रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते । सर्वौषधमये देशे रम्ये कूपसमन्विते ॥ ३.१ ॥ यक्षराजसहस्राक्षदिग्विभागे सुशोभने । नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥ ३.२ ॥ {रस्शाला में कहां क्या करें?} शालायाः पूर्वदिग्भागे स्थापयेद्रसभैरवम् । वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ॥ ३.३ ॥ नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् । शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ॥ ३.४ ॥ स्थापनं सिद्धवस्तूनां प्रकुर्यादीशकोणके । पदार्थसंग्रहः कार्यो रससाधनहेतुकः ॥ ३.५ ॥ {रस्शाला में संग्रहणी उपकरण्} सत्त्वपातनकोष्ठीं च गारकोष्ठीं सुशोभनाम् । भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोणीस्वनेकशः ॥ ३.६ ॥ भस्त्रिकायुगलं तद्वन्नलिके वंशलौहयोः । स्वर्णायोघोषशुल्बाश्मकुण्ड्यश्चर्मकृतां तथा ॥ ३.७ ॥ करणानि विचित्राणि सर्वाण्यपि समाहरेत् । मन्थानः पेषणी खल्वा द्रोणीरूपाश्च वर्तुलाः ॥ ३.८ ॥ आयसास्तप्तखल्वाश्च मर्दकाश्च तथाविधाः । सूक्ष्मछिद्रसहस्राढ्या द्रव्यचालनहेतवे ॥ ३.९ ॥ चालनी च कटत्राणी शिला लौली च कण्डनी । मूषामृत्तुषकार्पासवनोपलपिष्टकम् ॥ ३.१० ॥ त्रिविधं भेषजं धातुजीवमूलमयं तथा । शिखित्रा गोवरं चैव शर्करा च सितोपला ॥ ३.११ ॥ काचायोमृद्वराटानां कूपिकाश्चषकाणि च । शूर्पादिवेणुपात्राणि क्षुद्रक्षिप्राश्च शङ्खकाः ॥ ३.१२ ॥ क्षुरप्राश्च तथा पाल्यो यच्चान्यत्तत्र युज्यते । पालिका कर्णिका चैव शाकच्छेदनशस्त्रिका ॥ ३.१३ ॥ शालासम्मार्जनार्थं हि रसपाकान्तकर्म यत् । तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ॥ ३.१४ ॥ श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समाहरेत् । अन्यथा तद्गतं तेजः परिगृह्णाति भैरवः ॥ ३.१५ ॥ {चालिनी} चालिनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते । वैणवीभिः शलाकाभिनिर्मिता ग्रथिता गुणैः ॥ ३.१६ ॥ कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता । चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ॥ ३.१७ ॥ कर्णिकारस्य शाल्मल्याः पारिजातस्य कम्बया । चतुरङ्गुलविस्तारयुक्त्या निर्मिता शुभा ॥ ३.१८ ॥ कुण्डल्यरत्निविस्तारा छागचर्माभवेष्टिता । वाजिवालाम्बरानद्धतला चालनिका परा ॥ ३.१९ ॥ तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः । {अङ्गार} शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिलाः मताः ॥ ३.२० ॥ कोकिलाश्चेति तेऽङ्गाराः निर्वाणाः पयसा विना । {उपल} पिष्टकं छगणं छाणमुपलं चोत्पलं तथा ॥ ३.२१ ॥ करण्डोपलसारी च संशुष्कछगणाभिधाः । {बोत्त्ले} कूपिका छम्पिका सिद्धा गोला चैव करण्डिका ॥ ३.२२ ॥ {चषक} चषका च कटोरी च वाटिका घोटिका तथा । कचोली ग्राहिका चेति नामान्येकार्थकानि हि ॥ ३.२३ ॥ {रस्कर्ं में कैसा वैद्य्को रखे} रससंहितयोर्वैद्याः निघण्टुज्ञाश्च वार्त्तिकाः । सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ॥ ३.२४ ॥ धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः । सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ॥ ३.२५ ॥ पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः । अनामाधः स्थरेस्वाङ्कः स स्यादमृतहस्तवान् ॥ ३.२६ ॥ {अल्छेमिस्त्:: बद्वरिअन्त्} अदेशिकः कृपामुक्तो लुब्धो युक्तिविवर्जितः । कृष्णरेखाकरो वैद्यो दग्धहस्तो विवर्जितः ॥ ३.२७ ॥ रसपाकावसाने हि सदाघोरं च जापयेत् । {अस्सिस्तन्त्} सोद्यमाः शुचयः शूराः बलिष्ठाः परिचारकाः ॥ ३.२८ ॥ भूतविग्रहमन्त्रज्ञास्ते योज्या निधिसाधने । बलिष्ठाः सत्त्ववन्तश्च रक्ताक्षाः कृष्णविग्रहाः ॥ ३.२९ ॥ भूतत्रासनविद्याश्च ते योज्याः बलिसाधने । निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ॥ ३.३० ॥ यमिनः पथ्यभोक्तारो योजनीया रसायने । धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ॥ ३.३१ ॥ गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः । {चोल्लेच्तोर्सोf द्रुग्स्} तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ॥ ३.३२ ॥ नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ । शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ॥ ३.३३ ॥ सन्देहोज्झितचित्तानां रसः सिध्यति नान्यथा । दशाष्टक्रियया सिद्धे रसेऽसौ साधकोत्तमः ॥ ३.३४ ॥ महारसोऽयमित्युक्त्वा सेवेतान्यत्र तं रसं । रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः । जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ॥ ३.३५ ॥ ऋचूम्, ४ कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये । परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ ४.१ ॥ {धान्वन्तरभाग} अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः । यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिं सर्वारोग्यसुखाप्तये निगदितो भागः स धान्वन्तरः ॥ ४.२ ॥ {रुद्रभाग} भैषज्यक्रीणितद्रव्यभागश्चैकादशो हि यः । वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ॥ ४.३ ॥ प्रगृह्याधिकरुद्रांशं योऽसमीचीनमौषधम् । दापयेल्लुब्धधीर्वैद्यः स स्याद्विश्वासघातकः ॥ ४.४ ॥ शास्त्रेषु विहिता शुद्धिर्ब्रह्महत्याकृतामपि । विश्वासघातिनां पुंसां न शुद्धिर्मरणं विना ॥ ४.५ ॥ {कज्जली} धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः । सुश्लक्ष्णः कज्जलाभासः कज्जलीत्यभिधीयते ॥ ४.६ ॥ {रसपङ्क} सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः ॥ ४.७ ॥ {नवनीतपिष्टी} अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽभिखल्वे । अर्कातपे तीव्रतरे सघर्मे पिष्टी भवेत्सा नवनीतरूपा ॥ ४.८ ॥ {पिष्टी} खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् । पेषणात्पिष्टतां याति सापि पिष्टी मता परैः ॥ ४.९ ॥ {पातनपिष्टी} चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका । भवेत्पातनपिष्टी सा रसस्योत्तमसिद्धिदा ॥ ४.१० ॥ {हेमतारयोः कृष्टी} रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् । समुत्थितं हि बहुशः सा कृष्टी हेमतारयोः ॥ ४.११ ॥ {स्वर्णकृष्टी} कृष्टी क्षिप्ता सुवर्णान्तर्न वर्णो हीयते तया । स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ॥ ४.१२ ॥ {वरलोहक} ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः । सगन्धे लकुचद्रावे निर्गतं वरलोहकम् ॥ ४.१३ ॥ {स्वर्णरक्ती} तेन रक्तीकृतं स्वर्णं स्वर्णरक्तीत्युदाहृतम् । निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी । तारस्य रञ्जनी चापि बीजरागविधायिनी ॥ ४.१४ ॥ {ताररक्ती} एवमेव प्रकर्तव्या ताररक्ती मनोहरा । रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥ ४.१५ ॥ {चन्द्रानलयोर्दलम्} मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् । सितत्वपीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥ ४.१६ ॥ {सितपीतदल} आभासकृतबद्धेन रसेन सह योजितम् । साधितं चान्यलोहेन सितं पीतं हि तद्दलम् ॥ ४.१७ ॥ {अयोनाग} ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् । शिलयाप्याहतं नागं वारं वारं समुत्थितम् ॥ ४.१८ ॥ तद्द्वयं द्विपलं चाथ ताप्यभस्म पलद्वयम् । सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् ॥ ४.१९ ॥ तदयोनागमित्युक्तं साधकं देहलोहयोः । रसेन सारणायन्त्रे तदीया गुटिका कृता ॥ ४.२० ॥ सा धृता वदने हन्ति मेहव्यूहमशेषतः । कुरुते दन्तदार्ढ्यं च दृष्टिं गृध्रदृशाविव । तथान्यान्नेत्रजान् रोगान् रोगान् जत्रूर्ध्वसम्भवान् ॥ ४.२१ ॥ {शुल्बनाग} माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् । तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥ ४.२२ ॥ नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् । इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्त्यते ॥ ४.२३ ॥ सारितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् । निहन्ति मासमात्रेण मेहव्यूहमशेषतः ॥ ४.२४ ॥ पथ्याशनस्य वर्षेण पलितं वलिभिः सह । गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ॥ ४.२५ ॥ {पिञ्जरी} लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे । पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥ ४.२६ ॥ {चन्द्रार्क} भागाः षोडश तारस्य तथा द्वादश भास्करः । एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ॥ ४.२७ ॥ {निर्वाहण्निर्वापण} साध्यलोहेऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः । निर्वापणं तु यत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥ ४.२८ ॥ क्षेप्यं निर्वाहणं द्रव्यं निर्वाह्ये समभागिकम् । आवाप्यं वापनीये च भागे दिष्टे च दिष्टवत् ॥ ४.२९ ॥ {वारितर} मृतं तरति तत्तोये लोहं वारितरं हि तत् ॥ ४.३० ॥ {रेखापूर्ण} अङ्गुष्ठतर्जनीघृष्टं तत्तद्रेखान्तरे विशेत् । मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥ ४.३१ ॥ {अपुनर्भव} गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् । नायाति प्रकृतिं ध्मानादपुनर्भवमुच्यते ॥ ४.३२ ॥ {निरुत्थ} रूप्येण सह संयुक्तं ध्मातं रूप्येण नो लगेत् । तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥ ४.३३ ॥ एवं रूप्यं सनागं चेद्ध्मातं ताम्रे लगेन्न हि । तदा निरुत्थं मन्तव्यं रञ्जनं च भिषग्वरैः ॥ ४.३४ ॥ {बीज} निर्वाहणविशेषेण तत्तद्वर्णं भवेद्यदा । मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥ ४.३५ ॥ इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु । {ताडन} संसृष्टलोहयोरेकलोहस्य परिनाशनम् । प्रध्मानाद्वङ्कनालेन तत्ताडनमुदाहृतम् ॥ ४.३६ ॥ {धान्याभ्र} चूर्णाभ्रं शालिसंयुक्तं वस्त्रे बद्धं तु काञ्जिके । निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ ४.३७ ॥ {सत्त्व} क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके । यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥ ४.३८ ॥ {एककोलिशिख} कोष्ठिका शिखरापूर्णैः कोलिशैर्ध्मानयोगतः । मूषाकण्ठमनुप्राप्तैरेककोलिशिखो मतः ॥ ४.३९ ॥ {छर्चोअल्(स्य्न्.)} शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः । कृष्णाङ्गाः कोलिशाश्चेति पर्यायास्ते परस्परम् ॥ ४.४० ॥ द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः । उद्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ॥ ४.४१ ॥ {हिङ्गुलाकृष्ट} विद्याधराख्ययन्त्रस्थादार्द्रकद्रावमर्दितात् । समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥ ४.४२ ॥ {घोषाकृष्ट} स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् । मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ॥ ४.४३ ॥ {गुह्यनाग} पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् । रूपिकादुग्धसम्पिष्टशिलया परिलेपितम् ॥ ४.४४ ॥ शरावसम्पुटे रुद्ध्वा पचेत्क्रोडपुटेन तम् । तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ॥ ४.४५ ॥ गुडगुग्गुलुगुञ्जाज्यसारघैः परिमर्द्य तत् । मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ॥ ४.४६ ॥ चक्रान्तेन पुनः कृत्वा पलप्रमितपारदैः । लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ॥ ४.४७ ॥ पचेद्गजपुटैरेनं वाराणां खलु विंशतिः । पुटे पुटे हि नागस्य कुर्यादुत्थानं खलु ॥ ४.४८ ॥ नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् । इति सिद्धं ततः सीसं कर्षमात्रावशेषितम् ॥ ४.४९ ॥ गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायनम् । {गुह्यनाग:: ग्रास ओf गोल्द्} निष्कमात्रे तु नागेऽस्मिन् लोहखार्यां द्रुते सति ॥ ४.५० ॥ स्वतो लक्षगुणां हैमीं शलाकां ग्रसति ध्रुवम् । कुसुम्भतैलतप्तं तत्स्वर्णमुद्गरिति ध्रुवम् ॥ ४.५१ ॥ गुह्यमार्गोऽयमुद्दिष्टो वक्ति स्वच्छन्दभैरवः । {वरनाग} तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ॥ ४.५२ ॥ मृदु कृष्णं द्रुतद्रावि वरनागं तदुच्यते । {उत्थापन (देf.)} मृतस्य पुनरुद्भूतिः सा चोक्तोत्थापनाख्यया ॥ ४.५३ ॥ {ढालन} द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् । {नागसंभूतचपल} त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ॥ ४.५४ ॥ विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम् । न तत्पुटसहस्रेण क्षयमायाति सर्वदा ॥ ४.५५ ॥ चपलोऽयं समुद्दिष्टो वार्त्तिकैर्नागसम्भवः । {वङ्गसंभूतश्चपलः} इत्थं च चपलः कार्यो वङ्गस्यापि न संशयः ॥ ४.५६ ॥ तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः । स रसो धातुवादेषु शस्यते न रसायने ॥ ४.५७ ॥ अयं हि खर्पणाख्येन लोकनाथेन कीर्तितः । {चपल:: प्रेपरतिओन्} भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशरसान्वितम् ॥ ४.५८ ॥ कुमारीमूलतोयेन मर्दयेदेकवासरम् । चाङ्गेरीस्वरसेनापि दिनमेकमनारतम् ॥ ४.५९ ॥ एवं भूनागधौतेन मर्दयेद्दिवसत्रयम् । अथैकपलनागेन तावता त्रपुणापि च ॥ ४.६० ॥ दशनिष्करसेन्द्रेण श्लक्ष्णां पिष्टीं समाचरेत् । योजयित्वाथ कल्केन यथापूर्वं विमर्दयेत् ॥ ४.६१ ॥ ततः साररसेन्द्रेण सत्त्वेन रसकस्य च । पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्केन योजयेत् ॥ ४.६२ ॥ अग्निं प्रज्वाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् । पलार्धं शुद्धसस्येन भृष्टगुञ्जारसेन च ॥ ४.६३ ॥ विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः । निरुध्य वज्रमूषायां संधिबन्धं विधाय च ॥ ४.६४ ॥ शिखित्रैर्नवभिः सम्यग्भस्त्राभ्यां च धमेत्खलु । ततो मूषागतं सत्त्वं समादाय समन्ततः ॥ ४.६५ ॥ धमेत्प्रकटमूषायां वङ्कनालेन शुद्धये । दशशाणं हि तत्सत्त्वं भस्मना लवणेन च ॥ ४.६६ ॥ सकाञ्जिकेन संवेष्ट्य पुटयोगेन शोषयेत् । द्विनिष्कप्रमिते तस्मिन् पूर्वप्रोक्तेन भस्मना ॥ ४.६७ ॥ अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत्खलु । इयता पूर्वसूतोऽसौ जार्यते न कथंचन ॥ ४.६८ ॥ चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना । अनेनापि रसः शीघ्रं बध्यते पूर्ववत्सुखम् ॥ ४.६९ ॥ कारवल्लीजटाचूर्णैर्दशधा पुटितो हि स । भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥ ४.७० ॥ मुखं प्रकटमूषायां भवेच्चातिगुणोत्तरम् । जीर्णग्रासो रसो ह्येष देहलोहकरो भवेत् । सोऽयं श्रीसोमदेवेन कथितोऽतीव निश्चितम् ॥ ४.७१ ॥ {धौत} भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः । कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥ ४.७२ ॥ {द्वंद्वन} द्रव्ययोर्मेलनं ध्मानाद्द्वंद्वनं परिकीर्तितम् । {??} भागाद्रूप्यादिके क्षेपमनुवर्णसुवर्णके ॥ ४.७३ ॥ {भञ्जिनी} दलैर्वा वर्णिकाह्रासो भञ्जिनी वादिभिर्मता । {पतङ्गी} पतंगिकल्कतो जाता लोहे तारत्वहेमता ॥ ४.७४ ॥ {पलिका} दिनानि कतिचित्स्थित्वा यात्यसौ पलिका मता । {पतङ्गीराग} रञ्जितश्च रसाल्लोहाद्ध्मानाद्वा चिरकालतः । विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञिकः ॥ ४.७५ ॥ {आवाप, प्रतीवाप, आच्छादन} द्रुते द्रव्यान्तरे क्षेपो लोहाद्यैः क्रियते हि यः । स आवापः प्रतीवापः स एवाच्छादनं मतम् ॥ ४.७६ ॥ {अभिषेक} द्रुते वह्निस्थिते लौहे विरम्याष्टनिमेषकम् । सलिलस्य परिक्षेपः सोऽभिषेक इतीरितः ॥ ४.७७ ॥ {निर्वाप} तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् । {Zएइत्fंर्प्रतीवाप उस्w.} प्रतीवापादिकं कार्यं द्रुतलोहे सुनिर्मले ॥ ४.७८ ॥ {शुद्धावर्त} यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः । शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥ ४.७९ ॥ {बीजावर्त} द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा । द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ॥ ४.८० ॥ {स्वाङ्गशीतल} वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् । {बहिःशीतल} अग्नेराकृष्टशीतं च तद्बहिःशीतमीरितम् ॥ ४.८१ ॥ {स्वेदन} क्षाराम्लैरौषधैर्वापि दोलायन्त्रे स्थितस्य हि । पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ॥ ४.८२ ॥ {मर्दन} उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि । पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ॥ ४.८३ ॥ {मूर्छन} मर्दनोद्दिष्टभैषज्यैर्नष्टपिष्टत्वकारकम् । तन्मूर्छनं हि वङ्गाद्रिभूजकञ्चुकनाशनम् ॥ ४.८४ ॥ {नष्टपिष्ट} स्वरूपस्य विनाशेन पिष्टतापादनं हि यत् । विद्वद्भिर्निर्जितः सूतो नष्टपिष्टः स उच्यते ॥ ४.८५ ॥ {उत्थापन} स्वेदातपादियोगेन स्वरूपापादनं हि यत् । तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनम् ॥ ४.८६ ॥ {पातन} उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् । निर्यातनं पातनसंज्ञयोक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥ ४.८७ ॥ {रोधन} जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् । स्थितिरास्थापनी कुम्भे यासौ रोधनमुच्यते ॥ ४.८८ ॥ {नियमन} रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये । क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ॥ ४.८९ ॥ {दीपन} धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः । ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥ ४.९० ॥ {ग्रासमान} इयन्मानस्य सूतस्य ग्रासद्रव्यात्मिका मितिः । इयतीत्युच्यते यासौ ग्रासमानमितीरितम् ॥ ४.९१ ॥ {जारणा} ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा । इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ॥ ४.९२ ॥ ग्रासः पिण्डः परीणामः तिस्रश्चाख्याः पराः स्मृताः । समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥ ४.९३ ॥ {जारण:: निर्मुखजारणा} निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः । {बीज (-> जारणा)} शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ४.९४ ॥ {मुख्समुखजारणा} चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते । {समुखरस} एवं कृते रसो ग्रासलोलुपो मुखवान्भवेत् ॥ ४.९५ ॥ कठिनान्यपि लोहानि भक्षितुं भवति क्षमः । इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ॥ ४.९६ ॥ {राक्षसमुख} दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठिषु । भुङ्क्ते निखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ॥ ४.९७ ॥ {चारणा} रसस्य वदने ग्रासक्षेपणं चारणा मता । {गर्भद्रुति} ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ॥ ४.९८ ॥ {बाह्यद्रुति} बहिरेव द्रुतीकृत्य घनसत्त्वादिकं खलु । जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते ॥ ४.९९ ॥ {द्रुति (सुब्स्तन्चे)} निर्लेपत्वं द्रवत्वं च तेजस्त्वं लघुता तथा । द्रुतं योगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥ ४.१०० ॥ {द्रुति (प्रोचेस्स्)} तुषधान्यादियोगेन लोहधात्वादिकं सदा । संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥ ४.१०१ ॥ {जारणा} द्रुतग्रासपरीणामो विडयन्त्रादियोगतः । जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ॥ ४.१०२ ॥ {विड (देf.)} क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैश्च पटुभिस्तथा । रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ॥ ४.१०३ ॥ {रञ्जन} सुसिद्धबीजधात्वादिजारणेन रसस्य हि । पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥ ४.१०४ ॥ {सारणा} सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् । वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ॥ ४.१०५ ॥ {वेध} व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु । वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ॥ ४.१०६ ॥ {वेधभेदाः} लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः । {लेपवेध} लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ॥ ४.१०७ ॥ लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् । {क्षेपवेध} प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः ॥ ४.१०८ ॥ {कुन्तवेध} संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या । सुवर्णत्वादिकरणी कुन्तवेधः स कथ्यते ॥ ४.१०९ ॥ {धूमवेध} वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः । स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते ॥ ४.११० ॥ {शब्दवेध} मुखस्थितरसेनाल्पलोहस्य धमनात्खलु । स्वर्णरूप्यत्वजननं शब्दवेधः प्रकीर्तितः ॥ ४.१११ ॥ {उद्घाटन} विद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् । प्रकाशनं च वर्णस्य तदुद्घाटनमीरितम् ॥ ४.११२ ॥ {स्वेदन} क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः । भूमौ निखन्यते यत्तत्स्वेदनं संप्रकीर्तितम् ॥ ४.११३ ॥ {संन्यास} रसस्यौषधयुक्तस्य भाण्डं रुद्ध्वातियत्नतः । सदाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥ ४.११४ ॥ {स्वेदनसंन्यासगुणाः} द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् । गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ॥ ४.११५ ॥ रसनिगममहाब्धेः सोमदेवः समन्तात्स्फुटतरपरिभाषा नाम रत्नानि हृत्वा । व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयति भिषगग्र्यो मण्डनार्थं सभायाम् ॥ ४.११६ ॥ पठेत्पठितपाठोऽयमध्यायो रसवादिनः । रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ॥ ४.११७ ॥ ऋचूम्, ५ अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यनेकशः । समालोक्य समासेन सोमदेवेन साम्प्रतम् ॥ ५.१ ॥ स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः । यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमितीरितम् ॥ ५.२ ॥ {दोलायन्त्र} विबन्ध्य सौषधं सूतं सभूर्जे त्रिगुणाम्बरे । रसपोट्टलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ ५.३ ॥ संधानपूर्णकुम्भान्तः प्रलम्बनगतिस्थिताम् । अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥ ५.४ ॥ {खल्वयन्त्र} खल्वयन्त्रं त्रिधा प्रोक्तं मर्दनादिककर्मणि । निरुद्गाराश्मजश्चैकस्तदन्यो लोहसम्भवः ॥ ५.५ ॥ {अर्धचन्द्राकृतिखल्व} उत्सेधेन दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् । विस्तारेण नवाङ्गुलो रसमितैर्निम्नस्तथैवाङ्गुलैः ॥ ५.६ ॥ कण्ठो द्व्यङ्गुलविस्तृतोऽतिमसृणो द्रोण्यर्धचन्द्राकृतिः । घर्षश्चैव दशाङ्गुलस्तु यदिदं खल्वाख्ययन्त्रं स्मृतम् ॥ ५.७ ॥ अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये । तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् ॥ ५.८ ॥ {वर्तुलखल्व} द्वादशाङ्गुलिविस्तारः खल्वो भवति वर्तुलः । चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ॥ ५.९ ॥ मर्दकश्चिपिटोऽधस्तात्सुग्रहश्च शिखोपरि । {तप्तखल्व} लौहो नवाङ्गुलः खल्वो निम्नत्वेन षडङ्गुलः ॥ ५.१० ॥ मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्ययम् । कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्यताम् ॥ ५.११ ॥ तस्यां निवेशितं खल्वं पार्श्वे भस्त्रिकया धमेत् । तस्मिन्विमर्दिता पिष्टी क्षारैरम्लैश्च संयुता ॥ ५.१२ ॥ प्रद्रवत्यतिवेगेन स्वेदतो नात्र संशयः । कृतः कान्तायसा सोऽयं भवेत्कोटिगुणोत्तरः ॥ ५.१३ ॥ {वलभीयन्त्र} यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् । तादृक्स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ॥ ५.१४ ॥ पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् । रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥ ५.१५ ॥ द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे । एतत्स्याद्वलभीयन्त्रं रससाद्गुण्यकारणम् ॥ ५.१६ ॥ सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः । {ऊर्ध्वपातनयन्त्र} अष्टाङ्गुलमिता सम्यक्वर्तुला चिपटी तले ॥ ५.१७ ॥ चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता । चतुरङ्गुलविस्तारनिम्नया दृढबद्धया ॥ ५.१८ ॥ तत्पिधानघटी मूले षोडशाङ्गुलविस्तरा । नवाङ्गुलकविस्तारकण्ठेन च समन्विता ॥ ५.१९ ॥ पूर्वघट्यां रसं क्षिप्त्वा न्युब्जां दद्यात्परां घटीम् । सोर्ध्वं निम्नं च परितो दृढपालिकयान्विताम् ॥ ५.२० ॥ पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः । ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम् ॥ ५.२१ ॥ {अधःपातनयन्त्र} उपर्यधस्तनस्थाल्यां क्षिपेदन्यामधोमुखीम् । स्थालिकां चिपटीभूततलान्तर्लिप्तपारदाम् ॥ ५.२२ ॥ क्षिप्त्वा तां पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् । अधःपातनयन्त्रं हि तदैतत्परिकीर्तितम् ॥ ५.२३ ॥ {तिर्यक्पातनयन्त्र} क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते । तन्नालं निक्षिपेदन्यत्घटकुक्ष्यन्तरे खलु ॥ ५.२४ ॥ तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ । अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥ ५.२५ ॥ इतरस्मिन् घटे तोयं प्रक्षिपेत्स्वादु शीतलम् । तिर्यक्पातनयन्त्रं हि वार्त्तिकैरभिधीयते ॥ ५.२६ ॥ {पातनायन्त्रस्:: उसे} पातनात्रितयं प्रोक्तं यन्त्राणां त्रितयं खलु । पातनैश्च विना सूतो न तरां दोषमुझति ॥ ५.२७ ॥ त्रिभिरेवोर्ध्वपातैश्च कस्माद्दोषान्न मुच्यते । विभागेन विपाके तु द्रव्येणान्येन योगतः ॥ ५.२८ ॥ पात्रान्तरपरिक्षेपात्गुणाः स्युर्विविधाः खलु । खण्डन्युलूखलाम्भोभिस्तण्डुलाः स्युर्मलोझिताः ॥ ५.२९ ॥ पातेनैव महाशुद्धिर्नन्दिना परिकीर्तिता । {कच्छपयन्त्र} विशालवदने भाण्डे तोयपूर्णे निवेशयेत् ॥ ५.३० ॥ खर्परं पृथुकं सम्यक्प्रसरे तस्य मध्यमे । आलवालं विडैः कृत्वा तन्मध्ये पारदं क्षिपेत् ॥ ५.३१ ॥ ऊर्ध्वाधश्च विडं दत्त्वा मल्लेनारुध्य यत्नतः । पुटमौचित्ययोगेन दीयते तन्निगद्यते ॥ ५.३२ ॥ यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे । {अन्तरालिकयन्त्र} कृत्वा लोहमयीं मूषां वृन्ताकाकारधारिणीम् ॥ ५.३३ ॥ वितस्त्या संमितां कान्तलोहेन परिनिर्मिताम् । मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः ॥ ५.३४ ॥ द्व्यङ्गुलं वलयं दद्यात्मध्यदेशेन कण्ठतः । पिधानधारकं चिञ्चापत्त्रविस्तीर्णकङ्कणम् ॥ ५.३५ ॥ पिधानमन्तराविष्टं सशिखं श्लिष्टसंधिकम् । तले प्रविहितच्छिद्रं भाण्डं कृत्वा ह्यधोमुखम् ॥ ५.३६ ॥ तत्रैनां लम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च । स्थालीकण्ठं ततो दद्यात्पुटमग्निविधायकम् ॥ ५.३७ ॥ एवंरूपं भवेद्यन्त्रमन्तरालिकसंज्ञकम् । अनेन कारयेद्गन्धद्रुतिं गर्भद्रुतिं तथा ॥ ५.३८ ॥ {तापिकायन्त्र} तापीं मूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् । सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम् ॥ ५.३९ ॥ कान्तलोहमयीं खारीं दद्याद्गन्धस्य चोपरि । तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः ॥ ५.४० ॥ तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं विडद्रवम् । पादाङ्गुष्ठमितज्वालं ज्वालयेदनलं ततः ॥ ५.४१ ॥ लोहाभ्रकादिकं सर्वं रसस्य परिजारयेत् । तापिकायन्त्रमित्युक्तं सुकरं रसजारणे ॥ ५.४२ ॥ {प्रतिगर्भयन्त्र} स्थाल्यां विनिक्षिप्य रसादि वस्तु स्वर्णादि खार्या प्रपिधाय भूयः । अम्लेन चोर्ध्वे लवणादि वस्तु चुल्ल्यां पचेत्तत्प्रतिगर्भयन्त्रम् ॥ ५.४३ ॥ {गर्भयन्त्र} खारीं मल्लान्तरस्थालीं निरुन्ध्यादतियत्नतः । स्थाल्यां मृदोऽथवा खार्यां क्षिप्त्वा वस्तु निरुध्य च ॥ ५.४४ ॥ क्षिप्त्वा चाम्लादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रके । {पालिकायन्त्र} चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् ॥ ५.४५ ॥ एतद्धि पालिकायन्त्रं बलिजारणहेतवे । {घटयन्त्र} चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ॥ ५.४६ ॥ घटयन्त्रमिति प्रोक्तं तदाप्यायनके मतम् । {इष्टिकायन्त्र} विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ॥ ५.४७ ॥ विनिधायेष्टिकां तत्र मध्ये गर्तवतीं शुभाम् । गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयाम् ॥ ५.४८ ॥ गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् । निक्षिप्य गन्धकं तत्र मल्लेनास्यं निरुध्य च ॥ ५.४९ ॥ मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च । वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् ॥ ५.५० ॥ इष्टिकायन्त्रमेतद्धि गन्धकं तेन जारयेत् । {विद्याधरयन्त्र} स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ॥ ५.५१ ॥ ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः । एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥ ५.५२ ॥ {डमरुयन्त्र} यत्र स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्य च । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ॥ ५.५३ ॥ {नाभियन्त्र} मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् । गर्तस्य परितः कुड्यं प्रकुर्याद्द्व्यङ्गुलोच्छ्रयम् ॥ ५.५४ ॥ ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया । सम्यक्तोयमृदा रुद्ध्वा सम्यग्गर्तोच्चमानया ॥ ५.५५ ॥ ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः । नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना ॥ ५.५६ ॥ अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः । {तोयमृत्तिका} लेहवत्कृतबर्बूरक्वाथेन परिमर्दितम् ॥ ५.५७ ॥ जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् । इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ॥ ५.५८ ॥ {वह्निमृत्स्ना} खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः । वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु ॥ ५.५९ ॥ एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः । विदग्धवनिताप्रौढप्रेम्णा बद्धः पुमानिव ॥ ५.६० ॥ नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर्मुनीश्वरः । वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ॥ ५.६१ ॥ {ग्रस्तयन्त्र} मूषां मूषोदराविष्टामाद्यन्तसमवर्तुलाम् । चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ॥ ५.६२ ॥ सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् । {तुलायन्त्र} वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु ॥ ५.६३ ॥ प्रादेशमात्रनलिका मृदालिप्तसुसंधिका । तत्रैकस्यां क्षिपेत्सूतमन्यस्यां गन्धचूर्णकम् ॥ ५.६४ ॥ निरुध्य मूषयोर्वक्त्रं वालुकायन्त्रके क्षिपेत् । अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम् ॥ ५.६५ ॥ शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् । {स्थालीयन्त्र} स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ॥ ५.६६ ॥ पच्यते स्थालिकासंस्थं स्थालीयन्त्रमितीरितम् । {कोष्ठिकायन्त्र} स्थूलभाण्डोदरस्यान्तर्वालुकां निक्षिपेच्छुभाम् ॥ ५.६७ ॥ वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् । अपक्वां मृन्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम् ॥ ५.६८ ॥ षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृताम् । पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुटाकृतिम् ॥ ५.६९ ॥ न न्यूना नाधिका कोष्ठी कण्ठतो मसृणा बहिः । कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम् ॥ ५.७० ॥ ततस्त्रिपादिकां लौहीं विनिवेश्य स्थिरीकृताम् । तस्यां च विन्यसेत्खारीं लौहीं वा कान्तलोहजाम् ॥ ५.७१ ॥ तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः । जीर्णगन्धकसूतं च भावयेल्लशुनद्रवैः ॥ ५.७२ ॥ अधःशिखेन पूर्वोक्तपिधानेन पिधाय च । संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः ॥ ५.७३ ॥ संधिबन्धे विशुष्के च क्षिपेदुपरि वालुकाः । भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम् ॥ ५.७४ ॥ खरं यामत्रयं यावत्ततो गन्धकसम्भवः । पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे ॥ ५.७५ ॥ एवं हि षड्गुणं गन्धं भुक्त्वा सूतो गुणी भवेत् । करोति कल्पनिर्दिष्टान्विशिष्टान् सकलान् गुणान् ॥ ५.७६ ॥ कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् । {वालुकायन्त्र} पञ्चाढवालुकापूर्णे भाण्डे निक्षिप्य यत्नतः ॥ ५.७७ ॥ पच्यते रसगोलाद्यं वालुकायन्त्रमीरितम् । {लवणयन्त्र} एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ॥ ५.७८ ॥ {धूपयन्त्र} विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् । कण्ठाधो द्व्यङ्गुले देशे जलाधारं हि तत्र च ॥ ५.७९ ॥ तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग्विनिक्षिपेत् । तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ॥ ५.८० ॥ पात्राधो निक्षिपेद्धूमं वक्ष्यमाणमिहैव हि । तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥ ५.८१ ॥ मृदा विलिप्य संधिं च वह्निं प्रज्वालयेदधः । तेन कृष्णानि पत्त्राणि हतान्युक्तविधानतः ॥ ५.८२ ॥ रसश्चरति वेगेन द्रुतिं गर्भद्रुतिं तथा । गन्धालकशिलानां हि कज्जल्या वा मृताहिना ॥ ५.८३ ॥ धूपनं स्वर्णपत्त्राणां परमं परिकीर्तितम् । तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ॥ ५.८४ ॥ धूपयेच्च यथायोग्यै रसैरुपरसैरपि । धूपयन्त्रमिति प्रोक्तं जारणाद्रव्यवाहने ॥ ५.८५ ॥ {कुण्डकयन्त्र = कन्दुकयन्त्र} स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् । तत्र स्वेद्यं विनिक्षिप्य पिधान्या प्रपिधाय च ॥ ५.८६ ॥ अधोऽग्निं ज्वालयेत्तत्र तत्स्यात्कुण्डकयन्त्रकम् । स्वेदनं यन्त्रमित्येतत्प्राहुरन्ये मनीषिणः ॥ ५.८७ ॥ {कुण्डयन्त्र (२)} यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं दत्त्वा मुखोपरि । स्वेद्यद्रव्यं विनिक्षिप्य पिधान्या प्रपिधाय च ॥ ५.८८ ॥ अधस्ताज्ज्वालयेदग्निमेतद्वा कुण्डयन्त्रकम् । {डेकीयन्त्र} भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् ॥ ५.८९ ॥ कांस्यपात्रद्वयं क्षिप्त्वा सम्पुटं जलगर्भितम् । नालास्यं तत्र संयोज्य दृढं तच्चापि कारयेत् ॥ ५.९० ॥ उक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः । अग्निना तापितो नालात्तोये तस्मिन् पतत्यधः ॥ ५.९१ ॥ यावदुष्णं भवेत्सर्वं भाजनं किंचिदेव हि । जायते रससंधानं ढेकीयन्त्रमिदं भवेत् ॥ ५.९२ ॥ {सोमानलयन्त्र} ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः । सोमानलमिदं प्रोक्तं जारयेद्गगनादिकम् ॥ ५.९३ ॥ {नालिकायन्त्र} लोहनालगतं सूतं भाण्डे लवणपूरिते । निरुद्धं विपचेत्प्राज्ञो नालिकायन्त्रमीरितम् ॥ ५.९४ ॥ {मूषा} अथ मूषाभिधा मृत्स्ना संस्थानं विविधाकृतिः । विधिना विनियोगश्च सोमदेवेन कीर्त्यते ॥ ५.९५ ॥ {च्रुचिब्ले:: स्य्नोन्य्म्स्} मूषा हि कोष्ठिका प्रोक्ता कुमुदी करहारिका । पातनी वह्निमित्रा च रसवादिभिरीर्यते ॥ ५.९६ ॥ {च्रुचिब्ले:: निरुक्ति} मुष्णाति दोषान्मूषेयान्सा मूषेति निगद्यते । उपादानं भवेत्तस्या मृत्तिका लोहमेव च ॥ ५.९७ ॥ मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी । दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनाम् ॥ ५.९८ ॥ {संधिलेप} मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् । अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ॥ ५.९९ ॥ {च्लय्:: शर्करा} मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा । चिराध्मानसहा सा हि मूषार्थमति शस्यते । तदभावे च वाल्मीकी कौलाली समुदीर्यते ॥ ५.१०० ॥ या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च । लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थे ॥ ५.१०१ ॥ श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटे । लद्दिः किट्टं यथायोग्यं संयोज्या मूषिकामृदि ॥ ५.१०२ ॥ {वज्रमूषा} मृदस्त्रिभागं शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः । किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥ ५.१०३ ॥ {योगमूषा} दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकसम्भवा । तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ॥ ५.१०४ ॥ तया या विहिता मूषा योगमूषेति कथ्यते । अनया साधितः सूतो जायते गुणवत्तरः ॥ ५.१०५ ॥ {वज्रद्रावणमूषा} गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि । समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ ५.१०६ ॥ कोथिता पक्षमात्रं हि बहुधा परिवर्तिता । तया विरचिता मूषा वज्रद्रावणिकेरिता ॥ ५.१०७ ॥ {गारमूषा} दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता । कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ॥ ५.१०८ ॥ यामयुग्ममतिध्मानान्नासौ द्रवति वह्निना । {वरमूषा} वस्त्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका ॥ ५.१०९ ॥ गारश्च मृत्तिकातुल्यः सर्वैरेतैर्विमर्दिता । वरमूषेति निर्दिष्टा यामं वह्निं सहेत च ॥ ५.११० ॥ {वर्णमूषा} रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुभाविता । मृत्तया लेपिता मूषा क्षितिखेचरलेपिता ॥ ५.१११ ॥ वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते । {रूप्यमूषा} एवं हि श्वेतवर्गेण रूप्यमूषा प्रकीर्तिता ॥ ५.११२ ॥ {विडमूषा} तत्तद्विडमृदोद्भूता तत्तद्विडविलेपिता । देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ॥ ५.११३ ॥ {वज्रद्रावनामुषा (ईई)} गारभूनागधौताभ्यां तुषमष्या शणेन च । समैः समा च मूषा मृन्महिषीदुग्धमर्दिता ॥ ५.११४ ॥ कोथिता पक्षमात्रं हि बहुधा परिकीर्तिता । तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ॥ ५.११५ ॥ बलाब्दधावनीमूलैर्वज्रद्रावणक्रौञ्चिका । सहतेऽग्निं चतुर्यामं द्रावणे व्ययिता सती ॥ ५.११६ ॥ {मूषाप्यायन} द्रवीभावमुपेयुः स्यान्मूषाया ध्मानयोगतः । क्षणमुद्धरणं यत्तन्मूषाप्यायनमुच्यते ॥ ५.११७ ॥ {वृन्ताकमूषा} वृन्ताकारमूषायां नालं दत्त्वा दशाङ्गुलम् । धत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ॥ ५.११८ ॥ अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका । अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ ५.११९ ॥ {गोस्तनीमूषा} मूषा या गोस्तनाकारा शिखायुक्तपिधानका । सत्त्वानां द्रावणे शुद्धौ सा मूषा गोस्तनी भवेत् ॥ ५.१२० ॥ {मल्लमूषा} निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् । पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥ ५.१२१ ॥ {पक्वमूषा} कुलालभाण्डरूपा या दृढा च परिपाचिता । पक्वमूषेति सा प्रोक्ता पोटल्यादिविपाचने ॥ ५.१२२ ॥ {गोलमूषा} निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी । गोलमूषेति सा प्रोक्ता सत्वरं द्रव्यरोधिनी ॥ ५.१२३ ॥ {महामूषा} तले या कूर्पराकारा क्रमादुपरि विस्तृता । स्थूलवृन्ताकवत्स्थूला महामूषेत्यसौ मता । सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ॥ ५.१२४ ॥ {मञ्जूषमूषा} मञ्जूषाकारमूषा या निम्नतायामविस्तरा । षडङ्गुलप्रमाणेन मूषा मञ्जूषसंज्ञिता । भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥ ५.१२५ ॥ {मूशलमूषा} मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया । मूषा सा मुशलाख्या स्याच्चक्रीबद्धरसे हिता ॥ ५.१२६ ॥ {कोष्ठी (इन्त्र्.)} सत्त्वानां पातनार्थाय पातितानां विशुद्धये । कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ॥ ५.१२७ ॥ {अङ्गारकोष्ठिका} राजहस्तसमुत्सेधा तदर्धायामविस्तरा । चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन हि ॥ ५.१२८ ॥ एकभित्तौ चरेद्गर्तं वितस्त्याभोगसंमितम् । द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ॥ ५.१२९ ॥ देहल्यधो विधातव्यं धमनाय यथोचितम् । प्रादेशप्रमिता भित्तिरुत्तरङ्गस्य चोर्ध्वतः ॥ ५.१३० ॥ द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु । ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ॥ ५.१३१ ॥ शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन तु । शिखित्रान् धमनद्रव्यमूर्ध्वद्वारेण निक्षिपेत् ॥ ५.१३२ ॥ सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः । भवेदङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ॥ ५.१३३ ॥ {पातालकोष्ठिका} दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् । वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ॥ ५.१३४ ॥ चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् । गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ॥ ५.१३५ ॥ किंचित्समुन्नतं बाह्ये गर्ताभिमुखनिम्नकम् । मृच्चक्रं पञ्चरन्ध्राढ्यं गर्भगर्तोपरि क्षिपेत् ॥ ५.१३६ ॥ आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया । पातालकोष्ठिका ह्येषा धातूनां सत्त्वपातिनी ॥ ५.१३७ ॥ ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता । {गारकोष्ठी} द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ॥ ५.१३८ ॥ चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता । भूरिछिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ॥ ५.१३९ ॥ शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः । गारकोष्ठीयमुद्दिष्टा मृष्टलोहविनाशिनी ॥ ५.१४० ॥ {वङ्कनाल} कूपीमृद्भिर्विधातव्यमरत्निप्रमितं दृढम् । अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं तथा ॥ ५.१४१ ॥ वङ्कनालमिति प्रोक्तं दृढध्मानाय कीर्तितम् । {तिर्यक्प्रधमकोष्ठी} कोष्ठी तद्वद्रसादीनां विधानाय विधीयते ॥ ५.१४२ ॥ द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला । तिर्यक्प्रधमनाख्या च मृदुद्रव्यविशोधिनी ॥ ५.१४३ ॥ {पुट (देf.)} रसादिद्रव्यपाकानां मारणज्ञापनं पुटम् । नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ॥ ५.१४४ ॥ लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता । अनप्सुमज्जनं रेखापूर्णता पुटतो भवेत् ॥ ५.१४५ ॥ पुटाद्रागो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ ५.१४६ ॥ यथाश्मनि विशेद्वह्निर्बहिःस्थः पुटयोगतः । चूर्णत्वादिगुणावाप्तिस्तथा लोहेषु निश्चितम् ॥ ५.१४७ ॥ {महापुट} निम्ने विस्तरतः कुण्डे द्विहस्ते चतुरस्रके । वनोपलसहस्रेण पूरिते पुटनौषधम् ॥ ५.१४८ ॥ क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टकोपरि निक्षिपेत् । वनोपलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ॥ ५.१४९ ॥ वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् । {गजपुट} राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ॥ ५.१५० ॥ पूर्णं चोपलसाहस्रैः कण्ठावध्यथ निक्षिपेत् । विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ॥ ५.१५१ ॥ पूर्वच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् । एतद्गजपुटं प्रोक्तं महागुणविधायकम् ॥ ५.१५२ ॥ {वाराहपुट} इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥ ५.१५३ ॥ {कुक्कुटपुट} पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् । तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥ ५.१५४ ॥ {कपोतपुट} यत्पुटं दीयते भूमावष्टसंख्यैर्वनोपलैः । तद्बालसूतभस्मार्थं कपोतपुटमुच्यते ॥ ५.१५५ ॥ {गोवर (देf.; अ किन्दोf चोwदुन्ग्)} गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् । गोवरं तत्समादिष्टं वरिष्ठं रससाधने ॥ ५.१५६ ॥ {गोवरपुट} गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते । तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ ५.१५७ ॥ {भाण्डपुट} स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते । वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥ ५.१५८ ॥ {वालुकापुट} अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु । वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ॥ ५.१५९ ॥ {भूधरपुट} वह्निमित्रां क्षितौ सम्यङ्निखन्याद्द्व्यङ्गुलादधः । उपरिष्टात्पुटं यत्र पुटं तद्भूधराह्वयम् ॥ ५.१६० ॥ {लावकपुट} ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोवरैः पुटम् । यत्र तल्लावकाख्यं स्यात्सुमृदुद्रव्यसाधने ॥ ५.१६१ ॥ {अनुक्तपुट} अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् । पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥ ५.१६२ ॥ {स्य्नोन्य्म्स्fओर्द्रिएद्चोwदुन्ग्} पिष्टकं छगणं छाणमुपलं चोत्पलं तथा । गिरिण्डोपलसाठी च नवारी छगणाभिधः ॥ ५.१६३ ॥ {उपसंहार} यः सोमदेवैर्विहितं प्रकीर्णमध्यायमेनं प्रकरोति पाठे । नासौ समीहेत गुरूपदेशं रसेन्द्रवैद्येऽपि च धातुवादे ॥ ५.१६४ ॥ ऋचूम्, ७ कथ्यन्ते सोमदेवेन साम्प्रतं दर्शिनो रसाः । श्रीकण्ठागमनिर्दिष्टा विशिष्टा रससाधने ॥ ७.१ ॥ {६८ प्रकार्की रसौषधियां} जलोत्पलसमङ्गा च रसा च जलपिप्पली । स्थलप्रसारिणी चिञ्ची जालिनी जलमूलका ॥ ७.२ ॥ चन्द्रोदकार्धचन्द्रा च जलापामार्गतिक्तका । तुषाम्बु काकमाची च जलकुम्भी तथा शटी ॥ ७.३ ॥ उत्तमा हेमपुष्पी च दुर्गन्धा सितगन्धिनी । माण्डूकी मोहिनी मांसी पाषाणी चाथ शीशिका ॥ ७.४ ॥ सारिवालम्बुषा मेघनादी च शुकनासिका । पोतकी हीरिणी वज्रकन्दिका चापराजिता ॥ ७.५ ॥ वनमाला विदारी च कुक्कुटा हलिनीश्वरी । वाराही बृहती मूर्वा सर्पाक्षी सदचित्रिका ॥ ७.६ ॥ मालार्जुनश्च गोजिह्वा गरुडी हंसपादिका । नन्दिनी शिखिपादी च काश्मरी तुलसी तथा ॥ ७.७ ॥ वनकूष्माण्डवल्ली च वृश्चिकाली च वेणुका । मुशली चित्रपादी च कर्मस्फोटी तथा विषा ॥ ७.८ ॥ अजमारी पाटला च पटोली धन्वयासकः । भार्ङ्गी विषघ्नी गुडूची वासा भृङ्गी च पागवः ॥ ७.९ ॥ अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः । बन्धने मारणे तद्वज्जारणे च नियामने । बन्धादाने च सूतस्य सर्वदोषापकर्मणि ॥ ७.१० ॥ विन्ध्याद्रौ हिमपर्वते च मलये गोमन्तके श्रीगिरौ सह्याद्रावथ पारियात्रकगिरौ किष्किन्धनामालये । माहेन्द्रेऽप्यथ माल्यवत्क्षितिधरे तद्रूपनामाधिकं गोपाभीरकसिद्धवैद्यमुखतो वैद्यैः समावेद्यताम् ॥ ७.११ ॥ ऋचूम्, ८ {सर्पाक्ष्यादिगणः} सर्पाक्षी वन्ध्यकर्कोटी जलबिम्बी च जम्बुकी । पुनर्नवा च मत्स्याक्षी भृङ्गराजः शतावरी ॥ ८.१ ॥ शरपुङ्खा च मण्डूकपर्णिका ब्रह्मदण्डिका । अनन्ता कुक्कुटी जङ्घा काकमाची शिखण्डिनी ॥ ८.२ ॥ सहदेवी कपोती च विष्णुक्रान्ता कुरण्टकः । महाबला नागबला मूर्वा रास्ना कुरिङ्गिनी ॥ ८.३ ॥ फणिर्नीली प्रपुन्नाटः समङ्गामलकी तथा । ज्वालिनी मेघनादश्च गोजिह्वा पद्मचारिणी ॥ ८.४ ॥ पाठा च कोकिलाक्षश्च त्रिपत्त्रा चाखुकर्णिका । एकपर्णी द्विपर्णी च त्रिपर्णी क्षीरिणी तथा ॥ ८.५ ॥ तित्तिडी मेषशृङ्गी च तुलसी श्यामपर्णिका । श्वेताद्रिपर्णिका चेति सर्पाक्ष्यादिगणो मतः ॥ ८.६ ॥ षट्चत्वारिंशको नाम पारदस्य नियामकः । इहौषधीनां पञ्चाङ्गी गृहीतव्या विधानतः ॥ ८.७ ॥ रसादिस्वेदने मूषानयने शोधने तथा । अष्टोपरि यथालाभं ग्राह्या प्रोक्तेषु कर्मसु ॥ ८.८ ॥ अष्टकाधिकमाधिक्यं गुणानां कुरुते ध्रुवम् । {व्याघ्रिकादिगणः} व्याघ्रिका राक्षसी वह्निश्चाण्डाली गजकर्णिका ॥ ८.९ ॥ षट्कारी शङ्खपुष्पी च बृहती हिलमोचकः । शृगालजिह्विका वह्निर्मदनी लाङ्गली तथा ॥ ८.१० ॥ चक्रिका वज्रिणी व्याघ्री कङ्कती पुत्रजीविका । कञ्चुकी चैव कर्कोटी कुमारी पद्मचारिणी ॥ ८.११ ॥ एकवीरा रुदन्ती च लक्ष्मी नरकसा तथा । उच्चटा रक्तचित्रा च नागिनी नागवल्लिका ॥ ८.१२ ॥ सक्तुका सक्तुशृङ्गी च रक्तस्नुग्यज्ञवल्लिका । शाखोटो मेषशृङ्गी च हेमली व्याघ्रपादिका ॥ ८.१३ ॥ शमी व्याघ्रनखी सोमवल्लरी चार्कपुष्पिका । केशिनी कासमारी च वृक्षराजोऽजमारिका ॥ ८.१४ ॥ कोटराक्षी हनूमन्ती नरजीवाङ्गनायकी । मालिका काकतुण्डी च मेघपुष्पी च कङ्गुणी ॥ ८.१५ ॥ अन्या तुवरवल्ली च जगती हंसपादिका । कुम्भिनी वह्निमारी च सूर्यभक्ता च वाकुची ॥ ८.१६ ॥ रसनिर्जीवकारी च भूशुण्डी कटुतुम्बिका । देवदाली विशाला च कार्पासी ब्रह्मरञ्जकम् ॥ ८.१७ ॥ कृष्णाक्षीवं तथा कृष्णधत्तूरो वनपीलुकम् । श्वेतार्को यवचिञ्चा च कारवेल्ली च दन्तिका ॥ ८.१८ ॥ गोजिह्वा काकजङ्घा च श्वेतगुञ्जा च शम्बरा । महाकाली सिताङ्कोलो मायूरश्च पटोलिका ॥ ८.१९ ॥ व्याघ्रिकादिगणः सोऽयं रसभस्मकरः परः । अत्रोक्तौषधिबीजेषु जीर्यते पारदः पृथक् ॥ ८.२० ॥ {रक्तस्नुह्यादिगणः} रक्तस्नुही रुदन्ती च रक्ताग्निः सोमवल्लिका । वृद्धदारु च शाखोटी मोहिन्यङ्गारवल्लिका ॥ ८.२१ ॥ बर्हिका क्षीरमार्जारी त्रिशूला क्षीरकुक्कुटी । जीमूतः काकमाची च नीलिका शङ्खपुष्पिका ॥ ८.२२ ॥ नागवल्लीदलाकारपत्रयुक्ताल्पकन्दिनी । श्रीशैलोत्था च वज्रघ्नी नागकर्णीति सा स्मृता ॥ ८.२३ ॥ ज्योतिष्मती द्रुमज्योतिस्तृणज्योतिरथोच्चटा । उदुम्बरी त्रिदण्डी च नीलज्योतिस्तथापरा ॥ ८.२४ ॥ हेमवल्लरिका ताम्रवल्लरी चुक्र एव च । त्रिदण्डी ब्रह्मदण्डी च क्रौञ्चिका स्थलपद्मिनी ॥ ८.२५ ॥ वरा वर्तुलपर्णा च नागकण्ठी च लाङ्गली । नागजिह्वार्कपत्री च काष्ठोदुम्बरिका तथा ॥ ८.२६ ॥ कालदण्डी त्रिपर्णी च रक्तस्नुह्यादिको गणः । रसबन्धे वधे शुद्धौ विहितः शम्भुना स्वयम् ॥ ८.२७ ॥ द्रव्यैश्च स्थावरैरुपस्पर्शगन्धरसान्वितैः । शोधितो मर्दितः सूतो म्रियते बध्यते सुखम् ॥ ८.२८ ॥ {कदल्यादिगणः} कदली सूर्यभक्तश्च कटुकोषातकी तथा । द्राविणी काकमाची च शिग्रुका क्षीरकञ्चुकी ॥ ८.२९ ॥ नीरपिप्पलिका चेति कदल्यादिगणस्त्वयम् । द्रावणः सर्वलोहानां रसादीनां च निश्चितम् ॥ ८.३० ॥ {काकमाच्यादिगणः} काकमाच्यर्कपत्री च कासमर्दः कृताञ्जलिः । लक्ष्मणा हंसपादी च नागिनी क्षीरनालिका ॥ ८.३१ ॥ ताम्बूली व्यालिका ब्राह्मी कारवल्ल्यर्जुनी चरा । वाराहकर्णिका मेघध्वनिश्च सहदेविका ॥ ८.३२ ॥ तथा कुरुवकश्चेति काकमाच्यादिको गणः । क्रामणाय विनिर्दिष्टा देहे लोहे रसस्य हि ॥ ८.३३ ॥ एकवीरा महावीरा प्रयोगो हेमदण्डिका । चतुर्भेदमिदं प्रोक्तं निश्चितं रसबन्धने ॥ ८.३४ ॥ देहलोहकरं सर्वं महारोगापकर्षणम् । धन्यं पुत्रप्रदं वृष्यं दर्शनस्पर्शनादिभिः ॥ ८.३५ ॥ {एकवीरा} शवपत्त्रा भवेद्वल्ली पाते चैकफलान्विता । एकवीरेति सा प्रोक्ता रसबन्धकरी परम् ॥ ८.३६ ॥ {महावीरा} एकमेकं फलं यस्याः परे पत्रे प्रजायते । प्रवालसदृशीच्छाया महावीरेति सा मता ॥ ८.३७ ॥ {प्रयोगकन्द} त्रिकन्दस्त्रिशिखश्चैव वृन्तलग्नफलद्वयः । वेणुपर्णसदृक्पर्णैः गजविन्ध्याचलोद्भवः ॥ ८.३८ ॥ तस्य मध्यमकन्दो हि प्रयोगो नाम राक्षसः । तेन संमर्दितः सूतो म्रियते बध्यते सुखम् ॥ ८.३९ ॥ {हेमवल्ली} ताम्बूलीपत्त्रवत्पत्रा स्वर्णवर्णपयस्विनी । फलपुष्पादिहीना च हेमवल्लीति सा मता ॥ ८.४० ॥ सम्बन्धसेविता येन तन्मूत्रैर्बद्धपारदः । संवत्सरधृतो वक्त्रे प्रधत्ते खेचरां गतिम् ॥ ८.४१ ॥ {वज्रदण्डादिवर्ग} वज्रलशुनदण्डश्च लोहदण्डश्च ते त्रयः । ब्रह्मविष्णुशिवात्मानो जगत्त्रितयरक्षकाः ॥ ८.४२ ॥ पथ्या शुण्ठी शिला मुण्डी निर्गुण्डी च विडङ्गकम् । चित्रकस्त्रिकटुर्हेम माक्षिकं विमलं तथा ॥ ८.४३ ॥ वज्रदण्डादिवर्गोऽयं श्रेष्ठोऽतीव रसायने । सर्वव्याधिहरः श्रेष्ठो जरामृत्युविनाशनः ॥ ८.४४ ॥ {भूपाटल्यादिवर्गः} भूपाटली पटोली च योगारी सिंहवल्लिका । शूकरी हेमवल्ली च नागधारी च मार्कवः ॥ ८.४५ ॥ भूपाटल्यादिवर्गोऽयं रसबन्धविधायकः । {पञ्चरत्नकगणः} पाटलेन्दीवरी चैव मन्त्रसिंहासनी तथा ॥ ८.४६ ॥ निशाचरी च कङ्कालखेचरी पञ्चरत्नकम् । देहलोहकरं सूतवधबन्धविधायकम् । वलीपलितविध्वंसि सर्वव्याधिहरं परम् ॥ ८.४७ ॥ ऋचूम्, ९ {मधुरत्रय} घृतं खण्डो माक्षिकं च विज्ञेयं मधुरत्रयम् । {मूत्रवर्गः} मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ॥ ९.१ ॥ गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं च योजयेत् । {पञ्चमृत्तिका} इष्टिका गैरिकं लोणं भस्म वल्मीकमृत्तिका ॥ ९.२ ॥ रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः । {क्षारत्रय} टङ्कणं च यवक्षारः सर्जिक्षारस्तृतीयकः ॥ ९.३ ॥ {क्षारवर्गः} पलाशकदलीशिग्रुतिलापामार्गमोक्षकाः । मूलकस्तिन्तिडीबोधिरक्तराजगिरिस्तथा ॥ ९.४ ॥ कम्बलोऽपरकुड्यानि क्षारश्चैषां पृथग्विधः । क्षारवर्ग इति प्रोक्तः दीपनश्च महाबलः ॥ ९.५ ॥ रत्नादिजारणश्चापि सर्वलोहादिजारणः । {अम्लवर्गः} अम्लवेतसजम्बीरनिम्बुकं राजनिम्बुकम् ॥ ९.६ ॥ बदरं बीजपूरं च तिन्तिडी चुक्रिका तथा । चणाम्लं काञ्जिकं तद्वदम्लिका चाम्लदाडिमम् ॥ ९.७ ॥ करमर्दं च कोलाम्लमम्लवर्गोऽयमुच्यते । रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितः ॥ ९.८ ॥ {लवणवर्गः} सामुद्रं सिन्धुसंजातं काचोत्थं विडसंज्ञितम् । सौवर्चलमथो रौमं चुल्लिकं च गडादि च ॥ ९.९ ॥ लवणानामयं वर्गो रुच्यः पाचनदीपनः । द्रावणः शोधनः सर्वलोहानां भस्मनामपि ॥ ९.१० ॥ {विषवर्गः} शृङ्गिकं कालकूटं च वत्सनाभं च सक्तुकम् । पीतं च विषवर्गोऽयं स वरः परिकीर्तितः ॥ ९.११ ॥ {विषवर्ग:: मेदिच्. प्रोपेर्तिएस्} रसकर्मणि शस्तोऽयं तद्बन्धनवधेऽपि च । अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥ ९.१२ ॥ {उपविषवर्गः} लाङ्गली विषमुष्टिश्च करवीरश्च जया तथा । नीलकः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः ॥ ९.१३ ॥ {उपविष:: मेदिच्. प्रोपेर्तिएस्} दीपनः पाचनो भेदी रसे क्वापि च युज्यते । विषेषु जङ्गमाद्येषु विषं सर्पस्य नापरम् ॥ ९.१४ ॥ {तैलवर्गः} तिलातसीकुसुम्भानां निम्बस्य करजस्य च । राज्याः सिद्धार्थकस्यापि गुञ्जाकङ्गुणिबीजयोः ॥ ९.१५ ॥ मधूकस्य च तैलैश्च तैलवर्गो रसे हितः । {दुग्धवर्गः} हस्त्यश्ववनिताधेनुगर्दभीछागिकाविकाः ॥ ९.१६ ॥ उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकः । दुग्धिका स्नुग्गणं चैतत्तथैवोत्तमकर्णिका ॥ ९.१७ ॥ एषां दुग्धैर्विनिर्दिष्टो दुग्धवर्गो रसादिषु । {पित्तवर्गः} महिषक्रोडमत्स्यानां छागस्य च शिखण्डिनः ॥ ९.१८ ॥ कृष्णाहिरोहितानां च मार्जारस्य च मायुभिः । प्रोक्तः पित्तगणः सूतवधबन्धनभावने ॥ ९.१९ ॥ {वसावर्गः} भेककूर्मवराहाहिनरमांससमुत्थया । वसया च वसावर्गो रसकर्मणि शस्यते ॥ ९.२० ॥ {विड्गणः} पारावतस्य चाषस्य कपोतस्य कलापिनः । गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ॥ ९.२१ ॥ शोधनः सर्वलोहानां पुटनाल्लेपनात्खलु । {रक्तवर्गः} कुसुम्भखदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ॥ ९.२२ ॥ अद्री च बन्धुजीवं च तथा कर्पूरगन्धिनी । माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ॥ ९.२३ ॥ {पीतवर्गः} किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा । पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि ॥ ९.२४ ॥ {श्वेतवर्गः} तगरः कुटजं कुन्दो गुञ्जा जीवन्तिका तथा । सितोऽम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ॥ ९.२५ ॥ {कृष्णवर्गः} कदली क्रूरवल्ली च त्रिफला नीलिका नलः । पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ॥ ९.२६ ॥ रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् । भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ॥ ९.२७ ॥ {शोधनीयगणः} काचटङ्कणशिप्राभिः शोधनीयो गणो मतः । सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः । कापालिकागणध्वंसी रसवादिभिरुच्यते ॥ ९.२८ ॥ {मृदुकरवर्गः} महिषीमेषशृङ्गोऽत्र कलिङ्गोद्भवबीजयुक् । शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ॥ ९.२९ ॥ {द्रावकवर्गः} गुडगुग्गुलुगुञ्जाज्यसारघैष्टङ्कणान्वितैः । दुर्द्रावाखिललोहादेर्द्रावणेऽयं गणो मतः ॥ ९.३० ॥ क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् । मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥ ९.३१ ॥ ऋचूम्, १० {महारसाः} महारसाः स्युर्घनराजावर्तवैक्रान्तसस्याः विमलाद्रिजाते । तुत्थं च ताप्यं च रसायनास्ते सत्त्वानि तेषाममृतोपमानि ॥ १०.१ ॥ {अभ्रक:: मेदिच्. प्रोपेर्तिएस्} गौरीतेजः परमममृतं वातपित्तक्षयघ्नं प्रज्ञोद्बोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् । बल्यं स्निग्धं रुचिदमकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद्व्योम सूतेन्द्रबन्धि ॥ १०.२ ॥ राजहस्तादधस्ताद्यत्समानीतं घनं खनेः । भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥ १०.३ ॥ {अभ्रकभेदाः} पिनाकनागमण्डूकवज्रमित्यभ्रकं मतम् । श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ १०.४ ॥ {अभ्र:: पिनाक} पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् । तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥ १०.५ ॥ {अभ्र:: नाग} नागाभ्रं नागवत्कुर्यात्ध्वनिं पावकसंस्थितम् । तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥ १०.६ ॥ {अभ्र:: मण्डूक} उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् । तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥ १०.७ ॥ {अभ्र:: वज्र} वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् । देहलोहकरं तत्तु सर्वरोगहरं परम् ॥ १०.८ ॥ {अभ्र:: सुब्त्य्पेस्:: चोलोउर्} श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् । श्वेतं श्वेतक्रियासूक्तं रक्ताद्यं पीतकर्मणि ॥ १०.९ ॥ चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने । तथापि कृष्णवर्णाभं कोटिकोटिगुणाधिकम् ॥ १०.१० ॥ {अभ्र:: फ्य्स्. प्रोपेर्तिएस्} स्निग्धं पृथुदलं वह्निसहं स्याद्भारतोऽधिकम् । सुखनिर्मोच्यपत्रं च तदभ्रं शस्तमीरितम् ॥ १०.११ ॥ {अभ्र:: बद्त्य्पेस्} सचन्द्रं काचकिट्टाभं व्योम न ग्रासयेद्रसम् । ग्रासितश्चेन्न योज्योऽसौ लोहे चैव रसायने ॥ १०.१२ ॥ निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च । सेवितं चन्द्रिकायुक्तं मेहं मन्दानलं चरेत् ॥ १०.१३ ॥ यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् । तैर्दिष्टं कालकूटाख्यं विषं जीवनहेतवे ॥ १०.१४ ॥ सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् । अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम् ॥ १०.१५ ॥ {अभ्र:: शोधन} प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् । निर्दोषं जायते नूनं निक्षिप्तं वापि गोजले ॥ १०.१६ ॥ त्रिफलाक्वथिते वापि गवां दुग्धे विशेषतः । {अभ्र:: मारण} ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥ १०.१७ ॥ चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे । पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥ १०.१८ ॥ अभ्रांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् । अर्धेभाख्यैः पुटैस्तद्वत्सप्तवारं पुटेत्खलु ॥ १०.१९ ॥ एवं वासारसेनापि तण्डुलीयरसेन च । प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः ॥ १०.२० ॥ एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् । {अभ्र:: मारण} पादांशटङ्कणोपेतं मत्स्याक्षीरसमर्दितम् ॥ १०.२१ ॥ रुन्ध्यात्कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद्घनम् । पटचूर्णं विधायाथ गोघृतेन परिप्लुतम् ॥ १०.२२ ॥ भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे । अग्निवर्णं भवेद्यावद्वारं वारं च चूर्णयेत् ॥ १०.२३ ॥ तृणं क्षिप्तं दहेद्यावत्तावद्वा भर्जनं चरेत् । ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ॥ १०.२४ ॥ पुटेद्विंशतिवाराणि वाराहेन पुटेन हि । पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ॥ १०.२५ ॥ त्रिफलामुण्डिकाभृङ्गपथ्यानीलीसुमूलकैः । भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ॥ १०.२६ ॥ सत्त्वाभ्रात्किंचिदवरं निर्विकारं गुणाधिकम् । एवं चेच्छतवाराणि पुटपाकेन साधितम् ॥ १०.२७ ॥ गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् । क्षुधं करोति चात्यर्थं गुञ्जार्धमिति सेवया । तत्तद्रोगहरैर्योगैः सर्वरोगनिकृन्तनम् ॥ १०.२८ ॥ {अभ्र:: मारण} धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । पुटेत्तच्छतवाराणि म्रियते नात्र संशयः ॥ १०.२९ ॥ {अभ्र:: मारण} तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च । शिवामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ॥ १०.३० ॥ पुटेत्तत्षष्टिवाराणि सिन्दूराभं प्रजायते । क्षयाद्यनन्तरोगघ्नं भवेद्योगानुपानतः ॥ १०.३१ ॥ {अभ्र:: मारण} वटमूलत्वचः क्वाथे ताम्बूलपत्रसारतः । वासामत्स्याक्षिकीभ्यां वा मत्स्याक्ष्या सकठिल्लया ॥ १०.३२ ॥ पयसा वटवृक्षस्य मर्दितं पुटितं घनम् । भवेद्विंशतिवारेण सिन्दूरसदृशं घनम् ॥ १०.३३ ॥ {अभ्रकभस्मन् (६)} सटङ्कणं गवां दुग्धैः पिष्टं प्रपुटितं घनम् । निश्चन्द्रिकं भवेद्वारैस्त्रिंशद्भिर्गुणवत्तरम् ॥ १०.३४ ॥ एवं सिद्धानि चाभ्राणि तालेन पुटितानि चेत् । भवन्त्यतीव तीव्राणि रसादप्यधिकानि च ॥ १०.३५ ॥ {अभ्र:: भस्मन्:: फ्य्स्. प्रोपेर्तिएस्} रौक्ष्यं सौक्ष्म्यं जलप्लावः शोणवर्णसमुद्भवः । विचित्रगुणदीप्तिश्च जायते बहुभिः पुटैः ॥ १०.३६ ॥ {अभ्र:: सत्त्व:: पातन} कासमर्दघनध्वनिवासानां च पुनर्भुवः । मत्स्याक्ष्याः कारवेल्ल्याश्च हंसपाद्या रसैः पृथक् ॥ १०.३७ ॥ पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्घर्मयोगतः । खलिं गोधूमचूर्णं च क्षुद्रमत्स्यांश्च टङ्कणम् ॥ १०.३८ ॥ प्रत्येकमभ्रकांशेन दत्त्वा चैव विमर्दयेत् । मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ॥ १०.३९ ॥ पञ्चाजं पञ्चगव्यं च पञ्चमाहिषमेव च । क्षिप्त्वा गोलान् प्रकुर्वीत किंचित्तिन्दुकसंमितान् ॥ १०.४० ॥ {पञ्चाङ्ग} पयो दधि घृतं मूत्रं विट्च पञ्चाङ्गमुच्यते । अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥ १०.४१ ॥ {अभ्र:: सत्त्व:: पातन:: सेपरतिन्ग्किट्ट अन्द्सत्त्व} कोष्ठ्याः किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् । तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्दयेत् ॥ १०.४२ ॥ गोलान्विधाय संशोष्य धमेद्भूयोऽपि पूर्ववत् । भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥ १०.४३ ॥ एवमेव पुनः किट्टं ध्मात्वा सत्त्वं समाहरेत् । {अभ्रकसत्त्वशोधनम्} अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ॥ १०.४४ ॥ शोधनीयगणोपेतं मूषामध्ये निरुध्य च । सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेत्पुनः ॥ १०.४५ ॥ इति सिद्धं भवेत्सत्त्वं योज्यं रसरसायने । {अभ्रकसत्त्वमृदुकरणम्} मधुतैलवसाज्येषु द्रावितं परिवापितम् ॥ १०.४६ ॥ मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् । {अभ्र:: सत्त्व:: fओर्मुलतिओन्} सत्त्वस्य गोलकं तप्तं सस्यसंयुक्तकाञ्जिके ॥ १०.४७ ॥ निर्वाप्य तत्क्षणेनैव कण्डयेल्लोहपारया । सम्प्रताप्य घनस्थूलान् कणान्क्षिप्त्वा च काञ्जिके ॥ १०.४८ ॥ तत्क्षणेन समाहृत्य खण्डयित्वा रजश्चरेत् । गोघृतेन च तच्चूर्णं भर्जयेत्पूर्ववत्त्रिधा ॥ १०.४९ ॥ धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा । भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ॥ १०.५० ॥ ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः । प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ॥ १०.५१ ॥ एवं संसाधितं व्योमसत्त्वं सर्वगुणोत्तरम् । यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥ १०.५२ ॥ वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाः शूलामकोष्ठामयम् । जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥ १०.५३ ॥ {अभ्रकद्रुतिः} द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कथञ्चन ॥ १०.५४ ॥ {राजावर्तः:: परीक्षा} राजावर्त्तोऽल्परक्तोऽरुनीलिमामिश्रितप्रभः । गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥ १०.५५ ॥ {राजावर्त:: मेदिच्. प्रोपेर्तिएस्} प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः । दीपनः पाचनो वृष्यो राजावर्त्तो रसायनः ॥ १०.५६ ॥ {राजावर्त:: शोधनम्} निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु । द्वित्रिवारेण शुध्यन्ति राजावर्त्तादिधातवः ॥ १०.५७ ॥ {राजावर्त:: मारण} भृङ्गाम्भो गन्धकोपेतो राजावर्त्तो विचूर्णितः । पुटनात्सप्तरात्रेण राजावर्त्तो मृतो भवेत् ॥ १०.५८ ॥ {धातु (गेन्.):: शोधन} सूर्यावर्त्तकवज्रकन्दकदलीकोषातकीशिग्रुकाः । वन्ध्या नीरकणा घना नृपशमी ध्वांक्षी कुमारी वरा । आसामेकरसेन साम्लपुटनाच्छुध्यन्ति धात्वादयः । स्वेदक्लेदवधान्व्रजन्ति च पुनर्ध्माताश्च सत्त्वानि ते ॥ १०.५९ ॥ अयं योगो हि निःशेषधातुमलविशोधनः । {राजावर्त (?):: सत्त्वपातनम्} क्षारैश्च लवणैर्गेहधूमगुञ्जानिशाफलैः । एतैर्युक्ताः शिलाश्मानः सत्त्वं मुञ्चन्त्यशेषतः ॥ १०.६० ॥ {वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्} अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः । शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ १०.६१ ॥ {वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्} श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः । श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ १०.६२ ॥ {वैक्रान्त:: मेदिच्. प्रोपेर्तिएस्} आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी । दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ १०.६३ ॥ रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् । वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वरोगहा ॥ १०.६४ ॥ {वैक्रान्त:: शोधन} कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । {वैक्रान्त:: मारण} म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥ १०.६५ ॥ {वैक्रान्त:: सत्त्वपातन} सत्त्वपातनयोगेन मर्दितश्च वटीकृतः । मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ १०.६६ ॥ {वैक्रान्त:: fओर्मुलतिओन्} भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो वल्लोन्मितः सेवितः । यक्ष्माणं क्षरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीमुरःक्षतमुखान् रोगाञ्जयेद्देहकृत् ॥ १०.६७ ॥ {वैक्रान्त:: fओर्मुलतिओन्} सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकम् । मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥ १०.६८ ॥ क्षौद्राज्यसंसृतं प्रातः गुञ्जामात्रं निषेवितम् । रसायनविधानेन जीवेच्चन्द्रार्कतारकम् ॥ १०.६९ ॥ तत्तद्रोगानुपानेन यवमात्रं निषेवितम् । निहन्ति सकलान्रोगान्दुस्तरानन्यभेषजैः ॥ १०.७० ॥ त्रिसप्तदिवसैर्न्ःणां गङ्गाम्भ इव पातकम् । {सस्यक:: म्य्थ्. ओरिगिन्} पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ॥ १०.७१ ॥ विषेणामृतयुक्तेन गिरौ च मरुताह्वये । तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥ १०.७२ ॥ {सस्य:: परीक्षा:: गोओदॄउअलित्य्} मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते । विषं द्रव्ययुतं यद्वद्द्रव्याधिकगुणं भवेत् । हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥ १०.७३ ॥ {सस्यक:: मेदिच्. प्रोपेर्तिएस्} निःशेषदोषविषहृद्गुदशूलशूलदुष्टाम्लपित्तकविबन्धहरं हितं च । रासायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥ १०.७४ ॥ {सस्यक्तुत्थ:: शोधन} दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । नृमहिष्यजगोमूत्रैः शुध्यत्येवं च सस्यकम् ॥ १०.७५ ॥ {सस्यक:: मारण} लकुचद्रवगन्धाश्मटङ्कणेन समन्वितम् । निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥ १०.७६ ॥ {सस्यक:: सत्त्वपातन} निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च । ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥ १०.७७ ॥ {सस्यक:: सत्त्वपातन} शुद्धं सस्यं शिखिक्रान्तं पूर्वभेषजसंयुतम् । नलिकाध्मानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ १०.७८ ॥ {सस्यक:: सत्त्व:: रिन्ग्} सत्त्वमेतत्समादाय वरभूनागसत्त्वयुक् । तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद्भवेत् ॥ १०.७९ ॥ चराचरं विषं भूतं डाकिनीं दृग्गतं जयेत् । रामवत्सोमसेनानी मुद्रिकेति तथाक्षरम् ॥ १०.८० ॥ मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका । हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ॥ १०.८१ ॥ तत्र शूलं समुत्पन्नं तत्रैव निधनं गतः । मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ॥ १०.८२ ॥ सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् । अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ॥ १०.८३ ॥ लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवम् । सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥ १०.८४ ॥ {विमल:: सुब्त्य्पेस्} विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ १०.८५ ॥ {विमल:: फ्य्स्. प्रोपेर्तिएस्} वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । {विमल:: मेदिच्. प्रोपेर्तिएस्} मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥ १०.८६ ॥ {विमल:: सुब्त्य्पेस्:: उसे} पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । तृतीयो भेषजे तेषु पूर्वः पूर्वगुणोत्तरः ॥ १०.८७ ॥ {विमल:: शोधन} आटरूषजलस्विन्नो विमलो विमलो भवेत् । {विमल:: मारण} गन्धाश्मलकुचाभ्यां स म्रियते दशभिः पुटैः ॥ १०.८८ ॥ {विमल:: सत्त्व:: पातन} सटङ्कलकुचद्रावैर्मेषशृङ्गस्य भस्मना । पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥ १०.८९ ॥ षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससन्निभम् । सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्तु रसायनः ॥ १०.९० ॥ {विमल:: सत्त्व:: मेदिच्. उसे} एतत्सत्त्वं सूतसंयुक्तं पिष्टीकृत्वा सुमर्दितम् । विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकम् ॥ १०.९१ ॥ शिलां पञ्चगुणां चापि नालिकायन्त्रके खलु । तारभस्म दशांशेन तावद्वैक्रान्तकं मृतम् ॥ १०.९२ ॥ सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च । निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥ १०.९३ ॥ लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वरान् श्वयथुकं पाण्डुप्रमेहारुचिम् । मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयान् कामलां सर्वान्पित्तमरुद्गदान् किमपरं योगैरशेषान् गदान् ॥ १०.९४ ॥ {शिलाजतु:: सुब्त्य्पेस्} शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ॥ १०.९५ ॥ ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । {शिलाजतु:: ओरिगिन् fरों हेअतेद्रोच्क्स्} ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ १०.९६ ॥ स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् । {शिलाजतु:: fरों गोल्द्} स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु ॥ १०.९७ ॥ स स्वल्पतिक्तं सुस्वादु परमं तद्रसायनम् । {शिलाजतु:: fरों सिल्वेर्} रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ १०.९८ ॥ शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् । {शिलाजतु:: fरों चोप्पेर्} ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ १०.९९ ॥ शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगनुत् । {शिलाजतु:: तेस्तिन्ग्fओर्पुरित्य्} वह्नौ क्षिप्तं भवेद्यत्तु लिङ्गाकारं ह्यधूमकम् । सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥ १०.१०० ॥ {शिलाजतु:: मेदिच्. प्रोपेर्तिएस्} नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूत्रामयोन्मूलनम् । गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ १०.१०१ ॥ {शिलाजतु:: पोस्सेस्सेस्प्रोपेर्तिएसोf ओथेर्सुब्स्तन्चेस्} रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १०.१०२ ॥ {शिलाजतु:: शोधन} क्षाराम्लैर्गुग्गुलूपेतैः स्वेदनीयन्त्रमध्यगैः । स्वेदितं घटिकामानाच्छिलाधातुर्विशुध्यति ॥ १०.१०३ ॥ {शिलाजतु:: मारण} शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितं हि शिलाधातुर्म्रियतेऽष्टगिरिण्डकैः ॥ १०.१०४ ॥ {शिलाजतु:: मृत:: मेदिच्. उसे} भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तश्च त्रिफलाकटुत्रयघृतैर्वल्लेन तुल्यं भजेत् । पाण्डौ यक्ष्मगुदे तथाग्निसदने महेषु मूत्रामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥ १०.१०५ ॥ सेवेत यदि षण्मासं रसायनविधानतः । वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ १०.१०६ ॥ {शिलाजतु:: सत्त्व:: पातन} पिष्टं द्रावणवर्गेण साम्लेन गिरिसम्भवम् । लिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ॥ १०.१०७ ॥ सत्त्वं मुञ्चेच्छिलाधातुः स्वखनेर्लोहसन्निभम् । {कर्पूरशिलाजतु:: फ्य्स्. प्रोपेर्तिएस्} पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ॥ १०.१०८ ॥ {कर्पूरशिलाजतु:: मेदिच्. प्रोपेर्तिएस्} मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् । {कर्पूरशिलाजतु:: शोधन} एलातोयेन संस्विन्नं शुष्कं शुद्धिमुपैति तत् ॥ १०.१०९ ॥ नैतस्य मारणं सत्त्वपातनं विहितं बुधैः । {रसक:: सुब्त्य्पेस्} रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ १०.११० ॥ सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः । सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ १०.१११ ॥ {रसक:: मेदिच्. प्रोपेर्तिएस्} रसकः सर्वमेहघ्नः कफपित्तविनाशनः । नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ १०.११२ ॥ {रसक:: हिघॄउअलित्य्} नागार्जुनेन निर्दिष्टौ रसश्च रसकावुभौ । श्रेष्ठौ सिद्धरसौ स्यातां देहलोहकरौ परौ ॥ १०.११३ ॥ रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ १०.११४ ॥ {रसक:: शोधन} खर्परः परिसंतप्तः सप्तवारं निमज्जितः । बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ १०.११५ ॥ {रसक:: शोधन} नृमूत्रे मेषमूत्रे वा तक्रे वा काञ्जिके तथा । प्रताप्य मज्जितं सम्यक्खर्परं परिशुध्यति ॥ १०.११६ ॥ {रसक:: रञ्जन wइथ्ँ} नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् । शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं तथा ॥ १०.११७ ॥ {रसकसत्त्वपातन (१)} हरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः । सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥ १०.११८ ॥ लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च । मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥ १०.११९ ॥ खर्परेऽपहृते ज्वाला भवेन्नीला सिता यदि । तदा सन्दंशतो मूषां धृत्वा कृत्वा ह्यधोमुखीम् ॥ १०.१२० ॥ शनैरास्फालयेद्भूमौ यथा नालं न भज्यते । वङ्गाभं पतितं सत्त्वं तदादाय नियोजयेत् ॥ १०.१२१ ॥ एवं हि त्रिचतुर्वारैः सर्वं सत्त्वं विनिःसरेत् । {रसकसत्त्वपातन (२)} यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ॥ १०.१२२ ॥ सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् । मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् ॥ १०.१२३ ॥ पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् । {रसक:: सत्त्व:: मारणम्} तत्सत्त्वं तालकोपेतं निक्षिप्य खलु खर्परे ॥ १०.१२४ ॥ भर्जयेल्लोहदण्डेन भस्मीभवति निश्चितम् । {रसक:: सत्त्व:: मृत:: मेदिच्. उसे} तद्भस्म मृतकान्तेन समेन सह योजितम् ॥ १०.१२५ ॥ अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् । कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ॥ १०.१२६ ॥ निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् । पैत्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ॥ १०.१२७ ॥ रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् । योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥ १०.१२८ ॥ {माक्षिक} माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । {स्वर्णमाक्षिक:: ओरिगिन्} तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ १०.१२९ ॥ {तारमाक्षिक:: ओरिगिन्} तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् । पाषाणबहुलः प्रोक्तस्ताप्याख्योऽसौ गुणाल्पकः ॥ १०.१३० ॥ {माक्षिक:: मेदिच्. प्रोपेर्तिएस्} माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । दुर्मेललोहद्वयमेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥ १०.१३१ ॥ {माक्षिक:: शोधनम्} एरण्डतैललुङ्गाम्बुसिद्धे शुध्यति माक्षिकम् । {माक्षिक:: शोधन} सिद्धं च कदलीकन्दतोये च घटिकाद्वयम् ॥ १०.१३२ ॥ {माक्षिक:: शोधन} तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् । {माक्षिक:: मारण} मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ॥ १०.१३३ ॥ पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु । {माक्षिक:: मारण} एरण्डतैलगव्याज्यैर्मातुलुङ्गरसेन च ॥ १०.१३४ ॥ खर्परस्थं दृढं पक्वं जायते धातुसन्निभम् । एवं मृतं रसे योज्यं रसायनविधावपि ॥ १०.१३५ ॥ {माक्षिक:: सत्त्वपातन} त्रिंशांशनागसंयुक्तं क्षारैरम्लैश्च वर्तितम् । ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥ १०.१३६ ॥ {माक्षिक:: सत्त्व:: शोधन} सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे । माक्षीकसत्त्वसम्मिश्रं नागं नश्यति निश्चितम् ॥ १०.१३७ ॥ गुञ्जाबीजसमच्छायं द्रुतद्रावं च सीसवत् । ताप्यसत्त्वं विशुद्धं तु देहलोहकरं परम् ॥ १०.१३८ ॥ {माक्षिकरसायन (१)} माक्षीकसत्त्वेन रसस्य पिष्टीं कृत्वा विलीने च बलिं निधाय । संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतमभ्रकस्य च ॥ १०.१३९ ॥ विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च । स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं खण्डविडङ्गयुक्तम् ॥ १०.१४० ॥ संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगामपमृत्युमेव । दुःसाध्यरोगानपि सप्तवारैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥ १०.१४१ ॥ {माक्षिकरसायन (२)} मृतमाक्षीकपाषाणस्तदर्धं मृतमभ्रकम् । तदर्धं कान्तलोहं च तदर्धं ताम्रभस्मकम् ॥ १०.१४२ ॥ सर्वमेकत्र संमेल्य समगन्धेन योजयेत् । निम्बुद्रवेण संमर्द्य प्रपुटेद्दशवारकम् ॥ १०.१४३ ॥ वनोत्पलशतेनैव भावयेत्परिचूर्ण्य तत् । व्योषबाह्लीकतोयेन वाराणामेकविंशतिम् ॥ १०.१४४ ॥ भवेद्धि मृतमाक्षीकं सर्वव्याधिविनाशनम् । क्षयं पाण्डुं च कुष्ठानि ग्रहणीं गुदजां रुजः ॥ १०.१४५ ॥ मन्दाग्निं कामलां शोषं स्वरभङ्गमरोचकम् । नानारूपान् ज्वरानुग्रानामदोषं विसूचिकाम् ॥ १०.१४६ ॥ वातपित्तकफोद्भूतांस्तत्तद्रोगानशेषतः । तत्तदौचित्ययोगेन प्रयुक्तैरनुपानकैः । महारसेषु सर्वेषु ताप्यमेव वरं मतम् ॥ १०.१४७ ॥ ऋचूम्, ११ {उपरसाः} गन्धाश्मतालतुवरीकुनटीसौवीरकङ्कुष्ठखेचरगैरिकनामधेयाः । उक्ता बुधैरुपरसाश्च रसायनास्ते तैर्बद्धपारदवरो न रसायनः स्यात् ॥ ११.१ ॥ {सुल्fउर्:: सुब्त्य्पेस्} चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु । {सुल्fउर्:: wहिते} श्वेतोऽत्र खटिका प्रोक्तो लेपने लोहमारणे ॥ ११.२ ॥ {सुल्fउर्:: येल्लोw} तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् । शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥ ११.३ ॥ {सुल्fउर्:: रेद्} रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः । {सुल्fउर्:: ब्लच्क्} दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ ११.४ ॥ {सुल्fउर्:: मेदिच्. प्रोपेर्तिएस्} गन्धाश्मातिरसायनः समधुरः पाके कटूष्णान्वितः कण्डूकुष्ठविसर्पदद्रुदमनो दीप्तानलः पाचनः । आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा क्रिमिहरः सत्त्वात्मकः सूतजित् ॥ ११.५ ॥ {सुल्fउर्:: म्य्थ्. ओरिगिन्} बलिना सेवितः पूर्वं प्रभूतबलहेतवे । वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ॥ ११.६ ॥ वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः । गन्धकत्वं च सा प्राप्ता गन्धोऽभूत्सविषस्ततः ॥ ११.७ ॥ तस्माद्बलिवसेत्युक्तो गन्धकोऽतिमनोहरः । {सुल्fउर्:: शोधन} पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ॥ ११.८ ॥ गव्याज्यैर्विद्रुतो वस्त्रगालितः शुद्धिमृच्छति । एवं संशोधितः सोऽयं पाषाणानम्बरे त्यजेत् ॥ ११.९ ॥ घृते विषं तुषाकारं स्वयं पिण्डत्वमेति च । इति शुद्धो हि गन्धाश्मा नागजां विकृतिं त्यजेत् ॥ ११.१० ॥ अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा । {सुल्fउर्:: शोधन} गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ॥ ११.११ ॥ तद्रसैः सप्तधा स्विन्नो गन्धकः परिशुध्यति । {गन्धकशोधनम् (३)} स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ॥ ११.१२ ॥ गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृतिम् । छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥ ११.१३ ॥ ज्वालयेत्खर्परस्योर्ध्वं वनच्छाणैस्तथोपलैः । दुग्धे निपतितो गन्धो गलित्वा परिशुध्यति ॥ ११.१४ ॥ इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः । गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ॥ ११.१५ ॥ {सुल्fउर्:: द्रुति} कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् । अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्ट्य तत् ॥ ११.१६ ॥ सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् । धृत्वा संदंशतो वर्तिं सर्वां प्रज्वालयेत्ततः ॥ ११.१७ ॥ द्रुतो विनिपतेद्गन्धो बिन्दुशः काचभाजने । तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ११.१८ ॥ वल्लेन प्रमितं शुद्धं रसेन्द्रं च प्रमर्दयेत् । अङ्गुल्याथ सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ११.१९ ॥ करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् । कासं श्वासं च शूलार्तिं ग्रहणीमतिदुस्तराम् ॥ ११.२० ॥ आमं विनाशयत्याशु लघुत्वं प्रकरोति च । {सुल्fउर्:: शुद्ध:: मेदिच्. उसे} घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ॥ ११.२१ ॥ घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् । हन्ति क्षयमुखान्रोगान्कुष्ठरोगं विशेषतः ॥ ११.२२ ॥ क्षाराम्लतैलसौवीरविदाहिद्विदलं तथा । शुद्धगन्धकसेवायां त्यजेद्रोगहितेन हि ॥ ११.२३ ॥ {सुल्fउर्:: मेदिच्. उसे (कुष्ठ)} गन्धकस्तुल्यमरिचः षड्गुणस्त्रिफलान्वितः । घृष्टः शम्पाकमूलेन पीतश्चाखिलकुष्ठहा ॥ ११.२४ ॥ तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहं तनौ । दृष्टप्रत्यययोगोऽयं सर्वत्राप्रतिवीर्यवान् ॥ ११.२५ ॥ श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः । {सुल्fउर्:: मेदिच्. उसे (स्किन् दिसेअसेस्)} द्विनिष्कप्रमितं गन्धं पीत्वा तैलेन संयुतम् ॥ ११.२६ ॥ अथापामार्गतोयेन सतैलमरिचेन च । विलिप्य सकलं देहं तिष्ठेद्घर्मे ततः परम् ॥ ११.२७ ॥ तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु । भजेद्रात्रौ तथा वह्निं समुत्थाय ततः प्रगे ॥ ११.२८ ॥ महिषीछगणैर्लिप्त्वा स्नायाच्छीतेन वारिणा । ततोऽभ्यज्य घृतैर्देहं स्नायात्पथ्योष्णवारिणा ॥ ११.२९ ॥ अमुना क्रमयोगेन विनश्यत्यतिवेगतः । दुर्जया बहुकालीना पामा कण्डूः सुनिश्चितम् ॥ ११.३० ॥ गन्धकस्य प्रयोगाणां सहस्रं तन्न कीर्तितम् । ग्रन्थविस्तरभीतेन सोमदेवमहीभुजा ॥ ११.३१ ॥ {हरितालम्:: सुब्त्य्पेस्} हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञितम् । {पत्त्रतालक:: फ्य्स्. प्रोपेर्तिएस्} स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ ११.३२ ॥ तत्पत्रतालकं प्रोक्तं बहुपत्रं रसायनम् । {पिण्डतालक:: फ्य्स्. प्रोपेर्तिएस्} निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु । स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ॥ ११.३३ ॥ {हरिताल:: मेदिच्. प्रोपेर्तिएस्} श्लेष्मवातविषरक्तभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः । स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥ ११.३४ ॥ {हरिताल:: शोधनम्} स्विन्नं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा । तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ ११.३५ ॥ {हरिताल:: सत्त्व:: पातन} कुलत्थक्वाथसौभाग्यमहिष्याज्यदधिप्लुतम् । स्थाल्यां क्षिप्त्वा पिदध्याच्च मल्लेन छिद्रयोगिना ॥ ११.३६ ॥ सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् । एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ॥ ११.३७ ॥ यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे । शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ॥ ११.३८ ॥ सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः । ग्रन्थविस्तारभीत्या ते लिखिता न मया खलु ॥ ११.३९ ॥ सर्वत्र सुकरं यच्च सुलभं फलदायकम् । रसोपरसलोहेषु तदेवात्र निगद्यते ॥ ११.४० ॥ {पत्त्रताल:: सत्त्व:: पातन} पत्त्रालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् । क्षिप्त्वा षोडशिकां तैले मिश्रयित्वा ततः पचेत् ॥ ११.४१ ॥ अनावृते प्रदेशे च सप्तयामावधि ध्रुवम् । स्वाङ्गशीतमधःस्थं च सत्त्वं श्वेतं समाहरेत् ॥ ११.४२ ॥ {हरिताल:: सत्त्व:: पातन} छागलस्याथ बालस्य मलेन च समन्वितम् । तालकं दिवसद्वन्द्वं मर्दयित्वा प्रयत्नतः ॥ ११.४३ ॥ युक्तं द्रावणवर्गेण काचकूप्यां विनिक्षिपेत् । त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ॥ ११.४४ ॥ ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् । प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधिम् ॥ ११.४५ ॥ कूपीकण्ठे स्थितं सत्त्वं शुभ्रं शीते समाहरेत् । {हरिताल:: सत्त्व:: पातन} पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ॥ ११.४६ ॥ बलिनालिप्य यत्नेन त्रिवारं परिशोषयेत् । द्राविते त्रिपले ताम्रे क्षिपेत्तालकपोट्टलीम् ॥ ११.४७ ॥ भस्मनाच्छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् । मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने ॥ ११.४८ ॥ {तुवरी:: ओरिगिन्} सौराष्ट्रखनिसम्भूता मृत्स्ना या तुवरी मता । वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ॥ ११.४९ ॥ {तुवरी:: सुब्त्य्पेस्} फटिका फुल्लिका चेति द्विविधा परिकीर्तिता । {फटिका:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्} ईषत्पीता गुरुस्निग्धा पीतिका विषनाशिनी ॥ ११.५० ॥ व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः । {फुल्लिका:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्} निर्भारा शुभ्रवर्णा च स्निग्धा साम्ला परा मता । सा फुल्लतुवरी प्रोक्ता लेपाच्छीघ्रं चरेदयः ॥ ११.५१ ॥ {तुवरी:: मेदिच्. प्रोपेर्तिएस्} काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशिनी च । श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारिणी च ॥ ११.५२ ॥ {तुवरीशोधन} तुवरी काञ्जिके क्षिप्ता त्रिदिनाच्छुद्धिमृच्छति । {तुवरी:: सत्त्व:: पातन} क्षाराम्लैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ॥ ११.५३ ॥ {मनःशिला:: सुब्त्य्पेस्} मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरिका । खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ॥ ११.५४ ॥ {श्यामाङ्गी:: फ्य्स्. प्रोपेर्तिएस्} श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता । {कणवीरिका:: फ्य्स्. प्रोपेर्तिएस्} तेजस्विनी च निर्गौरा ताम्राभा कणवीरिका ॥ ११.५५ ॥ {खण्ड:: फ्य्स्. प्रोपेर्तिएस्} चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका । उत्तरोत्तरतः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ॥ ११.५६ ॥ {मनःशिला:: मेदिच्. प्रोपेर्तिएस्} मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री । सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकोठक्षयहारिणी च ॥ ११.५७ ॥ {मनःशिला:: शोधन} अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ॥ ११.५८ ॥ {मनःशिला:: सत्त्व:: पातन} अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा । कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ॥ ११.५९ ॥ {मनःशिला:: सत्त्व:: पातन} भूनागधौतसौभाग्यमदनैश्च विमर्दितैः । कारवेल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ॥ ११.६० ॥ शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् । घटिकाद्वयमात्रं हि ध्माता सत्त्वं त्यजत्यसौ ॥ ११.६१ ॥ {अञ्जन:: सुब्त्य्पेस्} सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् । स्रोतोऽञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च । नीलाञ्जनं हि तेषां च स्वरूपमिह वर्ण्यते ॥ ११.६२ ॥ {सौवीर:: फ्य्स्. प्रोपेर्तिएस्} सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् । वमिहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥ ११.६३ ॥ {रसाञ्जन:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्} रसाञ्जनं च पीताभं विषरक्तगदापहम् । श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम् ॥ ११.६४ ॥ {स्रोतोञ्जन:: मेदिच्. प्रोपेर्तिएस्} स्रोतोऽञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् । नेत्र्यं हिध्माविषच्छर्दिकफपित्तास्रकोपनुत् ॥ ११.६५ ॥ {पुष्पाञ्जन:: मेदिच्. प्रोपेर्तिएस्} पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् । अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम् ॥ ११.६६ ॥ {नीलाञ्जन:: मेदिच्. प्रोपेर्तिएस्} नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् । रसायनं सुवर्णघ्नं लोहमार्दवकारकम् ॥ ११.६७ ॥ {अञ्जन:: शोधन} अञ्जनानि विशुध्यन्ति भृङ्गराजदलद्रवैः । {अञ्जन:: सत्त्व:: पातन} मनोह्वासत्त्ववत्सत्त्वमञ्जनानां समाहरेत् ॥ ११.६८ ॥ {कङ्कुष्ठ:: प्लचे ओf दिस्चोवेर्य्} हिमवत्पादशिखरे कङ्कुष्ठमुपजायते । {कङ्कुष्ठ:: सुब्त्य्पेस्} तत्रैकं नलिकाख्यं हि तदन्यद्रेणुकं मतम् ॥ ११.६९ ॥ {नलिका:: फ्य्स्. प्रोपेर्तिएस्} पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् । {रेणुक:: फ्य्स्. प्रोपेर्तिएस्} श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ॥ ११.७० ॥ {कङ्कुष्ठ:: ओरिगिन् fरोम् fएचेस्} केचिद्वदन्ति कङ्कुष्ठं सद्यो जातस्य दन्तिनः । वर्चः स श्यामपीताभं रेचनं परिकथ्यते ॥ ११.७१ ॥ कतिचित्तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् । वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥ ११.७२ ॥ {कङ्कुष्ठ:: मेदिच्. प्रोपेर्तिएस्} रसे रसायने श्रेष्ठं निःसत्त्वं बहुवैकृतम् । कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ॥ ११.७३ ॥ व्रणोदावर्त्तशूलार्त्तिगुल्मप्लीहगुदार्त्तिहृत् । {कङ्कुष्ठ:: शोधन} कङ्कुष्ठं शुद्धिमायाति त्रिधा श्रेष्ठाम्बुभावितम् ॥ ११.७४ ॥ {कङ्कुष्ठ:: सत्त्व:: पातन} सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् । {कङ्कुष्ठ:: मेदिच्. उसे} भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ॥ ११.७५ ॥ नाशयेदामपूर्तिं च विरिच्य क्षणमात्रतः । भक्षितः सह ताम्बूलैर्विरेच्याशु विनाशयेत् ॥ ११.७६ ॥ बर्बूरीमूलिकाक्वाथजीरसौभाग्यकं समम् । कङ्कुष्ठविषनाशाय भूयो भूयः पिबेन्नरः ॥ ११.७७ ॥ {कासीस:: सुब्त्य्पेस्} कासीसं वालुकाद्येकं पुष्पपूर्वमथापरम् । {वालुकाकासीस:: मेदिच्. प्रोपेर्तिएस्} क्षाराम्लं गुरु धूमाभं सोष्णवीर्यं विषापहम् । वालुकापूर्वकासीसं श्वित्रघ्नं केशरञ्जनम् ॥ ११.७८ ॥ {पुष्पकासीस:: मेदिच्. प्रोपेर्तिएस्} पुष्पादिकासीसमतिप्रसिद्धं सोष्णं कषायाम्लमतीव नेत्र्यम् । विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ ११.७९ ॥ {कासीस:: शोधन} सकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् । {कासीस:: सत्त्व:: पातनम्} तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् ॥ ११.८० ॥ {कासीससेवनम्} बलिना हतकासीसं कान्तं कासीसमारितम् । उभयं समभागं हि त्रिफलावेल्लसंयुतम् ॥ ११.८१ ॥ विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे । सेवितं हन्ति वेगेन श्वित्रपाण्डुक्षयामयान् ॥ ११.८२ ॥ गुल्मप्लीहगदं शूलं मूत्ररोगमशेषतः । रसायनविधानेन सेवितं वत्सरावधि ॥ ११.८३ ॥ आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् । पलितं वलिभिः सार्धं विनाशयति निश्चितम् ॥ ११.८४ ॥ {गैरिक:: सुब्त्य्पेस्} पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् । {पाषाणगैरिक:: फ्य्स्. प्रोपेर्तिएस्} पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ ११.८५ ॥ {पाषाणगैरिक:: मेदिच्. प्रोपेर्तिएस्} स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ ११.८६ ॥ {स्वर्णगैरिक:: मेदिच्. प्रोपेर्तिएस्} हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् । पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥ ११.८७ ॥ {गैरिक:: शोधन} गैरिकं हि गवां दुग्धैर्भावितं शुद्धिमृच्छति । {गैरिक:: सत्त्व:: पातन} गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ॥ ११.८८ ॥ कैरप्युक्तं पतेत्सत्त्वं क्षाराम्लस्विन्नगैरिकात् । उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम् ॥ ११.८९ ॥ {साधारणरसाः} कम्पिल्लश्चापरो गौरीपाषाणो नवसारकः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥ ११.९० ॥ बोद्दारशृङ्गमित्यष्टौ साधारणरसा मताः । रससिद्धिकराः प्रोक्ता नागार्जुनपुरःसरैः ॥ ११.९१ ॥ {कम्पिल्ल:: फ्य्स्. प्रोपेर्तिएस्, प्लचे ओf दिस्चोवेर्य्} इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः । सौराष्ट्रदेशसम्भूतः स हि कम्पिल्लको मतः ॥ ११.९२ ॥ {कम्पिल्ल:: मेदिच्. प्रोपेर्तिएस्} पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्त्तिकृमिगुल्मवैरी । मूलामशूलज्वरशोफहारी कम्पिल्लको रेच्यगदापहारी ॥ ११.९३ ॥ {गौरीपाषाण:: फ्य्स्. प्रोपेर्तिएस्} गौरीपाषाणकः पीतो विकटो हतचूर्णकः । {गौरीपाषाण:: मेदिच्. प्रोपेर्तिएस्} रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ ११.९४ ॥ {नवसार:: प्रोदुच्तिओन्} करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः । क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ॥ ११.९५ ॥ इष्टिकादहने जातं पाण्डुरं लवणं लघु । तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥ ११.९६ ॥ {नवसार:: मेदिच्. प्रोपेर्तिएस्} रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् । गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । विडाख्यं च त्रिदोषघ्नं चूलिकालवणं मतम् ॥ ११.९७ ॥ {मोनेय्चोwरिए:: फ्य्स्. प्रोपेर्तिएस्} पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका । रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ ११.९८ ॥ {मोनेय्चोwरिए:: परीक्षा} सार्धनिष्कमिता श्रेष्ठा निष्कभारा च मध्यमा । पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ ११.९९ ॥ {मोनेय्चोwरिए:: मेदिच्. प्रोपेर्तिएस्} परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी । कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ॥ ११.१०० ॥ रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते । {चोwरिएस्(गेन्.):: मेदिच्. प्रोपेर्तिएस्} तदन्ये तु वराटाः स्युर्गुरवः श्लेष्मपित्तलाः ॥ ११.१०१ ॥ हत्वा हत्वा गुणान् भूयो विकारान् कुर्वते न हि । {मोनेय्चोwरिए:: शोधन} वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ११.१०२ ॥ {अग्निजार:: ओरिगिन्} समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झितः । संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ ११.१०३ ॥ {अग्निजार:: शोधन} तदब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते । {अग्निजार:: मेदिच्. प्रोपेर्तिएस्} अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥ ११.१०४ ॥ {गिरिसिन्दूर:: ओरिगिन्} महगिरिषु चाल्पीयः पाषाणान्तः स्थितो रसः । शुष्कः शोणः स निर्दिष्टो रससिन्दूरसंज्ञया ॥ ११.१०५ ॥ {गिरिसिन्दूर:: मेदिच्. प्रोपेर्तिएस्} त्रिदोषशमनं भेदि रसबन्धनमग्रिमम् । देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ ११.१०६ ॥ {हिङ्गुल:: सुब्त्य्पेस्} हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः । {शुकतुण्ड:: प्रोपेर्तिएस्} प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ॥ ११.१०७ ॥ {हंसपाक:: फ्य्स्. प्रोपेर्तिएस्} श्वेतरेखः प्रवालाभो हंसपाकः स ईरितः । {दरद:: मेदिच्. प्रोपेर्तिएस्} हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ॥ ११.१०८ ॥ सर्वरोगहरो वृष्यो जारणायातिशस्यते । {हिङ्गुलाकृष्ट} एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ ११.१०९ ॥ {दरद:: शोधन} सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा । शोषितो भावयित्वा च निर्दोषो जायते खलु ॥ ११.११० ॥ {बोद्दारशृङ्ग:: प्लचे ओf दिस्चोवेर्य्} सदलं पीतवर्णं च भवेद्गुर्जरमण्डले । अर्बुदस्य गिरेः पार्श्वे जातं बोद्दारशृङ्गकम् ॥ ११.१११ ॥ {उदारशृङ्ग:: मेदिच्. प्रोपेर्तिएस्} सीससत्त्वं मरुच्छ्लेष्मशमनं पुंगदापहम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ ११.११२ ॥ {साधारणरस:: शोधन} साधारणरसाः सर्वे मातुलुङ्गद्रवाम्बुना । त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ ११.११३ ॥ {साधारणरस:: सत्त्व:: शोधन} यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः । ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ॥ ११.११४ ॥ ऋचूम्, १२ {जेwएल्स्} माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् । गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ १२.१ ॥ ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् । नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥ १२.२ ॥ रसे रसायने दाने धारणे च देवतार्चने । सुलक्ष्माणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥ १२.३ ॥ {रुब्य्:: सुब्त्य्पेस्} माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च । {रुब्य्:: परीक्षा:: गोओदॄउअलित्य्} शीतं कुशेशयच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥ १२.४ ॥ वृत्तायत्तं समगात्रं माणिक्यं श्रेष्ठमुच्यते । {नीलगन्धि:: परीक्षा} नीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि । पूर्वमाणिक्यवच्छ्रेष्ठं माणिक्यं नीलगन्धि तत् ॥ १२.५ ॥ {रुब्य्:: परीक्षा:: बदॄउअलित्य्} रन्ध्रकार्कश्यमालिन्यरौक्ष्यवैशद्यसंयुतम् । चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ॥ १२.६ ॥ {रुब्य्:: मेदिच्. प्रोपेर्तिएस्} माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् । भूतवैतालपापघ्नं कर्मजव्याधिनाशनम् ॥ १२.७ ॥ {मौक्तिक:: परीक्षा:: गोओदॄउअलित्य्} ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ १२.८ ॥ {मौक्तिक:: परीक्षा:: बदॄउअलित्य्} रूक्षाङ्गं निर्जलं श्यामं ताम्राभं लवणोपमम् । अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥ १२.९ ॥ {पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्} कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ १२.१० ॥ {चोरल्:: परीक्षा:: गोओदॄउअलित्य्} पक्वबिम्बफलच्छायं वृत्तायत्तमवक्रकम् । स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा मतम् ॥ १२.११ ॥ {चोरल्:: परीक्षा:: बदॄउअलित्य्} पाण्डुरं धूसरं रूक्षं सव्रणं कोटरान्वितम् । निर्भारं शुभ्रवर्णं च प्रवालं नेष्यतेऽष्टधा ॥ १२.१२ ॥ {चोरल्:: मेदिच्. प्रोपेर्तिएस्} क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ १२.१३ ॥ {एमेरल्द्:: परीक्षा:: गोओदॄउअलित्य्} हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् । मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥ १२.१४ ॥ {एमेरल्द्:: परीक्षा:: बदॄउअलित्य्} कपिशं कर्कशं नीलं पाण्डु कृष्णं सलाघवम् । चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥ १२.१५ ॥ {एमेरल्द्:: मेदिच्. प्रोपेर्तिएस्} ज्वरछर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् । दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥ १२.१६ ॥ {पुष्पराग:: परीक्षा:: गोओदॄउअलित्य्} पुष्परागं गुरु स्निग्धं स्वच्छं स्थूलं समं मृदु । कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ॥ १२.१७ ॥ {पुष्पराग:: परीक्षा:: बदॄउअलित्य्} निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् । कपिलं कपिशं पाण्डु पुष्परागं परित्यजेत् ॥ १२.१८ ॥ {पुष्पराग:: मेदिच्. प्रोपेर्तिएस्} पुष्परागं विषछर्दिकफवाताग्निमान्द्यनुत् । दाहकुष्ठप्रशमनं दीपनं लघु पाचनम् ॥ १२.१९ ॥ {वज्र:: सुब्त्य्पेस्:: गेन्देर्} वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । पूर्वं पूर्वं महाश्रेष्ठं रसवीर्यविपाकतः ॥ १२.२० ॥ {वज्र:: पुंवज्र} अष्टास्रं चाष्टफलकं षट्कोणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारि नरं पुंवज्रमुच्यते ॥ १२.२१ ॥ {स्त्रीवज्र} तदेव चिपिटाकारं स्त्रीवज्रं वर्त्तुलायतम् । {नपुंसक} वर्त्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥ १२.२२ ॥ स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके । व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥ १२.२३ ॥ {वज्र:: सुब्त्य्पेस्:: चोलोउर्} श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् । ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ १२.२४ ॥ उत्तमोत्तमवर्णं हि नीचवर्णे फलप्रदम् । न्यायोऽयं भैरवेणोक्तं पदार्थेष्वखिलेष्वपि ॥ १२.२५ ॥ {वज्र:: मेदिच्. प्रोपेर्तिएस्} आयुष्प्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपि मृत्युं जयेदमृतोपमयेव वज्रम् ॥ १२.२६ ॥ {जेwएल्स्:: पञ्चदोष} ग्रासस्त्रासश्च बिन्दुश्च रेखा च जलगर्भता । सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ॥ १२.२७ ॥ क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति च । भैरवस्तु पुनः प्राह दोषो दोषेऽस्ति सर्वथा ॥ १२.२८ ॥ {वज्र:: शोधन} कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा । एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥ १२.२९ ॥ {वज्र:: मारण} वज्रं मत्कुणरक्तेण चतुर्वारं विभावितम् । सुगन्धमूषिकामांसैर्वर्तितैः परिवेष्ट्य च ॥ १२.३० ॥ पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् । ध्मात्वा ध्मात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥ १२.३१ ॥ अन्यैरुक्तं शतं वारान् कर्तव्योऽयं विधिक्रमः । {वज्र:: मारण:: वारितर} कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ॥ १२.३२ ॥ शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च । अष्टवारं पुटेत्सम्यग्विशुष्कैर्वनकोत्पलैः ॥ १२.३३ ॥ शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ १२.३४ ॥ सत्यवाक्सोमसेनानीरेतद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान् रसकौतुकी ॥ १२.३५ ॥ {वज्र:: मारण} विलिप्तं मत्कुणस्यास्रैः सप्तवारं विशोषितम् । कासमर्दरसापूर्णलोहपात्रे निवेशितम् ॥ १२.३६ ॥ सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु । ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥ १२.३७ ॥ {वज्र:: मारण} नीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् । वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥ १२.३८ ॥ {वज्र:: मारण} मदनस्य फलोद्भूतरसेन क्षोणिनागकैः । कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ॥ १२.३९ ॥ तद्वज्रं चूर्णयित्वाथ किंचिट्टङ्कणसंयुतम् ॥ १२.४० ॥ खरभूनागसत्त्वेन विंशेनावर्तयेद्ध्रुवम् । तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥ १२.४१ ॥ त्रिगुणेन रसेनैव विमर्द्य गुटिकीकृतम् । मुखे धृतं करोत्याशु चलदन्तविबन्धनम् ॥ १२.४२ ॥ {वज्र:: मृत:: मेदिच्. उसे} त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं शिवामृतवरं रुद्रांशकं चाभ्रकम् । पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसाद्रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥ १२.४३ ॥ {सप्फिरे:: सुब्त्प्येस्} जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् । {जलनील:: परीक्षा} श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् । {इन्द्रनील:: परीक्षा} कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥ १२.४४ ॥ {सप्फिरे:: परीक्षा:: गोओदॄउअलित्य्} एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् । मृदु मध्योल्लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ १२.४५ ॥ {जलनील:: परीक्षा} कोमलं विहितं वर्णं निर्भारं रक्तगन्धि च । चिपिटाभं सरूक्षं च जलनीलं च सप्तधा ॥ १२.४६ ॥ {सप्फिरे:: मेदिच्. प्रोपेर्तिएस्} कासश्वासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ॥ १२.४७ ॥ {गोमेद:: निरुक्ति} गोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते । {गोमेद:: परीक्षा:: गोओदॄउअलित्य्} सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु । निर्दलं मसृणं दीप्तं शस्तं गोमेदमष्टधा ॥ १२.४८ ॥ {गोमेद:: परीक्षा:: बदॄउअलित्य्} विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् । निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ १२.४९ ॥ {गोमेद:: मेदिच्. प्रोपेर्तिएस्} गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ १२.५० ॥ {वैडूर्य:: परीक्षा:: गोओदॄउअलित्य्} वैडूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् । भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ १२.५१ ॥ {वैडूर्य:: परीक्षा:: बदॄउअलित्य्} श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् । रक्तगर्भोत्तरीयं च वैडूर्यं नैव शस्यते ॥ १२.५२ ॥ {वैडूर्य:: मेदिच्. प्रोपेर्तिएस्} वैडूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् । पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ॥ १२.५३ ॥ {जेwएल्स्:: शोधन} शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ १२.५४ ॥ पुष्परागं च धान्याम्लैः कुलत्थक्वाथसंयुतैः । तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च । रोचनाभिश्च गोमेदं वैडूर्यं त्रिफलाजलैः ॥ १२.५५ ॥ {जेwएल्स्:: मारण} लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ १२.५६ ॥ {जेwएल्स्:: द्रुति} रामठं पञ्चलवणं क्षाराणां त्रितयं तथा । मांसद्राव्यम्लवेतश्च चूलिकालवणं तथा ॥ १२.५७ ॥ स्थलकुम्भीफलं पक्वं तथा ज्वालामुखी शुभा । द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ १२.५८ ॥ दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्यं यत्नतः । गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥ १२.५९ ॥ गुणवन्त्येव रत्नानि जातिमन्ति शुभानि च । भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥ १२.६० ॥ पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ॥ १२.६१ ॥ अहोरात्रत्रयं यावत्स्वेदयेत्तीव्रवह्निना । तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ॥ १२.६२ ॥ रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा । दुर्मेला रसराजेन नैकत्वं याति तेन सा ॥ १२.६३ ॥ रामठादिकवर्गेण प्रमिलति न संशयः । सुप्रसन्ने महादेवे द्रुतिः कस्य न सिध्यति ॥ १२.६४ ॥ दुर्लभा वैष्णवी भक्तिर्दुर्लभं रसबन्धनम् । दुर्लभात्र द्रुतिर्लोके स्वल्पभाग्यवतां नृणाम् ॥ १२.६५ ॥ सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् । दुःछायांचलधूलिसङ्गतिभवालक्ष्मीहरं सर्वदा रत्नानां परिधारणं निगदितं भूतादिनिर्णाशनम् ॥ १२.६६ ॥ रत्नानां गुणग्रामं समग्रं चाग्रणीः सताम् । सुरत्नमब्रवीत्सोमो नेति यद्गुणितं गुणी ॥ १२.६७ ॥ वर्णलक्षसंजातियुक्तं रत्नं फलप्रदम् । रसे रसायने दाने धारणे चान्यथान्यथा ॥ १२.६८ ॥ ऋचूम्, १३ {माणिक्यरसायन} सुजातिगुणमाणिक्यभस्म कर्षमितं शुभम् । कनकाभ्रकताम्राणां कान्तस्य भसितं पृथक् ॥ १३.१ ॥ त्रिगुणत्वेन संवृद्धं मर्दयेत्समगन्धकैः । पुटेद्वनगिरिण्डैश्च पञ्चवाराणि यत्नतः ॥ १३.२ ॥ एवं शिलालकाभ्यां च पुटेन्नीलाञ्जनेन च । तुल्यगन्धाश्मसूताभ्यां विहितां कज्जलीं शुभाम् ॥ १३.३ ॥ ततस्तां कज्जलीं यत्नाद्गृहीत्वा तदनन्तरम् । लोहपात्रे परिद्राव्य बादरेणाल्पवह्निना ॥ १३.४ ॥ माणिक्यादीनि भस्मानि क्षिप्त्वा तत्र विमिश्रयेत् । अथार्द्रकरसैस्तां तु मर्दयित्वाथ कज्जलीम् ॥ १३.५ ॥ सम्यक्शुष्कं विचूर्ण्याथ क्षिपेद्रम्यकरण्डके । व्योषाज्यसम्मितं ह्येतन्माणिक्याद्यं रसायनम् ॥ १३.६ ॥ व्योषाज्यसहितं लीढं षण्मासं पथ्यभोजिना । निहन्ति सकलान् रोगान् जरापलितसंयुतान् ॥ १३.७ ॥ जीवेद्वर्षशतं चैव त्रिवारकृतभोजनः । क्षयादिजान् गदान् सर्वांस्तत्तद्रोगानुपानतः ॥ १३.८ ॥ {मौक्तिकरसायनम्} जयन्तीरसनिष्पिष्टं शुकपिच्छेन मारितम् । मौक्तिकं रसमात्रं हि द्विगुणं स्वर्णभस्मकम् ॥ १३.९ ॥ त्रिगुणं कान्तजं भस्म व्योमसत्त्वं चतुर्गुणम् । दत्त्वा च गन्धसौभाग्यं शृङ्गवेरेण भावितम् ॥ १३.१० ॥ पुटेद्विंशतिवाराणि विद्राव्य पटगालितम् । सर्वतुल्येन बलिना रसेन कृतकज्जलीम् ॥ १३.११ ॥ विद्राव्य पूर्ववद्भस्म मुक्तादीनां परिक्षिपेत् । विमिश्र्य निक्षिपेत्तत्र क्षीरं छागीसमुद्भवम् ॥ १३.१२ ॥ संशोषितं विचूर्ण्याथ काचकूप्यां विनिक्षिपेत् । पिप्पलीमधुना सार्धं सेवितं वल्लमात्रया ॥ १३.१३ ॥ रसायनविधानेन कुरुते वत्सरेण हि । वलीपलितनिर्मुक्तं वार्धक्येन विवर्जितम् ॥ १३.१४ ॥ श्रोत्रदन्तादिसम्पन्नं शतायुष्कं सचक्षुषम् । मत्तदन्तिबलोपेतं विवादे विजयान्वितम् ॥ १३.१५ ॥ लीढं मध्वाज्यतैलैश्च कणोपेताश्वगन्धया । क्षयरोगं निहन्त्येव मण्डलार्धेन निश्चितम् ॥ १३.१६ ॥ तत्तद्रोगानुपानैश्च निहन्ति सकलामयान् । वन्ध्यापुत्रप्रदं ह्येतत्सूतिकामयनाशनम् ॥ १३.१७ ॥ बालानां परमं पथ्यं वृष्यमायुष्यमुत्तमम् । नागोदरोपविष्टं च हन्ति स्त्रीणां च वेगतः ॥ १३.१८ ॥ हैयङ्गवीनसंयुक्तं तवराजेन संयुतम् । गर्भिणीसर्वरोगेषु प्रशस्तं परिकीर्तितम् ॥ १३.१९ ॥ {प्रवालरसयन} चतुष्पलं प्रवालस्य भस्मनो मृततारकम् । तत्समं द्विगुणं ताम्रं प्रवालादर्धमाक्षिकम् ॥ १३.२० ॥ त्रिंशद्विभागिकं वज्रं षोडशांशं च नीलकम् । व्योमसत्त्वं समं सर्वैस्तालकं सर्वतः समम् ॥ १३.२१ ॥ विमर्द्य लुङ्गतोयेन यावद्दिनचतुष्टयम् । सर्वार्धशुद्धसूतेन तस्माद्द्विगुणगन्धकैः ॥ १३.२२ ॥ विहितां कज्जलीं सम्यक्द्रावयित्वा यथा पुरा । प्रवालादीनि भस्मानि विनिक्षिप्य विमिश्र्य च ॥ १३.२३ ॥ निर्वाप्य गोघृते सम्यग्द्वादशाब्दपुरातने । शरावसम्पुटे रुद्ध्वा घृताक्तं स्वेदयेच्छनैः ॥ १३.२४ ॥ विचूर्ण्य भावयेद्भृङ्गरसैर्वाराणि सप्त च । व्योषाज्यसहितं हन्ति जूर्तिरोगं दिनैस्त्रिभिः ॥ १३.२५ ॥ क्षयं च मण्डलार्धेन ग्रहणीं पाण्डुकामले । कुम्भकामलिकारोगमुदावर्तं महोदरम् ॥ १३.२६ ॥ प्रमेहं मेदसो वृद्धिं वातव्याधिं कफामयम् । गुदरोगं च मन्दाग्निं मूत्रवातमशेषतः ॥ १३.२७ ॥ स्मरमन्दिरजव्याधिं वन्ध्यारोगांस्त्वगामयान् । व्योषाज्यचित्रतोयैश्च ह्यनुपानमशेषतः ॥ १३.२८ ॥ भूयो भूयो विसूच्यर्तिर्देहिनो यस्य जायते । रसोऽयं तस्य दातव्यो मण्डलानां त्रयं खलु । आमरोगे च दातव्यो भिषग्भिर्वत्सरावधि ॥ १३.२९ ॥ {तार्क्ष्यरसायन} तार्क्ष्यभस्म तु शाणैकं वज्रभस्म तदर्धकम् । मृतस्वर्णार्ककान्तानां निष्कद्वयमितं पृथक् ॥ १३.३० ॥ लोहभस्म मृतं सूतं सर्वमेकत्र मर्दयेत् । पुटेद्विंशतिवाराणि पुटैः कुक्कुटसंज्ञकैः ॥ १३.३१ ॥ अमृताम्बुसमायुक्तैः शिलागन्धकतालकैः । सप्तवारं द्रवैः सार्धं दशभिः पिष्टकैः पुटेत् ॥ १३.३२ ॥ एवं सिद्धं प्रभावाढ्यं तार्क्ष्यं नाम रसायनम् । चित्रकार्द्रकरसोपेतं पीतं राजिकया मितम् ॥ १३.३३ ॥ त्रिदोषजान् गदान्सर्वान् कफवातोद्भवानपि । असाध्यान् सर्ववैद्यानां भेषजानां च कोटिभिः । करोति क्षुधमत्यर्थं भुक्तं जरयति क्षणात् ॥ १३.३४ ॥ {पुष्परागरसायन} पुष्परागोद्भवं भस्म पलार्धप्रमितं शुभम् । तदर्धं पीतकाचं च तदर्धं ताम्रभस्मकम् ॥ १३.३५ ॥ ताम्रस्यार्धं च रजतं जातरूपं तदर्धकम् । वज्रभस्म तदर्धं च सर्वतुल्यं मृताभ्रकम् ॥ १३.३६ ॥ तत्समं सूर्यकान्तं च मारितं बलिना सह । तुल्येन बलिना सार्धं दशवारं पुटेत्खलु ॥ १३.३७ ॥ नीलाञ्जनालताप्यानां पृथक्तानि पुटानि च । इति सिद्धमिदं प्रोक्तं पुष्परागरसायनम् ॥ १३.३८ ॥ क्षयादिसर्वरोगघ्नं कुष्ठव्याधिहरं परम् । गुदगुल्मार्त्तिशमनं पुत्रीयं वृष्यमुत्तमम् ॥ १३.३९ ॥ रसायनं तथा चैतत्क्षिप्रं गुल्महरं स्त्रियाः । दीपनं परमं प्रोक्तं कामलापाण्डुनाशनम् । बहुनात्र किमुक्तेन सर्वरोगविनाशनम् ॥ १३.४० ॥ {वज्ररसायन} एककर्षं मृतं वज्रं तावद्भूनागसत्त्वकम् । ततश्च द्विगुणं स्वर्णं स्वर्णतुल्यं खसत्त्वकम् ॥ १३.४१ ॥ तावन्मात्रं च कान्तायः सर्वं वारितरं कृतम् । अष्टमांशश्च सूतस्य सर्वेभ्यः परिकीर्तितः ॥ १३.४२ ॥ शुकपिच्छः समः सर्वैर्मर्दयेच्चणकाम्लकैः । विधाय गोलकं रम्यं छायाशुष्कं समाचरेत् ॥ १३.४३ ॥ ततो भूनागसत्त्वं हि गन्धकेन समं क्षिपेत् । पुटितं शतवाराणि शतं वाराणि ताप्यकैः ॥ १३.४४ ॥ सूर्यपर्णैश्च दुग्धैर्वा वाराणां विंशतिं ततः । गुञ्जाटङ्कणसिक्थैश्च भूनागस्य रजोवृतम् ॥ १३.४५ ॥ वर्तयित्वा तु तं गोलं कल्केनानेन लेपयेत् । अर्धाङ्गुलदलेनाथ परिशोष्य खरातपे ॥ १३.४६ ॥ निक्षिपेद्वालुकायन्त्रे प्रपचेद्दिनपञ्चकम् । ततस्त्रिकोणगण्डीरदुग्धैर्गन्धकसंयुतैः ॥ १३.४७ ॥ मर्दयित्वा तु तं गोलं पुटेद्वाराणि विंशतिम् । पटचूर्णं ततः कृत्वा क्षिपेदन्तःकरण्डके ॥ १३.४८ ॥ गुञ्जामितं भजेदेनं रम्यं वज्ररसायनम् । ज्ञाताज्ञातेषु सर्वेषु गदेषु विविधेषु च ॥ १३.४९ ॥ तत्तद्रोगानुपानेन दातव्यं भिषजा खलु । न सोऽस्ति रोगो लोकेऽस्मिन्यो ह्यनेन न शाम्यति ॥ १३.५० ॥ रसायनप्रकारेण सेवितो मण्डलत्रयम् । देहसिद्धिं करोत्येव विश्वविस्मयकारिणीम् । बिल्वमेकं विना सर्वं पथ्यमत्र प्रकीर्तितम् ॥ १३.५१ ॥ {नीलरसायन} नीलरत्नकृतं भस्म पलमात्रं च हीरकम् । स्वर्णं रौप्यं च कान्तं च ताप्यकं नृपवर्तकम् ॥ १३.५२ ॥ समांशं सर्वमेतत्स्यात्सर्वतुल्यं च शुल्वकम् । सर्वमेतन्मृतं ग्राह्यं समगन्धकसंयुतम् ॥ १३.५३ ॥ मर्दयेत्कङ्गुणीतैलैर्यावत्स्याद्दिवसाष्टकम् । ऊर्ध्वाधो गन्धकं दत्त्वा पुटेद्वाराणि विंशतिम् ॥ १३.५४ ॥ श्वेतमुण्डीरसैः पश्चाद्भावयेत्सप्तवारकम् । इति सिद्धं प्रभावाढ्यं रम्यं नीलरसायनम् ॥ १३.५५ ॥ निहन्ति सकलान्रोगान्गुञ्जामात्रं निषेवितम् । ज्वरं पाण्डुं क्षयं कासं शूलमर्शश्च गुल्मकम् ॥ १३.५६ ॥ उदरं कुष्ठरोगं च श्वासं पञ्चविधं तथा । तत्तद्भैषज्ययोगेन तत्तद्रोगनिबर्हणम् ॥ १३.५७ ॥ {गोमेदरसायन} गोमेदं गन्धयोगेन लकुचद्रवयोगिना । पुटित्वा दशवारैश्च जातं भस्म पलोन्मितम् ॥ १३.५८ ॥ सुवर्णं रजतं कान्तं सर्वमौषधमारितम् । क्रामणं पादपादेन प्रसितं चूलिकाम्बुना ॥ १३.५९ ॥ ताप्यं गन्धर्वतैलेन पुटितं दशवारकम् । निरुत्थं जायते भस्म सर्वथैव गुणाधिकम् ॥ १३.६० ॥ तदर्धसूतगन्धाभ्यां कृतकज्जलिकाद्रुतौ । पूर्वभस्मत्रयं क्षिप्त्वा विमिश्र्य च समाहरेत् ॥ १३.६१ ॥ विचूर्ण्य मुण्डिकाद्रावैर्भावयेत्सप्तवारकम् । पटचूर्णं विधायाथ क्षिपेदन्तःकरण्डके ॥ १३.६२ ॥ इदं हि परमं श्रेष्ठं गोमेदकरसायनम् । योज्यं सर्वेषु रोगेषु तत्तद्रोगानुपानतः ॥ १३.६३ ॥ करोति दीपनं तीव्रं सर्वार्हं च प्रियंकरम् । ददाति परमां पुष्टिं बलं भीमबलोपमम् । परमं वृष्यमायुष्यं नेत्र्यं मुखगदापहम् ॥ १३.६४ ॥ {वैदूर्यरसायन} कान्तकल्केन वैदूर्यं सह गन्धेन मारितम् । तद्भस्मनाष्टशाणेन तदर्धं मृतहेम च ॥ १३.६५ ॥ तयोः समं तीक्ष्णरजो मृतं रूप्यं च तत्समम् । मृतं च विमलं सर्वैः समं सर्वं विमर्दितम् ॥ १३.६६ ॥ मिलितं मोचसारेण गोलीकृत्य विशोषयेत् । अङ्गुलार्धदलेनैव शिलाजेन विमर्दयेत् ॥ १३.६७ ॥ वालुकायन्त्रमध्यस्थं पक्षार्धं शनकैः पचेत् । स्वतः शीतं समाहृत्य कुमारीमूलसारतः ॥ १३.६८ ॥ मर्दयित्वा विशोष्याथ पीलुमूलजलैस्तथा । तथैव चित्रमूलाद्भिः कन्थारीमूलसारतः ॥ १३.६९ ॥ चिरबिल्वभवैस्तोयैर्विशोष्य च विचूर्ण्य च । मृतसंजीवनं ह्येतद्वैदूर्यकरसायनम् ॥ १३.७० ॥ आर्द्रकद्रवसंयुक्तं गुञ्जामात्रं रसायनम् । दातव्यं चित्रतोयैर्वा सन्निपाते विसंज्ञके ॥ १३.७१ ॥ दन्तबन्धे तु संजाते वल्लमात्रममुं रसम् । पादयोर्घर्षयेद्यत्नात्ततश्चेष्टामवाप्नुयात् ॥ १३.७२ ॥ जातचेष्टस्य सलिलं मूर्ध्नि शीतं विनिक्षिपेत् । शतकुम्भमितं स्वादु तीव्रा क्षुज्जायते ततः ॥ १३.७३ ॥ यत्किंचिद्याचते तस्मै तत्तद्देयमभीप्सितम् । आयुष्ये विद्यमाने स सुखी जीवति मानवः ॥ १३.७४ ॥ त्रिदोषजातरोगेषु दातव्यं तण्डुलोन्मितम् । पलार्धसितया युक्तमन्यथा हन्ति रोगिणम् ॥ १३.७५ ॥ एकदोषोद्भवे रोगे संसर्गजनिते तथा । न दातव्यं हि भिषजा वैदूर्यकरसायनम् ॥ १३.७६ ॥ धृतानि वा तानि समर्चितानि सुजातियुक्तानि च संस्तुतानि । हरन्ति रत्नान्यखिलं दुरिष्टं कुर्वन्त्यभीष्टं सततं यथेष्टम् ॥ १३.७७ ॥ हरन्त्यलक्ष्मीं सततं समस्तान् दुष्कर्मजातानिह सर्वरोगान् । आयुष्यकारीणि हितानि सर्वरत्नप्रसूतानि रसायनानि ॥ १३.७८ ॥ ऋचूम्, १४ {वर्गसोf मेतल्स्} शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् । मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर्लोहे लुह इति मतः सोऽपि कषार्थवाची ॥ १४.१ ॥ {गोल्द्:: सुब्त्य्पेस्} प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् । रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥ १४.२ ॥ {प्राकृत} ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु । तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥ १४.३ ॥ {सहज} ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा । तन्मेरुरूपतां जातं सुवर्णं सहजं हि तत् ॥ १४.४ ॥ {वह्निसम्भव} विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् । अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ १४.५ ॥ एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । धारणादेव तत्कुर्याच्छरीरमजरामरम् ॥ १४.६ ॥ {खनिज} तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् । तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ १४.७ ॥ {वेधज} रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् । रसायनं महाश्रेष्ठं पापघ्नं वेधजं हि तत् ॥ १४.८ ॥ तारार्करीतीतरलोहकुञ्जरं वङ्गाभ्रकं माक्षिकवङ्गपारदम् । यत्तारजं हि प्रवदन्ति रागतः स्वर्णं कलावर्णचतुर्गुणं हि ॥ १४.९ ॥ {गोल्द्:: परीक्षा:: गोओदॄउअलित्य्} घृष्टं वर्णे घुसृणसदृशं रक्तवर्णं च दाहे छेदे किंचित्सितमकपिलं निर्दलं भूरिभारम् । स्निग्धं स्वर्णं रविविरहितं स्त्यानरक्तप्रभाढ्यं श्रेष्ठं दिष्टमतुलितलसच्चारुवर्णं च स्वर्णम् ॥ १४.१० ॥ {गोल्द्:: परीक्षा:: बदॄउअलित्य्} रूक्षं विवर्णं मलिनं कठोरं कृष्णं च दाहे निकषे च पाण्डु । स्थूलाङ्गकं निर्भरकं कडारं स्फुटत्सुवर्णं दशधा न शस्तम् ॥ १४.११ ॥ {मिश्रलोह:: प्रोदुच्तिओन्} स्वर्णरूप्यादिसंयोगान्मिश्रलोहं प्रजायते । {शोधन:: उसे ओf ँ} स्वर्णकार्यं न तेन स्यात्तस्मात्शुद्धिर्विधीयते । शोध्यं न केवलं स्वर्णं लोहान्यन्यानि शोधयेत् ॥ १४.१२ ॥ {गोल्द्:: रेfरेस्हिन्गित्स्चोलोउर्(?)} कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् । अङ्गारसंस्थं प्रहरार्धमानं ध्मातेन तत्स्यान्ननु पूर्णवर्णम् ॥ १४.१३ ॥ {मेतल्स्:: मारण:: त्य्पेस्} लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुर्निकृष्टं गन्धकादिभिः ॥ १४.१४ ॥ अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । {गोल्द्:: मारण} कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ॥ १४.१५ ॥ लुङ्गाम्बुभस्मसूतेन म्रियन्ते दशभिः पुटैः । {गोल्द्:: मारण} द्रुते विनिक्षिपेत्स्वर्णे लोहमानं मृतं रसम् ॥ १४.१६ ॥ विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् । जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ १४.१७ ॥ {गोल्द्:: मारण:: अपुनर्भव} श्लेष्मान्तकाण्डेन सकाञ्चनारजटापुटैः कुक्कुटनामधेयैः । त्रिंशत्प्रमाणैरपुनर्भवं स्यान्निःशेषयोगेषु च योजनीयम् ॥ १४.१८ ॥ {गोल्द्:: मारण} सूतेन पिष्टिकां कृत्वा स्वर्णं रुद्ध्वा शरावके । स्वल्पनीलाञ्जनोपेतं दग्धं स्वल्पैर्वनोत्पलैः ॥ १४.१९ ॥ कुङ्कुमाभं भवेद्भस्म योज्यं रसरसायने । {गोल्द्:: मारण} स्नुग्दुग्धहिङ्गुहिङ्गूलशिलासिन्दूरकाम्लकैः ॥ १४.२० ॥ पुटितं दशवारेण निर्जीवं हेम जायते । रसे रसायने लोहरञ्जने चातिशस्यते ॥ १४.२१ ॥ {गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्} स्निग्धं मेध्यं विषगरहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि । मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितजरं स्वादुपाकं सुवर्णम् ॥ १४.२२ ॥ {गोल्द्:: मृत:: मेदिच्. उसे} एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं सकासारुचिम् । ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं वृष्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥ १४.२३ ॥ निःशेषरोगविध्वंसि भूतप्रेतभयापहम् । बन्धनं भाविरोगाणां विषत्रयभयापहम् ॥ १४.२४ ॥ विना बिल्वफलं चात्र सर्वमन्यत्प्रशस्यते । दशाब्दसेवितं स्वर्णं स्वेच्छाहारविहारिणम् । न कश्चिद्बाधते व्याधिर्यावदायुर्न संशयः ॥ १४.२५ ॥ {सिल्वेर्:: सुब्त्य्पेस्} सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् । रजतं पूर्वपूर्वं हि स्वगुणैरुत्तमोत्तमम् ॥ १४.२६ ॥ {सिल्वेर्:: सहज} कैलासाद्यद्रिसम्भूतं रजतं सहजं भवेत् । तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ॥ १४.२७ ॥ {सिल्वेर्:: खनिज} हिमाचलाद्रिकूटेषु यद्रूप्यं जायते हि तत् । खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ॥ १४.२८ ॥ {सिल्वेर्:: पादरूप्य} श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् । तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ॥ १४.२९ ॥ {सिल्वेर्:: परीक्षा:: गोओदॄउअलित्य्} घनं स्निग्धं मृदु स्वच्छं दाहे छेदे सितं गुरु । शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ १४.३० ॥ {सिल्वेर्:: परीक्षा:: बदॄउअलित्य्} दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु । स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥ १४.३१ ॥ {सिल्वेर्:: शोधन} खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् । तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ॥ १४.३२ ॥ जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः । स्वच्छं संशोधितं रूप्यं योजनीयं रसादिषु ॥ १४.३३ ॥ {सिल्वेर्:: मारण} लकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् । ऊर्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ॥ १४.३४ ॥ स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना । स्वाङ्गशीतां च तां पिष्टीं साम्लतालेन मर्दिताम् ॥ १४.३५ ॥ पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् । {सिल्वेर्:: मारण} माक्षीकचूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ॥ १४.३६ ॥ त्रिंशद्वारेण तत्तारं भस्म संजायतेतराम् । {एffएच्तोf मारण ओf अ भस्मन्} रागः स्यात्सर्वलोहानां पुटाधिक्ये न संशयः । रञ्जयन्ति च रक्तानि देहलोहोभयार्थकृत् ॥ १४.३७ ॥ {सिल्वेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्} रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रुच्यम् । स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यप्रदं स्थिरवयस्करणं च वृष्यम् ॥ १४.३८ ॥ {सिल्वेर्:: मृत:: मेदिच्. उसे} भस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटुकलितं सारघाज्येन युक्तम् । लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः कासं श्वासं नयनजरुजः पित्तरोगानशेषान् ॥ १४.३९ ॥ {चोप्पेर्:: सुब्त्य्पेस्} म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् । नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ॥ १४.४० ॥ {म्लेच्छताम्र:: फ्य्स्. प्रोपेर्तिएस्} सितकृष्णारुणच्छायं वामि भेदि कठोरकम् । क्षालितं च पुनः कृष्णमेतन्म्लेच्छकताम्रकम् ॥ १४.४१ ॥ {नेपालताम्र:: फ्य्स्. प्रोपेर्तिएस्} सुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु । निर्विकारं गुणैः श्रेष्ठं ताम्रं नेपालमुच्यते ॥ १४.४२ ॥ {चोप्पेर्:: परीक्षा:: बदॄउअलित्य्} पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् । रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ॥ १४.४३ ॥ {चोप्पेर्:: अशुद्ध:: दोष} उत्क्लेदमोहभ्रमदाहभेदास्ताम्रस्य दोषाः खलु दुर्धरास्ते । विशोधनात्तद्विगतस्वदोषं सुधामयं स्याद्रसवीर्यपाके ॥ १४.४४ ॥ {चोप्पेर्:: शोधन} ताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् । निक्षिप्तं महिषीतक्रे छगणे सप्तवारकम् ॥ १४.४५ ॥ पञ्चदोषविनिर्मुक्तं भस्मयोग्यं च जायते । {ताम्रशोधनम्} ताम्रनिर्दलपत्राणि विलिप्तानि तु सिन्धुना ॥ १४.४६ ॥ ध्मात्वा सौवीरके क्षेपाद्विशुध्यन्त्यष्टवारतः । {चोप्पेर्:: शोधन} निम्बाम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ १४.४७ ॥ विशुध्यन्त्यर्कपत्राणि निर्गुण्ड्या रसमज्जनात् । {चोप्पेर्:: शोधन} तालपत्रसमाभानि ताम्रपत्राणि कारयेत् ॥ १४.४८ ॥ निष्क्वाथ्य काञ्जिके यामं भस्मना परिशोध्य च । यामं क्षीरेण निष्क्वाथ्य तत्रैव स्थापयेद्दिनम् ॥ १४.४९ ॥ दिनैकं लवणोपेतं तिन्तिडीफलकर्दमे । जम्बीरनीरनिष्पिष्टपटुना परिवेष्ट्य च ॥ १४.५० ॥ ध्मात्वाजामूत्रमध्ये तु सकृदेव निमज्जयेत् । ताम्रस्यार्धं ससिन्धूत्थैः पक्वनिम्बुकवारिभिः ॥ १४.५१ ॥ लिप्त्वा ध्मात्वा क्षिपेत्तक्रे महिषीछगणान्विते । तत्ताम्रं तुल्यभागेन हेममाक्षिकसंयुतम् ॥ १४.५२ ॥ धमेदतिदृढाङ्गारैश्चैकवारमतः परम् । विना ताप्यैस्त्रिवारं च चक्रिकां कल्पयेत्ततः ॥ १४.५३ ॥ ततस्त्रिकटुकक्वाथे त्रिदिनं स्थापयेत्ततः । उत्क्वाथ्य भस्मना मृज्य जलैः प्रक्षाल्य सारघैः ॥ १४.५४ ॥ विलिप्य सारघोपेतसितया च त्रिवारकम् । पुटेद्वनोत्पलैस्ताम्रं भवेत्स्वर्णसमं गुणैः ॥ १४.५५ ॥ कुमारीपत्रमध्ये तु शुल्बपत्रं निवेशितम् । पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ॥ १४.५६ ॥ इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् । भवेद्रसायने योग्यं देहलोहकरं परम् ॥ १४.५७ ॥ इमां शुद्धिं विजानाति शिवो वा नन्दिकेश्वरः । सर्वलोकाश्रयः श्रीमान् सोमदेवो न चापरः ॥ १४.५८ ॥ {चोप्पेर्:: मारण} बलिना निहतं ताम्रं सप्तवारं समुत्थितम् । सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥ १४.५९ ॥ विलिप्य लकुचद्रावपिष्टगन्धाश्मपङ्कतः । ताम्रपत्राणि संस्थाप्य स्थालीमध्ये निरुध्य च ॥ १४.६० ॥ याममात्रं पचेत्सम्यक्मृतान्याकृष्य चूर्णयेत् । {चोप्पेर्:: मृत:: मेदिच्. उसे} तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ १४.६१ ॥ भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः । ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम् ॥ १४.६२ ॥ विषं गरं च वेगेन वामयत्येव निश्चितम् । पथ्यमत्र प्रदातव्यं गोतक्रं भक्तसंयुतम् ॥ १४.६३ ॥ अतिरेकेऽतिवान्तौ च सन्तापे चातिमात्रके । तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ १४.६४ ॥ अतिवान्तौ भजेद्भृष्टमिक्षुखण्डं तु शीतलम् । यद्वा बिल्वभवं क्वाथं सितया सह पाययेत् ॥ १४.६५ ॥ बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतम् । {चोप्पेर्:: मारण} शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ १४.६६ ॥ तदर्धांशेन तालेन शिलया च तदर्धया । विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ १४.६७ ॥ यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे । कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् । प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं प्रचूर्णयेत् ॥ १४.६८ ॥ {चोप्पेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्} ताम्रं तिक्तकषायकं च मधुरं पाके च वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजूर्त्त्यन्तकृत् । ऊर्ध्वाधः परिशोधनं विषयकृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ १४.६९ ॥ तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुं ज्वरम् । गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं तत्सोमनाथाभिधम् ॥ १४.७० ॥ एतत्ताम्रसमं नान्यन्मधुरं दोषवर्जितम् । नान्यन्निःशेषदोषघ्नं वृष्यं स्वस्थोचितं न्ःणाम् ॥ १४.७१ ॥ {चोप्पेर्:: मारण} बलिना पलमात्रेण तद्द्रव्ये रजसंमितैः । विषतिन्द्वग्निशम्याकवत्सनाभपटूत्तमैः ॥ १४.७२ ॥ कलिहारिशिलाव्योषतालपूगकरञ्जकैः । कृत्वा चूर्णं हि जम्बीरद्रवेणातिद्रवीकृतम् ॥ १४.७३ ॥ तत्सर्वं खल्वके भाण्डे विनिक्षिप्य ततः परम् । कृतकण्टकवेध्यानि पलताम्रदलान्यथ । लिप्तपादांशसूतानि तस्मिन् कल्के निगूहयेत् ॥ १४.७४ ॥ एतत्सर्वगुणाढ्यताप्रभवितं श्रीसोमदेवोदितं गुञ्जायुग्ममितं कणाज्यसहितं संसेवितं हन्ति वै । गुल्मप्लीहयकृद्विबन्धजठरं शूलाग्निमान्द्यामयं वातश्लेष्मसशोषपाण्डुनिवहं जूर्त्त्यामयं भक्षितम् ॥ १४.७५ ॥ पथ्यं रोगोचितं देयं रसमम्लं विवर्जयेत् । एतत्सात्म्यीकृतं येन तेन मृत्युर्विनिर्जितः ॥ १४.७६ ॥ {इरोन्:: सुब्त्य्पेस्} मुण्डं तीक्ष्णं च कान्तं च त्रिःप्रकारमयः स्मृतम् । {मुण्ड:: सुब्त्य्पेस्} मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥ १४.७७ ॥ {मृदु:: फ्य्स्. प्रोपेर्तिएस्} द्रुतद्रावमविस्फोटं चिक्कणं मृदुलं शुभम् । {कुण्ठ:: फ्य्स्. प्रोपेर्तिएस्} हतं यत्प्रसरेद्दुःखं तन्मुण्डं मध्यमं स्मृतम् । {कडार:: फ्य्स्. प्रोपेर्तिएस्} यन्मुण्डं भज्यते भङ्गे कृष्णं स्यात्तत्कडारकम् ॥ १४.७८ ॥ {मुण्ड:: मृदु:: मेदिच्. प्रोपेर्तिएस्} मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि । गुल्मामवातजठरार्त्तिहरं प्रदीपि शोफापहं रुधिरकृत्खलु कोष्ठशोधि ॥ १४.७९ ॥ {तीक्ष्णलोह:: सुब्त्य्पेस्} खरं सारं च होन्नालं तारापट्टं च भाजरम् । काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ १४.८० ॥ {खरलोह:: फ्य्स्. प्रोपेर्तिएस्} परुषं पोगरोन्मुक्तं भङ्गे पारदसच्छविः । नमते भङ्गुरं यत्तत्खरलोहमुदाहृतम् ॥ १४.८१ ॥ {सार:: फ्य्स्. प्रोपेर्तिएस्} वेगभङ्गुरधारं यत्सारलोहं तदीरितम् । योगराभासकं पाण्डु भूमिकं सारमीरितम् ॥ १४.८२ ॥ {होन्नाल:: फ्य्स्. प्रोपेर्तिएस्} कृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुयोगरम् । छेदने चातिपरुषं होन्नालमिति कथ्यते ॥ १४.८३ ॥ {भाजर:: फ्य्स्. प्रोपेर्तिएस्} योगरैर्वज्रसङ्काशैः सूक्ष्मरेखैश्च सान्द्रकैः । निचितं श्यामलाङ्गं च भाजरं तत्प्रकीर्तितम् ॥ १४.८४ ॥ {काललोह:: फ्य्स्. प्रोपेर्तिएस्} नीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् । लोहाघातेऽप्यभग्नात्मधारं कालायसं मतम् ॥ १४.८५ ॥ खरलोहात्परं सर्वमेकैकस्माच्छतोत्तरम् ॥ १४.८६ ॥ {खरलोह:: मेदिच्. प्रोपेर्तिएस्} रूक्षं स्यात्खरलोहकं सुमधुरं पाके च वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपाण्ड्वर्तिनुत् । सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नाममेदोऽपहम् ॥ १४.८७ ॥ {कान्तलोह:: सुब्त्य्पेस्} कान्तलोहं चतुर्धोक्तं रोमकं भ्रामकं तथा । चुम्बकं द्रावकं चेति तेषु श्रेष्ठं परं परम् ॥ १४.८८ ॥ {रोमक:: ओरिगिन्} खन्यमानाद्यतः कान्तपाषाणान्निःसरन्ति हि । सतेजांसि हि रोमाणि कान्तं तद्रोमकं मतम् ॥ १४.८९ ॥ {भ्रामक:: ओरिगिन्} क्वापि क्वापि गिरिश्रेष्ठे सुलभो भ्रामकोपलः । तन्मुखे क्षेपणाल्लोहं चक्रवद्भ्रमति ध्रुवम् ॥ १४.९० ॥ {चुम्बक:: ओरिगिन्} विन्ध्याद्रौ चुम्बकाश्मानश्चुम्बन्त्यायसकीलकम् । क्षिप्रं समाहरत्येव यूनां चित्तमिवाङ्गना ॥ १४.९१ ॥ {द्रावक:: ओरिगिन्} यत्स्पृष्ट्वा द्रावयेल्लोहं सुवर्णाद्यमशेषतः । लभ्यते तन्महादुःखात्तुषारधरपर्वते ॥ १४.९२ ॥ {कान्तलोह:: परीक्षा} पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः । पाच्यं दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ १४.९३ ॥ {कान्तलोह:: मेदिच्. प्रोपेर्तिएस्} कान्तायोऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् । गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत्तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत् ॥ १४.९४ ॥ लक्षोत्तरगुणं सर्वं लोहं स्यादुत्तरोत्तरम् । कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम् ॥ १४.९५ ॥ {इरोन्:: शोधन} शशक्षतजसंलिप्तं त्रिवारं परितापितम् । मुण्डादिसकलं लोहं सर्वदोषान् विमुञ्चति ॥ १४.९६ ॥ {लोहशोधन (२)} सामुद्रलवणोपेतं तप्तं निर्वापितं खलु । त्रिफलाक्वथिते नूनं गिरिदोषमयस्त्यजेत् ॥ १४.९७ ॥ {लोहशोधन (३)} चिञ्चाफलदलक्वाथादयो दोषमुदस्यति । {लोहशोधन (४)} यद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम् ॥ १४.९८ ॥ {इरोन्:: मारण:: वारितर} रेतितं घृतसंसिक्तं क्षिप्त्वायः खर्परे पचेत् । चालयन् लोहदण्डेन यावत्क्षिप्तं तृणं दहेत् ॥ १४.९९ ॥ पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् । धात्रीपत्ररसैर्यद्वा त्रिफलाक्वथितोदकैः ॥ १४.१०० ॥ पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु । {तीक्ष्णलोह:: मारण} तीक्ष्णलोहस्य पत्राणि निर्दलानि दृढानले ॥ १४.१०१ ॥ ध्मात्वा क्षिप्त्वा जले सद्यः पाषाणोलूखलोदरे । कण्डयेदतिनिर्घातैः स्थूलया लोहपारया ॥ १४.१०२ ॥ तन्मध्यात्स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे । ध्मात्वा सिक्त्वा जलैः सम्यक्पूर्ववत्कण्डयेत्खलु ॥ १४.१०३ ॥ तच्चूर्णं गुडगन्धाभ्यां पुटेद्विंशतिवारकम् । पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् ॥ १४.१०४ ॥ एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् । {तीक्ष्णलोह:: मारण} अथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः ॥ १४.१०५ ॥ पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः । शोणितं जायते भस्म कृतसिन्दूरविभ्रमम् ॥ १४.१०६ ॥ {लोहभस्म} यद्वा तीक्ष्णदलोद्भूतं रजस्तत्त्रिफलाजलैः । पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च ॥ १४.१०७ ॥ शोषयित्वातियत्नेन प्रपचेत्पञ्चभिः पुटैः । रक्तवर्णं हि तद्भस्म योजनीयं यथायथम् ॥ १४.१०८ ॥ {इरोन्:: मारण:: निरुत्थ} मत्स्याक्षीगन्धवाह्लीकैर्लकुचद्रवपेषितैः । विलिप्य सकलं लोहं मत्स्याक्षीकल्कगोपितम् ॥ १४.१०९ ॥ भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि । अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके ॥ १४.११० ॥ तस्मादाहृत्य संताड्य मृतमादाय लोहकम् । पुनश्च पूर्ववद्ध्मात्वा मारयेदखिलायसम् ॥ १४.१११ ॥ कण्डयित्वा ततो गन्धगुडत्रिफलया सह । पुटेद्विंशतिवारेण निरुत्थं जायते ध्रुवम् ॥ १४.११२ ॥ {लोहभस्म} समगन्धमयश्चूर्णं कुमारीवारिमर्दितम् । पुञ्जीकृतं कियत्कालं छायास्थं म्रियते ह्ययः ॥ १४.११३ ॥ {इरोन्:: मृत:: मेदिच्. उसे} एतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक्सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् । हन्यान्निष्कमितं जरां च मरणं व्याधींश्च सत्पुत्रदं दिष्टं श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः ॥ १४.११४ ॥ एतत्संसेवमानानां न भवन्त्यामयोच्चयाः । जायते च सुतः श्रीमान् धीधैर्य्यबलसंयुतः ॥ १४.११५ ॥ {काललोह, कान्तलोह:: हिघॄउअलित्योf भस्मन्} काललोहेन कान्तेन भस्मैतत्परिकल्पयेत् । अन्यलोहकृतं भस्म नैतादृशगुणात्मकम् ॥ १४.११६ ॥ {इरोन्:: मारण} मत्स्याक्षीक्षीरगन्धाश्मपिष्टं वेति तदायसम् । विंशतिः पुटितं वारान्निरुत्थं भस्म जायते ॥ १४.११७ ॥ {इरोन्:: मृत:: मेदिच्. उसे} तदष्टपलिकं भस्म मूत्रैरष्टगुणैर्गवाम् । पचेल्लोहमये पात्रे लोहदर्व्या विघट्टयेत् ॥ १४.११८ ॥ इत्थं सिद्धमिदं लोहं वल्लद्वितयसंमितम् । निहन्ति सकलान्रोगांस्तत्तद्दोषसमुद्भवान् ॥ १४.११९ ॥ क्षयं पाण्डुगदं गुल्मं शूलं मूलामयं तथा । मेहं मेदोऽग्निमान्द्यं च यकृत्प्लीहं च कामलाम् ॥ १४.१२० ॥ श्वासं कासं च कुष्ठं च ज्वरं शूलान्वितं तथा ॥ १४.१२१ ॥ {कान्तलोह:: मेदिच्. उसे} कान्तं तुल्याभ्रसत्त्वं चरणपरिमितं हेम तत्तुल्यमर्कं वैक्रान्तं ताप्यरूप्यं क्रिमिरिपुकटुकैस्तुल्यभागैः समेतम् । लीढं देवद्रुतैलैः प्रवितरति नृणां देहसिद्धिं समृद्धां पथ्यं पूर्वोक्तवत्तद्धरति च सकलं रोगपूगं जवेन ॥ १४.१२२ ॥ तदेतत्सर्वरोगघ्नं रम्यं कान्तरसायनम् । बल्यं वृष्यं सुपुत्रीयं मङ्गल्यं दीपनं परम् ॥ १४.१२३ ॥ {इरोन्:: मारण} पलार्धं रेतितं लोहं बालबिल्वफलाम्बुना । पिष्ट्वा पिष्ट्वा पचेत्क्षिप्रं भस्मसाज्जायते खलु ॥ १४.१२४ ॥ तथा लिङ्गीफलाम्भोभिर्धात्रीफलरसेन च । पूर्ववन्मारयेल्लोहं जायते गुणवत्तरम् ॥ १४.१२५ ॥ {इरोन्:: मृत:: मेदिच्. उसे} पुनर्भूसिन्ध्वपामार्गवज्रिणीतिन्तिडीत्वचाम् । क्षारैः सर्वायसां भस्म सेवितं शाणमात्रतः ॥ १४.१२६ ॥ क्वाथं त्रिफलासंयुक्तं प्रतिमासं पिबेन्नरः । {मण्डूर} लोहकिट्टविशुद्ध्यर्थं जायते चान्यथाश्मरी ॥ १४.१२७ ॥ अविशोधितलोहानां विषवद्वमनं मतम् । नन्दिना तु विशुद्ध्यर्थं लोहं प्रोक्तं सुधासमम् ॥ १४.१२८ ॥ {इरोन् (?):: मेदिच्. उसे} रात्रौ कान्तशरावके स्थितवरामित्राजलैः स्वादुभिः प्रातर्मुष्टिमितं खलु प्रतिदिनं षण्मासमासेवितम् । हन्यात्पित्तकफामयान् बहुविधान्कुष्ठप्रमेहांस्तथा पाण्डुं यक्ष्मगदं च कामलगदं मूलामयं वातजान् ॥ १४.१२९ ॥ {इरोन्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अशोधितायः सपुनर्भवं तद्गुणं प्रदर्श्याल्पमथ प्रकुर्यात् । आमाग्निमान्द्यारुचिगुल्मशोफविड्भेदमालस्यमुरोविबन्धम् ॥ १४.१३० ॥ {तिन्:: सुब्त्य्पेस्} खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ १४.१३१ ॥ {खुरक:: फ्य्स्. प्रोपेर्तिएस्} धवलं च मृदु स्निग्धं द्रुतद्रावं सगौरवम् । {मिश्रक:: फ्य्स्. प्रोपेर्तिएस्} निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ १४.१३२ ॥ {तिन्:: मेदिच्. प्रोपेर्तिएस्} वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम् । मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् ॥ १४.१३३ ॥ {खुर:: शोधन} द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे । विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ १४.१३४ ॥ {मिश्रक:: शोधन} अम्लतक्रविनिष्पिष्टवर्षाभूविषसिन्धुभिः । कट्वलाबुगतं वङ्गं द्वितीयं परिशुध्यति ॥ १४.१३५ ॥ {वङ्गमारणम्} सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ । बोधिचिञ्चात्वचां क्षारैर्दद्याल्लघुपुटानि च ॥ १४.१३६ ॥ मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते । {वङ्गमारणम् (२)} प्रद्राव्य खर्परे वङ्गं षोडशांशं रसं क्षिपेत् ॥ १४.१३७ ॥ स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः । मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् ॥ १४.१३८ ॥ {तिन्:: मृत:: मेदिच्. उसे} वङ्गभस्मसमं कान्तं व्योमभस्म च तत्समम् । मर्दयेत्कन्यकाम्भोभिर्निम्बपत्ररसैरपि ॥ १४.१३९ ॥ भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् । गोमूत्रकशिलाधातुजलैः सम्यग्विमर्दयेत् ॥ १४.१४० ॥ ततो गुग्गुलुतोयेन मर्दयित्वा दिनाष्टकम् । विशोष्य परिचूर्ण्याथ समभागेन योजयेत् ॥ १४.१४१ ॥ भृष्टबर्बूरनिर्यासैर्वाकुचीबीजचूर्णकैः । ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम् ॥ १४.१४२ ॥ गोतक्रपिष्टरजनीसारेण सह पाययेत् । चतुर्भिर्वल्लकैस्तुल्यं रम्यं वङ्गरसायनम् ॥ १४.१४३ ॥ निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः । शालयो मुद्गसूपं च नवनीतं तिलोद्भवम् । पटोलं तिक्ततुण्डीरं तक्रं पथ्यं प्रशस्यते ॥ १४.१४४ ॥ {लेअद्:: शुद्ध:: परीक्षा} द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा ॥ १४.१४५ ॥ {लेअद्:: मेदिच्. प्रोपेर्तिएस्} अत्युष्णं सीसकं स्निग्धं तिक्तं वातापहम् । प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ १४.१४६ ॥ {सीषशोधन} सिन्दुवारजटाक्वाथे हरिद्राचूर्णकं क्षिपेत् । द्रुतं नागं च निर्गुण्ड्यास्त्रिवारं निक्षिपेद्रसे ॥ १४.१४७ ॥ नागः शुद्धो भवेदेवं मूर्च्छास्फोटादि नाचरेत् । {भ्राष्ट्रयन्त्र} तिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं क्षिपेत् । तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा । भ्राष्ट्रयन्त्राभिधं चैतन्नागमारणमुत्तमम् ॥ १४.१४८ ॥ {सीसमारणम्} भ्राष्ट्रयन्त्राभिधे तस्मिन्यन्त्रे सीसं विनिक्षिपेत् । पलविंशतिकं नागमधस्तीव्रानलं क्षिपेत् ॥ १४.१४९ ॥ द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् । विघट्ट्य निक्षिपेत्क्षारमेकैकं हि पलं पलम् ॥ १४.१५० ॥ अर्जुनाख्यस्य वृक्षस्य महाराजगिरेरपि । दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक्पृथक् ॥ १४.१५१ ॥ एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना । विघट्टयन् दृढं दोर्भ्यां दर्व्या चाथ प्रयत्नतः ॥ १४.१५२ ॥ रक्तं तज्जायते भस्म कपोतच्छायमेव च । नागं दोषविनिर्मुक्तं जायते तु रसायनम् ॥ १४.१५३ ॥ {लेअद्:: मारण:: निरुत्थ (?)} हतमुत्थापितं सीसं दशवारेण सिध्यति । तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम् ॥ १४.१५४ ॥ {लेअद्:: मृत:: मेदिच्. उसे} एवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् । पादं पादं क्षिपेद्भस्म शुल्बस्य रजतस्य च ॥ १४.१५५ ॥ कान्ताभ्रसत्त्वयोश्चापि स्फटिकस्य पृथक्पृथक् । सर्वमेकत्र संचूर्ण्य पुटेत्त्रिफलवारिणा ॥ १४.१५६ ॥ त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् । व्योषवेल्लकचूर्णैश्च समांशैः सह योजयेत् ॥ १४.१५७ ॥ मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया । अशीतिं वातजान् रोगान् धनुर्वातान् विशेषतः ॥ १४.१५८ ॥ कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः । श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकं ज्वरम् ॥ १४.१५९ ॥ ग्रहणीमामदोषं च वह्निमान्द्यं च दुर्जयम् । सर्वान् गुदजदोषांश्च तत्तद्रोगानुपानतः ॥ १४.१६० ॥ {पित्तल} रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् । {रीतिका:: परीक्षा} संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता । {राजरीति:: परीक्षा} एवं प्रजायते कृष्णा काकतुण्डीति सा मता ॥ १४.१६१ ॥ {रीतिका:: परीक्षा:: गोओदॄउअलित्य्} गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा । सुस्निग्धा मसृणाङ्गी च रीतिका तादृशी शुभा ॥ १४.१६२ ॥ {रीतिका:: परीक्षा:: बदॄउअलित्य्} पाण्डुराभा खरा रूक्षा बर्बरा घट्टनाक्षमा । पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ॥ १४.१६३ ॥ {रीतिका:: मेदिच्. प्रोपेर्तिएस्} रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् । क्रिमिकुष्ठहरा योगात्सोष्णवीर्या च शीतला ॥ १४.१६४ ॥ {राजरीति:: मेदिच्. प्रोपेर्तिएस्} काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् । यकृत्प्लीहहरा शीतवीर्या च परिकीर्तिता ॥ १४.१६५ ॥ {रीतिका:: शोधन} तप्ता क्षिप्ता च निर्गुण्डीरसे श्यामारजोऽन्विते । पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम् ॥ १४.१६६ ॥ {रीतिमारणम्} निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा । रीतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥ १४.१६७ ॥ {रीतिका:: प्रोदुच्तिओनोf द्रुति} सुवर्णरीतिकाचूर्णं भक्षितं विष्ठितं पुनः । छागेन कृष्णवर्णेन मत्तेन तरुणेन च ॥ १४.१६८ ॥ तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् । चतुर्दशलसद्वर्णसुवर्णसदृशच्छविः ॥ १४.१६९ ॥ देहलोहकरी प्रोक्ता युक्ता रसरसायने । {ब्रस्स्:: मृत:: मेदिच्. उसे} मृतारकूटकं कान्तं व्योमसत्त्वं च मारितम् ॥ १४.१७० ॥ त्रयं समांशकं तुल्यव्योषजन्तुघ्नसंयुतम् । ब्रह्मबीजाजमोदाग्निभल्लाततिलसंयुतम् ॥ १४.१७१ ॥ सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् । विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम् ॥ १४.१७२ ॥ {ब्रोन्शे:: प्रोदुच्तिओन्} अष्टभागेन ताम्रेण द्विभागकुटिलेन च । विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् ॥ १४.१७३ ॥ {ब्रोन्शे:: परीक्षा:: गोओदॄउअलित्य्} तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् । निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ॥ १४.१७४ ॥ {ब्रोन्शे:: परीक्षा:: बदॄउअलित्य्} यत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् । मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत् ॥ १४.१७५ ॥ {ब्रोन्शे:: मेदिच्. प्रोपेर्तिएस्} कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् । क्रिमिकोटिहरं वातपित्तघ्नं भाजने हितम् ॥ १४.१७६ ॥ {ब्रोन्शे:: सुइतब्ले fओर्वेस्सेल्स्} घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् । भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ॥ १४.१७७ ॥ {कांस्यशोधनम्} तप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति । {ब्रोन्शे:: मारण:: निरुत्थ} म्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥ १४.१७८ ॥ {वर्तलोह:: प्रोदुच्तिओन्} कांस्यार्करीतिलोहाहिजातं तद्वर्त्तलोहकम् । तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥ १४.१७९ ॥ {वर्तलोह:: मेदिच्. प्रोपेर्तिएस्} हिमाम्लकटुकं रूक्षं कफपित्तविनाशनम् । रुच्यं त्वच्यं क्रिमिघ्नं च नेत्र्यं मलविशोधनम् ॥ १४.१८० ॥ {वर्तलोह:: वेस्सेल्स्मदे ओf ँ} तद्भाण्डसाधितं सर्वमन्नव्यञ्जनसूपकम् । अम्लेन वर्जितं चापि दीपनं पाचनं शुभम् ॥ १४.१८१ ॥ {वर्तलोहशोधनम्} द्रुतमश्वजले क्षिप्तं वर्त्तलोहं विशुध्यति । {वर्तलोहमारणम्} म्रियते गन्धतालाभ्यां पुटितं वर्त्तलोहकम् ॥ १४.१८२ ॥ तेषु तेष्विह योगेषु योजनीयं यथाविधि । जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः । रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा ॥ १४.१८३ ॥ {??} रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् । महारसाद्येषु कठोरदेहं भस्मीकृतं तत्खलु सूतयोग्यम् ॥ १४.१८४ ॥ {भूनाग:: सत्त्व:: उसेद्fओर्द्रावण} वज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे । सदेव परमं तेजः सूतराजेन्द्रवज्रयोः ॥ १४.१८५ ॥ {भूनाग:: सत्त्व:: पातन} धौतं भूनागसम्भूतं मर्दयेद्भृङ्गजै रसैः । निम्बुद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक् ॥ १४.१८६ ॥ तद्द्रावणगणोपेतं संमर्द्य वटकीकृतम् । निरुध्य दृढमूषायां द्विदण्डं प्रधमेद्दृढम् ॥ १४.१८७ ॥ स्वतः शीतं समाहृत्य पट्टके विनिवेश्य यत् । रवकान् राजिकातुल्यान् रेणूनपि भरान्वितान् ॥ १४.१८८ ॥ द्वादशांशार्कसंयुक्तान् धमित्वा रवकांश्चरेत् । वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम् ॥ १४.१८९ ॥ खरसत्त्वमिदं प्रोक्तं रसायनमनुत्तमम् । द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम् ॥ १४.१९० ॥ {भूनाग:: सत्त्व:: पातन} सुवर्णरूप्यताम्रायःकान्तसम्भूतभूमिजान् । भुजङ्गमानुपादाय चतुःप्रस्थसमन्वितान् ॥ १४.१९१ ॥ प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि । उपोषितं मयूरं वा शूरं वा चरणायुधम् ॥ १४.१९२ ॥ क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् । क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे ॥ १४.१९३ ॥ ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् । मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम् ॥ १४.१९४ ॥ निरुध्य कोष्ठिकामध्ये प्रधमेद्घटिकाद्वयम् । शीतलीभूतमूषायाः खोटमुद्धृत्य पेषयेत् ॥ १४.१९५ ॥ प्रक्षाल्य रवकानाशु समादाय प्रयत्नतः । सुवर्णमानवद्ध्मात्वा रवं कृत्वा नियोजयेत् ॥ १४.१९६ ॥ {भूनाग:: सत्त्व:: रिन्गोf ँ} भूनागोद्भवसत्त्वमुत्तमतमं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनके कुर्वीत तेनोर्मिकाम् । तद्धौताम्बुविलेपनं स्थिरचरोद्भूतं विषं नेत्ररुक्शूलं मूलगदं च कर्णजरुजो हन्यात्प्रसूतिग्रहम् ॥ १४.१९७ ॥ {अङ्कोलतैलपातनम् (१)} कथ्यतेऽङ्कोलतैलं च रसभस्मादिनिर्मितौ । पुण्यश्लोकमहामात्यैः श्रीमद्भिर्देवसूनुभिः ॥ १४.१९८ ॥ पुराणाङ्कोलबीजानां पेषं कृत्वा तु दुर्घनम् । आढकप्रमितं कुम्भे विनिधाय निरुध्य च ॥ १४.१९९ ॥ कुम्भस्य च तलच्छिद्रे शलाकामायसीं क्षिपेत् । सार्धहस्तप्रविस्तारे निम्ने गर्ते सुगर्त्तके ॥ १४.२०० ॥ तत्र प्रादेशिके गर्त्ते सीसपात्रं निधाय च । पटं च परिबद्ध्वा तु सन्धिबन्धं समाचरेत् ॥ १४.२०१ ॥ लद्दिभिः पूरयेद्गर्तं कण्ठावधि ततः परम् । षण्मासात्सीसपात्रस्थं तत्तैलं समुपाहरेत् ॥ १४.२०२ ॥ {अङ्कोल:: ओइल्:: (मेदिच्.) उसे} तेन तैलेन संक्लिन्नाः पाषाणा ये भुवर्तिकाः । कूपे प्रक्षालिताः क्षिप्ता ज्वलन्ति निशि ते चिरम् ॥ १४.२०३ ॥ तेन लिप्तं तथैवोक्तं बीजमुद्भवति ध्रुवम् । वध्यते म्रियते सूतस्तैलेनानेन निश्चितम् ॥ १४.२०४ ॥ तत्तैले मासमात्रं हि स्थिता दालिश्चणोद्भवा । भक्षितास्याच्चतुर्थांशा षष्टिवारं विरेचयेत् ॥ १४.२०५ ॥ तक्रं भक्तं ततः पथ्यं दातव्यं रेकशान्तये । पक्षान्ते दालिकार्धेन पूर्ववद्रेचयेत्खलु ॥ १४.२०६ ॥ ततो दाली त्रिपादेन चूर्णार्धेन ततः परम् । पक्षे पक्षे विरेकेण सर्वं कुष्ठं विनश्यति ॥ १४.२०७ ॥ रेकसाध्यगदाः सर्वे विनश्यन्ति न संशयः । रेकसाध्यगदाः सर्वे श्वेतकुष्ठं विशेषतः ॥ १४.२०८ ॥ {अङ्कोल:: ओइल्:: मेदिच्. उसे} बिन्दुमात्रेण तैलेन शुद्धो गुञ्जामितो रसः । मर्दितोऽहिलतापत्रे पत्रेण सह भक्षितः ॥ १४.२०९ ॥ तत्क्षणादेव कुरुते ह्यनलं दीप्तमुद्धतम् । संसेविनं नरं चापि वृकस्येवाति भोजिनम् ॥ १४.२१० ॥ अङ्कोलतैलमेतद्धि देहलोहविधायकम् । एतत्तैलविलेपेन श्वेतकुष्ठं विनश्यति ॥ १४.२११ ॥ एतदङ्कोलकं तैलं महत्सत्त्वमुदाहृतम् । घृतवज्जायते स्त्यानं तत्सर्वमिति कथ्यते ॥ १४.२१२ ॥ {अङ्कोलतैलपातनविधिः (२)} निस्त्वचाङ्कोलबीजानि किंचिज्जर्जरितानि च । रुद्ध्वा विद्याधरे यन्त्रे दण्डार्धं प्रपचेच्छनैः ॥ १४.२१३ ॥ ऊर्ध्वस्थालीगतं तैलं नागवल्लीदले क्षिपेत् । {अङ्कोल:: ओइल्:: मेदिच्. उसे} तस्मिन्गुञ्जामितं सूतं विमर्द्य सदलं ग्रसेत् ॥ १४.२१४ ॥ कुर्याद्दीपनमुद्धतं गुरुतरद्रव्यादिसंचूर्णनं हन्यादष्टविधं च गुल्ममरुचिं प्लीहामयं स्वामयम् । श्वित्राद्यं सकलं च कुष्ठमचिरात्पाण्ड्वामयं च ज्वरं शूलं मूलगदं तथा श्वयथुकं श्वासं च कासं नृणाम् ॥ १४.२१५ ॥ {अङ्कोलतैलपातनविधिः (३)} निरस्थ्यङ्कोलबीजानि सूक्ष्माण्युष्णेन वारिणा । गोण्यां निक्षिप्य निस्त्वञ्चि विधाय तदनन्तरम् ॥ १४.२१६ ॥ भाण्डस्थिते ततः क्षारे प्रक्षिपेत्सलिले खलु । तिलपर्णीजटां क्षुण्णां निक्षिपेत्तत्र मात्रया ॥ १४.२१७ ॥ द्विरात्रमुषितं तत्र भाजनेऽन्ये विनिक्षिपेत् । शुष्के तु निर्गतं तैलं क्षिपेन्नागकरण्डके ॥ १४.२१८ ॥ चणानां दालयस्तत्र स्थिता मासत्रयं ततः । तत्राद्ये पादमात्रं हि प्रदद्यात्कुष्ठरोगिणे ॥ १४.२१९ ॥ तेनाशु रेचितस्त्रिंशद्वाराणि तदनन्तरम् । ससंभक्तं तथा पथ्यं दातव्यं शाकवर्जितम् ॥ १४.२२० ॥ एवं विरेचितो नूनं सततं दशभिर्दिनैः । सर्वकुष्ठैर्विमुच्येत वारैः षट्सप्तभिः खलु ॥ १४.२२१ ॥ पूर्वप्रोक्तेन तैलेन गुणैस्तुल्यं प्रकीर्तितम् । {अङ्कोलतैलपातनविधिः (४)} मूलान्युत्तरवारुण्या जर्जरीकृत्य काञ्जिकैः ॥ १४.२२२ ॥ क्षिपेदङ्कोलबीजानां पेषिकां जर्जरीकृताम् । तत्तैलं घृतवत्स्त्यानं परं ग्राह्यं यथाविधि ॥ १४.२२३ ॥ {अङ्कोलतैलपातनविधिः (५)} सम्पिष्योत्तरवारुण्या पेटकार्या दलान्यथ । काञ्जिकेन ततस्तेन कल्केन परिमर्दयेत् ॥ १४.२२४ ॥ रजश्चाङ्कोलबीजानां तद्बद्ध्वा विरलाम्बरे । तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत् ॥ १४.२२५ ॥ तत्र निपतितं तैलमादेयं श्वित्रनाशनम् । {अङ्कोलतैलपातनविधिः (६)} अङ्कोलबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः ॥ १४.२२६ ॥ एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् । स्वेदयेत्कन्दुके यन्त्रे घटिकाद्वितयं ततः ॥ १४.२२७ ॥ तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः । अधः पात्रस्थितं तैलं समाहृत्य नियोजयेत् । एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत् ॥ १४.२२८ ॥ ऋचूम्, १५ रसपाथोधिभिः किंचिन्निःशेषं न प्रकाशितम् । दशाष्टभिः क्रियां वक्ष्ये रसराजस्य साम्प्रतम् ॥ १५.१ ॥ सुधादिसर्वभैषज्यसारः सूते प्रतिष्ठितः । अमर्त्या भवितुं मर्त्या निषेवध्वं मिथो युतम् ॥ १५.२ ॥ {मेर्चुर्य्:: प्रोपेर्तिएस्} आयुर्वज्रं वितरति नृणामङ्गवर्णं सुवर्णं सत्त्वं व्योम्नो मदकरिबलं ताम्रमुग्रां क्षुधां च । मायोः शान्तिं रजतममलं कान्तमेतत्समस्तं श्रीमान् सूतः सकलगदहृद्देहलोहे तु सिद्धः ॥ १५.३ ॥ {मेर्चुर्य्:: म्य्थ्. ओरिगिन्} कल्पादौ शिवयोः प्रीत्या परस्परजिगीषया । सम्प्रवृत्ते तु सम्भोगे त्रिलोकीक्षोभकारिणि ॥ १५.४ ॥ देवैः संप्रेषितो वह्निः सुरतं विनिवारितुम् । काङ्क्षया तत्सुतोद्भूतेर्निहन्तुं तारकासुरम् ॥ १५.५ ॥ कपोतरूपिणं प्राप्तं हिमवत्कन्दरेऽनलम् । अपक्षिभावसंक्षुब्धं स्मरस्मेरावलोकितम् ॥ १५.६ ॥ तं वीक्ष्य लज्जितः शम्भुर्विरम्य सुरतात्तदा । स्रुतमात्मगतं तेजः सोऽग्रहीदेकपाणिना ॥ १५.७ ॥ निक्षिप्तं वदने वह्नेर्गङ्गायामपतच्च तत् । गङ्गया च बहिःक्षिप्तं नितरां दह्यमानया ॥ १५.८ ॥ अतोऽधिकगुणा जाता धातवो हि सुधासमाः । शिवहस्तच्युतं यत्तत्समभूत्खलु पारदः ॥ १५.९ ॥ अमर्त्या निर्जरास्तेन संजातास्त्रिदशोत्तमाः । तत्तन्मलेन संजाता धातवश्चाष्टसंख्यया ॥ १५.१० ॥ पावकास्याच्च्युतं यत्तु रसस्तत्समभूत्खलु । सेवितः स हि नागेन्द्रैर्जरामृत्युजिगीषया ॥ १५.११ ॥ पीयमानं तु नागास्यात्पतितं गौरवेण यत् । शतयोजननिम्नेऽसौ न्यपतत्कूपके खलु ॥ १५.१२ ॥ ईषत्पीतान्तरो रूक्षः स सूतो देहलोहकृत् । {ङेwइन्नुन्ग्वोन् ःग्मित्नच्क्तेन् Fरौएन्} स्नातामाद्यरजस्वलां हयगतां प्राप्तां जिघृक्षुश्च तां सोऽप्यागच्छति योजनं हि परितः प्रत्येति कूपं पुनः । तन्मार्गे कृतगर्त्तके च बहुशः संतिष्ठते सूतराट्सोऽयं तत्र निवासिभिः खलु जनैरेवं समानीयते ॥ १५.१३ ॥ {मेर्चुर्य्:: एxत्रच्तिओन् fरोमेअर्थ्} नीयमानस्तु गङ्गाया वायुना गौरवेन यत् । अपतद्दूरदेशे वै स देशः पारदः स्मृतः ॥ १५.१४ ॥ तत्ततो मृद्गतः सूतः पातनाविधिना खलु । आनीयते स विज्ञेयः पारदो गदपारदः ॥ १५.१५ ॥ एवं चतुर्विधं जातं शंकरं शाङ्करं महः । इत्थं सूतोद्भवं ज्ञात्वा न रोगैर्बाध्यते नरः ॥ १५.१६ ॥ रसेन्द्रश्च रसश्चैव स्यातां सिद्धरसावुभौ । साध्यावन्यौ चिराज्जातौ भूम्यादेर्देशयोगतः ॥ १५.१७ ॥ {मेर्चुर्य्:: निरुक्ति} जरापमृत्युदौर्गत्यव्याधीनां रसनाद्रसः । रसास्वादन इत्यस्य धातोरर्थतया खलु ॥ १५.१८ ॥ देहलोहमयीं सिद्धिं सूते सूतस्ततो मतः । रोगाब्धिं पारयेद्यस्मात्तस्मात्पारद उच्यते ॥ १५.१९ ॥ पातनैः शोध्यमानस्य यस्य पादोऽवशिष्यते । त्रिपादी च क्षयं याति तेन पादरसः स्मृतः ॥ १५.२० ॥ {मेर्चुर्य्:: दोष:: म्य्थ्. ओरिगिन्} इत्थं भूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः । प्रभावान्मानुषान् दृष्ट्वा देवतुल्यबलायुषः ॥ १५.२१ ॥ इन्द्रेणाभ्यर्थितो रुद्रो रसं द्वादशदूषणैः । योजयामास तं पूर्वं विना शुद्ध्यापि सिद्धिदम् ॥ १५.२२ ॥ {पारददोषाः} दोषो मलो विषं वह्निर्मदो दर्पश्च तत्फलम् । मूर्च्छा मृत्युः सदादाहो विस्फोटश्च शिरोभ्रमः ॥ १५.२३ ॥ {मेर्चुर्य्:: कञ्चुकाः} भूशैलजलताम्रायोनागवङ्गसमुद्भवाः । कञ्चुकाः सप्त सूतस्य ताभिः सूतो विषोपमः ॥ १५.२४ ॥ कुष्ठं जाड्यं च वातार्तिं दाहं चावृतकण्ठताम् । उन्मादं च महाशूलं क्रमात्कुर्वन्ति कञ्चुकाः ॥ १५.२५ ॥ एतान् सूतगतान् दोषान् पञ्च सप्त च कञ्चुकाः । अनपाकृत्य यो दद्यात्स वैद्यो ब्रह्महा भवेत् ॥ १५.२६ ॥ द्वादशैतान्महादोषानपनीय रसं ददेत् । स लभेत महत्पुण्यमगण्यं च महद्यशः ॥ १५.२७ ॥ {१८ संस्कारस्} सूतेऽष्टादशसंस्क्रिया निगदिताः स्युः स्वेदनं मर्दनं मूर्च्छोत्थापनपातरोधनियमाः प्रोद्दीपनं ग्रासजम् । मानं चारणगर्भबाह्यजनितद्रुतिश्च तज्जारणा रागः सारणकं परिक्रमविधिर्वेधस्ततः सेवनम् ॥ १५.२८ ॥ अथ नन्दिप्रदिष्टेन विधानेन प्रकाश्यते । दोषाणां कञ्चुकानां च यथावत्परिशोधनम् ॥ १५.२९ ॥ सूतः पञ्चपलान्न्यूनः शोधितोऽल्पफलो भवेत् । ऊर्ध्वं दशपलांशेन शुद्धिमाप्नोत्यशेषतः ॥ १५.३० ॥ {मेर्चुर्य्:: शोधन} स्वेदमर्दनमूर्च्छाभिः सप्तवारोर्ध्वपातनैः । सर्वदोषविनिर्मुक्तो रसराजः प्रजायते ॥ १५.३१ ॥ स्वेदनं मर्दनं तद्वत्सप्तवारान् विमूर्च्छनम् । स हि सिद्धिकरं प्राह गुणकारि च भास्करः ॥ १५.३२ ॥ मर्दनस्वेदसंन्यासैः शुध्यतीति दिनेश्वरः । ऊर्ध्वाधःपातनाभ्यां हि विशुद्धिर्भालुकेर्मता ॥ १५.३३ ॥ स्वेदनं मर्दनं मूर्च्छा प्रत्युत्थानं च पातनम् । निरोधो नियमश्चेति शुचिः सप्तविधा मता । गोविन्दभगवान् पूज्यैः सूतराजस्य निश्चिता ॥ १५.३४ ॥ अथ श्रीनन्दिना प्रोक्तप्रकारेण विशोधनम् । रसराजस्य निःशेषदोषघ्नं परिकीर्त्यते ॥ १५.३५ ॥ {१. स्वेदनसंस्कार} मूलकाग्निपटुराजिकार्द्रकैः व्योषकैश्च रसषोडशांशकैः । स्वेदितस्त्रिदिवसं हि दोलया काञ्जिकेन मलमुक्तये रसः ॥ १५.३६ ॥ {२. मर्दनसंस्कार} दग्धोर्णागृहधूमाब्जसर्षपैः सगुडेष्टकैः । मर्द्यो रसः षोडशांशैस्त्र्यहं तद्वह्निशान्तये ॥ १५.३७ ॥ जीर्णे जीर्णे सदाग्रासे मर्दनीयो रसः खलु । एतैरेवौषधैर्यस्माद्रागान् गृह्णाति निर्मलः ॥ १५.३८ ॥ {३. मूर्छन} व्योषसौभाग्यसंयुक्तलकुचद्रावमर्दनात् । मूर्छितस्त्रिदिनं सूतो मदं मुञ्चति दुर्धरम् ॥ १५.३९ ॥ {रेमोवलोf विषदोष} सौभाग्यत्रिफलाश्यामाटङ्कणैः सह काञ्जिकैः । त्रिदिनं संस्थितः सूतो विषं संत्यजति स्वकम् ॥ १५.४० ॥ {रेमोवलोf दर्पदोष} सर्पाक्षिकाकमाव्योषरसैरुत्क्वथितोत्थितः । दर्पं मुञ्चति च क्षिप्रमिति दोषविशोधनम् ॥ १५.४१ ॥ क्षाराम्लैः सोष्णतोयेन निवातस्थानसंस्थितः । रसस्य कुरुते वीर्यशैत्यं तद्वीर्यनाशनम् ॥ १५.४२ ॥ {रेमोवलोf भूकञ्चुक} कांक्षीकासीसलुङ्गाम्बुमर्दितः पारदो दिनम् । क्षालितः काञ्जिकैः पिष्टस्त्यजति क्षोणिकञ्चुकम् ॥ १५.४३ ॥ {अद्रिकञ्चुक} गिरिकर्ण्या जयन्त्याश्च स्वरसैर्भावितो रसः । त्रिभिर्वारैस्त्यजत्येव गिरिजामात्मकञ्चुकाम् ॥ १५.४४ ॥ {जलकञ्चुक} गुडगुग्गुलुनिम्बानां क्वाथेन क्वथितस्त्र्यहम् । त्यजत्यम्बुभवां सूतः कञ्चुकां बहुदोषदाम् ॥ १५.४५ ॥ {ताम्रकञ्चुक} सितासार्द्रकतक्रैश्च मर्दयित्वा तथोत्थितः । धौतश्चोष्णैर्गवां मूत्रैस्त्यजेत्ताम्रजकञ्चुकम् ॥ १५.४६ ॥ {अयःकञ्चुक} कारवेल्ल्याश्च कर्कोट्या रसैः संमर्दितो रसः । कञ्चुकामायसीं मुञ्चेच्चपलः सौहृदं यथा ॥ १५.४७ ॥ {नाग-, वङ्गकञ्चुक} ताम्रपिष्टीकृतः सूतः पातनायन्त्रपातितः । मुञ्चेत्कञ्चुलिकां शीघ्रं नागवङ्गसमुद्भवाम् ॥ १५.४८ ॥ {वङ्गकञ्चुक} सूतं वराग्निपटुशिग्रुकराजिकाञ्जनैः पिष्टैर्विलिप्य परिपातनकोर्ध्वभागे । भाण्डोदरे भृतजले परितो विमुञ्चेन्मृद्वग्निना त्यजति कञ्चुलिकां हि वाङ्गीम् ॥ १५.४९ ॥ इत्थं निपातितः सूतश्चलद्विद्युल्लताप्रभः । नागवङ्गविनिर्मुक्तः ततश्चैतत्प्रजायते ॥ १५.५० ॥ यदा यदा भवेत्सूतो ग्रासाजीर्णेन बाधितः । अनेनैव प्रकारेण पातनीयस्तदा तदा ॥ १५.५१ ॥ {मेर्चुर्य्:: आप्यायन} स्वेदनाद्यैः पातनान्ते शोधनैः स कदर्थितः । मन्दवीर्यो भवेत्सूतस्तस्मादाप्यायनं चरेत् ॥ १५.५२ ॥ सोदके सैन्धवे सूतः स्थितस्त्रिदिवसावधिः । पुनराप्यायनं प्राप्य न स्यात्षण्ढो भवेद्बली ॥ १५.५३ ॥ {स्वेदनविधि} भालुकिः स्वेदसंन्यासौ दिष्टवान्नियमात्परम् । भक्षितुं सर्वलोहानि मुखं कर्तुं विनिश्चितम् ॥ १५.५४ ॥ अङ्गारस्थापिते पात्रे रसं क्षिप्त्वा प्रजारयेत् । षोडशांशेन चित्रां तु तदत्र स्वेदनं मतम् ॥ १५.५५ ॥ सर्वरोगान् हरेदेव शक्तियुक्तो गुणाधिकः । वेगेन फलदायित्वं जायते नात्र संशयः ॥ १५.५६ ॥ {संन्यासविधि} क्षाराम्ललवणैः सार्द्धं संन्यासाज्जायते तथा । चतुर्थाध्यायनिर्दिष्टप्रकारेण रसे खलु ॥ १५.५७ ॥ बुभुक्षा व्यापकत्वं च तीव्रता वेगकारिता । सर्वव्याधिहरत्वं च त्यक्तदोषत्वमेव च ॥ १५.५८ ॥ {दीपनसंस्कार} मरिचाब्जासुरी चैव शिग्रुभूखगटङ्कणैः । ससंधानैस्त्र्यहं स्वेदाद्भवेत्सूतस्य दीपनम् ॥ १५.५९ ॥ नवमाध्यायनिर्दिष्टदीपनीयगणेन च । रसस्य दीपनं कुर्यात्तदत्यन्तगुणावहम् ॥ १५.६० ॥ {मुखकरण} स्वेदितोऽष्टादशांशेन हेमयुक्तो हि पारदः । क्षारैरम्लैरदोषैश्च भोक्तुमास्यं प्रजायते ॥ १५.६१ ॥ {राक्षसवक्त्र} कलांशताप्यसत्त्वेन स्वर्णेन द्विगुणेन च । युक्तं युक्तं हि चुक्रेण चूलिकालवणेन च ॥ १५.६२ ॥ चणकक्षारतोयेन राजनिम्बुकवारिणा । मर्दयेत्तप्तखल्वान्तर्बलेन महता खलु ॥ १५.६३ ॥ एकविंशत्यहो यावद्यामं यामं दिने दिने । एवं राक्षसवक्त्रः स्यात्सर्वाशी च न संशयः ॥ १५.६४ ॥ अष्टादशक्रिया नृणां न सिध्यन्ति रसस्य हि । विना भाग्येन तपसा प्रसादेनेश्वरस्य च ॥ १५.६५ ॥ सर्वैर्युक्ता विविधविधिभिः संस्कृतीभिः सुरम्यैः सूतो मुञ्चत्यखिलविकृतीन् श्वित्ररोगप्रमाथी । तावच्छुद्धिं कृतबहुगुणां नन्दिनोक्तां सुसाध्यां पथ्यायुक्तां पुरवरपतिः सोमदेवोऽभिधत्ते ॥ १५.६६ ॥ {रेमोविन्ग्दोषस्} त्रिक्षारैः पटुपञ्चकाम्लसहितैः संखल्वसूतस्त्र्यहं बाह्लीकासुरिविश्वपिण्डजठरे रुद्ध्वाथ संवेशयेत् । सन्धाने त्रिदिनं हि मन्दशिखिना दोलाख्ययन्त्रे पचेद्दोषोन्मुक्तरसः सुधारससमः पथ्यैर्विना सिद्धिदः ॥ १५.६७ ॥ किंत्वत्र राजिका विश्वहिङ्गूनां मानसंस्थितिः । गुरूपदेशतो नेया नान्यथा फलवाहिनी ॥ १५.६८ ॥ {नाग, वङ्ग:: रेमोवल्} नागवङ्गौ महादोषौ दुर्जयौ शुद्धकोटिभिः । पातना शोधयेद्यस्मान्महाशुद्धरसो मतः ॥ १५.६९ ॥ दशभिः पातनाभिश्च नागवङ्गसमुद्भवः । गन्धो विनाशमायाति रसः स्यान्नैव दुर्गुणः ॥ १५.७० ॥ दशवारात्परं नार्वाक्शतवारं च पातनाः । महागुणकराः प्रोक्ताः यथाविधि कृता रसे ॥ १५.७१ ॥ महागुणत्वं शिखिनः सखित्वं स्वल्पेषु रोगेषु च तुल्यवीर्यम् । रसायनत्वं च महाप्रभावो भवेद्रसेन्द्रस्य च पातनाभिः ॥ १५.७२ ॥ ऋचूम्, १६ अथातो जारणा पुण्या रससिद्धिविधायिनी । सुकरा सुलभद्रव्या कृतपूर्वा निगद्यते ॥ १६.१ ॥ {अभ्र:: जारणा} इह निष्पत्त्रकग्रासं यो रसाय प्रयच्छति । तोषितस्तेन गौरीशो जगत्त्रितयदानतः ॥ १६.२ ॥ {पक्षच्छेद => बन्धन} पक्षच्छेदमकृत्वा यो रसबन्धं समीहते । बीजैः स विषयासक्त्या मुक्तिमिच्छति दुष्टधीः ॥ १६.३ ॥ {अभ्र:: सत्त्व:: fओर्पक्षच्छेद} घनसत्त्वं विना नान्यत्सूतपक्षनिकृन्तनम् । कृत्तपक्षो निरुद्धाध्वा रज्यते बध्यते रसः ॥ १६.४ ॥ निश्चन्द्रमपि पत्राभ्रं जारितं खलु पारदे । तच्चरेत्सप्तधा भिन्नं चीर्णं चापि समुद्गिरेत् ॥ १६.५ ॥ जीर्णपादांशसत्त्वोऽपि तत्तद्योगेषु योजितः । तत्तद्रोगे फलं शीघ्रं रसो धत्तेऽधिकं यतः ॥ १६.६ ॥ यत्र सत्त्वं द्रुतं बीजं रसजारणकर्मणि । उत्कृष्टं चापि तद्दिष्टं गुणैरष्टगुणं तथा ॥ १६.७ ॥ शिवयोश्चरमो धातुरभ्रकं पारदस्तथा । एतयोर्मेलनान्न्ःणां क्व मृत्युः क्व दरिद्रता ॥ १६.८ ॥ {मेर्चुर्य्:: वेर्शेह्र्त्केइन् रेइनेसभ्रसत्त्व} केवलाभ्रकसत्त्वं हि ग्रसत्येव न पारदः । ग्रस्तमप्यतिदुःखेन सर्वाङ्गव्यापि नो भवेत् ॥ १६.९ ॥ तस्माल्लोहान्तरोपेतं युक्तं च धातुसत्त्वकैः । अभ्रकक्षारयोः सिद्धः केवलं वपुःसिद्धिदः ॥ १६.१० ॥ अभ्रेणैकत्वकरणं लोहानां परिकथ्यते ॥ १६.११ ॥ {द्वन्द्वमेलापक fओर्मेतल्स्} कान्तस्य लाक्षागुडसर्जरसैः सधातकीगुग्गुलुटङ्कणैश्च । स्त्रीस्तन्यपिष्टैः समभागिकैश्च दुर्मेललोहान्यपि मेलयन्ति ॥ १६.१२ ॥ {द्वन्द्वमेलापक fओर्मेतल्स्} ताप्यचूर्णसमायुक्तं लोहद्वन्द्वं मिलेद्ध्रुवम् । द्वित्रिवारं परिध्मानात्क्षीरेऽक्षीरमिव ध्रुवम् ॥ १६.१३ ॥ {प्रेपरतिओनोf अभ्रसत्त्व fओर्जारण} अभ्रसत्त्वं हि तुल्यांशताप्यसत्त्वसमन्वितम् । अभ्रशेषं कृतं ध्मानाद्भवेत्सुकरजारणम् ॥ १६.१४ ॥ {प्रेपरतिओनोf अभ्रसत्त्व fओर्जारण} यद्वा द्विगुणितं ताप्यं निर्व्यूढं घनसत्त्वके । तदन्तर्जारितं शीघ्रं रससिद्धिविधायकम् ॥ १६.१५ ॥ {प्रेपरतिओनोf अभ्रसत्त्व fओर्चारण wइथ्लेअदन्द्तिन्} एवं वङ्गेन नागेन घनसत्त्वं चरेद्रसः । तत्सत्त्वं धातुवादार्यं देहसिद्धौ विनिन्दितम् ॥ १६.१६ ॥ एतौ पूती महादोषौ नागवङ्गौ निरुत्तमौ । रोगांश्च तनुतः शीघ्रं सेव्यमानौ परं खलु ॥ १६.१७ ॥ {गर्भद्रुति} तत्सत्त्वं गालयित्वा च वाससा रवकान्वितम् । दशांशताम्रपात्रस्थरसेश्वरविमर्दितम् ॥ १६.१८ ॥ तच्चतुःषष्टिभागेन समेतं शुद्धपारदम् । क्षाराम्ललवणोपेतं तप्तं खल्वे दिनत्रयम् ॥ १६.१९ ॥ क्षालयित्वोष्णसन्धानैः क्षिप्त्वा काचकरण्डके । तदूर्ध्वाधो विडं दत्त्वा रसस्याष्टमभागतः ॥ १६.२० ॥ तन्मुखे भूर्जमाधाय वेष्टयेदेकसूत्रतः । करण्डं वाससावेष्ट्य दोलायन्त्रविधानतः ॥ १६.२१ ॥ सर्वाम्लगोजलोपेतकाञ्जिकैः स्वेदयेत्त्र्यहम् । ततो निक्षिप्य लोहाश्मकम्बूनामेव भाजने ॥ १६.२२ ॥ क्षालयित्वोष्णसन्धानैर्वस्त्रेणोद्धृत्य तं द्रवम् । विशोष्य लग्नं हस्तेन मर्दयित्वा क्षणं रसम् ॥ १६.२३ ॥ वस्त्रे चतुर्गुणे क्षिप्त्वा गाढनिष्पीडनाद्रसः । सर्वोऽपि यदि निर्गच्छेद्गर्भे ग्रासस्तथा द्रुतः ॥ १६.२४ ॥ {गर्भद्रुति:: fऐलुरे:: रेपेतितिओन्} सावशेषे पुनर्ग्रासे सविडं स्वेदयेत्पुनः । एवं ग्रासत्रयं भूयः सम्प्रदाय प्रयत्नतः ॥ १६.२५ ॥ षष्टिग्रासेषु शेषेषु गर्भद्रावणतः परम् । पञ्चमाध्यायनिर्दिष्टे यन्त्रे कच्छपसंज्ञके ॥ १६.२६ ॥ विडेन संयुतं सूतं पुटेन्मृद्वग्निनोपलैः । यन्त्रादुद्धृत्य भूयोऽपि क्षालयित्वोष्णकाञ्जिकैः ॥ १६.२७ ॥ मर्दनोक्तविधानेन याममात्रं विमर्दयेत् । निर्मलत्वविधानाय रागान् गृह्णाति निर्मलः ॥ १६.२८ ॥ तस्मान्मर्द्यो रसो यत्नाद्ग्रासं ग्रासे पुटे पुटे । संमर्दितो भवेद्वापि रोगनाशनशक्तिमान् ॥ १६.२९ ॥ {मेर्चुर्य्:: चारण} भूसर्जिकालवणवर्गसमेतकाञ्चीसंयुक्तकाञ्जिकयुतं परिचार्यवस्तु । {मेर्चुर्य्:: चारण} सत्त्वोपलादिसकलं वरताम्रपत्रैर्जुष्टं च ह्यम्लमुदितं रसचारणाय ॥ १६.३० ॥ {जारण} रम्भापटुत्रिफललाङ्गलिकानिशार्धशोभाञ्जनाङ्घ्रिखरमञ्जरिकाङ्घ्रिसंख्यैः । सप्ताहकं परिविभावितकाञ्जिकोऽसौ क्लिन्नं हि लोहनिवहं ग्रसतीह सूतः ॥ १६.३१ ॥ {बिड fओर्गर्भद्रुति} क्षारैश्चतुर्भिर्लवणैश्च षड्भिर्द्रवाम्लमिश्रैर्दशधा विभावितैः । स्वर्णादिलोहाभ्रकसत्त्वगर्भद्रुतिप्रहीत्यै बिड एष दिष्टः ॥ १६.३२ ॥ {दण्डधारी} वीथीतुल्ये गतमलरसः पञ्चशाणप्रमाणं भुक्त्वा सत्त्वं गगनजनितं षष्टिकाक्षारवह्नौ । तत्त्वं ह्येतद्व्रजति स जवात्सारधूमायनानि तत्तुल्योऽसौ मुनिभिरुदितो दण्डधारी च नाम्ना ॥ १६.३३ ॥ {दण्डधारिन्:: तेस्त्fओर्ँ} गर्भद्रुतियुते सूते तृणं क्षिप्तं प्रतिष्ठते । ऊर्ध्वदण्डधरः सोऽयं दण्डधारी रसो मतः ॥ १६.३४ ॥ {मेर्चुर्य्:: अभ्रजीर्ण:: मेदिच्. उसे} यदि भजति हि मर्त्यस्तुल्यजीर्णाभ्रसूतं प्रतिदिनमिह गुञ्जामात्रया मासमात्रम् । शशधरपरिपाट्या ग्रासयोगेन स स्यात्ससुखहितशतायुर्मुक्तवार्धक्यदोषः ॥ १६.३५ ॥ वलिपलितविहीनः सोऽपि रोगाद्विहीनः ॥ १६.३६ ॥ तेन तेन हि योगेन योजनीयो महारसः । {अभ्र:: सत्त्व:: मेदिच्. प्रोपेर्तिएस्} खसत्त्वः कुरुते तीव्रां क्षुधं रोगगणं हरेत् ॥ १६.३७ ॥ {द्वितीयो ग्रासः = मेर्चुर्य्:: द्विगुणाभ्रजीर्णँ} अष्टमांशप्रकारेण देयं ग्रासं द्वितीयकम् । चारणं द्रावणं चैवं यथापूर्वं प्रकल्प्यते ॥ १६.३८ ॥ जारणं चापि कर्तव्यं कूर्मनामनि यन्त्रके । पञ्चमाध्यायमध्ये च निर्दिष्टं कूर्मयन्त्रकम् ॥ १६.३९ ॥ {??} घनोद्भूतं सत्त्वं पलपरिमितं विंशतिपुटे रसे चत्वारिंशत्परिकलितचारं च जरितम् । पयःपङ्कप्रायं द्विगुणजरिताभ्रे वररसे यदा तद्विक्षिप्तं रसितरसरूपं सनिनदम् ॥ १६.४० ॥ {मेर्चुर्य्:: द्विगुणाभ्रजीर्ण:: मेदिच्. प्रोपेर्तिएस्} द्विगुणगगनजीर्णः सेवितः सूतराजः प्रतिदिनमिह गुञ्जामात्रया वर्षमात्रम् । विदधति वरकल्पं सिन्धुकन्दर्पतुल्यं दशशतमितवर्षप्राप्तदीर्घायुषं च ॥ १६.४१ ॥ गुञ्जामात्रो रसेन्द्रोऽयमर्कवारिनिषेवितम् । क्षयाद्यानखिलान् रोगान् दुःसाध्यानपि साधयेत् ॥ १६.४२ ॥ {मेर्चुर्य्:: त्रिगुणाभ्रजीर्णँ} अमुना क्रमयोगेन ग्रासो देयस्तृतीयकः । पञ्चमाध्यायनिर्दिष्टे यन्त्रे चैवान्तरालिके । निरुध्य जारणां कुर्यात्द्रव्यस्य वार्त्तिकः ॥ १६.४३ ॥ {३. ग्रास => जलौका(बन्ध?) => ऊर्ध्वपातन => पक्षच्छेद} परिफलघनयुक्तस्त्रिंशता तुल्यवारैर्ग्रसति यदि रसेन्द्रो यो जलौकाकृतिः सः । निखिलनिहितमूर्तिः निष्पतेदुद्गतोऽसौ पुनरपि निजपात्रे छिन्नपक्षः स सूतः ॥ १६.४४ ॥ {मेर्चुर्य्:: त्रिगुणाभ्रजीर्णँ:: मेदिच्. उसे} जातः सूतस्त्रिगुणगगनग्राससंपुष्टमूर्तिर्भस्मीभूतं यवपरिमितं वज्रभस्मादियुक्तम् । तं चेन्मर्त्यो भजति हि सदा जायते दिव्यदेहो जीवेत्कल्पत्रिदशशतिकान् वत्सराणां प्रकामम् ॥ १६.४५ ॥ सिद्धार्थद्वयमानेन मूर्छितस्ताप्यभस्मना । हिनस्ति सकलान् रोगान् सप्तवारेण रोगिणम् ॥ १६.४६ ॥ {चतुर्थो ग्रासः} बद्धो वा भस्मतां नीतः सिद्धार्थप्रमितो नरैः । व्योषवेल्लमधूपेतः चतुर्मासनिषेवितः ॥ १६.४७ ॥ वलीपलितनिर्मुक्तं मनुष्यं कुरुते ध्रुवम् । प्रमत्तद्विपदर्पाढ्यं कन्दर्प इव रूपिणम् ॥ १६.४८ ॥ कन्दर्पदर्पजिद्रूपे पापसन्तापवर्जितः । जीवेत्त्रिंशच्छतान्यष्टानीह वर्षाणि मानवः । सेवनाद्रमते चासावङ्गनानां शतं तथा ॥ १६.४९ ॥ वरां लोहसमां स्थूलां स्पर्शमात्रेण लीलया । रसोऽसौ बन्धमायातो मोदयत्येव निश्चितम् ॥ १६.५० ॥ मृतमुत्थापयेन्मर्त्यश्चक्षुषोः क्षेपमात्रतः । निहन्ति सकलान्रोगान्घ्रातः शीघ्रं न संशयः ॥ १६.५१ ॥ {पञ्चमो ग्रासः} एवं च पञ्चमो ग्रासः प्रदातव्योऽष्टमांशतः । स पात्रस्थोऽग्निसंतप्तो न गच्छति कथञ्चन ॥ १६.५२ ॥ स पक्षच्छिन्न इत्युक्तः स मुक्तोऽखिलदुर्गुणैः । सोऽयं निषेवितः सूतस्त्रिमासं राजिकामितः ॥ १६.५३ ॥ विडङ्गत्रिफलाक्षौद्रैः खे देवैः सह सङ्गमम् । घ्राणमात्रेण सूतेन्द्रः सर्वरोगनिकृन्तनः ॥ १६.५४ ॥ गुणा एते विनिर्दिष्टा रसस्य रसवादिभिः । सकलास्ते गुणाः सत्या भैरवेण प्रकीर्तिताः ॥ १६.५५ ॥ {षष्ठो ग्रासः} पलैश्चतुर्भिर्दातव्यो ग्रासः षष्ठोऽपि पूर्ववत् । षड्गुणाभ्रकजीर्णोऽसौ सुधातुल्यो गुणोदयः ॥ १६.५६ ॥ सर्षपप्रमितो मासं खण्डोपलकसंयुक्तः । मासेन कुरुते देहं तच्छतायुषजीविनम् ॥ १६.५७ ॥ बद्धोऽयं कुरुते चैव मुखस्थः खेचरीं गतिम् । वारयत्यपि शस्त्राणि दिव्यान्यपि सहस्रशः ॥ १६.५८ ॥ दशदन्तिबलः श्रीमान् सर्वलोकेषु पूजितः । रञ्जितः सारितः सम्यक्क्रामणेन समन्वितः । कोटिवेधी भवत्येव अबद्धः कुन्तवेधकः ॥ १६.५९ ॥ समर्थो न रसस्यास्य गुणान् वक्तुं महीतले । कोऽपि श्रीसोमदेवो वा प्रभावं वेत्ति शङ्करः ॥ १६.६० ॥ {सप्तमो ग्रासः} ग्रासस्तु सप्तमो देयो वारद्वितययोगतः । द्रावणं जारणं तस्य यथापूर्वं प्रकल्पयेत् ॥ १६.६१ ॥ अयं भस्मीकृतः सूतो लिक्षामात्रेण सेवितः । त्रिफलामल्लखण्डाभ्यां मासस्यार्धेन मानवम् ॥ १६.६२ ॥ कोटिकन्दर्परूपाढ्यं शक्रतुल्यपराक्रमम् । पूजितं सर्वदेवैश्च वेदकल्पयुगायुषम् ॥ १६.६३ ॥ विज्ञानवन्तं कालं च त्रिकालज्ञानसंयुतम् । शापानुग्रहणे शक्तं दिव्यस्त्रीशतरञ्जनम् । कुरुते नात्र सन्देहो नन्दिनो वचनं यतः ॥ १६.६४ ॥ रञ्जितः सारितः सोऽयं क्रामणेन समन्वितः । धूमवेधी भवेन्नूनं नात्र कार्या विचारणा ॥ १६.६५ ॥ {अष्टमो ग्रासः} ततश्चैवाष्टमो ग्रासो दातव्यः समभागतः । जीर्णाष्टगुणसत्त्वाभ्रो रसेन्द्रो भस्त्रिकाशतैः ॥ १६.६६ ॥ प्रध्मातोऽपि न यात्येव नैव किंचित्प्रहीयते । सोऽयमग्निसहो नाम्ना संख्यातीतगुणोदयः ॥ १६.६७ ॥ संख्यातीतप्रभाढ्यश्च चित्रवीर्यो महाबलः । लिक्षामात्रो रसेन्द्रोऽयं सेवितः सितया सह ॥ १६.६८ ॥ प्रकरोत्येकवारेण नरं सर्वाङ्गसुन्दरम् । रुद्रतुल्यं महैश्वर्यं विष्णुतुल्यं पराक्रमम् ॥ १६.६९ ॥ शशाङ्कतुल्यं सत्कान्तिं सूर्यतुल्यप्रतापिनम् । चतुर्मुखसमायुष्यं नेत्रे तार्क्ष्यदृशाविव ॥ १६.७० ॥ रञ्जितः सारितः सम्यक्क्रामणेन समन्वितः । शब्दवेधी भवेत्सोऽयं शिववत्सर्वतोमुखः ॥ १६.७१ ॥ मन्थानभैरवाद्यैश्च शतकोटिप्रविस्तरैः । कोटिभिश्चापि कार्त्स्न्येन रसस्यास्य महागुणैः । शक्यं तेनैव संस्तोतुं तरङ्गा इव सागरे ॥ १६.७२ ॥ साधकस्याल्पभावेन शङ्करस्याप्रसादतः । यथावदौषधाज्ञानादयथाहृतभैषजैः ॥ १६.७३ ॥ गन्धवत्यपरिज्ञानादयथावच्च साधनात् । न सिध्यति कलौ सूतः संशयेन प्रकुर्वताम् ॥ १६.७४ ॥ {छिन्नपक्षलक्षण} ऊर्ध्वाधःपतनेऽशक्तो निरुद्धाध्वा न कुछविः । जीर्णाभ्रको भवेत्सूतः छिन्नपक्षः स उच्यते ॥ १६.७५ ॥ {मेर्चुर्य्:: "अगे" अच्चोर्दिन्ग्तो अभ्र} समाभ्रजीर्णे बालः स्यात्किशोरो द्विगुणाभ्रकः । युवा चतुर्गुणाभ्राशी षड्गुणाभ्रकजीर्णवान् ॥ १६.७६ ॥ वृद्धश्चैवातिवृद्धश्च भवेदष्टगुणाभ्रकः । बालस्तु कल्पनीयेन देहलोहविधायकः ॥ १६.७७ ॥ कुमारः पिष्टतां प्राप्तो देहलोहकरो भवेत् । स्वर्णेन सारितसूतो युवा सिद्धिविधायकः ॥ १६.७८ ॥ देहलोहकरो वृद्धो भवेद्भस्मत्वमागतः । अतिवृद्धो रसो वृद्धो वक्त्रस्थः सर्वसिद्धिदः ॥ १६.७९ ॥ तत्र बालः कुमारश्च नेष्यते तु रसायने । तरुणो रोगनाशार्थं देहरक्षाकरस्तथा ॥ १६.८० ॥ वृद्धश्चैवातिवृद्धश्च देहलोहकरावुभौ । {मेर्चुर्य्:: इन्fलुएन्चे ओf जीर्णाभ्र ओन् फ्य्स्. प्रोपेर्तिएस्} किंचिदग्निसहसाभो भवेत्तुल्याभ्रजारितः ॥ १६.८१ ॥ द्विगुणाभ्रकजीर्णस्तु धूमत्वं नैव गच्छति । दधिवद्बन्धमायाति सूतेन्द्रः त्रिगुणाभ्रकः ॥ १६.८२ ॥ देहसिद्धिकरः सूतो व्योम्नि जीर्णे चतुर्गुणे । जीर्णषष्ठगुणाभ्रस्तु ब्रह्मायुष्यप्रदो रसः ॥ १६.८३ ॥ जीर्णसप्तगुणाभ्रस्तु दद्यादायुः सविक्रमः । प्रदत्ते शङ्करायुष्यं जारितेऽष्टगुणेऽभ्रके । {मेअसुरेसगैन्स्त्ग्रासाजीर्ण} ग्रासाजीर्णरसं पात्य पुनः संदीप्य जारयेत् ॥ १६.८४ ॥ ततः शुल्बस्य तीक्ष्णस्य कान्तस्य रजतस्य च । सुवर्णस्य च बीजानि विधाय परिजारयेत् ॥ १६.८५ ॥ {मेर्चुर्य्:: जारण:: wइथ्चोप्पेर्} अभ्रकोक्तप्रकारेण द्रावणं जारणं तथा । रसस्य रञ्जनी प्रोक्ता तीक्ष्णकान्तार्कजारणा ॥ १६.८६ ॥ तत्तत्क्षाराम्लकस्वेदैर्यत्नतो विहितश्चरेत् । शतधा दरदव्यूढं ताम्रं हि त्रिगुणं रसे ॥ १६.८७ ॥ जारणाज्जायते तेन द्रुतमाणिक्यसन्निभः । ताम्रेण बलवान्सूतः सूर्यतुल्यपराक्रमः ॥ १६.८८ ॥ त्रिदोषैः कृतनिःशेषं रसोऽयं जीवयत्यलम् । सेवितोऽयं रसो मासं गुञ्जया तुलितोऽन्वहम् । कुर्याद्भीमसमं मर्त्यं मुक्ते च भुजि विक्रमम् ॥ १६.८९ ॥ {मेर्चुर्य्:: जारण:: wइथ्तीक्ष्णलोह} क्रामणं जारणं वेधो रञ्जनं वेगकारिता । हिङ्गुलशतनिर्व्यूढात्तीक्ष्णग्रासाद्रसे भवेत् ॥ १६.९० ॥ समांशतो जारिततीक्ष्णसूतो निषेवितः पादमितो द्विमासम् । करोति मर्त्यं गतमृत्युभीतिं महाबलं ध्वस्तरुजं सुपुत्रम् ॥ १६.९१ ॥ सूतो द्वित्रिचतुःपञ्चगुणस्तीक्ष्णेन जारितः । उत्तरोत्तरतस्तस्य गुणः केनेह वर्ण्यते । {मेर्चुर्य्:: जारण:: wइथ्कान्तलोह} कान्तजीर्णरसश्चैवं गुणैः कोटिगुणं भवेत् ॥ १६.९२ ॥ द्विगुणजरितकान्तो व्याधिबाधां हिनस्ति हरति च रस उच्चैर्व्याधिवक्रं क्षणेन । वलिपलितविकारं दुःखदारिद्र्यमृत्युं जनयति वरपुत्रं सच्चरित्रं रसेन्द्रः ॥ १६.९३ ॥ {मेर्चुर्य्:: जारण:: wइथ्गोल्द्} पादांशेनार्धभागेन त्रिपादेन समांशतः । द्विगुणत्रिगुणांशाभ्यां तथा पञ्चगुणांशतः ॥ १६.९४ ॥ शतनिर्व्यूढमाक्षीकस्वर्णजीर्णो महारसः । जायते त्रिजगत्पूज्यश्चिन्तामणिसमोदयः ॥ १६.९५ ॥ {विड:: fओर्जारण ओf मेर्चुर्य्wइथ्गोल्द्} पञ्चाङ्गमूलकक्षारक्षिप्तक्षालितगोजलैः । शतभावितगन्धाश्म बिडं हेमादिजारणम् ॥ १६.९६ ॥ {मेर्चुर्य्:: समस्वर्णजीर्ण:: मेदिच्. प्रोपेर्तिएस्} समजरितसुवर्णं सर्वशक्त्यातिपूज्या दिनकरदिनमात्रं सेवितो माषमात्रम् । बहुविधगदमुक्तं हन्ति वार्धक्यमुच्चैः वृकजठरदृढाशौद्दाममग्निं च कुर्यात् ॥ १६.९७ ॥ वन्ध्यरोगमसाध्यत्वं पुरुषस्य समन्ततः । विनिहन्ति न सन्देहः कुर्याच्छतधनं नरम् ॥ १६.९८ ॥