सिद्धिः श्रीनामतो येषां भवेत्सर्वेप्सितं श्रियाम् । नत्वा तानर्हतः कुर्वे कङ्कालाध्यायवार्त्तिकम् ॥ १.१ ॥ गुरुभ्यः किंचिदाकर्ण्य तज्ज्ञैः संसृज्य किंचन । किंचिदप्यनुभूयासौ ग्रन्थो विव्रीयते मया ॥ १.२ ॥ <इम्पोर्तन्चे ओf पेर्सोनलोब्सेर्वतिओन्> प्रोक्तोऽपि गुरुणा साक्षाद्धातुवादो न सिध्यति । यावन्न दृश्यते द्विस्त्रिर्गुरुपार्श्वे क्रियाविधिः ॥ १.३ ॥ यस्मात्तस्मादपि श्रुत्वा यत्र कुत्रापि वीक्ष्य च । द्रव्यव्ययं प्रकुर्वन्तो मुधा ताम्यन्ति बालिशाः ॥ १.४ ॥ प्रसन्नीभूय चेत्सर्वं दर्शयेत्कर्म सद्गुरुः । लीलयापि तदा सर्वे योगाः सिध्यन्त्यसंशयम् ॥ १.५ ॥ ततोऽत्र व्यक्तमुक्तेऽपि ग्रन्थार्थे मुख्यनिश्चयात् । गुरूनुपेक्ष्य नो कार्यो धातुवादे परिश्रमः ॥ १.६ ॥ वक्ति यो न स जानाति यो जानाति न वक्ति सः । ततो यत्रापि तत्रापि प्रसार्यं न मुखं बुधैः ॥ १.७ ॥ रसगुट्यञ्जनाभिज्ञः श्रीकङ्कालययोग्यभूत् । तेन स्वशिष्यशिक्षार्थं रसतत्त्वं निवेदितम् ॥ १.८ ॥ श्रीकङ्कालयशिष्योऽपि स्वान्योपकृतये कृती । एकविंशत्यधीकारं रसाध्यायं निबद्धवान् ॥ १.९ ॥ ------------------ रसाध्यायटीका: तत्रादावेव निर्विघ्नं प्रारब्धकार्यसिद्ध्यर्थमभीष्टदेवतानमस्कारमाह ॥ १.१-९:१ ॥ ____________________________________________________ १.१०-११ श्रीभैरवं प्रणम्यादौ सर्वज्ञं त्रिजगत्प्रभुम् । श्रीभारतीं च विघ्नेशं वन्दे प्रत्यूहशान्तये ॥ १.१० ॥ ब्रह्मचर्यं तपः कार्यं हविष्यान्नस्य भोजनम् । क्रियाभ्रष्टे न सिध्यन्ति तपोनष्टे फलन्ति न ॥ १.११ ॥ ------------------ रसाध्यायटीका: इह रसकर्माणि चतुरशीतिः गुटिकाभेदाश्चतुरशीतिः अञ्जनानि चतुरशीतिः ॥ १.१०-११:१ ॥ एवं ते द्विपञ्चाशदधिके द्वे शते भेदाः ॥ १.१०-११:२ ॥ तत एतेषां भेदानां मध्याद्यदैका काचित्क्रिया प्रारभ्यते तदा प्रारम्भात्पूर्वं मासमेकं ब्रह्मचर्यरूपं तपः कर्तव्यम् ॥ १.१०-११:३ ॥ ब्रह्मचर्यस्यैव सर्वतपोमूलत्वात् ॥ १.१०-११:४ ॥ तद्रहितस्यापरतपसः सर्वस्यापि निष्फलत्वात् ॥ १.१०-११:५ ॥ यद्वा ब्रह्मचर्यं धार्यम् ॥ १.१०-११:६ ॥ तथाचार्यादिना यथायुक्त्या तपः कार्यम् ॥ १.१०-११:७ ॥ द्वयोरपि सर्वकर्मफलानामादिमूलत्वात् ॥ १.१०-११:८ ॥ तथा हविष्यान्नं घृतशर्करामिश्रं पायसं क्षीरभोजनं कार्यम् ॥ १.१०-११:९ ॥ अपरैराहारैर्देहशुद्धेरभावात् ॥ १.१०-११:१० ॥ प्राणायामसाधनाभावाच्च ॥ १.१०-११:११ ॥ तत एवं कर्म पालयता तत्कर्मफलं यावन्नेतव्यम् ॥ १.१०-११:१२ ॥ यतो रसादिका क्रियाः साधके भ्रष्टे यथोक्तभोजनमकुर्वति न सिध्यन्ति ॥ १.१०-११:१३ ॥ तपोनष्टे न च फलन्ति ॥ १.१०-११:१४ ॥ एतच्च ग्रन्थान्ते स्वयं स्पष्टयिष्यति ॥ १.१०-११:१५ ॥ ____________________________________________________ १.१२ अथाध्यायं समायातं श्रीकङ्कालययोगिनः । वदामि व्यञ्जितो यत्र युक्तिभिः शृङ्खलारसः ॥ १.१२ ॥ ------------------ रसाध्यायटीका: श्रीकङ्कालययोगिसमीपात्समायातमध्यायं वदामीति शिष्यवचनम् ॥ १.१२:१ ॥ यत्राध्याये शृङ्खलारसो युक्तिभिरौषधभावनाग्निपुटादिविधिभिः प्रकटीकृतोऽस्ति ॥ १.१२:२ ॥ यथा किल शृङ्खला पूर्वपूर्वतरावयवैरन्योन्यानुप्रवेशात्सम्बद्धा भवति तथा अत्रापि ॥ १.१२:३ ॥ पूर्वं रसस्य शोधनम् ॥ १.१२:४ ॥ ततः शोधितरसस्य मूर्छितोत्थापनम् ॥ १.१२:५ ॥ मूर्छितोत्थापितस्य पातनम् ॥ १.१२:६ ॥ पातितस्य च पुनरुत्थापनम् ॥ १.१२:७ ॥ पातितोत्थापितस्य स्वेदनम् ॥ १.१२:८ ॥ स्वेदेन स्वेदितस्य च नियामित्वम् ॥ १.१२:९ ॥ नियामितस्य निरोधकत्वम् ॥ १.१२:१० ॥ निरोधितस्य च वक्रप्रसारणम् ॥ १.१२:११ ॥ वक्रप्रसारितस्य चाभ्रकजारणम् ॥ १.१२:१२ ॥ जीर्णाभ्रकस्य च लोहजारणम् ॥ १.१२:१३ ॥ जीर्णलोहस्य चायःप्रकाशराजिजारणम् ॥ १.१२:१४ ॥ जीर्णायःप्रकाशराजेश्च हेमराजिजारणम् ॥ १.१२:१५ ॥ जीर्णहेमराजेर्गन्धकजारणम् ॥ १.१२:१६ ॥ जीर्णगन्धकस्य च मनःशिलासत्त्वजारणम् ॥ १.१२:१७ ॥ जीर्णशिलासत्त्वस्य च खापरसत्त्वजारणम् ॥ १.१२:१८ ॥ जीर्णखापरसत्त्वस्य चान्नपथहीरकजारणम् ॥ १.१२:१९ ॥ जीर्णवज्रस्य च बन्धः ॥ १.१२:२० ॥ बन्धस्य सारणम् ॥ १.१२:२१ ॥ सारितस्य च मारणम् ॥ १.१२:२२ ॥ मारितस्य च तस्य क्रामणम् ॥ १.१२:२३ ॥ क्रामितस्य च बन्धः ॥ १.१२:२४ ॥ बन्धस्य चोद्घाटनम् ॥ १.१२:२५ ॥ इति ॥ १.१२:२६ ॥ एवं पूर्वपूर्वतरसंस्कारस्य रसस्याग्रेतनसंस्कारो ग्रन्थितोऽस्तीत्यसौ प्रोच्यत इति तत्त्वम् ॥ १.१२:२७ ॥ ____________________________________________________ १.१३ सूतदोषांस्ततः शुद्धिं संस्कारात्प्राक्वदाम्यहम् । रसानां फलमुत्पत्तिं देहलोहरसायनम् ॥ १.१३ ॥ ------------------ रसाध्यायटीका: सूतस्य पारदस्य द्वादश दोषान् ॥ १.१३:१ ॥ तेषां दोषाणामपगमोपायैः शुद्धिं निर्मलतां ततोऽष्टादश पाटसारणादीन् संस्कारान् पूर्वं वदामि ॥ १.१३:२ ॥ ततः संस्कृतानां रसानां तारादिनिष्पत्तिरूपं फलम् ॥ १.१३:३ ॥ ततो हेम राज्यादीनां खापरसत्त्वादीनां चोत्पत्तिम् ॥ १.१३:४ ॥ ततो देहसाधकम् । लोहसाधकं च रसायनं वदामीति श्रीकङ्कालयशिष्यवचः ॥ १.१३:५ ॥ अत्र क्रमेण प्रतिज्ञातोत्तरमाह ॥ १.१३:६ ॥ ____________________________________________________ १.१४-१६ <रसकञ्चुकाः> मृन्मयः कञ्चुकश्चैको द्विकः पाषाणकञ्चुकः । तृतीयो जलजातश्च द्वौ द्वौ च नागवङ्गजौ ॥ १.१४ ॥ कपालिकालिका वङ्गे नागे श्यामकपालिके । यादृशा च तरा दुग्धे तद्रूपे द्वे कपालिके ॥ १.१५ ॥ पञ्चवर्णा भवेत्श्यामा कालिका कृष्णवर्णिका । सदा सूतस्य जायन्ते सहजाः सप्त कञ्चुकाः ॥ १.१६ ॥ ------------------ रसाध्यायटीका: श्लोकत्रयमपि स्पष्टम् ॥ १.१४-१६:१ ॥ केवलं द्वौ द्वौ च वङ्गनागजौ ॥ १.१४-१६:२ ॥ इति द्वौ वङ्गजौ दोषौ द्वौ च नागजौ ॥ १.१४-१६:३ ॥ कपालि कालिका चेति चतुर्थपञ्चमौ ॥ १.१४-१६:४ ॥ वङ्गजौ दोषौ श्यामकपालिका चेति षष्ठसप्तमौ नागजौ एतेषां चतुर्णां लक्षणमाह ॥ १.१४-१६:५ ॥ दुग्धे क्वथिते सति यादृशी तरा उपरि भवति ॥ १.१४-१६:६ ॥ रसेऽपि तादृशी वङ्गजा ॥ १.१४-१६:७ ॥ नागजा च कपालिका उपरि भवति ॥ १.१४-१६:८ ॥ श्यामा षष्टो दोषः पञ्चवर्णो भवति कालिका च पञ्चमो दोषः कृष्णवर्ण इति ॥ १.१४-१६:९ ॥ अथ रसस्य पञ्च दोषानाह ॥ १.१४-१६:१० ॥ ____________________________________________________ १.१७-१८ ब् <रसदोषाः> मलदोषो भवेदेको द्वितीयो वह्निसम्भवः । विषदोषस्तृतीयस्तु चतुर्थो दर्पसंज्ञकः ॥ १.१७ ॥ उन्मत्तः पञ्चमो दोषो दोषाः पञ्च सदा रसे । ------------------ रसाध्यायटीका: सार्धश्लोकः स्पष्टः ॥ १.१७:१ ॥ अत्र च जलमध्ये मृत्तिकापाषाणजलान्तरसंयोगात्तथा दुग्धोपरि तरावच्च ये दृश्यन्ते ते कञ्चुका उच्यन्ते ॥ १.१७:२ ॥ ये पुनः कोद्रवेषु मदवद्भवन्ति ते दोषा इति विशेषः ॥ १.१७:३ ॥ अथैतेषां दोषाणां प्रत्येकं विकारानाह ॥ १.१७:४ ॥ ____________________________________________________ १.१८-२५ <पथोगेने ॡइर्कुन्गेन् देर्कञ्चुकस्> मृण्मयात्कञ्चुकात्कुष्ठं जायते च शरीरिणाम् ॥ १.१८ ॥ पाषाणाज्जायते जाड्यं वातस्तोमश्च वारिजात् । कुर्यातां चिल्हरी देहे वङ्गनागकपालिके ॥ १.१९ ॥ गजचर्माणि दद्रूणि कुरुते कालिका सदा । पाण्डुरोगं तथा मोहं दुभितानि च कामलाम् ॥ १.२० ॥ जायते श्वेतकुष्ठं च श्यामाकञ्चुकसम्भवम् । हन्ति तेजः शरीरस्य मलः पारदसम्भवः ॥ १.२१ ॥ सत्त्वघातं करोत्यग्निर्विषं घूर्मं करोति च । दर्पादङ्गं स्फुटत्येवोन्मत्तादुन्मत्तता भवेत् ॥ १.२२ ॥ युक्तं द्वादशभिर्दोषैर्यस्तु दद्यात्तु पारदम् । ब्रह्महत्यादिका हत्या भवेयुस्तस्य सर्वदा ॥ १.२३ ॥ मुक्तं द्वादशभिर्दोषैर्दद्याद्यः पारदेश्वरम् । महीयानिह लोके स्यात्परत्र स्वर्गभाग्भवेत् ॥ १.२४ ॥ दोषैर्द्वादशभिर्मुक्तो देहं नीरोगयेद्रसः । संस्कारैर्द्वीपसंख्यैश्च संस्कृतो देहलोहकृत् ॥ १.२५ ॥ ------------------ रसाध्यायटीका: अष्टापि श्लोकाः स्पष्टा एव केवलं चिल्हरी कुष्ठभेद एव ॥ १.१८-२५:१ ॥ इति सूतदोषगुणाख्यानं समाप्तम् ॥ १.१८-२५:२ ॥ ____________________________________________________ १.२६-३० <१८ सूतसंस्काराः> सूतेऽष्टादशसंस्कारास्तत्राद्यः पाटसारणः । द्वितीयो मर्दनो नाम तृतीयः शोधनो मतः ॥ १.२६ ॥ मूर्छनोत्थापनस्तुर्यः पञ्चमो रसपातनः । रसस्योत्थापनं षष्ठः सप्तमः स्वेदनो भवेत् ॥ १.२७ ॥ नियामकोऽष्टमः प्रोक्तो नवमस्तु निरोधकः । दशमो मुखकारी स्यात्रुद्रसंख्यो हि जारणः ॥ १.२८ ॥ सूर्याङ्को बन्धकृत्प्रोक्तो यक्षसंस्थस्तु सारणः । मारणो मनुसंख्यः स्यात्तिथ्यङ्कः प्रतिसारणः ॥ १.२९ ॥ क्रामणः षोडशाङ्कः स्याद्वेधः सप्तदशीककः । अष्टादशश्च संस्कारस्तज्ज्ञैरुद्घाटनो मतः ॥ १.३० ॥ ------------------ रसाध्यायटीका: श्लोकपञ्चकं स्पष्टम् ॥ १.२६-३०:१ ॥ एते सूतस्याष्टादश संस्काराः ॥ १.२६-३०:२ ॥ अथ क्रमेण संस्कारान् व्याख्यापयन्नाह ॥ १.२६-३०:३ ॥ ____________________________________________________ १.३१ <पाटसारण> वाससा गालिते सूते संस्कारः पाटसारणः । वङ्गनागादिकाः सर्वा वस्त्रे तिष्ठन्ति विक्रियाः ॥ १.३१ ॥ ------------------ रसाध्यायटीका: प्रथमं सूतः श्लक्ष्णवस्त्रेण गालनीयो यथा वङ्गनागजाः पूर्वोक्तविकाराः सर्वे वस्त्रे लगित्वा तिष्ठन्ति ॥ १.३१:१ ॥ इति प्रथमः संस्कारः पाटसारणः ॥ १.३१:२ ॥ ____________________________________________________ १.३२-३३ <मर्दन> कार्ष्ण्यं त्याजयितुं सूताद्विधेयो लोष्टजीककः । तत्पलैकं च सूतस्य चतुःषष्टिपलानि च ॥ १.३२ ॥ खल्वे प्रक्षिप्य संमेल्य मर्दयेद्याममात्रतः । मर्दितो निर्मलीभूतः कृष्णत्वं त्यजति ध्रुवम् ॥ १.३३ ॥ ------------------ रसाध्यायटीका: एकं पलं सुनिष्पन्नश्वेतलोष्टजीककस्य चतुःषष्टिपलानि च पारदस्योभयं संमेल्य खल्वे क्षिप्त्वा प्रहरमेकं मर्दयेत् ॥ १.३२-३३:१ ॥ यथा कालिकां त्यक्त्वा निर्मलीभवति पारदः इति मर्दनसंस्कारो द्वितीयः ॥ १.३२-३३:२ ॥ ____________________________________________________ १.३४ <शोधन> वज्रीक्षीरेण सम्पिष्टात्सप्ताहं याति भूमिजः । सप्ताहं चार्कदुग्धेन पिष्टाद्यात्यश्मकञ्चुकः ॥ १.३४ ॥ ------------------ रसाध्यायटीका: स्नुहीदुग्धेन खल्वे रसः क्षिप्त्वा सप्त दिनानि मृद्यते ॥ १.३४:१ ॥ ततो भूमिजः कञ्चुको याति ॥ १.३४:२ ॥ एवं सप्त दिनानि अर्कदुग्धेन मर्दिते पाषाणकञ्चुको याति ॥ १.३४:३ ॥ ____________________________________________________ १.३५ पर्पटान् ब्रह्मवृक्षस्य जलक्लिन्नांश्च वर्तयेत् । तद्रसेन च सप्ताहं पिष्टाद्यात्यम्बुकञ्चुकः ॥ १.३५ ॥ ------------------ रसाध्यायटीका: पलाशस्य पर्पटान् जलेन क्लेदयित्वा ततो वर्तयित्वा वस्त्रेण निश्चोत्य रसो ग्राह्यः ॥ १.३५:१ ॥ तेन रसेन सप्त दिनानि रसो मृद्यते ॥ १.३५:२ ॥ यथा जलजकञ्चुको याति ॥ १.३५:३ ॥ ____________________________________________________ १.३६-३८ ब् चित्रकक्वाथसम्पिष्टात्कापाली याति वङ्गजा । वज्रकन्दरसेनैव पिष्टाद्वङ्गजकालिका ॥ १.३६ ॥ कटुतुम्बीपयःपिष्टात्श्यामा नश्यति नागजा । बीयाजलेन सम्पिष्टात्कपाली नागसम्भवा ॥ १.३७ ॥ सप्तसप्तदिनैः पिष्टात्सूतान्नश्यन्ति कञ्चुकाः । ------------------ रसाध्यायटीका: सार्धश्लोकद्वयं स्पष्टम् ॥ १.३६-३७:१ ॥ केवलं वज्रः स्नुहिकन्दश्च शूरणस्तयो रसेन ॥ १.३६-३७:२ ॥ अथवा वज्राख्यः कन्दः पर्वतभूमौ भवति ॥ १.३६-३७:३ ॥ सर्वेऽपि कञ्चुका यथोक्तरसेन सप्तदिनानि सूतमर्दनेन नश्यन्तीति ॥ १.३६-३७:४ ॥ ____________________________________________________ १.३८-४२ त्रिफलाक्वाथसम्पिष्टाद्व्रजत्येवं क्षयं मलः ॥ १.३८ ॥ चित्रकक्वाथसम्पिष्टादग्निदोषः प्रणश्यति । अश्वगन्धारसेनैवं विषदोषः प्रशाम्यति ॥ १.३९ ॥ नाह्यारसेन सम्पिष्टाद्दर्पदोषो विनश्यति । पिष्टात्कुध्यरसेनैवमुन्मत्तोऽपि विलीयते ॥ १.४० ॥ सप्तसप्तदिनैः पिष्टाद्दोषा नश्यन्ति पञ्च वै । इत्थं द्वादशभिर्दोषैर्मुक्तः शुद्धो भवेद्रसः ॥ १.४१ ॥ औषधस्यौषधस्यान्ते क्षालयेत्काञ्जिकेन च । कर्तव्या सूतसंशुद्धिरेकादशभिरौषधैः ॥ १.४२ ॥ ------------------ रसाध्यायटीका: अत्र चायमाम्नायः ॥ १.३८-४२:१ ॥ खल्वे रसोपरि यथोक्तौषधरसः क्षिप्यते ॥ १.३८-४२:२ ॥ यथा यथा सूतो ब्रुडति तथा तथा मर्दनीयः ॥ १.३८-४२:३ ॥ शनैः शनैर्यदि चाग्रेतनौषधरसः शुष्यति तदा पुनः क्षेपणीयः ॥ १.३८-४२:४ ॥ एवं सप्तदिनानि यदि मर्दितः पारदो भवति तदा काञ्जिकेन खरलो भ्रियते पुनः शनैर्मृद्यते ततो वस्त्रवर्तयः क्षिप्त्वा तथा मुच्यन्ते तथा वर्तिप्रान्ताः भूमौ लगन्ति ॥ १.३८-४२:५ ॥ तैश्च काञ्जिकं गलित्वा याति ॥ १.३८-४२:६ ॥ एवं सूतः सर्वैरप्यौषधैः सप्तदिनानि पिष्ट्वा पश्चात्काञ्जिकेन क्षाल्यः ॥ १.३८-४२:७ ॥ औषधानि चैकादशामूनि ॥ १.३८-४२:८ ॥ वज्रक्षीरम् ॥ १.३८-४२:९ ॥ अर्कक्षीरम् ॥ १.३८-४२:१० ॥ पलाशपर्पटः ॥ १.३८-४२:११ ॥ चित्रकक्वाथः ॥ १.३८-४२:१२ ॥ वज्रकन्दः ॥ १.३८-४२:१३ ॥ कटुतुम्बा ॥ १.३८-४२:१४ ॥ बीअङ्कः ॥ १.३८-४२:१५ ॥ त्रिफलाक्वाथः ॥ १.३८-४२:१६ ॥ पुनश्चित्रकक्वाथः ॥ १.३८-४२:१७ ॥ अश्वगन्धा ॥ १.३८-४२:१८ ॥ नाहि ॥ १.३८-४२:१९ ॥ अङ्कुध्य ॥ १.३८-४२:२० ॥ अत्र चित्रकक्वाथो द्विवेलं विद्यतेऽतो द्वादशभिरौषधैरेकादशैव इति सूतशोधनसंस्कारस्तृतीयः ॥ १.३८-४२:२१ ॥ ____________________________________________________ १.४३-४६ <मूर्छन> क्वाथेन त्रिकटोः क्षुण्णं प्राकृतं शोधितं रसम् । रसेनासन्नदूधिल्यास्तथार्द्राया रसेन च ॥ १.४३ ॥ काकमाचीरसेनैवं देवदालीरसेन च । शुष्कं शुष्कं पुनः क्षुण्णं संमर्द्यामर्द्य शोषयेत् ॥ १.४४ ॥ औषधस्यौषधस्यान्ते क्षालयेत्काञ्जिकेन च । प्रत्यौषधं दिनानीह सप्त सप्तैव मर्दयेत् ॥ १.४५ ॥ <उत्थापन> मूर्छितोत्थापनं सूते कार्यं पञ्चभिरौषधैः । तेजस्वी जायतेऽवश्यं मूर्छितोत्थितपारदः ॥ १.४६ ॥ ------------------ रसाध्यायटीका: पूर्वरीत्या शोधितः पारदः खल्वे प्रथमं त्रिकटुक्वाथेन पूर्ववत्सप्तदिनानि सम्पिष्य शोषयेत् ॥ १.४३-४६:१ ॥ ततः काञ्जिकेन क्षालनीयः ॥ १.४३-४६:२ ॥ एवं भूमिदूधेल्या रसेन तत आर्द्ररसेन ॥ १.४३-४६:३ ॥ तदनु कर्माईरसेन ॥ १.४३-४६:४ ॥ पश्चाद्देवदालीरसेन ॥ १.४३-४६:५ ॥ सप्त सप्त दिनानि मृदित्वा शोषयित्वा काञ्जिकेन धावनीयः ॥ १.४३-४६:६ ॥ एवं च कृतेऽसौ मूर्छितोत्थितः पारद इत्युच्यते तेजस्वी च भवति ॥ १.४३-४६:७ ॥ इति मूर्छितोत्थापनसंस्कारश्चतुर्थः ॥ १.४३-४६:८ ॥ ____________________________________________________ १.४७-४९ <मूर्छन, उत्थापन> कज्जलाभो यदा सूतो विहाय घनचापलम् । संमूर्छितस्तदा ज्ञेयो नानावर्णोऽपि तत्क्वचित् ॥ १.४७ ॥ उत्थापयेन्निरुध्याथ पात्रसम्पुटमध्यगम् । पुनस्तन्मूर्छयेत्सूतं कञ्चुकीर्नाशयेत्ततः ॥ १.४८ ॥ एवमेतत्क्रमेणैतत्सप्तवारांस्तु मूर्छयेत् । इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥ १.४९ ॥ ------------------ रसाध्यायटीका: ] ____________________________________________________ १.५०-५२ ब् <उत्थापन> आरनालमृते सूतमुत्थाप्यं रसधीमता । मूर्छितोत्थितसूतस्य चतुःषष्टिपलानि च ॥ १.५० ॥ पलानि ताम्रचूर्णस्य खल्वे प्रक्षिप्य षोडश । निम्बुकं च रसं क्षिप्त्वा लूनं द्वात्रिंशदंशकम् ॥ १.५१ ॥ तावत्संमर्दयेद्यावत्पीठी स्यान्मृक्षणोपमा । ------------------ रसाध्यायटीका: मूर्छितोत्थितपारदस्य पलानि ६४ सर्वोत्तमताम्रचूर्णस्य पलानि १६ द्वात्रिंशत्तमे भागे लवणं पलानि ९ इत्यर्थः ॥ १.४७-५१:१ ॥ सर्वसर्वे एकीकृत्य निम्बुकरसेन संमृद्य मृक्षणोपमा पीठी कार्या ॥ १.४७-५१:२ ॥ अयमत्राम्नायः ॥ १.४७-५१:३ ॥ यावन्मात्रो रसस्तस्य चतुर्थे भागे ताम्रचूर्णं द्वात्रिंशत्तमभागे लवणम् ॥ १.४७-५१:४ ॥ निम्बुकरसश्च तथा क्षेप्यो यथा सर्वमौषधं मज्जति ॥ १.४७-५१:५ ॥ अधिके दोषो नहि हीने तु दोषः ॥ १.४७-५१:६ ॥ शुष्के शुष्के पुनः क्षेप्यः ॥ १.४७-५१:७ ॥ मर्दनं च तावद्यावन्मृक्षणोपमा पीठी ॥ १.४७-५१:८ ॥ ____________________________________________________ १.५२-५५ <पातनसंस्कार> मुक्त्वा कटाहबुन्धे तां प्रदद्याद्वस्त्रसम्पुटम् । वस्त्रान्तानि मृदा लिम्पेज्जारितानीव बुन्धके ॥ १.५२ ॥ सजलस्थालिकावक्त्रे कटाहं प्रध्वरं क्षिपेत् । कण्ठं कटाहबन्धं च लिम्पेद्वस्त्रं मृदा तथा ॥ १.५३ ॥ छाणकानि कटाहात्ते यामार्धं ज्वालयेद्यथा । जलमध्ये रसो याति ताम्रं तिष्ठति बुन्धके ॥ १.५४ ॥ सप्तवारमिदं कार्यं शुद्धं स्याद्रसपातनम् । सूक्ष्मदोषा विलीयते मूर्छितोत्थितपातने ॥ १.५५ ॥ ------------------ रसाध्यायटीका: घटार्धसदृशे कटाहेऽधो मृत्तिकायाः कुण्डली कार्यते तच्च कटाहबुन्धमित्युच्यते ॥ १.५२-५५:१ ॥ ततः पूर्वकृतां तां पीठीं तत्र कटाहबुन्धे क्षिप्त्वोपरि आच्छादनार्थं सबलचिक्कणवस्त्रसम्पुटं ताडयित्वा तस्य वस्त्रस्य प्रान्तान् कुण्डलीं परितश्चिक्कणमृदा तथा लिम्पेद्यथा जटिता इव ते भवेयुः ॥ १.५२-५५:२ ॥ ततस्तं कटाहं जलार्धपूर्णस्थालिकामुखोपरि प्रध्वरं मुक्त्वा स्थालीकण्ठकटाहबुन्धकसंयोगस्थाने कर्पटमृदं दृढं दत्त्वा कटाहमध्ये छाणकानि घटीचतुष्कं यावज्ज्वाल्यन्ते ॥ १.५२-५५:३ ॥ ततोऽग्नितापेन रसो वस्त्रतन्तुछिद्रैर्विनिःसृत्याधःस्थालिकास्थितजलमध्ये याति ॥ १.५२-५५:४ ॥ ताम्रं पुनर्बुधक एव विलग्य तिष्ठति ॥ १.५२-५५:५ ॥ ततः पुनरपि पूर्ववत्ताम्रचूर्णपारदपीठीं कृत्वा कटाहबुन्धसजलस्थालिकायन्त्रेण पूर्ववद्रसो जले पात्यते ॥ १.५२-५५:६ ॥ एवं सप्तवारं रसपातने कृते कुण्ठत्वजडत्वादयः सूक्ष्मदोषा यान्ति ॥ १.५२-५५:७ ॥ इति मूर्छितोत्थापितसूतस्य पातनसंस्कारः पञ्चमः ॥ १.५२-५५:८ ॥ ____________________________________________________ १.५६-६९ <उत्थापनसंस्कार> खल्वेन सहितं सूतं मर्दयेच्च दिनत्रयम् । पूर्ववत्पातयेत्तं तु अधोर्ध्वं तिर्यगं च तत् ॥ १.५६ ॥ एवं पातनयन्त्रेण सप्तवारं तु पातयेत् । सूतमभ्रं द्वयं मर्द्यं काञ्जिकेन समन्ततः ॥ १.५७ ॥ स्थालिकातलमध्येऽपि स्थाप्यं तत्कृतगोलकम् । त्रिफलाराजिकावह्निविषशिग्रुसमांशकैः ॥ १.५८ ॥ ऊर्ध्वस्थालीं समालिप्य कर्तव्यं सम्पुटं वरम् । संधौ च मृत्स्नयावेष्ट्य डमरुं यन्त्रमुत्तमम् ॥ १.५९ ॥ कार्या चास्योर्ध्वभागेऽपि कुण्डली विहिता परा । तदधो ज्वालयेदग्निं मन्दं मन्दं त्रियामकम् ॥ १.६० ॥ अधः स्थालीं परित्यज्य चोर्ध्वस्थाल्यां परिव्रजेत् । <उत्थापनसंस्कार: अन्यमत> कासीसं सैन्धवं सूतं तत्तुल्यं च दिनावधि । कासीसस्य ह्यभावेन दातव्या फुल्लतूरिका ॥ १.६१ ॥ स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मर्दयेत् । प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित् ॥ १.६२ ॥ स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् । ऊर्ध्वलग्नं तु तं शुद्धं पारदं चाहरेत्शुभम् ॥ १.६३ ॥ <उत्थपनसंस्कार: ३. मतम्> पत्त्राणि ताम्रस्य लघूनि पिष्टीं कृत्वा रसेन त्रिगुणेन भाण्डे । ........... ........... ॥ १.६४ ॥ ताम्रात्सूतं रसात्ताम्रं पातनाय पृथक्कृतम् । द्वयं तथैव सम्पिष्य पीठी कार्या च पूर्ववत् ॥ १.६५ ॥ तां ताम्रसूतयोः पीठीं स्थालिकायां क्षिपेत्पुनः । स्थालीं चाधोमुखीं त्वन्यां लिम्पेद्वस्त्रमृदा मुखे ॥ १.६६ ॥ यन्त्रो डमरुकाख्योऽसौ तथा विद्याधराभिधः । उपरि स्थालिकाबुन्धे दातव्यं गोमयं ततः ॥ १.६७ ॥ अधः स्थाल्यास्त्वधो बुन्धे यामं मृद्वग्निना पचेत् । सूतो यात्युपरिस्थाल्यास्ताम्रं तत्रैव तिष्ठति ॥ १.६८ ॥ सप्तवेलमिदं कार्यं सूतोत्थापनमुच्यते । व्यापको जायते स्वच्छः पातितोत्थापितो रसः ॥ १.६९ ॥ ------------------ रसाध्यायटीका: पूर्वस्मिन् योगे पातनसंस्कारार्थं ताम्रात्सूतः सूताच्च ताम्रं पृथक्सप्तवारकृतम् ॥ १.५६-६९:१ ॥ इहापि योगे तदेव करिष्यते परं तत्र पातनायेहैव पातितस्योत्थापनायेति विशेषः ॥ १.५६-६९:२ ॥ तच्चैवम् ॥ १.५६-६९:३ ॥ रसपल६६ ताम्रचूर्णपल१६ लवणपल२ सर्वं निम्बुकरसे मृदित्वा पूर्ववत्पीठीं कृत्वा स्थालिकायां क्षिप्त्वोपरि च मध्ये मुखस्थालीं दत्त्वा द्वयोर्मुखयोगे कर्पटमृत्तिकया लिप्यते ॥ १.५६-६९:४ ॥ एष डमरुकनामा विद्याधरनामा च यन्त्र उच्यते ॥ १.५६-६९:५ ॥ ततो या उपरि स्थाली तस्या बुन्धे बाह्यपार्श्वे गोमयं दत्त्वाधस्तनस्थबुन्धाधो याममात्रं मृदुवह्निर्ज्वालनीयः ॥ १.५६-६९:६ ॥ ततः सूत उड्डीयोपरितनस्थाल्यां याति ॥ १.५६-६९:७ ॥ ताम्रं चाधः स्थाल्यां तिष्ठति ॥ १.५६-६९:८ ॥ एवं पुनः पुनः सप्तवारं सूतोत्थापने कृते रसो व्यापको भवति ॥ १.५६-६९:९ ॥ व्यापको नाम तीक्ष्णः प्रसरणशीलश्च ॥ १.५६-६९:१० ॥ इति पातितरसस्योत्थापनसंस्कारः षष्ठः ॥ १.५६-६९:११ ॥ ____________________________________________________ १.७०-७६ <स्वेदन> शिग्रुवृक्षस्य पत्त्राणि वारिणा वर्तयेद्यथा । जायतेऽतिमृदुः पिण्डः कुर्यात्पिण्डस्य कुल्हडीम् ॥ १.७० ॥ ताम्रं त्यक्त्वोत्थितं सूतं लुणं द्वात्रिंशदंशकम् । कृतप्राक्कुल्हडीमध्ये आक्षिपेत्तं समग्रकम् ॥ १.७१ ॥ आरनालं क्षिपेत्स्थाल्यां रसं निम्बुकसम्भवम् । कण्ठे काष्ठं च बध्नीयाद्वस्त्रे प्राक्कृतकुल्हडीम् ॥ १.७२ ॥ काष्ठे वस्त्रं च बध्नीयान्न स्पृशेत्काञ्जिकं यथा । पिहितायां तथा स्थाल्यां मृद्वग्निर्ज्वालयेदधः ॥ १.७३ ॥ प्रत्यहं त्वष्टयामं च कार्यं सप्तदिनानि वै । प्रत्यहं शिग्रुपत्त्रैश्च कार्या कुल्हडिका नवा ॥ १.७४ ॥ नष्टं नष्टं चारनालं प्रक्षिपेन्नूतनं मुहुः । दोलायन्त्रेण कर्तव्या रसस्य स्वेदने विधिः ॥ १.७५ ॥ स्वेदनैर्वह्निरुत्पन्नो रसो जातो बुभुक्षितः । सम्प्रत्यूर्ध्वरसोऽत्यर्थं सहतेऽग्निं विपाचने ॥ १.७६ ॥ ------------------ रसाध्यायटीका: शिग्रुनाम्नो वृक्षस्य पत्त्राणि गाढं मृक्षणोपमानानि वर्तयित्वा तेषां पिण्डेन कुल्हडीं कृत्वा तस्यां कुल्हडिकायां पूर्वविधिना ताम्रं परित्यज्योद्गीनं रसं तथा द्वात्रिंशत्तमेन भागेन लवणं च क्षिप्त्वा तां कुल्हडीं वस्त्रे बद्ध्वा तद्वस्त्रं दवरकेण काष्ठे बद्ध्वा तत्काष्ठं स्थाल्याः कण्ठे कंचन पट्टं बद्ध्वा स्थालीमध्ये त्रिभागनिम्बुकरससहितकाञ्जिकं क्षिप्त्वा काञ्जिकोपरि ञूबमाना तथा वस्त्रं बद्ध्वा कुल्हडी मोक्तव्या यथा काञ्जिकं न लगति केवलं बाष्पो लगति ॥ १.७०-७६:१ ॥ ततोऽहोरात्रं स्थाल्या अधोऽग्निर्ज्वालनीयः ॥ १.७०-७६:२ ॥ ततः पुनरपि शिग्रुपत्त्रैर्नवां कुल्हडीं कृत्वा दोलायन्त्रेण तथैवाहोरात्रं रसः स्वेदनीयः ॥ १.७०-७६:३ ॥ यदि चाग्रेतनं काञ्जिकं शुष्यति तथा पुनर्नवं काञ्जिकं क्षेप्यम् ॥ १.७०-७६:४ ॥ एवं सप्तभिर्दिनैः सप्तभिः कुल्हडीभिः सप्तवारं स्वेदितो रसः सम्प्रत्यूर्ध्वं पच्यमानोऽत्यर्थमग्निं सहते ॥ १.७०-७६:५ ॥ इत्युत्थापितरसस्य स्वेदनसंस्कारः सप्तमः ॥ १.७०-७६:६ ॥ ग्रन्थान्तरे स्वेदनम् ॥ १.७०-७६:७ ॥ ____________________________________________________ १.७७-८९ <स्वेदन> राजिकालवणवह्निमूलकै रूषणाइकयुतैः कलांशकैः । पारदस्य मृदुवह्नितस्त्विदं स्वेदनं तुषजलेन तन्यते ॥ १.७७ ॥ <स्वेदनयन्त्र> काञ्जिकौषधपत्त्रान्तः पोटलीमध्यलम्बनः । चुल्हाग्नौ स्वेद्यते स्वेद्यं यत्रेदं दोलयन्त्रकम् ॥ १.७८ ॥ वस्त्रं चतुष्पुटं कृत्वा खगेनापि पुटीकृतम् । स्वेद्यं सूतं च मन्दाग्नौ यथा नोपक्षयं व्रजेत् ॥ १.७९ ॥ व्योषार्द्रशिग्रुकन्दश्च मयूरमूलकासुरी । काञ्जिकेन च संस्वेद्यं सूतं बुद्धिमता दिनम् ॥ १.८० ॥ गोमहिष्याश्च मेषाणां खरमूत्रैश्च पञ्चभिः । पञ्चभिर्लवणैः क्षारैः स्वेदनीयं रसेश्वरम् ॥ १.८१ ॥ चाङ्गेरी काञ्जिकं निम्बुजम्बीरबीजपूरकैः । रसैः संस्वेदनीयं च पारदं मुखवाञ्छया ॥ १.८२ ॥ <नियमन> उत्तरस्यां भवेत्स्थूलो रक्तसैन्धवखोटकः । तद्गर्भे रन्ध्रकं कृत्वा सूतं च स्वेदितं क्षिपेत् ॥ १.८३ ॥ ततश्च चणकक्षारं दत्त्वा चोपरि नैम्बुकम् । रसं प्रक्षिप्य दातव्यस्तादृक्सैन्धवखोटकः ॥ १.८४ ॥ गर्तां कृत्वाथ भूगर्भे क्षिप्त्वा सैन्धवसम्पुटम् । धूलिमष्टाङ्गुलिं दत्त्वा कारीषं दिनसप्तकम् ॥ १.८५ ॥ वह्निं संज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च । अयं नियामको नाम संस्कारो ह्यष्टमः स्मृतः ॥ १.८६ ॥ चणकक्षारनाशे च चूर्णं स्यान्नवसारजम् । साजीक्षारस्य तन्नाशे क्षारो झीजरटस्य च ॥ १.८७ ॥ हिङ्गुपूषा च तन्नाशे तथैरण्डफलानि च । पूषा दत्त्वा च प्रत्येकं प्रक्षिपेन्नैम्बुकं रसम् ॥ १.८८ ॥ अतीवाग्निसहो जातः पारदोऽसौ नियामकः । अन्नार्थं रसना लोला निःशङ्कं संस्कृतः सदा ॥ १.८९ ॥ ------------------ रसाध्यायटीका: उत्तरस्यां दिशि यः स्थूलो रक्तः सैन्धवखोटको निष्पद्यते ॥ १.७७-८९:१ ॥ तस्य मध्यात्कीये छिद्रं च विधाय स्वेदितं रसं तत्र क्षिप्त्वोपरि चणकक्षारो देयस्तत उपरि स्वल्पो निम्बुकरसः क्षेप्यः ॥ १.७७-८९:२ ॥ ततस्तस्य छिद्रस्याच्छादनायोपरि तादृश एव रक्तसैन्धवखोटको देयः ॥ १.७७-८९:३ ॥ अत्र चेयं बुद्धिः ॥ १.७७-८९:४ ॥ यावन्मात्रं छिद्रमधःखोटके भवति तावती भूमिर्द्वितीयखोटकस्य मध्ये मुक्त्वोपरितः किंचिदुत्कीर्यते ॥ १.७७-८९:५ ॥ तस्मिंश्चोपरि दत्ते तत्सैन्धवसम्पुटं भवति ॥ १.७७-८९:६ ॥ ततो भूमौ गजप्रमाणां गर्तां कृत्वा तत्र सैन्धवसम्पुटं मुक्त्वोपर्यष्टाङ्गुलिमानां धूलिं दत्त्वा छगणचूर्णेन गर्तं पूरयित्वाग्निर्ज्वालनीयः ॥ १.७७-८९:७ ॥ ततः प्रभाते निष्कास्य काञ्जिकेन प्रक्षाल्य पुनः सैन्धवपुटे क्षिप्त्वोपरि नवसारचूर्णं निम्बुकरसं च मुक्त्वोपरि सम्पुटं च दत्त्वा पुनर्गर्तायां मुक्त्वाहोरात्रं कारीषाग्निर्ज्वालनीयः ॥ १.७७-८९:८ ॥ एवं सप्तवारं सप्तदिनैः सप्तदिनैः संस्कार्यः ॥ १.७७-८९:९ ॥ तृतीयदिने साजीक्षारः ॥ १.७७-८९:१० ॥ चतुर्थे दिने झीजरीटक्षारः ॥ १.७७-८९:११ ॥ पञ्चमदिने हिङ्गुपुषा षष्ठदिने सप्तमदिने चैरण्डफलचूर्णम् ॥ १.७७-८९:१२ ॥ सर्वेषामुपरि निम्बुकरसः क्षेप्य एव ॥ १.७७-८९:१३ ॥ एवं कृतेऽसौ नियामको रसोऽतीवाग्निं सहते ॥ १.७७-८९:१४ ॥ तथा किंचिदुदन्नबुभुक्षो जिह्वां चलयति ॥ १.७७-८९:१५ ॥ इति स्वेदितरसस्य नियामकसंस्कारोऽष्टमः ॥ १.७७-८९:१६ ॥ ____________________________________________________ १.९०-९२ <रोधन> काचकुम्पे मृदा लिम्पेन्मध्ये नियामकं रसम् । क्षिप्त्वास्ये चीवरं बद्ध्वा छन्नं कोडीयकेन च ॥ १.९० ॥ भूगर्ते कुम्पिकां क्षिप्त्वा दत्त्वा चोपरि वालुकाम् । कारीषाग्निं प्रतिदिनं ज्वालयेद्दिनसप्तकम् ॥ १.९१ ॥ कुम्पिकाया रसो ग्राह्यो विधिप्रोक्तो निरोधकः । रसनां लेलिहानश्च पीडितोऽतिबुभुक्षया ॥ १.९२ ॥ ------------------ रसाध्यायटीका: काचकुम्पिकायां चिक्कणां मृदं दत्त्वा मध्ये नियामकं रसं क्षिप्त्वा मुखे कोडीयकम् ॥ १.९०-९२:१ ॥ कोऽर्थः लोष्टचातिकां दत्त्वा ॥ १.९०-९२:२ ॥ उपरिकर्पटं मृत्तिकां च दत्त्वा शोषयेत् ॥ १.९०-९२:३ ॥ ततो भूमौ गजप्रमाणां गर्तां कृत्वा तत्र क्षिप्त्वोपरि अष्टाङ्गुलिधूलिं दत्त्वाहोरात्रं कारीषाग्निर्ज्वालनीयः ॥ १.९०-९२:४ ॥ ततः पुनः प्रभाते रक्षां कृत्वा नवं छगणचूर्णं क्षिप्त्वाहोरात्रं च कारीषाग्निर्ज्वालनीयः ॥ १.९०-९२:५ ॥ एवं सप्तभिर्दिनैः सप्तवारं संस्कृतोऽसौ निरोधको नाम रसो महाबुभुक्षया पीडितो जिह्वां लेलिह्यमानः कुम्पितो ग्राह्यः ॥ १.९०-९२:६ ॥ इति नियामकस्य निरोधकसंस्कारो नवमः ॥ १.९०-९२:७ ॥ ____________________________________________________ १.९३-११० <मुखकरी> स्नुही च गिरिकर्णी च क्षीरिणी वज्रकञ्चुकी । सर्पाक्षी मेघनादा च मत्स्याक्षी मृगभोजनी ॥ १.९३ ॥ शिरःपुङ्खा च चाङ्गेरी वज्रवस्त्री पुनर्नवा । मधुकंसारिवे तिक्ता त्रायन्ती चन्दनामृता ॥ १.९४ ॥ अरण्यतुलसी कृष्णा शाखिनी रविभूलिका । एतानि यमिका प्रोक्ता रसकर्मणि शम्भुना ॥ १.९५ ॥ आसां नियामिकानां तु यथालाभं प्रकल्पयेत् । पक्षछिन्नो भवेन्नूनमोषध्या पुण्यपाकतः ॥ १.९६ ॥ <मुखकरी (२): मतान्तरम्> नियामिकां ततो वच्मि सूतस्य मारकर्मणि । सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ॥ १.९७ ॥ काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका । वर्षाभूः कञ्चुकी मूर्वा माचीकोत्पलचिञ्चिकम् ॥ १.९८ ॥ शतावरी च द्विलता वज्रकन्दादिकर्णिका । मण्डूकपर्णी पाठाली चित्रको ग्रीष्मसुन्दरः ॥ १.९९ ॥ काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका । श्वेतार्कौ शिग्रुधत्तूरमृगदूर्वा हरीतकी ॥ १.१०० ॥ गुडूची मुसली पुङ्खा भृङ्गराड्रक्तचित्रकम् । नारङ्गं सूरणं मुण्डी मलं कापोतकोकिलम् ॥ १.१०१ ॥ सैन्धवं श्वेतवर्षाभूखापरं हिङ्गुमाक्षिकम् । विष्णुक्रान्ता सोमवल्ली ब्रह्मघ्नी यक्षलोचना ॥ १.१०२ ॥ व्याघ्रपादी हंसपादी वृश्चिकाली कुतुम्बकम् । स्वयीभुक्कुसमं कुम्भी हस्तिशुण्डीन्द्रवारुणी ॥ १.१०३ ॥ बीजीन्यरूष्करस्यापि सर्व एते नियामिकाः । एताः समस्ता व्यस्ता वा देया सप्तदशाधिकाः ॥ १.१०४ ॥ मारणे मूर्छने बन्धे रसस्यैता नियोजयेत् । <मारण + जारण> अप्रसूतगवां मूत्रैः पिष्टा मूर्वां नियामकाः ॥ १.१०५ ॥ तद्द्रावैर्मर्दयेत्सूतं यथा पूर्वोदितं क्रमात् । इत्येवं जारणायुक्तं मारणं परिकीर्तितम् ॥ १.१०६ ॥ <मुखकरण> बीजपूरस्य सद्वृन्तं प्रोत्सार्य कुरु रन्ध्रकम् । निरोधकं सलवणं क्षिप्त्वैकं तेन छादयेत् ॥ १.१०७ ॥ काञ्जिकेन भृता स्थाली निम्बुकानां रसाचिता । दोलायन्त्रेण तन्मध्ये ब्रुडन्तं बीजपूरकम् ॥ १.१०८ ॥ बद्ध्वा पिधाय सप्ताहं हठाग्निं ज्वालयेदधः । प्रत्यहं मातुलिङ्गैश्च नव्यैर्भव्यभवन्मुखम् ॥ १.१०९ ॥ ग्रसते चाभ्रकादीनि सूतेनास्यं प्रसारितम् । व्यात्तवक्त्रो ग्रसत्येव क्षिप्तं सर्वं च जीर्यति ॥ १.११० ॥ ------------------ रसाध्यायटीका: सुनिष्पन्नबीजपूरस्य वृन्तमुत्पाट्य मध्ये उत्कीर्य छिद्रं कृत्वा ततो निरोधकं रसं क्षिप्त्वोपरि लवणं मुक्त्वा पुनस्तेन वृन्तेन छादयित्वा बीजपूरकं वस्त्रे बद्ध्वा त्रिभागेन निम्बुकरसयुक्तकाञ्जिकभृतस्थाली मध्ये दोलायन्त्रेण पूर्वोक्तेन काञ्जिके ब्रुडन्तं बीजपूरकं धृत्वाधोऽग्निर्ज्वालनीयोऽहोरात्रम् ॥ १.९३-११०:१ ॥ ततः पुनः प्रभाते नवं बीजपूरकमानीय तथैव मध्ये रसं क्षिप्त्वा दोलायन्त्रेणाहोरात्रं रसः संस्कार्यः ॥ १.९३-११०:२ ॥ एवं सप्तभिर्दिनैः सप्तवारं नवनवैर्मातुलुङ्गैः संस्कृतो रसो धान्याभ्रकादीनां ग्रसनाय प्रसारितमुखो विधिना दत्तं सर्वं ग्रासं जीर्यति ॥ १.९३-११०:३ ॥ इति निरोधकरसस्य मुखप्रसारणसंस्कारो दशमः ॥ १.९३-११०:४ ॥ ____________________________________________________ १.१११-११६ <नियमन> कर्कोटीफणिनेत्राभ्यां चिञ्चिकाम्बुजमार्कवैः । नियम्योऽसौ ततः सम्यक्चपलत्वं निवर्तयेत् ॥ १.१११ ॥ <रोधन> मर्दनमूर्छनपातैः कदर्थितो भवति मन्दवीर्यस्तु । सृष्ट्यम्बुजैर्निरोधात्तलद्वयप्रायो न खण्डः स्यात् ॥ १.११२ ॥ <दीपन> इत्थंकदर्थिततनुर्गलितात्मवीर्यः सृष्ट्यां चितश्छगणकैः पुटितो बली स्यात् । भूटङ्कणोषणस्वयासुरिशिग्रुपिष्टैः स्विन्नस्त्र्यहे तुषजलेऽथभवेत्सुदीप्तः ॥ १.११३ ॥ त्रिफला चित्रमूलं च सौराष्ट्री नवसादरम् । शिग्रुरसेन संभाव्य मर्दयेच्च दिनत्रयम् ॥ १.११४ ॥ तेनैव मध्यगं कृत्वा नियम्योऽसौ पुनः पुनः । त्रयोदशेऽह्णि सम्प्राप्ते जायते दीपनं शुभम् ॥ १.११५ ॥ <दीपन> भूखगटङ्कणमनःशिललवणासुरिशिग्रुकाञ्चिकैस्त्रिदिनम् । स्वेदेन दीनदीप्तोऽसौ ग्रासार्थी जायते सूतः ॥ १.११६ ॥ ------------------ रसाध्यायटीका: इति दीप्तो विशुद्धः प्रबलतरविद्युच्छटासहस्राभः सुतरां भवति ॥ १.१११-११६:१ ॥ रसेन्द्रो द्रव्येऽपि रसायने योज्यः ॥ १.१११-११६:२ ॥ इति दीपनग्रन्थाः ॥ १.१११-११६:३ ॥ ____________________________________________________ १.११७-१२० <गगनग्रास-़ुएच्क्सिल्बेर्> व्यात्तास्यं काचकुम्प्यन्तः सल्लूणं नैम्बुकं रसम् । पलं धान्याभ्रकं क्षिप्त्वा लिम्पेद्वस्त्रमृदा मुखम् ॥ १.११७ ॥ मुखे कोडीयकं दद्यात्कुण्डीका वालुकाभृता । कुम्पिकां वालुकामध्ये क्षिप्त्वा चोपरि वालुकाम् ॥ १.११८ ॥ प्रदायाधोऽष्टयामं च हठाग्निं ज्वालयेत्सुधीः । पलं धान्याभ्रकं चैकं जारणीयमहर्निशम् ॥ १.११९ ॥ सूतादष्टगुणं जार्यं धान्याभ्रं रसवेदिना । नाम्नासौ गगनग्रासः पारदः परिकीर्तितः ॥ १.१२० ॥ ------------------ रसाध्यायटीका: काचकुम्पिकामध्ये प्रसारितमुखं रसं पलमेकं मध्ये मुक्त्वा कुम्पिकामुखे चातिकां दत्त्वोपरि कर्पटमृत्तिकया लिप्त्वा शोषयेत् ॥ १.११७-१२०:१ ॥ ततः पृथुलमुखायां कुण्डिकायां वालुकां क्षिप्त्वोपरि अङ्गुलचतुःपञ्चप्रमाणां धूलिं दत्त्वा कुण्डिकाया अधोऽष्टयामान् हठाग्निं ज्वालयित्वा धान्याभ्रकपलं जारणीयम् ॥ १.११७-१२०:२ ॥ अत्र त्वयमाम्नायः ॥ १.११७-१२०:३ ॥ कुण्डिकायां तथा वालुका क्षेप्या यथा तस्या उपरि कुम्पिकायां मुक्तायां तदुपरि अङ्गुलचतुःपञ्चप्रमाणायां वालुकायां क्षिप्तायां कुण्डिका पूर्णा भवति ॥ १.११७-१२०:४ ॥ तथा रसपल ६४ लवणपल २ धान्याभ्रकपल १ इति मात्राप्रमाणम् ॥ १.११७-१२०:५ ॥ ततस्तां कुम्पीं भङ्क्त्वा रसं गृहीत्वा पुनरपि द्वितीयकुम्पिकायां रसधान्याभ्रकलवणनिम्बुकरसान् क्षिप्त्वा पूर्ववदहोरात्रं हठाग्निज्वालनेन धान्याभ्रकपलं जारणीयम् ॥ १.११७-१२०:६ ॥ एवमष्टभिर्दिनैरष्टभिः कुम्पिकाभिरष्टधान्याभ्रकपलानि जारणीयानि ॥ १.११७-१२०:७ ॥ ततोऽसौ गगनग्रासनामा पारदः प्रोच्यते ॥ १.११७-१२०:८ ॥ ____________________________________________________ १.१२१-१३७ एकपत्त्रीकृतं सर्वमभ्रकं तदनन्तरम् । तप्तखर्परविन्यस्तं प्रदहेत्तीव्रवह्निना ॥ १.१२१ ॥ अगस्तिपुष्पतोये च कुमुदानां रसेन च । वर्षाभूतण्डुलीयेन मरिचैः सुमुखेन च ॥ १.१२२ ॥ माहिषेणैव दुग्धेन सारयित्वाभ्रकं ततः । यवचिञ्चिकातोयेन प्लावयित्वा पुटे पचेत् ॥ १.१२३ ॥ मरिचासुरीसिद्धार्थविषचूर्णैश्च सूतकम् । स्वेदयेत्काञ्जिके बद्धं दोलायां दिवसत्रयम् ॥ १.१२४ ॥ एवं स्विन्नो रसः पश्चात्काञ्जिके यवचिञ्चिकाम् । समूलपत्त्रां संकुट्य संधयित्वा विचक्षणः ॥ १.१२५ ॥ काञ्जिके जायते देव्यरसबन्धे तु नित्यशः । हेमक्रिया हेममुखे तारे तारमुखं कृतम् ॥ १.१२६ ॥ यवचिञ्चिकातोयेन स्वेदयन् स्वेदयेद्बुधः । लोहाग्रे भ्रमथो शालसुदग्धं वर्षयेत्तथा ॥ १.१२७ ॥ जीर्णस्य लक्षणं ज्ञेयं जलौकादण्डधारिणः । द्वितीये काकविष्ठाभं तृतीये तैलको भवेत् ॥ १.१२८ ॥ कपिलोऽथ निरुद्गारो विप्रुषो नैव मुञ्चति । अग्नौ हि घ्रातनिक्वस्थो व्योमजीर्णस्य लक्षणम् ॥ १.१२९ ॥ अथ वैकृतकस्पर्शाद्दिव्यौषधिमुखं प्रति । अथ ह चरति क्षिप्रं क्षणादेव निबध्यते ॥ १.१३० ॥ ततो लोहकपालस्थं स्वेदयेन्मृदुवह्निना । सुखोष्णेनारनालेन प्रक्षालितरसं बुधः ॥ १.१३१ ॥ एवमभ्रकजीर्णस्य रसस्याष्टमभागतः । विडं दद्याच्च विधिवज्जारयेत्तं विचक्षणः ॥ १.१३२ ॥ एवं षड्गुणजीर्णं तु सूतकं जारयेत्बुधः । <धान्याभ्र> भूमौ लगति यत्क्षिप्रं तद्धान्याभ्रकमुच्यते । <गगनग्रासजारण> अभ्रके द्विगुणे जीर्णे धूमव्याजेन गच्छति ॥ १.१३३ ॥ जीर्णे चतुर्गुणे तस्मिन् गतिशक्तिर्विहन्यते । उत्प्लुत्योत्प्लुत्य बाह्ये च मूषायाः पतति ध्रुवम् ॥ १.१३४ ॥ जीर्णे च षड्गुणे सूतं कम्पतेऽसौ मुहुर्मुहुः । बाह्ये चोड्डीय नो याति स्थितः स्थाने स्थिरायते ॥ १.१३५ ॥ तस्मिन्नष्टगुणे जीर्णे ध्मातं शाम्यति पारदः । हठेन वह्निनाध्मातः स्थिरीभूतसुवर्णवत् ॥ १.१३६ ॥ रूप्यगद्याणकयाचोह्यनेनाभ्यञ्ज्य गालिते । दशवर्णं भवेद्धेम कथितं रसवेदिभिः ॥ १.१३७ ॥ ------------------ रसाध्यायटीका: अत्राम्नायः ॥ १.१२१-१३७:१ ॥ पूर्वमभ्रकैरखण्डव्रीहिभिः श्लक्ष्णपाषाणकर्करैर्वादृढनहीनवस्त्रको थलिकां भृत्वा द्वारं दवरकेण दृढं बद्ध्वा काष्ठपत्त्रिकायां जलपूर्णायां मुक्त्वा गाढं तथा मर्दनीयो यथाभ्रकं चूर्णीभूय किंचिद्बहिर्निःसरति ॥ १.१२१-१३७:२ ॥ तच्च शोषयित्वा श्लक्ष्णचूर्णं गृह्यते ॥ १.१२१-१३७:३ ॥ इदं च भूमिकायां क्षिप्तं सूक्ष्मत्वात्तत्र लगति ॥ १.१२१-१३७:४ ॥ रसज्ञास्त्वेतं धान्याभ्रकं वदन्ति ॥ १.१२१-१३७:५ ॥ तथा पारदाद्द्विगुणे धान्याभ्रकेण जीर्णेऽग्निं तापयेत्ततो रसो धूमेन कृतोड्डीय याति ॥ १.१२१-१३७:६ ॥ चतुर्गुणे धान्याभ्रके जीर्णे धूमरूपेण न याति ॥ १.१२१-१३७:७ ॥ किंतु हठाग्नियोगे मूषायामुड्डीय बहिः पतति ॥ १.१२१-१३७:८ ॥ षड्गुणे धान्याभ्रके जीर्णे बहिरुड्डीय न याति ॥ १.१२१-१३७:९ ॥ किंतु मूषामध्ये कम्पते ॥ १.१२१-१३७:१० ॥ अष्टगुणे जीर्णे हठेन ध्मातो हि सुवर्णवत्स्थिरीभवति न पुनः पुनर्मनागपि कम्पते ॥ १.१२१-१३७:११ ॥ ततो महाग्निसहेन तेन रसेन रूप्यगद्याणकपत्त्रमभ्यञ्ज्य गाल्यते ॥ १.१२१-१३७:१२ ॥ तदा दशवर्णं सुवर्णं सुवर्णं भवति ॥ १.१२१-१३७:१३ ॥ इति प्रसारिते मुखस्य रसस्य गगनग्रासजारणं प्रथमम् ॥ १.१२१-१३७:१४ ॥ ____________________________________________________ १.१३८-१५० अभ्रकस्य च पत्त्राणि श्लक्ष्णचूर्णीकृतानि च । कर्पासीरसतोयेन मर्दितानि दिनत्रयम् ॥ १.१३८ ॥ मातुलिङ्गकनकस्यापि वार्कतोयेन मर्दयेत् । क्षिप्त्वा टङ्कणक्षारं च नवसारं तथैव च ॥ १.१३९ ॥ खल्वमध्ये ततः क्षिप्त्वा मर्दयेत्प्रतिवासरम् । रसैः पूर्वोदितैर्भूयो यावत्तद्गिलते स्फुटम् ॥ १.१४० ॥ <ग्रन्थान्तरे> यवाख्याकदलीशिग्रुचिञ्चाफलपुनर्नवा । शतमूलै रसैरभ्रं भावितं मुनिसंख्यया ॥ १.१४१ ॥ तद्ग्रासं रसराजोऽसौ सुखं भुङ्क्ते वरे मुखे । संजाते देहसिद्ध्यर्थं धातुसिद्ध्यर्थमेव हि ॥ १.१४२ ॥ स्वल्पमप्यभ्रकं सूतो यदि गृह्णाति चेत्सुखम् । बध्यते स्वगृहान्तस्थो यथा चौरोऽतिचञ्चलः ॥ १.१४३ ॥ कुमारी कदली वज्री जारी हेमपादी नटी । बृहती चाग्निदमनी लाङ्गली समभागतः ॥ १.१४४ ॥ पत्त्राभ्रमभ्रचूर्णं वा वन्यं मलनीगुणभावितम् । तप्तेन लोहचूर्णेन पिष्टिः स्यान्मर्दने रसे ॥ १.१४५ ॥ <अभ्रपीठी> लोहखल्वे चतुष्पादे सूतग्रस्ताभ्रकं क्षिपेत् । चतुःषष्ट्यंशभागेन चूर्णं कान्तायसं रसात् ॥ १.१४६ ॥ काञ्जिकेनैव संद्दाष्टं बव्वेरं यच्च थूथकम् । तत्तथा वै विडं प्रोक्तं चन्दनं रसवेदिभिः ॥ १.१४७ ॥ थूथाविडेन सम्पिष्णन्मृद्वग्निं ज्वालयेदधः । सूतादष्टगुणं लोहं जारणीयं सदा बुधैः ॥ १.१४८ ॥ अप्राप्तौ कान्तलोहस्य चूर्णं तीक्ष्णस्य संक्षिपेत् । चतुःषष्टितमं चांशं जीर्णे जीर्णे क्षिपेन्मुहुः ॥ १.१४९ ॥ सूतोऽसौ जीर्णलोहः सन्गोधूमाभः कषायतः । पाशितो रागसहनो जातो रागश्च जीर्यति ॥ १.१५० ॥ ------------------ रसाध्यायटीका: यस्मिन् लोहखल्वे चत्वारः पादा मञ्चिकयाभिभवन्ति स चतुष्पाद उच्यते ॥ १.१३८-१५०:१ ॥ तस्मिन् लोहखल्वे ग्रस्ताभ्रकसूतं तथा चतुःषष्टितमेन सूतकस्य कान्तलोहचूर्णं क्षिप्त्वा यथा विडेन सह लोष्टिकया मन्दं मन्दं मन्दं मर्दयेत् ॥ १.१३८-१५०:२ ॥ अधश्च कोमलाग्निर्ज्वालयेत् ॥ १.१३८-१५०:३ ॥ एवं कुर्वता यदि कान्तलोहचूर्णचतुःषष्टितमो जीर्णो भवति तदा पुनरपि चतुःषष्टितमभागेन कान्तलोहचूर्णं क्षिप्त्वा थूथाविडेन पेषणीयम् ॥ १.१३८-१५०:४ ॥ अधश्चाग्निर्ज्वालनीयः ॥ १.१३८-१५०:५ ॥ एवं पूर्वक्षिप्ते लोहचूर्णे जीर्णे पुनः पुनस्तावच्चतुःषष्टितमांशेन लोहचूर्णं क्षेप्यम् ॥ १.१३८-१५०:६ ॥ यावत्सूतादष्टगुणलोहचूर्णे जीर्यति ॥ १.१३८-१५०:७ ॥ इत्यर्थं लोहचूर्णस्य कषायेण रसः पाशितः सन् गोधूमवर्णो भवति ॥ १.१३८-१५०:८ ॥ तथा रागांश्च सहते ॥ १.१३८-१५०:९ ॥ अथ प्रकाशादिकराजिरागाश्च जीर्यति ॥ १.१३८-१५०:१० ॥ अत्र च यदि कान्तलोहं न लभ्यते तदा तीक्ष्णायसं सारलोहं च ॥ १.१३८-१५०:११ ॥ तथायत्वघेरं थूथकं तत्काञ्जिकेन संघृष्य चन्दनं क्षिप्यते ॥ १.१३८-१५०:१२ ॥ एतत्थूथाविडमित्युच्यते ॥ १.१३८-१५०:१३ ॥ अग्रेऽपि सर्वत्र थूथाविडे शब्देनेदमेव ज्ञेयम् ॥ १.१३८-१५०:१४ ॥ इति ग्रस्ताभ्रकसूतस्य लोहजारणं द्वितीयम् ॥ १.१३८-१५०:१५ ॥ ____________________________________________________ १.१५१-१५३ <अयःप्रकाशराजि ? सूतजारण> लोहखल्वे चतुष्पादे जीर्णलोहं रसं क्षिपेत् । अयःप्रकाशे राजेश्च चतुःषष्ट्यंशचूर्णकम् ॥ १.१५१ ॥ थूथाविडेन सम्पिष्य मृद्वग्निर्ज्वालयेदधः । सूतादष्टगुणा जार्या राजिश्चायःप्रकाशिका ॥ १.१५२ ॥ अयःप्रकाशराजौ च जीर्णायां पीतता भवेत् । रक्ततापादनार्थं च हिमराजिं च जारयेत् ॥ १.१५३ ॥ ------------------ रसाध्यायटीका: पूर्वोक्ते च चतुष्पादे लोहखल्वे जीर्णलोहं रसं तथा ॥ १.१५१-१५३:१ ॥ चतुःषष्टितमभागेन अयःप्रकाशिराजिचूर्णं च क्षिप्त्वा पूर्वोक्तेन थूथाविडेन मर्दयेत् ॥ १.१५१-१५३:२ ॥ अधश्च कोमलाग्निर्ज्वालयेत् ॥ १.१५१-१५३:३ ॥ अग्रेतनक्षिप्तायःप्रकाशं चूर्णे च जीर्णे पुनस्तावन्मात्रमयः ॥ १.१५१-१५३:४ ॥ एवं च यदि रसादष्टगुणायःप्रकाशराजिजीर्णा भवति ॥ १.१५१-१५३:५ ॥ तदा सूतः पीतो भवेत् ॥ १.१५१-१५३:६ ॥ ततः सूतस्य रक्ततानिमित्तं वक्ष्यमाणरीत्या हेमराजिं जारयेत् ॥ १.१५१-१५३:७ ॥ इति जीर्णलोहसूतस्यायःप्रकाशराजिजारणं तृतीयम् ॥ १.१५१-१५३:८ ॥ राजिस्वरूपं चाग्रे स्वयं स च व्याख्यास्यति ॥ १.१५१-१५३:९ ॥ ____________________________________________________ १.१५४-१५६ ब् लोहखल्वचतुष्पादे संजीर्णायःप्रकाशिकम् । पारदं हेमराजेश्च चतुःषष्ट्यंशचूर्णकम् ॥ १.१५४ ॥ थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेदधः । सूतादष्टगुणा जार्या हेमराजिश्च कोविदैः ॥ १.१५५ ॥ जीर्णायां हेमराजौ च रक्तता जायते ध्रुवम् । ------------------ रसाध्यायटीका: स्वर्णस्योत्पादनार्थं च जार्यः शुद्धो हि गन्धकः ॥ १.१५४-१५५:१ ॥ यथा अयःप्रकाशराजिर्जारणा तथा हेमराजेरपि जारणा ज्ञेया ॥ १.१५४-१५५:२ ॥ पारदादष्टगुणा च शेषं स्पष्टम् ॥ १.१५४-१५५:३ ॥ इति जीर्णायःप्रकाशकराजिसूतस्य हेमराजिजारणं चतुर्थम् ॥ १.१५४-१५५:४ ॥ ____________________________________________________ १.१५६-१६१ <भूधरयन्त्र (देf.)> लोष्टगर्तः सुधालिप्तश्चूर्णेन सगुडेन वा । गाढं लिप्तस्वसंशुष्को यन्त्रोऽयं भूधरो मतः ॥ १.१५६ ॥ <मेतल्स्=> गोल्द्> जीर्णहेमाख्यराजिश्च सूतं यन्त्रे च भूधरे । क्षिप्त्वा वै षोडशांशेन शुद्धगन्धकचूर्णकम् ॥ १.१५७ ॥ मुखे कोडीयकं दद्यादधोवक्रं पिधानके । वस्त्रमृत्तिकया लिम्पेथठाग्निं ज्वालयेत्तथा ॥ १.१५८ ॥ षोडशांशं मुहुर्दद्यात्मुहुः कोडीयकं तथा । पारदात्षड्गुणो यावज्जीर्यते शुद्धगन्धकः ॥ १.१५९ ॥ भवेद्दार्ढ्यं च रागेन जीर्णे सूतेन गन्धके । रूप्यं ताम्रं तथा लोहं वङ्गं नागं च पित्तलम् ॥ १.१६० ॥ कांस्यं च सप्तलोहानि रसेनाभ्यञ्ज्य गालयेत् । तिथिवर्णं भवत्येवं सुवर्णं नैव संशयः ॥ १.१६१ ॥ ------------------ रसाध्यायटीका: इह कूपवल्लोष्टबन्धः काञ्चिकहस्तमानो गर्ते सुधायाश्छोहया लिप्तो यदि वागुडं सहितेन चूर्णेन लिप्तः शुष्कः सन् ॥ १.१५६-१६१:१ ॥ भूधरनामायं यन्त्रः प्रोच्यते ॥ १.१५६-१६१:२ ॥ ततः काचलिप्तमृत्तिकाकांस्यं शरावे जीर्णे हेमराजिं सूतं तथाषोडशभागेन शुद्धगन्धकचूर्णं वा क्षिप्त्वोपरि मुखकाचलिप्तमृत्तिकाकोडीयकं दत्त्वा कर्पटमृत्तिकया लिप्त्वा तं शरावं सम्पुटं भूधरयन्त्रमध्ये मुक्त्वा हठाग्निर्ज्वालनीयः ॥ १.१५६-१६१:३ ॥ शुद्धं गन्धकस्वरूपं च गुरुमुखादवज्ञेयम् ॥ १.१५६-१६१:४ ॥ यतः सर्वस्मिन्नप्यत्र ग्रन्थेऽन्यत्रापि च शुद्धगन्धक एव कीचनसि द्विमूलबीजम् ॥ १.१५६-१६१:५ ॥ अत एव सर्वत्र गन्धकशुद्धियुक्तिर्गोपितैषेति ज्ञेयम् ॥ १.१५६-१६१:६ ॥ सदोषे च गन्धके जारिते न कार्यसिद्धिरिति तु गुरुमुखाद्गन्धकशुद्धिरवगन्तव्या ॥ १.१५६-१६१:७ ॥ तथा पूर्वक्षिप्तगन्धकषोडशभागे जीर्णे पुनः कोडीयकमूर्छायाशुगन्धकषोडशभागं क्षिप्त्वा कोडीयकं दत्त्वा हठाग्निर्ज्वालनीयः ॥ १.१५६-१६१:८ ॥ एवं च रसात्षड्गुणशुद्धगन्धके जीर्णेऽतीवरक्तः पारदो भवति ॥ १.१५६-१६१:९ ॥ तेन च रसेन रूप्यं ताम्रं लोहं वङ्गं नागं पित्तलं कांस्यं चेति सप्त लोहानि अभ्यञ्ज्य गालितानि पञ्चदशसुवर्णानि भवन्ति ॥ १.१५६-१६१:१० ॥ इति जीर्णहेमराजिसूतस्य गन्धकजारणं पञ्चमम् ॥ १.१५६-१६१:११ ॥ ____________________________________________________ १.१६२-१६६ <खापरसत्त्वजारण> खटिका १ लवणम् २ तूरी २ गैरिकधातुः ४ जीककम् ५ । संशोधने सुवर्णस्य त्विमाः स्युः पञ्च मृत्तिकाः ॥ १.१६२ ॥ प्रक्षिप्य भूधरे यन्त्रे पारदं जीर्णगन्धकम् । क्षिप्त्वा मनःशिलासत्त्वं सूताद्द्वात्रिंशदंशकम् ॥ १.१६३ ॥ मुखे कोडीयकं दद्यादधोवक्त्रे पिधानकम् । वस्त्रमृत्तिकया लिम्पेथठाग्निं ज्वालयेत्ततः ॥ १.१६४ ॥ जीर्णे जीर्णे मुहुर्दद्यादक्तांशं सूतशोधकः । सूततुल्यं त्विदं जार्यं न तु हीनं न चाधिकम् ॥ १.१६५ ॥ जीर्णे मनःशिलासत्त्वे पञ्च वक्ष्यामि मृत्तिकाः । दाघीछेद२ अषा३ अर्त्त४शोधने हेम शुध्यति ॥ १.१६६ ॥ ------------------ रसाध्यायटीका: इह खटिका ॥ १.१६२-१६६:१ ॥ लवणम् ॥ १.१६२-१६६:२ ॥ तूरी ॥ १.१६२-१६६:३ ॥ गैरिकवर्णिकाजीकक इत्येताभिः पञ्चभिर्मृत्तिकाभिः परीक्षकाः कनकं परीक्ष्यं तेन यथा ॥ १.१६२-१६६:४ ॥ कनकपत्त्राणि काञ्जिकेन क्लेदयित्वा रजकत्यक्ततूरीशुष्कलगदकं लवणेन समभागेन चूर्णयित्वा कर्परः परिचूर्णस्तदुपरि पत्त्रं पुनश्चूर्णं पुनः पत्त्रमेवं पत्त्राण्युपर्युपरि मुक्त्वोपरि पुनः कर्परं दत्त्वा चूर्णेन सर्वतः पार्श्वे वाच्छाद्य यावद्भिः कर्परपुट आच्छाद्यते तावन्ति छगणकानि खडकित्वाग्नि दत्त्वा मुच्यते यदि च ज्वलित्वा स्वयं तिष्ठति ॥ १.१६२-१६६:५ ॥ तदा पुनर्द्वितीयवारं छगणखण्डकपूर्णः पुटो देयः ॥ १.१६२-१६६:६ ॥ एवं यदि मलाधिक्यं तदा तृतीयो देयः ॥ १.१६२-१६६:७ ॥ एवं चित्रक्षटखटिकयापि गोलकखटिकया वा लवणमिश्रयापि पुटद्वयत्रयदानेन तदेव कार्यम् ॥ १.१६२-१६६:८ ॥ अथ यद्येव ज्ञायते ॥ १.१६२-१६६:९ ॥ एवं कृतेऽपि सर्वथा न शुद्धं द्रव्यं यदि वावदूलोतादिकुधातुमसाधिक्यं तदामसवारवर्णिकया जीककेण वा लवणमिश्रेण पूर्वरीत्यैव पुटद्वयत्रयदाने सर्वमलशुद्धिः ॥ १.१६२-१६६:१० ॥ इति पञ्चमृत्स्नाभिः सर्वदोषशुद्धिः ॥ १.१६२-१६६:११ ॥ तथा चतुर्दशवणिकादशीकादशयनवाश्चेति सम्प्रतिकले स्वर्णपरमसीमा अतः परं शोधनेऽपि कृते न हि कर्णिकावृद्धिः ॥ १.१६२-१६६:१२ ॥ तथा शोधनचूर्णं यदि ध्मायते तदा यो रूप्यादिधातुश्चीर्णो भवति सोऽपि लभ्यते ॥ १.१६२-१६६:१३ ॥ तथा रूप्यं कर्परे क्षिप्त्वोपरिसीसकं क्षिप्यतेऽधो जाल्यते ततो द्वावपि सरावेदाकत्र भूत्वा भ्रमतस्तदावसीसकरजतमलं चरित्वा कर्परलगितागरणरक्षाङ्गुलप्रमाणश्चरमध्ये मिलति ॥ १.१६२-१६६:१४ ॥ शुद्धरूप्यरसश्च यदि भ्रान्तस्तिष्ठति तदा ज्ञेयं शुद्धो रूप्यरसः ॥ १.१६२-१६६:१५ ॥ रक्षायां ध्यातायां चीर्णतामृदि धातवो लभ्यन्ते ॥ १.१६२-१६६:१६ ॥ इत्यादिविज्ञमुखैर्ज्ञेयम् ॥ १.१६२-१६६:१७ ॥ अथ मूलग्रन्थव्याख्या ॥ १.१६२-१६६:१८ ॥ भूधरयन्त्रे शरावसम्पुटे जीर्णं गन्धकं रसं क्षिप्त्वा द्वात्रिंशत्तमेन मनःशिलासत्त्वं च क्षिप्त्वा मुखे कोडीयकं दत्त्वा कर्पटमृत्तिकया च लिप्त्वा हठाग्निं ज्वालयेत्जीर्णे च मनःशिलासत्त्वे पुनर्द्वात्रिंशत्तमेन भागेन तस्य क्षेपः ॥ १.१६२-१६६:१९ ॥ एवं पुनः पुनः क्षेपणसूततुल्यं मनःशिलासत्त्वं जार्यम् ॥ १.१६२-१६६:२० ॥ न हीनं न चाधिकम् ॥ १.१६२-१६६:२१ ॥ एवं मनःशिलासत्त्वे जीर्णे पारदेन सप्तलोहान्यभ्यङ्गगालितानि हेमरूपाणि भवन्ति ॥ १.१६२-१६६:२२ ॥ तच्च हेम पञ्चभिर्मृत्तिकाभिः शोधनिकां सहते ॥ १.१६२-१६६:२३ ॥ तथादाद्यछेदकषावर्त्तशोधनशुद्धं च जायते ॥ १.१६२-१६६:२४ ॥ इति जीर्णगन्धकसूतस्य मनःशिलासत्त्वजारणं षष्ठम् ॥ १.१६२-१६६:२५ ॥ एतावद्भिः संस्कारैः संस्कृतो रसो लोहसाधक एव ॥ १.१६२-१६६:२६ ॥ अतः परं च ये संस्कारा यानि च जारणानि तानि देहलोहसाधकानीति ॥ १.१६२-१६६:२७ ॥ तत्र सप्तमं खापरसत्त्वजारणमाह ॥ १.१६२-१६६:२८ ॥ ____________________________________________________ १.१६७-१६९ <खापरसत्त्वजारण; मेर्चुर्य्:: मुखकरण> सूतं जीर्णशिलासत्त्वं लोहखल्वे चतुष्पदे । क्षिप्त्वा खापरसत्त्वस्य चतुःषष्ट्यंशचूर्णकम् ॥ १.१६७ ॥ थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेदधः । जीर्णे जीर्णे मुहुः क्षिप्त्वा जार्यमष्टगुणं रसात् ॥ १.१६८ ॥ जीर्णे पुष्पाक्षसत्त्वे च सस्नेहो जायते रसः । जीर्यतेऽन्नपथं वक्त्रं सम्प्रत्यूर्ध्वं च पारदः ॥ १.१६९ ॥ ------------------ रसाध्यायटीका: चतुष्पादे लोहषैरलेषापरसूत्वं तस्माच्चतुःषष्टिगुणं जीर्णमनःशिलासत्त्वं पारदं च क्षिप्त्वा थूथाविडेन संपिषन्नधो मृदुवह्निर्ज्वालयेत् ॥ १.१६७-१६९:१ ॥ अत्रतने च खापरसत्त्वे जीर्णे पुनः ६४ भागेन तदेव क्षेप्यम् ॥ १.१६७-१६९:२ ॥ एवं पुनः पुनः क्षिप्त्वा रसादष्टगुणं खापरसत्त्वं जारणीयम् ॥ १.१६७-१६९:३ ॥ ततः पारदः सस्नेहो वा संप्रत्यूर्ध्वमन्नपथहीरकं जीर्यति ॥ १.१६७-१६९:४ ॥ इति जीर्णशिलासत्त्वस्य तस्य खापरसत्त्वजारणं सप्तमम् ॥ १.१६७-१६९:५ ॥ ____________________________________________________ १.१७०-१७२ <मेर्चुर्य्:: जारण:: वज्र => सर्वव्यापिन्> त्रिधान्नपथवक्राणां मध्यादेकं च हीरकम् । येन सूतेन संजीर्णं सत्त्वं पुष्पाक्षसम्भवम् ॥ १.१७० ॥ प्रक्षिप्य लोहसत्त्वे तौ चतुष्पाद उभावपि । थूथाविडेन संपिष्यन्मृद्वग्निं ज्वालयेदधः ॥ १.१७१ ॥ ज्वाल्योऽग्निस्तावता यावज्जीर्यते स च हीरकः । हीरकेऽन्नपथे जीर्णे सर्वव्यापी भवेद्रसः ॥ १.१७२ ॥ ------------------ रसाध्यायटीका: इलाग्रे त्रिभिः प्रकारैरन्नपथहीरकाणां निष्पत्तिं भणिष्यति ॥ १.१७०-१७२:१ ॥ ततस्तेषां प्रकारत्रयाणां मध्यात्प्रथममेकतमेन प्रकारेण निष्पन्नमन्नपथे हीरकभस्म तथा जीर्णखापरसत्त्वं सुतं चोभावपि चतुष्पादे लोहखल्वे क्षिप्त्वा थूथाविडेन पिषन् खरलाधो भागे कोमलाग्निं ज्वालयेत् ॥ १.१७०-१७२:२ ॥ तावत्यावता सर्वं हीरकभस्म जीर्यति ॥ १.१७०-१७२:३ ॥ ततो हीरके जीर्णे सति रसः सर्वव्यापीति देहलोहव्यापको भवति ॥ १.१७०-१७२:४ ॥ इति जीर्णखापरसत्त्वसूतस्यान्नपथहीरके जारणमष्टमम् ॥ १.१७०-१७२:५ ॥ ____________________________________________________ १.१७३-१९१ एवंभूतस्तु सूतोऽयं रौद्रसंहारकारकः । यत्किंचिद्दीयते तस्य रसोपरसवातकः ॥ १.१७३ ॥ तत्सर्वं ग्रसते वेगात्यथा देवो महेश्वरः । क्षणेन जायते जीर्णं तन्मुखे पतितं तु यत् ॥ १.१७४ ॥ स्फाटिकान्तानि रत्नानि जीर्यन्ते चातिवेगतः । ततः कोटिगुणे जीर्णे शङ्खवेधी भवेद्रसः ॥ १.१७५ ॥ तत्क्षणादमरत्वं च खेचरत्वं ददाति च । <मेर्चुर्य्:: जारण> अजीर्णं तुम्बाबीजं तु सूतकं यस्तु वातयेत् । ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ॥ १.१७६ ॥ तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् । संस्थाप्य गोमयं भूमौ पश्चात्मूषां तदोपरि ॥ १.१७७ ॥ तन्मध्ये कटुतुम्ब्योत्थं तैलं दत्त्वा रसं क्षिपेत् । काकमाचीरसो देयस्तैलतुल्यस्ततः पुनः ॥ १.१७८ ॥ गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् । तत्पृष्ठे श्रावकं दत्त्वा पूर्णतावद्भिषक्परम् ॥ १.१७९ ॥ स्वाङ्गशीतं च तं ज्ञात्वा जीर्णं तैलं च गन्धकम् । काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ १.१८० ॥ मूषायां गोमयं सार्द्रं दत्त्वा चाधोऽथ पावकम् । षड्गुणं गन्धकं जार्यं सूतस्यैवं मुषं भवेत् ॥ १.१८१ ॥ तत्सूतं मर्दयेत्खल्वे जम्बीरोत्थद्रवैर्दिनम् । चतुःषष्ट्यंशकं पूर्वं द्वात्रिंशांशं ततः पुनः ॥ १.१८२ ॥ षोडशांशं शुद्धहेमपत्त्रं सूतेषु जारयेत् । साग्रे साग्रे तु तन्मर्द्यं जम्बीराणां द्रवैर्दृढम् ॥ १.१८३ ॥ मूलिका लवणं गन्धमभावे पित्ततैलयोः । पिष्यो जम्बीरनीरेण हेमपत्त्रं प्रलेपयेत् । इत्येवं जारणा कार्या ततः सूतं विमारयेत् ॥ १.१८४ ॥ <विड:: वडवानल> अथवा निर्मुषं चेमं विडयोगेन जारयेत् । विडमत्र प्रवक्ष्यामि साधयेद्भिषगुत्तमः ॥ १.१८५ ॥ शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । तद्वज्जम्बीरजैर्द्रवैर्दिनैकं धूमसारकम् ॥ १.१८६ ॥ सौवर्चलमजामूत्रैः क्वाथं यामचतुष्टयम् । कण्टकारीरसं क्वाथं दिनैकं नरमूत्रके ॥ १.१८७ ॥ साजीक्षारं च कासीसं तिन्तिणीकं शिलाजतु । जम्बीरोत्थद्रवैर्भाव्यं पृथक्यामचतुष्टयम् ॥ १.१८८ ॥ जेपालबीजं त्वग्घीनं मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जा शिग्रुमूलद्रवैर्दिनम् ॥ १.१८९ ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः । तद्गोलं रक्षयेद्यत्नात्विडोऽयं वडबानलः ॥ १.१९० ॥ अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके । स्वर्णाभ्रसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ १.१९१ ॥ ------------------ रसाध्यायटीका: अथान्यमते विडानि ॥ १.१७३-१९१:१ ॥ अथ जार्यवस्तूनां जीर्णाजीर्णत्वज्ञानोपायमाह ॥ १.१७३-१९१:२ ॥ ____________________________________________________ १.१९२-१९५ <जारण: गर्भ्ग्रास, पिण्ड, परिणाम> आद्यो गर्भपरः पिण्डः परिणामस्तृतीयकः । सूतान्तः सर्वजार्याणां जारणस्त्रिविधो विधिः ॥ १.१९२ ॥ जार्ये तु जारिते सूते वस्त्रेण गालिते सति । वस्त्रे तिष्ठति चेत्सर्वमाद्यो वै गर्भसंज्ञकः ॥ १.१९३ ॥ पुनर्जारितजार्ये तु वस्त्रान्निःशेषनिर्गते । ख्यातोऽल्पादधिके सूते सोपरिपिण्डसंज्ञकः ॥ १.१९४ ॥ जालं कारयता सूते वस्त्रान्निःसरते पुनः । संस्थिते च निजे लौल्ये जीर्णजार्यस्तृतीयकः ॥ १.१९५ ॥ ------------------ रसाध्यायटीका: अत्राप्ययमाम्नायः ॥ १.१९२-१९५:१ ॥ इहानन्तरप्रोक्तं धान्याभ्रकादीनाम् [... औ२ Zएइछेन्झ्] स च [... औ२ Zएइछेन्झ्] तमेष्वन्येषु वस्तुषु रसे जारितेषु ससूतकं जीर्णमजीर्णमेवेति विचारः ॥ १.१९२-१९५:२ ॥ प्रथमो गर्भः द्वितीयः पिण्डस्तृतीयः परिणामक इति त्रिविधं लक्षणं भवति ॥ १.१९२-१९५:३ ॥ तद्यथा जार्यं वस्तु जारयित्वा रसो वस्त्रेण गाल्यते ततो यदि किंचिद्वस्त्रे शेषं विगाल्य तिष्ठति तदा ज्ञेयोऽसौ गर्भ इति ॥ १.१९२-१९५:४ ॥ ततः पुनरपि सरश्चरुभ्यते तदेव खरले क्षिप्त्वा यथा विडेन पेषिताग्निर्ज्वालनीयः ॥ १.१९२-१९५:५ ॥ अयं भावो जारणा येन विधिना पूर्वं भणितास्ति सा तेन विधिना जार्यौषधं विनैवानुमानेन तप्त्वा पुनर्वस्त्रेण रसो गालनीयः ॥ १.१९२-१९५:६ ॥ ततो यदि वस्त्रात्पूर्वोऽपि निःसरति ननु किंचिल्लगति परं तोलितः स तु निजतौल्याधिको भवति तदा ज्ञेयोऽसौ पिण्ड इति ॥ १.१९२-१९५:७ ॥ अद्यापि सर्वथा न जीर्णमौषधमित्यर्थः ॥ १.१९२-१९५:८ ॥ ततः पुनरपि यथा भणितास्ति तथैव जार्यौषधोपक्षेपेण विनैव विधापुनर्नववस्त्रेण रसो गाल्यते ॥ १.१९२-१९५:९ ॥ यदि वस्त्रान्निःसृतो गालितः सन्निजतौल्ये तिष्ठति तदा ज्ञेयोऽसौ परिणामक इति ॥ १.१९२-१९५:१० ॥ रसेनौषधसर्वथाजीर्ण इत्यर्थः ॥ १.१९२-१९५:११ ॥ अत्राद्यमेतद्द्वयमेव शुद्धकृतो यो भेदः शुद्धः ॥ १.१९२-१९५:१२ ॥ इति जार्याणां जीर्णलक्षणाधिकारः ॥ १.१९२-१९५:१३ ॥ इति सारणसमाप्तः ॥ १.१९२-१९५:१४ ॥ इत्येवमष्टभिः संस्कारैरेकादशो जारणासंस्कारः ॥ १.१९२-१९५:१५ ॥ ____________________________________________________ १.१९६-२०२ <सिद्धरस (?)> कुम्भस्याधः कृते छिद्रे द्विग्रन्थिं दोरकं क्षिपेत् । एकं मध्ये परं बाह्ये कुम्भे कार्यो गलद्घटी ॥ १.१९६ ॥ महोडाकस्य मूलानां श्रीखण्डेन घटे ततः । क्षिप्त्वायःस्थालिकामध्ये पारदं जीर्णाहीरकम् ॥ १.१९७ ॥ सच्छिद्रां ढङ्कणीं दत्त्वा कुम्भं श्रीखण्डसंभृतम् । प्रध्वरायां च ढङ्कण्यां क्षिप्त्वाग्निं ज्वालयेद्धठात् ॥ १.१९८ ॥ स्थालिकाधश्चतुर्यामं ढङ्कणीछिद्रमध्यतः । श्रीपिण्डो दोरकाच्च्युत्वा मुहुः पतति पारदे ॥ १.१९९ ॥ तद्दग्धसूतसम्मिश्रं श्वेतभस्म प्रजायते । तत्क्षिपेदन्धमूषायां साकं मध्वाज्यटङ्कणैः ॥ १.२०० ॥ ध्मातं सत्कुरुते बन्धं पारदस्य न संशयः । न क्षीयते मुहुर्ध्मातेऽतीवनिश्चलतां गतः ॥ १.२०१ ॥ जार्यमाणश्च यः सूतः स्वयमेव निबध्यते । स हि सिद्धरसानां हि देहलोहो निबध्यति ॥ १.२०२ ॥ ------------------ रसाध्यायटीका: इह कुम्भस्य तले छिद्रमङ्गुलिप्रवेशयोग्यं कृत्वा तत्र दवरकं क्षिप्त्वा मध्ये बहिरपि च दवरके ग्रन्थिं दत्त्वा तथा कार्यं यथा सत्कुम्भो गलद्घटी भवति ॥ १.१९६-२०२:१ ॥ तत्र क्षिप्तौषधरसो गलतीत्यर्थः ॥ १.१९६-२०२:२ ॥ ततः स्थालिकामध्ये जीर्णदोरकं पारदं क्षिप्त्वा उपरि सच्छिद्रा प्रध्वरा ढङ्कणी दीयते ॥ १.१९६-२०२:३ ॥ तस्याश्चोपरि गलद्घटी कुम्भोमुमुत्का महोडाकमूलानां श्रीषण्डेन सकुम्भो भ्रियते ॥ १.१९६-२०२:४ ॥ ततः स्थालिकाया अधस्ताच्चतुरो यामान् हठाग्निर्ज्वालनीयः ॥ १.१९६-२०२:५ ॥ एवं च यथा यथा कुम्भमध्याड्ढङ्कणी छिद्रेण दवरकाद्गलित्वा तुषरसः पारदे पतति तथा तथाग्निदग्धः पारदः श्वेतभस्म भवति ॥ १.१९६-२०२:६ ॥ ततश्च तत्सूतभस्म मध्वाज्यटङ्कणैः साकं बन्धमूषायां क्षिप्त्वा ध्मायते ॥ १.१९६-२०२:७ ॥ ततः पारदो ध्मातः सन् बध्यते ॥ १.१९६-२०२:८ ॥ कोऽर्थः अनेकशोऽत्यर्थं ध्मातोऽपि निश्चलो भवति न पुनः क्षीयते ॥ १.१९६-२०२:९ ॥ यः पारदो जार्यमाणः सन् बध्यते स्वयमेव निबध्यते निरायासबद्धो भवति स हि सिद्धरस इत्युच्यते ॥ १.१९६-२०२:१० ॥ स च देहलोहानां वेधकः स्यात् ॥ १.१९६-२०२:११ ॥ तदेदं पूर्वोक्तयुक्त्यासौ सिद्धरसो निष्पन्नः ॥ १.१९६-२०२:१२ ॥ अथ सिद्धरसस्य फलमाह ॥ १.१९६-२०२:१३ ॥ ____________________________________________________ १.२०३-२०६ मृगस्याकृष्णनेत्रे च प्ररोहत्यन्धचक्षुषि । रसाभ्यक्ते तयोः पीडा नश्यत्यन्धश्च पश्यति ॥ १.२०३ ॥ देवदानवगन्धर्वसिद्धगुह्यकखेचरैः । रसो वक्त्रे स्थितो यस्य तद्गतिः खे न हन्यते ॥ १.२०४ ॥ म्रियते न विषेणापि दह्यते नैव वह्निना । आकाशे सिद्धविद्यस्य मृतो जीवति तत्क्षणात् ॥ १.२०५ ॥ मणिमन्त्रौषधेभ्योऽपि प्रभावातिशयो महान् । मृतसंजीवनो नाम रसबन्धः प्रकीर्तितः ॥ १.२०६ ॥ ------------------ रसाध्यायटीका: मृगस्य नेत्रे अकृष्णरसेनाभ्येते ॥ १.२०३-२०६:१ ॥ नेत्रयोः पीडा नश्यति ॥ १.२०३-२०६:२ ॥ अन्धचक्षुषि सिद्धरसाञ्जने कृतेऽन्धः पश्यति ॥ १.२०३-२०६:३ ॥ तथा यस्य मुखे सिद्धरसगुटिका तिष्ठति तस्याकाशे गतिर्देवदानवगन्धर्वसिद्धयक्षखेचरैर्न हन्यते ॥ १.२०३-२०६:४ ॥ तथा सिद्धरसे मुखे स्थिते विषेण न म्रियते ॥ १.२०३-२०६:५ ॥ अग्निना न दह्यते ॥ १.२०३-२०६:६ ॥ आकाशे सिद्धरसविद्यश्च भवति ॥ १.२०३-२०६:७ ॥ मृतो मूर्छितः सन् तत्क्षणाज्जीवति ॥ १.२०३-२०६:८ ॥ तथा मणिमन्त्रमहौषधेभ्योऽपि सिद्धरसस्य प्रभावातिशयो महीयान् ॥ १.२०३-२०६:९ ॥ असौ मृतजीवनो नाम रसबन्धः कथितः ॥ १.२०३-२०६:१० ॥ कोऽर्थः मृत इव मृतः ॥ १.२०३-२०६:११ ॥ सर्पदंशवह्निदाहजलप्लावशस्त्रघातविषादिदुष्टप्रयोगैर्मूर्छितः यः केनापि जीवयितुं न शक्यते सोऽपि मुखे क्षिप्तस्यास्य रसस्य प्रभावेण क्षणादेव जीवति ॥ १.२०३-२०६:१२ ॥ इति जीर्णवज्रसूतस्य बन्धसंस्कारो द्वादशः ॥ १.२०३-२०६:१३ ॥ ____________________________________________________ १.२०७-२०८ <मेर्चुर्य्:: सारण> बद्धसूतचतुःषष्टिपलान्यावर्तयेत्सुधीः । हेमराजिचतुःषष्टिपलान्यावर्तयेत्पृथक् ॥ १.२०७ ॥ ढालयेद्धेमराजिं तां बद्धसूतद्रवोपरि । रक्तषोटो भवत्येवं संस्कारः सारणो मतः ॥ १.२०८ ॥ ------------------ रसाध्यायटीका: पूर्वोक्तयुक्त्या बद्धसूतस्य चतुःषष्टिपलानि गालयित्वा ततो द्वितीयमुषायां हेमराजिचतुःषष्टिपलानि गालयेत् ॥ १.२०७-२०८:१ ॥ ततस्तानि हेमराजिचतुःषष्टिपलानि गालितबद्धसूतचतुःषष्टिपलोपरि ढालनीयानि ॥ १.२०७-२०८:२ ॥ तत उभयं मिलित्वा रक्तषोटो भवति ॥ १.२०७-२०८:३ ॥ एवमेष सारणसंस्कारः प्रोच्यते ॥ १.२०७-२०८:४ ॥ इति बद्धसूतस्य सारणसंस्कारस्त्रयोदशः ॥ १.२०७-२०८:५ ॥ ____________________________________________________ १.२०९-२१४ <मेर्चुर्य्:: पातन? सारण?> तारमध्यगतं कृत्वा पूर्ववत्पातयेद्रसम् । हेमपिष्टानुसंपिष्टं कुमारीरसमर्दितम् ॥ १.२०९ ॥ उपरिस्थस्य भाण्डस्य बुध्नसंलेपितं ध्रुवम् । एवं तु गन्धकं ताम्ररजते हाटके तथा । पुनः पुनस्तथा पात्यं चेत्थं संसारयेत्ततः ॥ १.२१० ॥ <१४. मारणसंस्कार> रक्तषोटस्य यावन्तो गद्याणाः सारणे कृते । द्विघ्नाः शुद्धशिलायास्ते भृशं चूर्णीकृता मुहुः ॥ १.२११ ॥ विस्तीर्णकाचकूप्यां तद्देयं चूर्णमुपर्यधः । रक्तषोटं च तद्गर्भे क्षिप्त्वास्य चाभ्रचाचिकम् ॥ १.२१२ ॥ कूपिकायां वेष्टनानि सप्त देयानि च मृदः । नरप्रमाणिकं गर्तं खनित्वा छाणकैर्भृतम् ॥ १.२१३ ॥ तद्गर्भे कूपिकां क्षिप्त्वा हठाग्निं ज्वालयेत्ततः । स्वाङ्गशीतं च तद्ग्राह्यमेतन्मारणमुच्यते ॥ १.२१४ ॥ ------------------ रसाध्यायटीका: इह सारणसंस्कारे कृते यावन्तो रक्तषोटस्य गद्याणा भवन्ति तेभ्यो द्विगुणात्तु शुद्धमनःशिलागद्याणान् गाढं सूक्ष्मचूर्णरूपान् कृत्वा प्रौढकाचकूपीमध्येऽर्धचूर्णं क्षिप्त्वा ततो रक्तषोटं मुक्त्वा पुनरुपरि शेषं मनःशिलाचूर्णमधः क्षिप्त्वा कूपीमध्येऽधश्चूर्णं क्षिप्त्वा ततो रक्तषोटं मुक्त्वा पुनरुपरि शेषं मनःशिलाचूर्णमधः लिप्त्वा कूपीद्वारेऽभ्रस्य चातिकां दत्त्वा सप्ततारं तस्यां कूपिकायां परितः कर्पटमृत्तिकां दत्त्वारण्यछाणकैः पूर्णायां पुरुषप्रमाणखनितगर्तायां मध्ये कूपीं मुक्त्वा हठाग्निर्ज्वालनीयः ॥ १.२०९-२१४:१ ॥ यदि च ज्वलिता स्वयं शीतलं भवति तदा कूपीमध्यात्स रसो ग्राह्यः ॥ १.२०९-२१४:२ ॥ एतन्मारणमुच्यते ॥ १.२०९-२१४:३ ॥ अत्राम्नायः ॥ १.२०९-२१४:४ ॥ खड्डायामर्धं यावच्छणकानि मुक्त्वोपरि कूपी मुच्यते ततः पार्श्वेषत्तथोपरि छाणकैर्गर्ता भ्रियते ॥ १.२०९-२१४:५ ॥ इति सारितसूतस्य मारणसंस्कारश्चतुर्दशः ॥ १.२०९-२१४:६ ॥ ____________________________________________________ १.२१५ <१५. प्रतिसारणसंस्कार> संस्कारैर्मनुसंख्यैश्च सूतः संस्कृत्य मारितः । खल्वे क्षिप्त्वा स सम्पिष्टः प्रोच्यते प्रतिसारणम् ॥ १.२१५ ॥ ------------------ रसाध्यायटीका: इह मनुसंख्यैश्चतुर्दशभिः संस्कारैरनन्तरोक्तैः संस्कृत्य यो मारितसूतः सुखल्वे क्षिप्त्वात्यर्थं पिष्यते ॥ १.२१५:१ ॥ एतत्प्रतिसारणं भण्यते ॥ १.२१५:२ ॥ इति मारितसूतस्य प्रतिसारणसंस्कारः पञ्चदशः ॥ १.२१५:३ ॥ ____________________________________________________ १.२१६ मारितं मृतनागेन हेम तस्यापि चूर्णकम् । यत्प्रतिसारणे क्षिप्यमेतत्क्रामणमुच्यते ॥ १.२१६ ॥ ------------------ रसाध्यायटीका: इह मृतसीसकेन काञ्चनं सारयित्वा तस्य मृतकाञ्चनस्य चूर्णं यत्प्रतिसारितरसे क्षिप्यते ॥ १.२१६:१ ॥ एतत्क्रामणं कथ्यते ॥ १.२१६:२ ॥ इति प्रतिसारितसूतस्य क्रामणसंस्कारः षोडशः ॥ १.२१६:३ ॥ नागकाञ्चनमारणविधिश्चाग्रे स्वयमेव वक्ष्यति ॥ १.२१६:४ ॥ ____________________________________________________ १.२१७-२१८ <वेध> नागवल्ल्याश्च पत्रेण तदतंत्तामितरम् । रतिमात्रं क्षिपेत्कुर्यान्नागपत्रस्य वेढनीम् ॥ १.२१७ ॥ गालयित्वाथ तच्चूर्णं सर्वलोहेषु निक्षिपेत् । गाल्यमानेषु तायेत सहस्रस्य प्रवेधकम् ॥ १.२१८ ॥ ------------------ रसाध्यायटीका: इह प्रथमं शुद्धनागस्यैकेन पत्रेऽवद्येन पत्रं कृत्वा तत्र रतिमात्रं क्रमितं रसं क्षिप्त्वा नारापत्रस्थातनु गालयित्वा वेढनीं च कृत्वा तां वेढनीं गालयेत् ॥ १.२१७-२१८:१ ॥ ततश्चूर्णं भवति ॥ १.२१७-२१८:२ ॥ ततः पूर्वोक्तानि सर्वाण्यपि नागवङ्गादिलोहानि रतिसहस्रमात्राणि गालयित्वा भ्रमत्येव लोहरसे रतिमात्रं वेढनीरसं चूर्णं क्षिपेत् ॥ १.२१७-२१८:३ ॥ ततस्तले सक्तं सुवर्णं ग्राह्यम् ॥ १.२१७-२१८:४ ॥ एष सहस्रवेधको रसः ॥ १.२१७-२१८:५ ॥ इति क्रामितसूतस्य वेधकसंस्कारः सप्तदशः ॥ १.२१७-२१८:६ ॥ ____________________________________________________ १.२१९-२२३ <उद्घाटन> गालिते नागगद्याणे सूतगद्याणकं क्षिपेत् । तच्चूर्णमध्ये क्षेप्तव्यो गद्याणो गंधकस्य च ॥ १.२१९ ॥ सर्जिकायाश्च गद्याणे मिलिते स्याच्चतुष्टयम् । चूर्णं सम्पिष्य कर्तव्यं जलेनालोडयेत्ततः ॥ १.२२० ॥ शरावसम्पुटे क्षिप्त्वा नीरन्ध्रवस्त्रमृत्स्नया । हस्तप्रमाणिकं गर्तं खनित्वा छाणकैर्भृतम् ॥ १.२२१ ॥ शरावसम्पुटं गर्ते क्षिप्त्वाग्निर्ज्वालयेत्ततः । स्वाङ्गशीतं गृहीत्वा तत्कर्तव्यं सूक्ष्मचूर्णकम् ॥ १.२२२ ॥ गालिते विद्धसूतेऽथ क्षिप्त्वा सर्षपमात्रकम् । एवं कृते च सूतस्योद्घाटनं जायते ध्रुवम् ॥ १.२२३ ॥ ------------------ रसाध्यायटीका: ततस्तस्य चूर्णस्य मध्ये गन्धकस्य गद्याणकः ॥ १.२१९-२२३:१ ॥ सर्जिकायाश्च गद्याणकः क्षेप्यः ॥ १.२१९-२२३:२ ॥ ततो गालितनागगद्याणकः १ सूतगद्याणकः २ गन्धकगद्याणकः १ एवं गद्याणकचतुष्टयं मेलयित्वा गाढं सम्पिष्य चूर्णं कृत्वा जलेनालोडयित्वा पुनः शोषयित्वा ततः शरावसम्पुटे क्षिप्त्वा सम्पुटसंधौ च वस्त्रमृत्तिकां दत्त्वा ततो हस्तप्रमाणायां गर्तायां मध्ये छाणकानि क्षिप्त्वोपरि शरावसम्पुटं दत्त्वा मुक्त्वा पुनः पार्श्वेषूपरि छाणकैः खण्डीभूत्वाग्निर्ज्वालनीयः ॥ १.२१९-२२३:३ ॥ यदि च ज्वलित्वा न स्वयं स्थितो भवति तदा सम्पुटमध्यादौषधं गृहीत्वा सूक्ष्मचूर्णं कृत्वा वेधसंस्कृतस्य गालितस्य रसस्य मध्ये सर्षपमात्रं गद्याणचतुष्टयं सूक्ष्मचूर्णं क्षिपेत् ॥ १.२१९-२२३:४ ॥ अत्र च सूतमध्ये क्षेप्यौषधस्य प्रमाणं भणितम् ॥ १.२१९-२२३:५ ॥ न पुनर्विद्धरसस्य ॥ १.२१९-२२३:६ ॥ तथा गुरुभिरप्यस्य प्रमाणं नोक्तम् ॥ १.२१९-२२३:७ ॥ ततोऽनुमानेनेति ज्ञायते ॥ १.२१९-२२३:८ ॥ पश्चात्सर्वत्र चतुःषष्टिपलानि रसस्य प्रोक्तानि ॥ १.२१९-२२३:९ ॥ ततस्तावता रसेन यावदौषधं वेधसंस्कारे क्रियमाणे निष्पन्नं तावतेवौषधस्य रसस्य मध्ये गद्याणकचतुष्टयं पूर्णं सर्षपमात्रं क्षेप्तव्यम् ॥ १.२१९-२२३:१० ॥ दिवा श्रीगुर्वाज्ञया यावत्प्रमाणं जानाति ॥ १.२१९-२२३:११ ॥ एवं सर्षपमात्रे चूर्णे क्षिप्ते विद्धसूतस्योद्घाटनं भवति ॥ १.२१९-२२३:१२ ॥ उद्घाटनं नाम सर्वधातुवेधे सर्वरोगापहारे च ॥ १.२१९-२२३:१३ ॥ इत्यष्टादशः संस्कारः ॥ १.२१९-२२३:१४ ॥ ____________________________________________________ १.२२४-२३० <गोल्द्:: राजि> जीवशुल्वस्य भागैकं द्वौ भागौ शुद्धहेमजौ । भागत्रयं समावर्तपत्त्रं कुर्यात्सुजदुकम् ॥ १.२२४ ॥ निम्बुकानां रसैः क्षुत्त्वा यन्नागं शिलया मृतम् । तेन लेपः प्रदातव्यो जडपत्त्रस्य पक्षयोः ॥ १.२२५ ॥ चित्रकूटस्य षड्भागं भागैकं लवणस्य च । समभागेन संचूर्ण्य भर्तव्या स्थालिका ततः ॥ १.२२६ ॥ लिप्तं पत्त्रं च तन्मध्ये ब्रुडन्तं चोर्ध्वगं क्षिपेत् । शरावेऽधोमुखे दत्ते कण्ठं नीरन्ध्रयेन्मृदा ॥ १.२२७ ॥ ततो ह्यधोमुखीं दद्याच्छरावोपरि ढङ्कणीम् । स्थालिकाधश्चतुर्यामं हठाग्निं ज्वालयेदधः ॥ १.२२८ ॥ विधिना हि च तेनैवं पत्त्रं फाडीत्रयं भवेत् । गृहीत्वा मध्यमां फाडीं पक्षफाडीद्वयं त्यजेत् ॥ १.२२९ ॥ मध्यफाड्याश्च चूर्णेन हेमराजिर्भवेद्ध्रुवम् । चतुःषष्ट्यंशदानेन जार्यश्चाष्टगुणो रसात् ॥ १.२३० ॥ ------------------ रसाध्यायटीका: इह मानशुल्बं मारयित्वा पुनर्जीव्यते तं जीवन्तं शुल्वं कथयन्ति ॥ १.२२४-२३०:१ ॥ ततस्तच्छुल्बस्यैको भागः तथा द्वौ हेमभागौ एवं भागत्रयं गालयित्वा इति तत्स्थूलं पत्त्रं कुर्यात् ॥ १.२२४-२३०:२ ॥ ततो मनःशिलायां निम्बुकरसैश्च नागं मारयित्वा जतुपत्त्रमुभयपार्श्वयोस्तेन मारितनागेन लेपनीयम् ॥ १.२२४-२३०:३ ॥ ततश्चित्रकूटखटीलवणयोः समभागेन चूर्णं कृत्वा स्थालीं भृत्वा तस्य मध्ये ऊर्ध्वं ब्रुडन्तं पत्त्रं मुक्त्वा मुखेऽधोमुखं शरावं कृत्वा साध कण्ठे मृदा लिप्त्वा शरावस्योपर्यधोमुखं ढङ्कणीं दत्त्वा स्थालिकाधः प्रहरचतुष्कं यावथठाग्निर्ज्वालनीयः ॥ १.२२४-२३०:४ ॥ एवं च कृते पत्त्रस्य फाडीत्रयं जायते ॥ १.२२४-२३०:५ ॥ ततो या मध्यमा फाडी तां गृहीत्वा मर्दनीयं पार्श्वफाडीद्वयं च त्यजनीयं यच्च मध्यफाडीचूर्णं सा हेमराजिरुच्यते ॥ १.२२४-२३०:६ ॥ तस्य चतुःषष्टितमो भागः पूर्वोक्तयुक्त्या पूर्वप्रोक्तस्य रसस्य दातव्यः ॥ १.२२४-२३०:७ ॥ एवं तावद्यावदष्टगुणो हेमराजिं दत्त्वा पूर्वोक्तरीत्या जारिता भवति ॥ १.२२४-२३०:८ ॥ इति सर्वोत्कृष्टा हेमराजिः समाप्तः ॥ १.२२४-२३०:९ ॥ ____________________________________________________ १.२३१-२३५ <लेअद्:: राजि> नागराजिस्तु सामान्या माक्षिकी मध्यमा स्मृता । उत्तमा घोषराजिश्च यः प्रकाशात्तदुत्तमा ॥ १.२३१ ॥ पलैकं तीक्ष्णलोहस्य कांस्यस्यापि पलद्वयम् । पलानि नव ताम्रस्य पित्तलस्य पलत्रयम् ॥ १.२३२ ॥ शिलया मृतनागस्य तिथिसंख्यापलानि च । त्रिंशत्पलानि मूषायाः प्रक्षिप्यावर्तयेत्सुधीः ॥ १.२३३ ॥ ततः सुवर्णमाक्षीकं सार्धसप्तपलानि च । स्तोके स्तोकेन क्षिप्त्वाथ शनैश्चावर्तयेत्सुधीः ॥ १.२३४ ॥ यावतस्ताम्रभागस्य तत्समानं यदा भवेत् । स्तोकः प्रकाशराजिः स्यात्प्रथमा परिकीर्तिता ॥ १.२३५ ॥ ------------------ रसाध्यायटीका: इह या नागराजिः सा सामान्या स्वल्पकार्यकारी ॥ १.२३१-२३५:१ ॥ माक्षिकाराजिर्मध्यमकार्यकारी ॥ १.२३१-२३५:२ ॥ व्योषराजिरुत्तमा बहुकार्यकारी ॥ १.२३१-२३५:३ ॥ अयःप्रकाशराजिस्ताभ्यः सर्वाभ्यो राजिभ्य उत्तमा सर्वोत्तमकारीत्यर्थः ॥ १.२३१-२३५:४ ॥ ततः प्रथममयःप्रकाशराजिरुच्यते ॥ १.२३१-२३५:५ ॥ पलमेकं सारलोहस्य कांस्यस्य च पलद्वयम् ॥ १.२३१-२३५:६ ॥ पलानि नव शुद्धताम्रस्य पलत्रयं पित्तलायाः ॥ १.२३१-२३५:७ ॥ मनःशिलामारितनागस्य पञ्चदशपलानि ॥ १.२३१-२३५:८ ॥ एवं सर्वसंख्यायास्त्रिंशत्पलानि मूषायां प्रक्षिप्यावर्तनीयानि ॥ १.२३१-२३५:९ ॥ ततः सुवर्णमाक्षिकस्य सार्धसप्तपलान्यानीय स्तोकेन मध्ये क्षिप्त्वा पुनः शनैस्तावदावर्तनीयानि यावता ताम्रभागप्रमाणानि भवन्ति ॥ १.२३१-२३५:१० ॥ अयमर्थः ॥ १.२३१-२३५:११ ॥ ताम्रपलानि नव सन्ति ॥ १.२३१-२३५:१२ ॥ ततः सर्वो रस आवर्तयित्वा यदा नवपलप्रमाणो भवति तदा प्रथमासावयःप्रकाशराजिः कथ्यते ॥ १.२३१-२३५:१३ ॥ इति सर्वोत्तमायःप्रकाशराजिः कथ्यते ॥ १.२३१-२३५:१४ ॥ ____________________________________________________ १.२३६-२३७ <ब्रोन्शे:: राजि> तीक्ष्णलोहस्य चूर्णेन समानं कांस्यचूर्णकम् । प्रक्षिप्यावर्त्य मूषायां क्रियते चैकपिण्डकम् ॥ १.२३६ ॥ पिण्डादर्धगुणं नागं क्षिप्त्वा जार्यं पुनः पुनः । घोषराजिर्भवेज्जीर्णे नागे कांस्याच्च षड्गुणे ॥ १.२३७ ॥ ------------------ रसाध्यायटीका: सारलोहचूर्णं कांस्यचूर्णं च सममात्रया मूषायां क्षिप्त्वा तत आवर्त्य एकपिण्डं क्रियते ॥ १.२३६-२३७:१ ॥ ततस्तस्मात्पिण्डादर्धमात्रया शुद्धनागं मध्ये क्षिप्त्वा मूषायां पुनः पुनरावर्त्य जारणीयम् ॥ १.२३६-२३७:२ ॥ ततः पुनरप्यर्धमात्रया नागं क्षिप्त्वा जार्यम् ॥ १.२३६-२३७:३ ॥ यदि चैवं पुनः पुनर्जारणेन कांस्यात्षड्गुणं नागं जीर्णं भवति ॥ १.२३६-२३७:४ ॥ तदा व्योषराजिर्जायते ॥ १.२३६-२३७:५ ॥ इति व्योषराजिः कांस्यराजिरित्यर्थः ॥ १.२३६-२३७:६ ॥ ____________________________________________________ १.२३८-२३९ <माक्षिक:: राजि> शुद्धताम्रस्य चत्वारि पलान्यावर्तयेत्पृथक् । थूथापलानि चत्वारि माक्षिकं च चतुःपलम् ॥ १.२३८ ॥ पलाष्टानां कृतं चूर्णं स्तोके स्तोकेन प्रक्षिपेत् । ताम्रशेषं भवेद्यावद्राजिर्माक्षीकजा मता ॥ १.२३९ ॥ ------------------ रसाध्यायटीका: प्रथमं शुद्धताम्रस्य चत्वारि पलानि पृथगावर्तयित्वा ततस्तन्मध्ये थूथापलानि चत्वारि चत्वारि माक्षीकपलान्येवमष्टौ पलानि चूर्णीकृत्य स्तोकेन स्तोकेन क्षिप्त्वा पुनः पुनरावर्त्य तावज्जारयेत् ॥ १.२३८-२३९:१ ॥ यावता ताम्रशेषं भवति ॥ १.२३८-२३९:२ ॥ सर्वमौषधं चत्वारि पलानि जार्यत इत्यर्थः ॥ १.२३८-२३९:३ ॥ इति माक्षिकराजिस्तृतीया ॥ १.२३८-२३९:४ ॥ ____________________________________________________ १.२४०-२४२ यावच्छुल्वस्य भागैकं शनैरावर्तयेत्पृथक् । शिलया मृतनागाष्टौ थूथाभागचतुष्टयम् ॥ १.२४० ॥ पिष्ट्वा चूर्णीकृते शुल्बे स्तोकस्तोकेन प्रक्षिपेत् । नागराजिर्भवेच्चेयम् [... औ१२ Zएइछेन्झ्] ॥ १.२४१ ॥ राज्यभ्युच्छ्रितलोहानां चूर्णं कार्यं सदा बुधैः । तज्जैश्च राजिरेकैका जार्या चाष्टगुणा रसात् ॥ १.२४२ ॥ ------------------ रसाध्यायटीका: शुद्धताम्रस्य भागमेकं मूषायां गालयित्वा ततो मनःशिलाया भागाश्चत्वारो मृतनागस्य भागास्तथा चत्वारः तथा चत्वारः थूथाभागाः ॥ १.२४०-२४२:१ ॥ एवं द्वादशभागांश्चूर्णीकृत्य स्तोकेन शुल्वमध्ये क्षिप्त्वा तावदावर्तयेद्यावत्ताम्रशेषं भवति ॥ १.२४०-२४२:२ ॥ एषा नागराजिः प्रोच्यते ॥ १.२४०-२४२:३ ॥ थूथानागराजीनां फलमाह राज्यभ्युच्छ्रितलोहानामित्यादि चतसृणामपि राजीनां लोहस्य चूर्णं कृत्वैकैकराजिः ॥ १.२४०-२४२:४ ॥ रसमध्ये पूर्वोक्तरसयुक्त्याष्टगुणा जारणीया क्रमेणेति राजिकरणविधिः ॥ १.२४०-२४२:५ ॥ इति नागराजिश्चतुर्थी ॥ १.२४०-२४२:६ ॥ ____________________________________________________ १.२४३-२४९ <रसक:: सत्त्व:: पातन> अथ खापरसत्त्वपातनविधिः मणैकं रसकस्याथ नृमूत्रेण दिनत्रयम् । क्वाथयित्वातपे शुष्कं यामं दुग्धेन पाचयेत् ॥ १.२४३ ॥ शुष्कं चूर्णीकृतं तस्मिन् क्षेप्योऽष्टांशः खलस्य च । टङ्कणक्षारतुर्यांशोऽष्टांशः पूर्वगुडस्य च ॥ १.२४४ ॥ साधिते ये मृदो मूषे कचूलाकारवर्तुले । एकस्याश्चान्तरे क्षिप्त्वा मूषां चूर्णस्य वर्तताम् ॥ १.२४५ ॥ अपरस्यां पुनर्नालं मूर्धं चतुर्दशाङ्गुलम् । मृन्मयं छिद्रं बुध्ने विन्यसेत्तामधोमुखीम् ॥ १.२४६ ॥ निरघ्नतत्समस्तं च परितो वस्त्रमृत्स्नया । यन्त्रस्तुम्बीनलीनां वै कर्तव्यः सत्त्वपातने ॥ १.२४७ ॥ कोठीमध्ये क्षिपेद्यन्त्रं बब्बूलखदिरावलीम् । प्रभृतीनां मृताङ्गारैः पूर्णं पूर्णं धमेन्मुहुः ॥ १.२४८ ॥ सदृशैश्च विधृत्यास्तुम्बीनलीमध्यतो मुखीम् । मूषामध्याद्धृतं यावत्सर्वं वेषापरीयकम् ॥ १.२४९ ॥ ------------------ रसाध्यायटीका: रसकस्य खापरस्य मणमेकं नरमूत्रेण दिनत्रयं क्वाथयित्वा आतपे दत्त्वा शोषयित्वा प्रहरमेकं दुग्धेन पाचयित्वा पुनः शोषयित्वा चूर्णीकृत्य तन्मध्येऽष्टभागेन खलश्चतुर्थभागेन टङ्कणक्षारोऽष्टमभागेन पूर्वगुड एतानि त्रीणि क्षिपेत् ॥ १.२४३-२४९:१ ॥ ततो मृत्तिकया मूषाद्वयं कच्चोलकसमानं प्रौढं वर्तुलाकारं कृत्वा एकस्यां मूषायां पूर्वोक्तखापरचूर्णं क्षिप्त्वा सा मूषाधोमुखी नालोपरि मोक्तव्या ॥ १.२४३-२४९:२ ॥ ततः कर्पटमृत्तिकया सर्वपार्श्वेषु निश्छिद्रं विधाय सत्त्वपातनाय ईदृशस्तुम्बनलीनामा यन्त्रः कर्तव्यः ततः कोठीमध्ये बब्बूलखदिरमाम्बलीप्रभृतीनां लीहालकैः पूरयित्वा यन्त्रं च तत्र क्षिप्त्वा पुनः पुनर्ध्मात्वा संदंशैरधोमुखीं यन्त्रनलीं धूत्वा यावन्मात्रो रसो मध्याद्गलित्वाधोमूषायां समेति तत्खापरसत्त्वं कथ्यते ॥ १.२४३-२४९:३ ॥ इति खापरसत्त्वपातनविधिः ॥ १.२४३-२४९:४ ॥ ____________________________________________________ १.२५०-२५३ <मनःशिलासत्त्वपातन> अथ मनःशिलासत्त्वपातनविधिः श्रेष्ठा कणयरी खल्वे पेष्या मनःशिला बुधैः । पिदध्यादभ्रकेणास्यं तां क्षिप्त्वा काचकुम्पके ॥ १.२५० ॥ दद्यात्सलवणं दग्धाश्मचूर्णं मस्तकोपरि । वस्त्रमृत्तिकया लिम्पेत्समग्रमपि कुम्पकम् ॥ १.२५१ ॥ भङ्क्त्वा पक्वघटं कण्ठे मुक्त्वा मृल्लिप्तकुम्पकम् । हठाग्निर्ज्वालनीयोऽधो यामं द्वादशकं मणे ॥ १.२५२ ॥ कुम्पोदरं भवेद्रिक्तं सत्त्वं गलति कण्ठके । कुम्पं भङ्क्त्वा शिलासत्त्वं ग्राह्यं यत्नेन धीमता ॥ १.२५३ ॥ ------------------ रसाध्यायटीका: सर्वोत्तमा कणयरी मनःशिला खरले पिष्ट्वा कुम्पे क्षिप्त्वा अभ्रकेण कुम्पमुखं पिधाय लवणसहितं दग्धपाषाणचूर्णं मस्तके दत्त्वा वस्त्रमृत्तिकया सर्वां कुम्पां मुक्त्वाधो मनःशिलां प्रति प्रहरद्वादशकं यावथठाग्निर्ज्वालनीयः ॥ १.२५०-२५३:१ ॥ ततः सत्त्वमुड्डीय कण्ठे लगति कुम्भोदरं च रिक्तं भवति ॥ १.२५०-२५३:२ ॥ एवं कुम्पं भङ्क्त्वा कण्ठलग्नं सत्त्वं ग्राह्यम् ॥ १.२५०-२५३:३ ॥ इति शिलासत्त्वपातनविधिः ॥ १.२५०-२५३:४ ॥ अथ त्रिप्रकारं षड्लोहद्रुतिकरणं यथा ॥ १.२५०-२५३:५ ॥ ____________________________________________________ १.२५४-२६३ <गोल्द्:: द्रुति> भावेनापि मृतो भेको यत्र कुत्रापि लभ्यते । स्फटिकष्टङ्कणक्षारस्तस्य खोटास्तु सूक्ष्मकाः ॥ १.२५४ ॥ भेकोदरं विदार्याथ ते क्षेप्याः सूक्ष्मखोटकाः । घृततैलादिना दिग्धं स्थाल्या भेकं क्षिपेच्च तत् ॥ १.२५५ ॥ प्रध्वरां ढङ्कणीं दत्त्वा स्थाली भूमौ निखन्यते । भुवः स्थालीं समाकृष्य ह्यतीतैः षष्टिवासरैः ॥ १.२५६ ॥ स्थाल्या मध्याद्विशुध्यैवं ग्राह्यं तच्च समग्रकम् । खरले प्रक्षिप्य तत्सर्वं पेष्टव्यं चातिसूक्ष्मकम् ॥ १.२५७ ॥ गालयित्वाथ गद्याणं हिमजं तिथिवर्णकम् । तन्मध्ये भेकचूर्णस्य वल्लः क्षेप्यो विचक्षणैः ॥ १.२५८ ॥ न बन्धो जायते हेम्नो जातं तद्द्रवरूपितम् । इयं हेमद्रुतिर्जाता तज्ज्ञैर्निष्पादिता किल ॥ १.२५९ ॥ <मेतल्स्:: द्रुति> हेमान्तर्निहिते वल्ले यथा स्यात्काञ्चनी द्रुतिः । कान्तलोहे तथा रूप्ये वङ्गे नागे तथैव च ॥ १.२६० ॥ ताम्रे षट्स्वपि लोहेषु चूर्णं षोडशवेधकम् । षण्णां मध्याच्च लोहाणां कस्याप्येकस्य गालिते ॥ १.२६१ ॥ गद्याणे वस्त्रमात्रं च प्रक्षिपेद्भेकचूर्णकम् । तल्लोहं द्रवरूपं स्यात्तन्नाम्नैव द्रुतिर्भवेत् ॥ १.२६२ ॥ षड्लोहद्रुतिस्तज्ज्ञैः कृता भवेत्सकर्मणा । अनया यानि कर्माणि वक्ष्यन्ते तानि धातुषु ॥ १.२६३ ॥ ------------------ रसाध्यायटीका: स्वभावेन मृतस्य भेकस्योदरं विदार्य स्फाटिकोज्ज्वलटङ्कणक्षारस्यातिसूक्ष्माः खोटांस्तत्र क्षिप्त्वा ततो घृततैलादिना दिग्ध्वा मध्ये स्थालि भेकं मुक्त्वोपरि प्रध्वरां ढङ्कणीयं दत्त्वा भूमिमध्ये स्थाली निखन्यते ॥ १.२५४-२६३:१ ॥ षष्टिदिनैः पुनः स्थालीमाकृष्य मध्यात्सर्वं गृहीत्वा खरले पिष्ट्वा चूर्णं कार्यम् ॥ १.२५४-२६३:२ ॥ ततः सर्वोत्तमं सुवर्णगद्याणकं गालयित्वा वल्लमात्रं भेकचूर्णं मध्ये क्षिप्यते ॥ १.२५४-२६३:३ ॥ ततस्तत्सुवर्णं पुनर्बन्धं नाप्नोति किंतु द्रवमेव तिष्ठति ॥ १.२५४-२६३:४ ॥ इयमेवं सुवर्णद्रुतिर्भवति ॥ १.२५४-२६३:५ ॥ इयं च सुवर्णद्रुतिरेवं कान्तलोहे रूप्ये वङ्गे नागे ताम्रे च गद्याणमात्रे च गालिते वल्लमात्रं भेकचूर्णं क्षिप्यते ॥ १.२५४-२६३:६ ॥ ततो द्रवरूपाणि सर्वाणि भवेयुस्तत्तन्नाम्नी च द्रुतिर्भवति ॥ १.२५४-२६३:७ ॥ लोहद्रुतिः रूप्यद्रुतिः वङ्गद्रुतिः नागद्रुतिस्ताम्रद्रुतिश्चेति ॥ १.२५४-२६३:८ ॥ इति षड्लोहद्रुतिकरणं प्रथमम् ॥ १.२५४-२६३:९ ॥ ____________________________________________________ १.२६४-२६७ <गोल्द्:: द्रुति> पीताङ्गादेव दालीं च पञ्चाङ्गां कुरु खण्डशः । कर्परे ज्वालयित्वा च कर्तव्यं भस्म सूक्ष्मकम् ॥ १.२६४ ॥ शेषान्ते एव पञ्चाङ्गां निशाह्वायां च वर्तयेत् । तद्रसेनैव दातव्या भावनास्यैव भस्मनः ॥ १.२६५ ॥ गालिते चैकगद्याणे तिथिवर्णे च हेमजे । प्रक्षिप्ते भस्मनो वल्लं वल्लं च प्रक्षिपेत्पुनः ॥ १.२६६ ॥ एवं गद्याणमध्ये च जार्यो गद्याणकः सदा । इत्थं हेमद्रुतिर्जाता सर्वलोहेष्वयं विधिः ॥ १.२६७ ॥ ------------------ रसाध्यायटीका: पञ्चाङ्गपीतदेवदालीखण्डानि कृत्वा कर्परे ज्वालयित्वा गाढं भस्म क्रियते ततस्तस्या एव देवदाल्या रसेन भावना तस्य भस्मनो दातव्या ॥ १.२६४-२६७:१ ॥ ततः पञ्चदशवर्णिककाञ्चनगद्याणकं गालयित्वा वल्लमात्रं देवदालीभस्म क्षिप्त्वा जारणीयम् ॥ १.२६४-२६७:२ ॥ एवं पुनःपुनर्वल्लमात्रक्षेपे यदा गद्याणकमात्रं भस्म जीर्णं स्यात्तदा काञ्चनद्रुतिर्भवति ॥ १.२६४-२६७:३ ॥ एवं लोहादिष्वपि देवदालीभस्मजारणेन तत्तन्नाम्नी द्रुतिर्भवति ॥ १.२६४-२६७:४ ॥ इति षड्लोहद्रुतिकरणं द्वितीयम् ॥ १.२६४-२६७:५ ॥ ____________________________________________________ १.२६८-२६९ <षड्लोहद्रुतिकरण (३)> ज्वालयेत्कर्परे श्वेतं देवदाल्यङ्गपञ्चकम् । गोमूत्रैर्भावना देया भस्मनस्त्वेकविंशतिः ॥ १.२६८ ॥ ततः षट्स्वपि लोहेषु कार्यः प्रागुदितो विधिः । जायते षट्सु लोहेषु द्रुतिरेवं न संशयः ॥ १.२६९ ॥ ------------------ रसाध्यायटीका: श्वेतदेवदालिपञ्चाङ्गखण्डानि कृत्वा कर्परे ज्वालयित्वा भस्म कृत्वैकविंशतिभावनां गोमूत्रेण भस्मनो दत्त्वा पूर्ववत्षड्लोहमध्ये श्वेतदेवदालीभस्म लेप्यम् ॥ १.२६८-२६९:१ ॥ सर्वलोहानां द्रुतिर्भवति ॥ १.२६८-२६९:२ ॥ इति षड्लोहद्रुतिकरणं तृतीयम् ॥ १.२६८-२६९:३ ॥ एवं लोहद्रुतिकरणस्य त्रयो भेदाः ॥ १.२६८-२६९:४ ॥ ____________________________________________________ १.२७०-२७१ <मारण ओf दिff. मेतल्स्> नागं मनःशिला हन्ति हरितालं च वङ्गकम् । हिङ्गुलेन तथा लोहं ताम्रं च शुद्धगन्धकम् ॥ १.२७० ॥ रूप्यं च तिलमाक्षीकं स्वर्णं नागेन हन्यते । यथा ताम्रविधिः प्रोक्तः स विधिः पञ्चमारणे ॥ १.२७१ ॥ ------------------ रसाध्यायटीका: मनःशिलया नागं हरितालेन वङ्गं हिङ्गुलेन लोहं शुद्धगन्धकेन ताम्रं तिलमाक्षिकेण रूप्यं नागेन सुवर्णं च म्रियते ॥ १.२७०-२७१:१ ॥ ततो येन विधिनेति ॥ १.२७०-२७१:२ ॥ ____________________________________________________ १.२७२-२७५ <चोप्पेर्:: मारण> पत्त्रं ताम्रस्य चूर्णं वा कृत्वा मुञ्चेत्पृथक्सुधीः । शुद्धगन्धकचूर्णं च ताम्राच्च द्विगुणीकृतम् ॥ १.२७२ ॥ क्षुण्णं रसेन कुमार्या दुग्धेन तदसंभवे । तस्य पूपाद्वयस्यान्तः प्रक्षिपेत्ताम्रपत्त्रकम् ॥ १.२७३ ॥ शरावसम्पुटस्यान्तस्तत्क्षिप्त्वा लिप्य मृत्स्नया । संधिं वस्त्रमृदा लिप्त्वा कटाहे तत्क्षिपेत्पुटम् ॥ १.२७४ ॥ छाणकानि कटाहीतत्क्षिप्त्वाग्निं ज्वालयेत्ततः । ज्वलिते शीतलीभूते ताम्रं ग्राह्यं मृतं बुधैः ॥ १.२७५ ॥ ------------------ रसाध्यायटीका: ताम्रस्य पत्त्रं वा चूर्णं कृत्वा ततस्ताम्रं द्विगुणं शुद्धं गन्धकचूर्णं कुमारीरसे नागो दुग्धेन वा गाढं मृदित्वा पूपाद्वयं च कृत्वा मध्ये पूर्वकृतताम्रपत्त्रचूर्णं वा क्षिप्त्वा पूपाद्वयं शरावसम्पुटे मुक्त्वा संधौ वस्त्रमृत्तिकया लिप्त्वा सर्वतो मृत्तिकया लिप्त्वा कटाहमध्ये शरावसम्पुटे क्षिप्त्वा छाणकैश्च कटाहं भृत्वा निर्ज्वालनीयः ॥ १.२७२-२७५:१ ॥ ततो ज्वलित्वा शीतले जाते सति ताम्रं मृतं ग्राह्यम् ॥ १.२७२-२७५:२ ॥ इति ताम्रमारणविधिः ॥ १.२७२-२७५:३ ॥ येन विधिना गन्धकेनात्र ताम्रं मारितं तेनैव विधिना नागादीनि पञ्च लोहानि कार्ये सति मारणीयानि ॥ १.२७२-२७५:४ ॥ इति षड्लोहमारणविधिः ॥ १.२७२-२७५:५ ॥ ____________________________________________________ १.२७६-२८७ अथ त्रिधान्नपथ्यहीरककरणं पञ्चधामारणम् <अन्नपथ्यहीरकजारणम् (१)> बीजपूरस्य यद्वृन्तं कुर्यादुत्तार्य रन्ध्रकम् । तन्मध्ये हीरकं जात्यं क्षिप्त्वा वृन्तेन छादयेत् ॥ १.२७६ ॥ बीजपूरं समग्रं तु वेष्टयेद्वस्त्रमृत्स्नया । दैर्घ्ये चाधस्तथा व्यासे गर्तं हस्तप्रमाणकम् ॥ १.२७७ ॥ छाणकैः स्थापितैः पूर्णे तद्गर्ते बीजपूरकम् । पिदध्यात्कर्परेणास्यं मध्ये वह्निं क्षिपेत्ततः ॥ १.२७८ ॥ ज्वलित्वा शीतलीभूते नवनवैर्बीजपूरकैः । पुनः पुनः प्रकर्तव्यो नववेलमयं विधिः ॥ १.२७९ ॥ निसाहायां च संवर्त्य सुसूक्ष्मा वढवाइका । तत्पिण्डान्तः क्षिपेद्वर्जं पिण्डः शरावसम्पुटे ॥ १.२८० ॥ भर्तव्या प्राक्कृता गर्ता छाणकैः स्थापितैः पुनः । तत्पृष्ठं वस्त्रमृल्लिप्तं गर्तां गर्भे पचेत्सुधीः ॥ १.२८१ ॥ नून्नाभिर्वडवाइभिर्नवधा संपचेन्मुहुः । ततो राजबदर्याश्च शाखा किसलयात्मिका ॥ १.२८२ ॥ तां गृहीत्वाथ तद्गर्भे रन्ध्रं कुर्याद्विचक्षणः । नेसहिङ्गुमधश्चोर्ध्वं दत्त्वा तं हीरकं क्षिपेत् ॥ १.२८३ ॥ वस्त्रमृदाथ नीरन्ध्रशाखाकिसलयं ततः । प्राक्प्रमुक्तगर्तायां नवधा पूर्वरीतिजा ॥ १.२८४ ॥ नेसहिङ्गुमये खोटे रन्ध्रं कृत्वाथ हीरकम् । क्षिप्त्वास्यं हिङ्गुनाच्छाद्य मुषरिमाषपीठिका ॥ १.२८५ ॥ क्षिप्त्वा तत्तैलसम्पूर्णे पात्रेऽग्निं ज्वालयेदधः । युक्त्यैवं नवधा कार्यं हिङ्गुखोटे नवे नवे ॥ १.२८६ ॥ विधिना त्रिपथो जात्यो हीरको जायते स्फुटम् । थूथाविडेन सम्पिष्य रसे जारयते सुधीः ॥ १.२८७ ॥ ------------------ रसाध्यायटीका: बीजपूरस्य वृन्तमुत्पाट्य मध्ये उत्कीर्य रन्ध्रं कृत्वा तत्र हीरकं जात्यं क्षिप्त्वोपरि वृन्तेनाच्छाः वस्त्रमृत्तिकया समग्रं बीजपूरकं वेष्टयित्वा ततो हस्तमात्रं दीर्घा हस्तमात्रं पृथुला हस्तमात्रं चाध एवं गर्तां कृत्वा स्थापितैः छाणकैः पूरयित्वा तत्र बीजपूरकं मुक्त्वोपरि मुखे कर्परं दत्त्वा छाणकेषु वह्निर्देयः । ततो ज्वलित्वा शीतलीभूते वीडापूर्वं ततः पुनर्द्वितीयं बीजपूरमानीय पूर्ववत्सर्वं कृत्वा गर्तायां हीरकबीजपूरे क्षिप्त्वा छाणकानि ज्वालयित्वा शीतलीभूते सति बीजपूरमध्याद्धीरको ग्राह्यः । एवं नवनववारं नवनवैर्बीजपूरैः स एव हीरकः पचनीयः । ततो वडवाइकानिसाहायां वर्तयित्वा तत्पिण्डं कृत्वा तत्र मध्ये स एव हीरकः क्षेप्यः । ततस्तं पिण्डं शरावसम्पुटान्तः क्षिप्त्वा सर्वतो वस्त्रमृत्तिकया लिप्त्वा पूर्वतः कृतगर्तां छाणकैः भृत्वा तस्यां गर्तायां शरावसम्पुटं मध्ये मुक्त्वाग्निर्ज्वालनीयः । ततः शीतलीभूते पुनरन्यासां वडवाइकानां पिण्डमध्ये तमेव हीरकं क्षिप्त्वा तथैव ज्वालयित्वा हीरको ग्राह्यः । एवं नववारं नवनवाभिर्वडवाइकाभिः स एव पचनीयः राजबदर्याः किसलयरूपां कोमलां शाखामानीय तस्यां छिद्रं कृत्वा नेसहिङ्गुं तत्राध ऊर्ध्वं च दत्त्वा छिद्रमध्ये तमेव हीरकं क्षिप्त्वा वस्त्रमृत्तिकया निच्छाद्य पूर्वं छाणकपूर्णगर्तायां पचेत् ॥ १.२७६-२८७:१ ॥ ततः पुनर्बदरीशाखाकिसलयच्छिद्रे हीरकं क्षिप्त्वा तथैव गर्तायां पचनीयः ॥ १.२७६-२८७:२ ॥ एवं नववारं नवनवो राजबदरीशाखाकिसलयैः स एव हीरकः पचनीयः ॥ १.२७६-२८७:३ ॥ ततो महतो नेसहिङ्गुखोटस्य मध्ये रन्ध्रं कृत्वा तमेव हीरकं क्षिप्त्वा मुखं च नेसहिङ्गुना आच्छाद्योपरि माषपीठीं दद्यात्ततस्तैलपूर्णे पात्रे तं हिङ्गुखोटं क्षिप्त्वाधोऽग्निर्ज्वालनीयः ॥ १.२७६-२८७:४ ॥ ततः पुनरपि नवे हिङ्गुखोटे तथैव ॥ १.२७६-२८७:५ ॥ एवं नववारं नवनवैर्नेसहिङ्गुखोटैः स एव हीरकः पचनीयः ॥ १.२७६-२८७:६ ॥ थूथाविडेन तं हीरकं सम्पिष्य पूर्वोक्ते रसे शनैः शनैर्जारणीयो हीरकः । इत्यन्नपथ्यहीरकजारणं प्रथमम् ॥ १.२७६-२८७:७ ॥ ____________________________________________________ १.२८८-२९१ <अन्नपथ्यहीरकजारणम् (२)> कर्णेभ्यो महिषीनां च मला ग्राह्याः समग्रकाः । तैश्च सम्पत्तिदो हीरान् जात्यान् संवेष्टयेत्सुधीः ॥ १.२८८ ॥ सूरणक्षुद्रकन्देषु तत्क्षिप्त्वा वस्त्रमृत्स्नया । वेष्टयित्वा पुटं देयं भूमौ कुर्कुटसंनिभम् ॥ १.२८९ ॥ वारं वारं श्रुतिमलैः सूरणक्षुद्रकन्दकैः । वस्त्रमृद्भिर्नवीनाभिर्दातव्यानि पुटानि च ॥ १.२९० ॥ एकविंशतिवारैश्च भूमौ कुर्कुटकैः पुटैः । विधीयन्ते सुखेनैव हीराश्चान्नपथा बुधैः ॥ १.२९१ ॥ ------------------ रसाध्यायटीका: महिषीणां कर्णमलान् गृहीत्वा जात्यान् हीरान् वेष्टयित्वा तैर्मलैस्ततो मलवेष्टितांस्तान् सूरणक्षुद्रकन्देषु छिद्राणि कृत्वा तत्र च क्षिप्त्वा सर्वतः कर्पटमृत्तिकया लिप्त्वा भूमौ कुर्कुटपुटो दातव्यः ॥ १.२८८-२९१:१ ॥ ततः पुनर्हीरकं गृहीत्वा तथैव महिषीकर्णमलैर्वेष्टयित्वा सूरणक्षुद्रकन्दमध्ये क्षिप्त्वा वस्त्रमृत्तिकया सर्वतो लिप्त्वा भूमौ छाणकैः कुर्कुटपुटो देयः ॥ १.२८८-२९१:२ ॥ एवं पुनः पुनरेकविंशतिवारान्महिषीकर्णमलेन वेष्टयित्वा सूरणक्षुद्रकं तेषु च क्षिप्त्वा भूमौ कुर्कुटपुटान् दत्त्वान्नपथ्यहीरकाः साधनीयाः ॥ १.२८८-२९१:३ ॥ इति हीरकान्नपथ्यकरणो द्वितीयो विधिः ॥ १.२८८-२९१:४ ॥ ____________________________________________________ १.२९२-२९४ <वज्र:: प्रेपरतिओन् fओरेअतिन्ग्> या भूम्या मर्दकी तस्या मृदुपत्त्राणि वर्तयेत् । तत्पिण्ड्यान्तर्विनिक्षिप्य हीरकान् कुरु गोलकम् ॥ १.२९२ ॥ तं शरावपुटे क्षिप्त्वा संधिकर्पटमृत्स्नया । वेष्टयित्वा पुटो देयो भूमौ कुर्कुटसंनिभः ॥ १.२९३ ॥ नूतनैर्नूतनैर्मुहुः सर्वैश्चतुःषष्टिपुटानि च । कुर्कुटान्येव देयानि हीराश्चान्नपथीकृताः ॥ १.२९४ ॥ ------------------ रसाध्यायटीका: या भूम्या मर्दकी भूमिफोडी तस्याः पत्त्राणि कोमलानि वर्तयित्वा पिण्डीं च कृत्वा मध्ये जात्यहीरकान् क्षिप्त्वा गोलकान् कृत्वा तान् शरावसम्पुटमध्ये मुक्त्वा संधौ कर्पटमृत्तिकां च दत्त्वा भूमौ कुर्कुटपुटं दातव्यम् ॥ १.२९२-२९४:१ ॥ ततः पुनस्तथैव भूम्यामर्दकीपिण्डीमध्ये हीरान् क्षिप्त्वा गोलकान् कृत्वा शरावसम्पुटे च क्षिप्त्वा कर्पटमृत्तिकां च संधौ दत्त्वा भूमौ कुर्कुटपुटो देयः ॥ १.२९२-२९४:२ ॥ एवं नवनवैर्भूम्यामर्दकीपत्त्रपिण्डीगोलकैस्ते हीरका भूमौ चतुःषष्टिं कुर्कुटपुटानि दत्त्वान्नपथाः कार्याः ॥ १.२९२-२९४:३ ॥ अयमर्थः ॥ १.२९२-२९४:४ ॥ अन्नवत्पक्वा भवन्ति रसे च जीर्यन्ते ॥ १.२९२-२९४:५ ॥ इति हीरकान्नपथकरणे तृतीयो विधिः ॥ १.२९२-२९४:६ ॥ ____________________________________________________ १.२९५-३०३ <हीरकभस्मीकरण (१)> अग्निना दह्यते नैव भज्यते न हतो घनैः । जले ब्रुडति नैवायं दुःशक्यो हि परीक्षितुम् ॥ १.२९५ ॥ <वज्र:: मारण> लीलकं हस्तयोः क्षिप्त्वा हीरकानां च विंशतिः । हस्ताभ्यां मर्दनीयास्ते न स्युर्निस्तेजसश्च ये ॥ १.२९६ ॥ <वज्र:: परीक्षा:: त्रुए> येष्वेका न भवेद्रेखा ते जात्या हीरकाः स्मृताः । कर्परं पक्वमानीय गर्ताः कार्यास्त्वनेकशः ॥ १.२९७ ॥ जात्यहीरान् क्षिपेत्तेषु ततस्तु मृतजीविभिः । ध्मात्वा ध्मात्वा शिखिवर्णं कार्यं तज्ज्ञैश्च कर्परम् ॥ १.२९८ ॥ नृमूत्रं थौहरं दुग्धं तुल्यमेकत्र मिश्रितम् । ताभ्यां विध्मापयेद्ध्मातं कर्परं च मुहुर्मुहुः ॥ १.२९९ ॥ कर्परेषु नवीनेषु गर्तान्कृत्वाथ हीरकान् । तानेव ध्मापयेत्क्षिप्त्वा ध्मातान्मिश्रेण छण्टयेत् ॥ १.३०० ॥ युक्त्यानया सप्तवारं ध्मात्वा विध्मापयेन्मुहुः । तादृशाः प्रथमे ध्माने जाम्बुलाः स्युर्द्वितीयके ॥ १.३०१ ॥ निस्तेजसस्तृतीये तुर्ये त्र्यस्राश्च वर्तुलाः । पञ्चमे छाणिका छिन्नाश्छिद्यन्ते हीरका ध्रुवम् ॥ १.३०२ ॥ हस्ताभ्यां मर्दिताः षष्ठे भज्यन्ते सप्तमे पुनः । भस्मीभूतास्ततस्तेषां प्रक्षेप्यं भस्म कुम्पके ॥ १.३०३ ॥ ------------------ रसाध्यायटीका: अयं हीरकोऽग्निना न दह्यते घनैराहतो न भज्यते पानीये न ब्रुडति अतः कारणाथीरकः परीक्षितुं दुःशक्यः ॥ १.२९५-३०३:१ ॥ तथापि परीक्षा प्रोच्यते ॥ १.२९५-३०३:२ ॥ प्रथमं हस्तयोर्हीरकं क्षिप्त्वा ततो विंशतिहीरकान् हस्तयोर्मुक्त्वा हस्ताभ्यां ते हीरका मर्दनीयास्तेषां च मध्ये ये हीरकास्तेजोरहिता न स्युस्तथा येषु रेखा एकापि न भवति ते जात्या हीरकाः ॥ १.२९५-३०३:३ ॥ शेषा अजात्याः ॥ १.२९५-३०३:४ ॥ ततश्च पक्वकर्परमानीय तत्रानेकान् कडुकान् कृत्वा तेषु हीरकान् क्षिप्त्वा तं हीरकं कर्परं लीहालङ्कैर्ध्मात्वाग्निवर्णं कृत्वा समभागमेलितनरमूत्रथोहरदुग्धाभ्यां विध्माप्यो हीरकः ॥ १.२९५-३०३:५ ॥ एवं नवनवैः कर्परैः सप्तवारं हीरकाः पचनीयाः ॥ १.२९५-३०३:६ ॥ ततश्चात्र प्रथमवारे हीरकास्तादृशा एव भवन्ति ॥ १.२९५-३०३:७ ॥ द्वितीयवारे लोषुलास्तृतीयवारे निस्तेजसः ॥ १.२९५-३०३:८ ॥ चतुर्थवारे वर्तुलाः पञ्चमवारे कर्तर्या छिन्नाः छिद्यन्ते ॥ १.२९५-३०३:९ ॥ षष्ठवारे हस्तमर्दिताः भज्यन्ते ॥ १.२९५-३०३:१० ॥ सप्तमवारे भस्मरूपास्ततश्च तद्भस्म कुम्पे क्षिप्त्वा मोच्यम् ॥ १.२९५-३०३:११ ॥ इति हीरकभस्मीकरणं प्रथमम् ॥ १.२९५-३०३:१२ ॥ ____________________________________________________ १.३०४-३०८ <वज्र:: मारण> गन्धकामलसाराख्यो हरितालो मनःशिला । तुर्यः सुवर्णमाक्षीकः कर्तव्याः समतुल्यकाः ॥ १.३०४ ॥ चत्वारो वारिणा पिष्ट्वा कार्यास्ते राबसदृशाः । पुष्पाल्या घनपुष्पाणि निसाहायां प्रवर्तयेत् ॥ १.३०५ ॥ पिण्डं पिष्टस्य कृत्वाथ तन्मध्ये जात्यहीरकान् । क्षिप्त्वाथ गोलकं कृत्वा वज्रमूषान्तरे क्षिपेत् ॥ १.३०६ ॥ ध्मातां तामग्निवर्णाभां राबामध्ये क्षिपेन्मुहुः । एवमित्थंविधिः कार्यो वारानेकचतुर्दश ॥ १.३०७ ॥ अनायासेन वज्राणि भस्मानि स्युर्न संशयः । चूर्णं विधाय तेषां च प्रक्षिपेत्कुम्पके सुधीः ॥ १.३०८ ॥ ------------------ रसाध्यायटीका: आमलसारको गन्धकः ॥ १.३०४-३०८:१ ॥ हरितालमनःशिला सुवर्णमाक्षीकाः ॥ १.३०४-३०८:२ ॥ एतान् चतुरोऽपि समभागेन मेलयित्वा जलेन सम्पिष्य राबसदृशान् कृत्वा ततः पुष्पावल्या बहूनि पुष्पाणि निसाहायां वर्तयित्वा पिण्डं च कृत्वा तन्मध्ये हीरकान् क्षिप्त्वा गोलाकारपिण्डं च विधाय वज्रमूषामध्ये तं गोलकं क्षिप्त्वाग्निवर्णं च ध्मात्वा पूर्वकृतराबमध्ये पुनः पुनः क्षिप्त्वा मूषां विध्मापयेत् ॥ १.३०४-३०८:३ ॥ ततः पुनरपि तान् हीरकान् तथा खापरपिण्डमध्ये क्षिप्त्वा वज्रमूषामध्ये क्षिप्त्वा ध्मात्वा च राबामध्ये विधापयेत् ॥ १.३०४-३०८:४ ॥ एवं नवनवौषधैश्चतुर्दशवारान् हीरकान्पचेत्ततः सुखेन वज्राणि भस्मीभवन्ति तच्च भस्म कुम्पे क्षेप्यम् ॥ १.३०४-३०८:५ ॥ इति हीरकभस्मीकरणं द्वितीयम् ॥ १.३०४-३०८:६ ॥ ____________________________________________________ १.३०९-३१२ <वज्र:: मारण> केतकीनां स्तनानेव निसाहायां जलं विना । वर्तयित्वा रसो ग्राह्यो वस्त्रपूतो हि निर्मलः ॥ १.३०९ ॥ रसेनानेन सूक्ष्मा च वर्तनीया मनःशिला । तया संवेष्ट्य वज्राणि वज्रमूषान्तरे क्षिपेत् ॥ १.३१० ॥ विध्माप्यार्कदुग्धेन ध्मातां तामग्निनिभां कृताम् । एवमिच्छन्मुहुः कार्यः सप्तवेलमयं विधिः ॥ १.३११ ॥ सद्वज्राणि म्रियन्ते च सुखसाध्यानि निश्चितम् । तच्च चूर्णं कुम्पे क्षेप्यं मृतहीरकसम्भवम् ॥ १.३१२ ॥ ------------------ रसाध्यायटीका: केतकीनां स्तनान्निसाहायां जलं विनैव गाढं वर्तयित्वा वस्त्रेण च गालित्वा रसो ग्राह्यः ॥ १.३०९-३१२:१ ॥ ततस्तेन रसेन मनःशिलां वर्तयित्वा तया हीरकान् संवेष्ट्य वज्रमूषामध्ये क्षिप्त्वाग्निना तां वज्रमूषां ध्मात्वाग्निवर्णं कृत्वार्कदुग्धेन विध्यापयेत् ॥ १.३०९-३१२:२ ॥ ततः पुनरपि केतकीस्तनरसवर्तितमनःशिलया वज्राणि वेष्टयित्वा वज्रमूषायां क्षिप्त्वा ध्मात्वा चार्कदुग्धेन विध्यापयेतेवं पुनःपुनः सप्तवेलं कृते वज्राणि भस्मीभवन्ति ॥ १.३०९-३१२:३ ॥ इति हीरकभस्मीकरणं तृतीयम् ॥ १.३०९-३१२:४ ॥ ____________________________________________________ १.३१३-३१६ <वज्र:: मारण> मन्दारार्कास्तु ये श्वेतास्तेषां मूलानि दाहयेत् । ज्वाल्यमानेषु तेषु तैश्च कर्तव्या मृतजीविनः ॥ १.३१३ ॥ तेष्वगालेपने तेषु कार्या यत्नेन गर्तकाः । तेषु वज्राणि विन्यस्याग्निष्टे सौवर्णके क्षिपेत् ॥ १.३१४ ॥ आम्बिल्याउलिबबुलैः संपत्यामृतजीविभिः । सुवज्रानग्निना ध्मात्वा क्वाथे कौलत्थके क्षिपेत् ॥ १.३१५ ॥ सुखेनाथ तया युक्त्या मार्यं ते हीरका बुधैः । भस्मीभूतं तु वस्त्राणि चूर्णं क्षेप्यं च कुम्पके ॥ १.३१६ ॥ ------------------ रसाध्यायटीका: इह श्वेत आकमदारमूलानि ज्वालयित्वा लीहालकाः कार्याः ॥ १.३१३-३१६:१ ॥ ततस्तेषु लिहालकेषु यत्नेन गर्तकान् कृत्वा तेषु गर्तकेषु वज्राणि प्रक्षिप्य सुवर्णसम्बन्धिनि अग्निष्टे क्षिप्त्वा आम्बिली आउलिबबूल ॥ १.३१३-३१६:२ ॥ लीहालकैरग्निसमानं ध्मात्वा कुलथ्याः क्वाथमध्ये क्षिप्त्वा विध्यापयेतनया युक्त्या हीरकाः सुखेनापि भस्मीभवन्ति ॥ १.३१३-३१६:३ ॥ इति हीरकभस्मीकरणं चतुर्थम् ॥ १.३१३-३१६:४ ॥ ____________________________________________________ १.३१७-३२० <वज्र:: मारण> अग्निसंयुक्तमूलानि मुखाउल्याः समानयेत् । श्रीखण्डं घर्षयेत्तेषां ससर्धेन प्रलेपयेत् ॥ १.३१७ ॥ वज्रमूषां तरंगगर्भे प्रक्षिप्यो जात्यहीरकः । क्षिप्त्वा श्रीखण्डशेषार्धं मूषामग्निष्टके क्षिपेत् ॥ १.३१८ ॥ ध्मात्वाद्याग्निनिभां कृत्वा वज्रिदुग्धेन ढालयेत् । सुखेनाथानया युक्त्या म्रियन्ते जात्यहीरकाः ॥ १.३१९ ॥ तस्मिंस्तेषां कृते चूर्णं प्रक्षिपेत्कुम्पके सुधीः । यो वज्रभस्मना कर्म प्रभावोऽग्रे भविष्यति ॥ १.३२० ॥ ------------------ रसाध्यायटीका: इहामुखा उल्यामूलानि त्वक्संयुक्तान्येव समानीय तेषां श्रीखण्डशेषाध क्षिप्त्वा सा मूषाग्निष्टके मुक्त्वाग्निना ध्मात्वा थोहरदुग्धे ढालनीया ॥ १.३१७-३२०:१ ॥ अनया युक्त्या सुखेन हीरका म्रियन्ते ॥ १.३१७-३२०:२ ॥ तेषां च मृतानां भस्म कुम्पे क्षिपेत् ॥ १.३१७-३२०:३ ॥ अनेन हीरकभस्मना यत्कर्म यश्च प्रभावः सोऽग्रे भणिष्यते ॥ १.३१७-३२०:४ ॥ इति हीरकभस्मकरणं पञ्चमम् ॥ १.३१७-३२०:५ ॥ एवं पञ्चभिर्भेदैर्हीरकभस्मीकरणं भवति ॥ १.३१७-३२०:६ ॥ इति हीरकविधिः ॥ १.३१७-३२०:७ ॥ अथ गन्धकशोधनम् ॥ १.३१७-३२०:८ ॥ ____________________________________________________ १.३२१-३२२ <सुल्fउर्:: शोधन> स्थालिकायां क्षिपेद्दुग्धं बद्ध्वा शैथिल्यदाथरम् । दाथरे गन्धकं क्षिप्त्वा लिपेत्कण्ठं मृदा दृढम् ॥ १.३२१ ॥ अग्निष्टं चोपरि क्षिप्त्वा ज्वालयेद्घटिकाद्वयम् । यावद्व्येति पयो मध्ये स शुद्धो गन्धको भवेत् ॥ १.३२२ ॥ ------------------ रसाध्यायटीका: स्थालिकामध्ये दुग्धं क्षिप्त्वा मुखे शैथिल्यदाथरं बद्ध्वा तत्र दाथरे गन्धकं क्षिप्त्वा कण्ठे मृत्तिकया लिप्त्वोपरि अग्निष्टं क्षिप्त्वा घटीद्वयं यावज्ज्वालयेत् ॥ १.३२१-३२२:१ ॥ ततो गन्धको गलित्वा यो दुग्धमध्ये याति स शुद्धगन्धको ज्ञेयः ॥ १.३२१-३२२:२ ॥ इति गन्धकशोधनं प्रथमम् ॥ १.३२१-३२२:३ ॥ अथ द्वितीयगन्धकशोधनम् ॥ १.३२१-३२२:४ ॥ ____________________________________________________ १.३२३-३२४ <सुल्fउर्:: शोधन> कर्षे कुण्डलिकाया वा घृतेनाभ्यज्य गन्धकम् । क्षिप्त्वाधो ज्वालयेत्तावद्यावत्तैलोपमो भवेत् ॥ १.३२३ ॥ तैलाभो ढाल्यते दुग्धं जायते शुद्धगन्धकः । प्रकारद्वयसंशुद्धोऽधिकृतो रसकर्मणि ॥ १.३२४ ॥ ------------------ रसाध्यायटीका: कर्षं वा कुडछी वा घृतेनाभ्यज्य ततस्तत्र गन्धकं क्षिप्त्वाधोऽग्निर्ज्वालनीयः तावद्यावद्गन्धकस्तैलोपमानो भवति ततस्तद्गन्धकतैलं दुग्धमध्ये ढाल्यते ततो दुग्धं न गृह्यते ॥ १.३२३-३२४:१ ॥ एष एव शुद्धगन्धकः ॥ १.३२३-३२४:२ ॥ एव च प्रकारद्वयेन यो गन्धकः शोधितो भवति ॥ १.३२३-३२४:३ ॥ स रसकर्मणि उपयुज्यते नान्य इति ॥ १.३२३-३२४:४ ॥ इति सुगमम् ॥ १.३२३-३२४:५ ॥ इति गन्धकशोधनं द्वितीयम् ॥ १.३२३-३२४:६ ॥ इति सुगममग्रे गन्धपीठा ॥ १.३२३-३२४:७ ॥ ____________________________________________________ १.३२५-३२६ <पिष्टी fरों सुल्fउरन्द्मेर्चुर्य्> निम्बुकानां रसैः क्षाल्यं यत्किंचित्ताम्रपात्रकम् । कृत्वा चात्युज्ज्वलं तत्र शुद्धं रसरन्तीं क्षिपेत् ॥ १.३२५ ॥ संशुद्धां गन्धकरन्तीं क्षिप्त्वाङ्गुल्या प्रमर्दयेत् । विधिनैवं मुहुः कार्या पीठा गन्धकसूतयोः ॥ १.३२६ ॥ ------------------ रसाध्यायटीका: ताम्रपात्रं प्रथमं निम्बुकानां रसैः पुनः पुनः प्रक्षाल्यात्युज्ज्वलं च कृत्वा सर्वशुद्धरसस्य रन्ती तथा शुद्धगन्धकरन्ती च प्रक्षिप्याङ्गुल्या गाढं प्रमर्द्य गन्धकसूतपीठी कार्या ॥ १.३२५-३२६:१ ॥ इति गन्धकपीठी प्रथमा ॥ १.३२५-३२६:२ ॥ ____________________________________________________ १.३२७-३३४ <गन्धकपीठी (२)> गन्धकामलसारस्य तथा शुद्धरसस्य च । प्रत्येकं विंशगद्याणान् खल्वे एकत्र मर्दयेत् ॥ १.३२७ ॥ तान् कृत्वा कज्जलीं सूक्ष्मां वाससा गालयेत्ततः । हेमवल्ल्याश्च कन्दानां श्रीखण्डेन रसेन वा ॥ १.३२८ ॥ पिष्ट्वा स्यात्कज्जलीपिष्टं पीठी प्रक्षाल्य सारजा । प्रकारद्वयं संदृष्ट्वा पीठी गन्धकसम्भवा ॥ १.३२९ ॥ मृदुवर्तितपत्त्राणि पातालस्य गुरुत्मना । पिड्यां पिष्टस्य क्षिप्त्वैनां पीठीं कृत्वा च गोलकम् ॥ १.३३० ॥ तं शरावपुटे क्षिपेत्संधिकर्पटमृत्स्नया । नीरन्ध्रज्वलदङ्गारैः पुटं देयं च कौक्कुटम् ॥ १.३३१ ॥ स्वाङ्गशीतीकृतं चूर्णं प्रक्षिपेत्कुम्पके सुधीः । रूप्यस्य च चतुःषष्टिर्गाल्या गद्याणकास्तथा ॥ १.३३२ ॥ तन्मध्ये चैकगद्याणे पीठीचूर्णे निवेशिते । तिथिवर्णं भवेद्धेम निश्चितं नैष संशयः ॥ १.३३३ ॥ इति गन्धकजा पीठी चतुःषष्ट्यंशवेधिका । हेमकर्त्ःणि कर्माणि जायन्ते संगतानि वै ॥ १.३३४ ॥ ------------------ रसाध्यायटीका: अमलसारस्य गन्धकस्य गद्याणाः २० तथा शुद्धसूतस्य गद्याणाः २० एकत्र खरले मर्दयित्वा सूक्ष्मां कज्जलीं कृत्वा वस्त्रेण गालयित्वा ततो हेमवल्ल्या गद्याणं कन्दानां श्रीखण्डेन वा रसेन वा गाढं सम्पिष्य पीठी कार्या एवं च प्रकारद्वयेन गन्धपीठी निष्पद्यते ॥ १.३२७-३३४:१ ॥ ततः पातालगरुडस्य पत्त्राणि वर्तयित्वा पीठीं कृत्वा तन्मध्ये गन्धकपीठीं क्षिप्त्वा गोलकं च कृत्वा तं गोलकं शरावसम्पुटे क्षिप्त्वा संधौ कर्पटमृत्तिकां दत्त्वा ज्वलद्भिरङ्गारैः कुक्कुटपुटं दत्त्वा स्वभावशीतलं गन्धकपीठीचूर्णं कुम्पे क्षिपेत् ॥ १.३२७-३३४:२ ॥ ततश्चतुःषष्टिगद्याणकेन रूप्यस्य गालयित्वा मध्ये एको गन्धकपीठीचूर्णं गद्याणकं क्षिप्यते पञ्चदशवर्णिकं हेम भवत्येवेति ॥ १.३२७-३३४:३ ॥ एवं गुरूपदेशेनापराण्यपि हेमकर्त्ःणि कर्माणि सिध्यन्ति ॥ १.३२७-३३४:४ ॥ इति गन्धकपीठी द्वितीया तथा कर्माणि च ॥ १.३२७-३३४:५ ॥ अथ गन्धकतैलम् ॥ १.३२७-३३४:६ ॥ ____________________________________________________ १.३३५-३३९ <गन्धतैल> उत्कृष्टसर्जिका तुर्यमपानां सूक्ष्मचूर्णकम् । क्षिप्त्वा स्थाल्यां हि संध्यायां कुम्भमानं जलं क्षिपेत् ॥ १.३३५ ॥ त्यक्तव्यं काबसम्मनीतार्यसज्जिकापयः । उत्कृष्टाश्मना वेदास्तेषां चूर्णं तु सूक्ष्मकम् ॥ १.३३६ ॥ गन्धकामलसारस्य मणैकं सूक्ष्मचूर्णकम् । क्षिप्त्वैवात्र ह्युभे चूर्णे पिष्ट्वा चैकात्मतां नयेत् ॥ १.३३७ ॥ क्षिपेत्पञ्चमणान् स्थाल्यां यस्यां मतिघटद्वयम् । स्वर्जिका जलमन्यस्यां मुक्त्वा चुल्ल्योपरि क्षिपेत् ॥ १.३३८ ॥ एरण्डतैलवत्तैलमुपर्यायाति गन्धकम् । तत्स्थाल्या मुहुरादाय क्षिपेच्छीतं च कूम्पके ॥ १.३३९ ॥ ------------------ रसाध्यायटीका: सर्वोत्तमसाजीमणचतुष्कस्य चूर्णं स्थाल्यां क्षिप्त्वा संध्यायां जलघटस्तत्र क्षेप्यः ॥ १.३३५-३३९:१ ॥ ततः प्रातः साजीजलं नीतार्यकाबसंत्यक्त्वा ग्राह्यं तथा सर्वोत्तमपाषाणमणचतुष्कचूर्णं सूक्ष्मं तथा गन्धकामलसारस्य मणैकं चूर्णं सूक्ष्ममुभयं पिष्ट्वा एकत्र च गाढं पिष्ट्वा स्थाल्यां क्षिप्त्वा ततः प्रथमगृहीतं सर्जिकाजलमन्यस्यां स्थाल्यां मुक्त्वाल्पघटमानमुपरि क्षिपेत् ॥ १.३३५-३३९:२ ॥ एवं च कृते गन्धकस्य तैलमेरण्डीतैलवदुपर्यागच्छति ततश्च तैलं शीतलीभूतं सत्कुम्पके क्षेप्यम् ॥ १.३३५-३३९:३ ॥ इति गंधकतैलम् ॥ १.३३५-३३९:४ ॥ ____________________________________________________ १.३४०-३४६ <सिल्वेर्=> गोल्द्> शुद्धसूतस्य गद्याणान् भूधरे दश विन्यसेत् । गन्धतैलस्य गद्याणं दद्यात्कोडीयकं मुखे ॥ १.३४० ॥ सन्धौ वस्त्रं मृदा लिप्त्वा चतुर्भिः छाणकैः पुटम् । दातव्यं चानया रीत्या वारं वारं पुटं शतम् ॥ १.३४१ ॥ प्रक्षिपेत्तैलगद्याणं गन्धकं च पुटे पुटे । मुखे कोडीयकं दद्यान्नवां वस्त्रमृदं मुहुः ॥ १.३४२ ॥ तैलं सूतेन संजीर्णं दशघ्नं गन्धकं शनैः । हेमराजेस्ततो वल्ल्या दश क्षेप्याः पुटे पुटे ॥ १.३४३ ॥ पूर्वरीत्या पुटं देयं तुर्यतुर्यैश्च छाणकैः । हेमराजेश्च सूतेन कर्षो जीर्णश्चतुःपुटः ॥ १.३४४ ॥ शुद्धरूप्यस्य पत्राणि अमुना द्रवरूपिणा । लिप्त्वा श्रावपुटे क्षिप्त्वा तत्संधिं वस्त्रमृत्स्नया ॥ १.३४५ ॥ लिप्त्वा भूमौ प्रदातव्यं छाणकैः कौक्कुटं पुटम् । तिथिवर्णं भवेद्धेम कर्तव्या नैव संशयः ॥ १.३४६ ॥ ------------------ रसाध्यायटीका: इह शुद्धरसस्य गद्याणान् दश तथा गंधकतैलगद्याणकं च भूधरयन्त्रे विन्यस्य मुखे कोडीयकं दत्त्वा संधौ वस्त्रमृत्तिकया लिप्त्वा चतुर्भिः छाणकैः पुटं दातव्यम् ॥ १.३४०-३४६:१ ॥ ततः पुनरपि तेष्वेव सूतस्य दशगद्याणकेषु गन्धकतैलगद्याणकं मुक्त्वा भूधरयन्त्रे विन्यस्य मुखे कोडीयकं दत्त्वा वस्त्रं मृत्तिकया सन्धौ लिप्त्वा चतुर्भिः छाणकैर्भूमौ कुक्कुटपुटं देयम् ॥ १.३४०-३४६:२ ॥ एवं पुनः पुनः करणेन यदि सूतेन दशगुणं गन्धकतैलं जीर्णं भवति तदा पूर्वोक्ताया हेमराजेर्दश वल्लान् सूतमध्ये क्षिप्त्वा भूधरयन्त्रे विन्यस्य कोडीयकसंधौ वस्त्रमृत्तिकां च दत्त्वा चतुर्भिश्छाणकैः पूर्ववत्पुटं देयम् ॥ १.३४०-३४६:३ ॥ एवं पुनः पुनः पटचतुष्टयदानेन हेमराजेः कर्षे जीर्णे सति स सूतः संग्राह्यः ॥ १.३४०-३४६:४ ॥ ततः शुद्धतारस्य पत्राणि तेन द्रवरूपेण तेन लिप्त्वा सरावसंपुटे तानि पत्राणि मुक्त्वा सन्धौ कर्पटमृदं दत्त्वा भूमौ छाणकैः कुक्कुटपुटं दीयते पञ्चदशवर्णं हेम भवति ॥ १.३४०-३४६:५ ॥ इति हेमकरणं प्रथमम् ॥ १.३४०-३४६:६ ॥ ____________________________________________________ १.३४७-३५१ <चन्द्रार्क:: प्रोदुच्तिओन्> भागा द्वादश रूप्यस्य तथा ताम्रस्य षोडश । गालयेन्मिश्रितान् वज्रमूषायामष्टविंशतिम् ॥ १.३४७ ॥ खोटश्चन्द्रार्कनामाभूत्तस्य पत्राणि कारयेत् । एकाङ्गुलानि संलिप्य जीर्णहेमाख्यराजिना ॥ १.३४८ ॥ तानि श्रावपुटे क्षिप्त्वा तत्सन्धिं वस्त्रमृत्स्नया । लिप्त्वा भूमौ प्रदातव्यं छाणकैः कौक्कुटं पुटम् ॥ १.३४९ ॥ प्रकारेण द्वितीयेन हेमस्यात्तिथिवर्णकम् । अथ पित्तलपत्राणि लिप्त्वा युक्त्यानया तथा ॥ १.३५० ॥ कौक्कुटेन पुटेनैव हेम स्यात्तिथिवर्णकम् । एवं गन्धकतैलेन त्रिधा हेम प्रजायते ॥ १.३५१ ॥ ------------------ रसाध्यायटीका: रूप्यस्य भागा द्वादश ताम्रस्य भागाः षोडश एवमष्टविंशतिभागान् वज्रमूषायां क्षिप्त्वा गालयित्वा च चन्द्रार्कनामा षोटः कार्यः ॥ १.३४७-३५१:१ ॥ ततस्तस्य षोटस्य पत्राण्येकांगुलप्रमाणानि कारयित्वा सरावसंपुटे मुक्त्वा सन्धौ वस्त्रमृदं दत्त्वा भूमौ छाणकैः कुक्कुटपुटं दीयते ॥ १.३४७-३५१:२ ॥ द्वितीयप्रकारेण पञ्चदशवर्णिकं हेम भवति ॥ १.३४७-३५१:३ ॥ तथा पित्तलपत्राणि पूर्वोक्तयुक्त्या जीर्णहेमराजिसूतेन लिप्त्वा तथैव कुक्कुटपुटे दत्ते पञ्चदशवर्णिकं हेम भवति ॥ १.३४७-३५१:४ ॥ एवं त्रिभिः प्रकारैर्गन्धकतैलेन हेमनिष्पत्तिः ॥ १.३४७-३५१:५ ॥ इति गन्धकतैलकर्माणि ॥ १.३४७-३५१:६ ॥ ____________________________________________________ १.३५२-३५७ <गोल्द्:: प्रोदुच्तिओन्> नालं च गोस्तनाकारं मध्ये वर्तुलकैर्धृतम् । वर्तुलां वज्रमूषां च पूर्वं कुर्याद्विचक्षणः ॥ १.३५२ ॥ दशघ्नं गन्धकं तैलं हेमराजेश्च कर्षकः । येन जीर्णश्च तत्सर्वं मूषायां प्रक्षिपेद्रसम् ॥ १.३५३ ॥ क्षिपेच्च कङ्गुणीतैलं यथा ब्रुडति पारदः । मूषामग्निष्टके ध्मायादङ्गारैः परिपूरिते ॥ १.३५४ ॥ यावत्तोल्यो हि सूतः स्यात्तत्तोल्यां हेमराजिकाम् । गालयित्वान्यमूषायां वज्रमूषान्तरे क्षिपेत् ॥ १.३५५ ॥ खोटा भूधविधानेन सहस्रस्य प्रवेधकः । तारताम्रादिनागानां गद्याणानां सहस्रकम् ॥ १.३५६ ॥ प्रत्येकं पृथग्गाल्यानां तन्मध्ये षोटसम्भवः । गद्याणैकपृथक्क्षेप्यो हेम स्यादुत्तमं पृथक् ॥ १.३५७ ॥ ------------------ रसाध्यायटीका: इह प्रथमं वर्त्तुलाकारां मूषां कृत्वोपरि गोस्तनाकारं नालं च कृत्वा वज्रमूषा विधेया ॥ १.३५२-३५७:१ ॥ ततो येन सूतेन पूर्वोक्तयुक्त्या दशगुणं गन्धकतैलं जीर्णं ततो हेमराजिकर्षश्च जीर्णं तं रसं वज्रमूषायां क्षिप्त्वोपरि कङ्गुणीतैलं तथा क्षिपेद्यथा स पारदो ब्रुडति ॥ १.३५२-३५७:२ ॥ ततः सा मूषाग्निष्टके मुक्त्वा इङ्गालैर्ध्मातव्या ॥ १.३५२-३५७:३ ॥ तथा यावन्मात्रः मूषायामस्ति तावन्मात्रां हेमराजिं मूषायां गालयित्वा वज्रमूषास्थरसमध्ये क्षिपेत् ॥ १.३५२-३५७:४ ॥ ततः सहस्रवेधी षोटो भवति स च संग्राह्यः ॥ १.३५२-३५७:५ ॥ तथा तारस्य ताम्रस्यादिशब्दाद्वङ्गस्य च गद्याणसहस्रकं पृथक्पृथक्मूषायां गालयित्वा सहस्रवेधितस्यैकैको गद्याणकः पृथक्पृथक्सर्वषोटमध्ये क्षिप्यते सर्वाणि तारादीनि पृथखेम भवन्ति ॥ १.३५२-३५७:६ ॥ इति द्वितीयपरिणामगन्धकतैलकर्माणि ॥ १.३५२-३५७:७ ॥ अथ गन्धकवारि ॥ १.३५२-३५७:८ ॥ ____________________________________________________ १.३५८-३६४ <सुल्fउर्:: हृत्पीठी> उत्कृष्टसर्जिकाक्षारमणानां सूक्ष्मचूर्णकम् । संध्यायां तु मणं स्थाल्यां कुम्भमानं जलं क्षिपेत् ॥ १.३५८ ॥ प्रातस्त्यक्त्वा रसं त्यक्त्वा भूयोऽपि प्रक्षिपेन्मणम् । एवं षड्वासरे कुर्यात्षण्मणं सर्जिकाजलम् ॥ १.३५९ ॥ नीता ये च जलं शेषमत्यच्छं कुरुते सुधीः । गन्धकामलसारोऽपि वारिणा तेन पेषयेत् ॥ १.३६० ॥ तं च वारिनिभं कुर्यात्प्रक्षिपेत्कुंपके सुधीः । कुम्भवस्त्रमृदावेष्ट्य दत्त्वास्ये चाम्रचातिकाम् ॥ १.३६१ ॥ अहोरात्रं ज्वलत्यग्निं छन्ना यत्र च चूह्यके । निक्षिप्य कुंपकं गर्भे रक्षा देया षडङ्गुलाम् ॥ १.३६२ ॥ निक्षिप्तश्च रहास्मोयन्नेकविंशतिवासरान् । विलग्नः सर्जिकाक्षारः कुम्प्यन्तः परितो भ्रमन् ॥ १.३६३ ॥ नालिकेरजलाभोऽभूत्पीततोयो हि गन्धकः । हृतिपीठीति विख्यातं वारिगन्धकजं त्विदम् ॥ १.३६४ ॥ ------------------ रसाध्यायटीका: सर्वोत्तमसाजिमणनिषद्रसूक्ष्मचूर्णीकृत्य सन्ध्यायां मणमेकं साजिकुम्भ एको जलमिति स्थाल्यां क्षिप्त्वा प्रातः कावससंत्यत्क्वानीतार्यजलं ग्रहीत्वा साजीमर्णे क्षिपेत् ॥ १.३५८-३६४:१ ॥ एव षड्भिर्दिनैः षण्मणान् क्षिप्त्वा नीवासर्जिकाजले अतिस्वच्छं कृत्वा आमलसारकगन्धकस्तेन जलेन पिष्ट्वा वारिसदृशः कृत्वा कुम्भे क्षिप्त्वा कर्पटमृत्तिरावेष्ट्य मुखेऽभ्रकचातिकां दत्त्वा पत्रचुल्हके प्रच्छन्नोऽग्निरहोरात्रं ज्वलति तत्र चुलूककुपं निक्षिप्य परितः षडंगुलप्रमाणा रक्षा देया सचकुम्कस्तत्र निक्षिप्तः सत्नेकविशतिदिनानि स्थापयित्वा कर्षणीयः ॥ १.३५८-३६४:२ ॥ तावता च कालेन गन्धकः कुम्पमध्यं साजीक्षारेण सह भ्राम्यन् पीततोयो नालिकेरजलसदृशो भवति ॥ १.३५८-३६४:३ ॥ इदं च गन्धकवारि हृतिपीठीति नाम्ना वार्त्तिकेन्द्रमध्ये विख्यातं ज्ञातव्यम् ॥ १.३५८-३६४:४ ॥ ____________________________________________________ १.३६५-३७४ <मेर्चुर्य्:: षोट (खोट?)> शुद्धसूतस्य चतुरो वल्लान् पिष्ट्वा घटीद्वयम् । पीतेन वारिणा तेन भस्मीभवति पारदः ॥ १.३६५ ॥ शुद्धरूप्यस्य पत्राणि सूते चानेन लेपयेत् । ध्मायाच्च वज्रमूषायां धमण्या च वत्कृयाम् ॥ १.३६६ ॥ रूप्यं कृष्णमयं जातं तस्याष्टौ गदीयाणकाः । उत्कृष्टहेमगद्याणैः सूर्यसंख्यैः समन्विताः ॥ १.३६७ ॥ गालिता विंशतिः स्वर्णं भवेयुस्तिथिवर्णकम् । कर्परे शुद्धसूतं च क्षिप्त्वाधो ज्वालयेन्मृदु ॥ १.३६८ ॥ अहोरात्रं मृदुवह्निमेकविंशतिवासरान् । प्राकृतं गन्धकं वारि बिन्दुमात्रं क्षिपेन्मुहुः ॥ १.३६९ ॥ शुद्धसूतस्त्वहोरात्रमेकविंशतिवासरः । एवं निष्पद्यते बन्धः सूतः षोटश्च जायते ॥ १.३७० ॥ <सुल्fउर्:: द्रुति fओर्वेध> मृदु वर्तय पत्राणि पातालस्य गुरुत्मना । पिण्ड्यां पिष्टस्य ते षोटं क्षिप्त्वा कार्यो हि गोलकम् ॥ १.३७१ ॥ तं सरावपुटे क्षिप्त्वा सन्धिकर्पटमृत्स्नया । वेष्टयित्वा पुटं देयं भूमौ कुक्कुटसंज्ञकम् ॥ १.३७२ ॥ निर्धूमैर्ज्वलदङ्गारैः षोटोऽभूत्पीतवर्णकः । गालनीया चतुःषष्टिगद्याणाः शुद्धरूप्यजाः ॥ १.३७३ ॥ तन्मध्ये षोटगद्याणे क्षिप्तं स्यात्स्वर्णमुत्तमम् । गान्धिकीह द्रुतिः पीठी चतुःषष्टिप्रवेधिका ॥ १.३७४ ॥ ------------------ रसाध्यायटीका: शोधितपारदस्य चत्वारो वल्लाः गन्धकवारिणा घटीद्वयं यदि क्षिप्यन्ते तदा भस्मीभवन्ति ॥ १.३६५-३७४:१ ॥ ततः शुद्धरूप्यस्य पत्राणि तेन भस्मना लिप्त्वा वज्रमूषायां तानि पत्राणि वङ्कलिधमन्या गाढं ध्मात्वा गालयेत् ॥ १.३६५-३७४:२ ॥ ततः कृष्णं रूप्यं भवति ॥ १.३६५-३७४:३ ॥ ततोऽस्य कृष्णरूप्यस्य गद्याणाः ८ सर्वोत्तमनवकहेमगद्याणाः १२ उभयं विंशतिगद्याणका गाल्यन्ते पञ्चदशवर्णिकं हेम भवति ॥ १.३६५-३७४:४ ॥ तथा शुद्धरसं कर्परे क्षिप्त्वाधो मृद्वग्निं ज्वालयेत् ॥ १.३६५-३७४:५ ॥ उपरि गन्धकवारि बिन्दुना बिन्दुना क्षिपेत् ॥ १.३६५-३७४:६ ॥ एवमेकविंशतिदिनानि निरन्तरं गन्धकवारिणा सिक्तः सुसूतो निष्पद्यते बद्धः षोटश्च भवति ॥ १.३६५-३७४:७ ॥ ततः पातालगरुडस्य पत्राणि वर्तयित्वा ततः पिण्डीं कृत्वा पिण्डिमध्ये षोटं च क्षिप्त्वा भूमौ कुक्कुटसंज्ञं पुटं देयम् ॥ १.३६५-३७४:८ ॥ परं निर्धूमैर्ज्वलद्भिरंगारैस्तथा च कृते स षोटः पीतो भवति ततः शुद्धरूप्यस्य चतुःषष्टिगद्याणान् गालयित्वा षोटगद्याणको मध्ये क्षिप्यते सर्वोत्तमं हेम भवति यत एषा गन्धकद्रुतिपीठी चतुःषष्टिप्रवेधिका वर्तते ॥ १.३६५-३७४:९ ॥ इति गन्धकद्रुतिपीठीकर्माणि ॥ १.३६५-३७४:१० ॥ अथ तालकशोधनम् ॥ १.३६५-३७४:११ ॥ ____________________________________________________ १.३७५-३८३ <हरिताल:: शोधन> गोदन्ती हरितालायास्तावत्पत्राणि दापय । यावन्न स्युर्द्विधा तानि दोलायन्त्रे क्षिपेत्ततः ॥ १.३७५ ॥ अश्मचूर्णस्य या चाछिभृता स्थाली तया दृढा । दोलायन्त्रे तथा कार्या वस्त्रं बुन्धे लगेन्न हि ॥ १.३७६ ॥ तज्ज्ञेन स्वेदनीयानि यामयुग्मं हठाग्निना । स्वेदनस्वेदनस्यान्ते जलेन क्षालयेत्तथा ॥ १.३७७ ॥ निःसरन्ति यथा तेभ्यो नीलपीतादिकृष्णिकाः । सदैवातपशुष्काणि दोलायंत्रे परिक्षिपेत् ॥ १.३७८ ॥ यंत्रे यंत्रे पुनस्तानि स्वेद्यानि प्रहरद्वयम् । लुणयुक्त्या तु नालेन द्विवेलं स्वेदयेत्ततः ॥ १.३७९ ॥ ततो दुग्धे गवादीनां स्वेदयेत्तत्क्रमेण च । कुष्माण्डं खण्डशः कृत्वा स्वेदयेत्तद्रसेन च ॥ १.३८० ॥ वर्तनीयानि साहायां वडवाप्याज्वलान्वितः । सुसूक्ष्माश्चन्दनाकाराः स्वेदयेत्तद्रसेन च ॥ १.३८१ ॥ शोधनैः पञ्चभिः शुद्धाः गोदंती निर्विषीभवेत् । हृदुत्क्लेदमशुद्ध्या सा घूर्मारं च करोति च ॥ १.३८२ ॥ तापं च नाडिसंकोचमन्तस्तापं करोति च । अतः प्रागेव संशुद्धा हरितालामृतोपमा ॥ १.३८३ ॥ ------------------ रसाध्यायटीका: गोदंती हरितालायास्तावत्पत्राणि कार्याणि यावत्पुनर्द्विधा न भवन्ति ॥ १.३७५-३८३:१ ॥ ततस्तानि पत्राणि पाषाणचूर्णस्याछिभृतायां स्थाल्यां दोलायंत्रे च तापयित्वाधो हठाग्निना प्रहरद्वयेन स्वेदनीयानि ॥ १.३७५-३८३:२ ॥ तत उत्तार्य जलेन क्षालयित्वा आतपे शोषयित्वा लुणयुक्तकांजिकपूर्णस्थाल्यां दोलायन्त्रे च तापयित्वा हठाग्निना प्रहरद्वयेन स्वेदनीयानि ॥ १.३७५-३८३:३ ॥ पुनरुत्तार्य जलेन प्रक्षाल्य गवादिदुग्धेन पूर्णस्थाल्यां स्वेदयेत्प्रहरद्वयम् ॥ १.३७५-३८३:४ ॥ ततो जलेन प्रक्षाल्यातपे शोषयित्वा कुष्माण्डफलं खण्डशः कृत्वा तद्रसेन पूर्ववत्प्रहरद्वयं स्वेदनीयानि ॥ १.३७५-३८३:५ ॥ ततः पयसा प्रक्षाल्यातपे शोषयित्वा वडवाईका निसाहायां वर्तयित्वा तद्रसेन यामद्वयं पूर्ववत्स्वेद्यानि एवं पञ्चभिः शोधनैः शुद्धहरिताला निर्विषीभवति ॥ १.३७५-३८३:६ ॥ यावच्च सा न शोध्यते तावत्सा दत्ता सती हृदयस्य क्लेदं धूर्मं रेचं तापं नाडिसंकोचमन्तर्दाहं च करोति ॥ १.३७५-३८३:७ ॥ अतः पूर्वं सा शोधिता अमृतसमाना भवति ॥ १.३७५-३८३:८ ॥ इति गोदन्तिहरितालायाः शोधनविधिः ॥ १.३७५-३८३:९ ॥ अथ शुद्धतालककर्माणि ॥ १.३७५-३८३:१० ॥ ____________________________________________________ १.३८४-४०३ <चोप्पेर्=> सिल्वेर्> शुद्धसूतस्य चत्वारि शुद्धतालस्य विंशतिम् । क्षिप्त्वा छागीवसायाश्च पलिकार्धे मुहुर्मुहुः ॥ १.३८४ ॥ चतुर्विंशतिगद्याणान् खल्वे पिष्ट्वैकवासरम् । तत्सर्वं कुंपके क्षिप्त्वा मुखे कर्परचातिकाम् ॥ १.३८५ ॥ दत्त्वा वस्त्रमृदा लिम्पेत्कुंपकं वस्त्रमृत्स्नया । आ कंठं सप्तधावेष्ट्यं चुल्ल्यन्तः प्रक्षिपेच्च तम् ॥ १.३८६ ॥ संकीर्णोच्चतरा चुल्ही तथा कार्या नवीनका । दोलायंत्रवदाभाति कुम्पार्धं चुल्हके यथा ॥ १.३८७ ॥ कुंपकादर्धश्च यामैकं वह्निर्योज्यो मृदुस्ततः । ज्वालनीयो हठो वह्निर्यावद्यामचतुष्टयम् ॥ १.३८८ ॥ सत्त्वं प्रोड्डीय सूतश्च कुम्पकण्ठे लगिष्यति । ततस्तं कुंपकं भङ्क्त्वा कंठाद्ग्राह्यं समग्रकम् ॥ १.३८९ ॥ क्षिप्त्वा स्थालीवसायाश्च पलिकार्धं प्रतिक्षणम् । सप्ताहं प्रत्यहं पिष्ट्वा नवीने कुंपके क्षिपेत् ॥ १.३९० ॥ सप्तधा सप्तभिः कुंपैः कार्यः प्राग्विहितो विधिः । ततः सप्तमवेलायां कृष्णत्वं याति कण्ठके ॥ १.३९१ ॥ कुंपबन्धे रहन्त्येव ये वारिसदृशाः कणाः । सत्वभूताश्च ते सर्वे ग्राह्याः कार्यविवर्जिताः ॥ १.३९२ ॥ तोलयित्वा ततस्तस्माद्द्विगुणं शुद्धपारदम् । यामं खल्वे द्वयं पिष्ट्वा निम्बुकेन रसेन च ॥ १.३९३ ॥ वारं वारं च प्रक्षेप्यो मर्दने नैम्बुको रसः । ततः सा पीठिका जाता सूततालकसंभवा ॥ १.३९४ ॥ स्थालिकायां च तां पीठीं कांजिकं लवणान्वितम् । निंबुकानि च खण्डानि प्रक्षिप्य स्वेदयेद्दिनम् ॥ १.३९५ ॥ नष्टं नष्टं मुहुः क्षेप्यं कांजिकं लवणान्वितम् । स्वेदोत्तीर्णा च सा पीठी संशोष्या चातपे दृढा ॥ १.३९६ ॥ पीठीं तां टंकणक्षारं समतुल्यं च पेषयेत् । मीणपूपाद्वयं कृत्वा चैकस्यां पीठिकां क्षिपेत् ॥ १.३९७ ॥ द्वितीयां चोपरि दत्त्वा कार्या वेढिनिका बुधैः । यावत्तौल्या हि सा पीठी तत्तौल्यं शुद्धरूप्यकम् ॥ १.३९८ ॥ गालयेद्वज्रमूषायां वेढनीं चोपरि क्षिपेत् । दह्यते टंकणक्षारो मीणे ध्राते दृढे सति ॥ १.३९९ ॥ तालरूप्यं भवेत्षोटः श्वेतशंखस्य सन्निभः । ताम्रस्यैव चतुःषष्टिः गालयेद्गदीयाणकान् ॥ १.४०० ॥ तन्मध्ये षोटगद्याणे क्षिप्ते रूप्यं भवेद्ध्रुवम् । षोटोऽभूत्तालरूप्योऽयं चतुःषष्टिप्रवेधकः ॥ १.४०१ ॥ यः करोति रतिमात्रं प्रत्यहं प्रातरुत्थितः । षड्भिर्मासैः प्रणश्यन्ति अष्ट कुष्ठा दशापि हि ॥ १.४०२ ॥ उद्गच्छन्ति नवा दन्ताः केशाः कृष्णा भवन्ति च । पलितं मूलतो याति वलिनाशो भवेद्ध्रुवम् ॥ १.४०३ ॥ ------------------ रसाध्यायटीका: शुद्धसूतस्य गद्याणाः ४ शुद्धतालस्य गद्याणाः २० एवं चतुर्विंशतिगद्याणान् खल्वे प्रक्षिप्य तथा छालीवसायाः पलिकार्धं च प्रक्षिप्यैकं दिनं पिष्ट्वा तत्सर्वं कुंपके क्षिप्त्वा मुखे कर्परचातिकां दत्त्वा आकण्ठं सप्तभिः कर्पटमृत्तिकाभिः कुम्पकमावेष्ट्य संकीर्णामुच्चां च चुल्हीं कृत्वोपरि कुम्पको यथा दोलायन्त्रो दृश्यते तथा मोक्तव्योऽधश्च प्रहरमेकं प्रथममृदुवह्निज्वालनीयस्ततो यामम् ४ हठाग्निः ॥ १.३८४-४०३:१ ॥ तावता च तालकसत्वं प्रोड्डीय कुम्पकंठे लगति ॥ १.३८४-४०३:२ ॥ ततः कुम्भं त्यक्त्वा कंठकात्तत्सर्वमादाय खरले क्षिप्त्वा छालीवसापलिकार्धेन दिनमेकं मृदित्वा द्वितीये कुंपके क्षिप्त्वा सप्तभिर्वस्त्रमृत्तिकाभिर्लिप्त्वा संकीर्णोच्चचुल्हिकायामारोप्य पूर्ववदधोऽग्निर्ज्वालनीयः ॥ १.३८४-४०३:३ ॥ एवं पुनः छालीवसापलिकार्धेन खरले पिष्ट्वा तृतीयकुंपके पूर्ववत्संकीर्णाच्च चुल्हिकायां सर्वं कार्यं ततो यदि सप्तभिः कुंपकैः सप्तवारमेवं संस्कृतं तद्भवति तदा कालिका कंठके याति कुंपबुन्धे च जलसदृशा येकणास्तिष्ठन्ति ते तालकसत्वरूपाः कालिकवर्जिता ग्राह्याः ततस्तं तालकसत्वं तोलयित्वा तस्माद्द्विगुणं शुद्धपारदं चोभयं खरले क्षिप्त्वा निंबुकरसेन मृदित्वा सुतप्तालकसंभवा पीठी कार्या मर्दने च निंबुकरसः पुनः पुनः क्षेप्यः ॥ १.३८४-४०३:४ ॥ ततस्तां पीठीं वस्त्रे बद्ध्वा लवणयुक्तकांजिकपूर्णस्थालिकायां निंबुकखण्डानि प्रक्षिप्य दोलायंत्रेण दिनमेकं स्वेदयेत् ॥ १.३८४-४०३:५ ॥ लवणकांजिकं च नष्टं नष्टं मुहुर्मुहुः क्षेप्यं ततः स्वेदोत्तीर्णां तां पीठीमातपे संशोष्य तत्तुल्यं टंकणक्षारम् ॥ १.३८४-४०३:६ ॥ तां च पीठीं पिष्ट्वा ततो मीणपूपाद्वयं कृत्वैकस्यां पूपायां पीठीं क्षिप्त्वा द्वितीयां चोपरि दत्त्वा वेढिनिकां कृत्वा ततो यावन्मात्रा सा पीठी तावन्मात्रं शुद्धरूप्यं वज्रमूषायां गालयित्वोपरि वेढनी क्षिप्यते ॥ १.३८४-४०३:७ ॥ ततोऽधो दृढं ध्माते मीणटंकणक्षारश्च दह्यते ॥ १.३८४-४०३:८ ॥ तालं रूप्यस्य खोटो भवति ॥ १.३८४-४०३:९ ॥ ततः शुद्धताम्रस्य चतुःषष्टिगद्याणकान् गालयित्वा एकखोटगद्याणो मध्ये क्षिप्यते सर्वोत्तमं रूप्यं भवति । अयं तालरूप्यखोटस्य चतुःषष्टिप्रवेधको ज्ञेयः ॥ १.३८४-४०३:१० ॥ तथा प्रतिदिनं प्रभाते उत्थाय यो रतिमात्रं षोटं कुरुते तस्य षड्भिः मासैरष्टादशकुष्ठानि प्रणश्यन्ति ॥ १.३८४-४०३:११ ॥ नवा दन्ता उद्गच्छन्ति केशाः कृष्णा भवन्ति पलितानि यान्ति वलिनाशः स्यात् ॥ १.३८४-४०३:१२ ॥ इति तालककर्माणि ॥ १.३८४-४०३:१३ ॥ अथाभ्रकस्य त्रिविधा द्रुतिः ॥ १.३८४-४०३:१४ ॥ ____________________________________________________ १.४०४-४१३ <धान्याभ्र:: प्रोदुच्तिओन्> कोद्रवा व्याघ्रमदनास्तेषां पोषय सेतिकाम् । पिष्टमध्यात्सुसूक्ष्मं च ग्राहयेन्माणकद्वयम् ॥ १.४०४ ॥ कांजिकं स्थालिकायां च क्षिप्त्वाकण्ठं क्षिपेज्जलम् । अतीवाम्लं भवेत्तच्च ह्यतीतैः सप्तवासरैः ॥ १.४०५ ॥ विधिनानेन कर्तव्यं चात्यम्लं द्वितीयं जलम् । मणं श्वेताभ्रकं चूर्णं संयुक्तं तेन वारिणा ॥ १.४०६ ॥ प्रक्षिप्योलूखले कुट्टयन् यामधान्याभ्रकं भवेत् । <अभ्र:: द्रुति> जले धान्याभ्रकं तस्मिन्नेकविंशतिवारकान् ॥ १.४०७ ॥ बुडच्च राहयित्वाथ संशोष्यं चातपे पुनः । राला स्यात्टंकणक्षारो लवणं कणगुग्गुलः ॥ १.४०८ ॥ प्रत्येकं मणदीपांशं चतुर्णां मिलितो मणः । तिलानां पलगद्याणा विंशतिश्च गुडस्य च ॥ १.४०९ ॥ वल्लानां पल्लिकापीठी द्वौ कर्षौ मधुदुग्धयोः । युक्तं धान्याभ्रकेनैव क्षोदनीयं मुहुर्मुहुः ॥ १.४१० ॥ दश गद्याणका मात्राः पूपाः कार्या अनेकशः । क्षिप्त्वैकां राक्षसे यंत्रे तमङ्गारैश्च पूरयेत् ॥ १.४११ ॥ एकस्यां गालितायां च द्वितीयां प्रक्षिपेत्सुधीः । यामैर्गाल्याः क्रमात्सर्वाः स्वांगशीताः समुद्धरेत् ॥ १.४१२ ॥ तासां मध्यात्समाकृष्यात्द्रुतिरभ्रकसंभवा । <धान्याभ्रक:: द्रुति> सुखेनाप्यनया युक्त्या द्रुतिर्धान्याभ्रकाद्भवेत् ॥ १.४१३ ॥ ------------------ रसाध्यायटीका: व्याघ्रमदनाख्यकोद्रवानां सेतिकां पिष्ट्वा तन्मध्यान्माणकद्वयं सुसूक्ष्मचूर्णमादाय स्थाल्यां क्षिप्त्वोपरि कांजिकं तथा जलं चाकण्ठं क्षिपेत् ॥ १.४०४-४१३:१ ॥ तच्च सप्तभिर्दिनैरत्यम्लं भवति तथानेन विधिना शेषमाणद्वयेनात्यर्थमम्लं जलं कृत्वा एकशः कार्यम् ॥ १.४०४-४१३:२ ॥ ततः श्वेताभ्रकमणचूर्णं तेनाम्लजलेन सहोलूखले याममेकं कुट्टयित्वा तस्मिन्नेव जले ब्रूडत्२१ दिनानि राहयित्वा पश्चादातपे शोषयित्वा ततो रालाटंकणक्षारौ लवणं कणगुग्गुलुश्चेति चतुर्णामौषधानां प्रत्येकमणचतुर्थांशं तथा तिलस्य गद्याणान् २० गुडस्य गद्याणान् २० वल्लपीठीपाली १ मधुकर्षः १ दुग्धकर्षः १ एतत्सर्वमेकत्र कृत्वा धान्याभ्रकेण सह मुहुर्मुहुः क्षोदयित्वा गद्याणकदशकमात्राः अनेकपूपाः कृत्वा राक्षसे यन्त्रेऽङ्गारान् क्षिप्त्वा एकां पूपां मुञ्चेत् ॥ १.४०४-४१३:३ ॥ एकस्यां च गलितायां द्वितीयां क्षिपेत् ॥ १.४०४-४१३:४ ॥ एवं प्रहरेणैकेन सर्वा अपि गालनीया ॥ १.४०४-४१३:५ ॥ ततः स्वयं शीतलाः पूपाः समुद्धृत्य तासां मध्याद्धान्याभ्रकसंभवा द्रुतिर्ग्राह्या ॥ १.४०४-४१३:६ ॥ अनया युक्त्या सुखेनापि धान्याभ्रकद्रुतिर्भवति ॥ १.४०४-४१३:७ ॥ इति धान्याभ्रकद्रुतिकरणं प्रथमम् ॥ १.४०४-४१३:८ ॥ ____________________________________________________ १.४१४-४१९ श्वेतधान्याभ्रकं चूर्णं गद्याणद्वयसंमितम् । क्षिप्त्वा दुग्धपालीमध्ये पातव्यः सेहुलो मुहुः ॥ १.४१४ ॥ कोष्टिकायासवे क्षेप्यो याति सोऽन्यत्रतो यथा । पीत्वा पीत्वा हि तद्दुग्धं पुरीषं तत्र मुञ्चति ॥ १.४१५ ॥ सर्वं ग्राह्यं पुरीषं तदतीतैर्बहुभिर्दिनैः । तत्तोलयित्वा चतुर्थांशं टंकणक्षारजं क्षिपेत् ॥ १.४१६ ॥ तत्पिष्ट्वाज्यमधुभ्यां च कृतं लेपस्य सन्निभम् । तेन तुम्बीनलीयन्त्रमध्यं लेप्यं दृढं खलु ॥ १.४१७ ॥ इंगालैः पूरयित्वा तां धमण्या वक्रवक्त्रया । ध्मातव्या याममेकं च सा त्ववाङ्मुखकुम्पिका ॥ १.४१८ ॥ लेपस्फेठं द्रुतिर्जाता श्वेतधान्याभ्रकोद्भवा । द्वितीयपरिणा तज्ज्ञैः कर्तव्या चाभ्रकी द्रुतिः ॥ १.४१९ ॥ ------------------ रसाध्यायटीका: श्वेतधान्याभ्रकचूर्णं गद्याणद्वयमध्ये दुग्धपाली १ क्षिप्त्वा सेहुलकः पात्यते ॥ १.४१४-४१९:१ ॥ स च सेहुलकः कोठीमध्ये क्षिप्यते ॥ १.४१४-४१९:२ ॥ यथान्यत्र न याति ततः पुनः श्वेतधान्याभ्रकगद्याणद्वयं मध्यक्षिप्तं दुग्धं पाय्यते एवं बहुभिर्दिनैः पुनः पुनस्तस्य पाने सेहुलकेन यत्पुरीषं मुक्तं भवति तत्सर्वं तोलयित्वा चतुर्थभागेन मध्ये टङ्कक्षारं क्षिप्त्वा घृतमधुभ्यां पिष्ट्वा लेपसदृशं कृत्वा तेन लेपेन पूर्वकथिततुम्बीनलयंत्रमूलं लिप्त्वा लीहालकैर्वङ्कनालीधमण्या सोऽधोमुखं कुम्पको यंत्रो ध्मातव्यः ॥ १.४१४-४१९:३ ॥ ततः स लेपो द्रुतिरूपो भवति ॥ १.४१४-४१९:४ ॥ इति द्वितीयपरिणा धान्याभ्रकद्रुतिः ॥ १.४१४-४१९:५ ॥ ____________________________________________________ १.४२०-४२६ <धान्याभ्र:: द्रुति> भ्रमद्भिर्दृश्यते क्वापि भावेन शशको मृतः । तस्य मस्तकमध्याच्च गृहीतव्यो हि मेचकः ॥ १.४२० ॥ धान्याभ्रकस्य गद्याणान् चत्वारिंशत्प्रपेषयेत् । तन्मध्यान्मेचकोन्मानं चूर्णं प्रक्षिप्य मेचके ॥ १.४२१ ॥ द्वयं संमर्द्य संमर्द्य पिण्डं कृत्वा दृढं ततः । घृततैलादिना दिग्धा स्थालिकायां क्षिपेच्च तम् ॥ १.४२२ ॥ प्रध्वरा ढङ्कणी देया नीरन्ध्रा वस्त्रमृत्स्नया । कणीनां कोष्ठके क्षेप्यो रहाप्याहस्त्रिसप्तकम् ॥ १.४२३ ॥ तन्मध्ये कृमयो जाता नित्यं भक्ष्यन्ति चाभ्रकम् । तापे च मेचकाभावे म्रियन्ते च बुभुक्षया ॥ १.४२४ ॥ विपन्नासु च सर्वासु शेषं धान्याभ्रकी द्रुतिः । तृतीयपरिणा तज्ज्ञैः ख्याता धान्याभ्रका द्रुतिः ॥ १.४२५ ॥ विख्याता युक्तयस्तिस्रश्चतुर्थी नोपपद्यते । तिसृणां यानि कर्माणि वक्ष्यन्ते तानि सांप्रतम् ॥ १.४२६ ॥ ------------------ रसाध्यायटीका: स्वेच्छया मृतः शशको भ्रमद्भिर्यदि दृश्यते तदा तस्य मस्तकमध्यान्मेचकं गृहीत्वा धान्याभ्रकस्य गद्याणान् ४० गाढं पेषयित्वा तन्मध्यान्मेचकमात्रं चूर्णं मेचकमध्ये क्षिप्त्वा द्वयं मृदित्वा पिण्डं च कृत्वा घृतेन तैलेन वा लिप्तस्थालिकामध्ये तं पिण्डं क्षिप्त्वा उपरि प्रध्वरां ढंकणीं दत्त्वा पार्श्वेषु सर्वत्र वस्त्रमृत्तिकाभिर्निश्छिद्रीकृत्य सा स्थाली कणकोष्टमध्ये क्षिप्त्वा २१ दिनानि स्थाप्या तावता च मेचकमध्ये ये कृमयो जायन्ते तेऽभ्रकं भक्षयित्वा पश्चाद्बुभुक्षया तापेन च म्रियन्ते ॥ १.४२०-४२६:१ ॥ ततस्तेषु कृमिषु मृतेषु यत्तत्र शेषं मुहुरति सा धान्याभ्रकद्रुतिः ॥ १.४२०-४२६:२ ॥ इति तृतीयपरिणा धान्याभ्रकद्रुतिः ॥ १.४२०-४२६:३ ॥ द्रुतिकरणेऽभ्रकस्यैत एव त्रयो भेदाः ॥ १.४२०-४२६:४ ॥ अथामीषां कर्माणि वक्ष्यन्ते ॥ १.४२०-४२६:५ ॥ ____________________________________________________ १.४२७-४३८ <मेर्चुर्य्:: मुखकरण> शुद्धसूतस्य गद्याणान् वज्रमूषान्तरे दश । क्षिप्त्वा तां वालुकायंत्रे मृद्वग्निं ज्वालयेद्दिनम् ॥ १.४२७ ॥ क्षिपेद्बिन्दुमहोरात्रं मुहुर्भूनागसत्वजम् । वक्त्रं सूतस्य जायेत दत्तं सर्वं च जीर्यति ॥ १.४२८ ॥ <वज्र:: षोट> निसाहायां प्रपेष्टव्या चिल्हा चातीव सूक्ष्मका । निश्चोत्यैव रसो ग्राह्यो वस्त्रशुद्धोऽतिनिर्गुलः ॥ १.४२९ ॥ यस्मिन् वारिपलं माति तन्मात्रे कांतपात्रके । जातवक्त्रस्य सूतस्य क्षेप्या गद्याणका दश ॥ १.४३० ॥ द्रुतित्रयान्तरेकस्या गद्याणांश्च क्षिपेद्दश । ततश्चिल्हा जलापूर्णमाकण्ठं कांतपात्रकम् ॥ १.४३१ ॥ तच्च कान्तायसं पात्रं यन्त्रे वालुकके क्षिपेत् । अहोरात्रं मृदुं वह्निं तदधो ज्वालयेन्मुहुः ॥ १.४३२ ॥ द्वयोरैक्येण निष्पन्नो वज्रषोटोऽयमद्भुतः । <तिन् => सिल्वेर्> क्षिप्त्वा तं वज्रमूषायां ध्मायादिङ्गालकैः सुधीः ॥ १.४३३ ॥ शुद्धरूप्यस्य गद्याणान्मध्ये प्रक्षिप्य विंशतिम् । गालयेत्सुदृढं पश्चात्समुत्तारयति शृतान् ॥ १.४३४ ॥ अक्षयो नाम तेजोवान्निश्चलश्चातिनिर्मलः । गुरुर्जातोऽथ भग्नश्च भज्यते स हि खोटकः ॥ १.४३५ ॥ गालयेद्वज्रमूषायां वङ्गगद्याणकं शतम् । तन्मध्ये षोटगद्याणे क्षिप्ते रूप्यं भवेद्ध्रुवम् ॥ १.४३६ ॥ त्रिधाभ्रकद्रुतेः कर्म वङ्गे स्याच्छतवेधकम् । षोटमध्याद्रतिमात्रं यः करोति सदा नरः ॥ १.४३७ ॥ षड्भिर्मासैः स जायेत सुतेजा निर्मलोऽक्षयः । खोटोऽयं भुवि विख्यातो लोहदेहकरो ध्रुवम् ॥ १.४३८ ॥ ------------------ रसाध्यायटीका: शुद्धरसस्य दश गद्याणान् वज्रमूषामध्ये प्रक्षिप्य तां मूषां वालुकायन्त्रे चटाय्य दिनमेकं मृद्वग्निं ज्वालयेत् ॥ १.४२७-४३८:१ ॥ उपरि भूनागसत्वस्य बिन्दुं बिन्दुं पुनः पुनः क्षिपेत् ॥ १.४२७-४३८:२ ॥ ततो रसस्य मुखं जायते ॥ १.४२७-४३८:३ ॥ सर्वदत्तं जीर्यते ॥ १.४२७-४३८:४ ॥ ततो निसाहामतिसूक्ष्मां चिल्हां प्रपिष्य वस्त्रेण निश्चोत्य रसो ग्राह्यः ॥ १.४२७-४३८:५ ॥ ततो यस्मिञ्जले पलं माति तावन्मात्रं कान्तपात्रमाकण्ठं पूरयित्वा कान्तपात्रं वालुकायन्त्रे चटायित्वाधो मृदुरग्निः पुनः पुनरहोरात्रं ज्वालनीयः ॥ १.४२७-४३८:६ ॥ ततोऽभ्रकद्रुतिसूतयोरैक्येण वाभ्रषोटो जायते ॥ १.४२७-४३८:७ ॥ ततस्तं षोटं वज्रमूषायां प्रक्षिप्य गद्याणान् २० मध्ये प्रक्षिप्य गाढं गालयित्वा समुत्तारयेत् ॥ १.४२७-४३८:८ ॥ ततोऽयमक्षयो निर्मलस्तेजोवान् गदीयाणः क्षिप्यते ॥ १.४२७-४३८:९ ॥ सर्वोत्तमं रूप्यं भवति ॥ १.४२७-४३८:१० ॥ असौ वंगे शतमध्ये वेधको रसः तथा यः सदा प्रभाते रतिमात्रं षोटं करोति ॥ १.४२७-४३८:११ ॥ स षड्भिर्मासैरक्षयनीरोगदेहो जायते इति त्रिविधाभ्रकद्रुतिकर्माणि ॥ १.४२७-४३८:१२ ॥ अथ भूनागः ॥ १.४२७-४३८:१३ ॥ ____________________________________________________ १.४३९-४५८ <मेर्चुर्य्:: राक्षसवक्त्रवत्> उत्कृष्टस्वर्णगद्याणान् गालयेच्चतुरः सुधीः । जरकीशदलानीव तेषां पत्राणि कारयेत् ॥ १.४३९ ॥ नृकपालोद्भवं चैकं पलं धत्तूरमूलजम् । चन्दनं च पृथक्घृष्ट्वा तुल्यमेकत्र मिश्रितम् ॥ १.४४० ॥ क्षिपेच्छ्रीखण्डमध्ये च गद्याणं वज्रभस्मनः । खल्वे संपेषयेत्तावद्यावदेकात्मतां भजेत् ॥ १.४४१ ॥ हेमपत्राणि तेनैव लेपयेत्सुदृढानि च । गद्याणं चांधमूषायां क्षिपेद्भूनागसत्वजम् ॥ १.४४२ ॥ हेमपत्राणि तत्रैव क्षिप्त्वा मूषां यदृच्छया । कोष्ठिकाग्निष्टगर्तासु विवेलं पूरितां मुहुः ॥ १.४४३ ॥ वक्रवक्त्रधमण्यां ध्मापयेन्मृतजीविभिः । हेमवज्रात्मकः षोटो भवेद्भूनागसत्वजः ॥ १.४४४ ॥ अर्तयित्वा च तं षोटं चूर्णं कार्यं सुसूक्ष्मकम् । काचकुम्पीमथाकण्ठं सप्तधा वस्त्रमृत्स्नया ॥ १.४४५ ॥ वेष्टयित्वा च तन्मध्ये प्रथमं कर्षमात्रकम् । क्षिपेद्भूनागजं सत्वं तन्मध्ये शुद्धपारदम् ॥ १.४४६ ॥ षट्गद्याणांस्ततो दद्याद्यंत्रे वालुकके क्षिपेत् । चुल्ह्यामारोप्य तं यन्त्रं ह्यधोऽग्निं ज्वालयेद्धठात् ॥ १.४४७ ॥ नष्टं नष्टं मुहुः क्षेप्यं सत्वं भूनागसम्भवम् । सत्वेन द्रवरूपेण भृता धार्या च कुम्पिका ॥ १.४४८ ॥ अहोरात्रं रसः स्वेद्यः सुधिया सप्तवासरम् । इत्थं स्विन्नाः षडेवैते स्वेदिताः शुद्धसूतजाः ॥ १.४४९ ॥ वक्त्रं सूतस्य संजातं सूतो जातश्च राक्षसः । षट्गद्याणाः कृताः पूर्वहेमवल्ल्यादिसत्त्वजाम् ॥ १.४५० ॥ चतुःषष्टितमं चांशं तेषां मध्यान्मुहुर्मुहुः । क्षिप्त्वा खल्वेऽपि सूतान्तः पिष्ट्वा पिष्ट्वा शनैः शनैः ॥ १.४५१ ॥ जारणीयाः षडेवैते शेषाः षट्सूतजाः स्थिताः । उत्कृष्टसूतगद्याणाः षडेताभिश्च मिश्रिताः ॥ १.४५२ ॥ गाल्या द्वादशमूषायां षोटः स्याच्छतवेधकः । <गोल्द्:: चोलोउरिन्ग्> रूप्यताम्रादिनागानां गद्याणानां शतं शतम् ॥ १.४५३ ॥ त्रयाणां च शतैकस्मिन् प्रत्येकं गालिते पृथक् । तन्मध्ये षोटगद्याणं प्रत्येकं च पृथक्क्षिपेत् ॥ १.४५४ ॥ त्रिषु धातुषु हेम स्यान्निश्चितं तिथिवर्णकम् । <मेर्चुर्य्:: षोट:: सेवन> षोटमध्याद्रतीमात्रं प्रगेऽमृतकलान्वितम् ॥ १.४५५ ॥ आदत्ते नियतं वेलं वलिस्तस्य न जायते । पलितं मूलतो याति कृष्णाः केशा भवन्ति च ॥ १.४५६ ॥ शरीरे जायते दार्ढ्यं शरीरं क्षीयते न हि । देहकान्तिः सुवर्णाभा नित्यं षोटस्य सेवनात् ॥ १.४५७ ॥ हेमवज्रादिभूनागसत्वैर्निष्पादितस्त्रिभिः । देहकृच्छतवेधी च षोटो जातोऽयमद्भुतः ॥ १.४५८ ॥ ------------------ रसाध्यायटीका: पञ्चदशवर्णिकं सुवर्णगद्याणान् चतुरो गालयित्वा जरकीशदलवत्कण्टकवेध्यानि पत्राणि कुर्यात् ॥ १.४३९-४५८:१ ॥ ततो नरकपालं तथा धत्तूरकमूलं च पृथक्पृथक्घृष्ट्वा समभागेन एकीकृत्य पूर्वसाधितहीरकभस्मनो गद्याण एकस्तन्मध्ये क्षेप्यः ॥ १.४३९-४५८:२ ॥ ततः खरले क्षिप्त्वा सर्वं तावत्पेषयेत्यावदैकात्म्यं प्राप्नोति ततस्तेन हेमपत्राणि लिप्त्वा अंधमूषायां क्षिप्त्वोपरि भूनागसत्वगद्याणं च मुक्त्वा प्रथमं कोष्ठिकायां लीहालकैर्भृत्वा वक्रनालीधमण्या धमेत् ॥ १.४३९-४५८:३ ॥ ततोऽग्निष्टके लीहालकैर्धमेत् ॥ १.४३९-४५८:४ ॥ ततो गर्तायां लीहालकैर्धमेत् ॥ १.४३९-४५८:५ ॥ एवं त्रिवेलं ध्मातः सन्नसौ हेमवज्रभस्मभूनागसत्त्वजः षोटो भवति ॥ १.४३९-४५८:६ ॥ ततस्तं षोटं मर्दयित्वा सूक्ष्मं चूर्णं कार्यम् ॥ १.४३९-४५८:७ ॥ ततः काचकुम्पीमाकण्ठं सप्तभिः कर्पटमृत्तिकाभिरावेष्ट्य प्रथमं कर्षमात्रं भूनागसत्वं तथा शुद्धपारदस्य षड्गद्याणकांश्च प्रक्षिप्य वालुकायन्त्रे तां कुम्पीमारोप्याधो हठाग्निर्ज्वालनीयः ॥ १.४३९-४५८:८ ॥ भूनागसत्वं च नष्टं पुनः क्षेपणीयम् ॥ १.४३९-४५८:९ ॥ किं बहुना सप्तदिनानि निरन्तरं कुम्पिकाभूनागसत्त्वेन भृतैव धारणीया ॥ १.४३९-४५८:१० ॥ यथा षट्पञ्चाशद्भिः प्रहरैः शुद्धसूतषड्गदीयाणका गाढं विघते ॥ १.४३९-४५८:११ ॥ ततस्तस्य मुखं जायते स च सूतो राक्षसनाम जायते सर्वभक्षक इत्यर्थः ततः पूर्वं यो हेमवज्रभूनागसत्वषोटो वर्तयित्वा चूर्णितोऽस्ति तन्मध्याच्चतुःषष्टितमं भागं गृहीत्वा खरले राक्षससूतमध्ये क्षिप्त्वा पिष्ट्वा पिष्ट्वा जारणीयः ततः पुनश्चतुःषष्टितमो भागस्तत्र पिष्ट्वा जारणीयः ॥ १.४३९-४५८:१२ ॥ एवं पुनः पुनश्चतुःषष्टितमषोटभागजारणेन षड्गद्याणाः षोटस्य जारणीयाः ॥ १.४३९-४५८:१३ ॥ ततो राक्षससूतषड्गदीयाणमध्ये शोधितोत्कृष्टपारदगदीयाणान् षट्मेलयित्वा ते द्वादशगदीयाणा मूषायां प्रक्षिप्य गालनीयाः ॥ १.४३९-४५८:१४ ॥ शतवेधकः षोटो भवति ॥ १.४३९-४५८:१५ ॥ ततो रूप्यस्य ताम्रस्य नागस्य वा गदीयाणकशतं गालयित्वा षोटगदीयाणाः क्षिप्यते ॥ १.४३९-४५८:१६ ॥ पञ्चदशवर्णिकं हेम भवति ॥ १.४३९-४५८:१७ ॥ त्रिषु धातुषु शतवेधकोऽयं रसः ॥ १.४३९-४५८:१८ ॥ तथा प्रभाते नित्यममृतकलया युक्तं षोटचूर्णं रतीमात्रं कुरुते ॥ १.४३९-४५८:१९ ॥ तस्य वलिपलितादिदोषा नश्यन्ति ॥ १.४३९-४५८:२० ॥ कृष्णाश्च केशा भवन्ति ॥ १.४३९-४५८:२१ ॥ देहदार्ढ्यं जायते ॥ १.४३९-४५८:२२ ॥ सुवर्णाभा शरीरकान्तिर्भवति ॥ १.४३९-४५८:२३ ॥ हेमपत्रैर्वज्रभस्म नागसत्वेन त्रिभिः साधितोऽयं षोटो देहकारको लोहकारकश्च ॥ १.४३९-४५८:२४ ॥ इति हेमवज्रभस्मभूनागसत्वकर्माणि ॥ १.४३९-४५८:२५ ॥ ____________________________________________________ १.४५९-४७८ श्रीभैरवगणाध्यक्षश्रीवाणीभ्यो नमः सदा । यत्प्रसादाद्धि सिध्यन्ति गुटिकांजनपारदाः ॥ १.४५९ ॥ संख्याशीतिः सतुर्या स्यात्प्रत्येकं च पृथक्त्रिषु । एवं संख्यात्रयाणां स्याद्द्विपञ्चाशत्शतद्वयम् ॥ १.४६० ॥ एतस्याः सर्वसंख्याया मध्यादेकस्य कस्यचित् । आरम्भादौ फलान्ते च तपः कुर्यादखण्डितम् ॥ १.४६१ ॥ अवाङ्मासैकतः पूर्वं निष्पत्तेरा फलादपि । ब्रह्मचर्यं भुवि स्वापं हविष्यान्नं च भोजनम् ॥ १.४६२ ॥ तपोविधिषु सिध्यन्ति तपःसाध्या रसादयः । दोषं दैवस्य यच्छन्ति तपोहीना हि साधकाः ॥ १.४६३ ॥ वार्त्तोक्ता गुटिकास्तेन श्रीकङ्कालययोगिना । गुटीं ज्ञानफलां वक्ष्ये द्विपञ्चाशत्सुवल्लिका ॥ १.४६४ ॥ चत्वारोऽभ्रकसत्वस्य चत्वारः स्वर्णमाक्षिकात् । शुद्धरूप्यस्य चत्वारो वल्लैको हेमराजिकाः ॥ १.४६५ ॥ शुद्धोऽष्टादशसंस्कारैः पूर्वो यस्तु पारदः । तस्यैकोनचत्वारिंशद्द्विपञ्चाशच्च मीलिताः ॥ १.४६६ ॥ खल्वे प्रक्षिप्य सर्वास्तान्मर्दयेद्दिनसप्तकम् । वरुणस्य तरोर्भूतश्रीखण्डसूक्ष्मकं मुहुः ॥ १.४६७ ॥ मृद्वग्नौ स्वेदयेत्तेन दोलायन्त्रे दिनद्वयम् । स्वेदयेत्तद्गुटीं कृत्वा क्रमात्पञ्चामृतेन च ॥ १.४६८ ॥ मध्वाज्यं दधि दुग्धं च शर्करा चेति पञ्चमी । अस्मिन् पञ्चामृते स्वेद्या यामाष्टाष्टा मृतं प्रति ॥ १.४६९ ॥ कान्तलोहमये पात्रे मधुना च गुटीं क्षिपेत् । तत्पात्रं वालुकापूर्णं स्थालिकान्तश्च विन्यसेत् ॥ १.४७० ॥ चुल्ह्यां स्थालीं चटाय्याग्निं यामाष्टौ ज्वालयेदधः । स्वेदनेऽयं विधिः कार्यः स्तोकके चामृते क्रमात् ॥ १.४७१ ॥ नष्टे नष्टे मुहुः क्षेप्यं क्रमात्पञ्चामृतं सदा । मधुयुक्तिक्रमेणैव पञ्चधा स्वेदयेद्गुटीम् ॥ १.४७२ ॥ तपोनिष्ठः क्रियावांश्च हस्ताभ्यां तां प्रचालयेत् । निष्पन्ना गुटिका कार्या द्विपञ्चाशत्सुवल्लिका ॥ १.४७३ ॥ यस्याः शुद्धावुभौ पक्षौ प्रसूता चोत्तमे कुले । ब्राह्मणी क्षत्रिया वापि वैश्यी चैवंविधा च या ॥ १.४७४ ॥ शूद्रीवर्जं त्रिवर्णाया गर्भः स्यात्प्रथमो यदा । मासैकानन्तरं तस्या गुटिकां तां समर्पयेत् ॥ १.४७५ ॥ भोजनौषधतांबूलपानवेलां विना तया । अहर्निशं मुखे धार्या मासमेकं निरन्तरम् ॥ १.४७६ ॥ मासे वीते च सा पृष्टा ज्ञानं वक्ति त्रिकालजम् । भावि भूतं वर्तमानं सद्यः प्रत्ययकारकम् ॥ १.४७७ ॥ गुटिकायाः प्रभावोऽयमतीवाश्चर्यकारकः । रसगुट्यां जनेषु स्यात्प्रभावातिशयो महान् ॥ १.४७८ ॥ ------------------ रसाध्यायटीका: श्रीभैरवगणाधिपतिलक्ष्मीसरस्वतीभ्यो नमोऽस्तु येषां प्रसादाद्गुटिकाञ्जनानि पारदाश्च सिध्यन्ति ॥ १.४५९-४७८:१ ॥ तत्रचतुरशीतिः ८४ गुटिकाश्चतुरशीतिः ८४ अंजनानि चतुरशीतिः ८४ पारदकर्माणि ॥ १.४५९-४७८:२ ॥ एवं सर्वसंख्यया त्रयाणां द्विपञ्चाशदधिकं शतद्वयम् २५२ भवन्ति ॥ १.४५९-४७८:३ ॥ एतेषां द्विपञ्चाशदधिकशतद्वयस्य मध्यादेकस्य कस्यचिद्गुटिकौषधस्याञ्जनस्य वा पारदस्य वा प्रारम्भे आदौ तथाफलप्रान्तेऽखण्डं तपो विधेयम् ॥ १.४५९-४७८:४ ॥ तत्र प्रारम्भे मासैकादर्वाक्निष्पत्तिसमयेऽपि फलादर्वाङ्मासमेकं ब्रह्मचर्यपालनीयं हविष्यान्नं परमान्नं च घृतादिमिश्रं दुग्धं वा भोजनीयम् ॥ १.४५९-४७८:५ ॥ तपोविधानेषु क्रियाः सिध्यन्ति ॥ १.४५९-४७८:६ ॥ यतस्तपःसाध्या रसादयः प्रयोगा ये पुनः तपोहीनाः साधकास्तेऽन्ततः दैवस्य कर्मणो दोषमन्तरायं वदन्ति ॥ १.४५९-४७८:७ ॥ तेन तपस्विनां मुख्येन श्रीकङ्कालययोगिना वार्त्तोक्ता धातुवट्टिज्ञप्रोक्ता गुटिका वर्तते ॥ १.४५९-४७८:८ ॥ तासां मध्याज्ज्ञानफलां ज्ञानकारणं गुटिकां वक्ष्यामि द्विपञ्चाशद्वल्लमात्रौषधनिष्पन्नाम् ॥ १.४५९-४७८:९ ॥ तत्र चत्वारो वल्ला अभ्रकसत्वस्य चत्वारो वल्लाः स्वर्णमाक्षीकस्य चत्वारो वल्लाः शुद्धरूप्यस्यैको वल्लो हेमराजेः ७ तथाष्टादशसंस्कारैर्यः पूर्वोक्तशुद्धपारदस्तस्य वल्ला एकोनचत्वारिंशदेवं मिलिताः सर्वे द्विपञ्चाशत्५२ वल्लाः ॥ १.४५९-४७८:१० ॥ खरले क्षिप्य सप्तदिनानि मर्दयेत् ॥ १.४५९-४७८:११ ॥ ततो वरुणवृक्षस्य मूलं श्रीखण्डं घृष्ट्वा ॥ १.४५९-४७८:१२ ॥ सर्वमौषधं वस्त्रे बद्ध्वा दोलायन्त्रे स्थालिकायां तेन श्रीषण्डेन कोमलवह्निना दिनद्वयं स्वेदयित्वोत्तार्य गुटिकां कृत्वा पश्चात्क्रमेण पञ्चामृतेन स्वेदयेत् ॥ १.४५९-४७८:१३ ॥ तत्र मधु घृतं दधि दुग्धं शर्करा वेति पञ्चामृतम् ॥ १.४५९-४७८:१४ ॥ तत्र स्वेदने चायं विधिः ॥ १.४५९-४७८:१५ ॥ प्रथमं गुटिकां मधुना सह कांस्यलोहपात्रे वालुकापूर्णस्थालिकामध्ये क्षेप्यः १२ सा स्थाली चुल्हिकायां चटाय्याधोऽष्टौ प्रहरान् वह्निर्ज्वालनीयः ॥ १.४५९-४७८:१६ ॥ उपरि मधु निक्षिपेत् ॥ १.४५९-४७८:१७ ॥ तदनु नष्टे नष्टे पुनः पुनर्मधु क्षेप्यमेवं प्रहराष्टकेन मधुना स्वेदयित्वोत्तार्य ततो घृतेन सह कान्तलोहपात्रे गुटीं प्रक्षिप्याष्टप्रहरान्स्वेदयेद्वालुकायंत्रे ॥ १.४५९-४७८:१८ ॥ तत एवं प्रहराष्टकं दधिना ततः प्रहरान् ८ दुग्धेन ततः प्रहरान् ८ शर्कराजलमिति ॥ १.४५९-४७८:१९ ॥ एव पञ्चामृतेन पञ्चवारं गुटिकां स्वेदयित्वा । तपः कुर्वतो ब्रह्मचर्यपालयता हस्ताभ्यां प्रचाल्य द्विपञ्चाशवल्लमात्रा गुटिका कार्या । ततो यस्या मातृपक्षपितृपक्षौ निर्मलौ ॥ १.४५९-४७८:२० ॥ या च ब्राह्मणी वा क्षत्रिया वा वैश्यी चोत्तमकुलप्रसूता ॥ १.४५९-४७८:२१ ॥ तस्याः शूद्रीं वर्जयित्वा यदा प्रथमो गर्भो भवति तदा मासैकादनन्तरं सा गुटिका समर्पणीया ॥ १.४५९-४७८:२२ ॥ तया च भोजनमौषधताम्बूलास्वादपानीयपानवेलां वर्जयित्वैकं मासं निरन्तरं मुखे धारणीया ॥ १.४५९-४७८:२३ ॥ ततो मासे गते सति गुटिकायाः प्रभावात्पृष्टा सती सा स्त्री अतीतानागतवर्तमानं सद्यः प्रत्ययकारकं त्रिकालविषयज्ञानं वदति ॥ १.४५९-४७८:२४ ॥ अस्या गुटिकायाः प्रभावोऽतीवाश्चर्यकारकः ॥ १.४५९-४७८:२५ ॥ यतो यथा ज्ञानी यद्भाषते तत्सर्वं सत्यं भवति ॥ १.४५९-४७८:२६ ॥ तथा मुखे गुटिकाक्षेपमाहात्म्याद्ब्राह्मणी क्षत्रिया वैश्यी यावद्वदति तत्तथैव भवति ॥ १.४५९-४७८:२७ ॥ यतो रसस्य पारदस्य गुटिकानां तथा पातालाञ्जनादीनामञ्जनानां प्रभावातिशयो महान् गुरुरित्यर्थः ॥ १.४५९-४७८:२८ ॥ एषा किल वादिनीति गुटिका प्रोच्यते ॥ १.४५९-४७८:२९ ॥ यद्यप्यस्याः सम्यगाम्नायः सांप्रतं नोपलभ्यते तथापि किंचिदक्षरार्थं युक्त्या किंचिद्गुटिकान्तरानुभवेन किंचित्तथाविधश्रुतयुक्त्यनुसारेण व्याख्या ॥ १.४५९-४७८:३० ॥ तथा चतुरशीतिगुटिका ८४ चतुरशीत्यंजनानि ८४ चतुरशीतिरसभेदान् ८४ परिज्ञाय पूर्वश्रीकङ्कालययोगिना निजशिष्यपरिज्ञानार्थं योगक्षेमनिर्वाहार्थं सर्वेषामुपकारार्थं च किंचिद्रसतत्त्वमुपदिष्टम् ॥ १.४५९-४७८:३१ ॥ ततस्तच्छिष्येण स्वस्य विसृत्यर्थं परं परयाव्यवच्छेदार्थं परेषामुपदेशार्थं चायं रसाध्यायो विरचितः ॥ १.४५९-४७८:३२ ॥ ग्रन्थेऽस्मिन्नेकविंशत्यधिकाराः ॥ १.४५९-४७८:३३ ॥ तद्यथा प्रथमम् १ अष्टादशसंस्कारसंस्कृतः शृङ्खलारसः ॥ १.४५९-४७८:३४ ॥ ततः हेमराजिः घोषराजिः ॥ १.४५९-४७८:३५ ॥ माक्षिकराजिः ॥ १.४५९-४७८:३६ ॥ नागराजिः ॥ १.४५९-४७८:३७ ॥ २ ततः खापरसत्त्वपातनविधिः ॥ १.४५९-४७८:३८ ॥ ततः मनःशिलासत्त्वपातनविधिः ॥ १.४५९-४७८:३९ ॥ ततः षड्लोहमारणविधिः ॥ १.४५९-४७८:४० ॥ ततस्त्रिधा षड्लोहद्रुतिकरणम् ॥ १.४५९-४७८:४१ ॥ ततः त्रिधा अन्नपथहीरककरणम् ॥ १.४५९-४७८:४२ ॥ ततः पञ्चधा हीरकभस्मीकरणम् ॥ १.४५९-४७८:४३ ॥ ततः गन्धकशोधनं द्विधा ॥ १.४५९-४७८:४४ ॥ ततः द्विधा गन्धकपीठी तस्याः कर्म च ॥ १.४५९-४७८:४५ ॥ ततः गन्धकतैलम् ॥ १.४५९-४७८:४६ ॥ ततः गन्धकतैलेन त्रिधा हेमकर्म ॥ १.४५९-४७८:४७ ॥ ततः गन्धकतैलेनैव सहस्रवेधरसविधिः ॥ १.४५९-४७८:४८ ॥ ततः गन्धकद्रुतिपीठी ॥ १.४५९-४७८:४९ ॥ ततः गन्धकद्रुतिपीठीकर्म ॥ १.४५९-४७८:५० ॥ ततः तालकशोधनम् ॥ १.४५९-४७८:५१ ॥ ततः तालककर्म ॥ १.४५९-४७८:५२ ॥ ततः त्रिधाभ्रकद्रुतिः ॥ १.४५९-४७८:५३ ॥ ततः तस्याः कर्माणि ॥ १.४५९-४७८:५४ ॥ ततः हेमवज्रभस्मभूनागसत्वनिष्पन्नषोटकर्माणि ॥ १.४५९-४७८:५५ ॥ ततः किल बालवादनी गुटिका ॥ १.४५९-४७८:५६ ॥ इत्येकविंशतिरधिकारा निबद्धाः सन्ति ॥ १.४५९-४७८:५७ ॥ ते च यद्यपि किंचिच्चानुमानसम्भवेन किंचित्तथाविधवार्त्तिकेन्द्रसंसर्गजातसंस्कारेण किंचिदक्षरार्थयुक्त्या विवृत्य व्याख्याताः तथापि यदि क्वापि किमप्यलीकं व्याख्यानं भवेत्तदा प्रसद्य श्रीवार्त्तिकेन्द्रैः श्रीरसाध्यायेन तदधिष्ठातृदेवताभिश्च सर्वं क्षन्तव्यम् ॥ १.४५९-४७८:५८ ॥ ____________________________________________________ १.४७९-४८१ यादृशं स्वधिया ज्ञातं तादृशं लिखितं मया । यदि क्वचिद्व्यलीकं स्यात्तदा शोध्यं विचक्षणैः ॥ १.४७९ ॥ ख्यातस्तथा यादववंशरत्नभूजालदेवाभिधराउलोऽभूत् । तदात्मजन्मा महिपाभिधानस्तस्यात्मजो भादिगनामधेयः ॥ १.४८० ॥ तदात्मजश्चम्पनामधेयो रसज्ञगेयोज्ज्वलकान्तिकीर्तिः । परोपकारैकरसः कलावान्मनागजाकौ किल यस्य बन्धू ॥ १.४८१ ॥