१,१ स्वर्गापवर्गविस्फारौ भुवनस्योदये यथा । भवरोगहरौ वन्दे चण्डिकाचन्द्रशेखरौ ॥ १,१.१ ॥ रसोपरसलोहानां तैलमूलफलैः सह । असाध्यं प्रत्ययोपेतं कथ्यते रससाधनम् ॥ १,१.२ ॥ वैद्यानां यशसेऽर्थाय व्याधितानां हिताय च । वादिनां कौतुकार्थाय वृद्धानां देहसिद्धये ॥ १,१.३ ॥ मन्त्रिणां मन्त्रसिद्ध्यर्थं विविधाश्चर्यकारणम् । पञ्चखण्डमिदं शास्त्रं साधकानां हितप्रदम् ॥ १,१.४ ॥ रसखण्डे तु वैद्यानां व्याधितानां रसेन्द्रके । वादिनां वादखण्डे च वृद्धानां च रसायने ॥ १,१.५ ॥ मन्त्रिणां मन्त्रखण्डे च रससिद्धिः प्रजायते । सुतरां नास्ति संदेहः तत्तत्खण्डविलोकिनाम् ॥ १,१.६ ॥ हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः । धत्ते च खेगतिं बद्धः कोऽन्यः सूतात्कृपाकरः ॥ १,१.७ ॥ जरामरणदारिद्र्यरोगनाशकरोमतः । मूर्छितो हरते व्याधीन्नसो देहे चरन्नपि ॥ १,१.८ ॥ मोहयेद्यः परान्बद्धो जीवयेच्च मृतः परान् । मूर्छितो बोधयेदन्यांस्तं सूतं को न सेवते ॥ १,१.९ ॥ आयुर्द्रविणमारोग्यं वह्निर्मेधा महद्बलम् । रूपयौवनलावण्यं रसोपासनया भवेत् ॥ १,१.१० ॥ मारयेज्जारितं सूतं गन्धकेनैव मूर्छयेत् । बद्धः स्याद्द्रुतिसत्वाभ्यां रसस्यैवं त्रिधा गतिः ॥ १,१.११ ॥ दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः । मारितो रुद्ररूपः स्याद्बद्धः साक्षान्महेश्वरः ॥ १,१.१२ ॥ वेधको देहलोहाभ्यां सूतो देवि सदाशिवः । दर्शनाद्रसराजस्य ब्रह्महत्यां व्यपोहति ॥ १,१.१३ ॥ स्पर्शनान्नाशयेद्देवि गोहत्यां नात्र संशयः । किं पुनर्भक्षणाद्देवि प्राप्यते परमं पदम् ॥ १,१.१४ ॥ अल्पमात्रोपयोगित्वादरुचेरप्रप्सङ्गतः । क्षिप्रमारोग्यदायित्वाद्भेषजेभ्यो रसोऽधिकः ॥ १,१.१५ ॥ यदुक्तं शम्भुना पूर्वं रसखण्डे रसायने । रसस्य वन्दनार्थे च दीपिका रसमङ्गले ॥ १,१.१६ ॥ व्याधितानां हितार्थाय प्रोक्तं नागार्जुनेन यत् । उक्तं चर्पटिसिद्धेन स्वर्गवैद्यकपालिके ॥ १,१.१७ ॥ अनेकरसशास्त्रेषु संहितास्वागमेषु च । यदुक्तं वाग्भटे तन्त्रे सुश्रुते वैद्यसागरे ॥ १,१.१८ ॥ अन्यैश्च बहुभिः सिद्धैर्यदुक्तं च विलोक्य तत् । तत्र यद्यदसाध्यं स्याद्यद्यद्दुर्लभमौषधम् ॥ १,१.१९ ॥ तत्तत्सर्वं परित्यज्य सारभूतं समुद्धृतम् । क्वचिच्छास्त्रे क्रिया नास्ति क्रमसंख्या न च क्वचित् ॥ १,१.२० ॥ मात्रा युक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् । तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥ १,१.२१ ॥ वैद्ये वादे प्रयोगे च यस्माद्यत्नो मया कृतः । यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतं च यन्मया । तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥ १,१.२२ ॥ श्रीमान् सूतनृपो ददाति विलसंल्लक्ष्मीं वपुः शाश्वतंस्वानां प्रीतिकरीमचञ्चलमनो मातेव पुंसां यथा । अन्यो नास्ति शरीरनाशकगदप्रध्वंसकारी ततः कार्यं नित्यमहोत्सवैः प्रथमतः सूताद्वपुःसाधनम् ॥ १,१.२३ ॥ साक्षादक्षयदायको भुवि नृणां पञ्चत्वमुच्चैः कुतो मूर्च्छां मूर्छितविग्रहो गदभृतां हन्त्युञ्चकैः प्राणिनाम् । बद्धं प्राप्य सुरासुरेन्द्रचरितां तां तां गतिं प्रापयेत् । सोऽयं पातु परोपकारचतुरः श्रीसूतराजो जगत् ॥ १,१.२४ ॥ यदन्यत्र तदत्रास्ति यदत्रास्ति न तत्क्वचित् । रसरत्नाकरः सोऽयं नित्यनाथेन निर्मितः । ततः कुर्यात्प्रयत्नेन रससंस्कारमुत्तमम् ॥ १,१.२५ ॥ अविज्ञात्या च शास्त्रार्थं प्रयोगकुशलो भिषक् । यम एव स विज्ञेयः मर्त्यानां मृत्युरूपधृक् ॥ १,१.२६ ॥ {रसस्य महादोषाः} नागो वङ्गो मलो वह्निश्चांचल्यं च विषं गिरिः । असह्याग्निर्महादोषा निषिद्धाः पारदे स्थिताः ॥ १,१.२७ ॥ जायं गण्डस्तनौ नागात्कुष्ठं वङ्गाद्रुजा मलात् । वह्नेर्दाहो बीजनाशश्चाञ्चल्यान्मरणं विषात् ॥ १,१.२८ ॥ गिरेः स्फोटो ह्यसह्याग्नेर्दोषान्मोह उपजायते । {निर्दोषपारदस्य गुणाः} दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ १,१.२९ ॥ साक्षादमृतमप्येष दोषयुक्तो रसो विषम् । तस्माद्दोषविशुद्ध्यर्थं रसशुद्धिर्विधीयते ॥ १,१.३० ॥ रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् । पञ्चाशतं पञ्चविंशद्वा द्वादशं चैकमेव वा ॥ १,१.३१ ॥ पलादूनं न कर्तव्यं रससंस्कारमुत्तमम् । अघोरेण च मन्त्रेण रससंस्कारपूजनम् ॥ १,१.३२ ॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ १,१.३३ ॥ १, २ निःसारं वीक्ष्य विश्वं गदविकलवपुर्व्याप्तमेवातितप्तम् । भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥ १,२.१ ॥ दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनामिष्टसिद्ध्यै । शृण्वन्तूच्चैर्मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः । यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धं । नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः । स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् । तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥ १,२.२ ॥ {अष्टदोषनिवारण} अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् । इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥ १,२.३ ॥ मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् । खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥ १,२.४ ॥ काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये । विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १,२.५ ॥ राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् । चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥ १,२.६ ॥ कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः । {(२)} प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १,२.७ ॥ सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् । प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥ १,२.८ ॥ उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः । सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥ १,२.९ ॥ जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि । {पारदशोधन} अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् । तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥ १,२.१० ॥ श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः । कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् । दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥ १,२.११ ॥ कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् । पातयेत्पातनायन्त्रे सम्यक्शुद्धो भवेद्रसः ॥ १,२.१२ ॥ {हिंगुलोत्थपारदशोधन} पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् । जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥ १,२.१३ ॥ तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् । इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥ १,२.१४ ॥ {शुद्धसूतमारणौषधयः} अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे । ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥ १,२.१५ ॥ वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका । विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥ १,२.१६ ॥ कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका । वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥ १,२.१७ ॥ जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् । कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥ १,२.१८ ॥ चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया । विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट्पटुः ॥ १,२.१९ ॥ इत्येताः मूलिका आख्याता योज्या पारदमारिकाः । एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥ १,२.२० ॥ {पारदभस्मनिर्माण} अप्रसूतगवां मूत्रे पेषयेद्रक्तमूलिकाम् । तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥ १,२.२१ ॥ तप्तखल्वे चतुर्याममविच्छिन्नं विमर्दयेत् । तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥ १,२.२२ ॥ एवं दशपुटैर्मार्यं मर्द्यं पात्यं पुनः पुनः । तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥ १,२.२३ ॥ भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् । द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥ १,२.२४ ॥ मूलिकामारितः सूतो जारणक्रमवर्जितः । न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥ १,२.२५ ॥ {पारदभस्मनिर्माण (२)} रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् । दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥ १,२.२६ ॥ त्र्यहं विमर्दयेद्द्रावैस्त्रिंशद्धट्टमहापुटे । इत्येवमष्टधा पाच्यं रसो भस्मीभवेद्ध्रुवम् ॥ १,२.२७ ॥ {रसभस्मनिर्माण (३)} श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् । पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥ १,२.२८ ॥ देवदालीं हरिक्रान्तामारनालेन पेषयेत् । सप्तधा सूतकं तेन कुर्याद्धमनमुत्थितम् ॥ १,२.२९ ॥ तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् । चुल्ल्योपरि पचेद्वह्नौ भस्म स्यादरुणोपमम् ॥ १,२.३० ॥ {पारदमारण (४)} काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् । सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥ १,२.३१ ॥ काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् । दत्त्वा तेन पुनर्मर्द्यं हिंगु वङ्गरसेश्वरम् ॥ १,२.३२ ॥ क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् । अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥ १,२.३३ ॥ {पारदमारण (५)} अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् । तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥ १,२.३४ ॥ रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् । {पारदमारण (६)} कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥ १,२.३५ ॥ सप्तधा म्रियते सूतः स्वेदयेद्गोमयाग्निना । {पारदमारण (७)} अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥ १,२.३६ ॥ सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् । पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥ १,२.३७ ॥ {पारदमारण (८)} धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः । दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥ १,२.३८ ॥ विलिप्य तैलैर्वर्तिं तामेरण्डोत्थैः पुनः पुनः । प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥ १,२.३९ ॥ कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः । दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥ १,२.४० ॥ मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् । {पारदमारण (९)} द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥ १,२.४१ ॥ मर्दयेन्मारकद्रावैर्दिनमेकं निरन्तरम् । बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत्पुटात् ॥ १,२.४२ ॥ {वज्रमूषा} तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका । लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥ १,२.४३ ॥ नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् । यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥ १,२.४४ ॥ शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च । वज्रमूषा समाख्याता सम्यक्पारदमारिका ॥ १,२.४५ ॥ {भस्मसूतवर्णाः} श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् । लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥ १,२.४६ ॥ १, ३ {जारणपूर्वं मारणम्} अथातो जारणापूर्वं बीजं मारणमुच्यते । अजीर्णं चाप्यबीजं च सूतकं यस्तु मारयेत् ॥ १,३.१ ॥ ब्रह्महा स दुराचारो मम द्रोही महेश्वरि । तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥ १,३.२ ॥ {रसस्य समुखकरणम्} संस्थाप्य गोमयं भूमौ पक्वमूषां ततः परम् । तन्मध्ये कटुतुम्ब्युत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १,३.३ ॥ काकमाचीरसं देयं तैलं तुल्यं ततः पुनः । गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् ॥ १,३.४ ॥ तत्पृष्ठे पावको देयः पूर्णं वा वह्निखर्परम् । स्वाङ्गशीतलतां ज्ञात्वा जीर्णे तैले च गन्धकम् ॥ १,३.५ ॥ काकमाचीद्रवं चाग्नौ दत्त्वा दत्त्वा च जारयेत् । मूषाधो गोमयं चात्र दत्त्वा चोदधर्वं च पावकम् ॥ १,३.६ ॥ षड्गुणं गन्धकं जार्यं सूतस्यैवं मुखं भवेत् । {समुखपारदस्य जारणापूर्वको मारणविधिः} तं सूतं मर्दयेन्नीरैर्जम्बीरोत्थैः पुनः पुनः ॥ १,३.७ ॥ चतुःषष्ट्यंशकैः पूर्वैर्द्वात्रिंशांशं ततः पुनः । षोडशांशं शुद्धहेमपत्रं सूतेषु निक्षिपेत् ॥ १,३.८ ॥ शिखिपित्तेन सम्पिष्टं तैलैश्च सर्षपोद्भवैः । लिप्त्वा हेमं क्षिपेत्सूतं यामं जम्बीरजैर्द्रवैः ॥ १,३.९ ॥ मर्द्यं तं पूर्ववत्पच्यान्मूषायां जम्बीरद्रवैः । पूरयेद्रोधयेच्चाग्निं दत्त्वा यत्नेन जारयेत् ॥ १,३.१० ॥ ग्रासे ग्रासे च तन्मर्द्यं जम्बीराणां द्रवैः दृढम् । मूलिका लवणं गन्धमभावे पित्ततैलयोः ॥ १,३.११ ॥ पिष्ट्वा जम्बीरनीरेण हेमपत्रं प्रलेपयेत् । इत्येवं जारणा कार्या ततः सूतं च मारयेत् ॥ १,३.१२ ॥ अथवा निर्मुखं सूतं विडयोगेन मारयेत् । {विडनिर्माणविधि} विडमत्र प्रवक्ष्यामि साधयेद्भिषजां वरः ॥ १,३.१३ ॥ शंखचूर्णं रविक्षीरैश्चातपे भावयेद्दिनम् । तद्वज्जम्बीरजैर्द्रावैर्दिनैकं धूमसारकम् ॥ १,३.१४ ॥ सुवर्चलमजामूत्रैः क्वाथ्यं यामचतुष्टयम् । कण्टकारीं च संक्वाथ्यं दिनैकं नरमूत्रकैः ॥ १,३.१५ ॥ सज्जीक्षारं तिन्तिडीकं काशीशं च शिलाजतुम् । जम्बीरोत्थैर्द्रवैर्भाव्यं पृथग्यामं चतुष्टयम् ॥ १,३.१६ ॥ जयपालबीजं त्वग्घीनं मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जां शिग्रुमूलद्रवैर्दिनम् ॥ १,३.१७ ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः । तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वाडवानलः । अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके ॥ १,३.१८ ॥ {विडयोगेन पारदादिमारणप्रकारः} स्वर्णाभ्रकसर्वलोहानि यथेष्टानि च जारयेत् । मारयेत्पूर्वयोगेन मारणं चात्र कथ्यते ॥ १,३.१९ ॥ {पारदमारण (१)} कुम्भीं समूलामुद्धृत्य गोमूत्रेण सुपेषयेत् । तद्द्रवैर्मर्दयेत्सूतं दिनैकं कान्तसम्पुटे ॥ १,३.२० ॥ लिप्त्वा नियामका देया ऊर्ध्वश्चाधस्तदन्वयेत् । मृद्वग्निना दिनैकं तु पचेच्चुल्यां मृतो भवेत् ॥ १,३.२१ ॥ {पारदमारण (२)} गोघृतं गन्धकं सूतं पिष्ट्वा पिण्डीं प्रकल्पयेत् । कुमारीदलमध्यस्थं कृत्वा सूत्रेण वेष्टयेत् ॥ १,३.२२ ॥ तं कान्तसम्पुटे रुद्ध्वा त्रिभिर्लघुपुटैः पचेत् । ततो ध्माते भवेद्भस्म चान्धमूषे क्षयं ध्रुवम् ॥ १,३.२३ ॥ {पारदमारण (३)} शाकवृक्षस्य पक्वानि फलान्यादाय शोधयेत् । पेषयेद्रविदुग्धेन तेन मूषां प्रलेपयेत् ॥ १,३.२४ ॥ आदिप्रसूतगोर्जातजरायोश्चूर्णपूरितः । तन्मध्ये सूतकं रुद्ध्वा ध्मातो भस्मत्वमाप्नुयात् ॥ १,३.२५ ॥ {पारदमारण (४)} कर्कोटकीं काकमाचीं च कञ्चुकीं कटुतुम्बिकाम् । काकजङ्घां काकतुण्डीं काकिनीं काकमञ्जरीः ॥ १,३.२६ ॥ पिष्ट्वैतान् वज्रमूषास्तैर्लेपं कृत्वा रसं क्षिपेत् । मर्दितं दिनमेकं तु तैरेवार्द्रोत्थितै रसैः ॥ १,३.२७ ॥ रुद्ध्वाथ भूधरे पच्यादष्टवारं पुनः पुनः । मर्दयेल्लिप्तमूषास्ता रुद्ध्वा ध्मातो मृतो भवेत् ॥ १,३.२८ ॥ {पारदमारण (५)} रसैर्नियामकैर्मर्द्यो दृढं यामचतुष्टयम् । द्विगुणैर्गन्धतैलैश्च पचेन्मृद्वग्निना शनैः ॥ १,३.२९ ॥ यावत्खोटो भवेत्तत्तद्रोधयेल्लौहसम्पुटे । हरीतकीं जले पिष्ट्वा लौहकिट्टेन मूषिकाम् ॥ १,३.३० ॥ कृत्वा तन्मध्यतः क्षिप्त्वा सम्पुटं चान्धयेत्पुनः । तस्योर्ध्वं स्रावकाकारं हृत्वा नागद्रुतं क्षिपेत् ॥ १,३.३१ ॥ कठिनेन धमेत्तावद्यावन्नागो द्रुतो भवेत् । न धमेच्च पुनस्तावद्यावत्कठिनतां व्रजेत् ॥ १,३.३२ ॥ एवं पुनः पुनर्ध्मातस्त्रियामैर्म्रियते रसः । {नियामकौषध्यः} नियामकास्ततो वक्ष्ये सूतस्य मारकर्मणि ॥ १,३.३३ ॥ सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शरपुङ्खिका । काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥ १,३.३४ ॥ वर्षाभूः कञ्चुकी मूर्वा पद्मकोत्पलचिञ्चिका । शतावरी वज्रलता वज्रकन्दा त्रिपर्णिका ॥ १,३.३५ ॥ मण्डूकपर्णी पाटली चित्रको ग्रीष्मसुन्दरः । काकमाची महाराष्ट्री हरिद्रा तिलकर्णिका ॥ १,३.३६ ॥ श्वेतार्कशिग्रुधत्तूरमृगदूर्वाहरीतकी । गुडूची मूषली पुङ्खा भृङ्गराड्रक्तचित्रकम् ॥ १,३.३७ ॥ तगरं शूरणं मुण्डी मयङ्का पोतकोकिलम् । सैन्धवं श्वेतवर्षाभूः साम्भरं हिंगु माक्षिकम् ॥ १,३.३८ ॥ विष्णुकान्ता सोमवल्ली व्रणघ्नी यक्षलोचनम् । व्याघ्रपादी हंसपदी वृश्चिकाली कुरण्टकम् ॥ १,३.३९ ॥ स्वयम्भूकुसुमं कुञ्ची हस्तिशुण्डीन्द्रवारुणी । बीजान्यहस्करस्यापि सर्वत्रैते नियामकाः ॥ १,३.४० ॥ एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः । मारणे मूर्च्छने बन्धे रसस्यैतानि योजयेत् ॥ १,३.४१ ॥ {रसस्य जारणमारणविधिः} अप्रसूतगवां मूत्रैः पिष्ट्वा पूर्वनियामिकाः । तद्द्रवैर्मर्दयेत्सूतं यथा पूर्वोदितं क्रमात् ॥ १,३.४२ ॥ इत्येवं जारणं प्रोक्तं मारणं परिकीर्तितम् । {रसभस्मपरीक्षा} परीक्षा मारिते सूते कर्तव्या च यथोदिता ॥ १,३.४३ ॥ अधस्तुषाग्निना तप्तो ह्यक्षीणस्तिष्ठते यदा । तदा भस्म विजानीयाच्चुल्ल्यां यामं निरीक्षयेत् ॥ १,३.४४ ॥ मूलिकामारितं सूतं सर्वयोगेषु योजयेत् । जारितो याति सूतोऽसौ जरादारिद्र्यरोगनुत् ॥ १,३.४५ ॥ मूर्छितो व्याधिनाशाय बद्धः सर्वत्र योजयेत् ॥ १,३.४६ ॥ १, ४ {मूर्छन} अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते । मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम् ॥ १,४.१ ॥ नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः । पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥ १,४.२ ॥ ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् । ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥ १,४.३ ॥ जीर्णे गन्धे पुनर्देयं षड्भिर्वारैः समं समम् । षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥ १,४.४ ॥ {मेर्चुर्य्:: मूर्छन} गन्धकं मधुसारं च शुद्धसूतं समं समम् । यामैकं पाचयेत्खल्वे काचकुप्यां निवेशयेत् ॥ १,४.५ ॥ रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् । स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥ १,४.६ ॥ अधःस्थं रसमादाय सर्वरोगेषु योजयेत् । {मेर्चुर्य्:: fओर्मुलतिओन्} शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥ १,४.७ ॥ द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् । कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥ १,४.८ ॥ शोषयित्वा धमेत्किंचित्सुतप्तां तां जले क्षिपेत् । तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥ १,४.९ ॥ योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् । {मेर्चुर्य्:: fओर्मुलतिओन्} रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥ १,४.१० ॥ कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् । गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥ १,४.११ ॥ शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् । शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥ १,४.१२ ॥ ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् । इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥ १,४.१३ ॥ पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ॥ १,४.१४ ॥ {मेर्चुर्य्:: fओर्मुलतिओन्} सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् । चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥ १,४.१५ ॥ जयन्त्या मर्दयेद्द्रावैर्दिनैकं तत्तु गोलकम् । पेषयेत्सहदेव्याथ लेपयेत्ताम्रसंपुटम् ॥ १,४.१६ ॥ तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु । वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥ १,४.१७ ॥ चित्रकैः सहदेव्या च गन्धकैर्लेपयेद्बहिः । सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥ १,४.१८ ॥ तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् । सूक्ष्मचूर्णं हरेद्रोगान् योगवाहो महारसः ॥ १,४.१९ ॥ सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥ १,४.२० ॥ {मेर्चुर्य्:: fओर्मुलतिओन्} धत्तूरकद्रवैर्मर्द्यं दिनं गन्धं ससूतकम् । अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥ १,४.२१ ॥ कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् । मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥ १,४.२२ ॥ तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः । रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥ १,४.२३ ॥ सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् । {मेर्चुर्य्:: मूर्छन} काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥ १,४.२४ ॥ काशीशस्यास्य भागेन दातव्या फुल्लतूरिका । स्तोकस्तोकं क्षिपेत्खल्वे त्रियामं चैव मूर्छयेत् ॥ १,४.२५ ॥ प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् । स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥ १,४.२६ ॥ ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत्सूतम् । {मेर्चुर्य्:: मूर्छन} कुरण्टकरसैर्भाव्यमातपे मर्दयेद्रसम् ॥ १,४.२७ ॥ लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् । दिनैकं मूर्छितं सम्यक्सर्वरोगेषु योजयेत् ॥ १,४.२८ ॥ {हैरण्यगर्भक} अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः । सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥ १,४.२९ ॥ रविक्षीरैर्दिनं मर्द्यमन्धयित्वा च भूधरे । पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥ १,४.३० ॥ {वैक्रान्तबद्धरस} कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके । अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥ १,४.३१ ॥ दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । स्तोकं स्तोकं क्षिपेद्गन्धं पाषाणे तं तु कुट्टयेत् ॥ १,४.३२ ॥ याममात्रे भवेत्पिण्डी रसं कन्दे विनिक्षिपेत् । अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥ १,४.३३ ॥ ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् । लिप्तमङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥ १,४.३४ ॥ पाचयेद्भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् । ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥ १,४.३५ ॥ क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् । ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् । नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥ १,४.३६ ॥ {गन्धबद्धपारद} अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् । तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥ १,४.३७ ॥ पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् । एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥ १,४.३८ ॥ इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् । {गन्धबद्धपारद (२)} मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला । अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा ॥ १,४.३९ ॥ त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः । पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥ १,४.४० ॥ शुद्धसूतं समं पश्चात्क्षिपेद्गन्धपलं ततः । भाण्डमारोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥ १,४.४१ ॥ मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् । गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥ १,४.४२ ॥ द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः । जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥ १,४.४३ ॥ यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः । दत्त्वा दत्त्वा पचेत्तद्वद्धुस्तुरादिक्रमाद्रसम् ॥ १,४.४४ ॥ भित्त्वा मूषां समादाय जराव्याधिहरो रसः । योजयेद्गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥ १,४.४५ ॥ {मेर्चुर्य्:: मूर्छन:: तेस्त्} कज्जलाभो यदा सूतो विहाय घनचापलम् । मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥ १,४.४६ ॥ माधुर्यगौरवोपेतः तेजसा भास्करोपमः । वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥ १,४.४७ ॥ स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी । वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥ १,४.४८ ॥ इत्येता मारिताः सूता मूर्छिता बद्धमागताः । प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥ १,४.४९ ॥ मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् । रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ १,४.५० ॥ बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा । {मेर्चुर्य्:: स्तोरगे} दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥ १,४.५१ ॥ {मेर्चुर्य्:: मेदिच्. प्रोपेर्तिएस्} पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् । सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम् ॥ १,४.५२ ॥ सूते गुणानां शतकोटिर्वज्रे चाभ्रे सहस्रं कनके शतैकम् । तारे गुणाशीतिस्तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥ १,४.५३ ॥ रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा । सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥ १,४.५४ ॥ १, ५ {उपरसनामानि} गन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला । खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥ १,५.१ ॥ कासीसं कान्तपाषाणं वराटीमथ हिंगुलम् । कङ्कुष्ठं शंखभूनागं टंकणश्च शिलाजतु ॥ १,५.२ ॥ एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥ १,५.३ ॥ {गन्ध:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति । रूपं सुखं वीर्यबलं च हन्ति तस्मात्संशुद्धं विधियोजनीयम् ॥ १,५.४ ॥ {गन्धकशोधन} साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् । तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥ १,५.५ ॥ भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु । ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ १,५.६ ॥ {गन्धकशोधन (२)} अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा । गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥ १,५.७ ॥ तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा । तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ १,५.८ ॥ {सुल्fउर्:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्} शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युज्वरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ १,५.९ ॥ {वज्र:: शोधन} व्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् । सप्ताहात्कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥ १,५.१० ॥ {वज्र:: मारण} त्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् । षड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ १,५.११ ॥ प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः । भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥ १,५.१२ ॥ {वज्र:: मारण} ऊर्णाशृङ्गं परिपिष्य पिण्डमेतस्य मध्ये तु निधाय वज्रम् । पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥ १,५.१३ ॥ मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥ १,५.१४ ॥ {वज्र:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अशुद्धवज्रमायुर्घ्नं पीडां कुष्ठं करोति च । पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥ १,५.१५ ॥ {वज्र:: सुब्त्य्पेस्:: चोलोउर्, चस्ते} श्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः । रसायने भवेद्विप्रः श्वेतः सिद्धिप्रदायकः ॥ १,५.१६ ॥ क्षत्रियो मृत्युजिद्रक्तो वलीपलितरोगहा । द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥ १,५.१७ ॥ कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च । पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥ १,५.१८ ॥ {वज्र:: पुंवज्र:: परीक्षा} वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहद्भवाः । पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ १,५.१९ ॥ {वज्र:: स्तीवज्र:: परीक्षा} रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः । {वज्र:: नपुंसक:: परीक्षा} त्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥ १,५.२० ॥ पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः । शरीरकान्तिजनका भोगदा वज्रयोषितः ॥ १,५.२१ ॥ नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः । स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥ १,५.२२ ॥ सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥ १,५.२३ ॥ {वज्र:: शोधन} गृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥ १,५.२४ ॥ निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके । सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥ १,५.२५ ॥ {वज्र:: शोधन} मेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् । कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥ १,५.२६ ॥ एतेषां सजलैः क्वाथैर्वज्रं जम्बीरमध्यगम् । दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥ १,५.२७ ॥ {वज्र:: शोधन} कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमृच्छति ॥ १,५.२८ ॥ {वज्र:: शोधन} व्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् । अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥ १,५.२९ ॥ वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥ १,५.३० ॥ {वज्र:: ब्राह्मण:: मारण} विप्रजात्यादिवज्राणां मारणं कथ्यते पुनः । अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥ १,५.३१ ॥ तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् । रुद्ध्वा गजपुटे पच्याद्विप्रजातिर्मृतो भवेत् ॥ १,५.३२ ॥ {वज्र:: क्षत्रिय:: मारण} करवीरं मेषशृङ्गं च बदरं च उदुम्बरम् । अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥ १,५.३३ ॥ {वज्र:: वैश्य:: मारण} बलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च । एतैर्वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥ १,५.३४ ॥ {वज्र:: शूद्र:: मारण} सूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् । वटक्षीरेण मूषान्तर्विप्रवच्छूद्रमारणम् ॥ १,५.३५ ॥ {वज्र:: स्त्री, नपुंसक:: मारण} स्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः । नपुंसकमृतिस्तेषां चतुर्णामौषधैः समम् ॥ १,५.३६ ॥ {वज्र:: मारण} द्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह । नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥ १,५.३७ ॥ {वज्र:: मारण} मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसैः । गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥ १,५.३८ ॥ कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु । {वज्र:: मारण} त्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका । पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥ १,५.३९ ॥ पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥ १,५.४० ॥ {वज्र:: मारण} मत्कुणानां तु रक्तेन सप्तधातपशोषितम् । कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥ १,५.४१ ॥ लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् । पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥ १,५.४२ ॥ {वज्र:: मारण} वज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः । स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥ १,५.४३ ॥ कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद्बहिः । भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥ १,५.४४ ॥ {वज्र:: मारण} रक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः । पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ १,५.४५ ॥ {वज्र:: मृत:: मेदिच्. प्रोपेर्तिएस्} वज्रमायुर्बलं रूपं देहसौख्यं करोति च । सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः । {वैक्रान्त:: शोधन} वैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा । {वैक्रान्त:: मारण} हयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥ १,५.४६ ॥ ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् । रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥ १,५.४७ ॥ क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् । {वैक्रान्त:: सुब्स्तितुते fओर्वज्र} भस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ १,५.४८ ॥ १, ६ {अभ्र:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् । अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम् ॥ १,६.१ ॥ {अभ्र:: सुब्त्य्पेस्} कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने । पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥ १,६.२ ॥ पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् । {पिनाक:: परीक्षा} मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम् ॥ १,६.३ ॥ अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । {दर्दुर} दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥ १,६.४ ॥ {नाग} नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति । स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् ॥ १,६.५ ॥ {वज्राभ्र} वज्राभ्रकं वह्निसंस्थं न किंचिद्विकृतिं व्रजेत् । तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित् ॥ १,६.६ ॥ {धान्याभ्रक:: प्रोदुच्तिओन्} धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् । भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः ॥ १,६.७ ॥ भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः । {धान्याभ्रक:: प्रोदुच्तिओन्} अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह ॥ १,६.८ ॥ द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् । बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह ॥ १,६.९ ॥ अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत् ॥ १,६.१० ॥ {अभ्र:: मारण:: निश्चन्द्र} पुनर्नवामेघनादद्रवैर्धान्याभ्रकं दिनम् । मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः ॥ १,६.११ ॥ द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् । एवं मर्कदलैर्वेष्ट्यं देयं वा मोचसम्पुटे ॥ १,६.१२ ॥ निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् । {अभ्र:: मारण:: निश्चन्द्र} गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत्पचेत् ॥ १,६.१३ ॥ पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् । देयं पुटत्रयं क्षीरैर्मर्दयेच्च पुटे पुटे ॥ १,६.१४ ॥ निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् । {अभ्र:: मारण} धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥ १,६.१५ ॥ पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥ १,६.१६ ॥ {धान्याभ्रक:: मारण} धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् । तत्पिष्ट्वा धारयेत्खल्वे भाव्यमम्लारनालकैः ॥ १,६.१७ ॥ तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः । पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः ॥ १,६.१८ ॥ तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः । दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत् ॥ १,६.१९ ॥ एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् । पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत् ॥ १,६.२० ॥ दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः । एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि ॥ १,६.२१ ॥ तण्डुली वज्रवल्ली च तालमूली पुनर्नवा । चाङ्गेरी मरिचं चैव बलायाः पयसा सह ॥ १,६.२२ ॥ एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् । स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः ॥ १,६.२३ ॥ पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत् ॥ १,६.२४ ॥ {अभ्र:: मारण:: निश्चन्द्र} धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् । पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम् ॥ १,६.२५ ॥ तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् । ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत् ॥ १,६.२६ ॥ अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः । पिष्ट्वाभ्रं सेचयेत्तेन यद्वान्याम्लरसेन च ॥ १,६.२७ ॥ सितामध्वाज्यगोक्षीरैर्दध्नाम्लं पेष्यमभ्रकम् । मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ १,६.२८ ॥ ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् । {अभ्र:: मारण:: निश्चन्द्र} धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः ॥ १,६.२९ ॥ मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः । व्याघ्रीकन्दपुनर्नवया दिनमेतैर्विमर्दयेत् ॥ १,६.३० ॥ कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत्पुनः । तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा ॥ १,६.३१ ॥ एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत् ॥ १,६.३२ ॥ {अभ्र:: मारण:: निश्चन्द्र} धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः । वाकुच्याः सूरणैरल्पैर्दिनं पिष्ट्वा पुटे पचेत् ॥ १,६.३३ ॥ जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् । चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित् ॥ १,६.३४ ॥ {अभ्र:: मारण} धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा । मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ॥ १,६.३५ ॥ {अभ्र:: मारण} धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् । यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत् ॥ १,६.३६ ॥ एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् । एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत् ॥ १,६.३७ ॥ ततोऽम्लैश्चैव कार्पासैर्गवां क्षीरैः पुनः पुनः । घर्मपाकं मर्दनं च पुटं चैवमनुक्रमात् ॥ १,६.३८ ॥ एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम् ॥ १,६.३९ ॥ {अभ्र:: मृत:: अमृतीकरण} सर्वेषां घातिताभ्राणाममृतीकरणं शृणु । त्रिफलोत्थकषायस्य पलान्यादाय षोडश ॥ १,६.४० ॥ गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश । एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना ॥ १,६.४१ ॥ द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् । {अभ्र:: मेदिच्. प्रोपेर्तिएस्} अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ॥ १,६.४२ ॥ योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् । मृतं चाभ्रं हरेद्रोगान् जरामृत्युमनेकधा ॥ १,६.४३ ॥ सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत् ॥ १,६.४४ ॥ १, ७ {हरिताल:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् । तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ १,७.१ ॥ {हरिताल:: शोधन} तालकं कणशः कृत्वा दशांशेन च टङ्कणम् । जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ॥ १,७.२ ॥ वस्त्रैश्चतुर्गुणैर्बद्ध्वा दोलायन्त्रे दिनं पचेत् । संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥ १,७.३ ॥ तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः । त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥ १,७.४ ॥ तत्फलैर्दशभिर्देयं रुद्ध्वा पुटं च पेषयेत् । एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ १,७.५ ॥ {हरिताल:: शोधन} तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् । दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥ १,७.६ ॥ तिलतैले पचेद्यामं यामं च त्रिफलाजलैः । एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥ १,७.७ ॥ {हरिताल:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्} तालको हरते रोगान् कुष्ठमृत्युज्वरापहः । शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥ १,७.८ ॥ {मनःशिला:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला । मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥ १,७.९ ॥ {मनःशिला:: शोधन} अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला । सप्तधा तैरजापित्तैर्घर्मे भाव्यं विशुद्धये ॥ १,७.१० ॥ {मनःशिला:: शोधन} जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला । दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥ १,७.११ ॥ क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥ १,७.१२ ॥ {रसक:: शोधन} नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् । दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥ १,७.१३ ॥ {तुत्थ:: शोधन} विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः । दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥ १,७.१४ ॥ पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ १,७.१५ ॥ {विमला:: शोधन} विमला त्रिविधं पाच्या रम्भातोयेन संयुता । अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥ १,७.१६ ॥ दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा । {विमल:: शोधन} कर्कटीमेषशृङ्ग्युत्थद्रवैर्जम्बीरजैर्द्रवैः ॥ १,७.१७ ॥ भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ १,७.१८ ॥ {माक्षिक:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् । कुरुते माक्षिको मृत्युमशुद्धो नात्र संशयः ॥ १,७.१९ ॥ {माक्षिक:: शोधन} माक्षिकं नरमूत्रेण क्वाथयेत्कोद्रवैर्द्रवैः । वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥ १,७.२० ॥ दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् । दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥ १,७.२१ ॥ एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये । {माक्षिक:: शोधन} माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥ १,७.२२ ॥ मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् । लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ १,७.२३ ॥ ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् । {माक्षिक:: शोधन} अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥ १,७.२४ ॥ द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् । तद्वटीं चान्धमूषायां विंशद्भिरुपलैः पचेत् ॥ १,७.२५ ॥ पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर्विशुध्यति ॥ १,७.२६ ॥ {माक्षिक:: शोधन} मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् । तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् । एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥ १,७.२७ ॥ {माक्षिक:: परीक्षा:: गोओदॄउअलित्य्} भङ्गे सुवर्णसंकाशोऽन्तः कृष्णो बहिश्छविः । बृहद्वर्णमिति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥ १,७.२८ ॥ व्यापयत्यङ्गमङ्गानि तैलबिन्दुरिवाम्भसि । न विना शोधनं सर्वे धातवः प्रबलादयः ॥ १,७.२९ ॥ रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥ १,७.३० ॥ {चोरल्:: मारण} प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् । वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥ १,७.३१ ॥ {उपरस (?):: मारण} कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् । तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥ १,७.३२ ॥ आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः । मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥ १,७.३३ ॥ आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युमाप्नुयात् ॥ १,७.३४ ॥ {शिलाजतु:: शोधन} शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् । गोमूत्रैस्त्रिफलाक्वाथैर्भृङ्गराजद्रवैर्जतुम् ॥ १,७.३५ ॥ मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः । {दरद:: शोधन} मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥ १,७.३६ ॥ सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् । {उपरस:: शोधन} सूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥ १,७.३७ ॥ शिग्रु कोशातकी वन्ध्या काकमाची च वायसी । आसामेकरसेनैव त्रिक्षारैर्लवणैर्युतम् ॥ १,७.३८ ॥ भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः । सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥ १,७.३९ ॥ शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये । पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥ १,७.४० ॥ ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः । शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥ १,७.४१ ॥ मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥ १,७.४२ ॥ {?:: सत्त्वपातन} गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः । ऊर्णा गुञ्जा क्षेत्रमीनमस्थीनि शशकस्य च ॥ १,७.४३ ॥ गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः । सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥ १,७.४४ ॥ कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये । मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥ १,७.४५ ॥ दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् । कोष्ठीयन्त्रे धमेद्गाढमङ्गारैश्च चिरोद्भवैः ॥ १,७.४६ ॥ त्रिवारं धमनादेव सत्त्वं पतति निर्मलम् । असाध्यान्मोचयेत्सत्त्वान्मृत्तिकादेश्च का कथा ॥ १,७.४७ ॥ {हरिताल:: सत्त्वपातन} लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् । तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥ १,७.४८ ॥ पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् । {??} चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् । चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् । {हरिताल:: सत्त्वपातन} तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥ १,७.४९ ॥ वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् । कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥ १,७.५० ॥ {हरिताल:: सत्त्वपातन} तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः । पूर्ववद्ग्राहयेत्सत्त्वं छिद्रमूषां निरुध्य च ॥ १,७.५१ ॥ {मनःशिला:: सत्त्वपातन} तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः । तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥ १,७.५२ ॥ {माक्षिक:: सत्त्वपातन} गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः । माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ १,७.५३ ॥ अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः । {माक्षिक (?):: सत्त्वपातन} जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥ १,७.५४ ॥ पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् । नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥ १,७.५५ ॥ ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥ १,७.५६ ॥ १, ८ {मेतल्स्} स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् । मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा ॥ १,८.१ ॥ {उपलोहाः} उपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् । एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु ॥ १,८.२ ॥ {मेतल्स्:: शोधन} तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके । क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा ॥ १,८.३ ॥ स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता । {मेतल्स्:: मारण} हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ १,८.४ ॥ पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् । शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी ॥ १,८.५ ॥ {गोल्द्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च । अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत् ॥ १,८.६ ॥ {पञ्चमृत्तिकाः} वल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे । {गोल्द्:: शोधन} इत्याद्याः मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १,८.७ ॥ पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति । {गोल्द्:: शोधन} भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका ॥ १,८.८ ॥ सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत् ॥ १,८.९ ॥ {सुब्स्तन्चेस्fओर्मारण ओf मेतल्स्} नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् । तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन ॥ १,८.१० ॥ {गोल्द्:: मारण} माक्षिकं नागचूर्णं च पिष्टमर्करसेन तु । हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः ॥ १,८.११ ॥ {गोल्द्:: मारण} स्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् । दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम् ॥ १,८.१२ ॥ {गोल्द्:: मारण} नागचूर्णं शिलां वज्रीक्षीरेण परियसितम् । तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात् ॥ १,८.१३ ॥ {गोल्द्:: मारण} मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् । पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ १,८.१४ ॥ आदाय पेषयेदम्लैर्मृन्नागं चाष्टमांशकम् । बद्ध्वा गजपुटे पच्यात्पूर्वनागयुतं युतम् ॥ १,८.१५ ॥ एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् । {गोल्द्:: मारण:: निरुत्थ} शुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः ॥ १,८.१६ ॥ अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् । शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ १,८.१७ ॥ अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च । त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ॥ १,८.१८ ॥ निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे । {गोल्द्:: मारण:: निरुत्थ} स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ॥ १,८.१९ ॥ अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् । तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम् ॥ १,८.२० ॥ देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् । षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम् ॥ १,८.२१ ॥ स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् । टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत् ॥ १,८.२२ ॥ त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् । धान्याभ्रकस्य भागैकमधश्चोर्ध्वं च दापयेत् ॥ १,८.२३ ॥ निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् । निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ॥ १,८.२४ ॥ {गोल्द्:: मारण:: निरुत्थ} शुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् । त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ १,८.२५ ॥ तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् । इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ॥ १,८.२६ ॥ {गोल्द्:: मारण} तथैव च राजवृक्षभल्लातैष्टंकणेन च । लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ॥ १,८.२७ ॥ तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे । हेममारभ्य तोलैकं माषैकं शुद्धनागकम् ॥ १,८.२८ ॥ लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः । अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ १,८.२९ ॥ गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः । {गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्} सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु ॥ १,८.३० ॥ बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥ १,८.३१ ॥ {सिल्वेर्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} आयुः शुक्रं बलं हन्ति रोगवेगं करोति च । अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः ॥ १,८.३२ ॥ {सिल्वेर्:: शोधन} नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । {सिल्वेर्:: मारण} माक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत् ॥ १,८.३३ ॥ तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् । {सिल्वेर्:: मारण} तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत् ॥ १,८.३४ ॥ स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् । रुद्ध्वा गजपुटे पच्यात्पूर्वोक्तैः पेषयेत्पुनः ॥ १,८.३५ ॥ भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः । लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत् ॥ १,८.३६ ॥ द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः । {सिल्वेर्:: मारण:: निरुत्थ} तारपत्रैस्त्रिभिर्भागैर्भागैकं शुद्धमाक्षिकम् ॥ १,८.३७ ॥ मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् । शोषयेदन्धयेत्तं च त्रिंशद्वन्योपलैः पचेत् ॥ १,८.३८ ॥ चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् । {सिल्वेर्:: मारण} रूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम् ॥ १,८.३९ ॥ अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् । रुद्ध्वा त्रिःपुटैः पच्यात्पञ्चविंशद्वनोपलैः ॥ १,८.४० ॥ म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे । {सिल्वेर्:: मारण} रसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम् ॥ १,८.४१ ॥ मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः । हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ १,८.४२ ॥ क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत्पुनः । तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित् ॥ १,८.४३ ॥ पुटैर्विंशतिभिर्भस्म जायते नात्र संशयः । भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः ॥ १,८.४४ ॥ जायते तद्विधानेन सर्वरोगापहारकम् ॥ १,८.४५ ॥ {चोप्पेर्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अपक्वताम्रमायुर्घ्नं कान्तिघ्नं सर्वधातुहा । भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत् ॥ १,८.४६ ॥ {चोप्पेर्:: शोधन} स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकं लिप्त्वा । प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥ १,८.४७ ॥ वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् । खटिका लवणं तक्रैरारनालैश्च पेषयेत् ॥ १,८.४८ ॥ तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् । षड्वारमम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये ॥ १,८.४९ ॥ {चोप्पेर्:: शोधन} गोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना । शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना ॥ १,८.५० ॥ {चोप्पेर्:: मारण} गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् । कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत् ॥ १,८.५१ ॥ उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् । जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा ॥ १,८.५२ ॥ पिष्ट्वा पिष्ट्वा पचेत्तद्वत्सगन्धं च चतुष्पुटे । मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ॥ १,८.५३ ॥ अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् । {चोप्पेर्:: मारण} ताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत् ॥ १,८.५४ ॥ सितशर्करयाप्येवं पुटत्रये मृतं भवेत् । {चोप्पेर्:: मारण} पाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः ॥ १,८.५५ ॥ ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् । सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत् ॥ १,८.५६ ॥ एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् । {चोप्पेर्:: मारण} ताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत् ॥ १,८.५७ ॥ आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् । तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत् ॥ १,८.५८ ॥ तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् । आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत् ॥ १,८.५९ ॥ स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् । {चोप्पेर्:: मारण} किंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम् ॥ १,८.६० ॥ तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् । गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः ॥ १,८.६१ ॥ {चोप्पेर्:: मारण} ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः । क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः ॥ १,८.६२ ॥ तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् । यामैकं तीव्रपाकेन भस्मीभवति निश्चितम् ॥ १,८.६३ ॥ {चोप्पेर्:: मारण} सूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् । द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत् ॥ १,८.६४ ॥ सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् । चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ १,८.६५ ॥ जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् । म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ १,८.६६ ॥ {चोप्पेर्:: मारण (शोधन?)} नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् । भागैकं श्वेतकाचं च भागपञ्चैकटंकणम् ॥ १,८.६७ ॥ मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् । ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम् ॥ १,८.६८ ॥ निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् । {चोप्पेर्:: मृत:: मेदिच्. अप्प्लिचतिओन्} अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् ॥ १,८.६९ ॥ तद्गोलं सूरणस्यान्तरुर्ध्वारुद्ध्वा तु लेपयेत् । शुष्कं गजपुटे पच्यात्सर्वदोषहरो भवेत् ॥ १,८.७० ॥ वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन । {चोप्पेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्} ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम् ॥ १,८.७१ ॥ कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् । परिणामशूलमर्शांसि मन्दाग्निं च विनाशयेत् ॥ १,८.७२ ॥ {तिन्, लेअद्:: अमृत:: मेदिच्. प्रोपेर्तिएस्} पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ । मेहपाण्डूदरवातकफमृत्युकरौ किल ॥ १,८.७३ ॥ {लेअद्:: शोधन} निर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् । नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत् ॥ १,८.७४ ॥ निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् । लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये ॥ १,८.७५ ॥ {लेअद्:: शोधन} निशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् । गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम् ॥ १,८.७६ ॥ यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् । तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा ॥ १,८.७७ ॥ {लेअद्:: मारण:: निरुत्थ} अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः । क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके ॥ १,८.७८ ॥ यावद्भस्म भवेदेतच्च भस्म तुल्यं मनःशिलाम् । जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ १,८.७९ ॥ स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः । एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः ॥ १,८.८० ॥ {लेअद्:: मारण} अथवा नागपत्राणि चूर्णलिप्तानि खर्परे । अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः ॥ १,८.८१ ॥ भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः । यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ॥ १,८.८२ ॥ दण्डेन मर्दयेत्क्वाथ्यमुद्धृत्य चित्रकद्रवैः । गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु ॥ १,८.८३ ॥ {लेअद्:: मारण} चिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः । अपामार्गार्जुनाश्वत्थभस्मभिर्भर्जयेद्दृढम् ॥ १,८.८४ ॥ लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च । दण्डपलाशकेनैव म्रियते नात्र संशयः ॥ १,८.८५ ॥ {लेअद्:: मारण} पिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् । तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत् ॥ १,८.८६ ॥ वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् । यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ॥ १,८.८७ ॥ तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः । तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत् ॥ १,८.८८ ॥ द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह । नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ॥ १,८.८९ ॥ {लेअद्:: मारण} कुनटी माक्षिकं चैव समभागं तु कारयेत् । अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत् ॥ १,८.९० ॥ {लेअद्:: मृत:: मेदिच्. प्रोपेर्तिएस्} सतिक्तमधुरो नागो मृतो भवति भस्मसात् । आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा ॥ १,८.९१ ॥ {तिन्:: मारण} माक्षिकं हरितालं च पलाशस्वरसेन च । कृतकल्केन संलिप्य वंगपत्राणि मारयेत् ॥ १,८.९२ ॥ नागवच्छोधयेद्वङ्गं तद्वदश्वत्थचिंचयोः । तद्भस्म हरितालं च तुल्यमम्लेन केनचित् ॥ १,८.९३ ॥ पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे । उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ॥ १,८.९४ ॥ पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् । एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात् ॥ १,८.९५ ॥ {तिन्:: मारण} वङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् । चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः ॥ १,८.९६ ॥ पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् । शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम् ॥ १,८.९७ ॥ सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् । रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत् ॥ १,८.९८ ॥ {तिन्:: मारण} अक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् । ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत् ॥ १,८.९९ ॥ गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् । {तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्} सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित् ॥ १,८.१०० ॥ लेखिनं पित्तलं किंचित्सर्वदेहामयापहम् ॥ १,८.१०१ ॥ १, ९ {इरोन्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्} अशुद्धममृतं लौहमायुर्हानिरुजाकरम् । हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥ १,९.१ ॥ {कान्तलोह:: परीक्षा} पात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः । हिङ्गुर्गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च । पाके दग्धं भवति शिखराकारता नैव भूमौ । कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ १,९.२ ॥ कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् । स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥ १,९.३ ॥ कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् । सर्वरोगहरमेतत्सर्वकुष्ठहरं परम् ॥ १,९.४ ॥ {इरोन्:: सुब्त्य्पेस्:: शोधन} शशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् । कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥ १,९.५ ॥ {इरोन्:: शोधन:: अद्रि} त्रिफलाष्टगुणैस्तोयैस्त्रिफलाषोडशं पलम् । तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥ १,९.६ ॥ कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् । एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥ १,९.७ ॥ {इरोन्:: शोधन} त्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् । प्रक्षालयेदारनाले शोष्यं शुद्धिमवाप्नुयात् ॥ १,९.८ ॥ {इरोन्:: सुब्त्य्पेस्:: शोधन} रक्तमाला हंसपादो गोजिह्वा त्रिफलामृता । गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥ १,९.९ ॥ अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा । सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥ १,९.१० ॥ सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते । तस्मात्सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥ १,९.११ ॥ अयः पञ्चपलादूर्ध्वं यावत्पलत्रयोदशात् । आदौ मन्त्रस्ततः कर्म यथाकर्तव्यमुच्यते ॥ १,९.१२ ॥ {इरोन्:: मारण} हिङ्गुलस्य पलान् पञ्च नारीस्तन्येन पेषयेत् । तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥ १,९.१३ ॥ रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः । जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥ १,९.१४ ॥ पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः । चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥ १,९.१५ ॥ हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् । {इरोन्:: मारण} अर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥ १,९.१६ ॥ तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् । दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥ १,९.१७ ॥ अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः । {इरोन्:: मारण} दन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥ १,९.१८ ॥ दिनैकं भावयेद्घर्मे द्रवं देयं पुनः पुनः । रुद्ध्वा रात्रौ पुटैः पच्यादेभिर्द्रावैश्च भावयेत् ॥ १,९.१९ ॥ एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः । {इरोन्:: मारण} चिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥ १,९.२० ॥ मृत्पात्रस्थं क्षिपेद्घर्मे दन्त्या द्रावैः प्रपूरयेत् । पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥ १,९.२१ ॥ म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् । {इरोन्:: मारण} कान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर्द्रवैः ॥ १,९.२२ ॥ आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः । त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥ १,९.२३ ॥ गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् । धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥ १,९.२४ ॥ रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् । {इरोन्:: मारण} द्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥ १,९.२५ ॥ दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः । वन्ध्याभृङ्गीपुनर्नवयोर्गोमूत्रैश्च दिनं पुनः ॥ १,९.२६ ॥ गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् । त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ॥ १,९.२७ ॥ रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् । दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥ १,९.२८ ॥ एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः । {इरोन्:: मारण} माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचानि च ॥ १,९.२९ ॥ पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् । सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥ १,९.३० ॥ कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः । षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥ १,९.३१ ॥ अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् । निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥ १,९.३२ ॥ {इरोन्:: मारण} तिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे । धारयेत्कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥ १,९.३३ ॥ लेप्यं पुनः पुनः कुर्यात्दिनान्तान्तं प्रलेपयेत् । त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥ १,९.३४ ॥ {इरोन्:: मारण} स्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् । पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥ १,९.३५ ॥ तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् । षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥ १,९.३६ ॥ एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् । भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥ १,९.३७ ॥ शतावरी विदार्याश्च मूलक्वाथे च त्रैफले । पिष्ट्वा तत्पूर्ववत्स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥ १,९.३८ ॥ ततः पुनर्नवातोयैर्दशमूलकषायकैः । बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥ १,९.३९ ॥ ब्रह्मबीजस्तथाशिग्रुक्वाथे गोपयसापि वा । प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥ १,९.४० ॥ भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् । प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥ १,९.४१ ॥ म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् । सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥ १,९.४२ ॥ {इरोन्:: मारण} मध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् । रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥ १,९.४३ ॥ तदा लौहं मृतं विद्यादमृतं मारयेत्पुनः ॥ १,९.४४ ॥ {इरोन्:: मारण:: निरुत्थ} गन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ १,९.४५ ॥ इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥ १,९.४६ ॥ {इरोन्:: मारण:: वारितर} शुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् । द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ १,९.४७ ॥ यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके । आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥ १,९.४८ ॥ धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् । सम्पिष्य गालयेद्वस्त्रे सद्यो वारितरं भवेत् ॥ १,९.४९ ॥ कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् । स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥ १,९.५० ॥ सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् । {इरोन्:: मृत:: मेदिच्. उसे} अन्नभूतमायसाद्यं सर्वरोगज्वरापहम् ॥ १,९.५१ ॥ त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥ १,९.५२ ॥ मृतानि लौहानि वशीभवन्ति । निघ्नन्ति युक्त्या ह्यखिलामयानि । अभ्यासयोगाद्दृढयोगसिद्धम् । कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥ १,९.५३ ॥ {इरोन्:: मृत:: अमृतीकरण} तोयाष्टभागशेषेन त्रिफलापलपञ्चकम् । घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥ १,९.५४ ॥ पाचयेत्ताम्रपात्रे च लौहदर्व्या विचालयेत् । मृद्वग्निना पचेत्तावद्यावज्जीर्यति गन्धकम् ॥ १,९.५५ ॥ लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् । योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥ १,९.५६ ॥ एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः । {इरोन्:: मृत:: अमृतीकरण} गुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥ १,९.५७ ॥ कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् । घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥ १,९.५८ ॥ जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥ १,९.५९ ॥ ओममृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् । {इरोन्:: मृत:: मेदिच्. प्रोपेर्तिएस्} आयुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् । आमवातहरं लौहं वलीपलितनाशनम् ॥ १,९.६० ॥ {उपलोह:: शोधन} त्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् । कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥ १,९.६१ ॥ रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा । {उपलोह:: मारण} ताम्रवन्मारयेत्तेषां कृत्वा सर्वत्र योजयेत् ॥ १,९.६२ ॥ {ब्रोन्शे:: मेदिच्. प्रोपेर्तिएस्} कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् । कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥ १,९.६३ ॥ {ब्रस्स्:: मेदिच्. प्रोपेर्तिएस्} रीतिका च गलं रूक्षमतिक्तलवणं सरम् । शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥ १,९.६४ ॥ {मण्डूर:: प्रोदुच्तिओन्} अल्पाङ्गारे धमेत्किट्टं लौहजं च गवां जलैः । सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥ १,९.६५ ॥ मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् । किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥ १,९.६६ ॥ तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् । तस्मात्कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥ १,९.६७ ॥ १, १० तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले । यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥ १,१०.१ ॥ {धत्तूर:: ओइल्} धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् । आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥ १,१०.२ ॥ सुतप्तं वस्त्रपूतं च पातयेत्तैलमाहरेत् । {शिग्रु:: ओइल्} शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥ १,१०.३ ॥ ग्राह्यं धत्तूरवत्तैलमेकैकस्य पृथक्पृथक् । यथा धत्तूरजं तैलं क्वाथाद्घर्मे समुद्धृतम् ॥ १,१०.४ ॥ तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः । {अङ्कोट:: ओइल्} अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥ १,१०.५ ॥ वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् । अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥ १,१०.६ ॥ मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् । क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥ १,१०.७ ॥ क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् । काकतुण्ड्यपामार्गोत्थक्वाथात्तैलं समाहरेत् ॥ १,१०.८ ॥ {कटुतुम्बी:: ओइल्} बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् । शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥ १,१०.९ ॥ निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह । मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥ १,१०.१० ॥ {ओइल्fरों कृष्णा अन्द्काकतुण्डी} कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् । कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥ १,१०.११ ॥ धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् । धात्रीफलरसैर्भाव्यं चूर्णं पाषाणबीजकम् ॥ १,१०.१२ ॥ दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके । {ओइल्:: fरों गुञ्जा अन्द्करञ्ज} गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥ १,१०.१३ ॥ सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् । उद्धृत्य धारयेद्घर्मे तैलं पतति पीडनात् ॥ १,१०.१४ ॥ {ओइल्:: ज्योतिष्मती} वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् । ज्योतिष्मत्युत्थबीजानामातपे तैलमाहरेत् ॥ १,१०.१५ ॥ {ओइल्:: पुत्रजीव} पुत्रजीवस्य बीजानां चूर्णमगस्त्यबीजजम् । आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक्पृथक् ॥ १,१०.१६ ॥ {ओइल्:: बिल्व} नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् । दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥ १,१०.१७ ॥ {ओइल्:: अङ्कोल} निस्तुषाङ्कोलबीजानां सुखं किंचिद्विघर्षयेत् । प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥ १,१०.१८ ॥ तन्मुखे टंकणं चूर्णं किंचित्किंचित्प्रलेपयेत् । धारयेदातपे तीव्रे मुखात्तैलं समाहरेत् ॥ १,१०.१९ ॥ {केशतैल} शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् । छिद्राधः स्थापयेद्भाण्डं छिद्रे केशं च दापयेत् ॥ १,१०.२० ॥ जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् । तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥ १,१०.२१ ॥ तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् । {ओइल्:: एxत्रच्तिओन् (गेन्.)} अपक्वभानुपत्राणां रसमादाय भावयेत् ॥ १,१०.२२ ॥ समस्तं बीजचूर्णं चोक्तानुक्तं पृथक्पृथक् । आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥ १,१०.२३ ॥ {ओइल्} तथैवोत्तरवारुण्याः कषायेण समाहरेत् । तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥ १,१०.२४ ॥ {ओइल्} सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा । सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥ १,१०.२५ ॥ {ओइल्} वंशादिसर्वकाष्ठानां नारिकेलकपालकम् । तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥ १,१०.२६ ॥ ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥ १,१०.२७ ॥ {वत्सनाभ} वत्सनाभं विषं स्वादु दीपनं कफवातजित् । त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥ १,१०.२८ ॥ बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् । सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥ १,१०.२९ ॥ उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु । अव्यापकं विषहरं वातातपविशोषितम् ॥ १,१०.३० ॥ रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् । अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥ १,१०.३१ ॥ आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक्भवेत् । मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥ १,१०.३२ ॥ तस्माद्विषं योगवाहे योज्यं योगे रसायने । तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥ १,१०.३३ ॥ मात्रात्रयं समाख्यातमुत्तमाधममध्यम् । दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥ १,१०.३४ ॥ क्षीराशिने प्रदातव्यं रसायनवते नरे । न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥ १,१०.३५ ॥ क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे । गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ १,१०.३६ ॥ न दातव्यं न भोक्तव्यं विसंवादे कदाचन । आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ १,१०.३७ ॥ अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् । अमृतमिति वदेदिति क्रमोऽयम् । ओं सिद्धगुरुभ्यो नमः । परमगुरुभ्यो नमः । परात्परगुरुभ्यो नमः । परमेष्ठिगुरुभ्यो नमः । {वेगेतब्ले पोइसोन्स्} सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् । वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥ १,१०.३८ ॥ इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् । {पोइसोन्स्} कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥ १,१०.३९ ॥ कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् । केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥ १,१०.४० ॥ सक्तुकाद्यान् प्रयुञ्जीत सर्वरोगे रसायने । एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥ १,१०.४१ ॥ विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् । तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत्कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥ १,१०.४२ ॥ श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा । लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥ १,१०.४३ ॥ पीता वा मधुरा किंचिद्वैश्यजातिस्तु धूसरा । कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥ १,१०.४४ ॥ क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् । जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥ १,१०.४५ ॥ शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् । ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥ १,१०.४६ ॥ क्षिप्तं दुग्धे विषं वैद्यो जानीयात्क्रमशो यदि । श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥ १,१०.४७ ॥ तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् । विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥ १,१०.४८ ॥ इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् । दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥ १,१०.४९ ॥ संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥ १,१०.५० ॥ नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् । आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग्भवेत् ॥ १,१०.५१ ॥ अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् । रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥ १,१०.५२ ॥ लिहेद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम् । पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥ १,१०.५३ ॥ एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् । विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥ १,१०.५४ ॥ विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् । चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥ १,१०.५५ ॥ विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् । मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥ १,१०.५६ ॥ वटिका पूर्ववत्कार्या वटिका योगवाहिका । निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥ १,१०.५७ ॥ शोषं चैवातिसारं च कुरुते जङ्गमं विषम् । स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥ १,१०.५८ ॥ फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् । न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥ १,१०.५९ ॥ विषमेव तदादाय मज्जत्यम्बुनिधाविव । तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥ १,१०.६० ॥ प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति । निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति । {शिलाजतु:: ओरिगिन्} हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः । जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥ १,१०.६१ ॥ {शिलाजतु:: मेदिच्. प्रोपेर्तिएस्} अनघं चाल्पकषायं च कटु पाके शिलाजतु । नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ १,१०.६२ ॥ {शिलाजतु:: fरों गोल्द्:: मेदिच्. प्रोपेर्तिएस्} हेम्नोऽथ रजतात्ताम्राद्वरं कालायसादपि । मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥ १,१०.६३ ॥ विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् । {शिलाजतु:: fरों सिल्वेर्:: मेदिच्. प्रोपेर्तिएस्} राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥ १,१०.६४ ॥ {शिलाजतु:: fरों चोप्पेर्:: मेदिच्. प्रोपेर्तिएस्} ताम्राद्बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु । {शिलाजतु:: fरोमिरोन्:: मेदिच्. प्रोपेर्तिएस्} यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥ १,१०.६५ ॥ विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् । गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥ १,१०.६६ ॥ रसायनप्रयोगेषु पश्चिमं तु विशिष्यते । यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥ १,१०.६७ ॥ विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः । {शिलाजतु:: फ्य्स्. प्रोपेर्तिएस्} लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥ १,१०.६८ ॥ तृणाद्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् । दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् । क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेदित्येकः पक्षः । वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः । भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य । केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत्सर्वं ग्राह्यम् । ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा । सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् । गर्दभाण्डोऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥ १,१०.६९ ॥ शिरीषागुरुकालीयपूगपूतिककर्कटाः । सालसारादिरप्येष गणः श्लेष्मगदापहः ॥ १,१०.७० ॥ मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः । एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥ १,१०.७१ ॥ द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् । भवेत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥ १,१०.७२ ॥ भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् । तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥ १,१०.७३ ॥ दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान्निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥ १,१०.७४ ॥ जायन्ते वामरुक्वाथे जनपदे ग्रीष्मेऽर्कतापार्दिताः । शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥ १,१०.७५ ॥ हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥ १,१०.७६ ॥ वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥ १,१०.७७ ॥ ग्राह्याः शुभाः परिहरेच्चिरकालजातानङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥ १,१०.७८ ॥ {गुग्गुलु:: मेदिच्. प्रोपेर्तिएस्} स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः । वृष्यो मार्गविशोधनेऽतिविशदस्तीक्ष्णो विकाशी सरः ॥ १,१०.७९ ॥ सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः । धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥ १,१०.८० ॥ {गुग्गुलु:: शोधन} दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥ १,१०.८१ ॥ {चोन्छ्:: शोधन} शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् । रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८२ ॥ {मोनेय्चोwरिए:: शोधन} वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे । प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥ १,१०.८३ ॥ पश्चादुद्धृत्य गृह्णीयाद्वराटीं शुद्धिमागताम् ॥ १,१०.८४ ॥ {पेअर्ल्:: शोधन} भौमिकं जलमादाय मुक्तां च व्युषितामपि । त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८५ ॥ २ २, १ जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी । वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ २,१.१ ॥ अथातः सम्प्रवक्ष्यामि देहसिद्धिं सुशोभनाम् । यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २,१.२ ॥ न देहेन विना किंचिदिष्टमस्ति जगत्त्रये । तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ २,१.३ ॥ शुभनक्षत्रदिवसे वमने रेचने कृते । ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ २,१.४ ॥ त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् । विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ २,१.५ ॥ क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् । श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ २,१.६ ॥ सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् । घृतैर्लेह्यं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ २,१.७ ॥ एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् । कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ २,१.८ ॥ {रसायन} निर्वाते भूगृहे वाथ बाह्यचिन्ताविवर्जितः । जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नभुग्भवेत् ॥ २,१.९ ॥ षष्ट्योदनं यवान्नं च गोधूमं मुद्गयूषकम् । जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ २,१.१० ॥ बलान्नं वाथ भुञ्जीत शाकलोणविवर्जितम् । अभ्यङ्गं मस्तुना कुर्यात्स्नानं चैव सुखाम्बुना ॥ २,१.११ ॥ काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् । रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ २,१.१२ ॥ मैथुनेन विना तस्य ह्यजीर्णो जायते रसः । अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरोऽरतिः ॥ २,१.१३ ॥ कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि । सेवेत सुभगां तस्माद्दुर्भगां परिवर्जयेत् ॥ २,१.१४ ॥ अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि । कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ २,१.१५ ॥ बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् । मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ २,१.१६ ॥ रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् । कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ २,१.१७ ॥ आवर्जनाद्भवेच्छूलं निद्रालस्यं ज्वरोऽरतिः । त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ २,१.१८ ॥ शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् । सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ २,१.१९ ॥ वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः । क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २,१.२० ॥ पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् । मूलं वा कारवल्ल्युत्थं सैन्धवं वा गवां जलैः ॥ २,१.२१ ॥ त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् । अपथ्यशीलिनामेतत्कथितं रससेविनाम् ॥ २,१.२२ ॥ अमुमेव विधिं कुर्याद्रसायनविधौ किल । अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २,१.२३ ॥ चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् । खादेत्ताम्बूलसंयुक्तं रससङ्क्रामणे हितम् ॥ २,१.२४ ॥ अथात्र वक्ष्यते सम्यगादौ पारदमारणम् । समुखस्य रसेन्द्रस्य वासनामुखितस्य वा ॥ २,१.२५ ॥ क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः । तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २,१.२६ ॥ मर्दयेत्त्रिदिनं खल्वे मूषायां चान्धितं ततः । करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २,१.२७ ॥ स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः । तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत् ॥ २,१.२८ ॥ भस्मसूतं भवेत्तद्वै योज्यं सर्वरसायने । शुद्धसूतं समं स्वर्णं याममम्लैर्विमर्दयेत् ॥ २,१.२९ ॥ प्रक्षाल्य ग्राहयेत्पिष्टीं पिष्ट्यर्धं शुद्धगन्धकम् । गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ २,१.३० ॥ स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् । दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ २,१.३१ ॥ दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् । चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ २,१.३२ ॥ तुषाग्निना लघुत्वेन जायते भस्मसूतकः । शुद्धसूतस्त्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ २,१.३३ ॥ दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् । माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ २,१.३४ ॥ तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः । तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ २,१.३५ ॥ करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् । शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ २,१.३६ ॥ सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् । बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ २,१.३७ ॥ गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे । चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ २,१.३८ ॥ मृन्मयं सम्पुटं कृत्वा छायाशुष्कं च कारयेत् । लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ २,१.३९ ॥ सर्वं तोयैः प्रपिष्याथ तेनैव सम्पुटोदरम् । लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ २,१.४० ॥ विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः । मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ २,१.४१ ॥ काचकूप्या ह्यभावे तु निरुन्ध्याच्छरावसम्पुटे । पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ २,१.४२ ॥ माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् । द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ २,१.४३ ॥ तत्सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् । दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ २,१.४४ ॥ ऊर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे । उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ २,१.४५ ॥ द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः । क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ २,१.४६ ॥ स्नुह्या वा हेमवल्ल्या वा क्षीरैः शुद्धरसं दिनम् । मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ २,१.४७ ॥ पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् । शुद्धसूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ २,१.४८ ॥ तत्सर्वं भृङ्गजैर्द्रावैर्दिनमेकं विमर्दयेत् । वज्रमूषान्धितं ध्मातं म्रियते शशिसन्निभम् ॥ २,१.४९ ॥ द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाथ किंवा श्वेताङ्कुलद्रवैः ॥ २,१.५० ॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । सम्पुटे मृन्मये रुद्ध्वा करीषाग्नौ दिवानिशि ॥ २,१.५१ ॥ पचेत्तुषाग्निना वाथ त्रिदिनान्म्रियते ध्रुवम् । शुद्धसूतं मृतं वज्रं समांशं तप्तखल्वके ॥ २,१.५२ ॥ हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् । बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ २,१.५३ ॥ तत्र पूर्वरसं रुद्ध्वा त्रिदिनं तुषवह्निना । पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ २,१.५४ ॥ एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ २,१.५५ ॥ वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वादिखण्डे वा तथा ज्ञेयं रसायने ॥ २,१.५६ ॥ एवं मृतो रसवरः परमामूतः स्यात्तत्सेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ २,१.५७ ॥ २, २ धर्मज्ञैः शिववत्सलैर्निर्जरैर्भूपैर्महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि । रक्ष्यं गात्रमनन्तपुण्यनिचये मुक्तिश्च यस्माद्भवेत्तद्वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥ २,२.१ ॥ अभ्रकं भक्षयेदादौ मारितं चामृतीकृतम् । मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥ २,२.२ ॥ यस्मादभ्रं रसक्षेत्रं ततः कुर्याद्रसायनम् । अक्षेत्रीकरणे सूतो ह्यमृतो विषतां व्रजेत् ॥ २,२.३ ॥ फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा । वज्रपारदयोर्भस्म समभागं प्रकल्पयेत् ॥ २,२.४ ॥ सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि । हंसपाद्या द्रवैरेव तद्गोलं चान्धितं पुटेत् ॥ २,२.५ ॥ अर्कक्षीरैः पुनर्मर्द्यं तद्वद्गजपुटे पचेत् । भक्षयेत्सर्षपवृद्धं यावन्माषं विवर्धयेत् ॥ २,२.६ ॥ शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः । चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥ २,२.७ ॥ समं सर्वं सदा चानु भक्ष्यं स्यात्क्रामणे हितम् । मासषट्कप्रयोगेण जीवेदाचन्द्रतारकम् ॥ २,२.८ ॥ वलीपलितनिर्मुक्तो दिव्यकायो महाबलः । मृतसूताद्द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥ २,२.९ ॥ द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । तत्सर्वं भृङ्गजैर्द्रावैर्मर्दितं भावयेत्त्र्यहम् ॥ २,२.१० ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.११ ॥ चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ २,२.१२ ॥ पलैकं मधुना लेह्यं क्रामकं परमं रसे । वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ २,२.१३ ॥ तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् । रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ २,२.१४ ॥ उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः । माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ २,२.१५ ॥ मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः । वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ २,२.१६ ॥ पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः । सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ २,२.१७ ॥ सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् । शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ २,२.१८ ॥ त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् । भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ २,२.१९ ॥ माषैकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् । मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २,२.२० ॥ पलैकैकं पिबेच्चानु क्रामकं परमं हितम् । रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २,२.२१ ॥ यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् । निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २,२.२२ ॥ जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् । पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २,२.२३ ॥ धात्रीफलरसैर्वाथ क्रामकं ह्यनुपानकम् । मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २,२.२४ ॥ विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् । आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २,२.२५ ॥ चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् । सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत्पचेत् ॥ २,२.२६ ॥ तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः । वर्षमात्राञ्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,२.२७ ॥ वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् । पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥ २,२.२८ ॥ मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः । एतत्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् ॥ २,२.२९ ॥ वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः । लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ २,२.३० ॥ उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् । भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ २,२.३१ ॥ तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् । लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ २,२.३२ ॥ रसोऽयमुदयादित्यो जरामृत्युहरः परः । पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ २,२.३३ ॥ मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् । पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ २,२.३४ ॥ भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् । सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ २,२.३५ ॥ धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ २,२.३६ ॥ रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् । जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ २,२.३७ ॥ वटक्षीरैस्त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् । वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ २,२.३८ ॥ क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ २,२.३९ ॥ उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् । चन्द्रवृद्ध्या सदा भक्ष्यं यावत्षोडशगुञ्जकम् ॥ २,२.४० ॥ चूर्णमुत्तरवारुण्या वाकुच्या देवदालिजम् । मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ २,२.४१ ॥ वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् । रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.४२ ॥ मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् । सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ २,२.४३ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥ २,२.४४ ॥ अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ २,२.४५ ॥ रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ २,२.४६ ॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ २,२.४७ ॥ माषैकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ २,२.४८ ॥ श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् । भक्षयेद्वा सिता सार्धं क्रामकं परमे रसे ॥ २,२.४९ ॥ मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ २,२.५० ॥ दिनैकं मधुना पच्यान्निष्कैकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ २,२.५१ ॥ समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ २,२.५२ ॥ एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ २,२.५३ ॥ तत्सर्वं भृङ्गजैर्द्रावैर्मर्दयेद्दिनसप्तकम् । षड्वारं चाङ्कुलीतैलैर्भावयित्वाथ भक्षयेत् ॥ २,२.५४ ॥ माषमात्रं तु वर्षैकं रसोऽयं कालकण्टकः । पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ २,२.५५ ॥ जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः । मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ २,२.५६ ॥ तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा । षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ २,२.५७ ॥ अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् । भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥ २,२.५८ ॥ मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत्पलम् । क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ २,२.५९ ॥ त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् । लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ २,२.६० ॥ स्नुह्यर्कपयसा मर्द्यं तत्सर्वं दिवसत्रयम् । तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥ २,२.६१ ॥ ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद्दृढम् । गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ २,२.६२ ॥ अब्दैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ २,२.६३ ॥ छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् । मृतसूतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ २,२.६४ ॥ मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् । दिव्यौषधदलद्रावैर्दिनं मर्द्यं तमन्धयेत् ॥ २,२.६५ ॥ ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् । एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ २,२.६६ ॥ जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः । काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ २,२.६७ ॥ मधुना भक्षयेत्कर्षमनु स्यात्क्रामकं परम् । मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ २,२.६८ ॥ शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् । रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ २,२.६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ २,२.७० ॥ तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ २,२.७१ ॥ मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ २,२.७२ ॥ तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ २,२.७३ ॥ सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः । चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ २,२.७४ ॥ सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयंकरः ॥ २,२.७५ ॥ तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु । मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ २,२.७६ ॥ त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ २,२.७७ ॥ तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ २,२.७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ २,२.७९ ॥ अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ २,२.८० ॥ स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ २,२.८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥ २,२.८२ ॥ सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पावयेद्दिनम् ॥ २,२.८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥ २,२.८४ ॥ रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च ॥ २,२.८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ २,२.८६ ॥ शुद्धताम्रस्य भागैकं द्विषट्शुद्धरसस्य च । त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥ २,२.८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ २,२.८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णं पुटे पच्यादेवं षड्गुणगन्धकम् ॥ २,२.८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥ २,२.९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ २,२.९१ ॥ कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि । तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ २,२.९२ ॥ दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ २,२.९३ ॥ अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । एव पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ २,२.९४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै । चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ २,२.९५ ॥ स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ २,२.९६ ॥ ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ २,२.९७ ॥ ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत्त्र्यहम् । वज्रमूषान्धितं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ २,२.९८ ॥ मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ २,२.९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । सप्ताहं भृङ्गजैर्द्रावैर्नीलमुण्डीफलत्रयम् ॥ २,२.१०० ॥ भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥ २,२.१०१ ॥ तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ २,२.१०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ २,२.१०३ ॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् । कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥ २,२.१०४ ॥ कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः । शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ २,२.१०५ ॥ सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥ २,२.१०६ ॥ त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् । तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ २,२.१०७ ॥ वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये । स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ २,२.१०८ ॥ तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥ २,२.१०९ ॥ शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया । पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ २,२.११० ॥ एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ २,२.१११ ॥ वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ २,२.११२ ॥ पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ २,२.११३ ॥ जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः । वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ २,२.११४ ॥ भल्लातबीजचूर्णं च हयगन्धामृताघृतैः । पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ २,२.११५ ॥ मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् । तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥ २,२.११६ ॥ सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् । महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ २,२.११७ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ २,२.११८ ॥ इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,२.११९ ॥ पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् । क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥ २,२.१२० ॥ लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् । स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ २,२.१२१ ॥ बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् । शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ २,२.१२२ ॥ इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् । तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ २,२.१२३ ॥ तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥ २,२.१२४ ॥ त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् । माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ २,२.१२५ ॥ सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् । दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ २,२.१२६ ॥ मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ २,२.१२७ ॥ सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥ २,२.१२८ ॥ एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् । मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ २,२.१२९ ॥ वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः । वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ २,२.१३० ॥ चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् । पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ २,२.१३१ ॥ मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ २,२.१३२ ॥ माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् । जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ २,२.१३३ ॥ वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् । शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ २,२.१३४ ॥ त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः । पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥ २,२.१३५ ॥ रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ २,२.१३६ ॥ कृष्णवर्णागवाज्येन समेन सह तान् पचेत् । लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ २,२.१३७ ॥ तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् । मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥ २,२.१३८ ॥ पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । शिवामृतो रसो नाम जरामृत्युहरो नृणाम् । आयुर्ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥ २,२.१३९ ॥ एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद्येषां तु दृष्टं मया । तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ २,२.१४० ॥ २, ३ दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ २,३.१ ॥ काकतुम्बी काकमाची निर्गुण्डी च कुमारिका । गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २,३.२ ॥ पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि । पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ २,३.३ ॥ ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् । दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥ २,३.४ ॥ आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ २,३.५ ॥ पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः । इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ २,३.६ ॥ जायते गुटिका दिव्या मृतसंजीवनी परा । वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥ २,३.७ ॥ हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा । वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥ २,३.८ ॥ वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् । शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ २,३.९ ॥ अनेन त्वनुपानेन देहे संक्रमते रसः । समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ २,३.१० ॥ तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः । सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ २,३.११ ॥ निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ २,३.१२ ॥ तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे । लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ २,३.१३ ॥ यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः । सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ २,३.१४ ॥ टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च । खदिराङ्गारयोगेन धमेद्यावद्द्रुतं भवेत् ॥ २,३.१५ ॥ ततस्तं विडलिप्तायां मूषायां च निवेशयेत् । तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन् धमन् ॥ २,३.१६ ॥ जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् । त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ २,३.१७ ॥ जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ २,३.१८ ॥ शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्यच्छति ध्रुवम् । कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥ २,३.१९ ॥ कर्षैकां भक्षयेदाज्यैरनु स्यात्क्रामेण हितम् । आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २,३.२० ॥ स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् । भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २,३.२१ ॥ क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् । उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥ २,३.२२ ॥ मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकः । चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥ २,३.२३ ॥ अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् । पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २,३.२४ ॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥ २,३.२५ ॥ क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् । तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २,३.२६ ॥ जायते कनकं दिव्यं सत्यं शंकरभाषितम् । समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २,३.२७ ॥ जारयेद्विडयोगेन ततो मर्द्यं दिनत्रयम् । दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २,३.२८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी । पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २,३.२९ ॥ वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ २,३.३० ॥ अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् । तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ २,३.३१ ॥ ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका । वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ २,३.३२ ॥ रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् । रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥ २,३.३३ ॥ जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी । भूतारवटचूर्णं तु पलैकं सितया युतम् ॥ २,३.३४ ॥ भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः । कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ २,३.३५ ॥ शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् । तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ २,३.३६ ॥ पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् । हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ २,३.३७ ॥ दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ २,३.३८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी । वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ २,३.३९ ॥ चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके । आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ २,३.४० ॥ निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् । जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ २,३.४१ ॥ तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते । दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ २,३.४२ ॥ जायते धारिता वक्त्रे जरामृत्युविनाशिनी । वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ २,३.४३ ॥ दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः । भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ २,३.४४ ॥ रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् । चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥ २,३.४५ ॥ तद्गोलं बन्धयेद्वस्रैस्तक्रचिञ्चाम्लपूरिते । दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥ २,३.४६ ॥ वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः । पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ २,३.४७ ॥ क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् । स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥ २,३.४८ ॥ त्रिभागं व्योमसत्त्वं स्यात्षड्भागं शुल्बचूर्णकम् । सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ २,३.४९ ॥ मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके । तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ २,३.५० ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ २,३.५१ ॥ स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् । एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥ २,३.५२ ॥ सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः । मर्दयेद्दिनमेकं तु वज्रमूषान्धितं धमेत् ॥ २,३.५३ ॥ गुटिका वज्रतुण्डेयं जायते धारिता मुखे । जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ २,३.५४ ॥ वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् । कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ २,३.५५ ॥ पलैकं क्रामकं लेह्यमनुपानं सदैव हि । स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ २,३.५६ ॥ पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः । द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥ २,३.५७ ॥ मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै । वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ २,३.५८ ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ २,३.५९ ॥ मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः । लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ २,३.६० ॥ किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् । शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ २,३.६१ ॥ पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका । एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥ २,३.६२ ॥ तस्मिन् पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् । लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर्दृढम् ॥ २,३.६३ ॥ तं धमेत्खदिराङ्गारे यावदारक्तमुद्धरेत् । उत्खन्योत्खन्य तन्मध्यादुद्धरेत्तद्रसं पुनः ॥ २,३.६४ ॥ काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥ २,३.६५ ॥ काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् । क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ २,३.६६ ॥ शुद्धसूतसमं गन्धं मर्दनात्कज्जलीकृतम् । तत्ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ २,३.६७ ॥ शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ २,३.६८ ॥ सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् । तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥ २,३.६९ ॥ उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् । इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ २,३.७० ॥ तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् । वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥ २,३.७१ ॥ मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा । वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ २,३.७२ ॥ पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् । क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्छितो भवेत् ॥ २,३.७३ ॥ तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् । प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ २,३.७४ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ २,३.७५ ॥ काकमाच्यमृताद्रावैः पारदं तालकं समम् । मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ २,३.७६ ॥ निक्षिपेद्वज्रमूषायामाच्छाद्य लोहपर्पटैः । रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ २,३.७७ ॥ लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः । वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ २,३.७८ ॥ वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु । व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ २,३.७९ ॥ तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् । सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ २,३.८० ॥ त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् । विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ २,३.८१ ॥ यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते । कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ २,३.८२ ॥ वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् । कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ २,३.८३ ॥ स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् । स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ २,३.८४ ॥ तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् । क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ २,३.८५ ॥ ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् । एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ २,३.८६ ॥ ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् । एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ २,३.८७ ॥ तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः । गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ २,३.८८ ॥ वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ २,३.८९ ॥ पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा । टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ २,३.९० ॥ महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् । पिष्ट्वा तल्लिप्तमूषायामभ्रसत्त्वं क्षिपेद्धमेत् ॥ २,३.९१ ॥ सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम् । द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ २,३.९२ ॥ मिलितो जायते बद्धः पूर्ववत्काचटङ्कणैः । ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥ २,३.९३ ॥ वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन्नरः । अजरामरकारीयं गुटिका गगनेश्वरी ॥ २,३.९४ ॥ बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु । उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ २,३.९५ ॥ साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् । खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ २,३.९६ ॥ अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् । चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥ २,३.९७ ॥ मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् । पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ २,३.९८ ॥ मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः । चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ २,३.९९ ॥ चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् । मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ २,३.१०० ॥ शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् । सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥ २,३.१०१ ॥ चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः । एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ २,३.१०२ ॥ आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी । वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ २,३.१०३ ॥ तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्रकम् । क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥ २,३.१०४ ॥ वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् । मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥ २,३.१०५ ॥ भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै । पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥ २,३.१०६ ॥ मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ २,३.१०७ ॥ नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः । तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥ २,३.१०८ ॥ समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा । वज्रखेचरिका नाम वत्सरान्मृत्युनाशिनी ॥ २,३.१०९ ॥ वलीपलितनिर्मुक्तो दिव्यकायो भवेन्नरः । निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥ २,३.११० ॥ कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् । तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥ २,३.१११ ॥ रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् । पूर्ववत्क्रमयोगेन पुटेद्वारांश्चतुर्दश ॥ २,३.११२ ॥ वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् । मूषामध्ये धमन्नेवं सप्तवारं समं क्षिपेत् ॥ २,३.११३ ॥ तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि । तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥ २,३.११४ ॥ वेष्टयेद्भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत्त्र्यहम् । दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ २,३.११५ ॥ गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी । एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ २,३.११६ ॥ अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ २,३.११७ ॥ गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा । वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥ २,३.११८ ॥ जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः । वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥ २,३.११९ ॥ तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् । जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ २,३.१२० ॥ पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु । स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ २,३.१२१ ॥ समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ २,३.१२२ ॥ माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् । समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ २,३.१२३ ॥ तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् । त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ २,३.१२४ ॥ रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् । द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥ २,३.१२५ ॥ इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् । दत्त्वा मर्द्यं पुटे पच्याज्जायते भस्मसूतकः ॥ २,३.१२६ ॥ भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् । जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ २,३.१२७ ॥ वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् । तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ २,३.१२८ ॥ जायते कनकं दिव्यं समावर्ते न संशयः । पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥ २,३.१२९ ॥ पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् । वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥ २,३.१३० ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥ २,३.१३१ ॥ समांशं तु भवेद्यावत्ततस्तेनैव सारयेत् । समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ २,३.१३२ ॥ संवत्सरप्रयोगेण जराकालापमृत्युजित् । कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ २,३.१३३ ॥ स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ २,३.१३४ ॥ दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै । लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ २,३.१३५ ॥ छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना । स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ २,३.१३६ ॥ तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च । छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥ २,३.१३७ ॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ २,३.१३८ ॥ कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु । हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ २,३.१३९ ॥ एतद्देयं गुह्यसूते मूषायामधरोत्तरम् । पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥ २,३.१४० ॥ भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् । दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ २,३.१४१ ॥ रुद्ध्वाथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् । समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ २,३.१४२ ॥ तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् । जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥ २,३.१४३ ॥ द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् । शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ २,३.१४४ ॥ अन्धमूषागतं धाम्यं खोटो भवति तद्रसः । धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ २,३.१४५ ॥ द्रुतसूतप्रकारेण द्रावयित्वा त्विमं रसम् । निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ २,३.१४६ ॥ स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् । प्रत्येकं षड्गुणं पश्चाद्वज्रद्वंद्वं च जारयेत् ॥ २,३.१४७ ॥ त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् । जारयेद्द्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ २,३.१४८ ॥ ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् । मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ २,३.१४९ ॥ पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी । यस्य वक्त्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ २,३.१५० ॥ दिव्यतेजा महाकायः खेचरत्वेन गच्छति । यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ २,३.१५१ ॥ महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,३.१५२ ॥ पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः । सर्वं पलत्रयं खादेन्नित्यं स्यात्क्रामणे हितम् ॥ २,३.१५३ ॥ चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् । त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥ २,३.१५४ ॥ सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाथ मर्दयेत् । तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥ २,३.१५५ ॥ दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् । क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥ २,३.१५६ ॥ रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः । मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥ २,३.१५७ ॥ रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः । योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ २,३.१५८ ॥ भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः । द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥ २,३.१५९ ॥ तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः । पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ २,३.१६० ॥ प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा । पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ २,३.१६१ ॥ निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु । शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ २,३.१६२ ॥ तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् । मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ २,३.१६३ ॥ पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः । वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥ २,३.१६४ ॥ आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् । उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥ २,३.१६५ ॥ करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् । वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ २,३.१६६ ॥ अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् । क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ २,३.१६७ ॥ दोलायन्त्रे सारनाले जायते गुटिका शुभा । कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ २,३.१६८ ॥ वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् । गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ २,३.१६९ ॥ कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् । तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद्दृढम् ॥ २,३.१७० ॥ तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् । सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ २,३.१७१ ॥ दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् । अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ २,३.१७२ ॥ दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि । पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥ २,३.१७३ ॥ दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् । एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद्दृढम् ॥ २,३.१७४ ॥ जायते गुटिका दिव्या कालविध्वंसिका परा । यस्य वक्त्रे स्थिता ह्येषा तस्य कालः करोति किम् ॥ २,३.१७५ ॥ वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् । तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ २,३.१७६ ॥ जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् । स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ २,३.१७७ ॥ द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ २,३.१७८ ॥ समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् । दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ २,३.१७९ ॥ अन्धमूषागतं ध्मातं जायते गुटिका शुभा । नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ २,३.१८० ॥ वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् । हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ २,३.१८१ ॥ स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् । त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ २,३.१८२ ॥ ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् । अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥ २,३.१८३ ॥ जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् । कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ २,३.१८४ ॥ सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा । गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ २,३.१८५ ॥ सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका । लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥ २,३.१८६ ॥ वेधिका दशलक्षे या सा रुद्रपददायिनी । कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ २,३.१८७ ॥ वेधिका दशकोटीनां सा सदाख्यपदप्रदा । गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ २,३.१८८ ॥ सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका । धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ २,३.१८९ ॥ पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या । शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ २,३.१९० ॥ वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् । स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ २,३.१९१ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । जायन्ते स्वेदसम्पर्काद्गात्रसंस्पर्शनादपि ॥ २,३.१९२ ॥ सर्वेषामुक्तयोगानामनु स्याच्छुद्धगन्धकम् । पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥ २,३.१९३ ॥ कालि कालि महाकालि मांसशोणितभोजिनि । रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥ २,३.१९४ ॥ स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् । कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥ २,३.१९५ ॥ ततो रसायनं दिव्यं सेवयेत्सिद्धिमाप्नुयात् । गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ २,३.१९६ ॥ रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् । कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ २,३.१९७ ॥ तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् । काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ २,३.१९८ ॥ तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः । काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥ २,३.१९९ ॥ तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् । काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २,३.२०० ॥ रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते । तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २,३.२०१ ॥ कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् । उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २,३.२०२ ॥ कुर्यात्ताम्रकटाहं तु स्थूलं यावत्षडङ्गुलम् । चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २,३.२०३ ॥ गोघृतं नरतैलं च समभागेन मेलयेत् । तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २,३.२०४ ॥ कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् । तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २,३.२०५ ॥ धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः । चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २,३.२०६ ॥ सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् । चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २,३.२०७ ॥ नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् । सुद्रुतं तं विजानीयान्निक्षिपेत्पार्थिवं रसम् ॥ २,३.२०८ ॥ धमन्नत्रैव यत्नेन यावत्तत्कल्कतां व्रजेत् । अप्तत्त्वाख्यं रसं तस्मिन् क्षिपेद्रक्तं भवेत्तु तत् ॥ २,३.२०९ ॥ वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते । तेजोयुक्तं रसं क्षिप्याद्घनीभूतं भवेत्तु तत् ॥ २,३.२१० ॥ तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् । आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥ २,३.२११ ॥ जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् । कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥ २,३.२१२ ॥ ततश्चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा । दिव्यतेजा महाकायो महाबलपराक्रमः ॥ २,३.२१३ ॥ नवनागसहस्राणां बलं तस्याधिकं भवेत् । जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥ २,३.२१४ ॥ जराजर्जरिताङ्गानामन्धानां पङ्गुकुष्ठिनाम् । नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥ २,३.२१५ ॥ अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् । किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २,३.२१६ ॥ वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् । तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः ॥ २,३.२१७ ॥ वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् । अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २,३.२१८ ॥ आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् । तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २,३.२१९ ॥ क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति । भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् । इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥ २,३.२२० ॥ दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् । देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥ २,३.२२१ ॥ २, ४ सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् । इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥ २,४.१ ॥ मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् । त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २,४.२ ॥ त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु । चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ २,४.३ ॥ पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् । क्वाथ्यमष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥ २,४.४ ॥ कषायं भावयेत्तेन मासैकं पूर्वलोडितम् । लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ २,४.५ ॥ क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् । बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ २,४.६ ॥ महारसायनं दिव्यं कामिनीशततोषकम् । अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ २,४.७ ॥ भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् । त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ २,४.८ ॥ चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् । तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ २,४.९ ॥ जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् । शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥ २,४.१० ॥ तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् । त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥ २,४.११ ॥ तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् । त्रिंशत्पले गवां क्षीरे तत्पचेच्चाथ शीतलम् ॥ २,४.१२ ॥ मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश्च मरीचकैः । साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ २,४.१३ ॥ केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च । वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ २,४.१४ ॥ अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा । मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ २,४.१५ ॥ कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् । कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥ २,४.१६ ॥ तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे । तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ २,४.१७ ॥ मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा । समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ २,४.१८ ॥ एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् । वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.१९ ॥ मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् । पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥ २,४.२० ॥ सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा । हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २,४.२१ ॥ अमृतक्रीडे विष्णुसंवरणि स्वाहा । अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः । मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् । काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २,४.२२ ॥ शाल्मलीमल्लिपत्त्राणां द्रवैर्भाव्यं दिनत्रयम् । त्रिदिनं भृङ्गजैर्द्रावैर्भावितं शोषयेत्पुनः ॥ २,४.२३ ॥ तस्मिन् तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः । रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २,४.२४ ॥ वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः । मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २,४.२५ ॥ शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके । स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २,४.२६ ॥ वत्सरैकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥ २,४.२७ ॥ त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् । लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २,४.२८ ॥ कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे । शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥ २,४.२९ ॥ मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् । कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ २,४.३० ॥ तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् । कान्तभस्म समं गन्धं तैलैर्ज्योतिष्मतीभवैः ॥ २,४.३१ ॥ लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः । बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ २,४.३२ ॥ मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् । घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ २,४.३३ ॥ गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् । वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥ २,४.३४ ॥ मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् । निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.३५ ॥ त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा । पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ २,४.३६ ॥ वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् । सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ २,४.३७ ॥ रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् । वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ २,४.३८ ॥ लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु । दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.३९ ॥ ओं हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतमाज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गमिति गन्धकलोहयोर्भक्षणमन्त्रः । सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् । आस्वादयेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ २,४.४० ॥ मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये । बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥ २,४.४१ ॥ स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् । ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ २,४.४२ ॥ सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत्पश्चाद्बुभुक्षितः । शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥ २,४.४३ ॥ ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् । मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ २,४.४४ ॥ जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः । ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ २,४.४५ ॥ त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् । एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥ २,४.४६ ॥ कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश । भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ २,४.४७ ॥ एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ २,४.४८ ॥ ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह । पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ २,४.४९ ॥ पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.५० ॥ ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् । तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥ २,४.५१ ॥ बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः । द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ २,४.५२ ॥ दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् । मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ २,४.५३ ॥ महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् । ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ २,४.५४ ॥ अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् । पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ २,४.५५ ॥ कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः । आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥ २,४.५६ ॥ शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः । स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ २,४.५७ ॥ क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् । यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥ २,४.५८ ॥ मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् । जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ २,४.५९ ॥ श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह । कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ २,४.६० ॥ ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः । अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ २,४.६१ ॥ शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् । जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ २,४.६२ ॥ अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः । तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ २,४.६३ ॥ अमृतं कुरु कुरु अमृतमालिन्यै नमः । अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः । शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा । रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ २,४.६४ ॥ छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह । वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.६५ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् । तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥ २,४.६६ ॥ ओं नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां सः । इति औषधभक्षणमन्त्रः । छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः । मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥ २,४.६७ ॥ जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः । तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥ २,४.६८ ॥ पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः । तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥ २,४.६९ ॥ चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥ २,४.७० ॥ पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः । देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ २,४.७१ ॥ पिबेत्स्यात्पूर्ववत्सिद्धिर्वत्सरान्नात्र संशयः । देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना । वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ २,४.७२ ॥ ओममृतगण रुद्रगणाम्भः स्वाहा । अयं च ग्रहणमन्त्रः । नमो भगवते रुद्राय हुं फट्स्वाहा । अयं साधकस्य शिखाबन्धनमन्त्रः । ओं चर र र । अयं भक्षणमन्त्रः ॥ २,४.७३ ॥ पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् । चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥ २,४.७४ ॥ मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥ २,४.७५ ॥ एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः । मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् । तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ २,४.७६ ॥ ओमां हं वासरमालिने स्वाहा । अयं भक्षणमन्त्रः । ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् । छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ २,४.७७ ॥ वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः । हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ २,४.७८ ॥ कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह । आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ २,४.७९ ॥ प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् । जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ २,४.८० ॥ ओं गरविषं दृष्टौ गृह्णामि स्वाहा । हस्तिकर्णग्रहणमन्त्रः । ओममृतकुटीजातानाममृतं कुरु कुरु स्वाहा । अनेन पूजयेत् । ओममृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः । भक्षणमन्त्रः ॥ २,४.८१ ॥ रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥ २,४.८२ ॥ मूलानां कतकोत्थानां तैलं पातालयन्त्रके । ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ २,४.८३ ॥ नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् । एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ २,४.८४ ॥ कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् । एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.८५ ॥ सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् । पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ २,४.८६ ॥ छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा । अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ २,४.८७ ॥ वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः । तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ २,४.८८ ॥ रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् । द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ २,४.८९ ॥ तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् । तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ २,४.९० ॥ वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.९१ ॥ निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् । गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ २,४.९२ ॥ निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः । राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् । मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.९३ ॥ ओं नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः । भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा । लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥ २,४.९४ ॥ एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः । तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ २,४.९५ ॥ वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् । तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ २,४.९६ ॥ कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् । यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ २,४.९७ ॥ पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् । ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ २,४.९८ ॥ नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् । निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ २,४.९९ ॥ काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् । वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.१०० ॥ गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी । विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥ २,४.१०१ ॥ खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् । उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.१०२ ॥ कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः । आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ २,४.१०३ ॥ दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् । तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ २,४.१०४ ॥ मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ २,४.१०५ ॥ तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् । पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ २,४.१०६ ॥ फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् । फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ २,४.१०७ ॥ चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः । जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ २,४.१०८ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ २,४.१०९ ॥ समूला देवदाली च निम्बवाकुचीबीजकम् । फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ २,४.११० ॥ नीलकोरण्टपत्त्राणि त्रिफला च समं समम् । चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ २,४.१११ ॥ छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् । भक्षेत्कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् । जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ २,४.११२ ॥ ओं ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः । त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका । सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.११३ ॥ ओं ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् । मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् । प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् । रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ २,४.११४ ॥ अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः । जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ २,४.११५ ॥ तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् । अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ २,४.११६ ॥ ओं ह्रीं महाभयेरुम् । प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा । सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम् ॥ २,४.११७ ॥ २, ५ उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च । वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ २,५.१ ॥ पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् । विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २,५.२ ॥ आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् । यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥ २,५.३ ॥ क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् । अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ २,५.४ ॥ वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् । वज्रकापालिनीमूलं पारदं च समं समम् ॥ २,५.५ ॥ शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् । उत्पलानि समूलानि पारदं च समं समम् ॥ २,५.६ ॥ सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना । तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ २,५.७ ॥ पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् । क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ २,५.८ ॥ अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् । गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ २,५.९ ॥ तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् । जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ २,५.१० ॥ कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः । वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ २,५.११ ॥ कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् । काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ २,५.१२ ॥ भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशावथोद्धरेत् । अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥ २,५.१३ ॥ त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् । नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ २,५.१४ ॥ पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि । अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥ २,५.१५ ॥ मर्दयेद्घटिकार्धं तु वेष्ट्यमेरण्डपत्त्रकैः । शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ २,५.१६ ॥ इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् । पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ २,५.१७ ॥ तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् । दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ २,५.१८ ॥ गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् । तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ २,५.१९ ॥ सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना । तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २,५.२० ॥ हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् । अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २,५.२१ ॥ त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् । इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ २,५.२२ ॥ तल्लेपाद्रञ्जयेत्केशान् स्याद्यावन्मासपञ्चकम् । लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ २,५.२३ ॥ त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः । भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २,५.२४ ॥ तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् । तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २,५.२५ ॥ सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् । तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २,५.२६ ॥ शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् । दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ २,५.२७ ॥ तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् । चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ २,५.२८ ॥ नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् । नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥ २,५.२९ ॥ लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् । चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ २,५.३० ॥ लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः । दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ २,५.३१ ॥ कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् । तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ २,५.३२ ॥ आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् । निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ २,५.३३ ॥ समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् । मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ २,५.३४ ॥ काकमाचीयबीजानि समाः कृष्णतिलास्तथा । तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ २,५.३५ ॥ गोघृतं भृङ्गजं द्रावं मयूरशिखया सह । मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ २,५.३६ ॥ जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् । सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ २,५.३७ ॥ त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् । तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ २,५.३८ ॥ पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् । मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ २,५.३९ ॥ कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् । निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ २,५.४० ॥ नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् । कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ २,५.४१ ॥ बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् । तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥ २,५.४२ ॥ जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके । तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ २,५.४३ ॥ वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् । कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ २,५.४४ ॥ यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः । भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥ २,५.४५ ॥ संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् । पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ २,५.४६ ॥ पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् । अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ २,५.४७ ॥ भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् । एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ २,५.४८ ॥ प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् । गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात्तत्समुद्धरेत् ॥ २,५.४९ ॥ तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् । वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ २,५.५० ॥ भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः । नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ २,५.५१ ॥ मदनस्य च बीजानि पुष्पं कोरण्टकस्य च । अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ २,५.५२ ॥ सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् । पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥ २,५.५३ ॥ कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् । भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ २,५.५४ ॥ परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् । कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ २,५.५५ ॥ मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् । तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ २,५.५६ ॥ वासापलाशचिञ्चोत्थैर्दण्डैर्वाश्वत्थजैर्दृढम् । नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥ २,५.५७ ॥ पलैकं तत्समादाय लोहचूर्णं पलद्वयम् । त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ २,५.५८ ॥ शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् । भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥ २,५.५९ ॥ भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् । त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ २,५.६० ॥ ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् । उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥ २,५.६१ ॥ शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते । वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् । तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ २,५.६२ ॥ केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै । सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ २,५.६३ ॥ तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै । गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ २,५.६४ ॥ भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः । सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ २,५.६५ ॥ तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि । मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ २,५.६६ ॥ नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् । इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ २,५.६७ ॥ मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् । भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ २,५.६८ ॥ ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् । कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥ २,५.६९ ॥ तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् । वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥ २,५.७० ॥ स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् । दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥ २,५.७१ ॥ २, ६ येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च । तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ २,६.१ ॥ वज्रहेमार्कसूताभ्रलोहभस्म क्रमोत्तरम् । सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २,६.२ ॥ तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् । तत्कल्कं मुसलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥ २,६.३ ॥ दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् । यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥ २,६.४ ॥ समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा । मागधी मुसली यष्टी वानरीबीजकं समम् ॥ २,६.५ ॥ चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु । कामिनीनां सहस्रैकं रममाणो न मुह्यति । सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ २,६.६ ॥ शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः । यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ २,६.७ ॥ पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः । दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ २,६.८ ॥ दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् । भूकुष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ २,६.९ ॥ छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा । शणमूलं सबीजं च मुसली शर्करा समम् ॥ २,६.१० ॥ गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् । अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ २,६.११ ॥ शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः । मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥ २,६.१२ ॥ सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् । तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ २,६.१३ ॥ यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् । त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥ २,६.१४ ॥ निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः । विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ २,६.१५ ॥ रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् । मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ २,६.१६ ॥ मुसलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः । कदलीकन्दजैर्द्रावैस्तद्गोलं चान्धितं पुटेत् ॥ २,६.१७ ॥ भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् । दिनैकं पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥ २,६.१८ ॥ पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् । शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ २,६.१९ ॥ खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् । गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २,६.२० ॥ सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः । रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २,६.२१ ॥ मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् । कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥ २,६.२२ ॥ गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः । तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २,६.२३ ॥ गोक्षीरं मुसलीं माषान् कोकिलाक्षस्य बीजकम् । सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २,६.२४ ॥ तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् । निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २,६.२५ ॥ मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् । प्रारम्भरजसा स्त्रीणां मर्दयेद्भस्मसूतकम् ॥ २,६.२६ ॥ मृतं ताम्रं च तारं च गन्धकं च समं दिनम् । सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.२७ ॥ रतिकामरसो नाम कामिनीरमणे हितः । वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २,६.२८ ॥ माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः । तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २,६.२९ ॥ अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् । शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ २,६.३० ॥ मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके । रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ २,६.३१ ॥ निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः । अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ २,६.३२ ॥ यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् । पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥ २,६.३३ ॥ कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् । रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥ २,६.३४ ॥ मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥ २,६.३५ ॥ अनङ्गसुन्दरी ख्याता रामाणां रमते शतम् । शाल्मलीमूलचूर्णं तु मधुशर्करयान्वितम् ॥ २,६.३६ ॥ पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् । शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥ २,६.३७ ॥ शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् । समावेतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥ २,६.३८ ॥ तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् । ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥ २,६.३९ ॥ निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् । क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥ २,६.४० ॥ सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् । निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥ २,६.४१ ॥ मुसलीं ससितां क्षीरैः पलैकां पाययेदनु । कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥ २,६.४२ ॥ शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् । कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥ २,६.४३ ॥ मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना । एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥ २,६.४४ ॥ उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे । क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥ २,६.४५ ॥ दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः । गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ २,६.४६ ॥ गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः । पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ २,६.४७ ॥ ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि । उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ २,६.४८ ॥ रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् । गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ २,६.४९ ॥ कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा । शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ २,६.५० ॥ सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् । पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ २,६.५१ ॥ कामिनीनां सहस्रैकं रमते कामदेववत् । पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ २,६.५२ ॥ मुसली भृङ्गराट्द्राक्षा पक्वं श्लेष्मातकं फलम् । विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ २,६.५३ ॥ कोकिलाक्षस्य बीजानि भूकुष्माण्डी शतावरी । शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ २,६.५४ ॥ एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् । पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ २,६.५५ ॥ पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् । चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥ २,६.५६ ॥ सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् । तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ २,६.५७ ॥ दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् । मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥ २,६.५८ ॥ रसो मदनकामोऽयं बलवीर्यविवर्धनः । दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥ २,६.५९ ॥ भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् । कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ २,६.६० ॥ प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ २,६.६१ ॥ प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥ २,६.६२ ॥ चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः । सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ २,६.६३ ॥ कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ २,६.६४ ॥ शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् । पलैकं सितया चानु सेवेत कामिनीशतम् ॥ २,६.६५ ॥ वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः । वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ २,६.६६ ॥ चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा । एतत्कर्षं गवां क्षीरैः पिबेत्कामाङ्गनायकः ॥ २,६.६७ ॥ तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् । भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ २,६.६८ ॥ अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥ २,६.६९ ॥ विदारीपद्मिनीकन्दं वानरीबीजकं समम् । एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ २,६.७० ॥ पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् । क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ २,६.७१ ॥ धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः । एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ २,६.७२ ॥ तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् । पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ २,६.७३ ॥ धात्रीलोहप्रभावेन रमयेत्कामिनीशतम् । पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ २,६.७४ ॥ गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् । चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.७५ ॥ तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् । आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ २,६.७६ ॥ तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् । वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ २,६.७७ ॥ नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः । विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ २,६.७८ ॥ घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् । क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ २,६.७९ ॥ वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः । षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ २,६.८० ॥ ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् । मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ २,६.८१ ॥ स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा । घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥ २,६.८२ ॥ सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्यलम् । क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ २,६.८३ ॥ सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् । रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥ २,६.८४ ॥ भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः । शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥ २,६.८५ ॥ कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत्पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् । श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ २,६.८६ ॥ कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् । नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥ २,६.८७ ॥ अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥ २,६.८८ ॥ इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् । भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ २,६.८९ ॥ २, ७ वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् । तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ २,७.१ ॥ नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् । मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २,७.२ ॥ तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् । विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥ २,७.३ ॥ पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् । संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ २,७.४ ॥ ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे । तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ २,७.५ ॥ संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा । हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ २,७.६ ॥ प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् । तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ २,७.७ ॥ दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ । क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ २,७.८ ॥ मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् । ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ २,७.९ ॥ दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा । रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ २,७.१० ॥ विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै । नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥ २,७.११ ॥ श्वेतार्कतूलजां वर्तिं कृत्वा सूकरमेदसा । यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ २,७.१२ ॥ इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् । त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ २,७.१३ ॥ छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् । वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ २,७.१४ ॥ रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् । भौमे प्राप्तः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥ २,७.१५ ॥ चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् । न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ २,७.१६ ॥ डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् । तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ २,७.१७ ॥ तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः । सहदेवीयमूलं तु तत्समं पद्मकेसरम् ॥ २,७.१८ ॥ पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् । श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ २,७.१९ ॥ पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् । जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २,७.२० ॥ नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् । तन्नाभौ वीर्यधृक्पुंसां मूलं वा तुलसीभवम् ॥ २,७.२१ ॥ मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् । दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २,७.२२ ॥ बीजमीश्वरलिङ्ग्यास्तु सूतं वृश्चिककण्टकम् । सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २,७.२३ ॥ जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति । श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥ २,७.२४ ॥ अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् । सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २,७.२५ ॥ न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् । नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २,७.२६ ॥ श्वेतापराजितामूलं नीलीमूलं श्मशानजम् । सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ २,७.२७ ॥ भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः । पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ २,७.२८ ॥ नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् । इन्द्रवारुणीमूलमुन्मत्ताजस्य मूत्रतः ॥ २,७.२९ ॥ भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति । दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ २,७.३० ॥ पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् । कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥ २,७.३१ ॥ मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः । जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ २,७.३२ ॥ वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः । कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥ २,७.३३ ॥ त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् । स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ २,७.३४ ॥ बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् । सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ २,७.३५ ॥ तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् । कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ २,७.३६ ॥ ऊर्णनाभस्य जालेन वेष्टयित्वाथ धारयेत् । वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ २,७.३७ ॥ स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् । उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥ २,७.३८ ॥ पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते । शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा । अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ २,७.३९ ॥ शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् । श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४० ॥ तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् । जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ २,७.४१ ॥ कपिकच्छुकरोमाणि वाकुचीतैलकं पटु । मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ २,७.४२ ॥ क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् । सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ २,७.४३ ॥ मददर्पहरा तासां मदविह्वलकारका । बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ २,७.४४ ॥ द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका । यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ २,७.४५ ॥ पारदादष्टमांशेन सुवर्णं नागमेव वा । योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥ २,७.४६ ॥ मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् । श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४७ ॥ मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् । जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥ २,७.४८ ॥ त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् । मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥ २,७.४९ ॥ रसादष्टमभागं तु सुवर्णं नागमेव वा । योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥ २,७.५० ॥ क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि । मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥ २,७.५१ ॥ कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् । पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥ २,७.५२ ॥ त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् । त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥ २,७.५३ ॥ पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् । जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥ २,७.५४ ॥ रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा । पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ २,७.५५ ॥ पारदं मरिचं कुष्ठं तगरं कण्टकारिका । अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥ २,७.५६ ॥ अपामार्गो यवा माषाः पिप्पली च समं जलैः । पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ २,७.५७ ॥ वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् । वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ २,७.५८ ॥ अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः । अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ २,७.५९ ॥ पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् । लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ २,७.६० ॥ जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् । मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६१ ॥ मिश्रितं मुसलीचूर्णं माहिषैर्नवनीतकैः । तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ २,७.६२ ॥ तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः । पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ २,७.६३ ॥ मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा । माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ २,७.६४ ॥ अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः । अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥ २,७.६५ ॥ सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् । तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ २,७.६६ ॥ मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् । तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६७ ॥ रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् । अनेन लेपयेल्लिङ्गं स्यान्मासान्मुसलोपमम् । निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् । अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा । वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ २,७.६८ ॥ ओं नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः । अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति । जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् । मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ २,७.६९ ॥ ओं नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥ २,७.७० ॥ गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् । पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ २,७.७१ ॥ तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु । लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः । ओं नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः । अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च । निपुणरसिकरामारञ्जकं मोहकं स्याद्गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ २,७.७२ ॥ २, ८ श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयैस्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् । व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्यत्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ २,८.१ ॥ {Fएल्स्मित्गुग्गुलु बेइ ंल्लिकार्जुन} मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा । शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २,८.२ ॥ पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके । तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ २,८.३ ॥ मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् । तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ २,८.४ ॥ तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् । {ङ्लोच्के बेइ ङ्हण्टासिद्धेश्वर} वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ २,८.५ ॥ तद्द्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते । रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥ २,८.६ ॥ कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः । एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ २,८.७ ॥ एकस्तु वादयेद्घण्टामविच्छिन्नं निशावधि । ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ २,८.८ ॥ घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके । निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ २,८.९ ॥ सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् । {चन्द्रोदक इम् ॡ वोन् ंल्लिनाथ} चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ २,८.१० ॥ स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् । साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ २,८.११ ॥ रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके । स्प्रष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ २,८.१२ ॥ कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् । वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ २,८.१३ ॥ {टमरिन्देन्बौमिम् Oस्तेन् वोन् श्रीशैल} श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः । देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ २,८.१४ ॥ विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् । तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ २,८.१५ ॥ दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् । चिञ्चावृक्षस्य पत्त्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ २,८.१६ ॥ तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै । संगृह्य तस्य काष्ठेन पचेत्तेषां विवर्जयेत् ॥ २,८.१७ ॥ कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः । क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ २,८.१८ ॥ छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः । त्रिपुरान्तकदेवस्य पश्चिमे गव्यूतिद्वये ॥ २,८.१९ ॥ मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः । तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २,८.२० ॥ पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् । दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २,८.२१ ॥ आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् । रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २,८.२२ ॥ तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् । सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २,८.२३ ॥ त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् । विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २,८.२४ ॥ साधकः प्रविशेत्तत्र दशधन्वन्तरावधि । पाषाणाः कोकिलाकारास्तिष्ठन्ति तांस्तु चाहरेत् ॥ २,८.२५ ॥ तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् । इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २,८.२६ ॥ क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते । आकण्ठान्तं पिबेत्तत्तु दिव्यकाव्यो भवेन्नरः ॥ २,८.२७ ॥ वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् । छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २,८.२८ ॥ त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे । देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २,८.२९ ॥ देवाग्रे भूमिकां जानुमात्रां तत्र फला इव । निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ २,८.३० ॥ त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके । विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ २,८.३१ ॥ गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः । तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥ २,८.३२ ॥ ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् । श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ २,८.३३ ॥ देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् । पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥ २,८.३४ ॥ देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ । रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ २,८.३५ ॥ ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति । आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ २,८.३६ ॥ विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः । आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥ २,८.३७ ॥ तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः । तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ २,८.३८ ॥ पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः । पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ २,८.३९ ॥ गुञ्जा च रिठ्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः । तयोः पत्त्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ २,८.४० ॥ तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् । हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ २,८.४१ ॥ शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः । नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥ २,८.४२ ॥ तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति । छायाछत्त्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ २,८.४३ ॥ शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् । योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥ २,८.४४ ॥ रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये । अथवा साधयेद्दूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ २,८.४५ ॥ कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् । तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्यत्नात्क्रमेण वै ॥ २,८.४६ ॥ वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् । मन्त्रयेत्कालीमन्त्रेण छायाछत्त्रे निवेशयेत् ॥ २,८.४७ ॥ तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् । साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ २,८.४८ ॥ तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् । ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥ २,८.४९ ॥ वंशे बद्ध्वा क्षिपेत्खड्गं पूर्वमन्त्रेण मन्त्रितम् । तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ २,८.५० ॥ वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् । तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ २,८.५१ ॥ स्रोतोञ्जनं कज्जलं च क्षिप्त्वा तत्रैव पूर्ववत् । तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ २,८.५२ ॥ पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् । यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ २,८.५३ ॥ तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः । अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ २,८.५४ ॥ कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् । वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ २,८.५५ ॥ श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः । तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ २,८.५६ ॥ नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् । देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ २,८.५७ ॥ ब्रह्मेश्वरस्य नैरृत्ये संस्थितं तिन्तिणीवनम् । तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥ २,८.५८ ॥ एकपादेन चिञ्चाधस्तद्वृक्षात्पत्त्रमाहरेत् । बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ २,८.५९ ॥ स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते । तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥ २,८.६० ॥ भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् । तृतीयं साधको भुक्त्वा क्षणं भवति मूर्छितः ॥ २,८.६१ ॥ तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् । अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ २,८.६२ ॥ अलम्पुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः । तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥ २,८.६३ ॥ पाषाणाः सर्पवद्वक्रा ग्राह्याः स्पर्शा भवन्ति ते । योगेश्वरीति विख्याता देवता या त्वलम्पुरे ॥ २,८.६४ ॥ देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् । पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ २,८.६५ ॥ मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् । मध्वाज्यसहितान् भक्षेत्पाषाणांस्तान्विचक्षणः ॥ २,८.६६ ॥ श्रीशैलस्योत्तरद्वारे महेशो नाम देवता । भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ २,८.६७ ॥ स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः । इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ २,८.६८ ॥ फलानि पाचयेत्क्षीरैः पिबेत्क्षीरं यथेष्टकम् । किंचिन्मूर्छा भवेत्तेन ततो बोधे पिबेत्पुनः ॥ २,८.६९ ॥ एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ २,८.७० ॥ सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः । तेनैवाम्रफलैकेन वर्जितभ्रमरेण च । सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ २,८.७१ ॥ क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् । तत्फलं छिद्रितं कृत्वा उत्पात्य भ्रमरं ततः ॥ २,८.७२ ॥ शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् । क्षिप्त्वा तस्मिन्मुखं रुद्ध्वा लिम्पेन्मृद्गोमयेन च ॥ २,८.७३ ॥ छायाशुष्कं तदाम्रोत्थैः क्वाथैर्यामं विपाचयेत् । स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ २,८.७४ ॥ मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला । क्वाथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ २,८.७५ ॥ तारं ताम्रं भुजंगं वा कोटिभागेन वेधयेत् । कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ २,८.७६ ॥ लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् । स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ २,८.७७ ॥ गुञ्जामात्रं सदा खादेन्मासाद्बालो भवेन्नरः । जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ २,८.७८ ॥ विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः । ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ २,८.७९ ॥ वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् । पश्येद्दिव्यविमानानि जायते प्रत्ययो महान् ॥ २,८.८० ॥ ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः । गह्वरं दृश्यते तत्र प्रविशेत्पश्चिममुखम् ॥ २,८.८१ ॥ योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः । पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ २,८.८२ ॥ तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् । सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ २,८.८३ ॥ तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् । ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीमों स्वाहा । स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु । यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ २,८.८४ ॥ ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः । चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ २,८.८५ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः । वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ २,८.८६ ॥ शतमायतनं तत्र कूपानां च शतं नव । तावत्संख्यास्तथारामा नन्दनाख्यवनानि च ॥ २,८.८७ ॥ तथा नवशतं वाप्यो विद्यन्ते कदलीवने । बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ २,८.८८ ॥ तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता । सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ २,८.८९ ॥ ततस्तस्य प्रवक्तव्यं दास्यामि परमेश्वरि । क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ २,८.९० ॥ सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धारय । यदा न मुञ्चसे भूमौ तदा सिद्ध्यष्टकं तव ॥ २,८.९१ ॥ दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः । त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ २,८.९२ ॥ इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् । गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥ २,८.९३ ॥ तत्रास्ति पुष्पसम्पूर्णं दिव्याख्यं नन्दनं वनम् । पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ २,८.९४ ॥ अथवा भक्षयेत्तस्मात्फलमेकं यथाचितम् । तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ २,८.९५ ॥ सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् । तत्र दाडिमसम्पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९६ ॥ तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् । तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ २,८.९७ ॥ तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् । फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ २,८.९८ ॥ तत्सरःपश्चिमभागे गच्छेद्योजनमात्रकम् । तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९९ ॥ तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् । तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ २,८.१०० ॥ प्रविशेदुत्तरद्वारे तत्र नागो महाबलः । उग्रः सप्तफणाकारो दृश्यतेऽतिभयंकरः ॥ २,८.१०१ ॥ तस्य कुर्यान्नमस्कारं ह्रुं ह्रुं कुर्यात्समुद्धरेत् । तदासौ वदते वाणीमदृश्यत्वं ददामि ते ॥ २,८.१०२ ॥ गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका । गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ २,८.१०३ ॥ हारं दास्यति सा तुष्टा न प्रवेशं प्रयच्छति । तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ २,८.१०४ ॥ ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयंकरम् । मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ २,८.१०५ ॥ नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् । ह हा हे हे हं ह्रुंकारं फठुं स्वाहान्तमेव च ॥ २,८.१०६ ॥ अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति । ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥ २,८.१०७ ॥ ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः । दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥ २,८.१०८ ॥ दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् । पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥ २,८.१०९ ॥ ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः । प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ २,८.११० ॥ इत्येवमादयः सन्ति सिद्धयः कदलीवने । अक्षरैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥ २,८.१११ ॥ सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति । वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ २,८.११२ ॥ धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गम् । दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥ २,८.११३ ॥ आगत्य चामृतं दत्ते यत्पानादमरो भवेत् । ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ २,८.११४ ॥ दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु । अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ २,८.११५ ॥ तदन्ते परमं स्थानं गच्छामो नात्र संशयः । कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ २,८.११६ ॥ तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः । तस्य पत्त्राणि संगृह्य कटुतैलेन लेपयेत् ॥ २,८.११७ ॥ तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः । मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥ २,८.११८ ॥ कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् । तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥ २,८.११९ ॥ नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे । पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥ २,८.१२० ॥ कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः । तस्य कुर्यात्प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ २,८.१२१ ॥ ततः शिरः समारुह्य खेचरत्वं लभेन्नरः । तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारस्थितम् ॥ २,८.१२२ ॥ उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् । मूषिकाकारपाषाणास्तिष्ठन्ति तान् समाहरेत् ॥ २,८.१२३ ॥ तक्रैः पिष्ट्वा तदेकं तु पिबेन्मूर्छामवाप्नुयात् । क्षणादुत्तिष्ठते सिद्धो जीवेद्ब्रह्मदिनत्रयम् ॥ २,८.१२४ ॥ स एव सर्वलोहानां स्पर्शवेधकरो भवेत् । अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥ २,८.१२५ ॥ कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् । तन्मध्ये कटिमात्रं तु खनेद्गोरोचनोपमाः ॥ २,८.१२६ ॥ पाषाणास्तान् समादाय मध्वाज्याभ्यां प्रपेषयेत् । तत्पानाज्जायते मर्त्यः कल्पायुर्नात्र संशयः ॥ २,८.१२७ ॥ कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् । खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ २,८.१२८ ॥ तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते । मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ २,८.१२९ ॥ विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् । पञ्चगव्येन सम्मिश्रां खदिराङ्गारकैर्धमेत् ॥ २,८.१३० ॥ नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् । मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥ २,८.१३१ ॥ तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः । भृगुपातात्पूर्वभागे क्रोशोदधिकपाटके ॥ २,८.१३२ ॥ तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः । तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ २,८.१३३ ॥ गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः । अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥ २,८.१३४ ॥ {स्पर्शवेध:: रोच्क्नेअर तेम्पुल्} मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः । प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ २,८.१३५ ॥ तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला । मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥ २,८.१३६ ॥ गजस्तत्रैव विख्यातस्तमारुह्य समाहितः । तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ २,८.१३७ ॥ गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् । जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥ २,८.१३८ ॥ गजस्याधः खनेद्वाथ जानुमात्रं लभेत्ततः । त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ २,८.१३९ ॥ श्रीशैलस्य तु वायव्ये तीर्थं देवह्रदः स्थितम् । तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥ २,८.१४० ॥ तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् । कृत्तिकायां सुपूर्णायां कृत्वा पूजां समाहरेत् ॥ २,८.१४१ ॥ गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् । तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ २,८.१४२ ॥ अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः । सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ २,८.१४३ ॥ श्रीशैलस्य तु नैरृत्ये नाम्ना गुण्डिप्रभा स्थिता । तस्याग्राद्गर्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ २,८.१४४ ॥ तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः । तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥ २,८.१४५ ॥ तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् । सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ २,८.१४६ ॥ महानन्देश्वरं नाम श्रीशैलस्य तु नैरृते । तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ २,८.१४७ ॥ कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् । इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ २,८.१४८ ॥ तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् । श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥ २,८.१४९ ॥ तस्योत्तरे सुविख्यात उमापर्वत उत्तमः । तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ २,८.१५० ॥ तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् । तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ २,८.१५१ ॥ अतिथेश्च तथाग्नेश्च भागं भागं प्रकल्पयेत् । भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ २,८.१५२ ॥ तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः । तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ २,८.१५३ ॥ अचलेशश्च तत्रैव स्पर्शवेधकरः परः । दक्षिणे लेशस्य योजनैकेन विद्यते ॥ २,८.१५४ ॥ अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा । तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ २,८.१५५ ॥ प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा । दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ २,८.१५६ ॥ तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके । तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ २,८.१५७ ॥ श्रीशैले तत्र तत्रैव पाषाणाः पिण्डभूस्थिताः । तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ २,८.१५८ ॥ मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् । नैरृत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ २,८.१५९ ॥ तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके । द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ २,८.१६० ॥ श्रावसम्पुटसंकाशान् पाषाणांस्त्रिंशदाहरेत् । कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ २,८.१६१ ॥ तन्मध्यान्नवनीतं तु गृह्णीयाद्देवाय भागकम् । अतिथेर्भागैकं तु भागैकं भक्षयेद्बुधः ॥ २,८.१६२ ॥ मूर्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः । जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ २,८.१६३ ॥ तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् । तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ २,८.१६४ ॥ सर्वस्पर्शा न संदेह एकमेव समाहरेत् । तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ २,८.१६५ ॥ तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधाः । उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ २,८.१६६ ॥ तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी । नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ २,८.१६७ ॥ तत्र शैलोदकैः कुण्डं पूर्णं स्यात्क्षणवेधकम् । महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ २,८.१६८ ॥ पिण्डादेवीति विख्याता तस्या वायव्यकोणतः । कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥ २,८.१६९ ॥ तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः । स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ २,८.१७० ॥ स्थूलश्चेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् । अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ २,८.१७१ ॥ तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् । सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ २,८.१७२ ॥ तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् । मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ २,८.१७३ ॥ तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने । गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ २,८.१७४ ॥ धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् । यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ २,८.१७५ ॥ वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् । तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ २,८.१७६ ॥ तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः । गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ २,८.१७७ ॥ गृहीत्वालाबुपात्रे तु कोटिवेधी भवेद्रसः । तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ २,८.१७८ ॥ मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् । तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात् ॥ २,८.१७९ ॥ दिने पत्त्रं फलं पुष्पं जायते तस्य नान्यथा । तत्र पारदप्रस्थैकं क्षिप्त्वा तावज्जलं हरेत् ॥ २,८.१८० ॥ क्षौद्रतुल्यं पिबेत्तं वै तत्क्षणान्मूर्छितो भवेत् । मुहूर्ताल्लब्धराज्यःस्याज्जीवेद्युगसहस्रकम् ॥ २,८.१८१ ॥ शैलस्याग्नेयभागे तु गुटिकासिद्धकेश्वरः । विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥ २,८.१८२ ॥ पाषाणा बदराकाराः सन्ति खेगतिदायकाः । एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ २,८.१८३ ॥ श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते । मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ २,८.१८४ ॥ अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् । क्षेत्रदेवतामावाहयेत् । तत्र स्वप्ने देवता प्रत्यक्षीभूय वरं ददाति । एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः । कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतैर्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥ २,८.१८५ ॥ ३, १ येन सृष्टं विदा चिदात्मस्वमरुत्तेजोजलोर्वीगणाः सत्संविच्छिवशक्तिभैरवकलाः श्रीकण्ठपञ्चाननः । ईशो रुद्रमुरारिधातृविबुधाश्चन्द्रार्कतारागणाः सोऽयं पातु चराचरं जगदिदं निर्नामनामाधिपः ॥ ३,१.१ ॥ सूते सूतवरो वरं च कनकं शब्दात्परं स्पर्शनाद्धूमाद्विध्यति तत्क्षणादघहरं संख्यां सखर्वांशतः । संख्यामर्बुदकोटिलक्षमयुतं युक्त्या सहस्रं शतं दत्ते खेगतिमक्षयं शिवपदं तस्मै परस्मै नमः ॥ ३,१.२ ॥ नत्वा श्रीपार्वतीं देवीं भैरवं सिद्धसंततिम् । रसरत्नाकरं वक्ष्ये देहे लोहे शिवंकरम् ॥ ३,१.३ ॥ {रसनामानि} शिवबीजः सूतराजः पारदश्च रसेन्द्रकः । एतानि रसनामानि तथान्यानि शिवे यथा ॥ ३,१.४ ॥ दत्ते शिवपदं सिद्धिं साधकानां महोत्तमाम् । शिवबीजं तदाख्यातं सर्वसिद्धिप्रदायकम् ॥ ३,१.५ ॥ {मेर्चुर्य्:: निरुक्ति} यतः परशिवात्सूतस्तेन सूतः स चोदितः । संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥ ३,१.६ ॥ रसीभवन्ति लोहानि देहा अपि सुसेवनात् । रसेन्द्रस्तेन विख्यातो द्रवत्वाच्च रसः स्मृतः ॥ ३,१.७ ॥ रसशास्त्रेषु सर्वेषु शम्भुना सूचितं पुरा । रसो रसायनं दिव्यं सूचनान्नैव बुध्यते ॥ ३,१.८ ॥ सिद्धैः शिवमुखात्प्राप्तं तेषां सिद्धिस्तु साधनात् । सम्प्रदायक्रमो युक्तिस्तैः स्वशास्त्रेषु गोपिता ॥ ३,१.९ ॥ मयापि तन्मुखात्प्राप्तं साधितं बहुधा ततः । रसशास्त्राणि सर्वाणि समालोक्य यथाक्रमम् ॥ ३,१.१० ॥ साधकानां हितार्थाय प्रकटीक्रियतेऽधुना । न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ॥ ३,१.११ ॥ शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् । {आचार्य} आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ॥ ३,१.१२ ॥ मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः । देवीभक्तः सदा धीरो देवतायागतत्परः ॥ ३,१.१३ ॥ सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि । एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥ ३,१.१४ ॥ {शिष्य} गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः । निरालसाः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥ ३,१.१५ ॥ दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः । अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ॥ ३,१.१६ ॥ इत्येवं लक्षणैर्युक्ताः शिष्याः स्यू रससिद्धये । {अनुचराः} सहायाः सोद्यमाः सर्वे यथा शिष्यास्ततोऽधिकाः ॥ ३,१.१७ ॥ कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि । {बदल्छेमिस्त्स्} नास्तिका ये दुराचाराश्चुम्बका गुरुतल्पगाः ॥ ३,१.१८ ॥ विद्यां गृहीतुमिच्छन्ति चौर्येण च बलाच्छलात् । न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥ ३,१.१९ ॥ कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् । इह लोके सुखं नास्ति परलोके तथैव च ॥ ३,१.२० ॥ तस्माद्भक्तिबलादेव संतुष्यति यथा गुरुः । तथा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ॥ ३,१.२१ ॥ हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् । {रसशाला} आतङ्करहिते देशे धर्मराज्ये मनोरमे ॥ ३,१.२२ ॥ उमामहेश्वरोपेते समृद्धे नगरे शुभे । कर्तव्यं साधनं तत्र रसराजस्य धीमता ॥ ३,१.२३ ॥ अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते । तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ॥ ३,१.२४ ॥ सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता । {रसमण्डप} तत्समीपे समे दीर्घे कर्तव्यं रसमण्डपम् ॥ ३,१.२५ ॥ अतिगुप्तं सुविस्तीर्णकपाटार्गलभूषितम् । ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ॥ ३,१.२६ ॥ भेरीकाकलघण्टादिशृङ्गिनादविनादितम् । भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ॥ ३,१.२७ ॥ तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता । {रसलिङ्ग} निष्कत्रयं हेमपत्त्रं रसेन्द्रो नवनिष्ककम् ॥ ३,१.२८ ॥ अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् । दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥ ३,१.२९ ॥ {रसलिङ्ग:: wओर्स्हिप्} तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः । लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥ ३,१.३० ॥ तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् । ब्रह्महत्यासहस्राणि गोहत्याप्रयुतान्यपि ॥ ३,१.३१ ॥ तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् । स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् । वाङ्मायां श्रीमद्घोरेण मन्त्रराजेन वार्चयेत् ॥ ३,१.३२ ॥ अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥ ३,१.३३ ॥ प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् । तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् ॥ ३,१.३४ ॥ अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् । दधन्तीं तप्तहेमाभां पीतवस्त्रां विचिन्तयेत् ॥ ३,१.३५ ॥ वाङ्माया श्री कामराजशक्तिर्बीजरसाङ्कुशा । यै नमो द्वादशैतेषां कामविद्या रसाङ्कुशा ॥ ३,१.३६ ॥ अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः । नन्दिभृङ्गिमहाकालान्पूजयेत्पूर्वदिक्क्रमात् ॥ ३,१.३७ ॥ पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः । एवं नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥ ३,१.३८ ॥ {रसदीक्षा} रसदीक्षा शिवेनोक्ता दातव्या साधकाय वै । यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥ ३,१.३९ ॥ सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते । कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥ ३,१.४० ॥ स्थापयेद्रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् । गन्धपुष्पाक्षतधूपदीपैर्नैवेद्यतोऽर्चयेत् ॥ ३,१.४१ ॥ पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे । तिलाज्यैः पायसैः पुष्पैरष्टाधिकशतैः पृथक् ॥ ३,१.४२ ॥ अघोरेण रसाङ्कुश्या होमान्ते शिष्यमावहेत् । काकिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥ ३,१.४३ ॥ {काकिनी (देf.)} यस्याः संकुचिताः केशाः श्यामा या पद्मलोचना । सुरूपा तरुणी चित्रा विस्तीर्णजघना शुभा ॥ ३,१.४४ ॥ संकीर्णरदना पीनस्तनभारेण चानता । चुम्बनालिङ्गनस्पर्शकोमला मृदुभाषिणी ॥ ३,१.४५ ॥ अश्वत्थपत्त्रसदृशयोनिदेशेन शोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ ३,१.४६ ॥ रसबन्धे प्रयोगे च उत्तमा रससाधने । {काकिणी:: सुब्स्तितुते} तदभावे सुरूपा तु या काचित्तरुणाङ्गना ॥ ३,१.४७ ॥ तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् । कर्षैकैकं प्रभाते तु सा भवेत्काकिनीसमा ॥ ३,१.४८ ॥ {रसदीक्षा (चोन्त्.)} एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः । सुस्नातमभिषिञ्चेत विमलैः कलशोदकैः ॥ ३,१.४९ ॥ अघोरमङ्कुशीं विद्यां दद्याच्छिष्याय सद्गुरुः । यथाशक्त्याथ शिष्येण दातव्या गुरुदक्षिणा ॥ ३,१.५० ॥ अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् । दशांशेन हुनेत्कुण्डे त्रिकोणे हस्तमात्रके ॥ ३,१.५१ ॥ कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् । जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् । कृत्वाथ प्रविशेच्छालां शुभां लिप्तां सुवेदिकाम् ॥ ३,१.५२ ॥ षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् । वेदिकायां लिखेत्सम्यक्तद्बहिश्चाष्टपत्त्रकम् ॥ ३,१.५३ ॥ कमलं चतुरस्रं च चतुर्द्वारेषु शोभितम् । कर्णिकायां न्यसेत्खल्वं लोहजं स्वर्णरेखितम् ॥ ३,१.५४ ॥ तन्मध्ये रसराजं तु पलानां शतमात्रकम् । पञ्चाशत्पञ्चविंशं वा पूजयेद्रसलिङ्गवत् ॥ ३,१.५५ ॥ वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् । भूनागं शक्तयश्चैताः षट्सु पत्त्रेषु पूजयेत् ॥ ३,१.५६ ॥ {उपरसाः} गन्धतालककासीसशिलाकङ्कुष्ठभूखगम् । राजावर्तो गैरिकं च ख्याता उपरसा अमी ॥ ३,१.५७ ॥ {उपरस:: wओर्स्हिप्} पूज्या अष्टदलेष्वेते पूर्वादीशान्तगाः क्रमात् । {महारसाः} रसकं विमला ताप्यं चपला तुत्थमञ्जनम् ॥ ३,१.५८ ॥ हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः । पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥ ३,१.५९ ॥ पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके । पश्चिमे वङ्गकान्तौ च उत्तरे तीक्ष्णमुण्डके ॥ ३,१.६० ॥ सर्वमेतमघोरेण पूजयेदङ्कुशान्वितम् । {आउस्स्तत्तुन्ग्देसाल्छेमिस्तेन्} विडकाञ्जिकयन्त्राणि क्षारमृल्लवणानि च ॥ ३,१.६१ ॥ कोष्ठी मूषा वङ्कनाली तुषाङ्गारवनोपलाः । भस्त्रिका दंशकानेका शिला खल्वोऽप्युदूखलम् ॥ ३,१.६२ ॥ स्वर्णकारोपकरणं समस्ततुलनानि च । मृत्काष्ठताम्रलोहाद्यपात्राणि विविधानि च ॥ ३,१.६३ ॥ दिव्यौषधानि वर्गाश्च रञ्जकं स्नेहनानि च । एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥ ३,१.६४ ॥ वाङ्मायां हें ततः क्ष्में च क्ष्मश्च पञ्चाक्षरो मनुः । अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ॥ ३,१.६५ ॥ {रससिद्धस्} सर्वेषां रससिद्धानां नामानि कीर्तयेत्तदा । व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः ॥ ३,१.६६ ॥ नागार्जुनो रत्नघोषः सुरानन्दो यशोधरः । इन्द्रद्युम्नश्च माण्डव्यश्चर्पटिः शूरसेनकः ॥ ३,१.६७ ॥ वाडबो नागबुद्धिश्च खण्डः कापालिको हरः । कामली तात्त्विकः शम्भुर्लोको लम्पटशारदौ ॥ ३,१.६८ ॥ बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः । एते सर्वे तु भूपेन्द्रा रससिद्धा महाबलाः ॥ ३,१.६९ ॥ चरन्ति सर्वलोकेषु निर्जरामरणाः सदा । सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ॥ ३,१.७० ॥ वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसायनम् । हर्षयेद्द्विजदेवांश्च तर्पयेदिष्टदेवताम् ॥ ३,१.७१ ॥ कुमारीयोगिनीयोगिमुनिमायिकसाधकान् । तर्पयेत्पूजयेद्भक्त्या निजशक्त्यनुसारतः ॥ ३,१.७२ ॥ इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् । सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥ ३,१.७३ ॥ अन्यथा चेद्विमूढात्मा मन्त्रदीक्षाक्रमं विना । कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥ ३,१.७४ ॥ नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि । तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥ ३,१.७५ ॥ सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मणि कोविदा रसपरास्त्वाढ्या जनैश्चार्थिताः । मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधीकोविदास्तेषां सिध्यति नान्यथा विधिबलात्श्री पारदः पारदः ॥ ३,१.७६ ॥ ३, २ भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात्स्वात्मानन्दनिमज्जनात्परहितात्कार्यक्रियागोपनात् । नित्यं सद्गुरुसेवनादनुभवात्सूतस्य सद्भावनाद्दास्यन्ते निजरश्मयो वरबलात्सत्सम्प्रदायात्स्फुटम् ॥ ३,२.१ ॥ रसादिलोहपर्यन्तं शोधने मारणे हितम् । भावनायां क्वचिच्चैव नानावर्गो निगद्यते ॥ ३,२.२ ॥ {देfऔल्त्वलुएस्} अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् । अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥ ३,२.३ ॥ {क्षारवर्ग} तिलापामार्गकदलीचित्रकार्द्रकमूलकम् । शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥ ३,२.४ ॥ समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् । शोधयेत्पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥ ३,२.५ ॥ ग्राह्यं क्षारावशेषं तद्वृक्षक्षारमिदं स्मृतम् । {श्वेतवर्ग, शुक्लवर्ग} चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥ ३,२.६ ॥ {विड्वर्ग} कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् । {अम्लवर्ग} चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥ ३,२.७ ॥ चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः । {लवणपञ्चक} सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥ ३,२.८ ॥ चूलिकानवसारः स्यादेतल्लवणपञ्चकम् । {त्रिक्षार} सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥ ३,२.९ ॥ {मूत्रवर्ग} क्षारत्रयमिदं ख्यातमजाश्वमहिषीगवाम् । नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥ ३,२.१० ॥ {मित्रपञ्चक} मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान्मित्रपञ्चकम् । {पित्तवर्ग} नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥ ३,२.११ ॥ {वसावर्ग} मत्स्याहिनरमेषीणां शिखिनां च वसा मता । {रक्तवर्ग} मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥ ३,२.१२ ॥ बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् । {पीतवर्ग} कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥ ३,२.१३ ॥ पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु । {दिव्यौषधिगण} अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥ ३,२.१४ ॥ हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः । वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥ ३,२.१५ ॥ शाकवृक्षो हेमवल्ली पातालगरुडी शमी । कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥ ३,२.१६ ॥ मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी । गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥ ३,२.१७ ॥ कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता । गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥ ३,२.१८ ॥ {वज्रशोधनम् (१)} गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥ ३,२.१९ ॥ अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् । व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् । हयमूत्रैर्निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥ ३,२.२० ॥ एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः । {वज्रशोधनम् (२)} कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥ ३,२.२१ ॥ क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन् व्याघ्रीकन्दगतं पविम् । दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥ ३,२.२२ ॥ व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् । तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् । {वज्रशोधनम् (३)} आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका । अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥ ३,२.२३ ॥ मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् । जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥ ३,२.२४ ॥ पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा । {वज्र:: मारण} शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥ ३,२.२५ ॥ अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः । लेपितं धामितं तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,२.२६ ॥ {वज्र:: मारण} तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् । रुद्ध्वा मूषां धमेद्दार्ढ्याथयमूत्रे विनिक्षिपेत् ॥ ३,२.२७ ॥ समुद्धृत्य पुनस्तद्वत्सप्तवारान्मृतो भवेत् । {वज्रमारणम् (३)} मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥ ३,२.२८ ॥ गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् । त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥ ३,२.२९ ॥ वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च । मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥ ३,२.३० ॥ पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः । पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥ ३,२.३१ ॥ पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च । धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥ ३,२.३२ ॥ हंसपादी वज्रकन्दं बृहतीफलसूरणे । गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥ ३,२.३३ ॥ एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् । तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥ ३,२.३४ ॥ कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् । तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥ ३,२.३५ ॥ एवं पुनः पुनः कुर्यादेकविंशतिवारकम् । आदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥ ३,२.३६ ॥ गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् । इत्येवं सप्तधा धाम्यं हयमूत्रैर्निषेचयेत् ॥ ३,२.३७ ॥ अनेन क्रमयोगेन मृतं भवति निश्चितम् । तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥ ३,२.३८ ॥ {मेर्चुर्य्:: शोधन} भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे । क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥ ३,२.३९ ॥ भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् । पूर्ववत्पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा च पाचयेत् ॥ ३,२.४० ॥ पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् । पातयेत्पातनायंत्रे सम्यक्शुद्धो भवेद्रसः ॥ ३,२.४१ ॥ {मेर्चुर्य्:: शोधन} रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् । जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥ ३,२.४२ ॥ पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये । {मेर्चुर्य्:: शोधन} अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि । कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥ ३,२.४३ ॥ कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् । पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये । इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥ ३,२.४४ ॥ {मेर्चुर्य्:: मर्दन:: अप्प्लिचतिओन्} युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् । शोधने चारणे चैव जारणे च विशेषतः । मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥ ३,२.४५ ॥ {तप्तखल्व} अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् । तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ ३,२.४६ ॥ खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् । तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥ ३,२.४७ ॥ {मेर्चुर्य्:: हिङ्गुलाकृष्ट} अथवा हिंगुलात्सूतं ग्राहयेत्तन्निगद्यते । गोमूत्रैर्माहिषैर्मूत्रैस्तिलतैलसुराम्लकैः ॥ ३,२.४८ ॥ सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना । चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥ ३,२.४९ ॥ सद्रवं तं समादाय शिखिपित्तेन भावयेत् । दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥ ३,२.५० ॥ सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥ ३,२.५१ ॥ कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् । इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥ ३,२.५२ ॥ {मेर्चुर्य्:: हिङ्गुलाकृष्ट} दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् । पातयेत्पातनायंत्रे दिनान्ते तत्समुद्धरेत् । विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥ ३,२.५३ ॥ सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् । अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥ ३,२.५४ ॥ ३, ३ षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् । वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥ ३,३.१ ॥ {वज्र:: सुब्त्य्पेस्} श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः । पुंस्त्रीनपुंसकाश्चेति लक्षणेन तु लक्षयेत् ॥ ३,३.२ ॥ {पुंवज्र:: परीक्षा} वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहत्तराः । पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ ३,३.३ ॥ {स्त्रीवज्र:: परीक्षा} रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः । {नपुंसक:: परीक्षा} त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥ ३,३.४ ॥ सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः । स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥ ३,३.५ ॥ {दिव्यौषधि} अजामारी काकमाची देवदालीन्द्रवारुणी । काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥ ३,३.६ ॥ मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया । मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥ ३,३.७ ॥ मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः । विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥ ३,३.८ ॥ स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा । स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥ ३,३.९ ॥ पलाशाङ्कोलविजया मेघनादार्कसर्षपाः । ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥ ३,३.१० ॥ उदुम्बरसोमलता कुम्भी पुष्करमूलकम् । तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥ ३,३.११ ॥ करवीरोऽग्निदमनी बृहती भूमिपाटली । यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥ ३,३.१२ ॥ बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका । अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥ ३,३.१३ ॥ गोरम्भा कदली जाती मुसली सहदेविका । एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥ ३,३.१४ ॥ मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका । क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥ ३,३.१५ ॥ दिव्यौषधिगणः ख्यातो रसराजस्य साधने । व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥ ३,३.१६ ॥ {विषवर्गः} तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः । मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥ ३,३.१७ ॥ रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा । मौस्तिकं विषवर्गः स्यात्मूषाकरणमुच्यते । {वज्रमूषा:: प्रोदुच्तिओन्} तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका । कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥ ३,३.१८ ॥ मर्दयेत्कारयेन्मूषां वज्राख्यां रसबन्धकाम् । {वज्रमूषा (२)} वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥ ३,३.१९ ॥ श्वेतपाषाणकं चैतत्सर्वं चूर्ण्यं समं समम् । सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥ ३,३.२० ॥ मूषासंपुटकं कुर्यात्सन्धिं लिप्याच्च तेन वै । सर्वकार्यकरा एषा वज्रमूषा महाबला ॥ ३,३.२१ ॥ {वज्रमूषा (३)} गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका । गजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥ ३,३.२२ ॥ पाषाणभेदीपत्राणि कृष्णा मृच्च समं समम् । वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद्दृढम् ॥ ३,३.२३ ॥ तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् । वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥ ३,३.२४ ॥ मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता । सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥ ३,३.२५ ॥ प्रकटा शरावकाकारा बीजनिर्वापणे हिता । {वज्र:: मारण} सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः । मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥ ३,३.२६ ॥ चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् । पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥ ३,३.२७ ॥ एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् । स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥ ३,३.२८ ॥ तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद्दृढम् । गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥ ३,३.२९ ॥ क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् । तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥ ३,३.३० ॥ सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् । तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥ ३,३.३१ ॥ सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् । {वज्र:: मारण} त्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥ ३,३.३२ ॥ त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् । तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,३.३३ ॥ एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् । {वज्रमारणम् (६)} तालकासीससौराष्ट्रयोर्ह्यपामार्गस्य भस्म च ॥ ३,३.३४ ॥ पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् । क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥ ३,३.३५ ॥ {वज्रमारणम् (७)} वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् । तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥ ३,३.३६ ॥ सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् । रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥ ३,३.३७ ॥ म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् । {वज्रमारणम् (८)} उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥ ३,३.३८ ॥ क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु । नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥ ३,३.३९ ॥ {वज्रमारणम् (९)} भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् । तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥ ३,३.४० ॥ {वज्रमारणम् (१०)} स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् । वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥ ३,३.४१ ॥ तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् । इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥ ३,३.४२ ॥ कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च । धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥ ३,३.४३ ॥ {वज्रमारणम् (११)} वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् । शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ॥ ३,३.४४ ॥ विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः । तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥ ३,३.४५ ॥ {वज्रमारणम् (१२)} गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा । पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥ ३,३.४६ ॥ सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा । {वज्र:: मृदूकरण} मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् । पचेत्पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥ ३,३.४७ ॥ नागवल्ल्या द्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् । जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥ ३,३.४८ ॥ {वज्रौदनं वज्रमृदूकरणम् (२)} मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् । जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ ३,३.४९ ॥ कुलत्थकोद्रवक्वाथैस्त्रैफले वा कषायके । अहोरात्रात्समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥ ३,३.५० ॥ मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् । पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,३.५१ ॥ बदरीवटनिम्बानामङ्कुराणि समाहरेत् । पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ ३,३.५२ ॥ अश्वत्थपत्रकैर्वेष्ट्यं तद्गोलं जानुमध्यगम् । दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥ ३,३.५३ ॥ {वज्रमृदूकरणम् (३)} पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् । तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ ३,३.५४ ॥ नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् । मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् । तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥ ३,३.५५ ॥ {वज्रमृदूकरणम् (४)} कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥ ३,३.५६ ॥ ससूतमम्लयोगेन दिनमेकं विमर्दयेत् । तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥ ३,३.५७ ॥ पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः । वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ ३,३.५८ ॥ {वर्जमृदूकरणम् (५)} एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् । मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥ ३,३.५९ ॥ कोमलं जायते वज्रं दिनान्ते नात्र संशयः । {वज्रमृदूकरणम् (६)} वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥ ३,३.६० ॥ अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् । निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥ ३,३.६१ ॥ मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् । तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥ ३,३.६२ ॥ भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् । सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ ३,३.६३ ॥ {वैक्रान्तशोधनम्} त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः । मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥ ३,३.६४ ॥ सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् । सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥ ३,३.६५ ॥ {उपरसानां शोधनम्} जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् । शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् । कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥ ३,३.६६ ॥ {गन्धकशुद्धिः (१)} यामैकं गन्धकं मर्द्यं द्रवैर्निम्बाजगन्धयोः । शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः । तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥ ३,३.६७ ॥ लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् । इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥ ३,३.६८ ॥ {गन्धकशोधनम् (२)} करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ ३,३.६९ ॥ क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् । गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत् ॥ ३,३.७० ॥ तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् । आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥ ३,३.७१ ॥ द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः । तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ ३,३.७२ ॥ आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे । ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ ३,३.७३ ॥ भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे । तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ ३,३.७४ ॥ घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः । भृङ्गराजद्रवान्तस्थं सम्यक्शुद्धं भवेत्तु तत् ॥ ३,३.७५ ॥ {गन्धतैल} अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते । अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥ ३,३.७६ ॥ नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् । गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ ३,३.७७ ॥ एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः । धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥ ३,३.७८ ॥ शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका । कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥ ३,३.७९ ॥ मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके । अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ ३,३.८० ॥ त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् । इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥ ३,३.८१ ॥ {हरितालशुद्धिः (१)} सचूर्णेणारनालेन दोलायन्त्रेण तालकम् । दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥ ३,३.८२ ॥ शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये । {हरितालशुद्धिः (२)} तालकं कणशः कृत्वा तालात्पादांशटङ्कणम् ॥ ३,३.८३ ॥ द्वयं जम्बीरजैर्द्रावैः क्षालयेत्काञ्जिकैस्तथा । तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥ ३,३.८४ ॥ द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः । पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥ ३,३.८५ ॥ {विमलशुद्धिः} सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् । पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥ ३,३.८६ ॥ सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् । दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ ३,३.८७ ॥ {रसकशुद्धिः} रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् । तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥ ३,३.८८ ॥ {उपरस:: शोधन} पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः । अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ ३,३.८९ ॥ यवसूरणभूधात्रीमाण्डूकीकरवीरकैः । कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥ ३,३.९० ॥ मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः । तैलमत्स्यवसाव्योषैर्द्रवैरेतैः सकाञ्जिकैः ॥ ३,३.९१ ॥ एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् । अभ्रपत्राद्युपरसान् शुद्धिहेतोस्तु पाचयेत् ॥ ३,३.९२ ॥ {उपरस:: शोधन} सूर्यावर्तो वज्रकन्दः कदली देवदालिका । शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥ ३,३.९३ ॥ आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् । भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥ ३,३.९४ ॥ एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् । वैक्रांतं सस्यकं तालं कान्तपाषाणमञ्जनम् ॥ ३,३.९५ ॥ विमलां च शिलां तुत्थमन्यानुपरसांस्तथा । दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् । तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥ ३,३.९६ ॥ {धान्याभ्रकरणम्} शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे । वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥ ३,३.९७ ॥ हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् । द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥ ३,३.९८ ॥ {अभ्र:: मारण:: निश्चन्द्र} एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर्दिनावधि । कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥ ३,३.९९ ॥ इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः । ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥ ३,३.१०० ॥ सघृतैर्महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् । निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥ ३,३.१०१ ॥ {अभ्रकभस्म (२)} पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥ ३,३.१०२ ॥ धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् । पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥ ३,३.१०३ ॥ {मेतल्स्:: शोधन} तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके । कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥ ३,३.१०४ ॥ तप्त्वा तप्त्वा निषिञ्चेदेकैकस्मिंस्तु सप्तधा । स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥ ३,३.१०५ ॥ {लेअद्, तिन्:: शोधन} द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये । {ब्रोन्शे, चोप्पेर्:: शोधन} त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥ ३,३.१०६ ॥ भावयेदातपे तीव्रे तत्कल्केन विलेप्य च । घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥ ३,३.१०७ ॥ {लेअद्:: मारण} लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् । चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥ ३,३.१०८ ॥ भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् । पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,३.१०९ ॥ स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् । अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् । एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥ ३,३.११० ॥ {इरोन् (गेन्.):: मारण} नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥ ३,३.१११ ॥ तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् । रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ॥ ३,३.११२ ॥ जम्बीरैरारनालैर्वा विंशांशदरदेन च । पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥ ३,३.११३ ॥ चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् । म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥ ३,३.११४ ॥ {वङ्गभस्म} लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् । चाल्यमश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥ ३,३.११५ ॥ तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् । पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥ ३,३.११६ ॥ उद्धृत्य दशमांशेन तालेन सह मर्दयेत् । पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् । चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥ ३,३.११७ ॥ {चोप्पेर्:: मारण} कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥ ३,३.११८ ॥ अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् । उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ॥ ३,३.११९ ॥ जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत्पुनः । एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥ ३,३.१२० ॥ मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् । सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥ ३,३.१२१ ॥ {सिल्वेर्:: मारण} माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् । लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥ ३,३.१२२ ॥ कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् । पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥ ३,३.१२३ ॥ रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् । एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥ ३,३.१२४ ॥ {गोल्द्:: मारण} मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् । पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥ ३,३.१२५ ॥ रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् । तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥ ३,३.१२६ ॥ यामैकं मर्दयेदम्लै रुद्ध्वा गजपुटे पचेत् । एवमष्टपुटैः पक्वं मृतं भवति हाटकम् । {ब्रस्स्, ब्रोन्शे:: मारण} आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥ ३,३.१२७ ॥ विविधपरमयोगैर्युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च । पविबलिगगनानां सर्वलोहे विशेषाद्गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥ ३,३.१२८ ॥ ३, ४ सम्यक्सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर्गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् । यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् । सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥ ३,४.१ ॥ {गन्धपिष्टि} दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥ ३,४.२ ॥ कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका । {स्वर्णपिष्टि} भागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥ ३,४.३ ॥ अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका । {सुल्fउर्:: षड्गुणजारण} गन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥ ३,४.४ ॥ वस्त्रेण वेष्टयेद्गाढं सूताख्ये लोहसंपुटे । निधाय पोटलीमध्ये सर्वतुल्यं च गन्धकम् ॥ ३,४.५ ॥ क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् । भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥ ३,४.६ ॥ षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् । पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥ ३,४.७ ॥ निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः । एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥ ३,४.८ ॥ {वेध:: सिल्वेर्=> गोल्द्} तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् । कुमारीद्रवपिष्टेन काचेनाङ्गुलमात्रकम् ॥ ३,४.९ ॥ तद्बहिष्टङ्कणेनैव लोणमृत्तिकया ततः । वेष्ट्यमङ्गुलितैलेन सूर्यतापेन शोषितम् ॥ ३,४.१० ॥ कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना । तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥ ३,४.११ ॥ तेन वेधस्तु तारस्य द्रुतस्य शतभागतः । देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥ ३,४.१२ ॥ {गन्धपिष्टि} गन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः । भावयेदातपे तद्वन्नारीणां रजसा पुनः ॥ ३,४.१३ ॥ तद्गन्धं कर्षमेकं तु नरपित्तेन लोलितम् । पलैकं पारदं शुद्धमातपे खर्परे क्षिपेत् ॥ ३,४.१४ ॥ तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् । पिष्टिका जायते दिव्या सर्वकामफलप्रदा ॥ ३,४.१५ ॥ {गन्धपिष्टि} तिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् । भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥ ३,४.१६ ॥ शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् । शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥ ३,४.१७ ॥ तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् । त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥ ३,४.१८ ॥ पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका । गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥ ३,४.१९ ॥ {गन्धपिष्टि} छायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः । घर्मे मृत्खर्परे सूतं क्षिपेत्किंचिच्च गन्धकम् ॥ ३,४.२० ॥ मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः । देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥ ३,४.२१ ॥ जायते पिष्टिका दिव्या सर्वकामफलप्रदा । {गन्धपिष्टि} गन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥ ३,४.२२ ॥ त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा । कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥ ३,४.२३ ॥ आतपे त्रीणि वाराणि ततो जारणमारभेत् । द्विगुञ्जामात्रकर्पूरैर्यन्त्रगर्भं प्रलेपयेत् ॥ ३,४.२४ ॥ तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् । शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥ ३,४.२५ ॥ पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् । श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥ ३,४.२६ ॥ आच्छाद्य तेन कल्केन शरावेण निरुध्य च । पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥ ३,४.२७ ॥ कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि । इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥ ३,४.२८ ॥ {गन्धपिष्टि} पारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् । स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥ ३,४.२९ ॥ मर्दयेदातपे तीव्रे जायते गन्धपिष्टिका । {गन्धपिष्टि} शुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥ ३,४.३० ॥ निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् । कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥ ३,४.३१ ॥ {गन्धपिष्टि:: स्तम्भन} तिक्तकोशातकीबीजं चाण्डालीकन्द एव च । नारीस्तन्येन सम्पिष्य लेपयेद्गन्धपिष्टिकाम् ॥ ३,४.३२ ॥ निक्षिपेत्सूरणे कन्दे क्षीरकन्दोदरे तथा । वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥ ३,४.३३ ॥ मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् । पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥ ३,४.३४ ॥ ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते । ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥ ३,४.३५ ॥ {गन्धपिष्टि:: स्तम्भित:: जारण} अथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे । निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥ ३,४.३६ ॥ जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् । एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥ ३,४.३७ ॥ सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् । {गन्धपिष्टि:: मारण} दिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् । दिनान्ते गोलकं कृत्वा बीजैर्दिव्यगणोद्भवैः ॥ ३,४.३८ ॥ लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् । दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,४.३९ ॥ समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् । पुटान्तं कारयेदेवं दशवारं पुनः पुनः ॥ ३,४.४० ॥ {गन्धपिष्टि:: वेध:: सिल्वेर्=> गोल्द्} म्रियते नात्र संदेहो गन्धपिष्ट्यास्ततः पुनः । मृतपिष्टिपलैकं तु पेषयेद्वासकद्रवैः ॥ ३,४.४१ ॥ तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् । छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥ ३,४.४२ ॥ तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः । समुद्धृत्य पुनर्देया पलैका मृतपिष्टिका ॥ ३,४.४३ ॥ वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः । वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.४४ ॥ एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् । तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥ ३,४.४५ ॥ मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् । दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥ ३,४.४६ ॥ षोडशांशेन तेनैव तारे वेधं प्रदापयेत् । तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥ ३,४.४७ ॥ यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना । पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥ ३,४.४८ ॥ {वेध:: सिल्वेर्=> गोल्द्} अर्जुनस्य त्वचो भस्म वासाभस्म समं समम् । गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥ ३,४.४९ ॥ कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् । उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥ ३,४.५० ॥ रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् । एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥ ३,४.५१ ॥ तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् । रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥ ३,४.५२ ॥ इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् । {वेध:: सिल्वेर्=> गोल्द्} लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥ ३,४.५३ ॥ क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना । यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥ ३,४.५४ ॥ सुसूक्ष्मं मर्दयेत्तावत्दृढं पाषाणमुष्टिना । पचेच्चण्डाग्निना तावद्दिनानामेकविंशतिम् ॥ ३,४.५५ ॥ जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् । चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥ ३,४.५६ ॥ {वेध:: सिल्वेर्=> गोल्द्} द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् । चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥ ३,४.५७ ॥ यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि । मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥ ३,४.५८ ॥ पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः । उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥ ३,४.५९ ॥ रात्रौ पाच्यं दिवा मर्द्यं यावत्षण्मासमेव च । यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् । सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥ ३,४.६० ॥ {वेध:: सिल्वेर्=> गोल्द्} शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् । जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥ ३,४.६१ ॥ लिप्त्वा लिप्त्वा पुटैः पच्याद्यावच्छष्टिपुटी भवेत् ॥ ३,४.६२ ॥ तन्नागं विद्युदाभासं जायते तेन वेधयेत् । चतुःषष्टितमांशेन तारमायाति काञ्चनम् । {वेध:: सिल्वेर्=> गोल्द्} तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् । चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.६३ ॥ वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् । सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.६४ ॥ {तारारिष्ट} शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेथठात् । तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.६५ ॥ तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् । रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥ ३,४.६६ ॥ पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते । {तारारिष्ट} वङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥ ३,४.६७ ॥ माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् । एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥ ३,४.६८ ॥ पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च । मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.६९ ॥ पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् । तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.७० ॥ {वेध:: सिल्वेर्=> गोल्द्} शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् । नागचूर्णं च भागैकमन्धमूषागतं धमेत् ॥ ३,४.७१ ॥ सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् । कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥ ३,४.७२ ॥ मधुना याममात्रं तु तेन लेपं तु कारयेत् । शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.७३ ॥ रुद्ध्वा गजपुटे पच्याद्दिव्यं भवति काञ्चनम् । {वेध:: सिल्वेर्=> गोल्द्} मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् । शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥ ३,४.७४ ॥ अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् । एवं शतपुटैः पक्वं जायते पद्मरागवत् ॥ ३,४.७५ ॥ तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् । रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.७६ ॥ तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् । {वेध:: सिल्वेर्=> गोल्द्} राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.७७ ॥ प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा । सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.७८ ॥ अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् । पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.७९ ॥ तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् । एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,४.८० ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् । एतानि समभागानि द्विभागं रसकं भवेत् ॥ ३,४.८१ ॥ मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् । छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥ ३,४.८२ ॥ दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् । प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.८३ ॥ अर्धकल्केन लेप्याथ पादकल्केन वा पुनः । एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥ ३,४.८४ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् । सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत्कृतम् ॥ ३,४.८५ ॥ तेनैव मधुनोक्तेन तारारिष्टं प्रलेपयेत् । रुद्ध्वा रुद्ध्वा पुटे पच्यात्त्रिधा भवति काञ्चनम् ॥ ३,४.८६ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्लेअद्)} गंधकं तालकं शुल्वं समहिंगुलपेषितम् । मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥ ३,४.८७ ॥ लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् । एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥ ३,४.८८ ॥ तेन तारस्य पत्राणि मधुलिप्तानि लेपयेत् । रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥ ३,४.८९ ॥ तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् । {वेध:: लेअद्=> गोल्द्} लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् । सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥ ३,४.९० ॥ चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् । द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥ ३,४.९१ ॥ यामैकं मर्दयेत्सर्वं पूर्वपिण्डोदरे क्षिपेत् । तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना । तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥ ३,४.९२ ॥ तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् । तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,४.९३ ॥ {वेध:: सिल्वेर्=> गोल्द्} पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि । मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥ ३,४.९४ ॥ शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् । पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,४.९५ ॥ इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् । ततस्तस्यैव पत्राणि तेन कल्केन लेपयेत् ॥ ३,४.९६ ॥ उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् । सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥ ३,४.९७ ॥ {वेध:: सिल्वेर्=> गोल्द्} कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् । शाकवृक्षफलद्रावैः सुपक्वैर्मर्दयेद्दिनम् ॥ ३,४.९८ ॥ तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् । आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥ ३,४.९९ ॥ एवं पुनः पुनः कुर्यादेकविंशतिवारकम् । तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥ ३,४.१०० ॥ {वेध:: सिल्वेर्=> गोल्द्} पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् । रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥ ३,४.१०१ ॥ तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् । धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥ ३,४.१०२ ॥ शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः । रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥ ३,४.१०३ ॥ अनेन पूर्वतारस्य द्रुतस्य प्रतिवापनम् । दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥ ३,४.१०४ ॥ {सिद्धचूर्ण} गन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् । मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥ ३,४.१०५ ॥ उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् । पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥ ३,४.१०६ ॥ सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् । {सिद्धचूर्ण} शुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥ ३,४.१०७ ॥ जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा । कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥ ३,४.१०८ ॥ कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् । सिद्धचूर्णमिदं ख्यातं भवेत्पादादिकं पलम् ॥ ३,४.१०९ ॥ यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् । योजयेल्लोहवादेषु तदिदानीं निगद्यते ॥ ३,४.११० ॥ {वेध, रञ्जन:: सिल्वेर्=> गोल्द्} ताम्रतीक्ष्णारकान्तानां चूर्णमेकस्य चाहरेत् । यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,४.१११ ॥ वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् । तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥ ३,४.११२ ॥ मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि । तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥ ३,४.११३ ॥ आरण्योपलकैरेवं पुटं दद्याच्चतुर्दश । इन्द्रगोपकसंकाशं जायते पूजयेच्छिवम् ॥ ३,४.११४ ॥ क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् । रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥ ३,४.११५ ॥ जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः । इत्येवं सर्वयोगानामत्रत्यानां पृथक्पृथक् ॥ ३,४.११६ ॥ सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः । {वेध:: सिल्वेर्=> गोल्द्} शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥ ३,४.११७ ॥ आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् । शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥ ३,४.११८ ॥ तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् । एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥ ३,४.११९ ॥ पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् । {??} शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥ ३,४.१२० ॥ समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् । नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥ ३,४.१२१ ॥ रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् । सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥ ३,४.१२२ ॥ रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् । {वेध:: सिल्वेर्=> गोल्द्} गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥ ३,४.१२३ ॥ हंसपाच्चित्रकद्रावैर्दिनमेकं विमर्दयेत् । तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,४.१२४ ॥ तमुद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् । पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥ ३,४.१२५ ॥ इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् । {सिल्वेर्:: रञ्जन} तीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥ ३,४.१२६ ॥ नवभागं ताम्रचूर्णं नागं च नवभागकम् । अंधमूषागतं ध्मातं तत्खोटं सूक्ष्मचूर्णितम् ॥ ३,४.१२७ ॥ सिद्धचूर्णेन संयुक्तं पूर्ववत्ताररञ्जनम् । {??} मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥ ३,४.१२८ ॥ केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् । {वेध:: सिल्वेर्=> गोल्द्} नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥ ३,४.१२९ ॥ तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् । पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ॥ ३,४.१३० ॥ {वेध:: सिल्वेर्=> गोल्द्} तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् । चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.१३१ ॥ वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् । सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.१३२ ॥ {तारारिष्ट:: प्रोदुच्तिओन्} शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् । तत्खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.१३३ ॥ तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् । रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.१३४ ॥ पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते । {तारारिष्ट:: प्रोदुच्तिओन्} वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥ ३,४.१३५ ॥ माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् । एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥ ३,४.१३६ ॥ पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च । मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.१३७ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् । तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.१३८ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् । नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥ ३,४.१३९ ॥ सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् । कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥ ३,४.१४० ॥ मधुना याममात्रं तु तेन लेपं तु कारयेत् । शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.१४१ ॥ रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् । {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.१४२ ॥ प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा । सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.१४३ ॥ अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् । पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.१४४ ॥ तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् । एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,४.१४५ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् । एतानि समभागानि द्विभागो रसको भवेत् ॥ ३,४.१४६ ॥ मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् । छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥ ३,४.१४७ ॥ दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् । प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.१४८ ॥ अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः । एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥ ३,४.१४९ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)} रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् । सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥ ३,४.१५० ॥ तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् । रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥ ३,४.१५१ ॥ {वेध:: सिल्वेर्=> गोल्द्(wइथ्चोप्पेर्)} शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् । पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥ ३,४.१५२ ॥ तत्पत्रमारनालस्थं क्षालयेदारनालकैः । पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥ ३,४.१५३ ॥ रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् । मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥ ३,४.१५४ ॥ तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् । तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥ ३,४.१५५ ॥ {वेध:: सिल्वेर्=> गोल्द्} शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः । ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥ ३,४.१५६ ॥ तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि । तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥ ३,४.१५७ ॥ रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा । जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥ ३,४.१५८ ॥ {वेध:: सिल्वेर्=> गोल्द्} शुद्धसूतसमा राजी सूतपादं च गन्धकम् । मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥ ३,४.१५९ ॥ वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः । एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥ ३,४.१६० ॥ तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै । चतुःषष्टितमांशेन तारपत्राणि लेपयेत् ॥ ३,४.१६१ ॥ रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते । तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥ ३,४.१६२ ॥ तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् । देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥ ३,४.१६३ ॥ ३, ५ महारसैश्चोपरसैः ससूतैर्हेम्नो दलं रञ्जनमत्र युक्त्या । नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥ ३,५.१ ॥ {गोल्द्:: fरों सितस्वर्ण} वैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा । कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥ ३,५.२ ॥ समेन नागचूर्णेन अन्धमूषागतं धमेत् । सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥ ३,५.३ ॥ आदाय मधुना पेष्यं याममात्रं प्रयत्नतः । स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥ ३,५.४ ॥ सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् । रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,५.५ ॥ जायते कनकं दिव्यं सेचयेल्लवणोदकैः । लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥ ३,५.६ ॥ एवं विमलनागाभ्यां पृथग्योग उदाहृतः । {गोल्द्:: fरों सितस्वर्ण} नागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥ ३,५.७ ॥ सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् । {सितस्वर्ण => गोल्द्} मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥ ३,५.८ ॥ शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः । अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥ ३,५.९ ॥ एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् । {सितस्वर्ण => गोल्द्} नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥ ३,५.१० ॥ अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् । मर्दनं पुटपाकं च पूर्ववत्कारयेत्क्रमात् ॥ ३,५.११ ॥ तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् । लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत्कुङ्कुमसंनिभम् ॥ ३,५.१२ ॥ एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् । जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥ ३,५.१३ ॥ {सितस्वर्ण => गोल्द्} वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् । शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥ ३,५.१४ ॥ लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् । {सितस्वर्ण => गोल्द्} माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥ ३,५.१५ ॥ मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् । पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥ ३,५.१६ ॥ पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् । {सिल्वेर्=> गोल्द्} राजावर्तं च सिन्दूरं पारावतमलं समम् ॥ ३,५.१७ ॥ अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् । {मिxतुरे ओf गोल्दन्द्सिल्वेर्=> गोल्द्} रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥ ३,५.१८ ॥ भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् । तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥ ३,५.१९ ॥ वेधयेत्पूर्ववत्सिद्धं दिव्यं भवति काञ्चनम् । {मिxतुरे ओf गोल्दन्द्सिल्वेर्=> गोल्द्} कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥ ३,५.२० ॥ राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् । सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥ ३,५.२१ ॥ द्रुते समे स्वर्णतारे पूर्ववत्सेचयेत्क्रमात् । त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥ ३,५.२२ ॥ {बीज:: पक्व:: प्रोदुच्तिओन्} गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् । यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ ३,५.२३ ॥ इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् । तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,५.२४ ॥ काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् । अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥ ३,५.२५ ॥ अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् । पूर्ववत्पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥ ३,५.२६ ॥ एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् । पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥ ३,५.२७ ॥ {सितस्वर्ण => गोल्द्} अनेन षोडशांशेन सितस्वर्णं तु वेधयेत् । सेचयेत्कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥ ३,५.२८ ॥ पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् । एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥ ३,५.२९ ॥ {गोल्द्:: रञ्जन:: दशवर्ण} पूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् । तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥ ३,५.३० ॥ {गोल्द्:: रक्ती (रञ्जन)} निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् । टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥ ३,५.३१ ॥ सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् । निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥ ३,५.३२ ॥ एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् । जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥ ३,५.३३ ॥ गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका । {गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्ण} अष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥ ३,५.३४ ॥ क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् । {गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्ण} ताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥ ३,५.३५ ॥ ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् । इष्टिका तुवरी चैव खटिका लवणं तथा ॥ ३,५.३६ ॥ गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् । तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,५.३७ ॥ एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् । तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥ ३,५.३८ ॥ पूर्ववत्पुटपाकेन पचेत्स्वर्णावशेषितम् । इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥ ३,५.३९ ॥ तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् । षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥ ३,५.४० ॥ तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः । {गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्ण} समं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥ ३,५.४१ ॥ कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् । एवं वारांश्चतुःषष्टिस्ततः शुष्कं विचूर्णयेत् ॥ ३,५.४२ ॥ षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् । तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥ ३,५.४३ ॥ {गोल्द्:: रञ्जन:: अष्टवर्ण => दशवर्ण} रसकं घोषताम्रं च काचं श्वेतं नृकेशकम् । पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत्पृथक् ॥ ३,५.४४ ॥ रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः । गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥ ३,५.४५ ॥ विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि । मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥ ३,५.४६ ॥ कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् । षड्गुणं तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥ ३,५.४७ ॥ षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् । दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥ ३,५.४८ ॥ {चोप्पेर्:: रेमोविन्ग्कालिका} अथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् । निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥ ३,५.४९ ॥ कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् । निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् । एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥ ३,५.५० ॥ {चोप्पेर्, सिल्वेर्, गोल्द्=> गोल्द्} एतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् । रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥ ३,५.५१ ॥ जायते कनकं दिव्यं पुरा नागार्जुनोदितम् । {गोल्द्:: रञ्जन:: Vएर्बेस्सेरुन्गुं श्wएइ Fअर्ब्स्तुfएन्} अङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥ ३,५.५२ ॥ अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् । तदङ्गारान् समादाय शीतलांश्च पुनर्धमेत् ॥ ३,५.५३ ॥ अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् । तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥ ३,५.५४ ॥ द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः । एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥ ३,५.५५ ॥ अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैरल्पाल्पकर्मविधिना बहुभिर्विशेषैः । लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥ ३,५.५६ ॥ ३, ६ नानारक्तसुपीतपुष्पनिचयादादाय सारं निजम् । तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् । पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् । तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥ ३,६.१ ॥ {मेर्चुर्य्:: रक्तपारद:: प्रोदुच्तिओन्} स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता । तस्याः षोडशभागा वै भागैकं मृतवज्रकम् ॥ ३,६.२ ॥ देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् । पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥ ३,६.३ ॥ यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् । एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥ ३,६.४ ॥ दिनैकं पातनायन्त्रे पाचयेल्लघुनाग्निना । पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥ ३,६.५ ॥ अधोयन्त्रे यदा तिष्ठेत्तदा स्याद्रक्तपारदः । {लेअद्=> गोल्द्} रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥ ३,६.६ ॥ टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि । वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥ ३,६.७ ॥ पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश । षोडशांशेन नागस्य वेधे दत्ते च काञ्चनम् ॥ ३,६.८ ॥ जायते दिव्यरूपाढ्यं देवाभरणमुत्तमम् । {लेअद्=> गोल्द्} शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥ ३,६.९ ॥ मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् । सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥ ३,६.१० ॥ चत्वारिंशत्पुटैः सिध्यं दिव्यं भवति काञ्चनम् । {लेअद्=> गोल्द्} रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥ ३,६.११ ॥ पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् । मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥ ३,६.१२ ॥ तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया । अन्धमूषागतं ध्मातं शाकपत्रद्रवे ततः ॥ ३,६.१३ ॥ सेचयेदुद्धरेत्पश्चात्प्रकटं द्रावयेत्पुनः । शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥ ३,६.१४ ॥ इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् । लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,६.१५ ॥ सेचनं द्रावणं चैव सप्तवाराणि कारयेत् । इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥ ३,६.१६ ॥ तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् । {लेअद्=> गोल्द्} दग्धं तु चुन्नपाषाणमारनाले विनिक्षिपेत् ॥ ३,६.१७ ॥ मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः । तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥ ३,६.१८ ॥ पेषयेत्तेन कल्केन नागचूर्णं विमर्दयेत् । यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥ ३,६.१९ ॥ इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः । शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥ ३,६.२० ॥ मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् । समुद्धृत्य भवेत्पीतं स्तम्भनं चास्य कथ्यते ॥ ३,६.२१ ॥ {लेअद्=> गोल्द्} गोमूत्रैः क्षालयेदादौ भूनागाञ्जीवसंयुतान् । सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥ ३,६.२२ ॥ दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् । तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥ ३,६.२३ ॥ तस्मिंस्तैले पूर्वनागमथवा शुद्धनागकम् । द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥ ३,६.२४ ॥ तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् । {लेअद्=> गोल्द्} शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥ ३,६.२५ ॥ शाककिंशुककोरण्टपुष्पाणां ग्राहयेद्रसम् । यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥ ३,६.२६ ॥ अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् । पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.२७ ॥ जायते कनकं दिव्यं तन्नागं देवभूषणम् । {चोप्पेर्=> गोल्द्} शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥ ३,६.२८ ॥ पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् । तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥ ३,६.२९ ॥ दिनं जम्बीरनीरेण काकमाचीद्रवैर्दिनम् । कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥ ३,६.३० ॥ क्रमेण भावयेदेवं घर्मे दिनचतुष्टयम् । मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन्न गच्छति ॥ ३,६.३१ ॥ पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् । तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥ ३,६.३२ ॥ पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् । भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥ ३,६.३३ ॥ विधाय लेपकल्केन ततो मूषां निरुध्य च । भूधरे दिनमेकं तु करीषाग्नौ विपाचयेत् ॥ ३,६.३४ ॥ स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् । लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥ ३,६.३५ ॥ एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् । सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥ ३,६.३६ ॥ पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् । काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥ ३,६.३७ ॥ रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः । टङ्कणं रसकं तालं क्रमाद्दद्यात्पुनस्त्रयम् ॥ ३,६.३८ ॥ काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् । अथवा काचकीलेन रुद्ध्वा मृल्लवणेन च ॥ ३,६.३९ ॥ कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् । तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥ ३,६.४० ॥ दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः । स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥ ३,६.४१ ॥ चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् । स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥ ३,६.४२ ॥ {चन्द्रार्क => गोल्द्} पलानि दश गन्धस्य सूतकस्यैकविंशतिः । महाकालस्य बीजोत्थतैलं पञ्चपलं भवेत् ॥ ३,६.४३ ॥ सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना । माषपिष्टप्रलेपेन यथा धूमो न गच्छति ॥ ३,६.४४ ॥ स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् । सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,६.४५ ॥ {चोप्पेर्=> गोल्द्} पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् । मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४६ ॥ आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः । शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ ३,६.४७ ॥ तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् । इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.४८ ॥ {चोप्पेर्=> गोल्द्} पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् । भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४९ ॥ शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः । शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥ ३,६.५० ॥ पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् । रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥ ३,६.५१ ॥ तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् । {चोप्पेर्=> गोल्द्} काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥ ३,६.५२ ॥ टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस्त्र्यहम् । मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥ ३,६.५३ ॥ शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् । पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥ ३,६.५४ ॥ ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् । {चोप्पेर्, सिल्वेर्=> गोल्द्} तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥ ३,६.५५ ॥ खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् । तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥ ३,६.५६ ॥ शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् । {चोप्पेर्=> गोल्द्} ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥ ३,६.५७ ॥ दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् । ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥ ३,६.५८ ॥ सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् । तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,६.५९ ॥ तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् । अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥ ३,६.६० ॥ द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके । ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.६१ ॥ जायते कनकं दिव्यं नात्र कार्या विचारणा । {चोप्पेर्=> गोल्द्} गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥ ३,६.६२ ॥ शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः । शतवारं प्रयत्नेन तेन पत्राणि लेपयेत् ॥ ३,६.६३ ॥ सम्यक्शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् । समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥ ३,६.६४ ॥ पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत्क्रमात् । एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.६५ ॥ {सिल्वेर्, चोप्पेर्=> अष्टवर्ण गोल्द्} भागा द्वादश तारस्य शुल्वस्य भागषोडश । आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,६.६६ ॥ महिन्दीपत्रनिर्यासैरेवं वाराणि षोडश । रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥ ३,६.६७ ॥ दिनमङ्कोलतैलेन पूर्ववच्च क्रमेण तु । लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥ ३,६.६८ ॥ पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् । अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥ ३,६.६९ ॥ {मेर्चुर्य्=> गोल्द्} औषधी करुणी नाम प्रावृट्काले प्रजायते । नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥ ३,६.७० ॥ तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् । वज्रमूषास्थिते चैव यावत्सप्तदिनावधि ॥ ३,६.७१ ॥ जायते कनकं दिव्यं रस एव न संशयः । {मेर्चुर्य्, लेअद्, गोल्द्=> गोल्द्} पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस्त्र्यहम् ॥ ३,६.७२ ॥ मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च । दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥ ३,६.७३ ॥ एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः । तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर्वेष्टयेत्क्रमात् ॥ ३,६.७४ ॥ समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् । {चक्रयन्त्र} गर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥ ३,६.७५ ॥ चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः । {चोप्पेर्=> गोल्द्} माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् । मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद्दिनम् ॥ ३,६.७६ ॥ यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् । सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥ ३,६.७७ ॥ पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् । चालयन् दिनमेकं तु अवतार्य विलेपयेत् ॥ ३,६.७८ ॥ शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् । ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥ ३,६.७९ ॥ इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् । मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥ ३,६.८० ॥ अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् । अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥ ३,६.८१ ॥ इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् । {तारारिष्ट => गोल्द्} अनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥ ३,६.८२ ॥ जायते कनकं दिव्यं जाम्बूनदसमप्रभम् । {सुल्fउर्:: पिष्टी} शुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥ ३,६.८३ ॥ स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् । मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥ ३,६.८४ ॥ {मेर्चुर्य्(खोट), चन्द्रार्क => गोल्द्} धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् । कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥ ३,६.८५ ॥ एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् । पालाशमूलक्वाथेन मर्दयेच्च दिनत्रयम् ॥ ३,६.८६ ॥ ब्रह्ममूलं गुडं गुञ्जामूर्णा टङ्कणकं समम् । पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥ ३,६.८७ ॥ रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः । पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥ ३,६.८८ ॥ एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् । ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥ ३,६.८९ ॥ त्रिगुणं वाहयेदेवं रसराजस्य पन्नगम् । कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत्क्रमात् ॥ ३,६.९० ॥ मूषायां धाम्यमानं तच्छतवारं पुनः पुनः । दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥ ३,६.९१ ॥ सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् । {मेर्चुर्य्(खोट), लेअद्=> गोल्द्} स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥ ३,६.९२ ॥ पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् । ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥ ३,६.९३ ॥ ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् । छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥ ३,६.९४ ॥ तं खाठं शोधयेत्पश्चात्श्वेतटङ्कणकाचकैः । शोधयेद्धमनेनैव खोटो भवति निर्मलः ॥ ३,६.९५ ॥ तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् । अन्धमूषागतं धाम्यं यावत्खोटावशेषितम् ॥ ३,६.९६ ॥ अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् । ततो गन्धं च नागं च वाहयेत्षड्गुणं पुनः ॥ ३,६.९७ ॥ शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् । रुद्ध्वा तं च धमेत्खोटं गंधकं तेन मर्दयेत् ॥ ३,६.९८ ॥ रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश । अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥ ३,६.९९ ॥ यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् । ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥ ३,६.१०० ॥ ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् । इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥ ३,६.१०१ ॥ पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् । पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥ ३,६.१०२ ॥ त्रिधैव सारितः सूतः सहस्रांशेन विध्यते । द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥ ३,६.१०३ ॥ {गोल्द्:: रञ्जन:: सितस्वर्ण => षड्वर्ण} पूर्वं यच्छोधितं खोटमावर्त्यं स्वर्णतुल्यकम् । सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥ ३,६.१०४ ॥ दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना । तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥ ३,६.१०५ ॥ अथवा दोलिकायन्त्रे स्वेदयेद्द्रुतसूतकम् । अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥ ३,६.१०६ ॥ त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् । काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥ ३,६.१०७ ॥ स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् । {गोल्द्:: रञ्जन:: => षड्वर्ण} शोधितं सूतखोटं च भागमेकं समाहरेत् ॥ ३,६.१०८ ॥ स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् । पूर्ववत्क्रमयोगेन वेधयेद्रसगर्भकः ॥ ३,६.१०९ ॥ तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् । {रञ्जन:: लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्} अर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥ ३,६.११० ॥ कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् । एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥ ३,६.१११ ॥ शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् । अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥ ३,६.११२ ॥ तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् । तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत्त्र्यहम् ॥ ३,६.११३ ॥ इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् । तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥ ३,६.११४ ॥ मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः । पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥ ३,६.११५ ॥ स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता । तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥ ३,६.११६ ॥ समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् । तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥ ३,६.११७ ॥ पाचयेद्गन्धतैलं तु यावत्कुङ्कुमसंनिभम् । संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥ ३,६.११८ ॥ तेनैव चाष्टमांशेन नागपत्राणि लेपयेत् । पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥ ३,६.११९ ॥ नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् । समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥ ३,६.१२० ॥ कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् । ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥ ३,६.१२१ ॥ अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् । दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥ ३,६.१२२ ॥ कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् । एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,६.१२३ ॥ म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् । अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥ ३,६.१२४ ॥ तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् । जायते कनकं शुल्बं देवाभरणमुत्तमम् । नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् । धर्मकामसुखभाजनैर्जनैः साध्यतामखिललोकरक्षणे ॥ ३,६.१२५ ॥ ३, ७ धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् । खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥ ३,७.१ ॥ {पिष्टिगोलम्} दिव्यौषधद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् । शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥ ३,७.२ ॥ स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् । यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वमथापि वा ॥ ३,७.३ ॥ पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् । महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥ ३,७.४ ॥ दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे । मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥ ३,७.५ ॥ गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् । पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥ ३,७.६ ॥ {पिष्टिगोल} पूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् । नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥ ३,७.७ ॥ वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा । मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥ ३,७.८ ॥ कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् । वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥ ३,७.९ ॥ {पिष्टिगोल:: निगड} अथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः । गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥ ३,७.१० ॥ स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः । {पिष्टिगोल:: निगड} पालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥ ३,७.११ ॥ उन्मत्तनीलिजैर्द्रावैर्मर्द्यः स्यान्निगडोत्तमः । {पिष्टिगोल:: निगड} अभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् । स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥ ३,७.१२ ॥ {पिष्टिगोल:: निगड} वाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥ ३,७.१३ ॥ काकविट्कदलीकन्दतालगन्धमनःशिला । गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥ ३,७.१४ ॥ तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी । जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥ ३,७.१५ ॥ स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् । व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः । {मेर्चुर्य्:: खोट} एतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥ ३,७.१६ ॥ मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥ ३,७.१७ ॥ लिप्तं गोलं क्षिपेत्तस्यामूर्ध्वं लोणं च दापयेत् । रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥ ३,७.१८ ॥ मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् । करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥ ३,७.१९ ॥ मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् । सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥ ३,७.२० ॥ ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् । छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥ ३,७.२१ ॥ सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद्दृढम् । तच्छुद्धं जायते खोटमभीक्ष्णं नात्र संशयः ॥ ३,७.२२ ॥ इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् । पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥ ३,७.२३ ॥ {मेर्चुर्य्:: खोट} भागद्वयं सुवर्णस्य त्रिभागं पारदस्य च । पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥ ३,७.२४ ॥ इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् । {विडवटी} तत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् । माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ ३,७.२५ ॥ भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् । एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ ३,७.२६ ॥ एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः । एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥ ३,७.२७ ॥ प्रकाशमूषागर्भे तु ग्रसते वडवानलः । {मेर्चुर्य्:: रञ्जन, => शतवेधिन्} माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् । शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ ३,७.२८ ॥ वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥ ३,७.२९ ॥ जारितं सूतखोटं तु कल्केनानेन संयुतम् । वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥ ३,७.३० ॥ त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ॥ ३,७.३१ ॥ तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् । जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.३२ ॥ {द्रुतसूत} पिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् । दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥ ३,७.३३ ॥ मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा । शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥ ३,७.३४ ॥ पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् । पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥ ३,७.३५ ॥ मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् । भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥ ३,७.३६ ॥ द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् । पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥ ३,७.३७ ॥ निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् । एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥ ३,७.३८ ॥ आरोटस्य समं यावत्तावद्देयं द्रुतं भवेत् । {द्रुतसूत} आर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥ ३,७.३९ ॥ त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् । अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥ ३,७.४० ॥ तस्मिन् पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् । मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥ ३,७.४१ ॥ एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् । द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥ ३,७.४२ ॥ {चन्द्रार्क => गोल्द्(wइथ्द्रुतसूत)} द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् । भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ ३,७.४३ ॥ मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् । दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥ ३,७.४४ ॥ रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् । पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥ ३,७.४५ ॥ धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे । इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥ ३,७.४६ ॥ भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः । तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥ ३,७.४७ ॥ चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् । स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥ ३,७.४८ ॥ {लेअद्=> गोल्द्} तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् । वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥ ३,७.४९ ॥ {चन्द्रार्क => गोल्द्} रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् । त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.५० ॥ मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् । तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥ ३,७.५१ ॥ रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश । मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥ ३,७.५२ ॥ चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै । लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥ ३,७.५३ ॥ {चोप्पेर्=> गोल्द्} रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् । सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ ३,७.५४ ॥ छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् । तत्खोटं शोधयेत्पश्चात्सितकाचेन टङ्कणैः ॥ ३,७.५५ ॥ स्वर्णेन च समावर्त्य समेन जारयेत्ततः । पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥ ३,७.५६ ॥ धमन्प्रकटमूषायां यावत्सूतावशेषितम् । ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥ ३,७.५७ ॥ वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् । {सिल्वेर्=> गोल्द्} भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥ ३,७.५८ ॥ तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् । तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥ ३,७.५९ ॥ तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् । दिनं धत्तूरजैर्द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥ ३,७.६० ॥ यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां समुद्धरेत् । एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.६१ ॥ रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् । आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥ ३,७.६२ ॥ अनेन मधुयुक्तेन तारपत्राणि लेपयेत् । रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥ ३,७.६३ ॥ जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् । माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥ ३,७.६४ ॥ {मृत लेअद्, सिल्वेर्=> गोल्द्} द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला । एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥ ३,७.६५ ॥ गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् । शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥ ३,७.६६ ॥ रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् । समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥ ३,७.६७ ॥ एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् । अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥ ३,७.६८ ॥ {सिल्वेर्(+ मृतनाग अन्द्गोल्द्) => गोल्द्} तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् । समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,७.६९ ॥ नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् । अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥ ३,७.७० ॥ सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥ ३,७.७१ ॥ {मेर्चुर्य्:: खोटबन्ध} द्रवैस्तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे । भावयेत्खोटयेत्पश्चात्कर्षैके द्रुतसूतके ॥ ३,७.७२ ॥ माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् । गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् । वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् । इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥ ३,७.७३ ॥ {चोप्पेर्=> गोल्द्} अस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् । शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥ ३,७.७४ ॥ त्रिदिनं मातुलुङ्गाम्लैरेतत्कल्केन लेपयेत् । कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥ ३,७.७५ ॥ लिप्त्वा तत्पातनायन्त्रे पाचयेद्दिवसत्रयम् । पिष्ट्वा दिनावधि ॥ ३,७.७६ ॥ अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् । पूर्ववत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥ ३,७.७७ ॥ अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,७.७८ ॥ {मेर्चुर्य्:: मारण:: wहिते चोलोउर्} क्षीरेणोत्तरवारुण्यास्त्रिदिनं शुद्धपारदम् । मर्दयेत्तप्तखल्वे व तं [... औ५ Zएइछेन्झ्] ॥ ३,७.७९ ॥ करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना । समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥ ३,७.८० ॥ तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः । {चन्द्रार्क => गोल्द्} आर्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥ ३,७.८१ ॥ अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् । गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥ ३,७.८२ ॥ कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः । तद्रसं हाटकं नागं समं रुद्ध्वा धमेद्दृढम् ॥ ३,७.८३ ॥ तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् । अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥ ३,७.८४ ॥ गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् । कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥ ३,७.८५ ॥ अनेन लेपितं गोलमंधमूषागतं धमेत् । यावत्सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥ ३,७.८६ ॥ पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु । इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥ ३,७.८७ ॥ स्वर्णेन च समावर्त्य सारणात्रयसारितम् । चन्द्रार्कं वेधयेत्तेन शतांशात्कांचनं भवेत् ॥ ३,७.८८ ॥ {चोप्पेर्=> गोल्द्} पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् । कान्तलोहं व्योमसत्त्वमेकैकं पन्नगार्धकम् ॥ ३,७.८९ ॥ एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् । दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥ ३,७.९० ॥ शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् । {मेर्चुर्य्:: बन्ध:: खोट} सुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् । कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद्दृढम् ॥ ३,७.९१ ॥ तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् । दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥ ३,७.९२ ॥ गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,७.९३ ॥ रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् । तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥ ३,७.९४ ॥ पूर्ववद्भूधरे पच्यादेवं देयं तु सप्तधा । द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥ ३,७.९५ ॥ तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् । जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥ ३,७.९६ ॥ {तारारिष्ट, चन्द्रार्क, माक्षिक => गोल्द्} कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद्द्रुतम् । तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥ ३,७.९७ ॥ तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् । मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,७.९८ ॥ पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश । अनेन पूर्वखोटे तु द्रावितं रञ्जयेत्क्रमात् ॥ ३,७.९९ ॥ रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् । सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥ ३,७.१०० ॥ सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् । चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥ ३,७.१०१ ॥ {लेअद्, सिल्बेर्=> गोल्द्} तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् । तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.१०२ ॥ मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१०३ ॥ तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः । पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥ ३,७.१०४ ॥ मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् । एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥ ३,७.१०५ ॥ मर्दयेत्कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् । द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥ ३,७.१०६ ॥ इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् । ततस्तं मर्दयेदम्लै रुद्ध्वा मूषां पुटेत्तथा ॥ ३,७.१०७ ॥ पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् । पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥ ३,७.१०८ ॥ सहस्रांशेन नागस्य द्रुतस्य रजतस्य च । देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥ ३,७.१०९ ॥ {सिल्वेर्=> गोल्द्} गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् । शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥ ३,७.११० ॥ द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् । गंधकं दापयेद्घर्मे वापयेत्ताम्रखल्वके ॥ ३,७.१११ ॥ कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः । त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥ ३,७.११२ ॥ कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् । स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥ ३,७.११३ ॥ बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् । शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,७.११४ ॥ जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः । तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥ ३,७.११५ ॥ अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् । तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.११६ ॥ {चन्द्रार्क => गोल्द्} अथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् । तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥ ३,७.११७ ॥ मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः । अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥ ३,७.११८ ॥ समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् । दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,७.११९ ॥ तस्मिन् भस्मपलमेकं पारदं गंधकस्य तु । अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥ ३,७.१२० ॥ पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् । द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥ ३,७.१२१ ॥ दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः । जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥ ३,७.१२२ ॥ सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः । सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,७.१२३ ॥ {सितस्वर्ण => गोल्द्} हेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद्दृढम् । तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥ ३,७.१२४ ॥ मर्दयेद्गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१२५ ॥ अनेन शतमांशेन सितहेम च वेधयेत् । जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥ ३,७.१२६ ॥ बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः । वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥ ३,७.१२७ ॥ ३, ८ {तिन्:: शोधन} कार्पासार्ककरञ्जधूर्तमुनिजैर्भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः । तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर्यावत्पञ्चदिनं तदेव विमलं वादे सदा योजयेत् ॥ ३,८.१ ॥ {तिन्:: शोधन} अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः । समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥ ३,८.२ ॥ तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे । पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥ ३,८.३ ॥ इत्येवं सप्तधा कुर्यात्खोटं पाकं च मर्दनम् । तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥ ३,८.४ ॥ {तिन्:: स्तम्भन} तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् । चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥ ३,८.५ ॥ {तिन् => सिल्वेर्} श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका । विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥ ३,८.६ ॥ काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे । द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥ ३,८.७ ॥ पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः । तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥ ३,८.८ ॥ {तिन् => सिल्वेर्} श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् । स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥ ३,८.९ ॥ लेप्यं पादांशकल्केन चांधमूषागतं धमेत् । आदाय द्रावयेद्भूमौ पूर्वतैलेन सेचयेत् ॥ ३,८.१० ॥ पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् । तद्वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.११ ॥ {तिन् => सिल्वेर्} समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् । द्रवैरीश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥ ३,८.१२ ॥ नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् । पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥ ३,८.१३ ॥ एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् । भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥ ३,८.१४ ॥ शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥ ३,८.१५ ॥ {तिन् => सिल्वेर्} सूतकं तालमेकैकं नृकपालं द्विभागकम् । सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥ ३,८.१६ ॥ विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् । मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥ ३,८.१७ ॥ दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥ ३,८.१८ ॥ {तिन् => सिल्वेर्} गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् । तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥ ३,८.१९ ॥ क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् । क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥ ३,८.२० ॥ मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् । एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥ ३,८.२१ ॥ वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका । तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥ ३,८.२२ ॥ वसन्तपुष्पिकां वापि तदभावे नियोजयेत् । बाला नाम समाख्याता कट्या धूलीसमा तथा ॥ ३,८.२३ ॥ {तिन् => सिल्वेर्} श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् । एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥ ३,८.२४ ॥ तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् । तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥ ३,८.२५ ॥ {तिन् => सिल्वेर्} तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् । तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥ ३,८.२६ ॥ तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् । {तिन् => सिल्वेर्} तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥ ३,८.२७ ॥ तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् । अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,८.२८ ॥ तत्तारं जायते दिव्यं धर्मकामफलप्रदम् । {तिन् => सिल्वेर्} रसो मूषकपाषाणं फट्किरी नीलमञ्जनम् ॥ ३,८.२९ ॥ अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि । भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥ ३,८.३० ॥ अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् । दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥ ३,८.३१ ॥ त्रिंशदंशेन तत्तारं जायते देवभूषणम् । {तिन् => सिल्वेर्} तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥ ३,८.३२ ॥ अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् । अम्लेन मर्दयेत्तावद्यावद्भवति गोलकम् ॥ ३,८.३३ ॥ मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् । अनेन वेष्टयेद्गोलं तद्बहिर्निगडेन च ॥ ३,८.३४ ॥ स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् । उत्तरावारुणीक्षीरैस्तत्खोटं च प्रलेपयेत् ॥ ३,८.३५ ॥ मूषामध्ये निधायाथ तारं दत्त्वा समं समम् । दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥ ३,८.३६ ॥ एवं पुनः पुनस्ताप्यमेकविंशतिवारकम् । दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥ ३,८.३७ ॥ इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् । तद्वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥ ३,८.३८ ॥ {तिन् => सिल्वेर्} रक्तपारदभागैकं भागैकं शंखचूर्णकम् । श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥ ३,८.३९ ॥ टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् । वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥ ३,८.४० ॥ अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् । स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥ ३,८.४१ ॥ {तिन् => सिल्वेर्} हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् । तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥ ३,८.४२ ॥ तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् । जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥ ३,८.४३ ॥ जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् । शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥ ३,८.४४ ॥ {तिन् => सिल्वेर्} द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके । टेण्टूछल्लीद्रवैर्मर्द्यं यावद्भवति गोलकम् ॥ ३,८.४५ ॥ गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर्नवैः ॥ ३,८.४६ ॥ अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् । पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥ ३,८.४७ ॥ पूर्ववद्भूधरे पच्यादित्येवं सप्तधा क्रमात् । द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥ ३,८.४८ ॥ अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् । जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥ ३,८.४९ ॥ {तिन् => सिल्वेर्} षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः । तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥ ३,८.५० ॥ तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् । ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥ ३,८.५१ ॥ मर्दयेट्टेण्टुजद्रावैर्यावद्भवति गोलकम् । रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥ ३,८.५२ ॥ पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् । तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,८.५३ ॥ अंधमूषागतं धाम्यं तत्खोटं जायते रसः । तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥ ३,८.५४ ॥ अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः । यावत्सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥ ३,८.५५ ॥ तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् । लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् । शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥ ३,८.५६ ॥ {चोप्पेर्=> सिल्वेर्} मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः । सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥ ३,८.५७ ॥ तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् । तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥ ३,८.५८ ॥ तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते । वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥ ३,८.५९ ॥ मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् । मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,८.६० ॥ पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश । अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥ ३,८.६१ ॥ यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः । रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥ ३,८.६२ ॥ द्रुतसूतेन संयुक्तं द्रावयेत्पूर्ववत्क्रमात् । द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥ ३,८.६३ ॥ त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे । सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥ ३,८.६४ ॥ द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.६५ ॥ {चोप्पेर्=> सिल्वेर्} श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् । वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥ ३,८.६६ ॥ तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् । द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥ ३,८.६७ ॥ गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् । मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,८.६८ ॥ रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा । तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥ ३,८.६९ ॥ रजतेन समावर्त्य सारणात्रयसारितम् । सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥ ३,८.७० ॥ तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥ ३,८.७१ ॥ {चोप्पेर्Oऋ तिन् => सिल्वेर्} वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् । तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥ ३,८.७२ ॥ लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् । पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,८.७३ ॥ एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् । तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् । अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥ ३,८.७४ ॥ {चोप्पेर्=> सिल्वेर्} तारवन्मारयेद्वङ्गं तेन ताम्रं तु वेधयेत् । तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥ ३,८.७५ ॥ {चोप्पेर्=> सिल्वेर्} शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः । त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥ ३,८.७६ ॥ चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः । त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥ ३,८.७७ ॥ दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् । चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥ ३,८.७८ ॥ अधःस्थितं समादद्यात्शुद्धः स्यात्पारदः शुभः । एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥ ३,८.७९ ॥ विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् । मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥ ३,८.८० ॥ तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् । सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥ ३,८.८१ ॥ शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् । स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् । चतुःषष्टितमांशेन तारं भवति शोभनम् ॥ ३,८.८२ ॥ {तिन् + सिल्वेर्+ चोप्पेर्=> सिल्वेर्} पलं सूतं पलं तालं तालस्थानेऽथवा शिला । कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,८.८३ ॥ वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् । पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥ ३,८.८४ ॥ तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः । रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥ ३,८.८५ ॥ {चोप्पेर्+ सिल्वेर्=> सिल्वेर्} शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् । स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥ ३,८.८६ ॥ बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् । तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥ ३,८.८७ ॥ दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् । इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद्दृढः ॥ ३,८.८८ ॥ द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् । दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥ ३,८.८९ ॥ {चोप्पेर्+ सिल्वेर्=> सिल्वेर्} शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः । पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥ ३,८.९० ॥ शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् । मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥ ३,८.९१ ॥ तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥ ३,८.९२ ॥ {चोप्पेर्:: दलयोग्य} अर्कापामार्गकदलीक्षारमम्लेन लोलितम् । तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥ ३,८.९३ ॥ पत्रं कृत्वा प्रलिप्याथ तद्वद्धाम्यं पुनः पुनः । इत्येवं सप्तधा कुर्यात्वादे स्याद्दलयोग्यकम् ॥ ३,८.९४ ॥ {चोप्पेर्:: दलयोग्य} अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् । लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥ ३,८.९५ ॥ पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् । ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥ ३,८.९६ ॥ इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥ ३,८.९७ ॥ {चोप्पेर्+ सिल्वेर्=> सिल्वेर्} सुशुद्धं तालकं सूतं सामुद्रलवणं समम् । द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥ ३,८.९८ ॥ मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् । ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥ ३,८.९९ ॥ यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् । चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥ ३,८.१०० ॥ तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् । क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥ ३,८.१०१ ॥ यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना । तत्सत्त्वं मृतसूताभमूर्ध्वलग्नं समाहरेत् ॥ ३,८.१०२ ॥ बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् । दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये । तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥ ३,८.१०३ ॥ {सिल्वेर्:: प्रोदुच्तिओन्} इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् । मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् । तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥ ३,८.१०४ ॥ {सिल्वेर्:: रञ्जन} ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् । तारार्धेन समावर्त्य तारं भवति शोभनम् ॥ ३,८.१०५ ॥ {सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्} तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् । अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥ ३,८.१०६ ॥ समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् । तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥ ३,८.१०७ ॥ {सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्} मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् । तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥ ३,८.१०८ ॥ टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् । ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥ ३,८.१०९ ॥ काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् । इत्येवं पञ्चधा कुर्यात्सत्त्वं दत्त्वा पुनः पुनः ॥ ३,८.११० ॥ तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् । त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥ ३,८.१११ ॥ वेधो देयो दशांशेन बीजं पादं च योजयेत् । तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥ ३,८.११२ ॥ {सिल्वेर्:: रञ्जन} शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् । तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥ ३,८.११३ ॥ योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् । सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥ ३,८.११४ ॥ सम्यङ्मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः । सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥ ३,८.११५ ॥ शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् । ततश्चण्डाग्निना पच्याद्यावत्षोडशयामकम् ॥ ३,८.११६ ॥ स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् । ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥ ३,८.११७ ॥ षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये । ततः शुद्धेन तारेण समावर्त्य समेन तु । तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् । {चोप्पेर्=> सिल्वेर्} तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥ ३,८.११८ ॥ चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् । मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥ ३,८.११९ ॥ भर्जितं लवणं चैव तालकाद्दशमांशकम् । पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥ ३,८.१२० ॥ साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः । पूर्ववद्वालुकायन्त्रे कूपिकामष्टयामकम् ॥ ३,८.१२१ ॥ तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् । चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥ ३,८.१२२ ॥ इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः । तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥ ३,८.१२३ ॥ चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् । वेधयेत्कुन्तवेधेन ढालयेद्दधिगोमये । पादांशं दापयेद्बीजं तारं भवति शोभनम् ॥ ३,८.१२४ ॥ {सिल्वेर्:: शोधन (?); चोप्पेर्+ सिल्वेर्=> सिल्वेर्(?)} टंकणं शुद्धतालस्य दशांशेन दापयेत् । मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥ ३,८.१२५ ॥ दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् । पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥ ३,८.१२६ ॥ ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् । षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥ ३,८.१२७ ॥ तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥ ३,८.१२८ ॥ {चोप्पेर्+ सिल्वेर्=> सिल्वेर्} षण्निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् । प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥ ३,८.१२९ ॥ तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् । वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥ ३,८.१३० ॥ अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् । अंधमूषागतं ध्मातमेवं वारत्रये कृते । तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥ ३,८.१३१ ॥ {चोप्पेर्=> सिल्वेर्} गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् । तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥ ३,८.१३२ ॥ षडंशं दापयेद्बीजं शुद्धतारं भवेत्तु तत् । शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥ ३,८.१३३ ॥ {सिल्वेर्, गोल्द्:: मृदूकरण} अर्कापामार्गकदलीभस्मतोयेन लोलयेत् । तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥ ३,८.१३४ ॥ शोषितं लवणं तस्मात्समादाय प्रयत्नतः । रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥ ३,८.१३५ ॥ तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके । इत्येवं तु त्रिधा कुर्यादत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३६ ॥ {मृदूकरण} अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् । तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३७ ॥ {मृदूकरण} गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् । कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥ ३,८.१३८ ॥ {दल (?):: निर्मलीकरण (?)} नानाविधानि कार्याणि भूषणानि दलेन वै । श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥ ३,८.१३९ ॥ पिष्ट्वाथ लवणं किंचित्क्षिप्त्वा तत्रैव पेषयेत् । तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥ ३,८.१४० ॥ घर्षयन् लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् । इत्येवं तु त्रिधा कुर्यात्दलं भवति निर्मलम् ॥ ३,८.१४१ ॥ {दल (?):: निर्मलीकरण (?)} फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् । दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥ ३,८.१४२ ॥ आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् । चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥ ३,८.१४३ ॥ अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे । सुगममपि च तारं सूतशुल्बारयोगैः दलमतिमलहीनं वार्तिकानां हितार्थम् ॥ ३,८.१४४ ॥ ३, ९ वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन । योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥ ३,९.१ ॥ {द्वन्द्वमेलापन} अयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् । स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥ ३,९.२ ॥ {द्वन्द्वमेलन:: वज्र} गंधशशदन्ताश्च भ्रामकस्य मुखं तथा । अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥ ३,९.३ ॥ मूषालेपेन तेनैव वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.४ ॥ {वज्रद्वन्द्वमेलापन (३)} महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् । स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् । पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥ ३,९.५ ॥ {वज्रद्वन्द्वमेलापन (४)} भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् । बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् । तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.६ ॥ {वज्रसूतमेलापन} भूनागं कांतपाषाणं माक्षिकं टंकणं मधु । स्नुक्पयःकर्कटास्थीनि काचमर्कपयः समम् ॥ ३,९.७ ॥ स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् । तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥ ३,९.८ ॥ {स्वर्णवज्रमेलापन (द्वन्दखोट)} मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् । नागस्य च त्रयो भागाः षट्शुद्धस्य च पारदात् ॥ ३,९.९ ॥ एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् । तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥ ३,९.१० ॥ मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥ ३,९.११ ॥ {स्वर्णवज्रमेलापन (२)} क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् । दिनैकं शोधितं पिष्टमेकैकां कारयेद्वटीम् ॥ ३,९.१२ ॥ त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् । अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥ ३,९.१३ ॥ भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् । पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥ ३,९.१४ ॥ मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥ ३,९.१५ ॥ {स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)} मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् । सम्यक्षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥ ३,९.१६ ॥ स्वर्णतुल्यं सितं काचमथवा नृकपालकम् । चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,९.१७ ॥ समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् । लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥ ३,९.१८ ॥ हेम्ना मिलति तद्वज्रमित्येवं मेलयेत्पुनः । यावन्मिलति पादांशं सुवर्णे मृतवज्रकम् ॥ ३,९.१९ ॥ {चोप्पेर्=> गोल्द्} द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् । मर्दयेदम्लयोगेन दिनान्ते तं च गोलकम् ॥ ३,९.२० ॥ मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् । अनेन वेधयेद्गोलं तद्बहिर्निगलेन च ॥ ३,९.२१ ॥ स्वेदादिमेलनान्तं च कारयेद्धेमपिष्टिवत् । मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥ ३,९.२२ ॥ मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् । यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥ ३,९.२३ ॥ जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् । एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥ ३,९.२४ ॥ स्वर्णेन तु समावर्त्य सारणात्रययोगतः । तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् । जायते दिव्यरूपाढ्यं जांबूनदसमप्रभम् ॥ ३,९.२५ ॥ {सितस्वर्ण => गोल्द्} वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना । माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥ ३,९.२६ ॥ स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः । यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥ ३,९.२७ ॥ लक्षांशेन तु तेनैव सितहेमं तु वेधयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.२८ ॥ {सितस्वर्ण => गोल्द्} वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् । विमला चैव वैडूर्यमेतेष्वेकं पलार्धकम् ॥ ३,९.२९ ॥ नागबंगार्ककेष्वेकं यथालाभं पलार्धकम् । द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,९.३० ॥ पूर्ववद्गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् । चतुर्दशपुटैरेवं बालार्कसदृशं भवेत् ॥ ३,९.३१ ॥ अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् । तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥ ३,९.३२ ॥ अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् । एतत्खोटं शुद्धचूर्णमंधमूषागतं धमेत् ॥ ३,९.३३ ॥ आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत्दिनम् । वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥ ३,९.३४ ॥ सवस्त्रं पाचयेत्पश्चाद्गन्धतैले दिनावधि । ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥ ३,९.३५ ॥ स्वेदादिधमनान्तं च कारयेद्धेमपिष्टिवत् । तत्खोटं तु समुद्धृत्य रञ्जयेत्तन्निगद्यते ॥ ३,९.३६ ॥ तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् । तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,९.३७ ॥ चूर्णं रुद्ध्वा धमेद्गाढं तत्खोटं मर्दयेत्पुनः । पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥ ३,९.३८ ॥ अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् । यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥ ३,९.३९ ॥ स्वर्णेन च समावर्त्य सारणात्रयसारितम् । अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥ ३,९.४० ॥ जायते कनकं दिव्यं सत्यं शंकरभाषितम् ॥ ३,९.४१ ॥ {मेर्चुर्य्:: रेद्भस्मन्} कर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् । चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥ ३,९.४२ ॥ मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् । भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥ ३,९.४३ ॥ हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि । पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥ ३,९.४४ ॥ रक्तवर्णं भवेद्भस्म सर्वयोगेषु योजयेत् ॥ ३,९.४५ ॥ {मेर्चुर्य्:: जारण:: ओf अभ्र} द्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा । धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥ ३,९.४६ ॥ गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् । पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥ ३,९.४७ ॥ वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् । अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥ ३,९.४८ ॥ इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् । {अभ्र:: पिष्टी} सोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥ ३,९.४९ ॥ रुद्ध्वा वनोत्पलैर्दद्यात्क्रमादेवं पुटत्रयम् । सप्तधा भावयेद्घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥ ३,९.५० ॥ श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः । कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥ ३,९.५१ ॥ तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः । सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥ ३,९.५२ ॥ धारयेच्चरते दीर्घं जायते व्योमपिष्टिका । {चोप्पेर्=> गोल्द्; कोटिवेध} पूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥ ३,९.५३ ॥ तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् । चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥ ३,९.५४ ॥ चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् । सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥ ३,९.५५ ॥ मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके । यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥ ३,९.५६ ॥ अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् । दोलास्वेदेन पक्तव्यं यावद्भवति गोलकम् ॥ ३,९.५७ ॥ जारयेत्कच्छपे यंत्रे यावत्सूतावशेषितम् । इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥ ३,९.५८ ॥ तेनैव वज्रद्वंद्वेन सारयेत्सारणात्रयम् । अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.५९ ॥ {चन्द्रार्क => गोल्द्} भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश । मर्दयेदम्लवर्गेण तप्तखल्वे दिनावधि ॥ ३,९.६० ॥ पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् । सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥ ३,९.६१ ॥ शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः । त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥ ३,९.६२ ॥ ततो निगडलिप्तायां मूषायां तेन रोधयेत् । कारीषवह्निना पच्यातहोरात्रात्समुद्धरेत् ॥ ३,९.६३ ॥ मधुना मर्दयेत्किंचित्ततस्तेन शतांशतः । लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् । स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.६४ ॥ {चोप्पेर्=> गोल्द्} मृतवज्रस्य भागैकं भागैकं हाटकस्य च । त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥ ३,९.६५ ॥ तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् । ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥ ३,९.६६ ॥ दत्त्वा विडवटीं चैव एकविंशतिवारकम् । एकविंशगुणे जीर्णे सारयेत्सारणात्रयम् ॥ ३,९.६७ ॥ सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.६८ ॥ {सिल्वेर्, चोप्पेर्=> गोल्द्} शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् । मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥ ३,९.६९ ॥ बीजैर्दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् । तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत्करिषाग्निना ॥ ३,९.७० ॥ समुद्धृत्य पुनस्तस्मिन् शुद्धसूतं समं क्षिपेत् । हंसपाद्या द्रवैर्मर्द्यं पूर्ववद्दिवसत्रयम् ॥ ३,९.७१ ॥ तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् । जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥ ३,९.७२ ॥ अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् । सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥ ३,९.७३ ॥ रक्तकार्पासयोर्बीजं राजिका यवचिञ्चिका । वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥ ३,९.७४ ॥ ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् । कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥ ३,९.७५ ॥ पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् । पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥ ३,९.७६ ॥ ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् । सम्यग्गजपुटे पच्यात्ततो मूषागतं धमेत् ॥ ३,९.७७ ॥ शतमांशेन तेनैव चन्द्रार्कौ वेधयेद्द्रुतम् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.७८ ॥ {चन्द्रार्क => गोल्द्} अथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् । अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥ ३,९.७९ ॥ खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् । चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥ ३,९.८० ॥ {शतवेधिकल्कः - तारे ताम्रे} वज्रभस्म स्नुहीक्षीरैर्दिनमेकं विमर्दयेत् । रुद्ध्वा गजपुटे पच्यातेवं शतपुटैः पचेत् ॥ ३,९.८१ ॥ तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् । देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥ ३,९.८२ ॥ कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् । देवदाल्या द्रवैस्त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥ ३,९.८३ ॥ एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् । क्षिप्त्वा कांचनकद्रावैर्मर्दयेद्दिवसत्रयम् ॥ ३,९.८४ ॥ पूर्ववत्पुटपाकेन एवं दशपुटैः पचेत् । स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥ ३,९.८५ ॥ मर्दयेत्त्रिफलाद्रावैस्तत्सर्वं दिवसत्रयम् । पुटयेत्पूर्वयोगेन एवं दशपुटैः पचेत् ॥ ३,९.८६ ॥ तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् । वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥ ३,९.८७ ॥ रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् । एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥ ३,९.८८ ॥ अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् । रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ॥ ३,९.८९ ॥ एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् । अनेन शतमांशेन चन्द्रार्कं वेधयेद्द्रुतम् ॥ ३,९.९० ॥ अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः । जायते कनकं दिव्यं पुटे दत्ते न हीयते ॥ ३,९.९१ ॥ अथवा तारपत्राणि मधुनाक्तेन लेपयेत् । चतुःषष्टितमांशेन दिव्यं भवति कांचनम् ॥ ३,९.९२ ॥ {चन्द्रार्क => गोल्द्(शतवेधिकल्कः)} चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् । मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,९.९३ ॥ भागत्रयं हेमपत्रमनेनैव प्रलेपयेत् । रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥ ३,९.९४ ॥ शुद्धेन सूतराजेन त्रिगुणेन च संयुतम् । अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥ ३,९.९५ ॥ पुनर्मर्द्यं पुनः पाच्यमेकविंशतिवारकम् । अनेन शतमांशेन चंद्रार्कं मधुना सह ॥ ३,९.९६ ॥ लिप्त्वा रुद्ध्वा धमेद्गाढं दिव्यं भवति काञ्चनम् ॥ ३,९.९७ ॥ {सिल्वेर्=> गोल्द्(षोडशवेधिकल्कः)} पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् । चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् । पादांशेन पुनस्तस्मिन् भस्मसूतं नियोजयेत् ॥ ३,९.९८ ॥ मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् । एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥ ३,९.९९ ॥ तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् । अथवा पत्रलेपेन दिव्यं भवति कांचनम् ॥ ३,९.१०० ॥ {चोप्पेर्=> गोल्द्; शतवेधिकल्कः} मृतवज्रस्य भागैकं शुद्धसूतस्य षोडश । देवदालीशङ्खपुष्पीरसैर्मर्द्यं दिनत्रयम् ॥ ३,९.१०१ ॥ वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् । समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥ ३,९.१०२ ॥ दिनैकं भूधरे पच्यात्तद्वन्मर्द्यं च पाचयेत् । इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥ ३,९.१०३ ॥ तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् । तत्खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥ ३,९.१०४ ॥ तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् । तत्खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥ ३,९.१०५ ॥ पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश । अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥ ३,९.१०६ ॥ तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् । दशवारेण तत्खोटं जायते कुंकुमप्रभम् ॥ ३,९.१०७ ॥ स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् । द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥ ३,९.१०८ ॥ {तारारिष्ट => गोल्द्(सहस्रवेधिकल्कः)} पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् । कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥ ३,९.१०९ ॥ मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः । यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥ ३,९.११० ॥ मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश । गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥ ३,९.१११ ॥ तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् । दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥ ३,९.११२ ॥ सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.११३ ॥ नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः । तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् । सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,९.११४ ॥ {चोप्पेर्=> गोल्द्} द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा । मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥ ३,९.११५ ॥ दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् । प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥ ३,९.११६ ॥ द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् । अथास्य द्रुतसूतस्य जारयेत्पक्वबीजकम् ॥ ३,९.११७ ॥ क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते । वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥ ३,९.११८ ॥ जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् । अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥ ३,९.११९ ॥ जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.१२० ॥ {वज्र:: द्रावण} अथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः । विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥ ३,९.१२१ ॥ एतासां द्रवमादाय मूषालेपं तु कारयेत् । तस्यां पूर्वरसं क्षिप्त्वा धमेद्द्रावं क्षिपन् क्षिपन् ॥ ३,९.१२२ ॥ वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः । {मेर्चुर्य्:: शब्दवेधिन्} ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥ ३,९.१२३ ॥ उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् । ग्रसन्त्येव न संदेहस्तीव्रध्मातानलेन च ॥ ३,९.१२४ ॥ वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे । कारयेद्वज्रबीजेन शब्दवेधी भवेद्रसः ॥ ३,९.१२५ ॥ {सप्फिरे:: द्रावण} अथवा मारिते तस्मिन् जारणं सारयेत्पुनः । उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥ ३,९.१२६ ॥ एतासां निक्षिपेद्द्रावं द्रुते मूषागते रसे । इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥ ३,९.१२७ ॥ {सप्फिरे:: => खेचरी} पूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् । इत्येवं त्रिगुणं जार्यमिन्द्रनीलं क्रमेण तु ॥ ३,९.१२८ ॥ तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः । स पूज्यो देवदेवानां खेचरत्वेन मोदते ॥ ३,९.१२९ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् । जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.१३० ॥ इत्येवं विष्टिखोटं परिरसमपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति । किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥ ३,९.१३१ ॥ ३, १० लोहैर्महारसवरैर्विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् । योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥ ३,१०.१ ॥ {पक्वबीज (१)} ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः । साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥ ३,१०.२ ॥ एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् । पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥ ३,१०.३ ॥ {पक्वबीज} नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् । पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥ ३,१०.४ ॥ {पक्वबीज (३)} स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् । ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् । एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥ ३,१०.५ ॥ {पक्वबीज (४)} रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥ ३,१०.६ ॥ चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं माक्षिकं तुत्थमम्लैः पिष्ट्वा पुटे पचेत् ॥ ३,१०.७ ॥ समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् । एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् । धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकम् ॥ ३,१०.८ ॥ {बीज:: fरों लेअद्} लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै । पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥ ३,१०.९ ॥ लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् । मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥ ३,१०.१० ॥ एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥ ३,१०.११ ॥ एवं शतगुणं वाह्यं शुद्धहेम्नि धमन् धमन् । तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥ ३,१०.१२ ॥ {बीज:: fरों लेअद्:: पक्व:: रञ्जन} खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि । क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ ३,१०.१३ ॥ चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् । रुद्ध्वा गजपुटे पच्यात्पादांशं गंधकं पुनः ॥ ३,१०.१४ ॥ दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश । रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥ ३,१०.१५ ॥ भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् । पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥ ३,१०.१६ ॥ शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् । नागिनी नागकन्या च कुमारी चाहिमारकम् ॥ ३,१०.१७ ॥ सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् । सर्वं चतुर्गुणैर्मूत्रैश्छागजैः क्वाथमाचरेत् ॥ ३,१०.१८ ॥ पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् । चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥ ३,१०.१९ ॥ यत्नेन मृतनागेन वापो देयो द्रुतस्य च । पक्वबीजस्य वारांस्त्रीन् रञ्जितं जायते शुभम् ॥ ३,१०.२० ॥ {लेअद्:: मृत:: अल्छेम्. उसे} दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः । उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥ ३,१०.२१ ॥ {बीज:: पक्व:: रञ्जन} मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥ ३,१०.२२ ॥ सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् । खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥ ३,१०.२३ ॥ सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् । पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥ ३,१०.२४ ॥ {बीज:: पक्व, रञ्जित:: अल्छेम्. उसे} गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे । समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥ ३,१०.२५ ॥ त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् । सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥ ३,१०.२६ ॥ {बीज:: fरों सिल्वेर्} विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च । रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥ ३,१०.२७ ॥ चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् । मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥ ३,१०.२८ ॥ एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् । धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥ ३,१०.२९ ॥ {बीज:: fरों सिल्वेर्} ताप्येन मारयेद्बंगं यथा तालेन मारितम् । तद्द्वात्रिंशगुणं तारे वाहयेत्तालवापतः । ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥ ३,१०.३० ॥ {बीज:: fरों सिल्वेर्} कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् । ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥ ३,१०.३१ ॥ पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् । यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥ ३,१०.३२ ॥ {बीज:: fरों सिल्वेर्} बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् । द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥ ३,१०.३३ ॥ वाह्यं दशगुणं तारे तारमाक्षिकवापतः । तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥ ३,१०.३४ ॥ {तारबीजरञ्जन} यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ॥ ३,१०.३५ ॥ रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः । पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥ ३,१०.३६ ॥ द्रावितं तारबीजं तु एकविंशतिवारकम् । रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥ ३,१०.३७ ॥ {सारणातैल} ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् । तैलमेकं समादाय मण्डूकवसया समम् ॥ ३,१०.३८ ॥ कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा । एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥ ३,१०.३९ ॥ रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः । पुष्पाणां रक्तपीतानामेकैकानां द्रवं हरेत् ॥ ३,१०.४० ॥ एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् । पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥ ३,१०.४१ ॥ प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् । योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥ ३,१०.४२ ॥ द्वन्द्वमेलापयोरेकं तैलात्षोडशकांशकम् । प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पाचयेत् ॥ ३,१०.४३ ॥ ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् । विख्यातं सारणातैलं रसराजस्य कर्मणि ॥ ३,१०.४४ ॥ {क्रामण:: सुब्स्तन्चेस्fओर्ँ} नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् । क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥ ३,१०.४५ ॥ {क्रामण:: सुब्स्तन्चेस्fओर्} सौराष्ट्रीं भावयेद्घर्मे गवां पित्तैः त्रिधाततः । तत्सत्त्वं सोमवद्ग्राह्यं क्रामकं योजयेद्रसे ॥ ३,१०.४६ ॥ {क्रामण:: सुब्स्तन्चेस्fओर्ँ} मनःशिला विषं ताप्यं महिषीकर्णजं मलम् । काकविट्खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥ ३,१०.४७ ॥ {क्रामण:: सुब्स्तन्चेस्fओर्ँ} नररक्तार्कदुग्धं च टंकणं भूलता शिला । समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥ ३,१०.४८ ॥ {क्रामणसत्त्व (५)} इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः । रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् । क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥ ३,१०.४९ ॥ {क्रामण:: सुब्स्तन्चेस्fओर्ँ; वेध:: ँ} रसं धान्याभ्रकं सत्त्वं काकविठरितालकम् । नयनं सहदेवानां भूनागश्च समं समम् ॥ ३,१०.५० ॥ पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥ ३,१०.५१ ॥ {क्रामणसत्त्व (७)} कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् । क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥ ३,१०.५२ ॥ क्रामणेन विना सूतो न क्रमेद्देहलोहयोः । उक्तस्थानेषु योगेषु तस्मात्सर्वेषु योजयेत् ॥ ३,१०.५३ ॥ {महाविड} दग्धं शंखं रविक्षीरैर्भावितं शतधातपे । ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥ ३,१०.५४ ॥ तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् । राजावर्तं प्रवालं च दरदं गंधकं शिला ॥ ३,१०.५५ ॥ पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् । सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ ३,१०.५६ ॥ अयं महाविडः ख्यातः खोटानां जारणे हितः । मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥ ३,१०.५७ ॥ तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥ ३,१०.५८ ॥ {विड (२)} त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् । इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥ ३,१०.५९ ॥ भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे । अनेन मर्दितः सूतो भक्षयेदष्टलोहकम् ॥ ३,१०.६० ॥ {विड (३)} व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् । सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः । दशाहं भावयेद्घर्मे विडोऽयं जारणे हितः ॥ ३,१०.६१ ॥ {विड (४)} दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे । ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥ ३,१०.६२ ॥ {विड (५)} त्रिक्षारं पञ्चलवणमम्लवेतससंयुतम् । अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥ ३,१०.६३ ॥ {विड (६)} गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् । शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥ ३,१०.६४ ॥ एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् । एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥ ३,१०.६५ ॥ {वह्निमुखो विड (७)} टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः । विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥ ३,१०.६६ ॥ {विड (८)} गंधकं नवसारं वा मुखं कांतस्य चातपे । शतधा मूत्रवर्गेण भावितं स्याद्विडं पृथक् ॥ ३,१०.६७ ॥ {ज्वालामुखो विडः (९)} त्रिक्षारं गंधकं तालं भूखगं नवसारकम् । सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥ ३,१०.६८ ॥ ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥ ३,१०.६९ ॥ {विड (१०)} गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः । जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥ ३,१०.७० ॥ {विड:: वडवानल} वासकैरंडकदली देवदाली पुनर्नवा । वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥ ३,१०.७१ ॥ एतान् समूलानादाय नातिशुष्कान् विखण्डयेत् । पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥ ३,१०.७२ ॥ एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् । वस्त्रपूतं द्रवं पच्यात्मृद्वग्नौ लोहपात्रके ॥ ३,१०.७३ ॥ बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा । तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥ ३,१०.७४ ॥ गंधकं पंचलवणं नवसारं च हिंगुलम् । एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥ ३,१०.७५ ॥ गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् । सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः । सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥ ३,१०.७६ ॥ {विड:: fओर्सत्त्वजारण} भावयेन्निचुलक्षारं देवदालीदलद्रवैः । एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥ ३,१०.७७ ॥ {विड:: तीव्रानल} देवदालीशिफाबीजं गुंजासैंधवटंकणम् । समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥ ३,१०.७८ ॥ कोशातकीदलरसैर्भावयेद्दिनसप्तकम् । तीव्रानलो नाम बिडो विहितो हेमजारणे ॥ ३,१०.७९ ॥ {विड:: fओर्जारण ओf गोल्द्} मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् । वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥ ३,१०.८० ॥ शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ ३,१०.८१ ॥ {विड:: fओर्जारण ओf गोल्द्} त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला । दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥ ३,१०.८२ ॥ {विड:: fओर्जारण ओf गोल्द्} गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् । शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥ ३,१०.८३ ॥ {विड:: fओर्जारण} कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् । शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥ ३,१०.८४ ॥ अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥ ३,१०.८५ ॥ {विड:: fओरिम्प्रोवेमेन्तोf ग्रासन} सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् । अनेन बिडयोगेन गगनं ग्रसते रसः ॥ ३,१०.८६ ॥ {सिद्धविड} शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् । पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥ ३,१०.८७ ॥ शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् । तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥ ३,१०.८८ ॥ एवमष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् । अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥ ३,१०.८९ ॥ सम्यक्संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् । रागै रञ्जितबीजजालमखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥ ३,१०.९० ॥ ३, ११ {रसस्य १८ संस्काराः} सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्यनुभवन् दृष्ट्वा समस्तं मया । युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम् ॥ ३,११.१ ॥ {१८ संस्कारस्} स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा । निरोधनं नियामश्च दीपनं चानुवासनम् ॥ ३,११.२ ॥ जारणं चारणं चैव गर्भबाह्यद्रुतिस्तथा । रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु ॥ ३,११.३ ॥ {काञ्जिक:: प्रोदुच्तिओन्} नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः । मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३,११.४ ॥ तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३,११.५ ॥ त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् । समूलं खण्डयित्वा तु यथालाभं निवेशयेत् ॥ ३,११.६ ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । {काञ्ज्क:: उसे} स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् । {काञ्जिक:: सुब्स्तितुतेद्ब्यारनाल} अत्यम्लमारनालं वा तदभावे नियोजयेत् ॥ ३,११.७ ॥ {स्वेदनम्} त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् । महाबला नागबला मेघनादः पुनर्नवा ॥ ३,११.८ ॥ मेषशृङ्गी चित्रकं च नवसारं समं समम् । एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत् ॥ ३,११.९ ॥ तत्कल्केन लिम्पेद्वस्त्रे यावदङ्गुलमात्रकम् । तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् । दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ॥ ३,११.१० ॥ {मर्दनम्} प्रक्षाल्य काञ्जिकैः सोष्णैस्तमादाय विमर्दयेत् । अत्यम्लमारनालं तत्तदभावे नियोजयेत् ॥ ३,११.११ ॥ गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् । राजिका त्रिफला कन्या चित्रकं बृहती कणा ॥ ३,११.१२ ॥ वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् । क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् । प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत् ॥ ३,११.१३ ॥ {मूर्छनम्} मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता ॥ ३,११.१४ ॥ कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा । गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम् ॥ ३,११.१५ ॥ राजिका काकमाची च रविक्षीरं च काञ्चनम् । व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत् ॥ ३,११.१६ ॥ यामैकं रसराजं च मूषायां संनिरोधयेत् । पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत् ॥ ३,११.१७ ॥ सर्वद्रावैर्यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् । इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः ॥ ३,११.१८ ॥ {उत्थापनम्} जलैः सोष्णारनालैर्वा लोलनादुत्थितो भवेत् । अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् । एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु ॥ ३,११.१९ ॥ {ऊर्ध्वपातनम्} काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् । अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका ॥ ३,११.२० ॥ मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी । भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥ ३,११.२१ ॥ शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् । नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥ ३,११.२२ ॥ ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह । तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः ॥ ३,११.२३ ॥ आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् । पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः । इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात् ॥ ३,११.२४ ॥ ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत् ॥ ३,११.२५ ॥ {अधःपातनम्} त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् । सूततुल्यं तु तत्सर्वं काञ्जिकैर्मर्दयेद्दिनम् ॥ ३,११.२६ ॥ तेन लिम्पेदूर्ध्वभाण्डं पृष्ठे देयं पुटं लघु । अधःपातनयन्त्रे तु पातितं तु समुद्धरेत् ॥ ३,११.२७ ॥ {तिर्यक्पातनम्} त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् । धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः ॥ ३,११.२८ ॥ नष्टपिष्टं तु तत्पात्यं तिर्यग्यन्त्रे दृढाग्निना ॥ ३,११.२९ ॥ {निरोधनम्} लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याथ जलं किंचित्क्षिप्त्वा श्रावेण रोधयेत् । ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः ॥ ३,११.३० ॥ {दीपनम्} त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् । स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु ॥ ३,११.३१ ॥ क्षीरकन्दो जया कन्या विजया गिरिकर्णिका । काकजङ्घा शोणपुष्पी पातालगरुडी कणा ॥ ३,११.३२ ॥ वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् । पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम् ॥ ३,११.३३ ॥ दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् । पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः ॥ ३,११.३४ ॥ {अनुवासनम्} दीपितं रसराजं तु जम्बीररससंयुतम् । दिनैकं धारयेद्घर्मे मृत्पात्रे वासितो भवेत् ॥ ३,११.३५ ॥ स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् । अष्टमांशमवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ ३,११.३६ ॥ ३, १२ समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य । तदनु च घनचूर्णैर्भोजनं पाचनं स्यात्निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥ ३,१२.१ ॥ {मेर्चुर्:: जारण ओf सुल्fउर्} गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः । भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥ ३,१२.२ ॥ पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् । कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥ ३,१२.३ ॥ क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् । दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥ ३,१२.४ ॥ जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् । एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥ ३,१२.५ ॥ {मेर्चुर्य्:: जारण ओf सुल्fउर्} कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् । शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥ ३,१२.६ ॥ सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः । इष्टिकागर्तमध्ये तु सम्यक्शुद्धरसं क्षिपेत् ॥ ३,१२.७ ॥ मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः । दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥ ३,१२.८ ॥ पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् । एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥ ३,१२.९ ॥ {मेर्चुर्य्:: जारण ओf पक्वबीज} तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् । पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥ ३,१२.१० ॥ तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् । तं यंत्रं धारयेद्घर्मे जारितो जायते रसः ॥ ३,१२.११ ॥ {मेर्चुर्य्:: जारण ओf पक्वबीज} सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् । जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् । जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥ ३,१२.१२ ॥ {मेर्चुर्य्:: सारणा wइथ्पक्वबीज} जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् । द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥ ३,१२.१३ ॥ तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः । सारितं तत्पुनर्मर्द्यं पूर्ववद्बिडसंयुतम् ॥ ३,१२.१४ ॥ जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् । पूर्ववत्सारणायन्त्रे बीजेन द्विगुणेन वै ॥ ३,१२.१५ ॥ पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् । त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥ ३,१२.१६ ॥ {मेर्चुर्य्:: मुख:: ँबन्धन} तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् । दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥ ३,१२.१७ ॥ वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि । पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि । इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥ ३,१२.१८ ॥ {रसबन्धनम्} तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी । समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥ ३,१२.१९ ॥ त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् । वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥ ३,१२.२० ॥ खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः । तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥ ३,१२.२१ ॥ तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥ ३,१२.२२ ॥ {सिल्वेर्=> गोल्द्} तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् । शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥ ३,१२.२३ ॥ तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् । अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥ ३,१२.२४ ॥ {मेर्चुर्य्:: मुखकरण} अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् । येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥ ३,१२.२५ ॥ अम्लवेतसजंबीरबीजपूरकभूखगैः । त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् । तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥ ३,१२.२६ ॥ {मेर्चुर्य्:: मुखकरण} मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् । धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥ ३,१२.२७ ॥ यामं जम्बीरजैर्द्रावैर्मर्द्यं तेनैव लेपयेत् । गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥ ३,१२.२८ ॥ विंशनिष्कं क्षिपेत्सूतमूर्ध्वं देयापरेष्टिका । लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥ ३,१२.२९ ॥ अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि । स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् । इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥ ३,१२.३० ॥ {मेर्चुर्य्:: मुखकरण} वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते । त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥ ३,१२.३१ ॥ {परल्लेल्बेत्wएएन् संस्कारसन्द्रितुअल्} समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् । खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥ ३,१२.३२ ॥ नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् । स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥ ३,१२.३३ ॥ नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् । वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥ ३,१२.३४ ॥ यावद्दिनानि वह्नौ तु धारणे जार्यते रसः । तावद्युगसहस्राणि शिवलोके महीयते ॥ ३,१२.३५ ॥ यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् । तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥ ३,१२.३६ ॥ साधकानां सुधीराणामिह लोके परत्र च । अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद्भुक्तिमुक्तिदः ॥ ३,१२.३७ ॥ {अभ्र:: प्रेपरतिओन् fओर्चारण} अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च । कपोताख्ये पुटे पच्यात्क्षीरैर्यामं विमर्दयेत् ॥ ३,१२.३८ ॥ रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् । त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥ ३,१२.३९ ॥ अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः । पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥ ३,१२.४० ॥ क्रमादेषां द्रवैरेव मर्दनं पुटपाचनम् । एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥ ३,१२.४१ ॥ शतावरी तालमूली कदली तण्डुलीयकम् । अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥ ३,१२.४२ ॥ प्रतिद्रवैर्दिनैकं तु भावितं चारणे हितम् ॥ ३,१२.४३ ॥ {अभ्र:: Vओर्बेरेइतुन्गौf चारण} अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च । कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥ ३,१२.४४ ॥ कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् । नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥ ३,१२.४५ ॥ एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् । सर्वमेतत्क्षिपेद्भाण्डे तन्मध्ये पाचयेत्त्र्यहम् ॥ ३,१२.४६ ॥ पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् । कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥ ३,१२.४७ ॥ सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् । दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,१२.४८ ॥ दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥ ३,१२.४९ ॥ {अभ्र:: प्रेपरतिओन् fओर्चारण} शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् । तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् । मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥ ३,१२.५० ॥ तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥ ३,१२.५१ ॥ सस्तन्यैर्बीजपूरोत्थैर्द्रावैर्भाव्यं दिनावधि । एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥ ३,१२.५२ ॥ {सिद्धमूली} व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः । बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥ ३,१२.५३ ॥ वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका । मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥ ३,१२.५४ ॥ एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥ ३,१२.५५ ॥ {मेर्चुर्य्:: समुख:: चारण ओf अभ्र} अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् । दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥ ३,१२.५६ ॥ ततस्तं चारणायंत्रे जंबीररससंयुतम् । घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥ ३,१२.५७ ॥ {मेर्चुर्य्:: लक्ष-।कोटिवेधिन्} चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि । सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥ ३,१२.५८ ॥ अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि । अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥ ३,१२.५९ ॥ अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः । जीर्णे शतगुणे सम्यक्सहस्रांशेन विध्यति ॥ ३,१२.६० ॥ सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः । तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१२.६१ ॥ कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् । पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥ ३,१२.६२ ॥ {मेर्चुर्य्:: fओर्प्रोदुच्तिओनोf सिल्वेर्} अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् । जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥ ३,१२.६३ ॥ {मेर्चुर्य्:: मुखबन्धन, कोटिवेधिन्} पूर्ववत्पक्वबीजेन सारणादि यथाक्रमम् । कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥ ३,१२.६४ ॥ चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि । एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥ ३,१२.६५ ॥ सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् । कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥ ३,१२.६६ ॥ इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् । मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥ ३,१२.६७ ॥ तेनैव लक्षभागेन दिव्यं भवति कांचनम् । यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥ ३,१२.६८ ॥ इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् । पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥ ३,१२.६९ ॥ कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥ ३,१२.७० ॥ {मेर्चुर्य्:: निर्मुख:: चारण} अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे । शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥ ३,१२.७१ ॥ क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् । संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥ ३,१२.७२ ॥ {मेर्चुर्य्:: चारण:: निर्मुख} अथवा तप्तखल्वे तु भूलतासंयुतं रसम् । मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥ ३,१२.७३ ॥ संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥ ३,१२.७४ ॥ {मेर्चुर्य्:: जारण:: निर्मुख} अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते । धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् । स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥ ३,१२.७५ ॥ कपोताख्यपुटैकेन तमादायाथ मर्दयेत् । मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥ ३,१२.७६ ॥ मुनिरार्द्रकवर्षाभूमेघनादापामार्गकम् । एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥ ३,१२.७७ ॥ दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि । वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥ ३,१२.७८ ॥ अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः । मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥ ३,१२.७९ ॥ नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् । पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥ ३,१२.८० ॥ मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् । जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥ ३,१२.८१ ॥ मात्रा युक्तिर्यथापूर्वं सेयं निर्मुखजारणा । कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥ ३,१२.८२ ॥ तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि । सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥ ३,१२.८३ ॥ कर्तव्यं सूतराजे तु तद्वद्भवति कांचनम् । श्वेतेन जारयेत्श्वेतं यथाबीजं तथाङ्कुरम् ॥ ३,१२.८४ ॥ प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च । संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥ ३,१२.८५ ॥ ३, १३ दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् । सत्त्वपातनमनेकयोगतो द्वंद्वमेलमभिषेकमार्यकम् ॥ ३,१३.१ ॥ {अभ्र:: शोधन} मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् । शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥ ३,१३.२ ॥ पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् । इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥ ३,१३.३ ॥ दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥ ३,१३.४ ॥ {कान्तलोह, माक्षिक, उपरस:: सत्त्व:: पातन} गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् । क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥ ३,१३.५ ॥ भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा । धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥ ३,१३.६ ॥ गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु । षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ ३,१३.७ ॥ पारावतमलं त्र्यूषमिंद्रगोपं च शिग्रुकम् । गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ ३,१३.८ ॥ एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् । अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥ ३,१३.९ ॥ पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् । कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥ ३,१३.१० ॥ खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन् क्षिपन् । वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥ ३,१३.११ ॥ समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् । वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥ ३,१३.१२ ॥ चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् । एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥ ३,१३.१३ ॥ इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति । अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥ ३,१३.१४ ॥ कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका । मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् ॥ ३,१३.१५ ॥ {अभ्र:: सत्त्व:: मृदूकरण} अभ्रसत्त्वं समादाय समांशं काचटंकणम् । दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥ ३,१३.१६ ॥ अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् । कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१७ ॥ मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१८ ॥ {अभ्र:: सत्त्व:: पातन} धान्याभ्रं दशभागं स्यात्शुद्धनागं त्रिभागकम् । टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥ ३,१३.१९ ॥ ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् । मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥ ३,१३.२० ॥ अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् । कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥ ३,१३.२१ ॥ {माक्षिक:: सत्त्वम्:: पातन} दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् । चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥ ३,१३.२२ ॥ आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि । गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥ ३,१३.२३ ॥ अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥ ३,१३.२४ ॥ {माक्षिक:: सत्त्व:: पातन} कदलीकंदतोयेन माक्षिकं शतधातपे । भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः । पूर्ववद्धमनात्सत्त्वमिंद्रगोपनिभं भवेत् ॥ ३,१३.२५ ॥ {माक्षिक:: सत्त्वम्:: पातन} स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् । कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥ ३,१३.२६ ॥ मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥ ३,१३.२७ ॥ {माक्षिक:: सत्त्व:: पातन} कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् । भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा । रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥ ३,१३.२८ ॥ {माक्षिक:: सत्त्व:: पातन} मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् । माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥ ३,१३.२९ ॥ मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद्दृढम् । व्योमवद्वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥ ३,१३.३० ॥ {माक्षिक:: सत्त्व:: पातन} स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः । मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ ३,१३.३१ ॥ भावितं मर्दयेद्यामं दिनं वातारितैलकैः । मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् । सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ॥ ३,१३.३२ ॥ {विमल:: सत्त्व:: पातन} विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥ ३,१३.३३ ॥ {माक्षिक:: सत्त्व:: धौतसत्त्व} सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् । क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥ ३,१३.३४ ॥ जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् । योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥ ३,१३.३५ ॥ {माक्षिक:: सत्त्व:: पातन} माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् । पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥ ३,१३.३६ ॥ {मनःशिला:: सत्त्व:: पातन} अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला । तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् । {मनःशिला:: सत्त्व:: पातन} गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला । तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ३,१३.३७ ॥ दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् । गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् । सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥ ३,१३.३८ ॥ शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् । शुष्के द्रवे निरुध्याथ सम्यक्मृल्लवणैर्मुखम् ॥ ३,१३.३९ ॥ चण्डाग्निना पचेत्तावद्यावद्द्वादशयामकम् । स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ ३,१३.४० ॥ ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥ ३,१३.४१ ॥ {हरिताल:: सत्त्व:: पातन} भागाः षोडश तालस्य विषं पारदटंकणम् । श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥ ३,१३.४२ ॥ सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् । शिलावद्ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ ३,१३.४३ ॥ {हरिताल:: सत्त्व:: पातन} स्नुक्क्षीरकटुतुम्ब्युत्थैस्तालं भाव्यं द्विसप्तधा ॥ ३,१३.४४ ॥ तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् । एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥ ३,१३.४५ ॥ छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥ ३,१३.४६ ॥ {हरिताल:: सत्त्व:: पातन} लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः । एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥ ३,१३.४७ ॥ दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा । तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥ ३,१३.४८ ॥ पुटाद्वा धमनाद्ग्राह्यं सत्त्वं पातालयन्त्रके ॥ ३,१३.४९ ॥ {हरिताल:: सत्त्व:: पातन} तालकादष्टमांशेन देयं सूतं च टंकणम् । कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् । तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥ ३,१३.५० ॥ {तुत्थ:: सत्त्व:: पातन} लाक्षाभया च भूनागं गृहधूमं जटाकणा । निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥ ३,१३.५१ ॥ सर्वं मर्द्यमजाक्षीरैरन्धमूषागतं धमेत् । सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥ ३,१३.५२ ॥ {तुत्थ:: सत्त्व:: पातन} हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् । मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥ ३,१३.५३ ॥ स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् । रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.५४ ॥ {तुत्थ:: सत्त्व:: पातन} तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा । तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना । धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥ ३,१३.५५ ॥ {वरनागसत्त्व} सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत्समम् । हठाद्ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥ ३,१३.५६ ॥ {रसक:: सत्त्व:: पातन} क्षाराम्लं स्नेहपित्तैश्च क्रमाद्भाव्यं दिनं दिनम् । पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥ ३,१३.५७ ॥ रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया । टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥ ३,१३.५८ ॥ एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् । याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ ३,१३.५९ ॥ शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥ ३,१३.६० ॥ {रसक:: सत्त्व:: पातन} रसकस्यैकभागं तु त्रिफलामित्रपंचकम् । रजनीगृहधूमं च दशानामेकभागकम् ॥ ३,१३.६१ ॥ अजाक्षीरैर्दिनं मर्द्यमथवाम्लेन केनचित् । पूर्ववद्ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥ ३,१३.६२ ॥ {वैक्रान्त:: सत्त्व:: पातन} वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् । अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ॥ ३,१३.६३ ॥ {वैक्रान्त:: सत्त्व:: पातन} मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् । गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥ ३,१३.६४ ॥ लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् । मेषशृंगीद्रवैर्मर्द्यमेतत्सर्वं दिनावधि ॥ ३,१३.६५ ॥ पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना । तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥ ३,१३.६६ ॥ {वैक्रान्त:: सत्त्व:: पातन} वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च । रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥ ३,१३.६७ ॥ गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् । एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ॥ ३,१३.६८ ॥ शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥ ३,१३.६९ ॥ {वैक्रान्त:: सत्त्व:: पातन} वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् । महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् । पूर्ववद्धमनात्सत्त्वमिंद्रगोपनिभं भवेत् ॥ ३,१३.७० ॥ {गैरिक:: सत्त्व:: पातन} गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् । सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् । तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥ ३,१३.७१ ॥ {सौराष्ट्री:: सत्त्व:: पातन} सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् । शतवारं प्रयत्नेन मित्रपंचकसंयुतम् । धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥ ३,१३.७२ ॥ {सस्यक:: सत्त्व:: पातन} सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः । स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् । मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥ ३,१३.७३ ॥ अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना । इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ ३,१३.७४ ॥ {कासीस:: सत्त्व:: पातन} चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् । मर्दयेत्पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥ ३,१३.७५ ॥ कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः । तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.७६ ॥ {राजावर्त:: सत्त्व:: पातन} राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः । पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥ ३,१३.७७ ॥ रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् । खदिरांगारसंयोगात्कोष्ठ्यां सत्त्वं विमुञ्चति ॥ ३,१३.७८ ॥ {स्रोतोञ्जन:: परीक्षा} वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत् ॥ ३,१३.७९ ॥ {स्रोतोञ्जन:: सत्त्व:: पातन} राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि ॥ ३,१३.८० ॥ {द्वन्द्वम्. ओf व्योमसत्त्व अन्द्मिनेरल्स्} व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् । द्वन्द्वमेलापलिप्तायां मूषायां तद्द्वयं समम् ॥ ३,१३.८१ ॥ ध्मातव्यमरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥ ३,१३.८२ ॥ {सत्त्व:: मेलापन} विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् । मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.८३ ॥ तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च । {द्वन्द्वमेल्.:: लेप fओर्ँ} त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् । स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥ ३,१३.८४ ॥ {सर्वसत्त्वमेलापन (२)} वर्षाभूः कदलीकंदः काकमाची पुनर्नवा । गुंजा नरकपालं च टंकणं पेषयेत्समम् । अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥ ३,१३.८५ ॥ {मेलापन:: मेतल्स्, सत्त्व अनोर्महारसस्} तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् । लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥ ३,१३.८६ ॥ भूलतामिंद्रगोपं च पाषाणभेदिका समम् । नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥ ३,१३.८७ ॥ सर्वलोहानि सत्त्वानि तथा चैव महारसाः । मिलन्ति नात्र संदेहस्तीव्रध्मानानलेन तु ॥ ३,१३.८८ ॥ {द्वन्द्वमेलापक} विषं छुछुन्दरीमांसं टंकणं समपेषितम् । मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् । यत्किंचिद्द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥ ३,१३.८९ ॥ {द्वन्द्वमेलापक} कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् । तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् । मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥ ३,१३.९० ॥ {अभ्र:: प्रोदुच्तिओनोf अभ्र-मेतल्-चोम्पोउन्द्स्} हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च । सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद्दृढम् ॥ ३,१३.९१ ॥ नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च । ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥ ३,१३.९२ ॥ {अभ्र:: वङ्गाभ्र} मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् । श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥ ३,१३.९३ ॥ कदलीकंदतोयेन मर्दयेट्टंकणैः सह । अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९४ ॥ {अभ्र:: वङ्गाभ्र} गुंजा नरकपालं च टंकणं वनशिग्रुकम् । स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.९५ ॥ बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् । रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥ ३,१३.९६ ॥ {अभ्र:: वङ्गाभ्र} अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् । पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥ ३,१३.९७ ॥ पिष्ट्वा तद्गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः । पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९८ ॥ {अभिषेक (१)} सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् । पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥ ३,१३.९९ ॥ अनेन कांजिकेनैव शतवारं विभावयेत् । यत्किंचिच्चारणावस्तु ततस्तं जारयेद्रसे । अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥ ३,१३.१०० ॥ {अभिषेक (२)} त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् । माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ ३,१३.१०१ ॥ स्थितं घर्मे पुनस्तस्मिन् द्रुतं नागं विनिक्षिपेत् । तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥ ३,१३.१०२ ॥ तद्द्रवं ताम्रपात्रस्थमभिषेकं विदुर्बुधाः । अनेन चारणावस्तु शतवाराणि भावयेत् ॥ ३,१३.१०३ ॥ {सारणायां संकेतः} द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च । द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥ ३,१३.१०४ ॥ स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् । तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥ ३,१३.१०५ ॥ ३, १४ सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन । विज्ञाय यस्तु मतिमान् स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥ ३,१४.१ ॥ {मेर्चुर्य्:: चारण} स्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् । तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥ ३,१४.२ ॥ सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् । घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ ३,१४.३ ॥ चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् । दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥ ३,१४.४ ॥ सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥ ३,१४.५ ॥ {मेर्चुर्य्:: जारण} जारणं त्रिक्षारं पंचलवणमम्लवर्गे स्नुहीपयः । गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥ ३,१४.६ ॥ तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् । सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥ ३,१४.७ ॥ उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके । वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥ ३,१४.८ ॥ हस्तेनैव भवेद्यावत्सुधौतं पारदं पुनः । चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥ ३,१४.९ ॥ अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि । दोलायां स्वेदयेत्तद्वद्भवेज्जीर्णं न संशयः ॥ ३,१४.१० ॥ {मेर्चुर्य्:: प्रेपरतिओन् fओर्ग्रासन} इष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका । सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥ ३,१४.११ ॥ दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि । इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् । जीर्णे जीर्णे त्विदं कुर्याद्ग्रासग्राही भवेद्रसः ॥ ३,१४.१२ ॥ {मेर्चुर्य्:: जारण ओf बीजस्} द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् । पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥ ३,१४.१३ ॥ षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् । जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥ ३,१४.१४ ॥ ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते । ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥ ३,१४.१५ ॥ चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः । जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥ ३,१४.१६ ॥ रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् । इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥ ३,१४.१७ ॥ स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् । कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥ ३,१४.१८ ॥ {मेर्चुर्य्:: जारण ओf द्वन्द्वस्} अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् । तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥ ३,१४.१९ ॥ जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् । इत्येवं षड्गुणं द्वंद्वं यत्किंचिज्जारयेद्रसे ॥ ३,१४.२० ॥ {सिद्धबीज:: प्रेपरतिओन्} जारितं सिद्धबीजेन सारयेत्तन्निगद्यते । ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥ ३,१४.२१ ॥ आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः । समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥ ३,१४.२२ ॥ माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् । स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥ ३,१४.२३ ॥ पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् । ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥ ३,१४.२४ ॥ षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् । सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् ॥ ३,१४.२५ ॥ अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् । कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥ ३,१४.२६ ॥ बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् । चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥ ३,१४.२७ ॥ {मेर्चुर्य्:: जारण ओf सुल्fउर्} अथातः शुद्धसूतस्य जारणे पूर्वभावितम् । अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् । गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥ ३,१४.२८ ॥ मुखनालान्विता ऊर्ध्ववक्त्रा स्याद्द्वादशाङ्गुला । दृढा लोहमयी कुर्यादनया सदृशी परा ॥ ३,१४.२९ ॥ एकस्यां निक्षिपेत्सूतमन्यस्यां गंधकं समम् । एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥ ३,१४.३० ॥ लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु । रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥ ३,१४.३१ ॥ जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् । इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥ ३,१४.३२ ॥ जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥ ३,१४.३३ ॥ {मेर्चुर्य्:: वासनामुखित:: ?} व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् । आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥ ३,१४.३४ ॥ भावयेदभिषेकेण पूर्ववत्शतवारकम् । पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥ ३,१४.३५ ॥ तद्वज्जार्यं प्रयत्नेन यावद्भवति षड्गुणम् । तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥ ३,१४.३६ ॥ मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् । क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् । सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥ ३,१४.३७ ॥ {सिल्वेर्=> गोल्द्} पूर्ववत्शुद्धसूतस्य पूर्वसंस्कृतगंधकम् । जारयेत्षड्गुणं सम्यक्तुलायंत्रेण पूर्ववत् ॥ ३,१४.३८ ॥ तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् । दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥ ३,१४.३९ ॥ पादांशं पक्वबीजं च चारयित्वाथ जारयेत् । पूर्ववद्बिडयोगेन एवं जार्यं समक्रमात् ॥ ३,१४.४० ॥ त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् । तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥ ३,१४.४१ ॥ {शतांशविधि; प्रोदुच्तिओनोf गोल्द्} तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् । भागैकं वेधकं सूतं संख्येयं शतवेधके ॥ ३,१४.४२ ॥ {गोल्द्:: प्रोदुच्तिओन्} रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् । पूर्ववत्क्रमयोगेन रसे चार्यं च जारयेत् ॥ ३,१४.४३ ॥ यावदष्टगुणं पश्चात्समं कृष्णाभ्रसत्त्वकम् । चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥ ३,१४.४४ ॥ जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते । रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥ ३,१४.४५ ॥ उन्मत्तमुनिपत्राणि रजनी काकमाचिका । धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥ ३,१४.४६ ॥ सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् । ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥ ३,१४.४७ ॥ तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना । स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद्दृढम् ॥ ३,१४.४८ ॥ कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः । ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥ ३,१४.४९ ॥ पचेद्गजपुटेऽप्येवं देयं पुटचतुष्टयम् । वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥ ३,१४.५० ॥ कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् । मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥ ३,१४.५१ ॥ सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् । शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै । तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.५२ ॥ {बीज:: ओf गोल्द्} स्वर्णार्कं तीक्ष्णनागं च सम्यक्सस्याभ्रकस्य च । वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥ ३,१४.५३ ॥ द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् । समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥ ३,१४.५४ ॥ वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः । यावत्स्वर्णावशेषं स्यादर्कायां दापयेत्पुनः ॥ ३,१४.५५ ॥ पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् । इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥ ३,१४.५६ ॥ {बीज:: fरों गोल्द्} अभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् । शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥ ३,१४.५७ ॥ मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् । तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥ ३,१४.५८ ॥ एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् । धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥ ३,१४.५९ ॥ ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् । स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६० ॥ {चन्द्रार्क => गोल्द्} स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् । ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥ ३,१४.६१ ॥ समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः । दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥ ३,१४.६२ ॥ उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥ ३,१४.६३ ॥ {बीज:: fरों गोल्द्} मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् । एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः । स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६४ ॥ {बीज:: fरों गोल्द्} तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् । मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.६५ ॥ तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः । पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥ ३,१४.६६ ॥ {सिल्वेर्=> गोल्द्} यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे । पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥ ३,१४.६७ ॥ सारिते जारयेत्तद्वदनुसार्येण जारयेत् । प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥ ३,१४.६८ ॥ पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् । क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१४.६९ ॥ {सिल्वेर्=> गोल्द्} नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् । ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥ ३,१४.७० ॥ स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् । यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥ ३,१४.७१ ॥ अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥ ३,१४.७२ ॥ {चन्द्रार्क => स्वर्ण} ताप्येन मारयेच्छुल्बं यथागंधेन मारितम् । तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन् धमन् ॥ ३,१४.७३ ॥ शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् । तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१४.७४ ॥ स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे । अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ ३,१४.७५ ॥ पूर्ववत्क्रमयोगेन बंधनान्तं च कारयेत् । क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् । चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.७६ ॥ {सिल्वेर्=> गोल्द्} रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् । मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥ ३,१४.७७ ॥ तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् । रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥ ३,१४.७८ ॥ तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः । सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥ ३,१४.७९ ॥ यावच्छतगुणं यत्नादनेनैव तु सारयेत् । जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥ ३,१४.८० ॥ कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥ ३,१४.८१ ॥ {सिल्वेर्=> गोल्द्} अभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् । मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.८२ ॥ तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् । रुद्ध्वा पञ्चपुटैः पच्यात्तच्चूर्णं वाहयेद्द्रुतम् ॥ ३,१४.८३ ॥ स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् । युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥ ३,१४.८४ ॥ सारिते जारणं कुर्याद्बंधनान्तं च पूर्ववत् । अयुतांशेन तेनैव तारं भवति कांचनम् ॥ ३,१४.८५ ॥ {चन्द्रार्क => गोल्द्} अथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते । स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥ ३,१४.८६ ॥ सहस्रगुणितं यावत्त्रिधा तेनैव सारयेत् । सारितं जारयेत्पश्चात्पुनः सार्यं च जारयेत् ॥ ३,१४.८७ ॥ सप्तशृङ्खलिकायोगात्सारितं जारयेद्बुधः । मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः । क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१४.८८ ॥ {चोप्पेर्=> सिल्वेर्} विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् । मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥ ३,१४.८९ ॥ अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् । तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥ ३,१४.९० ॥ एतद्बीजं समं सूते जारयेत्पूर्ववत्क्रमात् । ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९१ ॥ तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् । शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥ ३,१४.९२ ॥ {चोप्पेर्=> सिल्वेर्} मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् । द्विरष्टगुणितं तारे वाहयेत्तं धमन् धमन् ॥ ३,१४.९३ ॥ तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् । ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९४ ॥ सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् । तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥ ३,१४.९५ ॥ {मेर्चुर्य्:: शतवेधिन्} श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् । चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥ ३,१४.९६ ॥ चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् । द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥ ३,१४.९७ ॥ अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् । तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥ ३,१४.९८ ॥ तत्तारं रसराजस्य समं जार्यं क्रमेण वै । पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥ ३,१४.९९ ॥ {चोप्पेर्=> सिल्वेर्} एवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् । पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥ ३,१४.१०० ॥ पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् । एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥ ३,१४.१०१ ॥ बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् । ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥ ३,१४.१०२ ॥ द्वंद्वमेलापलिप्तायां मूषायां तं धमेद्दृढम् । अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥ ३,१४.१०३ ॥ तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन् क्षिपन् । तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥ ३,१४.१०४ ॥ सारयेत्तारबीजेन विधिना सारणात्रयम् । अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् । जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥ ३,१४.१०५ ॥ इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक्तमखिलं विधिवच्च जार्यम् । तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥ ३,१४.१०६ ॥ ३, १५ गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् । जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥ ३,१५.१ ॥ {बीज:: प्रेपरतिओन्} गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् । त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन् धमन् ॥ ३,१५.२ ॥ पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥ ३,१५.३ ॥ {बीज:: प्रेपरतिओन्} नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन् क्षिपन् । जीर्णे नागे पुनर्देयमेवं वारत्रयं शनैः । एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥ ३,१५.४ ॥ {बीजसाधनम् (३)} ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् । इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके । तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥ ३,१५.५ ॥ {बीजसाधन (४)} ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः । कण्टवेधीकृतं पत्रं गंधेन लवणेन च ॥ ३,१५.६ ॥ क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.७ ॥ {बीजसाधन (५)} सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥ ३,१५.८ ॥ अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद्दृढम् ॥ ३,१५.९ ॥ द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.१० ॥ {बीजसाधन (६)} शिला सौवर्चलं ताप्यगंधकासीसटंकणम् । मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि ॥ ३,१५.११ ॥ रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् । मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् ॥ ३,१५.१२ ॥ {मेर्चुर्य्:: ग्रास ओf अ बीज} अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् । टंकणं च यवक्षारं कासीसं च सुवर्चलम् ॥ ३,१५.१३ ॥ सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् । कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥ ३,१५.१४ ॥ मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च । लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत् ॥ ३,१५.१५ ॥ गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् । रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥ ३,१५.१६ ॥ {मेर्चुर्य्(?):: रञ्जन (?)} ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः । मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥ ३,१५.१७ ॥ त्रिगुणे वाहिते तस्मिन् रञ्जितं वाहितं तु तत् ॥ ३,१५.१८ ॥ {मेर्चुर्य्:: रञ्जन (ओf ँ)} गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् । हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥ ३,१५.१९ ॥ भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः । तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद्द्वंद्वमेलितम् ॥ ३,१५.२० ॥ तस्मिन् द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् । रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे । इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥ ३,१५.२१ ॥ {रसरञ्जकम् (३)} रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा । समांशे विमले ताम्रे द्राविते वाहयेद्धमन् । सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥ ३,१५.२२ ॥ {रसरञ्जकम् (४)} स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् । शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥ ३,१५.२३ ॥ समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै । पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥ ३,१५.२४ ॥ दशवारं कृते वापे रञ्जकोऽयं रसस्य च ॥ ३,१५.२५ ॥ {लेअद्=> गोल्द्} यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला । विंशवारं प्रयत्नेन तेन कल्केन लेपयेत् ॥ ३,१५.२६ ॥ नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् । रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥ ३,१५.२७ ॥ शिलागंधविषाणां च त्रयाणामेकभागकम् । पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥ ३,१५.२८ ॥ मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः । द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥ ३,१५.२९ ॥ इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् । {तारारिष्ट, लेअद्, चोप्पेर्=> गोल्द्} पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥ ३,१५.३० ॥ द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् । समुखे सूतराजे तु पूर्ववत्षड्गुणं क्रमात् ॥ ३,१५.३१ ॥ ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् । पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥ ३,१५.३२ ॥ मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा । द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.३३ ॥ इत्येवं द्रावितं जार्यं यावद्बीजसमं रसे । सारणादित्रयेणान्तं पूर्ववत्कारयेत्क्रमात् ॥ ३,१५.३४ ॥ तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् । सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥ ३,१५.३५ ॥ {चन्द्रार्क => गोल्द्} स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् । जारयेत्समुखे सूते समांशमभ्रसत्त्ववत् ॥ ३,१५.३६ ॥ जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा । मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् । चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥ ३,१५.३७ ॥ {गन्धनागद्रुतिः} वृषस्य मूत्रमादाय गजस्य महिषस्य वा । तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥ ३,१५.३८ ॥ ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् । गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥ ३,१५.३९ ॥ अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् । तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥ ३,१५.४० ॥ तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च । गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥ ३,१५.४१ ॥ अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् । करंजतैलमध्ये तु दशरात्रं तु धारयेत् ॥ ३,१५.४२ ॥ प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् । भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् । काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥ ३,१५.४३ ॥ {मेर्चुर्य्:: प्रेपरतिओन् fओर्जारण} शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् । चूर्णं यावद्भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥ ३,१५.४४ ॥ एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् । {मेर्चुर्य्:: गर्भद्रुति} अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥ ३,१५.४५ ॥ गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् । चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥ ३,१५.४६ ॥ रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते । मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना ॥ ३,१५.४७ ॥ कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् । दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥ ३,१५.४८ ॥ चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् । एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥ ३,१५.४९ ॥ त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः । अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् । मर्दयेच्चणकाम्लेन यामाद्गर्भे द्रवत्यलम् ॥ ३,१५.५० ॥ {गोल्द्:: द्रावण} मूषायन्त्रगतं द्राव्यं पूर्ववत्स्वेदनेन वै । जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥ ३,१५.५१ ॥ एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् । गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥ ३,१५.५२ ॥ ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन् धमन् । तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥ ३,१५.५३ ॥ सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः । वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥ ३,१५.५४ ॥ दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥ ३,१५.५५ ॥ {मेर्चुर्य्:: जारण wइथभ्रसत्त्व} समुखे निर्मुखे वाथ रसराजे तु जारयेत् । पूर्ववद्व्योमचूर्णं तु चारितं जारयेत्क्रमात् ॥ ३,१५.५६ ॥ चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् । चारयेज्जारयेत्तद्वत्यावत्षष्टिगुणं भवेत् । ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.५७ ॥ {मेर्चुर्य्:: गर्भद्रुति} महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् । तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥ ३,१५.५८ ॥ तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् । तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.५९ ॥ इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् । {मेर्चुर्य्:: गर्भद्रुति, जारण} रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥ ३,१५.६० ॥ गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् । सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥ ३,१५.६१ ॥ क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते । समुद्धृत्य तु तद्बीजं पादांशं पूर्वपारदे ॥ ३,१५.६२ ॥ पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् । द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् । जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥ ३,१५.६३ ॥ {मेर्चुर्य्:: जारण} गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् । तन्नागं हेमसंतुल्यमंधमूषागतं धमेत् ॥ ३,१५.६४ ॥ तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे । मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा ॥ ३,१५.६५ ॥ तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् । अनेन क्रमयोगेन जारयेत्तं कलागुणम् ॥ ३,१५.६६ ॥ {चोप्पेर्=> गोल्द्} मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् । एतद्बीजं ततो जार्यं क्रमाद्यावच्चतुर्गुणम् ॥ ३,१५.६७ ॥ पूर्ववद्द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् । बद्धरागस्तदा सूतो जायते कुंकुमप्रभः ॥ ३,१५.६८ ॥ इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् । सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥ ३,१५.६९ ॥ जारितं सारयेत्पश्चात्सारितं चैव जारयेत् । अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१५.७० ॥ ततस्तस्य मुखं बद्ध्वा पूर्ववद्बन्धयेच्च तम् । क्रामणेन समायुक्तं कोटिभागेन वेधयेत् । द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥ ३,१५.७१ ॥ {सिल्वेर्=> गोल्द्} हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत्त्र्यहम् । तप्तखल्वे ततः पात्यमूर्ध्वलग्नं समाहरेत् ॥ ३,१५.७२ ॥ पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् । ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.७३ ॥ पूर्ववद्द्वंद्वयोगेन मात्रापाकं च पूर्ववत् । महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ ३,१५.७४ ॥ तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् । तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥ ३,१५.७५ ॥ द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् । जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ ३,१५.७६ ॥ ततस्तथैव पादांशं गर्भद्रावणबीजकम् । पूर्ववद्द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥ ३,१५.७७ ॥ सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् । सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥ ३,१५.७८ ॥ {मेर्चुर्य्:: जारण ओf सुल्fउर्} शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् । द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥ ३,१५.७९ ॥ द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् । इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥ ३,१५.८० ॥ मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः । दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥ ३,१५.८१ ॥ पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् । तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥ ३,१५.८२ ॥ एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् । अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥ ३,१५.८३ ॥ जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा ॥ ३,१५.८४ ॥ {चोप्पेर्, लेअद्=> गोल्द्} अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् । द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥ ३,१५.८५ ॥ ततो रसकसत्वं च जार्यमष्टगुणं रसे । तीक्ष्णशुल्बोरगं चैव क्रमादष्टगुणं रसे ॥ ३,१५.८६ ॥ प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् । पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१५.८७ ॥ अथास्य रसराजस्य गर्भद्रावणबीजकम् । तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥ ३,१५.८८ ॥ मर्दयेद्दिनमेकं तु गर्भे द्रवति तद्द्रुतम् । मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥ ३,१५.८९ ॥ तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् । द्रावयेत्द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥ ३,१५.९० ॥ यावच्चतुर्गुणं यत्नाद्द्रुतं गर्भेऽथ जारयेत् । अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः ॥ ३,१५.९१ ॥ ततस्तं पक्वबीजेन सारितं जारयेत्क्रमात् । प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत् ॥ ३,१५.९२ ॥ सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् । क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥ ३,१५.९३ ॥ नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥ ३,१५.९४ ॥ {रसबीज} तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् । मर्दयेत्त्रिदिनं चाथ भावयेत्तिंतिणीद्रवैः ॥ ३,१५.९५ ॥ घर्मे दिनत्रयं यावत्शोष्यं पेष्यं पुनः पुनः । मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥ ३,१५.९६ ॥ गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् । दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥ ३,१५.९७ ॥ एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा । तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥ ३,१५.९८ ॥ तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् । षड्गुणं जारयेदेवं गंधकं मृदुवह्निना ॥ ३,१५.९९ ॥ तद्रसं भागमेकं तु पक्वबीजस्य षोडश । भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥ ३,१५.१०० ॥ पूर्ववद्द्वंद्वलिप्तायां मूषायां धमनेन च । रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥ ३,१५.१०१ ॥ {मेर्चुर्य्:: जारण:: wइथ्रसबीज} अथातः शुद्धसूतस्य काचकूप्यां गतस्य च । पूर्ववद्भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥ ३,१५.१०२ ॥ जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै । तस्यैव रसराजस्य पादांशं रसबीजकम् ॥ ३,१५.१०३ ॥ पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् । अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः । द्विरष्टगुणितं यावद्रसबीजं रसस्य वै ॥ ३,१५.१०४ ॥ {सिल्वेर्=> गोल्द्} भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् । समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥ ३,१५.१०५ ॥ लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः । वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥ ३,१५.१०६ ॥ दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥ ३,१५.१०७ ॥ {मेर्चुर्य्:: कोटिवेधिन्} सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् । समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥ ३,१५.१०८ ॥ षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै । गर्भद्रावणबीजं च पूर्ववद्द्रावितं क्रमात् ॥ ३,१५.१०९ ॥ जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः । समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥ ३,१५.११० ॥ सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् । क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥ ३,१५.१११ ॥ {चोप्पेर्=> सिल्वेर्} नागवज्जारयेद्बंगं षट्त्रिंशगुणितं क्रमात् । पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥ ३,१५.११२ ॥ त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् । सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१५.११३ ॥ क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् । कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१५.११४ ॥ {सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्} समुखे निर्मुखे वाथ सूतराजे तु जारयेत् । द्वंद्वितं व्योमसत्वं तु यावदष्टगुणं तथा ॥ ३,१५.११५ ॥ ततो रसकसत्वं च जार्यमष्टगुणं तथा । पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥ ३,१५.११६ ॥ स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् । पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥ ३,१५.११७ ॥ गर्भद्रावणबीजं च पादांशं तप्तखल्वके । मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥ ३,१५.११८ ॥ गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् । मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥ ३,१५.११९ ॥ जीर्णे बीजं पुनर्द्राव्यं जारयेद्द्रावयेत्पुनः । एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥ ३,१५.१२० ॥ ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् । सारणादिक्रामणान्तं पूर्ववत्कारयेत्क्रमात् ॥ ३,१५.१२१ ॥ तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् । करोति कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१५.१२२ ॥ {मेर्चुर्य्:: धूमवेधिन्; चोप्पेर्=> गोल्द्} समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् । स्वर्णादिमुण्डपर्यन्तमष्टलोहं पृथक्क्रमात् ॥ ३,१५.१२३ ॥ प्रत्येकमष्टगुणितमभिषेकं च पूर्ववत् । अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥ ३,१५.१२४ ॥ पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् । ततस्तु पादपादांशं गर्भद्रावणबीजकम् ॥ ३,१५.१२५ ॥ पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् । ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥ ३,१५.१२६ ॥ इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् । धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥ ३,१५.१२७ ॥ एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् । जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥ ३,१५.१२८ ॥ ३, १६ यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ । संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् । तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥ ३,१६.१ ॥ {भूनागसत्त्व (१)} भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् । तत्सत्वमभ्रवद्ग्राह्यं तत्रत्यैरौषधैः सह ॥ ३,१६.२ ॥ {भूनागसत्त्व (२)} सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् । एतेषां तुल्यभूनागचूर्णमेकत्र कल्पयेत् ॥ ३,१६.३ ॥ अभ्रवद्ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥ ३,१६.४ ॥ {भूनागसत्त्व (३)} कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् । अभ्रवद्ग्राहयेत्सत्वं रसराजस्य बन्धकम् ॥ ३,१६.५ ॥ {भूनागसत्त्व (४)} सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् । धार्यं भाण्डे क्षिपेत्तस्मिन् सजीवा भूलता पुनः ॥ ३,१६.६ ॥ उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै । तत्सत्त्वमभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥ ३,१६.७ ॥ {भूनागसत्त्व (५)} कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् । अजामूत्रैस्त्रिसप्ताहं भावयेदातपे खरे । तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥ ३,१६.८ ॥ {भूनागसत्त्व (६)} गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् । तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥ ३,१६.९ ॥ कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् । व्योमवत्क्रमयोगेन रसबन्धकरं भवेत् ॥ ३,१६.१० ॥ {भूनागसत्त्व (७)} गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् । वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥ ३,१६.११ ॥ एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥ ३,१६.१२ ॥ {भूनागतैल} दिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् । पञ्चमाहिषसंमिश्रं कृत्वाथ वटकीकृतम् । तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥ ३,१६.१३ ॥ {भूनागतैल} भूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् । तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥ ३,१६.१४ ॥ {गुह्यसूत} तप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् । त्रिदिनं मर्दयेद्गाढं तत्समस्तं समुद्धृतम् ॥ ३,१६.१५ ॥ भूनागचूर्णयुक्तायां मूषायां संनिवेशयेत् । तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥ ३,१६.१६ ॥ गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् । पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥ ३,१६.१७ ॥ पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् । ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥ ३,१६.१८ ॥ मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः । जायते मूर्तिबद्धस्य राक्षसो वडवामुखम् ॥ ३,१६.१९ ॥ ग्रसते सर्वलोहानि सत्वानि विविधानि च । वज्रादिसर्वलोहानि दत्तानि च मृतानि च । गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥ ३,१६.२० ॥ {चन्द्रार्क => गोल्द्} अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् । तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥ ३,१६.२१ ॥ भूनागतैललिप्तायां मूषायां तन्निवेशयेत् । रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥ ३,१६.२२ ॥ दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः । पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥ ३,१६.२३ ॥ एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा । गर्भद्रावेण बीजं च पूर्ववत्षड्गुणं शनैः ॥ ३,१६.२४ ॥ जारयेद्द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् । ततस्तु रंजकं बीजं जार्यमस्यैव षड्गुणम् ॥ ३,१६.२५ ॥ ततस्तु पक्वबीजेन सप्तशृङ्खलिकाक्रमात् । सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥ ३,१६.२६ ॥ अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.२७ ॥ {चोप्पेर्=> गोल्द्} गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् । यावद्गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥ ३,१६.२८ ॥ द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् । तस्मिन् सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥ ३,१६.२९ ॥ भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् । यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥ ३,१६.३० ॥ एवं पुनः पुनः कुर्यात्लिप्त्वा मूषागतं पुटम् । अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥ ३,१६.३१ ॥ यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् । गर्भद्रावणबीजं च समं तस्यैव सारयेत् ॥ ३,१६.३२ ॥ सारणायन्त्रमध्ये तु पूर्ववज्जारयेत्ततः । ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥ ३,१६.३३ ॥ मारितानि पृथग्भूयो जारितानि च कारयेत् । ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥ ३,१६.३४ ॥ चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् । तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥ ३,१६.३५ ॥ सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् । कोटिभागेन तेनैव ताम्रं भवति कांचनम् ॥ ३,१६.३६ ॥ {चन्द्रार्क => गोल्द्} भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् । दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥ ३,१६.३७ ॥ तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् । कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥ ३,१६.३८ ॥ स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् । दिव्यौषधीद्रवैरेव तप्तखल्वे दिनावधि ॥ ३,१६.३९ ॥ ततो रुद्ध्वा धमेद्गाढं खोटं भवति तद्रसः । गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥ ३,१६.४० ॥ मर्दयेत्स्वेदयेत्तद्वत्कुर्याद्बन्धं च पूर्ववत् । तुल्येन कांजिकेनैव सारयेच्चाथ तेन वै । वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.४१ ॥ {चन्द्रार्क, चोप्पेर्, लेअद्=> गोल्द्} रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् । व्याघ्रीकंदोदरे पच्याद्दोलायां हयमूत्रकैः ॥ ३,१६.४२ ॥ अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः । भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥ ३,१६.४३ ॥ शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् । व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥ ३,१६.४४ ॥ तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् । उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥ ३,१६.४५ ॥ शतं पलं स्वर्णपत्रे अनेनैव तु लेपयेत् । रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥ ३,१६.४६ ॥ व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् । एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥ ३,१६.४७ ॥ चारयेज्जारयेदेवं यावच्छतगुणं शनैः । तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥ ३,१६.४८ ॥ बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् । त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥ ३,१६.४९ ॥ दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना । एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,१६.५० ॥ सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् । अनेनैवायुतांशेन क्रामणान्तेन वेधयेत् ॥ ३,१६.५१ ॥ चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् । चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥ ३,१६.५२ ॥ मारयेत्पक्वबीजानि त्रिधा तं जारयेत्क्रमात् । पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥ ३,१६.५३ ॥ योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् । स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥ ३,१६.५४ ॥ {मेर्चुर्य्:: कोटिवेधिन्} पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि । व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥ ३,१६.५५ ॥ दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् । एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥ ३,१६.५६ ॥ व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि । अनेन लेपयेत्स्वर्णपत्रं शतपलं पुनः ॥ ३,१६.५७ ॥ वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना । स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥ ३,१६.५८ ॥ व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् । एवं शतपुटैः पक्वमभिषिक्तं च कारयेत् ॥ ३,१६.५९ ॥ समुखे रसराजेन्द्रे चार्यमेतच्च जारयेत् । व्योमसत्वक्रमेणैव यावत्शतगुणं शनैः ॥ ३,१६.६० ॥ मूषायन्त्रेऽथवा जार्यं यथा पूर्वं क्रमेण वै । तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥ ३,१६.६१ ॥ पूर्ववद्द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् । तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥ ३,१६.६२ ॥ मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥ ३,१६.६३ ॥ {चोप्पेर्=> सिल्वेर्} कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् । अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥ ३,१६.६४ ॥ शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि । व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥ ३,१६.६५ ॥ तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् । सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥ ३,१६.६६ ॥ जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् । वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥ ३,१६.६७ ॥ स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना । उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥ ३,१६.६८ ॥ त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् । पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥ ३,१६.६९ ॥ अनेन क्रमयोगेन सप्तधा पाचयेत्पुटैः । अनेन वेधयेत्ताम्रं द्रावितं शतमांशतः । पूर्ववत्क्रामणं दत्त्वा तारं भवति शोभनम् ॥ ३,१६.७० ॥ {चोप्पेर्=> सिल्वेर्} श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत्क्रमात् । रक्तवैक्रांतयोगेन तारं तेनैव मारयेत् ॥ ३,१६.७१ ॥ तत्तारं जारयेत्सूते तद्वच्छतगुणैः शनैः । तद्वन्मार्यं पुटेनैव भवेदयुतवेधकः ॥ ३,१६.७२ ॥ तद्वत्वै तारबीजेन सारितं जारयेत्क्रमात् । मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१६.७३ ॥ द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥ ३,१६.७४ ॥ {सिल्वेर्=> गोल्द्} ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् । मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,१६.७५ ॥ अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् । समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥ ३,१६.७६ ॥ पचेत्सप्तपुटैरेवं तद्भस्म पलमात्रकम् । शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस्त्र्यहम् ॥ ३,१६.७७ ॥ मर्दितं कारयेद्गोलं निर्मलेन च लेपयेत् । रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥ ३,१६.७८ ॥ ततो दिव्यौषधीद्रावैर्मर्दितं निगलेन च । रुद्ध्वा लिप्त्वा धमेद्गाढं बंधमायाति निश्चितम् ॥ ३,१६.७९ ॥ अनेन शतमांशेन तारं भवति कांचनम् ॥ ३,१६.८० ॥ {सिल्वेर्=> गोल्द्} रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् । द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१६.८१ ॥ तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे । अभ्रसत्वप्रकारेण जारयेत्पारदं समम् ॥ ३,१६.८२ ॥ तद्रसं पक्वबीजेन सारयेत्पूर्ववत्त्रिधा । तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१६.८३ ॥ सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.८४ ॥ {सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्} रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् । मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥ ३,१६.८५ ॥ ततो निगललिप्तायां मूषायां चान्धितं पुटेत् । करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥ ३,१६.८६ ॥ समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च । मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥ ३,१६.८७ ॥ पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् । लेपयेत्शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् । कोष्ठीयन्त्रे हठाद्धाम्यं बद्धो भवति तद्रसः ॥ ३,१६.८८ ॥ तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१६.८९ ॥ {चपलाभेदाः} रक्ता पीता सिता कृष्णा चपला तु चतुर्विधा । वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥ ३,१६.९० ॥ {चपला:: वेध wइथ्ँ} लांगली करवीराग्निगिरिकर्णी च टंकणम् । सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥ ३,१६.९१ ॥ वज्रमूषोदरं तेन लेपयेत्सर्वतोऽङ्गुलम् । चपला रक्तपीता वा भागमेकं विचूर्णयेत् ॥ ३,१६.९२ ॥ सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् । दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥ ३,१६.९३ ॥ पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् । तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥ ३,१६.९४ ॥ सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं तु तत् । नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९५ ॥ अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् । शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥ ३,१६.९६ ॥ तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् । सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.९७ ॥ सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् । नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९८ ॥ {लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्} षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् । भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥ ३,१६.९९ ॥ सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् । तद्गोलं निगलेनैव सर्वतो लेपयेद्घनम् ॥ ३,१६.१०० ॥ लांगली करवीराग्निगृध्रविष्ठा समं समम् । पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥ ३,१६.१०१ ॥ तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् । तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥ ३,१६.१०२ ॥ तेन नागेन शुल्बं च शतांशेनैव वेधयेत् । ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥ ३,१६.१०३ ॥ {सिल्वेर्=> गोल्द्} पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् । पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥ ३,१६.१०४ ॥ जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् । वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥ ३,१६.१०५ ॥ पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै । क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥ ३,१६.१०६ ॥ जीर्णे यावद्भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् । तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥ ३,१६.१०७ ॥ क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् । पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥ ३,१६.१०८ ॥ बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् । त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥ ३,१६.१०९ ॥ मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् । वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥ ३,१६.११० ॥ रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात्समुद्धरेत् । पूर्ववन्मर्दितं रुद्ध्वा धमेद्बद्धो भवेद्रसः ॥ ३,१६.१११ ॥ चतुःषष्टितमांशेन दत्ते तारमनेन वै । वेधयेज्जारयेद्दिव्यं कांचनं सिद्धसंमतम् ॥ ३,१६.११२ ॥ {सिल्वेर्=> गोल्द्} शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् । क्षणं कन्याद्रवैर्मर्द्यं पातनायंत्रगं पचेत् ॥ ३,१६.११३ ॥ ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् । दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात्समुद्धरेत् ॥ ३,१६.११४ ॥ एवं पुनः पुनः कुर्यादेकविंशतिवारकम् । गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥ ३,१६.११५ ॥ भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् । रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥ ३,१६.११६ ॥ एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै । जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥ ३,१६.११७ ॥ सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् । लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥ ३,१६.११८ ॥ जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् । सारयेत्पक्वबीजेन पूर्ववज्जारयेत्क्रमात् ॥ ३,१६.११९ ॥ मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,१६.१२० ॥ भूसत्त्वकैः परमगुह्यतमैः ससूतैर्वैक्रान्तकैः सचपलै रसगंधकैश्च । दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक्सुवर्णकरणं गदितं सुधीनाम् ॥ ३,१६.१२१ ॥ ३, १७ वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद्द्रुतं द्रवभवं किल बंधयोग्यम् । नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥ ३,१७.१ ॥ {अभ्रकद्रुति (१)} शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् । घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥ ३,१७.२ ॥ त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै । स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥ ३,१७.३ ॥ क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् । वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका ॥ ३,१७.४ ॥ वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् । अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत् ॥ ३,१७.५ ॥ आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः । एवं दिनत्रयं कुर्याद्द्रुतिर्भवति निर्मला ॥ ३,१७.६ ॥ {अभ्रकद्रुति (२)} अम्लवर्गेण पत्राणि क्षिपेद्घर्मे दिनत्रयम् । तथान्यान्यभ्रपत्राणि क्षालयेत्क्षीरकंदकैः ॥ ३,१७.७ ॥ क्षारैर्यावद्भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् । लिप्त्वा लिप्त्वा क्षिपेद्घर्मे कांस्यपात्रे विशोषयेत् ॥ ३,१७.८ ॥ सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥ ३,१७.९ ॥ {अभ्रकद्रुति (३)} काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् । एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि । अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥ ३,१७.१० ॥ {अभ्रकद्रुति (४)} धान्याभ्रकं सगोमांसमभ्रपादं च सैंधवम् । स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत्त्र्यहम् ॥ ३,१७.११ ॥ तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् । करीषाग्नौ त्र्यहं पच्याद्द्रुतिर्भवति निर्मला ॥ ३,१७.१२ ॥ {अभ्रकद्रुति (५)} अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् । तद्गोलं निक्षिपेत्कंदे सूरणोत्थे निरुध्य च ॥ ३,१७.१३ ॥ तत्कंदं निखनेद्गोष्ठभूमौ मासात्समुद्धरेत् । कंदोदराद्द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥ ३,१७.१४ ॥ {अभ्रकद्रुति (६)} धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् । स्थापयेन्मृण्मये पात्रे त्र्यहाद्घर्मे भवत्यलम् ॥ ३,१७.१५ ॥ {अभ्रकद्रुति (७)} सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला । मर्दयेद्भावयेद्घर्मे ततो दार्वी सुवर्चलम् ॥ ३,१७.१६ ॥ मरिचमभ्रपादांशं मूर्वापत्ररसैर्दिनम् । मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥ ३,१७.१७ ॥ शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥ ३,१७.१८ ॥ {अभ्रकद्रुति (८)} धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् । स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥ ३,१७.१९ ॥ {अभ्रकद्रुति (९)} वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् । तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥ ३,१७.२० ॥ रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः । इत्येवं रसरूपं च जायते नैव संशयः ॥ ३,१७.२१ ॥ {अभ्रकद्रुति (१०)} उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् । स्थाल्यां वा पाचयेदेतान् भवन्ति नवनीतवत् ॥ ३,१७.२२ ॥ ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च । यामत्रयं धमेद्गाढमधोभाण्डे द्रुतिः पतेत् ॥ ३,१७.२३ ॥ {अभ्रकद्रुति (११)} काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् । वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥ ३,१७.२४ ॥ मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः । अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥ ३,१७.२५ ॥ {अभ्रकद्रुति (१२)} कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् । मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ ३,१७.२६ ॥ नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा । पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥ ३,१७.२७ ॥ {अभ्रकद्रुति (१३)} धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु । स्नुहीक्षीरेण सप्ताहं भावितं धमनाद्भवेत् ॥ ३,१७.२८ ॥ {अभ्रकद्रुति (१४)} रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् । धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,१७.२९ ॥ वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् । भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥ ३,१७.३० ॥ {अभ्रकद्रुति (१५)} अथवा छागमूत्रेण भावयेत्कपितिंदुजम् । फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥ ३,१७.३१ ॥ द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥ ३,१७.३२ ॥ {अभ्रकसत्त्वद्रुति (२)} नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् । तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् । हठाद्ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥ ३,१७.३३ ॥ {अभ्रकसत्त्वद्रुति (३)} भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् । दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥ ३,१७.३४ ॥ तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् । यावत्तद्द्रवतां याति तावद्देयं पुनः पुनः । लोहं च द्रवते तेन हठाद्ध्माते न संशयः ॥ ३,१७.३५ ॥ {अभ्रकसत्त्वद्रुति (४)} पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः । शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥ ३,१७.३६ ॥ तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् । तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥ ३,१७.३७ ॥ {अभ्रकसत्त्वद्रुति (५)} क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् । तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥ ३,१७.३८ ॥ {अभ्रकसत्त्वद्रुति (६)} सर्वं धान्याम्लसंधानैर्भाव्यमभ्रकसत्वकम् । निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥ ३,१७.३९ ॥ {सुवर्णद्रुति (१)} इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः । भावितं चैकविंशाहाद्द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४० ॥ किंचित्किंचित्समं यावत्तावत्तिष्ठति सूतवत् ॥ ३,१७.४१ ॥ {सुवर्णरौप्यद्रुति (२)} शतधा नरमूत्रेण भावयेद्देवदालिकाम् । तच्चूर्णं वापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ ३,१७.४२ ॥ {तीक्ष्णलोहद्रुति (१)} सुरदालीभवं भस्म नरमूत्रेण भावितम् । त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥ ३,१७.४३ ॥ {तीक्ष्णलोहद्रुति (२)} मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् । सारं द्रुतिर्भवेत्सत्यमावर्त्यादौ प्रदापयेत् ॥ ३,१७.४४ ॥ {सर्वधातुद्रुति (१)} गंधकं कांतपाषाणं चूर्णयित्वा समं समम् । द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥ ३,१७.४५ ॥ {सर्वधातुद्रुति (२)} देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् । तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत् ॥ ३,१७.४६ ॥ {सुवर्णद्रुति (३)} अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् । उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥ ३,१७.४७ ॥ अष्टाहाद्ग्राहयेत्तस्मात्तैलं पातालयंत्रके । तत्तैलं द्राविते स्वर्णे क्षिपेद्द्रुतिमवाप्नुयात् ॥ ३,१७.४८ ॥ {सुवर्णद्रुति (४)} इंद्रगोपोऽश्वलाला च शशमण्डूकयोर्वसा । अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४९ ॥ जायते रसरूपं तच्चिरकालं च तिष्ठति ॥ ३,१७.५० ॥ {सुवर्णद्रुति (५)} इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् । चूर्णितं भावयेद्द्रावैर्देवदाल्युद्भवैर्दिनम् ॥ ३,१७.५१ ॥ अनेन द्राविते हेम्नि वापो देयः पुनः पुनः । तिष्ठते रसरूपं तच्चिरकालं शिवोदितम् ॥ ३,१७.५२ ॥ {तीक्ष्णलोहद्रुति (३)} तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः । लोलितं भावयेद्घर्मे क्षीरकन्दद्रवैः पुनः ॥ ३,१७.५३ ॥ सप्ताहं भावयेत्सम्यक्स्रावसंपुटके तथा । धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥ ३,१७.५४ ॥ {कान्तलोहद्रुति} शृगालमेषकूर्माहिशल्यानि च शिलाजतु । एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके । वापयेद्द्रवतां याति यथा सूतं सुनिश्चितम् ॥ ३,१७.५५ ॥ {सर्वलोहद्रुति (३)} लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः । सप्ताहं भावयेद्घर्मे ह्यम्लवर्गेण मर्दयेत् । द्रवते धमनेनैव लिपियोग्यं न संशयः ॥ ३,१७.५६ ॥ {सर्वलोहद्रुति (४)} गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः । द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥ ३,१७.५७ ॥ {सर्वलोहद्रुति (५)} पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् । रुद्ध्वा भांडे क्षिपेद्भूमौ त्रिसप्ताहात्समुद्धरेत् ॥ ३,१७.५८ ॥ तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् । तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा ॥ ३,१७.५९ ॥ {माक्षिकसत्त्वद्रुति (२)} एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् । मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥ ३,१७.६० ॥ {सर्वरत्नानां सर्वलोहानां द्रुतिः} क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥ ३,१७.६१ ॥ ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च । स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥ ३,१७.६२ ॥ वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् । दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥ ३,१७.६३ ॥ वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् । पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥ ३,१७.६४ ॥ वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः । एतैरेवौषधैर्लोहजातं द्रवति वापनात् ॥ ३,१७.६५ ॥ {वज्रद्रुति (१)} वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् । जलभांडगतं स्वेद्यं सप्ताहाद्द्रवतां व्रजेत् ॥ ३,१७.६६ ॥ {वज्रद्रुति (२)} सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् । सप्ताहादुद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥ ३,१७.६७ ॥ {वैक्रान्तद्रुति (१)} श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् । सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥ ३,१७.६८ ॥ {वैक्रान्तद्रुति (२)} केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका । इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥ ३,१७.६९ ॥ सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् । लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥ ३,१७.७० ॥ कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥ ३,१७.७१ ॥ {सर्वद्रुतीनां स्थापनाधारः} कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ ३,१७.७२ ॥ इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर्मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् । तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥ ३,१७.७३ ॥ ३, १८ द्रुतिरिह परिपाच्या जारयेत्पारदेन्द्रे मुनिगणितमथासौ सारितः कोटिवेधी । अथ पविकृतबीजं रत्नगर्भं द्रुतं वा चरति यदि रसेन्द्रः स्यात्तदा शब्दवेधी ॥ ३,१८.१ ॥ {द्रुतीनां रसेन सह मेलापनम् (१)} पाठा वंध्या तालमूली नीलीसिन्दूरचित्रका । पद्मकन्दं क्षीरकन्दं समं नागबला तथा ॥ ३,१८.२ ॥ एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् । द्रुतिं समुखसूतं च औषधीनां तथा द्रवम् ॥ ३,१८.३ ॥ सर्वं क्षिप्त्वा घोषपात्रे शोषयेदातपे खरे । द्रवः पुनः पुनर्देयो यावद्यामत्रयं भवेत् ॥ ३,१८.४ ॥ मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ॥ ३,१८.५ ॥ {सर्वद्रुतिमेलापन (२)} वज्रकंदामृता गुंजा द्रवैर्मर्द्यं च पूर्ववत् । मिलन्ति द्रुतयः सर्वा रसराजे न संशयः ॥ ३,१८.६ ॥ {सर्वद्रुतिमेलापन (३)} कृष्णागुरु सिता हिङ्गु कस्तूरीब्रह्मबीजकम् । तुल्यं चूर्णं दशांशेन सूते द्रुतियुते क्षिपेत् ॥ ३,१८.७ ॥ मिलन्ति द्रुतयः सर्वा अनेनैव न संशयः ॥ ३,१८.८ ॥ {सर्वद्रुतिमेलापन (४)} कृष्णागुरु श्वेतहिंगु सिता लशुननाभयः । पूर्ववन्मर्दनेनैव मिलन्ति द्रुतयो रसे ॥ ३,१८.९ ॥ {सर्वद्रुतिमेलापन (५)} अश्वलालार्द्रकं निम्बपत्राणि लशुनं समम् । टंकणेन समायुक्तं पूर्ववद्द्रुतिमेलकम् ॥ ३,१८.१० ॥ {सर्वद्रुतिमेलापन (६)} माक्षिकं सविषं गुंजा टंकणं स्त्रीरजः समम् । स्त्रीस्तन्यं संयुतं पिष्ट्वा तेन मूषां प्रलेपयेत् ॥ ३,१८.११ ॥ द्रुतियुक्तं रसं तत्र क्षिप्त्वा रुद्ध्वा दिनावधि । स्वेदयेत्करीषाग्निस्थं त्रिदिनं वा तुषाग्निना । मिलन्ति द्रुतयः सर्वा मीलिता जारयेत्ततः ॥ ३,१८.१२ ॥ द्रुतयो मीलिता येन मूषां तेनैव लेपयेत् । तथा च जीवयोगेन ख्यातेऽयं लिप्तमूषिका ॥ ३,१८.५७ ॥ {चोप्पेर्=> गोल्द्} हेमकांतद्रुतिं तुल्यां मेलयेत्समुखे रसे । षोडशांशं रसात्सर्वं लिप्तमूषान्धितं पुटेत् ॥ ३,१८.५८ ॥ सतुषेऽथ करीषाग्नौ यावत्सूतावशेषितम् । पुनश्च मेलयेत्तद्वत्सर्ववज्जारयेत्ततः ॥ ३,१८.५९ ॥ एवं समां द्रुतिं सूते जारयेत्क्रमयोगतः । ततस्तं पक्वबीजेन सारयेज्जारणात्रयम् ॥ ३,१८.६० ॥ मूषायन्त्रे तु तज्जार्यं मुखं बद्ध्वाथ बन्धयेत् । तारारे ताम्रसंयुक्ते शतांशेन नियोजयेत् ॥ ३,१८.६१ ॥ क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६२ ॥ {चोप्पेर्=> गोल्द्} हेमाभ्रशुल्बद्रुतयो द्विगुणं जारयेद्रसे । पूर्ववत्क्रमयोगेन ततो रंजकबीजकम् ॥ ३,१८.६३ ॥ मूषायन्त्रे समं जार्यं सारयेत्सारणात्रयम् । मुखं बद्ध्वा रसं बद्ध्वा सहस्रांशेन वेधयेत् । तारारं ताम्रसंयुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६४ ॥ {=> गोल्द्} कांतशुल्बसुवर्णानां द्रुतयः समुखे रसे । जारयेत्पूर्वयोगेन प्रत्येकं द्विगुणं क्रमात् ॥ ३,१८.६५ ॥ ततो रंजकबीजानि द्विगुणं तस्य जारयेत् । अथ बीजैस्त्रिधा सार्यं जारयेत्सारयेत्पुनः ॥ ३,१८.६६ ॥ जारितोऽथ मुखं बद्ध्वा रसं बद्ध्वाथ वेधयेत् । अयुतांशेन तेनैव पूर्ववत्कांचनं भवेत् ॥ ३,१८.६७ ॥ {लक्षवेधी रसः (द्रुतिजारणेन)} कांतहेमाभ्रद्रुतयो यावत्पञ्चगुणं क्रमात् । जारयेत्पूर्वयोगेन ततो रंजकबीजकम् ॥ ३,१८.६८ ॥ जार्यं पञ्चगुणं तस्मिन्मूषायन्त्रे प्रयत्नतः । सारयेत्पक्वबीजेन त्रिधा तं जारयेत्पुनः ॥ ३,१८.६९ ॥ पुनः सार्यं पुनर्जार्यमेवं वारत्रये कृते । मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१८.७० ॥ {दशलक्षवेधी रसः} आ रत्नहेमद्रुतयः षड्गुणं जार्यते रसे । षड्गुणं रंजकं बीजं ततस्तस्यैव जारयेत् ॥ ३,१८.७१ ॥ त्रिधा सार्यं पुनर्जार्यमेवं वारचतुष्टयम् । मुखं बद्ध्वा रसं बद्ध्वा नागतैलेन वेधयेत् । दशलक्षांशयोगेन दिव्यं भवति कांचनम् ॥ ३,१८.७२ ॥ {मेर्चुर्य्:: वेधिन्:: १०० तो कोटि} प्रत्येकं सूततुल्यांशमभ्रहेमद्रुतिद्वयम् । मेलितं पूर्वयोगेन जारयेत्तत्क्रमेण वै ॥ ३,१८.७३ ॥ शतवेधी भवेत्सूतो द्विधा सहस्रवेधकः । त्रिगुणेऽयुतवेधी स्याल्लक्षवेधी चतुर्गुणे ॥ ३,१८.७४ ॥ सम्यक्पञ्चगुणे जीर्णे दशलक्षाणि विध्यति । एवं रसगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१८.७५ ॥ ततः सप्तगुणं तस्य जार्यं रंजकबीजकम् । त्रिधाथ पक्वबीजेन सारयेत्पूर्ववत्क्रमात् ॥ ३,१८.७६ ॥ जारणा सारणा कार्या पुनः सारणजारणे । अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१८.७७ ॥ मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेत्तु सः । तारे च ताम्रसंयुक्ते क्रामणान्तं नियोजयेत् ॥ ३,१८.७८ ॥ {मेर्चुर्य्:: बन्धन (?)} श्वेताभ्रतारघोषारद्रुतयः समुखे रसे । जार्याः समा यथापूर्वं तारबीजेन सारयेत् । त्रिधा तं पूर्ववज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.७९ ॥ {तिन् => सिल्वेर्} कांततारारद्रुतयो द्विगुणाः समुखे रसे । जारयेत्त्रिगुणा यावत्पक्वबीजेन चाथवा ॥ ३,१८.८० ॥ सारितं जारितं कुर्यात्पूर्ववच्छृङ्खलात्रयम् । मुखं बद्ध्वा रसं बद्ध्वा अयुतांशेन वेधयेत् ॥ ३,१८.८१ ॥ द्रुते बंगे तु तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१८.८२ ॥ {तिन्:: स्तम्भन} तारतीक्ष्णघोषजाता द्रुतयः समुखे रसे । कुर्यात्चतुर्गुणा यावत्तारबीजेन सारयेत् ॥ ३,१८.८३ ॥ चतस्रः शृङ्खला यावन्मुखं बद्ध्वाथ बन्धयेत् । अनेन लक्षभागेन बंगस्तम्भो भवेद्दृढः ॥ ३,१८.८४ ॥ {मेर्चुर्य्:: कोटिवेधी} तारा कांतद्रुतयो जार्या सप्तगुणा रसे । तत्सार्यं तारबीजेन सप्तशृंखलिका क्रमात् ॥ ३,१८.८५ ॥ मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥ ३,१८.८६ ॥ {सप्तशृङ्खला} समुखस्य रसेन्द्रस्य धान्याभ्रं पूर्वसंस्कृतम् । चारयेज्जारयेत्तद्वत्समांशं चाथ तस्य वै ॥ ३,१८.८७ ॥ षड्गुणं द्वंद्विते व्योम्नि सर्वं जार्यं च पूर्ववत् । ततो माक्षिकसत्वं च पादांशं तस्य गर्भतः ॥ ३,१८.८८ ॥ द्रावयेज्जारयेत्तद्वत्तावद्रसकसत्वकम् । पूर्ववद्द्रावितं जार्यं मूषायन्त्रे तु तत्क्रमात् ॥ ३,१८.८९ ॥ गर्भद्रावणकं बीजं द्रावितं जारयेत्पुनः । भवेच्चतुर्गुणं यावत्पश्चादभ्रसुवर्णयोः ॥ ३,१८.९० ॥ द्रुतिं समसमां सूते द्वंद्वयित्वाथ जारयेत् । पूर्ववत्क्रमयोगेन कांतहेम्नो द्रुतिः पुनः ॥ ३,१८.९१ ॥ प्रत्येकं जारयेत्तुल्यं स्वर्णतीक्ष्णद्रुतिस्तथा । द्वंद्वितां जारयेत्तुल्यां ततो रंजकबीजकम् ॥ ३,१८.९२ ॥ पूर्ववत्क्रमयोगेन जार्ये तस्मिन् चतुर्गुणम् । ततस्तं पक्वबीजेन सारयेत्सारणात्रयम् ॥ ३,१८.९३ ॥ तदेव जारितं कुर्यान्मूषायन्त्रे तु पूर्ववत् । इत्येवं सप्तवाराणि सारितं तत्त्रिधा त्रिधा ॥ ३,१८.९४ ॥ पूर्ववज्जारणा कार्या ख्यातेयं सप्तशृङ्खला । सारणा यत्र यत्रोक्ता विज्ञेया वार्तिकैः पुनः ॥ ३,१८.९५ ॥ मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः । क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१८.९६ ॥ कर्माष्टादशकेनैव क्रमाद्वेधः प्रकाशितः । समुखं निर्मुखं बंधं रसबंधं तथेरितम् ॥ ३,१८.९७ ॥ गोपितं शंभुना सिद्धैः सूचितं न प्रकाशितम् । वार्तिकानां हितार्थाय मया तत्प्रकटीकृतम् ॥ ३,१८.९८ ॥ {वज्रबीज} वज्रभस्म शुद्धहेम व्योमसत्वमयोरजः । चत्वारि समभागानि नागचूर्णं चतुःसमम् ॥ ३,१८.९९ ॥ द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । एकीभूते समुद्धृत्य मूषायां प्रकटं धमेत् ॥ ३,१८.१०० ॥ माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् । हेमवज्रावशेषं तु यावत्स्यादुद्धरेत्ततः ॥ ३,१८.१०१ ॥ तस्मिन्नागं व्योमसत्त्वमयश्चूर्णं च पूर्ववत् । निक्षिपेद्द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१८.१०२ ॥ मिश्रीभूतं समुद्धृत्य मूषायां प्रकटं धमेत् । स्वर्णवज्रावशेषं तद्यावज्जातं समुद्धरेत् ॥ ३,१८.१०३ ॥ एवं पुनः पुनर्जार्यं व्योमसत्वायसं फणी । पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०४ ॥ माक्षिकाद्धौतसत्त्वकम् [... औ६ Zएइछेन्झ्] । क्षिपन् क्षिपन्धमेत्तं तु बाह्यमेवं तु षड्गुणम् ॥ ३,१८.१०५ ॥ वज्रबीजमिदं ख्यातं जारणे परमं हितम् ॥ ३,१८.१०६ ॥ {वज्रबीजजारणेन स्पर्शवेधी शब्दवेधी रसः} वासनामुखिते सूते द्वंद्वितं व्योमसत्वकम् । पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०७ ॥ तस्मिन् जार्यं वज्रबीजं व्योमसत्त्वक्रमेण वै । ग्रसते कच्छपे यंत्रे यथाजीर्णं तथा फलम् ॥ ३,१८.१०८ ॥ द्विगुणेऽयुतवेधी स्यात्त्रिगुणे लक्षवेधकः । यदा चतुर्गुणं जीर्णं दशलक्षाणि विध्यति ॥ ३,१८.१०९ ॥ कोटिवेधी पञ्चगुणे दशकोट्यस्तु षड्गुणे । अर्बुदांशात्सप्तगुणे शङ्खवेध्यष्टमे गुणे ॥ ३,१८.११० ॥ नवमे खर्ववेधी स्याद्दशमे पद्मवेधकः । त्रयोदशगुणे जीर्णे स्पर्शवेधी भवेद्रसः ॥ ३,१८.१११ ॥ चतुर्दशगुणे जीर्णे भवेत्पाषाणवेधकः । त्रिपञ्चगुणिते जीर्णे सशैलवनकाननाम् ॥ ३,१८.११२ ॥ वेधयेन्मेदिनीं सर्वां स भवेद्भूचरो रसः । एवं कलागुणे जीर्णे त्रैलोक्यव्यापको भवेत् ॥ ३,१८.११३ ॥ खेचरो रसराजेन्द्रो मुखस्थः खेगतिप्रदः । जायते च यथाशक्त्या ततः सार्यं क्रमेण वै ॥ ३,१८.११४ ॥ वज्रबीजेन तुल्येन प्रथमा सारणा भवेत् । पूर्ववज्जारणा कार्या द्विगुणेनानुसारयेत् ॥ ३,१८.११५ ॥ तथैव जारयेद्भूयः कर्तव्या प्रतिसारणा । त्रिगुणेन तु तेनैव मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.११६ ॥ द्विसहस्रादिलक्षान्तं वेधकस्याप्ययं विधिः । इत्येवं च पुनः कुर्यात्सारणां कोटिवेधके ॥ ३,१८.११७ ॥ दशकोट्याद्यर्बुदान्ते च जारिते वेधके रसे । त्रिप्रकारा प्रकर्तव्या सारणा तु त्रिधा त्रिधा ॥ ३,१८.११८ ॥ चतुर्गुणा शङ्खवेधे तदूर्ध्वं पञ्चधा भवेत् । षड्गुणा पद्मवेधे तु मूलवेधे तु सप्तधा ॥ ३,१८.११९ ॥ अष्टधा स्पर्शवेधे तु दशधा शब्दवेधके । ततस्त्रयोदशगुणाः कलागुणे कलागुणाः ॥ ३,१८.१२० ॥ क्रमशः सारणा कार्या यथाशक्त्यानुसारतः । मुखं बद्ध्वा रसं बद्ध्वा पश्चाद्वेधं प्रकल्पयेत् ॥ ३,१८.१२१ ॥ चंद्रार्के वा भुजंगे वा क्रामणेन समायुतम् । इत्येवं पद्मपर्यन्तं संख्यावेधात्तु यो रसः ॥ ३,१८.१२२ ॥ तद्वेष्टितं मधूच्छिष्टैः कुंतवेधे तु योजयेत् । तत्सर्वं कनकं दिव्यं जायते शंभुभाषितम् ॥ ३,१८.१२३ ॥ {धूमवेधविधि} धूमवेधे रसं पिष्ट्वा तेन वस्त्रं प्रलेपयेत् । ततो ज्योतिष्मतीतैले धृत्वा वर्तिं कल्पयेत् ॥ ३,१८.१२४ ॥ ज्वलितां तां ताम्रकूटे योजयेत्पत्त्रतां गते । तद्धूमगंधमात्रेण सर्वं भवति कांचनम् ॥ ३,१८.१२५ ॥ {स्पर्शवेधविधि} स्पर्शवेधी रसो योऽसौ गुटिकां तेन कारयेत् । द्रुतानामष्टलोहानां क्षिप्त्वा मध्ये समुद्धरेत् । तद्भवेत्कांचनं दिव्यमसंख्यं नात्र संशयः ॥ ३,१८.१२६ ॥ {शब्दवेधविधि} शब्दवेधी रसो योऽसौ गुटिकां तेन कारयेत् । धारयेद्वक्त्रमध्ये तु ततो लोहानि वेधयेत् । तत्सर्वं जायते स्वर्णं श्रुते शब्दे न संशयः ॥ ३,१८.१२७ ॥ {पाषाणवेधविधि} पाषाणवेधको योऽसौ पर्वतानि तु तेन वै । वेधयेदग्निना तप्तान् सर्वं भवति कांचनम् ॥ ३,१८.१२८ ॥ {मेदिनीवेधविधि} मेदिनीवेधको योऽसौ राजिकार्धार्धमात्रकः । तेनैव वेधयेत्सर्वां सशैलवनकाननाम् । मेदिनी सा स्वर्णमयी भवेत्सत्यं शिवोदितम् ॥ ३,१८.१२९ ॥ {त्रैलोक्यव्यापकविधि} त्रैलोक्यव्यापको योऽसौ तं करे धारयेत्तु यः । स भवेत्खेचरो दिव्यो महाकायो महाबलः ॥ ३,१८.१३० ॥ स्वेच्छाचारी महावीरः शिवतुल्यो भवेत्तु सः । तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ॥ ३,१८.१३१ ॥ जायन्ते नात्र संदेहस्तत्स्वेदस्पर्शनादपि । रसकायो महासिद्धः सर्वलोकेषु पूज्यते ॥ ३,१८.१३२ ॥ अवध्यो देवदैत्यानां यावच्चन्द्रार्कमेदिनी । भुञ्जानो दिव्यभोगांश्च क्रीडते भैरवो यथा ॥ ३,१८.१३३ ॥ {रसबीजं शतवेधी} भागत्रयं शुद्धसूतं भागैकं मृतवज्रकम् । काकिनीरजसा मर्द्यं तप्तखल्वे दिनावधि ॥ ३,१८.१३४ ॥ तेनैव पादभागेन हेमपत्राणि लेपयेत् । व्योमवल्लीरसैः पिष्टं कांतटंकणतालकम् ॥ ३,१८.१३५ ॥ अनेन चाष्टमांशेन पूर्वलिप्तानि लेपयेत् । रुद्ध्वा स्वेद्यं दिवारात्रौ करीषाग्नौ ततः पुनः ॥ ३,१८.१३६ ॥ कदलीकंदसौवीरटंकणं च समं समम् । कण्टकार्या द्रवैः पिष्ट्वा मूषा लेप्या त्वनेन वै ॥ ३,१८.१३७ ॥ तन्मध्ये पूर्वपक्वं यद्रुद्ध्वा धाम्यं दृढाग्निना । तत्सर्वं जायते खोटं सौवीरं काचटंकणम् ॥ ३,१८.१३८ ॥ दत्त्वा दत्त्वा धमेत्खोटं जायते भास्करोपमम् । रसबीजमिदं ख्यातं वेधके जारणे हितम् । चंद्रार्के शतवेधी स्यात्कांचनं कुरुते शुभम् ॥ ३,१८.१३९ ॥ {शब्दवेधी रसः} अथ वक्ष्ये रसेन्द्रस्य समांशस्य च भक्षणम् । पूर्वोक्तं रसबीजं तु समुखे चारयेद्रसे ॥ ३,१८.१४० ॥ अभ्रसत्वप्रकारेण जारयेत्तत्क्रमेण वै । पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४१ ॥ ततस्तेनैव बीजेन सारणाक्रामणात्रयम् । ततश्च जारितं कुर्यान्मुखं बद्ध्वाथ बन्धयेत् । शब्दवेधी भवेत्सो हि रसः शंकरभाषितम् ॥ ३,१८.१४२ ॥ {रसबीजं शतवेधि} समुखस्य रसेन्द्रस्य पक्वबीजं समांशकम् । जारयेच्चाभिषिक्तं तदभ्रसत्त्वक्रमेण वै ॥ ३,१८.१४३ ॥ मृतवज्रं षोडशांशं तस्मिन्सूते विनिक्षिपेत् । तालकं टंकणं कांतं तृतीयं चाष्टमांशकम् ॥ ३,१८.१४४ ॥ दत्त्वा तस्मिंस्तदा खल्वे व्योमवल्लीद्रवैर्दिनम् । तत्सर्वं मर्दितं कृत्वा छायाशुष्कं प्रयत्नतः ॥ ३,१८.१४५ ॥ द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । करीषाग्नौ दिवारात्रौ ध्माते खोटं भवेत्तु तत् ॥ ३,१८.१४६ ॥ काचटंकणसौवीरैः शोधयेत्तं धमन् धमन् । रसबीजमिदं ख्यातं पूर्ववत्शतवेधकम् । जायते रसराजोऽयं कुरुते कनकं शुभम् ॥ ३,१८.१४७ ॥ {मेर्चुर्य्:: रञ्जन:: रेद्} अथवा समुखे सूते पूर्ववज्जारयेद्दिनम् । पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४८ ॥ रसबीजेन चान्येन त्रिधा सार्यं क्रमेण वै । सारिते जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् । शब्दवेधी भवेत्साक्षात्ताम्रं स्वर्णं करोति वै ॥ ३,१८.१४९ ॥ {रसबीजम्} पक्वबीजस्य चूर्णं तु पूर्ववच्चाभिषेकितम् । षोडशांशेन सूतस्य समुखस्य तु चारयेत् ॥ ३,१८.१५० ॥ द्व्यङ्गुल्यां मर्दनेनैव घर्मे चरति तत्क्षणात् । तद्बीजं जारयेत्तस्य स्वेदनैश्चाभ्रसत्ववत् ॥ ३,१८.१५१ ॥ अनेन क्रमयोगेन समं बीजं तु सारयेत् । तद्वद्द्वादशभागेन पक्वबीजं तु तस्य वै ॥ ३,१८.१५२ ॥ चारयेन्मर्दयन्नेव कच्छपाख्येऽथ जारयेत् । अभ्रसत्वप्रकारेण समं यावच्च जारयेत् ॥ ३,१८.१५३ ॥ ततस्तस्याष्टमांशेन पक्वबीजं तु दापयेत् । मर्दयेत्तप्तखल्वे तत्चरत्येव हि तत्क्षणात् ॥ ३,१८.१५४ ॥ तं सूतं सूरणे कंदे गर्भे क्षिप्त्वा निरुध्य च । लिप्त्वा कंदं पुटे पच्याद्यथा कंदो न दह्यते ॥ ३,१८.१५५ ॥ तत्रैव ग्रसते सूतो जीर्णे ग्रासं तु दापयेत् । अनेन क्रमयोगेन समबीजं समं पुनः ॥ ३,१८.१५६ ॥ पादांशं पक्वबीजं तु दत्त्वा चार्यं च मर्दयेत् । मूषायन्त्रे ततो जार्यं स्वेदनेन पुनः पुनः ॥ ३,१८.१५७ ॥ अनेन क्रमयोगेन समबीजं च जारयेत् । एवं चतुर्गुणे जीर्णे पक्वबीजे तु पारदे । जायते कुंकुमाभस्तु रसेन्द्रो बलवत्तरः ॥ ३,१८.१५८ ॥ {धूमवेधी शब्दवेधी पाषाणवेधी रसः} अभ्रकं भ्रामकं ब्राह्मी मृतलोहाष्टकं तथा । महारसाश्चोपरसाः कटुतुम्ब्याश्च बीजकम् ॥ ३,१८.१५९ ॥ शङ्खनाभिर्मेषशृङ्गी वज्रकंदं समं समम् । मयूरस्य तु रक्तेन सर्वं पाच्यं दिनावधि ॥ ३,१८.१६० ॥ ततस्तं मर्दयेत्खोटं शिखिरक्ते दिनद्वयम् । अनेन मृतवज्रं तु लेपितं कारयेत्ततः ॥ ३,१८.१६१ ॥ मूषामाम्रफलाकारां द्विद्विलिप्तां तु कारयेत् । तन्मध्ये पूर्वसूतं तु पादांशं लिप्तवज्रकम् ॥ ३,१८.१६२ ॥ अथवा वज्रबीजं च पूर्वकल्केन लेपितम् । अथवा द्वंद्वितं वज्रं समं स्वर्णेन यत्कृतम् ॥ ३,१८.१६३ ॥ तल्लिप्तं पूर्वकल्केन पादांशं तत्र निक्षिपेत् । आच्छादितं धमेन्मन्दं मूषाधोमुखवायुना ॥ ३,१८.१६४ ॥ किंचित्किंचिद्बिडं दत्त्वा जीर्णे तस्मात्समुद्धरेत् । पुनस्तल्लिप्तमूषायां क्षिप्त्वा वज्रेण संयुतम् । पूर्ववत्क्रमयोगेन जीर्णे वज्रे समुद्धरेत् । अनेन क्रमयोगेन वज्रं वा वज्रबीजकम् ॥ ३,१८.१६५ ॥ स्वर्णद्वंद्वितवज्रं वा जारयेत्तत्पुनः पुनः । एकादशगुणं यावत्तावज्जार्यं रसेन्द्रके ॥ ३,१८.१६६ ॥ सुदग्धां शङ्खनाभिं तु मातुलिंगरसैर्दिनम् । मर्दयेल्लोलयेत्तेन मुक्ताचूर्णं सुशोभनम् ॥ ३,१८.१६७ ॥ द्रावितं मौक्तिकं वाथ पूर्ववज्जारयेद्धमन् । मूषायां बिडलिप्तायां पादं पादं शनैः शनैः ॥ ३,१८.१६८ ॥ एकादशगुणं यावत्तज्जार्यं कच्छपेन तत् ॥ ३,१८.१६९ ॥ नीलीनिर्याससंतुल्यं शिखिपित्तं विमर्दयेत् । इन्द्रनीलं च नीलं च तेन लिप्त्वाथ जारयेत् ॥ ३,१८.१७० ॥ पूर्ववत्क्रमयोगेन धमनात्स्वेदनेन वा । विडलेपितमूषायामेकादशगुणं क्रमात् ॥ ३,१८.१७१ ॥ द्रावितं चेन्द्रनीलं वा नीलं च द्रावितं क्रमात् । द्वंद्वितं रसराजस्य जार्यमभ्रद्रुतिर्यथा । इत्येवं जारयेन्नीलं द्रावितं कठिनं तु वा ॥ ३,१८.१७२ ॥ शिखिपित्तनृरक्ताभ्यां लेपितं पद्मरागकम् । जारयेद्रसराजस्य त्वेकादशगुणं क्रमात् । जार्यं वा द्रावितं तत्तु यथा चाभ्रद्रुतिः पुरा ॥ ३,१८.१७३ ॥ रजनी तुल्यकंकुष्ठं ब्रह्मपुष्पद्रवैर्दिनम् । भावितं तेन लिप्तं तु पुष्परागं तु जारयेत् ॥ ३,१८.१७४ ॥ कठिनं द्रावितं वाथ रुद्रसंख्याक्रमेण वै । एवं रत्नैर्भवेत्तृप्तो रसराजो महाबलः ॥ ३,१८.१७५ ॥ अनेनैव शतांशेन मधूच्छिष्टेन लेपयेत् । शुद्धहाटकपत्राणि रुद्ध्वा गजपुटे पचेत् ॥ ३,१८.१७६ ॥ इंद्रगोपसमाकारं तत्स्वर्णं जायते शुभम् । अनेनैव सुवर्णेन सारयेत्सारणात्रयम् ॥ ३,१८.१७७ ॥ रत्नतृप्तं सूतराजं मूषायन्त्रे विनिक्षिपेत् । शनैः शनैर्धमेत्तावद्यावत्सूतावशेषितम् ॥ ३,१८.१७८ ॥ मुखं बद्ध्वा रसं बद्ध्वा धूमवेधी भवेत्तु तत् । अनेन क्रमयोगेन पुनः सारणजारणा ॥ ३,१८.१७९ ॥ कर्तव्यास्त्रिप्रकारा वै मुखं बद्ध्वाथ बन्धयेत् । शब्दवेधी रसेन्द्रोऽयं जायते खेगतिप्रदः ॥ ३,१८.१८० ॥ पुनश्च त्रिविधा कार्या सारणाज्जारणा क्रमात् । तस्यैव तु रसेन्द्रस्य मुखबन्धं च कारयेत् ॥ ३,१८.१८१ ॥ तेनैव वेधयेत्सर्वं गिरिपाषाणभूतलम् । जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,१८.१८२ ॥ सिद्धैर्भूचरखेचरा शिवमुखात्प्राप्ता महाजारणा कृत्वा तां च रसे रसातलमिदं स्वर्णेन पूर्णं कृतम् । तेषां कर्म विचार्य सारमखिलं स्पष्टीकृतं तन्मया यः कश्चिद्गुरुतन्त्रमन्त्रनिरतस्तस्यैव सिद्धं भवेत् ॥ ३,१८.१८३ ॥ ३, १९ संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै । रत्नादीनां विशेषात्करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत्सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥ ३,१९.१ ॥ {पद्मरागकरणम्} चतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः । वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥ ३,१९.२ ॥ मृद्वग्निना पादशेषं जातं यावच्च तस्य वै । क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥ ३,१९.३ ॥ किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् । स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥ ३,१९.४ ॥ घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् । एतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥ ३,१९.५ ॥ वर्षोपलास्तु तेनैव लालयित्वा सुपाचिते । मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् । जायन्ते पद्मरागाणि दिव्यतेजोमयानि च ॥ ३,१९.६ ॥ {इन्द्रनीलकरणम्} नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् । तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥ ३,१९.७ ॥ क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् । इन्द्रनीलानि तान्येव जायन्ते नात्र संशयः ॥ ३,१९.८ ॥ {मरकतमणिकरणम्} मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् । काचकूप्यां स्थितैर्द्रावैः सर्वमेतत्सुलोलयेत् ॥ ३,१९.९ ॥ वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् । सर्वे मरकतास्तेन समीचीना भवन्ति वै ॥ ३,१९.१० ॥ {गोमेदमणिकरणम्} मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् । वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥ ३,१९.११ ॥ गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥ ३,१९.१२ ॥ {पुष्परागकरणम्} पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् । तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥ ३,१९.१३ ॥ तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् । वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् । भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥ ३,१९.१४ ॥ {नीलमाणिक्यकरणम्} नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् । बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥ ३,१९.१५ ॥ तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् । वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् । नीलमाणिक्यसदृशास्ते भवन्ति न संशयः ॥ ३,१९.१६ ॥ {मुक्ताकरणम् (१)} प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक्पृथक् । रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥ ३,१९.१७ ॥ सूर्यकांतस्य मध्ये तु बिलं कुर्यात्सुवर्तुलम् । तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥ ३,१९.१८ ॥ सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः । तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥ ३,१९.१९ ॥ सूर्यकान्तेनापरेण छादितं घर्मधारितम् । याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥ ३,१९.२० ॥ छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके । सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत्तदुलूखले ॥ ३,१९.२१ ॥ लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् । त्वचारिष्टफलानां तु जलेन सह पेषयेत् । तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥ ३,१९.२२ ॥ {मुक्ताकरणम् (२)} मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् । प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥ ३,१९.२३ ॥ तेनैव वर्तुलाकारा गुटिकाः कारयेत्ततः । काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥ ३,१९.२४ ॥ प्रोतयेदश्ववालेन मालां कृत्वाथ शोषयेत् । छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥ ३,१९.२५ ॥ स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् । निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥ ३,१९.२६ ॥ उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् । मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥ ३,१९.२७ ॥ कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः । भवन्ति तानि शुभ्राणि सम्यङ्मुक्ताफलानि वै ॥ ३,१९.२८ ॥ {मुक्ताकरणम् (३)} मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा । घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥ ३,१९.२९ ॥ ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णमीडाक्षीरादिपूर्ववत् । कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥ ३,१९.३० ॥ {मुक्ताकरणम् (४)} सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् । एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥ ३,१९.३१ ॥ छायायां शोषयेत्पश्चात्कण्डनं क्षालनं ततः । कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥ ३,१९.३२ ॥ {प्रवालकरणम् (१)} दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् । प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥ ३,१९.३३ ॥ क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् । वर्तुलां गुटिकां कृत्वा प्रोतयेत्ताम्रसूत्रके ॥ ३,१९.३४ ॥ रम्भागर्भदलेनैव मध्यमांगुष्ठतर्जनी । वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक्पृथक् ॥ ३,१९.३५ ॥ आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः । छायाशुष्काः शुभाः प्रोत्यास्ताम्रसूत्रेण वै पुनः ॥ ३,१९.३६ ॥ मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः । जायते पद्मरागाभं प्रवालं नात्र संशयः ॥ ३,१९.३७ ॥ {प्रवालकरणम् (२)} दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः । क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद्दृढम् ॥ ३,१९.३८ ॥ पूरयेच्च तृणोत्थे वा नाले वंशादिसंभवे । सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥ ३,१९.३९ ॥ आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् । प्रवाला नलिकागर्भे जायन्ते पद्मरागवत् ॥ ३,१९.४० ॥ {हिङ्गुलकरणम्} अशुद्धं पारदं भागं चतुर्भागं च टंकणम् । उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ ३,१९.४१ ॥ तस्मिन्मनःशिलाचूर्णं पारदाद्दशमांशतः । क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ ३,१९.४२ ॥ कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च । वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ ३,१९.४३ ॥ सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् । वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥ ३,१९.४४ ॥ क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् । सप्ताहात्तत्समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥ ३,१९.४५ ॥ {सिन्दूरकरणम् (१)} चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् । पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् । चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥ ३,१९.४६ ॥ {सिन्दूरकरणम् (२)} रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् । चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥ ३,१९.४७ ॥ पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥ ३,१९.४८ ॥ {सिन्दूरकरणम् (३)} भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा । सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥ ३,१९.४९ ॥ {सिन्दूरकरणम् (४)} पलानां द्विशतं नागं द्रावयेल्लोहभाजने । समूलवासकाभस्म पादांशं तत्र निक्षिपेत् ॥ ३,१९.५० ॥ पीतवर्णं भवेद्यावत्तावत्पच्यात्प्रचालयेत् । ततः सुशीतलं कृत्वा जलेन चालयेत्पुनः ॥ ३,१९.५१ ॥ पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् । छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥ ३,१९.५२ ॥ क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना । छिद्रं कुर्याद्भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥ ३,१९.५३ ॥ रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् । सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥ ३,१९.५४ ॥ {सैन्धवकरणम्} नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् । निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥ ३,१९.५५ ॥ द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि । रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥ ३,१९.५६ ॥ स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥ ३,१९.५७ ॥ {सुवर्चलकरणम्} आरनालं पलैकं तु द्विनिष्कं च सुवर्चलम् । माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥ ३,१९.५८ ॥ पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् । पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति । सुवर्चलं भवेत्तावन्नात्र कार्या विचारणा ॥ ३,१९.५९ ॥ {हिङ्गुकरणम् (१)} हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् । चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥ ३,१९.६० ॥ सर्वतुल्यां बिल्वमज्जामजाक्षीरेण पेषयेत् । तत्सर्वं बन्धयेद्गाढं सार्द्रगोचर्मगर्भतः । पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥ ३,१९.६१ ॥ {हिङ्गुकरणम् (२)} बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा । त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥ ३,१९.६२ ॥ अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् । तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥ ३,१९.६३ ॥ निर्वाते लम्बितं रक्षेथिंगु स्याच्छुद्धहिंगुवत् ॥ ३,१९.६४ ॥ {हिङ्गुकरणम् (३)} पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् । एरण्डबीजमज्जा च तुषवर्ज्यं पलद्वयम् ॥ ३,१९.६५ ॥ निस्त्वङ्माषा पलद्वंद्वमेकीकृत्य प्रपेषयेत् । त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥ ३,१९.६६ ॥ तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥ ३,१९.६७ ॥ {हिङ्गुकरणम् (४)} द्विपले शुद्धहिंगु स्यादेडाक्षीरं च विंशतिः । गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥ ३,१९.६८ ॥ अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् । छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥ ३,१९.६९ ॥ {वङ्गकरणम् (१)} धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् । शोष्यं पेष्यं पुनर्भाव्यमेवं घर्मे त्रिसप्तधा ॥ ३,१९.७० ॥ तद्वाप्यं द्रुतनागस्य दशमांशेन दापयेत् । ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् । भावयेद्रजनीमध्ये तद्बंगं जायते शुभम् ॥ ३,१९.७१ ॥ {वङ्गकरणम् (२)} भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा । तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥ ३,१९.७२ ॥ तद्वापं द्रुतनागस्य दशमांशेन दापयेत् । तत्ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥ ३,१९.७३ ॥ टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके । द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥ ३,१९.७४ ॥ {अम्लवेतसकरणम्} त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् । पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥ ३,१९.७५ ॥ चाङ्गेरीमातुलिंगाम्लैर्यथाप्राप्तं समाहरेत् । वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥ ३,१९.७६ ॥ सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् । मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥ ३,१९.७७ ॥ पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् । घनीभूतं भवेद्यावच्चट्टकेनैव चालयेत् । अम्लवेतसमित्येतज्जायते शोभनं परम् ॥ ३,१९.७८ ॥ {साहीकरणम्} त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् । बीजाम्रसममेतेषां समांशं बोलकज्जले ॥ ३,१९.७९ ॥ क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी । तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥ ३,१९.८० ॥ {घृतकरणम्} नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् । तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥ ३,१९.८१ ॥ शतांशेन क्षिपेत्तस्मिन् रक्तशाकिनिमूलकम् । मृद्वग्निना पचेत्किंचित्तत्सर्वं जायते घृतम् ॥ ३,१९.८२ ॥ {घृतकरणम् (२)} घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् । क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् । घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥ ३,१९.८३ ॥ {घृतकरणम् (३)} मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् । पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥ ३,१९.८४ ॥ द्विनिष्कं कांजिकं तस्मिन् क्षिप्त्वा वस्त्रेण चालयेत् । पादांशं च घृतं तस्मिन् दद्यात्सर्वं घृतं भवेत् ॥ ३,१९.८५ ॥ {घृतकरणम् (४)} तिलतैलं विपच्यादौ यावत्फेनं निवर्तते । गुग्गुलुं निक्षिपेत्तस्मिन् किंचिद्गंधनिवृत्तये ॥ ३,१९.८६ ॥ विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् । जलतुल्यं पूर्वतैलं मिश्रयेत्तत्सुशीतलम् ॥ ३,१९.८७ ॥ मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् । घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥ ३,१९.८८ ॥ {चन्दनकरणम्} संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः । तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥ ३,१९.८९ ॥ पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् । संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥ ३,१९.९० ॥ स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥ ३,१९.९१ ॥ {कर्पूरकरणम्} पलत्रयं पचेद्भक्तं सम्यग्राजान्नतण्डुलम् । तद्भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥ ३,१९.९२ ॥ निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् । शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥ ३,१९.९३ ॥ लेप्यमङ्गुलमानेन छायाशुष्कं च कारयेत् । छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥ ३,१९.९४ ॥ वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् । आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥ ३,१९.९५ ॥ त्रिसप्ताहात्समुद्धृत्य शोषयित्वा समाहरेत् । कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने । कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥ ३,१९.९६ ॥ {जवादीयाङ्कस्तूरीकरणम्} पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् । नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥ ३,१९.९७ ॥ चूर्णयित्वा क्षिपेत्तस्मिन् तत्सर्वं द्रवतां व्रजेत् । तेन घृष्ट्वा क्षिपेत्तस्मिन् चतुर्निष्कं च चन्दनम् ॥ ३,१९.९८ ॥ मृद्वग्नौ पाचयेत्तावद्यावदारक्ततां गतम् । तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥ ३,१९.९९ ॥ चम्पकं केतकीमल्लीजातीपुष्पाणि तत्पुनः । दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥ ३,१९.१०० ॥ ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् । माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥ ३,१९.१०१ ॥ निक्षिपेद्विंशदंशेन सम्यग्जावादिकामपि । तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥ ३,१९.१०२ ॥ वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् । सम्यग्भवति जावादि वर्णैः परिमलैरपि ॥ ३,१९.१०३ ॥ {कस्तूरीकरणम्} मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् । मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥ ३,१९.१०४ ॥ मल्लिका मालती जाती केतकी शतपत्त्रिका । अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥ ३,१९.१०५ ॥ दिनैकं मुद्रितं रक्षेत्पुष्पं निष्पीड्य संत्यजेत् । सिक्थकं विंशतिर्निष्कान् क्षिप्त्वा तस्मिन्पचेच्छनैः ॥ ३,१९.१०६ ॥ यावत्तैलावशेषं स्यात्कर्पूरं चार्धनिष्ककम् । निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥ ३,१९.१०७ ॥ अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् । क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥ ३,१९.१०८ ॥ सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः । पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥ ३,१९.१०९ ॥ तच्चूर्णमिक्षुदण्डस्य कृतनालस्य चोदरे । क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥ ३,१९.११० ॥ पुटेत्तृणाग्निना तावद्यावद्गंधो न दह्यते । द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥ ३,१९.१११ ॥ कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् । चूर्णस्य दशमांशेन सम्यक्कस्तूरिकां क्षिपेत् ॥ ३,१९.११२ ॥ पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् । कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥ ३,१९.११३ ॥ तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् । गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् । कस्तूरीचर्मणा बद्ध्वा सम्यङ्मृगमदो भवेत् ॥ ३,१९.११४ ॥ {कुण्कुमकरणम् (१)} नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् । यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥ ३,१९.११५ ॥ तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् । गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥ ३,१९.११६ ॥ {कुङ्कुमकरणम् (२)} पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे । विंशत्यंशं क्षिपेत्तस्मिन् पेषितं शुभ्रतण्डुलम् ॥ ३,१९.११७ ॥ तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् । घनीभूतं भवेद्यावत्तावद्घर्मे प्रचालयेत् । ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥ ३,१९.११८ ॥ {कुङ्कुमकरणम् (३)} पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् । पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥ ३,१९.११९ ॥ {दिव्यधूप (१)} क्रमात्तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् । नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥ ३,१९.१२० ॥ चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् । चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥ ३,१९.१२१ ॥ स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना । दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥ ३,१९.१२२ ॥ तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् । देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥ ३,१९.१२३ ॥ {दिव्यधूप (२)} पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् । मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥ ३,१९.१२४ ॥ लाक्षागुडं सर्जरसं सिताकर्पूरसंयुतम् । प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥ ३,१९.१२५ ॥ माषैकैकं क्षिपेत्तस्मिन् सर्वं कुट्यादुलूखले । तिलतैलं क्षिपेत्किंचिल्लोहदण्डेन तद्दृढम् ॥ ३,१९.१२६ ॥ यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः । देवादेवाकरो देयः पूर्ववद्वर्तकीकृतः । सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥ ३,१९.१२७ ॥ {पुष्पद्रुति} वज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः । आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥ ३,१९.१२८ ॥ जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् । क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥ ३,१९.१२९ ॥ मृत्पात्रे धारयेद्घर्मे रम्ये वा काचभाजने । आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥ ३,१९.१३० ॥ द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् । अनेनैव प्रकारेण पुष्पाणां च पृथक्पृथक् । द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥ ३,१९.१३१ ॥ {धान्यवृद्धिकरणम् (१)} मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् । ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥ ३,१९.१३२ ॥ प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् । धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥ ३,१९.१३३ ॥ {धान्यवृद्धिकरणम् (२)} कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् । धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥ ३,१९.१३४ ॥ {धनधान्यवृद्धिकरणम् (३)} तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् । यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥ ३,१९.१३५ ॥ {द्रव्यादिवृद्धिकरणम्} कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन् सुवस्तुनि । तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥ ३,१९.१३६ ॥ धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् । यत्किंचिद्द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥ ३,१९.१३७ ॥ {धान्यवृद्धिकरणम् (४)} मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् । तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥ ३,१९.१३८ ॥ तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः । मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् । तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ ३,१९.१३९ ॥ आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात्प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् । तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद्भूपानां विदुषां महामतिमतां विद्वान् भवेत्पालनैः ॥ ३,१९.१४० ॥ ३, २० साङ्गोपाङ्गमनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात्दृष्टं परं यन्मया । तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥ ३,२०.१ ॥ {पारदबन्धन (१)} शुद्धपारदभागैकं टङ्कणेन समं समम् । मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥ ३,२०.२ ॥ कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः । सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद्दृढम् ॥ ३,२०.३ ॥ कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् । रसोऽसौ वर्तुलाकारः षण्डबद्धो भवत्यलम् ॥ ३,२०.४ ॥ {पारदबन्धनम् (२)} आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा । द्रवैर्हरिणखुर्या वा नरमूत्रयुतं रसम् ॥ ३,२०.५ ॥ त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः । तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥ ३,२०.६ ॥ तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥ ३,२०.७ ॥ {पारदबन्धनम् (३)} मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् । मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥ ३,२०.८ ॥ तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् । जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.९ ॥ {पारदबन्धनम् (४)} अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् । तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥ ३,२०.१० ॥ मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे । ततो गजपुटे पच्यात्पारदो बन्धमाप्नुयात् ॥ ३,२०.११ ॥ {पारदबन्धनम् (५)} जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् । जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥ ३,२०.१२ ॥ रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु । उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥ ३,२०.१३ ॥ ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥ ३,२०.१४ ॥ {पारदबन्धनम् (६)} एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् । एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् । तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१५ ॥ {पारदबन्धनम् (७)} आरक्तक्षीरकंदोत्थद्रवैस्त्रीन् स्तन्यसंयुतैः । त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस्त्र्यहम् ॥ ३,२०.१६ ॥ क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् । तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१७ ॥ {पारदबन्धनम् (८)} कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् । उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥ ३,२०.१८ ॥ गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् । तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥ ३,२०.१९ ॥ तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् । तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥ ३,२०.२० ॥ उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः । तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥ ३,२०.२१ ॥ अंधमूषागतं धाम्यमेवं वारत्रये कृते । रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥ ३,२०.२२ ॥ {पारदबन्धनम् (९)} शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् । मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥ ३,२०.२३ ॥ पातयेत्पातनायंत्रे दिनैकं मन्दवह्निना । ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥ ३,२०.२४ ॥ मर्द्यमुन्मत्तकद्रावैर्दृढं यामचतुष्टयम् । तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥ ३,२०.२५ ॥ पुनः पाच्यं पुनर्मर्द्यमूर्ध्वाधःस्थं प्रयत्नतः । सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥ ३,२०.२६ ॥ तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् । सम्यक्संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥ ३,२०.२७ ॥ पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् । वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥ ३,२०.२८ ॥ गोलकं तापयेत्तत्र वंकनालेन तं धमन् । खोटबद्धो भवेत्साक्षात्तीव्रधामानलेन तु ॥ ३,२०.२९ ॥ {पारदबन्धनम् (१०)} पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला । पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३० ॥ {पारदबन्धनम् (११)} नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् । शुद्धसूतं पलैकं च सर्वतुल्या मनःशिला । पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३१ ॥ {मेर्चुर्य्:: बन्धन} पलं सूतं पलं तारं पिष्टमम्लेन केनचित् । द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥ ३,२०.३२ ॥ {मेर्चुर्य्:: बन्धन} तारवत्स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥ ३,२०.३३ ॥ {मेर्चुर्य्:: बन्धन} कृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् । शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् । वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥ ३,२०.३४ ॥ {मेर्चुर्य्:: बन्धन} श्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् । समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥ ३,२०.३५ ॥ हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् । महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥ ३,२०.३६ ॥ {मेर्चुर्य्:: बन्धन} पारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् । तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥ ३,२०.३७ ॥ रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् । तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥ ३,२०.३८ ॥ {मेर्चुर्य्:: बन्धन} पञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् । तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥ ३,२०.३९ ॥ चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥ ३,२०.४० ॥ {मेर्चुर्य्:: बन्धन} चन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् । टंकणेन तु संयोज्य वटिकां कारयेद्बुधः । कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥ ३,२०.४१ ॥ {मेर्चुर्य्:: बन्धन} भल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् । यावत्तैलं पचेत्तावद्रविक्षीरं क्षिपन् क्षिपन् ॥ ३,२०.४२ ॥ घट्टयेल्लोहदण्डेन खोटबद्धो भवेद्रसः ॥ ३,२०.४३ ॥ {... पारदबन्धनम् (२०)} द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् । टंकणेन पादांशेन वटिकाः कारयेल्लघु ॥ ३,२०.४४ ॥ वल्मीकमृत्तिकामाषगोधूमानां च चूर्णकम् । समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥ ३,२०.४५ ॥ तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद्दृढम् । खोटबद्धो भवेत्सोऽपि अंधमूषागतो रसः ॥ ३,२०.४६ ॥ {पारदबन्धनम् (२१)} रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् । श्वेतवातारितैलानां मज्जामश्वस्य कोमला ॥ ३,२०.४७ ॥ त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः । ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥ ३,२०.४८ ॥ विशोष्याथ धमेत्पश्चात्काचटंकणयोगतः । खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥ ३,२०.४९ ॥ {पारदभस्म (१)} कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् । वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥ ३,२०.५० ॥ कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् । शुष्कं तुषपुटे पच्यात्त्रिदिनं परिवर्तयन् ॥ ३,२०.५१ ॥ समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस्त्र्यहम् । पूर्ववत्पुटपाकेन पारदो जायते मृतः ॥ ३,२०.५२ ॥ {पारदभस्म (२)} हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् । क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥ ३,२०.५३ ॥ करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः । कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥ ३,२०.५४ ॥ क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् । सम्यग्गजपुटे पच्यात्मृतो भवति निश्चितम् ॥ ३,२०.५५ ॥ {पारदभस्म (३)} हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् । रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥ ३,२०.५६ ॥ करीषाग्नौ दिनं पच्यान्मर्द्यात्पूर्वद्रवैस्त्र्यहम् । दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् । जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.५७ ॥ {मुखकरणम्; सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्} उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते । वचा चण्डालिनीकंदं ब्रह्मदण्डीयमूलकम् ॥ ३,२०.५८ ॥ गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् । चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥ ३,२०.५९ ॥ एकामेकां धमन्नेव वटिकासप्तकं क्रमात् । ग्रसते सर्वलोहानि यथेष्टानि न संशयः ॥ ३,२०.६० ॥ ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः । मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥ ३,२०.६१ ॥ तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः । सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥ ३,२०.६२ ॥ {चोप्पेर्=> गोल्द्} सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् । तत्सर्वं मातुलिंगाम्लैर्दिनमेकं समं समम् ॥ ३,२०.६३ ॥ शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् । रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥ ३,२०.६४ ॥ एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥ ३,२०.६५ ॥ {चोप्पेर्=> गोल्द्} रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् । कारयेदग्नितप्तानि तस्मिन् क्षीरे निषेचयेत् ॥ ३,२०.६६ ॥ इत्येवं सप्तधा कुर्याल्लेपतापनिषेचनम् । समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥ ३,२०.६७ ॥ {चोप्पेर्, लेअद्, सिल्वेर्=> गोल्द्} रसकं दरदं गंधं गगनं कुनटी समम् । आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥ ३,२०.६८ ॥ तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा । सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥ ३,२०.६९ ॥ {नागस्य स्वर्णम्} रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत्त्र्यहम् । तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् । पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥ ३,२०.७० ॥ {चोप्पेर्=> लेअद्} पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी । भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥ ३,२०.७१ ॥ पारदं गंधकं तालं माहिषी कुनटी समम् । पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् । तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥ ३,२०.७२ ॥ {तारबीजकल्कः} नागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् । पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥ ३,२०.७३ ॥ प्रकटं वंकनालेन यावत्तारावशेषितम् । तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥ ३,२०.७४ ॥ वेध्यं रसकसत्वेन पञ्चमांशेन यत्नतः । तद्भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥ ३,२०.७५ ॥ {तिन् => सिल्वेर्} रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥ ३,२०.७६ ॥ देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,२०.७७ ॥ {चोप्पेर्=> गोल्द्} रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् । कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥ ३,२०.७८ ॥ ताम्रपत्राणि तप्तानि तस्मिन् सिञ्चेत्त्रिसप्तधा । एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥ ३,२०.७९ ॥ एकीकृत्य समावर्त्य तेन पत्राणि कारयेत् । रक्तचित्रकमूलानि भल्लाततैलपेषितम् ॥ ३,२०.८० ॥ अनेन पूर्वपत्राणि प्रलिप्तानि पुटे पचेत् । एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,२०.८१ ॥ {चोप्पेर्=> गोल्द्} नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् । पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् । तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥ ३,२०.८२ ॥ {चोप्पेर्=> गोल्द्} ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् । मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥ ३,२०.८३ ॥ एवं षण्मासपर्यन्तं पुटयेदुद्धरेत्क्रमात् । बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥ ३,२०.८४ ॥ तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् । क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥ ३,२०.८५ ॥ {चोप्पेर्=> गोल्द्} क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् । शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥ ३,२०.८६ ॥ {सिल्वेर्=> गोल्द्} गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् । मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥ ३,२०.८७ ॥ तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् । इत्येवं सप्तधा कुर्यात्दिव्यं भवति कांचनम् ॥ ३,२०.८८ ॥ {चोप्पेर्=> गोल्द्} कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् । विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥ ३,२०.८९ ॥ सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् । रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥ ३,२०.९० ॥ दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥ ३,२०.९१ ॥ {सोfतेनिन्गोf fइस्सुरेद्मिनेरल्स्} वसुभट्टरसेनाथ त्रिधा सिञ्चेत्सुतापितम् । लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थको यथा ॥ ३,२०.९२ ॥ {तिन् => सिल्वेर्} देवदाल्या फलं मूलमीश्वरीफलजद्रवम् । पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥ ३,२०.९३ ॥ भूयो भूयस्त्वयं वाप्यस्तारं भवति शोभनम् ॥ ३,२०.९४ ॥ {चोप्पेर्=> गोल्द्} कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा । नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥ ३,२०.९५ ॥ सेचयेत्सलिलं नित्यं यावत्फलवती भवेत् । मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥ ३,२०.९६ ॥ शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् । एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद्दृढम् ॥ ३,२०.९७ ॥ तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् । तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥ ३,२०.९८ ॥ {चोप्पेर्=> सिल्वेर्} भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि । तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥ ३,२०.९९ ॥ ताम्रपत्राणि तत्पश्चात्ढङ्कणेन निरुध्य च । हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥ ३,२०.१०० ॥ पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् । मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥ ३,२०.१०१ ॥ स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् । वारत्रयं क्षिपेत्तस्मिन् वटिकां वेधनान्मुखम् ॥ ३,२०.१०२ ॥ मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् । यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ ३,२०.१०३ ॥ जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् । द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥ ३,२०.१०४ ॥ {नागमुखकरणम्} गंधकं धूमसारं च फट्करी टंकणं समम् । एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥ ३,२०.१०५ ॥ भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् । चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥ ३,२०.१०६ ॥ शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः । द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥ ३,२०.१०७ ॥ पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा । द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥ ३,२०.१०८ ॥ ग्रसते सर्वलोहानि सत्वानि विविधानि च । यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ ३,२०.१०९ ॥ {कठिनधातोर्मृदूकरणम्} मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् । तिलतैलमजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥ ३,२०.११० ॥ तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात्सुतापितम् । मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥ ३,२०.१११ ॥ {कठिनधातोर्मृदूकरणम् (२)} वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् । लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थकोपमः ॥ ३,२०.११२ ॥ {कठिनधातोर्मृदूकरणम् (३)} अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै । चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥ ३,२०.११३ ॥ त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् । स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥ ३,२०.११४ ॥ {अभ्रग्रासी रसः} तृणज्योतीयमूलेन मातुलिंगरसेन च । त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.११५ ॥ {गुह्याख्यसूतेन नागवेधः} भूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् । तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥ ३,२०.११६ ॥ गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते । शिलागंधकमाक्षीकैर्भूनागद्रवपेषितैः ॥ ३,२०.११७ ॥ मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् । भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥ ३,२०.११८ ॥ ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः । मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥ ३,२०.११९ ॥ {गुह्याख्यसूतेन वङ्गवेधः} भूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् । तं वाहयेद्द्रुते बंगे यावच्छतगुणं धमन् ॥ ३,२०.१२० ॥ ततः शतगुणं बंगं तस्यैवोपरि वाहयेत् । स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥ ३,२०.१२१ ॥ {गुह्यवङ्गकरणं तेन वेधः} तालकं सैंधवं तुल्यं भूनागद्रवपेषितम् । मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥ ३,२०.१२२ ॥ स्तोकं स्तोकं क्षिपेत्तस्मिन् बिडं दत्त्वा धमन्धमन् । भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥ ३,२०.१२३ ॥ द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः । तावद्द्रुते न संदेहः सिद्धयोग उदाहृतः ॥ ३,२०.१२४ ॥ क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् । निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन् क्षिपन् ॥ ३,२०.१२५ ॥ तद्भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥ ३,२०.१२६ ॥ {गुह्ययोगः} पारदं शुद्धहेमाथ सत्वं भूनागसंभवम् । चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥ ३,२०.१२७ ॥ तद्गोलकं विशोष्याथ कल्के भूनागसंभवे । मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥ ३,२०.१२८ ॥ धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् । सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥ ३,२०.१२९ ॥ {कामधेनुः (१)} अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् । समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥ ३,२०.१३० ॥ रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् । धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥ ३,२०.१३१ ॥ तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् । नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥ ३,२०.१३२ ॥ पचेदतसीतैलेन मासमात्रं तु साधकः । अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥ ३,२०.१३३ ॥ {कामधेनुः (२)} पारदे जार्यं कृष्णाभ्रं रुक्ममष्टगुणं यदि । रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥ ३,२०.१३४ ॥ माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् । कामधेनुरियं ख्याता नागस्तम्भनकारिणी ॥ ३,२०.१३५ ॥ {कामधेनुः (३)} रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् । विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥ ३,२०.१३६ ॥ तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् । गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे । शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥ ३,२०.१३७ ॥ {सिल्वेर्=> गोल्द्} शिलया मारितो नागः सूतराजसमन्वितः । रञ्जितो गन्धरागेण समहेम्ना च सारयेत् । तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥ ३,२०.१३८ ॥ {लेअद्=> गोल्द्} शिलया रविदुग्धेन नागपत्राणि लेपयेत् । मारयेत्पुटयोगेन दिव्यं भवति कांचनम् ॥ ३,२०.१३९ ॥ {सितस्वर्ण => गोल्द्} मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् । शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥ ३,२०.१४० ॥ सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् । एवं त्रिसप्तधा कुर्याद्दिव्यं भवति कांचनम् ॥ ३,२०.१४१ ॥ {गगनग्रासः} तृणजातीयमूलं तु मातुलिङ्गरसेन च । त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.१४२ ॥ सिद्धैर्गणैः सुरवरै रससिद्धिकामैर्बद्धं हठात्परममन्त्रबलेन तैश्च । तस्माद्विशिष्टमनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥ ३,२०.१४३ ॥