प्रथमः पटलः यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ १.१ ॥ कैलासशिखरे रम्ये नानारत्नविभूषिते । नानाद्रुमलताकीर्णे गुप्तसम्बन्धवर्जिते ॥ १.२ ॥ देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम् । प्रणम्य शिरसा देवी पार्वती परिपृच्छति ॥ १.३ ॥ श्रीदेव्युवाच देवदेव महादेव काल कामाङ्गदाहक । कुलकौलमहाकौल- सिद्धकौलादिनाशन ॥ १.४ ॥ त्वत्प्रसादाच्छ्रुतं सर्वमशेषमवधारितम् । यदि तेऽहमनुग्राह्या यद्यहं तव वल्लभा ॥ १.५ ॥ सूचिता सर्वतन्त्रेषु या पुनर्न प्रकाशिता । जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥ १.६ ॥ श्रीभैरव उवाच साधु साधु महाभागे साधु पर्वतनन्दिनि । साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥ १.७ ॥ अजरामरदेहस्य शिवतादात्म्यवेदनम् । जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥ १.८ ॥ पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः । पिण्डे तु पतिते देवि गर्दभोऽपि विमुच्यते ॥ १.९ ॥ यदि मुक्तिर्भगक्षोभे किं न मुञ्चन्ति गर्दभाः । अजाश्च वृषभाश्चैव किंन मुक्ता गणाम्बिके ॥ १.१० ॥ तस्मात्संरक्षयेत्पिण्डं रसैश्चैव रसायनैः । शुक्रमूत्रपुरीषाणां यदि मुक्तिर्निषेवणात् ॥ १.११ ॥ किंन मुक्ता महादेवि श्वानशूकरजातयः । षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने ॥ १.१२ ॥ करामलकवत्सापि प्रत्यक्षं नोपलभ्यते । अकथ्यमपि देवेशि सद्भावं कथयामि ते ॥ १.१३ ॥ शून्यपापो मन्त्रयाजी न पिण्डं धारयेत्क्वचित् । देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥ १.१४ ॥ किं पुनर्मानुषाणां तु धरणीतलवासिनाम् । धर्मे नष्टे कुतो धर्मः धर्मे नष्टे कुतः क्रिया ॥ १.१५ ॥ क्रियानष्टे कुतो योगः योगे नष्टे कुतो गतिः । गतिनष्टे कुतो मोक्षो मोक्षे नष्टे न किंचन ॥ १.१६ ॥ श्रीदेव्युवाच जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया । तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥ १.१७ ॥ श्रीभैरव उवाच कर्मयोगेन देवेशि प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्मयोगो द्विधा मतः ॥ १.१८ ॥ मूर्छितो हरति व्याधिं मृतो जीवयति स्वयम् । बद्धः खेचरतां कुर्यात्रसो वायुश्च भैरवि ॥ १.१९ ॥ ज्ञानान्मोक्षः सुरेशानि ज्ञानं पवनधारणात् । तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥ १.२० ॥ अचिराज्जायते देवि शरीरमजरामरम् । मनसश्च यथा ध्यानं रसयोगादवाप्यते ॥ १.२१ ॥ सत्यं स लभते देवि ज्ञानं विज्ञानपूर्वकम् । तस्य मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥ १.२२ ॥ यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् । तावत्तस्य कुतो बुद्धिः जायते मृतसूतके ॥ १.२३ ॥ मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः । तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥ १.२४ ॥ कुलशासनहीनानां सद्दर्शनमकाङ्क्षिणाम् । न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥ १.२५ ॥ गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् । कुलीनं तमहं मन्ये रसज्ञमपरेऽधमाः ॥ १.२६ ॥ न गर्भः सम्प्रदायार्थे रसो गर्भो विधीयते । तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥ १.२७ ॥ यावन्न हरबीजं तु भक्षयेत्पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ १.२८ ॥ मद्यमांसरताप्रज्ञा मोहिताः शिवमायया । जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ १.२९ ॥ पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः । खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ १.३० ॥ स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ १.३१ ॥ श्रीदेव्युवाच अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर । श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १.३२ ॥ श्रीभैरव उवाच साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया । अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ १.३३ ॥ त्वं माता सर्वभूतानां पिता चाहं सनातनः । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ १.३४ ॥ स्वैरतः सम्भवाद्देवि पारदः कीर्तितो महः । पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥ १.३५ ॥ सूतोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः । मम देहरसो यस्मात्रसस्तेनायमुच्यते ॥ १.३६ ॥ दर्शनात्स्पर्शनात्तस्य भक्षणात्स्मरणादपि । पूजनाच्च प्रदानाच्च दृश्यते षड्विधं फलम् ॥ १.३७ ॥ केदारादीनि लिङ्गानि पृथिव्या यानि कानि च । तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ १.३८ ॥ चन्दनागुरुकर्पूर- कुङ्कुमान्तर्गतो रसः । मूर्छितः शिवपूजायां शिवसांनिध्यसिद्धये ॥ १.३९ ॥ भक्षणात्परमेशानि हन्ति पापत्रयं रसः । तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥ १.४० ॥ दुर्लभं ब्रह्मनिष्णातैः प्राप्यते परमं पदम् । हृद्व्योमकर्णिकान्तःस्थ- रसेन्द्रस्य महेश्वरि ॥ १.४१ ॥ स्मरणान्मुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥ १.४२ ॥ स्वयंभूलिङ्गसाहस्रैः यत्फलं सम्यगर्चनात् । तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ १.४३ ॥ अधमः खगवादस्तु विलवादस्तु मध्यमः । उत्तमो मन्त्रवादस्तु रसवादो महोत्तमः ॥ १.४४ ॥ मन्त्रतन्त्रपरिज्ञाने रसयोगस्य दूषकाः । प्रयान्ति नरकं सर्वे छित्त्वा सुकृतसंचयम् ॥ १.४५ ॥ रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा । भुक्तिमुक्तिकरी यस्मात्तस्माद्देया गुणान्वितैः ॥ १.४६ ॥ अस्तीति भाषते कश्चित्कश्चिन्नास्तीति भाषते । आस्तिके तु भवेत्सिद्धिः तस्य सिध्यति भूतले ॥ १.४७ ॥ नास्तिकेनानुभावेन नास्ति नास्तीति यो वदेत् । तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥ १.४८ ॥ ब्रह्मज्ञानेन मुक्तोऽसौ पापी यो रसनिन्दकः । नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥ १.४९ ॥ श्वानोऽयं जायते देवि यावत्जन्मसहस्रकम् । त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात् । रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥ १.५० ॥ कृमिको लक्षजन्मानि कुक्कुटो जन्मलक्षकम् । गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥ १.५१ ॥ आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः । यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥ १.५२ ॥ रसवीर्यविपाके च सूतकस्त्वमृतोपमः । तेन जन्मजराव्याधीन् हरते सूतकः प्रिये ॥ १.५३ ॥ गुरुमाराधयेत्पूर्वं विशुद्धेनान्तरात्मना । सम्प्रदायं प्रयच्छन्ति गुरौ तुष्टे मरीचयः ॥ १.५४ ॥ गुरुसेवां विना कर्म यः कुर्यान्मूढचेतनः । स याति निष्फलं कर्म स्वप्नलब्धं धनं यथा ॥ १.५५ ॥ यः कर्म कुरुते दृष्टं तस्य लाभः पदे पदे । कारयेद्रसवादं तु तुष्टेन गुरुणा प्रिये ॥ १.५६ ॥ सिद्ध्युपायोपदेशोऽयमुभयोर्भोगमोक्षदः । रसार्णवं महातन्त्रमिदं परमदुर्लभम् ॥ १.५७ ॥ गोप्यं गुरुप्रसादेन लब्धं स्यात्फलसिद्धये । लब्ध्वात्र रसकर्माणि नाहंकारं समाचरेत् ॥ १.५८ ॥ अनुज्ञातश्च गुरुणा लब्ध्वा चाज्ञां रसाङ्कुशीम् । भैरवीं तनुमाश्रित्य साधयेद्रसभैरवम् ॥ १.५९ ॥ एवमुक्ता रसोत्पत्तिः माहात्म्यं च सुरेश्वरि । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १.६० ॥ ड्वितीयः पटलः [डीक्षाविधान] श्रीदेव्युवाच रसोपदेशदाता च कथं स्याद्वद मे प्रभो । शिष्यश्चैव कथं देव रसानुष्ठानतत्परः ॥ २.१ ॥ श्रीभैरव उवाच निस्पृहो निरहंकारो लोभमायाविवर्जितः । कुलमार्गरतो नित्यं गुरुपूजारतश्च यः ॥ २.२ ॥ दान्तः शिष्योपदेशज्ञः शक्तिमान् गतमत्सरः । धर्मज्ञः सत्यवाक्दक्षः शीलवान् गुणवान् शुचिः ॥ २.३ ॥ अनेकरसशास्त्रज्ञो रसमण्डपकोविदः । रसदीक्षाविधानज्ञो यन्त्रौषधिमहारसान् ॥ २.४ ॥ रागसंख्यां बीजकलां द्वंद्वमेलापनं विडम् । रञ्जनं सारणं तैलं दलानि क्रामणानि च ॥ २.५ ॥ वर्णोत्कर्षं मृदुत्वं च जारणां बालबद्धयोः । खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः ॥ २.६ ॥ देशकालक्रियाभिज्ञो दयादाक्षिण्यसंयुतः । लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥ २.७ ॥ सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः । देवाग्नियोगिनीचक्र- कुलपूजारतः सदा । शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥ २.८ ॥ ये नराः कुम्भकुद्दाल- ध्वजशङ्खादिलाञ्छितैः । करैरधिष्ठिता देवि योज्यास्ते निधिसाधने ॥ २.९ ॥ बलवन्तो महासत्त्वाः कृष्णरक्तविलोचनाः । वक्रघोणाः सदा क्रूराः प्रशस्ता बिलसाधने ॥ २.१० ॥ निर्मांसमूर्धपिण्डीकान् रक्तकेशान् गतालसान् । कठिनानुष्णपादांश्च धातुवादे नियोजयेत् ॥ २.११ ॥ आदौ परीक्षयेद्देवि साधकान् सुसमाहितान् । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चानुक्रमेण तु ॥ २.१२ ॥ जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः । शूराश्च कृतविद्याश्च प्रशस्ताः साधकाः प्रिये ॥ २.१३ ॥ रसदीक्षाविहीना ये प्रोक्तलक्षणवर्जिताः । विप्लावकाः पापरताः वर्जयेत्तान् प्रयत्नतः ॥ २.१४ ॥ दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया । बह्वाशिनी च दुश्चित्ता कोटराक्षी च निर्दया । रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥ २.१५ ॥ ईदृशीभिर्वरारोहे सम्पूर्णं क्षितिमण्डलम् । न तादृशी भवेन्नारी यादृशी रसबन्धकी ॥ २.१६ ॥ काकिणी कीकणी नारी तथैव काञ्चिकाचिनी । कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥ २.१७ ॥ उभयपक्षे ऋतुमती सा नारी कीकणी मता ॥ २.१८ ॥ शुक्लपक्षे ऋतुमती सा नारी काञ्चिकाचिनी ॥ २.१९ ॥ नवयौवनसम्पन्ना सुरूपा चारुहासिनी । सूक्ष्मकेशा तु या नारी क्षीराहारप्रिया सदा ॥ २.२० ॥ प्रियालापकरी नित्यं शिवशास्त्रकथाप्रिया । पद्माकारं मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥ २.२१ ॥ दशना वज्रसदृशाः प्रवालसदृशोऽधरः । यस्याः पयोधरौ देवि तुङ्गपीनौ समावुभौ ॥ २.२२ ॥ अश्वत्थपत्त्रसदृशी योनी यस्या भगः समः । यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्तरोमकौ ॥ २.२३ ॥ श्यामा च मध्ये क्षामा च तन्वी भक्तिपरा शिवे । पद्मिनी सा तु विज्ञेया प्रसन्ना मृगलोचना ॥ २.२४ ॥ पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला । षड्भेदा काकिणी नाम्ना पूर्वप्रोक्ता रसप्रदा ॥ २.२५ ॥ यस्य तुष्टो महादेवस्तस्य सिद्धो रसायने । तयैव देवदेवेशि रसकर्माणि कारयेत् ॥ २.२६ ॥ तस्य हि निर्मला बुद्धिर्निश्चिता रससाधने । तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥ २.२७ ॥ श्रीदेव्युवाच ईदृशैर्लक्षणैः नारीं कुतः प्राप्नोति साधकः । यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥ २.२८ ॥ लक्षणं विद्यते यत्र भावना नात्र विद्यते । अथवा रूपहीनाया रूपं केन प्रवर्तते ॥ २.२९ ॥ लक्षणत्रितयं कुत्र त्वया दृष्टं महेश्वर । तदेतज्जायते येन तमुपायं वद प्रभो ॥ २.३० ॥ श्रीभैरव उवाच शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् । पितुः सदाशिवाज्जातं जन्म यच्चण्डिकोदरे ॥ २.३१ ॥ तासां बुद्धिर्भवेद्देवि निर्मला रससाधने । दापयेत्त्वरितामन्त्रं जपेत्तं दर्पवर्जिता ॥ २.३२ ॥ लक्षमन्त्रं जपेद्या तु जायते सा सुलक्षणा । बद्ध्वा तु खेचरीं मुद्रां जपेत्फेट्कारभैरवीम् ॥ २.३३ ॥ ममेयं चण्डिका माता जन्म च त्रिपुरान्तकात् । कालिकाहं समुद्भूता- स्मीदृशं संस्मरेत्तु सा ॥ २.३४ ॥ भूतं भव्यं भविष्यं च त्रैलोक्ये कथयेत्तु सा । सहायास्तादृशास्तस्य यादृशी भवितव्यता ॥ २.३५ ॥ श्रीदेव्युवाच देवदेव महादेव समस्तज्ञानभाजन । रसदीक्षां तु पृच्छामि साधकानां हिताय वै ॥ २.३६ ॥ श्रीभैरव उवाच शृणु भैरवि यद्भावमपूर्वं वर्णयामि ते । रसदीक्षाविधानं तु तस्मान्निगदितं शृणु ॥ २.३७ ॥ यत्र राजा नयपरो बलवान् धर्मतत्परः । मन्त्री च धर्मतत्त्वज्ञो भक्तिश्रद्धासमन्वितः ॥ २.३८ ॥ तत्रेदं कारयेत्कर्म रसबन्धं रसायनम् । जना माहेश्वरा यत्र तत्र स्थाने तु कारयेत् ॥ २.३९ ॥ कारयेद्विजने स्थाने पशुर्यत्र न विद्यते । सुगुप्ते सुषमे स्थाने सर्वबाधाविवर्जिते ॥ २.४० ॥ प्राकारपरिखोपेते कपाटार्गलरक्षिते । एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥ २.४१ ॥ हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते । दिव्यौषधिगणोपेते सजले श्यामशाद्वले ॥ २.४२ ॥ कुमुदोत्पलकह्लार- कदलीषण्डमण्डिते । चित्रिते भवनोद्याने कारयेत्परमेश्वरि ॥ २.४३ ॥ तन्मध्ये देवदेवेशि मत्तवारणसंयुतम् । वातायनसमोपेतमूर्ध्वनिर्गामिधूमकम् ॥ २.४४ ॥ रक्तपताकासंयुक्तं सज्जोपकरणं तथा । प्रविभक्तौषधितुषा- काष्ठारण्योत्पलालयम् ॥ २.४५ ॥ समालिखितदिग्देवं समर्चितविनायकम् । प्रतिष्ठितमुमेशाभ्यां लोकपालैश्च रक्षितम् ॥ २.४६ ॥ निर्मापयेदेकतलं द्वितलं वापि मण्डपम् । अथ पक्षे सिते देवि चन्द्रताराबलान्विते ॥ २.४७ ॥ पुण्ये तिथौ मुहूर्ते च लग्ने सौम्यग्रहेक्षिते । स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ २.४८ ॥ मधुसर्पिर्दधिक्षीर- तिलैः संपूज्य बालिकाः । कपिलागोमयालिप्ते हिरण्यकलशावृते ॥ २.४९ ॥ यवसिद्धार्थकास्तीर्णे गन्धमाल्योपशोभिते । तत्रेष्टिकाभिः रचिते करपीठे सुरेश्वरि ॥ २.५० ॥ शिलापट्टं समुत्कीर्य शिलापट्टार्गलं प्रिये । न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ॥ २.५१ ॥ रसलिङ्गं न्यसेत्तत्र हेम्ना च सहितं प्रिये । ओं ह्रीं श्रीं सूतराजस्य मूलमन्त्र उदाहृतः ॥ २.५२ ॥ तस्मिन् रसाङ्कुशीं देवीं मूलेनावाहयेत्प्रिये । चतुरस्रे तु दिक्पालान् पूजयित्वा बहिः क्रमात् ॥ २.५३ ॥ नन्दिनं च महाकालं भृङ्गिरीटं महाबलम् । कुम्भकर्णं च सुग्रीवं भृङ्गीकं च दृढायुधम् ॥ २.५४ ॥ द्वारे चतुर्धा विन्यस्य पूजयेद्दक्षवामयोः । शुक्रं पूर्वेऽभिसंपूज्य स्कन्दमाग्नेयगोचरे ॥ २.५५ ॥ दक्षिणस्यां ततो रुद्रं पवनं नैरृते तथा । शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् । उमामुत्तरभागे तु व्यापकं चेशगोचरे ॥ २.५६ ॥ लेपिका क्षेपिका चैव क्षारिका रञ्जिका तथा । लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ॥ २.५७ ॥ विभूतिः खेचरी चैव दश दूत्यः क्रमेण च । पूज्यास्त्वष्टदले पद्मे ऊर्ध्वाधस्तु दलेषु च ॥ २.५८ ॥ माक्षिको विमलः शैलश्चपलो रसकस्तथा । सस्यको गन्धतालौ च पूर्वादिक्रमयोगतः ॥ २.५९ ॥ अष्टादशभुजा रुद्राः पञ्चवक्त्रास्त्र्यम्बकाः । चन्द्रार्धशोभिमुकुटा नीलग्रीवा वृषध्वजाः ॥ २.६० ॥ स्वस्ववर्णधराः सर्वेऽप्यष्टविद्येश्वरास्तथा । पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥ २.६१ ॥ कर्णिकायां तु पूर्वादि- पूर्वं शक्तिचतुष्टयम् । मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता । अपरा वज्रशक्तिश्च कान्तिज्ञेयं परापरम् ॥ २.६२ ॥ मध्ये तासां च शक्तीनां सर्वज्ञं रसभैरवम् । शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्र्यम्बकम् ॥ २.६३ ॥ ज्वलत्पिङ्गोग्रनेत्रं च ज्वलज्जिह्वाननं तथा । ज्वलद्भ्रुवं ज्वलत्केशं दुष्प्रेक्ष्यं प्रेतविष्टरम् ॥ २.६४ ॥ जटामुकुटसंयुक्तं चन्द्रार्धकृतशिखरम् । व्याघ्रचर्मधरं नागो- पवीतं वृषभध्वजम् ॥ २.६५ ॥ अष्टादशभुजं देवमीषत्प्रहसिताननम् । द्वात्रिंशार्णेन मनुना पूजयेत्सकलं शिवम् ॥ २.६६ ॥ रसेश्वरस्य मन्त्रं च कथ्यमानं निबोध मे ॥ २.६७ ॥ ओं ह्रीं क्रीं रसेश्वराय महाकालाय महाबलायाघोरभैरवाय वज्रवीर क्रोधकङ्काल क्ष्लौः क्ष्लः ॥ २.६८ ॥ तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणाम् । उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥ २.६९ ॥ श्वेतचामरयोर्मध्ये मुक्ताच्छत्त्रेण शोभिताम् । अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥ २.७० ॥ पाशाभये च वामाभ्यां चन्द्रार्धकृतशेखराम् । रसाङ्कुशीं महादेवीं नीलग्रीवां कृपामयीम् ॥ २.७१ ॥ पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया । वाग्भवं भुवनेशीं च श्रीबीजं च सुरेश्वरि ॥ २.७२ ॥ मादनं शक्तिबीजं च विद्या परमदुर्लभा । धूपदीपैस्तु नैवेद्यैः पुष्पताम्बूलचन्दनैः ॥ २.७३ ॥ शान्तिपाठस्य निर्घोषैः स्तोत्रमङ्गलनिस्वनैः । घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥ २.७४ ॥ अघोरेण बलिं दद्यात्सर्वविघ्नोपशान्तये । भूतेभ्यो यक्षरक्षभ्यो पिशाचेभ्यश्च यत्नतः ॥ २.७५ ॥ अघोरमन्त्रसंयुक्तमोंकारादिनमोऽन्तकम् । सर्वकर्माकरं देवि विघ्नोपद्रवनाशनम् ॥ २.७६ ॥ यथाशक्ति जपित्वा तु विद्यामेव रसाङ्कुशीम् । कुण्डं विधाय देवेशि योनिचक्रं समेखलम् ॥ २.७७ ॥ तत्राज्यतिलसंयुक्तं होमं कृत्वा क्रमेण तु । कलशं स्थापयेद्देवि पयःपूर्णं फलान्वितम् ॥ २.७८ ॥ पञ्चरत्नसमोपेतं वासोभिः परिवेष्टितम् । तत्राष्टादशविद्याभिरभिमन्त्र्य पृथक्पृथक् ॥ २.७९ ॥ गन्धपुष्पादिभिः पूर्णं पल्लवैरुपशोभितम् । अर्घ्यपात्रं च संपूज्य वर्धन्याभ्युक्ष्य साधकम् ॥ २.८० ॥ शतमष्टोत्तरं चैवमर्घ्यपात्रोदकेन तु । अभिषिच्य विधानेन कुम्भतोयेन मन्त्रवित् ॥ २.८१ ॥ विद्यामुपदिशेद्देवि पाठयेद्रससाधकम् । कुमारोयोगिनीयोगि- साधकांश्च यथोचितैः ॥ २.८२ ॥ तर्पयेदन्नपानैश्च जागरं तत्र कारयेत् । एवंविहितदीक्षस्तु साधकः क्षुरनायिके ॥ २.८३ ॥ महाभूतमयीं तत्र वर्णपञ्चकसंयुताम् । पञ्चबीजात्मिकां विद्यां प्राणायामात्मसूत्रके ॥ २.८४ ॥ मुद्रां रसाङ्कुशीं बद्ध्वा लक्षमेकं जपेत्प्रिये । तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥ २.८५ ॥ प्रणवादिनमोऽन्तस्तु तर्पणान्ते जपः परः । अहिंसा चन्दनं सत्यं पुष्पमस्तेयधूपनम् ॥ २.८६ ॥ ब्रह्मचर्यं महादीपमप्रतिग्रहघण्टिकाम् । पायसान्नं महेशानि सर्वभूतदयात्मकम् ॥ २.८७ ॥ संगूह्याराधयेद्देवीं स भवेत्सिद्धिभाजनम् । सहस्रं वा शतं वापि त्रिसंध्यं संजपेदिमाम् ॥ २.८८ ॥ अस्या आज्ञाप्रसादेन जायते खेचरो रसः । दिव्यौषध्यश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥ २.८९ ॥ अनङ्कुशं समारुह्य वने मत्तगजं यथा । तथा रसाङ्कुशाभिज्ञो रसेन्द्रं प्राप्य सीदति ॥ २.९० ॥ विद्यया सह मन्तव्यं गुरोः सत्सम्प्रदायिनः । रसप्रयोगजातं तु सर्वतः सिद्धिमिच्छता ॥ २.९१ ॥ अथ प्रश्नावताराय पूर्वोक्तं रसभैरवम् । समाहितमना ध्यायेत्तदालीनं समाचरेत् ॥ २.९२ ॥ अनाहते ब्रह्मरन्ध्रे मनः कृत्वा निरामये । करन्यासं पुरा कृत्वा अङ्गन्यासमनन्तरम् । यथाशक्ति जपेन्मन्त्रं रसेन्द्रस्य समाहितः ॥ २.९३ ॥ चतुष्कोणं पुनः कृत्वा मध्ये षट्कोणमण्डलम् । हस्तमात्रं द्विहस्तं वा तण्डुलैर्विमलैर्लिखेत् ॥ २.९४ ॥ सुगन्धैर्लेपिते स्थाने पूजयेच्चन्दनादिभिः ॥ २.९५ ॥ कर्णिकायां न्यसेद्देवि पूर्वोक्तं रसभैरवम् । षट्कोणे देवताषट्कं महाकालादि विन्यसेत् ॥ २.९६ ॥ महाकालं महाबलमघोरं वज्रवीरकम् । न्यसेत्क्रोधं च कङ्कालं मालामन्त्रैः समर्चयेत् ॥ २.९७ ॥ ओं ह्रीं क्रौं क्ष्लैं क्ष्लं ह्रीं ह्रीं ह्रीं ह्रूः हुं फट्रसेश्वराय महाकालभैरवाय रौद्ररूपाय कृष्णपिङ्गललोचनाय । अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ महारक्षां कुरु २ रससिद्धिं देहि । इति मालामन्त्राः । ओं महाकालभैरवाय हृदयाय नमः । ओं महाबलभैरवाय शिरसे स्वाहा । ओमघोरभैरवाय शिखायै वौषट् । ओं वज्रवीरभैरवाय कवचाय हुम् । ओं क्रोधभैरवाय नेत्राय वौषट् । ओं कङ्कालभैरवाय अस्त्राय फट् । सर्वत्र स्वाहान्तम् । एवमङ्गन्यासाः । एवमङ्गुलीन्यासान् कुर्यादादौ । एते षडङ्गे पूजने च मूलमन्त्राः । एवं न्यासाक्षरः कुटैः गन्धपुष्पैः समर्चयेत् । पूर्णकुम्भं न्यसेन्मध्ये शरावं तण्डुलैः सह ॥ २.९८ ॥ तस्योपरि घृतदीपं वर्तीं मन्त्रैश्च मन्त्रयेत् ॥ २.९९ ॥ समानीय कुमारीं तु कुमारं वा सुशोभनम् । एकद्वित्रिचतुःपञ्च यथालाभं समानयेत् । गन्धपुष्पैर्धूपदीपैः नैवेद्येन च पूजयेत् ॥ २.१०० ॥ एकैकस्या न्यसेन्मन्त्रं हृदयाद्याश्च देवताः ॥ २.१०१ ॥ ततो निरीक्ष्य तद्दीपं सर्वास्तत्र कुमारिकाः । पश्यन्ति देवता दीपे कुमाराश्च शुभाशुभम् । सिद्धिं वाप्यथवासिद्धिं कथयन्ति कुमारिकाः ॥ २.१०२ ॥ प्रश्नावतारं ज्ञात्वेति रसकर्मणि संचरेत् ॥ २.१०३ ॥ यः पुरा देवदेवेशि रसेन्द्रे भावितात्मवान् । सप्तजन्म मृतो जातो न त्यजेद्रसभावनम् ॥ २.१०४ ॥ एवं शुभाशुभं ज्ञात्वा देवतानुग्रहान्वितः । मण्डपे पूर्ववद्देवीमर्चयित्वा रसाङ्कुशीम् ॥ २.१०५ ॥ आचार्यमपि संपूज्य धूपस्रक्चन्दनादिभिः । अघोरेण बलिं दत्त्वा ततः कर्म समाचरेत् ॥ २.१०६ ॥ ओषध्यो मण्डपे प्राच्यां रसस्वेदोऽग्निगोचरे । दक्षिणस्यां लोहमारो नैरृत्यां पेषणादिकम् ॥ २.१०७ ॥ द्रुतिक्रिया तु वारुण्यां वायव्ये धमनं प्रिये । वर्णोत्कर्षस्तु कौबेर्यामैशान्यां रसवेधनम् ॥ २.१०८ ॥ आसनं तु गुरोर्मध्ये निवेश्य सुरनायिके । नियामनादिकं कर्म क्रामणान्तं वरानने । रसाङ्कुशेन मन्त्रेण कर्तव्यं साधकेन तु ॥ २.१०९ ॥ यः पुरा देवदेवेशि वर्णितो रसभैरवः । सद्योजातं तस्य जानु वामदेवं तु गुह्यकम् ॥ २.११० ॥ अघोरं हृदयं तस्य वक्त्रं तत्पुरुषं स्मृतम् । यावद्भ्रूमध्यमीशानमर्धचन्द्रं ललाटकम् ॥ २.१११ ॥ बिन्दुर्देवेशि तस्योर्ध्वे बिन्दोरूर्ध्वे स्थितो नदः । ललाटशिरसोर्मध्ये शक्तिस्तत्रैव संस्थिता ॥ २.११२ ॥ व्यापिनी ब्रह्मरन्ध्रस्था तस्योर्ध्वे तून्मना भवेत् । उन्मना उन्मनीभावमुन्मनापदमव्ययम् ॥ २.११३ ॥ तस्योर्ध्वे परमं सत्यं व्योमस्थायि परात्परम् । शून्यं शून्यं पुनः शून्यं त्रिशून्यं च निरामयम् ॥ २.११४ ॥ नभश्च गगनं व्योम खमाकाशं च केवलम् । निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥ २.११५ ॥ निष्प्रपञ्चं निराधारं निर्गुणं गुणगोचरम् । एवंरूपं सदा ध्यायेत्स्वदेहे रसभैरवम् ॥ २.११६ ॥ यदा च निश्चलं ध्यायेत्यदा च निश्चलं मनः । वह्निमध्ये तदा सूतो बध्यते निश्चलस्तथा ॥ २.११७ ॥ यदा च चलति ध्यानं रसो वह्नौ न तिष्ठति ॥ २.११८ ॥ मण्डलस्य बहिः रात्रौ सुरामत्स्यामिषादिभिः । अर्चयेद्यक्षगन्धर्वान् पिशाचान् राक्षसांस्तथा ॥ २.११९ ॥ क्रियाकरणविघ्नाश्च फलविघ्नाश्च कोटिशः । सम्भवन्ति तथा तत्तच्छान्त्यै च वटुकेश्वरम् । अर्चानुग्रहषट्कं च सम्पूज्यादौ समाचरेत् ॥ २.१२० ॥ कर्मान्ते च पुनर्बालमष्टाष्टकमनुग्रहम् । सम्पूज्य विनियुञ्ज्यात्तत्सिद्धद्रव्यं तु सिद्धिदम् ॥ २.१२१ ॥ सिद्धस्तु नाशयेद्वादं तद्देशं तु परित्यजेत् । भ्रमेन्माधुकरीं भिक्षां सुसिद्धे तु महारसे ॥ २.१२२ ॥ प्रमादादुत्थितो विघ्नो रसबन्धे कृते सति । रसशान्तिर्विधातव्या रसक्षोभं न कारयेत् ॥ २.१२३ ॥ रसं न दर्शयेद्देवि नारीहस्ते न पातयेत् । नार्यै गुह्यं न वक्तव्यं द्रव्यं ताभ्यो हि गोपयेत् ॥ २.१२४ ॥ परद्रव्यैर्न कर्तव्यं परदारान्न संस्पृशेत् । परान्नं नैव भुञ्जीत परांश्चैव न विश्वसेत् ॥ २.१२५ ॥ न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥ २.१२६ ॥ अष्टम्यां पौर्णमास्यां च अमावास्यां युगादिषु । अयने विषुवे चैव चतुर्दश्यां विशेषतः । रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥ २.१२७ ॥ एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः । ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥ २.१२८ ॥ अनेन विधिना यत्र पूजां कुर्वन्ति साधकाः । न तत्र रोगदौर्गत्यं नेतयः प्रभवन्ति च ॥ २.१२९ ॥ एवंविधां रसे पूजां प्रतिष्ठाप्य यथाविधि । पश्चात्कर्म विधातव्यमात्मनः शुभमिच्छताम् ॥ २.१३० ॥ अन्यथा कुरुते यस्तु तस्य सिद्धिर्न जायते । अपायः पापशङ्का च बुद्धिभङ्गो हि जायते ॥ २.१३१ ॥ अवज्ञा रोगजातं च संदेहश्च पदे पदे । आलस्याद्गुरुलोभाच्च परस्य कथनेन च । उत्पन्नमपि विज्ञानं हरन्ति कुलकाः प्रिये ॥ २.१३२ ॥ दीक्षितो रसकर्माणि मन्त्रन्यासविदाचरेत् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ २.१३३ ॥ टृतीयः पटलः [ंन्त्रन्यासाः] श्रीदेव्युवाच भगवन् देवदेवेश लोकनाथ जगत्पते । मन्त्रन्यासं समाचक्ष्व रसकर्मोपकारकम् ॥ ३.१ ॥ श्रीभैरव उवाच पुनरन्यं प्रवक्ष्यामि मन्त्रमूर्तिं रसाङ्कुशीम् । पञ्चमं तु गृहं देवि दुर्लभं देवदानवैः ॥ ३.२ ॥ चत्वारः प्रधानगृहाः हंसगृहं तु पञ्चमम् । यत्र सिद्धिर्मकारादिः तिष्ठते पञ्चमे गृहे ॥ ३.३ ॥ लिङ्गाश्रयं यथा रूपं लिङ्गिमाया तु लिङ्गिनी । गगनेन तु सा ज्ञेया भगरेखा तु पञ्चमे ॥ ३.४ ॥ प्रणवं पूर्वमुच्चार्य बीजं शब्दमनुत्तरम् । ह्रींकारं चैव क्रींकारं हंसबुद्धिमनन्तरम् ॥ ३.५ ॥ कालपाशं महामन्त्रं गृह्णीयात्साधकेश्वरः । महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशीम् ॥ ३.६ ॥ लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्तते । बालवत्सपुरीषं तु ततः केनैव ग्राहयेत् ॥ ३.७ ॥ चिताग्निभस्म तेनैव ग्राहयेत्परमेश्वरि । क्षेत्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥ ३.८ ॥ मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी । द्वात्रिंशदक्षरा देवि पञ्चनादेषु संस्थिता ॥ ३.९ ॥ ततः सिद्धाश्च चत्वारः पुरुषाष्टादश स्मृताः । अर्थपञ्चकसंयुक्ता ध्यानं स्यात्पञ्चकं पुनः ॥ ३.१० ॥ योगिनीषट्कसंयुक्तं सप्तविंशत्क्रमान्वितम् । एकाशीतिपदैर्युक्तं पञ्चावरणसंयुतम् ॥ ३.११ ॥ अनेन क्रमयोगेन मार्जनीं परिपूजयेत् । अनेन मार्जयेत्क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥ ३.१२ ॥ उपलेपं तु तत्रैव चण्डघण्टां तु कारयेत् । पूर्वे गृहे तु सा देवी चण्डघण्टा व्यवस्थिता ॥ ३.१३ ॥ चण्डभैरविका देवी संस्थिता दक्षिणे गृहे । गोमयं तेन गृह्णीयाल्लेपनार्थं वरानने ॥ ३.१४ ॥ चण्डकापालिनी देवी संस्थिता चोत्तरे गृहे । गृहीत्वा चोदकं तेन लेपयेद्भूमिमण्डलम् ॥ ३.१५ ॥ सप्तदशाक्षरां कालीं खल्लपाषाणतो न्यसेत् । द्वात्रिंशदक्षरं घोरं मर्दके तु नियोजयेत् ॥ ३.१६ ॥ गृह्णीयात्काञ्जिकां देवि कालपाशेन मन्त्रितः । एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥ ३.१७ ॥ अष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी । ताः सर्वाः किंकरास्तस्य औषधं पेषयन्ति ताः ॥ ३.१८ ॥ तासां सर्वं तु मन्त्रैकं चतुरक्षरसंयुतम् । सोऽहं हंसः । सा विद्या खेचरीणां तु नाम्नां तु कुलखेचरी ॥ ३.१९ ॥ राजिकां सैन्धवं न्यस्य सा विद्या कुलखेचरी । मन्त्रयेत्काञ्जिकां तत्र मन्त्रराजो रसाङ्कुशी ॥ ३.२० ॥ अस्त्रविद्यां जपेत्तत्र या ज्ञाता पूर्वभार्गवे । गुडेष्टकां तु संमर्द्य प्रिये तन्मर्दितं रसम् ॥ ३.२१ ॥ का कथा मन्त्रराजस्य न वाक्यं त्रिशिरस्य च । षडङ्गं योजयेत्तां तु त्वरितं धारयेत्ततः ॥ ३.२२ ॥ डामराख्यं महामन्त्रं धमनीषु नियोजयेत् । चिन्तामणिमहाविद्यां कवचेषु नियोजयेत् ॥ ३.२३ ॥ चण्डिकाया महामन्त्रं तं तु पात्रे नियोजयेत् । नवविद्यां वरारोहे विन्यसेत्तुषगोमये ॥ ३.२४ ॥ त्रिपुराभैरवीं देवीं राजिकाकाञ्जिके न्यसेत् । गुडस्य कालरात्रिस्तु न्यस्तव्या वीरवन्दिते ॥ ३.२५ ॥ त्रिकूटाक्षं त्रिनेत्रं तु अनलस्य तु विन्यसेत् । उदके विन्यसेद्देवि चतुरशीतिचण्डिकाः ॥ ३.२६ ॥ क्षेत्रपालमघोरास्त्रं न्यस्तव्यं कोष्ठके प्रिये । महापाशुपतास्त्रं तु मूषायां च नियोजयेत् ॥ ३.२७ ॥ एतन्मन्त्रगणं देवि रसस्थाने नियोजयेत् । तदा तु सिध्यते तस्य साधकस्य फलं प्रिये ॥ ३.२८ ॥ रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे । अन्ये ये योगिनीमन्त्राः सर्वान्नारीश्च जापयेत् ॥ ३.२९ ॥ अप्रकाशं तु तेनैव मन्त्रराजं रसाङ्कुशम् । अप्रकाशं च नारीणां रक्षयेत्प्रणवं तथा । महासमयविभ्रंशं नारीणां हृदयं यथा ॥ ३.३० ॥ कुब्जिकाद्यास्तु ये मन्त्रा मया ते संप्रकाशिताः । त्रैलोक्यं क्षोभितास्ते तु न मन्यन्ते मम प्रिये ॥ ३.३१ ॥ रसाङ्कुशेन ज्ञानेन त्रैलोक्यं वश्यतां व्रजेत् ॥ ३.३२ ॥ मन्त्रन्यासमिति ज्ञात्वा यन्त्रमूषाग्निमानवित् । कुर्वाणो रसकर्माणि सिद्धिं प्राप्नोति साधकः ॥ ३.३३ ॥ Cअतुर्थः पटलः [य़न्त्रमूषाग्निवर्णनः] श्रीदेव्युवाच यन्त्रमूषाग्निमानानि न ज्ञात्वा मन्त्रवेद्यपि । किं करोति महादेव तानि मे वक्तुमर्हसि ॥ ४.१ ॥ श्रीभैरव उवाच रसोपरसलोहानि वसनं काञ्जिकं विडम् । धमनीलोहयन्त्राणि खल्लपाषाणमर्दकम् ॥ ४.२ ॥ कोष्ठिका वक्रनालं च गोमयं सारमिन्धनम् । मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥ ४.३ ॥ सण्डसीपट्टसंदंशं मृत्पात्रायःकटोरकम् । प्रतिमानानि च तुला- छेदनानि कषोपलम् ॥ ४.४ ॥ वंशनाडीलोहनाडीमूषाङ्गारांस्तथौषधीः । स्नेहाम्ललवणक्षार- विषाण्युपविषाणि च ॥ ४.५ ॥ एवं संगूह्य सम्भारं कर्मयोगं समाचरेत् ॥ ४.६ ॥ द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च । मुखे तिर्यक्कृते भाण्डे रसं सूत्रेण लम्बितम् । तं स्वेदयेत्तलगतं दोलायन्त्रमिति स्मृतम् ॥ ४.७ ॥ लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः । ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् ॥ ४.८ ॥ मूषायां रसयुक्तायामन्यस्यां तां प्रवेशयेत् । तोयं स्यात्सूतकस्याधः ऊर्ध्वाधो वह्निदीपनम् ॥ ४.९ ॥ रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् । दापयेत्प्रचुरं यत्नाताप्लाव्य रसगन्धकौ ॥ ४.१० ॥ स्थालिकायां निधायोर्ध्वं स्थालीमन्यां दृढां कुरु । संधिं विलेपयेद्यत्नात्मृदा वस्त्रेण चैव हि ॥ ४.११ ॥ स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा । यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥ ४.१२ ॥ एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् । तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतले क्रियाम् ॥ ४.१३ ॥ न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् । अनेन क्रमयोगेन कुर्याद्गन्धकजारणम् ॥ ४.१४ ॥ ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः । मूषायन्त्रमिदं देवि जारयेद्गगनादिकम् ॥ ४.१५ ॥ गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारणम् । चतुरङ्गुलदीर्घां तु मूषिकां मृन्मयीं दृढाम् ॥ ४.१६ ॥ त्र्यङ्गुलां मध्यविस्तारे वर्तुलं कारयेन्मुखम् । लोहस्य विंशतिर्भागा एको भागस्तु गुग्गुलोः ॥ ४.१७ ॥ सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात्पुनः पुनः । मूषालेपं ततः कुर्यात्तले पिष्टीं च निक्षिपेत् ॥ ४.१८ ॥ तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् । अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ ४.१९ ॥ जारणे मारणे चैव रसराजस्य रञ्जने । यन्त्रमेकं परं मर्म यत्रौषध्यो महाबलम् ॥ ४.२० ॥ औषधीरहितश्चायं हठाद्यन्त्रेण बध्यते । सर्वत्र सूतको याति मुक्त्वा भूधरलक्षणम् ॥ ४.२१ ॥ देवताभिः समाकृष्टो लोष्टस्थोऽपि हि गच्छति । तस्माद्यन्त्रबलं चैकं न विलङ्घ्यं विजानता ॥ ४.२२ ॥ मन्त्रौषधिसमायोगात्सुसिद्धं कुरुते ह्ययम् । मन्त्रोऽघोरोऽत्र जप्तव्यो जपान्ते पूजयेद्रसम् ॥ ४.२३ ॥ एकान्ते तु क्रिया कार्या दृष्टान्यैर्विफला भवेत् ॥ ४.२४ ॥ गन्धकस्य क्षयो नास्ति न रसस्य क्षयो भवेत् । क्षयो यन्त्रस्य विज्ञेयः यन्त्रे विक्रियते क्रिया । अलाभे कान्तलोहस्य यन्त्रं लोहेन कारयेत् ॥ ४.२५ ॥ वह्निलक्ष्यमविज्ञाय रसस्यार्धक्षयो भवेत् । यन्त्रक्षयविधिज्ञस्य चतुर्थांशक्षयो भवेत् ॥ ४.२६ ॥ द्विमासेन द्वितीयांशं तृतीयांशं त्रिभिर्भवेत् । महाग्निं सहते ह्येष सारितो यत्र तिष्ठति ॥ ४.२७ ॥ खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् । अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ ४.२८ ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च विडं ततः । हंसपाकः स विज्ञातो यन्त्रतन्त्रार्थकोविदैः ॥ ४.२९ ॥ कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका । आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमा मध्यमा मता ॥ ४.३० ॥ दग्धधान्यतुषोपेता मृत्तिका कोष्ठिकाविधौ । वक्रनालकृता वापि शस्यते सुरसुन्दरि ॥ ४.३१ ॥ गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका । अजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥ ४.३२ ॥ वासकस्य च पत्त्राणि वल्मीकस्य मृदा सह । पेषयेद्वह्नितोयेन यावत्तत्श्लक्ष्णतां गतम् ॥ ४.३३ ॥ मर्दयेत्तेन बध्नीयात्वक्रनालं च कोष्ठिकाम् ॥ ४.३४ ॥ गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका । चीरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ॥ ४.३५ ॥ दग्धाङ्गारस्य षड्भागा भागैका कृष्णमृत्तिका । चीरमङ्गारकः किट्टं वज्रमूषा प्रकीर्तिता ॥ ४.३६ ॥ तुषं वस्त्रसमं दग्धां मृत्तिका चतुरंशिका । कुपीपाषाणसंयुक्ता वरमूषा प्रकीर्तिता ॥ ४.३७ ॥ प्रकाशा चान्धमूषा च मूषा तु द्विविधा स्मृता ॥ ४.३८ ॥ प्रकाशमूषा देवेशि शरावाकारसंयुता । द्रव्यनिर्वाहणे सा च वादिकैः सुप्रशस्यते ॥ ४.३९ ॥ अन्धमूषा तु कर्तव्या गोस्तनाकारसंनिभा । पिधानकसमायुक्ता किंचिदुन्नतमस्तका ॥ ४.४० ॥ पत्त्रलेपे तथा रङ्गे द्वंद्वमेलापके तथा । सैव छिद्रान्विता मन्दा गम्भीरा सारणोचिता ॥ ४.४१ ॥ तिलभस्म द्विरंशं तु इष्टकांशसमन्वितम् । भस्ममूषा तु विज्ञेया तारासंशोधने हिता ॥ ४.४२ ॥ मोक्षक्षारस्य भागौ द्वौ इष्टकांशसमन्वितौ । मृद्भागास्तारशुद्ध्यर्थमुत्तमा वरवर्णिनि ॥ ४.४३ ॥ रक्तवर्गेण सम्मिश्रा रक्तवर्गपरिप्लुता । रक्तवर्गकृतालेपा सर्वशुद्धिषु शोभना ॥ ४.४४ ॥ शुक्लवर्गेण सम्मिश्रा शुक्लवर्गपरिप्लुता । शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शोभना ॥ ४.४५ ॥ विडवर्गेण सम्मिश्रा धृतिमिच्छति जारणे । निर्वाहणं प्रकुर्वीत रक्तवर्गप्रलिप्तया ॥ ४.४६ ॥ विषटङ्कणगुञ्जाभिः मूषालेपं तु कारयेत् । प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ॥ ४.४७ ॥ तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः । लेपो वर्णपुटं देवि रक्तमृत्सिन्धुभूखगैः ॥ ४.४८ ॥ आवर्तमाने कनके पीता तारे सिता प्रभा । शुल्वे नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥ ४.४९ ॥ वङ्गे ज्वाला कपोताभा नागे मलिनधूमका । शैले तु धूसरा देवि आयसे कपिलप्रभा ॥ ४.५० ॥ अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत् । वज्रे नानाविधा ज्वाला खसत्त्वे पाण्डुरप्रभा ॥ ४.५१ ॥ न विस्फुलिङ्गो न च बुद्बुदश्च यदा न रेखापटलं न शब्दः । मूषागतं रत्नसमं स्थिरं च तदा विशुद्धं प्रवदन्ति लोहम् ॥ ४.५२ ॥ प्रतीवापः पुरा योज्यो निषेकस्तदनन्तरम् । छादनं तु प्रतीवापः निषेकं मज्जनं विदुः । अभिषेकं तदिच्छन्ति स्नपनं क्रियते तु यत् ॥ ४.५३ ॥ वापो निषेकः स्नपनं द्रुते निर्मलतां गते । उष्णेनैव हि वाञ्छन्ति शीतलं न च वाञ्छति ॥ ४.५४ ॥ शुक्लदीप्तिः सशब्दश्च यदा वैश्वानरो भवेत् । लोहावर्तः स विज्ञेयः सत्त्वं पतति निर्मलम् ॥ ४.५५ ॥ षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम् । धातुसत्त्वनिपातार्थं कोष्ठकं वरवर्णिनि ॥ ४.५६ ॥ वंशखादिरमाधूक- बदरीदारुसम्भवः । परिपूर्णं दृढाङ्गारैः धमेद्वातेन कोष्ठकम् । भस्त्रया ज्वालमार्गेण ज्वालयेच्च हुताशनम् ॥ ४.५७ ॥ प्रविततमुखभागं संवृतान्तःप्रदेशं स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात् । बकगलसममानं वङ्कनालं विधेयं शुषिरनलिनिका स्यान्मृन्मयी दीर्घवृत्ता ॥ ४.५८ ॥ मृन्मये लोहपात्रे वा अयस्कान्तमयेऽथवा । पाषाणे स्फटिके वाथ मुक्ताशैलमयेऽथवा ॥ ४.५९ ॥ सुदृढो मर्दकः कार्यः चतुरङ्गुलकोच्छ्रयः । स च लोहमयः शैलो ह्ययस्कान्तमयोऽथवा ॥ ४.६० ॥ अघोरास्त्राभिधानेन महापाशुपतेन वा । मन्त्रेण रचयेच्छुद्धिं भूमिं तेनैव शोधयेत् ॥ ४.६१ ॥ इन्धनानि च सर्वाणि द्रव्याणि च विशेषतः । दाहकं ज्वालयेत्तेन खल्लं तेनैव शोधयेत् ॥ ४.६२ ॥ रसं विशोधयेत्तेन विन्यसेत्दिवसे शुभे । खल्लोपरि न्यसित्वा च शिवमूर्तिमनुस्मरेत् ॥ ४.६३ ॥ देवतानुग्रहं प्राप्य यन्त्रमूषाग्निमानवित् । देवेशि रससिद्ध्यर्थं जानीयातोषधीरपि ॥ ४.६४ ॥ यन्त्रमूषाग्निमानानि वर्णितानि सुरेश्वरि । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ४.६५ ॥ ড়ञ्चमः पटलः [Oषधिनिर्णय] श्रीदेव्युवाच नियामनादिकं कर्म क्रामणान्तं सुरेश्वर । यया सम्पद्यते ह्येषामोषधीं वक्तुमर्हसि ॥ ५.१ ॥ श्रीभैरव उवाच सर्पाक्षो वह्निकर्कोटी कञ्चुकी जलबिन्दुजा । शतावरी भृङ्गराजः शरपुङ्खा पुनर्नवा ॥ ५.२ ॥ मण्डूकपर्णी मत्स्याक्षी ब्रह्मदण्डी शिखण्डिनी । अनन्ता काकजङ्घा च काकमाची कपोतिका ॥ ५.३ ॥ विष्णुक्रान्ता सहचरा सहादेवी महाबला । बला नागबला कृष्णा चक्रमर्दः कुरुङ्गिणी ॥ ५.४ ॥ पाठा चामलकी नीली ज्वालिनी पद्मचारिणी । फणित्रिजिह्वा गोजिह्वा कोकिलाक्षो घनध्वनिः ॥ ५.५ ॥ आखुपर्णी त्रिपर्णी च द्विपर्णी चैकपर्णिका । तित्तिडी क्षीरिणी रास्ना मेषशृङ्गी च कुक्कुटी ॥ ५.६ ॥ कृष्णपर्णी च तुलसी श्वेता च गिरिकर्णिका । एता नियामकौषध्यः पुष्पमूलदलान्विताः । दोलास्वेदः प्रकर्तव्यो मूलेनानेन सुव्रते ॥ ५.७ ॥ चण्डाली राक्षसी व्याघ्री खड्गारी गजकर्णिका । शङ्खपुष्प्यग्निधमनी लाङ्गली बालमोचका ॥ ५.८ ॥ रक्तस्नुही रक्तशृङ्गी रक्तिका नीलचित्रकः । शृगालजिह्वा बृहती वज्रा चक्री च राजिका ॥ ५.९ ॥ एकवीरा नरकसा रुदन्ती ब्रह्मचारिणी । उच्चटा मानिनीकन्दा कुमारी रक्तचित्रकः ॥ ५.१० ॥ लक्ष्मीः शाखोटकश्चैव कञ्चुकी मेषशृङ्गिका । हिमावती सोमलता मोदा व्याघ्रनखी शमी ॥ ५.११ ॥ काञ्चनी वनराजी च काकमाची च केशिनी । अजमारी कोटराक्षी हनूमत्यङ्गनायिका ॥ ५.१२ ॥ नरजीवा हेमपुष्पी काकमुण्डी च कालिका । तोयवल्ली गजारी च हंसाङ्घ्री कुहुकंविका । ताम्बूली सूर्यभक्ता च रसनिर्जीवकारिकाः ॥ ५.१३ ॥ कटुतुम्बी च गोसन्धी देवदालीन्द्रवारुणी । वाकुची ब्रह्मबीजानि कार्पासं कृष्णजीरकम् ॥ ५.१४ ॥ कङ्गुनी कृष्णकनकं श्वेतार्कं च पिपीलिजम् । दन्तिनी यवचिञ्चा च कर्कोटी कारवल्लिका ॥ ५.१५ ॥ गोजिह्वा काकजङ्घा च महाकाली च शम्बरी । श्वेतगुञ्जा सिताङ्कोलः पटोली बिल्वमेव च । एकैकमोषधीबीजं मारयेद्रसभैरवम् ॥ ५.१६ ॥ रक्तस्नुही सोमलता रुदन्ती रक्तचित्रकः । शाखोटकी दग्धरुहा मोदिनी वृद्धदारुकः ॥ ५.१७ ॥ त्रिशूली कृष्णमार्जारी चक्रिका क्षीरकुक्कुटी । देवदाली शङ्खपुष्पी काकमाची हनूमती ॥ ५.१८ ॥ नीलज्योतिस्तृणज्योतिरुत्कटा हेमवल्लरी । त्रिदण्डी ब्रह्मदण्डी च चक्राङ्की स्थलपद्मिनी ॥ ५.१९ ॥ नागजिह्वा नागकर्णी वीरा वर्तुलपर्णिका । अर्कपत्त्री वंशपत्त्री ताम्रपर्णी तथेश्वरी । इन्दुरी देवदेवेशि रसबन्धकराः प्रिये ॥ ५.२० ॥ तीव्रगन्धरसस्पर्शैर्द्रव्यैः स्थावरजङ्गमैः । म्रियते बध्यते चैव रसः स्वेदनमर्दनात् ॥ ५.२१ ॥ सूर्यावर्तश्च कदली वन्ध्या कोशातकी तथा । वज्रकन्दोदककणा काकमाची च शिग्रुकः ॥ ५.२२ ॥ देवदाली च देवेशि द्राविकाः परिकीर्तिताः । दोषान् हरन्ति योगिन धातूनां पारदस्य च ॥ ५.२३ ॥ काकमाची घनरवः कासमर्दः कृताञ्जलिः । वराहकर्णी सटिरी हंसदावी शतावरी ॥ ५.२४ ॥ ताम्बूली नागिनी ब्रह्मी हंसपादी च लक्षणा । अर्जुनी क्षीरनाली च कारवेल्लोऽर्कपत्त्रिका । व्याघ्री चवी कुरवकः क्रामिकाः सुरवन्दिते ॥ ५.२५ ॥ ब्रह्मदण्डः सुदण्डश्च लोहदण्डस्तृतीयकः । एते रसायने योग्या ब्रह्मविष्णुमहेश्वराः ॥ ५.२६ ॥ भूपाटली च कौमारी सिंहवल्ली च शूकरी । हेमपर्णी पटोली च नागवल्ली च भृङ्गराट् । इत्यष्ट मूलिकाः प्रोक्ताः पञ्चरत्नं शृणु प्रिये ॥ ५.२७ ॥ मन्त्रसिद्धासना देवी तथा कङ्कालखेचरी । इन्दिरा च क्षमापाली पञ्चमी तु निशाचरी । पञ्चरत्नमिदं देवि रसशोधनजारणे ॥ ५.२८ ॥ रसस्य बन्धने शस्तमेकैकं सुरवन्दिते । रसाङ्कुशेन गृह्णीयात्पञ्चरत्नानि सुव्रते । ददाति खेचरीं सिद्धिं रसभैरवसंगमे ॥ ५.२९ ॥ त्रिक्षारं टङ्कणक्षारो यवक्षारश्च सर्जिका । तिलापामार्गकदली पलाशशिग्रुमोचिकाः । मूलकार्द्रकचिञ्चाश्च वृक्षक्षाराः प्रकीर्तिताः ॥ ५.३० ॥ अम्लवेतसजम्बीर- लुङ्गाम्लचणकाम्लकम् । नारङ्गं तिन्तिणीकं च चाङ्गेर्यम्लगणोत्तमाः ॥ ५.३१ ॥ सामुद्रं सैन्धवं चैव चूलिकालवणं तथा । सौवर्चलं च काचं च लवणाः पञ्च कीर्तिताः ॥ ५.३२ ॥ सक्तुकं कालकूटं च सितमुस्ता तथैव च । शृङ्गी कृष्णविषं चैव पञ्चैते तु महाविषाः ॥ ५.३३ ॥ स्नुह्यर्कोन्मत्तकं चैव करवीरं च लाङ्गली । पञ्चैवोपविषा मुख्याः तैलानि ह्युत्तमानि वै । कुसुम्भकङ्गुणीनक्ता- तिलसर्षपजानि तु ॥ ५.३४ ॥ हस्त्यश्वछागनारीणां मूत्रं गव्यं च पञ्चमम् ॥ ५.३५ ॥ पित्तं पञ्चविधं मत्स्य- गवाश्वनरबर्हिजम् ॥ ५.३६ ॥ वसा पञ्चविधा मत्स्य- मेषाहिनरबर्हिजा ॥ ५.३७ ॥ कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ॥ ५.३८ ॥ मञ्जिष्ठा कुङ्कुमं लाक्षा खदिरश्चासनं तथा । रक्तवर्गस्तु देवेशि पीतवर्गमतः शृणु । कुसुम्भं किंशुकं रात्री पतंगो मदयन्तिका ॥ ५.३९ ॥ शुक्लवर्गः सुधाकूर्म- शङ्खशुक्तिवराटिकाः ॥ ५.४० ॥ गुञ्जाटङ्कणमध्वाज्य- गुडा द्रावणपञ्चकम् ॥ ५.४१ ॥ काचटङ्कणसौवीरं शोधनत्रितयं प्रिये ॥ ५.४२ ॥ सर्वे मलहराः क्षाराः सर्वे चाम्लाः प्रबोधकाः । विषाणि च तमोघ्नानि स्नेहा मार्दवकारकाः ॥ ५.४३ ॥ इत्योषधिगणाः प्रोक्ताः सिद्धिदा रससंगमे । क्रियां कुर्वन्ति तद्योगात्शक्तयश्च महारसाः ॥ ५.४४ ॥ तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ५.४५ ॥ षष्ठः पटलः [आभ्रकादिलक्षणसंस्कारनिर्णय] श्रीदेव्युवाच देवदेव महादेव शक्तीनां लक्षणं कथम् । रसकर्मणि योग्यत्वे संस्कारस्तस्य कथ्यताम् ॥ ६.१ ॥ श्रीभैरव उवाच कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम् । मुमोच यत्तदा वीर्यं तज्जातं शुभमभ्रकम् । पीतं कृष्णं तथा शुक्लं रक्तं भूमेश्च संगमात् ॥ ६.२ ॥ अभ्रकं कान्तपाषाणं वज्रं वैक्रान्तकं शृणु ॥ ६.३ ॥ पिनाकं दर्दुरं नागं वज्रं चाभ्रं चतुर्विधम् । पिनाकेऽग्निं प्रविष्टे तु शब्दश्चिटिचिटिर्भवेत् ॥ ६.४ ॥ दर्दुरेऽग्निं प्रविष्टे तु शब्दः कुक्कुटवद्भवेत् । अग्निं प्रविष्टं नागं तु फूत्कारं देवि मुञ्चति ॥ ६.५ ॥ अग्निं प्रविष्टं वज्रं तु वज्रवत्तिष्ठति प्रिये ॥ ६.६ ॥ कुष्ठप्रदं पिनाकाभ्रं दर्दुरं मरणप्रदम् । नागं देहगतं नित्यं व्याधिं कुर्याद्भगंदरम् ॥ ६.७ ॥ रसे रसायने चैव योज्यं वज्राभ्रकं प्रिये । अनेकवर्णभेदेन तच्चतुर्विधमभ्रकम् ॥ ६.८ ॥ रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । तारकर्मणि शुक्लं च काचकिट्टं सदा त्यजेत् ॥ ६.९ ॥ एकपत्त्रं कृतं पूर्वमभ्रकं सुरनायिके । अगस्त्यपुष्पतोयेन कुमुदानां रसेन च ॥ ६.१० ॥ कपितिन्दुकजम्बीर- मेघनादपुनर्नवैः । यवचिञ्चारनालाम्ल- करवीरारुणोत्पलैः ॥ ६.११ ॥ वनसूरणभूधात्री- भिण्डीमूलाम्लवेतसैः । मेषशृङ्गीशशवसा- शृङ्गतैलशमीरसैः ॥ ६.१२ ॥ वज्रवल्लीक्षीरकन्द- मरिचैः सुमुखेन च । त्रिदिनं स्वेदयेद्देवि जायते दोषवर्जितम् ॥ ६.१३ ॥ धान्याभ्रकं पुरा कृत्वा सुश्लक्ष्णं नवनीतवत् । त्रिंशत्पलं व्योमरजः क्षुद्रमत्स्यपलद्वयम् ॥ ६.१४ ॥ तिलचूर्णपलं गुञ्जा- त्रिपलं पादटङ्कणम् । गोधूमबद्धा तत्पिण्डी पञ्चगव्येन भाविता ॥ ६.१५ ॥ धमनात्कोष्ठिकायन्त्रे भस्त्राभ्यां तीव्रवह्निना । पतत्यभ्रकसत्त्वं तु सत्त्वानि निखिलानि च ॥ ६.१६ ॥ स्वेदनौषधिनिर्यास- लोलितं पुटितं मुहुः । मृतं तु पञ्चनिचुल- पुटैर्बहुलपोतकम् ॥ ६.१७ ॥ पिण्डितं व्योम निष्क्लेदं दत्त्वा सत्त्वं निरञ्जनम् । उमाफलैश्च पुष्पैश्च षष्टिकाम्लपरिप्लुतैः । औमदण्डविमर्देन गमनं द्रवति स्फुटम् ॥ ६.१८ ॥ अग्निजारं नवे कुम्भे स्थापयित्वा धरोत्तरम् । गगनं द्रवति क्षिप्रं मुक्ताफलसमप्रभम् ॥ ६.१९ ॥ शतधा कञ्चुकीचूर्णं कञ्चुकीरसभावितम् । द्रावयेद्गगनं देवि लोहानि सकलानि च ॥ ६.२० ॥ धान्याम्लके पर्य्युषितं निचुलक्षारवारिणि । स्थितं तद्द्रवतां वाति निर्लेपरससन्निभम् ॥ ६.२१ ॥ अगस्त्यपुष्पतोयेन पिष्ट्वा सूरणकन्दके । कोष्ठभूमिगतं मासं जायते रससन्निभम् ॥ ६.२२ ॥ छागमूत्रेण संसिक्तं कपितिन्दुकरेणुना । अभ्रकं वापितं देवि जायते जलसन्निभम् ॥ ६.२३ ॥ काकिनीवीजचूर्णेन घृष्टमभ्रकजं रजः । स्नुहिक्षीरेण सप्ताहं सिक्तं ध्मातं द्रुतं भवेत् ॥ ६.२४ ॥ अपामार्गस्य पञ्चाङ्गमभ्रकं च सुपेषितम् । स्थापयेन्मृन्मये पात्रे तद्भवेत्सलिलं यथा ॥ ६.२५ ॥ घृष्टमभ्रकचूर्णं तु कपालीमरिचैः सह । शिलया वापितं भूयोऽप्यगस्त्यरससंयुतम् ॥ ६.२६ ॥ मार्जारपादीस्वरस- फलमूलाम्लमर्दितम् । मातुलुङ्गफले न्यस्तं व्रीहिमध्ये निधापयेत् । तद्द्रवेत्पक्षमात्रेण शिलासैन्धवयोजितम् ॥ ६.२७ ॥ एकपत्रीकृतं सप्त- दिनं मुनिरसे क्षिपेत् । दार्वीमरिचसंमिश्रं मौर्वीरसपरिप्लुतम् ॥ ६.२८ ॥ सौवर्च्चलयुतो मेघा वज्रवल्लीरसप्लुतः । शरावसंपुटे ध्मातो जायते जलसन्निभः ॥ ६.२९ ॥ वेगाफलस्य चूर्णेन सममभ्रकजं रजः । भावितां कुलिशक्षीरे ध्मातं द्रवति तत्क्षणात् ॥ ६.३० ॥ वज्रवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् । शरावसंषुटे पक्त्वा द्रवेत्सलिलसन्निभम् ॥ ६.३१ ॥ गोमांससैन्धवार्कैस्तु मुनितोययुतं पुनः । कदलीकन्दकान्तःस्थं गोमयाग्नौ त्र्यहं द्रवेत् ॥ ६.३२ ॥ कृष्णाभ्रपत्रं संगृह्य पीलुतैलेन लेपयेत् । सप्ताहमातपे तप्तमाम्ले क्षिप्त्वा दिनत्रयम् ॥ ६.३३ ॥ वज्रार्कचित्रकक्षारं तुम्बीक्षारस्तथार्जुनः । सर्जक्षारो यवक्षार- ष्टङ्कणश्चाष्टमो भवेत् ॥ ६.३४ ॥ क्षीरकन्दरसं चैव वज्रकन्दरसं तथा । वृहतीत्रयसंयुक्तं क्षारवर्गञ्च लेपयेत् ॥ ६.३५ ॥ कल्केनानेन लिप्तं तत्पत्राभ्रं कांस्यभाजने । धमनात्सूर्य्यतापोत्थात्त्रिदिनेन द्रुतं भवेत् ॥ ६.३६ ॥ अथवाभ्रकपत्रं तु कञ्चुकोक्षीरमध्यगम् । भावयेच्च तथा तेन यावच्चूर्णं ततो भवेत् ॥ ६.३७ ॥ ग्राहयेदभ्रपत्राणि निक्षिप्याम्ले दिनत्रयम् । लेपयेत्तेन कल्केन कांस्यपात्रे निधापयेत् । सूर्य्यतापेन सप्ताहं द्रुतिः सञ्जायते क्षणात् ॥ ६.३८ ॥ काकाण्डीफलचूर्णेन द्रावकैः पञ्चभिस्तथा । अभ्रकस्य युतं चूर्णं ध्मातं मूषागतं द्रवत् ॥ ६.३९ ॥ भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा । एवं चतुर्विधं कान्तं रोमकान्तञ्च पञ्चमम् ॥ ६.४० ॥ एकद्वित्रिचतुःपञ्च सर्ब्बतोमुखमेव तत् । पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात्पृथक्पृथक् ॥ ६.४१ ॥ क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥ ६.४२ ॥ स्पर्शवेधि भवेत्पीतं कृष्णं श्रेष्ठं रसायने । रक्तवर्णं महाभागे रसबन्धे प्रशस्यते ॥ ६.४३ ॥ भ्रामकं तु कनिष्ठं स्यात्चुम्बकं मध्यमं प्रिये । उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥ ६.४४ ॥ भ्रामयेल्लोहजातं तु तत्कान्तं भ्रामकं प्रिये । चुम्बयेच्चुम्बकं कान्तं कर्षयेत्कर्षकं प्रिये ॥ ६.४५ ॥ यत्साक्षाद्द्रावयेल्लोहं तक्रान्तं द्रावकं भवेत् । तद्रोमकान्तं स्फुटितात्यथा रोमोद्गमो भवेत् ॥ ६.४६ ॥ कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् । चतुःपञ्चमुखं श्रेष्ठमुत्तमं सर्वतोमुखम् ॥ ६.४७ ॥ भ्रामकं चुम्बकञ्चैव व्याधिनाशे प्रशस्यते । रसे रसायने चैव कर्षकं द्रावकं हितम् ॥ ६.४८ ॥ मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते । क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन भूयसा ॥ ६.४९ ॥ मारुतातपविक्षिप्तं वर्जयेत्सुरसुन्दरि । बहिःस्थितं त्वयस्कान्तं छागरक्तेन भावयेत् ॥ ६.५० ॥ छागरक्तप्रलिप्तेन वाससा परिवेष्टयेत् । छागचर्मपरीवेष्ट्य विन्यसेत्पूर्व्ववत्क्षितौ ॥ ६.५१ ॥ उद्धृतं सप्तभिर्मासैः तोयकुम्भे विनिक्षिपेत् ॥ ६.५२ ॥ रक्तपुष्पैः सदा पूज्यं रक्तमाल्यानुलेपनैः । पूजितं मद्यमांसैश्च योज्यं रसरसायने ॥ ६.५३ ॥ संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् । अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥ ६.५४ ॥ सूतलोहस्य वक्ष्यामि संस्कारमतिसौख्यदम् । जीवदेहे प्रवेशे च देहसौख्यबलप्रदम् ॥ ६.५५ ॥ कान्तलोहं विना सूतो देहे न क्रामति क्वचित् । वेधयेद्व्यापयेच्छीघ्रं तैलबिन्दुरिवाम्भसि ॥ ६.५६ ॥ न सूतेन विना कान्तो न कान्तः सूतवर्जितः । कान्तसूतसमायुक्तः प्रयोगो देहधारकः ॥ ६.५७ ॥ यवक्षारन्तु संगृह्य स्निग्धभाण्डे निधापयेत् । मरिचाभ्रकचूर्णेन पिण्डीबन्धन्तु कारयेत् । कान्तलोहं द्रवेद्ध्मातं नात्र कार्या विचारणा ॥ ६.५८ ॥ त्रिंशच्चुम्बककान्तं च पिष्ट्वा तु त्रिफलाम्भसा । तेनैव क्षालनं कार्य्यं पञ्चनिष्कं तु टङ्कणम् ॥ ६.५९ ॥ जीर्णवस्त्रे विनिक्षिप्य मधुसर्पिर्युतं पुटेत् । संस्थाप्य मासपर्य्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥ ६.६० ॥ सिनाडिकाया मूलं तु दशनिष्कमितं युतम् । फलत्रयकषायन खल्ले तु परिमर्दयेत् ॥ ६.६१ ॥ त्रिमूषासु समं स्थाप्यमष्टाङ्गुलमितासु च । मूषकालेपनं कार्य्यं तन्मूलं निष्कमात्रकम् ॥ ६.६२ ॥ शिवपञ्चमुखीकार्य्या मूषां प्रति समं ततः । यन्त्रहस्ते सुसंबध्य खोटकं च शिलातले ॥ ६.६३ ॥ तैलेन मिश्रितं कृत्वा कान्तनागं लभेत्ततः । अभ्रकक्रमयोगेन द्रुतिपातञ्च साधयेत् ॥ ६.६४ ॥ सुरासुरैर्मथ्यमाने क्षीरोदे मन्दराद्रिणा । पीतं तदमृतं देवैरमरत्वमुपागतम् ॥ ६.६५ ॥ पिबतां बिन्दवो देवि पतिता भूमिमण्डले । शुष्कास्ते वज्रतां याता नानावर्णा महाबलाः ॥ ६.६६ ॥ बिन्दवः केऽपि सञ्जाताः सस्यका विमलास्तथा । ब्राह्मणाः क्षत्त्रिया वैश्वाः शुद्राश्चैवमनेकधा ॥ ६.६७ ॥ श्वेता रक्तास्तथा पीता कृष्णाश्चैव चतुर्विधाः । पुरुषाश्च स्त्रियश्चैव नपुंसकमनुक्रमात् ॥ ६.६८ ॥ वृत्ताः फलकसंपूर्णास्तेजस्वन्तो महत्तराः । पुरुषास्ते निबोद्धव्या रेखाबिन्दुविवर्जिताः ॥ ६.६९ ॥ रेखाबिन्दुसमायुक्ताः खण्डाश्चैव तु योषितः । त्रिकोणाः पत्तला दीर्घाः विज्ञेयास्ते नपुंसकाः ॥ ६.७० ॥ सत्त्ववन्तो बलोपेता लोहे क्रामणशीलिनः । रसबन्धकराः शीघ्रं पुंवज्राः सुरवन्दिते ॥ ६.७१ ॥ शरीरकान्तिजननाः स्त्रीवज्राः स्वल्पशक्तयः । नपुंसकाः सत्त्वहीनाः कष्टं लोहे क्रमन्ति च ॥ ६.७२ ॥ क्षत्रियाः सर्वकार्य्येषु वर्ज्याश्च रसकर्मणि । उत्तमा मध्यमाश्चैव कनिष्ठाः परिकीर्तिताः ॥ ६.७३ ॥ स्थूलातिस्थूलमध्याश्च सूक्ष्माः सूक्ष्मतराः प्रिये । आस्फोटदाहभेदैश्च निर्व्यङ्गा निरुपद्रवाः । वीर्य्यवन्तश्च ते ज्येष्ठा निर्मला बलवत्तराः ॥ ६.७४ ॥ रसायने भवेद्विप्रो ह्यणिमादिगुणप्रदः । क्षत्रियो मृत्युनाशार्थो वलीपलितरोगहा ॥ ६.७५ ॥ द्रव्यकारो तथा वैश्यः शरीरं दृढतां नयेत् । व्याधिप्रशमनं शूद्रो वयःस्तम्भं करोति च ॥ ६.७६ ॥ क्लीबे क्लीवाः स्त्रियः स्त्रीणां सर्ब्बेषां पुरुषा हिताः ॥ ६.७७ ॥ यथा जातिस्तथोत्साहं यथा सत्त्वं तथा गुणान् । यथा रुचिस्तथा शीलं यथा शीलं तथा वरम् । यथा वरस्तथा वर्णं कुर्वन्ति कुलिशाः प्रिये ॥ ६.७८ ॥ श्यामा शमी घनरवो वषाभून्मत्तकोद्रवाः । आखुकर्णी मुनितरुः कुलत्थं चाम्लवेतसम् ॥ ६.७९ ॥ मेषशृङ्गी रसोऽप्येषां कन्दस्य सूरणस्य तु । शोधयेत्त्रिदिनं वज्रं शुद्धिमेति सुरेश्वरि ॥ ६.८० ॥ मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु । स्नुक्कीलालरसं स्तन्यं कान्तपाषाणमेव च ॥ ६.८१ ॥ वज्रकं चापि वैक्रान्तं तन्मध्ये प्रक्षिपेत्प्रिये । तीव्रानले पुटं दत्त्वा पुटान्तं यावदागतम् ॥ ६.८२ ॥ कुलत्थं कोद्रवं चापि हयमूत्रेण पेषयेत् । तप्तं निपेचयेत्पीठे यावत्तद्भस्मतां गतम् ॥ ६.८३ ॥ एष कापालिको योगो वज्रमारण उत्तमः ॥ ६.८४ ॥ माक्षिकं मेषशृङ्गं च शिलागन्धकटङ्कणम् । वैक्रान्तं तालकं चापि वज्रीक्षीरपरिप्लुतम् ॥ ६.८५ ॥ लेपं मूषोदरे दत्त्वा समावर्त्तं तु कारयेत् । म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यङ्मिलन्ति च ॥ ६.८६ ॥ गन्धकं च शिलाधातुं भ्रामकस्य मुखं तथा । शशकस्य च दन्तांश्च वेतसाम्लेन पेषयत् ॥ ६.८७ ॥ अनेन सिद्धकल्केन मूषालेपं तु कारयेत् । अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ६.८८ ॥ तेनैव मिलितं वज्रं तारहेम्नि न संशयः ॥ ६.८९ ॥ तालकं गन्धकं कान्तं ताप्यं कर्पूरटङ्कणम् । चिञ्चास्थि मेषशृङ्गं च स्त्रीरजःपरिपेषितम् । मूषालेपगतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ६.९० ॥ शरपुङ्खस्य पञ्चाङ्गं पेष्यं स्त्रीरजसा ततः । पेटारीबीजमथवा संपेष्यं तण्डुलाम्भसा ॥ ६.९१ ॥ पेष्यं त्रिकर्षकार्पास- मूलं वा तण्डुलाम्भसा । आरक्तराकामूलं वा स्त्रीस्तन्येन तु पेषितम् ॥ ६.९२ ॥ पेषयेद्वज्रकन्दं वा वज्रीक्षीरेण सुव्रते । तत्कल्कपुटितं ध्मातं वज्रं चैव मृतं भवेत् ॥ ६.९३ ॥ महानदीश्वेतशुक्त्यां दिनमेकन्तु भावितम् । क्षीरेणोत्तरवारुण्याः कल्केनानेन सुव्रते ॥ ६.९४ ॥ तालेन मेषशृङ्ग्या च वज्रवल्ल्या च वेष्टितम् । अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ६.९५ ॥ कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् । पेषयेद्गन्धतैलेन म्रियते वज्रमीश्वरि ॥ ६.९६ ॥ कुलत्थाम्भसि कासीस- सौराष्ट्रीतालकान्विते । अपामार्गक्षारयुते वज्रं सिक्तं मृतं भवेत् ॥ ६.९७ ॥ अमृताकन्दतिमिर- बीजत्वक्क्षीरवेष्टितम् । मेषशृङ्गगतं वज्रं मृल्लिप्तं म्रियते पुटैः ॥ ६.९८ ॥ पेटारी हंसपादी च वज्रवल्ली च सूरणम् । अश्वत्थस्याङ्कुरा देवि सर्वे स्त्रीस्तन्यपेषिताः ॥ ६.९९ ॥ अनेन सिद्धकल्केन वेष्टितं बृहतीफले । क्षिप्तं बहिर्मृदा लिप्तं म्रियते सप्तभिः पुटैः ॥ ६.१०० ॥ श्वेतेन्दुरेखापुष्पाम्बु- गन्धकत्रयमाक्षिकैः । वेष्टितं कुलिशं देवि पुटपाकात्मृतं भवेत् ॥ ६.१०१ ॥ अश्वत्थबदरीभिण्डी- माक्षीकं कर्कटास्थि च । स्नुहीक्षीरेण संपेष्य पुटाद्विप्रो मृतो भवेत् ॥ ६.१०२ ॥ करवीरार्कदुग्धेन मेषशृङ्गं सहिङ्गुलम् । उदुम्बरसमायुक्तं पुटात्क्षत्रियमारणम् ॥ ६.१०३ ॥ बाला चातिबला चैव गन्धकं कर्कटास्थि च । क्षीरेणोत्तरवारुण्याः पुटनाद्वैश्यमारणम् ॥ ६.१०४ ॥ कण्डूलसूरणेनैव शिलया लशुनेन च । न्यग्रोधशङ्खदुग्धेन शूद्रोऽपि म्रियते क्षणात् ॥ ६.१०५ ॥ स्थूला बहुस्थूलपुटैः नश्यन्ति फलकादयः । सुस्विन्ना इव जायन्ते मृदुत्वमुपजायते ॥ ६.१०६ ॥ पिष्ट्वामलकपञ्चाङ्गं गौराभामिन्द्रवारुणीम् । अनेन वेष्टितं वज्रं म्रियते सप्तभिः पुटैः ॥ ६.१०७ ॥ मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् । दोलास्वेदे त्र्यहं देवि गुणपत्त्रसमं भवेत् ॥ ६.१०८ ॥ एरण्डवृक्षमध्ये तु वज्रं देवि विनिक्षिपेत् । एकमासे गते देवि गुणपत्त्रसमं भवेत् ॥ ६.१०९ ॥ कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् । कार्पासनिम्बपत्त्रं च बदरीपत्त्रसंयुतम् ॥ ६.११० ॥ एकत्र पेषयेत्तत्तु कान्तगोलकवेष्टितम् । बाह्ये ताम्बूलपत्त्रेण स्थापयेज्जानुमध्यतः ॥ ६.१११ ॥ यामद्वयेन तद्वज्रं जायते मृदु निश्चितम् । तत्क्षणान्म्रियते वज्रं तारे हेम्नि न संशयः ॥ ६.११२ ॥ जम्बीरफलमध्यस्थं वस्त्रपोटलिकागतम् । क्वाथयेत्कोद्रवक्वाथे क्रमेणानेन तु त्र्यहम् । तद्वज्रं जायते खोटं हेम्ना मिलति तत्क्षणात् ॥ ६.११३ ॥ नागवल्ल्या प्रलिप्तं तु तत्पत्त्रेणैव वेष्टितम् । जानुमध्ये स्थितं यामं मृदु संजायते ध्रुवम् ॥ ६.११४ ॥ मूले वज्रलतायास्तु मृदु वज्रं विनिक्षिपेत् । पुटं दद्यात्प्रयत्नेन भस्मीभवति तत्क्षणात् ॥ ६.११५ ॥ सुखाद्बन्धकरं ह्याशु सत्त्वं मुञ्चति तत्क्षणात् । सर्वमृत्युप्रशमनाः सर्वसिद्धिकराश्च ते ॥ ६.११६ ॥ अस्थिशृङ्खलमध्यस्थं कृत्वा वज्रं विरन्ध्रितम् । जलभाण्डे तु तत्स्विन्नं सप्ताहं द्रवतां व्रजेत् ॥ ६.११७ ॥ क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् । क्षिप्त्वा ज्वालामुखीक्षीरं स्थलकुम्भीरसेन च ॥ ६.११८ ॥ एतैस्तु मर्दितं वज्रं स्नुह्यर्कपयसा तथा । दोलायां स्वेदयेद्देवि जायते रसवद्यथा ॥ ६.११९ ॥ अथवाप्यभ्रकं स्विन्नं मौक्तिकं च प्रवालकम् । माक्षिकं नीलपुष्पं च पीतं मरकतं महत् । वैडूर्यस्फटिकादीनि द्रवन्ति सलिलं यथा ॥ ६.१२० ॥ लोहजातं तथा ध्मातमग्निवर्णं तु दृश्यते । वापितं सकृदेकेन मृतं जलसमं भवेत् ॥ ६.१२१ ॥ मुक्ताफलं तु सप्ताहं वेतसाम्लेन भावितम् । जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् । पुटपाकेन तच्चूर्णं जायते सलिलं यथा ॥ ६.१२२ ॥ शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥ ६.१२३ ॥ दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः । दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥ ६.१२४ ॥ तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः ॥ ६.१२५ ॥ विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्वथा । विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ ६.१२६ ॥ श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः । मयूरवालसदृशश्चान्यो मरकतप्रभः ॥ ६.१२७ ॥ देहसिद्धिकरः कृष्णः पीते पीतः सिते सितः । सर्वार्थसिद्धिदो रक्तः तथा मरकतप्रभः । शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥ ६.१२८ ॥ यत्र क्षेत्रे स्थितं देवि वैक्रान्तं तत्र भैरवम् । विनायकं च सम्पूज्य गृह्णीयात्साधकोत्तमः ॥ ६.१२९ ॥ वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम् । व्याघ्रीकन्दस्य मध्यस्थं धमयित्वा पुटे स्थितम् ॥ ६.१३० ॥ अश्वमूत्रेण मृद्वग्नौ स्वेदयेत्सप्तवासरात् । छायाशुष्कं ततः कुर्यादिदं वैक्रान्तमुत्तमम् ॥ ६.१३१ ॥ अथवा लवणक्षार- मूत्राम्लकृष्णतैलकैः । कुलत्थकोद्रवक्वाथे स्वेदयेत्सप्त वासरान् ॥ ६.१३२ ॥ वन्ध्याचूर्णं तु वैक्रान्तं समांशेन तु चूर्णयेत् । अजामूत्रेण संभाव्य छायाशुष्कं तु कारयेत् । अन्धनाले धमित्वा तु मूषासत्त्वं तु जायते ॥ ६.१३३ ॥ मोक्षमोरटपालाश- क्षारगोमूत्रभावितम् । वज्रकन्दशिफाकल्क- लाक्षाटङ्कणसंयुतम् ॥ ६.१३४ ॥ वैक्रान्तसम्भवं चूर्णं मेषशृङ्गीद्रवान्वितम् । पिण्डितं मूकमूषायां ध्मातं सत्त्वं विमुञ्चति ॥ ६.१३५ ॥ वैक्रान्तं वज्रकन्दं च पेषयेद्वज्रवारिणा । माहिषे नवनीते च सक्षौद्रं पिण्डितं ततः । शोधयित्वा धमेत्सत्त्वमिन्द्रगोपसमं पतेत् ॥ ६.१३६ ॥ केतकीस्वरसः काङ्क्षी मणिमत्थं सखेचरम् । स्वेदनाज्जायते देवि वैक्रान्तं रससंनिभम् ॥ ६.१३७ ॥ सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः । अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ ६.१३८ ॥ इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ६.१३९ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रससंहितायामभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः ७ [ंहारसोपरसलोहलक्षणसंस्काररत्नद्रावणमारणनिर्णयः] श्रीदेव्युवाच सह लक्षणसंस्कारैराज्ञापय महारसान् । अन्यच्च तादृशं देव रसविद्योपकारकम् ॥ ७.१ ॥ श्रीभैरव उवाच माक्षिको विमलः शैलश्चपलो रसकस्तथा । सस्यको दरदश्चैव स्रोतोञ्जनमथाष्टकम् । अष्टौ महारसाश्चैवमेतान् प्रथमतः शृणु ॥ ७.२ ॥ कृष्णस्तु भारतं श्रुत्वा योगनिद्रामुपागतः । तस्य पादतले विद्धं व्याधेन मृगशङ्कया ॥ ७.३ ॥ ये तत्र पतिता भूमौ क्षताद्रुधिरबिन्दवः । ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः ॥ ७.४ ॥ माक्षिको द्विविधस्तत्र पीतशुक्लविभागतः । विमलस्त्रिविधो देवि शुक्लः पीतश्च लोहितः ॥ ७.५ ॥ तैलारनालतक्रेषु गोमूत्रे कदलीरसे । कुलत्थकोद्रवक्वाथैः माक्षिकं विमलं तथा । मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ॥ ७.६ ॥ क्षाराम्ललवणैरण्ड- तैलसर्पिःसमन्वितम् । पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥ ७.७ ॥ माक्षिकं चूर्णितं स्तन्य- स्नुह्यर्कक्षीरभावितम् । सत्त्वं मुञ्चति सुध्मातं टङ्ककङ्कुष्ठमोदितम् ॥ ७.८ ॥ कदलीकन्दतुलसी- नारङ्गाम्लपरिप्लुतम् । सप्तसप्तपुटोपेतं पञ्चद्रावकसंयुतम् । स्त्रीस्तन्यमोदितं ध्मातं सत्त्वं मुञ्चति माक्षिकम् ॥ ७.९ ॥ क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः । मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥ ७.१० ॥ देवदालीरसं क्षिप्त्वा पादांशटङ्कणैर्युतम् । प्रकटां मूषिकां कृत्वा धमेत्सत्त्वमपेक्षितम् ॥ ७.११ ॥ किमत्र चित्रं कदलीरसेन सुपाचितं सूरणकन्दसम्पुटे । वातारितैलेन पुटेन ताप्यं पुटेन दग्धं वरशुद्धिमेति ॥ ७.१२ ॥ गोमूत्रैश्च स्नुहिक्षीरैः भाव्यमेरण्डतैलकैः । माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् । अभ्रवद्धमयेत्सत्त्वं सस्यकस्याप्ययं विधिः ॥ ७.१३ ॥ ताप्यमावर्तकं धातु- माक्षिकं मधुधातुकम् । माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् । कफपित्तहरं बल्यं योगवाहि रसायनम् ॥ ७.१४ ॥ ज्वरसंनिपातदारिद्र्याण्यपि यन्नामकथनमात्रेण ।* नश्यन्ति योजनशते कस्तस्माल्लोहवेधकरः ॥ ७.१५ ।* विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणैः । वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ ७.१६ ॥ मोक्षकक्षारसंयुक्तं धामितं मूकमूषया । सत्त्वं चन्द्रार्कसंकाशं प्रयच्छति न संशयः ॥ ७.१७ ॥ पतितोऽपतितश्चेति द्विविधः शैला ईश्वरि । ग्रन्थान्तरेऽपि कीर्त्योऽसौ कीर्तितो बहुभिः सुरैः ॥ ७.१८ ॥ निदाघे घर्मसंतप्ता धातुसारं धराधराः । निर्यासं च विमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ७.१९ ॥ शिलावद्धातुकं ध्मातं शैलजं गिरिसानुजम् । जत्वद्रिजं गिरिः शैलः प्रोक्तस्त्वयानुकीर्तितः ॥ ७.२० ॥ क्षाराम्लगोजलैर्ध्मातं शुध्यते च शिलाजतु । अथवा गोघृतेनापि त्रिफलद्व्यार्द्रकद्रवैः । लोहपात्रे विनिक्षिप्य शोधयेत्तत्तु यत्नतः ॥ ७.२१ ॥ शैलं विचूर्णयित्वा तु धान्याम्लोपविषैर्विषैः । पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं यथा ॥ ७.२२ ॥ गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु प्रशस्यते । हैमाभश्चैव ताराभो विशेषाद्रसबन्धकः ॥ ७.२३ ॥ शेषौ मध्यौ च लाक्षावत्शीघ्रद्रावौ तु निष्फलौ । वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥ ७.२४ ॥ वस्त्रेण बद्ध्वा चपलं लङ्घयेद्यदि सागरम् । वस्त्रं च वेष्टयेत्सद्यः तेनासौ चपलः स्मृतः ॥ ७.२५ ॥ सारयेत्पुटपाकेन चपलं गिरिमस्तके । देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥ ७.२६ ॥ चपलश्चपलावेधं करोति घनवच्चलः । चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥ ७.२७ ॥ मृत्तिकागुडपाषाण- भेदतो रसकस्त्रिधा ॥ ७.२८ ॥ पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः । गुडाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः ॥ ७.२९ ॥ कटुकालाबुनिर्यासे- नालोड्य रसकं पचेत् । शुद्धो दोषविनिर्मुक्तः पीतवर्णस्तु जायते ॥ ७.३० ॥ किमत्र चित्रं रसकं रसेन रजस्वलायाः कुसुमेन भावितम् । क्रमेण कृत्वा उरगेन रञ्जितं करोति शुल्बं त्रिपुटेन काञ्चनम् ॥ ७.३१ ॥ क्षीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥ ७.३२ ॥ रसकं चूर्णयित्वा तु बद्ध्वा वस्त्रे विचक्षणः । मूत्रे निधापयेत्स्त्रीणां सप्तरात्रं सुरेश्वरि ॥ ७.३३ ॥ पुष्पाणां रक्तपीतानां रसैः पत्त्रैश्च भावयेत् ॥ ७.३४ ॥ क्षारैः स्नेहैस्तथा चाम्लैः भावितं रसकं मुहुः । ऊर्णालाक्षानिशापथ्या- भूलताधूमसंयुतम् ॥ ७.३५ ॥ मूकमूषागतं ध्मातं टङ्कणेन समन्वितम् । सत्त्वं कुटिलसंकाशं मुञ्चत्येव न संशयः ॥ ७.३६ ॥ गोभद्दो रसकस्तुत्थं क्षितिकिट्टो रसोद्भवः । खर्परो नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः ॥ ७.३७ ॥ रसको रञ्जको रूक्षो वातकृत्श्लेष्मनाशनः । त्रिदोषघ्नं तु तत्सत्त्वं नेत्रदोषविनाशनम् ॥ ७.३८ ॥ कालकूटविषं पीत्वा गरुडः सोढुमक्षमः । सुधामपि तथावामत्भुक्त आशीविषामृते । स्वयं विनिर्गते चञ्च्वोः सस्यकोऽभूत्स कालिकः ॥ ७.३९ ॥ एकधा सस्यकस्तस्य स्त्रीमूत्रे भावयेद्रजः । शशशोणितमध्ये वा दिनमेकं निधापयेत् ॥ ७.४० ॥ तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम् । करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥ ७.४१ ॥ मध्यस्थमन्धमूषायाः धमयेत्कोकिलात्रयम् । इन्द्रगोपकसंकाशं सत्त्वं पतति शोभनम् ॥ ७.४२ ॥ एकधा सस्यकस्तस्मात्ध्मातो निपतितो भवेत् । कालिकारहितो रक्तः शिखिकण्ठसमाकृतिः ॥ ७.४३ ॥ सस्यो मयूरतुत्थं स्यात्वह्निकृत्कालनाशनः । रसायने तु योग्यः स्याद्वयःस्तम्भकरो भवेत् ॥ ७.४४ ॥ सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः ॥ ७.४५ ॥ दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः । हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥ ७.४६ ॥ चूर्णपारदभेदेन द्विविधो दरदः पुनः ॥ ७.४७ ॥ गोमांसे माहिषे मूत्रे दध्यम्लतिलतैलयोः । एकैकं त्रिदिनं पक्त्वा शिखिपित्तेन भावयेत् ॥ ७.४८ ॥ दरदं पातनायन्त्रे पातयेत्सलिलाशये । सत्त्वं तु सूतसंकाशं जायते नात्र संशयः ॥ ७.४९ ॥ लघुकन्दरसो म्लेच्छो हिङ्गुलं चूर्णपारदम् । मणिरागजमस्यैव नाम चर्मारगन्धिकम् ॥ ७.५० ॥ तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् । लोहकुष्ठहरं दिव्य- बलमेधाग्निदीपनम् ॥ ७.५१ ॥ किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः । सितं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥ ७.५२ ॥ वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । घृष्टं तु गैरिकच्छायं स्रोतोजं सुरवन्दिते ॥ ७.५३ ॥ गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च । भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम् ॥ ७.५४ ॥ एवं महारसाः प्रोक्ताः शृणुष्वोपरसान् प्रिये ॥ ७.५५ ॥ गन्धकस्तालकः शिला सौराष्ट्री खगगैरिकम् । राजावर्तश्च कङ्कुष्ठमष्टा उपरसाः स्मृताः ॥ ७.५६ ॥ श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते । सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥ ७.५७ ॥ विद्याधरीभिर्मुख्याभिरङ्गनाभिश्च योषिते । सिद्धाङ्गनाभिस्त्विष्टाभिस्तथैवाप्सरसां गणैः ॥ ७.५८ ॥ देवाङ्गनाभिरन्याभिः क्रीडिताभिः पुरा प्रिये । गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥ ७.५९ ॥ एवं संक्रीडमानायास्तवाभूत्प्रसृतं रजः । तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥ ७.६० ॥ रजसश्चातिबाहुल्यात्वासस्ते रक्ततां ययौ । तत्र त्यक्त्वा तु तद्वासः सुस्नाता क्षीरसागरे ॥ ७.६१ ॥ वृता देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं गता । ऊर्मिभिस्ते रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥ ७.६२ ॥ एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे । क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् । निजगन्धेन तान् सर्वान् हर्षयद्देवदानवान् ॥ ७.६३ ॥ ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ७.६४ ॥ रसस्य बन्धनार्थाय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥ ७.६५ ॥ इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि । तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥ ७.६६ ॥ स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः । मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ ७.६७ ॥ करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके । सिञ्चेदुन्मत्तनिर्यासे त्रीन्वारांस्तं पृथक्पृथक् ॥ ७.६८ ॥ ज्वालिनीबीजचूर्णेन मत्स्यपित्तैश्च भावयेत् । भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा ॥ ७.६९ ॥ तापितो बदराङ्गारैः घृताक्ते लोहभाजने । आवर्तितश्च मृद्वग्नौ घृताक्तकर्पटोपरि ॥ ७.७० ॥ क्षिप्रं भृङ्गस्य निर्यासे क्षालितो गन्धको हितः ॥ ७.७१ ॥ गन्धको हि स्वभावेन रसरूपः स्वरूपतः । गन्धकं शोधयेत्क्षीरे शृङ्गवेररसे तथा ॥ ७.७२ ॥ रसे च भृङ्गराजस्य निम्बुकस्य रसे तथा । शोधितः सप्तवाराणि गन्धको जायतेऽमलः ॥ ७.७३ ॥ तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः । कुष्माण्डे तु शतं वारान् तालकं स्वेदयेद्बुधः ॥ ७.७४ ॥ स्नुक्क्षीरकटुकालाबु- रसयोः सप्तधा पृथक् । तिलसर्षपशिग्रूणि लाक्षा च लवणं गुडः । टङ्कणं च युतैर्ह्येतैः तालकं भूधरे द्रवेत् ॥ ७.७५ ॥ व्याधिघातफलक्षारं मधुकुष्माण्डकं तथा । द्रवैः पुनर्नवोद्भूतैः सप्ताहं मर्दयेद्बुधः ॥ ७.७६ ॥ दत्त्वा पादांशकं सर्वं ततः पातनयन्त्रके । दद्यात्पुटं गजाकारं पतेत्सत्त्वं सुतालकात् ॥ ७.७७ ॥ रक्ता शिला तु गोमांसे लुङ्गाम्लेन विपाचिता । तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ७.७८ ॥ सिता कृष्णा च सौराष्ट्री चूर्णखण्डात्मिका च सा ॥ ७.७९ ॥ गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः । धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ॥ ७.८० ॥ कासीसं त्रिविधं शुक्लं कृष्णं पीतमिति प्रिये ॥ ७.८१ ॥ कासीसं चूर्णयित्वा तु कासमर्दरसेन च । राजकोशातकीतोयैः पित्तैश्च परिभावयेत् ॥ ७.८२ ॥ गैरिकं त्रिविधं रक्त- हेमकेवलभेदतः । रक्तवर्गरसक्वाथ- पित्तैस्तद्भावयेत्पृथक् ॥ ७.८३ ॥ अनेन क्रमयोगेन गैरिकं विमलं धमेत् । क्रमात्सितं च रक्तं च सत्त्वं पतति शोभनम् ॥ ७.८४ ॥ राजावर्तो द्विधा देवि गुलिकाचूर्णभेदतः ॥ ७.८५ ॥ तच्चूर्णं देवदेवेशि महिषीक्षीरसंयुतम् । विपचेदायसे पात्रे गोघृतेन विमिश्रितम् ॥ ७.८६ ॥ तच्चूर्णितं सुरेशानि कुनटीघृतमिश्रितम् । सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु कारयेत् । धमितं खादिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥ ७.८७ ॥ कङ्कुष्ठं विद्रुमच्छायं तच्च सत्त्वमयं प्रिये ॥ ७.८८ ॥ सूर्यावर्तोदककणा- वह्निशिग्रुशिफारसैः । कदलीकन्दसारेण वन्ध्याकोशातकीरसैः ॥ ७.८९ ॥ काकमाचीदेवदाली- वज्रकन्दरसैस्तथा । एभिर्व्यस्तैः समस्तैर्वा क्षाराम्लस्नेहसैन्धवैः । महारसाश्चोपरसाः शुद्धिमायान्ति भाविताः ॥ ७.९० ॥ लाक्षालवणसौभाग्य- धूमसारकटुत्रयम् । शिग्रुमूलमधूच्छिष्टं पथ्यागुग्गुलुधातवः ॥ ७.९१ ॥ सर्जिकासर्जनिर्यास- पिण्याकोर्णासमन्वितम् । पारावतमलक्षुद्र- मत्स्यद्रावकपञ्चकम् ॥ ७.९२ ॥ तिलसर्षपगोधूम- माषनिष्पावचिक्कसम् । छागक्षीरेण संयुक्तं वज्रपिण्डी तु कीर्तिता ॥ ७.९३ ॥ अनया वज्रपिण्ड्या तु पञ्चमाहिषयुक्तया । महारसा मोदितास्तु पञ्चगव्येन भाविताः ॥ ७.९४ ॥ कोष्ठे खराग्निना ध्माताः सत्त्वं मुञ्चन्ति सुव्रते । एवं शिलाभ्यो जीवेभ्यो मृद्भ्यः सत्त्वं प्रजायते ॥ ७.९५ ॥ एवं चोपरसाः प्रोक्ताः शृणु लोहान्यतः परम् ॥ ७.९६ ॥ सुवर्णं रजतं ताम्रं तीक्ष्णं वङ्गं भुजंगमम् । लोहं तु षड्विधं तच्च यथा पूर्वं तदक्षयम् ॥ ७.९७ ॥ तत्रादितः सुरेशानि सारं लोहद्वयं स्मृतम् । साधारणे तीक्ष्णशुल्वे वङ्गनागौ तु पूतिकौ ॥ ७.९८ ॥ रसजं क्षेत्रजं चैव लोहसंकरजं तथा । त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥ ७.९९ ॥ रक्ताभं पीतवर्णं च द्विविधं देवि काञ्चनम् । दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥ ७.१०० ॥ सगौरवं मृदु स्निग्धं तारशुल्वविवर्जितम् । हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥ ७.१०१ ॥ मृत्तिका मातुलुङ्गाम्लैः पञ्चवासरभाविता । सभस्मलवणा हेम शोधयेत्पुटपाकतः ॥ ७.१०२ ॥ शुक्लं च तारकृष्णं च द्विविधं रजतं प्रिये । गुरु स्निग्धं मृदु श्वेतं तारमुत्तममिष्यते ॥ ७.१०३ ॥ नागेन क्षारराजेन द्रावितं शुद्धिमिच्छति । तारं त्रिवारं निक्षिप्तं पिशाचीतैलमध्यतः ॥ ७.१०४ ॥ ताम्रं च द्विविधं प्रोक्तं रक्तं कृष्णं सुरेश्वरि । घनघातसहं स्निग्धं रक्तपत्त्रं मृदूत्तमम् ॥ ७.१०५ ॥ स्नुह्यर्कक्षीरलवण- क्षाराम्लपरिलेपितम् । ताम्रपत्त्रं च निर्गुण्डी- रसमध्ये तु ढालयेत् ॥ ७.१०६ ॥ रोहणं वाजरं चैव तृतीयं च पडालकम् । इति तीक्ष्णं त्रिधा तच्च कान्तलोहमिति स्मृतम् ॥ ७.१०७ ॥ नीलं कृष्णमिति स्निग्धं सूक्ष्मधारमयः शुभम् । गुडूची हंसपादी च नक्तमालः फलत्रयम् ॥ ७.१०८ ॥ गोपालकी गोरसानां तुम्बुरुर्लोहनिघ्नकः । एषां रसे ढालयेत्तत्गिरिदोषनिवृत्तये ॥ ७.१०९ ॥ त्रपु च द्विविधं ज्ञेयं श्वेतकृष्णविभेदतः । श्वेतं लघु मृदु स्निग्धमुत्तमं वङ्गमुच्यते ॥ ७.११० ॥ नागस्त्वेकविधो देवि शीघ्रद्रावी मृदुर्गुरुः ॥ ७.१११ ॥ महिषस्यास्थिचूर्णेन वापात्तन्मूत्रसेचनात् । वङ्गं शुद्धं भवेत्तद्वत्नागो नागास्थिमूत्रतः ॥ ७.११२ ॥ गौरीफलानि क्षुरको रजनीतुम्बुरूणि च । कुबेराक्षस्य बीजानि मल्लिकायाश्च सुन्दरि ॥ ७.११३ ॥ पलाशशुष्कापामार्ग- क्षारस्नुक्क्षीरयोगतः । सप्तधा परिवापेन शोधयन्ति भुजंगमम् ॥ ७.११४ ॥ स्नुहीक्षीरसमायोगात्वङ्गं चावापयेत्ततः ॥ ७.११५ ॥ स्नुह्यर्कक्षीरहलिनी- कञ्चुकीकन्दचित्रकैः । गुञ्जाकरञ्जधुत्तूर- हयगन्धाङ्घ्रितालकैः ॥ ७.११६ ॥ नक्तमालेङ्गुदीशक्र- वारुणीमूलसंयुतैः । पिष्टैर्माहिषतक्रे तु सप्तरात्रोषितैस्ततः । निषेकः सर्वलोहानां मलं हन्ति न संशयः ॥ ७.११७ ॥ देवदालीफलरजः- स्वरसैर्भावितं मुहुः । द्रावयेत्कनकं वापात्भूयो न कठिनं भवेत् ॥ ७.११८ ॥ अखिलानि च सत्त्वानि द्रावयेत्तत्प्रभावतः ॥ ७.११९ ॥ समांशं सुरगोपस्य सुरदाल्याश्च यद्रजः । आवापात्कुरुते देवि कनकं जलसंनिभम् ॥ ७.१२० ॥ मण्डूकास्थिवसाटङ्क- हयलालेन्द्रगोपकैः । प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७.१२१ ॥ त्रिःसप्तकृत्वो गोमूत्रे ज्वालिनीभस्म गालितम् । शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥ ७.१२२ ॥ त्रिःसप्तकृत्वो निचुल- भस्मना भावितेन तु । केतक्यास्तु रसैस्तीक्ष्णमावापाद्द्रवतां व्रजेत् ॥ ७.१२३ ॥ पक्वधात्रीफलरसैः शङ्खे सप्ताहभावितम् । पुनः कञ्चुकितोयेन भावितं सप्तवासरम् ॥ ७.१२४ ॥ शरावयुगलान्तःस्थं सुदृढं परिधामितम् । तत्तीक्ष्णचूर्णं देवेशि रसरूपं प्रजायते ॥ ७.१२५ ॥ तालकं गन्धपाषाण- शिलामाक्षिकगैरिकम् । कासीसं खण्डसौराष्ट्री- तुत्थमभ्रकमेव च ॥ ७.१२६ ॥ श्वशृगालतरक्षूणां कुक्कुटस्य मलं तथा । मयूरगृध्रमार्जार- विष्ठा च समभागकम् ॥ ७.१२७ ॥ भावयेत्त्रिः स्नुहीक्षीरैर्देवदालीरसेन च । तत्कल्कमष्टमांशेन लोहपत्त्राणि लेपयेत् ॥ ७.१२८ ॥ धमेद्द्रुतं भवेल्लोहमेतैरेव निषेचयेत् । अङ्कोलस्य तु मूलानि काञ्जिकेन प्रपेषयेत् । लोहलेपं ततो दद्यातग्निस्थं धारयेत्प्रिये ॥ ७.१२९ ॥ पुनर्लेपं ततो दद्यात्परिच्छिन्नारसेन तु । मत्स्यपित्तेन देवेशि वह्निस्थं धारयेत्प्रिये ॥ ७.१३० ॥ पुनर्लेपं प्रकुर्वीत लाङ्गलीकन्दसम्भवम् । त्रिभिर्लेपैर्द्रुतं लोहं निर्मलं स्वच्छवारिवत् ॥ ७.१३१ ॥ चूर्णितं देवि कूर्मास्थि मेषशृङ्गं शिलाजतु । कुरुते प्रतिवापेन बलवज्जलवत्स्थिरम् ॥ ७.१३२ ॥ अर्कापामार्गमुसली- निचुलं चित्रकं तथा । कदली पोतकी दाली क्षारमेषां तु साधयेत् ॥ ७.१३३ ॥ गालयेन्माहिषे मूत्रे षड्वारान्सुरवन्दिते । आवापाद्द्रावयेदेत- दभ्रसत्त्वादिजं रजः ॥ ७.१३४ ॥ दन्तीदन्तो विशेषेण द्रावयेत्सलिलं यथा ॥ ७.१३५ ॥ रसेनोत्तरवारुण्याः प्लुतं वैक्रान्तजं रजः । प्रतिवापेन लोहानि द्रावयेत्सलिलोपमम् ॥ ७.१३६ ॥ रत्नानां द्रावणं वक्ष्ये गगनस्य द्रुतिं तथा ॥ ७.१३७ ॥ त्रिफला च त्रिकटुकं त्रिक्षारं पटुपञ्चकम् । बला चातिबला चैव तृतीया च महाबला ॥ ७.१३८ ॥ अश्वगन्धा चवी नारी भूलता मातृवाहकः । गोपेन्द्रमण्डली चैव षड्बिन्दुर्द्विमुखी तथा ॥ ७.१३९ ॥ धीरा सूरणकन्दश्च कञ्चुकी च पुनर्नवा । स्नुह्यर्कोन्मत्तहलिनी पाठा चोत्तरवारुणी ॥ ७.१४० ॥ अयस्कान्तो गोक्षुरश्च मृदुदूर्वाम्लवेतसम् । शिलाजतु च सौवीरं विषगन्धकटङ्कणम् ॥ ७.१४१ ॥ पृथग्दशपलं सर्वं सूक्ष्मचूर्णं तु कारयेत् । कुम्भद्वयं कुलत्थानां काष्ठेन तिनिशस्य च ॥ ७.१४२ ॥ क्वाथयेन्मृदुतापेन यावत्कुम्भावशेषितम् । तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम् ॥ ७.१४३ ॥ रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत्पुनः । अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥ ७.१४४ ॥ अभ्रकादीनि लोहानि द्रवन्ति ह्यविचारतः । निर्मलानि च जायन्ते हरबीजोपमानि च ॥ ७.१४५ ॥ मिलन्ति च रसेनाशु वह्निस्थान्यक्षयाणि च । तैर्द्रुतैः स्पर्शमात्रेण क्षणाद्बध्येत सूतकः ॥ ७.१४६ ॥ लोहानां मारणं वक्ष्ये समाहितमनाः शृणु । स्नुहीक्षीरेण सिन्दूरं कनकं रजतं पुनः ॥ ७.१४७ ॥ तेनैव माक्षिकं ताम्रमजाक्षीरेण गन्धकम् । स्तन्येन हिङ्गुलं तीक्ष्णं वङ्गतालपलाशकम् ॥ ७.१४८ ॥ नागं शिलार्कक्षीरेण स्वच्छपत्त्रीकृतं प्रिये । मारयेत्पुटपाकेन निरुत्थं भस्म जायते ॥ ७.१४९ ॥ न सोऽस्ति लोहमातंगो यं न गन्धककेसरी । निहन्याद्गन्धमात्रेण यद्वा माक्षिककेसरी ॥ ७.१५० ॥ रसीभवन्ति लोहानि मृतानि सुरवन्दिते । हरन्ति रोगान् सकलान् रसयुक्तानि किं पुनः । शीलनान्नाशयन्त्येव वलीपलितरुग्जराः ॥ ७.१५१ ॥ वज्रमाक्षिकतीक्ष्णाभ्रं शस्यते देहकर्मणि । नागं वङ्गं सुवीरं च द्रव्यकर्मणि योजयेत् ॥ ७.१५२ ॥ परिबालं तु यल्लोहं तथा च मलयोद्भवम् । एतल्लोहद्वयं देवि विशेषाद्देहरक्षणम् ॥ ७.१५३ ॥ रागं महारसादीनां ज्ञात्वा बीजानि साधयेत् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥ ७.१५४ ॥ ८ [Bईजसाधन] श्रीदेव्युवाच महारसानां लोहानां रत्नानां च सुरेश्वर । रागसंख्यां तथा बीज- साधनं च वद प्रभो ॥ ८.१ ॥ श्रीभैरव उवाच महारसेषु द्विगुणस्ताम्ररागः सुरेश्वरि । गिरिदोषे क्षयं नीते सूतकं रञ्जयन्ति ते ॥ ८.२ ॥ सस्यकश्चपलश्चैव राजावर्तश्च माक्षिकः । विमलो गैरिकं चैषामेकैकं द्विगुणं भवेत् ॥ ८.३ ॥ भ्रामकादिषु कान्तेष्वप्येकद्वित्रिगुणो हि सः । एकैकमभ्रके चैव श्वेतपीतारुणः सिते ॥ ८.४ ॥ अष्टादशसहस्राणि स्थिता रागाश्च गन्धके । अयुतं दरदे देवि शिलायां द्विसहस्रकम् ॥ ८.५ ॥ रसके सप्तसाहस्रं कङ्कुष्ठे तु चतुष्टयम् । रसगर्भे प्रकाशन्ते जारणं तु भवेद्यदि ॥ ८.६ ॥ द्वादशाग्रं शतं पञ्च नागे रागा व्यवस्थिताः । शतहीनं सहस्रं तु वङ्गे रागा व्यवस्थिताः ॥ ८.७ ॥ रागाणां शतपञ्चाशत्शुल्वमध्ये व्यवस्थिताः । रक्तपीताश्च शुक्लाश्च हेम्नि रागाश्च षोडश ॥ ८.८ ॥ रागाः षष्टिसहस्राणि शक्रनीले व्यवस्थिताः । महानीले च देवेशि ते रागा द्विगुणाः स्थिताः ॥ ८.९ ॥ माणिक्ये तु सुरेशानि रागा लक्षत्रयोदश । गजवारिसमुत्पन्नं रत्नं मुक्ताफलं विदुः ॥ ८.१० ॥ गजे त्रीणि सहस्राणि षट्सहस्राणि वारिजे । नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥ ८.११ ॥ भेदयेत्सर्वलोहानि यच्च केन न भिद्यते । तद्वज्रं तस्य देवेशि रागं लक्षद्वयं विदुः ॥ ८.१२ ॥ षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः । पादोनलक्षरागास्तु प्रोक्ता मरकते प्रिये ॥ ८.१३ ॥ रागसंख्यां न जानाति संक्रान्तस्य रसस्य तु । अधिकं मारयेल्लोहं हीनं चैव प्रकाशयेत् ॥ ८.१४ ॥ मानवेन्द्रः प्रकुर्वीत यो हि जानाति पार्वति । शतकोटिप्रमाणेन रागसंख्यां प्रकल्पयेत् । स्पर्शनं चैवमालोक्य शतकोटिस्तु विध्यते ॥ ८.१५ ॥ अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये । हेमतारवशाद्बीजं द्विविधं तावदीश्वरि ॥ ८.१६ ॥ पीतारुणैर्हेमबीजं तारबीजं सितैर्भवेत् । कल्पितं रञ्जितं पक्वमिति भूयस्त्रिधा भवेत् ॥ ८.१७ ॥ कल्पितं द्विविधं तच्च शुद्धमिश्रविभेदतः ॥ ८.१८ ॥ रसोपरसलोहानां बीजानां कल्पनं पृथक् । शुद्धं मिश्रं तु संयोगात्यथालाभं सुरेश्वरि ॥ ८.१९ ॥ सत्त्वमावर्तितं व्योम्नि शोधितं काचटङ्कणैः । चिञ्चाफलाम्लनिर्गुण्डी- पत्त्रकल्कनिषेचनैः । पक्वं निविडितं देवि रसपिष्टिक्षमं भवेत् ॥ ८.२० ॥ स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयात् । मृताहे धूपनायन्त्रे धूपगन्धानुलेपनात् । वङ्गस्यापि विधानेन तालकस्य हतस्य वा ॥ ८.२१ ॥ ताप्यहिङ्गुलयोर्वापि हते च रसकस्य वा । रसगर्भे द्रवेत्कृष्णं पत्त्रं कनकतारयोः ॥ ८.२२ ॥ संकराख्यं तु दुर्मेल्यं प्रिये मृदुखराह्वयम् । ततः संमृदितं देवि द्वंद्वमेलापनं द्रुतम् । भवेत्समरसं गर्भे रसराजस्य च द्रवेत् ॥ ८.२३ ॥ अतः परं प्रवक्ष्यामि द्वंद्वमेलापनं शृणु ॥ ८.२४ ॥ वर्षाभूकदलीकन्द- काकमाचीपुनर्नवाः । चूर्णं नरकपालं च गुञ्जाटङ्कणसंयुतम् । क्षीरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ ८.२५ ॥ अनेनैव विधानेन ताराभ्रमपि मेलयेत् ॥ ८.२६ ॥ वङ्गमावर्त्य देवेशि पुनः सूतकयोजितम् । कदलीकन्दतोयेन मर्दयेट्टङ्कणान्वितम् । अन्धमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ८.२७ ॥ चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् । गुञ्जाटङ्कणसंयुक्तं वङ्गाभ्रं मिलति क्षणात् ॥ ८.२८ ॥ अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् । कपित्थतोयसंस्पृष्टं रसटङ्कणसंयुतम् । वङ्गपत्त्रान्तरन्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ॥ ८.२९ ॥ आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् । वङ्गाभ्रं हरितालं च नागाभ्रे तु मनःशिलाः ॥ ८.३० ॥ हेमाभ्रं नागताप्येन ताराभ्रं वङ्गतालकात् । गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् । वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ॥ ८.३१ ॥ लाङ्गली चामरीकेशं कार्पासास्थिकुलत्थकम् । भूलता चाश्मदलनी स्त्रीस्तन्यं सुरगोपकः ॥ ८.३२ ॥ एतत्प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना । कान्ताभ्रशैलविमला मिलन्ति सकलान् क्षणात् ॥ ८.३३ ॥ लताछुछुन्दरीमांसं विषटङ्कणयोजितम् । मूषालेपेन कुरुते सर्वद्वंद्वेषु मेलनम् ॥ ८.३४ ॥ अभ्रकं सुरसा शृङ्गं मण्डूकस्य वसा विषम् । गुञ्जाटङ्कणयोगेन सर्वसत्त्वेषु मेलनम् ॥ ८.३५ ॥ टङ्कणोर्णागिरिजतु- कर्णाख्यामलकर्कटैः । मिलन्ति सर्वद्वंद्वानि स्त्रीस्तन्यपरिपेषितैः ॥ ८.३६ ॥ धातकीगुग्गुलुगुड- सर्जयावकटङ्कणैः । स्त्रीस्तन्यपेषितैः सर्वं द्वंद्वजं तु रसायने ॥ ८.३७ ॥ खसत्त्वं सूक्ष्मचूर्णं तु पूर्वकल्केन संयुतम् । अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ॥ ८.३८ ॥ वापितं ताप्यरसक- सस्यकैर्दरदेन च । खसत्त्वं स्यान्निबद्धं च दृढं ध्मातं मिलेत्ततः ॥ ८.३९ ॥ रसोपरसलोहानि सर्वाण्येकत्र धामयेत् । अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ॥ ८.४० ॥ बीजानि कल्पितान्येवं रञ्जितानि परं शृणु ॥ ८.४१ ॥ घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम् । द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥ ८.४२ ॥ आरक्तवल्लीगोमूत्रः बहुधा परिभावितैः । कुनटीगन्धपाषाणैर्हेममाक्षिकहिङ्गुलैः ॥ ८.४३ ॥ वापितं सेवितं रक्त- गणैः स्नेहैर्मृतं ततः । रञ्जनं रसराजस्य तीक्ष्णताम्रौ विशेषतः ॥ ८.४४ ॥ केवलं विमलं ताम्रं वापितं दरदेन च । कुरुते त्रिगुणं जीर्णं लाक्षाभं निर्मलं रसम् ॥ ८.४५ ॥ रसकं द्विगुणं दत्त्वा ताम्रं सुध्मातमीश्वरि । कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर्मुहुः पुटैः ॥ ८.४६ ॥ ताप्येन वा मृतं हेम त्रिगुणेन निवापितम् । भाण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥ ८.४७ ॥ इन्द्रगोपनिभं यावत्सर्वं द्विगुणजारणात् । द्रुतं हेमनिभं सूतं कुरुते नात्र संशयः ॥ ८.४८ ॥ अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च । गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ ८.४९ ॥ बीजानि रञ्जितान्येवं पक्वबीजान्यतः शृणु ॥ ८.५० ॥ महारसानुपरसान् तीक्ष्णलोहानि च क्षिपेत् । समांशं सममाक्षीकं गन्धकावापयोगतः ॥ ८.५१ ॥ शतशो वापयेदेततक्षीणं सावशेषितम् । समांशं रसराजस्य गर्भे द्रवति निश्चितम् ॥ ८.५२ ॥ तदेतद्विष्टिकास्तम्भे जारणायां सुरेश्वरि । रञ्जने रसराजस्य सारणायां च शस्यते ॥ ८.५३ ॥ तदेव शतशो रक्त- गणैः स्नेहैर्निषेचितम् । अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् ॥ ८.५४ ॥ निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः । खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने ॥ ८.५५ ॥ सस्नेहक्षारपञ्चाम्लैः रसैस्तैस्तालकादिभिः । समद्वित्रिगुणान् ताम्रे वाहयेद्वङ्गपन्नगान् ॥ ८.५६ ॥ रक्तस्नेहनिषिक्तं तद्रसाकृष्टिरिति स्मृतम् ॥ ८.५७ ॥ माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् । वैक्रान्तकं कान्तमुख्यं सस्यकं विमलाञ्जनम् । रसकं वापितं शश्वच्- चूर्णितं हेम्नि वाहयेत् ॥ ८.५८ ॥ लोहपर्पटिकाताप्य- कङ्कुष्ठविमलाभ्रकैः । मृतशुल्वशिलासत्त्व- स्नुह्यर्कक्षीरहिङ्गुलैः । नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥ ८.५९ ॥ रसतालकशङ्खाभ्र- चिञ्चाक्षारैस्तथा त्रपुः । मृतं नागं मृतं वङ्गं शुल्वं तीक्ष्णं च वा मृतम् । एकैकमुत्तमे हेम्नि वाहयेत्सुरवन्दिते ॥ ८.६० ॥ निरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गणे । गोरोचनानिभं धाम भास्करे तारसंनिभम् ॥ ८.६१ ॥ तीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा । आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः ॥ ८.६२ ॥ व्यूढे शतगुणे हेम्नि तद्बीजं जारयेत्समम् । चन्द्रार्कपत्त्रलेपेन शतभागेन वेधयेत् ॥ ८.६३ ॥ ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्वं हेमसमं भवेत् । एवं दशगुणं व्यूढं बीजं कारणसंनिभम् ॥ ८.६४ ॥ रसकाभ्रं कान्तताम्रे भागवृद्ध्या धमेत्ततः । माक्षिकेण हतं तच्च बीजे निर्वाहयेत्प्रिये ॥ ८.६५ ॥ द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यं हतं वहेत् । त्रिंशद्गुणशिलावापं नागबीजमुदाहृतम् ॥ ८.६६ ॥ ताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु । बीजे निर्वाहयेदेतत्योषामृष्टस्य वेधकम् ॥ ८.६७ ॥ नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् । वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् ॥ ८.६८ ॥ हेमबीजमिति प्रोक्तं तारबीजमतः शृणु ॥ ८.६९ ॥ तीक्ष्णाभ्रताप्यविमल- रसकं समभागिकम् । वङ्गभागास्तु चत्वारः सर्वं ध्मातं विचूर्णितम् ॥ ८.७० ॥ पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत् । द्वात्रिंशत्सद्गुणं तारे वङ्गे ताप्यं हतं वहेत् । त्रिंशद्गुणात्तालवापात्वङ्गबीजमुदाहृतम् ॥ ८.७१ ॥ कुटिलं विमलं तीक्ष्णं खसत्त्वं चापि वाहयेत् । वङ्गाभ्रं ताप्यसत्त्वं वा तालमाक्षिकवापतः । शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥ ८.७२ ॥ उक्तानि तारबीजानि बीजानां रञ्जनं शृणु ॥ ८.७३ ॥ तीक्ष्णमाक्षिकशुल्वं च नागं चपलमारितम् । सिन्दूरसंनिभं यावत्तेन बीजानि रञ्जयेत् ॥ ८.७४ ॥ निधाय खर्परे नागं ब्रह्मबीजदलैः सह । दग्धमग्निमधो दत्त्वा वह्निवर्णं यदा भवेत् ॥ ८.७५ ॥ वासकेन विभीतेन शाककिंशुकशिग्रुभिः । कोरण्डकस्य पुष्पेण बकुलस्यार्जुनस्य च ॥ ८.७६ ॥ अहिमारेण नागिन्या कुमार्या नागकन्यया । शिलया च त्रिगुणया क्वथितेनाजवारिणा ॥ ८.७७ ॥ भावितं खर्परस्थं च प्लावयित्वा पुनः पुनः । सप्तभिर्दिवसैरेव मारितं सुरवन्दिते ॥ ८.७८ ॥ पुटयेद्गन्धकेनादावाम्लैश्च तदनन्तरम् । इदं दलानां बीजानां रसराजस्य रञ्जने । उद्घाटे क्रामणे योज्यं पिष्टीस्तम्भे विशेषतः ॥ ८.७९ ॥ मञ्जिष्ठाकिंशुकरसे खदिरं रक्तचन्दनम् । करवीरं देवदारुं सरलं रजनीद्वयम् ॥ ८.८० ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तैलं विपाचयेद्देवि तेन बीजानि रञ्जयेत् ॥ ८.८१ ॥ द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च । क्वाथे चतुर्गुणे क्षीरे तैलमेकं सुरेश्वरि ॥ ८.८२ ॥ ज्योतिष्मतीकरञ्जाख्य- कटुतुम्बीसमुद्भवम् । पाटलीपिप्पलीकाम- काकतुण्डीरसान्वितम् ॥ ८.८३ ॥ भेकशूकरमेषाहि- मत्स्यकूर्मजलौकसाम् । वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ ८.८४ ॥ भूलतामलमाक्षीक- द्वंद्वमेलापनौषधैः । पाचितं गालितं चैतत्सारणा तैलमुच्यते ॥ ८.८५ ॥ रसतुल्यं यथा बीजं गतं गर्भद्रुतिं प्रिये । व्यापकत्वेन सर्वे च समभागास्तथेष्यते ॥ ८.८६ ॥ पक्वं श्रेष्ठं समं गर्भे यद्द्रवेद्रञ्जयेच्च तम् ॥ ८.८७ ॥ एवमुक्तानि बीजानि जारयेद्विडयोगतः । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ८.८८ ॥ ९ [Vइडकथन] श्रीदेव्युवाच बीजानां कलनं प्रोक्तं विशेषेण च साधनम् । जार्यन्ते तानि यैः सूते तान् विडान् वक्तुमर्हसि ॥ ९.१ ॥ श्रीभैरव उवाच कासीसं सैन्धवं काङ्क्षी सौवीरं व्योषगन्धकम् । सौवर्चलं सर्जिका च मालतीनीरसम्भवम् । शिग्रुमूलरसैः सिक्तो विडोऽयं सर्वजारणः ॥ ९.२ ॥ निर्दग्धं शङ्खचूर्णं तु रविक्षीरशतप्लुतम् । पुटितं बहुशो देवि प्रशस्तो जारणाविडः ॥ ९.३ ॥ शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ॥ ९.४ ॥ निर्दग्धं शङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् । शतशो विषसिन्धूत्थ- संयुतं वडवामुखम् ॥ ९.५ ॥ टङ्कणं शतशो देवि भावयेत्किंशुकद्रवैः । विडो वह्निमुखाख्योऽयं लोहानां जारणे प्रिये ॥ ९.६ ॥ चूलिका गन्धपाषाणः कान्तस्य च मुखं प्रिये । एकैकमेव पर्याप्तं लौहचूर्णस्य जारणे ॥ ९.७ ॥ गन्धतालकसिन्धूत्थं चूलीटङ्कणभूखगम् । क्षारैर्मूत्रैश्च विपचेदयं ज्वालामुखो विडः ॥ ९.८ ॥ एकविंशतिपर्यायं देवदालीदलद्रवैः । भावितो निचुलक्षारः सर्वसत्त्वानि जारयेत् ॥ ९.९ ॥ वास्तुकैरण्डकदली- देवदालीपुनर्नवम् । वासा पलाशनिचुलं तिलकाञ्चनमाक्षिकम् ॥ ९.१० ॥ सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले । दग्धकाण्डैस्तिलानां तु पञ्चाङ्गं मूलकस्य च ॥ ९.११ ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् । लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित् ॥ ९.१२ ॥ बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा । तदा कासीससौराष्ट्री- क्षारत्रयकटुत्रयम् ॥ ९.१३ ॥ गन्धकं च सितं हिङ्गु- लवणानि च षट्तथा । एषां चूर्णं क्षिपेदेष लोहसम्पुटमध्यगः । सप्ताहं भूगतः पश्चाद्धान्यस्थः प्रवरो विडः ॥ ९.१४ ॥ जम्बीराम्लेन पचनं शिग्रुमूलद्रवेण च । चूलिकागन्धकासिक्तौ द्वौ विडौ शतशः क्रमात् ॥ ९.१५ ॥ कोषातकीदलरसैः क्षारैर्वा निचुलोद्भवैः । देवदालीशिवाबीजं गुञ्जासैन्धवटङ्कणम् । भावयेदम्लवर्गेण विडोऽयं हेमजारणः ॥ ९.१६ ॥ मूलकार्द्रकचित्राणां क्षारैर्गोमूत्रगालितैः । गन्धकः शतशो भाव्यो विडोऽयं हेमजारणे ॥ ९.१७ ॥ हरितालशिलाक्षारो लवणं शङ्खशुक्तिका । हंसपाकविपक्वोऽयं विडः स्याद्धेमजारणे ॥ ९.१८ ॥ एवं संगृह्य सम्भारान् रसकर्म समाचरेत् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ९.१९ ॥ १० [ऋअसशोधन] श्रीदेव्युवाच रसस्य लक्षणं किंवा रसकर्म च कीदृशम् । तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १०.१ ॥ श्रीभैरव उवाच प्रागेवोक्ता रसोत्पत्तिस्तल्लक्षणमतः शृणु ॥ १०.२ ॥ तस्य नामसहस्राणि अयुतान्यर्बुदानि च । शक्यते न मया वक्तुं संक्षेपात्कथ्यते शृणु ॥ १०.३ ॥ रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः ॥ १०.४ ॥ रसं सिद्धरसं विद्यात्सिद्धक्षेत्रसमाश्रयम् । नाशयेत्सकलान् रोगान् वलीपलितमेव सः ॥ १०.५ ॥ देहलोहकरं शुद्धं रसेन्द्रमधुना शृणु । शरीरे हेम्नि कर्ता च जारणे सारणासु च ॥ १०.६ ॥ ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः ॥ १०.७ ॥ यो बाह्याभ्यन्तरे श्वेतो बहुलं कञ्चुकावृतः । तं विद्यात्पारदं देवि तारकर्मणि योजयेत् ॥ १०.८:१ ॥ यथा काञ्जिकसंस्पर्शात्क्षीरभाण्डं विनश्यति । तथा हेम शरीरं च पारदेन विनश्यति ॥ १०.८:२ ॥ मयूरपत्त्रिकाभासं मिश्रकं च विदुर्बुधाः । धूम्रवर्णं रसं दृष्ट्वा विशेषेणोपलभ्यते । मिश्रकं तु विजानीयादुद्वाहकर्मकारकम् ॥ १०.९ ॥ एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥ १०.१० ॥ स्वेदनं मर्दनं चैव चारणं जारणं तथा । द्रावणं रञ्जनं चैव सारणं क्रामणं क्रमात् । इति यो वेत्ति तत्त्वेन तस्य सिध्यति सूतकः ॥ १०.११ ॥ तीव्रत्वं जायते स्वेदातमलत्वं च मर्दनात् । चारणेन बलं कुर्यात्जारणाद्बन्धनं भवेत् ॥ १०.१२ ॥ एकत्वं द्रावणात्तस्य रक्तत्वं रक्तकाञ्जनात् । व्यापित्वं सारणात्तस्य क्रामित्वं क्रामणात्तथा ॥ १०.१३ ॥ मलगो मलरूपेण त्वरितो हंसगो भवेत् । मलगो मलरूपेण सधूमो धूमगो भवेत् ॥ १०.१४ ॥ अन्या जीवगतिर्देवि जीवोऽण्डादिव निष्क्रमेत् । स तावज्जीवयेज्जीवं तेन जीवो रसः स्मृतः ॥ १०.१५ ॥ चतुष्टयी गतिस्तस्य निपुणेन तु लभ्यते । चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ॥ १०.१६ ॥ मन्त्रध्यानादिना तस्य क्षीयते पञ्चमी गतिः ॥ १०.१७ ॥ धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च । अकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥ १०.१८ ॥ मथ्यमानस्य कल्केन सम्भवेद्धि गतित्रयम् । जले गतिर्मलगतिः पुनर्हंसगतिस्ततः ॥ १०.१९ ॥ हेम दत्त्वा ततः शुद्धं तत्तु स्तम्भेन्नियामके । नियामकगणौषध्या रसं दत्त्वा विपाचयेत् ॥ १०.२० ॥ नियमितो न प्रयाति तथा धूमगतिं शिवे ॥ १०.२१ ॥ कणिकाचालरहितो बुद्बुदैश्चापवर्जितः । नियमितो भवत्येष चुल्लिकाग्निसहस्तथा ॥ १०.२२ ॥ अनियम्य यदा सूतं जारयेत्काञ्जिकाशये । जायते निश्चितं भद्रे तदा तस्य गतित्रयम् ॥ १०.२३ ॥ दोलास्वेदेन चावश्यं स्वेदितो हि दिनत्रयम् । वसुभण्टादिभिर्देवि रसराजो न हीयते ॥ १०.२४ ॥ अक्षीणं तु रसं दृष्ट्वा दद्याद्व्योमादिकं ततः । स्वेदनं च ततः कर्म दीयमानस्य मर्दनम् ॥ १०.२५ ॥ रसालिङ्गित आहारः पिष्टिकेत्यभिधीयते । तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥ १०.२६ ॥ जारणा तत्समाख्याता तदेवं चोपलभ्यते । जीर्णान्ते रञ्जनं कार्यं रक्तवर्गगणेन च ॥ १०.२७ ॥ जीर्णं जीर्णं तु संरक्तं समहेम्ना तु सारयेत् । सारणायन्त्रयोगेन बध्यते सारितो रसः ॥ १०.२८ ॥ सारितः सारितश्चैव यथा भवति सूतकः । क्रामणेन समायुक्तं तं च वेधे नियोजयेत् ॥ १०.२९ ॥ आरोटः पारदो ब्रह्मा मूर्छितस्तु जनार्दनः । बद्धस्तु रुद्ररूपः स्यात्कर्मयोगबलाद्रसः ॥ १०.३० ॥ शृणु देवि प्रवक्ष्यामि कर्मयोगस्य विस्तरम् ॥ १०.३१ ॥ पारदस्य त्रयो दोषा विषं वह्निर्मलस्तथा । विषेण सविषं विद्यात्वह्नौ कुष्ठी भवेन्नरः । मलेनोदररोगी स्यात्म्रियते च रसायने ॥ १०.३२ ॥ षट्त्रुट्यश्चैकलिक्षा स्यात्षड्लिक्षा यूक एव च । षड्यूकास्तु रजःसंज्ञाः कथितास्तव सुव्रते ॥ १०.३३ ॥ षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः । षट्सिद्धार्थाश्च देवेशि यवस्त्वेकः प्रकीर्तितः ॥ १०.३४ ॥ षड्यवैरेकगुञ्जा स्यात्षड्गुञ्जाश्चैकमाषकः । माषा द्वादश तोलः स्यातष्टौ तोलाः पलं भवेत् ॥ १०.३५ ॥ द्वात्रिंशत्पलकं देवि शुभं तु परिकीर्तितम् । शुभस्य तु सहस्रे द्वे भार एकः प्रकीर्तितः ॥ १०.३६ ॥ द्वे सहस्रे पलानां तु सहस्रं शतमेव वा । अष्टाविंशत्पलानां तु दश पञ्चकमेव वा ॥ १०.३७ ॥ पलार्धेनैव संस्कारः कर्तव्यः सूतकस्य तु ॥ १०.३८ ॥ महाबला नागबला मेघनादा पुनर्नवा । मेषशृङ्गी च तत्सारैः नवसारसमन्वितम् । पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥ १०.३९ ॥ गिरिकर्णी च मीनाक्षी सहदेवी पुनर्नवा । उरगा त्रिफला कान्ता लघुपर्णी शतावरी ॥ १०.४० ॥ तुषवर्जे तु धान्याम्ले सर्वं संक्षुभ्य निक्षिपेत् । एकादशगुणेऽम्लेऽस्मिन् षोडशांशैर्विमर्दितम् ॥ १०.४१ ॥ आसुरीलवणव्योष- चित्रकार्द्रकमूलकैः । दोलायां स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥ १०.४२ ॥ अङ्कोलस्तु विषं हन्ति वह्निमारग्वधः प्रिये । चित्रकस्तु मलं हन्यात्कुमारी सप्तकञ्चुकम् ॥ १०.४३ ॥ तस्मादेभिः समोपेतैर्मर्दयेत्पातयेद्बुधः ॥ १०.४४ ॥ विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम् । ततस्त्रिगुणवस्त्रस्थं तं रसं देवि गालितम् ॥ १०.४५ ॥ त्रिफलावह्निमूलत्वात्गृहकन्यारसान्वितम् । निरुद्गारे तु पाषाणे मर्दयेत्पातयेत्पुनः ॥ १०.४६ ॥ धूमसारगुडव्योष- रजनीसितसर्षपैः । इष्टिकाकाञ्जिकोर्णाभिः त्रिदिनं मर्दयेत्ततः ॥ १०.४७ ॥ निर्मलो जायते सूतः मत्प्रभावं प्रकाशयेत् ॥ १०.४८ ॥ वासकेन विभीतेन मर्दयेत्पातयेत्पुनः । नागवङ्गादिका दोषा यान्ति नाशमुपाधिजाः ॥ १०.४९ ॥ सप्तवारं काकमाच्या गतदोषं विमर्दयेत् । पातयेत्सप्तवारं च गिरिदोषं त्यजेद्रसः ॥ १०.५० ॥ क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्छितः ॥ १०.५१ ॥ कार्पासपत्त्रनिर्यासे स्विन्नस्त्रिकटुकान्विते । सप्तकञ्चुकनिर्मुक्तः सप्ताहाज्जायते रसः ॥ १०.५२ ॥ काकमाची जया ब्राह्मी गाङ्गेरी रक्तचित्रकः । मण्डूकी मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः ॥ १०.५३ ॥ देवदाली शङ्खपुष्पी काकजङ्घा शतावरी । कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ॥ १०.५४ ॥ शूलिनी शूर्पपर्णी च गोजिह्वा क्षीरकञ्चुकः । तद्रसैर्मर्दितः पात्यः सप्तधा निर्मलो भवेत् ॥ १०.५५ ॥ ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वपातने । वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ १०.५६ ॥ मर्दितस्त्रिफलाशिग्रु- राजिकापटुचित्रकैः । ऊर्ध्वभाण्डगतः पाच्यः प्रदीप्तैरुपलैरधः ॥ १०.५७ ॥ सृष्ट्यम्बुजनिरोधेन लब्धप्रायो भवेद्रसः । कर्कोटीकञ्चुकीबिम्बी- सर्पाक्ष्यम्बुजसंयुतम् ॥ १०.५८ ॥ रसं नियामके दद्यात्तेजस्वी निर्मलो भवेत् । एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ १०.५९ ॥ क्षुद्राम्ललवणक्षार- भूखगोषणशिग्रुभिः । राजिकाटङ्कणयुतैरारनाले दिनत्रयम् । स्वेदनाद्दीपितो देवि ग्रासार्थी जायते रसः ॥ १०.६० ॥ व्योमसत्त्वादिबीजानि रसजारणशोधने । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १०.६१ ॥ ११ [Bआलजारण] श्रीदेव्युवाच लक्षणं शोधनं चैव पारदस्य श्रुतं मया । चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ ११.१ ॥ श्रीभैरव उवाच सर्वपापक्षये जाते प्राप्यते रसजारणा । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिकारणम् ॥ ११.२ ॥ मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु । यावन्न जार्यते सूतः तावत्तु न च निर्वृतिः ॥ ११.३ ॥ खल्लस्तु पीठिका देवि रसेन्द्रो लिङ्गमुच्यते । मर्दनं वन्दनं तस्य ग्रासः पूजा विधीयते ॥ ११.४ ॥ यावद्दिनानि वह्निस्थो जार्यते धार्यते रसः । तावद्युगसहस्राणि शिवलोके महीयते ॥ ११.५ ॥ दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् । द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११.६ ॥ जारणा द्विविधा बाल- जारणा बद्धजारणा । तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥ ११.७ ॥ गगनं जारयेदादौ सर्वसत्त्वमतः परम् । ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥ ११.८ ॥ गर्भस्थं द्रावयित्वा तु ततो बाह्यद्रुतिं द्रवेत् । सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥ ११.९ ॥ सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥ ११.१० ॥ ओं नमोऽमृतलोहाय परामृतरसोद्भवाय हुं स्वाहा ॥ ११.११ ॥ सर्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया । जारणं कर्तुमिच्छामि ग्रासं गृह्ण मम प्रभो ॥ ११.१२ ॥ कुरुष्वेति शिवेनोक्तं ग्राह्यमेव सुबुद्धिना ॥ ११.१३ ॥ शृणु देवि प्रवक्ष्यामि व्योमजारणमुत्तमम् । पत्त्राभ्रजारणं सत्त्व- जारणं चेति तद्द्विधा ॥ ११.१४ ॥ निर्मुखं समुखं चैव वासनामुखमेव च । एकैकं त्रिविधं तच्च तद्वक्ष्याम्यानुपूर्वशः ॥ ११.१५ ॥ वैक्रान्तवज्रसंस्पर्शाद्दिव्यौषधिबलेन वा । निर्मुखो भक्षयेद्देवि क्षणेन गगनं रसः ॥ ११.१६ ॥ हेमकर्मणि हेमैव तारे तारो मुखं भवेत् ॥ ११.१७ ॥ तप्तखल्लकृता पिष्टिः श्लक्ष्णमल्पाल्पमभ्रकम् । अम्लवेतसजम्बीर- बीजपूराम्लभूखगैः । मर्दितं चरते देवि सेयं समुखजारणा ॥ ११.१८ ॥ क्षारत्रयं पञ्चपटु काक्षीकासीसगन्धकम् । माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत् ॥ ११.१९ ॥ एतच्चाभिषवाद्दिव्यं कारयित्वा विचक्षणः । जारणार्थं च बीजानां वज्राणां च विशेषतः ॥ ११.२० ॥ तस्मिन्नावर्तितं नागं वङ्गं वा सुरवन्दिते । निषेचयेच्छतं वारं न रसायनकर्मणि ॥ ११.२१ ॥ अनेन सकलं देवि चारणावस्तु भावयेत् । क्षाराम्ले भावितं व्योम रजसा प्रथमेन च ॥ ११.२२ ॥ सृष्टित्रयोदककणा- तुम्बुरुद्रवमर्दितम् । चरेज्जरेद्वा पुटितं यवचिञ्चारसेन च ॥ ११.२३ ॥ शतावरी गदा रम्भा मेघनादा पुनर्नवा । शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥ ११.२४ ॥ मूलं हिलमुचायास्तु कौवेरीमूलमेव च । कदलीमुसलीशिग्रु- ताम्बूलीवाणपीलुकम् ॥ ११.२५ ॥ अलम्बुषा बला कोलमास्फोटः खरमञ्जरी । तुम्बुरुस्तिक्तशाकं वाप्येषामेकरसेन तु । राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥ ११.२६ ॥ कासीसतुवरीसिन्धु- टङ्कणक्षारसंयुतः । पूर्वाभिषवयोगेन सूतकश्चरति क्षणात् ॥ ११.२७ ॥ गोलको भवति क्षिप्रं सर्वसिद्धिप्रदायकः ॥ ११.२८ ॥ गृहीत्वा देवि धान्याम्लमम्लवर्गेण संयुतम् । क्वाथयित्वाभ्रकं तत्तु स्नुहीक्षीरेण मर्दयेत् ॥ ११.२९ ॥ आरण्यगोमयेनैव कपोताख्यं पुटं ततः ॥ ११.३० ॥ कदलीकन्दनिर्यासैर्मूलकन्दरसेन च । काकमाची च मीनाक्षी अपामार्गो मुनिस्तथा ॥ ११.३१ ॥ एरण्डमार्द्रकं चैव मेघनादा पुनर्नवा । एकैकस्य द्रवैरेव पुटैकैकं प्रदापयेत् ॥ ११.३२ ॥ वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण पाचयेत् । छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम् ॥ ११.३३ ॥ नवसारं च कासीसं वचां निम्बं तथैव च । अभ्रस्य षोडशांशेन एकैकं तत्र निक्षिपेत् ॥ ११.३४ ॥ निधाय ताम्रपात्रे तु घर्षयेत्तच्च सुव्रते । नववारं ततो देवि लोहपात्रे तु जारयेत् ॥ ११.३५ ॥ रसेन सह देवेशि चणकाम्लेन काञ्जिकम् । मृद्वग्निना तु निष्क्वाथ्यं प्रहरार्धेन जायेत ॥ ११.३६ ॥ सोमवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् । शनैः शनैर्हंसपाद्या दापयेच्च पुटत्रयम् ॥ ११.३७ ॥ सोमवल्लीरसेनैव सप्तवारं च दापयेत् । पातयेन्मृन्मये भाण्डे रसेन सह संयुतम् ॥ ११.३८ ॥ मूलं सितेषुपुङ्खाया गव्यक्षीरेण घर्षयेत् । कल्केन लेपयेत्सूतं गगनं च तदूर्ध्वगम् ॥ ११.३९ ॥ तापयेद्रवितापेन निर्मुखं ग्रसते क्षणम् । जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ११.४० ॥ तिलपर्णीरसेनैव गगनं भावयेत्प्रिये । मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥ ११.४१ ॥ मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत् । तेनाभ्रकं तु संप्लाव्य भूयोभूयः पुटे दहेत् ॥ ११.४२ ॥ चित्रकार्द्रकमूलानामेकैकेन तु सप्तधा । प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ११.४३ ॥ नागशुण्डीरसस्तन्य- रजोलुङ्गाम्लभावितम् । षोडशांशेन तद्वत्तं दोलायां तु चरेद्रसः ॥ ११.४४ ॥ चतुःषष्टिगुणं देवि द्वात्रिंशद्गुणमेव वा । अथवा षोडशगुणं तथाष्टगुणमेव वा । चतुर्गुणं वा द्विगुणं समं वा चारयेत्प्रिये ॥ ११.४५ ॥ परमभ्रकसत्त्वस्य जारणं शृणु पार्वति ॥ ११.४६ ॥ व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् । स खल्वेवं चरेद्देवि गर्भद्रावी भवेद्रसः ॥ ११.४७ ॥ नागाभ्रं देवि वङ्गाभ्रं तीक्ष्णाभ्रं भास्कराभ्रकम् । ताराभ्रं देवि हेमाभ्रं रसगर्भेण जारयेत् ॥ ११.४८ ॥ पूर्वाभिषेकयोगेन गर्भे द्रवति मर्दनात् ॥ ११.४९ ॥ चतुःषष्ट्यंशकः पूर्वः द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ ११.५० ॥ पञ्चमस्तु चतुर्थांशः षष्ठो द्व्यंशः प्रकीर्तितः । ग्रासो रसस्य दातव्यः ससत्त्वस्याभ्रकस्य च ॥ ११.५१ ॥ चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः । जलौकावद्द्वितीये च ग्रासयोगे सुरेश्वरि ॥ ११.५२ ॥ ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ ११.५३ ॥ पञ्चमे चरिते ग्रासे नवनीतसमो भवेत् । षष्ठे तु गोलकाकारः क्रमाज्जीर्णस्य लक्षणम् ॥ ११.५४ ॥ काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम् । खल्लान्तश्चारयेत्तच्च शुल्ववासनया सह ॥ ११.५५ ॥ हेम तारं च संघृष्य खल्ले तत्र रसं न्यसेत् । काञ्जीसहितकासीसं सिन्धुना चरते रसः ॥ ११.५६ ॥ हेम सीसं तु संघृष्य रसं तत्र प्रदापयेत् । नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् । अभ्रकोपरसान् क्षिप्रं मुखेनैव चरत्ययम् ॥ ११.५७ ॥ तारं वङ्गं च संघृष्य रसं तत्र प्रदापयेत् । नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् । मुखेन चरते व्योम तारकर्मणि शस्यते ॥ ११.५८ ॥ समुखं निर्मुखं वापि यत्नतश्चारयेन्नभः ॥ ११.५९ ॥ चारणां त्रिविधामेवं कृत्वा गर्भद्रुतिं रसे । जारयेत्स्वेदयेत्पिण्डं परिणामक्रमैस्त्रिभिः ॥ ११.६० ॥ पट्वम्लक्षारगोमूत्र- स्नुहीक्षीरैः प्रलेपितम् । बहिश्च बद्धं वस्त्रेण भूयो ग्रासं निवेदितम् । क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥ ११.६१ ॥ क्रमेणानेन देवेशि जार्यते दिवसैस्त्रिभिः । यन्त्रादुद्धृतमात्रं तु लोहपात्रे स्थितं रसम् ॥ ११.६२ ॥ कोष्णेन काञ्जिकेनादौ क्षालितं वस्त्रगालितम् । पात्रे सुखोष्णहस्तेन यावत्शेषं विमर्दयेत् ॥ ११.६३ ॥ चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥ ११.६४ ॥ गालनक्रियया ग्रासे सति निष्पेषनिर्गते । स भवेद्दण्डधारी च जीर्णग्रासस्तथा रसः ॥ ११.६५ ॥ अजीर्णे पाचयेत्पिष्टीं स्वेदयेन्मर्दयेत्तथा । वेतसाम्लप्रयोगेण जीर्णे ग्रासं तु दापयेत् ॥ ११.६६ ॥ इष्टिकागुडदग्धोर्णा- राजीसैन्धवधूमजैः । षोडशांशैः स धान्याम्लैः मर्द्यः स्वेद्यश्च पारदः ॥ ११.६७ ॥ निर्मलीकरणार्थं तु ग्रासे ग्रासे पुनः पुनः । जीर्णाभ्रो जीर्णबीजोऽपि रागान् गृह्णाति निर्मलः ॥ ११.६८ ॥ क्रमेणानेन दोलायां चार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वालनं बन्धनं क्रमात् ॥ ११.६९ ॥ ऊर्ध्वाधश्चाष्टमांशेन विडं दत्त्वापि जारयेत् । समजीर्णाभ्रकः सूतः शतवेधी भवेत्प्रिये ॥ ११.७० ॥ सहस्रवेधी द्विगुणे त्रिगुणेऽयुतवेधकः । चतुर्गुणे लक्षवेधी स भवेद्भूचरो रसः ॥ ११.७१ ॥ जीर्णे पञ्चगुणे देवि ब्रह्मायुर्जायते रसः । आयुस्तु षड्गुणे विष्णोः कोटिवेधी भवेद्रसः ॥ ११.७२ ॥ रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेन तु । जीर्णेन नाशमायान्ति नात्र कार्या विचारणा ॥ ११.७३ ॥ रसराजे यदा जीर्णं षड्गुणं गगनं प्रिये । तदा ग्रसति लोहानि त्यजेच्च गतिमात्मनः ॥ ११.७४ ॥ धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च । सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥ ११.७५ ॥ कपिलोऽथ निरुद्गारि- विप्लुषश्चैव मुञ्चति । अग्नौ तिष्ठति निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥ ११.७६ ॥ समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणम् । वृद्धस्तु षड्गुणं जीर्णः कुर्यात्कर्म पृथक्पृथक् ॥ ११.७७ ॥ बालस्तु पत्त्रलेपेन कल्कयोगेन यौवनः । वृद्धो विध्यति लोहानि जारितः सारितोऽथवा ॥ ११.७८ ॥ कुमारस्तु रसो देवि न समर्थो रसायने । यौवनस्थो रसो देवि क्षमो देहस्य रक्षणे ॥ ११.७९ ॥ जरावस्थो रसो यश्च देहे लोहेन संक्रमेत् । अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ॥ ११.८० ॥ कान्तस्य चाप्यभावे तु तीक्ष्णलोहं तु दापयेत् । अनेन क्रमयोगेन सर्वसत्त्वानि जारयेत् ॥ ११.८१ ॥ एकोऽपि हेमसंयुक्तश्चामीकरकरः क्षणात् । गन्धकात्परतो नास्ति रसेषूपरसेषु वा ॥ ११.८२ ॥ पूर्वोक्तयन्त्रयोगेन द्विरष्टगुणगन्धकम् । अथवा द्वादशगुणं षड्गुणं वापि जारयेत् ॥ ११.८३ ॥ माक्षिकं सत्त्वमादाय पादांशेन तु जारयेत् । ततोऽपि सर्वसत्त्वानि द्रावयेत्सूतगर्भतः ॥ ११.८४ ॥ हेमपावकयोः सख्यं तथा काञ्चनसूतयोः । वह्निसूतकयोर्वैरं तयोर्मित्रेण मित्रता ॥ ११.८५ ॥ अग्निको यवचिञ्चा च वसुहट्टश्च रागिणी । दोलास्वेदेन तत्पक्वं हेमजारणमुत्तमम् ॥ ११.८६ ॥ पलाशभस्मापामार्गो यवक्षारश्च काञ्जिकम् । सौवर्चलं च कासीसं सामुद्रं सैन्धवं तथा ॥ ११.८७ ॥ आसुरी टङ्कणश्चैव नवसारस्तथैव च । कर्पूरश्चैव माक्षीकं समभागानि कारयेत् ॥ ११.८८ ॥ स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत् । विडचूर्णं ततो दत्त्वा कनकं जारयेत्प्रिये ॥ ११.८९ ॥ शृणु देवि प्रवक्ष्यामि भूचराख्यं तु जारणम् ॥ ११.९० ॥ कृष्णं पीतं रक्तमभ्रं शुल्वे तीक्ष्णे च मेलयेत् ॥ ११.९१ ॥ शुल्वे तीक्ष्णं यदा चूर्णं द्वाविंशतिगुणं प्रिये । गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥ ११.९२ ॥ हेम्ना तु सह दातव्यं सूतकैकेन षोडश । गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः । हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ॥ ११.९३ ॥ गन्धकेन हतं शुल्वं माक्षिकं दरदायसम् । पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणम् ॥ ११.९४ ॥ सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् । बद्धरागं विजानीयाथेमाभो जायते रसः ॥ ११.९५ ॥ सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् । त्रिभागसारितं कृत्वा पुनस्तत्रैव जारयेत् ॥ ११.९६ ॥ जारितः सारितश्चैव पुनर्जारितसारितः । सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ॥ ११.९७ ॥ भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥ ११.९८ ॥ हीरमुख्यानि रत्नानि रसोच्छिष्टानि कारयेत् । कटुतुम्बस्य बीजानि तस्यार्धेन तु दापयेत् ॥ ११.९९ ॥ महाजारणमित्युक्तं कल्कं कुर्याद्विचक्षणः । वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसम् ॥ ११.१०० ॥ कतकं कनकं चैवमेकीकृत्य च मर्दयेत् । पद्मरागं प्रयत्नेन रसे ग्रासं तु दापयेत् ॥ ११.१०१ ॥ एकादशगुणं यावत्पद्मरागं तु सूतके । रागजीर्णस्तु देवेशि लिङ्गाकारो भवेद्रसः ॥ ११.१०२ ॥ रक्षितव्यं प्रयत्नेन लोकपालाष्टकेन च । षड्भागं सूतकेन्द्रस्य तेषु सर्वेषु दापयेत् ॥ ११.१०३ ॥ भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः । सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः ॥ ११.१०४ ॥ मूर्छाङ्गदाहश्च ततो जायते नात्र संशयः । आत्मानमुत्थितं पश्येत्दिव्यतेजोमहाबलम् ॥ ११.१०५ ॥ शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह । इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥ ११.१०६ ॥ देवाश्च यत्र लीयन्ते सिद्धस्तत्रैव लीयते ॥ ११.१०७ ॥ पुनरन्यं प्रवक्ष्यामि जारणायोगमुत्तमम् ॥ ११.१०८ ॥ सुघृष्टं पाचितं सूतं सर्वदोषोज्झितं ततः । शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥ ११.१०९ ॥ पलाशपुष्पतोयेन भावितं गन्धकं समम् । समं कृष्णाभ्रसत्त्वं च रसकं चाष्टकं गुणम् ॥ ११.११० ॥ तीक्ष्णशुल्वोरगं चैव कूर्मयन्त्रेण जारयेत् । काञ्चनं जारयेत्पश्चात्विडयोगेन पार्वति ॥ ११.१११ ॥ ततः सिद्धं विजानीयात्द्वैधं शुल्वस्य दापयेत् । कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥ ११.११२ ॥ अतः परं प्रवक्ष्यामि जारणाक्रममुत्तमम् ॥ ११.११३ ॥ बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः । षोडशांशेन तद्ग्रासमङ्गुल्या मर्दयेच्छनैः ॥ ११.११४ ॥ आर्द्रकादि ततो योगाद्दातव्यं षोडशांशतः । भूर्जे दत्त्वा ततो देयं दोलायन्त्रे विनिक्षिपेत् ॥ ११.११५ ॥ अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये । तमुद्धृत्य रसं देवि खल्ले संमर्दयेत्ततः ॥ ११.११६ ॥ ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना । तप्तं समुद्धृतं यन्त्रात्तप्तखल्ले विमर्दयेत् ॥ ११.११७ ॥ मर्दयित्वाभ्रके पिण्डं क्षिप्त्वा तत्र पुटं ददेत् । ततो गर्भे पतत्याशु जारयेत्तत्सुखेन तु ॥ ११.११८ ॥ दोलायन्त्रे ततो दत्त्वा आर्द्रपिण्डेन संयुतम् । तृतीये दिवसे सूतो जरते ग्रसते ततः ॥ ११.११९ ॥ समजीर्णं ततो यावत्दोलायन्त्रे विचक्षणः । पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति । तं ग्रासद्वादशांशेन कच्छपेन तु जारयेत् ॥ ११.१२० ॥ प्राग्वदार्द्रकयोगं च गर्भद्रावणमेव च । पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥ ११.१२१ ॥ अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् । कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् । पुटेत्तु जारितस्तावत्यावत्कन्दो न दह्यते ॥ ११.१२२ ॥ पादांशेन तु मूषाया ग्रासः सूते विधीयते । पूर्ववच्च विडं दद्यात्गर्भद्रावणमेव च ॥ ११.१२३ ॥ एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत् । ततः शलाकया ग्रासानग्निस्थो ग्रसते रसः ॥ ११.१२४ ॥ ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥ ११.१२५ ॥ अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च । रसानुपरसान् दत्त्वा महाजारणसंयुतान् ॥ ११.१२६ ॥ वज्रकन्दं वज्रलता मेषशृङ्ग्यमृतायसम् । कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥ ११.१२७ ॥ सर्वाणि समभागानि शिखिशोणितमात्रितम् । तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत् ॥ ११.१२८ ॥ मूषा वल्लाकृतिश्चैव कर्तव्या छादनैः सह । तन्मध्ये स्थापयेत्सूतमधोवातेन धामयेत् ॥ ११.१२९ ॥ आदौ तत्रैव दातव्यं वज्रमौषधलेपितम् । गृह्यते कोऽत्र संदेहो यथा तीव्रे हुताशने ॥ ११.१३० ॥ कुलिशेन पुटे दग्धे कर्ष्वग्नौ तेन मर्दयेत् । यावदेकादशगुणं कुलिशं जारयेत्पुनः ॥ ११.१३१ ॥ सुदग्धशङ्खनाभिश्च मातुलुङ्गरसप्लुतः । मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥ ११.१३२ ॥ अनेन क्रमयोगेन ह्येकादशगुणं भवेत् । केवलं शिखिपित्तं च नीली निर्यासमिश्रितम् ॥ ११.१३३ ॥ नीलोत्पलानि लिप्तानि प्रक्षिप्तानि तु सूतके । रसे कल्पेन्महारागान् हीनरागान् परित्यजेत् ॥ ११.१३४ ॥ रक्तानि शिखिपित्तं च महारत्नसमन्वितम् । सद्रत्नं लेपयेत्तेन प्रद्रवेत्रसमध्यतः ॥ ११.१३५ ॥ रजनीं चैव कुष्ठं च ब्रह्मनिर्यासभावितम् । जारणं पुष्परागस्य तेनैव सह दापयेत् ॥ ११.१३६ ॥ बहुरत्नेषु जीर्णेषु भृङ्गरागेषु सुव्रते । रसेन्द्रो दृश्यते देवि नीलपीतारुणच्छविः ॥ ११.१३७ ॥ शुद्धानि हेमपत्त्राणि शतांशेन तु लेपयेत् । पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत् ॥ ११.१३८ ॥ संस्पर्शाद्वेधयेत्सर्वमिदं हेम मृतं प्रिये । त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥ ११.१३९ ॥ मूषामध्यस्थिते तस्मिन् पुनस्तेनैव जारयेत् । धूमवेधी भवेद्देवि पुनः सारितजारितः ॥ ११.१४० ॥ अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला । वेधयेन्नात्र संदेहो गिरिपातालभूतलम् ॥ ११.१४१ ॥ पार्श्वज्योतिः प्रदृश्येत चोर्ध्वं नैव तु दृश्यते । भूचरं तं विजानीयात्रसेन्द्रं नात्र संशयः ॥ ११.१४२ ॥ तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत् । दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः ॥ ११.१४३ ॥ सर्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम् । तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥ ११.१४४ ॥ समजीर्णेन वज्रेण हेम्ना च सहितेन च । अग्निस्थो जारयेल्लोहान् बन्धमायाति सूतकः ॥ ११.१४५ ॥ सारयेत्तेन बीजेन सहस्रमपि वेधयेत् । सारितं जारयेत्पश्चात्लेप्यं क्षेप्यं सहस्रशः ॥ ११.१४६ ॥ सारयेत्तेन बीजेन लक्षवेधमवाप्नुयात् । अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ ११.१४७ ॥ केवलं तु यदा वज्रं समजीर्णं तु जारयेत् । बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥ ११.१४८ ॥ अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् । हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥ ११.१४९ ॥ चरते जरते सूत आयुर्द्रव्यप्रदायकः । मूषास्थं धमयेत्सूतं हठाग्नौ नैव कम्पते ॥ ११.१५० ॥ जारयेत्सर्वरत्नानि बद्धः खेचरतां नयेत् । इति लोहेऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥ ११.१५१ ॥ लोहानि सत्त्वं त्रिगुणं द्विगुणं कनकं तथा । धूमावलोकवेधी स्यात्भवेन्निर्वाणदो रसः ॥ ११.१५२ ॥ आदावष्टगुणं जार्यं व्योमसत्त्वं महारसम् । समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥ ११.१५३ ॥ सर्वं च जारयेद्वज्रं तदासौ खेचरो रसः । भ्रमेत्प्रदक्षिणावर्तः कोटिवेधी च जायते ॥ ११.१५४ ॥ समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः । द्विगुणे शतवेधी स्यात्त्रिगुणे तु सहस्रकम् ॥ ११.१५५ ॥ चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् । उत्तरोत्तरवृद्ध्यातु जारयेत्तत्र पन्नगम् ॥ ११.१५६ ॥ कुटिलं पन्नगं जार्यं तत्र संख्याक्रमेण तु । तद्वादमेति देवेशि कोटिवेधी भवेद्रसः ॥ ११.१५७ ॥ रुरुणा दानवेन्द्रेण भक्षितो भस्मसूतकः । जारितं द्वादशगुणं यत्र तीक्ष्णं सुरेश्वरि ॥ ११.१५८ ॥ भक्षयित्वा पलैकं तु दानवो बलदर्पितः । जगदुत्पाटितं तेन कैलासोऽपि च चूर्णितः ॥ ११.१५९ ॥ तत्र मया क्षणं ध्यात्वा दृष्ट्वा तन्मायया कृतम् । जारितं पन्नगे सूतं समांशं शिलया हतम् ॥ ११.१६० ॥ तेन सूतेन संलिप्तं त्रिशूलं हिमशैलजे । तेन शूलेन निहतो दानवो बलदर्पितः ॥ ११.१६१ ॥ हेम शुल्वं तथा तीक्ष्णं वाजरं च पडालकम् । रोहणं कान्तलोहं च जारयेत्तत्त्वसंख्यया ॥ ११.१६२ ॥ एकैके रसराजोऽयं बद्धः खेचरतां नयेत् । गन्धनागे द्रुते देवि जारणां सुकरां शृणु ॥ ११.१६३ ॥ आदौ संशोधितं सूतं रजनीचूर्णसंयुतम् । मर्दयेद्यावदाकृष्णं क्षालयेदुष्णकाञ्जिकैः ॥ ११.१६४ ॥ एवं मुहुर्मुहुर्घृष्टो गन्धनागो द्रुतिं चरेत् ॥ ११.१६५ ॥ नागस्य मूत्रे देवेशि वत्सस्य महिषस्य वा । आवर्त्यावर्त्य भुजगं सप्त वारान्निषेचयेत् ॥ ११.१६६ ॥ कृत्वा कण्टकवेध्यानि तस्य पत्त्राणि सुन्दरि । चतुर्थांशप्रमाणेन गन्धकस्य तु योजयेत् ॥ ११.१६७ ॥ प्रसार्य लाक्षापटलं रोमाणि तदनन्तरम् । ऊर्ध्वं गन्धकचूर्णं च ततो नागदलं तथा ॥ ११.१६८ ॥ गन्धकं नरलोमानि लाक्षायाः पटलं क्रमात् । ऊर्ध्वं प्रसार्य संस्थाप्य सूत्रैर्वर्तिं तु कारयेत् ॥ ११.१६९ ॥ करञ्जतैलमध्ये तु दशरात्रं निधापयेत् । दीप्ताग्रभागां तां वर्तिं सण्डश्या तु विधारयेत् ॥ ११.१७० ॥ तां द्रुतिं पातयेत्पात्रे सौवीरटङ्कणान्विते । काचकूप्याश्च मध्ये तु तत्तैलं स्थापयेत्प्रिये ॥ ११.१७१ ॥ कृत्वा गोस्तनमूषायां लिप्तायां शिलया रसम् । चतुःषष्ट्यादिभागेन ज्ञात्वा देवि बलाबलम् ॥ ११.१७२ ॥ गन्धनागद्रुतिं दत्त्वा तां मूषां सुरवन्दिते । गर्ते गोमयसम्पूर्णे विन्यस्य पुटपाचनम् । दद्यात्करीषतुषयोः प्रसृतिद्वितयेन च ॥ ११.१७३ ॥ दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु । चतुर्बिन्दून् पुटे प्राग्वदेवं प्रतिदिनं भवेत् ॥ ११.१७४ ॥ जारणात्रिगुणात्सूतो भवेज्जम्बूफलप्रभः ॥ ११.१७५ ॥ माक्षिकं सत्त्वमल्पाल्पं मृतनागसमन्वितम् । मूषागतं भवेद्यावत्काचं दत्त्वाधरोत्तरम् । एवं द्वादशवारांस्तु सुध्मातं रञ्जितं भवेत् ॥ ११.१७६ ॥ तेन पक्वं बीजचूर्णं पारदे पादभागिकम् । मर्दितं चणकाम्लेन क्षणाद्गर्भद्रुतिर्भवेत् ॥ ११.१७७ ॥ गर्भद्रुतिर्न चेद्देवि वर्णिकाद्वयगन्धयोः । रक्तसिन्धूद्भवालर्क- टङ्कणाशुगपुङ्खतः । कल्केन लिप्तं पुटितं बीजं गर्भे द्रुतं भवेत् ॥ ११.१७८ ॥ बीजे पादार्धतुल्यांशे जीर्णे वेधं करोति सः । दशषोडशभागेन द्वाविंशांशेन च क्रमात् ॥ ११.१७९ ॥ संयोज्य त्रिगुणां रीतिं तारे तारावशेषितैः । तारारिष्टमिदं लिप्त्वा तेन सूतेन वेधयेत् ॥ ११.१८० ॥ अतः परं तु संस्कारं वक्ष्ये नागाभ्रजारणम् । करवीरारुणां देवि चूर्णयित्वा मनःशिलाम् ॥ ११.१८१ ॥ भावयेद्विंशतिं वारान् यवचिञ्चारसेन तु । तेन कल्केन संलिप्य नागपत्त्रं प्रयत्नतः । कर्ष्वनलेन विपचेत्यावत्तत्चूर्णितं भवेत् ॥ ११.१८२ ॥ रसकस्य च भागांस्त्रीन् भागैकं दरदस्य च । पेषयेन्मातुलुङ्गेन पादगन्धं शिलाविषम् ॥ ११.१८३ ॥ कल्केनानेन लिप्तायां मूषायां पुटपाचितम् । तं नागं धमयेदेवं सप्तधा हेमवद्भवेत् ॥ ११.१८४ ॥ पीताभ्रकं त्वेकदलं लिप्तायां मरिचेन तु । मूषायां ध्मातमग्न्याभं सौभाञ्जनरसे क्षिपेत् ॥ ११.१८५ ॥ पातयेत्पूर्वविधिना तत्सत्त्वं हेमभासुरम् ॥ ११.१८६ ॥ पत्त्रं रञ्जितनागस्य सत्त्वं पीताभ्रकस्य च । स्त्रीस्तन्यकाचधूमोत्थ- गुञ्जायस्कान्तटङ्कणैः । तुत्थेन संयुतेनैतन्नागाभ्रं द्वंद्वितं भवेत् ॥ ११.१८७ ॥ किंवारनालसिद्धार्थ- धूमसारेष्टकागुडैः । मर्दयेत्त्रिदिनं सूतं दोलायां स्वेदयेत्त्र्यहम् ॥ ११.१८८ ॥ पुनर्नवामेषशृङ्गी- सर्पाक्षीकल्कसंयुतम् । अथासुरी सिन्धुविषं मरिचैः परिपेषितैः । दोलायन्त्रे पुनरपि स्वेदयेद्दिवसत्रयम् ॥ ११.१८९ ॥ अष्टमांशेन नागाभ्रं चारयित्वा सुरेश्वरि । शिलाभागद्वयं चैकं सिन्धुसौवर्चलं भवेत् ॥ ११.१९० ॥ टङ्कार्धं विषपादं च विडः पिण्डाष्टमांशतः । त्रिदिने कच्छपे जार्यमेवं जार्यं तु षड्गुणम् ॥ ११.१९१ ॥ शैलं तुत्थोरगं ताम्रं तीक्ष्णघोषारकाञ्चनम् । क्रमवृद्धमिदं तुत्थं ताप्यसत्त्वनिपातनात् ॥ ११.१९२ ॥ हेमावशेषं तद्बीजं पादांशं मातुलाम्भसा । चारयेद्रसराजस्य जारयेत्कनकान्वितैः ॥ ११.१९३ ॥ ताप्यसौवर्चलशिला- गन्धकासीसटङ्कणैः । पद्मयन्त्रे निवेश्याथ कीलं दत्त्वा सुरेश्वरि ॥ ११.१९४ ॥ धमेद्दिनत्रयं मन्दं यावद्बीजं द्रुतं भवेत् । तमेव समजीर्णं तु वह्नौ निष्कम्पनं रसम् ॥ ११.१९५ ॥ ततः षड्गुणबीजेन सारणा क्रमयोगतः । तारारिष्टमहिं शुल्बं सहस्रांशेन वेधयेत् ॥ ११.१९६ ॥ विषगन्धकताप्याभ्र- काकविष्ठा घनध्वनिः । सहदेवीवह्निशिखा- कल्केन क्रमते रसः ॥ ११.१९७ ॥ मूर्छितो मृतसूतश्च जलूकाबन्ध एव च । चतुर्थो मूर्तिबन्धस्तु पट्टबन्धस्तु पञ्चमः । भस्मसूतश्च खोटश्च संस्कारात्सप्तधा रसः ॥ ११.१९८ ॥ नागवर्णं भवेत्सूतं विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥ ११.१९९ ॥ आर्द्रत्वं च घनत्वं च तेजोगौरवचापलम् । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥ ११.२०० ॥ नानावर्णं तथा स्वच्छं द्रुतं योनौ जलूकवत् । बध्यते सूतकं यच्च जलूकाबन्धलक्षणम् ॥ ११.२०१ ॥ गुरुत्वमरुणत्वं च तेजसा सूर्यसंनिभम् । शिखिमध्ये धृतं तिष्ठेत्मूर्तिबन्धस्य लक्षणम् ॥ ११.२०२ ॥ शलाकाजारणाद्वापि मूर्तिबन्धत्वमिष्यते ॥ ११.२०३ ॥ श्वेतं पीतं गुरु तथा मृदु सिक्थकसंनिभम् । अग्निमध्ये यदा तिष्ठेत्पट्टबन्धस्य लक्षणम् ॥ ११.२०४ ॥ कृष्णं श्वेतं तथा पीतं नीलं भस्मनिभं तथा । चपलत्वं यदा नष्टं भस्मसूतस्य लक्षणम् ॥ ११.२०५ ॥ कुक्कुटाण्डनिभं सूतं यदा लवणभेदि च । आवर्तते रसस्तद्वत्खोटकस्य च लक्षणम् ॥ ११.२०६ ॥ अथवा छेदने स्निग्धं रश्मिना मृदुना द्रवेत् । अक्षयं कठिनं श्वेतं खोटबन्धस्य लक्षणम् ॥ ११.२०७ ॥ खोटादयस्तु ये पञ्च विहाय जलुकाकृति । हठाग्नौ धामिताः सन्ति न तिष्ठत्येव मूर्छितः ॥ ११.२०८ ॥ तरुणादित्यसंकाशो नानावर्णः सुरेश्वरि । वेधयेद्देहलोहानि रञ्जितो रसभैरवः ॥ ११.२०९ ॥ शोधनं सूतकस्यादौ ग्रासमानमतः परम् । जारणं व्योमसत्त्वस्य सर्वसत्त्वस्य जारणम् ॥ ११.२१० ॥ गर्भबाह्यद्रुतिः पश्चात्सुवर्णस्य तु जारणम् । दिव्यौषधिपुटः पश्चात्रत्नबन्धमतः परम् ॥ ११.२११ ॥ रञ्जनं च ततो देवि जारणा चानुसारणा । क्रामणं च ततो देयं सूतकस्य विचक्षणैः ॥ ११.२१२ ॥ एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥ ११.२१३ ॥ वेधकं यस्तु जानाति देहे लोहे रसायने । तस्य जन्म जरा व्याधिर्नश्यत्येव न संशयः ॥ ११.२१४ ॥ देहे तु पञ्चरत्नानि नागं वङ्गं तथायसम् । क्रामणं रसराजस्य भेषजं व्याधिनाशनम् ॥ ११.२१५ ॥ औषधैः क्रमते सूतो योगशक्तिक्रमेण तु । क्रमते व्याधिसंघाते ग्रसते दुष्टमामयम् ॥ ११.२१६ ॥ तस्य तु क्रामणं ज्ञात्वा ततो वैद्यैरुपाचरेत् । क्रामणेन विना सूतो न क्रमेत्न च वेधयेत् । देहलोहामयान् सर्वान् वृथा स्यात्केवलं श्रमः ॥ ११.२१७ ॥ यस्य रोगस्य यो योगस्तेनैव सह योजयेत् । रसेन्द्रो हरति व्याधीन्नरकुञ्जरवाजिनाम् ॥ ११.२१८ ॥ आरोटो बलमाधत्ते मूर्छितो व्याधिनाशनः । बद्धेन खेचरीसिद्धिः मारितेनाजरामरः ॥ ११.२१९ ॥ विशेषाद्व्याधिशमनो गन्धकेन तु मूर्छितः । ओषध्या घातितः सूतो यथा भूयो न जीवति ॥ ११.२२० ॥ सहि क्रामति लोहेषु तेन कुर्याद्रसायनम् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ११.२२१ ॥ १२ श्रीदेव्युवाच ओषधी कीदृशी नाथ रसमूर्छाकरी शुभा । केन वा भस्मसूतः स्यात्केन वा खोटबन्धनम् ॥ १२.१ ॥ श्रीभैरव उवाच शृणु भैरवि यत्नेन रहस्यं रसबन्धनम् । ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ॥ १२.२ ॥ गङ्गायमुनयोर्मध्ये प्रयोगो नाम राक्षसः । तस्यासन्ने वरारोहे क्षणाद्बध्येत सूतकः ॥ १२.३ ॥ निशाचरस्य पत्त्राणि गृह्णीयात्साधकोत्तमः । अधो निष्पीडितं देवि रसो भवति चोत्तमः ॥ १२.४ ॥ रसं संमर्द्य तेनैव दिनानि त्रीणि वार्त्तिकः । आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत् ॥ १२.५ ॥ तेन पत्त्ररसेनैव साधयेद्गगनं पुनः । सप्तधा भावितं तेन त्र्यूषणेन सहैकतः । यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ॥ १२.६ ॥ मासमात्रेण देवेशि जीर्यते तत्समं समे । समजीर्णे रसे देवि शतवेधी भवेद्रसः ॥ १२.७ ॥ निशाचररसे देवि गन्धकं भावयेत्ततः । भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु ॥ १२.८ ॥ तारस्य पत्त्रलेपेन अर्धार्धकाञ्चनोत्तमम् । गन्धके समजीर्णेऽस्मिन् शतवेधी रसो भवेत् ॥ १२.९ ॥ पुनस्तं गन्धकं दत्त्वा पत्त्रलेपे रविं हरेत् । तं रविं तारमध्ये तु त्रिगुणं वाहयेत्ततः ॥ १२.१० ॥ हेमार्धे मिलितं हेम मातृकासमतां व्रजेत् । पुनस्तं गन्धकं साक्षाद्द्रावयित्वा द्रुतं कुरु ॥ १२.११ ॥ रसेन्द्रं मर्दयेत्तेन गतदेहं तु कारयेत् । लेपमात्रेण तेनैव कुष्ठानष्टादश प्रिये । अर्शो भगंदरं लूतां शिरोरोगांश्च नाशयेत् ॥ १२.१२ ॥ निशाचररसे भाव्यं सप्तवारं तु तालकम् । तेनैव घातयेद्वङ्गं वङ्गं तारे तु निर्वहेत् ॥ १२.१३ ॥ तं तारं जारयेत्सूते तत्सूतं बन्धनं व्रजेत् । लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥ १२.१४ ॥ चतुःषष्टितमे भागे शुल्ववेधं तु दापयेत् । शुल्वं तु दापयेत्तारे तत्तारं काञ्चनं भवेत् । तत्तारं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥ १२.१५ ॥ निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् । पलानि दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥ १२.१६ ॥ घृतेन मधुनालोड्य नवभाण्डे विनिक्षिपेत् । धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥ १२.१७ ॥ तेन भक्षितमात्रेण वलीपलितवर्जितः ॥ १२.१८ ॥ वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् । अर्धमासप्रयोगेण प्रत्यक्षोऽयं भवेत्प्रिये ॥ १२.१९ ॥ तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् । मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ॥ १२.२० ॥ ग्राह्यं तत्फलतैलं वा यन्त्रे पातालसंज्ञके । तेन तैलेन देवेशि रसं संकोचयेद्बुधः ॥ १२.२१ ॥ तत्क्षणाज्जायते देवि पट्टबद्धो महारसः ॥ १२.२२ ॥ कटुकं कङ्कणं कार्यं रसलिङ्गे वरानने । संकोच्य मारणं तेन कर्तव्यं परमाद्भुतम् ॥ १२.२३ ॥ निशाचररसे क्षिप्तं सप्तवारं तु भास्करम् । कालिकारहितं तेन जायते कनकप्रभम् ॥ १२.२४ ॥ तत्तारेण समं बाह्यं तेन सिक्तं तु वापितम् । दशांशं वेधयेत्सूतं दश पीतं शतेन च ॥ १२.२५ ॥ शतं वेधयते लक्षं सहस्रं कोटिवेधकम् । दशांशं कोटिवेधि स्यात्कोटिवेधि समेन च ॥ १२.२६ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.२७ ॥ त्रैलोक्यजननी या स्यादोषधी अजनायिका । तस्याः सम्पर्कमात्रेण बद्धस्तिष्ठति पारदः ॥ १२.२८ ॥ सप्ताहं मर्दितस्तस्या महौषध्या रसेन सः । शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ॥ १२.२९ ॥ द्विसप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि । लक्षवेधी रसः साक्षादष्टौ लोहानि काञ्चनम् ॥ १२.३० ॥ त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति । चतुर्थे चैव सप्ताहे कोटिवेधी महारसः ॥ १२.३१ ॥ स्वेदतापननिघृष्टो महौषध्या रसेन तु । ददाति खेचरीं सिद्धिमनिवारितगोचरः ॥ १२.३२ ॥ कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे । नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेद्रसैः ॥ १२.३३ ॥ महौषध्या रसेनैव मृतसंजीवनं भवेत् । अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये ॥ १२.३४ ॥ मृतस्य दापयेन्नस्यं हस्तपादौ तु मर्दयेत् । तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ॥ १२.३५ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् । नरसाररसेनैव क्षणाद्बध्येत सूतकः ॥ १२.३६ ॥ नरसाररसं दत्त्वा द्विपदीरजसा सह । दिनान्ते बन्धमायाति सर्वलोहानि रञ्जयेत् ॥ १२.३७ ॥ नरसाररसेनैव जीर्णे षड्गुणपन्नगे । तारे ताम्रेऽपि वा देवि भावयेत्तं मनःशिलाम् ॥ १२.३८ ॥ निर्गन्धा जायते सा तु घातयेत्तद्रसायनम् । द्विपदीरजसा सार्धं निःसत्त्वः पन्नगो भवेत् ॥ १२.३९ ॥ नरसाररसेनैव जीर्णे षड्गुणपन्नगे । तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥ १२.४० ॥ नरसाररसस्तन्ये भावनाः सप्तधा पृथक् । रसेन्द्रं दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥ १२.४१ ॥ जीर्यते गगनं देवि निर्मुखं च वरानने । नरसाररसेनैव कीटमारीरसेन च । द्रावयेद्गगनं देवि तीक्ष्णं लोहं च पन्नगम् ॥ १२.४२ ॥ नरसाररसेनैव हनूमत्या रसेन च । जायते काञ्चनं दिव्यं निषेकाद्भास्करप्रिये ॥ १२.४३ ॥ नरसाररसे दत्त्वा मञ्जिष्ठारक्तचन्दनम् । स्वरसे मर्दयेत्पश्चात्पन्नगं देवि सेचयेत् ॥ १२.४४ ॥ तत्क्षणात्काञ्चनं दिव्यं सप्तवारं निषेचितम् । रविघृष्टं तु तं देवि पन्नगं त्रिगुणं प्रिये ॥ १२.४५ ॥ तच्छुल्वं हेमसंकाशं तारपञ्चांशयोजितम् । अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ॥ १२.४६ ॥ नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् । तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमादिशेत् ॥ १२.४७ ॥ तद्भस्म ताम्रपिष्टं तु त्रिगुणं तेन निर्वहेत् ॥ १२.४८ ॥ तच्छुल्वं हेमसंकाशं तारमष्टांशयोजितम् । तारहेम समांशं तु द्विगुणं पित्तलं भवेत् ॥ १२.४९ ॥ नरसाररसे भाव्यं रसकं सप्तवारतः । तं रसं रसकं चैव तीक्ष्णं लोहं च पन्नगम् ॥ १२.५०:१ ॥ नरसाररसेनैव तेनैवैकत्र मर्दयेत् । तत्क्षणाज्जायते बन्धो रसस्य रसकस्य च ॥ १२.५०:२ ॥ तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत् । समस्तं जायते हेम कूष्माण्डकुसुमप्रभम् ॥ १२.५१ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.५२ ॥ कङ्कालखेचरी नाम ओषधी परमेश्वरि । तस्यास्तैलं तु संगृह्य माघखेचरिसंयुतम् । भावयेत्दिनमेकं तु पात्रे भास्करनिर्मिते ॥ १२.५३ ॥ द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् । अनले धामयेत्तत्तु सुतप्तज्वलनप्रभम् ॥ १२.५४ ॥ कङ्कालखेचरीतैले वज्ररत्नं निषेचयेत् । दशवारं निषिक्तं तु भस्माकारं हि जायते ॥ १२.५५ ॥ तद्धेमपक्वबीजं तु तेन भस्मसमं कुरु । त्रिभागं टङ्कणं दत्त्वा अन्धमूषागतं धमेत् । तत्क्षणान्मिलति द्वंद्वं वज्ररत्नं च काञ्चनम् ॥ १२.५६ ॥ चन्द्रहेम वरारोहे समं जारयते यदि । कोटिवेधी रसो देवि लोहान्यष्टौ च विध्यति ॥ १२.५७ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.५८ ॥ सबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये । मन्त्रसिंहासनी नाम द्वितीया देवि खेचरी । पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥ १२.५९ ॥ तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसम् । मेदिनीयन्त्रमध्ये तु स्थापयेत्तु वरानने ॥ १२.६० ॥ पूर्वौषध्या तु तद्देवि गगनं मेदिनीतले । रसग्रासं ततो दत्त्वा मर्दनाद्गोलकं कुरु ॥ १२.६१ ॥ बद्ध्वा पोटलिकां तेन गगनं तेन जारयेत् । समे तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥ १२.६२ ॥ भस्त्राफूत्कारयुक्तेन धाम्यमानेन नश्यति । काकविष्ठासमं रूपं समजीर्णस्य जायते ॥ १२.६३ ॥ द्विगुणे गगने जीर्णे अष्टौ लोहानि संहरेत् ॥ १२.६४ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.६५ ॥ शिवदेहात्समुत्पन्ना ओषधी तुरसिंहनी । जारयेद्गन्धकं सा तु जारयेत्सापि तालकम् ॥ १२.६६ ॥ काञ्चनं जारयेत्सापि रसेन्द्रं सा च बद्धयेत् । प्रवालं जारयेत्सा तु गगनं द्रावयेत्तथा । वज्रं च घातयेत्सा तु सर्वसत्त्वं च पातयेत् ॥ १२.६७ ॥ जारयेत्सर्वलोहानि सत्त्वान्यपि च पाचयेत् । हरींदरीरसे न्यस्य गोशृङ्गे तु वरानने । धान्यराशौ निधातव्यं मृतं तिष्ठति सूतकम् ॥ १२.६८ ॥ दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते । समे तु कनके जीर्णे दशकोटीस्तु वेधयेत् ॥ १२.६९ ॥ पञ्चमे लक्षकोटिस्तु षड्गुणे स्पर्शवेधकः । सप्तमे धूमवेधी स्यातष्टमे त्ववलोकतः । नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते ॥ १२.७० ॥ भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः । तृणौषधिरसानां च नैव सिद्धिः प्रजायते ॥ १२.७१ ॥ तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधी ॥ १२.७२ ॥ दिव्यौषधी चतुःषष्टिः कुलमध्ये व्यवस्थिता । नैव जानन्ति मूढास्ते देवमोहेन मोहिताः ॥ १२.७३ ॥ अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ॥ १२.७४ ॥ तृणौषध्या रसे सूतं नैव बद्धं कदाचन । अक्षयं च वरारोहे वह्निमध्ये न तिष्ठति ॥ १२.७५ ॥ न खोटो न च वा भस्म नैव द्रव्यं करोति सः । किं तत्द्रव्यं प्रकुर्वीत धाम्यमानो न तिष्ठति ॥ १२.७६ ॥ पत्त्रे पाके कटे छेदे नैव तिष्ठति काञ्चने । न वेधं च शतादूर्ध्वं करोति स रसः प्रिये ॥ १२.७७ ॥ यावन्न बद्धमेकं तु विक्रीतं तत्तु काञ्चनम् । धर्मार्थकाममोक्षार्थं नैव दद्यात्तु तत्प्रिये ॥ १२.७८ ॥ श्रीदेव्युवाच निर्जीवत्वं गतः सूतः कथं जीवं ददाति च । निर्जीवेन तु निर्जीवः कथं जीवति शंकर ॥ १२.७९ ॥ श्रीभैरव उवाच दिव्यौषध्या यदा देवि रसेन्द्रो मूर्छितो भवेत् । कालिकारहितः सूतस्तदा भवति पार्वति ॥ १२.८० ॥ परस्य हरते कालं कालिकारहितो रसः । अष्टानां चैव लोहानां मलं शमयति क्षणात् ॥ १२.८१ ॥ महामूर्छागतं सूतं को वापि कथयेन्मृतम् । दिव्यौषध्या रसेनैव जायते नष्टचेतनः ॥ १२.८२ ॥ पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥ १२.८३ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ॥ १२.८४ ॥ क्ष्मापालेन हतं वज्रमनेनैव तु काञ्चनम् । वज्रभस्म हेमभस्म तद्वै एकत्र बन्धयेत् ॥ १२.८५ ॥ निशाचररसे जार्यं नरजीवेन जारयेत् । तं सूतं मारयेद्भद्रे गजारिदिव्यकौषधी ॥ १२.८६ ॥ भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः । भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ॥ १२.८७ ॥ प्रस्वेदात्तस्य गात्रस्य रसराजश्च वेध्यते । प्रस्वेदादपि मूत्रेण अष्टौ लोहानि काञ्चनम् ॥ १२.८८ ॥ लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः । प्रजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ॥ १२.८९ ॥ गजारिस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥ १२.९० ॥ वज्रवल्लीरसेनैव भावितं गगनं प्रिये । जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥ १२.९१ ॥ मृतगोलकमाषैकं माषैकं हेमगोलकम् । एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् । कर्षैकं नागपत्त्राणि रसकल्केन लेपयेत् ॥ १२.९२ ॥ वेष्टयेद्वृश्चिकाल्या च तत्पिण्डं लेपयेत्ततः । मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् ॥ १२.९३ ॥ कर्षैकं तारपत्त्राणि मृतनागेन लेपयेत् । वृश्चिकाल्या च तत्पत्त्रं लेपितं वेष्टयेत्ततः ॥ १२.९४ ॥ तत्तारं म्रियते देवि सिन्दूरारुणसंनिभम् । सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥ १२.९५ ॥ जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १२.९६ ॥ क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति । नाम्ना चटुलपर्णीति शस्यते रसबन्धने ॥ १२.९७ ॥ एकवीराकन्दरसे मूकमूषागतं रसम् । धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥ १२.९८ ॥ रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् । मूषायां पूर्वयोगेन कुरुते रसबन्धनम् ॥ १२.९९ ॥ वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् । धमयेत्पूर्ववत्सूतं भक्षणार्थाय वार्त्तिकः ॥ १२.१०० ॥ वज्रकन्दं समादाय रसमध्ये विनिक्षिपेत् । गजेन्द्राख्यं पुटं दत्त्वा सप्तधा बद्धतां नयेत् ॥ १२.१०१ ॥ भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् ॥ १२.१०२ ॥ लाङ्गलीकन्दमादाय कर्कोटीकन्दमेव च । रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ॥ १२.१०३ ॥ म्रियते नात्र संदेहो ध्मातस्तीव्रानलेन तु । शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ॥ १२.१०४ ॥ शतांशं वेधकर्तायं देहसिद्धिकरो भवेत् ॥ १२.१०५ ॥ हंसपादीरसं सूतं शूककन्दोदरे क्षिपेत् । गजेन्द्रपुटनं दद्यात्म्रियते नात्र संशयः ॥ १२.१०६ ॥ हंसाङ्घ्रिं शुकतुण्डीं च गृहीत्वा मर्दयेद्रसम् । क्रौञ्चपादोदरे दत्त्वा ततो दद्यात्पुटत्रयम् ॥ १२.१०७ ॥ म्रियते नात्र संदेहो लक्षवेधी महारसः ॥ १२.१०८ ॥ तृणज्योतिरिति ख्याता शृणु दिव्यौषधी प्रिये । निशासु प्रज्वलेन्नित्यं नाह्नि ज्वलति पार्वति । तस्या मूले तु निक्षिप्तं क्षीरं रक्तं भवेत्प्रिये ॥ १२.१०९ ॥ तन्मूलरसगन्धाभ्रैर्मातुलुङ्गाम्लपेषितैः । शुल्बपत्त्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ॥ १२.११० ॥ तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि । मातुलुङ्गरसे घृष्टमभ्रकं चरति क्षणात् ॥ १२.१११ ॥ अथोच्चटीं प्रवक्ष्यामि रसबन्धकरीं प्रिये । एकमेव भवेन्नालं तस्य रोम तु वेष्टनम् ॥ १२.११२ ॥ तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य संनिभम् । तत्पत्त्राणि च देवेशि शुकपिच्छनिभानि च । तत्कन्दं कुष्ठसंस्थानं क्षीरं सिन्दूरसंनिभम् ॥ १२.११३ ॥ जलं स्रवेन्मधूच्छिष्टं तत्समादाय पार्वति । वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ॥ १२.११४ ॥ रसतालकतुत्थानि मर्दयेदुच्चटीरसैः । आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥ १२.११५ ॥ वेधयेत्सप्त लोहानि लक्षांशेन वरानने ॥ १२.११६ ॥ अथ रक्तस्नुहीकल्पं वक्ष्यामि सुरसुन्दरि । स्नुहीक्षीरेण शुल्बस्य पत्त्रलेपं तु कारयेत् ॥ १२.११७ ॥ क्षीरेण तापयेद्भूयः सप्तवारं वरानने । आवर्तितं भवेद्यावज्जाम्बूनदसमप्रभम् ॥ १२.११८ ॥ अथातस्तिलतैलेन पाचयेच्च दिनत्रयम् । तथा शुल्वस्य पत्त्राणि वेध्यं जाम्बुनदं भवेत् ॥ १२.११९:१ ॥ रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् । दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥ १२.११९:२ ॥ स्नुहीक्षीरं समादाय निशार्धं हेम चोभयम् । कुनटीं गन्धचूर्णं च सर्वमेकत्र मर्दयेत् ॥ १२.१२० ॥ अनेनैव प्रकारेण निशार्धं हेम शोधयेत् । गुटिकाकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥ १२.१२१ ॥ अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ॥ १२.१२२ ॥ पद्मिनीसदृशी पत्त्रैः पुष्पैरपि च तादृशी । भङ्गे चैव भवेत्क्षीरं रक्तवर्णं सुशोभनम् ॥ १२.१२३ ॥ आक्रम्य वामपादेन पश्येद्गगनमण्डलम् । पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् । लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥ १२.१२४ ॥ तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् । मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥ १२.१२५ ॥ मर्दयेत्सप्तरात्रं तु तेन शुल्वं च वेधयेत् । सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥ १२.१२६ ॥ तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये । चारयेत्सूतराजं तु मूकमूषागतं धमेत् ॥ १२.१२७ ॥ म्रियते मूषिकामध्ये संकोचेन न संशयः । तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥ १२.१२८ ॥ अथातः सम्प्रवक्ष्यामि कुमुदिन्या विधिं प्रिये । भित्त्वा काश्मीरिपाषाणे पूर्णिमायां तु कारयेत् ॥ १२.१२९ ॥ तस्याः पञ्चाङ्गमादाय भावयेत्तु मनःशिलाम् । खर्परे धारयित्वा तु भावयेत्तु पुनः पुनः ॥ १२.१३० ॥ खर्परे द्रावितं नागं तत्कल्केन युतं कुरु । काश्मीरद्रवतुल्यं हि जायते कनकं ध्रुवम् ॥ १२.१३१ ॥ चित्रकस्य यथा ग्राह्यं कथयामि समासतः ॥ १२.१३२ ॥ चित्रकस्त्रिविधो ज्ञेयो रक्तः कृष्णो रसायने । शुक्लो व्याधिप्रशमने श्रेष्ठो मध्यः कनीयसः ॥ १२.१३३ ॥ कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः ॥ १२.१३४ ॥ कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि । क्षीरमध्यस्थितं क्षीरं कृष्णवर्णं भवेत्क्षणात् ॥ १२.१३५ ॥ तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् । धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥ १२.१३६ ॥ रक्ताम्बरधरो भूत्वा रक्तमाल्यानुलेपनः । कृष्णपक्षे तु पञ्चम्यां रक्तशाल्योदनेन तु । बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ॥ १२.१३७ ॥ रक्तचित्रकचूर्णेन वङ्गस्तापैस्त्रिभिस्त्रिभिः । सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ॥ १२.१३८ ॥ तन्मूलं सूतकं चाम्ले कङ्गुणीतैलसेवनात् । एकविंशतिवारेण शुल्वं शुद्धं भविष्यति ॥ १२.१३९ ॥ रक्तचित्रकभल्लात- तैललिप्तं पुटेन तु । चन्द्रार्कपत्त्रं देवेशि जायते हेम शोभनम् ॥ १२.१४० ॥ नागिनीकन्दसूतेन्द्रं रक्तचित्रकसंयुतम् । पत्त्रलेपप्रमाणेन चन्द्रार्कं काञ्चनं भवेत् ॥ १२.१४१ ॥ रक्तचित्रकसंयुक्तो रसोऽपि सर्वदो भवेत् ॥ १२.१४२ ॥ ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥ १२.१४३ ॥ ज्योतिष्मती नाम लता या च काञ्चनसंनिभा । वल्लीवितानबहुला हेमवर्णफला शुभा ॥ १२.१४४ ॥ आषाढपूर्वपक्षे तु गृहीत्वा बीजमुत्तमम् । तिलवत्क्वाथयित्वा तु हस्तैः पादैरथापि वा । तस्य तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ॥ १२.१४५ ॥ तापयेद्भूगतं कुम्भं क्रमादूर्ध्वं तुषाग्निना । षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ॥ १२.१४६ ॥ तं तु हेममयं कृत्वा तैलमाक्षिकमिश्रितम् । प्रतिवापे निषिञ्चेत्तथेम ताम्रसमं भवेत् ॥ १२.१४७ ॥ तथाच शतवेधि स्याद्विद्यारत्नमनुत्तमम् ॥ १२.१४८ ॥ दग्धारोहां प्रवक्ष्यामि रसबन्धकरीं प्रिये । स्पर्शवेधे तु सा ज्ञेया सर्वकार्यार्थसाधिनी ॥ १२.१४९ ॥ शस्त्रच्छिन्ना महादेवि दग्धा वा पावकेन तु । प्ररोहति क्षणाद्दिव्या दग्धा छिन्ना महौषधी ॥ १२.१५० ॥ रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते । चणकस्येव पत्त्राणि सुप्रसूतानि लक्षयेत् ॥ १२.१५१ ॥ सा स्थिता गोमतीतीरे गङ्गायामर्बुदे गिरौ । उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥ १२.१५२ ॥ तस्याः कन्दरसं दिव्यं कृष्णराजिसमन्वितम् । ताम्बूलेन समं कृत्वा गुटिकां कारयेद्बुधः ॥ १२.१५३ ॥ सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः । सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥ १२.१५४ ॥ तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः । कुरुते काञ्चनं दिव्यं देवाभरणभूषणम् ॥ १२.१५५ ॥ कटुतुम्बीति विख्यातां देवि दिव्यौषधीं शृणु ॥ १२.१५६ ॥ तस्या बीजानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥ १२.१५७ ॥ एकविंशतिवारांस्तु भाव्यं धात्रीरसेन तु । पयसा सहितेनैव विश्वभेषजसंयुतम् ॥ १२.१५८ ॥ बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पण्डितः । रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् ॥ १२.१५९ ॥ गोपित्तं शिखिपित्तं च काङ्क्षीकासीससंयुतम् । तारतुल्यानि चैतानि सर्वेषां सूतकः समः ॥ १२.१६० ॥ मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् । लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ॥ १२.१६१ ॥ गन्धकं लोहदण्डेन एकविंशतिभावितम् । युक्तं लोहमनेनैव जम्बीररससंयुतम् ॥ १२.१६२:१ ॥ सबीजं सूतकोपेतमन्धमूषानिवेशितम् । भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ॥ १२.१६२:२ ॥ दलस्य भागमेकं तु तारपञ्चकमेव च । शुल्वस्य पञ्चभागं च बीजस्यैकं च योजयेत् ॥ १२.१६३ ॥ एते द्वादश भागाः स्युः सर्वं तद्धारयेत्क्षितौ । स्थानस्यास्य निषेकं तु भूदण्डेन तु कारयेत् ॥ १२.१६४ ॥ पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥ १२.१६५ ॥ क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं परम् । चतुर्वर्णविधं तत्र रक्तकन्दः प्रशस्यते ॥ १२.१६६ ॥ भग्नमेतच्छ्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ॥ १२.१६७ ॥ मेघानां तु निनादेन संजातैरुपशोभितैः । पत्त्रैः स्नुहीसमैः स्निग्धैः सप्तभिर्हेमसुप्रभैः । बन्धनं रसराजस्य सर्वसत्त्ववशंकरम् ॥ १२.१६८ ॥ तस्य क्षीरं तु संगृह्य तारं निर्वापयेद्बुधः । धमेद्धवाग्निना चैव जायते हेम शोभनम् ॥ १२.१६९ ॥ तिन्तिणीपत्त्रनिर्यासैरीषत्ताम्ररजोयुतम् । मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति ॥ १२.१७० ॥ तोयमध्ये विनिक्षिप्य गुटिका वज्रवद्भवेत् ॥ १२.१७१ ॥ शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् । रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ॥ १२.१७२ ॥ गन्धपाषाणगन्धेन आयसे विनियोजयेत् । मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥ १२.१७३ ॥ गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् । रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥ १२.१७४ ॥ शाकवृक्षस्य निर्यासं पत्त्रे तस्य च गालयेत् । शिग्रुमूलस्य चूर्णं तु तद्रसेन विमर्दयेत् ॥ १२.१७५ ॥ प्रलिप्य शुल्वपत्त्राणि पुटे क्षिप्त्वा विपाचयेत् । तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥ १२.१७६ ॥ फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् । तद्रसेन युतं प्राज्ञः सप्तरात्रं तु भावयेत् ॥ १२.१७७ ॥ तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा । लेपयेत्तारपत्त्राणि ध्मातं भवति काञ्चनम् ॥ १२.१७८ ॥ देवदाल्या महौषध्या विधिं वक्ष्यामि तत्परम् । सा श्वेता व्याधिनाशे च कृष्णा पीता रसायने ॥ १२.१७९ ॥ पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे । अथवा कृष्णपञ्चम्यामिमां विधिवदुद्धरेत् ॥ १२.१८० ॥ देवदालीफलं देवि विष्णुक्रान्ता च सूतकम् । मूर्छयेद्बन्धयेत्क्षिप्रं शुल्वं हेम करोति च ॥ १२.१८१ ॥ देवदालीफलं मूलमीश्वरीरस एव च । तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥ १२.१८२ ॥ अतः परं प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ॥ १२.१८३ ॥ कृष्णपक्षे चतुर्दश्यामष्टम्यां वा सुरार्चिते । कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु ॥ १२.१८४ ॥ बीजानि सितगुञ्जायाः पुष्पयोगेन वापयेत् । वक्ष्यमाणेन मन्त्रेण कुर्यात्संग्रहणं तथा ॥ १२.१८५ ॥ नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि सर्वकार्याणि कुरु कुरु अप्रतिहते नमो नमः स्वाहा । अनेन मनुना प्रोक्ता सिद्धिर्भवति नान्यथा । षण्मासेन तथा वल्लीं मन्त्रपूतेन रक्षयेत् ॥ १२.१८६ ॥ शुद्धशुल्वं तु संगृह्य मूषामध्ये तु संस्थितम् । त्रिपञ्चपलसंख्यं तु कर्षार्धसितगुञ्जया ॥ १२.१८७ ॥ सहैकत्र भवेत्तारं तस्य गन्धविवर्जितम् । ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः । देवानां भूषणं देवि जायते हेम शोभनम् ॥ १२.१८८ ॥ चन्द्रोदकेन देवेशि वक्ष्यामि रसबन्धनम् ॥ १२.१८९ ॥ शुक्लपक्षे पूर्णमास्यां दृष्ट्वा पूर्णेन्दुमण्डलम् । निर्गच्छन्ति महीं भित्त्वा चन्द्रतोयान्यनेकधा ॥ १२.१९० ॥ कानिचिन्मृत्तिवर्णानि रसेन लवणानि तु । कानिचिच्चन्द्रतुल्यानि व्योमभासानि कानिचित् । चन्द्रवृद्ध्याभिवर्धेरन् क्षीयेरन् तत्क्षयेण तु ॥ १२.१९१ ॥ दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः । निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या विवर्धते ॥ १२.१९२ ॥ क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शंकरम् । चतुर्दश्यां च तत्क्षेत्रं पूजयित्वा विचक्षणः । अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥ १२.१९३ ॥ पूर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः । चन्द्रोदकं तु संगृह्य मन्त्रयुक्तं सुमन्त्रितम् । आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ॥ १२.१९४ ॥ पीतमात्रेण तेनैव मूर्छा भवति तत्क्षणात् । चन्द्रोदये ततो दृष्टे क्षीरं तस्य तु दापयेत् । सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥ १२.१९५ ॥ एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयम् । एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥ १२.१९६ ॥ चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् । मूषामध्यगतं ध्मातं तत्क्षणाद्गुटिका भवेत् ॥ १२.१९७ ॥ अयं च स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ॥ १२.१९८ ॥ तद्रसेन रसं भाव्यं वज्रेण समजारितम् । चतुःषष्ट्यंशतः पिण्डे द्विगुणे तु सहस्रकम् ॥ १२.१९९ ॥ दशसंकलिकाबद्धं गुञ्जामात्रं रसं नरः । त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ॥ १२.२०० ॥ ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्ननाशाय दिशां रक्ष रक्ष विदिशां रक्ष रक्ष रुद्रो विज्ञापयति हुं फट्स्वाहा । ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भवाय रक्ष रक्ष फट्स्वाहा । अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ॥ १२.२०१ ॥ असुराणां समायोगे क्रोधाविष्टेन चेतसा । सुदर्शनं महाचक्रं प्रेरितं मुरवैरिणा ॥ १२.२०२ ॥ भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः । ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ॥ १२.२०३ ॥ रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् । चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति ॥ १२.२०४ ॥ कुरुते गर्जितं नादं धूमं ज्वालां विमुञ्चति । कर्तरी दृष्टिमात्रेण तथान्या शब्दकर्तरी ॥ १२.२०५ ॥ सा स्पर्शकर्तरी छाया- कर्तरी धूमकर्तरी । सा ज्वालाकर्तरी चैव शक्तिर्घोरस्य कर्तरी ॥ १२.२०६ ॥ लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता । रसरूपा महाघोरा असिद्धानां तु छेदिनी ॥ १२.२०७ ॥ तस्याः क्षेत्रं यदा गच्छेतघोरास्त्रं जपेत्तदा । पुनर्घोरं न्यसेत्तत्र अथास्त्रं विन्यसेद्बुधः ॥ १२.२०८ ॥ अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् । मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ॥ १२.२०९ ॥ दीपेनाराधयेत्तां तु स्तम्भयेद्धूपनेन च । विष्टरामुद्रया तां तु स्थानयोगं नियोजयेत् ॥ १२.२१० ॥ कञ्चुकी तु शिला क्रान्ता कुमारी वज्रकन्दकम् । योषिद्रक्तं गवां मूत्रं तिलकः सर्ववश्यकृत् ॥ १२.२११ ॥ अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥ १२.२१२ ॥ विषोदकं विषसमं घृतवच्च घृतोदकम् । सितपीतादिवर्णाढ्यं तच्च देवि रसोत्तमम् ॥ १२.२१३ ॥ तत्र गत्वा वनोद्देशे स्मरेद्घोरसहस्रकम् । केशाः क्षिप्ताः स्फुटन्त्यस्मिनात्मच्छाया न दृश्यते ॥ १२.२१४ ॥ तैलं च गोलकाकारं घृतं चैव विसर्पति । गन्धकस्य हरेद्गन्धं लवणाम्लं च जायते ॥ १२.२१५ ॥ आप्त्वा पालाशपत्त्रेण कटुकालाबुके क्षिपेत् । विषोदकं गन्धकं च हरबीजं च तत्समम् ॥ १२.२१६ ॥ अजाक्षीरेण पिष्ट्वा तु शुल्वपत्त्राणि लेपयेत् । तत्पुटेन च देवेशि सिन्दूरारुणसंनिभम् । शतांशेनैव देवेशि सर्वलोहानि वेधयेत् ॥ १२.२१७ ॥ अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् । सहस्रांशेन तस्यैवं तारं वेधं प्रदापयेत् ॥ १२.२१८ ॥ रक्तं पीतं तथा कृष्णमुत्तरोत्तरकार्यकृत् ॥ १२.२१९ ॥ त्रिपलं कान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा । गृहीत्वा पूर्ववत्पत्त्रैः पालाशैर्वेष्टयेद्बहिः ॥ १२.२२० ॥ स्थापयेद्धान्यराशौ तु दिवसानेकविंशतिम् । महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ॥ १२.२२१ ॥ पायसं भक्षयेद्यस्तु मध्वाज्येन तु संयुतम् । यावच्चूर्णपलं देवि जीवेत्तद्बिन्दुसंख्यया ॥ १२.२२२ ॥ लाङ्गली गृहधूमं च सिन्दूरं रजनीद्वयम् । मेषशृङ्गीं च शृङ्गीं च कृष्णोन्मत्तं च मारकम् ॥ १२.२२३:१ ॥ सबीजं सूतकं चैव विषतोयेन मर्दितम् । विषतोयेन मेधावी सप्तवारांश्च भावयेत् ॥ १२.२२३:२ ॥ अथवा भावयेत्तत्तु यावच्चूर्णं तु तद्भवेत् । तेन नागं प्रतीवाप्य षोडशांशेन सम्भवेत् ॥ १२.२२४ ॥ मूषाख्ये वेणुयन्त्रे च त्रिवारमपि भावयेत् । धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ॥ १२.२२५ ॥ स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये ततः । तच्चूर्णं तु शतांशेन तारपत्त्राणि वेधयेत् ॥ १२.२२६ ॥ विषपानीयमादाय यवागौ वर्तितं शुभम् । निषिक्तं तच्च वर्तेऽयं तारं भवति शोभनम् ॥ १२.२२७ ॥ विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे । कुनटीगन्धपाषाण- विषटङ्कणलाङ्गली ॥ १२.२२८:१ ॥ नष्टपिष्टीकृतं खल्ले तारपत्त्राणि लेपयेत् । अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ॥ १२.२२८:२ ॥ ओं श्रीनीलकण्ठाय ठ ठः । अस्यायुतं जपेत् । विषतृणविधिं वक्ष्ये समाहितमनाः शृणु ॥ १२.२२९ ॥ गन्धमाक्षीकदरदं कुनट्या रससंयुतम् । विषतृणसमायुक्तं मातुलुङ्गाम्लमर्दितम् ॥ १२.२३० ॥ एतत्कल्कं पलमात्रं चौषध्या लेपनं कुरु । निर्यासे तु पुटं कुर्यात्त्रिवारं हेम शोभनम् ॥ १२.२३१ ॥ संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥ १२.२३२ ॥ शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते । दानवानां हितार्थाय मृतानां देवसंगरे ॥ १२.२३३ ॥ मया संजीवनी विद्या दत्ता चोदकरूपिणी । तया संजीविता दैत्या ये मृता देवसंगरे ॥ १२.२३४ ॥ निक्षिप्ता मर्त्यलोके सा सम्यक्ते कथयाम्यहम् ॥ १२.२३५ ॥ अस्ति मर्त्ये महापुण्या पवित्रा दक्षिणापथे । नदी गोदावरी नाम प्रसिद्धा जाह्नवी यथा ॥ १२.२३६ ॥ दक्षिणे च तटे तस्याः कदलीनगरं परम् । तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥ १२.२३७ ॥ नाम्ना कृष्णगिरिश्चेति दृश्यते सर्वमङ्गले । सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति संनिधौ ॥ १२.२३८ ॥ तत्राप्युदकमालोक्य परीक्ष्येत सुरार्चिते ॥ १२.२३९ ॥ गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः । जायते हरितं स्निग्धमहोरात्रेण निश्चितम् । मुञ्चत्यङ्कुरपत्त्राणि दृश्यते तन्मनोहरम् ॥ १२.२४० ॥ बलिपुष्पोपहारेण ततो देवीं समर्चयेत् । क्षेत्राधिपं गणेशंच चण्डयोनीश्वरं तथा ॥ १२.२४१ ॥ तस्य मन्त्रं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ॥ १२.२४२ ॥ ओं चण्डाय पिनाकिने शूलहस्ताय ओं दिशां बन्धय विदिशां बन्धय ठठः । तिलांश्च तण्डुलांश्चैव मन्त्रेणानेन सर्षपान् । सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥ १२.२४३ ॥ कटुकालाबुके तोयं कृतरक्षं समाहितः । गृहीत्वा तत्प्रयत्नेन निजस्थानं समाश्रयेत् ॥ १२.२४४ ॥ ओं नमोऽमृतेऽमृतरूपिणि अमृतं मे कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा । सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् । दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् । मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ॥ १२.२४५ ॥ एकविंशतिरात्रेण क्षीराहारोऽथ यत्नतः । जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः ॥ १२.२४६ ॥ योजनानां शतं गत्वा पुनरेव निवर्तते । अवध्यः सर्वभूतानां स्वेच्छाचारः स खेचरः ॥ १२.२४७ ॥ कनकं पारदं व्योम सममेकत्र योजयेत् । मर्दयेत्तेन तोयेन सप्तवारं तु स्वेदयेत् ॥ १२.२४८ ॥ स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥ १२.२४९ ॥ अथवा तं रसं दिव्यं मधुना सह भक्षयेत् । मासमात्रप्रयोगेण जीवेद्ब्रह्मदिनायुतम् ॥ १२.२५० ॥ तस्य मूत्रमलस्वेदैः शुल्वं भवति काञ्चनम् ॥ १२.२५१ ॥ निर्वाते तोयमादाय अञ्जलित्रितयं पिबेत् । पीतमात्रे भवेन्मूर्छा स्वास्थ्यं स्यात्प्रहरत्रयात् ॥ १२.२५२ ॥ एकविंशद्दिनान्येवं क्षीराहारो भवेत्ततः । अष्टवर्षाकृतिः प्राज्ञः कामरूपो महाबलः ॥ १२.२५३ ॥ पश्येच्छिद्रां महीं सर्वां सप्तपातालसंयुताम् । अवध्यो देवदैत्यानां कल्पायुश्च प्रजायते ॥ १२.२५४ ॥ अथवोदकमादाय पारदं च मनःशिलाम् । मर्दयेत्खल्लपाषाणे नष्टपिष्टं भवेत्ततः ॥ १२.२५५ ॥ स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥ १२.२५६ ॥ अन्तर्धानं क्षणाद्गच्छेत्विद्याधरपतिर्भवेत् । सिद्धकन्याशतवृतो यावत्कल्पान् चतुर्दश ॥ १२.२५७ ॥ दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् । पयसा च समायुक्तं नित्यमेवं तु कारयेत् ॥ १२.२५८ ॥ उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु । पश्येदुष्णोदकं यत्र वासं तत्रैव कारयेत् ॥ १२.२५९ ॥ अस्ति गोदावरी नाम महाराष्ट्रेऽतिविश्रुता । तस्या उत्तरभागे तु सह्याद्रिः पुण्यपर्वतः ॥ १२.२६० ॥ तत्र मातापुरं नाम प्रसिद्धं देवतागृहम् । तस्मादुत्तरतो देवि कम्पाख्यं नगरं परम् ॥ १२.२६१ ॥ तत्र कम्पेश्वरो देवस्तत्रास्त्युष्णोदकं ध्रुवम् । प्रणीताख्या नदी तत्र स्नात्वा वै साधकोत्तमः । पश्चादुष्णोदके कुण्डे विधिं कुर्याद्यथोदितः ॥ १२.२६२ ॥ शर्वरीमुषितस्तत्र धनवांश्च दिने दिने । भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकम् ॥ १२.२६३ ॥ वर्षमेकं प्रयुञ्जीत जीवेद्वर्षायुतं सुखी । वलीपलितनिर्मुक्तो भोगी चैव पुरंदरः ॥ १२.२६४ ॥ वर्षमेकं पिबेत्तोयं जीवेच्चन्द्रार्कतारकम् । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ १२.२६५ ॥ उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् । चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ॥ १२.२६६ ॥ शुल्वं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु । तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ॥ १२.२६७ ॥ निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः । शुल्वं च जायते हेम तरुणादित्यवर्चसम् ॥ १२.२६८ ॥ तज्जलेन निषिक्तं च हेम बीजार्थसंयुतम् । तारं चानेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥ १२.२६९ ॥ उष्णोदकेन भल्लातं तिलपिष्टं च भक्षयेत् । मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥ १२.२७० ॥ रसगन्धाश्मरसकं तुत्थं दरदमाक्षिकम् । याममुष्णाम्भसा घृष्टं तारपत्त्राणि लेपयेत् ॥ १२.२७१ ॥ द्विवारं तु धमेद्देवि स्याच्चतुर्दशवर्णकम् । क्रमेणानेन देवेशि शुल्वं षोडशवर्णकम् ॥ १२.२७२ ॥ एकैकं हेमतारांशं द्वंद्वं कान्ताभ्रयोः पृथक् । उष्णोदकेन संमर्द्य धमनात्खोटतां व्रजेत् ॥ १२.२७३ ॥ तन्मुखे धारयेन्मासं वज्रकायो भवेन्नरः । तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा । यावत्पलं तस्य मलैः शुल्वं भवति काञ्चनम् ॥ १२.२७४ ॥ उष्णोदपाचितान् खादेत्कुलत्थान् क्षीरपो भवेत् । स्नानमुष्णाम्भसा कुर्यात्वर्षाद्वर्षशतायुषम् ॥ १२.२७५ ॥ क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् । पायसं कान्तपात्रे तन्मासमेकं तु भक्षयेत् । भुक्त्वा जीवेत्कल्पशतं वैष्णवायुर्भवेन्नरः ॥ १२.२७६ ॥ अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये । कर्दमापो महीशैलं शिलं चेति चतुर्विधम् ॥ १२.२७७ ॥ कानिचित्क्षणवेधीनि दिनवेधीनि कानिचित् । पक्षमासादिषण्मास- वेधनानि महीतले ॥ १२.२७८ ॥ क्षिप्तं यदा भवेत्काष्ठं शैलीभूतं च दृश्यते । बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितम् ॥ १२.२७९ ॥ हिङ्गुलं हरितालं च गन्धकं च मनःशिला । एषां गन्धापहारं यत्कुरुते तच्च वेधकम् ॥ १२.२८० ॥ गन्धकं तालकं चैव तोयपूर्णे घटे क्षिपेत् । यदा तद्बुद्बुदाकारं तदा शैलोदकं भवेत् । अन्यथा वेष्टकं देवि तदग्राह्यं निरर्थकम् ॥ १२.२८१ ॥ श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले । तत्रस्थं क्षणवेधि स्यात्नदीभगवतीतटे । एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ॥ १२.२८२ ॥ भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवासरम् । धारेश्वरे पाक्षिकं स्यात्वर्षापुर्यां दिनैकतः ॥ १२.२८३ ॥ ब्रह्मेश्वरे मासिकं स्यात्व्याघ्रपुर्यां तु वासरम् । अघोरेशे मासिकं तु सिंहद्वीपे तथा पुनः । दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥ १२.२८४ ॥ वासरं माल्यवन्तेषु क्षणवेधि शिलोदकम् ॥ १२.२८५ ॥ किष्किन्ध्यापर्वते रम्ये पम्पातीरे तृणोदकम् । तस्य पश्चिमतो देवि योजनद्वितये पुनः । भूशैलमस्ति तत्रैव त्रिदिनं वेधि पर्वते ॥ १२.२८६ ॥ सह्याचले पुरे देव्याः क्षीरक्षेत्रस्य संनिधौ । शैलोदकं कोटिवेधि दुर्जदेशेऽपि वासरम् । लक्षवेधि नृसिंहस्य नगरे गोकुलाभिधे ॥ १२.२८७ ॥ अन्यत्र यत्र तत्रापि ब्रह्मविष्णुशिवोद्भवम् । अमृतं तत्र तत्रापि वज्रीकरणमुत्तमम् ॥ १२.२८८ ॥ तस्योत्पत्तिं प्रवक्ष्यामि यथा जानन्ति साधकाः ॥ १२.२८९ ॥ महीं समुद्धृतवतो वराहस्य कलेवरात् । यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परम् ॥ १२.२९० ॥ तन्मुखे क्षणिकं जातं क्रोडदेशे तु वासरम् । बाहुभ्यां त्र्यहवेधि स्यात्मासवेधि तु पार्श्वयोः । षण्मासमपराङ्गे च सर्वं समफलं भवेत् ॥ १२.२९१ ॥ अघोरास्त्रेण तत्क्षेत्र- रक्षां कृत्वा दिशां बलिम् । दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥ १२.२९२ ॥ शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते । आयसे ताम्रपात्रे वा पात्रेऽलाबुमयेऽथवा । शैलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ॥ १२.२९३ ॥ क्षीरावशेषं संक्वाथ्य त्रिसप्ताहं पिबेन्नरः । जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः ॥ १२.२९४ ॥ अथवाष्टपलं क्षीरं पलैकेनाम्बुना युतम् । क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ॥ १२.२९५ ॥ कुलत्थाष्टगुणं वारि पचेदष्टावशेषितम् । चतुर्गुणेन तेनाज्यं पाचयेद्धृतशेषितम् ॥ १२.२९६ ॥ लिह्यान्मधुसमोपेतं त्रिसप्ताहं बृहस्पतिः । मासेन शास्त्रसम्पत्तिं ज्ञात्वा देवि बलाबलम् । द्विरष्टवर्षकाकारः सहस्रायुर्न संशयः ॥ १२.२९७ ॥ अवशिष्टकुलत्थं तु पादांशं मधुसर्पिषा । भक्षयेद्वर्षमेकं तु मासेनायुतजीवितः ॥ १२.२९८ ॥ तत्सिद्धतैलेनाभ्यङ्गं मर्दनं चापि कारयेत् । मासमेकं ततो मर्द्यं देहसिद्धिं करोति च ॥ १२.२९९ ॥ पामाविचर्चिकादद्रु- कुष्ठानि सहसा जयेत् । वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥ १२.३०० ॥ यः पिबेत्प्रातरुत्थाय शैलाम्बुचुलुकत्रयम् । षण्मासात्स्यात्सहस्रायुर्वलीपलितवर्जितः ॥ १२.३०१ ॥ अथवा सूतकं देवि वारिणा सह मर्दयेत् । मासेनैकेन देवेशि नष्टपिष्टं भविष्यति ॥ १२.३०२ ॥ मासमात्रं समश्नीयात्स भवेदजरामरः ॥ १२.३०३ ॥ अथवा तं रसं हेम्ना हेमभस्म ततो बली । मर्दयेत्तेन तोयेन धामयेत्खदिराग्निना ॥ १२.३०४ ॥ गुटिका सुन्दरी नाम सर्वायुधनिवारणी । कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥ १२.३०५ ॥ कुनटी चाभ्रमाक्षीकं हेम तारं तथैव च । तत्सर्वं पयसा क्षीरैर्मद्यं पाच्यं दिनत्रयम् । मासमात्रप्रयोगेण वलीपलितवर्जितः ॥ १२.३०६ ॥ अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् । मासमात्रप्रयोगेण वलीपलितनाशनम् ॥ १२.३०७ ॥ पक्त्वा तेनाम्भसा पथ्याः षष्टिं त्रीणि शतानि च । मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥ १२.३०८ ॥ दिने दिने तथैकैकं भक्षयेत्प्रातरुत्थितः । वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥ १२.३०९ ॥ शैलीभूतं कुलत्थं वा भक्षयेन्मधुसर्पिषा । षण्मासेन प्राशनेन जीवेद्वर्षसहस्रकम् ॥ १२.३१० ॥ कूष्माण्डं मारितं कृत्वा यानि कानि फलानि च । जले क्षिप्तानि लोहानि शैलीभूतानि भक्षयेत् । क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ॥ १२.३११ ॥ तेनोदकेन संमर्द्य अभ्रकं क्वाथयेत्प्रिये । कटुत्रययुतं खादेत्जीवेद्वर्षसहस्रकम् ॥ १२.३१२ ॥ अथवा रसकर्षैकं तज्जलेन तु मर्दयेत् । इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगम् । कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥ १२.३१३ ॥ षण्मासं तन्मुखे धार्यं वज्रकायं करोति च । दशनागसमप्राणो देवैः सह च मोदते ॥ १२.३१४ ॥ गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् । यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः ॥ १२.३१५ ॥ कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् । भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥ १२.३१६ ॥ उदयादित्यसंकाशो मेधावी प्रियदर्शनः । नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥ १२.३१७ ॥ पारदं हरितालं च शिला माक्षिकमेव च । दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥ १२.३१८ ॥ मर्दयेत्खल्लपाषाणे मातुलुङ्गरसेन च । गोलकं कारयित्वा तु वारिमध्ये निधापयेत् ॥ १२.३१९ ॥ तेन तारं च शुल्वं च काञ्चनं भवति ध्रुवम् ॥ १२.३२० ॥ उपयुञ्जीत मासैकं वलीपलितवर्जितः । सहस्रं जीवितं तस्य महाबलपराक्रमः ॥ १२.३२१ ॥ शैलीभूतां हरिद्रां तु तच्चूर्णवापमात्रतः । हेमत्वं लभते नागो बालार्कसदृशप्रभम् ॥ १२.३२२ ॥ शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा । ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः ॥ १२.३२३ ॥ रक्तक्षारयुतं ध्मातं सुवर्णं समसारितम् । शतांशेन तु लोहानां सर्वेषां हेमकारकम् ॥ १२.३२४ ॥ द्वितीयसारणां प्राप्य भक्षयेन्मधुसर्पिषा । तत्कालं चित्तजातानामूर्ध्वं भवति चानिलः ॥ १२.३२५ ॥ कालज्ञानं भवेत्तस्य जीवेदयुतपञ्चकम् ॥ १२.३२६ ॥ द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति । तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ॥ १२.३२७ ॥ निचुले ककुभे चैव किंशुके मधुकेऽपि वा । इङ्गुदीफलमध्ये वा रजनीद्वयमध्यतः ॥ १२.३२८ ॥ पारदं गन्धकं चैव मर्दयेत्गुलिकाकृति । पाचयेद्दिनमेकं तु हेम्ना संवेष्ट्य धारयेत् ॥ १२.३२९ ॥ त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः । पादेन कनकं दत्त्वा पारदं तत्र योजयेत् । क्षिपेच्छैलाम्बुमध्यस्थं गुलिका वज्रवद्भवेत् ॥ १२.३३० ॥ पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् । धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥ १२.३३१ ॥ द्वितीयसारणायोगादयुतं वेधयेत्तु सा । धार्यमाणा मुखे सेयमयुतायुःप्रदा भवेत् ॥ १२.३३२ ॥ तृतीयसारणायोगाज्जायते लक्षवेधिनी । तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥ १२.३३३ ॥ चतुर्थीं सारणां प्राप्य कोटिवेधो न संशयः । कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥ १२.३३४ ॥ पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् । यावच्चन्द्रार्कजीवित्वमनन्तबलवीर्यवान् ॥ १२.३३५ ॥ ददाति सप्तमीं सापि सारणां गुटिका परा । खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥ १२.३३६ ॥ यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् । वज्रदेहः स सिद्धः स्यात्दिव्यस्त्रीजनवल्लभः । क्रीडते खेचरैर्भोगैः स्वेच्छया शिवतां व्रजेत् ॥ १२.३३७ ॥ नानाविधफलं च स्यात्तद्रसैर्बीजतैलतः । तद्बद्धं पारदं चैव गुटिकां शृणु सुन्दरि ॥ १२.३३८ ॥ शुद्धबद्धरसेन्द्रस्तु गन्धकं तत्र जारयेत् । त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥ १२.३३९ ॥ कारयेद्भस्म सूतं तु काञ्चनं तत्र सूतकम् । तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥ १२.३४० ॥ तेन सूतकजीर्णेन वज्ररत्नं तु जारयेत् । तद्वज्रं जायते भस्म सिन्दूरारुणसंनिभम् ॥ १२.३४१ ॥ तद्भस्म जारयते सूते त्रिगुणे तु सुरार्चिते । हाटके सारयेत्तं तु गुटिकां तेन कारयेत् ॥ १२.३४२ ॥ त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः । नष्टच्छायो भवेत्सोऽयमदृश्यो देवदानवैः ॥ १२.३४३ ॥ तत्क्षणाद्वेधयेद्देवि सर्वलोहानि काञ्चनम् । बहुवर्षसहस्राणि निर्वलीपलितो भवेत् ॥ १२.३४४ ॥ शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् । वक्त्रे करे च बिभृयात्सर्वायुधनिवारणात् ॥ १२.३४५ ॥ व्योम माक्षिकसत्त्वं च तारामात्रं सुरायुधम् । वैक्रान्तं तालकं सूतं रत्नादिगुणभूषितम् ॥ १२.३४६ ॥ गुटिका सा वरारोहे मधुरत्रयसंयुता । वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः । शिवशक्तिश्च देवेशि रत्नादिशिवगा यथा ॥ १२.३४७ ॥ हेम तारं तथा भानुं समभागानि कारयेत् । स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥ १२.३४८ ॥ सेचयेत्तत्तथावेष्ट्य गुह्यस्थाने निधापयेत् । रणे राजकुले द्यूते दिव्ये काम्ये जयो भवेत् । यन्मुखे चैव तद्गोलं स सर्वरञ्जको भवेत् ॥ १२.३४९ ॥ वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् । विभीतकादिसम्भूत- काञ्चिकस्य समं भवेत् ॥ १२.३५० ॥ राजावर्तं ततः सूते योजयेत्पादयोगतः । कुमारीरससंघृष्टा कृतैका गुटिका शुभा । रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ॥ १२.३५१ ॥ पञ्चतारं वरारोहे सूतकं द्वयमेव च । त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः ॥ १२.३५२ ॥ अर्धशुल्वविधानेन गुटिकामरसुन्दरि । अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः । सर्वरोगविनिर्मुक्तो जीवेद्वक्त्रे विधारणात् ॥ १२.३५३ ॥ भस्मसूतपलैकं च मृतकान्तपलं तथा । माक्षिकस्य पलं चैव शिलाजतुपलं पुनः ॥ १२.३५४ ॥ पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा । एकीकृत्याथ तत्सर्वं मध्वाज्येन तु पेषयेत् ॥ १२.३५५ ॥ गुटिकाः कारयेद्देवि षष्ट्यधिकशतत्रयम् । एकैकं भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ॥ १२.३५६ ॥ जीवेद्वर्षसहस्राणि रुद्रतुल्यो महाबलः ॥ १२.३५७ ॥ अतः परं प्रवक्ष्यामि रसभस्मरसायनम् । विज्ञेयं निष्परीहारं साक्षाद्दिव्यौषधं परम् ॥ १२.३५८ ॥ आमलक्यादि कान्तं च पारदं च मनःशिलाम् । वाकुचीसप्तभागं च क्षीरिणीरसपेषितम् । मेघनादरसोपेतं मूकमूषागतं पुटेत् ॥ १२.३५९ ॥ माषं त्रिमाषं त्रिगुणं भक्षयेत्तु क्रमेण तु । वर्षत्रयपरं देवि पादनिष्कार्धकं क्रमात् ॥ १२.३६० ॥ षट्सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः । भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ॥ १२.३६१ ॥ किंचित्काञ्चनसंयुक्तं निष्कं निष्कार्धमेव च । यो भक्षयेत्त्रिभिर्वर्षैः सर्वव्याधीन् जयत्यलम् ॥ १२.३६२ ॥ अष्टवर्षे सहस्रायुः द्वादशे लक्षवेधकः । षोडशे वत्सरे देवि दिव्यरूपः स जायते ॥ १२.३६३ ॥ शतपलमभयानामक्षधात्र्योस्तथैव क्वथितजलशताष्टौ भागमष्टावशेषम् । घृतमधुसितयाढ्यं व्योषचित्रं दशांशं रसफलरससिद्धं लोहजीर्णं मृतं च ॥ १२.३६४ ॥ गिरिजतुसममभ्रं कान्तभृङ्गं विडङ्गं रससहितसुभाव्यं तण्डुलैर्दिव्यमुख्यैः । अहिमरकृतकल्कं लोहपात्रस्थमाषं त्रिदिनतनुसुसिद्धं कल्कमेतद्वरिष्ठम् ॥ १२.३६५ ॥ लिहति शयनकाले वामनेत्रावसेवी घननिबिडसुमध्यो मत्तमातंगदर्पः । विगतसकलदोषः सर्वदिग्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥ १२.३६६ ॥ जलदलववपुष्मान् कुञ्चितानीलकेशः सुरगुरुरिव शुद्धः सत्कविश्चित्रकारी । वृषभगतिविचेष्टः स्निग्धगम्भीरघोषः सुरगज इव लोके श्रान्तिहन्ताशु नित्यम् ॥ १२.३६७ ॥ प्रभवति खलु लोके सोमतारार्कजीवी कमलसदनसुश्रीर्न्यायशास्त्रादिवेत्ता । सुजनसमयपाता धर्मदीक्षानुमाता हरिहरमगभीरः सूर्यसोमाब्धिधीरः ॥ १२.३६८ ॥ कान्तहेमरविचन्द्रमभ्रकं गोलकं निहितमिङ्गुदीफले । शैलवारिवरसिद्धगोलकं सुन्दरं ह्यमररञ्जकं शुभम् ॥ १२.३६९ ॥ कान्तहेमरविचन्द्रमभ्रकं वज्ररत्नमहिराजगोलकम् । क्षिप्तमामलककाष्ठकोटरे भूमिशैलनिहितं समुद्धृतम् । शैलतां गतमथाहितं मुखे वज्रकायकरमल्पवासरैः ॥ १२.३७० ॥ तालहेमवरशुल्बसूतकैः गोलकं वरणकाष्ठयन्त्रितम् । शैलवारिकृतसुन्दरीरसं खेचरीति गुटिका निगद्यते ॥ १२.३७१ ॥ शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् । त्रिःसप्तरात्रं दिनमेकमेकं सहस्रजीवी विजयी नरः स्यात् ॥ १२.३७२ ॥ सूतकं चाभ्रकं चैव वज्रीक्षीरसमन्वितम् । हाटकेन समायुक्तं गुटिका खेचरी भवेत् ॥ १२.३७३ ॥ करञ्जफलमध्यस्थं सूतकं तत्र निक्षिपेत् । घृतशैलाम्बुमध्यस्थं सहस्रायुः प्रयच्छति ॥ १२.३७४ ॥ तिन्दुके द्विसहस्रायुः जम्बीरे त्रिसहस्रकम् । मातुलुङ्गे च नारङ्गे चतुःपञ्चसहस्रकम् ॥ १२.३७५ ॥ रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् । विभीतकफले चैव दशसाहस्रसंख्यकम् ॥ १२.३७६ ॥ नारिकेले महाभागे सहस्राणि चतुर्दश । त्रिंशत्सहस्रं पद्मे च लक्षमामलके पुनः ॥ १२.३७७ ॥ अभ्रपत्त्रद्रवे क्वाथमहोरात्रं शिलोदके । तस्मात्तु चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥ १२.३७८ ॥ सारणाक्रमयोगेन नवीनं जायते वपुः । रसे रसायने चैव लक्षवेधी न संशयः ॥ १२.३७९ ॥ कर्दमं च कुमार्याश्च रसेन कृतगोलकम् । धमनात्पतते सत्त्वं मुखे तद्धारयेन्नरः । षण्मासेन प्रयोगेण ह्यजरामरतां व्रजेत् ॥ १२.३८० ॥ स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् । तं खोटं धारयेद्वक्त्रे अदृश्यो भवति ध्रुवम् ॥ १२.३८१ ॥ यस्य यो विधिराम्नात उदकस्य शिवागमे । रसेनैव तु काले तु कुर्यादेव रसायनम् ॥ १२.३८२ ॥