवादिनम् अल्परोषं द्रुतगतिं विद्याद्यक्षगृहीतकम् । हास्यनृत्यप्रियं रौद्रचेष्टं छिद्रप्रहारिणम् ॥ २४ ॥ ४.२४ व् अल्परोषं हृतगतिं ४.२४ व् हास्यनृत्तप्रियं रौद्र ४.२४ व् हास्यनृत्यकरं रौद्र आक्रोशिनं शीघ्रगतिं देवद्विजभिषग्द्विषम् । आत्मानं काष्ठशस्त्राद्यैर्घ्नन्तं भोःशब्दवादिनम् ॥ २५ ॥ ४.२५ व् घ्नन्तं गोशब्दवादिनम् शास्त्रवेदपठं विद्याद्गृहीतं ब्रह्मराक्षसैः । सक्रोधदृष्टिं भ्रूकुटीमुद्वहन्तं ससंभ्रमम् ॥ २६ ॥ ४.२६ व् गृहीतं ब्रह्मराक्षसा प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् । अन्नाद्विनापि बलिनं नष्टनिद्रं निशाचरम् ॥ २७ ॥ ४.२७ व् रुदन्तं भैरवाननम् निर्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम् । रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् ॥ २८ ॥ ४.२८ व् मेघमद्यामिषप्रियम् दृष्ट्वा च रक्तं मांसं वालिहानं दशनच्छदौ । हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् ॥ २९ ॥ ४.२९ व् दृष्ट्वा च रक्तमांसानि ४.२९ व् लिहानं दशनच्छदौ अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनम् । उच्छिष्टनृत्यगन्धर्वहासमद्यामिषप्रियम् ॥ ३० ॥ निर्भर्त्सनाद्दीनमुखं रुदन्तमनिमित्ततः । नखैर्लिखन्तमात्मानं रूक्षध्वस्तवपुःस्वरम् ॥ ३१ ॥ आवेदयन्तं दुःखादि संबद्धाबद्धभाषिणम् । नष्टस्मृतिं शून्यरतिं लोलं नग्नं मलीमसम् ॥ ३२ ॥ ४.३२ व् आवेदयन्तं दुःखानि रथ्याचैलपरीधानं तृणमालाविभूषणम् । आरोहन्तं च काष्ठाश्वं तथा संकरकूटकम् ॥ ३३ ॥ ४.३३ व् आरोहन्तं च काष्ठाश्म ४.३३ व् राशिं संकरकूटकम् ४.३३ व् तथा संकारकूटकम् बह्व्आशिनं पिशाचेन विजानीयादधिष्ठितम् । प्रेताकृतिक्रियागन्धं भीतमाहारविद्विषम् ॥ ३४ ॥ ४.३४ व् भीरुमाहारविद्विषम् तृणच्छिदं च प्रेतेन गृहीतं नरमादिशेत् । बहुप्रलापं कृष्णास्यं प्रविलम्बितयायिनम् ॥ ३५ ॥ शूनप्रलम्बवृषणं कूष्माण्डाधिष्ठितं वदेत् । गृहीत्वा काष्ठलोष्टादि भ्रमन्तं चीरवाससम् ॥ ३६ ॥ ४.३६ व् गृहीत्वा काष्ठलोहादि नग्नं धावन्तमुत्त्रस्तदृष्टिं तृणविभूषणम् । श्मशानशून्यायतनरथ्यैकद्रुमसेविनम् ॥ ३७ ॥ तिलान्नमद्यमांसेषु सततं सक्तलोचनम् । निषादाधिष्ठितं विद्याद्वदन्तं परुषाणि च ॥ ३८ ॥ ४.३८ व् संसक्तं रक्तलोचनम् ४.३८ व् सततं रक्तलोचनम् ४.३८ व् सरक्तं रक्तलोचनम् ४.३८ व् कर्कोटाधिष्ठितं विन्द्याद् याचन्तमुदकं चान्नं त्रस्तलोहितलोचनम् । उग्रवाक्यं च जानीयान्नरमौकिरणार्दितम् ॥ ३९ ॥ ४.३९ व् धावन्तमुदकं नान्नं ४.३९ व् याचन्तमुदकं नान्नं ४.३९ व् याचन्तमुदकान्नं च ४.३९ व् रक्तवित्रस्तलोचनम् ४.३९ व् नरमौत्किरणार्दितम् ४.३९ व् नरं मौकिरणार्दितम् ४.३९ व् नरमुत्तरुणार्दितम् गन्धमाल्यरतिं सत्यवादिनं परिवेपिनम् । बहुनिद्रं च जानीयाद्वेतालेन वशीकृतम् ॥ ४० ॥ ४.४० व् गन्धमाल्यरतं सत्य ४.४० व् गन्धमाल्यरुचिं सत्य ४.४० व् वादिनं परिवेदिनम् ४.४० व् वादिनं परिदेविनम् ४.४० व् वैतालेन वशीकृतम् अप्रसन्नदृशं दीनवदनं शुष्कतालुकम् । चलन्नयनपक्ष्माणं निद्रालुं मन्दपावकम् ॥ ४१ ॥ अपसव्यपरीधानं तिलमांसगुडप्रियम् । स्खलद्वाचं च जानीयात्पितृग्रहवशीकृतम् ॥ ४२ ॥ ४.४२ व् स्खलद्वाचं विजानीयात् गुरुवृद्धर्षिसिद्धाभिशापचिन्तानुरूपतः । व्याहाराहारचेष्टाभिर्यथास्वं तद्ग्रहं वदेत् ॥ ४३ ॥ ४.४३ व् गुरुवृद्धर्षिसिद्धानां ४.४३ व् शापचिन्तानुरूपतः ४.४३ व् ंशापचित्तानुरूपतः ४.४३ व् शापचित्तानुरूपतः ४.४३ व् विहाराहारचेष्टाभिर् ४.४३ व् यथास्वं तं ग्रहं वदेत् कुमारवृन्दानुगतं नग्नमुद्धतमूर्धजम् । अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत् ॥ ४४ ॥ ऊत्तरस्थान भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः । तपःशीलसमाधानदानज्ञानदयादिभिः ॥ १ ॥ ५.१ व् भूतं जयेदहिंसोत्थं ५.१ व् तपःशीलसमाध्यान हिङ्गुव्योषालनेपालीलशुनार्कजटाजटाः । अजलोमी सगोलोमी भूतकेशी वचा लता ॥ २ ॥ ५.२ व् लशुनार्कजटामयाः ५.२ व् भूतकेशीवचालताः ५.२ व् भूतकेशी वचा बला कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके । वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि ॥ ३ ॥ ५.३ व् तिलाः कालविकाणिके ५.३ व् तिलाः काणविषाणिके ५.३ व् तथा काणविकाणिके ५.३ व् वज्रप्रोक्ता वयःस्था वा स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम् । खराश्वश्वाविद्उष्ट्रर्क्षगोधानकुलशल्यकात् ॥ ४ ॥ ५.४ व् गोधानकुलमत्स्यकात् द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्त्वतः । चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद्घृतम् ॥ ५ ॥ पुराणमथवा तैलं नवं तत्पाननस्ययोः । अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने ॥ ६ ॥ एभिश्च गुटिकां युञ्ज्यादञ्जने सावपीडने । प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने ॥ ७ ॥ ५.७ व् अञ्जने सावपीडके प्रयोगोऽयं ग्रहोन्मादान् सापस्माराञ्छमं नयेत् । गजाह्वापिप्पलीमूलव्योषामलकसर्षपान् ॥ ८ ॥ गोधानकुलमार्जारझषपित्तप्रपेषितान् । नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान् ॥ ९ ॥ ५.९ व् शशपित्तप्रपेषितान् ५.९ व् ऋक्षपित्तप्रपेषितान् सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम् । मञ्जिष्ठा श्वेतकटभी वरा श्वेताद्रिकर्णिका ॥ १० ॥ ५.१० व् मञ्जिष्ठाश्वेतकटभी ५.१० व् वराश्वेताद्रिकर्णिकाः निम्बस्य पत्त्रं बीजं तु नक्तमालशिरीषयोः । सुराह्वं त्र्य्ऊषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे ॥ ११ ॥ ५.११ व् गोमूत्रे च चतुर्गुणे सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् । ग्रहान् सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान् ॥ १२ ॥ कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च । एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः ॥ १३ ॥ ५.१३ व् ज्वरापस्मारपाप्मनुत् पाननस्याञ्जनालेपस्नानोद्घर्षणयोजितः । गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत् ॥ १४ ॥ ५.१४ व् स गुणैः पूर्ववद्दिष्टो सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दः । बीजं करञ्जात्कुसुमं शिरीषात्फलं च वल्कं च कपित्थवृक्षात् ॥ १५ ॥ ५.१५ व् निशाद्वयं हिङ्गुपलाण्डुकन्दम् ५.१५ व् फलं च कल्कश्च कपित्थवृक्षात् ५.१५ व् फलं च पुष्पं च कपित्थवृक्षात् ५.१५ व् फलं च वल्कश्च कपित्थवृक्षात् समाणिमन्थं सनतं सकुष्ठं श्योणाकमूलं किणिही सिता च । बस्तस्य मूत्रेण सुभावितं तत्पित्तेन गव्येन गुडान् विदध्यात् ॥ १६ ॥ दुष्टव्रणोन्मादतमोनिशान्धानुद्बन्धकान् वारिनिमग्नदेहान् । दिग्धाहतान् दर्पितसर्पदष्टांस्ते साधयन्त्यञ्जननस्यलेपैः ॥ १७ ॥ ५.१७ व् दुष्टव्रणोन्मादतमोनिशान्ध्यम् ५.१७ व् उद्बद्धकान् वारिनिमग्नदेहान् ५.१७ व् तान् साधयन्त्यञ्जननस्यलेपैः ५.१७ व् ते साधयन्त्य् अञ्जनपानलेपैः कार्पासास्थिमयूरपत्त्रबृहतीनिर्माल्यपिण्डीतक ॥ १८ ॥ ५.१८ व् कार्पासास्थिमयूरपिच्छबृहतीनिर्माल्यपिण्डीतक त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः ॥ १८ ॥ ५.१८ व् त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचनैः ५.१८ व् त्वग्वांशीवृषदंशविण्नखवचाकेशाहिनिर्मोचनैः ५.१८ व् त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोचनैः नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनम् ॥ १८ ॥ स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नं परम् ॥ १८ ॥ ५.१८ व् स्कन्दोन्मादपिशाचराक्षससुरावेशग्रहघ्नं परम् त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशादारुसिद्धार्थयुग्माम्बुशक्राह्व् अयैः ॥ १९ ॥ सितलशुनफलत्रयोशीरतिक्तावचातुत्थयष्टीबलालोहितैलाशिलापद्मकैः ॥ १९ ॥ दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः ॥ १९ ॥ घृतमनवमशेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस्तद् ग्रहघ्नं परम् ॥ १९ ॥ नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग् लतारोहिणी ॥ २० ॥ ५.२० व् नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलाहिङ्गुसिद्धार्थसिंहीनिशायुग् लतारोहिणी बदरकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बा म्बु देन्द्राह्वयैः ॥ २० ॥ ५.२० व् बदरकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धासुराङ्कोल्लकोशातकीशिग्रुनिम्बा म्बुदेन्द्राह्वयैः ५.२० व् मदनकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बा म्बुदेन्द्राह्वयैः ५.२० व् मदनकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धासुराङ्कोल्लकोशातकीशिग्रुनिम्बा म्बुदेन्द्राह्वयैः ५.२० व् मदनकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धामृताकोलकोशातकीशिग्रुनिम्बा म्बुदेन्द्राह्वयैः गदशुकतरुपुष्पबीजोग्रयष्ट्य्अद्रिकर्णीनिकुम्भाग्निबिल्वैः समैः कल्कितैर् मूत्रवर्गेण सिद्धं घृतम् ॥ २० ॥ विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस् तन्महाभूत रावं स्मृतम् ॥ २० ॥ ५.२० व् विधिवन्निहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूत रावं स्मृतम् ५.२० व् चिरविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम् ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ २१ ॥ स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च । रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा ॥ २२ ॥ ५.२२ व् स्नानं वस्त्रं वसा मांसं ५.२२ व् मद्यं क्षीरगुडानि वा रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी । भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम् ॥ २३ ॥ ५.२३ व् रक्तानि गन्धमाल्यानि ५.२३ व् भक्षाश्च सर्वे सर्वेषां सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये । दिश्युत्तरस्यां तत्रापि देवायोपहरेद्बलिम् ॥ २४ ॥ पश्चिमायां यथाकालं दैत्यभूताय चत्वरे । गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम् ॥ २५ ॥ पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे । यक्षाय यक्षायतने सरितोर्वा समागमे ॥ २६ ॥ ५.२६ व् पितृनामग्रहे नद्यां चतुष्पथे राक्षसाय भीमेषु गहनेषु च । रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम् ॥ २७ ॥ ५.२७ व् भीमेषु गहनेषु वा शून्यालये पिशाचाय पश्चिमां दिशमास्थिते । शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम् ॥ २८ ॥ ५.२८ व् पश्चिमां दिशमाश्रिते ५.२८ व् पश्चिमायां दिशि स्थिते दधि च्छत्त्रं च धवलं देवानां बलिरिष्यते । हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः ॥ २९ ॥ चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत् । तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम् ॥ ३० ॥ नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा । दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः ॥ ३१ ॥ ५.३१ व् नस्याञ्जने वचाहिङ्गु नागानां सुमनोलाजगुडापूपगुडौदनैः । परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः ॥ ३२ ॥ वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः । श्वेतपत्त्रं च लोध्रं च तगरं नागसर्षपाः ॥ ३३ ॥ ५.३३ व् वचापाठापुरोशीर शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम् । यक्षाणां क्षीरदध्य्आज्यमिश्रकौदनगुग्गुलु ॥ ३४ ॥ देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम् । हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः ॥ ३५ ॥ ५.३५ व् उशीरं वस्त्रचन्दनम् ५.३५ व् उशीरं वस्त्रकम्बलम् सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम् । हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥ ३६ ॥ ५.३६ व् सिद्धं पलोन्मितं पान निम्बपत्त्रं च बस्ताम्बुकल्कितं नावनाञ्जनम् । ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम् ॥ ३७ ॥ ५.३७ व् यवानां चूर्णमाढकम् तोयस्य कुम्भः पललं छत्त्रं वस्त्रं विलेपनम् । गायत्रीविंशतिपलक्वाथेऽर्धपलिकैः पचेत् ॥ ३८ ॥ ५.३८ व् तोयकुम्भं च पललं त्र्य्ऊषणत्रिफलाहिङ्गुषड्ग्रन्थामिशिसर्षपैः । सनिम्बपत्त्रलशुनैः कुडवान् सप्त सर्पिषः ॥ ३९ ॥ गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम् । रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥ ४० ॥ ५.४० व् गोमूत्रे त्रिगुणे सिद्धं ५.४० व् पानाभ्यङ्गेषु तद्धितम् ५.४० व् कुसुमं मिश्रकौदनः बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः । नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च ॥ ४१ ॥ ५.४१ व् मूलं पुष्पं फलानि च ५.४१ व् मूले पुष्पं फलानि च तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम् । हिङ्ग्व्इन्द्रयवसिद्धार्थलशुनामलकीफलम् ॥ ४२ ॥ नावनाञ्जनयोर्योज्यो बस्तमूत्रयुतोऽगदः । एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे ॥ ४३ ॥ ५.४३ व् बस्तमूत्रहृतोऽगदः ५.४३ व् बस्तमूत्रद्रुतोऽगदः रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः । पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥ ४४ ॥ मूलकं लवणं सर्पिः सभूतौदनयावकम् । हरिद्राद्वयमञ्जिष्ठामिशिसैन्धवनागरम् ॥ ४५ ॥ ५.४५ व् प्रभूतौदनयावकम् ५.४५ व् प्राग्भूतौदनयावकम् ५.४५ व् मिशिसैन्धवनागरैः हिङ्गुप्रियङ्गुत्रिकटुलशुनत्रिफला वचा । पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम् ॥ ४६ ॥ ५.४६ व् लशुनत्रिफलावचाः ५.४६ व् पटोलीश्वेतकटभी ५.४६ व् पाटलाश्वेतकटभी गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम् । बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम् ॥ ४७ ॥ देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् । सर्पिःपानादि मृद्वस्मिन् भैषज्यमवचारयेत् ॥ ४८ ॥ ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत् । सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः ॥ ४९ ॥ ईश्वरं द्वादशभुजं नाथमार्यावलोकितम् । सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत् ॥ ५० ॥ ५.५० व् सर्वव्याधिचिकित्सन्तं ५.५० व् सर्वव्याधिचिकित्सं च ५.५० व् सर्वव्याधिचिकित्सितं तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम् । महाविद्यां च मायूरीं शुचिं तं श्रावयेत्सदा ॥ ५१ ॥ ५.५१ व् अन्यान् वा चित्तविभ्रमान् ५.५१ व् शुचिस्तं श्रावयेत्सदा भूतेशं पूजयेत्स्थाणुं प्रमथाख्यांश्च तद्गणान् । जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति ॥ ५२ ॥ यच्चान्अन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम् । यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम् ॥ ५३ ॥ ५.५३ व् यथोक्तमिह तत्सर्वं ऊत्तरस्थान उन्मादाः षट्पृथग्दोषनिचयाधिविषोद्भवाः । उन्मादो नाम मनसो दोषैरुन्मार्गगैर्मदः ॥ १ ॥ शारीरमानसैर्दुष्टैरहितादन्नपानतः । विकृतासात्म्यसमलाद्विषमादुपयोगतः ॥ २ ॥ ६.२ व् शारीरमानसैर्दोषैर् ६.२ व् विकृतासात्म्यसमल ६.२ व् विषमाद् उपयोगतः विषण्णस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात् । क्षीणस्य चेष्टावैषम्यात्पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥ ६.३ व् व्याधिवेगसमुद्भवात् ६.३ व् व्याधिवेगसमुद्भ्रमात् आधिभिर्चित्तविभ्रंशाद्विषेणोपविषेण च । एभिर्हि हीनसत्त्वस्य हृदि दोषाः प्रदूषिताः ॥ ४ ॥ ६.४ व् विषेणोपविषेण वा ६.४ व् एभिर्विहीनसत्त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान्मनोवहान् । उन्मादं कुर्वते तेन धीविज्ञानस्मृतिभ्रमात् ॥ ५ ॥ देहो दुःखसुखभ्रष्टो भ्रष्टसारथिवद्रथः । भ्रमत्यचिन्तितारम्भस्तत्र वातात्कृशाङ्गता ॥ ६ ॥ ६.६ व् देही दुःखसुखभ्रष्टो अस्थाने रोदनाक्रोशहसितस्मितनर्तनम् । गीतवादित्रवाग्अङ्गविक्षेपास्फोटनानि च ॥ ७ ॥ असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः । आस्यात्फेनागमोऽजस्रमटनं बहुभाषिता ॥ ८ ॥ ६.८ व् अभीक्ष्णं वेणुवीणादि ६.८ व् आस्येन वेणुवीणादि ६.८ व् शब्दादिकरणं मुहुः ६.८ व् अटनं बहुभाषितम् अलङ्कारोऽन्अलङ्कारैरयानैर्गमनोद्यमः । गृद्धिरभ्यवहार्येषु तल्लाभे चावमानता ॥ ९ ॥ ६.९ व् तल्लाभे वावमानता ६.९ व् तल्लाभेष्ववमानता उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः । पित्तात्संतर्जनं क्रोधो मुष्टिलोष्टाद्य्अभिद्रवः ॥ १० ॥ ६.१० व् उत्पीडितारुणाक्षित्वं शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता । असत्यज्वलनज्वालातारकादीपदर्शनम् ॥ ११ ॥ ६.११ व् नेत्रत्वक्पीतवर्णता ६.११ व् असति ज्वलने ज्वाला ६.११ व् असत्यज्वलनोल्कादि कफादरोचकश्छर्दिरल्पेहाहारवाक्यता । स्त्रीकामता रहःप्रीतिर्लालासिङ्घाणकस्रुतिः ॥ १२ ॥ बैभत्स्यं शौचविद्वेषो निद्रा श्वयथुरानने । उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते ॥ १३ ॥ सर्वायतनसंस्थानसंनिपाते तद्आत्मकम् । उन्मादं दारुणं विद्यात्तं भिषक्परिवर्जयेत् ॥ १४ ॥ ६.१४ व् संनिपातात्तद्आत्मकम् धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान् । पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते ॥ १५ ॥ रोदित्यकस्मान्म्रियते तद्गुणान् बहु मन्यते । शोकक्लिष्टमना ध्यायञ्जागरूको विचेष्टते ॥ १६ ॥ ६.१६ व् रोदित्यकस्मात्स्मयते विषेण श्याववदनो नष्टच्छायाबलेन्द्रियः । वेगान्तरेऽपि संभ्रान्तो रक्ताक्षस्तं विवर्जयेत् ॥ १७ ॥ ६.१७ व् नष्टच्छायोऽबलेन्द्रियः अथानिलज उन्मादे स्नेहपानं प्रयोजयेत् । पूर्वमावृतमार्गे तु सस्नेहं मृदु शोधनम् ॥ १८ ॥ कफपित्तभवेऽप्यादौ वमनं सविरेचनम् । स्निग्धस्विन्नस्य वस्तिं च शिरसः सविरेचनम् ॥ १९ ॥ ६.१९ व् कफपित्तोद्भवेऽप्यादौ ६.१९ व् स्निग्धस्विन्नस्य वस्तींश्च ६.१९ व् शिरसश्च विरेचनम् तथास्य शुद्धदेहस्य प्रसादं लभते मनः । इत्थमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम् ॥ २० ॥ ६.२० व् तथैव शुद्धदेहस्य हर्षणाश्वासनोत्त्रासभयताडनतर्जनम् । अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः ॥ २१ ॥ ६.२१ व् धूमान् पानं च सर्पिषः युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः । हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ॥ २२ ॥ सिद्धं समूत्रमुन्मादभूतापस्मारनुत्परम् । द्वौ प्रस्थौ स्वरसाद्ब्राह्म्या घृतप्रस्थं च साधितम् ॥ २३ ॥ व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः । ससप्तलाकृमिहरैः कल्कितैरक्षसंमितैः ॥ २४ ॥ ६.२४ व् व्योषश्यामात्रिवृद्बिम्बी ६.२४ व् सातलाकृमिजित्कल्कैः ६.२४ व् सर्वैस् तैरक्षसंमितैः पलवृद्ध्या प्रयुञ्जीत परं मात्रा चतुःपलम् । उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् ॥ २५ ॥ वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम् । वराविशालाभद्रैलादेवदार्व्एलवालुकैः ॥ २६ ॥ ६.२६ व् वराविशालाकौत्पला ६.२६ व् वराविशालापत्त्रैला द्विशारिवाद्विरजनीद्विस्थिराफलिनीनतैः । बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः ॥ २७ ॥ वेल्लतालीशपत्त्रैलामालतीमुकुलोत्पलैः । सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ॥ २८ ॥ ६.२८ व् मालतीकुमुदोत्पलैः ६.२८ व् रुदन्तीपद्मकहिमैः प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु । पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे ॥ २९ ॥ ६.२९ व् कासापस्मारपाप्मजित् ६.२९ व् पाण्डुकण्डूविषे शोफे अरेतस्यप्रजसि वा दैवोपहतचेतसि । अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके ॥ ३० ॥ ६.३० व् अरेतस्यल्परजसि बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् । कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ॥ ३१ ॥ एभ्यो द्विशारिवादीनि जले पक्त्वैकविंशतिम् । रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरचतुर्गुणम् ॥ ३२ ॥ ६.३२ व् गृष्टिक्षीरे चतुर्गुणे ६.३२ व् गृष्टिक्षीरं चतुर्गुणम् वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः । शूर्पपर्णीयुतैरेतन्महाकल्याणकं परम् ॥ ३३ ॥ ६.३३ व् वीरर्द्धिमेदाकाकोली ६.३३ व् महाकल्याणकं स्मृतम् बृंहणं संनिपातघ्नं पूर्वस्मादधिकं गुणैः । जटिला पूतना केशी चारटी मर्कटी वचा ॥ ३४ ॥ त्रायमाणा जया वीरा चोरकः कटुरोहिणी । वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥ ३५ ॥ ६.३५ व् अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुलीद्वयम् । कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम् ॥ ३६ ॥ ६.३६ व् कटम्भरावृश्चिकाली ६.३६ व् स्थिराश्चाहृत्य तैर्घृतम् सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम् । महापैशाचकं नाम घृतमेतद्यथामृतम् ॥ ३७ ॥ ६.३७ व् सिद्धं चतुर्थकोन्माद ६.३७ व् सिद्धं चातुर्थकोन्माद बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम् । ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥ ३८ ॥ ६.३८ व् स्मृतिबुद्धिकरं चैव ६.३८ व् बालानामङ्गवर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् । ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम् ॥ ३९ ॥ ६.३९ व् रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषीता । वर्तिर्नस्याञ्जनालेपधूपैरुन्मादसूदनी ॥ ४० ॥ ६.४० व् काच्छीं च हस्तिमूत्रेण ६.४० व् सौराष्ट्रीं बस्तमूत्रेण ६.४० व् धूपैरुन्मादनाशिनी अवपीडाश्च विविधाः सर्षपाः स्नेहसंयुताः । कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः ॥ ४१ ॥ सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः । शृगालशल्यकोलूकजलौकावृषबस्तजैः ॥ ४२ ॥ ६.४२ व् सहिङ्गु तीक्ष्णधूमश्च ६.४२ व् जलूकावृषबस्तजैः ६.४२ व् जलौकावृकबस्तजैः मूत्रपित्तशकृद्रोमनखचर्मभिराचरेत् । धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम् ॥ ४३ ॥ धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः । वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ ४४ ॥ तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः । शीतानि चान्नपानानि मधुराणि लघूनि च ॥ ४५ ॥ विध्येत्सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा । निवाते शाययेदेवं मुच्यते मतिविभ्रमात् ॥ ४६ ॥ ६.४६ व् विध्येत्सिरां यथोक्तां च प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया । आश्वासयेत्सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः ॥ ४७ ॥ ६.४७ व् आश्वासयेत्सुहृद्भिस्तं ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा । बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे ॥ ४८ ॥ ६.४८ व् ब्रूयादिष्टस्य नाशं वा ६.४८ व् न्यस्तं चोत्तानमातपे कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत् । कशाभिस्ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥ ४९ ॥ ६.४९ व् बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथवा वीतशस्त्राश्मजने संतमसे गृहे । सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम् ॥ ५० ॥ त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः ॥ ५०+(१)अब् ॥ ६.५०+(१)ब्व् तस्करैः शत्रुभिस्तथा अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम् । भापयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ॥ ५१ ॥ देहदुःखभयेभ्यो हि परं प्राणभयं मतम् । तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥ ५२ ॥ ६.५२ व् सर्वतोऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देशकालाद्य्अपेक्षया । इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ॥ ५३ ॥ ६.५३ व् सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत् । कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान् ॥ ५४ ॥ ६.५४ व् तस्य तत्सदृशप्राप्तिः ६.५४ व् सान्त्वाश्वासैः प्रसादयेत् ६.५४ व् प्रियाश्वासैः प्रदर्शयेत् ६.५४ व् सान्त्वाश्वासैः शमं नयेत् परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत् । भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम् ॥ ५५ ॥ ६.५५ व् भूतानुबद्धमीक्षेत यद्युन्मादे ततः कुर्याद्भूतनिर्दिष्टमौषधम् । बलिं च दद्यात्पललं यावकं सक्तुपिण्डिकाम् ॥ ५६ ॥ ६.५६ व् यद्युन्मादे च तत्कुर्याद् स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान् । पक्वामकानि मांसानि सुरां मैरेयमासवम् ॥ ५७ ॥ ६.५७ व् पक्वामाह्वानि मांसानि ६.५७ व् सुरामैरेयमासवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च । चतुष्पथे गवां तीर्थे नदीनां संगमेषु च ॥ ५८ ॥ निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः । निजागन्तुभिरुन्मादैः सत्त्ववान्न स युज्यते ॥ ५९ ॥ ६.५९ व् निवृत्तामिषमद्योऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्आत्ममनसां तथा । धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥ ६० ॥ ६.६० व् इन्द्रियाणां प्रसन्नत्वं ६.६० व् गतोन्मादस्य लक्षणम् ऊत्तरस्थान स्मृत्य्अपायो ह्यपस्मारः स धीसत्त्वाभिसंप्लवात् । जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः ॥ १ ॥ ७.१ व् स धीसत्त्वादिसंप्लवात् उन्मादवत्प्रकुपितैश्चित्तदेहगतैर्मलैः । हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च ॥ २ ॥ तमो विशन्मूढमतिर्बीभत्साः कुरुते क्रियाः । दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥ ३ ॥ ७.३ व् हस्तौ पादौ च कम्पयन् पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ । विजिह्माक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते ॥ ४ ॥ कालान्तरेण स पुनश्चैवमेव विचेष्टते । अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च ॥ ५ ॥ रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः । तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम् ॥ ६ ॥ ७.६ व् रूपमुत्पद्यमानेऽस्मिन् अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः । अविपाकोऽरुचिर्मूर्छा कुक्ष्य्आटोपो बलक्षयः ॥ ७ ॥ निद्रानाशोऽङ्गमर्दस्तृट्स्वप्ने गानं सनर्तनम् । पानं तैलस्य मद्यस्य तयोरेव च मेहनम् ॥ ८ ॥ तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः । अपस्मरति संज्ञां च लभते विस्वरं रुदन् ॥ ९ ॥ ७.९ व् प्रततं च मुहुर्मुहुः उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते । आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः ॥ १० ॥ परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः । रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते ॥ ११ ॥ चपलं परुषं रूपं विरूपं विकृताननम् । अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥ १२ ॥ ७.१२ व् चपलं परमं रूपं ७.१२ व् चपलं परुषं रूक्षं पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम् । भैरवादीप्तरुषितरूपदर्शी तृषान्वितः ॥ १३ ॥ कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम् । चेष्टाल्पा भूयसी लाला शुक्लनेत्रनखास्यता ॥ १४ ॥ शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत् । अथावृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम् ॥ १५ ॥ तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः । वातिकं वस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥ १६ ॥ श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत् । सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च ॥ १७ ॥ अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु । गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः ॥ १८ ॥ अपस्मारज्वरोन्मादकामलान्तकरं पिबेत् । द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः ॥ १९ ॥ ७.१९ व् द्विपञ्चमूलीत्रिफला सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् । शम्याकपुष्करजटाफल्गुमूलदुरालभाः ॥ २० ॥ ७.२० व् श्योणाकपुष्करजटा द्विपलाः सलिलद्रोणे पक्त्वा पादावशेषिते । भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः ॥ २१ ॥ ७.२१ व् द्विपलानि जलद्रोणे मूर्वाभूतिकभूनिम्बश्रेयसीशारिवाद्वयैः । मदयन्त्य्अग्निनिचुलैरक्षांशैः सर्पिषः पचेत् ॥ २२ ॥ ७.२२ व् मूर्वापूतिकभूनिम्ब प्रस्थं तद्वद्द्रवैः पूर्वैः पञ्चगव्यमिदं महत् । ज्वरापस्मारजठरभगन्दरहरं परम् ॥ २३ ॥ शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम् । ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम् ॥ २४ ॥ ७.२४ व् गुल्मकासभ्रमापहम् पुराणं मेध्यमुन्मादालक्ष्म्य्अपस्मारपाप्मजित् । तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः ॥ २५ ॥ क्षीरद्रोणे पचेत्सिद्धमपस्मारविमोक्षणम् । कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे ॥ २६ ॥ कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत् । वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत् ॥ २७ ॥ तद्वत्काशविदारीक्षुकुशक्वाथशृतं पयः । कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम् ॥ २८ ॥ ७.२८ व् कुशक्वाथे शृतं पयः ७.२८ व् कुशक्वाथैः शृतं पयः यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम् । कपिलानां गवां पित्तं नावने परमं हितम् ॥ २९ ॥ ७.२९ व् यष्टीकल्कमपस्मारं ७.२९ व् नावनं परमं हितम् ७.२९ व् हरेद्धीवाक्स्वरप्रदम् श्वशृगालबिडालानां सिंहादीनां च पूजितम् । गोधानकुलनागानां पृषतर्क्षगवामपि ॥ ३० ॥ ७.३० व् वृषभर्क्षगवामपि ७.३० व् वृकचर्कगवामपि पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते । त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः ॥ ३१ ॥ ७.३१ व् पित्तेषु साधयेत्तैलं ७.३१ व् नस्याभ्यङ्गेषु शस्यते श्र्य्आह्वापामार्गकारञ्जबीजैस्तैलं विपाचितम् । बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद्भिषक् ॥ ३२ ॥ ७.३२ व् श्यामापामार्गकारञ्ज ७.३२ व् बीजैस्तैलं प्रसाधितम् ७.३२ व् बीजैस्तैलं विपाचयेत् नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः । तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत् ॥ ३३ ॥ ७.३३ व् धूममस्य प्रयोजयेत् ७.३३ व् धूपमस्मै प्रयोजयेत् शीलयेत्तैललशुनं पयसा वा शतावरीम् । ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ॥ ३४ ॥ समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः । यज्जायते यतश्चैष महामर्मसमाश्रयः ॥ ३५ ॥ तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत् । तद्आर्तं चाग्नितोयादेर्विषमात्पालयेत्सदा ॥ ३६ ॥ ७.३६ व् तस्माद्रसायनेनैनं ७.३६ व् तद्आर्तं चाग्नितोयादि ७.३६ व् विषमात् पालयेत्सदा मुक्तं मनोविकारेण त्वमित्थं कृतवानिति । न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत् ॥ ३७ ॥ ऊत्तरस्थान सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः । अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः ॥ १ ॥ सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः । वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा ॥ २ ॥ रोगान् कुर्युश्चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः । सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम् ॥ ३ ॥ पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च । विमर्दनात्स्याच्च शमः कृच्छ्रोन्मूलं वदन्ति तत् ॥ ४ ॥ चालयन् वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः । करोत्यरुङ्निमेषोऽसौ वर्त्म यत्तु निमील्यते ॥ ५ ॥ विमुक्तसंधि निश्चेष्टं हीनं वातहतं हि तत् । कृष्णाः पित्तेन बह्व्योऽन्तर्वर्त्म कुम्भीकबीजवत् ॥ ६ ॥ ८.६ व् पित्तेन वर्त्मनोऽन्तर्जा ८.६ व् बह्व्यः कुम्भीकबीजवत् आध्मायन्ते पुनर्भिन्नाः पिटिकाः कुम्भिसंज्ञिताः । सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम् ॥ ७ ॥ ८.७ व् पिटिकाः कुम्भिसंज्ञकाः पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत् । करोति कण्डूं दाहं च पित्तं पक्ष्ंान्तमास्थितम् ॥ ८ ॥ ८.८ व् पित्तं पक्ष्ंान्तमाश्रितम् पक्ष्मणां शातनं चानु पक्ष्मशातं वदन्ति तम् । पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥ ९ ॥ ८.९ व् पक्ष्मणां शतनं चानु ८.९ व् पक्ष्मणां सदनं चानु शोफोपदेहरुक्कण्डूपिच्छिलाश्रुसमन्विताः । कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत् ॥ १० ॥ ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान् कठिनः कफात् । कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथवा ॥ ११ ॥ ८.११ व् किञ्चिदल्पस्ततोऽपि वा रक्ता रक्तेन पिटिका तत्तुल्यपिटिकाचिता । उत्सङ्गाख्या तथोत्क्लिष्टं राजीमत्स्पर्शनाक्षमम् ॥ १२ ॥ ८.१२ व् रक्ता रक्तेन पिटिकास् ८.१२ व् तत्तुल्यपिटिकाचिताः ८.१२ व् उत्सङ्गाख्यास् तथोत्क्लिष्टं अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक् । रक्तं रक्तेन तत्स्रावि च्छिन्नं छिन्नं च वर्धते ॥ १३ ॥ मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा । मुद्गमात्रासृजा ताम्रा पिटिकाञ्जननामिका ॥ १४ ॥ दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम् । सस्रावमन्तर्उदकं बिसाभं बिसवर्त्म तत् ॥ १५ ॥ यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात् । रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत् ॥ १६ ॥ ८.१६ व् वदन्त्युत्क्लिष्टवर्त्म तत् श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत् । श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी ॥ १७ ॥ वर्त्मनोऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः । सिकतावर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥ १८ ॥ बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः । कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ॥ १९ ॥ स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः । सवर्त्मशूलपैच्छिल्यः कर्णनासाक्षिमर्दनः ॥ २० ॥ ८.२० व् ताम्राक्षो वीक्षणेऽक्षमः पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा । खरतान्तर्मुखत्वं च रोम्णामन्यानि वा पुनः ॥ २१ ॥ ८.२१ व् वर्त्मनो जायते तथा कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते । उष्यते चानिलादिद्विडल्पाहः शान्तिरुद्धृतैः ॥ २२ ॥ ८.२२ व् घृष्टं तैरक्षि सूयते ८.२२ व् उष्यते वानिलादिद्विड् ८.२२ व् उष्यते चानिलाद्यैश्च ८.२२ व् अल्पाहं शान्तिरुद्धृतैः कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः । ताम्रः पक्वोऽस्रपूयस्रुदलज्याध्मायते मुहुः ॥ २३ ॥ वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः । सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः ॥ २४ ॥ चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः । आद्योऽत्र भेषजैः साध्यो द्वौ ततोऽर्शश्च वर्यजेत् ॥ २५ ॥ पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रेण साधयेत् । कुट्टयेत्पक्ष्मसदनं छिन्द्यात्तेष्वपि चार्बुदम् ॥ २६ ॥ ८.२६ व् कुट्टयेत्पक्ष्मशदनं भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः । पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम् ॥ २७ ॥ सकर्दमं सबहलं विलिखेत्सकुकूणकम् ॥ २७ªअब् ॥ ऊत्तरस्थान कृच्छ्रोन्मीले पुराणाज्यं द्राक्षाकल्काम्बुसाधितम् । ससितं योजयेत्स्निग्धं नस्यधूमाञ्जनादि च ॥ १ ॥ कुम्भीकावर्त्मलिखितं सैन्धवप्रतिसारितम् । यष्टीधात्रीपटोलीनां क्वाथेन परिषेचयेत् ॥ २ ॥ निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः । बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ॥ ३ ॥ निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीघृतम् । न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः ॥ ४ ॥ ९.४ व् न स्रंसते न चलति मण्डलाग्रेण तत्तिर्यक्कृत्वा शस्त्रपदाङ्कितम् । लिखेत्तेनैव पत्त्रैर्वा शाकशेफालिकादिजैः ॥ ५ ॥ ९.५ व् शाकशेफालिकादिकैः ९.५ व् शाकशेफालिकादिभिः फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक् । स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत् ॥ ६ ॥ यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा । घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा ॥ ७ ॥ ९.७ व् घृतेनासिक्तमभ्यक्तं ऊर्ध्वाधः कर्णयोर्दत्त्वा पिण्डीं च यवसक्तुभिः । द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम् ॥ ८ ॥ कुर्याच्चतुर्थे नस्यादीन्मुञ्चेदेवाह्नि पञ्चमे । समं नखनिभं शोफकण्डूघर्षाद्यपीडितम् ॥ ९ ॥ विद्यात्सुलिखितं वर्त्म लिखेद्भूयो विपर्यये । रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात् ॥ १० ॥ स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः । अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत् ॥ ११ ॥ एरण्डमूलकल्केन पुटपाके पचेत्ततः । स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतम् ॥ १२ ॥ स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम् । शालितण्डुलकल्केन लिप्तं तद्वत्परिष्कृतम् ॥ १३ ॥ ९.१३ व् स्त्रियाः क्षीरे छागले वा कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना । केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥ १४ ॥ पिटिका व्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नताः । निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत् ॥ १५ ॥ ९.१५ व् पिटिकां व्रीहिवक्त्रेण ९.१५ व् भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि । पित्तास्रोत्क्लिष्टयोः स्वादुस्कन्धसिद्धेन सर्पिषा ॥ १६ ॥ सिराविमोक्षः स्निग्धस्य त्रिवृच्छ्रेष्ठं विरेचनम् । लिखिते स्रुतरक्ते च वर्त्मनि क्षालनं हितम् ॥ १७ ॥ ९.१७ व् त्रिवृच्छ्रेष्ठा विरेचने ९.१७ व् लिखिते निःसृते रक्ते यष्टीकषायः सेकस्तु क्षीरं चन्दनसाधितम् । पक्ष्मणां सदने सूच्या रोमकूपान् विकुट्टयेत् ॥ १८ ॥ ९.१८ व् यष्टीक्वाथेन सेकस्तु ग्राहयेद्वा जलौकोभिः पयसेक्षुरसेन वा । वमनं नावनं सर्पिः शृतं मधुरशीतलैः ॥ १९ ॥ संचूर्ण्य पुष्पकासीसं भावयेत्सुरसारसैः । ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम् ॥ २० ॥ पोथकीर्लिखिताः शुण्ठीसैन्धवप्रतिसारिताः । उष्णाम्बुक्षालिताः सिञ्चेत्खदिराढकिशिग्रुभिः ॥ २१ ॥ ९.२१ व् पोथकीं लिखितं शुण्ठी ९.२१ व् सैन्धवप्रतिसारिताम् ९.२१ व् उष्णाम्बुक्षालितां सिञ्चेत् अप्सिद्धैर्द्विनिषाश्रेष्ठामधुकैर्वा समाक्षिकैः । कफोत्क्लिष्टे विलिखिते सक्षौद्रैः प्रतिसारणम् ॥ २२ ॥ सूक्ष्मैः सैन्धवकासीसमनोह्वाकणतार्क्ष्यजैः । वमनाञ्जननस्यादि सर्वं च कफजिद्धितम् ॥ २३ ॥ कर्तव्यं लगणेऽप्येतदशान्तावग्निना दहेत् । कुकूणे खदिरश्रेष्ठानिम्बपत्त्रशृतं घृतम् ॥ २४ ॥ ९.२४ व् निम्बपत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा विनिष्पीड्य भिषगञ्जननामिकाम् । शिलैलासैन्धवनतैः सक्षौद्रैः प्रतिसारयेत् ॥ २४.१+(१) ॥ ९.२४.१+(१)अव् स्विन्नां भित्त्वा विनिष्पीड्योत्ं ९.२४.१+(१)ब्व् ंसङ्गां चाञ्जननामिकाम् पीत्वा धात्री वमेत्कृष्णायष्टीसर्षपसैन्धवैः । अभयापिप्पलीद्राक्षाक्वाथेनैनां विरेचयेत् ॥ २५ ॥ मुस्ताद्विरजनीकृष्णाकल्केनालेपयेत्स्तनौ । धूपयेत्सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥ २६ ॥ पटोलमुस्तमृद्वीकागुडूचीत्रिफलोद्भवम् । शिशोस्तु लिखितं वर्त्म स्रुतासृग्वाम्बुजन्मभिः ॥ २७ ॥ धात्र्य्अश्मन्तकजम्बूत्थपत्त्रक्वाथेन सेचयेत् । प्रायः क्षीरघृताशित्वाद्बालानां श्लेष्मजा गदाः ॥ २८ ॥ तस्माद्वमनमेवाग्रे सर्वव्याधिषु पूजितम् । सिन्धूत्थकृष्णापामार्गबीजाज्यस्तन्यमाक्षिकम् ॥ २९ ॥ चूर्णो वचायाः सक्षौद्रो मदनं मधुकान्वितम् । क्षीरं क्षीरान्नमन्नं च भजतः क्रमतः शिशोः ॥ ३० ॥ ९.३० व् भजतः क्रमशः शिशोः वमनं सर्वरोगेषु विशेषेण कुकूणके । सप्तलारससिद्धाज्यं योज्यं चोभयशोधनम् ॥ ३१ ॥ द्विनिशालोध्रयष्ट्य्आह्वरोहिणीनिम्बपल्लवैः । कुकूणके हिता वर्तिः पिष्टैस्ताम्ररजोऽन्वितैः ॥ ३२ ॥ क्षीरक्षौद्रघृतोपेतं दग्धं वा लोहजं रजः । एलालशुनकतकशङ्खोषणफणिज्जकैः ॥ ३३ ॥ ९.३३ व् दग्धं वा लोध्रजं रजः वर्तिः कुकूणपोथक्योः सुरापिष्टैः सकट्फलैः । पक्ष्मरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु ॥ ३४ ॥ उत्सृज्य द्वौ भ्रुवोऽधस्ताद्भागौ भागं च पक्ष्मतः । यवमात्रं यवाकारं तिर्यक्छित्त्वार्द्रवाससा ॥ ३५ ॥ अपनेयमसृक्तस्मिन्नल्पीभवति शोणिते । सीव्येत्कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः ॥ ३६ ॥ बद्ध्वा ललाटे पट्टं च तत्र सीवनसूत्रकम् । नातिगाढश्लथं सूच्या निक्षिपेदथ योजयेत् ॥ ३७ ॥ मधुसर्पिःकवलिकां न चास्मिन् बन्धमाचरेत् । न्यग्रोधादिकषायैश्च सक्षीरैः सेचयेद्रुजि ॥ ३८ ॥ पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत् । गैरिकेण व्रणं युञ्ज्यात्तीक्ष्णं नस्याञ्जनादि च ॥ ३९ ॥ ९.३९ व् तीक्ष्णनस्याञ्जनादि च ९.३९ व् तीक्ष्णनस्याञ्जनानि च ९.३९ व् तीक्ष्णं नस्याञ्जनानि च दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम् । संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥ ४० ॥ सूच्य्अग्रेणाग्निवर्णेन दाहो बाह्यालजेः पुनः । भिन्नस्य क्षारवह्निभ्यां सुच्छिन्नस्यार्बुदस्य च ॥ ४१ ॥ ऊत्तरस्थान वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः । अश्रु स्रावयते वर्त्मशुक्लसंधेः कनीनकात् ॥ १ ॥ १०.१ व् शुक्लसंधिकनीनिकात् तेन नेत्रं सरुग्रागशोफं स्यात्स जलास्रवः । कफात्कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥ २ ॥ १०.२ व् कफात्कफश्रवे श्वेतं १०.२ व् कफात्कफस्रवे श्वेतं कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः । पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः ॥ ३ ॥ १०.३ व् सवर्णमृदुपिच्छिलः महानपाकः कण्डूमानुपनाहः स नीरुजः । रक्ताद्रक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥ ४ ॥ १०.४ व् रक्ताद्रक्तस्रवे ताम्रं १०.४ व् रक्ताद्रक्तं स्रवेत्ताम्रं १०.४ व् बहूष्णं वाश्रु संस्रवेत् वर्त्मसंध्य्आश्रया शुक्ले पिटिका दाहशूलिनी । ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥ ५ ॥ पूयास्रवे मलाः सास्रा वर्त्मसंधेः कनीनकात् । स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः ॥ ६ ॥ १०.६ व् वर्त्मसंधिकनीनकात् १०.६ व् सास्रत्वङ्मांसपाकतः १०.६ व् साश्रुत्वङ्मांसपाकतः पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः । कनीनसंधावाध्मायी पूयास्रावी सवेदनः ॥ ७ ॥ कनीनस्यान्तरलजी शोफो रुक्तोददाहवान् । अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान् ॥ ८ ॥ पूयास्रावी कृमिग्रन्थिर्ग्रन्थिः कृमियुतोऽर्तिमान् । उपनाहकृमिग्रन्थिपूयालसकपर्वणीः ॥ ९ ॥ शस्त्रेण साधयेत्पञ्च सालजीनास्रवांस्त्यजेत् । पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान् ॥ १० ॥ मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक् । रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः ॥ ११ ॥ १०.११ व् सर्वं शुक्लमदाहरुक् कफाच्छुक्ले समं श्वेतं चिरवृद्ध्य्अधिमांसकम् । शुक्लार्म शोफस्त्वरुजः सवर्णो बहलोऽमृदुः ॥ १२ ॥ गुरुः स्निग्धोऽम्बुबिन्द्व्आभो बलासग्रथितं स्मृतम् । बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत् ॥ १३ ॥ १०.१३ व् बलासग्रन्थि स स्मृतः रक्तराजीततं शुक्लमुष्यते यत्सवेदनम् । अशोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥ १४ ॥ १०.१४ व् सशोथाश्रूपदेहं च उपेक्षितह्सिरोत्पातो राजीस्ता एव वर्धयन् । कुर्यात्सास्रं सिराहर्षं तेनाक्ष्य्उद्वीक्षणाक्षमम् ॥ १५ ॥ १०.१५ व् कुर्यात्साश्रुं सिराहर्षं १०.१५ व् तेनाक्षं वीक्षणाक्षमम् सिराजाले सिराजालं बृहद्रक्तं घनोन्नतम् । शोणितार्म समं श्लक्ष्णं पद्माभमधिमांसकम् ॥ १६ ॥ नीरुक्श्लक्ष्णोऽर्जुनं बिन्दुः शशलोहितलोहितः । मृद्व्आशुवृद्ध्य्अरुङ्मांसं प्रस्तारि श्यावलोहितम् ॥ १७ ॥ प्रस्तार्य्अर्म मलैः सास्रैः स्नावार्म स्नावसंनिभम् । शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु ॥ १८ ॥ अधिमांसार्म तद्दाहघर्षवत्यः सिरावृताः । कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः ॥ १९ ॥ १०.१९ व् अधिमांसार्म रुग्दाह शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम् । साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥ २० ॥ १०.२० व् शुक्तिहर्षसिरोत्पातान् १०.२० व् पिष्टकग्रथितार्जुनम् नवोत्थं तदपि द्रव्यैरर्मोक्तं यच्च पञ्चधा । तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम् ॥ २१ ॥ १०.२१ व् अर्मोक्तं यत्तु पञ्चधा चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं च वर्जयेत् । पित्तं कृष्णेऽथवा दृष्टौ शुक्रं तोदाश्रुरागवत् ॥ २२ ॥ १०.२२ व् दृष्टिप्राप्तं तु वर्जयेत् १०.२२ व् शुक्रं तोदास्ररागवत् छित्त्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम् । पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम् ॥ २३ ॥ तत्कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात् । तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता ॥ २४ ॥ तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः । शङ्खशुक्लं कफात्साध्यं नातिरुक्शुद्धशुक्रकम् ॥ २५ ॥ आताम्रपिच्छिलास्रस्रुदाताम्रपिटिकातिरुक् । अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्यासृजाजका ॥ २६ ॥ १०.२६ व् आताम्रपिच्छिलाश्रुः स्याद् १०.२६ व् आताम्रपिच्छिलासृक्स्याद् १०.२६ व् अजाविट्सदृशोच्छ्राया १०.२६ व् कृष्णा वर्ज्यासृजाजका सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम् । सतोददाहताम्राभिः सिराभिरवतन्यते ॥ २७ ॥ अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत् । दोषैः सास्रैः सकृत्कृष्णं नीयते शुक्लरूपताम् ॥ २८ ॥ १०.२८ व् घनाश्रु स्याच्च तत्त्यजेत् १०.२८ व् घनाश्रुस्रावि तत्त्यजेत् १०.२८ च् घनाश्रुस्रुच्च तत्त्यजेत् १०.२८ व् दोषैः सास्रैः सदृक्कृष्णं धवलाभ्रोपलिप्ताभं निष्पावार्धदलाकृति । अतितीव्ररुजारागदाहश्वयथुपीडितम् ॥ २९ ॥ पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम् । यस्य वा लिङ्गनाशोऽन्तः श्यावं यद्वा सलोहितम् ॥ ३० ॥ अत्य्उत्सेधावगाढं वा साश्रु नाडीव्रणावृतम् । पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम् ॥ ३१ ॥ १०.३१ व् सास्रनाडीव्रणावृतम् पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः ॥ ३१ªअब् ॥ ऊत्तरस्थान उपनाहं भिषक्स्विन्नं भिन्नं व्रीहिमुखेन च । लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत् ॥ १ ॥ ११.१ व् भिन्नं व्रीहिमुखेन तु पिप्पलीक्षौद्रसिन्धूत्थैर्बध्नीयात्पूर्ववत्ततः । पटोलपत्त्रामलकक्वाथेनाश्च्योतयेच्च तम् ॥ २ ॥ पर्वणी बडिशेनात्ता बाह्यसंधित्रिभागतः । वृद्धिपत्त्रेण वर्ध्यार्धे स्यादश्रुगतिरन्यथा ॥ ३ ॥ ११.३ व् पर्वणी बडिशेनान्तर् ११.३ व् बाह्यसंधित्रिभागतः ११.३ व् स्याद् अस्रगतिरन्यथा ११.३ व् स्यादस्रस्रुतिरन्यथा चिकित्सा चार्मवत्क्षौद्रसैन्धवप्रतिसारिता । पूयालसे सिरां विध्येत्ततस्तमुपनाहयेत् ॥ ४ ॥ ११.४ व् ततस्तदुपनाहयेत् कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि । सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः ॥ ५ ॥ चूर्णाञ्जनं प्रयुञ्जीत सक्षौद्रैर्वा रसक्रियाम् । कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥ ६ ॥ त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत् । पित्ताभिष्यन्दवच्छुक्तिं बलासाह्वयपिष्टके ॥ ७ ॥ ११.७ व् बलासाह्वयपिष्टकौ कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत् । बीजपूररसाक्तं च व्योषकट्फलमञ्जनम् ॥ ८ ॥ जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः । पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम् ॥ ९ ॥ ११.९ व् शोफकण्डूघ्नमौषधम् रक्तस्यन्दवदुत्पातहर्षजालार्जुनक्रिया । सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम् ॥ १० ॥ सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम् । अर्जुने शर्करामस्तुक्षौद्रैराश्च्योतनं हितम् ॥ ११ ॥ स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् । मधुना चाञ्जनं शङ्खः फेनो वा सितया सह ॥ १२ ॥ ११.१२ व् स्फटिकं कुङ्कुमं शङ्खं ११.१२ व् कासीसं मधुनाञ्जनम् अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत् । रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम् ॥ १३ ॥ उत्तानस्येतरत्स्विन्नं ससिन्धूत्थेन चाञ्जितम् । रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ १४ ॥ इत्थं संरोषिताक्षस्य प्रचलेऽर्माधिमांसके । घृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः ॥ १५ ॥ ११.१५ व् प्रबलेऽर्माधिमांसके अपाङ्गमीक्षमाणस्य वृद्धेऽर्मणि कनीनकात् । वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम् ॥ १६ ॥ नात्य्आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः । समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम् ॥ १७ ॥ ११.१७ व् नात्य्आयतं समुत्पाट्य कनीनकमुपानीय चतुर्भागावशेषितम् । छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः ॥ १८ ॥ ११.१८ व् छिन्द्यात्कनीनकं रक्षन् ११.१८ व् छिन्द्यात्कनीनकं रक्ष्ये कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते । वृद्धेऽर्मणि तथापाङ्गात्पश्यतोऽस्य कनीनकम् ॥ १९ ॥ ११.१९ व् कनीनकवधादश्रु ११.१९ व् कनीनकवधादाशु ११.१९ व् कनीनकव्यधादस्रु ११.१९ व् नाडी चाक्ष्णि प्रवर्तते सम्यक्छिन्नं मधुव्योषसैन्धवप्रतिसारितम् । उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा ॥ २० ॥ बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च । करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा ॥ २१ ॥ सक्षौद्रैर्द्विनिशालोध्रपटोलीयष्टिकिंशुकैः । कुरण्टमुकुलोपेतैर्मुञ्चेदेवाह्नि सप्तमे ॥ २२ ॥ ११.२२ व् कोरण्टमुकुलोपेतैर् सम्यक्छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान् गदान् । सेकाञ्जनप्रभृतिभिर्जयेल्लेखनबृंहणैः ॥ २३ ॥ सितामनःशिलैलेयलवणोत्तमनागरम् । अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम् ॥ २४ ॥ ११.२४ व् पलार्धं च मधुप्लुतम् अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशोषजित् । त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम् ॥ २५ ॥ ११.२५ व् पिल्लशुक्रार्मकाचजित् शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः । पृथक्शेषौषधरसैः पृथगेव च भाविता ॥ २६ ॥ सा मषी शोषिता पेष्या भूयो द्विलवणान्विता । त्रीण्येतान्यञ्जनान्याह लेखनानि परं निमिः ॥ २७ ॥ सिराजाले सिरा यास्तु कठिना लेखनौषधैः । न सिध्यन्त्यर्मवत्तासां पिटिकानां च साधनम् ॥ २८ ॥ दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम् । तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते ॥ २९ ॥ ११.२९ व् दोषानुबन्धाच्छुक्रेषु ११.२९ व् स्निग्धा रूक्षा वरा घृतम् ११.२९ व् स्निग्धरूक्षवरा घृतम् ११.२९ व् तिक्तमूर्ध्वमसृक्स्राव ११.२९ व् रेकसेकादि चेष्यते त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत् । सिरयानु हरेद्रक्तं जलौकोभिश्च लोचनात् ॥ ३० ॥ सिद्धेनोत्पलकाकोलीद्राक्षायष्टीविदारिभिः । ससितेनाजपयसा सेचनं सलिलेन वा ॥ ३१ ॥ रागाश्रुवेदनाशान्तौ परं लेखनमञ्जनम् । वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः ॥ ३२ ॥ प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम् । दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः ॥ ३३ ॥ ११.३३ व् प्रसादयन्ति पित्तासृक् ११.३३ व् गोरासभसमुद्भवैः सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः । क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवर्तयेत् ॥ ३४ ॥ तमालपत्त्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम् । ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी ॥ ३५ ॥ ११.३५ व् ताम्रं च बस्तमूत्रेण रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्य्ऊषणं त्रुटी । करञ्जबीजं लशुनो व्रणसादि च भेषजम् ॥ ३६ ॥ सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नमञ्जनम् । निम्नमुन्नमयेत्स्नेहपाननस्यरसाञ्जनैः ॥ ३७ ॥ सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम् । शुद्धशुक्रे निशायष्टीशारिवाशाबराम्भसा ॥ ३८ ॥ ११.३८ व् शारिवासाधिताम्भसा सेचनं लोध्रपोटल्या कोष्णाम्भोमग्नयाथवा । बृहतीमूलयष्ट्य्आह्वताम्रसैन्धवनागरैः ॥ ३९ ॥ धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम् । यवाज्यामलकीपत्त्रैर्बहुशो धूपयेत्ततः ॥ ४० ॥ तत्र कुर्वीत गुटिकास्ता जलक्षौद्रपेषिताः । महानीला इति ख्याताः शुद्धशुक्रहराः परम् ॥ ४१ ॥ स्थिरे शुक्रे घने चास्य बहुशोऽपहरेदसृक् । शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः ॥ ४२ ॥ कुर्यान्मरिचवैदेहीशिरीषफलसैन्धवैः । हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा ॥ ४३ ॥ ११.४३ व् घर्षणं त्रिफलाक्वाथ ११.४३ व् सर्षपत्रिफलाक्वाथ कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ । शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः ॥ ४४ ॥ सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः । धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः ॥ ४५ ॥ ११.४५ व् खरदन्तार्णवमलैः ११.४५ व् क्षारो लाङ्गलिकाभवः ११.४५ व् क्षारो लाङ्गलिकीभवः उषितः शोषितश्चूर्णः शुक्रहर्षणमञ्जनम् । मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः ॥ ४६ ॥ ११.४६ व् शुक्रघर्षणमञ्जनम् सारो मधूकान्मधुमान्मज्जा वाक्षात्समाक्षिका । गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः ॥ ४७ ॥ ११.४७ व् सारो मधूकात्समधुर् ११.४७ व् सारो मधूकान्मधुना वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी । उत्सन्नं वा सशल्यं वा शूक्रं वालादिभिर्लिखेत् ॥ ४८ ॥ ११.४८ व् पिष्टा शुक्रकनाशिनी ११.४८ व् दुष्टशुक्रकनाशिनी सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत् । पुण्ड्रयष्ट्य्आह्वकाकोलीसिंहीलोहनिशाञ्जनम् ॥ ४९ ॥ कल्कितं छागदुग्धेन सघृतैर्धूपितं यवैः । धात्रीपत्त्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम् ॥ ५० ॥ ११.५० व् वर्तिरत्राञ्जनं हितम् ११.५० व् वर्तिर्नेत्राञ्जनं परम् अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत् । अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे ॥ ५१ ॥ वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः । कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम् ॥ ५२ ॥ ११.५२ व् शुक्लत्वोत्सेधसाधनम् नारिकेलास्थिभल्लाततालवंशकरीरजम् । भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम् ॥ ५३ ॥ चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम् । साध्येषु साधनायालमिदमेव च शीलितम् ॥ ५४ ॥ अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् । समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥ ५५ ॥ व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च । सप्तरात्राद्व्रणे रूढे कृष्णभागे समे स्थिरे ॥ ५६ ॥ स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा । तथापि पुनर्आध्माने भेदच्छेदादिकां क्रियाम् ॥ ५७ ॥ ११.५७ व् तथापि पुनर्आध्माते युक्त्या कुर्याद्यथा नातिच्छेदेन स्यात्निमज्जनम् ॥ ५७ªअब् ॥ ११.५७ªअव् युक्त्या युञ्ज्याद्यथा नाति नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात् । न हीयते लब्धबला तथान्तस्तीक्ष्णाञ्जनैर्दृक्सततं प्रयुक्तैः ॥ ५८ ॥ ११.५८ व् तीक्ष्णाञ्जनैर्दृक्प्रततं प्रयुक्तैः ऊत्तरस्थान सिरानुसारिणि मले प्रथमं पटलं श्रिते । अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः ॥ १ ॥ १२.१ व् प्रथमं पटलं गते १२.१ व् अव्यक्तमीक्ष्यते रूपं प्राप्ते द्वितीयं पटलमभूतमपि पश्यति । भूतं तु यत्नादासन्नं दूरे सूक्ष्मं च नेक्षते ॥ २ ॥ १२.२ व् दूरं सूक्ष्मं च नेक्षते दूरान्तिकस्थं रूपं च विपर्यासेन मन्यते । दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ॥ ३ ॥ द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते । दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्ययम् ॥ ४ ॥ १२.४ व् ह्रस्वदीर्घविपर्ययम् १२.४ व् ह्रस्वं बहु विपर्ययम् नान्तिकस्थमधःसंस्थे दूरगं नोपरि स्थिते । पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः ॥ ५ ॥ प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते । तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम् ॥ ६ ॥ १२.६ व् तेनोर्ध्वमीक्ष्यते नाधस् यथावर्णं च रज्येत दृष्टिर्हीयेत च क्रमात् । तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥ ७ ॥ १२.७ व् यथादोषं च रज्येत लिङ्गनाशं मलः कुर्वंश्छादयेद्दृष्टिमण्डलम् । तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ॥ ८ ॥ चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः । जालानि केशान्मशकान् रश्मींश्चोपेक्षितेऽत्र च ॥ ९ ॥ १२.९ व् धूमाविलारुणाभासं १२.९ व् प्रसन्नं वीक्षते मुहुः १२.९ व् रश्मींश्चोपेक्षितेऽत्र तु काचीभूते दृगरुणा पश्यत्यास्यमनासिकम् । चन्द्रदीपाद्य्अनेकत्वं वक्रमृज्वपि मन्यते ॥ १० ॥ वृद्धः काचो दृशं कुर्याद्रजोधूमावृतामिव । स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥ ११ ॥ १२.११ व् स्फुटारुणाभां विस्तीर्णां स लिङ्गनाशो वाते तु संकोचयति दृक्सिराः । दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥ १२ ॥ पित्तजे तिमिरे विद्युत्खद्योतद्योतदीपितम् । शिखितित्तिरिपत्त्राभं प्रायो नीलं च पश्यति ॥ १३ ॥ १२.१३ व् खद्योतोद्योतदीपितम् १२.१३ व् शिखितित्तिरिपिच्छाभं काचे दृग्काचनीलाभा तादृगेव च पश्यति । अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥ १४ ॥ १२.१४ व् काचे दृग्कांस्यनीलाभा भृङ्गनीला निर्आलोका दृक्स्निग्धा लिङ्गनाशतः । दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शिनी ॥ १५ ॥ भवेत्पित्तविदग्धाख्या पीता पीताभदर्शना । कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति ॥ १६ ॥ १२.१६ व् पीता पीताभदर्शिनी शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् । काचे तु निष्प्रभेन्द्व्अर्कप्रदीपाद्यैरिवाचितम् ॥ १७ ॥ १२.१७ व् कुमुदैरिव वाचितम् सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते । मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ॥ १८ ॥ बिन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः । उष्णे संकोचमायाति च्छायायां परिसर्पति ॥ १९ ॥ १२.१९ व् पद्मिनीपुटसंश्रितः १२.१९ व् पद्मिनीपत्त्रसंश्रितः शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा । रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति ॥ २० ॥ काचेन रक्ता कृष्णा वा दृष्टिस्तादृक्च पश्यति । लिङ्गनाशेऽपि तादृग्दृङ्निष्प्रभा हतदर्शना ॥ २१ ॥ संसर्गसंनिपातेषु विद्यात्संकीर्णलक्षणान् । तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः ॥ २२ ॥ १२.२२ व् तैः स्याद्वक्राकुलेक्षणः १२.२२ व् तैः स्याद्व्यक्ताकुलेक्षणम् तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते । द्योत्यते नकुलस्येव यस्य दृङ्निचिता मलैः ॥ २३ ॥ नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि । अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः ॥ २४ ॥ स्थगयन्ति दृशं दोषा दोषान्धः स गदोऽपरः । दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः ॥ २५ ॥ विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम् । उष्णतप्तस्य सहसा शीतवारिनिमज्जनात् ॥ २६ ॥ त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणि । दाहोषे मलिनं शुक्लमहन्याविलदर्शनम् ॥ २७ ॥ रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता । भृशमम्लाशनाद्दोषैः सास्रैर्या दृष्टिराचिता ॥ २८ ॥ सक्लेदकण्डूकलुषा विदग्धाम्लेन सा स्मृता । शोकज्वरशिरोरोगसंतप्तस्यानिलादयः ॥ २९ ॥ १२.२९ व् विदग्धाम्लेन सा मता धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः । सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम् ॥ ३० ॥ १२.३० व् धूमाविलां धूमदृशां १२.३० व् दृशं कुर्युः स धूसरः १२.३० व् दृशं कुर्युः स धूमकः भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः । कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम् ॥ ३१ ॥ १२.३१ व् भासुरं भास्करादिं वा वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम् । औपसर्गिक इत्येष लिङ्गनाशोऽत्र वर्जयेत् ॥ ३२ ॥ विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजामपि । षट्काचा नकुलान्धश्च याप्याः शेषांस्तु साधयेत् ॥ ३३ ॥ १२.३३ व् षट्काचा नकुलान्ध्यश्च द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः ॥ ३३ªअब् ॥ ऊत्तरस्थान तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया । नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्द्रुतम् ॥ १ ॥ तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषिते । तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत् ॥ २ ॥ १३.२ व् तत्क्वाथे द्विगुणं क्षीरं प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः । शताह्वामधुकद्राक्षासितादारुफलत्रयैः ॥ ३ ॥ कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् । द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः ॥ ४ ॥ १३.४ व् तिमिराणां हरं परम् सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः । पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः ॥ ५ ॥ १३.५ व् पचेज्जीर्णं घृतप्रस्थं हन्ति तत्काचतिमिररक्तराजीशिरोरुजः । पटोलनिम्बकटुकादार्वीसेव्यवरावृषम् ॥ ६ ॥ सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक् । प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽम्भसि ॥ ७ ॥ तद्आढकेऽर्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत् । मुस्तभूनिम्बयष्ट्य्आह्वकुटजोदीच्यचन्दनैः ॥ ८ ॥ १३.८ व् तद्आढकेऽर्धपलिकैर् १३.८ व् घृतप्रस्थं विपाचयेत् सपिप्पलीकैस्तत्सर्पिर्घ्राणकर्णास्यरोगजित् । विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत् ॥ ९ ॥ १३.९ व् सव्योषचव्यैस्तत्सर्पिर् १३.९ व् घ्राणकर्णाक्षिरोगजित् १३.९ व् विद्रधिज्वरदुष्टास्र विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत् । त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके ॥ १० ॥ १३.१० व् नक्तान्ध्योष्णाम्लदाहनुत् १३.१० व् पादशेषे जलाढके तेन तुल्यपयस्केन त्रिफलापलकल्कवान् । अर्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा ॥ ११ ॥ युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम् । यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः ॥ १२ ॥ पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत्समैः । अजाक्षीरवरावसामार्कवस्वरसैः पृथक् ॥ १३ ॥ महात्रैफलमित्येतत्परं दृष्टिविकारजित् । त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि ॥ १४ ॥ १३.१४ व् परं दृष्टिविकारनुत् यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम् । मासमेकं हिताहारः पिबन्नामलकोदकम् ॥ १५ ॥ सौपर्णं लभते चक्षुरित्याह भगवान्निमिः । ताप्यायोहेमयष्ट्य्आह्वसिताजीर्णाज्यमाक्षिकैः ॥ १६ ॥ संयोजिता यथाकामं तिमिरघ्नी वरा वरा । सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी ॥ १७ ॥ अपूपसूपसक्तून् वा त्रिफलाचूर्णसंयुतान् । पायसं वा वरायुक्तं शीतं समधुशर्करम् ॥ १८ ॥ १३.१८ व् अपूपतक्रसक्तून् वा प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक्पृथक् । मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः ॥ १९ ॥ १३.१९ व् प्रातर्भुक्तस्य वा पूर्वम् स्रोतोजांशांश्चतुःषष्टिं ताम्रायोरूप्यकाञ्चनैः । युक्तान् प्रत्य्एकमेकांशैरन्धमूषोदरस्थितान् ॥ २० ॥ ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत् । रसस्कन्धकषायेषु सप्तकृत्वः पृथक्पृथक् ॥ २१ ॥ वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः । चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम् ॥ २२ ॥ १३.२२ व् तत्सर्वं तिमिरापहम् मांसीत्रिजातकायःकुङ्कुमनीलोत्पलाभयातुत्थैः । सितकाचशङ्खफेनकमरिचाञ्जनपिप्पलीमधुकैः ॥ २३ ॥ चन्द्रेऽश्विनीसनाथे सुचूर्णितैरञ्जयेद्युगलमक्ष्णोः । तिमिरार्मरक्तराजीकण्डूकाचादिशममिच्छन् ॥ २४ ॥ मरिचवरलवणभागौ भागौ द्वौ कणसमुद्रफेनाभ्याम् । सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित् ॥ २५ ॥ १३.२५ व् चित्रासंचूर्णितं कफामयजित् मनोह्वातुत्थकस्तूरीमांसीमलयरोचनाः । दशकर्पूरसंयुक्तमशीतिगुणमञ्जनम् ॥ २५+(१) ॥ १३.२५+(१)च्व् दरकर्पूरसंयुक्तम् पिष्टं चित्राश्विनीपुष्ये षड्विधे तिमिरे हितम् । प्रसादनं च दृष्टेः स्याच्चक्षुषेणावभाषितम् ॥ २५+(२) ॥ द्राक्षामृणालीस्वरसे क्षीरमद्यवसासु च । पृथक्दिव्याप्सु स्रोतोजं सप्तकृत्वो निषेचयेत् ॥ २६ ॥ तच्चूर्णितं स्थितं शङ्खे दृक्प्रसादनमञ्जनम् । शस्तं सर्वाक्षिरोगेषु विदेहपतिनिर्मितम् ॥ २७ ॥ १३.२७ व् तच्चूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस्तुत्थं चेत्थं निषेचितम् । क्रमादजापयःसर्पिःक्षौद्रे तस्मात्पलद्वयम् ॥ २८ ॥ १३.२८ व् तुत्थं चैवं निषेचितम् १३.२८ व् क्रमाच्छागपयःसर्पिः कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः । पटुलोध्रशिलापथ्याकणैलाञ्जनफेनकैः ॥ २९ ॥ युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम् । हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः ॥ ३० ॥ चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा । त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ॥ ३१ ॥ शुल्बतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम् । अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ॥ ३२ ॥ १३.३२ व् शुल्बतारकयोर्द्वौ द्वौ १३.३२ व् अन्धमूषागतं ध्मातं तिमिरान्तकरं लोके द्वितीय इव भास्करः ॥ ३३ ब् ॥ १३.३३ व् तिमिरापहरं लोके गोमूत्रे छगणरसेऽम्लकाञ्जिके च स्त्रीस्तन्ये ॥ ३३ ॥ १३.३३ व् गोमूत्रे छगलरसेऽम्लकाञ्जिके च हविषि विषे च माक्षिके च ॥ ३३ ॥ यत्तुत्थं ज्वलितमनेकशो निषिक्तम् ॥ ३३ ॥ तत्कुर्याद्गरुडसमं नरस्य चक्षुः ॥ ३३ ॥ तुत्थं सकाशं कनकं सफलं शङ्खशिलागैरिकमञ्जनं च । नरः कपालसहिकूङ्कुडाण्डं सप्तद्विसप्तत्रिसमयो गतः ॥ ३३+१ ॥ भृङ्गोद्भवस्वरसभावितमाजदुग्धे मूत्रे गवां पयसि च त्रिफलाकषाये । द्राक्षारसे च परिशुद्धमिति क्रमेण सौवीरमञ्जनमिदं तिमिरं निहन्ति ॥ ३३+२ ॥ श्रेष्ठाजलं भृङ्गरसं सविषाज्यमजापयः । यष्टीरसं च यत्सीसं सप्तकृत्वः पृथक्पृथक् ॥ ३४ ॥ १३.३४ व् श्रेष्ठारसं भृङ्गरसं तप्तं तप्तं पायितं तच्छलाका नेत्रे युक्ता साञ्जनान्अञ्जना वा । तैमिर्यार्मस्रावपैच्छिल्यपैल्लं कण्डूं जाड्यं रक्तराजीं च हन्ति ॥ ३५ ॥ रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम् । ईषत्कर्पूरसंयुक्तमञ्जनं तिमिरापहम् ॥ ३६ ॥ १३.३६ व् ईषत्कर्पूरसहितम् १३.३६ व् अञ्जनं तिमिरे वरम् १३.३६ व् अञ्जनं नयनामृतम् यो गृध्रस्तरुणरविप्रकाशगल्लस्तस्यास्यं समयमृतस्य गोशकृद्भिः । निर्दग्धं समघृतमञ्जनं च पेष्यं योगोऽयं नयनबलं करोति गार्ध्रम् ॥ ३७ ॥ कृष्णसर्पवदने सहविष्कं दग्धमञ्जननिःसृतधूमम् । चूर्णितं नलदपत्त्रविमिश्रं भिन्नतारमपि रक्षति चक्षुः ॥ ३८ ॥ १३.३८ व् दग्धमञ्जननिर्गतधूमम् १३.३८ व् योजितं नलदपत्त्रविमिश्रं नागाञ्जनाश्मालशिलार्कवङ्गैस्त्रिंशद्द्विपञ्चद्वयमद्विकैकैः । अन्धमूषीकृतैश्छागपयोनिषिक्तैर्दृष्टेरिदं भास्करमञ्जनं स्यात् ॥ ३८+१ ॥ स्रोतोऽश्मवीरं ... वेष्ट्याजमोदावटच्छदैः । षट्कं तिमिरजित्क्लिष्टं मृल्लिप्तं गोमयाग्निना ॥ ३८+२ ॥ ताम्रायस्कान्तगन्धाह्वातार्क्षा यत्सुच्छलं रजः । लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टिरोगजित् ॥ ३८+३ ॥ १३.३८+३ व् तार्क्ष्या यत्सुच्छलं रजः कृष्णसर्पं मृतं न्यस्य चतुरश्चापि वृश्चिकान् । क्षीरकुम्भे त्रिसप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥ ३९ ॥ १३.३९ व् क्लेदयित्वानु मन्थयेत् १३.३९ व् क्लेदयित्वाथ मन्थयेत् तत्र यन्नवनीतं स्यात्पुष्णीयात्तेन कुक्कुटम् । अन्धस्तस्य पुऋईषेण प्रेक्षते ध्रुवमञ्जनात् ॥ ४० ॥ कृष्णसर्पवसा शङ्खः कतकात्फलमञ्जनम् । रसक्रियेयमचिरादन्धानां दर्शनप्रदा ॥ ४१ ॥ मरिचानि दशार्धपिचुस्ताप्यात्तुत्थात्पलं पिचुर्यष्ट्याः । क्षीरार्द्रदग्धमञ्जनमप्रतिसाराख्यमुत्तमं तिमिरे ॥ ४२ ॥ १३.४२ व् मरिचानि दश द्विपलं अक्षबीजमरिचामलकत्वक्तुत्थयष्टिमधुकैर्जलपिष्टैः । छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्यचिरेण ॥ ४३ ॥ मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः । षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूहन्ता ॥ ४४ ॥ १३.४४ व् तिमिरार्मक्लेदकाचकण्डूहा १३.४४ व् तिमिरार्मक्लेदकाचकण्डूघ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतोऽञ्जनं ताम्रमयः सशङ्खम् । कुचन्दनं लोहितगैरिकं च चूर्णाञ्जनं सर्वदृग्आमयघ्नम् ॥ ४५ ॥ तिलतैलमक्षतैलं भृङ्गस्वरसोऽसनाच्च निर्यूहः । आयसपात्रविपक्वं करोति दृष्टेर्बलं नस्यम् ॥ ४६ ॥ १३.४६ व् करोति दृष्टेर्बलं नस्यात् दोषानुरोधेन च नैकशस्तं स्नेहास्रविस्रावणरेकनस्यैः । उपाचरेदञ्जनमूर्धवस्तिवस्तिक्रियातर्पणलेपसेकैः ॥ ४७ ॥ सामान्यं साधनमिदं प्रतिदोषमतः शृणु ॥ ४८ ब् ॥ वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् । क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥ ४९ ॥ त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम् । एरण्डतैलसंयुक्तं योजयेच्च विरेचनम् ॥ ५० ॥ १३.५० व् एरण्डतैलसंमिश्रं १३.५० व् योजयेत विरेचनम् समूलजालजीवन्तीतुलां द्रोणेऽम्भसः पचेत् । अष्टभागस्थिते तस्मिंस्तैलप्रस्थं पयःसमे ॥ ५१ ॥ १३.५१ व् तैलप्रस्थं पयःसमम् बलात्रितयजीवन्तीवरीमूलैः पलोन्मितैः । यष्टीपलैश्चतुर्भिश्च लोहपात्रे विपाचयेत् ॥ ५२ ॥ १३.५२ व् बलात्रिजातजीवन्ती लोह एव स्थितं मासं नावनादूर्ध्वजत्रुजान् । वातपित्तामयान् हन्ति तद्विशेषाद्दृग्आश्रयान् ॥ ५३ ॥ १३.५३ व् लोहपात्रस्थितं मासं १३.५३ व् तद्विशेषाद्दृग्आमयान् केशास्यकन्धरास्कन्धपुष्टिलावण्यकान्तिदम् । सितैरण्डजटासिंहीफलदारुवचानतैः ॥ ५४ ॥ १३.५४ व् पुष्टिलावण्यकान्तिकृत् घोषया बिल्वमूलैश्च तैलं पक्वं पयोऽन्वितम् । नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिजित् ॥ ५५ ॥ १३.५५ व् शताह्वाबिल्वमूलैश्च वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते । गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥ ५६ ॥ प्रत्यञ्जने च स्रोतोजं रसक्षीरघृते क्रमात् । निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमन्उत्तमम् ॥ ५७ ॥ १३.५७ व् रसक्षीरघृतैः क्रमात् न चेदेवं शमं याति ततस्तर्पणमाचरेत् । शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः ॥ ५८ ॥ प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः । सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम् ॥ ५९ ॥ मेदसस्तद्वदैणेयाद्दुग्धसिद्धात्खजाहतात् । उद्धृतं साधितं तेजो मधुकोशीरचन्दनैः ॥ ६० ॥ श्वाविच्छल्यकगोधानां दक्षतित्तिरिबर्हिणाम् । पृथक्पृथगनेनैव विधिना कल्पयेद्वसाम् ॥ ६१ ॥ १३.६१ व् श्वाविच्छल्यकगोधानाम् १३.६१ व् श्वाविष्किराकगोधानाम् १३.६१ व् ऋक्षतित्तिरिबर्हिणाम् प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत् । वातपीनसवच्चात्र निरूहं सानुवासनम् ॥ ६२ ॥ १३.६२ व् निरूहं चानुवासनम् पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः । विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम् ॥ ६३ ॥ शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत् । सुशीतान् सेकलेपादीन् युञ्ज्यान्नेत्रास्यमूर्धसु ॥ ६४ ॥ शारिवापद्मकोशीरमुक्ताशाबरचन्दनैः । वर्तिः शस्ताञ्जने चूर्णस्तथा पत्त्रोत्पलाञ्जनैः ॥ ६५ ॥ १३.६५ व् वर्तिः शस्ताञ्जनं चूर्णस् १३.६५ व् तथा पद्मोत्पलाञ्जनैः सनागपुष्पकर्पूरयष्ट्य्आह्वस्वर्णगैरिकैः । सौवीराञ्जनतुत्थकशृङ्गीधात्रीफलस्फटिककर्पूरम् ॥ ६६ ॥ पञ्चांशं पञ्चांशं त्र्य्अंशमथैकांशमञ्जनं तिमिरघ्नम् । नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः ॥ ६७ ॥ श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम् । विध्येत्सिरां पीतवतो दद्याच्चानु विरेचनम् ॥ ६८ ॥ क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम् । ह्रीवेरदारुद्विनिशाकृष्णाकल्कैः पयोऽन्वितैः ॥ ६९ ॥ द्विपञ्चमूलनिर्यूहे तैलं पक्वं च नावनम् । शङ्खप्रियङ्गुनेपालीकटुत्रिकफलत्रिकैः ॥ ७० ॥ दृग्वैमल्याय विमला वर्तिः स्यात्कोकिला पुनः । कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः ॥ ७१ ॥ १३.७१ व् वर्तिः स्यात्कौलिका पुनः शशगोखरसिंहोष्ट्रद्विजा लालाटमस्थि च । श्वेतगोवालमरिचशङ्खचन्दनफेनकम् ॥ ७२ ॥ पिष्टं स्तन्याज्यदुग्धाभ्यां वर्तिस्तिमिरशुक्रजित् । रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ॥ ७३ ॥ मधूकसाराञ्जनताम्रत्रिकटुकविडङ्गपौण्डरीकाणि । सलवणतुत्थत्रिफलालोध्राणि नभोऽम्बुपिष्टानि ॥ ७३+१ ॥ वर्तिश्चतुर्दशाङ्गी नयनामयनाशनी शिलास्तम्भे । लिखिता हिताय जगतस्तिमिरापहरी विशेषेण ॥ ७३+२ ॥ एकगुणा मागधिका द्विगुणा च हरीतकी सलिलपिष्टा । वर्तिरियं तिमिरपटलकाचकण्ड्व्अस्रहरी ॥ ७३+३ ॥ द्राक्षया नलदलोध्रयष्टिभिः शङ्खताम्रहिमपद्मपद्मकैः । सोत्पलैश्छगलदुग्धवर्तितैरस्रजं तिमिरमाशु नश्यति ॥ ७४ ॥ १३.७४ व् द्राक्षया नलदलोध्रयष्टिका १३.७४ व् शङ्खताम्रहिमपद्मपद्मकैः १३.७४ व् शङ्खताम्रहिमपद्मपत्त्रकैः संसर्गसंनिपातोत्थे यथादोषोदयं क्रिया । सिद्धं मधूककृमिजिन्मरिचामरदारुभिः ॥ ७५ ॥ सक्षीरं नावनं तैलं पिष्टैर्लेपो मुखस्य च । नतनीलोत्पलानन्तायष्ट्य्आह्वसुनिषण्णकैः ॥ ७६ ॥ साधितं नावने तैलं शिरोवस्तौ च शस्यते । दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम् ॥ ७७ ॥ १३.७७ व् साधितं नावनं तैलं तत्स्रुतं सघृतं भूयः पचेत्क्षौद्रं घने क्षिपेत् । शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम् ॥ ७८ ॥ १३.७८ व् तच्छृतं सघृतं भूयः अस्थीनि मज्जपूर्णानि सत्त्वानां रात्रिचारिणाम् । स्रोतोजाञ्जनयुक्तानि वहत्यम्भसि वासयेत् ॥ ७९ ॥ १३.७९ व् स्रोतोऽञ्जनेन युक्तानि मासं विंशतिरात्रं वा ततश्चोद्धृत्य शोषयेत् । समेषशृङ्गीपुष्पाणि सयष्ट्य्आह्वानि तान्यनु ॥ ८० ॥ १३.८० व् सयष्ट्य्आह्वानि तानि तु चूर्णितान्यञ्जनं श्रेष्ठं तिमिरे सांनिपातिके । काचेऽप्येषा क्रिया मुक्त्वा सिरां यन्त्रनिपीडिताः ॥ ८१ ॥ १३.८१ व् सिरा यन्त्रनिपीडिताः १३.८१ व् सिरां यन्त्रनिपीडनात् आन्ध्याय स्युर्मला दद्यात्स्राव्ये त्वस्रे जलौकसः । गुडः फेनोऽञ्जनं कृष्णा मरिचं कुङ्कुमाद्रजः ॥ ८२ ॥ १३.८२ व् आन्ध्याय स्युरतो दद्यात् रसक्रियेयं सक्षौद्रा काचयापनमञ्जनम् । नकुलान्धे त्रिदोषोत्थे तैमिर्यविहितो विधिः ॥ ८३ ॥ १३.८३ व् तैमिर्यविधिवत्क्रियाः रसक्रिया घृतक्षौद्रगोमयस्वरसद्रुतैः । तार्क्ष्यगैरिकतालीशैर्निशान्धे हितमञ्जनम् ॥ ८४ ॥ १३.८४ व् निशान्ध्ये हितमञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्अन्धेऽञ्जनमुत्तमम् । करञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः ॥ ८५ ॥ १३.८५ व् रात्र्य्अन्धाञ्जनमुत्तमम् १३.८५ व् कारञ्जिकोत्पलस्वर्ण पिष्टैर्गोमयतोयेन वर्तिर्दोषान्धनासिनी । अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवैः ॥ ८६ ॥ १३.८६ व् वर्तिर्दोषान्ध्यनासिनी कालानुसारीत्रिकटुत्रिफलालमनःशिलाः । सफेनाश्छागदुग्धेन रात्र्य्अन्धे वर्तयो हिताः ॥ ८७ ॥ १३.८७ व् रात्र्य्आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्मध्ये पिप्पलीरदहन् पचेत् । ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठमञ्जनम् ॥ ८८ ॥ १३.८८ व् निशान्ध्ये श्रेष्ठमञ्जनम् १३.८८ व् नक्तान्ध्ये श्रेष्ठमञ्जनम् खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा । घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥ ८९ ॥ तथातिमुक्तकैरण्डशेफाल्य्अभीरुजानि च । भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥ ९० ॥ १३.९० व् सिद्धं घृतं कुम्भयोनेः १३.९० व् पत्त्रैः पानेऽतिपूजितम् धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा । स्निग्धं विरेचयेच्छीतैः शीतैर्दिह्याच्च सर्वतः ॥ ९१ ॥ गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम् । स्वर्णगैरिकतालीशचूर्णावापा रसक्रिया ॥ ९२ ॥ मेदाशाबरकानन्तामञ्जिष्ठादार्वियष्टिभिः । क्षीराष्टांशं घृतं पक्वं सतैलं नावनं हितम् ॥ ९३ ॥ तर्पणं क्षीरसर्पिः स्यादशाम्यति सिराव्यधः । चिन्ताभिघातभीशोकरौक्ष्यात्सोत्कटकासनात् ॥ ९४ ॥ १३.९४ व् रूक्षाम्लकटुकाशनात् विरेकनस्यवमनपुटपाकादिविभ्रमात् । विदग्धाहारवमनात्क्षुत्तृष्णादिविधारणात् ॥ ९५ ॥ अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत् । यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥ ९६ ॥ सूर्योपरागानलविद्युद्आदिविलोकनेनोपहतेक्षणस्य । संतर्पणं स्निग्धहिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥ ९७ ॥ चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा । व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते ॥ ९८ ॥ त्रिफला रुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम् । शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा ॥ ९९ ॥ १३.९९ व् मनसो निर्वृतिरञ्जनं च नस्यम् १३.९९ व् शयनासनता सपादपूजा १३.९९ व् शयनासनतोषपादपूजा अहितादशनात्सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च । मुनिना निमिनोपदिष्टमेतत्परमं रक्षणमीक्षणस्य पुंसाम् ॥ १०० ॥ ऊत्तरस्थान विध्येत्सुजातं निष्प्रेक्ष्यं लिङ्गनाशं कफोद्भवम् । आवर्तक्य्आदिभिः षड्भिर्विवर्जितमुपद्रवैः ॥ १ ॥ सोऽसंजातो हि विषमो दधिमस्तुनिभस्तनुः । शलाकयावकृष्टोऽपि पुनरूर्ध्वं प्रपद्यते ॥ २ ॥ १४.२ व् पुनरूर्ध्वं प्रवर्तते करोति वेदनां तीव्रां दृष्टिं च स्थगयेत्पुनः । श्लेष्मलैः पूर्यते चाशु सोऽन्यैः सोपद्रवश्चिरात् ॥ ३ ॥ १४.३ व् सोऽन्यैः सोपद्रवैश्चिरात् श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः । तस्यान्यदोषाभिभवाद्भवत्यानीलता गदः ॥ ४ ॥ १४.४ व् भवत्यानीलता गदे १४.४ व् भवत्यानीलिका गदे तत्रावर्तचला दृष्टिरावर्तक्यरुणासिता । शर्करार्कपयोलेशनिचितेव घनाति च ॥ ५ ॥ १४.५ व् आवर्तक्यरुणा सिता राजीमती दृङ्निचिता शालिशूकाभराजिभिः । विषमच्छिन्नदग्धाभा सरुक्छिन्नांशुका स्मृता ॥ ६ ॥ दृष्टिः कांस्यसमच्छाया चन्द्रकी चन्द्रकाकृतिः । छत्त्राभा नैकवर्णा च छत्त्रकी नाम नीलिका ॥ ७ ॥ न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम् । नाजीर्णिभीरुवमितशिरःकर्णाक्षिशूलिनाम् ॥ ८ ॥ १४.८ व् न दृक्पीनसकासिनाम् अथ साधारणे काले शुद्धसंभोजितात्मनः । देशे प्रकाशे पूर्वाह्णे भिषग्जानूच्चपीठगः ॥ ९ ॥ यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः । अङ्गुष्ठमृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥ १० ॥ स्वां नासां प्रेक्षमाणस्य निष्कम्पं मूर्ध्नि धारिते । कृष्णादर्धाङ्गुलं मुक्त्वा तथार्धार्धमपाङ्गतः ॥ ११ ॥ १४.११ व् स्वनासां प्रेक्षमाणस्य १४.११ व् तदर्धार्धमपाङ्गतः तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं धृताम् । दैवच्छिद्रं नयेत्पार्श्वादूर्ध्वमामन्थयनिव ॥ १२ ॥ सव्यं दक्षिणहस्तेन नेत्रं सव्येन चेतरत् । विध्येत्सुविद्धे शब्दः स्यादरुक्चाम्बुलवस्रुतिः ॥ १३ ॥ सान्त्वयन्नातुरं चानु नेत्रं स्तन्येन सेचयेत् । शलाकायास्ततोऽग्रेण निर्लिखेन्नेत्रमण्डलम् ॥ १४ ॥ १४.१४ व् निर्लिखेद्दृष्टिमण्डलम् अबाधमानः शनकैर्नासां प्रति नुदंस्ततः । उच्छिङ्घनाच्चापहरेद्दृष्टिमण्डलगं कफम् ॥ १५ ॥ १४.१५ व् उच्छिङ्खनाच्चापहरेद् स्थिरे दोषे चले वाति स्वेदयेदक्षि बाह्यतः । अथ दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ॥ १६ ॥ १४.१६ व् स्थिरे दोषे चले वापि घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत्ततः । विद्धादन्येन पार्श्वेन तमुत्तानं द्वयोर्व्यधे ॥ १७ ॥ १४.१७ व् व्यधादन्येन पार्श्वेन निवाते शयनेऽभ्यक्तशिरःपादं हिते रतम् । क्षवथुं कासमुद्गारं ष्ठीवनं पानमम्भसः ॥ १८ ॥ १४.१८ व् शिरोगात्रं हिते रतम् अधोमुखस्थितिं स्नानं दन्तधावनभक्षणम् । सप्ताहं नाचरेत्स्नेहपीतवच्चात्र यन्त्रणा ॥ १९ ॥ शक्तितो लङ्घयेत्सेको रुजि कोष्णेन सर्पिषा । सव्योषामलकं वाट्यमश्नीयात्सघृतं द्रवम् ॥ २० ॥ विलेपीं वा त्र्य्अहाच्चास्य क्वाथैर्मुक्त्वाक्षि सेचयेत् । वातघ्नैः सप्तमे त्वह्नि सर्वथैवाक्षि मोचयेत् ॥ २१ ॥ यन्त्रणामनुरुध्येत दृष्टेरास्थैर्यलाभतः । रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत् ॥ २२ ॥ शोफरागरुजादीनामधिमन्थस्य चोद्भवः । अहितैर्वेधदोषाच्च यथास्वं तानुपाचरेत् ॥ २३ ॥ १४.२३ व् अहितैर्वेध्यदोषाच्च १४.२३ व् यथास्वं तानुपक्रमेत् कल्किताः सघृता दूर्वायवगैरिकशारिवाः । मुखालेपे प्रयोक्तव्या रुजारागोपशान्तये ॥ २४ ॥ ससर्षपास्तिलास्तद्वन्मातुलुङ्गरसाप्लुताः । पयस्याशारिवापत्त्रमञ्जिष्ठामधुयष्टिभिः ॥ २५ ॥ अजाक्षीरयुतैर्लेपः सुखोष्णः शर्मकृत्परम् । लोध्रसैन्धवमृद्वीकामधुकैश्छागलं पयः ॥ २६ ॥ १४.२६ व् अजाक्षीरान्वितैर्लेपः शृतमाश्च्योतनं योज्यं रुजारागविनाशनम् । मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितान्वितैः ॥ २७ ॥ १४.२७ व् मधुकोत्पलकुष्ठैला १४.२७ व् द्राक्षालाक्षारसान्वितैः १४.२७ व् द्राक्षालाक्षासितान्वितैः १४.२७ व् द्राक्षालाक्षारसान्वितैः वातघ्नसिद्धे पयसि शृतं सर्पिश्चतुर्गुणे । पद्मकादिप्रतीवापं सर्वकर्मसु शस्यते ॥ २८ ॥ सिरां तथान्उपशमे स्निग्धस्विन्नस्य मोक्षयेत् । मन्थोक्तां च क्रियां कुर्याद्वेधे रूढेऽञ्जनं मृदु ॥ २९ ॥ १४.२९ व् व्यधे रूढेऽञ्जनं मृदु आढकीमूलमरिचहरितालरसाञ्जनैः । विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता ॥ ३० ॥ जातीशिरीषधवमेषविषाणिपुष्पवैडूर्यमौक्तिकफलं पयसा सुपिष्टम् । आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम् ॥ ३१ ॥ १४.३१ व् जातीशिरीषधवमेषविषाणपुष्प पिण्डाञ्जनं हितमन्आतपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः । स्रोतोजविद्रुमशिलाम्बुधिफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः ॥ ३२ ॥ १४.३२ व् स्रोतोजविद्रुमशिलार्णवफेनतीक्ष्णैर् ऊत्तरस्थान वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता । शङ्खाक्षिभ्रूललाटस्य तोदस्फुरणभेदनम् ॥ १ ॥ १५.१ व् वातेन नेत्रेऽभिष्यन्दे १५.१ व् शङ्खाक्षिभ्रूललाटास्य १५.१ व् तोदस्फुरणभेदनम् शुष्काल्पा दूषिका शीतमच्छं चाश्रु चला रुजः । निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम् ॥ २ ॥ १५.२ व् अच्छमश्रु चला रुजः अक्ष्याध्मातमिवाभाति सूक्ष्मैः शल्यैरिवाचितम् । स्निग्धोष्णैश्चोपशमनं सोऽभिष्यन्द उपेक्षितः ॥ ३ ॥ १५.३ व् स्निग्धोष्णेच्छोपशमनं अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः । अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः ॥ ४ ॥ हताधिमन्थः सोऽपि स्यात्प्रमादात्तेन वेदनाः । अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा ॥ ५ ॥ मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयन् । व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम् ॥ ६ ॥ १५.६ व् अन्यतो वा प्रवर्तयेत् संकोचयति पर्य्अश्रु सोऽन्यतोवातसंज्ञितः । तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये ॥ ७ ॥ १५.७ व् तद्वज्जिह्मं भवेन्नेत्रं १५.७ व् तद्वन्नेत्रं भवेज्जिह्मम् १५.७ व् शूनं वा वातपर्यये दाहो धूमायनं शोफः श्यावता वर्त्मनो बहिः । अन्तःक्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम् ॥ ८ ॥ क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम् । ज्वलद्अङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम् ॥ ९ ॥ अधिमन्थे भवेन्नेत्रं स्यन्दे तु कफसंभवे । जाड्यं शोफो महान् कण्डूर्निद्रान्नान्अभिनन्दनम् ॥ १० ॥ सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता । अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम् ॥ ११ ॥ १५.११ व् पिच्छावद्दूषिकास्रता प्रसेको नासिकाध्मानं पांसुपूर्णमिवेक्षणम् । रक्ताश्रुराजीदूषीकारक्तमण्डलदर्शनम् ॥ १२ ॥ १५.१२ व् रक्तास्रराजीदूषीका १५.१२ व् शुक्लमण्डलदर्शनम् रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम् । मन्थेऽक्षि ताम्रपर्य्अन्तमुत्पाटनसमानरुक् ॥ १३ ॥ रागेण बन्धूकनिभं ताम्यति स्पर्शनाक्षमम् । असृङ्निमग्नारिष्टाभं कृष्णमग्न्य्आभदर्शनम् ॥ १४ ॥ अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः । शङ्खदन्तकपोलेषु कपाले चातिरुक्कराः ॥ १५ ॥ वातपित्तातुरं घर्षतोदभेदोपदेहवत् । रूक्षदारुणवर्त्माक्षि कृच्छ्रोन्मीलनिमीलनम् ॥ १६ ॥ १५.१६ व् वातपित्तोत्तरं घर्ष विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत् । उक्तः शुष्कादिपाको यं सशोफः स्यात्त्रिभिर्मलैः ॥ १७ ॥ १५.१७ व् विकूणनं विशुष्कं च १५.१७ व् विकूणेन विशुष्कत्वं १५.१७ व् शीतेच्छाशूलपाकवत् सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान् । पक्वोदुम्बरसंकाशं जायते शुक्लमण्डलम् ॥ १८ ॥ अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः । अल्पशोफेऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा ॥ १९ ॥ १५.१९ व् अल्पशोफोऽल्पशोफस्तु अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता । कफोपदिग्धमसितं सितं प्रक्लेदरागवत् ॥ २० ॥ १५.२० व् कफेन दिग्धमसितं दाहो दर्शनसंरोधो वेदनाश्चान्अवस्थिताः । अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः ॥ २१ ॥ सिराभिर्नेत्रमारूढः करोति श्यावलोहितम् । सशोफदाहपाकाश्रु भृशं चाविलदर्शनम् ॥ २२ ॥ अम्लोषितोऽयमित्युक्ता गदाः षोडश सर्वगाः । हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत् ॥ २३ ॥ १५.२३ व् हताधिमन्थं चैतेषु वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः । रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रान्मिथ्याचारात्पैत्तिकः सद्य एव ॥ २४ ॥ १५.२४ व् सप्ताहेन श्लेष्मजश्चाधिमन्थः ऊत्तरस्थान प्राग्रूप एव स्यन्देषु तीक्ष्णं गण्डूषनावनम् । कारयेदुपवासं च कोपादन्यत्र वातजात् ॥ १ ॥ दाहोपदेहरागाश्रुशोफशान्त्यै बिडालकम् । कुर्यात्सर्वत्र पत्त्रैलामरिचस्वर्णगैरिकैः ॥ २ ॥ सरसाञ्जनयष्ट्य्आह्वनतचन्दनसैन्धवैः । सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥ ३ ॥ १६.३ व् घृष्टं मण्डेन सर्पिषः बदरीपत्त्रयष्ट्य्आह्वपथ्यामलकतुत्थकम् । अन्तर्धूमं दहेत्सद्यः कोपे तच्चूर्णं वातजे ॥ ३.१+१ ॥ वातजे घृतभृष्टं वा योज्यं शबरदेशजम् । मांसीपद्मककालीययष्ट्य्आह्वैः पित्तरक्तयोः ॥ ४ ॥ १६.४ व् योज्यं शाबरदेशजम् १६.४ व् मांसीपद्मककाकोली मनोह्वाफलिनीक्षौद्रैः कफे सर्वैस्तु सर्वजे ॥ ५ ब् ॥ सितमरिचभागमेकं चतुर्मनोह्वं द्विरष्टशाबरकम् ॥ ५ द् ॥ संचूर्ण्य वस्त्रबद्धं प्रकुपितमात्रेऽवगुण्ठनं नेत्रे ॥ ५ f ॥ १६.५ व् संचूर्ण्यमतिप्रबद्धं १६.५ व् प्रकुपितमात्रेऽवगुण्ठनमिदं नेत्रे धातुशुण्ठ्य्अभयातार्क्ष्यं बहिर्लेपोऽक्षिरोगहा ॥ ५.१(१)+१ ब् ॥ १६.५.१(१)+१ व् धातुशुण्ठ्य्अभयातार्क्ष्य १६.५.१(१)+१ व् बहिर्लेपो ऽक्षिरोगहा हरीतकीसैन्धवतार्क्ष्यशीलैः सगैरिकैः स्वस्वकरप्रमृष्टैः । बहिःप्रलेपं नयनस्य कुर्यात्सर्वाक्षिरोगप्रशमार्थमेतत् ॥ ५.१(२)+१ ॥ आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलत्थाः । तच्चूर्णं सकृदवचूर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥ ६ ॥ १६.६ व् आरण्याश्छगणरसे पटावनद्धाः घोषाभयातुत्थकयष्टिलोध्रैर्मूती सुसूक्ष्मैः श्लथवस्त्रबद्धैः । ताम्रस्थधान्याम्लनिमग्नमूर्तिरर्तिं जयत्यक्षिणि नैकरूपाम् ॥ ७ ॥ १६.७ व् घोषाभयातुत्थकयष्टिलोध्रैः १६.७ व् व्योषाभयातुत्थकयष्टिलोध्रैर् १६.७ व् गुण्डी सुसूक्ष्मैः श्लथवस्त्रबद्धैः १६.७ व् पिष्टैः सुसूक्ष्मैः श्लथवस्त्रबद्धैः १६.७ व् ताम्राच्छधान्याम्लनिमग्नमूर्तिर् षोडशभिः सलिलपलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् । सेकोऽष्टभागशिष्टः क्षौद्रयुतः सर्वदोषकुपिते नेत्रे ॥ ८ ॥ १६.८ व् क्षौद्रयुतः सर्वदोषप्रकुपिते नेत्रे वातपित्तकफसंनिपातजां नेत्रयोर्बहुविधामपि व्यथाम् । शीघ्रमेव जयति प्रयोजितः शिग्रुपल्लवरसः समाक्षिकः ॥ ९ ॥ तरुणमुरुबूकपत्त्रं मूलं च विभिद्य सिद्धमाजे क्षीरे । वाताभिष्यन्दरुजं सद्यो विनिहन्ति सक्तुपिण्डिका चोष्णा ॥ १० ॥ १६.१० व् मूलं च विचूर्ण्य सिद्धमाजे क्षीरे आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः । कोष्णः सहैरण्डजटाबृहतीमधुशिग्रुभिः ॥ ११ ॥ ह्रीवेरवक्रशार्ङ्गष्टोदुम्बरत्वक्षु साधितम् । साम्भसा पयसाजेन शूलाश्च्योतनमुत्तमम् ॥ १२ ॥ १६.१२ व् ंदुम्बरत्वक्प्रसाधितम् १६.१२ व् ंदुम्बरप्लक्षसाधितम् लोध्रामलकरसाञ्ज[न]बिम्बितिकापत्त्रतुबरिकातुत्थैः । आश्च्योतनमिदमक्ष्णोः प्रसह्य सद्यः प्रकोपहरम् ॥ १२+१ ॥ मञ्जिष्ठारजनीलाक्षाद्राक्षर्द्धिमधुकोत्पलैः । क्वाथः सशर्करः शीतः सेचनं रक्तपित्तजित् ॥ १३ ॥ १६.१३ व् द्राक्षाद्विमधुकोत्पलैः कसेरुयष्ट्य्आह्वरजस्तान्तवे शिथिलं स्थितम् । अप्सु दिव्यासु निहितं हितं स्यन्देऽस्रपित्तजे ॥ १४ ॥ १६.१४ व् तान्तवे शिथिले स्थितम् पुण्ड्रयष्टीनिशामूती प्लुता स्तन्ये सशर्करे । छागदुग्धेऽथवा दाहरुग्रागाश्रुनिवर्तनी ॥ १५ ॥ श्वेतलोध्रं समधुकं घृतभृष्टं सुचूर्णितम् । वस्त्रस्थं स्तन्यमृदितं पित्तरक्ताभिघातजित् ॥ १६ ॥ नागरत्रिफलानिम्बवासालोध्ररसः कफे । कोष्णमाश्च्योतनं मिश्रैर्भेषजैः सांनिपातिके ॥ १७ ॥ १६.१७ व् वासालोध्ररसाः कफे १६.१७ व् वासालोध्ररसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् । व्योषसिद्धं कफे पीत्वा यवक्षारावचूर्णितम् ॥ १८ ॥ १६.१८ व् पित्ते शर्करया युतम् स्रावयेद्रुधिरं भूयस्ततः स्निग्धं विरेचयेत् । आनूपवेसवारेण शिरोवदनलेपनम् ॥ १९ ॥ उष्णेन शूले दाहे तु पयःसर्पिर्युतैर्हिमैः । तिमिरप्रतिषेधं च वीक्ष्य युञ्ज्याद्यथायथम् ॥ २० ॥ अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते । अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् ॥ २१ ॥ रूप्यं रूक्षेण गोदध्ना लिम्पेन्नीलत्वमागते । शुष्के तु मस्तुना वर्तिर्वाताक्ष्य्आमयनाशिनी ॥ २२ ॥ १६.२२ व् लिप्तं नीलत्वमागते १६.२२ व् लिप्ते नीलत्वमागते सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला । पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥ २३ ॥ १६.२३ व् सुमनःक्षारकाः शङ्खस् सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः । फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत् ॥ २४ ॥ प्रपौण्डरीकं यष्ट्य्आह्वं दार्वी चाष्टपलं पचेत् । जलद्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥ २५ ॥ पुष्पाञ्जनाद्दशपलं कर्षं च मरिचात्ततः । कृतश्चूर्णोऽथवा वर्तिः सर्वाभिष्यन्दसंभवान् ॥ २६ ॥ हन्ति रागरुजाघर्षान् सद्यो दृष्टिं प्रसादयेत् । अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥ २७ ॥ शुष्काक्षिपाके हविषः पानमक्ष्णोश्च तर्पणम् । घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥ २८ ॥ १६.२८ व् नस्यं तैलेन चाणुना परिषेको हितश्चात्र पयः कोष्णं ससैन्धवम् । सर्पिर्युक्तं स्तन्यपिष्टमञ्जनं च महौषधम् ॥ २९ ॥ १६.२९ व् सर्पिर्युक्तं स्तन्यघृष्टम् वसा वानूपसत्त्वोत्था किञ्चित्सैन्धवनागरा । घृताक्तान् दर्पणे घृष्टान् केशान्मल्लकसंपुटे ॥ ३० ॥ १६.३० व् वसा चानूपसत्त्वोत्था दग्ध्वाज्यपिष्टा लोहस्था सा मषी श्रेष्ठमञ्जनम् । सशोफे वाल्पशोफे च स्निग्धस्य व्यधयेत्सिराम् ॥ ३१ ॥ १६.३१ व् सशोफे चाल्पशोफे च रेकः स्निग्धे पुनर्द्राक्षापथ्याक्वाथत्रिवृद्घृतैः । श्वेतलोध्रं घृते भृष्टं चूर्णितं तान्तवस्थितम् ॥ ३२ ॥ १६.३२ व् श्वेतलोध्रं घृतभृष्टं उष्णाम्बुना विमृदितं सेकः शूलहरः परम् । दार्वीप्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥ ३३ ॥ १६.३३ व् दार्व्याः प्रपौण्डरीकस्य यष्टीहिमोत्पलक्षीरैः कुर्यान्मूर्धस्य लेपनम् ॥ ३३+१ ब् ॥ संधावांश्च प्रयुञ्जीत घर्षरागाश्रुरुग्घरान् ॥ ३३ªअब् ॥ ताम्रं लोहे मूत्रघृष्टं प्रयुक्तं नेत्रे सर्पिर्धूपितं वेदनाघ्नम् । ताम्रे घृष्टो गव्यदध्नः सरो वा युक्तः कृष्णासैन्धवाभ्यां वरिष्ठः ॥ ३४ ॥ शङ्खं ताम्रे स्तन्यघृष्टं घृताक्तैः शम्याः पत्त्रैर्धूपितं तद्यवैश्च । नेत्रे युक्तं हन्ति संधावसंज्ञं क्षिप्रं घर्षं वेदनां चातितीव्राम् ॥ ३५ ॥ उदुम्बरफलं लोहे घृष्टं स्तन्येन धूपितम् ॥ ३६ ब् ॥ साज्यैः शमीच्छदैर्दाहशूलरागाश्रुहर्षजित् । शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसंपुटे ॥ ३७ ॥ १६.३७ व् शिग्रुपल्लवनिर्यासो १६.३७ व् घृष्टस्ताम्रस्य संपुटे द्विनिशात्रिफलामुस्तैः प्रमदादुग्धपेषितैः । सेकः सशर्कराक्षौद्रैरभिघातरुजापहः ॥ ३७.१+१ ॥ १६.३७.१+१ व् प्रमदादुग्धकल्कितैः निषिक्तं तुत्थकं वारान् गोजले पञ्चविंशतिम् । स्तन्ये वा छागदुग्धे वा सद्यःकोपे तदञ्जनम् ॥ ३७.१+२ ॥ घृतेन धूपितो हन्ति शोफघर्षाश्रुवेदनाः । तिलाम्भसा मृत्कपालं कांस्ये घृष्टं सुधूपितम् ॥ ३८ ॥ निम्बपत्त्रैर्घृताभ्यक्तैर्घर्षशूलाश्रुरागजित् । संधावेनाञ्जिते नेत्रे विगतौषधवेदने ॥ ३९ ॥ स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच्च तैः । तालीशपत्त्रचपलानतलोहरजोऽञ्जनैः ॥ ४० ॥ १६.४० व् नतलोहरसाञ्जनैः जातीमुकुलकासीससैन्धवैर्मूत्रपेषितैः । ताम्रमालिप्य सप्ताहं धारयेत्पेषयेत्ततः ॥ ४१ ॥ मूत्रेणैवानु गुटिकाः कार्याश्छायाविशोषिताः । ताः स्तन्यघृष्टा घर्षाश्रुशोफकण्डूविनाशनाः ॥ ४२ ॥ १६.४२ व् मूत्रेण चानु गुटिकाः १६.४२ व् कुर्याच्छायाविशोषिताः व्याघ्रीत्वङ्मधुकं ताम्ररजोऽजाक्षीरकल्कितम् । शम्य्आमलकपत्त्राज्यधूपितं शोफरुक्प्रणुत् ॥ ४३ ॥ १६.४३ व् रजोऽजाक्षीरपेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्दसाधनम् । उत्क्लिष्टाः कफपित्तास्रनिचयोत्थाः कुकूणकः ॥ ४४ ॥ पक्ष्मोपरोधं शुष्काक्षिपाकः पूयालसो बिसः । पोथक्य्अम्लोषितोऽल्पाख्यः स्यन्दमन्था विनानिलात् ॥ ४५ ॥ एतेऽष्टादश पिल्लाख्या दीर्घकालानुबन्धिनः । चिकित्सा पृथगेतेषां स्वं स्वमुक्ताथ वक्ष्यते ॥ ४६ ॥ १६.४६ व् स्वं स्वमुक्ताथ कथ्यते पिल्लीभूतेषु सामान्यादथ पिल्लाख्यरोगिणः । स्निग्धस्य छर्दितवतः सिराव्यधहृतासृजः ॥ ४७ ॥ १६.४७ व् अथ पिल्लाक्षिरोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेदाविशुद्धितः । तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ॥ ४८ ॥ १६.४८ व् विरिक्तस्य तु वर्त्मानु १६.४८ व् विलिखेदाविशुद्धितः त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत् । पिल्लानपिल्लान् कुरुते बहुवर्षोत्थितानपि ॥ ४९ ॥ तत्सेकेनोपदेहाश्रुकण्डूशोफांश्च नाशयेत् । करञ्जबीजं सुरसं सुमनःकोरकाणि च ॥ ५० ॥ १६.५० व् सुमनःक्षारकाणि च संक्षुद्य साधयेत्क्वाथे पूते तत्र रसक्रिया । अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम् ॥ ५१ ॥ रसाञ्जनं सर्जरसो रीतिपुष्पं मनःशिला । समुद्रफेनो लवणं गैरिकं मरिचानि च ॥ ५२ ॥ १६.५२ व् जातीपुष्पं मनःशिला १६.५२ व् समुद्रफेनं लवणं अञ्जनं मधुना पिष्टं क्लेदकण्डूघ्नमुत्तमम् । अभयारसपिष्टं वा तगरं पिल्लनाशनम् ॥ ५३ ॥ भावितं बस्तमूत्रेण सस्नेहं देवदारु च । सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः ॥ ५४ ॥ १६.५४ व् सस्नेहं देवदारु वा सताम्ररजसो वर्तिः पिल्लशुक्रकनाशिनी । पुष्पकासीसचूर्णो वा सुरसारसभावितः ॥ ५५ ॥ ताम्रे दशाहं तत्पैल्ल्यपक्ष्मशातजिदञ्जनम् ॥ ५५ªअब् ॥ अलं च सौवीरकमञ्जनं च ताभ्यां समं ताम्ररजः सुसूक्ष्मम् । पिल्लेषु रोमाणि निषेवितोऽसौ चूर्णः करोत्येकशलाकयापि ॥ ५६ ॥ १६.५६ व् ताभ्यां समं ताम्ररजश्च सूक्ष्मम् १६.५६ व् पिल्लेषु रोमाणि निषेवितोऽयं लाक्षानिर्गुण्डीभृङ्गदार्वीरसेन श्रेष्ठं कार्पासं भावितं सप्तकृत्वः । दीपः प्रज्वाल्यः सर्पिषा तत्समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥ ५७ ॥ १६.५७ व् श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम् ॥ ५८ ब् ॥ पुनः पुनर्विरेकं च नित्यमाश्च्योतनाञ्जनम् । नावनं धूमपानं च पिल्लरोगातुरो भजेत् ॥ ५९ ॥ पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया । चतुर्णवतिरित्यक्ष्णो हेतुलक्षणसाधनैः ॥ ६० ॥ १६.६० व् पूयालसे त्वशान्ते तु १६.६० व् चतुर्णवतिरित्यक्ष्णोर् परस्परमसंकीर्णाः कार्त्स्न्येन गदिता गदाः । सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः ॥ ६१ ॥ पुराणयवगोधूमशालिषष्टिककोद्रवान् । मुद्गादीन् कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान् ॥ ६२ ॥ शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम् । सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम् ॥ ६३ ॥ आतपत्रं पदत्राणं विधिवद्दोषशोधनम् । वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च ॥ ६४ ॥ १६.६४ व् अजीर्णाध्यशनादि च क्रोधशोकदिवास्वप्नरात्रिजागरणातपान् । विदाहि विष्टम्भकरं यच्चेहाहारभेषजम् ॥ ६५ ॥ १६.६५ व् निशाजागरणानि च १६.६५ व् विदाहविष्टम्भकरं १६.६५ व् यद् यदाहारभेषजम् १६.६५ व् विहाराहारभेषजम् द्वे पादमध्ये पृथुसंनिवेशे सिरे गते ते बहुधा च नेत्रे । ता म्रक्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान्नयने नयन्ति ॥ ६६ ॥ १६.६६ व् द्वे पादमध्ये पृथुसंनिविष्टे १६.६६ व् पादप्रयुक्तान्नयनं नयन्ति मलौष्ण्यसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः । भजेत्सदा दृष्टिहितानि तस्मादुपानद्अभ्यञ्जनधावनानि ॥ ६७ ॥ १६.६७ व् तलोष्णसंघट्टनपीडनाद्यैस् १६.६७ व् मृल्लोष्टसंघट्टनपीडनाद्यैस् ऊत्तरस्थान प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत् । मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः ॥ १ ॥ प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत् । अर्धावभेदकं स्तम्भं शिशिरान्अभिनन्दनम् ॥ २ ॥ चिराच्च पाकं पक्वं तु लसीकामल्पशः स्रवेत् । श्रोत्रं शून्यमकस्माच्च स्यात्संचारविचारवत् ॥ ३ ॥ शूलं पित्तात्सदाहोषाशीतेच्छाश्वयथुज्वरम् । आशुपाकं प्रपक्वं च सपीतलसिकास्रुति ॥ ४ ॥ १७.४ व् शीतेच्छाश्वयथुर्ज्वरः सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च । कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः ॥ ५ ॥ कण्डूः श्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः । करोति श्रवणे शूलमभिघातादिदूषितम् ॥ ६ ॥ १७.६ व् पाकाच्छ्वेतघना स्रुतिः रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम् । शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक् ॥ ७ ॥ पर्यायादुष्णशीतेच्छां जायते श्रुतिजाड्यवत् । पक्वं सितासितारक्तघनपूयप्रवाहि च ॥ ८ ॥ शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः । नादानकस्माद्विविधान् कर्णनादं वदन्ति तम् ॥ ९ ॥ श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः । उच्चैः कृच्छ्राच्छ्रुतिं कुर्याद्बधिरत्वं क्रमेण च ॥ १० ॥ १७.१० व् बधिरत्वं क्रमेण वा वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत्ततो भवेत् । रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः ॥ ११ ॥ कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ । कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि ॥ १२ ॥ १७.१२ व् स्थिरौ तत्संज्ञितौ स्मृतौ १७.१२ व् सरुजं नीरुजं त्वथ घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम् । वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजा रुजम् ॥ १३ ॥ १७.१३ व् मांसासृक्क्लेदजां रुजम् खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः । श्रोत्रकण्डूयनाज्जाते क्षते स्यात्पूर्वलक्षणः ॥ १४ ॥ १७.१४ व् श्रोतःकण्डूयनाज्जाते विद्रधिः पूर्ववच्चान्यः शोफोऽर्शोऽर्बुदमीरितम् । तेषु रुक्पूतिकर्णत्वं बधिरत्वं च बाधते ॥ १५ ॥ १७.१५ व् षोढार्शोऽर्बुदमीरितम् १७.१५ व् बधिरत्वं च जायते गर्भेऽनिलात्संकुचिता शष्कुली कुचिकर्णकः । एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥ १६ ॥ १७.१६ व् शष्कुली कुञ्चिकर्णकः १७.१६ व् शष्कुली कूचिकर्णकः १७.१६ व् गर्भे मांसाङ्कुरः स्थितः पिप्पली पिप्पलीमानः संनिपाताद्विदारिका । सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः ॥ १७ ॥ कटुतैलनिभं पक्वः स्रवेत्कृच्छ्रेण रोहति । संकोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम् ॥ १८ ॥ १७.१८ व् स्रवन् कृच्छ्रेण रोहति सिरास्थः कुरुते वायुः पालीशोषं तद्आह्वयम् । कृशा दृढा च तन्त्रीवत्पाली वातेन तन्त्रिका ॥ १९ ॥ सुकुमारे चिरोत्सर्गात्सहसैव प्रवर्धिते । कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान् ॥ २० ॥ परिपोटः स पवनादुत्पातः पित्तशोणितात् । गुर्व्आभरणभाराद्यैः श्यावो रुग्दाहपाकवान् ॥ २१ ॥ श्वयथुः स्फोटपिटिकारागोषाक्लेदसंयुतः । पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः ॥ २२ ॥ स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः । दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक् ॥ २३ ॥ १७.२३ व् उन्मन्थो गल्लिकश्च सः श्वयथुः संनिपातोत्थः स नाम्ना दुःखवर्धनः । कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः ॥ २४ ॥ लिह्युः पालीमुपेक्षिताः लेह्याख्याः पिटिकास्ता हि । पिप्पली सर्वजं शूलं विदारी कुचिकर्णकः ॥ २५ ॥ १७.२५ व् लिह्याख्याः पिटिकास्ता हि १७.२५ व् विदारी कूचिकर्णकः एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत् । पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः ॥ २६ ॥ ऊत्तरस्थान कर्णशूले पवनजे पिबेद्रात्रौ रसाशितः । वातघ्नसाधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥ १ ॥ पत्त्राणां पृथगश्वत्थबिल्वार्कैरण्डजन्मनाम् । तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः ॥ २ ॥ रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि । गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः ॥ ३ ॥ महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम् । महतः पञ्चमूलस्य काष्ठात्क्षौमेण वेष्टितात् ॥ ४ ॥ तैलसिक्तात्प्रदीप्ताग्रात्स्नेहः सद्यो रुजापहः । योज्यश्चैवं भद्रकाष्ठात्कुष्ठात्काष्ठाच्च सारलात् ॥ ५ ॥ १८.५ व् स्नेहः सद्यो रुजाहरः वातव्याधिप्रतिश्यायविहितं हितमत्र च । वर्जयेच्छिरसा स्नानं शीताम्भःपानमह्न्यपि ॥ ६ ॥ १८.६ व् वर्जयेच्छिरसः स्नानं पित्तशूले सितायुक्तघृतस्निग्धं विरेचयेत् । द्राक्षायष्टीशृतं स्तन्यं शस्यते कर्णपूरणम् ॥ ७ ॥ यष्ट्य्अनन्ताहिमोशीरकाकोलीलोध्रजीवकैः । मृणालबिसमञ्जिष्ठाशारिवाभिश्च साधयेत् ॥ ८ ॥ यष्टीमधुरसप्रस्थक्षीरद्विप्रस्थसंयुतम् । तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम् ॥ ९ ॥ निहन्ति शूलदाहोषाः केवलं क्षौद्रमेव वा । यष्ट्य्आदिभिश्च सघृतैः कर्णौ दिह्यात्समन्ततः ॥ १० ॥ वामयेत्पिप्पलीसिद्धसर्पिःस्निग्धं कफोद्भवे । धूमनावनगण्डूषस्वेदान् कुर्यात्कफापहान् ॥ ११ ॥ लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च । कदल्याः स्वरसः श्रेष्ठः कद्उष्णः कर्णपूरणे ॥ १२ ॥ १८.१२ व् सुरङ्ग्या मूलकस्य च १८.१२ व् भृङ्गस्य मूलकस्य च अर्काङ्कुरानम्लपिष्टांस्तैलाक्ताÀ लवणान्वितान् । संनिधाय स्नुहीकाण्डे कोरिते तच्छदावृतान् ॥ १३ ॥ १८.१३ व् कोरिते तच्छदावृते स्वेदयेत्पुटपाकेन स रसः शूलजित्परम् । रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥ १४ ॥ शुक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत् । अजाविमूत्रवंशत्वक्सिद्धं तैलं च पूरणम् ॥ १५ ॥ १८.१५ व् सिद्धतैलेन पूरयेत् सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बुरुनागरैः । रक्तजे पित्तवत्कार्यं सिरां चाशु विमोक्षयेत् ॥ १६ ॥ पक्वे पूयवहे कर्णे धूमगण्डूषनावनम् । युञ्ज्यान्नाडीविधानं च दुष्टव्रणहरं च यत् ॥ १७ ॥ स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचुवर्तिभिः । पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥ १८ ॥ सुरसादिगणक्वाथफाणिताक्तां च योजयेत् । पिचुवर्तिं सुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत् ॥ १९ ॥ १८.१९ व् फाणिताक्तां च शीलयेत् १८.१९ व् फाणिताक्तां प्रयोजयेत् १८.१९ व् फाणिताक्तां नियोजयेत् शूलक्लेदगुरुत्वानां विधिरेष निवर्तकः । प्रियङ्गुमधुकाम्बष्ठाधातक्य्उत्पलपर्णिभिः ॥ २० ॥ मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च । पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात् ॥ २१ ॥ नादबाधिर्ययोः कुर्याद्वातशूलोक्तमौषधम् । श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः ॥ २२ ॥ एरण्डशिग्रुवरुणमूलकात्पत्त्रजे रसे । चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते ॥ २३ ॥ १८.२३ व् एरण्डशिग्रुतरुण यष्ट्य्आह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत् । नादबाधिर्यशूलानि नावनाभ्यङ्गपूरणैः ॥ २४ ॥ १८.२४ व् कल्कयुक्तं हिनस्ति तत् पक्वं प्रतिविषाहिङ्गुमिशित्वक्स्वर्जिकोषणैः । सशुक्तैः पूरणात्तैलं रुक्स्रावाश्रुतिनादनुत् ॥ २५ ॥ १८.२५ व् रुक्स्रावश्रुतिनादनुत् कर्णनादे हितं तैलं सर्षपोत्थं च पूरणे । शुष्कमूलकखण्डानां क्षारो हिङ्गु महौषधम् ॥ २६ ॥ शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम् । सौवर्चलयवक्षारस्वर्जिकौद्भिदसैन्धवम् ॥ २७ ॥ भूर्जग्रन्थिविडं मुस्ता मधुशुक्तं चतुर्गुणम् । मातुलुङ्गरसस्तद्वत्कदलीस्वरसश्च तैः ॥ २८ ॥ पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात् । कण्डूं क्लेदं च बाधिर्यपूतिकर्णत्वरुक्कृमीन् ॥ २९ ॥ १८.२९ व् कण्डूक्ष्वेडनबाधिर्य १८.२९ व् कण्डूज्वलनबाधिर्य क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च । अथ सुप्ताविव स्यातां कर्णौ रक्तं हरेत्ततः ॥ ३० ॥ १८.३० व् कर्णौ रक्तं हरेत्तयोः सशोफक्लेदयोर्मन्दश्रुतेर्वमनमाचरेत् । बाधिर्यं वर्जयेद्बालवृद्धयोश्चिरजं च यत् ॥ ३१ ॥ प्रतीनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत् । कर्णशोधनकेनानु कर्णं तैलस्य पूरयेत् ॥ ३२ ॥ १८.३२ व् कर्णं तैलेन पूरयेत् सशुक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा । शोधनाद्रूक्षतोत्पत्तौ घृतमण्डस्य पूरणम् ॥ ३३ ॥ १८.३३ व् सशुक्तसैन्धवेनाशु १८.३३ व् मातुलुङ्गरसेन वा १८.३३ व् घृतमण्डेन पूरणम् क्रमोऽयं मलपूर्णेऽपि कर्णे कण्ड्वां कफापहम् । नस्यादि तद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम् ॥ ३४ ॥ १८.३४ व् कटूष्णैश्चानु लेपनम् कर्णस्रावोदितं कुर्यात्पूतिकृमिणकर्णयोः । पूरणं कटुतैलेन विशेषात्कृमिकर्णके ॥ ३५ ॥ १८.३५ व् पूतिकृमिलकर्णयोः १८.३५ व् पूतिकृमिककर्णयोः वमिपूर्वा हिता कर्णविद्रधौ विद्रधिक्रिया । पित्तोत्थकर्णशूलोक्तं कर्तव्यं क्षतविद्रधौ ॥ ३६ ॥ १८.३६ व् वमिः पूर्वं हिता कर्ण अर्शोऽर्बुदेषु नासावदामा कर्णविदारिका । कर्णविद्रधिवत्साध्या यथादोषोदयेन च ॥ ३७ ॥ पालीशोषेऽनिलश्रोत्रशूलवन्नस्यलेपनम् । स्वेदं च कुर्यात्स्विन्नां च पालीमुद्वर्तयेत्तिलैः ॥ ३८ ॥ प्रियालबीजयष्ट्य्आह्वहयगन्धायवान्वितैः । ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत् ॥ ३९ ॥ शतावरीवाजिगन्धापयस्यैरण्डजीवकैः । तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ॥ ४० ॥ कल्केन जीवनीयेन तैलं पयसि पाचितम् । आनूपमांसक्वाथे च पालीपोषणवर्धनम् ॥ ४१ ॥ १८.४१ व् आनूपमांसक्वाथेन पालीं छित्त्वातिसंक्षीणां शेषां संधाय पोषयेत् । याप्यैवं तन्त्रिकाख्यापि परिपोटेऽप्ययं विधिः ॥ ४२ ॥ उत्पाते शीतलैर्लेपो जलौकोहृतशोणिते । जम्ब्व्आम्रपल्लवबलायष्टीलोध्रतिलोत्पलैः ॥ ४३ ॥ सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः सशारिवैः । सिद्धमभ्यञ्जने तैलं विसर्पोक्तघृतानि च ॥ ४४ ॥ १८.४४ व् सिद्धमभ्यञ्जनं तैलं उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्कवसान्वितम् । तालपत्त्र्य्अश्वगन्धार्कवाकुचीफलसैन्धवैः ॥ ४५ ॥ १८.४५ व् गोधाकर्किवसान्वितम् १८.४५ व् वाकुचीतिलसैन्धवैः सुरसालाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् । दुर्विद्धेऽश्मन्तजम्ब्व्आम्रपत्त्रक्वाथेन सेचिताम् ॥ ४६ ॥ १८.४६ व् सिद्धं तीक्ष्णं तु नावनम् तैलेन पालीं स्व्अभ्यक्तां सुश्लक्ष्णैरवचूर्णयेत् । चूर्णैर्मधुकमञ्जिष्ठाप्रपुण्ड्राह्वनिशोद्भवैः ॥ ४७ ॥ १८.४७ व् प्रपौण्ड्राह्वनिशोद्भवैः १८.४७ व् पौण्डरीकनिशोद्भवैः लाक्षाविडङ्गसिद्धं च तैलमभ्यञ्जने हितम् । स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम् ॥ ४८ ॥ विडङ्गसारैरालिम्पेदुरभ्रीमूत्रकल्कितैः । कौटजेङ्गुदकारञ्जबीजशम्याकवल्कलैः ॥ ४९ ॥ अथवाभ्यञ्जनं तैर्वा कटुतैलं विपाचयेत् । सनिम्बपत्त्रमरिचमदनैर्लेहिकाव्रणे ॥ ५० ॥ छिन्नं तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम् । शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम् ॥ ५१ ॥ १८.५१ व् सम्यक्छिन्ने विशोधनम् अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम् । निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥ ५२ ॥ अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम् । सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरेत् ॥ ५३ ॥ शोणितस्थापनैर्व्रण्यमाचारं चादिशेत्ततः । सप्ताहादामतैलाक्तं शनैरपनयेत्पिचुम् ॥ ५४ ॥ १८.५४ व् शोणितास्थापनैर्व्रण्यम् सुरूढं जातरोमाणं श्लिष्टसंधिं समं स्थिरम् । सुवर्ष्माणमरोगं च शनैः कर्णं विवर्धयेत् ॥ ५५ ॥ १८.५५ व् सुवर्ष्माणं सुरोमं च जलशूकः स्वयङ्गुप्ता रजन्यौ बृहतीफलम् । अश्वगन्धाबलाहस्तिपिप्पलीगौरसर्षपाः ॥ ५६ ॥ मूलं कोशातकाश्वघ्नरूपिकासप्तपर्णजम् । छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम् ॥ ५७ ॥ जतूका जलजन्मा च तथा शबरकन्दकम् । एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम् ॥ ५८ ॥ १८.५८ व् तथा शबरकन्दकः हस्त्य्अश्वमूत्रेण परमभ्यङ्गात्कर्णवर्धनम् । अथ कुर्याद्वयःस्थस्य च्छिन्नां शुद्धस्य नासिकाम् ॥ ५९ ॥ छिन्द्यान्नासासमं पत्त्रं तत्तुल्यं च कपोलतः । त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत् ॥ ६० ॥ सीव्येद्गण्डं ततः सूच्या सेविन्या पिचुयुक्तया । नासाच्छेदेऽथ लिखिते परिवर्त्योपरि त्वचम् ॥ ६१ ॥ १८.६१ व् नासाच्छेदे सुलिखिते कपोलवध्रं संदध्यात्सीव्येन्नासां च यत्नतः । नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये ॥ ६२ ॥ १८.६२ व् कपोलबन्धं संदध्यात् १८.६२ व् कपोलवध्रीं संदध्यात् आमतैलेन सिक्त्वानु पत्तङ्गमधुकाञ्जनैः । शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ॥ ६३ ॥ १८.६३ व् पतङ्गमधुकाञ्जनैः १८.६३ व् शोणितास्थापनैश्चान्यैः ततो मधुघृताभ्यक्तं बद्ध्वाचारिकमादिशेत् । ज्ञात्वावस्थान्तरं कुर्यात्सद्योव्रणविधिं ततः ॥ ६४ ॥ १८.६४ व् बद्ध्वाचारमथादिशेत् छिन्द्याद्रूढेऽधिकं मांसं नासोपान्ताच्च चर्म तत् । सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत्पुनः ॥ ६५ ॥ १८.६५ व् नासोपान्ताच्च चर्मवत् निवेशिते यथान्यासं सद्यश्छिन्नेऽप्ययं विधिः । नाडीयोगाद्विनौष्ठस्य नासासंधानवद्विधिः ॥ ६६ ॥ १८.६६ व् सद्यश्छेदेऽप्ययं विधिः ऊत्तरस्थान अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः । नीचात्य्उच्चोपधानेन पीतेनान्येन वारिणा ॥ १ ॥ अत्य्अम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः । क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः ॥ २ ॥ १९.२ व् क्षुब्धा वातोल्बणा दोषा १९.२ व् वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम् । तत्र वातात्प्रतिश्याये मुखशोषो भृशं क्षवः ॥ ३ ॥ घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः । कीटिका इव सर्पन्तीर्मन्यते परितो भ्रुवौ ॥ ४ ॥ १९.४ व् कीटका इव सर्पन्ति स्वरसादश्चिरात्पाकः शिशिराच्छकफस्रुतिः । पित्तात्तृष्णाज्वरघ्राणपिटिकासंभवभ्रमाः ॥ ५ ॥ १९.५ व् पित्तात्तृष्णाज्वरो घ्राणे १९.५ व् पिटिकासंभवभ्रमाः नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः । कफात्कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम् ॥ ६ ॥ माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः । सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान् ॥ ७ ॥ १९.७ व् स्निग्धशुक्लघनस्रुतिः १९.७ व् स्निग्धशुक्लघना स्रुतिः दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक् । उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता ॥ ८ ॥ कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम् । सर्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः ॥ ९ ॥ १९.९ व् पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात्स सर्वेन्द्रियतापनः । साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः ॥ १० ॥ कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत् । नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः ॥ ११ ॥ १९.११ व् मुखदौर्गन्ध्यशोषकृत् पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः । मूर्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः ॥ १२ ॥ १९.१२ व् पूयोपमासिता रक्ता १९.१२ व् ग्रथिता श्लेष्मसंस्रुतिः १९.१२ व् ग्रथितश्लेष्मसंस्रुतिः पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः । श्लेष्मा सचिक्कणः पीतोऽज्ञानं च रसगन्धयोः ॥ १३ ॥ १९.१३ व् ज्ञानं च रसगन्धयोः तीक्ष्णाघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः । वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि ॥ १४ ॥ १९.१४ व् तीक्ष्णघ्राणोपयोगार्क विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् । निवृत्तः कुरुतेऽत्य्अर्थं क्षवथुं स भृशक्षवः ॥ १५ ॥ १९.१५ व् रुद्धः शृङ्गाटकं व्रजन् १९.१५ व् क्षवथुं स भृशङ्क्षवः शोषयन्नासिकास्रोतः कफं च कुरुतेऽनिलः । शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः ॥ १६ ॥ १९.१६ व् शोषयेन्नासिकास्रोतः १९.१६ व् शूकपूर्णाभकण्ठत्वं १९.१६ व् शूकपूर्णाभनासत्वं स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते । नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना ॥ १७ ॥ निःश्वासोच्छ्वाससंरोधात्स्रोतसी संवृते इव । पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत् ॥ १८ ॥ स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसंभवः । अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते ॥ १९ ॥ कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्यपीनसम् । कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनम् ॥ २० ॥ १९.२० व् रुद्धः स्रोतःसु पीनसम् अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका । अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥ २१ ॥ रक्तेन नासा दग्धेव बाह्यान्तःस्पर्शनासहा । भवेद्धूमोपमोच्छ्वासा सा दीप्तिर्दहतीव च ॥ २२ ॥ तालुमूले मलैर्दुष्टैर्मारुतो मुखनासिकात् । श्लेष्मा च पूतिर्निर्गच्छेत्पूतिनासं वदन्ति तम् ॥ २३ ॥ निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत् । तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम् ॥ २४ ॥ पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत् । कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत् ॥ २५ ॥ १९.२५ व् कफं स शुष्कपुटतां अर्शोऽर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम् । सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥ २६ ॥ १९.२६ व् पीनसः प्रततं क्षवः १९.२६ व् पीनसः सततं क्षुतिः सानुनासिकवादित्वं पूतिनासः शिरोव्यथा । अष्टादशानामित्येषां यापयेद्दुष्टपीनसम् ॥ २७ ॥ १९.२७ व् पूतिनासा शिरोव्यथा १९.२७ व् पूतिर्नासा शिरोव्यथा १९.२७ व् अष्टादशानामेतेषां १९.२७ व् यापयेद्दुष्टपीनसान् १९.२७ व् वर्जयेद्दुष्टपीनसम् ऊत्तरस्थान सर्वेषु पीनसेष्वादौ निवातागारगो भजेत् । स्नेहनस्वेदवमनधूमगण्डूषधारणम् ॥ १ ॥ २०.१ व् निवातागारगो भवेत् वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम् । लघ्व्अम्ललवणं स्निग्धमुष्णं भोजनमद्रवम् ॥ २ ॥ २०.२ व् लघ्व्अम्ललवणस्निग्धम् २०.२ व् लघ्वम्लं लवणं स्निग्धम् धन्वमांसगुडक्षीरचणकत्रिकटूत्कटम् । यवगोधूमभूयिष्ठं दधिदाडिमसारिकम् ॥ ३ ॥ २०.३ व् दधिदाडिमसाधितम् बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः । कवोष्णं दशमूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥ ४ ॥ जिघ्रेच्चोरकतर्कारीवचाजाज्य्उपकुञ्चिकाः । व्योषतालीशचविकातिन्तिडीकाम्लवेतसम् ॥ ५ ॥ मनःशिलाविडङ्गालवचात्रिकटुहिङ्गुभिः । चूर्णीकृत्य समाघ्रातः प्रतिश्यायो विनश्यति ॥ ५.१+१ ॥ तद्वद्दोरकवल्ल्य्एलालवातार्क्ष्यद्विजीरकैः ॥ ५.१+२ ब् ॥ साग्न्य्अजाजि द्विपलिकं त्वग्एलापत्त्रपादिकम् । जीर्णाद्गुडात्तुलार्धेन पक्वेन वटकीकृतम् ॥ ६ ॥ पीनसश्वासकासघ्नं रुचिस्वरकरं परम् । शताह्वात्वग्बला मूलं श्योणाकैरण्डबिल्वजम् ॥ ७ ॥ सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम् । अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे ॥ ८ ॥ त्यजेत्स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् । पिबेद्वातप्रतिश्याये सर्पिर्वातघ्नसाधितम् ॥ ९ ॥ पटुपञ्चकसिद्धं वा विदार्य्आदिगणेन वा । स्वेदनस्यादिकां कुर्यात्चिकित्सामर्दितोदिताम् ॥ १० ॥ पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् । परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान् ॥ ११ ॥ धवत्वक्त्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः । क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत् ॥ १२ ॥ २०.१२ व् श्रीपर्णीयष्टिबिल्वकैः कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः । सक्षारं वा घृतं पीत्वा वमेत्पिष्टैस्तु नावनम् ॥ १३ ॥ २०.१३ व् सक्षारं च घृतं पीत्वा २०.१३ व् सक्षारं तु घृतं पीत्वा बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः । कटुतीक्ष्णैर्घृतैर्नस्यैः कवडैः सर्वजं जयेत् ॥ १४ ॥ यक्ष्मकृमिक्रमं कुर्वन् यापयेद्दुष्टपीनसम् । व्योषोरुबूककृमिजिद्दारुमाद्रीगदेङ्गुदम् ॥ १५ ॥ २०.१५ व् यक्ष्मकृमिक्रमं कुर्यात् २०.१५ व् दारुमाद्र्य्अम्बुदेङ्गुदम् वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः । अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च ॥ १६ ॥ अश्वविड्रसमूत्राभ्यां हस्तिमूत्रेण चैकतः । क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥ १७ ॥ क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् । शुण्ठीकुष्ठकणावेल्लद्राक्षाकल्ककषायवत् ॥ १८ ॥ साधितं तैलमाज्यं वा नस्यं क्षवपुटप्रणुत् । नासाशोषे बलातैलं पानादौ भोजनं रसैः ॥ १९ ॥ स्निग्धो धूमस्तथा स्वेदो नासानाहेऽप्ययं विधिः । पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥ २० ॥ २०.२० व् तीक्ष्णं नस्यादि शस्यते कफपीनसवत्पूतिनासापीनसयोः क्रिया । लाक्षाकरञ्जमरिचवेल्लहिङ्गुकणागुडैः ॥ २१ ॥ अविमूत्रद्रुतैर्नस्यं कारयेद्वमने कृते । शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः ॥ २२ ॥ सवेल्लसुरसैस्तैलं नावनं परमं हितम् । पूयरक्ते नवे कुर्याद्रक्तपीनसवत्क्रमम् ॥ २३ ॥ २०.२३ व् रक्तपीनसवत्क्रियाम् अतिप्रवृद्धे नाडीवद्दग्धेष्वर्शोऽर्बुदेषु च । निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः ॥ २४ ॥ २०.२४ व् दग्धेष्वर्शोऽर्बुदेषु तु कल्कितैर्घृतमध्व्अक्तां घ्राणे वर्तिं प्रवेशयेत् । शिग्र्व्आदिनावनं चात्र पूतिनासोदितं भजेत् ॥ २५ ॥ २०.२५ व् कल्कितैर्घृतमध्व्आक्तां ऊत्तरस्थान मात्स्यमाहिषवाराहपिशितामकमूलकम् । माषसूपदधिक्षीरशुक्तेक्षुरसफाणितम् ॥ १ ॥ २१.१ व् मत्स्यमाहिषवाराह अवाक्शय्यां च भजतो द्विषतो दन्तधावनम् । धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम् ॥ २ ॥ क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान् । तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधा कृतः ॥ ३ ॥ २१.३ व् कुर्वन्त्यन्तर्मुखे गदान् ओष्ठकोपे तु पवनात्स्तब्धावोष्ठौ महारुजौ । दाल्येते परिपाट्येते परुषासितकर्कशौ ॥ ४ ॥ पित्तात्तीक्ष्णसहौ पीतौ सर्षपाकृतिभिश्चितौ । पिटिकाभिर्बहुक्लेदावाशुपाकौ कफात्पुनः ॥ ५ ॥ २१.५ व् पिटिकाभिर्महाक्लेदाव् शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ । संनिपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ ॥ ६ ॥ २१.६ व् दुर्गन्धस्रावपिच्छिलौ २१.६ व् दुर्गन्धावतिपिच्छिलौ अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ ७ ॥ खर्जूरसदृशं चात्र क्षीणे रक्तेऽर्बुदं भवेत् । मांसपिण्डोपमौ मांसात्स्यातां मूर्छत्कृमी क्रमात् ॥ ८ ॥ तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू । क्षतजाववदीर्येते पाट्येते चासकृत्पुनः ॥ ९ ॥ २१.९ व् सकण्डू मेदसा मृदू २१.९ व् पाट्येते वासकृत्पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ । जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम् ॥ १० ॥ गण्डालजी स्थिरः शोफो गण्डे दाहज्वरान्वितः । वातादुष्णसहा दन्ताः शीतस्पर्शेऽधिकव्यथाः ॥ ११ ॥ दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः । दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः ॥ १२ ॥ २१.१२ व् शीतभक्ष्यासहा द्विजाः भवन्त्यम्लाशनेनेव सरुजाश्चलिता इव । दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः ॥ १३ ॥ २१.१३ व् सरुजश्चलिता इव २१.१३ व् भेदरुक्वेदनान्विताः चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः । करालस्तु करालानां दशनानां समुद्गमः ॥ १४ ॥ २१.१४ व् दशनानां समुद्भवः २१.१४ व् दशनानां समुद्भवे दन्तोऽधिकोऽधिदन्ताख्यः स चोक्तः खलु वर्धनः । जायमानेऽतिरुग्दन्ते जाते तत्र तु शाम्यति ॥ १५ ॥ २१.१५ व् जायते जायमानेऽति २१.१५ व् रुग्जाते तत्र शाम्यति अधावनान्मलो दन्ते कफो वा वातशोषितः । पूतिगन्धिः स्थिरीभूतः शर्करा साप्युपेक्षिता ॥ १६ ॥ २१.१६ व् पूतिगन्धः स्थिरीभूतः २१.१६ व् शर्करा सोऽप्युपेक्षितः शातयत्यणुशो दन्तात्कपालानि कपालिका । श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः ॥ १७ ॥ २१.१७ व् शातयत्यणुशो दन्त २१.१७ व् कपालानि कपालिका २१.१७ व् श्यावः श्यावत्वमायाता २१.१७ व् रक्तपित्तानिलैर्द्विजाः समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः । शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते ॥ १८ ॥ पूतित्वात्कृमयः सूक्ष्मा जायन्ते जायते ततः । अहेतुतीव्रार्तिशमः ससंरम्भोऽसितश्चलः ॥ १९ ॥ प्रलूनः पूयरक्तस्रुत्स चोक्तः कृमिदन्तकः । श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम् ॥ २० ॥ २१.२० व् प्रभूतपूयरक्तस्रुत् शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च । शीतादोऽसावुपकुशः पाकः पित्तासृग्उद्भवः ॥ २१ ॥ दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः । कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेऽसृजि स्थिते ॥ २२ ॥ चला मन्दरुजो दन्ताः पूति वक्त्रं च जायते । दन्तयोस्त्रिषु वा शोफो बदरास्थिनिभो घनः ॥ २३ ॥ कफास्रात्तीव्ररुक्शीघ्रं पच्यते दन्तपुप्पुटः । दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः ॥ २४ ॥ सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः । श्वयथुर्दन्तमूलेषु रुजावान् पित्तरक्तजः ॥ २५ ॥ २१.२५ व् पूयास्रे दन्तविद्रधिः लालास्रावी स सुषिरो दन्तमांसप्रशातनः । स संनिपाताज्ज्वरवान् सपूयरुधिरस्रुतिः ॥ २६ ॥ २१.२६ व् स संनिपातज्वरवान् महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः । दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः ॥ २७ ॥ २१.२७ व् विशीर्णरदबन्धनः प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः । घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् ॥ २८ ॥ यस्मिंश्चलन्ति दन्ताश्च स विदर्भोऽभिघातजः । दन्तमांसाश्रितान् रोगान् यः साध्यानप्युपेक्षते ॥ २९ ॥ २१.२९ व् स वैदर्भोऽभिघातजः अन्तस्तस्यास्रवन् दोषः सूक्ष्मां संजनयेद्गतिम् । पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी ॥ ३० ॥ ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः । शाकपत्त्रखरा सुप्ता स्फुटिता वातदूषिता ॥ ३१ ॥ जिह्वा पित्तात्सदाहोषा रक्तैर्मांसाङ्कुरैश्चिता । शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः ॥ ३२ ॥ २१.३२ व् कफेन बहुला गुरुः कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः । मत्स्यगन्धिर्भवेत्पक्वः सोऽलसो मांसशातनः ॥ ३३ ॥ प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसंनिभः । साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः ॥ ३४ ॥ २१.३४ व् प्रलम्बनोऽधो जिह्वायाः अधिजिह्वः सरुक्कण्डुर्वाक्याहारविघातकृत् । तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः ॥ ३५ ॥ तालुमांसेऽनिलाद्दुष्टे पिटिकाः सरुजः खराः । बह्व्यो घनाः स्रावयुतास्तास्तालुपिटिकाः स्मृताः ॥ ३६ ॥ २१.३६ व् पिटिकाः सरुजाः खराः २१.३६ व् बह्व्यो घनाः स्रावयुक्तास् तालुमूले कफात्सास्रान्मत्स्यवस्तिनिभो मृदुः । प्रलम्बः पिच्छिलः शोफो नासयाहारमीरयन् ॥ ३७ ॥ कण्ठोपरोधतृट्कासवमिकृत्गलशुण्डिका । तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः ॥ ३८ ॥ पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम् । कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक् ॥ ३९ ॥ कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः । पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः ॥ ४० ॥ वातपित्तज्वरायासैस्तालुशोषस्तद्आह्वयः । जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः ॥ ४१ ॥ मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी । कण्ठास्यशोषकृद्वातात्सा हनुश्रोत्ररुक्करी ॥ ४२ ॥ २१.४२ व् रोहिणी साशुकारिणी पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता । क्षिप्रजा क्षिप्रपाकातिरागिणी स्पर्शनासहा ॥ ४३ ॥ कफेन पिच्छिला पाण्डुरसृजा स्फोटकाचिता । तप्ताङ्गारनिभा कर्णरुक्करी पित्तजाकृतिः ॥ ४४ ॥ गम्भीरपाका निचयात्सर्वलिङ्गसमन्विता । दोषैः कफोल्बणैः शोफः कोलवद्ग्रथितोन्नतः ॥ ४५ ॥ शूककण्टकवत्कण्ठे शालूको मार्गरोधनः । वृन्दो वृत्तोन्नतो दाहज्वरकृद्गलपार्श्वगः ॥ ४६ ॥ हनुसंध्य्आश्रितः कण्ठे कार्पासीफलसंनिभः । पिच्छिलो मन्दरुक्शोफः कठिनस्तुण्डिकेरिका ॥ ४७ ॥ २१.४७ व् कर्पासीफलसंनिभः बाह्यान्तः श्वयथुर्घोरो गलमार्गार्गलोपमः । गलौघो मूर्धगुरुतातन्द्रालालाज्वरप्रदः ॥ ४८ ॥ वलयं नातिरुक्शोफस्तद्वदेवायतोन्नतः । मांसकीलो गले दोषैरेकोऽनेकोऽथवाऽल्परुक् ॥ ४९ ॥ कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथुमूलो गिलायुकः । भूरिमांसाङ्कुरवृता तीव्रतृड्ज्वरमूर्धरुक् ॥ ५० ॥ २१.५० व् पृथुमूलो गलायुकः शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी । व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः ॥ ५१ ॥ २१.५१ व् शतघ्नीनिचितेवान्तः २१.५१ व् शतघ्नी चातिरुक्करी पूतिपूयनिभस्रावी श्वयथुर्गलविद्रधिः । जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः ॥ ५२ ॥ जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम् ॥ ५३ ब् ॥ २१.५३ व् नीरुजं तं गलार्बुदम् पवनश्लेष्ममेदोभिर्गलगण्डो भवेद्बहिः ॥ ५३ द् ॥ वर्धमानः स कालेन मुष्कवल्लम्बतेऽतिरुक् ॥ ५३ f ॥ २१.५३ व् मुष्कवल्लम्बते निरुक् कृष्णोऽरुणो वा तोदाढ्यः स वातात्कृष्णराजिमान् । वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम् ॥ ५४ ॥ स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात् । वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम् ॥ ५५ ॥ २१.५५ व् वृद्धस्तालुगले शोफं मेदसः श्लेष्मवद्धानिवृद्ध्योः सोऽनुविधीयते । देहं वृद्धश्च कुरुते गले शब्दं स्वरेऽल्पताम् ॥ ५६ ॥ श्लेष्मरुद्धानिलगतिः शुष्ककण्ठो हतस्वरः । ताम्यन् प्रसक्तं श्वसिति येन स स्वरहानिलात् ॥ ५७ ॥ करोति वदनस्यान्तर्व्रणान् सर्वसरोऽनिलः । संचारिणोऽरुणान् रूक्षानोष्ठौ ताम्रौ चलत्वचौ ॥ ५८ ॥ जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता । विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥ ५९ ॥ २१.५९ व् मुखं पाको मुखस्य च अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः । यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः ॥ ६० ॥ २१.६० व् कुर्वन्नूर्ध्वगदस्तु सः मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता । क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे ॥ ६१ ॥ कफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः । अन्तःकपोलमाश्रित्य श्यावपाण्डु कफोऽर्बुदम् ॥ ६२ ॥ २१.६२ व् श्यावं पाण्डु कफोऽर्बुदम् कुर्यात्तद्घट्टितं छिन्नं मृदितं च विवर्धते । मुखपाको भवेत्सास्रैः सर्वैः सर्वाकृतिर्मलैः ॥ ६३ ॥ २१.६३ व् कुर्यात्तत्पाटितं छिन्नं २१.६३ व् कुर्यात्तद्व्यधितं छिन्नं पूत्य्आस्यता च तैरेव दन्तकाष्ठादिविद्विषः । ओष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले ॥ ६४ ॥ वक्त्रे सर्वत्र चेत्युक्ताः पञ्चसप्ततिरामयाः । एकादशैको दश च त्रयोदश तथा च षट् ॥ ६५ ॥ अष्टावष्टादशाष्टौ च क्रमात्तेष्वन्उपक्रमाः । करालो मांसरक्तौष्ठावर्बुदानि जलाद्विना ॥ ६६ ॥ २१.६६ व् क्रमादेष्वन्उपक्रमाः कच्छपस्तालुपिटिका गलौघः सुषिरो महान् । स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः ॥ ६७ ॥ २१.६७ व् स्वरघ्नोर्ध्वगदश्याव नाड्य्ओष्ठकोपौ निचयाद्रक्तात्सर्वैश्च रोहिणी । दशने स्फुटिते दन्तभेदः पक्वोपजिह्विका ॥ ६८ ॥ गलगण्डः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः । याप्यस्तु हर्षो भेदश्च शेषाञ्छस्त्रौषधैर्जयेत् ॥ ६९ ॥ २१.६९ व् गलगण्डः स्वरभ्रंशः ऊत्तरस्थान खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत् । यष्टीज्योतिष्मतीलोध्रश्रावणीशारिवोत्पलैः ॥ १ ॥ पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत् । नस्यं च तैलं वातघ्नमधुरस्कन्धसाधितम् ॥ २ ॥ महास्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर्हितः । देवधूपमधूच्छिष्टगुग्गुल्व्अमरदारुभिः ॥ ३ ॥ यष्ट्य्आह्वचूर्णयुक्तेन तेनैव प्रतिसारणम् । नाड्य्ओष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः ॥ ४ ॥ २२.४ व् यष्ट्य्आह्वचूर्णयुक्तैस्तु २२.४ व् तैरेव प्रतिसारणम् खण्डौष्ठविहितं नस्यं तस्य मूर्ध्नि च तर्पणम् । पित्ताभिघातजावोष्ठौ जलौकोभिरुपाचरेत् ॥ ५ ॥ लोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम् । गुडूचीयष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम् ॥ ६ ॥ पित्तविद्रधिवच्चात्र क्रिया शोणितजेऽपि च । इदमेव नवे कार्यं कर्मौष्ठे तु कफातुरे ॥ ७ ॥ २२.७ व् इदमेव भवेत्कार्यं २२.७ व् कर्मौष्ठे तु कफोत्तरे पाठाक्षारमधुव्योषैर्हृतास्रे प्रतिसारणम् । धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः ॥ ८ ॥ स्विन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना । प्रियङ्गुलोध्रत्रिफलामाक्षिकैः प्रतिसारयेत् ॥ ९ ॥ सक्षौद्रा घर्षणं तीक्ष्णा भिन्नशुद्धे जलार्बुदे । अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया ॥ १० ॥ २२.१० व् सक्षौद्रैर्घर्षणं तीक्ष्णैर् २२.१० व् क्षारो वह्निः प्रतिक्रिया आमाद्य्अवस्थास्वलजीं गण्डे शोफवदाचरेत् । स्विन्नस्य शीतदन्तस्य पालीं विलिखितां दहेत् ॥ ११ ॥ तैलेन प्रतिसार्या च सक्षौद्रघनसैन्धवैः । दाडिमत्वग्वरातार्क्ष्यकान्ताजम्ब्व्अस्थिनागरैः ॥ १२ ॥ कवडः क्षीरिणां क्वाथैरणुतैलं च नावनम् । दन्तहर्षे तथा भेदे सर्वा वातहरा क्रिया ॥ १३ ॥ २२.१३ व् दन्तभेदे तथा हर्षे २२.१३ व् सर्वा वातहराः क्रियाः तिलयष्टीमधुशृतं क्षीरं गण्डूषधारणम् । सस्नेहं दशमूलाम्बु गण्डूषः प्रचलद्द्विजे ॥ १४ ॥ २२.१४ व् सस्नेहदशमूलाम्बु २२.१४ व् गण्डूषाः प्रचले द्विजे तुत्थलोध्रकणाश्रेष्ठापत्तङ्गपटुघर्षणम् । स्निग्धाः शील्या यथावस्थं नस्यान्नकवडादयः ॥ १५ ॥ २२.१५ व् गण्डूषकवडादयः अधिदन्तकमालिप्तं यदा क्षारेण जर्जरम् । कृमिदन्तमिवोत्पाट्य तद्वच्चोपचरेत्तदा ॥ १६ ॥ अन्अवस्थितरक्ते च दग्धे व्रण इव क्रिया । अहिंसन् दन्तमूलानि दन्तेभ्यः शर्करां हरेत् ॥ १७ ॥ क्षारचूर्णैर्मधुयुतैस्ततश्च प्रतिसारयेत् । कपालिकायामप्येवं हर्षोक्तं च समाचरेत् ॥ १८ ॥ जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् । स्निग्धैश्चालेपगण्डूषनस्याहारैश्चलापहैः ॥ १९ ॥ २२.१९ व् अबलं कृमिदन्तकम् गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् । सप्तच्छदार्कक्षीराभ्यां पूरणं कृमिशूलजित् ॥ २० ॥ हिङ्गुकट्फलकासीसस्वर्जिकाकुष्ठवेल्लजम् । रजो रुजं जयत्याशु वस्त्रस्थं दशने घृतम् ॥ २१ ॥ २२.२१ व् वस्त्रस्थं दशनैर्घृतम् अलक्तकं वा सिन्धूत्थं वेल्लधूमं सहिङ्गु वा । धान्याम्लसिद्धं शेवालं कोष्णं वा दशनस्थितम् ॥ २१+१ ॥ २२.२१+१ व् वेश्मधूमं सहिङ्गु वा वराहकर्णीमूलं वा शरपुङ्खाजटाथवा । वर्तिर्वावल्गुजफलैर्बीजपूरजटान्वितैः ॥ २१+२ ॥ गण्डूषं ग्राहयेत्तैलमेभिरेव च साधितम् । क्वाथैर्वा युक्तमेरण्डद्विव्याघ्रीभूकदम्बजैः ॥ २२ ॥ २२.२२ व् गण्डूषं धारयेत्तैलम् २२.२२ व् व्याघ्रीभूर्जकदम्बकैः क्रियायोगैर्बहुविधैरित्यशान्तरुजं भृशम् । दृढमप्युद्धरेद्दन्तं पूर्वं मूलाद्विमोक्षितम् ॥ २३ ॥ संदंशकेन लघुना दन्तनिर्घातनेन वा । तैलं सयष्ट्य्आह्वरजो गण्डूषो मधु वा ततः ॥ २४ ॥ २२.२४ व् गण्डूषो मधुना ततः ततो विदारियष्ट्य्आह्वशृङ्गाटककसेरुभिः । तैलं दशगुणक्षीरं सिद्धं युञ्जीत नावनम् ॥ २५ ॥ कृशदुर्बलवृद्धानां वातार्तानां च नोद्धरेत् । नोद्धरेच्चोत्तरं दन्तं बहूपद्रवकृद्धि सः ॥ २६ ॥ एषामप्युद्धृतौ स्निग्धस्वादुशीतक्रमो हितः । विस्रावितास्रे शीतादे सक्षौद्रैः प्रतिसारणम् ॥ २७ ॥ २२.२७ व् एषामप्युद्धृतैः स्निग्ध मुस्तार्जुनत्वक्त्रिफलाफलिनीतार्क्ष्यनागरैः । तत्क्वाथः कवडो नस्यं तैलं मधुरसाधितम् ॥ २८ ॥ दन्तमांसान्युपकुशे स्विन्नान्युष्णाम्बुधारणैः । मण्डलाग्रेण शाकादिपत्त्रैर्वा बहुशो लिखेत् ॥ २९ ॥ ततश्च प्रतिसार्याणि घृतमण्डमधुद्रुतैः । लाक्षाप्रियङ्गुपत्तङ्गलवणोत्तमगैरिकैः ॥ ३० ॥ २२.३० व् घृतमण्डमधुप्लुतैः सकुष्ठशुण्ठीमरिचयष्टीमधुरसाञ्जनैः । सुखोष्णो घृतमण्डोऽनु तैलं वा कवडग्रहः ॥ ३१ ॥ २२.३१ व् तैलं वा कवडग्रहे घृतं च मधुरैः सिद्धं हितं कवडनस्ययोः । दन्तपुप्पुटके स्विन्नच्छिन्नभिन्नविलेखिते ॥ ३२ ॥ २२.३२ व् घृतं वा मधुरैः सिद्धं यष्ट्य्आह्वस्वर्जिकाशुण्ठीसैन्धवैः प्रतिसारणम् । विद्रधौ कटुतीक्ष्णोष्णरूक्षैः कवडलेपनम् ॥ ३३ ॥ घर्षणं कटुकाकुष्ठवृश्चिकालीयवोद्भवैः । रक्षेत्पाकं हिमैः पक्वः पाट्यो दाह्योऽवगाढकः ॥ ३४ ॥ सुषिरे छिन्नलिखिते सक्षौद्रैः प्रतिसारणम् । लोध्रमुस्तमिशिश्रेष्ठातार्क्ष्यपत्तङ्गकिंशुकैः ॥ ३५ ॥ २२.३५ व् सौषिरे छिन्नलिखिते सकट्फलैः कषायैश्च तेषां गण्डूष इष्यते । यष्टीलोध्रोत्पलानन्ताशारिवागुरुचन्दनैः ॥ ३६ ॥ २२.३६ व् सकट्फलैः कषायश्च सगैरिकसितापुण्ड्रैः सिद्धं तैलं च नावनम् । छित्त्वाधिमांसकं चूर्णैः सक्षौद्रैः प्रतिसारयेत् ॥ ३७ ॥ वचातेजोवतीपाठास्वर्जिकायवशूकजैः । पटोलनिम्बत्रिफलाकषायः कवडो हितः ॥ ३८ ॥ २२.३८ व् स्वर्जिकायावशूकजैः विदर्भे दन्तमूलानि मण्डलाग्रेण शोधयेत् । क्षारं युञ्ज्यात्ततो नस्यं गण्डूषादि च शीतलम् ॥ ३९ ॥ संशोध्योभयतः कायं शिरश्चोपचरेत्ततः । नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ॥ ४० ॥ कुब्जां नैकगतिं पूर्णां गुडेन मदनेन वा । धावनं जातिमदनखदिरस्वादुकण्टकैः ॥ ४१ ॥ २२.४१ व् न्युब्जां नैकगतिं पूर्णां २२.४१ व् गुडेन मधुनाथवा क्षीरिवृक्षाम्बुगण्डूषो नस्यं तैलं च तत्कृतम् । कुर्याद्वातौष्ठकोपोक्तं कण्टकेष्वनिलात्मसु ॥ ४२ ॥ जिह्वायां पित्तजातेषु घृष्टेषु रुधिरे स्रुते । प्रतिसारणगण्डूषनावनं मधुरैर्हितम् ॥ ४३ ॥ तीक्ष्णैः कफोत्थेष्वेवं च सर्षपत्र्य्ऊषणादिभिः । नवे जिह्वालसेऽप्येवं तं तु शस्त्रेण न स्पृशेत् ॥ ४४ ॥ २२.४४ व् तीक्ष्णैः कफोत्थेष्वप्येवं २२.४४ व् तीक्ष्णैः कफोत्थेष्वेवं तु उन्नम्य जिह्वामाकृष्टां बडिशेनाधिजिह्विकाम् । छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादि च ॥ ४५ ॥ उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत् । कफघ्नैः शुण्डिका साध्या नस्यगण्डूषघर्षणैः ॥ ४६ ॥ एर्वारुबीजप्रतिमं वृद्धायामसिराततम् । अग्रं निविष्टं जिह्वाया बडीशाद्य्अवलम्बितम् ॥ ४७ ॥ २२.४७ व् अग्रं निविष्टं जिह्वायां २२.४७ व् अग्रे निविष्टं जिह्वाया छेदयेन्मण्डलाग्रेण नात्य्अग्रे न च मूलतः । छेदेऽत्यसृक्क्षयान्मृत्युर्हीने व्याधिर्विवर्धते ॥ ४८ ॥ २२.४८ व् नात्य्अग्रे नातिमूलतः मरिचातिविषापाठावचाकुष्ठकुटन्नटैः । छिन्नायां सपटुक्षौद्रैर्घर्षणं कवडः पुनः ॥ ४९ ॥ कटुकातिविषापाठानिम्बरास्नावचाम्बुभिः । संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ॥ ५० ॥ अपक्वे तालुपाके तु कासीसक्षौद्रतार्क्ष्यजैः । घर्षणं कवडः शीतकषायमधुरौषधैः ॥ ५१ ॥ २२.५१ व् घर्षणं कवडः शीतः २२.५१ व् कषायमधुरौषधैः पक्वेऽष्टापदवद्भिन्ने तीक्ष्णोष्णैः प्रतिसारणम् । वृषनिम्बपटोलाद्यैस्तिक्तैः कवडधारणम् ॥ ५२ ॥ तालुशोषे त्वतृष्णस्य सर्पिरुत्तरभक्तिकम् । कणाशुण्ठीशृतं पानमम्लैर्गण्डूषधारणम् ॥ ५३ ॥ २२.५३ व् तालुशोषे तृषार्तस्य धन्वमांसरसाः स्निग्धाः क्षीरसर्पिश्च नावनम् । कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णैर्नस्यादि कर्म च ॥ ५४ ॥ क्वाथः पानं च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजः । हरीतकीकषायो वा पेयो माक्षिकसंयुतः ॥ ५५ ॥ श्रेष्ठाव्योषयवक्षारदार्वीद्वीपिरसाञ्जनैः । सपाठातेजिनीनिम्बैः शुक्तगोमूत्रसाधितैः ॥ ५६ ॥ कवडो गुटिका वात्र कल्पिता प्रतिसारणम् । निचुलं कटभी मुस्तं देवदारु महौषधम् ॥ ५७ ॥ २२.५७ व् कवडो गुटिका चात्र २२.५७ व् निचुलं कटभी मुस्ता वचा दन्ती च मूर्वा च लेपः कोष्णोऽर्तिशोफहा । अथान्तर्बाह्यतः स्विन्नां वातरोहिणिकां लिखेत् ॥ ५८ ॥ अङ्गुलीशस्त्रकेणाशु पटुयुक्तनखेन वा । पञ्चमूलाम्बु कवडस्तैलं गण्डूषनावनम् ॥ ५९ ॥ विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः । घर्षेत्सलोध्रपत्तङ्गैः कवडः क्वथितैश्च तैः ॥ ६० ॥ द्राक्षापरूषकक्वाथो हितश्च कवडग्रहे । उपाचरेदेवमेव प्रत्याख्यायास्रसंभवाम् ॥ ६१ ॥ सागारधूमैः कटुकैः कफजां प्रतिसारयेत् । नस्यगण्डूषयोस्तैलं साधितं च प्रशस्यते ॥ ६२ ॥ अपामार्गफलश्वेतादन्तीजन्तुघ्नसैन्धवैः । तद्वच्च वृन्दशालूकतुण्डिकेरीगिलायुषु ॥ ६३ ॥ २२.६३ व् तुण्डिकेरीगलायुषु विद्रधौ स्राविते श्रेष्ठारोचनातार्क्ष्यगैरिकैः । सलोध्रपटुपत्तङ्गकणैर्गण्डूषघर्षणे ॥ ६४ ॥ २२.६४ व् कणैर्गण्डूषधारणम् २२.६४ व् कणैर्गण्डूषघर्षणम् गलगण्डः पवनजः स्विन्नो निःस्रुतशोणितः । तिलैर्बीजैश्च लट्वोमाप्रियालशणसंभवैः ॥ ६५ ॥ २२.६५ व् स्विन्नो विस्रुतशोणितः उपनाह्यो व्रणे रूढे प्रलेप्यश्च पुनः पुनः । शिग्रुतिल्वकतर्कारीगजकृष्णापुनर्नवैः ॥ ६६ ॥ कालामृतार्कमूलैश्च पुष्पैश्च करहाटजैः । एकैषीकान्वितैः पिष्टैः सुरया काञ्जिकेन वा ॥ ६७ ॥ २२.६७ व् तालमूलार्कमूलैश्च २२.६७ व् पुष्पैश्च करघाटजैः गुडूचीनिम्बकुटजहंसपदीबलाद्वयैः । साधितं पाययेत्तैलं सकृष्णादेवदारुभिः ॥ ६८ ॥ कर्तव्यं कफजेऽप्येतत्स्वेदविम्लापने त्वति । लेपोऽजगन्धातिविषाविशल्याः सविषाणिकाः ॥ ६९ ॥ गुञ्जालाबुशुकाह्वाश्च पलाशक्षारकल्किताः । मूत्रस्रुतं हठक्षारं पक्त्वा कोद्रवभुक्पिबेत् ॥ ७० ॥ २२.७० व् मूत्रशृतं यवक्षारं २२.७० व् मूत्रस्रुतं यवक्षारं २२.७० व् सूत्रस्रुतं यवक्षारं साधितं वत्सकाद्यैर्वा तैलं सपटुपञ्चकैः । कफघ्नान् धूमवमननावनादींश्च शीलयेत् ॥ ७१ ॥ २२.७१ व् कफघ्नान् धूमगण्डूषान् २२.७१ व् वमनादींश्च शीलयेत् मेदोभवे सिरां विध्येत्कफघ्नं च विधिं भजेत् । असनादिरजश्चैनं प्रातर्मूत्रेण पाययेत् ॥ ७२ ॥ अशान्तौ पाचयित्वा च सर्वान् व्रणवदाचरेत् । मुखपाकेषु सक्षौद्रा प्रयोज्या मुखधावनाः ॥ ७३ ॥ २२.७३ व् अशान्तौ पाटयित्वा च २२.७३ व् प्रयोज्या मुखपावनाः क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः । निष्ठेव्या भक्षयित्वा वा कुठेरादिर्गणोऽथवा ॥ ७४ ॥ २२.७४ व् निघृष्टव्या भक्षयित्वा मुखपाकेऽनिलात्कृष्णापट्व्एलाः प्रतिसारणम् । तैलं वातहरैः सिद्धं हितं कवडनस्ययोः ॥ ७५ ॥ पित्तास्रे पित्तरक्तघ्नः कफघ्नश्च कफे विधिः । लिखेच्छाकादिपत्त्रैश्च पिटिकाः कठिनाः स्थिराः ॥ ७६ ॥ २२.७६ व् पित्तास्रे रक्तपित्तघ्नः यथादोषोदयं कुर्यात्संनिपाते चिकित्सितम् । नवेऽर्बुदे त्वसंवृद्धे छेदिते प्रतिसारणम् ॥ ७७ ॥ स्वर्जिकानागरक्षौद्रैः क्वाथो गण्डूष इष्यते । गुडूचीनिम्बकल्कोत्थो मधुतैलसमन्वितः ॥ ७८ ॥ यवान्नभुक्तीक्ष्णतैलनस्याभ्यङ्गांस्तथाचरेत् । वमिते पूतिवदने धूमस्तीक्ष्णः सनावनः ॥ ७९ ॥ समङ्गाधातकीलोध्रफलिनीपद्मकैर्जलम् । धावनं वदनस्यान्तश्चूर्णितैरवचूर्णितम् ॥ ८० ॥ २२.८० व् चूर्णितैरवचूर्णनम् शीतादोपकुशोक्तं च नावनादि च शीलयेत् ॥ ८१ ब् ॥ फलत्रयद्वीपिकिराततिक्तयष्ट्य्आह्वसिद्धार्थकटुत्रिकाणि ॥ ८१ द् ॥ मुस्ताहरिद्राद्वययावशूकवृक्षाम्लकाम्लाग्रिमवेतसाश्च ॥ ८१ f ॥ अश्वत्थजम्ब्व्आम्रधनञ्जयत्वक्त्वक्चाहिमारात्खदिरस्य सारः । क्वाथेन तेषां घनतां गतेन तच्चूर्णयुक्ता गुटिका विधेयाः ॥ ८२ ॥ ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठताल्व्आदिगदान् सुकृच्छ्रान् । विशेषतो रोहिणिकास्यशोषगन्धान् विदेहाधिपतिप्रणीताः ॥ ८३ ॥ खदिरतुलामम्बुघटे पक्त्वा तोयेन तेन पिष्टैश्च । चन्दनजोङ्गककुङ्कुमपरिपेलववालकोशीरैः ॥ ८४ ॥ सुरतरुलोध्रद्राक्षामञ्जिष्ठाचोचपद्मकविडङ्गैः । स्पृक्कानतनखकट्फलसूक्ष्मैलाध्यामकैः सपत्तङ्गैः ॥ ८५ ॥ तैलप्रस्थं विपचेत्कर्षांशैः पाननस्यगण्डूषैस्तत् । हत्वास्ये सर्वगदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम् ॥ ८६ ॥ २२.८६ व् कर्षांशैः पाननस्यगण्डूषैः २२.८६ व् हन्त्यास्ये सर्वगदान् उद्वर्तितं च प्रपुनाटलोध्रदार्वीभिरभ्यक्तमनेन वक्त्रम् । निर्व्यङ्गनीलीमुखदूषिकादि संजायते चन्द्रसमानकान्ति ॥ ८७ ॥ २२.८७ व् निर्व्यङ्गनीलीमुखदूषिकं च पलशतं बाणात्तोयघटे पक्त्वा रसेऽस्मिंश्च पलार्धिकैः । खदिरजम्बूयष्ट्यानन्ताम्रैरहिमारनीलोत्पलान्वितैः ॥ ८८ ॥ २२.८८ व् खदिरजम्बूयष्ट्यानन्तालोध्रैर् तैलप्रस्थं पाचयेच्छ्लक्ष्णपिष्टैरेभिर्द्रव्यैर्धारितं तन्मुखेन । रोगान् सर्वान् हन्ति वक्त्रे विशेषात्स्थैर्यं धत्ते दन्तपङ्क्तेश्चलायाः ॥ ८९ ॥ २२.८९ व् तैलप्रस्थं पाचयेत्सूक्ष्मपिष्टैर् २२.८९ व् एभिर्द्रव्यैर्धारितं तत्सुखेन खदिरसाराद्द्वे तुले पचेद्वल्कात्तुलां चारिमेदसः । घटचतुष्के पादशेषेऽस्मिन् पूते पुनः क्वथनाद्घने ॥ ९० ॥ २२.९० व् खदिरसाराद्द्वे तुले विपचेद् २२.९० व् वल्कतुलां चारिमेदसः २२.९० व् वल्कलतुलां चारिमेदसः २२.९० व् वल्कलतुलां चारिमेदतः २२.९० व्ऽस्मिन् पूते पुनः क्वाथनाद्घने २२.९० व्ऽस्मिन् पूते पुनः क्वाथयेद् घने आक्षिकं क्षिपेत्सुसूक्ष्मं रजः सेव्याम्बुपत्तङ्गगैरिकम् । चन्दनद्वयलोध्रपुण्ड्राह्वयष्ट्य्आह्वलाक्षाञ्जनद्वयम् ॥ ९१ ॥ २२.९१ व् आक्षिकं क्षिपेत्सुसूक्ष्मरजः २२.९१ व् आक्षिकं च क्षिपेत् सूक्ष्मरजः २२.९१ व् कार्षिकं क्षिपेत्सुसूक्ष्मरजः २२.९१ व् चन्दनद्वयश्यामापुण्ड्राह्व धातकीकट्फलद्विनिशात्रिफलाचतुर्जातजोङ्गकम् । मुस्तमञ्जिष्ठान्यग्रोधप्ररोहमांसीयवासकम् ॥ ९२ ॥ २२.९२ व् ंधप्ररोहवचामांसीयवासकम् पद्मकैलासमङ्गाश्च शीते तस्मिंस्तथा पालिकां पृथक् । जातीपत्त्रिकां सजातिफलां सहलवङ्गकण्कोल्लकाम् ॥ ९३ ॥ २२.९३ व् पद्मकैलेयसमङ्गाश्च २२.९३ व् शीते तथा पालिकां पृथक् २२.९३ व् सहनखलवङ्गकङ्कोल्लकाम् स्फटिकशुभ्रसुरभिकर्पूरकुडवं च तत्रावपेत्ततः । कारयेद्गुटिकाः सदा चैता धार्या मुखे तद्गदापहाः ॥ ९४ ॥ २२.९४ व् कारयेद्गुटिकाश्चैता २२.९४ व् कार्याश्चैता गुटिका क्वाथ्यौषधव्यत्यययोजनेन तैलं पचेत्कल्पनयानयैव । सर्वास्यरोगोद्धृतये तदाहुर्दन्तस्थिरत्वे त्विदमेव मुख्यम् ॥ ९५ ॥ २२.९५ व् क्वाथौषधव्यत्यययोजनेन २२.९५ व् सर्वास्यरोगप्रशमार्थम् उक्तं २२.९५ व् सर्वास्यरोगे व्ययनं तदाहुर् खदिरेणैता गुटिकास्तैलमिदं चारिमेदसा प्रथितम् । अनुशीलयन् प्रतिदिनं स्वस्थोऽपि दृढद्विजो भवति ॥ ९६ ॥ २२.९६ व् वृद्धोऽपि दृढद्विजो भवति क्षुद्रागुडूचीसुमनःप्रवालदार्वीयवासत्रिफलाकषायः । क्षौद्रेण युक्तः कवडग्रहोऽयं सर्वामयान् वक्त्रगतान्निहन्ति ॥ ९७ ॥ २२.९७ व् द्राक्षागुडूचीसुमनःप्रवाल पाठादार्वीत्वक्कुष्ठमुस्तासमङ्गातिक्तापीताङ्गीलोध्रतेजोवतीनाम् । चूर्णः सक्षौद्रो दन्तमांसार्तिकण्डूपाकस्रावाणां नाशनो घर्षणेन ॥ ९८ ॥ गृहधूमतार्क्ष्यपाठाव्योषक्षाराग्न्य्अयोवरातेजोह्वैः । मुखदन्तगलविकारे सक्षौद्रः कालको विधार्यश्चूर्णः ॥ ९९ ॥ २२.९९ व् सक्षौद्रः कालिको विधार्यश्चूर्णः दार्वीत्वक्सिन्धूद्भवमनःशिलायावशूकहरितालैः । धार्यः पीतकचूर्णो दन्तास्यगलामये समध्व्आज्यः ॥ १०० ॥ द्विक्षारधूमकवरापञ्चपटुव्योषवेल्लगिरितार्क्ष्यैः । गोमूत्रेण विपक्वा गलामयघ्नी रसक्रिया एषा ॥ १०१ ॥ २२.१०१ व् द्विक्षारगृहधूमकवरा २२.१०१ व् गोमूत्रेण पिबन् क्वाथं गोमूत्रक्वथनविलीनविग्रहाणां पथ्यानां जलमिशिकुष्ठभावितानाम् । अत्तारं नरमणवोऽपि वक्त्ररोगाः श्रोतारं नृपमिव न स्पृशन्त्यन्अर्थाः ॥ १०२ ॥ सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः । यष्ट्य्आह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य ॥ १०३ ॥ पटोलशुण्ठीत्रिफलाविशालात्रायन्तितिक्ताद्विनिशामृतानाम् । पीतः कषायो मधुना निहन्ति मुखे स्थितश्चास्यगदानशेषान् ॥ १०४ ॥ २२.१०४ व् मुखोत्थितांश्चाशु गदानशेषान् स्वरसः क्वथितो दार्व्या घनीभूतः सगैरिकः । आस्यस्थः समधुर्वक्त्रपाकनाडीव्रणापहः ॥ १०५ ॥ पटोलनिम्बयष्ट्य्आह्ववासाजात्य्अरिमेदसाम् । खदिरस्य वरायाश्च पृथगेवं प्रकल्पना ॥ १०६ ॥ खदिरायोवरापार्थमदयन्त्य्अहिमारकैः । गण्डूषोऽम्बुशृतैर्धार्यो दुर्बलद्विजशान्तये ॥ १०७ ॥ मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः । तस्मात्तेषामसकृद्रुधिरं विस्रावयेद्दुष्टम् ॥ १०८ ॥ कायशिरसोर्विरेको वमनं कवडग्रहाश्च कटुतिक्ताः । प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म ॥ १०९ ॥ यवतृणधान्यं भक्तं विदलैः क्षारोषितैरपस्नेहाः । यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय ॥ ११० ॥ २२.११० व् यवतृणधान्यं भुक्तं २२.११० व् विदलैः क्षारोषितैरपस्नेहम् प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः । कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत ॥ १११ ॥ ऊत्तरस्थान धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः । उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः ॥ १ ॥ २३.१ व् उन्मादाधिपुरोवात अत्य्अम्बुमद्यपानेन कृमिभिर्वेगधारणैः । उपधानमृजाभ्यङ्गद्वेषाधःप्रततेक्षणैः ॥ २ ॥ असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः । जनयन्त्यामयान् दोषास्तत्र मारुतकोपतः ॥ ३ ॥ २३.३ व् असात्म्यगन्धदुष्टाम्बु निस्तुद्येते भृशं शङ्खौ घाटा संभिद्यते तथा । भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम् ॥ ४ ॥ २३.४ व् भ्रुवोर्मध्ये ललाटं च बाध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी । घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते ॥ ५ ॥ स्फुरत्यति सिराजालं कन्धराहनुसंग्रहः । प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ ॥ ६ ॥ मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते । शिरस्तापोऽयमर्धे तु मूर्ध्नः सोऽर्धावभेदकः ॥ ७ ॥ पक्षात्कुप्यति मासाद्वा स्वयमेव च शाम्यति । अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत् ॥ ८ ॥ शिरोऽभितापे पित्तोत्थे शिरोधूमायनं ज्वरः । स्वेदोऽक्षिदहनं मूर्छा निशि शीतैश्च मार्दवम् ॥ ९ ॥ अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता । सिरानिष्पन्दतालस्यं रुङ्मन्दाह्न्यधिका निशि ॥ १० ॥ तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः । रक्तात्पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः ॥ ११ ॥ संकीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे । कोपिते संनिपाते च जायन्ते मूर्ध्नि जन्तवः ॥ १२ ॥ शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः । चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः ॥ १३ ॥ रौक्ष्यशोफव्यधच्छेददाहस्फुरणपूतिताः । कपाले तालुशिरसोः कण्डूः शोषः प्रमीलकः ॥ १४ ॥ २३.१४ व् रौक्ष्यशोफे व्यधच्छेद २३.१४ व् दाहस्फुटनपूतिताः २३.१४ व् कण्डूः शोफः प्रमीलकः २३.१४ व् कण्डूः शोफोऽप्रमीलकः ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे । वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः ॥ १५ ॥ पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः । तीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः ॥ १६ ॥ तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः । त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः ॥ १७ ॥ २३.१७ व् सिध्यत्याशु सुसाधितः पित्तानुबद्धः शङ्खाक्षिभ्रूललाटेषु मारुतः । रुजं सस्पन्दनां कुर्यादनुसूर्योदयोदयाम् ॥ १८ ॥ २३.१८ व् पित्तानुबन्धः शङ्खाक्षि आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतः । अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम् ॥ १९ ॥ सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताः । शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव ॥ २० ॥ कपाले पवने दुष्टे गर्भस्थस्यापि जायते । सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम् ॥ २१ ॥ यथादोषोदयं ब्रूयात्पिटिकार्बुदविद्रधीन् । कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः ॥ २२ ॥ कङ्गुसिद्धार्थकनिभाः पिटिकाः स्युररूंषिकाः । कण्डूकेशच्युतिस्वापरौक्ष्यकृत्स्फुटनं त्वचः ॥ २३ ॥ २३.२३ व् रूक्षकृत्स्फुटनं त्वचः सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत् । रोमकूपानुगं पित्तं वातेन सह मूर्छितम् ॥ २४ ॥ २३.२४ व् विद्याद्दारुणकं च तत् प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः । रोमकूपान् रुणद्ध्यस्य तेनान्येषामसंभवः ॥ २५ ॥ तदिन्द्रलुप्तं रुज्यां च प्राहुश्चाचेति चापरे । खलतेरपि जन्मैवं शातनं तत्र तु क्रमात् ॥ २६ ॥ २३.२६ व् तदिन्द्रलुप्तं तज्जां च २३.२६ व् तदिन्द्रलुप्तं तझ्झां च २३.२६ व् तदिन्द्रलुप्तं तह्नाश्च २३.२६ व् तदिन्द्रलुप्तं रूढ्यां च २३.२६ व् शतनं तत्र तु क्रमात् २३.२६ व् शदनं तत्र तु क्रमात् २३.२६ व् सदनं तत्र तु क्रमात् सा वातादग्निदग्धाभा पित्तात्स्विन्नसिरावृता । कफाद्घनत्वग्वर्णांश्च यथास्वं निर्दिशेत्त्वचि ॥ २७ ॥ २३.२७ व् पित्तात्स्निग्धसिरावृता २३.२७ व् पित्तात्स्निग्धा सिरावृता २३.२७ व् पित्तात् पीतसिरावृता दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा । दग्धाग्निनेव नीरोमा सदाहा या च जायते ॥ २८ ॥ २३.२८ व् सदाहोषा च जायते शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः । केशान् सदोषः पचति पलितं संभवत्यतः ॥ २९ ॥ तद्वातात्स्फुटितं श्यावं खरं रूक्षं जलप्रभम् । पित्तात्सदाहं पीताभं कफात्स्निग्धं विवृद्धिमत् ॥ ३० ॥ स्थूलं सुशुक्लं सर्वैस्तु विद्याद्व्यामिश्रलक्षणम् । शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम् ॥ ३१ ॥ २३.३१ व् स्थूलं सशुक्लं सर्वैस्तु असाध्या संनिपातेन खलतिः पलितानि च । शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम् ॥ ३२ ॥ ऊत्तरस्थान शिरोऽभितापेऽनिलजे वातव्याधिविधिं चरेत् । घृतमक्तशिरा रात्रौ पिबेदुष्णपयोऽनुपः ॥ १ ॥ २४.१ व् घृतमक्तशिरो रात्रौ २४.१ व् घृताभ्यक्तशिरो रात्रौ २४.१ व् पिबेत् सर्पिः पयोऽनुपः माषान् कुलत्थान्मुद्गान् वा तद्वत्खादेद्घृतान्वितान् । तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥ २ ॥ पिण्डोपनाहस्वेदाश्च मांसधान्यकृता हिताः । वातघ्नदशमूलादिसिद्धक्षीरेण सेचनम् ॥ ३ ॥ स्निग्धं नस्यं तथा धूमः शिरःश्रवणतर्पणम् । वरणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत् ॥ ४ ॥ २४.४ व् वरुणादौ गणे क्षुण्णे क्षीरावशिष्टं तच्छीतं मथित्वा सारमाहरेत् । ततो मधुरकैः सिद्धं नस्यं तत्पूजितं हविः ॥ ५ ॥ वर्गेऽत्र पक्वं क्षीरे च पेयं सर्पिः सशर्करम् । कार्पासमज्जा त्वङ्मुस्ता सुमनःकोरकाणि च ॥ ६ ॥ २४.६ व् तस्मिन् विपक्वं क्षीरे च २४.६ व् कार्पासमज्जा त्वङ्मुस्तं २४.६ व् सुमनःक्षारकाणि च नस्यमुष्णाम्बुपिष्टानि सर्वमूर्धरुजापहम् । शर्कराकुङ्कुमशृतं घृतं पित्तासृग्अन्वये ॥ ७ ॥ प्रलेपैः सघृतैः कुष्ठकुटिलोत्पलचन्दनैः । वातोद्रेकभयाद्रक्तं न चास्मिन्नवसेचयेत् ॥ ८ ॥ इत्यशान्तौ चले दाहः कफे चेष्टो यथोदितः । अर्धावभेदकेऽप्येषा तथा दोषान्वयात्क्रिया ॥ ९ ॥ २४.९ व् कफे चोष्णं यथोदितम् २४.९ व् यथादोषान्वया क्रिया २४.९ व् यथादोषान्वये क्रिया शिरीषबीजापामार्गमूलं नस्यं विडान्वितम् । स्थिरारसो वा लेपे तु प्रपुन्नाटोऽम्लकल्कितः ॥ १० ॥ २४.१० व् स्थिरारसो वा लेपोऽत्र सूर्यावर्तेऽपि तस्मिंस्तु सिरयापहरेदसृक् । शिरोऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत्सिराम् ॥ ११ ॥ २४.११ व् सूर्यावर्ते तु तस्मिंस्तु शीताः शिरोमुखालेपसेकशोधनवस्तयः । जीवनीयशृते क्षीरसर्पिषी पाननस्ययोः ॥ १२ ॥ कर्तव्यं रक्तजेऽप्येतत्प्रत्याख्याय च शङ्खके । श्लेष्माभितापे जीर्णाज्यस्नेहितैः कटुकैर्वमेत् ॥ १३ ॥ स्वेदप्रलेपनस्याद्या रूक्षतीक्ष्णोष्णभेषजैः । शस्यन्ते चोपवासोऽत्र निचये मिश्रमाचरेत् ॥ १४ ॥ २४.१४ व् शस्यते चोपवासोऽत्र कृमिजे शोणितं नस्यं तेन मूर्छन्ति जन्तवः । मत्ताः शोणितगन्धेन निर्यान्ति घ्राणवक्त्रयोः ॥ १५ ॥ २४.१५ व् निर्यान्ति घ्राणवक्त्रतः सुतीक्ष्णनस्यधूमाभ्यां कुर्यान्निर्हरणं ततः । विडङ्गस्वर्जिकादन्तीहिङ्गुगोमूत्रसाधितम् ॥ १६ ॥ कटुनिम्बेङ्गुदीपीलुतैलं नस्यं पृथक्पृथक् । अजामूत्रद्रुतं नस्यं कृमिजित्कृमिजित्परम् ॥ १७ ॥ २४.१७ व् अजामूत्रद्रुतं नस्ये पूतिमत्स्ययुतैः कुर्याद्धूमं नावनभेषजैः । कृमिभिः पीतरक्तत्वाद्रक्तमत्र न निर्हरेद् ॥ १८ ॥ पूतिमत्स्यः कृमीन् हत्वा दुर्गन्धत्वात्तु वातजे ॥ १८.१+१ ब् ॥ वाताभितापविहितः कम्पे दाहाद्विना क्रमः । नवे जन्मोत्तरं जाते योजयेदुपशीर्षके ॥ १९ ॥ वातव्याधिक्रियां पक्वे कर्म विद्रधिचोदितम् । आमपक्वे यथायोग्यं विद्रधिपिटिकार्बुदे ॥ २० ॥ अरूंषिका जलौकोभिर्हृतास्रा निम्बवारिणा । सिक्ता प्रभूतलवणैर्लिम्पेदश्वशकृद्रसैः ॥ २१ ॥ पटोलनिम्बपत्त्रैर्वा सहरिद्रैः सुकल्कितैः । गोमूत्रजीर्णपिण्याककृकवाकुमलैरपि ॥ २२ ॥ कपालभृष्टं कुष्ठं वा चूर्णितं तैलसंयुतम् । रूंषिकालेपनं कण्डूक्लेददाहार्तिनाशनम् ॥ २३ ॥ मालतीचित्रकाश्वघ्ननक्तमालप्रसाधितम् । चाचारूंषिकयोस्तैलमभ्यङ्गः क्षुरघृष्टयोः ॥ २४ ॥ २४.२४ व् अभ्यङ्गे क्षुरघृष्टयोः २४.२४ व् अभ्यङ्गः क्षुरमृष्टयोः अशान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः । विध्येत्सिरां दारुणके लालाट्यां शीलयेन्मृजाम् ॥ २५ ॥ नावनं मूर्धवस्तिं च लेपयेच्च समाक्षिकैः । प्रियालबीजमधुककुष्ठमाषैः ससर्षपैः ॥ २६ ॥ २४.२६ व् नावनं मूर्ध्नि वस्तिं च लाक्षाशम्याकपत्त्रैडगजधात्रीफलैस्तथा । कोरदूषतृणक्षारवारिप्रक्षालनं हितम् ॥ २७ ॥ २४.२७ व् वारि प्रक्षालने हितम् इन्द्रलुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् । प्रच्छाय गाढं कासीसमनोह्वातुत्थकोषणैः ॥ २८ ॥ २४.२८ व् सिरां विद्ध्वा प्रलेपनम् वन्यामरतरुभ्यां वा गुञ्जामूलफलैस्तथा । तथा लाङ्गलिकामूलैः करवीररसेन वा ॥ २९ ॥ २४.२९ व् कुटन्नटमरुभ्यां वा २४.२९ व् धान्यामरतरुभ्यां वा सक्षौद्रक्षुद्रवार्ताकस्वरसेन रसेन वा । धत्तूरकस्य पत्त्राणां भल्लातकरसेन वा ॥ ३० ॥ २४.३० व् सक्षौद्रक्षुद्रबृहती २४.३० व् भल्लातकफलेन वा अथवा माक्षिकहविस्तिलपुष्पत्रिकण्टकैः । तैलाक्ता हस्तिदन्तस्य मषी चाचौषधं परम् ॥ ३१ ॥ २४.३१ व् मषी वाप्यौषधं परम् २४.३१ व् मषी वा चौषधं परम् शुक्लरोमोद्गमे तद्वन्मषी मेषविषाणजा । वर्जयेद्वारिणा सेकं यावद्रोमसमुद्भवः ॥ ३२ ॥ २४.३२ व् यावद्रोमसमुद्गमः २४.३२ व् यावद्रोमपुनर्भवः खलतौ पलिते वल्यां हरिद्रोम्नि च शोधितम् । नस्यवक्त्रशिरोऽभ्यङ्गप्रदेहैः समुपाचरेत् ॥ ३३ ॥ सिद्धं तैलं बृहत्य्आद्यैर्जीवनीयैश्च नावनम् । मासं वा निम्बजं तैलं क्षीरभुङ्नावयेद्यतिः ॥ ३४ ॥ नीलीशिरीषकोरण्टभृङ्गस्वरसभावितम् । शेल्व्अक्षतिलरामाणां बीजं काकाण्डकीसमम् ॥ ३५ ॥ पिष्ट्वाजपयसा लोहाल्लिप्तादर्कांशुतापितात् । तैलं स्रुतं क्षीरभुजो नावनात्पलितान्तकृत् ॥ ३६ ॥ २४.३६ व् पिष्ट्वाजपयसा लोह २४.३६ व् लिप्तादर्कांशुतापितात् क्षीरात्साहचराद्भृङ्गरजसः सौरसाद्रसात् । प्रस्थैस्तैलस्य कुडवः सिद्धो यष्टीपलान्वितः ॥ ३७ ॥ २४.३७ व् क्षीरात्सहचराद्भृङ्गं २४.३७ व् क्षीरात्साहचराद्भृङ्ग २४.३७ व् ंराजतः सौरसाद्रसात् २४.३७ व् रसतः सौरसाद्रसात् नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः । क्षीरेण श्लक्ष्णपिष्टौ वा दुग्धिकाकरवीरकौ ॥ ३८ ॥ २४.३८ व् नस्यं शिलामये भाण्डे २४.३८ व् नस्यं शैलोद्भवे भाण्डे उत्पाट्य पलितं देयावाशये पलितापहौ । क्षीरं प्रियालं यष्ट्य्आह्वं जीवनीयो गणस्तिलाः ॥ ३९ ॥ कृष्णाः प्रलेपो वक्त्रस्य हरिद्रोमवलीहितः । तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु ॥ ४० ॥ २४.४० व् हरिलोपवलीहितः बृंहयेद्रञ्जयेच्चैतत्केशान्मूर्धप्रलेपनात् । मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलमुत्पलम् ॥ ४१ ॥ २४.४१ व् बृंहयेच्च रजेच्चैतत् २४.४१ व् केशान्मूर्ध्नः प्रलेपनात् क्षौद्रं च क्षीरपिष्टानि केशसंवर्धनं परम् । अयोरजो भृङ्गरजस्त्रिफला कृष्णमृत्तिका ॥ ४२ ॥ स्थितमिक्षुरसे मासं समूलं पलितं रजेत् । माषकोद्रवधान्याम्लैर्यवागूंस्त्रिदिनोषिता ॥ ४३ ॥ २४.४३ व् यवकोद्रवधान्याम्लैर् लोहशुक्लोत्कटा पिष्टा बलाकामपि रञ्जयेत् । प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥ ४४ ॥ २४.४४ व् लोहकुष्ठोत्कटा पिष्टा २४.४४ व् लोहशुक्तोत्कटा पिष्टा २४.४४ व् लोहे शुक्तोत्कटा पिष्टा २४.४४ व् लौहे शुक्लोत्कटा पिष्टा भृङ्गरजस्त्रिफलोत्पलसारिलोहपुरीषसमन्वितकारि । तैलमिदं पच दारुणहारि लुञ्चितकेशघनस्थिरकारि ॥ ४४.१+१ ॥ २४.४४.१+१ व् लोहपुरीषसमन्वितधारि सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन च । सर्वान्मूर्धगदान् हन्ति पलितानि च शीलितम् ॥ ४५ ॥ मधूकयष्टीकृमिजिद्विश्वभृङ्गैः शृतं हविः । षड्बिन्दुदानात्तन्नस्यं सर्वमूर्धगदापहम् ॥ ४५+१ ॥ २४.४५+१ व् षड्बिन्दुनाम तन्नस्यं २४.४५+१ व् षड्बिन्दुनाम्ना तन्नस्यं वरीजीवन्तिनिर्यासपयोभिर्यमकं पचेत् । जीवनीयैश्च तन्नस्यं सर्वजत्रूर्ध्वरोगजित् ॥ ४६ ॥ २४.४६ व् वरीजीवन्तिनिर्यासैः २४.४६ व् पयोभिर्यद्घृतं पचेत् २४.४६ व् सपयोभिर्घृतं पचेत् मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम् । दशमूलबलारास्नामधुकैस्त्रिपलैर्युतम् ॥ ४७ ॥ २४.४७ व् शकृत्पात्तुण्डवर्जितम् २४.४७ व् मधुकैस्त्रिपलैः सहम् जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् । कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगजित् ॥ ४८ ॥ तदभ्यासीकृतं पानवस्त्य्अभ्यञ्जननावनैः । एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ॥ ४९ ॥ चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः । जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः ॥ ५० ॥ समङ्गाचविकाभार्गीकाश्मरीकर्कटाह्वयैः । आत्मगुप्तामहामेदातालखर्जूरमस्तकैः ॥ ५१ ॥ २४.५१ व् तालखर्जूरमुस्तकैः मृणालबिसखर्जूरयष्टीमधुकजीवकैः । शतावरीविदारीक्षुबृहतीशारिवायुगैः ॥ ५२ ॥ २४.५२ व् बृहतीश्रावणीयुगैः मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः । रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः ॥ ५३ ॥ २४.५३ व् दूर्वाश्वदंष्ट्रषभक पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः । मधूकाक्षोटवाताममुञ्जाताभिषुकैरपि ॥ ५४ ॥ २४.५४ व् मधुकाक्षोटवाताम महामायूरमित्येतन्मायूरादधिकं गुणैः । धात्व्इन्द्रियस्वरभ्रंशश्वासकासार्दितापहम् ॥ ५५ ॥ योन्य्असृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् । आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत् ॥ ५६ ॥ २४.५६ व् आखुभिः कर्कटैर्हंसैः जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम् । परस्परमसंकीर्णं विस्तरेण प्रकाशितम् ॥ ५७ ॥ २४.५७ व् एकत्रिंशं शतद्वयम् ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः । मूलप्रहारिणस्तस्माद्रोगाञ्छीघ्रतरं जयेत् ॥ ५८ ॥ सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः । तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत् ॥ ५९ ॥ नीलोत्पलं सोत्पलकुष्ठयुक्तं सपिप्पलीकं मधुकं शताह्वम् । सशृङ्गवेरं शिरसः प्रलेपः सद्यः शिरोरोगविनाशनाय ॥ ५९+१ ॥ ऊत्तरस्थान व्रणो द्विधा निजागन्तुदुष्टशुद्धविभेदतः । निजो दोषैः शरीरोत्थैरागन्तुर्बाह्यहेतुजः ॥ १ ॥ २५.१ व् आगन्तुर्बाह्यहेतुभिः दोषैरधिष्ठितो दुष्टः शुद्धस्तैरन्अधिष्ठितः । संवृतत्वं विवृतता काठिन्यं मृदुताति वा ॥ २ ॥ २५.२ व् काठिन्यं मृदुतापि वा २५.२ व् काठिन्यं मृदुतापि च अत्य्उत्सन्नावसन्नत्वमत्य्औष्ण्यमतिशीतता । रक्तत्वं पाण्डुता कार्ष्ण्यं पूतिपूयपरिस्रुतिः ॥ ३ ॥ पूतिमांससिरास्नायुच्छन्नतोत्सङ्गितातिरुक् । संरम्भदाहश्वयथुकण्ड्व्आदिभिरुपद्रुतः ॥ ४ ॥ दीर्घकालानुबन्धश्च विद्याद्दुष्टव्रणाकृतिम् । स पञ्चदशधा दोषैः सरक्तैस्तत्र मारुतात् ॥ ५ ॥ २५.५ व् स पञ्चधा पृथग्दोषैः श्यावः कृष्णोऽरुणो भस्मकपोतास्थिनिभोऽपि वा । मस्तुमांसपुलाकाम्बुतुल्यतन्व्अल्पसंस्रुतिः ॥ ६ ॥ २५.६ व् कपोतास्थिनिभोऽथवा निर्मांसस्तोदभेदाढ्यो रूक्षश्चटचटायते । पित्तेन क्षिप्रजः पीतो नीलः कपिलपिङ्गलः ॥ ७ ॥ २५.७ व् पित्ताद्वह्निप्रभः पीतो मूत्रकिंशुकभस्माम्बुतैलाभोष्णबहुस्रुतिः । क्षारोक्षितक्षतसमव्यथो रागोष्मपाकवान् ॥ ८ ॥ कफेन पाण्डुः कण्डूमान् बहुश्वेतघनस्रुतिः । स्थूलौष्ठः कठिनः स्नायुसिराजालततोऽल्परुक् ॥ ९ ॥ प्रवालरक्तो रक्तेन सरक्तं पूयमुद्गिरेत् । वाजिस्थानसमो गन्धे युक्तो लिङ्गैश्च पैत्तिकैः ॥ १० ॥ २५.१० व् सरक्तं पूयमीरयेत् २५.१० व् वाजिस्थानसमो गन्धैर् २५.१० व् वाजिस्थानसमो गन्धो द्वाभ्यां त्रिभिश्च सर्वैश्च विद्याल्लक्षणसंकरात् । जिह्वाप्रभो मृदुः श्लक्ष्णः श्यावौष्ठपिटिकः समः ॥ ११ ॥ २५.११ व् श्यावौष्ठोऽपिटिकः समः किञ्चिद्उन्नतमध्यो वा व्रणः शुद्धोऽन्उपद्रवः । त्वग्आमिषसिरास्नायुसंध्य्अस्थीनि व्रणाशयाः ॥ १२ ॥ कोष्ठो मर्म च तान्यष्टौ दुःसाध्यान्युत्तरोत्तरम् । सुसाध्यः सत्त्वमांसाग्निवयोबलवति व्रणः ॥ १३ ॥ २५.१३ व् वयोबलवतां व्रणः वृत्तो दीर्घस्त्रिपुटकश्चतुर्अश्राकृतिश्च यः । तथा स्फिक्पायुमेढ्रौष्ठपृष्ठान्तर्वक्त्रगण्डगः ॥ १४ ॥ २५.१४ व् पृष्ठान्तर्वक्त्रगण्डजः २५.१४ व् पृष्ठान्तर्वक्त्रगण्डयोः कृच्छ्रसाध्योऽक्षिदशननासिकापाङ्गनाभिषु । सेवनीजठरश्रोत्रपार्श्वकक्षास्तनेषु च ॥ १५ ॥ फेनपूयानिलवहः शल्यवानूर्ध्वनिर्वमी । भगन्दरोऽन्तर्वदनस्तथा कट्य्अस्थिसंश्रितः ॥ १६ ॥ कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् । व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर्व्रणे व्रणाः ॥ १७ ॥ २५.१७ व् येषां चापि व्रणे व्रणाः नैव सिध्यन्ति वीसर्पज्वरातीसारकासिनाम् । पिपासूनामनिद्राणां श्वासिनामविपाकिनाम् ॥ १८ ॥ २५.१८ व् पिपासूनां सनिद्राणां भिन्ने शिरःकपाले वा मस्तुलुङ्गस्य दर्शने । स्नायुक्लेदात्सिराछेदाद्गाम्भीर्यात्कृमिभक्षणात् ॥ १९ ॥ अस्थिभेदात्सशल्यत्वात्सविषत्वादतर्कितात् । मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात् ॥ २० ॥ क्षोभादशुद्धकोष्ठत्वात्सौहित्यादतिकर्शनात् । मद्यपानाद्दिवास्वप्नाद्व्यवायाद्रात्रिजागरात् ॥ २१ ॥ २५.२१ व् मद्यपानाद्दिवास्वापाद् व्रणो मिथ्योपचाराच्च नैव साध्योऽपि सिध्यति । कपोतवर्णप्रतिमा यस्यान्तः क्लेदवर्जिताः ॥ २२ ॥ २५.२२ व् नैव साध्योऽपि रोहति स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् । अथात्र शोफावस्थायां यथासन्नं विशोधनम् ॥ २३ ॥ २५.२३ व् स्थिराश्च पिटिकावन्तो योज्यं शोफो हि शुद्धानां व्रणश्चाशु प्रशाम्यति । कुर्याच्छीतोपचारं च शोफावस्थस्य संततम् ॥ २४ ॥ २५.२४ व् कुर्याच्छीतोपचारं तु दोषाग्निरग्निवत्तेन प्रयाति सहसा शमम् । शोफे व्रणे च कठिने विवर्णे वेदनान्विते ॥ २५ ॥ विषयुक्ते विशेषेण जलजाद्यैर्हरेदसृक् । दुष्टास्रेऽपगते सद्यः शोफरागरुजां शमः ॥ २६ ॥ २५.२६ व् जलौकाद्यैर्हरेदसृक् हृते हृते च रुधिरे सुशीतैः स्पर्शवीर्ययोः । सुश्लक्ष्णैस्तद्अहःपिष्टैः क्षीरेक्षुस्वरसद्रवैः ॥ २७ ॥ २५.२७ व् क्षीरेक्षुस्वरसद्रुतैः शतधौतघृतोपेतैर्मुहुरन्यैरशोषिभिः । प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश्च तत्कृताः ॥ २८ ॥ न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम् ॥ २९ ॥ २५.२९ व् प्रदेहो भूरिसर्पिश्च वातोल्बणानां स्तब्धानां कठिनानां महारुजाम् । स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम् ॥ ३० ॥ आनूपवेसवाराद्यैः स्वेदः सोमास्तिलाः पुनः । भृष्टा निर्वापिताः क्षीरे तत्पिष्टा दाहरुग्हराः ॥ ३१ ॥ स्थिरान्मन्दरुजः शोफान् स्नेहैर्वातकफापहैः । अभ्यज्य स्वेदयित्वा च वेणुनाड्या शनैः शनैः ॥ ३२ ॥ विम्लापनार्थं मृद्नीयात्तलेनाङ्गुष्ठकेन वा । यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत् ॥ ३३ ॥ २५.३३ व् सिद्धैः पिष्टैः प्रलेपयेत् २५.३३ व् सिद्धं पिष्टं प्रलेपयेत् २५.३३ व् दुग्धपिष्टैः प्रलेपयेत् विलीयते स चेन्नैवं ततस्तमुपनाहयेत् । अविदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते ॥ ३४ ॥ सकोलतिलवल्लोमा दध्य्अम्ला सक्तुपिण्डिका । सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने ॥ ३५ ॥ २५.३५ व् सकोलतिलवल्लूर २५.३५ व् दध्य्अम्ला सक्तुपिण्डिका सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते । दारणं दारणार्हस्य सुकुमारस्य चेष्यते ॥ ३६ ॥ गुग्गुल्व्अतसिगोदन्तस्वर्णक्षीरीकपोतविट् । क्षारौषधानि क्षाराश्च पक्वशोफविदारणम् ॥ ३७ ॥ २५.३७ व् क्षारौषधानि क्षारश्च पूयगर्भानणुद्वारान् सोत्सङ्गान्मर्मगानपि । निःस्नेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत् ॥ ३८ ॥ शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति । न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते ॥ ३९ ॥ कलाययवगोधूममाषमुद्गहरेणवः । द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडनम् ॥ ४० ॥ २५.४० व् द्रव्याणां पिच्छिलानां तु २५.४० व् द्रव्याणां पिच्छिलानां वा सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ । भृशं दुष्टे व्रणे योज्यौ मेहकुष्ठव्रणेषु च ॥ ४१ ॥ अथवा क्षालनं क्वाथः पटोलीनिम्बपत्त्रजः । अविशुद्धे विशुद्धे तु न्यग्रोधादित्वग्उद्भवः ॥ ४२ ॥ २५.४२ व् अथवा क्षालने क्वाथः पटोलीतिलयष्ट्य्आह्वत्रिवृद्दन्तीनिशाद्वयम् । निम्बपत्त्राणि चालेपः सपटुर्व्रणशोधनः ॥ ४३ ॥ २५.४३ व् सपटुर्व्रणशोधनम् व्रणान् विशोधयेद्वर्त्या सूक्ष्मास्यान् संधिमर्मगान् । कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥ ४४ ॥ वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान् । यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः ॥ ४५ ॥ निर्वापयेद्भृशं शीतैः पित्तरक्तविषोल्बणान् । शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम् ॥ ४६ ॥ न्यग्रोधपद्मकादिभ्यामश्वगन्धाबलातिलैः । अद्यान्मांसादमांसानि विधिनोपहितानि च ॥ ४७ ॥ २५.४७ व् विहितोपहितानि च २५.४७ व् विधानोपहितानि च मांसं मांसादमांसेन वर्धते शुद्धचेतसः । उत्सन्नमृदुमांसानां व्रणानामवसादनम् ॥ ४८ ॥ २५.४८ व् वर्धते शुद्धतेजसः जातीमुकुलकासीसमनोह्वालपुराग्निकैः । उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ॥ ४९ ॥ व्रणान् सुदुःखशोध्यांश्च शोधयेत्क्षारकर्मणा । स्रवन्तोऽश्मरीजा मूत्रं ये चान्ये रक्तवाहिनः ॥ ५० ॥ २५.५० व् व्रणान् सुदुःखसाध्यांश्च २५.५० व् योजयेत्क्षारकर्मणा २५.५० व् ये चान्ये क्षतवाहिनः छिन्नाश्च संधयो येषां यथोक्तैर्ये च शोधनैः । शोध्यमाना न शुध्यन्ति शोध्याः स्युस्तेऽग्निकर्मणा ॥ ५१ ॥ २५.५१ व् यथोक्तैर्ये च साधनैः २५.५१ व् साध्यमाना न सिध्यन्ति २५.५१ व् साध्याः स्युस्तेऽग्निकर्मणा २५.५१ व् साध्यास्ते चाग्निकर्मणा शुद्धानां रोपणं योज्यमुत्सादाय यदीरितम् । अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका ॥ ५२ ॥ २५.५२ व् शुद्धानां रोपणे योज्यम् समङ्गा धातकीपुष्पं परमं व्रणरोपणम् । अपेतपूतिमांसानां मांसस्थानामरोहताम् ॥ ५३ ॥ कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम् । स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित् ॥ ५४ ॥ २५.५४ व् कल्कं संरोहणे कुर्यात् २५.५४ व् कल्कः संरोहणं कुर्यात् २५.५४ व् तिलानां मधुकान्वितः २५.५४ व् कषायैरेष सर्वजित् स क्षौद्रनिम्बपत्त्राभ्यां युक्तः संशोधनं परम् । पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः ॥ ५५ ॥ २५.५५ व् युक्तः संशोधनः परम् २५.५५ व् युक्तः स्यादपि रोपणः तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः । सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान् ॥ ५६ ॥ क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत् । रोपणौषधसिद्धेन तैलेन कफवातजान् ॥ ५७ ॥ काच्छीलोध्राभयासर्जसिन्दूराञ्जनतुत्थकम् । चूर्णितं तैलमदनैर्युक्तं रोपणमुत्तमम् ॥ ५८ ॥ २५.५८ व् काक्षीलोध्राभयासर्ज २५.५८ व् काङ्क्षीलोध्राभयासर्ज समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते । ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः ॥ ५९ ॥ २५.५९ व् त्वक्स्थानां चूर्णमिष्यते त्वक्चूर्णैश्चूर्णिता व्रणाः त्वक्चूर्णैश्चूर्णिता व्रणाः । लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः ॥ ६० ॥ २५.६० व् त्वचमाशु निगृह्णाति २५.६० व् त्वक्चूर्णैश्चूर्णितो व्रणः प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम् । कालीयकलताम्रास्थिहेमकालारसोत्तमैः ॥ ६१ ॥ २५.६१ व् प्रलेपः सघृतक्षौद्रैस् लेपः सगोमयरसः सवर्णकरणः परम् । दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम् ॥ ६२ ॥ २५.६२ व् सवर्णकरणो भवेत् २५.६२ व् धूमस्तैलं रसाञ्जनम् रोमसंजननो लेपस्तद्वत्तैलपरिप्लुता । चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी ॥ ६३ ॥ व्रणिनः शस्त्रकर्मोक्तं पथ्यापथ्यान्नमादिशेत् । द्वे पञ्चमूले वर्गश्च वातघ्नो वातिके हितः ॥ ६४ ॥ २५.६४ व् व्रणिनां शस्त्रकर्मोक्तं २५.६४ व् यत्पथ्यापथ्यमादिशेत् न्यग्रोधपद्मकाद्यौ तु तद्वत्पित्तप्रदूषिते । आरग्वधादिः श्लेष्मघ्नः कफे मिश्रास्तु मिश्रजे ॥ ६५ ॥ २५.६५ व् कफे मिश्रस्तु मिश्रजे २५.६५ व् कफे मिश्रास्तु मिश्रके एभिः प्रक्षालनं लेपो घृतं तैलं रसक्रिया । चूर्णो वर्तिश्च संयोज्य व्रणे सप्त यथायथम् ॥ ६६ ॥ २५.६६ व् एभिः प्रक्षालनालेप २५.६६ व् घृततैलरसक्रियाः जातीनिम्बपटोलपत्त्रकटुकादार्वीनिशाशारिवा ॥ ६७ ॥ मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजान्वितैः ॥ ६७ ॥ २५.६७ व् मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैस्तथा सर्पिः साध्यमनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो ॥ ६७ ॥ २५.६७ व् सर्पिः साध्यमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो २५.६७ व् सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो गम्भीराः सरुजो व्रणाः सगतयः शुध्यन्ति रोहन्ति च ॥ ६७ ॥ २५.६७ व् गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च साधितं स्वरसे तैलं काकमाच्याश्चतुर्गुणे । गतिभाजामपि हितं व्रणानां रोपणं परम् ॥ ६७+१ ॥ २५.६७+१ व् गतिभाजामपि वरं ऊत्तरस्थान सद्योव्रणा ये सहसा संभवन्त्यभिघाततः । अन्अन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा ॥ १ ॥ घृष्टावकृत्तविच्छिन्नप्रविलम्बितपातितम् । विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया ॥ २ ॥ २६.२ व् प्रविलम्बिनिपातितम् रक्तलेशेन वा युक्तं सप्लोषं छेदनात्स्रवेत् । अवगाढं ततः कृत्तं विच्छिन्नं स्यात्ततोऽपि च ॥ ३ ॥ प्रविलम्बि सशेषेऽस्थ्नि पतितं पातितं तनोः । सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम् ॥ ४ ॥ २६.४ व् प्रविलम्बि सशेषास्थि भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम् । प्रहारपीडनोत्पेषात्सहास्थ्ना पृथुतां गतम् ॥ ५ ॥ २६.५ व् प्रहारपीडनोत्पातैः २६.५ व् प्रहारपीडनात्तेषां सद्यः सद्योव्रणं सिञ्चेदथ यष्ट्य्आह्वसर्पिषा । तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः ॥ ६ ॥ क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च । कषायशीतमधुरस्निग्धा लेपादयो हिताः ॥ ७ ॥ सद्योव्रणेष्वायतेषु संधानार्थं विशेषतः । मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः ॥ ८ ॥ २६.८ व् मधुसर्पिः प्रयुञ्जीत ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् । उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम् ॥ ९ ॥ २६.९ व् उपवासो हितस्तत्र घृष्टे विदलिते चैष सुतरामिष्यते विधिः । तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते ॥ १० ॥ अत्य्अर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते । ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ॥ ११ ॥ २६.११ व् अत्य्अर्थमस्रं वमति २६.११ व् प्रायशोऽन्यत्र च क्षते स्नेहपानपरीषेकस्वेदलेपोपनाहनम् । स्नेहवस्तिं च कुर्वीत वातघ्नौषधसाधितम् ॥ १२ ॥ २६.१२ व् स्नेहैर्वस्तिं च कुर्वीत २६.१२ व् वातघ्नौषधसाधितैः इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः । सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत् ॥ १३ ॥ २६.१३ व् इति सप्ताहिकः प्रोक्तः प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक् । घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् ॥ १४ ॥ कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः । सीवनं विधिनोक्तेन बन्धनं चानु पीडनम् ॥ १५ ॥ २६.१५ व् बन्धनं चाशु पीडनम् असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत् । संनिवेश्य यथास्थानमव्याविद्धसिरं भिषक् ॥ १६ ॥ २६.१६ व् उदीर्णं लम्बते तु यत् २६.१६ व् संनिवेश्य यथास्थानं २६.१६ व् सूच्या विध्येत्सिरां भिषक् पीडयेत्पाणिना पद्मपलाशान्तरितेन तत् । ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥ १७ ॥ २६.१७ व् तर्पणे कथितं हविः विपक्वमाजं यष्ट्य्आह्वजीवकर्षभकोत्पलैः । सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित् ॥ १८ ॥ गलपीडावसन्नेऽक्ष्णि वमनोत्कासनक्षवाः । प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत् ॥ १९ ॥ २६.१९ व् गलपीडोऽवसन्नेऽक्ष्णि २६.१९ व् वमनोत्क्लेशनक्षवाः कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत् । कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते ॥ २० ॥ २६.२० व् कर्णे स्थानच्युते स्यूते २६.२० व् स्रोतस्तैलेन पूरयेत् समं निवेश्य बध्नीयात्स्यूत्वा शीघ्रं निर्अन्तरम् । आजेन सर्पिषा चात्र परिषेकः प्रशस्यते ॥ २१ ॥ २६.२१ व् समां निवेश्य बध्नीयात् २६.२१ व् आजेन सर्पिषा तत्र उत्तानोऽन्नानि भुञ्जीत शयीत च सुयन्त्रितः । घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते ॥ २२ ॥ स्यूत्वा वेल्लितबन्धेन बध्नीयाद्घनवाससा । चर्मणा गोष्फणाबन्धः कार्यश्चासंगते व्रणे ॥ २३ ॥ २६.२३ व् कार्यश्चांसगते व्रणे २६.२३ व् कार्यश्चांशगते व्रणे पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा । प्रवेश्य वृषणौ सीव्येत्सेवन्या तुन्नसंज्ञया ॥ २४ ॥ २६.२४ व् सेवन्या पिचुयुक्तया २६.२४ व् सीवन्या पिचुयुक्तया कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम् । स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः ॥ २५ ॥ २६.२५ व् तत्र क्लिद्यन्ति हि व्रणाः २६.२५ व् तेन क्लिद्यन्ति हि व्रणाः कालानुसार्य्अगुर्व्एलाजातीचन्दनपर्पटैः । शिलादार्व्य्अमृतातुत्थैः सिद्धं तैलं च रोपणम् ॥ २६ ॥ २६.२६ व् जातीचन्दनपद्मकैः छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः । बध्नीयात्कोशबन्धेन ततो व्रणवदाचरेत् ॥ २७ ॥ २६.२७ व् दग्ध्वा तैलेन युक्तिभिः कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया । शिरसोऽपहृते शल्ये वालवर्तिं प्रवेशयेत् ॥ २८ ॥ मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा । व्रणे रोहति चैकैकं शनैरपनयेत्कचम् ॥ २९ ॥ २६.२९ व् मस्तुलुङ्गस्रुते क्रुद्धो मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान् । शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत् ॥ ३० ॥ दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः । सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान् ॥ ३१ ॥ भिन्ने कोष्ठेऽसृजा पूर्णे मूर्छाहृत्पार्श्ववेदनाः । ज्वरो दाहस्तृडाध्मानं भक्तस्यान्अभिनन्दनम् ॥ ३२ ॥ सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता । लोहगन्धित्वमास्यस्य स्याद्गात्रे च विगन्धता ॥ ३३ ॥ आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि । आध्मानेनातिमात्रेण शूलेन च विशस्यते ॥ ३४ ॥ २६.३४ व् शूलेन च विनश्यति २६.३४ व् शूलेन च विशिष्यते पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत् । नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः ॥ ३५ ॥ अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते । असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्तिवत् ॥ ३६ ॥ तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम् । रक्ताक्षं पाण्दुवदनमानद्धं च विवर्जयेत् ॥ ३७ ॥ आमाशयस्थे वमनं हितं पक्वाशयाश्रिते । विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः ॥ ३८ ॥ २६.३८ व् हितं पक्वाशयाश्रये २६.३८ व् हितं पक्वाशयस्थिते २६.३८ व् निःस्नेहोष्णैर्विशोधनम् यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः । भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ॥ ३९ ॥ २६.३९ व् पिबेत्सैन्धवसंयुतम् अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक् । क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः ॥ ४० ॥ २६.४० व् अतिनिःसृतरक्तस्तु २६.४० व् क्लिन्नभिन्नान्त्रभेदेन २६.४० व् श्लिष्टच्छिन्नान्त्रभेदेन मूर्छादयोऽल्पाः प्रथमे द्वितीये त्वतिबाधकाः । क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ॥ ४१ ॥ २६.४१ व् क्लिन्नान्त्रः संशयी देही २६.४१ व् क्लिष्टान्त्रः संशये देही २६.४१ व् श्लिष्टान्त्रः संशयी देही २६.४१ व् भिन्नान्त्रो नैव जीवति यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः । व्य्उपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम् ॥ ४२ ॥ अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा । उत्पङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु ॥ ४३ ॥ २६.४३ व् उरोगलशिरोग्रस्तं २६.४३ व् उरोङ्गिलशिरोग्रस्तं २६.४३ व् पुपुङ्गलशिरोग्रस्तं २६.४३ व् वयङ्गिलशिरोग्रस्तं प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः । प्रवेशयेत्कॢप्तनखो घृतेनाक्तं शनैः शनैः ॥ ४४ ॥ क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम् । अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि ॥ ४५ ॥ तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च । व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमन्आविशत् ॥ ४६ ॥ २६.४६ व् तत्कालं पीडयेत च तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् । यथास्थानं स्थिते सम्यकन्त्रे सीव्येदनु व्रणम् ॥ ४७ ॥ २६.४७ व् यथास्थानस्थिते सम्यग् स्थानादपेतमादत्ते जीवितं कुपितं च तत् । वेष्टयित्वानु पट्टेन घृतेन परिषेचयेत् ॥ ४८ ॥ २६.४८ व् जीवितं कुपितं च यत् चूर्णैर्यथोक्तैः संधानं कृत्वा क्षौद्रघृतप्लुतैः । ततः कवलिकां दत्त्वा वेष्टयेदनुपूर्वशः ॥ ४८.१+१ ॥ पाययेत ततः कोष्णं चित्रातैलयुतं पयः । मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ॥ ४९ ॥ २६.४९ व् पाययेत्तं ततः कोष्णं २६.४९ व् चित्रतैलयुतं पयः अनुवर्तेत वर्षं च यथोक्तं व्रणयन्त्रणाम् । उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा ॥ ५० ॥ २६.५० व् यथोक्तं व्रणयन्त्रणम् अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम् । दृढं बद्ध्वा च सूत्रेण वर्धयेत्कुशलो भिषक् ॥ ५१ ॥ २६.५१ व् श्लक्ष्णैर्मूले ततः समम् २६.५१ व् श्लक्ष्णैश्चूर्णैस्ततः समम् तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु । स्यादन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया ॥ ५२ ॥ सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत् । क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम् ॥ ५३ ॥ २६.५३ व् सक्षौद्रे तु व्रणे बद्धे २६.५३ व् सुजीर्णान्नो घृतं पिबेत् रुग्दाहजित्सयष्ट्य्आह्वैः परं पूर्वोदितो विधिः । मेदोग्रन्थ्य्उदितं तत्र तैलमभ्यञ्जने हितम् ॥ ५४ ॥ २६.५४ व् मेदोग्रन्थ्य्उदितं चात्र तालीशं पद्मकं मांसी हरेण्व्अगुरुचन्दनम् । हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ॥ ५५ ॥ पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् । गूढप्रहाराभिहते पतिते विषमोच्चकैः ॥ ५६ ॥ २६.५६ व् मूढप्रहाराभिहते कार्यं वातास्रजित्तृप्तिमर्दनाभ्यञ्जनादिकम् । विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम् ॥ ५७ ॥ २६.५७ व् कुर्याद्वातासृग्उक्तं हि २६.५७ व् मर्दनाभ्यङ्गशोधनम् २६.५७ व् मर्दनाभ्यङ्गशोधनम् २६.५७ व् क्षीणं मर्माहताहतम् २६.५७ व् क्षीणं मर्माहतं च तम् वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम् ॥ ५७ªअब् ॥ ऊत्तरस्थान पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां संध्य्असंधितः । प्रसारणाकुञ्चनयोरशक्तिः संधिमुक्तता ॥ १ ॥ २७.१ व् भङ्गोऽस्थ्नः संध्य्असंधिगः २७.१ व् भङ्गोऽस्थ्नः संध्य्असंधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्वतिव्यथा । अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता ॥ २ ॥ २७.२ व् सर्वावस्थास्वतिव्यथः समासादिति भङ्गस्य लक्षणं बहुधा तु तत् । भिद्यते भङ्गभेदेन तस्य सर्वस्य साधनम् ॥ ३ ॥ यथा स्यादुपयोगाय तथा तदुपदेक्ष्यते । प्राज्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् ॥ ४ ॥ २७.४ व् प्राज्याणुदारि यच्चास्थि यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः । भग्नं यच्चाभिघातेन किञ्चिदेवावशेषितम् ॥ ५ ॥ २७.५ व् भग्नं यदभिघातेन २७.५ व् भग्नं यद्वाभिघातेन उन्नम्यमानं क्षतवद्यच्च मज्जनि मज्जति । तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ॥ ६ ॥ भिन्नं कपालं यत्कट्यां संधिमुक्तं च्युतं च यत् । जघनं प्रति पिष्टं च भग्नं यत्तद्विवर्जयेत् ॥ ७ ॥ २७.७ व् भिन्नं कपालं यत्कट्याः असंश्लिष्टकपालं च ललाटं चूर्णितं तथा । यच्च भग्नं भवेच्छङ्खशिरःपृष्ठस्तनान्तरे ॥ ८ ॥ सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् । संक्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत् ॥ ९ ॥ २७.९ व् विक्रियां तच्च वर्जयेत् आदितो यच्च दुर्जातमस्थि संधिरथापि वा । तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥ १० ॥ २७.१० व् तरुणास्थीनि नम्यन्ते २७.१० व् भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा । अथावनतमुन्नम्यमुन्नतं चावपीडयेत् ॥ ११ ॥ २७.११ व् कपालास्थीनि भिद्यन्ते आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् । आञ्छनोत्पीडनोन्नामचर्मसंक्षेपबन्धनैः ॥ १२ ॥ २७.१२ व् आञ्छेदविक्षिप्तमधो संधीञ्छरीरगान् सर्वांश्चलानप्यचलानपि । इत्येतैः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलम् ॥ १३ ॥ २७.१३ व् सम्यक्संस्थाप्य निश्चलान् पट्टैः प्रभूतसर्पिर्भिः वेष्टयित्वा सुखैस्ततः । कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः ॥ १४ ॥ वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः । सुश्लक्ष्णैः सप्रतिस्तम्भैर्वल्कलैः शकलैरपि ॥ १५ ॥ २७.१५ व् सुश्लक्ष्णैः सप्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् । शिथिलेन हि बन्धेन संधिस्थैर्यं न जायते ॥ १६ ॥ २७.१६ व् संधेः स्थैर्यं न जायते गाढेनाति रुजादाहपाकश्वयथुसंभवः । त्र्य्अहात्त्र्य्अहादृतौ घर्मे सप्ताहान्मोक्षयेद्धिमे ॥ १७ ॥ २७.१७ व् गाढेनापि रुजादाह साधारणे तु पञ्चाहाद्भङ्गदोषवशेन वा । न्यग्रोधादिकषायेण ततः शीतेन सेचयेत् ॥ १८ ॥ २७.१८ व् भग्नदोषवशेन वा २७.१८ व् भङ्गे दोषवशेन वा तं पञ्चमूलपक्वेन पयसा तु सवेदनम् । सुखोष्णं वावचार्यं स्याच्चक्रतैलं विजानता ॥ १९ ॥ २७.१९ व् पञ्चमूलविपक्वेन २७.१९ च् सुखोष्णमवचार्यं स्याच् विभज्य देशं कालं च वातघ्नौषधसंयुतम् । प्रततं सेकलेपांश्च विदध्याद्भृशशीतलान् ॥ २० ॥ २७.२० व् विभज्य देशकालौ च २७.२० व् वातघ्नौषधसाधितम् गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् । प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम् ॥ २१ ॥ सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः । कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः ॥ २२ ॥ २७.२२ व् कषायैः प्रतिसार्यो वा लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा । संदधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत् ॥ २३ ॥ तान् समान् सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः । समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् ॥ २४ ॥ धातकीलोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः । इति भङ्ग उपक्रान्तः स्थिरधातोरृतौ हिमे ॥ २५ ॥ मांसलस्याल्पदोषस्य सुसाध्यो दारुणोऽन्यथा । पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात् ॥ २६ ॥ २७.२६ व् सुसाधो दारुणोऽन्यथा मासैः स्थैर्यं भवेत्संधेर्यथोक्तं भजतां विधिम् । कटीजङ्घोरुभग्नानां कपाटशयनं हितम् ॥ २७ ॥ २७.२७ व् यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः । जङ्घोर्वोः पार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः ॥ २८ ॥ श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा । विमोक्षे भग्नसंधीनां विधिमेवं समाचरेत् ॥ २९ ॥ २७.२९ व् वक्षस्यंशकयोस्तथा २७.२९ व् वक्त्रस्याक्षकयोस्तथा २७.२९ व् विधिमेनं समाचरेत् संधींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान्मृदूकृतान् । उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमानयेत् ॥ ३० ॥ २७.३० व् संधींश्चिरविमुक्तांश्च २७.३० व् उक्तैर्विधानैर्युक्त्या च २७.३० व् उक्तैर्विधानैर्युक्त्या वा असंधिभग्ने रूढे तु विषमोल्बणसाधिते । आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत् ॥ ३१ ॥ २७.३१ व् असंधिभग्ने रूढे च २७.३१ व् विषमोल्बणसाधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् । पक्वमांससिरास्नायुः संधिः श्लेषं न गच्छति ॥ ३२ ॥ २७.३२ व् भङ्गो नैति यथा पाकं वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् । चतुष्प्रयोगान् बल्यांश्च वस्तिकर्म च शीलयेत् ॥ ३३ ॥ शाल्य्आज्यरसदुग्धाद्यैः पौष्टिकैरविदाहिभिः । मात्रयोपचरेद्भग्नं संधिसंश्लेषकारिभिः ॥ ३४ ॥ ग्लानिर्न शस्यते तस्य संधिविश्लेषकृद्धि सा ॥ ३५ ब् ॥ लवणं कटुकं क्षारमम्लं मैथुनमातपम् ॥ ३५ द् ॥ व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥ ३५ f ॥ कृष्णांस्तिलान् विरजसो दृढवस्त्रबद्धान् सप्त क्षपा वहति वारिणि वासयेत् । संशोषयेदनुदिनं प्रविसार्य चैतान् क्षीरे तथैव मधुकक्वथिते च तोये ॥ ३६ ॥ २७.३६ व् संशोषयेदनुदिनं प्रतिसार्य चैतान् २७.३६ व् संशोषयेदनुदिनं प्रविभाव्य चैतान् पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम् । विगततुषानरजस्कान् संचूर्ण्य सुचूर्णितैर्युञ्ज्यात् ॥ ३७ ॥ २७.३७ व् संचूर्ण्य विचूर्णितैर्युञ्ज्यात् नलदवालकलोहितयष्टिकानखमिशिप्लवकुष्ठबलात्रयैः । अगुरुकुङ्कुमचन्दनशारिवासरलसर्जरसामरदारुभिः ॥ ३८ ॥ पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत् । समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत् ॥ ३९ ॥ २७.३९ व् तिलपिष्टं ततश्च तम् शैलेयरास्नांशुमतीकसेरुकालानुसारीनतपत्त्रलोध्रैः । सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिभिश्च ॥ ४० ॥ २७.४० व् त्वक्क्षीरयुक्तैः पयसा सदूर्वैस् २७.४० व् सक्षीरयुक्तैस्पयसा सदूर्वैस् २७.४० व् सक्षीरयुक्तैस्सपयः सदूर्वैस् गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान् । वातपित्तजनितानतिवीर्यान् व्यापिनोऽपि विविधैरुपयोगैः ॥ ४१ ॥ २७.४१ व् वातपित्तजनितानतिवीर्यं २७.४१ व् वातपित्तजनितानतिवीर्य २७.४१ व् व्यापिनोऽपि विविधैरुपयोगैः ऊत्तरस्थान हस्त्य्अश्वपृष्ठगमनकठिनोत्कटकासनैः । अर्शोनिदानाभिहितैरपरैश्च निषेवितैः ॥ १ ॥ २८.१ व् कठिनोत्कटुकासनैः अन्इष्टादृष्टपाकेन सद्यो वा साधुगर्हणैः । प्रायेण पिटिकापूर्वो योऽङ्गुले द्व्य्अङ्गुलेऽपि वा ॥ २ ॥ २८.२ व् अन्इष्टदिष्टपाकेन पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत् । वस्तिमूत्राशयाभ्यासगतत्वात्स्यन्दनात्मकः ॥ ३ ॥ २८.३ व् पायौ व्रणोऽन्तर्बाह्यो वा भगन्दरः स सर्वांश्च दारयत्यक्रियावतः । भगवस्तिगुदांस्तेषु दीर्यमाणेषु भूरिभिः ॥ ४ ॥ २८.४ व् भगन्दरः स सर्वश्च २८.४ व् भगन्दरः स सर्वस्य वातमूत्रशकृच्छुक्रं खैः सूक्ष्मैर्वमति क्रमात् । दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः ॥ ५ ॥ २८.५ व् आगन्तुश्चाष्टमः स्मृतः अपक्वं पिटिकामाहुः पाकप्राप्तं भगन्दरम् । गूढमूलां ससंरम्भां रुग्आढ्यां रूढकोपिनीम् ॥ ६ ॥ भगन्दरकरीं विद्यात्पिटिकां न त्वतोऽन्यथा । तत्र श्यावारुणा तोदभेदस्फुरणरुक्करी ॥ ७ ॥ पिटिका मारुतात्पित्तादुष्ट्रग्रीवावदुच्छ्रिता । रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता ॥ ८ ॥ २८.८ व् रागिणी तनुसूक्ष्मा च स्थिरा स्निग्धा महामूला पाण्डुः कण्डूमती कफात् । श्यावा ताम्रा सदाहोषा घोररुग्वातपित्तजा ॥ ९ ॥ २८.९ व् श्यावताम्रा सदाहोषा पाण्डुरा किञ्चिद्आश्यावा कृच्छ्रपाका कफानिलात् । पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा ॥ १० ॥ शूलारोचकतृड्दाहज्वरच्छर्दिर्उपद्रुता । व्रणतां यान्ति ताः पक्वाः प्रमादात्तत्र वातजा ॥ ११ ॥ चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत्क्रमात् । अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम् ॥ १२ ॥ २८.१२ व् दीर्यतेऽणुमुखैश्छिद्रैः २८.१२ व् शतपोनकवक्त्रवत् शतपोनकसंज्ञोऽयमुष्ट्रग्रीवस्तु पित्तजः । बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः ॥ १३ ॥ वातपित्ताज्परिक्षेपी परिक्षिप्य गुदं गतिः । जायते परितस्तत्र प्राकारं परिखेव च ॥ १४ ॥ २८.१४ व् प्राकारपरिखेव च ऋजुर्वातकफादृज्व्या गुदो गत्यात्र दीर्यते । कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः ॥ १५ ॥ २८.१५ व् गुदो गत्या तु दीर्यते २८.१५ व् गुदो गत्या नु दीर्यते २८.१५ व् कफपित्ते तु पूर्वोक्तं अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत् । स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः ॥ १६ ॥ स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः । सर्वजः शम्बुकावर्तः शम्बूकावर्तसंनिभः ॥ १७ ॥ गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम् । अस्थिलेशोऽभ्यवहृतो मांसगृद्ध्या यदा गुदम् ॥ १८ ॥ क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं क्षततो गतिः । स्यात्ततः पूयदीर्णायां मांसकोथेन तत्र च ॥ १९ ॥ २८.१९ व् क्षणोति तिर्यङ्निर्गच्छन् २८.१९ व् स्यात्तदा पूयदीर्णायां जायन्ते कृमयस्तस्य खादन्तः परितो गुदम् । विदारयन्ति न चिरादुन्मार्गी क्षतजश्च सः ॥ २० ॥ २८.२० व् जायन्ते कृमयस्तेभ्यः २८.२० व् उन्मार्गी क्षतजस्तु सः तेषु रुग्दाहकण्ड्व्आदीन् विद्याद्व्रणनिषेधतः । षट्कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत् ॥ २१ ॥ २८.२१ व् विद्याद्व्रणविभक्तितः प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम् । अथास्य पिटिकामेव तथा यत्नादुपाचरेत् ॥ २२ ॥ शुद्ध्य्असृक्स्रुतिसेकाद्यैर्यथा पाकं न गच्छति । पाके पुनरुपस्निग्धं स्वेदितं चावगाहतः ॥ २३ ॥ यन्त्रयित्वार्शसमिव पश्येत्सम्यग्भगन्दरम् । अर्वाचीनं पराचीनमन्तर्मुखबहिर्मुखम् ॥ २४ ॥ २८.२४ व् अवाचीनं पराचीनम् अथान्तर्मुखमेषित्वा सम्यक्शस्त्रेण पाटयेत् । बहिर्मुखं च निःशेषं ततः क्षारेण साधयेत् ॥ २५ ॥ अग्निना वा भिषक्साधु क्षारेणैवोष्ट्रकन्धरम् । नाडीरेकान्तराः कृत्वा पाटयेच्छतपोनकम् ॥ २६ ॥ २८.२६ व् नाडीमेकान्तरं कृत्वा २८.२६ व् पाटयेच्छतपोनके तासु रूढासु शेषाश्च मृत्युर्दीर्णे गुदेऽन्यथा । परिक्षेपिणि चाप्येवं नाड्य्उक्तैः क्षारसूत्रकैः ॥ २७ ॥ अर्शोभगन्दरे पूर्वमर्शांसि प्रतिसाधयेत् । त्यक्त्वोपचर्यः क्षतजः शल्यं शल्यवतस्ततः ॥ २८ ॥ २८.२८ व् अर्शांसि प्रतिसारयेत् आहरेच्च तथा दद्यात्कृमिघ्नं लेपभोजनम् । पिण्डनाड्य्आदयः स्वेदाः सुस्निग्धा रुजि पूजिताः ॥ २९ ॥ २८.२९ व् आहरेत तथा दद्यात् २८.२९ व् आहरेत्तत्तथा दद्यात् २८.२९ व् आहरेत् तु तथा दद्यात् सर्वत्र च बहुच्छिद्रे छेदानालोच्य योजयेत् । गोतीर्थसर्वतोभद्रदललाङ्गललाङ्गलान् ॥ ३० ॥ २८.३० व् सर्वत्रापि बहुच्छिद्रे पार्श्वं गतेन शस्त्रेण च्छेदो गोतीर्थको मतः । सर्वतः सर्वतोभद्रः पार्श्वच्छेदोऽर्धलाङ्गलः ॥ ३१ ॥ २८.३१ व् पार्श्वगतेन शस्त्रेण २८.३१ व् पार्श्वागतेन शस्त्रेण पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत् । आस्रावमार्गान्निःशेषं नैवं विकुरुते पुनः ॥ ३२ ॥ २८.३२ व् आस्रावमार्गान्निःशेषान् यतेत कोष्ठशुद्धौ च भिषक्तस्यान्तरान्तरा । लेपो व्रणे बिडालास्थि त्रिफलारसकल्कितम् ॥ ३३ ॥ २८.३३ व् यतेत कोष्ठशुद्ध्यै च २८.३३ व् यतेत कोष्ठसंशुद्धौ २८.३३ व् त्रिफलारसकल्कितः ज्योतिष्मतीमलयुलाङ्गलिशेलुपाठाकुम्भाग्निसर्जकरवीरवचासुधार्कैः । अभ्यञ्जनाय विपचेत भगन्दराणां तैलं वदन्ति परमं हितमेतदेषाम् ॥ ३४ ॥ २८.३४ व् कुम्भाग्निसर्जिकरवीरवचासुधार्कैः २८.३४ व् तैलं वदन्ति परमं हितमेतदेव मधुकलोध्रकणात्रुटिरेणुकाद्विरजनीफलिनीपटुशारिवाः । कमलकेसरपद्मकधातकीमदनसर्जरसामयरोदिकाः ॥ ३५ ॥ २८.३५ व् मदनसर्जरसामयलोध्रकाः सबीजपूरच्छदनैरेभिस्तैलं विपाचितम् । भगन्दरापचीकुष्ठमधुमेहव्रणापहम् ॥ ३६ ॥ मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः । कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणा भवन्ति ॥ ३७ ॥ २८.३७ व् त्रिफलामागधिकोषणाश्च लीढाः २८.३७ व् क्षतनाडीव्रणरोहणा भवन्ति अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलकानि गुग्गुलुः । क्रमवृद्धमिदं मधुद्रुतं पिटिकास्थौल्यभगन्दराञ्जयेत् ॥ ३८ ॥ २८.३८ व् क्रमवृद्धमिदं मधुप्लुतं मागधिकाग्निकलिङ्गविडङ्गैर्बिल्वघृतैः सवरापलषट्कैः । गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः ॥ ३९ ॥ २८.३९ व् मागधिकाग्निकलिङ्गविडङ्गैस् २८.३९ व् तुल्यघृतैः सवरापलषट्कैः गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक्स्यात् । त्वक्त्रुटिकर्षयुतं मधुलीढं कुष्ठभगन्दरगुल्मगतिघ्नम् ॥ ४० ॥ शृङ्गवेररजोयुक्तं तदेव च सुभावितम् । क्वाथेन दशमूलस्य विशेषाद्वातरोगजित् ॥ ४१ ॥ उत्तमाखदिरसारजं रजः शीलयन्नसनवारिभावितम् । हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटिकाभगन्दरान् ॥ ४२ ॥ २८.४२ व् शीलयेदनलवारिभावितम् २८.४२ व् शीलयेदसनवारिभावितम् २८.४२ व् हन्ति तुल्यमहिषाख्यमाक्षिकं भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि । व्रणाधिकारात्परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात् ॥ ४३ ॥ २८.४३ व् सम्यग्विदित्वौषधिकं विदध्यात् अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यम् । साहसानि विविधानि च रूढे वत्सरं परिहरेदधिकं वा ॥ ४४ ॥ २८.४४ व् वत्सरं परिहरेदधिकं च ऊत्तरस्थान कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः । वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः ॥ १ ॥ २९.१ व् स ग्रन्थिर्ग्रन्थनात्स्मृतः दोषास्रमांसमेदोऽस्थिसिराव्रणभवा नव । ते तत्र वातादायामतोदभेदान्वितोऽसितः ॥ २ ॥ स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान् । मृदुर्वस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक् ॥ ३ ॥ पित्तात्सदाहः पीताभो रक्तो वा पच्यते द्रुतम् । भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः ॥ ४ ॥ शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेद्घनम् । दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्छत्सु जन्तुषु ॥ ५ ॥ सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः । मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत् ॥ ६ ॥ स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम् । प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि ॥ ७ ॥ वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् । श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम् ॥ ८ ॥ स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत् । अस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत् ॥ ९ ॥ २९.९ व् स विभिन्नो घनं मेदः २९.९ व् पूयं ताम्रासितं स्रवेत् २९.९ व् अस्थिभग्नाभिघाताभ्याम् सोऽस्थिग्रन्थिः पदातेस्तु सहसाम्भोऽवगाहनात् । व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम् ॥ १० ॥ वायुः संपीड्य संकोच्य वक्रीकृत्य विशोष्य च । निःस्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः ॥ ११ ॥ २९.११ व् वायुः प्रपीड्य संकोच्य अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः । सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा ॥ १२ ॥ वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् । कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः ॥ १३ ॥ २९.१३ व् वायुः प्रकुपितः क्षिप्रं २९.१३ व् प्राप्य मर्माश्रितं व्रणम् साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः । मर्मकण्ठोदरस्थाश्च महत्तु ग्रन्थितोऽर्बुदम् ॥ १४ ॥ २९.१४ व् न तु स्थूलाः खराश्चलाः २९.१४ व् महांस्तु ग्रन्थितोऽर्बुदम् तल्लक्षणं च मेदोऽन्तैः षोढा दोषादिभिस्तु तत् । प्रायो मेदःकफाढ्यत्वात्स्थिरत्वाच्च न पच्यते ॥ १५ ॥ सिरास्थं शोणितं दोषः संकोच्यान्तः प्रपीड्य च । पाचयेत तदानद्धं सास्रावं मांसपिण्डितम् ॥ १६ ॥ २९.१६ व् संकोच्यानु प्रपीड्य च २९.१६ व् संकोच्यानु प्रपीड्य वा २९.१६ व् संकोच्यान्तः प्रपीड्य वा २९.१६ व् सस्रावं मांसपिण्डताम् मांसाङ्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः । अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम् ॥ १७ ॥ २९.१७ व् वृद्धं चाशु स्रवेत्ततः तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत् । प्रस्थिता वङ्क्षणोर्व्आदिमधःकायं कफोल्बणाः ॥ १८ ॥ दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते । शनैः शनैर्घनं शोफं श्लीपदं तत्प्रचक्षते ॥ १९ ॥ २९.१९ व् श्लीपदं तत्प्रचक्ष्यते परिपोटयुतं कृष्णमनिमित्तरुजं खरम् । रूक्षं च वातात्पित्तात्तु पीतं दाहज्वरान्वितम् ॥ २० ॥ २९.२० व् रूक्षं च वातात्पित्ताच्च २९.२० व् रूक्षं च श्लीपदं वातात् २९.२० व् पित्ताद्दाहज्वरान्वितम् कफाद्गुरु स्निग्धमरुक्चितं मांसाङ्कुरैर्बृहत् । तत्त्यजेद्वत्सरातीतं सुमहत्सुपरिस्रुति ॥ २१ ॥ २९.२१ व् चितं मांसाङ्कुरैर्महत् पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत् । श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम् ॥ २२ ॥ २९.२२ व् वदन्त्यन्ये तु पादवत् मेदस्थाः कण्ठमन्याक्षकक्षावङ्क्षणगा मलाः । सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥ २३ ॥ २९.२३ व् मेदस्थाः कण्ठमन्याक्षि अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते । पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः ॥ २४ ॥ २९.२४ व् पच्यन्तेऽल्परुजस्त्वन्ये २९.२४ व् स्रवन्त्यन्येऽतिकण्डुलाः नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः । गण्डमालापची चेयं दूर्वेव क्षयवृद्धिभाक् ॥ २५ ॥ तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम् । अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः ॥ २६ ॥ २९.२६ व् पार्श्वरुक्श्वासपीनसाम् २९.२६ व् व्रणे वापथ्यसेविनः अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति । गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः ॥ २७ ॥ नाड्येकान्ऋजुरन्येषां सैवानेकगतिर्गतिः । सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी ॥ २८ ॥ २९.२८ व् दोषैः पृथक्समस्तैश्च वातात्सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा । स्रवत्यभ्यधिकं रात्रौ पित्तात्तृड्ज्वरदाहकृत् ॥ २९ ॥ पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति । घनपिच्छिलसंस्रावा कण्डूला कठिना कफात् ॥ ३० ॥ २९.३० व् पीतोष्णपूतिपूयं तु २९.३० व् पीतोष्णपूतिपूयाश्रु २९.३० व् पीतोष्णपूतिपूयास्रुर् निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥ ३१ ब् ॥ २९.३१ व् सर्वैः सर्वाकृतिस्त्यजेत् अन्तःस्थितं शल्यमन्आहृतं तु करोति नाडीं वहते च सास्य ॥ ३१ द् ॥ २९.३१ व् करोति नाडीं वहते च सास्यात् फेनानुविद्धं तनुमल्पमुष्णं सास्रं च पूयं सरुजं च नित्यम् ॥ ३१ f ॥ २९.३१ व् फेनानुविद्धं तनुमच्छमुष्णं ऊत्तरस्थान ग्रन्थिष्वामेषु कर्तव्या यथास्वं शोफवत्क्रिया । बृहतीचित्रकव्याघ्रीकणासिद्धेन सर्पिषा ॥ १ ॥ स्नेहयेच्छुद्धिकामं च तीक्ष्णैः शुद्धस्य लेपनम् । संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात्पुनः पुनः ॥ २ ॥ एष वाते विशेषेण क्रमः पित्तास्रजे पुनः । जलौकसो हिमं सर्वं कफजे वातिको विधिः ॥ ३ ॥ तथाप्यपक्वं छित्त्वैनं स्थिते रक्तेऽग्निना दहेत् । साध्वशेषं सशेषो हि पुनराप्यायते ध्रुवम् ॥ ४ ॥ ३०.४ व् पुनरानह्यते द्रुतम् मांसव्रणोद्भवौ ग्रन्थी यापयेदेवमेव च । कार्यं मेदोभवेऽप्येतत्तप्तैः फलादिभिश्च तम् ॥ ५ ॥ ३०.५ व् पाटयेदेवमेव च प्रमृद्यात्तिलदिग्धेन च्छन्नं द्विगुणवाससा । शस्त्रेण पाटयित्वा वा दहेन्मेदसि सूद्धृते ॥ ६ ॥ ३०.६ व् प्रमृज्यात्तिलदिग्धेन ३०.६ व् दहेन्मेदसि तूद्धृते सिराग्रन्थौ नवे पेयं तैलं साहचरं तथा । उपनाहोऽनिलहरैर्वस्तिकर्म सिराव्यधः ॥ ७ ॥ अर्बुदे ग्रन्थिवत्कुर्यात्यथास्वं सुतरां हितम् । श्लीपदेऽनिलजे विध्येत्स्निग्धस्विन्नोपनाहिते ॥ ८ ॥ अजाशकृच्छिग्रुमूललाक्षासुरसकाञ्जिकैः ॥ ८.१+(१)अब् ॥ ३०.८.१+(१)ब्व् लाक्षारससकाञ्जिकैः ३०.८.१+(१)ब्व् लवणक्षारकाञ्जिकैः उपोदकापत्त्रपिण्ड्या छदैराच्छादितं घनम् । निवेश्य पट्टं बध्नीयाच्छाम्यत्येवं नवार्बुदम् ॥ ८.१+(२) ॥ ३०.८.१+(२)अव् उपोदकार्कपिण्याक ३०.८.१+(२)ब्व् च्छदैराच्छादितं घनम् जीर्णे चार्कच्छदसुधासामुद्रगुडकाञ्जिकैः । प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्अर्बुदविलायनी ॥ ८.१+(३) ॥ ३०.८.१+(३)अव् जीर्णार्द्रार्कच्छदसुधा ३०.८.१+(३)ब्व् सामुद्रं तुल्यकाम्बुभिः ३०.८.१+(३)च्व् प्रच्छन्ने पिटिकां बद्ध्वा ३०.८.१+(३)च्व् प्रच्छानैर्पिण्डिकां बद्ध्वा ३०.८.१+(३)द्व् ग्रन्थ्य्अर्बुदविलायनम् सिरामुपरि गुल्फस्य द्व्य्अङ्गुले पाययेच्च तम् । मासमेरण्डजं तैलं गोमूत्रेण समन्वितम् ॥ ९ ॥ जीर्णे जीर्णान्नमश्नीयाच्छुण्ठीशृतपयोऽन्वितम् । त्रैवृतं वा पिबेदेवमशान्तावग्निना दहेत् ॥ १० ॥ गुल्फस्याधः सिरामोक्षः पैत्ते सर्वं च पित्तजित् । सिरामङ्गुष्ठके विद्ध्वा कफजे शीलयेद्यवान् ॥ ११ ॥ सक्षौद्राणि कषायाणि वर्धमानास्तथाभयाः । लिम्पेत्सर्षपवार्ताकीमूलाभ्यां धन्वयाथवा ॥ १२ ॥ ३०.१२ व् मूलाभ्यां धान्ययाथवा ऊर्ध्वाधःशोधनं पेयमपच्यां साधितं घृतम् । दन्तीद्रवन्तीत्रिवृताजालिनीदेवदालिभिः ॥ १३ ॥ शीलयेत्कफमेदोघ्नं धूमगण्डूषनावनम् । सिरयापहरेद्रक्तं पिबेन्मूत्रेण तार्क्ष्यजम् ॥ १४ ॥ पलमर्धपलं वापि कर्षं वाप्युष्णवारिणा । काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ॥ १४+(१) ॥ ३०.१४+(१)ब्व् कर्षं वोष्णेन वारिणा ग्रन्थीनपक्वानालिम्पेन्नाकुलीपटुनागरैः । स्विन्नान् लवणपोटल्या कठिनाननु मर्दयेत् ॥ १५ ॥ शमीमूलकशिग्रूणां बीजैः सयवसर्षपैः । लेपः पिष्टो ण्म्लतक्रेण ग्रन्थिगण्डविलायनः ॥ १६ ॥ ३०.१६ व् शमीमूलकशिग्रूत्थ ३०.१६ व् शमीमूलकशिग्रूमा ३०.१६ व् बीजः सयवसर्षपैः ३०.१६ व् बीजैः सयवसर्षपैः क्षुण्णानि निम्बपत्त्राणि कॢप्तैर्भल्लातकैः सह । शरावसंपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥ १६+(१) ॥ ३०.१६+(१)अव् जीर्णानि निम्बपत्त्राणि ३०.१६+(१)ब्व् क्लिन्नैर्भल्लातकैः सह ३०.१६+(१)ब्व् क्षिप्रैर्भल्लातकैः सह एतच्छागाम्बुना पिष्टं गण्डमालाप्रलेपनम् ॥ १६+(२)अब् ॥ ३०.१६+(२)ब्व् गण्डमालाविलेपनम् पाकोन्मुखान् स्रुतास्रस्य पित्तश्लेष्महरैर्जयेत् । अपक्वानेवो वोद्धृत्य क्षाराग्निभ्यामुपाचरेत् ॥ १७ ॥ काकादनीलाङ्गलिकानहिकोत्तुण्डिकीफलैः । जीमूतबीजकर्कोटीविशालाकृतवेधनैः ॥ १८ ॥ ३०.१८ व् नलिकोत्तुण्डिकीफलैः ३०.१८ व् नलिकोत्तुण्डकीफलैः ३०.१८ व् नहिकोत्तैण्डुकीफलैः पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत् । प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके ॥ १९ ॥ ३०.१९ व् पथ्यान्वितैः पलार्धांशैर् अनेन माला गण्डानां चिरजा पूयवाहिनी । सिध्यत्यसाध्यकल्पापि पानाभ्यञ्जननावनैः ॥ २० ॥ तैलं लाङ्गलिकीकन्दकल्कपादं चतुर्गुणे । निर्गुण्डीस्वरसे पक्वं नस्याद्यैरपचीप्रणुत् ॥ २१ ॥ ३०.२१ व् कल्कपादे चतुर्गुणे भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्घनैः । मनःशिलालनलदविशालाकरवीरकैः ॥ २२ ॥ ३०.२२ च् भद्रश्रीदारुमरिच ३०.२२ व् मनःशिलालमदन गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन च । ब्राह्मीरसार्कजक्षीरगोशकृद्रससंयुतम् ॥ २३ ॥ प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति । पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीः ॥ २४ ॥ ३०.२४ व् पानाद्यैः शीलितं कुष्ठं ३०.२४ व् दुष्टनाडीव्रणापचीः वचाहरीतकीलाक्षाकटुरोहिणिचन्दनैः । तैलं प्रसाधितं पीतं समूलामपचीं जयेत् ॥ २५ ॥ शरपुङ्खोद्भवं मूलं पिष्टं तण्डुलवारिणा । नस्याल्लेपाच्च दुष्टारुर्अपचीविषजन्तुजित् ॥ २६ ॥ मूलैरुत्तमकारण्याः पीलुपर्ण्याः सहाचरात् । सलोध्राभययष्ट्य्आह्वशताह्वाद्वीपिदारुभिः ॥ २७ ॥ ३०.२७ व् मूलैरुत्तमवारुण्याः ३०.२७ व् मूलैरुत्तरवारुण्याः ३०.२७ व् मूलैरुत्तरवारिण्याः तैलं क्षीरसमं सिद्धं नस्येऽभ्यङ्गे च पूजितम् । गोऽव्य्अजाश्वखुरा दग्धाः कटुतैलेन लेपनम् ॥ २८ ॥ ३०.२८ व् गोगजाश्वखुरा दग्धाः ऐङ्गुदेन तु कृष्णाहिर्वायसो वा स्वयं मृतः । इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम् ॥ २९ ॥ ३०.२९ व् इत्यशान्तौ गदे चान्य ३०.२९ व् पार्श्वे जङ्घासमाश्रितम् वस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वाग्निना दहेत् । स्थितस्योर्ध्वं पदं मित्वा तन्मानेन च पार्ष्णितः ॥ ३० ॥ तत ऊर्ध्वं हरेद्ग्रन्थीनित्याह भगवान्निमिः ॥ ३१ ब् ॥ पार्ष्णिं प्रति द्वादश चाङ्गुलानि मुक्त्वेन्द्रवस्तिं च गदान्यपार्श्वे ॥ ३१ द् ॥ विदार्य मत्स्याण्डनिभानि मध्याज्जालानि कर्षेदिति सुश्रुतोक्तिः ॥ ३१ f ॥ आगुल्फकर्णात्सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य । घ्राणार्जवेऽधः सुरराजवस्तेर्भित्त्वाक्षमात्रं त्वपरे वदन्ति ॥ ३२ ॥ ३०.३२ व् घोणार्जवेऽधः सुरराजवस्तेर् ३०.३२ व् भित्त्वाक्षमात्रामपरे वदन्ति उपनाह्यानिलान्नाडीं पाटितां साधु लेपयेत् । प्रत्यक्पुष्पीफलयुतैस्तैलैः पिष्टैः ससैन्धवैः ॥ ३३ ॥ पैत्तीं तु तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः । श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः ॥ ३४ ॥ शल्यजां तिलमध्व्आज्यैर्लेपयेच्छिन्नशोधिताम् । अशस्त्रकृत्यामेषिण्या भित्त्वान्ते सम्यग्एषिताम् ॥ ३५ ॥ क्षारपीतेन सूत्रेण बहुशो दारयेद्गतिम् । व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम् ॥ ३६ ॥ ३०.३६ व् बहुशो पूरयेद्गतिम् या वर्त्यो यानि तैलानि तन्नाडीष्वपि शस्यते । पिष्टं चञ्चुफलं लेपान्नाडीव्रणहरं परम् ॥ ३७ ॥ घोण्टाफलत्वक्लवणं सलाक्षं बूकस्य पत्त्रं वनितापयश्च । स्नुग्अर्कदुग्धान्वित एष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ ३८ ॥ ३०.३८ व् चुक्रस्य पत्त्रं वनितापयश्च ३०.३८ व् वृषस्य पत्त्रं वनितापयश् च सामुद्रसौवर्चलसिन्धुजन्मसुपक्वघोण्टाफलवेश्मधूमाः । आम्रातगायत्रिजपल्लवाश्च कटङ्कटेर्यावथ चेतकी च ॥ ३९ ॥ ३०.३९ व् कटङ्कटेर्यावथ केतकी च ३०.३९ व् कटङ्कटेर्यावथ दीनिका च कल्केऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु । अगतिरिव नश्यति गतिश्चपला चपलेषु भूतिरिव ॥ ४० ॥ ३०.४० व् वर्त्यां चैतेषु सेव्यमानेषु ऊत्तरस्थान स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसंनिभा । पिटिका कफवाताभ्यां बालानामजगल्लिका ॥ १ ॥ ३१.१ व् स्निग्धाः सवर्णा ग्रथिता ३१.१ व् पिटिकाः कफवाताभ्यां ३१.१ व् नीरुजा मुद्गसंमिता ३१.१ व् नीरुजा मुद्गसंनिभाः यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना । अवक्त्रा चालजी वृत्ता स्तोकपूया घनोन्नता ॥ २ ॥ ३१.२ व् यवप्रख्या यवाकारा ३१.२ व् अवक्त्राश्चालजीवृत्ताः ३१.२ व् स्तोकपूया घनोन्नताः ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः । कर्णस्योर्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक् ॥ ३ ॥ ३१.३ व् कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः । हनुसंधिसमुद्भूतस्ताभ्यां पाषाणगर्दभः ॥ ४ ॥ शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः । मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः ॥ ५ ॥ ३१.५ व् ताभ्यां च मुखदूषकाः ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः । चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः ॥ ६ ॥ पित्तेन पिटिका वृत्ता पक्वोदुम्बरसंनिभा । महादाहज्वरकरी विवृता विवृतानना ॥ ७ ॥ गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः । मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः ॥ ८ ॥ ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः । या पद्मकर्णिकाकारा पिटिका पिटिकाचिता ॥ ९ ॥ सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी । मण्डला विपुलोत्सन्ना सरागपिटिकाचिता ॥ १० ॥ कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् । पित्ताद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥ ११ ॥ ३१.११ व् सूक्ष्मा जालोपमा घनाः तादृशी महती त्वेका गन्धनामेति कीर्तिता । घर्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः ॥ १२ ॥ राजीकावर्णसंस्थानप्रमाणा राजिकाह्वयाः । दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत् ॥ १३ ॥ शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः । मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः ॥ १४ ॥ ३१.१४ व् ज्वरिणो मांसदारुणाः ३१.१४ व् ज्वरिणो मांसदारिणः कक्षाभागेषु जायन्ते येऽग्न्य्आभाः साग्निरोहिणी । पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम् ॥ १५ ॥ त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका । विदारीकन्दकठिना विदारी कक्षवङ्क्षणे ॥ १६ ॥ मेदोऽनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः । भिन्नो वसाज्यमध्व्आभं स्रवेत्तत्रोल्बणोऽनिलः ॥ १७ ॥ मांसं विशोष्य ग्रथितां शर्करामुपपादयेत् । दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः ॥ १८ ॥ ३१.१८ व् दुर्गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम् । पाणिपादतले संधौ जत्रूर्ध्वं वोपचीयते ॥ १९ ॥ ३१.१९ व् तां स्रावयन्ति निचिता ३१.१९ व् जत्रूर्ध्वं चोपचीयते वल्मीकवच्छनैर्ग्रन्थिस्तद्वद्बह्व्अणुभिर्मुखैः । रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः ॥ २० ॥ ३१.२० व् रुग्दाहकण्डूक्लेदाढ्यो शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत् ॥ २१ ॥ वेगसंधारणाद्वायुरपानोऽपानसंश्रयम् । अणूकरोति बाह्यान्तर्मार्गमस्य ततः शकृत् ॥ २२ ॥ ३१.२२ व् अपानोऽपानसंश्रयः कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः । कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरम् ॥ २३ ॥ चिप्यमक्षतरोगं च विद्यादुपनखं च तम् । कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः ॥ २४ ॥ ३१.२४ व् विद्यादुपनखं च तत् दुष्टकर्दमसंस्पर्शात्कण्डूक्लेदान्वितान्तराः । अङ्गुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान् ॥ २५ ॥ कृष्णानवेदनांस्त्वक्स्थान्माषांस्तानेव चोन्नतान् । मषेभ्यस्तून्नततरांश्चर्मकीलान् सितासितान् ॥ २६ ॥ तथाविधो जतुमणिः सहजो लोहितस्तु सः । कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम् ॥ २७ ॥ ३१.२७ व् सरुजो लोहितस्तु सः शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु । श्यामलं मण्डलं व्यङ्गं वक्त्रादन्यत्र नीलिका ॥ २८ ॥ परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात् । पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात् ॥ २९ ॥ ३१.२९ व् पित्तात्ताम्रं तथा नीलं ३१.२९ व् श्वेताभं कण्डुमत्कफात् रक्ताद्रक्तान्तमाताम्रं सौषं चिमिचिमायते । वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥ ३० ॥ ३१.३० व् मुखं चिमिचिमायते ततस्त्वग्जायते पाण्दुः क्रमेण च विचेतना । अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥ ३१ ॥ ३१.३१ व् अल्पकण्डूरपक्लेदा असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः । मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च ॥ ३२ ॥ उत्कोठः सोऽनुबद्धस्तु कोठ इत्यभिधीयते । प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः ॥ ३३ ॥ ३१.३३ व् उत्कोठः सोऽनुबन्धस्तु यानविज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥ ३३+(१)अब् ॥ ऊत्तरस्थान विस्रावयेज्जलौकोभिरपक्वामजगल्लिकाम् । स्वेदयित्वा यवप्रख्यां विलयाय प्रलेपयेत् ॥ १ ॥ दारुकुष्ठमनोह्वालैरित्यापाषाणगर्दभात् । विधिस्तांश्चाचरेत्पक्वान् व्रणवत्साजगल्लिकान् ॥ २ ॥ लोध्रकुस्तुम्बुरुवचाः प्रलेपो मुखदूषिके । वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः ॥ ३ ॥ ३२.३ व् लोध्रकुस्तुम्बुरुवचा ३२.३ व् प्रलेपो मुखदूषिके अशान्तौ वमनं नस्यं ललाटे च सिराव्यधः । निम्बाम्बुवान्तो निम्बाम्बुसाधितं पद्मकण्टके ॥ ४ ॥ पिबेत्क्षौद्रान्वितं सर्पिर्निम्बारग्वधलेपनम् ॥ ५ ब् ॥ ३२.५ व् निम्बारग्वधलेपनः विवृतादींस्तु जालान्तांश्चिकित्सेत्सेरिवेल्लिकान् ॥ ५ द् ॥ ३२.५ व् चिकित्सेदिरिवेल्लिकाम् पित्तविसर्पवत्तद्वत्प्रत्याख्यायाग्निरोहिणीम् ॥ ५ f ॥ विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च । धात्रीप्रयोगाञ्छिशिरप्रदेहान् कुर्यात्सदा जालकगर्दभस्य ॥ ६ ॥ ३२.६ व् विरूक्षणं कायविरेचनं च ३२.६ व् धात्रीप्रदेहाञ्छिशिरप्रयोगान् विदारिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत् । मेदोऽर्बुदक्रियां कुर्यात्सुतरां शर्करार्बुदे ॥ ७ ॥ प्रवृद्धं सुबहुच्छिद्रं सशोफं मर्मणि स्थितम् । वल्मीकं हस्तपादे च वर्जयेदितरत्पुनः ॥ ८ ॥ ३२.८ व् वर्जयेदितरं पुनः शुद्धस्यास्रे हृते लिम्पेत्सपट्व्आरेवतामृतैः । श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः ॥ ९ ॥ ३२.९ व् सपट्व्आरग्वधामृतैः पक्वे तु दुष्टमांसानि गतीः सर्वाश्च शोधयेत् । शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा ॥ १० ॥ शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत् । निरुद्धमणिवत्कार्यं रुद्धपायोश्चिकित्सितम् ॥ ११ ॥ ३२.११ व् शस्त्रेणोद्धृत्य निःशेषं चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्मणा । दुष्टं कुनखमप्येवं चरणावलसे पुनः ॥ १२ ॥ धान्याम्लसिक्तौ कासीसपटोलीरोचनातिलैः । सनिम्बपत्त्रैरालिम्पेद्दहेत्तु तिलकालकान् ॥ १३ ॥ मषांश्च सूर्यकान्तेन क्षारेण यदि वाग्निना । तद्वदुत्कृत्य शस्त्रेण चर्मकीलजतूमणी ॥ १४ ॥ लाञ्छनादित्रये कुर्याद्यथासन्नं सिराव्यधम् । लेपयेत्क्षीरपिष्टैश्च क्षीरिवृक्षत्वग्अङ्कुरैः ॥ १५ ॥ ३२.१५ व् न्यच्छादित्रितये कुर्याद् व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका । लेपः सनवनीता वा श्वेताश्वखुरजा मषी ॥ १६ ॥ ३२.१६ व् व्यङ्गेषु वार्जुनत्वग्वा रक्तचन्दनमञ्जिष्ठाकुष्ठलोध्रप्रियङ्गवः । वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥ १७ ॥ द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह । पिष्टाः कुर्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम् ॥ १८ ॥ क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः । मसूराः क्षीरपिष्टा वा तीक्ष्णाः शाल्मलिकण्टकाः ॥ १९ ॥ सगुडः कोलमज्जा वा शशासृक्क्षौद्रकल्कितः । सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनान्वितम् ॥ २० ॥ ३२.२० व् कुष्ठं वा मधुकान्वितम् पिष्टा वा छागपयसा सक्षौद्रा मौसली जटा । गोरस्थि मुसलीमूलयुक्तं वा साज्यमाक्षिकम् ॥ २१ ॥ जम्ब्व्आम्रपल्लवा मस्तु हरिद्रे द्वे नवो गुडः । लेपः सवर्णकृत्पिष्टं स्वरसेन च तिन्दुकम् ॥ २२ ॥ उत्पलमुत्पलकुष्ठं प्रियङ्गुकालीयकं बदरमज्जा । इदमुद्वर्तनमास्यं करोति शतपत्त्रसंकाशम् ॥ २३ ॥ ३२.२३ व् उत्पलपत्त्रं तगरं ३२.२३ व् करोति शतपत्त्रकाकारम् एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत् । यथादोषर्तुकान् स्नेहान्मधुकक्वाथसंयुतैः ॥ २४ ॥ यवान् सर्जरसं लोध्रमुशीरं मदनं मधु । घृतं गुडं च गोमूत्रे पचेदादर्विलेपनात् ॥ २५ ॥ ३२.२५ व् उशीरं चन्दनं मधु तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान् । मुखं करोति पद्माभं पादौ पद्मदलोपमौ ॥ २६ ॥ ३२.२६ व् नीलिकाव्यङ्गदूषकान् कुङ्कुमोशीरकालीयलाक्षायष्ट्य्आह्वचन्दनम् । न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेसरम् ॥ २७ ॥ सनीलोत्पलमञ्जिष्ठं पालिकं सलिलाढके । पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः ॥ २८ ॥ लाक्षापत्तङ्गमञ्जिष्ठायष्टीमधुककुङ्कुमैः । अजाक्षीरं द्विगुणितं तैलस्य कुडवं पचेत् ॥ २९ ॥ ३२.२९ व् अजाक्षीरद्विगुणितं नीलिकापलितव्यङ्गवलीतिलकदूषिकान् । हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत् ॥ ३० ॥ मञ्जिष्ठा शबरोद्भवस्तुबरिका लाक्षा हरिद्राद्वयम् ॥ ३१ ॥ नेपाली हरितालकुङ्कुमगदा गोरोचना गैरिकम् ॥ ३१ ॥ ३२.३१ व् नेपाली हरितालकुङ्कुमगदं गोरोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दनयुगं कालीयकं पारदम् ॥ ३१ ॥ पत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम् ॥ ३१ ॥ सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरिवृक्षाम्बु चाग्नौ । सिद्धं सिद्धं व्यङ्गनील्य्आदिनाशे वक्त्रे छायामैन्दवीं चाशु धत्ते ॥ ३२ ॥ मार्कवस्वरसक्षीरतोयानीष्टानि नावने । प्रसुप्तौ वातकुष्ठोक्तं कुर्याद्दाहं च वह्निना ॥ ३३ ॥ ३२.३३ व् तोयपिष्टानि नावने उत्कोठे कफपित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥ ३३ªअब् ॥ ऊत्तरस्थान स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा । दोषाध्युषितसंकीर्णमलिनाणुरजःपथाम् ॥ १ ॥ ३३.१ व् स्त्रीं व्यवायनिवृत्तस्य अन्ययोनिमन्इच्छन्तीमगम्यां नवसूतिकाम् । दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा ॥ २ ॥ विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः । मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः ॥ ३ ॥ ३३.३ व् विषवल्लूकपातनैः वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैः । दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान् ॥ ४ ॥ ३३.४ व् खरस्पर्शादिघट्टनैः ३३.४ व् खरशष्पादिघट्टनैः जनयन्त्युपदंशादीनुपदंशोऽत्र पञ्चधा । पृथग्दोषैः सरुधिरैः समस्तैश्चात्र मारुतात् ॥ ५ ॥ ३३.५ व् जनयन्त्यवदंशादीन् ३३.५ व् अवदंशोऽत्र पञ्चधा मेढ्रे शोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम् । पक्वोदुम्बरसंकाशः पित्तेन श्वयथुर्ज्वरः ॥ ६ ॥ ३३.६ व् मेढ्रशोफो रुजश्चित्राः श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः । शोणितेनासितस्फोटसंभवोऽस्रस्रुतिर्ज्वरः ॥ ७ ॥ सर्वजे सर्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि । तीव्रा रुगाशुपचनं दरणं कृमिसंभवः ॥ ८ ॥ ३३.८ व् दारणं कृमिसंभवः याप्यो रक्तोद्भवस्तेषां मृत्यवे संनिपातजः । जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः ॥ ९ ॥ अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः । पिच्छिलास्रस्रवा योनौ तद्वच्च च्छत्त्रसंनिभाः ॥ १० ॥ तेऽर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वं भगार्तवम् । गुह्यस्य बहिरन्तर्वा पिटिकाः कफरक्तजाः ॥ ११ ॥ ३३.११ व् मेढ्रपुंस्त्वभगार्तवं ३३.११ व् मेढ्रं पुंसो भगार्तवं सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः । पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः ॥ १२ ॥ सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान् । कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुजा ॥ १३ ॥ ३३.१३ व् जाम्बवास्थिनिभाशुभा अलजीं मेहवद्विद्यादुत्तमां पित्तरक्तजाम् । पिटिकां माषमुद्गाभां पिटिका पिटिकाचिता ॥ १४ ॥ ३३.१४ व् उत्तमां रक्तपित्तजाम् कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा । पाणिभ्यां भृशसंव्यूढे संव्यूढपिटिका भवेत् ॥ १५ ॥ मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः । विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता ॥ १६ ॥ ३३.१६ व् मृदितं मृदितं यत्तु ३३.१६ व् मृदितं मृदितं वस्तु ३३.१६ व् संरब्धं वातकोपतः विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम् । निवर्तते सरुग्दाहं क्वचित्पाकं च गच्छति ॥ १७ ॥ ३३.१७ व् क्वचित्पाकं न गच्छति पिण्डितं ग्रन्थितं चर्म तत्प्रलम्बमधो मणेः । निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत् ॥ १८ ॥ ३३.१८ व् पिण्डितं ग्रन्थितं तच्च ३३.१८ व् विप्रलम्बमधो मणेः ३३.१८ व् प्रविलम्बमधो मणेः दुर्ऊढं स्फुटितं चर्म निर्दिष्टमवपाटिका । वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥ १९ ॥ ३३.१९ व् दुःसहं स्फुटितं चर्म ३३.१९ व् मणौ सक्तं रुणद्धि तत् स्रोतो मूत्रं ततोऽभ्येति मन्दधारमवेदनम् । मणेर्विकाशरोधश्च स निरुद्धमणिर्गदः ॥ २० ॥ लिङ्गं शूकैरिवापूर्णं ग्रथिताख्यं कफोद्भवम् । शूकदूषितरक्तोत्था स्पर्शहानिस्तद्आह्वया ॥ २१ ॥ छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम् । वातशोणितकोपेन तं विद्याच्छतपोनकम् ॥ २२ ॥ पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान् । मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः ॥ २३ ॥ सरागैरसितैः स्फोटैः पिटिकाभिश्च पीडितम् । मेहनं वेदना चोग्रा तं विद्यादसृग्अर्बुदम् ॥ २४ ॥ मांसार्बुदं प्रागुदितं विद्रधिश्च त्रिदोषजः । कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥ २५ ॥ पक्वानि संनिपातेन तान् विद्यात्तिलकालकान् । मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान् ॥ २६ ॥ चतुरो वर्जयेदेषां शेषाञ्छीघ्रमुपाचरेत् । विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात् ॥ २७ ॥ विषमस्थाङ्गशयनभृशमैथुनसेवनैः । दुष्टार्तवादपद्रवैर्बीजदोषेण दैवतः ॥ २८ ॥ ३३.२८ व् दुष्टार्तवादुपद्रवैर् योनौ क्रुद्धोऽनिलः कुर्याद्रुक्तोदायामसुप्तताः । पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम् ॥ २९ ॥ ३३.२९ व् पिपीलिकागतिमिव फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्रुतिम् । स्रंसं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च ॥ ३० ॥ ३३.३० व् ऊरुवङ्क्षणपार्श्वादौ ३३.३० व् भृशं वङ्क्षणपार्श्वादौ तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता । सैवातिचरणा शोफसंयुक्तातिव्यवायतः ॥ ३१ ॥ ३३.३१ व् तांस्तांश्च स्वगदान् व्यापद् ३३.३१ व् तांस्तान् स्वांस्स्वान् गदान् व्यापद् मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम् । रुजन् संदूषयेद्योनिं वायुः प्राक्चरणेति सा ॥ ३२ ॥ वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः । सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति ॥ ३३ ॥ ३३.३३ व् वेगेनावर्तनाद्योनिं ३३.३३ व् उदावर्तं विमुञ्चति ३३.३३ व् उदावर्त्य विमुञ्चति इयं व्यापदुदावृत्ता जातघ्नी तु यदानिलः । जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम् ॥ ३४ ॥ ३३.३४ व् इयं व्यापदुदावर्ता अत्य्आशिताया विषमं स्थितायाः सुरते मरुत् । अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ॥ ३५ ॥ सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा । वातलाहारसेविन्यां जनन्यां कुपितोऽनिलः ॥ ३६ ॥ ३३.३६ व् रुजं वक्रमुखीति सा स्त्रियो योनिमणुद्वारां कुर्यात्सूचीमुखीति सा । वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसंग्रहम् ॥ ३७ ॥ करोति योनेः शोषं च शुष्काख्या सातिवेदना । षड्अहात्सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत् ॥ ३८ ॥ वमेत्सरुङ्नीरुजो वा यस्याः सा वामिनी मता । योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः ॥ ३९ ॥ ३३.३९ व् वमेत्सरुङ्नीरुजो वा ह्य् ३३.३९ व् यस्यां सा वामिनी मता ३३.३९ व् अस्यां सा वामिनी मता नृद्वेषिण्यस्तनी च स्यात्षण्ढसंज्ञान्उपक्रमा । दुष्टो विष्टभ्य योन्य्आस्यं गर्भकोष्ठं च मारुतः ॥ ४० ॥ कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम् । उत्सन्नमांसां तामाहुर्महायोनिं महारुजाम् ॥ ४१ ॥ यथास्वैर्दूषणैर्दुष्टं पित्तं योनिमुपाश्रितम् । करोति दाहपाकोषापूतिगन्धिज्वरान्विताम् ॥ ४२ ॥ ३३.४२ व् पूतिगन्धज्वरान्विताम् ३३.४२ व् पूतिगन्धां ज्वरान्विताम् भृशोष्णभूरिकुणपनीलपीतासितार्तवाम् । सा व्यापत्पैत्तिकी रक्तयोन्य्आख्यासृग्अतिस्रुतेः ॥ ४३ ॥ कफोऽभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम् । शीतलां कण्डुलां पाण्डुपिच्छिलां तद्विधस्रुतिम् ॥ ४४ ॥ सा व्यापच्छ्लैष्मिकी वातपित्ताभ्यां क्षीयते रजः । सदाहकार्श्यवैवर्ण्यं यस्याः सा लोहितक्षया ॥ ४५ ॥ ३३.४५ व् यस्यां सा लोहितक्षया पित्तलाया नृसंवासे क्षवथूद्गारधारणात् । पित्तयुक्तेन मरुता योनिर्भवति दूषिता ॥ ४६ ॥ शूना स्पर्शासहा सार्तिर्नीलपीतास्रवाहिनी । वस्तिकुक्षिगुरुत्वातीसारारोचककारिणी ॥ ४७ ॥ श्रोणिवङ्क्षणरुक्तोदज्वरकृत्सा परिप्लुता । वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी ॥ ४८ ॥ उपप्लुता स्मृता योनिर्विप्लुताख्या त्वधावनात् । संजातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया ॥ ४९ ॥ अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्छितः । कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम् ॥ ५० ॥ सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः । यथास्वोपद्रवकरैर्व्यापत्सा सांनिपातिकी ॥ ५१ ॥ इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति । ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान् ॥ ५२ ॥ असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः ॥ ५२ªअब् ॥ ३३.५२ªब्व् आबाधाश्चानिलादिभिः ऊत्तरस्थान मेढ्रमध्ये सिरां विध्येदुपदंशे नवोत्थिते । शीतां कुर्यात्क्रियां शुद्धिं विरेकेण विशेषतः ॥ १ ॥ ३४.१ व् अवदंशे नवोत्थिते तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते । जम्ब्व्आम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥ २ ॥ शल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः । त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले ॥ ३ ॥ स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् । तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः ॥ ४ ॥ ३४.४ व् स क्वाथः क्षालने तेन हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः । लेपः क्षौद्रद्रुतैः सूक्ष्मैरुपदंशव्रणापहः ॥ ५ ॥ ३४.५ व् अवदंशव्रणापहः कपाले त्रिफला दग्धा सघृता रोपणं परम् । सामान्यं साधनमिदं प्रतिदोषं तु शोफवत् ॥ ६ ॥ न च याति यथा पाकं प्रयतेत तथा भृशम् । पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः ॥ ७ ॥ अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् । सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत् ॥ ८ ॥ ३४.८ व् क्रिया कार्यावदंशवत् ३४.८ व् सर्षपां लिखितां सूक्ष्मैः तैरेवाभ्यञ्जनं तैलं साधयेद्व्रणरोपणम् । क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः ॥ ९ ॥ कुम्भीकायां हरेद्रक्तं पक्वायां शोधिते व्रणे । तिन्दुकत्रिफलालोध्रैर्लेपस्तैलं च रोपणम् ॥ १० ॥ अलज्यां स्रुतरक्तायामयमेव क्रियाक्रमः । उत्तमाख्यां तु पिटिकां संछिद्य बडिशोद्धृताम् ॥ ११ ॥ कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत् । क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर्हितः ॥ १२ ॥ त्वक्पाके स्पर्शहान्यां च सेचयेद्मृदितं पुनः । बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् ॥ १३ ॥ ३४.१३ व् त्वक्पाके स्पर्शहान्यौ वा अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत् । निवृत्तं सर्पिषाभ्यज्य स्वेदयित्वोपनाहयेत् ॥ १४ ॥ त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वणादिभिः । स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् ॥ १५ ॥ ३४.१५ व् स्निग्धं चर्म समाहरेत् मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम् । मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते ॥ १६ ॥ अयमेव प्रयोज्यः स्यादवपाट्यामपि क्रमः । नाडीमुभयतोद्वारां निरुद्धे जतुना सृताम् ॥ १७ ॥ ३४.१७ व् निरुद्धे जतुना शृताम् ३४.१७ व् निरुद्धे जतुना कृताम् स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत्स्नेहैश्चलापहैः । त्र्य्अहात्त्र्य्अहात्स्थूलतरां न्यस्य नाडीं विवर्धयेत् ॥ १८ ॥ स्रोतोद्वारमसिद्धौ तु विद्वान् शस्त्रेण पाटयेत् । सेवनीं वर्जयन् युञ्ज्यात्सद्यःक्षतविधिं ततः ॥ १९ ॥ ३४.१९ व् स्रोतोद्वारमसिद्धौ वा ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत् । लिम्पेत्कषायैः सक्षौद्रैर्लिखित्वा शतपोनकम् ॥ २० ॥ रक्तविद्रधिवत्कार्या चिकित्सा शोणितार्बुदे । व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् ॥ २१ ॥ योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् । स्नेहनस्वेदवस्त्य्आदि वातजासु विशेषतः ॥ २२ ॥ न हि वातादृते योनिर्वनितानां प्रदुष्यति । अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् ॥ २३ ॥ ३४.२३ व् अतोऽजित्वा तमन्यच्च ३४.२३ व् अतोऽजित्वा तमन्यस्य ३४.२३ व् न कुर्याद्दोषभेषजम् पाययेत बलातैलं मिश्रकं सुकुमारकम् । स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम् ॥ २४ ॥ ३४.२४ व् पाययेच्च बलातैलं ३४.२४ व् पाययेत्तां बलातैलं ३४.२४ व् पाययेद्वा बलातैलं पाणिना नमयेज्जिह्मां संवृतां व्यधयेत्पुनः । प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् ॥ २५ ॥ ३४.२५ व् पाणिना नामयेज्जिह्मां ३४.२५ व् पाणिनोन्नमयेज्जिह्मां ३४.२५ व् संवृतां व्यासयेत्पुनः स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता । कर्मभिर्वमनाद्यैश्च मृदुभिर्योजयेत्स्त्रियम् ॥ २६ ॥ ३४.२६ व् स्थानापवर्ता योनिर्हि सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते । वस्त्य्अभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥ २७ ॥ ३४.२७ व् सर्वतस्तु विशुद्धायाः काश्मर्यत्रिफलाद्राक्षाकासमर्दनिशाद्वयैः । गुडूचीसैर्यकाभीरुशुकनासापुनर्नवैः ॥ २८ ॥ ३४.२८ व् गुडूचीगैरिकाभीरु परूषकैश्च विपचेत्प्रस्थमक्षसमैर्घृतात् । योनिवातविकारघ्नं तत्पीतं गर्भदं परम् ॥ २९ ॥ ३४.२९ व् परूषकैश्च विपचेद् ३४.२९ व् प्रस्थमक्षसमैर्घृतम् ३४.२९ व् अक्षैः प्रस्थसमं घृतम् वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम् । अजमोदायवक्षारशर्कराचित्रकान्वितम् ॥ ३० ॥ पिष्ट्वा प्रसन्नयालोड्य खादेत्तद्घृतभर्जितम् । योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ ३१ ॥ ३४.३१ व् गुल्मार्शोऽर्तिनिवृत्तये वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् । पिबेन्मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके ॥ ३२ ॥ ३४.३२ व् वृषस्य मातुलुङ्गस्य ३४.३२ व् तथा कृष्णोपकुञ्चिका रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः । गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥ ३३ ॥ नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः । तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ॥ ३४ ॥ पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः । शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च ॥ ३५ ॥ ३४.३५ व् पित्तलानां च योनीनां शतावरीमूलतुलाचतुष्कात्क्षुण्णपीडितात् । रसेन क्षीरतुल्येन पाचयेत घृताढकम् ॥ ३६ ॥ जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः । पिष्टैः प्रियालैश्चाक्षांशैर्द्विबलामधुकान्वितैः ॥ ३७ ॥ ३४.३७ व् मधुकर्द्धिबलान्वितैः सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम् । शर्कराया दशपलं क्षिपेल्लिह्यात्पिचुं ततः ॥ ३८ ॥ योन्य्असृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम् । क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम् ॥ ३९ ॥ ३४.३९ व् क्षतक्षयमसृक्पित्तं कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम् । अपस्मारार्दितायाममदोन्मादांश्च नाशयेत् ॥ ४० ॥ ३४.४० व् अपस्मारार्दितायामान् ३४.४० व् मदोन्मादांश्च नाशयेत् एवमेव पयःसर्पिर्जीवनीयोपसाधितम् । गर्भदं पित्तजानां च रोगाणां परमं हितम् ॥ ४१ ॥ बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत् । क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः ॥ ४२ ॥ जीवन्तीक्षीरकाकोलीस्थिरावीरर्द्धिजीवकैः । पयस्याश्रावणीमुद्गपीलुमाषाख्यपर्णिभिः ॥ ४३ ॥ ३४.४३ व् स्थिरावीरर्द्धिजीरकैः ३४.४३ व् स्थिरावीराद्विजीवकैः ३४.४३ व् पीलुमाषाखुकर्णिभिः वातपित्तामयान् हत्वा पानाद्गर्भं दधाति तत् । रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च ॥ ४४ ॥ ३४.४४ व् पानाद्गर्भं ददाति तत् यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम् । पाठां जम्ब्व्आम्रयोरस्थि शिलोद्भेदं रसाञ्जनम् ॥ ४५ ॥ मञ्जिष्ठागुरुकट्फलमुस्तप्रियङ्गुमिशिकुष्ठैः । कट्वङ्गकुटजशाबरककुभत्वङ्मधुकपद्मकमधूकैः ॥ ४५.१+१ ॥ ३४.४५.१+१ व् मञ्जिष्ठामधुकट्फल कुङ्कुमबिल्वातिविषामाक्षीकरसाञ्जनैः सकिञ्जल्कैः । पिष्टैर्घृतं विपक्वं द्विगुणाजक्षीरसंयुक्तम् ॥ ४५.१+२ ॥ स्त्रीणामपत्यजननं योनिरुजादोषजित्सदा युञ्ज्यात् । उत्तरवस्तिषु सर्पिर्योज्यं कल्याणकं नाम ॥ ४५.१+३ ॥ अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम् । बाह्लीकबिल्वातिविषालोध्रतोयदगैरिकम् ॥ ४६ ॥ ३४.४६ व् समङ्गां वत्सकत्वचाम् शुण्ठीमधूकमाचीकरक्तचन्दनकट्फलम् । कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ॥ ४७ ॥ ३४.४७ व् शुण्ठीमधुकमाचीक ३४.४७ व् शुण्ठीमधुकमाध्वीक ३४.४७ व् शुण्ठीमधुकमार्द्वीक ३४.४७ व् शुण्ठीमधुकमार्द्वीका ३४.४७ व् शुण्ठीमधूकमृद्वीका ३४.४७ व् धातकीमधुकाञ्जनम् पुष्ये गृहीत्वा संचूर्ण्य सक्षौद्रं तण्डुलाम्भसा । पिबेदर्शःस्वतीसारे रक्तं यश्चोपवेश्यते ॥ ४८ ॥ ३४.४८ व् सक्षौद्रं तण्डुलाम्बुना दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत् । योनिदोषं रजोदोषं श्यावश्वेतारुणासितम् ॥ ४९ ॥ ३४.४९ व् दोषा दन्तकृता ये च चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् । योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम् ॥ ५० ॥ धातक्य्आमलकीपत्त्रस्रोतोजमधुकोत्पलैः । जम्ब्व्आम्रसारकासीसलोध्रकट्फलतिन्दुकैः ॥ ५१ ॥ सौराष्ट्रिकादाडिमत्वग्उदुम्बरशलाटुभिः । अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ॥ ५२ ॥ तैलप्रस्थं तदभ्यङ्गपिचुवस्तिषु योजयेत् । तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ॥ ५३ ॥ ३४.५३ व् शूनोत्तानोन्नता स्तब्धा विप्लुतोपप्लुता योनिः सिध्येत्सस्फोटशूलिनी । यवान्नमभयारिष्टं सीधु तैलं च शीलयेत् ॥ ५४ ॥ ३४.५४ व् सिध्येत स्फोटशूलिनी पिप्पल्य्अयोरजःपथ्याप्रयोगांश्च समाक्षिकान् । कासीसं त्रिफला काङ्क्षी साम्रजम्ब्व्अस्थि धातकी ॥ ५५ ॥ ३४.५५ व् कासीसं त्रिफला काच्छी पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः । पलाशधातकीजम्बूसमङ्गामोचसर्जजः ॥ ५६ ॥ दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते । आरग्वधादिवर्गस्य कषायः परिषेचनम् ॥ ५७ ॥ ३४.५७ व् कषायः परिषेचने स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम् । धारणं वेसवारस्य कृशरापायसस्य च ॥ ५८ ॥ दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा । चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः ॥ ५९ ॥ ३४.५९ व् पूतिगन्ध्य्अपकर्षणः श्लेष्मलानां कटुप्रायाः समूत्रा वस्तयो हिताः । पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः ॥ ६० ॥ संनिपातसमुत्थायाः कर्म साधारणं हितम् । एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ॥ ६१ ॥ ३४.६१ व् संनिपातसमुत्थायां ३४.६१ व् गर्भो भवति योषिताम् चन्दनो नतयोशीरतिक्तापद्मेभकेसरैः । कुटजत्वक्फलं मुस्तं जम्ब्व्आम्रास्थि रसाञ्जनम् ॥ ६१.१+१ ॥ ३४.६१.१+१ व् तिक्तापद्मेभकेसरम् पद्मकोत्पलबिल्वाब्दकट्फलैः साधिता निशा । धातक्य्अतिविषामांसीपाठामोचरसोदकम् ॥ ६१.१+२ ॥ मधूकं मधुकानन्ताशारिवादाडिम[त्व]चम् । मृल्लोध्रार्जुनशैलेयसमङ्गा नागराः समाः ॥ ६१.१+३ ॥ चूर्णं श्रेष्ठाम्बुना पीतं हन्ति लोहितमेहिनम् । मूर्छातृष्णाज्वरार्ताय रक्तातीसारमेहिनाम् ॥ ६१.१+४ ॥ स्त्रीणामसृग्दरं याति गर्भसंस्थापनं परम् ॥ ६१.१+५ ब् ॥ अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति । पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् ॥ ६२ ॥ परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत् । मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः ॥ ६३ ॥ रसं शिरीषपत्त्राणां कल्कं च षड्अहः पिबेत् । क्षीरोपनाशिना योषिदृतुस्नाता सुतार्थिनी ॥ ६३.१+१ ॥ द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम् । पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः ॥ ६४ ॥ ३४.६४ व् द्वे निशे मधुकं मेदा ३४.६४ व् दीप्यकः कटुरोहिणी ३४.६४ व् पयस्या हिङ्गु काकोली ३४.६४ व् वाजिगन्धा शतावरी पिष्ट्वाक्षांशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम् । योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते ॥ ६५ ॥ ३४.६५ व् पिष्ट्वाक्षांशैर्घृतप्रस्थं ३४.६५ व् पचेत्क्षीरं चतुर्गुणम् ३४.६५ व् पचेत्क्षीरे चतुर्गुणे ३४.६५ व् तत्सर्वेषु च शस्यते आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम् । फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत् ॥ ६६ ॥ म्रियमाणप्रजानां च गर्भिणीनां च पूजितम् । एतत्परं च बालानां ग्रहघ्नं देहवर्धनम् ॥ ६७ ॥ ऊत्तरस्थान मथ्यमाने जलनिधावमृतार्थं सुरासुरैः । जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ॥ १ ॥ दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः । जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः ॥ २ ॥ ३५.२ व् हरित्केशोऽनलेक्षणः ३५.२ व् तेनासौ विषसंज्ञकः हुङ्कृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे । सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम् ॥ ३ ॥ ३५.३ व् हुङ्कृतो ब्रह्मणा मूर्तस् ३५.३ व् हुङ्कृतो ब्रह्मणा मूर्तीस् ३५.३ व् ततः स्थावरजङ्गमम् ३५.३ व् ततः स्थावरजङ्गमम् ३५.३ व् ततः स्थावरजङ्गमात् ३५.३ व् ततः स्थावरजङ्गमाः ३५.३ व् उज्झित्वा वञ्चनात्मकः स्थिरमित्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम् । कालकूटेन्द्रवत्साख्यशृङ्गीहालाहलादिकम् ॥ ४ ॥ सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम् । स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम् ॥ ५ ॥ कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः । हन्ति योगवशेनाशु चिराच्चिरतराच्च तत् ॥ ६ ॥ शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा । तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु ॥ ७ ॥ ३५.७ व् दुर्नामादीन् करोति च विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च । ओजसो विपरीतं तत्तीक्ष्णाद्यैरन्वितं गुणैः ॥ ८ ॥ ३५.८ व् विकाशि सूक्ष्ममव्यक्त ३५.८ व् विकासि सूक्ष्ममव्यक्त ३५.८ व् रसैर्युक्तमपाकि च ३५.८ व् ओजसो विपरीतं तु वातपित्तोत्तरं नॄणां सद्यो हरति जीवितम् । विषं हि देहं संप्राप्य प्राग्दूषयति शोणितम् ॥ ९ ॥ कफपित्तानिलांश्चानु समं दोषान् सहाशयान् । ततो हृदयमास्थाय देहोच्छेदाय कल्पते ॥ १० ॥ ३५.१० व् समदोषं सहाशयान् ३५.१० व् समं दोषान् सहायवत् ३५.१० व् समदोषं सहायवत् ३५.१० व् समदोषं सहाश्रयम् ३५.१० व् देहच्छेदाय कल्पते स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते । जिह्वायाः श्यावता स्तम्भो मूर्छा त्रासः क्लमो वमिः ॥ ११ ॥ ३५.११ व् वेगः पूर्वं प्रजायते ३५.११ व् वेगे पूर्वे च जायते द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना । विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥ १२ ॥ तालुशोषस्तृतीये तु शूलं चामाशये भृशम् । दुर्बले हरिते शूने जायेते चास्य लोचने ॥ १३ ॥ ३५.१३ व् दुर्वर्णे हरिते शूने ३५.१३ व् दुर्वर्णे हरिते शून्ये पक्वाशयगते तोदहिध्माकासान्त्रकूजनम् । चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥ १४ ॥ ३५.१४ व् पक्वाशयगते तोदो ३५.१४ व् हिध्मा कासान्त्रकूजनम् कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे । सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ॥ १५ ॥ षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते । स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे ॥ १६ ॥ प्रथमे विषवेगे तु वान्तं शीताम्बुसेचिनम् । सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद्द्रुतम् ॥ १७ ॥ ३५.१७ व् प्रथमे विषवेगेऽथ द्वितीये पूर्ववद्वान्तं विरिक्तं चानुपाययेत् । तृतीयेऽगदपानं तु हितं नस्यं तथाञ्जनम् ॥ १८ ॥ चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत् । पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम् ॥ १९ ॥ षष्ठेऽतीसारवद्सिद्धिरवपीडश्तु सप्तमे । मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ॥ २० ॥ ३५.२० व् अवपीडश्च सप्तमे कोशातक्यग्निकः पाठा सूर्यवल्ल्य्अमृताभयाः । शेलुः शिरीषः किणिही हरिद्रे क्षौद्रसाह्वया ॥ २१ ॥ ३५.२१ व् सूर्यवल्ल्यमृताभया ३५.२१ व् हरिद्रे क्षौद्रसाह्वयम् पुनर्नवे त्रिकटुकं बृहत्यौ शारिवे बला । एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम् ॥ २२ ॥ ३५.२२ व् पुनर्नवा त्रिकटुकं ३५.२२ व् बृहत्यौ शारिवे बले युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः । तद्वन्मधूकमधुकपद्मकेसरचन्दनैः ॥ २३ ॥ अञ्जनं तगरं कुष्ठं हरितालं मनःशिला । फलिनी त्रिकटु स्पृक्का नागपुष्पं सकेसरम् ॥ २४ ॥ हरेणुर्मधुकं मांसी रोचना काकमालिका । श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला ॥ २५ ॥ ३५.२५ व् रोचना कालमालिका ३५.२५ व् रोचना कालमञ्जिका तमालपत्त्रतालीशभूर्जोशीरनिशाद्वयम् । कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः ॥ २६ ॥ ३५.२६ व् तमालपत्त्रं तालीशं ३५.२६ व् भूर्जोशीरं निशाद्वयम् ३५.२६ व् शुक्लवासा मधुप्लुतैः द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम् । वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम् ॥ २७ ॥ ३५.२७ व् द्विजानभ्यर्च्य पुष्यर्क्षे ३५.२७ व् वैद्यश्चाशु तदा मन्त्रं नमः पुरुषसिंहाय नमो नारायणाय च । यथासौ नाभिजानाति रणे कृष्णपराजयम् ॥ २८ ॥ ३५.२८ व् रणे कृष्णः पराजयम् एतेन सत्यवाक्येन अगदो मे प्रसिध्यतु । नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्वविषेभ्यः ॥ २९ ॥ ३५.२९ व् हुलु कुलु रक्ष मां सर्वविषेभ्यः गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥ ३० ब् ॥ ३५.३० व् गौरि गान्धारि चण्डालि मातङ्गि स्वाहा हरिमायि स्वाहा ॥ ३० ॥ ३५.३० व् हारितमायि स्वाहा अशेषविषवेतालग्रहकार्मणपाप्मसु । मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च ॥ ३१ ॥ पाननस्याञ्जनालेपमणिबन्धादियोजितः । एष चन्द्रोदयो नाम शान्तिस्वस्त्य्अयनं परम् ॥ ३२ ॥ ३५.३२ व् शान्तिः स्वस्त्य्अयनं परम् वासवो वृत्रमवधीत्समालिप्तः किलामुना ॥ ३२+(१)अब् ॥ ३५.३२+(१)ब्व् समालिप्तोऽमुना किल जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा । स्वभावतो वा न गुणैः सुयुक्तं दूषीविषाख्यां विषमभ्युपैति ॥ ३३ ॥ ३५.३३ व् स्वभावतो वा सुगुणैर्न युक्तं ३५.३३ व् स्वभावतो वा स्वगुणैर् न युक्तं ३५.३३ व् दूषीविषाख्यं विषमभ्युपैति वीर्याल्पभावादविभाव्यमेतत्कफावृतं वर्षगणानुबन्धि । तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृड्अरोचकार्तः ॥ ३४ ॥ मूर्छन् वमन् गद्गदवाग्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः । आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी ॥ ३५ ॥ भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः । स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान् ॥ ३६ ॥ प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः । दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम् ॥ ३७ ॥ ३५.३७ व् दुष्टं दूषयते धातुं ३५.३७ व् ततो दूषीविषं स्मृतम् दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् । दूषीविषारिमगदं लेहयेन्मधुनाप्लुतम् ॥ ३८ ॥ पिप्पल्यो ध्यामकं मांसी लोध्रमेला सुवर्चिका । कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम् ॥ ३९ ॥ दूषीविषारिर्नाम्नायं न चान्यत्रापि वार्यते । विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः ॥ ४० ॥ विवर्णभावं भजते विषादं चाशु गच्छति । कीटैरिवावृतं चास्य गात्रं चिमिचिमायते ॥ ४१ ॥ श्रोणिपृष्ठशिरःस्कन्धसंधयः स्युः सवेदनाः । कृष्णदुष्टास्रविस्रावी तृण्मूर्छाज्वरदाहवान् ॥ ४२ ॥ दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात् । आरक्तपीतपर्य्अन्तः श्यावमध्योऽतिरुग्व्रणः ॥ ४३ ॥ शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम् । प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम् ॥ ४४ ॥ कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम् । शल्यमाकृष्य तप्तेन लोहेनानु दहेद्व्रणम् ॥ ४५ ॥ अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः । शिरीषाद्गृध्रनख्याश्च क्षारेण प्रतिसारयेत् ॥ ४६ ॥ शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत् । कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः ॥ ४७ ॥ व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत् । सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वारतिचोदिताः ॥ ४८ ॥ ३५.४८ व् राज्ञे चारतिचोदिताः गरमाहारसंपृक्तं यच्छन्त्यासन्नवर्तिनः । नानाप्राण्य्अङ्गशमलविरुद्धौषधिभस्मनाम् ॥ ४९ ॥ ३५.४९ व् नानाप्राण्य्अङ्गसमल विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः । तेन पाण्दुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः ॥ ५० ॥ ३५.५० व् विषाणां मन्दवीर्याणां वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः । महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः ॥ ५१ ॥ ३५.५१ व् मेहोदरयकृत्प्लीही ३५.५१ व् हीनवाग्दुर्बलोऽलसः शोफवान् सतताध्मातः शुष्कपादकरः क्षयी । स्वप्ने गोमायुमार्जारनकुलव्यालवानरान् ॥ ५२ ॥ प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान् । मन्यते कृष्णमात्मानं गौरो गौरं च कालकः ॥ ५३ ॥ विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः । एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः ॥ ५४ ॥ ३५.५४ व् पश्येत्तु विहतेन्द्रियः गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः । गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम् ॥ ५५ ॥ शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन् । शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः ॥ ५६ ॥ ३५.५६ व् सूत्रस्थानविधिं स्मरन् लेहः प्रशमयन्त्युग्रं सर्वयोगकृतं विषम् । मूर्वामृतानतकणापटोलीचव्यचित्रकान् ॥ ५७ ॥ वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः । पिबेद्रसेन वाम्लेन गरोपहतपावकः ॥ ५८ ॥ ३५.५८ व् पिबेद्रसेन चाम्लेन पारावतामिषशठीपुष्कराह्वशृतं हिमम् । गरतृष्णारुजाकासश्वासहिध्माज्वरापहम् ॥ ५९ ॥ ३५.५९ व् पुष्कराह्वं शृतं हिमम् त्र्य्ऊषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम् । सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥ ५९+१ ॥ मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् । तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं योजयेत्तथा ॥ ५९+२ ॥ विषं भुक्तं जरां याति निर्विषेऽपि न दोषकृत् । लाक्षाप्रियङ्गुमञ्जिष्ठाः समृणालहरेणुकाः ॥ ५९+३ ॥ सयष्ट्य्आह्वा मधुयुता बस्तपित्तेन कल्पिताः । निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ॥ ५९+४ ॥ तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टं सविषं तेन सद्यो भवति निर्विषम् ॥ ५९+५ ॥ विषप्रकृतिकालान्नदोषदूष्यादिसंगमे । विषसंकटमुद्दिष्टं शतस्यैकोऽत्र जीवति ॥ ६० ॥ क्षुत्तृष्णाघर्मदौर्बल्यक्रोधशोकभयश्रमैः । अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः ॥ ६१ ॥ तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितैः । हस्तिमूषिकवादित्रनिःस्वनैर्विषसंकटैः ॥ ६२ ॥ ३५.६२ व् भूबाष्पघनगर्जनैः पुरोवातोत्पलामोदमदनैर्वर्धते विषम् । वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम् ॥ ६३ ॥ ३५.६३ व् वर्षासु वाम्बुयोनित्वात् विसर्पति घनापाये तदगस्त्यो हिनस्ति च । प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनात्यये ॥ ६४ ॥ इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम् । आलोच्य निपुणं बुद्ध्या कर्मान्अन्तरमाचरेत् ॥ ६५ ॥ श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः । कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम् ॥ ६६ ॥ पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः । कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः ॥ ६७ ॥ वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः । सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः ॥ ६८ ॥ ३५.६८ व् स्निग्धाम्ललवणायुतैः नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम् । सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ॥ ६९ ॥ विद्यते भेषजं किञ्चिद्विशेषात्प्रबलेऽनिले । अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रयम् ॥ ७० ॥ ३५.७० व् अयत्नाच्छ्लैष्मिकं साध्यं ३५.७० व् अयत्नाच्छ्लेष्मकं साध्यं ३५.७० व् यत्नात्पित्ताशयाश्रितम् सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम् ॥ ७०ªअब् ॥ जतुसर्जरसोशीरसर्षपापत्त्रवालकैः । सवैल्लारुष्करपुरैः कुसुमैरर्जुनस्य च ॥ ७०ª+१ ॥ ३५.७०ª+१ व् सवैल्लपुष्करपुरैः धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः ॥ ७०ª+२ ॥ न कृत्याः कार्मणाद्याश्च धूपोऽयं यत्र दह्यते ॥ ७०ª+३ ब् ॥ ऊत्तरस्थान दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः । त्रिधा समासतो भौमा भिद्यन्ते ते त्वनेकधा ॥ १ ॥ व्यासतो योनिभेदेन नोच्यन्तेऽन्उपयोगिनः । विशेषाद्रूक्षकटुकमम्लोष्णं स्वादुशीतलम् ॥ २ ॥ ३६.२ व् नोच्यन्तेऽन्उपयोगतः विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम् । तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च ॥ ३ ॥ विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसंधिषु । रथाङ्गलाङ्गलच्छत्त्रस्वस्तिकाङ्कुशधारिणः ॥ ४ ॥ फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः । ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः ॥ ५ ॥ ३६.५ व् सर्पा दर्वीकरा मताः प्रांशवो मन्दगमना राजीमन्तस्तु राजिभिः । स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः ॥ ६ ॥ ३६.६ व् राजीमन्तश्च राजिभिः ३६.६ व् स्निग्धाभिर्बहुवर्णाभिस् गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः । चतुष्पाद्व्यन्तरान् विद्यादेतेषामेव संकरात् ॥ ७ ॥ ३६.७ व् गोधासुतस्तु गौधेयो व्यामिश्रलक्षणास्ते हि संनिपातप्रकोपणाः । आहारार्थं भयात्पादस्पर्शादतिविषात्क्रुधः ॥ ८ ॥ पापवृत्तितया वैराद्देवर्षियमचोदनात् । दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् ॥ ९ ॥ ३६.९ व् पापवृत्ततया वैराद् ३६.९ व् देवर्षियमनोदनात् आदिष्टात्कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम् । व्यन्तरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति ॥ १० ॥ ३६.१० व् आविष्टात्कारणं ज्ञात्वा ३६.१० व् मार्गमावृत्य तिष्ठति यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते । न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत् ॥ ११ ॥ ३६.११ व् मात्रं गात्रेषु दृश्यते ३६.११ व् न तु दंष्ट्राक्षतं दंशं ३६.११ व् न तु दंष्ट्राक्षतं दंशे ३६.११ व् तं तुण्डाहतमादिशेत् एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम् । दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥ १२ ॥ ३६.१२ व् व्यालुप्तं त्रीणि तानि च मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम् । दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम् ॥ १३ ॥ निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत् । विषं नाहेयमप्राप्य रक्तं दूषयते वपुः ॥ १४ ॥ रक्तमण्वपि तु प्राप्तं वर्धते तैलमम्बुवत् । भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः ॥ १५ ॥ ३६.१५ व् रक्तमण्वपि तत्प्राप्तं ३६.१५ व् वर्धते तैलबिन्दुवत् कदाचित्कुरुते शोफं सर्पाङ्गाभिहतं तु तत् । दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया ॥ १६ ॥ ३६.१६ व् दुर्गेऽन्धकारे विद्धस्य विषोद्वेगो ज्वरश्छर्दिर्मूर्छा दाहोऽपि वा भवेत् । ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते ॥ १७ ॥ ३६.१७ व् विषवेगाज्ज्वरश्छर्दिर् ३६.१७ व् विषोद्रेको ज्वरश्छर्दिर् ३६.१७ व् विषोद्वेगाज्ज्वरश्छर्दिर् तुद्यते सविषो दंशः कण्डूशोफरुजान्वितः । दह्यते ग्रथितः किञ्चिद्विपरीतस्तु निर्विषः ॥ १८ ॥ ३६.१८ व् तुद्यते विषजो दंशः पूर्वे दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक् । श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥ १९ ॥ ३६.१९ व् दुष्टं श्यावं भवत्यसृक् ३६.१९ व् श्यावता नेत्रवक्त्रादौ द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् । दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः ॥ २० ॥ ३६.२० व् तृतीये मूर्धगौरवम् ३६.२० व् दृग्बाधा दंशविक्लेदश् ३६.२० व् चतुर्थे ष्ठेवनं वमिः संधिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम् । दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम् ॥ २१ ॥ ३६.२१ व् दाहो हिध्मा च षष्ठे च मूर्छाविपाकोऽतीसारः प्राप्य शुक्रं तु सप्तमे । स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम् ॥ २२ ॥ ३६.२२ व् प्राप्य शुक्रं च सप्तमे अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक् । तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः ॥ २३ ॥ ३६.२३ व् दुष्टं पीतं भवत्यसृक् तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते । चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः ॥ २४ ॥ ३६.२४ व् स्वेदस्तृष्णा प्रजायते दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम् । पाण्डुता तेन गात्राणां द्वितीये गुरुताति च ॥ २५ ॥ तृतीये दंशविक्लेदो नासिकाक्षिमुखस्रवाः । चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च पञ्चमे ॥ २६ ॥ गात्रभङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत् । कुर्यात्पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥ २७ ॥ ३६.२७ व् शेषयोः पूर्ववद्भवेत् जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः । शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः ॥ २८ ॥ तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाः । कुशौषधिकण्टकवद्ये चरन्ति च काननम् ॥ २९ ॥ देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताः । श्मशानचितिचैत्यादौ पञ्चमीपक्षसंधिषु ॥ ३० ॥ ३६.३० व् देशं च विद्याध्युषितं अष्टमीनवमीसंध्यामध्यरात्रिदिनेषु च । याम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते ॥ ३१ ॥ नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् । दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः ॥ ३२ ॥ ३६.३२ व् दष्टमात्रस्तु ताम्राक्षः स्तब्धजिह्वो मुहुर्मूर्छन् शीतोच्छ्वासो न जीवति । हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः ॥ ३३ ॥ ३६.३३ व् शीतोच्छ्वासी न जीवति जायन्ते युगपद्यस्य स हृच्छूली न जीवति । फेनं वमति निःसंज्ञः श्यावपादकराननः ॥ ३४ ॥ नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसंधिता । विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥ ३५ ॥ ३६.३५ व् नासावसादो रुक्वाङ्गे भवन्त्येतानि रूपाणि संप्राप्ते जीवितक्षये । न नस्यैश्चेतना तीक्ष्णैर्न क्षतात्क्षतजागमः ॥ ३६ ॥ ३६.३६ व् प्राप्ते जीवितसंक्षये दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् । अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक् ॥ ३७ ॥ ३६.३७ व् प्रयाति स यमान्तिकम् रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत् । मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥ ३८ ॥ देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् । एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥ ३९ ॥ ३६.३९ व् रुधिरादीन् प्रदूषयेत् कुर्यच्छीघ्रं यथा देहे विषवल्ली न रोहति । दष्टमात्रो दशेदाशु तमेव पवनाशिनम् ॥ ४० ॥ ३६.४० व् तमेव पवनाशनम् लोष्टं महीं वा दशनैश्छित्त्वा चानु ससंभ्रमम् । निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा ॥ ४१ ॥ ३६.४१ व् छित्त्वा चाशु ससंभ्रमम् दंशस्योपरि बध्नीयादरिष्टां चतुर्अङ्गुले । क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ॥ ४२ ॥ अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम् । न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ॥ ४३ ॥ ३६.४३ व् न वहन्ति सिरास्तस्य ३६.४३ व् विषं बन्धनपीडिताः निष्पीड्यानूद्धरेद्दंशं मर्मसंध्य्अगतं तथा । न जायते विषाद्वेगो बीजनाशादिवाङ्कुरः ॥ ४४ ॥ ३६.४४ व् निष्पीड्य चोद्धरेद्दंशं ३६.४४ व् न जायते विषावेगो दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम् । प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा ॥ ४५ ॥ करोति भस्मसात्सद्यो वह्निः किं नाम तु क्षतम् । आचूषेत्पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ॥ ४६ ॥ ३६.४६ व् वह्निः किं नाम न क्षणात् ३६.४६ व् वह्निः किं नाम न क्षणम् प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः । अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः ॥ ४७ ॥ चन्दनोशीरयुक्तेन सलिलेन च सेचयेत् । विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया ॥ ४८ ॥ रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् । दुर्गन्धं सविषं रक्तमग्नौ चटचटायते ॥ ४९ ॥ ३६.४९ व् दुर्गन्धि सविषं रक्तम् यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक् । सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ॥ ५० ॥ शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा । लेपसेकैः सुबहुशः स्तम्भयेद्भृशशीतलैः ॥ ५१ ॥ अस्कन्ने विषवेगाद्धि मूर्छायमदहृद्द्रवाः । भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः ॥ ५२ ॥ ३६.५२ व् वीजयेद्रोमहर्षतः स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यति । विषं कर्षति तीक्ष्णत्वाद्धृदयं तस्य गुप्तये ॥ ५३ ॥ पिबेद्घृतं घृतक्षौद्रमगदं वा घृताप्लुतम् । हृदयावरणे चास्य श्लेष्मा हृद्युपचीयते ॥ ५४ ॥ ३६.५४ व् हृदयावरणेनास्य प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः । द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः ॥ ५५ ॥ वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः । भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः ॥ ५६ ॥ सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम् । सिन्धुवारितमूलानि श्वेता च गिरिकर्णिका ॥ ५७ ॥ ३६.५७ व् विशिष्टां वाचरेत्क्रियाम् पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम् । कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि ॥ ५८ ॥ ३६.५८ व् नस्यं समधु पाकलम् ३६.५८ व् नस्यं समधु वालकम् ३६.५८ व् नस्यं मधु सवालकम् चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा । पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम् ॥ ५९ ॥ ३६.५९ व् पाने च क्षौद्रमञ्जिष्ठा तण्डुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः । मातुलुङ्गी सिता शेलुः पाननस्याञ्जनैर्हितः ॥ ६० ॥ ३६.६० व् मातुलुङ्गैः शिफा शेलुः अगदः फणिनां घोरे विषे राजीमतामपि । समाः सुगन्धामृद्वीकाश्वेताख्यागजदन्तिकाः ॥ ६१ ॥ ३६.६१ व् समाः सुगन्धा मृद्वीका ३६.६१ व् श्वेताख्या गजमृत्तिका ३६.६१ व् श्वेताख्या गजवृत्तिका अर्धांशं सौरसं पत्त्रं कपित्थं बिल्वदाडिमम् । सक्षौद्रो मण्डलिविषे विशेषादगदो हितः ॥ ६२ ॥ पञ्चवल्कवरायष्टीनागपुष्पैलवालुकम् । जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम् ॥ ६३ ॥ ३६.६३ व् पञ्चवल्कबलायष्टी ३६.६३ व् पञ्चवल्कवचायष्टी ३६.६३ व् जीवकर्षभकोशीरं सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम् । लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा ॥ ६४ ॥ काश्मर्यं वटशुङ्गानि जीवकर्षभकौ सिता । मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥ ६५ ॥ ३६.६५ व् काश्मर्यं वटशृङ्गानि वंशत्वग्बीजकटुकापाटलीबीजनागरम् । शिरीषबीजातिविषे मूलं गावेधुकं वचा ॥ ६६ ॥ ३६.६६ व् पाटलाबीजनागरम् ३६.६६ व् मूलं गावेधुकं वचाम् ३६.६६ व् मूलं श्रीवेष्टकं वचाम् पिष्टो गोवारिणाष्टाङ्गो हन्ति गोनसजं विषम् । कटुकातिविषाकुष्ठगृहधूमहरेणुकाः ॥ ६७ ॥ सक्षौद्रव्योषतगरा घ्नन्ति राजीमतां विषम् । निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि ॥ ६८ ॥ उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत् । पिबेत्पुराणं च घृतं वराचूर्णावचूर्णितम् ॥ ६९ ॥ ३६.६९ व् उद्धृत्य प्रस्थितं सर्पिर् ३६.६९ व् वराचूर्णविचूर्णितम् जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम् । करवीरार्ककुसुममूललाङ्गलिकाकणाः ॥ ७० ॥ ३६.७० व् जीर्णे विरिक्ते भुञ्जीत ३६.७० व् मूलं लाङ्गलिका कणा कल्कयेदारनालेन पाठामरिचसंयुताः । एष व्यन्तरदष्टानामगदः सार्वकार्मिकः ॥ ७१ ॥ शिरीषपुष्पस्वरसे सप्ताह्वं मरिचं सितम् । भावितं सर्पदष्टानां पाननस्याञ्जने हितम् ॥ ७२ ॥ ३६.७२ व् पाननस्याञ्जनैर्हितम् ३६.७२ व् पाने नस्येऽञ्जने हितम् द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुःपलम् । अपि तक्षकदष्टानां पानमेतत्सुखप्रदम् ॥ ७३ ॥ ३६.७३ व् घृतक्षौद्रचतुःपलम् ३६.७३ व् अपि तार्क्षकदष्टानां अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम् । अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥ ७४ ॥ द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत् । विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने ॥ ७५ ॥ ३६.७५ व् विषापहैः प्रयुञ्जीत पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते । षष्ठपञ्चमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः ॥ ७६ ॥ पाययेद्वमनं तीक्ष्णं यवागूं च विषापहैः । अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः ॥ ७७ ॥ कृत्वावगाढं शस्त्रेण मूर्ध्नि काकपदं ततः । मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥ ७८ ॥ तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् । अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम् ॥ ७९ ॥ ३६.७९ व् तृतीये वामितः पेयां आद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः । अलाबुना हरेद्रक्तं पूर्ववच्चागदं पिबेत् ॥ ८० ॥ षष्ठेऽञ्जनं तीक्ष्णतममवपीडं च योजयेत् । अन्उक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम् ॥ ८१ ॥ गर्भिणीबालवृद्धेषु मृदुं विध्येत्सिरां न च । त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः ॥ ८२ ॥ ३६.८२ व् गुर्विणीबालवृद्धेषु ३६.८२ व् मृदु विध्येत्सिरां न च ३६.८२ व् त्वङ्मनोह्वा निशे वक्त्रं तमालः केसरं शीतं पीतं तण्डुलवारिणा । हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान् ॥ ८३ ॥ ३६.८३ व् हन्ति सर्वविषाण्येतच् ३६.८३ व् छक्रवज्रमिवासुरान् ३६.८३ व् वज्रिवज्रमिवासुरान् बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् । फलत्रिकं व्योषनिशाद्वयं च बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम् ॥ ८४ ॥ ३६.८४ व् फलत्रयं व्योषनिशाद्वयं च भुजङ्गलूतोन्दुरवृश्चिकाद्यैर्विषूचिकाजीर्णगरज्वरैश्च । आर्तान्नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः ॥ ८५ ॥ ३६.८५ व् आर्तान्नरान् भूतविमर्दितांश्च प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषम् । भूयो वेगाय जायेत शेषं दूषीविषाय वा ॥ ८६ ॥ ३६.८६ व् शेषं दूषीविषं यथा ३६.८६ व् शेषं दूषीविषाय च विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत् । तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः ॥ ८७ ॥ पित्तं पित्तज्वरहरैः कषायस्नेहवस्तिभिः । समाक्षिकेण वर्गेण कफमारग्वधादिना ॥ ८८ ॥ सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु । पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम् ॥ ८९ ॥ ३६.८९ व् सिता वैगन्धको द्राक्षा सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते । कर्केतनं मरकतं वज्रं वारणमौक्तिकम् ॥ ९० ॥ वैडूर्यं गर्दभमणिं पिचुकं विषमूषिकाम् । हिमवद्गिरिसंभूतां सोमराजीं पुनर्नवाम् ॥ ९१ ॥ ३६.९१ व् वैडूर्यगर्दभमणिं ३६.९१ व् पिचुकं विषदूषिकाम् तथा द्रोणां महाद्रोणां मानसीं सर्पजं मणिम् । विषाणि विषशान्त्य्अर्थं वीर्यवन्ति च धारयेत् ॥ ९२ ॥ ३६.९२ व् तथा द्रोणं महाद्रोणं छत्त्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः । तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥ ९३ ॥ ३६.९३ व् छत्त्री जर्जरपाणिश्च ३६.९३ व् छत्त्री जर्झरपाणिश्च ३६.९३ व् छत्त्री झर्जरपाणिश्च ३६.९३ व् चरेद्रात्रौ च सर्वदा ३६.९३ व् विद्रवन्ति भुजङ्गमाः वारिगुञ्जाफलोशीरं नेत्रयोर्विषदुष्टयोः । अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥ ९३+१ ॥ ऊत्तरस्थान सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः । दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः ॥ १ ॥ दष्टस्य कीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः । आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् ॥ २ ॥ पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथवा । कफाधिकैर्मन्दरुजः पक्वोदुम्बरसंनिभः ॥ ३ ॥ स्रावाढ्यः सर्वलिङ्गस्तु विवर्ज्यः सांनिपातिकैः । वेगाश्च सर्पवच्छोफो वर्धिष्णुर्विस्ररक्तता ॥ ४ ॥ ३७.४ व् विवर्ज्यः सांनिपातिकः शिरोऽक्षिगौरवं मूर्छा भ्रमः श्वासोऽतिवेदना । सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः ॥ ५ ॥ ३७.५ व् भ्रमः श्वासोऽतिवेदनाः वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत् । ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति ॥ ६ ॥ ३७.६ च् दंशे पश्चाच्च तिष्ठति दंशः सद्योऽतिरुक्श्यावस्तुद्यते स्फुटतीव च । ते गवादिशकृत्कोथाद्दिग्धदष्टादिकोथतः ॥ ७ ॥ सर्पकोथाच्च संभूता मन्दमध्यमहाविषाः । मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुरमेचकाः ॥ ८ ॥ ३७.८ व् रूक्षकर्बुरमेचकाः रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः । धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः ॥ ९ ॥ पिशङ्गाः शबराश्चित्राः शोणिताभा महाविषाः । अग्न्य्आभा द्व्य्एकपर्वाणो रक्तासितसितोदराः ॥ १० ॥ तैर्दष्टः शूनरसनः स्तब्धगात्रो ज्वरार्दितः । खैर्वमञ्छोणितं कृष्णमिन्द्रियार्थानसंविदन् ॥ ११ ॥ स्विद्यन्मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः । विशीर्यमाणमांसश्च प्रायशो विजहात्यसून् ॥ १२ ॥ उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः । साध्यतो वृश्चिकात्स्तम्भं शेफसो हृष्टरोमताम् ॥ १३ ॥ ३७.१३ व् उच्चिटङ्गस्तु वक्त्रेण ३७.१३ व् सोऽधमो वृश्चिकात्स्तम्भं करोति सेकमङ्गानां दंशः शीताम्बुनेव च । उष्ट्रधूमः स एवोक्तो रात्रिचाराच्च रात्रिकः ॥ १४ ॥ ३७.१४ व् दंशे शीताम्बुनेव च वातपित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः । प्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः ॥ १५ ॥ यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् । तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ॥ १६ ॥ ३७.१६ व् लिङ्गाधिक्यं प्रवर्तयेत् हृत्पीडोर्ध्वानिलस्तम्भः सिरायामोऽस्थिपर्वरुक् । घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे ॥ १७ ॥ संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता । मांसावदरणं शोफो रक्तपीतश्च पैत्तिके ॥ १८ ॥ ३७.१८ व् रक्तः पीतश्च पैत्तिके छर्द्य्अरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः । सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम् ॥ १९ ॥ पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके । स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः ॥ २० ॥ पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैः । लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् ॥ २१ ॥ कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता । स्वेदालेपनसेकांस्तु कोष्णान् प्रायोऽवचारयेत् ॥ २२ ॥ ३७.२२ व् त्रैविध्येन क्रिया हिताः ३७.२२ व् कवोष्णान् प्रविचारयेत् अन्यत्र मूर्छिताद्दंशपाकतः कोथतोऽथवा । नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम् ॥ २३ ॥ विषदंशस्य सर्वस्य काश्यपः परमब्रवीत् । विषघ्नं च विधिं सर्वं कुर्यात्संशोधनानि च ॥ २४ ॥ ३७.२४ व् कश्यपः परमब्रवीत् साधयेत्सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः । तण्डुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥ २५ ॥ याति कीटविषैः कम्पं न कैलास इवानिलैः । क्षीरिवृक्षत्वग्आलेपः शुद्धे कीटविषापहः ॥ २६ ॥ मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत् । वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली ॥ २७ ॥ पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् । दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ॥ २८ ॥ सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत् । विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा ॥ २९ ॥ लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः । सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा ॥ ३० ॥ ३७.३० व् सक्षारलवणेन वा उपनाहो घृते भृष्टः कल्कोऽजाज्याः ससैन्धवः । आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥ ३१ ॥ ३७.३१ व् उपनाहे घृतभृष्टः ३७.३१ व् उपनाहो घृतभृष्टः रजनीसैन्धवव्योषशिरीषफलपुष्पजैः । मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ॥ ३२ ॥ ३७.३२ व् मातुलुङ्गं तु गोमूत्र ३७.३२ व् पिष्टः ससुरसार्जकः लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा । पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम् ॥ ३३ ॥ ३७.३३ व् पिण्याको गोमयेन वा पारावतशकृत्पथ्या तगरं विश्वभेषजम् । बीजपूररसोन्मिश्रः परमो वृश्चिकागदः ॥ ३४ ॥ ३७.३४ व् परमो वृश्चिकेऽगदः ३७.३४ व् परमो वृश्चिकोऽगदः सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम् । हिङ्गुना हरितालेन मातुलुङ्गरसेन च ॥ ३५ ॥ ३७.३५ व् ससैन्धवोष्ट्रदंष्ट्रा च ३७.३५ व् मातुलुङ्गरसेन वा लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा । करञ्जार्जुनशेलूनां कटभ्यां कुटजस्य च ॥ ३६ ॥ शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम् । यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः ॥ ३७ ॥ तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम् । सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम् ॥ ३८ ॥ ३७.३८ व् शलाटुवृन्तं वार्ताक सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिषी ॥ ३९ ब् ॥ विध्येत्सिरां विदध्याच्च वमनाञ्जननावनम् ॥ ३९ द् ॥ उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम् ॥ ३९ f ॥ नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम् । सैन्धवं च विनिहन्त्यगदोऽयं लेपतोऽलिकुलजं विषमाशु ॥ ४० ॥ अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे । विषेणालेपयेद्दंशमुच्चिटिङ्गेऽप्ययं विधिः ॥ ४१ ॥ नागपुरीषच्छत्त्रं रोहिषमूलं च शेलुतोयेन । कुर्याद्गुटिकां लेपादियमलिविषनाशनी श्रेष्ठा ॥ ४२ ॥ अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलिचूर्णमिश्रम् । एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरवृश्चिकानाम् ॥ ४३ ॥ शिरीषपुष्पं सकरञ्जबीजं काश्मीरजं कुष्ठमनःशिले च । एषोऽगदो रात्रिकवृश्चिकानां संक्रान्तिकारी कथितो जिनेन ॥ ४४ ॥ ३७.४४ व् शिरीषबीजं सकरञ्जबीजं कीटेभ्यो दारुणतरा लूटाः षोडश ता जगुः । अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः ॥ ४५ ॥ सहस्ररश्म्य्अनुचरा वदन्त्यन्ये सहस्रशः । बहूपद्रवरूपा तु लूतैकैव विषात्मिका ॥ ४६ ॥ रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसंकरात् । नास्ति स्थानव्यवस्था च दोषतोऽतः प्रचक्षते ॥ ४७ ॥ कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा । तद्दंशः पैत्तिको दाहतृट्स्फोटज्वरमोहवान् ॥ ४८ ॥ भृशोष्ंा रक्तपीताभः क्लेदी द्राक्षाफलोपमः । श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः ॥ ४९ ॥ ३७.४९ व् भृशोष्ंरक्तपीताभः निद्रां शीतज्वरं कासं कण्डूं च कुरुते भृशम् । वातिकः परुषः श्यावः पर्वभेदज्वरप्रदः ॥ ५० ॥ तद्विभागं यथास्वं च दोषलिङ्गैर्विभावयेत् । असाध्यायां तु हृन्मोहश्वासहिध्माशिरोग्रहाः ॥ ५१ ॥ ३७.५१ व् श्वासहिध्माशिरोरुजाः श्वेतपीतासितारक्ताः पिटिकाः श्वयथूद्भवः । वेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता ॥ ५२ ॥ ३७.५२ व् श्वेतपीतासितारक्त ३७.५२ व् पिटिकाश्वयथूद्भवः ३७.५२ व् तृड् आन्ध्यं वक्रनासिका श्यावौष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम् । पक्वजम्बूसवर्णं च दंशात्स्रवति शोणितम् ॥ ५३ ॥ सर्वापि सर्वजा प्रायो व्यपदेशस्तु भूयसा । तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिता ॥ ५४ ॥ ३७.५४ व् सा त्रिधा हन्त्युपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् । लूतादंशश्च सर्वोऽपि दद्रूमण्डलसंनिभः ॥ ५५ ॥ ३७.५५ व् लूतादंशस्तु सर्वोऽपि सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः । मध्ये कृष्णोऽथवा श्यावः पर्य्अन्ते जालकावृतः ॥ ५६ ॥ ३७.५६ व् सितासितोऽरुणः पीतः विसर्पवांश्छोफयुतस्तप्यते बहुवेदनः । ज्वराशुपाकविक्लेदकोथावदरणान्वितः ॥ ५७ ॥ क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम् । श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः ॥ ५८ ॥ अष्टाभिरुद्वमत्येषा विषं वक्त्राद्विशेषतः । लूता नाभेर्दशत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः ॥ ५९ ॥ ३७.५९ व् अष्टाभिरुद्वमन्त्येता ३७.५९ व् विषं वक्त्रैर्विशेषतः ३७.५९ व् लूता नाभेर्दशन्त्यूर्ध्वम् ३७.५९ व् ऊर्ध्वं वाधश्च कीटकाः ३७.५९ व् ऊर्ध्वं चाधश्च कीटकः ३७.५९ व् अधश्च विषकीटकाः तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत् । दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः ॥ ६० ॥ सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि । अव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः ॥ ६१ ॥ ३७.६१ व् सूचीविद्धवदाभाति द्वितीयेऽभ्युन्नतोऽन्तेषु पिटिकैरिव वाचितः । व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसंनिभः ॥ ६२ ॥ ३७.६२ व् द्वितीयेऽत्य्उन्नतोऽन्तेषु ३७.६२ व् पिटिकैरिव चाचितः तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः । शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः ॥ ६३ ॥ ३७.६३ व् रोमकूपेषु सस्रवः महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः । विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् ॥ ६४ ॥ षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् । इति तीक्ष्णं विषं मध्यं हीनं च विभजेदतः ॥ ६५ ॥ ३७.६५ व् षष्ठे प्राप्नोति मर्माणि एकविंशतिरात्रेण विषं शाम्यति सर्वथा । अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् ॥ ६६ ॥ ३७.६६ व् दंशं शस्त्रेण चोद्धरेत् दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत् । कर्कशं भिन्नरोमाणं मर्मसंध्य्आदिसंश्रितम् ॥ ६७ ॥ प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन्न च । लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः ॥ ६८ ॥ ३७.६८ व् न च्छिन्दीत दहेन्न वा सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः । सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयापि वा ॥ ६९ ॥ सेकलेपास्ततः शीता बोधिश्लेष्मातकाक्षकैः । फलिनीद्विनिशाक्षौद्रसर्पिर्भिः पद्मकाह्वयः ॥ ७० ॥ ३७.७० व् सेकालेपास्ततः शीता ३७.७० व् बोधिश्लेष्मातकाक्षिकैः ३७.७० व् बोधिश्लेष्मातकाक्षजैः ३७.७० व् फलिनीद्विनिशाश्रेष्ठा अशेषलूताकीटानामगदः सार्वकार्मिकः । हरिद्राद्वयपत्तङ्गमञ्जिष्ठानतकेसरैः ॥ ७१ ॥ सक्षौद्रसर्पिः पूर्वस्मादधिकश्चम्पकाह्वयः । तद्वद्गोमयनिष्पीडशर्कराघृतमाक्षिकैः ॥ ७२ ॥ ३७.७२ व् तद्वद्गोमयनिष्पीडा अपामार्गमनोऽह्वालदार्वीध्यामकगैरिकैः । नतैलाकुष्ठमरिचयष्ट्य्आह्वघृतमाक्षिकैः ॥ ७३ ॥ अगदो मन्दरो नाम तथान्यो गन्धमादनः । नतलोध्रवचाकट्वीपाठैलापत्त्रकुङ्कुमैः ॥ ७४ ॥ मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः । ससिन्धुवारा विषं घ्नन्ति सैलाचन्दनकनकाः ॥ ७४+१ ॥ विषघ्नं बहुदोषेषु प्रयुञ्जीत विशोधनम् । यष्ट्य्आह्वमदनाङ्कोल्लजालिनीसिन्धुवारिकाः ॥ ७५ ॥ ३७.७५ व् विषघ्नैर्बहुदोषेषु ३७.७५ व् जालिनीसिन्धुवारितान् ३७.७५ व् जालिनीसिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषमाशु समुद्वमेत् । शिरीषपत्त्रत्वङ्मूलफलं वाङ्कोल्लमूलवत् ॥ ७६ ॥ ३७.७६ व् फलं चाङ्कोल्लमूलवत् विरेचयेच्च त्रिफलानीलिनीत्रिवृतादिभिः । निवृत्ते दाहशोफादौ कर्णिकां पातयेद्व्रणात् ॥ ७७ ॥ ३७.७७ व् फलिनीत्रिवृतादिभिः कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट् । त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा ॥ ७८ ॥ ३७.७८ व् कुसुम्भपुष्पगोदन्त ३७.७८ व् स्वर्णक्षीरीकपोतविट् ३७.७८ व् कर्णिकापातनं परम् मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम् । तद्वच्च सैन्धवं कुष्ठं दन्ती कटुकदौग्धिकम् ॥ ७९ ॥ राजकोशातकीमूलं किण्वो वा मथितोद्भवः । कर्णिकापातसमये बृंहयेच्च विषापहैः ॥ ८० ॥ ३७.८० व् किट्टो वा मथितोद्भवः ३७.८० व् किणो वा मथितोद्भवः ३७.८० व् बृंहयेत विषापहैः स्नेहकार्यमशेषं च सर्पिषैव समाचरेत् । विषस्य वृद्धये तैलमग्नेरिव तृणोलुपम् ॥ ८१ ॥ ३७.८१ व् विषमावर्धयेत्तैलम् ३७.८१ व् अग्नेरिव तृणोलपम् ह्रीवेरवैकङ्कतगोपकन्यामुस्ताशमीचन्दनटुण्टुकानि । शैवालनीलोत्पलवक्रयष्टीत्वङ्नाकुलीपद्मकराठमध्यम् ॥ ८२ ॥ ३७.८२ व् मुस्ताशमीचन्दनतिन्दुकानि रजनीघनसर्पलोचनाकणशुण्ठीकणमूलचित्रकाः । वरुणागुरुबिल्वपाटलीपिचुमन्दामयशेलुकेसरम् ॥ ८३ ॥ ३७.८३ व् वरुणागुरुबिल्वपाटला बिल्वचन्दननतोत्पलशुण्ठीपिप्पलीनिचुलवेतसकुष्ठम् । शुक्तिशाकवरपाटलिभार्गीसिन्धुवारकरघाटवराङ्गम् ॥ ८४ ॥ ३७.८४ व् शुक्तिशाबरकपाटलिभार्गी ३७.८४ व् सिन्धुवारकरहाटवराङ्गम् पित्तकफानिललूताः पानाञ्जननस्यलेपसेकेन । अगदवरा वृत्तस्थाः कुगतीरिव वारयन्त्येते ॥ ८५ ॥ ३७.८५ व् कुगतीरिव दारयन्त्येते ३७.८५ व् कुमतीरिव दारयन्त्येते ३७.८५ व् कुमतीरिव वारयन्त्येते लोध्रं सेव्यं पद्मकं पद्मरेणुः कालीयाख्यं चन्दनं यच्च रक्तम् । कान्तापुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्वक्रियाभिः ॥ ८६ ॥ ऊत्तरस्थान लालनश्चपलः पुत्रो हसिरश्चिक्किरोऽजिरः । कषायदन्तः कुलकः कोकिलः कपिलोऽसितः ॥ १ ॥ ३८.१ व् हसिरश्चिक्रिरोऽजनः ३८.१ व् हसिरश्चिक्किरोऽजरः ३८.१ व् हसिरश्चिकिलो ऽजिरः अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः । छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ २ ॥ ३८.२ व् कपोतः पलितोन्दुरुः ३८.२ व् छुच्छुन्दरो बलासाख्यो ३८.२ व् छुच्छुन्दरो रसालाक्षो ३८.२ व् दश चाष्टौ च मूषिकाः शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वा । यदङ्गमङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते ॥ ३ ॥ ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिः । शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम् ॥ ४ ॥ ३८.४ व् ग्रन्थयः श्वयथुः कोथो रोमहर्षः स्रुतिर्मूर्छा दीर्घकालानुबन्धनम् । श्लेष्मानुबद्धबह्व्आखुपोतकच्छर्दनं सतृट् ॥ ५ ॥ ३८.५ व् श्लेष्मानुबन्धबह्व्आखु ३८.५ व् श्लेष्मानुविद्धबह्व्आखु ३८.५ व् पोतकच्छर्दनं सकृत् व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति । मूर्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः ॥ ६ ॥ शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम् । शूनवस्तिं विवर्णौष्ठमाख्व्आभैर्ग्रन्थिभिश्चितम् ॥ ७ ॥ छुच्छुन्दरसगन्धं च वर्जयेदाखुदूषितम् । शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः ॥ ८ ॥ मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम् । लालावानन्धबधिरः सर्वतः सोऽभिधावति ॥ ९ ॥ स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः । दंशस्तेन विदष्टस्य सुप्तं कृष्णं क्षरत्यसृक् ॥ १० ॥ हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्छोद्भवोऽनु च । अनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः ॥ ११ ॥ ३८.११ व् हृच्छिरोरुग्ज्वरस्तम्भस् ३८.११ व् हृच्छिरोरुग्ज्वरः स्तम्भस् ३८.११ व् तृष्णामूर्छोद्भवोऽनु च ३८.११ व् तृष्णा मूर्छोद्भवोऽनु च ३८.११ व् व्यालदंष्ट्राप्रहारिणः शृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः । कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः ॥ १२ ॥ विदाहरागरुक्पाकशोफग्रन्थिविकुञ्चनम् । दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥ १३ ॥ सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे । दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति ॥ १४ ॥ पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु । योऽद्भ्यस्त्रस्येददष्टोऽपि शब्दसंस्पर्शदर्शनैः ॥ १५ ॥ ३८.१५ व् शब्दस्पर्शनिदर्शनैः जलसंत्रासनामानं दष्टं तमपि वर्जयेत् । आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् ॥ १६ ॥ दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकान्यथा । दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् ॥ १७ ॥ ३८.१७ व् दग्ध्वा विस्रावयेद्दंशं ३८.१७ व् प्रच्छिन्नं च प्रलेपयेत् शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः । अगारधूममञ्जिष्ठारजनीलवणोत्तमैः ॥ १८ ॥ लेपो जयत्याखुविषं कर्णिकायाश्च पातनः । ततोऽम्लैः क्षालयित्वानु तोयैरनु च लेपयेत् ॥ १९ ॥ ३८.१९ व् पिष्टैरनु च लेपयेत् पालिन्दीश्वेतकटभीबिल्वमूलगुडूचिभिः । अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद्द्रुतम् ॥ २० ॥ ३८.२० व् सिरां वा मोचयेद्द्रुतम् छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपि । कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ २१ ॥ ३८.२१ व् कोशवत्याः शुकाख्यायाः मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् । वचामदनजीमूतकुष्ठं वा मूत्रपेषितम् ॥ २२ ॥ पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम् । विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते ॥ २३ ॥ ३८.२३ व् विरेचने त्रिवृन्नीली शिरोविरेचने सारः शिरीषस्य फलानि च । अञ्जनं गोमयरसो व्योषसूक्ष्मरजोऽन्वितः ॥ २४ ॥ ३८.२४ व् अञ्जने गोमयरसो ३८.२४ व् व्योषसूक्ष्मरजोऽन्वितः कपित्थगोमयरसो मधुमानवलेहनम् । तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम् ॥ २५ ॥ ३८.२५ व् मधुमानवलेहने द्विनिशाकटभीरक्तायष्ट्य्आह्वैर्वामृतान्वितैः । आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ॥ २६ ॥ सिन्धुवारं नतं शिग्रुबिल्वमूलं पुनर्नवा । वचाश्वदंष्ट्राजीमूतमेषां क्वाथं समाक्षिकम् ॥ २७ ॥ ३८.२७ व् सिन्धुवारनतं शिग्रु ३८.२७ व् बिल्वमूलं पुनर्नवम् पिबेच्छाल्य्ओदनं दध्ना भुञ्जानो मूषिकार्दितः । तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥ २८ ॥ अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितः । पानालेपनयोर्युक्तः सर्वाखुविषनाशनः ॥ २९ ॥ ३८.२९ व् पानलेपनयोर्युक्तः कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत् । गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥ ३० ॥ ३८.३० व् कपित्थमध्यतिलकं ३८.३० व् कपित्थमध्यं तिलकं ३८.३० व् तिलाङ्कोल्लजटां पिबेत् ३८.३० व् तिलाङ्कोल्लजटाः पिबेत् ३८.३० व् मञ्जरीस्तिलकस्य वा अथवा सैर्यकान्मूलं सक्षौद्रं तण्डुलाम्बुना । कटुकालाबुविन्यस्तं पीतं वाम्बु निशोषितम् ॥ ३१ ॥ ३८.३१ व् पिबेद्वाम्बु निशोषितम् ३८.३१ व् पिबेच्चाम्बु निशोषितम् सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् । जलपिष्टोऽगदो हन्ति नस्याद्यैराखुजं विषम् ॥ ३२ ॥ सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने । यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु ॥ ३३ ॥ ३८.३३ च् सशेषं मूषकविषं तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः । यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः ॥ ३४ ॥ दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा । प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत् ॥ ३५ ॥ अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम् । अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविःपलम् ॥ ३६ ॥ ३८.३६ च् अर्कक्षीरयुतं वास्य पिबेत्सधत्तूरफलां श्वेतां वापि पुनर्नवाम् । ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥ ३७ ॥ ३८.३७ व् श्वेतां चापि पुनर्नवाम् ३८.३७ व् रूयिकायाः पयो गुडः ३८.३७ व् रूषिकायाः पयो गुडः भिनत्ति विषमालर्कं घनवृन्दमिवानिलः । समन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत् ॥ ३८ ॥ चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तपरिक्षतम् । शूयते पच्यते रागज्वरस्रावरुजान्वितम् ॥ ३९ ॥ ३८.३९ व् ज्वरास्रावरुजान्वितम् सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिका । रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ ४० ॥ ऊत्तरस्थान दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः । प्रभावर्णस्वरौदार्यं देहेन्द्रियबलोदयम् ॥ १ ॥ वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात् । लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ २ ॥ ३९.२ व् लाभोपायो हि सप्तानां पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः । स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा ॥ ३ ॥ अविशुद्धे शरीरे हि युक्तो रासायनो विधिः । वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः ॥ ४ ॥ ३९.४ व् वस्त्रे राग इवाफलः रसायनानां द्विविधं प्रयोगमृषयो विदुः । कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा ॥ ५ ॥ पुरे प्राप्योपकरणे हर्म्यनिर्वातनिर्भये । दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम् ॥ ६ ॥ ३९.६ व् निर्वाते निर्भये धर्म्ये ३९.६ व् निर्वाते निर्भये हर्म्ये ३९.६ व् प्राप्योपकरणे पुरे ३९.६ व् दिश्यैशान्यां शुभे देशे धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम् । सज्जवैद्योपकरणां सुमृष्टां कारयेत्कुटीम् ॥ ७ ॥ अथ पुण्येऽह्नि संपूज्य पूज्यांस्तां प्रविशेच्छुचिः । तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः ॥ ८ ॥ ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः । दानशीलदयासत्यव्रतधर्मपरायणः ॥ ९ ॥ देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः । प्रियौषधः पेशलवागारभेत रसायनम् ॥ १० ॥ ३९.१० व् प्रियौषधः पेशलवाक् ३९.१० व् प्रारभेत रसायनम् हरीतकीमामलकं सैन्धवं नागरं वचाम् । हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ॥ ११ ॥ स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते । ततः शुद्धशरीराय कृतसंसर्जनाय च ॥ १२ ॥ ३९.१२ व् स्निग्धः स्विन्नो नरः पूर्वं ३९.१२ व् तेन साधु विशुध्यति त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम् । दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा ॥ १३ ॥ इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत् । यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित् ॥ १४ ॥ पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम् । पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम् ॥ १५ ॥ जले दशगुणे पक्त्वा दशभागस्थिते रसे । आपोथ्य कृत्वा व्य्अस्थीनि विजयामलकान्यथ ॥ १६ ॥ विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम् । त्वग्एलामुस्तरजनीपिप्पल्य्अगुरुचन्दनम् ॥ १७ ॥ मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम् । यष्ट्य्आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥ १८ ॥ सितोपलार्धभारं च पात्राणि त्रीणि सर्पिषः । द्वे च तैलात्पचेत्सर्वं तदग्नौ लेहतां गतम् ॥ १९ ॥ अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः । ततः खजेन मथितं निदध्याद्घृतभाजने ॥ २० ॥ या नोपरुन्ध्यादाहारमेकं मात्रास्य सा स्मृता । षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ २१ ॥ ३९.२१ व् एका मात्रास्य सा स्मृता वैखानसा बालखिल्यास्तथा चान्ये तपोधनाः । ब्रह्मणा विहितं धन्यमिदं प्राश्य रसायनम् ॥ २२ ॥ ३९.२२ व् वैखानसा बालिखिल्यास् तन्द्राश्रमक्लमवलीपलितामयवर्जिताः । मेधास्मृतिबलोपेता बभूवुरमितायुषः ॥ २३ ॥ अभयामलकसहस्रं निर्आमयं पिप्पलीसहस्रयुतम् । तरुणपलाशक्षारद्रवीकृतं स्थापयेद्भाण्डे ॥ २४ ॥ उपयुक्ते च क्षारे छायासंशुष्कचूर्णितं योज्यम् । पादांशेन सितायाश्चतुर्गुणाभ्यां मधुघृताभ्याम् ॥ २५ ॥ ३९.२५ व् उपयुक्ते च क्वाथे तद्घृतकुम्भे भूमौ निधाय षण्माससंस्थमुद्धृत्य । प्राह्णे प्राश्य यथानलमुचिताहारो भवेत्सततम् ॥ २६ ॥ ३९.२६ व् निखाय षण्माससंस्थमुद्धृत्य ३९.२६ व् प्राह्णे प्राश्य यथाबलम् इत्युपयुञ्ज्याशेषं वर्षशतमन्आमयो जरारहितः । जीवति बलपुष्टिवपुःस्मृतिमेधाद्य्अन्वितो विशेषेण ॥ २७ ॥ ३९.२७ व् इत्युपयोज्याशेषं नीरुजार्द्रपलाशस्य च्छिन्ने शिरसि तत्क्षतम् । अन्तर्द्विहस्तं गम्भीरं पूर्यमामलकैर्नवैः ॥ २८ ॥ ३९.२८ व् च्छिन्ने शिरसि तक्षितम् आमूलं वेष्टितं दर्भैः पद्मिनीपङ्कलेपितम् । आदीप्य गोमयैर्वन्यैर्निर्वाते स्वेदयेत्ततः ॥ २९ ॥ स्विन्नानि तान्यामलकानि तृप्त्या खादेन्नरः क्षौद्रघृतान्वितानि । क्षीरं शृतं चानु पिबेत्प्रकामं तेनैव वर्तेत च मासमेकम् ॥ ३० ॥ वर्ज्यानि वर्ज्यानि च तत्र यत्नात्स्पृश्यं च शीताम्बु न पाणिनापि । एकादशाहेऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश्च ॥ ३१ ॥ ३९.३१ व् स्पृशेन्न शीताम्बु च पाणिनापि अथाल्पकैरेव दिनैः सुरूपः स्त्रीष्वक्षयः कुञ्जरतुल्यवीर्यः । विशिष्टमेधाबलबुद्धिसत्त्वो भवत्यसौ वर्षसहस्रजीवी ॥ ३२ ॥ दशमूलबलामुस्तजीवकर्षभकोत्पलम् । पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी ॥ ३३ ॥ जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी । पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम् ॥ ३४ ॥ ३९.३४ व् पुनर्नवाद्विकाकोली ३९.३४ व् काकनासामृताह्वयाः विदारी वृषमूलं च तदैकध्यं पलोन्मितम् । जलद्रोणे पचेत्पञ्च धात्रीफलशतानि च ॥ ३५ ॥ पादशेषं रसं तस्माद्व्य्अस्थीन्यामलकानि च । गृहीत्वा भर्जयेत्तैलघृताद्द्वादशभिः पलैः ॥ ३६ ॥ ३९.३६ व् पादशेषे रसे तस्मिन् मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत्पचेत् । स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुःपलम् ॥ ३७ ॥ ३९.३७ व् स्नेहार्धं मधुनः शीते पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम् । अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः ॥ ३८ ॥ ३९.३८ व् चतुर्जातं कणार्धिकम् ३९.३८ व् चतुर्जातं कणार्धकम् ३९.३८ व् कुटीस्थं पथ्यभोजिनम् इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः । जराजर्जरितोऽप्यासीन्नारीनयननन्दनः ॥ ३९ ॥ कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम् । मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ॥ ४० ॥ बालवृद्धक्षतक्षीणकृशानामङ्गवर्धनः ॥ ४१ ब् ॥ मेधां स्मृतिं कान्तिमन्आमयत्वमायुःप्रकर्षं पवनानुलोम्यम् ॥ ४१ द् ॥ स्त्रीषु प्रहर्षं बलमिन्द्रियाणामग्नेश्च कुर्याद्विधिनोपयुक्तः ॥ ४१ f ॥ मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना । पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा ॥ ४२ ॥ सितया वा समा युक्ता समायुक्ता रसायनम् । त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा ॥ ४३ ॥ ३९.४३ व् सितयाथ समायुक्ता ३९.४३ व् रौप्ययुक्ता रसायनी मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् । रसं गुडूच्यास्सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥ ४४ ॥ आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ ४५ ॥ ३९.४५ व् मेध्या विशेषेण च शङ्खपुष्पी नलदं कटुरोहिणी पयस्या मधुकं चन्दनशारिवोग्रगन्धाः । त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः ॥ ४६ ॥ त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम् । उपयुज्य भवेज्जडोऽपि वाङ्मी श्रुतधारी प्रतिभानवानरोगः ॥ ४७ ॥ ३९.४७ व् श्रुतिधारी प्रतिभानवानरोगः ३९.४७ व् श्रुतिधारी प्रतिभानवान् अरोगी पेष्यैर्मृणालबिसकेसरपत्त्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः । पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम् ॥ ४८ ॥ ३९.४८ व् पञ्चारविन्दमिति सर्पिरुदारवीर्यं यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं द्वितीयम् । सर्पिश्चतुष्कुवलयं सहिरण्यपत्त्रं मेध्यं गवामपि भवेत्किमु मानुषाणाम् ॥ ४९ ॥ ब्राह्मीवचासैन्धवशङ्खपुष्पीमत्स्याक्षकब्रह्मसुवर्चलैन्द्र्यः । वैदेहिका च त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य ॥ ५० ॥ सर्पिषश्च पलमेकत एतद्योजयेत्परिणते च घृताढ्यम् । भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधः ॥ ५१ ॥ ३९.५१ व् शीलयन्नधिकधीस्मृतिवेषः अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः । जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान् ॥ ५२ ॥ ३९.५२ व् श्रीतेजःकान्तिमूर्तिमान् विशेषतः कुष्ठकिलासगुल्मविषज्वरोन्मादगरोदराणि । अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः ॥ ५३ ॥ शरन्मुखे नागबलां पुष्ययोगे समुद्धरेत् । अक्षमात्रं ततो मूलाच्चूर्णितात्पयसा पिबेत् ॥ ५४ ॥ ३९.५४ व् अक्षमात्रं ततो मूलं ३९.५४ व् चूर्णितं पयसा पिबेत् लिह्यान्मधुघृताभ्यां वा क्षीरवृत्तिरन्अन्नभुक् । एवं वर्षप्रयोगेन जीवेद्वर्षशतं बली ॥ ५५ ॥ फलोन्मुखो गोक्षुरकः समूलश्छायाविशुष्कः सुविचूर्णिताङ्गः । सुभावितः स्वेन रसेन तस्मान्मात्रां परां प्रासृतिकीं पिबेद्यः ॥ ५६ ॥ ३९.५६ व् मात्रां परं प्रासृतिकीं पिबेद्यः क्षीरेण तेनैव च शालिमश्नन् जीर्णे भवेत्स द्वितुलोपयोगात् । शक्तः सुरूपः सुभगः शतायुः कामी ककुद्मानिव गोकुलस्थः ॥ ५७ ॥ वाराहीकन्दमार्द्रार्द्रं क्षीरेण क्षीरपः पिबेत् । मासं निर्अन्नो मासं च क्षीरान्नादो जरां जयेत् ॥ ५८ ॥ तत्कन्दश्लक्ष्णचूर्णं वा स्वरसेन सुभावितम् । घृतक्षौद्रप्लुतं लिह्यात्तत्पक्वं वा घृतं पिबेत् ॥ ५९ ॥ ३९.५९ व् घृतक्षौद्रयुतं लिह्यात् तद्वद्विदार्य्अतिबलाबलामधुकवायसीः । श्रेयसीश्रेयसीयुक्तापथ्याधात्रीस्थिरामृताः ॥ ६० ॥ ३९.६० व् जीवन्तीश्रेयसीयुक्ता मण्डूकीशङ्खकुसुमावाजिगन्धाशतावरीः । उपयुञ्जीत मेधाधीवयःस्थैर्यबलप्रदाः ॥ ६१ ॥ ३९.६१ व् उपयुञ्जीत धीमेधा ३९.६१ व् उपयुञ्जीत मेधावी ३९.६१ व् वयःस्थैर्यबलप्रदाः यथास्वं चित्रकः पुष्पैर्ज्ञेयः पीतसितासितैः । यथोत्तरं स गुणवान् विधिना च रसायनम् ॥ ६२ ॥ छायाशुष्कं ततो मूलं मासं चूर्णीकृतं लिहन् । सर्पिषा मधुसर्पिर्भ्यां पिबन् वा पयसा यतिः ॥ ६३ ॥ अम्भसा वा हितान्नाशी शतं जीवति नीरुजः । मेधावी बलवान् कान्तो वपुष्मान् दीप्तपावकः ॥ ६४ ॥ तैलेन लीढो मासेन वातान् हन्ति सुदुस्तरान् । मूत्रेण श्वित्रकुष्ठानि पीतस्तक्रेण पायुजान् ॥ ६५ ॥ ३९.६५ व् वातान् हन्ति सुदारुणान् भल्लातकानि पुष्टानि धान्यराशौ निधापयेत् । ग्रीष्मे संगृह्य हेमन्ते स्वादुस्निग्धहिमैर्वपुः ॥ ६६ ॥ ३९.६६ व् स्वादुस्निग्धहिमैः पुनः संस्कृत्य तान्यष्टगुणे सलिलेऽष्टौ विपाचयेत् । अष्टांशशिष्टं तत्क्वाथं सक्षीरं शीतलं पिबेत् ॥ ६७ ॥ ३९.६७ व् अष्टांशशिष्टं तं क्वाथं वर्धयेत्प्रत्य्अहं चानु तत्रैकैकमरुष्करम् । सप्तरात्रत्रयं यावत्त्रीणि त्रीणि ततः परम् ॥ ६८ ॥ आचत्वारिंशतस्तानि ह्रासयेद्वृद्धिवत्ततः । सहस्रमुपयुञ्जीत सप्ताहैरिति सप्तभिः ॥ ६९ ॥ ३९.६९ व् सप्ताहैरपि सप्तभिः यन्त्रितात्मा घृतक्षीरशालिषष्टिकभोजनः । तद्वत्त्रिगुणितं कालं प्रयोगान्तेऽपि चाचरेत् ॥ ७० ॥ ३९.७० व् प्रयोगान्तेऽप्युपाचरेत् आशिषो लभतेऽपूर्वा वह्नेर्दीप्तिं विशेषतः । प्रमेहकृमिकुष्ठार्शोमेदोदोषविवर्जितः ॥ ७१ ॥ ३९.७१ व् आशिषो लभते पूर्वा पिष्टस्वेदनमरुजैः पूर्णं भल्लातकैर्विजर्जरितैः । भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृल्लिप्तम् ॥ ७२ ॥ ३९.७२ व् पूर्णं भल्लातकैः सुजर्जरितैः परिवारितं समन्तात्पचेत्ततो गोमयाग्निना मृदुना । तत्स्वरसो यश्च्यवते गृह्णीयात्तं दिनेऽन्यस्मिन् ॥ ७३ ॥ ३९.७३ व् पचेत्तद्गोमयाग्निना मृदुना अमुमुपयुज्य स्वरसं मध्व्अष्टमभागिकं द्विगुणसर्पिः । पूर्वविधियन्त्रितात्मा प्राप्नोति गुणान् स तानेव ॥ ७४ ॥ ३९.७४ व् अमुमुपयुञ्ज्यात्स्वरसं पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसंमितानि । घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥ ७५ ॥ जर्जराणि विपचेज्जलकुम्भे पादशेषघृतगालितशीतम् । तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे ॥ ७६ ॥ ३९.७६ व् पादशेषघृतगालितशेषम् ३९.७६ व् पादशेषघृतगालितशीते ३९.७६ व् पादशेषमवतारितशीतम् ३९.७६ व् तं रसं पुनरपि श्रपयेत ३९.७६ व् क्षीरकुम्भसहितं चरणस्थम् सर्पिः पक्वं तत्र तुल्यप्रमाणं युञ्ज्यात्स्वेच्छं शर्करया रजोभिः । एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम् ॥ ७७ ॥ ३९.७७ व् सर्पिः पक्वं तेन तुल्यप्रमाणं ३९.७७ व् युञ्ज्यात्प्रस्थं शर्करया रजोभिः ३९.७७ व् युञ्ज्यात्स्वच्छं शर्करया रजोभिः ३९.७७ व् एकीभूतं तं खजक्षोभणेन तममृतरसपाकं यः प्रगे प्राशमश्नन्ननुपिबति यथेष्टं वारि दुग्धं रसं वा । स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिचयगौरः सोऽश्नुते दीर्घमायुः ॥ ७८ ॥ द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात्क्वाथाढके पलसमैस्तिलतैलपात्रम् । तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिबर्हणाय ॥ ७९ ॥ ३९.७९ व् द्रोणेऽम्भसो व्रणकृतां त्रिशतानि पक्त्वा ३९.७९ व् तिक्तानिशाद्वयवचागिरिजन्मतार्क्ष्यैः ३९.७९ व् तिक्तानिशाद्वयवरागिरिजन्मतार्क्ष्यैः ३९.७९ व् तिक्ताविषाद्वयवचागिरिजन्मतार्क्ष्यैः ३९.७९ व् तिक्ताविषाद्वयवरागिरिजाततार्क्ष्यैः सहामलकशुक्तिभिर्दधिसरेण तैलेन वा ॥ ८० ॥ गुडेन पयसा घृतेन यवसक्तुभिर्वा सह ॥ ८० ॥ तिलेन सह माक्षिकेण पललेन सूपेन वा ॥ ८० ॥ वपुष्करमरुष्करं परममेध्यमायुष्करम् ॥ ८० ॥ भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च । भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥ ८१ ॥ ३९.८१ व् कल्पितानि यथाविधि कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन । यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम् ॥ ८२ ॥ ३९.८२ व् छीघ्रं वह्निबलप्रदम् वातातपविधानेऽपि विशेषेण विवर्जयेत् । कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम् ॥ ८३ ॥ वृक्षास्तुबरका नाम पश्चिमार्णवतीरजाः । वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः ॥ ८४ ॥ तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे । मज्ज्ञः फलेभ्यश्चादाय शोषयित्वावचूर्ण्य च ॥ ८५ ॥ ३९.८५ व् मज्जां फलेभ्यश्चादाय ३९.८५ व् मज्जाः फलेभ्यश्चादाय ३९.८५ व् शोषयित्वा विचूर्ण्य च तिलवत्पीडयेद्द्रोण्यां क्वाथयेद्वा कुसुम्भवत् । तत्तैलं संभृतं भूयः पचेदासलिलक्षयात् ॥ ८६ ॥ ३९.८६ व् तत्तैलं सघृतं भूयः ३९.८६ व् तत्तैलं संसृतं भूयः ३९.८६ व् तत्तैलं संहृतं भूयः अवतार्य करीषे च पक्षमात्रं निधापयेत् । स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य तत्ततः ॥ ८७ ॥ ३९.८७ व् पक्षादुद्धृत्य यत्नवान् चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत् । मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥ ८८ ॥ मज्जसार महावीर्य सर्वान् धातून् विशोधय । शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः ॥ ८९ ॥ ३९.८९ व् मज्जासार महावीर्य ३९.८९ व् त्वामाज्ञापयतेऽच्युत तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः । सायमस्नेहलवणां यवागूं शीतलां पिबेत् ॥ ९० ॥ ३९.९० व् दोषा यान्त्यसकृत्सकृत् पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यान् विवर्जयन् । पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते ॥ ९१ ॥ ३९.९१ व् इत्थं वर्ज्यानि वर्जयेत् तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् । निहितं पूर्ववत्पक्षं पिबेन्मासं सुयन्त्रितः ॥ ९२ ॥ तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम् । अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरम् ॥ ९३ ॥ भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम् ॥ ९३.१+(१)अब् ॥ ३९.९३.१+(१)अव् भग्नस्वरं रक्तनेत्रं ३९.९३.१+(१)ब्व् शीर्णाङ्गं कृमिभिश् चितम् सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना । पक्षं मांसरसाहारं करोति द्विशतायुषम् ॥ ९४ ॥ ३९.९४ व् पक्वमांसरसाहारं ३९.९४ व् पक्वं मांसरसाहारं तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् । वपुष्मतं श्रुतधरं करोति त्रिशतायुषम् ॥ ९५ ॥ ३९.९५ व् वपुष्मतं श्रुतिधरं वलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजम् ॥ ९५.१+(१)अब् ॥ पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा । रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥ ९६ ॥ ३९.९६ व् मासमेकं प्रयोजयेत् तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च । पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥ ९७ ॥ ३९.९७ व् भुक्त्वाग्रे भोजनस्य तु प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा । क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् ॥ ९८ ॥ ३९.९८ व् दशवृद्ध्या दशाहानि ३९.९८ व् दशपिप्पलिकं दिनम् वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः । जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥ ९९ ॥ पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् । पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः ॥ १०० ॥ शीतीकृता हीनबलैर्वीक्ष्य दोषामयान् प्रति ॥ १००+(१)अब् ॥ ३९.१००+(१)अव् शीतीकृता क्षीणबलैर् ३९.१००+(१)ब्व् वीक्ष्य दोषान् प्रयोजयेत् तद्वच्च च्छागदुग्धेन द्वे सहस्रे प्रयोजयेत् । एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान् ॥ १०१ ॥ यक्ष्ममेहग्रहण्य्अर्शःपाण्डुत्वविषमज्वरान् । घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम् ॥ १०२ ॥ बिल्वार्धमात्रेण च पिप्पलीनां पात्रं प्रलिम्पेदयसो निशायाम् । प्रातः पिबेत्तत्सलिलाञ्जलिभ्यां वर्षं यथेष्टाशनपानचेष्टः ॥ १०३ ॥ शुण्ठीविडङ्गत्रिफलागुडूची यष्टीहरिद्रातिबलाबलाश्च । मुस्तासुराह्वागुरुचित्रकाश्च सौगन्धिकं पङ्कजमुत्पलानि ॥ १०४ ॥ ३९.१०४ व् मुस्ताशताह्वागुरुचित्रकाश्च धवाश्वकर्णासनबालपत्त्रसारास्तथा पिप्पलिवत्प्रयोज्याः । लोहोपलिप्ताः पृथगेव जीवेत्समाः शतं व्याधिजराविमुक्तः ॥ १०५ ॥ ३९.१०५ व् सारास्तथा पिप्पलिवत्प्रयुञ्ज्याः ३९.१०५ व् लोहप्रलेपात्पृथगेव जीवेत् ३९.१०५ व् लोहोपलेपात्पृथगेव जीवेत् क्षीराञ्जलिभ्यां च रसायनानि युक्तान्यमून्यायसलेपनानि । कुर्वन्ति पूर्वोक्तगुणप्रकर्षमायुःप्रकर्षं द्विगुणं ततश्च ॥ १०६ ॥ असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम् । शरदमवलिहानः पारिणामान् विकारांस्त्यजति मितहिताशी तद्वदाहारजातान् ॥ १०७ ॥ ३९.१०७ व् मधुघृतगदपथ्यालोहचूर्णैरुपेताम् तीव्रेण कुष्ठेन परीतमूर्तिर्यः सोमराजीं नियमेन खादेत् । संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषातिशेते ॥ १०८ ॥ ये सोमराज्या वितुषीकृतायाश्चूर्णैरुपेतात्पयसः सुजातात् । उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानुपिबन्ति चान्ते ॥ १०९ ॥ कुष्ठिनः शीर्यमाणाङ्गास्ते जाताङ्गुलिनासिकाः । भान्ति वृक्षा इव पुनः प्ररूढनवपल्लवाः ॥ ११० ॥ ३९.११० व् कुष्ठिनः कुथ्यमानाङ्गास् शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम् । भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य ॥ ११०+(१) ॥ ३९.११०+(१)अव् शीतवातपरिदग्धतनूनां ३९.११०+(१)ब्व् स्तब्धभुग्नकुटिलव्यथितास्थ्नाम् ३९.११०+(१)च्व् भेषजं च पवनोपहतानां राहोरमृतचौर्येण लूनाद्ये पतिता गलात् । अमृतस्य कणा भूमौ ते लशुनत्वमागताः ॥ १११ ॥ ३९.१११ व् राहोरच्युतचक्रेण द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम् । साक्षादमृतसंभूतेर्ग्रामणीः स रसायनम् ॥ ११२ ॥ शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्बणः । घनोदयेऽपि वातार्तः सदा वा ग्रीष्मलीलया ॥ ११३ ॥ ३९.११३ व् वसन्ते च कफोल्बणः स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः । तद्उत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥ ११४ ॥ तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान् । अपनीतत्वचो रात्रौ तिमयेन्मदिरादिभिः ॥ ११५ ॥ ३९.११५ व् अपनीय त्वचो रात्रौ ३९.११५ व् तीमयेन्मदिरादिभिः ३९.११५ व् पेषयेन्मदिरादिभिः तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम् । मदिरायाः सुरूढायास्त्रिभागेन समन्वितम् ॥ ११६ ॥ मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा । तत्काल एव वा युक्तं युक्तमालोच्य मात्रया ॥ ११७ ॥ ३९.११७ व् मद्यस्यान्यस्य तैलस्य तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक् । क्वाथेन वा यथाव्याधि रसं केवलमेव वा ॥ ११८ ॥ ३९.११८ व् क्षीरसर्पिर्वसामज्ज ३९.११८ व् धन्वमांसरसैः पृथक् ३९.११८ व् धन्वमांसैः पृथक्पृथक् पिबेद्गण्डूषमात्रं प्राक्कण्ठनालीविशुद्धये । प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ॥ ११९ ॥ ३९.११९ व् प्रततं स्वेदनं चात्र शीताम्बुसेकः सहसा वमिमूर्छाययोर्मुखे । शेषं पिबेत्क्लमापाये स्थिरतां गत ओजसि ॥ १२० ॥ विदाहपरिहाराय परं शीतानुलेपनः । धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः ॥ १२१ ॥ ३९.१२१ व् धारयेत्साम्बुकणिकां ३९.१२१ व् मुक्तां कर्पूरमालिकाम् ३९.१२१ व् मुक्ताकर्पूरमालिकाम् कुडवोऽस्य परा मात्रा तद्अर्धं केवलस्य तु । पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक्च शीलयेत् ॥ १२२ ॥ जीर्णशाल्य्ओदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम् । भुञ्जीत यूषैर्पयसा रसैर्वा धन्वचारिणाम् ॥ १२३ ॥ मद्यमेकं पिबेत्तत्र तृट्प्रबन्धे जलान्वितम् । अमद्यपस्त्वारनालं फलाम्बु परिसिक्थकाम् ॥ १२४ ॥ ३९.१२४ व् मद्यमेकं पिबेत्त्वत्र ३९.१२४ व् तृट्[प्र]वृद्धे जलान्वितम् ३९.१२४ व् तृड्विबन्धे जलान्वितम् ३९.१२४ व् फलाम्बु परिसिक्थिकाम् ३९.१२४ व् फलाम्बु परिसित्थिकाम् ३९.१२४ व् फलाम्बु परिसिक्थिकम् ३९.१२४ व् फलाम्बुपरिषेचितम् तत्कल्कं वा समघृतं घृतपात्रे खजाहतम् । स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम् ॥ १२५ ॥ ३९.१२५ व् तद्वद्वा पयसा समम् विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान् । निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघु तुच्छमश्नन् ॥ १२६ ॥ ३९.१२६ व् विमर्दकान् वा घृतशुक्तयुक्तान् ३९.१२६ व् प्रकाममद्याल्लघु तुत्थमश्नन् पित्तरक्तविनिर्मुक्तसमस्तावरणावृते । शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम् ॥ १२७ ॥ ३९.१२७ व् पित्तरक्तविनिर्मुक्ते ३९.१२७ व् समस्तावरणावृते प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः । अतितिक्षोरजीर्णं च लशुनो व्यापदे ध्रुवम् ॥ १२८ ॥ ३९.१२८ व् मांसमद्यादिविद्विषः ३९.१२८ व् अतित्यक्षोरजीर्णं च ३९.१२८ व् अतिरूक्षैरजीर्णे च पित्तकोपभयादन्ते युञ्ज्यान्मृदु विरेचनम् । रसायनगुणानेवं परिपूर्णान् समश्नुते ॥ १२९ ॥ ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत् । हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु ॥ १३० ॥ सर्वं च तिक्तकटुकं नात्य्उष्णं कटु पाकतः । छेदनं च विशेषेण लौहं तत्र प्रशस्यते ॥ १३१ ॥ गोमूत्रगन्धि कृष्णं गुग्गुल्व्आभं विशर्करं मृत्स्नम् । स्निग्धमन्अम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् ॥ १३२ ॥ व्याधिव्याधितसात्म्यं समनुस्मरन् भावयेदयःपात्रे । प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् ॥ १३३ ॥ समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये । तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥ १३४ ॥ तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः । स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त ॥ १३५ ॥ अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम् । त्र्य्अहं युञ्जीत गिरिजमेकैकेन तथा त्र्य्अहम् ॥ १३६ ॥ ३९.१३६ व् अथ स्निग्धविशुद्धस्य फलत्रयस्य यूषेण पटोल्या मधुकस्य च । योगं योग्यं ततस्तस्य कालापेक्षं प्रयोजयेत् ॥ १३७ ॥ ३९.१३७ व् योगयोग्यं ततस्तस्य ३९.१३७ व् योगे योज्यं ततस्तस्य ३९.१३७ व् कालापेक्षं तु योजयेत् शिलाजमेवं देहस्य भवत्यत्य्उपकारकम् । गुणान् समग्रान् कुरुते सहसा व्यापदं न च ॥ १३८ ॥ एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ १३९ ॥ संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् । युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः ॥ १४० ॥ क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम् । कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् ॥ १४१ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति ॥ १४२ ॥ ३९.१४२ व् जत्वश्मजं यं न हरेत्प्रसह्य ३९.१४२ व् स्वस्थस्य चोर्जां विपुलां ददाति कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः । अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः ॥ १४३ ॥ ३९.१४३ व् कुटीप्रवेशः क्षमिणां ३९.१४३ व् कुटीप्रवेशः क्षीणानां ३९.१४३ व् सूर्यमारुतिको विधिः वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः । सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः ॥ १४४ ॥ शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः । त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः ॥ १४५ ॥ गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा । द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी ॥ १४६ ॥ हरीतकीं सर्पिषि संप्रताप्य समश्नतस्तत्पिबतो घृतं च । भवेच्चिरस्थायि बलं शरीरे सकृत्कृतं साधु यथा कृतज्ञे ॥ १४७ ॥ ३९.१४७ व् समश्नुते चेत्पिबतो घृतं च ३९.१४७ व् भवेच्चिरस्थायिबलं शरीरं ३९.१४७ व् सकृत्कृतं साधु यथा कृतज्ञाः धात्रीरसक्षौद्रसिताघृतानि हिताशनानां लिहतां नराणाम् । प्रणाशमायान्ति जराविकारा ग्रन्था विशाला इव दुर्गृहीताः ॥ १४८ ॥ ३९.१४८ व् हिताशिनां वै लिहतां नराणाम् धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु । निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमविप्रणष्टम् ॥ १४९ ॥ ३९.१४९ व् तारुण्यलावण्यमतिप्रतिष्ठम् ३९.१४९ व् तारुण्यलावण्यमपि प्रणष्टम् लौहं रजो वेल्लभवं च सर्पिःक्षौद्रद्रुतं स्थापितमब्दमात्रम् । समुद्गके बीजकसारकॢप्ते लिहन् बली जीवति कृष्णकेशः ॥ १५० ॥ ३९.१५० व् लोहं रजो वेल्लभवं च सर्पिः ३९.१५० व् लोहाद्रजो वेल्लभवं च सर्पिः ३९.१५० व् समुद्गके बीजकसारलिप्ते ३९.१५० व् सामुद्गके बीजकक्षारकॢप्ते विडङ्गभल्लातकनागराणि येऽश्नन्ति सर्पिर्मधुसंयुतानि । जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति ॥ १५१ ॥ खदिरासनयूषभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः । नियमेन नरा निषेवितारो यदि जीवन्त्यरुजः किमत्र चित्रम् ॥ १५२ ॥ ३९.१५२ व् त्रिफलाया घृतमाक्षिकान्वितायाः ३९.१५२ व् यदि जीवन्त्यजराः किम् अत्र चित्रम् बीजकस्य रसमङ्गुलिहार्यं शर्करां मधु घृतं त्रिफलां च । शीलयत्सु पुरुषेषु जरत्ता स्व्आगतापि विनिवर्तत एव ॥ १५३ ॥ ३९.१५३ व् शर्करामधुघृतं त्रिफलां च ३९.१५३ व् शर्करामधुयुतं त्रिफलां च पुनर्नवस्यार्धपलं नवस्य पिष्टं पिबेद्यः पयसार्धमासम् । मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात् ॥ १५४ ॥ मूर्वाबृहत्य्अंशुमतीबलानामुशीरपाठासनशारिवाणाम् । कालानुसार्यागुरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम् ॥ १५५ ॥ शतावरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम् । ताञ्जीविताध्वानमभिप्रपन्नान्न विप्रलुम्पन्ति विकारचौराः ॥ १५६ ॥ पीताश्वगन्धा पयसार्धमासं घृतेन तैलेन सुखाम्बुना वा । कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुवृष्टिः ॥ १५७ ॥ ३९.१५७ व् घृतेन तैलेन सुसूक्ष्मपिष्टा ३९.१५७ व् बालस्य वृक्षस्य यथाम्बुवृष्टिः दिने दिने कृष्णतिलप्रकुञ्चं समश्नतां शीतजलानुपानम् । पोषः शरीरस्य भवत्यन्अल्पो दृढीभवन्त्यामरणाच्च दन्ताः ॥ १५८ ॥ ३९.१५८ व् समश्नतः शीतजलानुपानम् चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागमिश्रम् । वृषः स्थिरः शान्तविकारदुःखः समाः शतं जीवति कृष्णकेशः ॥ १५९ ॥ ३९.१५९ व् लिहन् ससर्पिर्मधुना प्रयुक्तम् ३९.१५९ व् लिहन् ससर्पिर् मधुभागयुक्तम् सार्धं तिलैरामलकानि कृष्णैरक्षाणि संक्षुद्य हरीतकीर्वा । येऽद्युर्मयूरा इव ते मनुष्या रम्यं परीणाममवाप्नुवन्ति ॥ १६० ॥ शिलाजतुक्षौद्रविडङ्गसर्पिर्लोहाभयापारदताप्यभक्षः । आपूर्यते दुर्बलदेहधातुस्त्रिपञ्चरात्रेण यथा शशाङ्कः ॥ १६१ ॥ ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुत्थम् । क्षीराशिनस्ते बलवीर्ययुक्ताः समाः शतं जीवितमाप्नुवन्ति ॥ १६२ ॥ ३९.१६२ व् समाशतं जीवितमाप्नुवन्ति मासं वचामप्युपसेवमानाः क्षीरेण तैलेन घृतेन वापि । भवन्ति रक्षोभिरधृष्यरूपा मेधाविनो निर्मलमृष्टवाक्याः ॥ १६३ ॥ मण्डूकपर्णीमपि भक्षयन्तो भृष्टां घृते मासमन्अन्नभक्षाः । जीवन्ति कालं विपुलं प्रगल्भास्तारुण्यलावण्यगुणोदयस्थाः ॥ १६४ ॥ ३९.१६४ व् मण्डूकपर्णीं परिभक्षयन्तो ३९.१६४ व् भृष्टां घृते मासम् अन्अन्नभक्ष्याः लाङ्गलीत्रिफलालोहपलपञ्चाशता कृतम् । मार्कवस्वरसे षष्ट्या गुटिकानां शतत्रयम् ॥ १६५ ॥ ३९.१६५ व् पलपञ्चाशतः कृतात् ३९.१६५ व् पलपञ्चाशतीकृतम् ३९.१६५ व् मार्कवस्वरसे पिष्टाद् ३९.१६५ व् मार्कवस्वरसे पिष्ट्वा ३९.१६५ व् गुटिकानां शतत्रयात् छायाविशुष्कं गुटिकार्धमद्यात्पूर्वं समस्तामपि तां क्रमेण । भजेद्विरिक्तः क्रमशश्च मण्डं पेयां विलेपीं रसकौदनं च ॥ १६६ ॥ ३९.१६६ व् छायाविशुष्काद्गुटिकार्धमद्यात् सर्पिःस्निग्धं मासमेकं यतात्मा मासादूर्ध्वं सर्वथा स्वैरवृत्तिः । वर्ज्यं यत्नात्सर्वकालं त्वजीर्णं वर्षेणैवं योगमेवोपयुञ्ज्यात् ॥ १६७ ॥ ३९.१६७ व् मासादूर्ध्वं सर्वशः स्वैरवृत्तिः ३९.१६७ व् वर्षेणैवं योगम् एवोपयुञ्ज्य भवति विगतरोगो योऽप्यसाध्यामयार्तः प्रबलपुरुषकारः शोभते योऽपि वृद्धः । उपचितपृथुगात्रश्रोत्रनेत्रादियुक्तस्तरुण इव समानां पञ्च जीवेच्छतानि ॥ १६८ ॥ गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करान् ॥ १६९ ॥ ३९.१६९ व् गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करं पिष्ट्वाष्टादशसंगुणेऽम्भसि धृतान् खण्डैः सहायोमयैः ॥ १६९ ॥ ३९.१६९ व् पिष्ट्वाष्टादशसंगुणेऽम्भसि धृतान् खण्डैः सहायोमलैः ३९.१६९ व् पिष्ट्वाष्टादशसंगुणेऽम्भसि धृतं खण्डैः सहायोमयैः ३९.१६९ व् पिष्ट्वाष्टौ दशषड्गुणेऽम्भसि धृतं खण्डैः सहायोमयैः पात्रे लोहमये त्र्य्अहं रविकरैरालोडयन् पाचयेद् ॥ १६९ ॥ ३९.१६९ व् पात्रे लोहकृते त्र्य्अहं रविकरैरालोडयन् पाचयेद् अग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत्पचेत् ॥ १६९ ॥ पूतस्यांशः क्षीरतोऽंशस्तथांशौ भार्गान्निर्यासाद्द्वौ वरायास्त्रयोऽंशाः । अंशाश्चत्वारश्चेह हैयङ्गवीनादेकीकृत्यैतत्साधयेत्कृष्णलौहे ॥ १७० ॥ ३९.१७० व् भार्गीनिर्यासाद्द्वौ वरायास्त्रयोऽंशाः ३९.१७० व् अंशाश्चत्वारश्चैव हैयङ्गवीनाद् विमलखण्डसितामधुभिः पृथग्युतमयुक्तमिदं यदि वा घृतम् । स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन् ॥ १७१ ॥ ३९.१७१ व् विमलया सितया मधुनाथवा ३९.१७१ व् भवति ना पलशः परिशीलयेत् श्रीमान्निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गः ॥ १७२ ॥ केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी ॥ १७२ ॥ ३९.१७२ व् केशैर्भृङ्गातिनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी वाङ्मेधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगाद् ॥ १७२ ॥ ३९.१७२ व् वाङ्मेधावी समृद्धः सुपटुहुतवहो मासमात्रोपयोगाद् धत्तेऽसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम् ॥ १७२ ॥ अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्यपि । चक्रोज्ज्वलभुजं भीता नारसिंहमिवासुराः ॥ १७३ ॥ ३९.१७३ व् चक्रोज्ज्वलभुजा भीता भृङ्गप्रवालानमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा । विशुद्धकोष्ठोऽसनसारसिद्धदुग्धानुपस्तत्कृतभोजनार्थः ॥ १७४ ॥ मासोपयोगात्स सुखी जीवत्यब्दशतत्रयम् । गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्द्रियः ॥ १७५ ॥ ३९.१७५ व् जीवत्यब्दशतद्वयम् अनेनैव च कल्पेन यस्तैलमुपयोजयेत् । तानेवाप्नोति स गुणान् कृष्णकेशश्च जायते ॥ १७६ ॥ उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि । महानुशंसान्यपि चापराणि प्राप्त्य्आदिकष्टानि न कीर्तितानि ॥ १७७ ॥ ३९.१७७ व् महानुभावान्यपि चापराणि ३९.१७७ व् महानुशंस्यान्यपि चापराणि रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि । यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥ १७८ ॥ सत्यवादिनमक्रोधमध्य्आत्मप्रवणेन्द्रियम् । शान्तं सद्वृत्तनिरतं विद्यान्नित्यरसायनम् ॥ १७९ ॥ गुणैरेभिः समुदितः सेवते यो रसायनम् । स निवृत्तात्मा दीर्घायुः परत्रेह च मोदते ॥ १८० ॥ ३९.१८० व् गुणैरेतैः समुदितैः ३९.१८० व् स निर्वृतात्मा दीर्घायुः शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्तिनः । बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम् ॥ १८१ ॥ ऊत्तरस्थान वाजीकरणमन्विच्छेत्सततं विषयी पुमान् । तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम् ॥ १ ॥ अपत्यसंतानकरं यत्सद्यः संप्रहर्षणम् । वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः ॥ २ ॥ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते । तद्वाजीकरणं तद्धि देहस्योर्जस्करं परम् ॥ ३ ॥ ४०.३ व् देहस्यौजस्करं परम् धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् । अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम् ॥ ४ ॥ ४०.४ व् धन्यं यशस्यमायुष्यं ४०.४ व् लोकद्वयसुखावहम् ४०.४ व् लोकद्वयहितावहम् अल्पसत्त्वस्य तु क्लेशैर्बाध्यमानस्य रागिणः । शरीरक्षयरक्षार्थं वाजीकरणमुच्यते ॥ ५ ॥ ४०.५ व् अल्पसत्त्वस्य च क्लेशैर् ४०.५ व् अल्पसत्त्वस्य चोत्क्लेशैर् ४०.५ व् बाध्यमानस्य रोगिणः कल्यस्योदग्रवयसो वाजीकरणसेविनः । सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते ॥ ६ ॥ ४०.६ व् कल्पस्योदग्रवयसो अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान् । घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान् ॥ ७ ॥ योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम् । ततो वाजीकरान् योगान् शुक्रापत्यबलप्रदान् ॥ ८ ॥ ४०.८ व् शुक्रापत्यविवर्धनान् अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः । यथैकश्चैकशाखश्च निर्अपत्यस्तथा नरः ॥ ९ ॥ स्खलद्गमनमव्यक्तवचनं धूलिधूसरम् । अपि लालाविलमुखं हृदयाह्लादकारकम् ॥ १० ॥ ४०.१० व् हृदयाह्लादकारिणम् अपत्यं तुल्यतां केन दर्शनस्पर्शनादिषु । किं पुनर्यद्यशोधर्ममानश्रीकुलवर्धनम् ॥ ११ ॥ ४०.११ व् अपत्यं तुल्यता केन ४०.११ व् किं पुनर्यो यशोधर्म ४०.११ व् मानश्रीकुलवर्धनः ४०.११ व् मानश्रीकुलवर्धनात् शुद्धकाये यथाशक्ति वृष्ययोगान् प्रयोजयेत् । शरेक्षुकुशकाशानां विदार्या वीरणस्य च ॥ १२ ॥ ४०.१२ व् शुद्धे काये यथाशक्ति मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम् । मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥ १३ ॥ अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम् । वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम् ॥ १४ ॥ मधुकं शालिपर्णीं च भागांस्त्रिपलिकान् पृथक् । माषाणामाढकं चैतद्द्विद्रोणे साधयेदपाम् ॥ १५ ॥ रसेनाढकशेषेण पचेत्तेन घृताढकम् । दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम् ॥ १६ ॥ घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत् । वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम् ॥ १७ ॥ ४०.१७ व् यष्टिकं गजपिप्पलीम् द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् । तत्सिद्धपूतं चूर्णस्य पृथक्प्रस्थेन योजयेत् ॥ १८ ॥ शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च । मरिचस्य प्रकुञ्चेन पृथगर्धपलोन्मितैः ॥ १९ ॥ त्वग्एलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च । पलमात्रं ततः खादेत्प्रत्य्अहं रसदुग्धभुक् ॥ २० ॥ ४०.२० व् क्षौद्राद्द्विकुडवेन च ४०.२० व् प्रत्य्अहं मधुदुग्धभुक् तेनारोहति वाजीव कुलिङ्ग इव हृष्यति । विदारीपिप्पलीशालिप्रियालेक्षुरकाद्रजः ॥ २१ ॥ पृथक्स्वगुप्तामूलाच्च कुडवांशं तथा मधु । तुलार्धं शर्कराचूर्णात्प्रस्थार्धं नवसर्पिषः ॥ २२ ॥ सोऽक्षमात्रमतः खादेत्यस्य रामाशतं गृहे । सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान् हिमान् ॥ २३ ॥ ४०.२३ व् यस्य कान्ताशतं गृहे माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयोऽनुपः । जागर्ति रात्रिं सकलामखिन्नः खेदयन् स्त्रियः ॥ २४ ॥ बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् । यः खादेत्ससितान् गच्छेत्स स्त्रीशतमपूर्ववत् ॥ २५ ॥ ४०.२५ व् भावितान् बहुशस्तिलान् चूर्णं विदार्या बहुशः स्वरसेनैव भावितम् । क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति ॥ २६ ॥ ४०.२६ व् प्रमदा दश गच्छति कृष्णाधात्रीफलरजः स्वरसेन सुभावितम् । शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत् ॥ २७ ॥ ४०.२७ व् कृष्णधात्रीफलरजः स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति । कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥ २८ ॥ ४०.२८ व् घृतक्षौद्रसमांशकम् पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् । कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत् ॥ २९ ॥ सिताघृतपयोऽन्नाशी स नारीषु वृषायते । यः पयस्यां पयःसिद्धां खादेन्मधुघृतान्विताम् ॥ ३० ॥ पिबेद्बाष्कयणं चानु क्षीरं न क्षयमेति सः । स्वयङ्गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम् ॥ ३१ ॥ ४०.३१ व् पिबेद्बाष्कयिणं चानु धारोष्णेन नरः पीत्वा पयसा रासभायते । उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत् ॥ ३२ ॥ चन्द्रशुभ्रं दधिसरं ससिताषष्टिकौदनम् । पटे सुमार्जितं भुक्त्वा वृद्धोऽपि तरुणायते ॥ ३३ ॥ ४०.३३ च् पटे सुभावितं भुक्त्वा श्वदंष्ट्रेक्षुरमाषात्मगुप्ताबीजशतावरीः । पिबन् क्षीरेण जीर्णोऽपि गच्छति प्रमदाशतम् ॥ ३४ ॥ ४०.३४ व् पिबेत्क्षीरेण जीर्णोऽपि यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम् । मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते ॥ ३५ ॥ द्रव्यैरेवंविधैस्तस्माद्दर्पितः प्रमदां व्रजेत् । आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ॥ ३६ ॥ ४०.३६ व् भावितः प्रमदां व्रजेत् सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः । विषयातिशयाः पञ्च शराः कुसुमधन्वनः ॥ ३७ ॥ ४०.३७ व् शराः कुसुमधन्विनः इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम् । किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ॥ ३८ ॥ ४०.३८ व् किं पुनः स्त्रीशरीरेषु नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिरन्आप्तपूर्वा । सर्वेन्द्रियाकर्षणपाशभूता कान्तानुवृत्तिव्रतदीक्षिता या ॥ ३९ ॥ ४०.३९ व् यां पश्यतस्तृप्तिरन्आप्तपूर्वा कलाविलासाङ्गवयोविभूषा शुचिः सलज्जा रहसि प्रगल्भा । प्रियंवदा तुल्यमनःशया या सा स्त्री वृष्यत्वाय परं नरस्य ॥ ४० ॥ ४०.४० व् प्रियंवदा तुल्यमनःस्वभावा आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामन्अवद्याम् । देशकालबलशक्त्य्अनुरोधाद्वैद्यतन्त्रसमयोक्त्य्अविरुद्धाम् ॥ ४१ ॥ ४०.४१ व् कामशास्त्रविहितामन्अवद्याम् अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्राभरणप्रकाराः । गान्धर्वकाव्यादिकथाप्रवीणाः समस्वभावा वशगा वयस्याः ॥ ४२ ॥ ४०.४२ व् स्रग्अन्नवस्त्राभरणप्रकाराः ४०.४२ व् गन्धर्वकन्यादिकथाप्रवीणाः दीर्घिका स्वभवनान्तनिविष्टा पद्मरेणुमधुमत्तविहङ्गा । नीलसानुगिरिकूटनितम्बे काननानि पुरकण्ठगतानि ॥ ४३ ॥ ४०.४३ व् दीर्घिकाः स्वभवनान्तनिविष्टाः ४०.४३ व् पद्मरेणुमधुमत्तविहङ्गाः ४०.४३ व् नीलसानुगिरिकूटनितम्बाः दृष्टिसुखा विविधा तरुजातिः श्रोत्रसुखः कलकोकिलनादः । अङ्गसुखर्तुवशेन विभूषा चित्तसुखः सकलः परिवारः ॥ ४४ ॥ ४०.४४ व् श्रोत्रसुखाः कलकोकिलनादाः ४०.४४ व् अङ्गसुखर्तु विशेषविभूषा ताम्बूलमच्छमदिरा कान्ता कान्ता निशा शशाङ्काङ्का । यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत् ॥ ४५ ॥ ४०.४५ व् कान्ताः कान्ता निशाः शशाङ्काङ्काः ४०.४५ व् मनसो वाजीकरं हि तत् मधु मुखमिव सोत्पलं प्रियायाः कलरणना परिवादिनी प्रियेव । कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ ४६ ॥ ४०.४६ व् कलरणना प्रियवादिनी प्रियेव ४०.४६ व् कुसुमचयमनोहरा च शय्या देशे शरीरे च न काचिदर्तिरर्थेषु नाल्पोऽपि मनोविधानः । वाजीकराः संनिहिताश्च योगाः कामस्य कामं परिपूरयन्ति ॥ ४७ ॥ ४०.४७ व् देशे शरीरे न कदाचिदर्तिर् ४०.४७ व् अर्थेषु नाल्पोऽपि मनोऽभिघातः मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्भृष्टलोष्टोद्भवम् ॥ ४८ ॥ लाजाश्छर्दिषु वस्तिजेषु गिरिजं मेहेषु धात्रीनिशे ॥ ४८ ॥ पाण्डौ श्रेष्ठमयोऽभयानिलकफे प्लीहामये पिप्पली ॥ ४८ ॥ संधाने कृमिजा विषे शुकतरुर्मेदोऽनिले गुग्गुलुः ॥ ४८ ॥ वृषोऽस्रपित्ते कुटजोऽतिसारे भल्लातकोऽर्शःसु गरेषु हेम । स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छागपयोऽथ मांसम् ॥ ४९ ॥ ४०.४९ व् भल्लातमर्शःसु गरेषु हेम अक्ष्य्आमयेषु त्रिफला गुडूची वातास्ररोगे मथितं ग्रहण्याम् । कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च ॥ ५० ॥ उन्मादं घृतमनवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी । निद्रानाशं क्षीरं जयति रसाला प्रतिश्यायम् ॥ ५१ ॥ ४०.५१ व् शोकं मद्यं विसंस्मृतिं ब्राह्मी मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्धगात्रतां स्वेदः । गुडमञ्जर्याः खपुरो नस्यात्स्कन्धांसबाहुरुजम् ॥ ५२ ॥ ४०.५२ व् नस्यं स्कन्धांसबाहुरुजम् नवनीतखण्डमर्दितमौष्ट्रं मूत्रं पयश्च हन्त्युदरम् । नस्यं मूर्धविकारान् विद्रधिमचिरोत्थितमस्रविस्रावः ॥ ५३ ॥ ४०.५३ व् औष्ट्रीमूत्रं पयश्च हन्त्युदरम् ४०.५३ व् नस्यं चोर्ध्वविकारान् ४०.५३ व् नस्यं मूर्ध्नि विकारान् नस्यं कवडो मुखजान्नस्याञ्जनतर्पणानि नेत्ररुजः । वृद्धस्य क्षीरघृते मूर्छां शीताम्बुमारुतच्छायाः ॥ ५४ ॥ ४०.५४ व् नस्यं कवडं मुखगदान् ४०.५४ व् नस्यं केवलं मुखगदान् ४०.५४ व् नस्यं कवडं मुखजान् समशुक्तार्द्रकमात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् । दुःखसहत्वे स्थैर्ये व्यायामो गोक्षुरुर्हितः कृच्छ्रे ॥ ५५ ॥ ४०.५५ व् समशुष्कार्द्रकमात्रा ४०.५५ व् मन्दे वह्नौ श्रमे सुरापानम् ४०.५५ व् दुःखसहत्वं स्थैर्ये ४०.५५ व् दुःखसहत्वं स्थौल्ये कासे निदिग्धिका पार्श्वशूले पुष्करजा जटा । वयसः स्थापने धात्री त्रिफला गुग्गुलुर्व्रणे ॥ ५६ ॥ ४०.५६ व् कासे निदिग्धिकापानं ४०.५६ व् पार्श्वशूले च पौष्करम् ४०.५६ व् वयःसंस्थापने धात्री वस्तिर्वातविकारान् पैत्तान् रेकः कफोद्भवान् वमनम् । क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम् ॥ ५७ ॥ इत्यग्र्यं यत्प्रोक्तं रोगाणामौषधं शमायालम् । तद्देशकालबलतो विकल्पनीयं यथायोगम् ॥ ५८ ॥ इत्यात्रेयादागमय्यार्थसूत्रं तत्सूक्तानां पेशलानामतृप्तः । भेडादीनां संमतो भक्तिनम्रः पप्रच्छेदं संशयानोऽग्निवेशः ॥ ५९ ॥ ४०.५९ व् इत्यात्रेयादागमादार्थसूक्ष्मं ४०.५९ व् इत्यात्रेयाद् आगमय्यार्थसूक्ष्मं ४०.५९ व् तत्सूक्तीनां पेशलानामतृप्तः दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः । द्रव्योपस्थातृसंपन्ना वृद्धवैद्यमतानुगाः ॥ ६० ॥ क्षीयमाणामयप्राणा विपरीतास्तथाऽपरे । हिताहितविभागस्य फलं तस्मादनिश्चितम् ॥ ६१ ॥ किं शास्ति शास्त्रमस्मिनिति कल्पयतोऽग्निवेशमुख्यस्य । शिष्यगणस्य पुनर्वसुराचख्यौ कार्त्स्न्यतस्तत्त्वम् ॥ ६२ ॥ ४०.६२ व् आचक्षे कार्त्स्न्यतस्तत्त्वम् न चिकित्साचिकित्सा च तुल्या भवितुमर्हति । विनापि क्रियया स्वास्थ्यं गच्छतां षोडशांशया ॥ ६३ ॥ आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम् । जीवितं म्रियमाणानां सर्वेषामेव नौषधात् ॥ ६४ ॥ ४०.६४ व् सर्वेषामेव नौषधम् न ह्युपायमपेक्षन्ते सर्वे रोगा न चान्यथा । उपायसाध्याः सिध्यन्ति नाहेतुर्हेतुमान् यतः ॥ ६५ ॥ ४०.६५ व् नोऽहेतुर्हेतुमांस्ततः यदुक्तं सर्वसंपत्तियुक्तयापि चिकित्सया । मृत्युर्भवति तन्नैवं नोपायेऽस्त्यन्उपायता ॥ ६६ ॥ ४०.६६ व् नोपायेष्वन्उपायता अपि चोपाययुक्तस्य धीमतो जातु चित्क्रिया । न सिध्येद्दैववैगुण्यान्न त्वियं षोडशात्मिका ॥ ६७ ॥ ४०.६७ व् अप्येवोपाययुक्तस्य ४०.६७ व् न सिद्धिर्दैववैगुण्यान् ४०.६७ व् न न्वियं षोडशात्मिका कस्यासिद्धोऽग्नितोयादिः स्वेदस्तम्भादिकर्मणि । न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ॥ ६८ ॥ ४०.६८ व् न प्रीणनं कर्शनं वा ४०.६८ व् कस्य क्षीरगवेधुकम् कस्य माषात्मगुप्तादौ वृष्यत्वे नास्ति निश्चयः । विण्मूत्रकरणाक्षेपौ कस्य संशयितौ यवे ॥ ६९ ॥ ४०.६९ व् कस्य माषात्मगुप्ताद्यैर् ४०.६९ व् वृषत्वे नास्ति निश्चयः विषं कस्य जरां याति मन्त्रतन्त्रविवर्जितम् । कः प्राप्तः कल्यतां पथ्यादृते रोहिणिकादिषु ॥ ७० ॥ ४०.७० व् कः प्राप्तः कल्पतां पथ्याद् अपि चाकालमरणं सर्वसिद्धान्तनिश्चितम् । महतापि प्रयत्नेन वार्यतां कथमन्यथा ॥ ७१ ॥ चन्दनाद्यपि दाहादौ रूढमागमपूर्वकम् । शास्त्रादेव गतं सिद्धिं ज्वरे लङ्घनबृंहणम् ॥ ७२ ॥ चतुष्पाद्गुणसंपन्ने सम्यगालोच्य योजिते । मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते ॥ ७३ ॥ ४०.७३ व् चतुष्पाद्गुणसंपूर्णे ४०.७३ व् मा कृथा व्याधिनिर्घाते एतद्धि मृत्युपाशानामकाण्डे छेदनं दृढम् । रोगोत्त्रासितभीतानां रक्षासूत्रमसूत्रकम् ॥ ७४ ॥ एतत्तदमृतं साक्षाज्जगद्आयासवर्जितम् । याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम् ॥ ७५ ॥ ४०.७५ व् एतद्वेदामृतं साक्षाज् ४०.७५ व् जगत्यायासवर्जितम् ४०.७५ व् याति हालाहलत्वं च अज्ञातशास्त्रसद्भावाञ्छास्त्रमात्रपरायणान् । त्यजेद्दूराद्भिषक्पाशान् पाशान् वैवस्वतानिव ॥ ७६ ॥ ४०.७६ व् विवर्जयेद्भिषक्पाशान् भिषजां साधुवृत्तानां भद्रमागमशालिनाम् । अभ्यस्तकर्मणां भद्रं भद्रं भद्राभिलाषिणाम् ॥ ७७ ॥ ४०.७७ व् बहुधागमशालिनाम् ४०.७७ व् भद्रमागमशीलिनाम् ४०.७७ व् अभ्यस्तकर्मणां सिद्धिर् इति तन्त्रगुणैर्युक्तं तन्त्रदोषैर्विवर्जितम् । चिकित्साशास्त्रमखिलं व्याप्य यत्परितः स्थितम् ॥ ७८ ॥ ४०.७८ व् तन्त्रदोषविवर्जितम् ४०.७८ व् व्यापठ्य परितः स्थितम् विपुलामलविज्ञानमहामुनिमतानुगम् । महासागरगम्भीरसंग्रहार्थोपलक्षणम् ॥ ७९ ॥ ४०.७९ व् विपुलामलविज्ञानं ४०.७९ व् महासागरगम्भीरं ४०.७९ व् महामुनिमतानुगम् ४०.७९ व् संग्रहार्थोपलक्षणम् ४०.७९ व् संग्रहार्थोपलक्षकम् अष्टाङ्गवैद्यकमहोदधिमन्थनेन योऽष्टाङ्गसंग्रहमहामृतराशिराप्तः । तस्मादन्अल्पफलमल्पसमुद्यमानां प्रीत्य्अर्थमेतदुदितं पृथगेव तन्त्रम् ॥ ८० ॥ ४०.८० व् योऽष्टाङ्गसंग्रहमहामृतसारतुल्यः ४०.८० व् प्रीत्य्अर्थमेवम् उदितं पृथगेव तन्त्रम् इदमागमसिद्धत्वात्प्रत्यक्षफलदर्शनात् । मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथञ्चन ॥ ८१ ॥ ४०.८१ व् इदमागमशुद्धत्वात् ४०.८१ व् न मीमांस्यं कदाचन दीर्घजीवितमारोग्यं धर्ममर्थं सुखं यशः । पाठावबोधानुष्ठानैरधिगच्छत्यतो ध्रुवम् ॥ ८२ ॥ ४०.८२ व् दीर्घं जीवितमारोग्यं एतत्पठन् संग्रहबोधशक्तः स्व्अभ्यस्तकर्मा भिषगप्रकम्प्यः । आकम्पयत्यन्यविशालतन्त्रकृताभियोगान् यदि तन्न चित्रम् ॥ ८३ ॥ ४०.८३ व् यः कम्पयत्यन्यविशालतन्त्र यदि चरकमधीते तद्ध्रुवं सुश्रुतादिप्रणिगदितगदानां नाममात्रेऽपि बाह्यः । अथ चरकविहीनः प्रक्रियायामक्लिन्नः किमिव खलु करोतु व्याधितानां वराकः ॥ ८४ ॥ ४०.८४ व् प्रणिगदितगदानां नाममात्रेण बाह्यः ४०.८४ व् प्रतिगदितगदानां नाममात्रेऽपि बाह्यः ४०.८४ व् किमिह खलु करोतु व्याधितानां वराकः अभिनिवेशवशादभियुज्यते सुभणितेऽपि न यो दृढमूढकः । पठतु यत्नपरः पुरुषायुषं स खलु वैद्यकमाद्यमनिर्विदः ॥ ८५ ॥ वाते पित्ते श्लेष्मशान्तौ च पथ्यं तैलं सर्पिर्माक्षिकं च क्रमेण । एतद्ब्रह्मा भाषतां ब्रह्मजो वा का निर्मन्त्रे वक्तृभेदोक्तिशक्तिः ॥ ८६ ॥ ४०.८६ व् एतद्ब्रह्मा भाषते ब्रह्मजो वा अभिधातृवशात्किं वा द्रव्यशक्तिर्विशिष्यते । अतो मत्सरमुत्सृज्य माध्यस्थ्यमवलम्ब्यताम् ॥ ८७ ॥ ४०.८७ व् अभिधातुर्वशात्किञ्चिद् ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ । भेडाद्याः किं न पठ्यन्ते तस्माद्ग्राह्यं सुभाषितम् ॥ ८८ ॥ हृदयमिव हृदयमेतत्सर्वायुर्वेदवाङ्मयपयोधेः । कृत्वा यच्छुभमाप्तं शुभमस्तु परं ततो जगतः ॥ ८९ ॥