ढुण्ढुकनाथ: रसेन्द्रचिन्तामणि १ हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो । त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं भूतेशं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः । नमामि देवं सुरवृन्दपूजितं गणाधिपं विघ्नविनाशकारकम् । स्मरन्ति ये नित्यमुदारचेतसः कष्टानि ते नानुभवन्ति सत्यम् । सिद्धिनन्दनमिश्रेण शुद्धां च सारगर्भिताम् । रसेन्द्रचिन्तामणेश्च टीकां कुर्वे शिवाज्ञया । इदानीं कालनाथशिष्यः श्रीढुण्ढुकनाथाह्वयो रसेन्द्रचिन्तामणिग्रन्थमारभमाणस्तन्मूलदेवते श्रीमदम्बिकामहेश्वरौ सकलजगदुत्पत्तिस्थितिप्रलयनिदानं विशेषसिद्धान्तगर्भवाचा वरीवस्यति ॥ १.१ ॥ अर्थप्रकाशकासारविमर्शाम्बुजिनीमयम् । सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥ १.२ ॥ लघीयः परिमाणतया निखिलरसज्ञानदायित्वाच्चिन्तामणिरिव चिन्तामणिः ॥ १.३ ॥ अश्रौषं बहुविदुषां मुखादपश्यं शास्त्रेषु स्थितमकृतं न तल्लिखामि । यत्कर्म व्यरचयमग्रतो गुरूणां प्रौढानां तदिह वदामि वीतशङ्कः ॥ १.४ ॥ अध्यापयन्ति यद्दर्शयितुं क्षमन्ते सूतेन्द्रकर्म गुरवो गुरवस्त एव । शिष्यास्त एव रचयन्ति गुरोःपुरो ये शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥ १.५ ॥ संस्काराः परतन्त्रेषु ये गूढाः सिद्धिसूचिताः । तानेव प्रकटीकर्तुमुद्यमं किल कुर्महे ॥ १.६ ॥ ग्रन्थादस्मादाहरन्ति प्रयोगान् स्वीयं वास्मिन्नाम ये निक्षिपन्ति । गोत्राण्येषामस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु ॥ १.७ ॥ संस्काराः शिवजनुषो बहुप्रकारास्तुल्या ये लघुबहुलप्रयासंसाध्याः । यद्येकं सुकरमुदाहरामि तेषां व्याहारैः किमिहफलं ततः परेषाम् ॥ १.८ ॥ इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभावश्चिकीर्षितव्यो भवति सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीयं तदेतत्पुरुषार्थद्वयम् । अभावस्यान्यत्वात् ॥ १.९ ॥ किंच स्रक्चन्दनवनितादिविषयाणां सत्यपि तत्कारणत्वे नान्तरीयकदुःखसम्भेदादनर्थपरम्परापरिचितत्वान्मूर्खाणां कोशाण्डकवदाभासमानत्वादनैकान्तिकत्वाद्विरोधिनां युगपददृश्यमानत्वादत्यन्तताविरहितत्वाच्च परिहरणीयत्वम् ॥ १.१० ॥ एकान्तात्यन्ततश्च पुनस्ते ह्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव सम्भवन्ति । ज्ञानयोगः पवनयोगो रसयोगश्चेति ॥ १.११ ॥ ननु कथमेषां तुल्यतेत्यपेक्षायां ब्रूमः मोक्षोपाये बृहद्वासिष्ठादौ भुशुण्डोपाख्याने वसिष्ठवाक्यम् । असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारौ ततो देवो जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा । नो चेत्संविदमुच्छाणां करोषि तदयोगवान् । द्वावेव हि समौ राम ज्ञानयोगाविमौ स्मृतौ ॥ १.१२ ॥ तत्राद्ययोः केवलं पक्वकषायाणामपि कथञ्चन साध्यत्वाच्चरमे तु पुनर्भोगलोलुपानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति ॥ १.१३ ॥ किंच अस्य भगवन्निर्यासतया सेवकानां स्वसम्भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तः पृषताः प्रसङ्गाल्लिख्यन्ते ॥ १.१४ ॥ अचिराज्जायते देवि शरीरमजरामरम् । मनसश्च समाधानं रसयोगादवाप्यते ॥ १.१५ ॥ सत्त्वं च लभते देवि विज्ञानं ज्ञानपूर्वकम् । सत्यं मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥ १.१६ ॥ यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् । तावत्तस्य कुतः शुद्धिर्जायते मृतसूतके ॥ १.१७ ॥ यावन्न हरबीजं तु भक्षयेत्पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ १.१८ ॥ स्वदेहे खेचरत्वं वै शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ १.१९ ॥ त्वं माता सर्वभूतानां पिता चाहं सनातनः । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ १.२० ॥ दर्शनात्स्पर्शनात्तस्य भक्षणात्मरणात्प्रिये । पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् ॥ १.२१ ॥ केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् । तानि दृष्ट्वा च यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ १.२२ ॥ चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः । मूर्छितः शिवपूजा सा शिवसांनिध्यसिद्धये ॥ १.२३ ॥ भक्षणात्परमेशानि हन्ति तापत्रयं रसः । दुर्लभं ब्रह्मविष्ण्वाद्यैः प्राप्यते परमं पदम् ॥ १.२४ ॥ हृत्पद्मकर्णिकान्तःस्थं रसेन्द्रं परमेश्वरि । स्मरन्विमुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥ १.२५ ॥ स्वयम्भूलिङ्गसाहस्रैर्यत्फलं सम्यगर्चनात् । तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ १.२६ ॥ रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् । तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥ १.२७ ॥ रसविद्या परा विद्या त्रैलोक्येऽपि च दुर्लभा । भुक्तिमुक्तिकरी यस्मात्तस्माज्ज्ञेया गुणान्विता ॥ १.२८ ॥ ब्रह्मज्ञानेन सोऽयुक्तो यः पापी रसनिन्दकः । नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥ १.२९ ॥ आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः । यावज्जन्मसहस्राणि स भवेत्पापपीडितः ॥ १.३० ॥ हेमजीर्णो भस्मसूतो रुद्रत्वं भक्षितो दिशेत् । विष्णुत्वं तारजीर्णस्तु ब्रह्मत्वं भास्करेण तु ॥ १.३१ ॥ तीक्ष्णजीर्णो धनेशत्वं सूर्यत्वं चापि तालके । राजरे तु शशाङ्कत्वममरत्वं च रोहणे ॥ १.३२ ॥ सामान्येन तु तीक्ष्णेन नरः शक्रत्वमाप्नुयात् ॥ १.३३ ॥ दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः । मारितो रुद्ररूपी स्याद्बद्धः साक्षात्सदाशिवः ॥ १.३४ ॥ ईदृशस्य गुणानां पर्यवसानमम्बुजसम्भवोऽपि महाकल्पैरपि वचोभिर्नासादयितुमलमित्यलं बहुना ॥ १.३५ ॥ यद्यन्मयाक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे । अध्यापयन्ति य इदं नतु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ १.३६ ॥ ___________________________________________________________________________ २ अथ मूर्च्छनाध्यायं व्याचक्ष्महे ॥ २.१ ॥ <मूर्च्छना:: (मेदिच्.) देfइनितिओन्> अव्यभिचरितव्याधिघातकत्वं मूर्च्छना ॥ २.२ ॥ तत्तत्तन्त्रनिगदितदेवतापरिचरणस्मरणानन्तरं तत्तच्छोधनप्रक्रियाभिर्बह्वीभिः परिशुद्धानां रसेन्द्राणां तृणारणिमणिजन्यवह्णिन्यायेन तारतम्यमवलोकमानैः सूक्ष्ममतिभिः पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य चेति रसार्णववचनाद्व्यावहारिकतोलकद्वयपरिमाणेनापि परिशुद्धो रसो मूर्छयितव्यः ॥ २.३ ॥ मूर्च्छनाप्रकारस्तु बहुविधः ॥ २.४ ॥ <जारण:: चेन्त्रल्fओर्मेदिच्. अच्तिवतिओनोf मेर्चुर्य्> रसगुणबलिजारणं विनायं न खलु रुजाहरणक्षमो रसेन्द्रः । न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रसिद्धिः ॥ २.५ ॥ <वालुकायन्त्र> तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते ॥ २.६ ॥ यथा निरवधिनिष्पीडितमृदम्बरादिपरिलिप्तामतिकठिनकाचघटीमग्रे वक्ष्यमाणप्रकारां रसगर्भिणीमधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायामनुरूपस्थालिकायामारोप्य परितस्तां द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिरा गलमापूर्य वर्धमानकमापूरणीयं क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पाचनीयमित्येकं यन्त्रम् ॥ २.७ ॥ <वालुकायन्त्र> हस्तैकमात्रप्रमाणवसुधान्तर्निखातां प्राग्वत्काचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषीभाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्यन्यद्यन्त्रम् ॥ २.८ ॥ <जारण:: fउर्थेरप्परतुस्> असमशकलद्वयात्मकलोहसम्पुटकेन सिकतायन्त्रमध्ये भूधरे वेति त्रिलोचनः ॥ २.९ ॥ <मेर्चुर्य्:: जारण> कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः इत्यन्ये ॥ २.१० ॥ <जारण:: प्रोदुचिन्ग्चोलोउर्> अत्र पक्षे रागस्तथा न स्यात्तेनादौ पञ्चगुणान् जारयित्वा शेषैकः कूपिकादौ जारणीयस्तदा रागः साधुः स्यात् ॥ २.११ ॥ अत्र कज्जलिमन्तरेण केवलगन्धकमपि सात्म्येन जारयन्ति ॥ २.१२ ॥ <मेर्चुर्य्:: जारण:: सिन्दूर चोलोउर्> कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनक्रमेण सिकतायन्त्रे शनैः पाचयेत् । वारंवारमनेन वह्णिविधिना गन्धक्षयं साधयेत्सिन्दूरद्युतितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥ २.१३ ॥ <रससिन्दूर:: प्रोदुच्तिओन्> आरोटकमन्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि रससिन्दूरः संपाद्यः ॥ २.१४ ॥ <पिष्टी।कज्जली (?)> त्रिगुणमिह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् । रसगुणबलिभिर्विधाय पिष्टिं रचय निरन्तरम्बुभिः कुमार्याः ॥ २.१५ ॥ आ षड्गुणमधरोत्तरसमादिबलिजारणेन योज्येयम् । योगे पिष्टिः पाच्या कज्जलिकार्थं जारणार्थं च ॥ २.१६ ॥ प्रकारोऽयमधोयन्त्रेणैव सिध्यति न पुनरूर्ध्वयन्त्रेण ॥ २.१७ ॥ <बोत्त्ले:: अप्प्र्. मतेरिअल्> काचमृत्तिकयोः कूपी हेम्नोऽयस्तारयोः क्वचित् । <बोत्त्ले:: अप्प्र्. चोअतिन्ग्> कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ २.१८ ॥ अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वाद्यपि जारयन्ति । यथेच्छमच्छैः सुमनोविचारैर्विचक्षणाः पल्लवयन्तु भूयः ॥ २.१९ ॥ <मेर्चुर्य्:: रञ्जन:: अन्तर्धूम> अन्तर्धूमविपाचितशतगुणगन्धेन रञ्जितः सूतः । स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ २.२० ॥ <मेर्चुर्य्:: जारण> सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे । तैलाविशेषेऽत्र रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः ॥ २.२१ ॥ आ षड्गुणं गन्धकमल्पमल्पं क्षिपेदसौ जीर्णबलिर्बली स्यात् । रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ २.२२ ॥ नागादिशुल्वादिभिरत्र पिष्टिं वादेषु योगेषु च निक्षिपन्ति ॥ २.२३ ॥ <मेर्चुर्य्:: निगड> स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि गुग्गुलुः । सैन्धवं द्विगुणं मर्द्यं निगडोऽयं महोत्तमः ॥ २.२४ ॥ <मेर्चुर्य्:: रससिन्दूर? निगड?> मारकाम्बुसितसैन्धवमिश्रः कूपिकोदरगतः सिकतायाम् । पाचितो यदि मुहुर्मुहुरित्थं बन्धमृच्छति तदैष रसेन्द्रः ॥ २.२५ ॥ स्थाल्यां दृढघटितायामर्धं परिपूर्य तूर्यलवणांशैः । रक्तेष्टिकारजोभिस्तदुपरि सूतस्य तुर्यांशम् ॥ २.२६ ॥ सितसैन्धवं निधाय स्फटिकारीं तत्समां च तस्योर्ध्वे । स्फटिकारिधवलसैन्धवशुद्धरसैः कन्यकाम्बुपरिघृष्टैः ॥ २.२७ ॥ कृत्वा पर्पटमुचितं तदुपर्याधाय तद्वदेव पुनः । स्फटिकारिसैन्धवरसौ दद्यादितः स्खलतो रसस्य ॥ २.२८ ॥ लाभाय तदुपरि खर्परखण्डकान् धृत्वापरया दृढस्थाल्या । आच्छाद्य मुद्रयित्वा दिवसत्रितयं पचेद्विधिना ॥ २.२९ ॥ अत्रानुक्तमपि भल्लातकं ददति वृद्धाः पारदतुल्यम् ॥ २.३० ॥ ___________________________________________________________________________ ३ अथातो बन्धनाध्यायं व्याचक्ष्महे । स्वाभाविकद्रवत्वे सति वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम् ॥ ३.१ ॥ विपिनौषधिपाकसिद्धमेतद्घृततैलाद्यपि दुर्निवारवीर्यम् । किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥ ३.२ ॥ <१९ संस्कारस्> एतत्साधकान्यूनविंशतिकर्माणि भवन्ति । मर्दनमूर्छनोत्थापनस्वेदनपातनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुतिबाह्यद्रुतियोगजारणरञ्जनसारणक्रामणवेधनभक्षणानि ॥ ३.३ ॥ <रेल्. रितेस्बेfओरे स्तर्तिन्ग्थे संस्कारस्> सम्पूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् । योगिनीं क्षेत्रपालांश्च चतुर्धाबलिपूर्वकम् ॥ ३.४ ॥ सूतं रहस्यनिलये सुमुहूर्ते विधोर्बले । खल्वे पाषाणजे लोहे सुदृढे सारसम्भवे ॥ ३.५ ॥ तादृशस्वच्छमसृणचतुरङ्गुलमर्दके । निक्षिप्य सिद्धमन्त्रेण रक्षितं द्वित्रिसेवकैः ॥ ३.६ ॥ भिषग्विमर्दयेच्चूर्णैर्मिलितैः षोडशांशतः । सूतस्य गालितैर्वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ ३.७ ॥ मर्दयेन्मूर्छयेत्सूतं पुनरुत्थाप्य सप्तशः । <मेर्चुर्य्:: दोष:: रेमोवल्> रक्तेष्टकानिशाधूमसारोर्णाभस्मतुम्बिकैः । जम्बीरद्रवसंयुक्तैर्नागदोषापनुत्तये ॥ ३.८ ॥ विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति । राजवृक्षस्य मूलस्य चूर्णेन सह कन्यया ॥ ३.९ ॥ मलदोषापनुत्त्यर्थं मर्दनोत्थापने शुभे । कृष्णधत्तूरकद्रावैश्चाञ्चल्यविनिवृत्तये ॥ ३.१० ॥ त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये । गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ ३.११ ॥ चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् । आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् । एवं संशोधितः सूतः सप्तदोषविवर्जितः । जायते कार्यकर्ता च ह्यन्यथा कार्यनाशनः ॥ ३.१२ ॥ <मेर्चुर्य्:: उत्थापन> उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके । धृत्वोर्ध्वभाण्डे संलग्नं संहरेत्पारदं भिषक् ॥ ३.१३ ॥ <स्वेदन> रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् । दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके । दोषशेषापनुत्त्यर्थमिदं स्वेदनमुच्यते ॥ ३.१४ ॥ <काञ्जिक:: प्रोदुच्तिओन्> नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः । मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३.१५ ॥ तन्मध्ये घनवाङ्मुण्डी विष्णुक्रान्तापुनर्नवा । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३.१६ ॥ त्रिफला गिरिकर्णी च हंसपादी च चित्रकः । समूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ ३.१७ ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ॥ ३.१८ ॥ अत्यम्लमारनालं वा तदभावे प्रयोजयेत् । <ऊर्ध्वपातन> भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः । एतत्संमर्दयेत्तावद्यावदायाति पिण्डताम् ॥ ३.१९ ॥ तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् । कृत्वालवालं केनापि दत्त्वा वार्द्रं हि प्लोतकम् ॥ ३.२० ॥ संमुद्र्याग्निमधस्तस्य चतुर्यामं प्रबोधयेत् । युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ॥ ३.२१ ॥ ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने । <संधिरोध:: इम्पोर्तन्चे> ससूतभाण्डवदनमन्यद्गिलति भाण्डकम् । तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥ ३.२२ ॥ <सिशेस्, मेअसुरेस्:: तौघ्त्ब्य्थे ङुरु> यन्त्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्षणैः । रसस्य मानानियमात्कथितुं नैव शक्यते ॥ ३.२३ ॥ <अधःपातन> नवनीताह्वयं सूतं घृष्ट्वा जम्भाम्भसा दिनम् । वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ३.२४ ॥ नष्टपिष्टं रसं ज्ञात्वा लेपयेदूर्ध्वभाण्डके । ऊर्ध्वभाण्डोदरं लिप्त्वा त्वधोगं जलसंभृतम् ॥ ३.२५ ॥ संधिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् । उपरिष्टात्पुटे दत्ते जले पतति पारदः ॥ ३.२६ ॥ अधःपातनमित्युक्तं सिद्धाद्यैः सूतकर्मणि । <तिर्यक्पातन> घटे रसं विनिक्षिप्य सजलं घटमन्यकम् । तिर्यङ्मुखं द्वयोः कृत्वा तन्मुखं रोधयेत्सुधीः ॥ ३.२७ ॥ रसाधो ज्वालयेदग्निं यावत्सूतो जलं विशेत् । तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः ॥ ३.२८ ॥ <३ पातनस्:: रेमोवलोf वङ्ग अन्द्नाग> मिश्रितौ चेद्रसे नागवङ्गौ विक्रयहेतुना । ताभ्यां स्यात्कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ॥ ३.२९ ॥ <बोधन:: रेमोवलोf इम्पोतेन्च्य्> एवं कपर्दितः सूतः षण्ढत्वमधिगच्छति । तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ ३.३० ॥ विश्वामित्रकपाले वा काचकूप्यामथापि वा । सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ ३.३१ ॥ पूरयेत्त्रिदिनं भूम्यां राजहस्तप्रमाणतः । अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ ३.३२ ॥ <दीपन? बोधन?> लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याम्लजलं किंचित्क्षिप्त्वा शरावेण रोधयेत् ॥ ३.३३ ॥ ऊर्ध्वं लघुपुटं देयं लब्धाश्वासो भवेद्रसः । <स्वेदन शुरॣइएदेर्हेर्स्तेल्लुन्ग्वोन् ःग्> कदर्थनेनैव नपुंसकत्वमेवं भवेदस्य रसस्य पश्चात् । वीर्यप्रकर्षाय च भूर्जपत्त्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ ३.३४ ॥ <नियमन> सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दकनकाम्बुभिः । दिनं संस्वेदितः सूतो नियमात्स्थिरतां व्रजेत् ॥ ३.३५ ॥ <दीपन> कासीसं पञ्चलवणं राजिकामरिचानि च । द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ ३.३६ ॥ आलोड्य काञ्जिके दोलायन्त्रे पाकाद्दिनैस्त्रिभिः । दीपनं जायते सम्यक्सूतराजस्य जारणे ॥ ३.३७ ॥ <दीपन> अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् । दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ ३.३८ ॥ <अनुवासन> दीपितं रसराजस्तु जम्बीररससंयुतम् । दिनैकं धारयेद्घर्मे मृत्पात्रे वा शिलोद्भवे ॥ ३.३९ ॥ <जारण:: देfइनितिओन्> जारणा हि नाम पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वम् ॥ ३.४० ॥ किंच घनहेमादिजीर्णस्य कृतक्षेत्रीकरणानामेव शरीरिणां भक्षणेऽधिकार इत्यभिहितम् ॥ ३.४१ ॥ <जारण:: रेल्. मेअनिन्ग्> फलं चास्य स्वयमीश्वरेणोक्तम् । सर्वपापक्षये जाते प्राप्यते रसजारणा । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ॥ ३.४२ ॥ मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु । खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ॥ ३.४३ ॥ मर्दनं वन्दनं चैव ग्रासः पूजा विधीयते । यावद्दिनानि वह्निस्थो जारणे धार्यते रसः ॥ ३.४४ ॥ तावद्वर्षसहस्राणि शिवलोके महीयते । दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ॥ ३.४५ ॥ द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते । अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलमप्युदारम् । क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥ ३.४६ ॥ <जारण:: मेदिच्. प्रोपेर्तिएसच्चोर्दिन्ग्तो थे wएइघ्तोf सुल्fउर्> तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः । द्विगुणे गन्धके जीर्णे सर्वकुष्ठहरः परः ॥ ३.४७ ॥ त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः । चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ३.४८ ॥ गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः । षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः । अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ ३.४९ ॥ <जारण> गन्धपिष्टिकया तत्र गोलः स्याद्गन्धजारणे ॥ ३.५० ॥ तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे । ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ ३.५१ ॥ हेम्नि जीर्णे सहस्रैकगुणसंघप्रदायकः । वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ ३.५२ ॥ देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् । आलिङ्गने समथौ द्वौ प्रियत्वाच्छिवरेतसः ॥ ३.५३ ॥ शिवशक्तिसमायोगात्प्राप्यते परमं पदम् । यथा स्याज्जारणा बह्वी तथा स्याद्गुणदो रसः ॥ ३.५४ ॥ <मेर्चुर्य्:: ग्रासार्थिन्> वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा । विलिप्य गोमयाल्पाग्नौ पुटितं तत्र शोषितम् ॥ ३.५५ ॥ त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः । ग्रसते गन्धहेमादि वज्रसत्त्वादिकं क्षणात् ॥ ३.५६ ॥ <मेर्चुर्य्:: ग्रासार्थिन्> मूर्छाध्यायोक्तषड्गुणबलिजीर्णः पिष्टिकोत्थितरसः खल्वेऽत्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्यः प्रकारः । एतत्प्रक्रियाद्वयमपि कृत्वा व्यवहरन्त्यन्ये ॥ ३.५७ ॥ <मेर्चुर्य्:: ग्रासार्थिन्> सतुत्थटङ्कणस्वर्जिपटुताम्रे त्र्यहोषितम् । काञ्जिकं भावितं तेन गन्धाद्यं क्षरति क्षणात् ॥ ३.५८ ॥ विडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः । ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ ३.५९ ॥ <विड:: वडवानल> शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । तद्वज्जम्बीरजद्रावैर्दिनैकं धूमसारकम् ॥ ३.६० ॥ सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् । कण्टकारीं च संक्वाथ्य दिनैकं नरमूत्रकैः ॥ ३.६१ ॥ स्वर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु । जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥ ३.६२ ॥ निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ ३.६३ ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः । तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वडवानलः ॥ ३.६४ ॥ अनेन मर्दितः सूतः संस्थितस्तप्तखल्वके । स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ ३.६५ ॥ <विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् । वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् । शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ ३.६६ ॥ <विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> मूलकार्द्रकचित्राणां क्षारैर्गोमूत्रगालितैः । गन्धकः शतशो भाव्यो विडोऽयं जारणे मतः ॥ ३.६७ ॥ <विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> वास्तूकैरण्डकदलीदेवदालीपुनर्नवाः । वासापलाशनिचुलतिलकाञ्चनमोक्षकाः ॥ ३.६८ ॥ सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले । दग्धं काण्डं तिलानां च पञ्चाङ्गं मूलकस्य च ॥ ३.६९ ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् । लोहपात्रे पचेद्यन्त्रे हंसपाकाग्निमानवित् ॥ ३.७० ॥ बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा । तदा कासीससौराष्ट्रीक्षारत्रयकटुत्रयम् ॥ ३.७१ ॥ गन्धकश्च सितो हिङ्गु लवणानि च षट्तथा । एषां चूर्णं क्षिपेद्देवि लोहसम्पुटमध्यतः ॥ ३.७२ ॥ सप्ताहं भूगतं पश्चाद्धार्यस्तु प्रचुरो विडः । अत्र सकलक्षारैश्च साम्यं तिलकाण्डानां नित्यनाथपादा लिखन्ति । <हंसपाकयन्त्र> खर्परं सिकतापूर्णं कृत्वा तस्योपरि क्षिपेत् । तुल्यं च खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ ३.७३ ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणं च विडं तथा । हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः ॥ ३.७४ ॥ <विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> गोमूत्रैर्गन्धकं घर्मे शतवारं विभावयेत् । शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥ ३.७५ ॥ एतद्गन्धकशङ्खाभ्यां समांशैर्विडसैन्धवैः । एतैर्विमर्दितः सूतो ग्रसते सर्वलोहकम् ॥ ३.७६ ॥ <विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> भावयेन्निम्बुकक्षारं देवदालीफलद्रवैः । एकविंशतिवारं तु विडोऽयं सत्त्वजारणे ॥ ३.७७ ॥ एवं विडान्तराण्यपि ग्रन्थान्तरादनुसर्तव्यानि ॥ ३.७८ ॥ <जारण:: परिणाम> चतुःषष्ट्यंशकं हेमपत्त्रं मायूरमायुना । विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् । दिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ॥ ३.७९ ॥ शनैः संस्वेदयेद्भूर्जे बद्ध्वा सपटुकाञ्जिके । भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ ३.८० ॥ अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि । द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥ ३.८१ ॥ रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः । चुल्लिकालवणं गन्धमभावे शिखिपित्ततः ॥ ३.८२ ॥ <तप्तखल्व> अजाशकृत्तुषाग्निं च खानयित्वा भुवि क्षिपेत् । तस्योपरि स्थितं खल्वं तप्तखल्वमिति स्मृतम् ॥ ३.८३ ॥ <दोलायन्त्र> सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् । सूतकात्षोडशांशेन गन्धेनाष्टांशकेन वा ॥ ३.८४ ॥ ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा । दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥ ३.८५ ॥ <कच्छपयन्त्रे जारणमाह> शश्वद्भृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता । पक्वमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥ ३.८६ ॥ संरुद्धो लोहपात्र्याथ ध्मातो ग्रसति काञ्चनम् । वालुकोपरि पुटो युक्त्या महामुद्रया च निर्वाहः ॥ ३.८७ ॥ अतिचिपिटपात्र्या पिधाय संलिप्य वह्निना योज्यः । <जारण> कुण्डाम्भसि लोहमये सविडं सग्रासमीशजं पात्रे । अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥ ३.८८ ॥ <जारण:: इम्पोर्तन्चे fओरल्छेम्यन्द्रसायन> इयतैव रसायनत्वं पर्यवसिति किंतु वादस्य न प्राधान्यम् । सम्प्रत्युभयोरेव प्राधान्येन जारणोच्यते ॥ ३.८९ ॥ <पक्षछेद:: ऐम्> घनरहितबीजजारणसम्प्राप्तदलादिसिद्धिकृतकृत्याः । कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ३.९० ॥ विनैकमभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः । तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ ३.९१ ॥ <अभ्र:: सुब्त्य्पेस्:: चोलोउर्> रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ ३.९२ ॥ <जारण:: समुख (?)> त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि । चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूराम्लैः । पूर्वसाधितकाञ्जिकेनापि ॥ ३.९६ ॥ अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ३.९७ ॥ <गर्भद्रुति> व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥ ३.९८ ॥ एवं ताराभ्रादयः स्वस्वरिपुणा निर्व्यूढाः प्रयोजनमवलोक्य प्रयोज्याः । <गर्भद्रुति (२); शुल्वाभ्र> कमलघनमाक्षिकाणां चूर्णं समभागयोजितं मिलति । तच्छुल्वाभ्रं शीघ्रं चरति रसेन्द्रो द्रवति गर्भे ॥ ३.९९ ॥ <गर्भद्रुति:: देfइनितिओन्> गर्भद्रुतिमन्तरेण जारणैव न स्यादतस्तल्लक्षणमाह । वह्निव्यतिरेकेऽपि रसग्रासीकृतानां लोहानां द्रवत्वं गर्भद्रुतिः ॥ ३.१०० ॥ <बीज:: प्रोदुच्तिओन्> बीजानां संस्कारः कर्तव्यस्ताप्यसत्त्वसंयोगात् । तेन द्रवन्ति गर्भा रसराजस्याम्लवर्गयोगेन ॥ ३.१०१ ॥ <बीज:: अनोन्य्मोउस्:: प्रोदुच्तिओन्> शिलया निहतो नागस्ताप्यं वा सिन्धुना हतम् । ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ ३.१०२ ॥ पट्वम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते । बहिश्च बद्धं वस्त्रेण भूर्जे ग्रासनिवेशितम् । क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक् ॥ ३.१०३ ॥ <मेर्चुर्य्:: पुरिfइचतिओनfतेर्जारण> उष्णेनैवारनालेन क्षालयेज्जारितं रसम् । तं च किंचिन्मलेऽनष्टे घर्षयेदुत्थिते रसे ॥ ३.१०४ ॥ मलप्रविष्टं रसमल्पेनैव जम्भरसेन सिक्तं यावदुत्थानं घर्षयेदित्यर्थः । तदा न त्रुटिरिति गुरुसंकेतः ॥ ३.१०५ ॥ <जारण:: wइथ्कच्छपयन्त्र> क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ ३.१०६ ॥ <जारण> नान्दीपयसि शरावोदरकुहरनिविष्टलोहसम्पुटगः । हरयोनिरन्तरा संजरति पुटैर्गगनगन्धादि ॥ ३.१०७ ॥ अङ्गारेण करीषेण वा पुटदानम् ॥ ३.१०८ ॥ <जारण:: wएइघ्तोf अद्देद्सुब्स्तन्चेस्, दण्डधारिनेत्च्.> चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ ३.१०९ ॥ चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः । जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ ३.११० ॥ ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ ३.१११ ॥ अन्यद्दुर्जरत्वान्न लिखितम् ॥ ३.११२ ॥ <जारण:: wएइघ्तोf अद्देद्सुब्स्तन्चेस्> भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति । यथा पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वादौ । गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥ ३.११३ ॥ तन्मते चतुःषष्टिचत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥ ३.११४ ॥ <गर्भद्रुति:: सुइतब्ले क्षारस्> जम्बीरबीजपूरचाङ्गेरीवेतसाम्लसंयोगात् । क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥ ३.११५ ॥ <मेर्चुर्य्:: रञ्जन> तारकर्मण्यस्य न तथा प्रयोगो दृश्यते । केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम् ॥ ३.११६ ॥ <मेर्चुर्य्:: रञ्जन> गन्धकेन हतं नागं जारयेत्कमलोदरे । एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ ३.११७ ॥ एतत्तु नागसंधानं न रसायनकर्मणि ॥ ३.११८ ॥ <मेर्चुर्य्:: रञ्जन> किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रजारणात्तद्बीजं समजीर्णं स्वातन्त्र्येणैव रञ्जयति ॥ ३.११९ ॥ <बीज:: प्रोदुच्तिओन्> कुटिलं विमला तीक्ष्णं समचूर्णं प्रकल्पयेत् । पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् । यावद्दशगुणं तत्तु तावद्बीजं भवेच्छुभम् ॥ ३.१२० ॥ <बीज:: प्रोदुच्तिओन्> सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धारयेत् । तच्चूर्णं वाहयेत्तारे गुणान् यावत्तु षोडश ॥ ३.१२१ ॥ प्रतिबीजमिदं श्रेष्ठं पारदस्य निबन्धनम् । चारणात्सारणाच्चैव सहस्रांशेन विध्यति ॥ ३.१२२ ॥ <बीज:: => शतवेधिरस> वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु । एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ ३.१२३ ॥ <बीज:: हेमबीज> कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन । दरदनिहतासिना वा त्रिर्व्यूढं हेम तद्बीजम् ॥ ३.१२४ ॥ बलिना व्यूढं केवलमर्कमपि । <बीज:: => रसबन्धन> नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च । प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ ३.१२५ ॥ <नागबीज> माक्षिकेण हतं ताम्रं नागं च रञ्जयेन्मुहुः । तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ ३.१२६ ॥ बीजं त्विदं वरं श्रेष्ठं नागबीजं प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ॥ ३.१२७ ॥ <बीज:: रञ्जन ओf ँ> मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ॥ ३.१२८ ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तिलं विपाचयेत्तेन कुर्याद्बीजादिरञ्जनम् ॥ ३.१२९ ॥ <सारणातैल:: प्रोदुच्तिओन्> द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च । क्वाथे चतुर्गुणं क्षीरं तैलमेकं सुरेश्वरि ॥ ३.१३० ॥ ज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् । पाटलाकाकतुण्डाह्वमहाराष्ट्रीरसैः पृथक् ॥ ३.१३१ ॥ भेकसूकरमेषाहिमत्स्यकूर्मजलौकसाम् । वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ ३.१३२ ॥ भूलतामलमाक्षीकद्वंद्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ॥ ३.१३३ ॥ अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् ॥ ३.१३४ ॥ <द्वन्द्वमेलापक> ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलेन्द्रगोपकर्कटका द्वंद्वमेलापकौषधानि ॥ ३.१३५ ॥ <"रञ्जकतैल"> यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः । रसं चतुर्गुणं योज्यं कङ्गुनीतैलमध्यतः ॥ ३.१३६ ॥ पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । द्रावितं तारबीजं तु ह्येकविंशतिवारकम् ॥ ३.१३७ ॥ रञ्जितं जायते तत्तु रसराजस्य रञ्जनम् । कुटिले बलमत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः । रागस्नेहबलानि तु कमले नित्यं प्रशंसन्ति ॥ ३.१३८ ॥ बलमास्तेऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धश्च सारलौहे क्रामणमथ नागवङ्गगतम् ॥ ३.१३९ ॥ क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः । हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ ३.१४० ॥ तदपि च दरदेन हतं कृत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ ३.१४१ ॥ <मेर्चुर्य्:: बन्धन> सर्वैरेभिर्लौहैर्माक्षिकमृदितैर्द्रुतैस्तथा गर्भे । विडयोगेन च जीर्णे रसराजो बन्धमुपयाति ॥ ३.१४२ ॥ निर्बीजं समजीर्णे पादोने षोडशांशं तु । अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ ३.१४३ ॥ समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च । इतो न्यूनजीर्णस्य पत्त्रलेपार्धकार एव ॥ ३.१४४ ॥ <पत्रलेप> अत्यम्लितमुद्वर्तिततारारिष्टादिपत्रमतिशुद्धम् । आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ ३.१४५ ॥ <पुटप्रकार> पुटः प्रायेण चुल्लिकाधस्तादस्य ॥ ३.१४६ ॥ <वर्णपुट> अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥ ३.१४७ ॥ अर्धेनेत्युपलक्षणम् ॥ ३.१४८ ॥ <गोल्द्:: प्रोदुच्तिओन्> तारार्कमर्कटशिरःशिलागन्धान् प्रचूर्णयेत् । पचेद्भूयः क्षिपन् गन्धं यथा सूतो न गच्छति । पक्वं तद्धेमपत्रस्थं हेमतां प्रतिपद्यते ॥ ३.१४९ ॥ रज्जुभिर्भेकरङ्गाद्यैः स्तम्भयोः सारलौहयोः । बध्यते रसमातङ्गो युक्त्या श्रीगुरुदत्तया ॥ ३.१५० ॥ <गोल्द्:: प्रोदुच्तिओन्> शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् । कीलालायःकृतो योगः खटिकालवणाधिकः ॥ ३.१५१ ॥ <गोल्द्:: प्रोदुच्तिओन् (?)> मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिबिलेशयमन्त्रजिह्वैः । यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतति न विस्मयध्वम् ॥ ३.१५२ ॥ <बीज:: लौहभेकि> लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्रं भेकमावर्तयेत्तु । <बीज:: तारतालकी> तालं कृत्वा तुर्यवङ्गान्तराले रूप्यस्यान्तस्तच्च सिद्धोक्तबीजे ॥ ३.१५३ ॥ इतीदं लौहभेकितारतालकीति सिद्धमते बीजद्वयम् ॥ ३.१५४ ॥ द्रुतदर्दुरपूतिलौहतापः कुरुते हिङ्गुलखण्डपक्षखण्डम् । शशिहेलिहिरण्यमूषिका ध्रुवमक्षोणधियामनेन लक्ष्मीम् ॥ ३.१५५ ॥ <मेर्चुर्य्(?):: स्तबिलिसतिओन्> दरदगुटिकाश्चन्द्रक्षोदैर्निरन्तरमावृतास्तरणिकनकैः किंवा गन्धाश्मना सह भूरिणा । रचय सिकतायन्त्रे युक्त्या मुहुर्मुहुरित्यसौ हुतभुजि वसन्न स्थेमानं कथञ्चन मुञ्चति ॥ ३.१५६ ॥ <बाह्यद्रुति> अथ बाह्यद्रुतयः । एतास्तु केवलमारोटमेव मिलिता निबध्नन्ति । फलमस्य कल्पप्रमितमायुः । किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफलप्रदा भवन्ति । उच्यते स समजीर्णश्चायं शतवेधी द्विगुणजीर्णः सहस्रवेधी । एवं लक्षायुतकोटिवेधी समनुसर्तव्यः । चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥ ३.१५७ ॥ <सारण:: प्रोपेर्च्रुचिब्ले> अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता ॥ ३.१५८ ॥ <सारण:: प्रोचेदुरे> अस्यामेव मूषायां तत्तैलमपगतकल्कविमलमापूर्य तस्मिन्नधिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समावर्तनीयः सूतवरस्तदनु सद्यो मूषाननमाच्छादनीयमेतत्तैलाक्तपटखण्डग्रन्थिबन्धेन अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्चेत्सारितः सम्यक्संयमितश्च विज्ञेयः प्रतिसारितस्तु द्विगुणबीजेन तद्वदनुसारितस्तु त्रिगुणबीजेन अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगवङ्गौ विश्राणनीयाविति । <=> कोटिवेधिरस> सारितो जारितश्चैव पुनः सारितजारितः । सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः । इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥ ३.१५९ ॥ शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ ३.१६० ॥ <विडवटी> खोटकं स्वर्णसंतुल्यं समावर्त्तं तु कारयेत् । माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ ३.१६१ ॥ भूनागैर्मर्दयेद्यामं वल्लमात्रं वटीकृतम् । एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ ३.१६२ ॥ <मेर्चुर्य्:: रञ्जन => शतवेधिन्> दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् । शिलातुत्थं च कुङ्कुष्ठं समचूर्णं प्रकल्पयेत् ॥ ३.१६३ ॥ वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ ३.१६४ ॥ जारितं सूतखोटं च कल्केनानेन संयुतम् । वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥ ३.१६५ ॥ त्रिदिनं पाचयेच्चुल्ल्यां कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ॥ ३.१६६ ॥ <मेर्चुर्य्:: रञ्जन (?)> लौहं गन्धं टङ्कणं ध्मातमेतत्तुल्यं चूर्णैर्भानुभेकाहिवङ्गैः । सूतं गन्धं सर्वसाम्येन कूप्यामीषत्साध्यं चात्र नो विस्मयध्वम् ॥ ३.१६७ ॥ <हेमकृष्टि:: प्रोदुच्तिओन्> रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः । पुटमृतशुल्बं तारे त्रिर्व्यूढं हेमकृष्टिरियम् ॥ ३.१६८ ॥ <शतांशविधि (१)> अष्टानवतिभागं च रूप्यमेकं च हाटकम् । सूतैकेन च वेधः स्याच्छतांशविधिरीरितः ॥ ३.१६९ ॥ <शतांशविधि (२)> चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः । वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ ३.१७० ॥ द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते । एवं सहस्रवेधादयो जारणबीजवशादनुसर्तव्याः ॥ ३.१७१ ॥ <वेधविधान> चत्वारः प्रतिवापाः सुलक्षया मत्स्यपित्तभावितया । तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥ ३.१७२ ॥ तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः । अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन ॥ ३.१७३ ॥ तदनु सिद्धतैलेनाप्लाव्य भस्मावछादनपूर्वकमवतार्य स्वाङ्गशैत्यपर्यन्तमपेक्षितव्यमिति ॥ ३.१७४ ॥ <सेल्लिन्ग्fअच्तितिओउस्गोल्सिल्वेर्> विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि । तत आनीय नगरे विक्रीणीत विचक्षणः ॥ ३.१७५ ॥ <बुभुक्षितविधिः> समर्पितः सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्ययन्त्रे । विशुद्धगन्धादिभिरीषदग्निना समस्तमश्नात्यशनीयमीशजः ॥ ३.१७६ ॥ <रञ्जन (??)> कर्षाष्टङ्कणकञ्जलीहरिरसैर्गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः श्रितम् । भूयो गन्धयुतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे लघुना पुटेन धमनेनार्कछवीमीहते ॥ ३.१७७ ॥ कर्षा इति बहुवचनात्त्रयः । कर्मास्य त्रिधा पत्रलेपेनेति ज्ञेयम् ॥ ३.१७८ ॥ <गोल्द्:: प्रोदुच्तिओन्> तुल्यं तारं ताम्रमादाय स्वच्छं तावत्तप्तं गन्धचूर्णे कुनट्याम् । न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गाधैः पाचयेत्काचकूप्याम् ॥ ३.१७९ ॥ खण्डाकारं तादृशं टङ्कणेन स्वर्णान्तःस्थं भस्ममूषान्तराले । ध्मातं साधु स्यात्सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण ॥ ३.१८० ॥ <चोप्पेर्:: प्रेपरिन्ग द्रवीकारक> तालताम्रशिलागन्धसंयुतं दरदं यदि । कूपिकायां मुहुः पक्वं द्रवकारि तदा मतम् ॥ ३.१८१ ॥ <क्षेत्रीकरणम्> स्निग्धं स्विन्नं विरिक्तं यन्नीरुजं सिद्धभेषजैः । एतत्क्षेत्रं समासेन रसबीजार्पणक्षयम् ॥ ३.१८२ ॥ <पञ्चकर्माणि> स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन स्विन्नं वस्त्रादिपुटवह्निना विरिक्तमिच्छाभेदिना वान्तं वचादिरसेन पलाशबीजविडङ्गगुडमोदकभक्षणात्कीटपातनमपि कर्तव्यम् । नीरुजं संवत्सरमयनं वा परिशोधितैः शृङ्गाराभ्रलक्ष्मीविलासाद्यभ्रसत्त्वप्रधानप्रयोगैरिति ॥ ३.१८३ ॥ निम्बक्वाथं भस्मसूतं वचाचूर्णयुतं पिबेत् । पीतान्तं वमनं तेन जायते क्लेशवर्जितम् ॥ ३.१८४ ॥ पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह । रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ ३.१८५ ॥ अक्षेत्रीकरणे सूतो मृतोऽपि विषवद्भवेत् । फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ॥ ३.१८६ ॥ अकृते क्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत । तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति ॥ ३.१८७ ॥ कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने । न क्षेत्रकरणाद्देवि किंचित्कुर्याद्रसायनम् ॥ ३.१८८ ॥ इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ ३.१८९ ॥ मृताभ्रं भक्षयेन्मासमेकमादौ विचक्षणः । पश्चात्स योज्यतां देहे क्षेत्रीकरणमिच्छता ॥ ३.१९० ॥ घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णसमजीर्णः । क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोग्याय ॥ ३.१९१ ॥ योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च । शुद्धो रसश्च भुक्तौ विधिना सिद्धिप्रदो भवति ॥ ३.१९२ ॥ <मेर्चुर्य्:: जीर्ण:: रिघ्त्मेअसुरे> घनसत्त्वकान्तताम्रसङ्करतीक्ष्णादिजीर्णस्य । सूतस्य गुञ्जावृद्ध्या माषकमात्रं परा मात्रा ॥ ३.१९३ ॥ गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ ३.१९४ ॥ तीक्ष्णाभ्रकान्तमाषैकं प्रायो मात्रेति कीर्तिता । वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोपमम् ॥ ३.१९५ ॥ नागवङ्गादिभिर्बद्धं विषोपविषबन्धितम् । मूत्रशुक्रहठाद्बद्धं त्यजेत्कल्पे रसायने ॥ ३.१९६ ॥ <मेर्चुर्य्:: जीर्ण:: लोन्गेवित्य्> भस्मनस्तीक्ष्णजीर्णस्य लक्षायुः पलभक्षणात् । एवं भुक्त्वा दशपलं तीक्ष्णजीर्णस्य मानवः । तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥ ३.१९७ ॥ भस्मनः शुल्बजीर्णस्य लक्षायुः पलभक्षणात् । कोट्यायुर्ब्राह्ममायुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ ३.१९८ ॥ भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ ३.१९९ ॥ गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निबलाबलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं त्यजेत् ॥ ३.२०० ॥ एको हि दोषः सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ ३.२०१ ॥ नारीसंगाद्विना देवि ह्यजीर्णं तस्य जायते । मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ ३.२०२ ॥ युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ॥ ३.२०३ ॥ ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ॥ ३.२०४ ॥ प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके । न लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ ३.२०५ ॥ सकणाममृतां भुक्त्वा मले बद्धे स्वपेन्निशि । ताम्बूलान्तर्गते सूते किट्टबन्धो न जायते ॥ ३.२०६ ॥ <मेर्चुर्य्:: सेवन:: रुलेसोf चोन्दुच्त्> अतिपानं चात्यशनमतिनिद्रां प्रजागरम् । स्त्रीणामतिप्रसङ्गं चाप्यध्वानं च विवर्जयेत् ॥ ३.२०७ ॥ अतिकोपं चातिहर्षं नातिदुःखमतिस्पृहाम् । शुष्कवादं जलक्रीडामतिचिन्तां च वर्जयेत् ॥ ३.२०८ ॥ <ककाराष्टक> कूष्माण्डकं कर्कटीं च कलिङ्गं कारवेल्लकम् । कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ ३.२०९ ॥ ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः । पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ ३.२१० ॥ चतुष्पथे न गन्तव्यं विण्मूत्रं च न लङ्घयेत् । धीराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ ३.२११ ॥ सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः । कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥ ३.२१२ ॥ कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् । हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ ३.२१३ ॥ कट्वम्लतिक्तलवणं पित्तलं वातलं च यत् । बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ ३.२१४ ॥ नागरङ्गं कामरङ्गं शोभाञ्जनमपि त्यजेत् । न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ३.२१५ ॥ नैवेद्यं नैव भुञ्जति कर्पूरं वर्जयेत्सदा । कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ ३.२१६ ॥ न च हन्यात्कुमारीं च मातुलानीं च वर्जयेत् । क्षुधार्तो नैव तिष्ठेत ह्यजीर्णं नैव कारयेत् । दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ॥ ३.२१७ ॥ हितं मुद्गान्नदुग्धाज्यशाल्यन्नानि सदा यतः । शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ॥ ३.२१८ ॥ सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् । आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः ॥ ३.२१९ ॥ एतांस्तु समयाद्भद्रे न लङ्घेद्रसभक्षणे । एवं चैव महाव्याधीन् रसेऽजीर्णे तु लक्षयेत् ॥ ३.२२० ॥ <रसाजीर्णशमनम्> कार्षिकं स्वर्जिकक्षारं कारवेल्लीरसप्लुतम् । गोमूत्रं सैन्धवयुतं तस्य संस्रावणं परम् ॥ ३.२२१ ॥ सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम् । सौवर्चलसमोपेतं रसाजीर्णी पिबेद्बुधः ॥ ३.२२२ ॥ शरपुङ्खां सुरदालीं पटोलबीजं च काकमाचीं च । एकतमां तु क्वथितामविजीर्णरसायने तु पिबेत् ॥ ३.२२३ ॥ कथमपि यद्यज्ञानान्नागादिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञः पिबेच्छिफां कारवेल्लभवाम् ॥ ३.२२४ ॥ निषिद्धवर्जं मतिमान्विचित्ररसभोजनं कुर्यात् । स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः ॥ ३.२२५ ॥ क्षारक्षोणीरुहाणां विधिवदवहिताः क्षारमाकल्पयध्वम् । कासीसस्वर्जिकाभ्यां पटुचयनरसारक्षपापक्षिटङ्कैः ॥ ३.२२६ ॥ कूपीभिः पातयध्वं बहु बहुलयवक्षारमम्भो हि कल्प्यम् । तस्मिन्नाधत्त धीराः सकवलमगजावल्लभं जारणाय ॥ ३.२२७ ॥ ___________________________________________________________________________ ४ अथाभ्रीयं व्याचक्ष्महे ॥ ४.१ ॥ तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वमङ्गीकरोति । साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः ॥ ४.२ ॥ <अभ्र:: वज्र> यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् । वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत् ॥ ४.३ ॥ <अभ्र:: सुब्त्य्पेस्> वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् । ततः कृष्णं समादाय पाचयेत्काण्डिके रसे ॥ ४.४ ॥ <अभ्र:: सुब्त्य्पेस्:: ॠउअलित्य्> ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद्वज्रकृष्णाभ्रयोर्ग्रहणम् । भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति ॥ ४.५ ॥ <अभ्र:: सत्त्वपातन> चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥ ४.६ ॥ पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ । सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत्सकललौहगुणाधिकं च ॥ ४.७ ॥ <अभ्र:: सत्त्व:: एकीकरण> कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ ४.८ ॥ <पञ्चमित्र> घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च । मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन ॥ ४.९ ॥ समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् । सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम् ॥ ४.१० ॥ <अभ्र:: सत्त्व:: शोधन, मारण> अयोधातुवच्छोधनमारणमेतस्य ॥ ४.११ ॥ <अभ्र:: सत्त्व:: सेवन> चूर्णमभ्रकसत्त्वस्य कान्तलोहस्य वा ततः । तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम् ॥ ४.१२ ॥ यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च । भृङ्गामलकसारेण हरिद्राया रसेन च ॥ ४.१३ ॥ मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः । लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम् ॥ ४.१४ ॥ घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् । एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ४.१५ ॥ <अभ्र:: वज्र:: शोधन> वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः । भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ॥ ४.१६ ॥ धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते ॥ ४.१७ ॥ <अभ्र:: मारण> कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् । अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा ॥ ४.१८ ॥ वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥ ४.१९ ॥ ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् । म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत् ॥ ४.२० ॥ <अभ्र:: मारण> अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् । म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः ॥ ४.२१ ॥ तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर्मर्दनपुटनैरपि मारणीयम् ॥ ४.२२ ॥ <अभ्र:: मारण (?)> धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च । पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥ ४.२३ ॥ <अभ्र:: मारण> धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् । तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ ४.२४ ॥ नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक्पृथक् । दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥ ४.२५ ॥ दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः । त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः ॥ ४.२६ ॥ मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः । रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः ॥ ४.२७ ॥ दध्ना घृतेन मधुना स्वच्छया सितया तथा । एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥ ४.२८ ॥ सर्वरोगहरं व्योम जायते योगवाहकम् । कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ॥ ४.२९ ॥ वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् । <अभ्र:: मारण (?)> रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति । दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै ॥ ४.३० ॥ <अभ्र:: भस्मन्:: fओर्मुलतिओन्स्> तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् । घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत् ॥ ४.३१ ॥ <अभ्र:: भस्मन्:: fओर्मुलतिओन्स्> त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४.३२ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना । द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ ४.३३ ॥ अरुणस्य पुनरमृतीकरणेन गुणवृद्धिवर्णहानस्तः ॥ ४.३४ ॥ अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते ॥ ४.३५ ॥ <अभ्र:: द्रुति> अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे । गोष्ठभूस्थो घनो मासं जायते जलसंनिभः ॥ ४.३६ ॥ <अभ्र:: द्रुति> स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् । पक्वं च शरावपुटे बहुवारं भवति रसरूपम् ॥ ४.३७ ॥ <अभ्र:: द्रुति> निजरसबहुपरिभावितसुरदालीचूर्णवापेन । द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥ ४.३८ ॥ <अभ्र:: सत्त्व:: द्रुति> निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् । द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥ ४.३९ ॥ <द्रुति:: मेलापन> कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः । सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः ॥ ४.४० ॥ <जेwएल्स्:: द्रुति> मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ ४.४१ ॥ पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ ४.४२ ॥ <अभ्र (?):: सत्त्व:: पातन> गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा । ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥ ४.४३ ॥ एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः । कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा ॥ ४.४४ ॥ पाषाणमृत्तिकादीनि सर्वलोहानि वा पृथक् । अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥ ४.४५ ॥ ___________________________________________________________________________ ५ <गन्धक:: शोधन (मेछनिचल्)> आदौ गन्धकटङ्कादि क्षालयेज्जम्भकरिणा । दृढसंलग्नधूल्यादि मलं तेन विशीर्यते ॥ ५.१ ॥ <सुल्fउर्:: शोधन> गन्धः सक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः । <सुल्fउर्:: शोधन> अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ ५.२ ॥ गन्धकमत्र नवनीताख्यमुपादेयम् ॥ ५.३ ॥ <सुल्fउर्:: शोधन> लौहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ ५.४ ॥ विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिक्षिपेत् । एवं गन्धकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥ ५.५ ॥ <सुल्fउर्:: रेमोवलोf "स्मेल्ल्"> गन्धकस्य च पादांशं दत्त्वा च टङ्कणं पुनः । मर्दयेन्मातुलुङ्गाम्लै रुवुतैलेन भावयेत् । चूर्णं पाषाणगं कृत्वा शनैर्गन्धं खरातपे ॥ ५.६ ॥ विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् । ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ ५.७ ॥ पश्चाच्च पातयेत्प्राज्ञो जले त्रैफलसम्भवे । जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ ५.८ ॥ <सुल्fउर्:: रेमोवलोf "स्मेल्ल्"> देवदाल्यम्लपर्णी वा नागरं वाथ दाडिमम् । मातुलुङ्गं यथालाभं द्रवमेकस्य वा हरेत् ॥ ५.९ ॥ गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् । अनयोर्गन्धकं भाव्यं त्रिभिर्वारैस्ततः पुनः ॥ ५.१० ॥ धूस्तूरस्तुलसीकृष्णा लशुनं देवदालिका । शिग्रुमूलं काकमाची कर्पूरः शङ्खिनीद्वयी ॥ ५.११ ॥ कृष्णागुरुश्च कस्तूरी वन्ध्याकर्कोटकीद्वयी । मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ॥ ५.१२ ॥ अनेन लौहपात्रस्थं भावयेत्पूर्वगन्धकम् । त्रिवारं क्षौद्रतुल्यं तु जायते गन्धकवर्जितम् ॥ ५.१३ ॥ <गन्धतैल> अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा । गन्धकं नवनीतेन पिष्ट्वा वस्त्रं विलेपयेत् ॥ ५.१४ ॥ तद्वर्तिर्ज्वलिता दण्डे धृता धार्या त्वधोमुखी । तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ ५.१५ ॥ <गन्धतैल> आवर्त्यमाने पयसि दध्याद्गन्धकजं रजः । तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ ५.१६ ॥ <गन्धतैल:: मेदिच्. प्रोपेर्तिएस्> गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् । अनेन पिण्डिका कार्या रसेन्द्रस्योक्तकर्मसु ॥ ५.१७ ॥ <सुल्fउर्:: बन्धन> शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य च । स्विन्नखल्वे विनिक्षिप्य देवदालीरसप्लुतम् । मर्दयेच्च कराङ्गुल्या गन्धबन्धः प्रजायते ॥ ५.१८ ॥ <सुल्fउर्:: पिष्टी> भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च । मर्दयेद्घृतयोगेन जायते गन्धपिष्टिका ॥ ५.१९ ॥ <सुल्fउर्:: बन्धन> अष्टौ भागा रसेन्द्रस्य भाग एकस्तु गान्धिकः । विषतैलादिना मर्द्यो गन्धबन्धः प्रजायते ॥ ५.२० ॥ <सुल्fउर्:: पिष्टी> दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । स्तोकं स्तोकं क्षिपेत्खल्वे मर्दयेच्च शनैः शनैः । कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ॥ ५.२१ ॥ फलं चास्य गन्धकजारणनागमारणादि ॥ ५.२२ ॥ <सुल्fउर्:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ ५.२३ ॥ ___________________________________________________________________________ ६ अथातः सर्वलोहाध्यायं व्याचक्ष्महे ॥ ६.१ ॥ रसीभवन्ति लोहानि मृतानि सुरवन्दिते । विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ६.२ ॥ <मेतल्स्:: शोधन> स्वर्णतारारताम्रायःपत्राण्यग्नौ प्रतापयेत् । निषिञ्चेत्तप्ततैलानि तैले तक्रे गवां जले ॥ ६.३ ॥ काञ्जिके च कुलत्थानां कषाये सप्तधा पृथक् । एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥ ६.४ ॥ <मेतल्स्:: शोधन> तप्तानि सर्वलोहानि कदलीमूलवारिणि । सप्तधाभिनिषिक्तानि शुद्धिमायान्त्यनुत्तमाम् ॥ ६.५ ॥ <लेअद्, तिन्:: शोधन> नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । सप्तधैव विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ६.६ ॥ <गोल्द्:: शोधन> वर्णवृत्तिकया लिप्त्वा सप्तधा ध्मापितं वसु । विशुध्यति वरं किंचिद्वर्षवृद्धिश्च जायते ॥ ६.७ ॥ <गोल्द्:: शोधन> वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटुः । इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ ६.८ ॥ पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति । <सिल्वेर्:: शोधन> नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । रजतं दोषनिर्मुक्तं किं वा क्षाराम्लपाचितम् ॥ ६.९ ॥ <ताम्र:: शोधन> स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकम् । लिप्त्वा प्रताप्य निर्गुण्डीरसे सिञ्चेत्पुनः पुनः । वारान् द्वादश तच्छुध्येल्लेपात्तापाच्च सेचनात् ॥ ६.१० ॥ <चोप्पेर्:: शोधन> गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ ६.११ ॥ <राजरीति, ब्रोन्शे:: शोधन, मारण> राजरीतिं तथा घोषं ताम्रवच्छोधयेद्भिषक् । ताम्रवन्मारयेच्चापि ताम्रवच्च तयोर्गुणाः ॥ ६.१२ ॥ <ब्रोन्शे, ब्रस्स्, लेअद्, तिन्:: शोधन> घोषारनागवङ्गानि निषेकैर्मुनितुल्यकैः । निर्गुण्डीरसमध्ये तु शुध्यन्ते नात्र संशयः ॥ ६.१३ ॥ <इरोन्:: शोधन:: अद्रि> त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ ६.१४ ॥ कृत्वा पत्राणि तप्तानि सप्तवारान्निषेचयेत् । एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥ ६.१५ ॥ <इरोन्:: शोधन> तत्तद्व्याध्युपयुक्तानामौषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ ६.१६ ॥ <इरोन्:: शोधन> सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ ६.१७ ॥ <दिवेर्स्सत्त्वस्:: शोधन> खसत्त्वं लौहवच्छोध्यं ताम्रवत्ताप्यसत्त्वकम् । रसकालशिलातुत्थसत्त्वं क्षाराम्लपाचनैः । दिनैकेनैव शुध्यन्ति भूनागाद्यास्तथाविधैः ॥ ६.१८ ॥ सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ६.१९ ॥ <सप्तधातु:: मारण> शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्तधातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ६.२० ॥ <सप्तधातु:: मारण> रसमिश्राश्चतुर्यामं स्वर्णाद्याः सप्तधातवः । म्रियन्ते सिकतायन्त्रे गन्धकैरमृताधिकाः ॥ ६.२१ ॥ गन्धैरेकद्वित्रिवारान् पच्यन्ते फलदर्शनात् । षड्गुणादिश्च गन्धोऽत्र गुणाधिक्याय जार्यते ॥ ६.२२ ॥ <गोल्द्:: मारण> समसूतेन वै पिष्टिं कृत्वाग्नौ नाशयेद्रसम् । स्वर्णं तत्समताप्येन पुटितं भस्म जायते ॥ ६.२३ ॥ <गोल्द्:: मारण, रेमोवलोf नाग> हेमपत्राणि सूक्ष्माणि जम्भाम्भो नागभस्मतः । लेपतः पुटयोगेन त्रिवारं भस्मतां नयेत् । पुनः पुटे त्रिवारं तन्म्लेच्छतो नागहानये ॥ ६.२४ ॥ <गोल्द्:: मारण> शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ६.२५ ॥ त्रिंशद्वनोपलैर्देयाः पुटाश्चैवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ६.२६ ॥ <गोल्द्:: मारण> स्वर्णमावृत्य तोलैकं माषैकं शुद्धगन्धकम् । क्षिप्त्वा चाम्लेन संचूर्ण्य तत्तुल्यौ गन्धमाक्षिकौ ॥ ६.२७ ॥ अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् । गन्धः पुनः पुनर्देयो म्रियते दशभिः पुटैः ॥ ६.२८ ॥ <सिल्वेर्:: मारण> विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् । तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः । द्वित्रिपुटैर्भवेद्भस्म योज्यमेवं रसादिषु ॥ ६.२९ ॥ सूतेन समेनेत्यर्थः । अत्र सूतरक्षार्थं गन्धः पुनरधिको देयः ॥ ६.३० ॥ <चोप्पेर्:: मारण> गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् । कण्टवेध्यं ताम्रपत्रमन्धयित्वा पुटे पचेत् ॥ ६.३१ ॥ उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् । पाच्यं जम्भाम्भसा पिष्टं समो गन्धश्चतुःपुटे ॥ ६.३२ ॥ मातुलुङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् । सितशर्कराप्येवं पुटदाने मृतिर्भवेत् ॥ ६.३३ ॥ <चोप्पेर्:: मारण> ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् । मर्दयेद्यामयुग्मं तु यावत्कज्जलिका भवेत् ॥ ६.३४ ॥ तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् । संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ ६.३५ ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयोः कुर्यादम्बुभस्म विलेपनम् ॥ ६.३६ ॥ हण्डिकां पटुनापूर्य भस्मना वा गलावधि । पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् । चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ॥ ६.३७ ॥ न रसेन विना लौहं न रसं चाभ्रकं विना । एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ ६.३८ ॥ चपलेन विना लौहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ ६.३९ ॥ वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अनयोर्मात्रा युक्त्यनुसारिणी ततो म्रियत इति शेषः ॥ ६.४० ॥ <रेमेद्यगैन्स्त्वोमित्> अम्लपिष्टं मृतं ताम्रं शरणस्थं लिपेन्मृदा । पचेत्पञ्चामृतैर्वापि त्रिधावान्त्यादिशान्तये ॥ ६.४१ ॥ सूरणपक्षे बृहत्पुटप्रदानम् । <चोप्पेर्:: मारण> जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् । पङ्कायमानं पुटयेत्सुयुक्त्या वान्त्यादिकं यावदुपैति शान्तिम् ॥ ६.४२ ॥ <चोप्पेर्:: मृतोत्थ:: मारण (= रेपेअतेद्मारण)> मृतोत्थशुद्धं संतप्तं ताम्रचक्रं बलिस्थितम् । मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥ ६.४३ ॥ <चोप्पेर्:: मारण> रसगन्धकयोः कृत्वा कञ्जलीमर्धमानयोः । वारा लिम्पेत्कण्टवेध्यं म्रियते ताम्रमातपे ॥ ६.४४ ॥ <गोल्द्:: प्रोदुच्तिओन्:: fरों चोप्पेर्> आर्कं भस्म स्थालिकायां निधाय ज्वालां दत्त्वा नाशयेत्तत्र गन्धम् । आवर्त्यैतन्मारयेत्सप्तवारानित्थं शुल्बं जायते हेमतुल्यम् ॥ ६.४५ ॥ शशिहाटकहेलिदलं रसबलितमेकमर्दितं बलिना । इष्टरसपिष्टमतः कृतपर्पटमर्पयेत्तदनु ॥ ६.४६ ॥ <माक्षिक:: सत्त्व:: मारण> माक्षीकरसकादीनां सत्त्वं हन्याच्च ताम्रवत् ॥ ६.४७ ॥ <तिन्:: मारण> वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत्सुधीः । द्रवीभूते पुनस्तस्मिन् चूर्णान्येतानि दापयेत् ॥ ६.४८ ॥ प्रथमे रजनीचूर्णं द्वितीये च यवानिकाम् । तृतीये जीवकं चैव ततश्चिञ्चात्वगुद्भवम् ॥ ६.४९ ॥ अश्वत्थवल्कलोत्थं च चूर्णं तत्र विनिक्षिपेत् । एवं विधानतो वङ्गो म्रियते नात्र संशयः ॥ ६.५० ॥ <लेअद्:: मारण> नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् । एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटेद्गन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् ॥ ६.५१ ॥ <सिन्दूर:: प्रोदुच्तिओन्> भूभुजङ्गमगस्तिं च पिष्ट्वा पात्रं प्रलेपयेत् । तत्र सविद्रुते नागे वासापामार्गसम्भवम् ॥ ६.५२ ॥ क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः । प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या विघट्टयन् ॥ ६.५३ ॥ तत उद्धृत्य तच्चूर्णं वासानीरैर्विमर्दयेत् । पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् । एवं सप्तपुटैर्नागः सिन्दूरो जायते ध्रुवम् ॥ ६.५४ ॥ <इरोन्:: मारणम्> लौहं पत्रसतीवतप्तमसकृत्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमतः पुनस्त्रिफलजे क्वाथे पचेद्गोजले । मत्स्याक्षीत्रिफला एतेन पुटयेद्यावन्निरुत्थं भवेत्पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेदायसम् ॥ ६.५५ ॥ अत्र मत्स्याक्षी मछेछी । प्रकृतत्रिचतुःपुटे मनःशिलां किंचिद्दद्यात् ॥ ६.५६ ॥ <इरोन्:: मारण> परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् । म्रियेत वस्त्रावृतमर्कभासा योज्यं पुटैः स्यात्त्रिफलादिकानाम् ॥ ६.५७ ॥ पुटबाहुल्यं गुणाधिक्याय शतादिपुटपक्षे मुद्गनिभं कृत्वा पुटान् दद्याद्वस्त्रपूतं च न कुर्यात् । त्रिफलादिरमृतसारलौहे वक्ष्यते ॥ ६.५८ ॥ <इरोन्:: मारण:: वारितर> सूतकाद्द्विगुणं गन्धं दत्त्वा कृत्वा च कज्जलीम् । द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ ६.५९ ॥ यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वोरुवूकस्य पत्रैराच्छादयेद्बुधः ॥ ६.६० ॥ यामार्धेनोष्णता भूयाद्धान्यराशौ न्यसेत्ततः । दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥ ६.६१ ॥ पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् । एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥ ६.६२ ॥ <इरोन्:: छेच्किन्ग्थे वारितर स्तते> सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हि तत् ॥ ६.६३ ॥ <मित्रपञ्चक> मधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा । मित्रपञ्चकमेतत्तु गणितं धातुमेलने ॥ ६.६४ ॥ <इरोन्:: मृत:: छेच्किन्ग्थे मृत-स्तते> मध्वाज्यं मृतलौहं च सरूप्यं सम्पुटे क्षिपेत् । रुद्ध्वा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् । तदा लौहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ ६.६५ ॥ <इरोन्:: मारण:: निरुत्थान> गन्धकेनोत्थितं लौहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावैः रुद्ध्वा गजपुटे पचेत् । इत्येवं सर्वलौहानां कर्तव्येयं निरुत्थितिः ॥ ६.६६ ॥ यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं रविः । तारं तद्द्विगुणं लौहमन्यत्तु त्रिगुणाधिकम् ॥ ६.६७ ॥ <किट्ट (रुस्त्!):: अगे => ॠउअलित्य्> शतोर्ध्वमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनविषोपमम् ॥ ६.६८ ॥ <मण्डूर:: प्रोदुच्तिओन्> अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः । सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ ६.६९ ॥ चूर्णयित्वा ततः क्वाथैर्द्विगुणैस्त्रिफलोद्भवैः । आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥ ६.७० ॥ <स्वर्ण, रूप्य> आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यम् । भूतावेशप्रशान्तिस्मरभवसुखदं सौख्यपुष्टिप्रकाशि । गाङ्गेयं चाथ रूप्यं गदहमजराकारि मेहापहारि । क्षीणानां पुष्टिकारि स्फुटमतिकरणं कारणं वीर्यवृद्धेः ॥ ६.७१ ॥ <गोल्द्:: मेदिच्. प्रोपेर्तिएस्> मधुरं कटुकं पाके सुवर्णं वीर्यशीतलम् । सर्वदोषप्रशमनं विषघ्नं गरनाशनम् ॥ ६.७२ ॥ अलक्ष्मीकलिपापानां प्रयोगस्तस्य नाशनः । आयुर्मेधास्मृतिकरः पुष्टिकान्तिविवर्धनः ॥ ६.७३ ॥ सर्वौषधिप्रयोगैर्ये व्याधयो न विनिर्जिताः । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ६.७४ ॥ शिलाजतुप्रयोगैश्च ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ६.७५ ॥ ताप्यसूतकयोरित्यत्र सामान्यसंस्कृतसूतको ज्ञेयः । विशेषसंस्कृतसूतकस्य तु व्योमगामित्वादिप्रदत्वात् ॥ ६.७६ ॥ मध्वामलकचूर्णं तु सुवर्णं चेति तत्त्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ ६.७७ ॥ मेधाकामस्तु वचया श्रीकामः पद्मकेशरैः । शङ्खपुष्प्या वयोऽर्थी च विदार्या च प्रजार्थकः ॥ ६.७८ ॥ <चोप्पेर्:: मेदिच्. प्रोपेर्तिएस्> गुल्मपाण्डुपरिणामशूलहृल्लेखनं कृमिहरं विशोधनम् । प्लीहकुष्ठजठरामशूलजिच्छ्लेष्मवातहरणं रविनाम ॥ ६.७९ ॥ <पित्तल, कांस्य> रीतिका श्लेष्मपित्तघ्नी कांस्यमुष्णं च लेखनम् ॥ ६.८० ॥ <तिन्:: मेदिच्. प्रोपेर्तिएस्> वङ्गो दाहहरः पाण्डुजन्तुमेहविनाशनः ॥ ६.८१ ॥ <लेअद्:: मेदिच्. प्रोपेर्तिएस्> दशनागबलं धत्ते वीर्यायुःकान्तिवर्धनः । रोगान् हन्ति मृतो नागः सेव्यो रङ्गोऽपि तद्गुणः ॥ ६.८२ ॥ तृष्णामशोथशूलार्शःकुष्ठपाण्डुत्वमेहजित् । वयस्यो गुरुचक्षुष्यः सरो मेदोऽनिलापहः । तारस्य रञ्जको नागो वातपित्तकफापहः ॥ ६.८३ ॥ <इरोन्:: मेदिच्. प्रोपेर्तिएस्> आयुःप्रदाता बलवीर्यकर्ता रोगापहर्ता कदनस्य कर्ता । अयःसमानं नहि किंचिदस्ति रसायनं श्रेष्ठतमं नराणाम् ॥ ६.८४ ॥ <इरोन्:: ऋएइहेन्fओल्गे देर्ङ्ंते> सामान्याद्द्विगुणं क्रौञ्चं कलिङ्गोऽष्टगुणस्ततः । कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ ६.८५ ॥ वज्राच्छतगुणं पाण्डिर्निरङ्गं दशभिर्गुणैः । तस्मात्सहस्रगुणितमयः कान्तं महाबलम् ॥ ६.८६ ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणम् ॥ ६.८७ ॥ ___________________________________________________________________________ ७ अथ विषोपरससाधनाध्यायं व्याचक्ष्महे ॥ ७.१ ॥ विषं हि नाम निखिलरसायनानामूर्जस्वलमखिलव्याधिविध्वंसविधायकतामासादयति ॥ ७.२ ॥ तत्खल्वष्टादशप्रकारं भवति । यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थमाहरणीयानि भवन्ति ॥ ७.३ ॥ <सक्तुक> चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् । सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम् ॥ ७.४ ॥ <मुस्तक> ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति । <कौर्म, दार्वीक> कूर्माकृति भवेत्कौर्मं दार्वीकोऽहिफणाकृति ॥ ७.५ ॥ <सार्षप> ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् । स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर्विरोमकः ॥ ७.६ ॥ <सैकत> ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते ॥ ७.७ ॥ <वत्सनाभ> यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् । न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ॥ ७.८ ॥ आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् । प्रयोज्यो रोगहरणे जारणायां रसायने ॥ ७.९ ॥ <श्वेतशृङ्गी> गोशृङ्गवद्द्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥ ७.१० ॥ एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि ॥ ७.११ ॥ कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि ॥ ७.१२ ॥ <कालकूट> वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः । तं कालकूटं जानीयात्घ्राणमात्रान्मृतिप्रदम् ॥ ७.१३ ॥ <मेषशृङ्गी> मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते । <दर्दुर> दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥ ७.१४ ॥ <हलाहल> अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् । <कर्कोट> कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥ ७.१५ ॥ <हारिद्र> हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः । मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः । कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः ॥ ७.१६ ॥ <रक्तशृङ्गी> गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक्प्रवर्तते । कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् ॥ ७.१७ ॥ <केसर> शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः । <यमदंष्ट्रा> श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ॥ ७.१८ ॥ रसवादे धातुवादे विषवादे क्वचित्क्वचित् । दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ ७.१९ ॥ उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु । अव्याहतं विषहरैर्वातादिभिरशोषितम् ॥ ७.२० ॥ <पोइसोन्:: शोधन> विषभागान् चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ ७.२१ ॥ शोषयेत्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः । प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ७.२२ ॥ <पोइसोन्:: शुद्ध:: स्तोरगे> रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् । विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ७.२३ ॥ <पोइसोन्:: मारण> समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते । योजयेत्सर्वरोगेषु न विकारं करोति तत् ॥ ७.२४ ॥ <पोइसोन्:: सुब्त्य्पेस्:: चोलोर्, चस्ते> श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः । ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः ॥ ७.२५ ॥ सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् । वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः ॥ ७.२६ ॥ ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे । वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः ॥ ७.२७ ॥ शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् । चतुर्मासे हरेद्रोगान् कुष्ठलूतादिकानपि ॥ ७.२८ ॥ <पोइसोन्:: ॠउअन्तितिएस्> यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत् ॥ ७.२९ ॥ प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ ७.३० ॥ षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७.३१ ॥ <पोइसोन्:: रुलेस्fओर्चोन्सुमे> क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७.३२ ॥ वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा । यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥ ७.३३ ॥ अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा । विषं तस्मै न दातव्यं दत्तं वै दोषकारकम् ॥ ७.३४ ॥ दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि । क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ॥ ७.३५ ॥ ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् । पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ ७.३६ ॥ <पोइसोन्:: ८ वेगस्> मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् । अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः ॥ ७.३७ ॥ संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ ७.३८ ॥ फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् । जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७.३९ ॥ <पोइसोन्:: हेअलिन्ग्थे वेगस्> विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत् ॥ ७.४० ॥ अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा ॥ ७.४१ ॥ तावद्दद्यादजादुग्धं यावद्वान्तिर्न जायते । अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः । विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ ७.४२ ॥ विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम् ॥ ७.४३ ॥ पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ७.४४ ॥ न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि । क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि । गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ ७.४५ ॥ न दातव्यं न भोक्तव्यं विषं वादे कदाचन । आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ ७.४६ ॥ <पोइसोन्:: सुब्त्य्पेस्> कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा । सौराष्ट्रिकः इति प्रोक्ता विषभेदा अमी नव ॥ ७.४७ ॥ <उपविष> अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ ७.४८ ॥ <मेर्चुर्य्:: पक्षछेद:: ब्य्पोइसोन्> एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते । मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥ ७.४९ ॥ <वज्र:: सुब्त्य्पेस्:: चोलोउर्> श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः । स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत् ॥ ७.५० ॥ <वज्र:: पुंवज्र> वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः । पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ ७.५१ ॥ <वज्र:: स्त्रीवज्र> रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥ ७.५२ ॥ <वज्र:: नपुंसक> त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः ॥ ७.५३ ॥ <वज्र:: प्रोपेर्तिएसोf गेन्देर्स्> सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः । स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम् ॥ ७.५४ ॥ विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने । वादे वैश्यं विजानीयाद्वयःस्तम्भे तुरीयकम् ॥ ७.५५ ॥ स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च । सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥ ७.५६ ॥ <वज्र:: शोधन> व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः । हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत् ॥ ७.५७ ॥ <वज्र:: मारणम्> त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् । पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् । मुनिसंख्यैर्गजपुटैर्म्रियते ह्यविचारितम् ॥ ७.५८ ॥ <वज्र:: मारण> मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः । स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् । तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥ ७.५९ ॥ <वज्र:: मारण> हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् । तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ ७.६० ॥ <वज्र:: भस्मन्:: उसे> रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते । भस्मीभावगतं युक्त्या वज्रवत्कुरुते तनुम् ॥ ७.६१ ॥ <वैक्रान्त:: शोधन> वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् । <वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्> वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत् ॥ ७.६२ ॥ <वैक्रान्त:: मारण> हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा । पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः ॥ ७.६३ ॥ कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा । <वैक्रान्त:: सुब्स्तितुते fओर्वज्र> भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ ७.६४ ॥ <नवरत्नानि> पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् । वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् । एतानि नवरत्नानि सदृशानि सुधारसैः ॥ ७.६५ ॥ <जेwएल्स्:: शोधन> स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च । मणिमुक्ताप्रवालानां यामैके शोधनं भवेत् ॥ ७.६६ ॥ <जेwएल्स्:: स्पेचिअल्शोधन> शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ ७.६७ ॥ पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः । तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ ७.६८ ॥ रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः । <जेwएल्स्:: शोधन:: इम्पर्त्सद्दितिओनलॄउअलितिएस्> मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः । तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः ॥ ७.६९ ॥ <धातु, उपरस:: शोधन> अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा । मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः ॥ ७.७० ॥ <जेwएल्स्:: मारण> लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ ७.७१ ॥ <जेwएल्स्:: मारण> कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥ ७.७२ ॥ मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः । क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥ ७.७३ ॥ <जेwएल्स्:: शोधन, मारण> वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ॥ ७.७४ ॥ <हरिताल:: शोधन> तालकं पोट्टलीं बद्ध्वा सचूर्णे काञ्जिके क्षिपेत् । दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ ७.७५ ॥ तिलतैले पचेद्यामं यामं तत्त्रैफले जले । दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥ ७.७६ ॥ <हरिताल:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः ॥ ७.७७ ॥ <हरिताल:: सत्त्व:: पातनम्> लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् । तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् । पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ ७.७८ ॥ <हरिताल:: सत्त्व:: पातन> जैपालसत्त्ववातारिबीजमिश्रं च तालकम् । कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ ७.७९ ॥ <इन्दुसुन्दरी> भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता । गुटिका गुरुमार्गेण ध्माता स्यादिन्दुसुन्दरी ॥ ७.८० ॥ हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने । लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च ॥ ७.८१ ॥ <मनःशिला:: सत्त्व:: पातन> तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः ॥ ७.८२ ॥ <तुत्थ:: सत्त्व:: पातन> तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके ॥ ७.८३ ॥ <माक्षिक:: सत्त्व:: पातन> ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह । संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः । ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम् ॥ ७.८४ ॥ <महारस:: सत्त्व:: पातन> एवं तालशिलाधातुर्विमलाखर्परादयः । मुञ्चन्ति निजसत्त्वानि धमनात्कोष्ठिकाग्निना ॥ ७.८५ ॥ <कासीस:: सत्त्वपातन (?), मृदूकरण (?)> शिलया गन्धकेनापि भर्जितः क्षोदितः खगः । मुद्रितस्ताम्रपात्रेण लिप्तः स्याद्ध्मापितो मृदुः ॥ ७.८६ ॥ <माक्षिक:: सत्त्व:: पातन> समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् । अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् । अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत् ॥ ७.८७ ॥ <गुटी औस्वेर्स्छ्. ष्तोffएन् -> वर्णोत्कर्ष (ङोल्धेर्स्तेल्लुन्ग्)> भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् । गुटी भवति पीताभा वर्णोत्कर्षविधायिनी ॥ ७.८८ ॥ <गुटी:: fओर्वर्णोत्कर्ष> ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे । ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत् ॥ ७.८९ ॥ <भूनाग:: सत्त्व:: पातन> सद्यो भूनागमादाय चारयेच्छिखिनं बुधः । अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम् ॥ ७.९० ॥ मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् । आलोड्य क्षारमध्वाज्यैर्धमेत्सत्त्वार्थमादरात् ॥ ७.९१ ॥ मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः । नश्यति जङ्गमविषं स्थावरं च न संशयः ॥ ७.९२ ॥ <भूनाग:: सत्त्व:: पातन> क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः । भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः ॥ ७.९३ ॥ यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् । कर्तव्यं तत्फलाधिक्यं रसज्ञत्वमभीप्सता ॥ ७.९४ ॥ <मनःशिला:: शोधनम्> जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला । दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा ॥ ७.९५ ॥ <मनःशिला:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा ॥ ७.९६ ॥ <मनःशिला:: रेमोवेस्कालिमा> कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा । <मनःशिला:: द्रावण> कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि ॥ ७.९७ ॥ <रसक:: शोधनम्> नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे । सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः ॥ ७.९८ ॥ <तुत्थ:: शोधन> एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः । बीजपिष्टः पिकज्वालैर्भेको बद्धोऽन्धवेश्मनि ॥ ७.९९ ॥ विष्ठया मर्दयेत्तुत्थं सममोतोर्दशांशता । टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् । तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः ॥ ७.१०० ॥ <तुत्थ:: शुद्ध:: बोदिल्य्रेअच्तिओन्> वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत् ॥ ७.१०१ ॥ <तुत्थ:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत् ॥ ७.१०२ ॥ <माक्षिक:: शोधन> अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् । तन्मध्ये पुटितं शुध्येत्ताप्यं त्वम्लेन पाचितम् ॥ ७.१०३ ॥ <माक्षिक:: शोधन> सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च । मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा ॥ ७.१०४ ॥ कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् । सिन्दूराभं भवेद्यावत्तावन्मृद्वग्निना पचेत् । सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत् ॥ ७.१०५ ॥ <माक्षिक:: मारण> माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् । उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम् ॥ ७.१०६ ॥ शरावसंपुटे धृत्वा पुटेद्गजपुटेन च । सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ ७.१०७ ॥ <माक्षिक:: मृत:: मेदिच्. प्रोपेर्तिएस्> माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् । कफपित्तहरं बल्यं योगवाहि रसायनम् ॥ ७.१०८ ॥ <विमल:: शोधन> जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसेऽथवा । रम्भातोयेन वा पाको घस्रं विमलशुद्धये ॥ ७.१०९ ॥ <कासीस:: शोधन> सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ ७.११० ॥ <कासीस:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् । पित्तापस्मारशमनं रसवद्गुणकारकम् ॥ ७.१११ ॥ <कान्त:: शोधनम्> लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् । अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत् ॥ ७.११२ ॥ तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत्सुधीः । कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ॥ ७.११३ ॥ <मोनेय्चोwरिए:: फ्य्स्. प्रोपेर्तिएस्> पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका । <मोनेय्चोwरिए:: ओप्तिमल्wएइघ्त्> सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा । पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ ७.११४ ॥ <मोनेय्चोwरिए:: शोधन> वराटी काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयात् ॥ ७.११५ ॥ <मोनेय्चोwरिए:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी । कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ७.११६ ॥ <दरद:: शोधनम्> मेषीक्षीरेण दरदमम्लवर्गेण भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ ७.११७ ॥ <दरद:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्> तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् । मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम् ॥ ७.११८ ॥ <शोधन ओf दिff. सुब्स्तन्चेस्> सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा । एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥ ७.११९ ॥ <कासीस:: शोधन> जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि ॥ ७.१२० ॥ <स्रोतोञ्जन:: शोधनम्> स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः । विभावितं च शुद्धं स्याद्रसबन्धकरं परम् ॥ ७.१२१ ॥ <नीलाञ्जन:: शोधन> नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् । दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ ७.१२२ ॥ <एxत्रच्तिओनोf ओइल्fरों सेएद्स्> सुपक्वभानुपत्राणां रसमादाय धारयेत् । समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् । आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः ॥ ७.१२३ ॥ ___________________________________________________________________________ ८ अथातः प्रयोगीयमध्यायं व्याचक्ष्महे ॥ ८.१ ॥ तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम् ॥ ८.२ ॥ साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् । तद्यदि रसानुपीतं भवेत्तदा त्वरितमुल्लाघः ॥ ८.३ ॥ मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा । मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च ॥ ८.४ ॥ वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु । जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः ॥ ८.५ ॥ कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ८.६ ॥ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः ॥ ८.७ ॥ <अन्तर्धूम (?)> अधस्ताप उपर्यापो मध्ये पारदगन्धकौ । यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥ ८.८ ॥ यदि कार्यमयोयन्त्रं तदा तत्सार इष्यते ॥ ८.९ ॥ समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् । जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ॥ ८.१० ॥ चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः । भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ ८.११ ॥ षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायामेवाधिगन्तव्यं तत्र गन्धस्य समग्रजारणाभावात्स्वर्णादिपिष्टिकायामपि रीतिरियम् ॥ ८.१२ ॥ <मेदिचिने:: स्तोरगे> वंशे वा माहिषे शृङ्गे स्थापयेत्साधितं रसम् ॥ ८.१३ ॥ अमृतं च विषं प्रोक्तं शिवेन च रसायनम् । अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ ८.१४ ॥ <गन्धामृत> भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् । रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ॥ ८.१५ ॥ निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः । समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत् ॥ ८.१६ ॥ तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् । पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम् ॥ ८.१७ ॥ <हेमसुन्दररसः> मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् । क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके ॥ ८.१८ ॥ लोहयेन्माषषट्कं तु जरामृत्युविनाशनम् । वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् । अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ ८.१९ ॥ <चन्द्रोदयरसः> पलं मृदु स्वर्णदलं रसेन्द्रात्पलाष्टकं षोडशगन्धकस्य । शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः ॥ ८.२० ॥ तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयं च । पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः ॥ ८.२१ ॥ संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं शोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ ८.२२ ॥ चन्द्रोदयोऽयं कथितोऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती । मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ॥ ८.२३ ॥ शृतं घनीभूतमतीवदुग्धं गुरूणि मांसानि समण्डकानि । माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥ ८.२४ ॥ रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः । मानहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥ ८.२५ ॥ कृत्रिमं स्थावरं चैव जङ्गमं चैव यद्विषम् । न विकाराय भवति साधकेन्द्रस्य वत्सरात् ॥ ८.२६ ॥ यथामृत्युञ्जयोऽभ्यासान्मृत्युं जयति देहिनाम् । तथायं साधकेन्द्रस्य जरामरणनाशनः ॥ ८.२७ ॥ वलीपलितनाशनस्तनुधृतां वयःस्तम्भनः । समस्तगदखण्डनः प्रचुररोगपञ्चाननः । गृहे च रसराडयं भवति यस्य चन्द्रोदयः । स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥ ८.२८ ॥ <मृत्युञ्जयरसः> बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः । त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा विलीढो माषैको दलयति समस्तं गदगणम् ॥ ८.२९ ॥ जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति ॥ ८.३० ॥ <गन्धदाह> पिष्टिः कार्या गन्धकेनेन्दुमौलेरूर्ध्वं चाधो गन्धमादाय तुल्यम् । धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः ॥ ८.३१ ॥ <आनन्दसूतरसः> शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय । दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ८.३२ ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य । वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर्विषं द्विगुणितं मृदितं च खल्वे ॥ ८.३३ ॥ घस्रत्रयं कनकभृङ्गरसेन गाढमावेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्यामापूर्य रुद्धवदनां सिकताख्ययन्त्रे ॥ ८.३४ ॥ तां वासरार्थमुपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् । आनन्दसूतमखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥ ८.३५ ॥ रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् । कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥ ८.३६ ॥ <अर्कानलेश्वररसः> माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् । रसं गन्धाद्द्विभागं च सिकतायन्त्रगं पचेत् ॥ ८.३७ ॥ दिनमेवं च तारं वा जरारोगहरं महत् । <रविचन्द्रेश्वररसः> रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद्विमिश्रयेत् ॥ ८.३८ ॥ ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् । रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये ॥ ८.३९ ॥ <प्राणिकल्पद्रुमगुटी> सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् । गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥ ८.४० ॥ शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् । बद्धं पश्चात्सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु ॥ ८.४१ ॥ वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान् सर्वान्हन्ति सौख्यं करोति । यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्षये तत् ॥ ८.४२ ॥ लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे । वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ॥ ८.४३ ॥ भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर्गोलं पाचयेच्छ्लेष्मनुत्त्यै । कासे श्वासे तं च दद्यात्कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम् ॥ ८.४४ ॥ यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन् गोलं पाचयित्वा कषाये । दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ॥ ८.४५ ॥ उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् । <रसशार्दूलरसः> रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद्दिनम् । प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत् ॥ ८.४६ ॥ ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा । नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ॥ ८.४७ ॥ आटरूषः काकमाची द्रवैरासां विमर्दयेत् । गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् । रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥ ८.४८ ॥ <त्रिनेत्ररसः> रसगन्धकताम्राणि सिन्धुवाररसौदनम् । मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ ८.४९ ॥ रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् । तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥ ८.५० ॥ दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च । रसोऽयं हेमताराभ्यामपि सिध्यति कन्यया ॥ ८.५१ ॥ <अमृतार्णवरसः> सूतभस्म चतुर्भागं लौहभस्म तथाष्टकम् । मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥ ८.५२ ॥ भावयेत्त्रिफलाक्वाथैस्तत्सर्वं भृङ्गजैर्द्रवैः । शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥ ८.५३ ॥ सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः । निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥ ८.५४ ॥ ब्रह्मायुःस्याच्चतुर्मासै रसोऽयममृतार्णवः । तिलकौरण्टपत्राणि गुडेन भक्षयेदनु ॥ ८.५५ ॥ <रत्नेश्वररसः> अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् । मारयेत्सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः ॥ ८.५६ ॥ अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते । हेम्नोऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते ॥ ८.५७ ॥ शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः । शोधयेत्कनकं सम्यगन्यैर्वा कालिकापहैः । वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम् ॥ ८.५८ ॥ <दुर्नामारि> प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् । जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ॥ ८.५९ ॥ सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना । दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि ॥ ८.६० ॥ तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया । अर्शसां नाशनं श्रेष्ठं भैषज्यमिदमीरितम् ॥ ८.६१ ॥ पाण्डिवज्रादिलोहानामादायान्यतमं शुभम् । कृत्वा निर्मलमादौ तु कुनट्या माक्षिकेण च ॥ ८.६२ ॥ पत्तूरमूलकल्केन स्वरसेन दहेत्ततः । वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत् ॥ ८.६३ ॥ ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च । ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत् ॥ ८.६४ ॥ त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् । न सम्यग्गलितं यत्तु तेनैव विधिना पुनः ॥ ८.६५ ॥ ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे । यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥ ८.६६ ॥ मारणान्न मृतं यच्च तत्त्यक्तव्यमलौहवत् । ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने ॥ ८.६७ ॥ लोहखल्वे तथा पिंष्याद्दृषदि श्लक्ष्णचूर्णितम् । कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके ॥ ८.६८ ॥ रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना । पुटानि क्रमशो दद्यात्पृथगेषां विधानतः ॥ ८.६९ ॥ त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् । मानकन्दकभल्लातवह्नीनां सूरणस्य च ॥ ८.७० ॥ हस्तिकर्णपलाशस्य कुलिशस्य तथैव च । पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् ॥ ८.७१ ॥ तन्मानं त्रिफलायाश्च पलेनाधिकमाहरेत् । अष्टभागावशिष्टे तु रसे तस्याः पचेद्बुधः ॥ ८.७२ ॥ अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने । ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ॥ ८.७३ ॥ ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि । मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः ॥ ८.७४ ॥ आरभेत विधानेन कृतकौतुकमङ्गलः । घृतभ्रामरसंयुक्तं लिहेदा रक्तिकं क्रमात् ॥ ८.७५ ॥ वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् । गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम् ॥ ८.७६ ॥ सद्यो वह्णिकरं चैव भस्मकं च नियच्छति । हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ॥ ८.७७ ॥ गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् । परिणामभवं शूलं प्रमेहमपबाहुकम् ॥ ८.७८ ॥ श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः । बलकृद्बृंहणं चैव कान्तिदं स्वरवर्धनम् ॥ ८.७९ ॥ शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् । आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा ॥ ८.८० ॥ सश्रीकपुत्रजननं वलीपलितनाशनम् । दुर्नामारिरयं नाम्ना दृष्टो वारान् सहस्रशः । निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना ॥ ८.८१ ॥ सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् । जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत् ॥ ८.८२ ॥ लावतित्तिरिवर्तीरमयूरशशकादयः । चटकः कलविङ्कश्च वर्तको हरितालकः ॥ ८.८३ ॥ श्येनकश्च बृहल्लावो वनविष्किरकादयः । पारावतमृगादीनां मांसं जाङ्गलजं तथा ॥ ८.८४ ॥ मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः । मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत् ॥ ८.८५ ॥ प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् । प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम् ॥ ८.८६ ॥ वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् । नारिकेलं च खर्जूरं दाडिमं लवलीफलम् ॥ ८.८७ ॥ शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च । जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् । हितान्येतानि वसूनि लोहमेतत्समश्नताम् ॥ ८.८८ ॥ नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च । जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम् ॥ ८.८९ ॥ आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् । हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः ॥ ८.९० ॥ माषकन्दकरीराणि चणकं च कलिङ्गकम् । कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः ॥ ८.९१ ॥ कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा । विदलानि च सर्वाणि ककारादींश्च वर्जयेत् ॥ ८.९२ ॥ शङ्करेण समाख्यातो यक्षराजानुकम्पया । जगतामुपकाराय दुर्नामारिरयं ध्रुवम् ॥ ८.९३ ॥ स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना । पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम् ॥ ८.९४ ॥ ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः । वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः ॥ ८.९५ ॥ <इरोन्:: दोष:: रेमोवल्> मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे । द्रावयति लोहदोषान् वह्णिर्नवनीतपिण्डमिव ॥ ८.९६ ॥ कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य । क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ ८.९७ ॥ जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् । लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः ॥ ८.९८ ॥ <सिद्धसार> पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः । त्रिवृताभागौ निम्बूभाव्यं स्यात्सिद्धिसाराख्यम् ॥ ८.९९ ॥ आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये । भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत् ॥ ८.१०० ॥ रक्तिद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा ॥ ८.१०१ ॥ काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे । अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ ८.१०२ ॥ नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रमतिगहनम् । तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः ॥ ८.१०३ ॥ मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् । सुबहुप्रयोगदोषादूर्ध्वं च पलत्रयोदशकात् ॥ ८.१०४ ॥ तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते । लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका ॥ ८.१०५ ॥ मारणपुटनस्थालीपाकास्त्रिफलैकभागसंपाद्याः । त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम् ॥ ८.१०६ ॥ सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् । प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥ ८.१०७ ॥ सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च । त्र्याद्यैकादशकान्तैरधिकं तद्वारि कर्तव्यम् ॥ ८.१०८ ॥ तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः । तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥ ८.१०९ ॥ पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् । प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम् ॥ ८.११० ॥ तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः । अयसः पाकार्थत्वात्स च सर्वस्मात्प्रधानतमः ॥ ८.१११ ॥ पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते । दुग्धशरावद्वितयं पादैरेकादिकैरधिकम् ॥ ८.११२ ॥ पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् । चतुरादिकमेकान्तं शक्तावधिकं त्रयोदशकात् ॥ ८.११३ ॥ <इरोन्:: प्रक्षेपचूर्ण> त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि । जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् । सितकृष्णजीरकयोरपि चूर्णान्ययसा समानि स्युः ॥ ८.११४ ॥ त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः । कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य । क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥ ८.११५ ॥ कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ॥ ८.११६ ॥ द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥ ८.११७ ॥ यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् । अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥ ८.११८ ॥ एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन । सर्वत्रैव विधेयस्तत्तत्कथितस्यौषधस्योहः ॥ ८.११९ ॥ <लौहमारणम्> कान्तादिलौहमारणविधानसर्वस्वमुच्यते तावत् । यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे ॥ ८.१२० ॥ समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य । वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र ॥ ८.१२१ ॥ धर्मात्सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि । शक्त्यनुरूपं दद्याद्द्विजाय संतोषिणे गुणिने ॥ ८.१२२ ॥ संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः । आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात् ॥ ८.१२३ ॥ तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः । करिकर्णच्छदमूलशतावरीकेशराजाख्यैः ॥ ८.१२४ ॥ शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश्च । लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण ॥ ८.१२५ ॥ चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य । कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन ॥ ८.१२६ ॥ वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया । मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया ॥ ८.१२७ ॥ <द्रुग्स्:: लोसे पोतेन्च्य्ब्यिम्पुरितिएस्> द्रव्यान्तरसंयोगात्स्वां शक्तिं भेषजानि मुञ्चन्ति । मलधूलिमत्सर्वं सर्वत्र विवर्जयेत्तस्मात् ॥ ८.१२८ ॥ <मेतल्स्:: मेथोद्fओर्मेल्तिन्ग्> सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय । गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः ॥ ८.१२९ ॥ <निर्वापण:: मेथोद्> तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य । निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च ॥ ८.१३० ॥ <इरोन्।मेतल्स्:: परीक्षा:: उन्मेल्तब्ले> यल्लौहं न मृतं तत्पुनरपि पक्तव्यमुक्तमार्गेण । यन्न मृतं तथापि तत्त्यक्तव्यमलौहमेव हि यत् ॥ ८.१३१ ॥ <जारणा (?):: => क्षालन> तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य । दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारमुद्धृत्य ॥ ८.१३२ ॥ तदयः केवलमग्नौ शुष्कीकृत्याथवातपे पश्चात् । लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ ॥ ८.१३३ ॥ <स्थालीपाक> अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा । प्रथमं स्थालीपाकं दद्यादा तत्क्षयात्तदनु ॥ ८.१३४ ॥ गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः । प्राग्वत्स्थालीपाकं कुर्यात्प्रत्येकमेकं वा ॥ ८.१३५ ॥ <पुटपाक> हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् । कृत्वा कटाहसदृशं तत्र करीषं तुषं च काष्ठं च ॥ ८.१३६ ॥ अन्तर्घनतरमर्धं सुषिरं परिपूर्य दहनमायोज्य । पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात् ॥ ८.१३७ ॥ त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः । भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः ॥ ८.१३८ ॥ क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् । तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रमालिप्य ॥ ८.१३९ ॥ तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः । काष्ठकरीषतुषैस्तत्संछाद्याहर्निशं दहेत्प्राज्ञः ॥ ८.१४० ॥ एवं नवभिरमीभिर्मेषजराजैः पचेत्तु पुटपाकम् । प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान् वारान् ॥ ८.१४१ ॥ <पुटपाक:: ग्रिन्दिन्गfतेरेअछ्ँ> प्रति पुटनं तत्पिंष्यात्स्थालीपाकं विधाय तथैव तत् । तादृशि दृषदि न पिंष्याद्विगलद्रजसा तु युज्यते यत्र ॥ ८.१४२ ॥ तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् । यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम् ॥ ८.१४३ ॥ पुटने स्थालीपाकेऽधिकृतपुरुषे स्वभावरुगधिगमात् । कथितमपि हेयमौषधमुचितमुपादेयमन्यदपि ॥ ८.१४४ ॥ अभ्यस्तकर्मविधिभिर्वालकुशाग्रीयबुद्धिभिरलक्ष्यम् । लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः ॥ ८.१४५ ॥ <लौहपाक (हेअतिन्ग् ।मेल्तिन्गिरोन्)> लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् । तदयः पचेदचपलः काष्ठेन्धनेन वह्णिना मृदुना ॥ ८.१४६ ॥ निक्षिप्य त्रिफलाजलमुदितं यत्तद्घृतं च दुग्धं च । संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य ॥ ८.१४७ ॥ <पाक (मेल्तिन्ग्, हेअतिन्ग्):: थ्रेए ग्रदेस्> मृदुमध्यखरभावैः पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम् । पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः ॥ ८.१४८ ॥ <पाक:: देतेच्तिन्ग्थे इन्तेन्सित्य्> अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् । उज्झितदर्विखरं परिभाषन्ते केचिदाचार्याः ॥ ८.१४९ ॥ अन्ये विहीनदर्वीप्रलेपमाखूत्कराकृतिं ब्रुवते । मृदु मध्यमर्धचूर्णं सिकतापुञ्जोपमं तु खरम् ॥ ८.१५० ॥ त्रिविधोऽपि पाक ईदृक्सर्वेषां गुणकृदेव न तु विफलः । प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥ ८.१५१ ॥ <प्रक्षेप> विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान् कियतः । विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ ८.१५२ ॥ यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे । चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥ ८.१५३ ॥ <इरोन्:: मोल्तेन्:: स्तोरगे> पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे । गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ॥ ८.१५४ ॥ यदि तु परिप्लुतिहेतोर्घृतमीक्षेताधिकं ततोऽन्यस्मिन् । भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान् ॥ ८.१५५ ॥ <इरोन्:: स्नेहन> अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः । एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत् ॥ ८.१५६ ॥ <इरोन्:: सेवन> अत्यन्तकफप्रकृतेर्भक्षणमयसोऽमुनैव शंसन्ति । केवलमपीदमशितं जनत्ययसो गुणान् कियतः ॥ ८.१५७ ॥ अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णमादाय । लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम् ॥ ८.१५८ ॥ प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् । तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम् ॥ ८.१५९ ॥ इदमाप्यायकमिदमतिपित्तनुदिदमेव कान्तिबलजननम् । स्तभ्नाति तृट्क्षुधौ परमधिकाधिकमात्रया क्षिप्तम् ॥ ८.१६० ॥ <अभ्र:: शोधन:: निश्चन्द्रिक> कृष्णाभ्रं भेकवपुर्वज्राख्यं चैकपत्रकं कृत्वा । काष्ठमयोदूखलके चूर्णं मुशलेन कुर्वीत ॥ ८.१६१ ॥ भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् । मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत्त्रिदिनम् ॥ ८.१६२ ॥ उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य । अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन ॥ ८.१६३ ॥ मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् । स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥ ८.१६४ ॥ अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ । तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम् ॥ ८.१६५ ॥ निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु । पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात् ॥ ८.१६६ ॥ <सिद्धलौहसेवन> नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य । सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम् ॥ ८.१६७ ॥ दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः । इदमधिकं तदधिकतरमियदेव न मातृमोदकवत् ॥ ८.१६८ ॥ सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः । दत्त्वा मध्वनुरूपं तदनु घृतं योजयेदधिकम् ॥ ८.१६९ ॥ बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् । इदमिह दृष्टोपकरणमेतददृष्टं तु मन्त्रेण ॥ ८.१७० ॥ स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा । सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण ॥ ८.१७१ ॥ ओममृतोद्भवाय स्वाहा ओममृते हूं फट् । ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा । ओममृते हूम् । जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् । कान्तक्रामकममलं संचर्व्य रसं पिबेद्गिलेन्न तु तत् ॥ ८.१७२ ॥ आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम् ॥ ८.१७३ ॥ नात्युपविष्टो नाप्यतिभाषी नातिस्थितस्तिष्ठेत् ॥ ८.१७४ ॥ अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् । जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च ॥ ८.१७५ ॥ वातकृतः पित्तकृतः सर्वान् कट्वम्लतिक्तकषायान् । तत्क्षणविनाशहेतून्मैथुनकोपश्रमान् दूरे ॥ ८.१७६ ॥ अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् । आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम् ॥ ८.१७७ ॥ प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धमक्लिन्नम् । घृतसंप्लुतमश्नीयान्मांसैर्वैहङ्गमैः प्रायः ॥ ८.१७८ ॥ उत्तममूषरभूचरविष्किरमांसं तथाजमैणादि । अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः ॥ ८.१७९ ॥ मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः । मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः ॥ ८.१८० ॥ शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि । अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः ॥ ८.१८१ ॥ केबुकतालकरीरान् वार्ताकुपटोलफलदलसमेतान् । मुद्गमसूरेक्षुरसान् शंसन्ति निरामिषेष्वेतान् ॥ ८.१८२ ॥ शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् । विहितनिषिद्धादन्यन्मध्यमकोटिस्थितं विद्यात् ॥ ८.१८३ ॥ तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य । अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य ॥ ८.१८४ ॥ यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् । कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम् ॥ ८.१८५ ॥ त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत्क्रमशः । यावत्तदष्टमाषं न वर्धयेत्पुनरितोऽप्यधिकम् ॥ ८.१८६ ॥ आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् । रक्तीपञ्चकपञ्चकमत ऊर्ध्वं वर्धयेन्नियतम् ॥ ८.१८७ ॥ वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् । तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः ॥ ८.१८८ ॥ तेष्वष्टमाषकेषु प्रातर्माषत्रयं समश्नीयात् । सायं च तावदह्णो मध्ये माषद्वयं शेषम् ॥ ८.१८९ ॥ एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् । सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना ॥ ८.१९० ॥ आर्याभिरिह नवत्या सप्तविधिभिर्यथावदाख्यातम् । अमतिविपर्ययसंशयशून्यमनुष्ठानमुन्नीतम् ॥ ८.१९१ ॥ मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य । निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा ॥ ८.१९२ ॥ <ताम्रयोग> कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान् विंशतिं प्रक्षिपेत्तत् । शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा ॥ ८.१९३ ॥ भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत्पञ्चरात्रम् । शीतं जातं भावयेदुक्ततोयैर्यद्वा नीरैस्त्रैफलैरेकघस्रम् ॥ ८.१९४ ॥ मध्वाज्याभ्यां पेषयित्वा पुटेत्तच्छुद्धं सिद्धं जायते देहसिद्ध्यै । गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद्वत्सरार्धम् ॥ ८.१९५ ॥ दुग्धं खण्डं वानुपानं विदध्यात्साज्यं भोज्यं गौड्यमम्लेन युक्तम् । वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति ॥ ८.१९६ ॥ <ताम्रयोग (२)> रसतस्ताम्रं द्विगुणं ताम्रात्कृष्णाभ्रकं तथा द्विगुणम् । पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा ॥ ८.१९७ ॥ पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः । आक्ते ध्मापितताम्रे निर्गुण्डीकल्ककाञ्जिके मग्ने ॥ ८.१९८ ॥ यद्भवति गैरिकाभं तत्पिष्टमर्धगन्धकं तदनु । पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः ॥ ८.१९९ ॥ हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते । तीक्ष्णं दग्धं पिष्टमम्लाम्भसा साधु चन्द्रिकाविरहितम् ॥ ८.२०० ॥ रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या । उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥ ८.२०१ ॥ एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् । पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषकं भक्ष्यम् ॥ ८.२०२ ॥ शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु । रसायनं महदेतत्परिहारो नियमतो नात्र ॥ ८.२०३ ॥ <लक्ष्मीविलासरसः> पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ । कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा ॥ ८.२०४ ॥ वृद्धदारकबीजं च बीजमुन्मत्तकस्य च । त्रैलोक्यविजयाबीजं विदारीकन्दमेव च ॥ ८.२०५ ॥ नारायणी तथा नागबला चातिबला तथा । बीजं गोक्षुरकस्यापि हैज्जलं बीजमेव च ॥ ८.२०६ ॥ एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः । निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥ ८.२०७ ॥ निहन्ति सन्निपातोत्थान् गदान् घोरान् सुदारुणान् । वातोत्थान् पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित् ॥ ८.२०८ ॥ कुष्ठमष्टादशविधं प्रमेहान् विंशतिं तथा । नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥ ८.२०९ ॥ श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् । गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम् ॥ ८.२१० ॥ कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च । आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥ ८.२११ ॥ उदरं कर्णनासाक्षिमुखवैजात्यमेव च । सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् ॥ ८.२१२ ॥ वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् । अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि ॥ ८.२१३ ॥ वारितक्रसुरासीधुसेवनात्कामरूपधृक् । वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः ॥ ८.२१४ ॥ न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् । नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः ॥ ८.२१५ ॥ द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः । प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥ ८.२१६ ॥ रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ । अभ्यासाद्यस्य भगवान् लक्षनारीषु वल्लभः ॥ ८.२१७ ॥ <शिलाजतु:: ओरिगिन्> हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः । जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ ८.२१८ ॥ <शिलाजतु:: मेदिच्. प्रोपेर्तिएस्> अनम्लं चाकषायं च कटुपाकि शिलाजतु । नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः । हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि ॥ ८.२१९ ॥ <शिलाजतु:: fरों गोल्द्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्> मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः । कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥ ८.२२० ॥ <शिलाजतु:: fरों सिल्वेर्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्> रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते । <शिलाजतु:: fरों चोप्पेर्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्> ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटुः ॥ ८.२२१ ॥ <शिलाजतु:: fरोमिरोन्:: मेदिच्.।फ्य्स्. प्रोपेर्तिएस्> यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः । कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ ८.२२२ ॥ गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः । रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥ ८.२२३ ॥ यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु । विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ॥ ८.२२४ ॥ <शिलाजतु:: परीक्षा> लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि । तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ॥ ८.२२५ ॥ <शिलाजतु:: शोधन> मलिनं यद्भवेत्तच्च क्षालयेत्केवलाम्भसा । लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत् ॥ ८.२२६ ॥ वातपित्तकफघ्नैस्तु निर्यूहैस्तत्सुभावितम् । वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥ ८.२२७ ॥ प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे । कोष्णे सप्ताहमेतेन विधिना तस्य भावनां ॥ ८.२२८ ॥ <शिलाजतु:: सोअकिन्ग्> तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् । ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् । तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ॥ ८.२२९ ॥ <शिलाजतु:: मेदिच्. प्रोपेर्तिएस्> पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह । तत्पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥ ८.२३० ॥ जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् । मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ ८.२३१ ॥ प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः । निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥ ८.२३२ ॥ <शिलाजतु:: मेअसुरे fओर्मेदिच्. उसे> मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी ॥ ८.२३३ ॥ <शिलाजतु:: रेगुलतिओन्स्।दिएत्> शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च । वर्जयेत्सर्वकालं च कुलत्थान् परिवर्जयेत् ॥ ८.२३४ ॥ पयांसि शुक्तानि रसाः सयूषास्तोयं समूत्रं विविधाः कषायाः । आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ ८.२३५ ॥ <कामेश्वरमोदक> सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् । रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम् ॥ ८.२३६ ॥ भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् । शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत् ॥ ८.२३७ ॥ कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् । वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ ८.२३८ ॥ कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् । नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधानेऽप्यलम् ॥ ८.२३९ ॥ अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः । वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम् ॥ ८.२४० ॥ <चूर्णरत्न> वृष्यगणचूर्णतुल्यं तत्पुटपक्वं घनं सिता द्विगुणम् । वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ ८.२४१ ॥ <शृङ्गाराभ्ररसः> शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् । कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम् ॥ ८.२४२ ॥ मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यं । पथ्या धात्री विभीतं त्रिकटुरथ पृथक्त्वर्द्धशाणं द्विशाणम् ॥ ८.२४३ ॥ एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् । पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश्चतस्रस्तदनु च हि कियच्छृङ्गवेरं सपर्णम् ॥ ८.२४४ ॥ पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान् विकारान् कोष्ठे दुष्टाग्निजातान् ज्वरमुदररुजो राजयक्ष्मं क्षयं च । कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान् छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥ ८.२४५ ॥ पाण्डुत्वं रक्तपित्तं गरलभवगदान् पीनसं प्लीहरोगं हन्यादामानिलोत्थान् कफपवनकृतान् पित्तरोगानशेषान् । बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर्घृतपरिलुलितैर्गव्यदुग्धैश्च भूयः ॥ ८.२४६ ॥ भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः । वर्ज्यं शाकाम्लमादौ दिनकतिपयचित्स्वेच्छया भोज्यमन्यद्दीर्घायुः काममूर्तिर्गतवलिपलितो मानवोऽस्य प्रसादात् ॥ ८.२४७ ॥ <जयावटी> विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् । विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् । चणकाभा वटी कार्या स्याज्जया योगवाहिका ॥ ८.२४८ ॥ <त्रिनेत्ररसः> आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् । त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः ॥ ८.२४९ ॥ उष्णश्चेत्तुल्यगन्धेन कुर्यात्संमर्द्य पर्पटीम् । देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः ॥ ८.२५० ॥ <सिद्धयोगेश्वररसः> शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् । तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम् ॥ ८.२५१ ॥ मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः । यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे ॥ ८.२५२ ॥ आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् । त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत् ॥ ८.२५३ ॥ कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा । नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी ॥ ८.२५४ ॥ अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः । एतेषां भावयेद्द्रावैः सप्तवारान् पृथक्पृथक् ॥ ८.२५५ ॥ त्र्यूषणत्रिफलासोमराजीनां च कषायकैः । शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम् ॥ ८.२५६ ॥ वराव्योषाग्निविश्वैला जातीफललवङ्गकम् । संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा ॥ ८.२५७ ॥ रात्रौ पिबेद्गवां क्षीरं कृष्णानां च विशेषतः । संवत्सराज्जरामृत्युरोगजालं निवारयेत् ॥ ८.२५८ ॥ वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् । तावन्न च्यवते वीर्यं यावदम्लं न सेवते ॥ ८.२५९ ॥ दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा । सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः ॥ ८.२६० ॥ <पलितघ्नचूर्णम्> त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा । च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका ॥ ८.२६१ ॥ एतदष्टकमादाय पृथक्पञ्चपलोन्मितम् । मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम् ॥ ८.२६२ ॥ महाकालजबीजानां भागत्रयमथाहरेत् । भागं कृष्णतिलस्यैकं मिश्रयित्वा निपीडयेत् ॥ ८.२६३ ॥ तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् । स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत् ॥ ८.२६४ ॥ लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् । मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम् ॥ ८.२६५ ॥ तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि । एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् । वर्षैकेन जरां हत्वा मृत्युं जयति मानवः ॥ ८.२६६ ॥ <कामिनीमदनिधूननरसः> कज्जलीकृतसुगन्धकशम्भोस्तुल्यभागकनकस्य बीजम् । मर्दयेत्कनकतैलयुतं स्यात्कामिनीमदविधूनन एषः ॥ ८.२६७ ॥ अस्य वल्लयुगलं ससितं चेत्सेवितं हरति मेहगणौघम् । वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम् ॥ ८.२६८ ॥ <चतुर्मुखरसः> रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च । सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥ ८.२६९ ॥ त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् । एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ॥ ८.२७० ॥ संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् । एतद्रसायनवरं सर्वरोगेषु योजयेत् ॥ ८.२७१ ॥ तद्यथाग्निबलं खादेद्वलीपलितनाशनम् । पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम् ॥ ८.२७२ ॥ क्षयमेकादशविधं कासं पञ्चविधं तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ ८.२७३ ॥ शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् । व्रणान् सर्वानामवातं विसर्पं विद्रधिं तथा ॥ ८.२७४ ॥ अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् । क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ ८.२७५ ॥ <गन्धलौह> गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन । शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः ॥ ८.२७६ ॥ <सिद्धलक्ष्मीश्वररसः> अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशोऽधिकं च । ऊर्ध्वं पयोऽग्निमधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम् ॥ ८.२७७ ॥ <वह्निसिद्धरसः> लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस्तस्मिन् सूतकोऽन्यश्च गन्धः । कन्याम्भोभिर्मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः ॥ ८.२७८ ॥