१ शिवं नत्वा रसेशं चामुण्डः कायस्थवंशभूः । करोति रससंकेतकलिकामिष्टसिद्धिदाम् ॥ १.१ ॥ <मेर्चुर्य्:: म्य्थ्. ओरिगिन्> स्कन्दात्तारकहिंसार्थं कैलासे विधृतं सुरैः । रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे ॥ १.२ ॥ क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ तत्पृथक्पृथक् । सौम्यादिदिक्त्रयस्थं यद्गौरीशापान्न कार्यकृत् ॥ १.३ ॥ पश्चिमायां विमुक्तं तत्सूतोऽभूत्सर्वकार्यकृत् । <मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्, चस्ते> श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः ॥ १.४ ॥ देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु । <रसदोषाः> तेषु नैसर्गिका दोषाः पञ्च सप्ताथ कञ्चुकाः ॥ १.५ ॥ मलाद्याः पञ्च दोषाः स्युर्भूजाद्याः सप्त कञ्चुकाः । कुष्ठादीन् हि प्रकुर्वन्ति रसस्था द्वादशैव ते ॥ १.६ ॥ <१८ संस्कारस्> तेनाष्टादशसंस्कारा उक्ता ज्ञैर्दोषमुक्तये । कर्तुं ते दुष्करा यस्मात्प्रोच्यन्ते सुकरा रसे ॥ १.७ ॥ <मेर्चुर्य्:: चोर्रेच्त्wएइघ्त्> पलादारभ्य पञ्चाशत्पलं यावच्च पारदः । तत ऊनोऽधिको वापि न संस्कार्यो रसो बुधैः ॥ १.८ ॥ <संस्कार:: मर्दन> वस्त्रे चतुर्गुणे पूतः सूतः स्थाप्यः शुभेऽहनि । लोहार्काश्मजखल्वे तु तप्ते चैव विमर्दयेत् ॥ १.९ ॥ निशेष्टकासुरीधूमव्योषाम्ललवणैः पृथक् । कालांशैर्मर्दितः सूतो भवेच्छुद्धो दिनैकतः ॥ १.१० ॥ <संस्कार:: स्वेदन> ततः क्षाराम्लमूत्राद्यैः स्वेद्यो वस्त्रावृतो दिनम् । <संस्कार:: मूर्छन> मूर्छयेत्सप्तधा पश्चात्कन्याग्न्यर्कवराम्बुभिः ॥ १.११ ॥ <संस्कार:: पातन> त्रिधोर्ध्वपातनात्पात्यः पादांशार्कयुतः शुचिः । <मेर्चुर्य्:: हिङ्गुलाकृष्ट:: नत्. पुरेनेस्स्> हिङ्गुलादुद्धृतः सूतो भवेद्वा दोषवर्जितः ॥ १.१२ ॥ <इम्पोर्तन्चे ओf जारण> गुरुशास्त्रं परित्यज्य विना जारितगन्धकात् । रसं निर्माति दुर्मेधाः शपेत्तं च रसेश्वरः ॥ १.१३ ॥ <संस्कार:: जारण> सूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् । कुट्टनात्कुट्टनात्पिष्टं भवेद्वा ताम्रपात्रगम् ॥ १.१४ ॥ तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तं लोहसम्पुटे । पुटेद्भूधरयन्त्रे च यावज्जीर्यति गन्धकम् ॥ १.१५ ॥ एवं पुनः पुनर्देयं षड्गुणं गन्धचूर्णकम् । षड्गुणे गन्धके जीर्णे रसो निखिलरोगहा ॥ १.१६ ॥ <बन्ध:: सुब्त्य्पेस्> पाटः खोटो जलौका च भस्माख्यश्च चतुर्थकः । बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः ॥ १.१७ ॥ पाटः पर्पटिकाबन्धः पिष्टिबन्धस्तु खोटकः । जलौका पक्वबन्धः स्याद्भस्म भस्मनिभो भवेत् ॥ १.१८ ॥ <मेर्चुर्य्:: भस्मन्:: सुब्त्य्पेस्> सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च । <ऊर्ध्वभस्मन्:: प्रोदुच्तिओन्> ऊर्ध्वभस्मकरं यन्त्रं स्थालिकासम्पुटं शृणु ॥ १.१९ ॥ कार्यं स्थालीद्वयं मध्ये सर्वतः षोडशाङ्गुलम् । लवणेनेषदार्द्रेणापूर्य स्थालीमधोगताम् ॥ १.२० ॥ संधिं वस्त्रमृदा लिम्पेत्संपुटीकृत्य चान्यया । त्रिद्वारचुल्ल्यां संस्थाप्य चतुर्यामं दृढाग्निना ॥ १.२१ ॥ पचेत्तत्स्वाङ्गशीतं वै ह्युद्धृत्य लवणं त्यजेत् । लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वरः ॥ १.२२ ॥ पूर्ववत्संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् । दृढं कृत्वालवालं तु जलं तत्र विनिक्षिपेत् ॥ १.२३ ॥ उष्णं पुनः पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहुः । त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत् ॥ १.२४ ॥ हस्तवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधीः । द्वे द्वे काष्ठे च तस्योर्ध्वं तदूर्ध्वं त्रितयं क्षिपेत् ॥ १.२५ ॥ यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् । ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वं भस्म सिद्धिदम् ॥ १.२६ ॥ <मेर्चुर्य्:: तलभस्मन्:: प्रोदुच्तिओन्> गन्धकं धूमसारं च शुद्धसूतं समं त्रयम् । यामैकं मर्दयेत्खल्वे काचकूप्यां विनिक्षिपेत् ॥ १.२७ ॥ रुद्ध्वा द्वादशयामं तद्वालुकायन्त्रगं पचेत् । स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत् ॥ १.२८ ॥ <तलभस्मन्:: मेदिच्. प्रोपेर्तिएस्> तलभस्म भवेद्योगवाहि स्यात्सर्वरोगहृत् । औषधान्तरसंयोगाद्वक्ष्ये वर्णविपर्ययम् ॥ १.२९ ॥ रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् । <रक्तभस्मन्> निर्गुण्डीरससंयुक्तं चपलेन समन्वितम् ॥ १.३० ॥ रक्तवर्णं भवेद्भस्म दाडिमीकुसुमोपमम् । <पीतभस्मन्> भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत् ॥ १.३१ ॥ काचकूप्यां चतुर्यामं पक्वः पीतो भवेद्रसः । <कृष्णभस्मन्> सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम् ॥ १.३२ ॥ कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् । <श्याम-।नीलभस्मन्> वाराहीकन्दसंयुक्तं रसकेन समन्वितम् ॥ १.३३ ॥ श्यामवर्णं भवेद्भस्म वलीपलितनाशनम् । <पाण्डुरारुणभस्मन्> लवणान्तर्विलिप्तायां कूप्यां स्यात्पाण्डुरारुणम् ॥ १.३४ ॥ <मेर्चुर्य्:: मारण> लवणाद्विंशतिर्भागाः सूतश्चाथैकभागिकः । काञ्जिके मर्दयित्वाग्नौ पुटनाद्भस्मतां व्रजेत् ॥ १.३५ ॥ उद्धृत्यान्यं रसं क्षिप्त्वा यथेच्छं मारयेद्रसम् । एवं ताम्राहिवङ्गाभ्रं मारितं स्याद्गुणप्रदम् ॥ १.३६ ॥ तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनैः । त्यक्त्वा तोयं रसो ग्राह्यः पात्रस्थो भस्मसूतकः ॥ १.३७ ॥ <मेर्चुर्य्:: मारण> मूषाद्वयमपामार्गबीजचूर्णैः प्रकल्पयेत् । पारदं तत्पुटे कृत्वा मलयूरसमर्दितम् ॥ १.३८ ॥ द्रोणपुष्प्याः प्रसूनानि विडङ्गमरिमेदकः । चूर्णमेषामधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत् ॥ १.३९ ॥ विधाय गोलकं सम्यङ्मृन्मूषासम्पुटे क्षिपेत् । शोषयेन्मुद्रितं कृत्वा पचेद्गजपुटे ततः ॥ १.४० ॥ पारदो भस्मतामित्थं पुटेनैकेन गच्छति । स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत् ॥ १.४१ ॥ प्रोत्तानखर्परे चुल्ल्यां स्फटिकालेपिते क्षिपेत् । पुनर्नवारसे पक्वो मर्दनान्म्रियते रसः ॥ १.४२ ॥ <मेर्चुर्य्:: मृत:: परीक्षा> अतेजा अगुरुः शुभ्रो लोहहा चाचलो रसः । यदा नावर्तते वह्नौ नोर्ध्वं गच्छेत्तदा मृतः ॥ १.४३ ॥ <मेर्चुर्य्:: मृत:: मेदिच्. प्रोपेर्तिएस्> पारदः सर्वरोगघ्नो योगवाही सरो गुरुः । पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायनः ॥ १.४४ ॥ सूतो धातुरसाः सर्वे जीर्णा जीर्णा गुणाधिकाः । <मेर्चुर्य्:: मृत:: स्तोरगे> दन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम् ॥ १.४५ ॥ पित्तानि षोडशांशेन विषाणामपि रक्तिका । गुटीरसेष्वनुक्तोऽपि ज्ञेयो विधिरयं स्वयम् ॥ १.४६ ॥ <मेर्चुर्य्:: सेवन> सर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे । शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात् ॥ १.४७ ॥ वल्लमेकं नरेऽश्वे तु गद्याणं च गजे द्वयम् । दत्तः सूतो हरेद्रोगान् धातुयुग्वा निजौषधैः ॥ १.४८ ॥ रसस्य विकृतौ सत्यां मूर्छा हिक्का ज्वरोऽरतिः । कासः श्वासो भ्रमो मोहो दाहः कम्पश्च जायते ॥ १.४९ ॥ तच्छान्त्यै बीजपूरस्य रसं शुण्ठीं च सैन्धवम् । पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम् ॥ १.५० ॥ यत्रागारे रसाधीशः पूज्यते बहुभक्तितः । तदपत्यधनैः पूर्णमाधिव्याधिविवर्जितम् ॥ १.५१ ॥ २ <षड्लोह> हेमरूप्यार्कवङ्गाहिलोहैर्लोहाः षडीरिताः । <मेतल्स्:: fअच्तितिओउस्> अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमाः ॥ २.१ ॥ <मेतल्स्:: शुद्ध, मृत:: मेदिच्. प्रोपेर्तिएस्> शुद्धा मृता निरुत्थाश्च सर्वरोगहराः स्मृताः । <मेतल्स्:: इम्पुरे:: मेदिच्. प्रोपेर्तिएस्> अशुद्धान् हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥ २.२ ॥ <मेतल्स्:: मारण:: wइथ्मेर्चुर्य्> लोहं सूतयुतं दोषांस्त्यजेत्सूतश्च लोहयुक् । अतः स्वर्णादिलोहानि विना सूतं न मारयेत् ॥ २.३ ॥ <गोल्द्:: सुब्त्य्पेस्> स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे । एतत्स्वर्णत्रयं देवभोज्यं षोडशवर्णकम् ॥ २.४ ॥ खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् । तच्चतुर्दशवर्णाढ्यं मनुजार्हं रुजापहम् ॥ २.५ ॥ <गोल्द्:: शोधन> सुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचिः । <गोल्द्:: मारण> सुवर्णे गलिते नागं प्रक्षिपेत्षोडशांशकम् ॥ २.६ ॥ अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् । गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम् ॥ २.७ ॥ शरावसंपुटे कृत्वा संनिरुध्य प्रतापयेत् । त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत् ॥ २.८ ॥ <गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्> तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् । वयोधीःकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥ २.९ ॥ <सिल्वेर्:: सुब्त्य्पेस्> कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि । व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णं रसे हितम् ॥ २.१० ॥ <सिल्वेर्:: शोधन> श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् । <सिल्वेर्:: मारण> गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत्त्रपु ॥ २.११ ॥ वयःशुक्रबलोत्साहकरं सर्वामयापहम् । <गोल्द्, सिल्वेर्:: परीक्षा:: मृत> एतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृतिः ॥ २.१२ ॥ सुवर्णमथवा रूप्यं योगे यत्र न विद्यते । तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणैः ॥ २.१३ ॥ <चोप्पेर्:: सुब्त्य्पेस्> द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तमः । <नेपाल:: फ्य्स्. प्रोपेर्तिएस्> घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ २.१४ ॥ <म्लेच्छ:: फ्य्स्. प्रोपेर्तिएस्> म्लेच्छस्तु क्षालितः कृष्णो रूक्षः स्तब्धो घनासहः । मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥ २.१५ ॥ <चोप्पेर्:: दोषस्> ताम्रं तु विषवज्ज्ञेयं यत्नतः साध्यते हि तत् । एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिताः ॥ २.१६ ॥ कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला । देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधैः ॥ २.१७ ॥ <चोप्पेर्:: शोधन> गवां मूत्रैः पचेच्चाहस्ताम्रपत्रं दृढाग्निना । वारिणा क्षालयेत्पश्चादेकविंशतिधा शुचिः ॥ २.१८ ॥ <चोप्पेर्:: मारण> पारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् । जायते त्रिपुटाद्भस्म वालुकायन्त्रतोऽथवा ॥ २.१९ ॥ <चोप्पेर्:: मारण> गन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् । स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥ २.२० ॥ सामुद्रं तत्समं कृत्वा पुनः पुटनमाचरेत् । तदेव तत्क्षये देयं सामुद्रं च पुनः पुनः ॥ २.२१ ॥ कासीसस्य जलेनैव वारं वारं तु भावयेत् । चतुःषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥ २.२२ ॥ तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा । अष्टौ दोषांश्च पूर्वोक्तान्न करोति गुणावहम् ॥ २.२३ ॥ हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् । स्थौल्योदरे कफं शूलमूर्ध्वाधःशोधनं परम् ॥ २.२४ ॥ <तिन्:: सुब्त्य्पेस्> खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । खुरकं तु गुणैः श्रेष्ठं मिश्रकं न रसे हितम् ॥ २.२५ ॥ <तिन्:: शोधन> कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा । अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा ॥ २.२६ ॥ <तिन्:: मारण> मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रजः । क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत् ॥ २.२७ ॥ यावद्भस्मत्वमायाति ततः खल्वे सतालकम् । ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत् ॥ २.२८ ॥ पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् । वङ्गभस्म निरुत्थं तत्पाण्डुमेहगदापहम् ॥ २.२९ ॥ <तिन्:: मारण> करीषसंपुटे वङ्गपत्रं छागशकृद्युतम् । म्रियते पुटमात्रेण तन्मेहान् हन्ति विंशतिम् ॥ २.३० ॥ <लेअद्:: मारण> वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् । क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद्गजपुटं ततः ॥ २.३१ ॥ षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि । नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥ २.३२ ॥ <लेअद्, तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्> मृतं वङ्गं च नागं च रसभस्म समं गुणैः । परस्परमलाभे च योजयेत्तत्परस्परम् ॥ २.३३ ॥ <इरोन्:: सुब्त्य्पेस्> मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशाः । <मुण्ड:: सुब्त्य्पेस्> मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥ २.३४ ॥ <तीक्ष्णलोह:: सुब्त्य्पेस्> खरसारं च होत्रासं तारावर्तं विडं तथा । कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ २.३५ ॥ <कान्त:: परीक्षा> पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः । पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत् ॥ २.३६ ॥ <कान्त:: सुब्त्य्पेस्> कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा । चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः ॥ २.३७ ॥ <इरोन्:: शोधन> मुण्डादिसर्वलोहानि ताम्रवच्छोधयेत्सुधीः । <इरोन्:: पाक> लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा । पङ्कशुष्करसौ पूर्वौ वालुकासदृशः खरः ॥ २.३८ ॥ <इरोन्:: मारण> लोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुनः पुनः । क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥ २.३९ ॥ रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद्दृढम् । निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृतिः ॥ २.४० ॥ <इरोन्:: मारण:: वारितर> लोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुनः पुनः । षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत् ॥ २.४१ ॥ चतुःषष्टिपुटैरेव जायते पद्मरागवत् । निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥ २.४२ ॥ <इरोन्:: मारण:: वारितर> जम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा । त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत् ॥ २.४३ ॥ <इरोन्:: मारण> चिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् । घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥ २.४४ ॥ <इरोन्:: मारण:: वारितर> मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् । त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत् ॥ २.४५ ॥ <इरोन्:: मारण:: निरुत्थ, परीक्षा> लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् । तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ २.४६ ॥ <इरोन्:: अमृतीकरण (?)> वराक्वाथेऽवशेषो तु तत्तुल्यं घृतमायसम् । सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत् ॥ २.४७ ॥ <लोह:: मृत:: मेदिच्. प्रोपेर्तिएस्> ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् । हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम् ॥ २.४८ ॥ कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा । मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥ २.४९ ॥ <मण्डूर:: शोधन> गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा । स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम् ॥ २.५० ॥ किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥ २.५१ ॥ <रसक:: मारण> लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् । सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना ॥ २.५२ ॥ <रसक:: मृत:: मेदिच्. प्रोपेर्तिएस्> मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापहः । योगवाह्यतिसारघ्नः क्लेदघ्नो विड्विबन्धकृत् ॥ २.५३ ॥ <ब्रोन्शे, ब्रस्स्:: शोधन, मारण> कांस्यपित्तलयोः प्रोक्ते ताम्रवच्छुद्धिमारणे । सिता गव्ययुता देया धातुभक्षणवैकृतौ ॥ २.५४ ॥ <मेतल्स्:: fअस्त्मारण> अथैकः पारदाद्भागो गन्धको द्विगुणस्ततः । तयोः समं सुवर्णादिनिरुत्थं शीघ्रमारणम् ॥ २.५५ ॥ <धातुस्:: निरुत्थ:: परीक्षा> समध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातवः । ध्माताः पिण्डकृता नैव जीवन्ति ते निरुत्थकाः ॥ २.५६ ॥ <धातु:: मारण:: निरुत्थ> सगन्धश्चोत्थितो धातुर्मर्द्यः कन्यारसे दिनम् । पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम् ॥ २.५७ ॥ <अभ्र:: सुब्त्य्पेस्> पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् । पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत् ॥ २.५८ ॥ <अभ्र:: वज्र> न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् । <अभ्र:: वज्र:: सत्त्वपातन> त्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति ॥ २.५९ ॥ <अभ्र:: वज्र:: सत्त्व:: मारण> तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् । सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥ २.६० ॥ <अभ्र:: मारण:: प्रोदुच्तिओनोf निश्चन्द्रँ> धान्याभ्रं मेघनादैर्झषनयनजलैर्जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान् द्वादशैवं प्रदद्यात् । मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति चाभ्रम् ॥ २.६१ ॥ <अभ्र:: निश्चन्द्र:: मेदिच्. प्रोपेर्तिएस्> मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् । सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥ २.६२ ॥ <अभ्र:: अमृतीकरण> वराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् । मृद्वग्निना पचेल्लोहे चामृतीकरणं भवेत् ॥ २.६३ ॥ <अभ्र:: मृत:: मेदिच्. प्रोपेर्तिएस्> वयःस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी । मृतो मेघकः सर्वरोगेषु योज्यः सदा सूतराजस्य वीर्येण तुल्यः ॥ २.६४ ॥ क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् । वृन्ताकं च करीरं च तैलं चाभ्रकसेवने ॥ २.६५ ॥ ३ <महारस:: शोधन> गन्धं विषादिनेपालं गोदुग्धेऽथ शिलाजतु । गोमूत्रेण च तालाद्यं शङ्खाद्यमम्लतः शुचिः ॥ ३.१ ॥ <विष:: मारण> रसेषूक्तं विषं ग्राह्यं तुल्यं टङ्कणपेषितम् । तन्मृतं योगवाहि स्यात्सूताभ्रायः समं गुणैः ॥ ३.२ ॥ <विष:: मन्त्रस्> नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् । औषधे च रसे चैव दातव्यं हितमिच्छता ॥ ३.३ ॥ <विष:: मेदिच्. उसे> नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदाः । ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ३.४ ॥ <विष:: मेअसुरे> श्रेष्ठमध्यावरा मात्रा अष्टषट्कचतुर्यवाः । अतिमात्रं यदा भुक्तं तदाज्यटङ्कणे पिबेत् ॥ ३.५ ॥ रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् । लिहेद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम् ॥ ३.६ ॥ न देयं क्रोधिने क्लीबे पित्तार्ते राजयक्ष्मिणि । क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे ॥ ३.७ ॥ गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे । रसायनरते दद्याद्घृतक्षीरहिताशिने ॥ ३.८ ॥ <उपविष> लाङ्गलीवज्रिहेमार्कहयारिविषमुष्टिकाः । एतान्युपविषाण्याहुः यस्तानि रसकर्मणि ॥ ३.९ ॥ <अहिफेन:: म्य्थ्. ओरिगिन्> समुद्रे मथ्यमाने तु वासुकेर्वदनाद्द्रुतः । फेनौघो व्याकुलत्वाच्च फूत्कारात्पतितः क्षितौ ॥ ३.१० ॥ <अहिफेन:: मेदिच्. प्रोपेर्तिएस्> तेनाहिफेनमाख्यातं तिक्तं संग्राहि शोषणम् । मोहकृच्छ्वासकासघ्नं सेवितं त्यक्तुमक्षमम् ॥ ३.११ ॥ श्लेष्महृद्वातकृद्युक्त्या युक्तं तदमृतं विषम् । वीर्यस्तम्भकरं नृणां स्त्रीणां सौख्यप्रदायकम् ॥ ३.१२ ॥ <सिद्धमूली:: म्य्थ्. ओरिगिन्> पुरा देवैश्च दैत्यैश्च मथितो रत्नसागरः । तस्मादमृतमुत्पन्नं देवैः पीतं न दानवैः ॥ ३.१३ ॥ तदा धन्वन्तरेर्हस्तादमृतं पतितं भुवि । तस्मिन् सर्वैर्लेह्यमाने दर्भैर्जिह्वा द्विधा कृता ॥ ३.१४ ॥ जिह्वासृग्विषसम्भूता सिद्धमूली महौषधी । <सिद्धमूली:: चोलोउर्स्> सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकैः ॥ ३.१५ ॥ <सिद्धमूली:: मेदिच्. प्रोपेर्तिएस्> आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा । सर्वरोगहरी कामजननी क्षुत्प्रबोधनी ॥ ३.१६ ॥ ४ कियन्तोऽप्यथ वक्ष्यन्ते रसाः प्रत्ययकारकाः । शास्त्रं दृष्ट्वा गुरोर्वक्त्रात्संप्रदायाद्यथागताः ॥ ४.१ ॥ पारदो रसकस्तालस्तुत्थं गन्धकटङ्कणम् । सर्वमेतत्समं शुद्धं कारवेल्ल्या रसैर्दिनम् ॥ ४.२ ॥ मर्दयेत्तेन विदध्याच्च ताम्रपात्रोदरं घनम् । अङ्गुलार्धार्धमानेन तत्पचेत्सिकताद्वये ॥ ४.३ ॥ यन्त्रे यावत्स्फुटन्त्येव व्रीह्यस्तस्य पृष्ठतः । ततः सुशीतले ग्राह्यस्ताम्रपात्रोदराद्बुधैः ॥ ४.४ ॥ तत्समं मरिचं दत्त्वा सर्वमेकत्र चूर्णयेत् । द्विगुञ्जं पर्णखण्डेन वातिके पैत्तिके ज्वरे ॥ ४.५ ॥ गुञ्जैकं ससितं दद्यात्त्रिगुञ्जं व्योषयुक्कफे । संनिपाते ज्वरे देयो वल्लैकर्माद्रकद्रवैः ॥ ४.६ ॥ त्रिदिनैविषमं तीव्रमेकद्वित्रिचतुर्थकम् । नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मितः ॥ ४.७ ॥ सूतं गन्धं शिलां तालं संमथ्य निम्बुजैर्द्रवैः । लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥ ४.८ ॥ यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् । विषोषणं चतुर्थांशं दत्त्वा वल्लमिता गुटी ॥ ४.९ ॥ देवदालीरसैर्बद्धा रसश्चैतन्यभैरवः । दत्तार्द्रकरसैः सर्वसंनिपातविघातकृत् ॥ ४.१० ॥ भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् । तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥ ४.११ ॥ वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् । अनेन भावितश्चापि देयश्चैतन्यभैरवः ॥ ४.१२ ॥ विषं रसं कलैकांशं काचलिप्तशरावके । रुद्ध्वा चुल्ल्यां मन्दवह्नौ पचेद्यामद्वयं ततः ॥ ४.१३ ॥ स्वयं शीतं च गृह्णीयादुपरिष्टाच्छरावकात् । वायुवर्जं क्षिपेत्कूप्यां संनिपातेऽहिदंष्टके ॥ ४.१४ ॥ सूच्यग्रेण च दातव्यः क्षणाञ्जागर्ति मानवः । नो चेत्तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥ ४.१५ ॥ रसगन्धकनेपाला वृद्धा दन्त्यम्बुमदिताः । द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥ ४.१६ ॥ पुरं टङ्कद्रयां कृष्णधूर्तबीजाष्टबल्लकम् । पालिकात्रितयं देयं चातुर्थिकज्वरापहम् ॥ ४.१७ ॥ ज्वरागमनवेलायां शीतवारिचतुर्घटैः । शिरोऽभिषिञ्च्य दातव्यं पथ्ये क्षीरं सशर्करम् ॥ ४.१८ ॥ निम्नबीजं शिलाजाजी धूमः कृष्णा समांशकम् । कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥ ४.१९ ॥ यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् । अर्धनारीनटेशाह्वो रसः कौतुककारकः ॥ ४.२० ॥ हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् । कनकस्य तु बीजानि समांशं विजयारसैः ॥ ४.२१ ॥ मर्दयेद्याममात्रं तु चणमात्रा वटी कृता । ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दरः ॥ ४.२२ ॥ शुद्धसूतं पलं चार्कक्षीरैर्मर्द्य पुनः पुनः । द्विपलं शुद्धगन्धस्य महाकम्बुपलाष्टकम् ॥ ४.२३ ॥ उभे वह्निरसैर्भाव्ये पेष्ये शोष्ये दिनत्रयम् । मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥ ४.२४ ॥ अर्कक्षीरैः पुनः सर्वं यामैकं मर्दयेद्दृढम् । तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वा पुटे पचेत् ॥ ४.२५ ॥ चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् । देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥ ४.२६ ॥ ग्रहणीदोषनाशार्थं नास्त्यनेन समं भुवि । ग्रहजीर्नाशयेत्सर्वा अर्कलोकेश्वरो रसः ॥ ४.२७ ॥ कटुत्रिकरसैर्भाव्यं तालमेकं चतुःशिला । दिनं वासारसैः पिष्ट्वा वालुकायन्त्रपाचितम् ॥ ४.२८ ॥ द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् । निर्गुण्डीमूलचूर्णं च वासारससमन्विता ॥ ४.२९ ॥ शिलातालेश्वरस्यास्य गुञ्जैका श्वासकासजित् । सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ॥ ४.३० ॥ त्र्येकैकभूभवैकाख्यान् कृत्वैवं क्रमशोऽशकान् । वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥ ४.३१ ॥ पिष्ट्वा तेन मुखं रुद्ध्वा शरावे भूपुटे पचेत् । स्वाङ्गशीतं समुद्धृत्य कुर्यात्तं वस्त्रगालितम् ॥ ४.३२ ॥ रसो राजमृगाङ्कोऽयं चतुर्गुञ्चः क्षयापहः । सुवर्णं भस्मसूतं च वल्लार्धं मधुना लिहेत् ॥ ४.३३ ॥ पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापहः । शिलाजतु मधुव्योषतप्त्यलोहरजांसि यः ॥ ४.३४ ॥ क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रसः । शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकान् क्रमात् ॥ ४.३५ ॥ भूद्यवेकैकाग्नियुग्मांश्च गृहीत्वोष्णाम्बुना पिबेत् । अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ॥ ४.३६ ॥ आध्मानगुल्मशूलघ्न उदरध्वान्तभास्करः । दुग्धं शङ्खवराटं च तुल्यार्कं नवनीतयुक् ॥ ४.३७ ॥ टङ्कार्धं भक्षयेत्सर्वशूलघ्नः शङ्खभास्करः । शुद्धं सूतं तथा गन्धं क्रमादेकद्विभागकम् ॥ ४.३८ ॥ तुल्यार्कं भावयेदार्द्ररसैश्चापि त्रिसप्तधा । गोलं कृत्वान्धमूषायां रुद्ध्वा गजपुटे पचेत् ॥ ४.३९ ॥ घृतं शुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु । त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥ ४.४० ॥ स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् । त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥ ४.४१ ॥ यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् । शोधयेद्दुष्टरक्तं च रसो रक्तारिसंज्ञकः ॥ ४.४२ ॥ सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् । वल्लैकं मधुना लेह्यं स्थौल्यमाशु व्यपोहति ॥ ४.४३ ॥ द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्ततः । वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥ ४.४४ ॥ सूतार्कौ गन्धकं मर्द्यं दिनं निर्गुण्डिकाद्रवैः । यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जकः ॥ ४.४५ ॥ बीजपूरजटाक्वाथं ससितं पाययेदनु । रसस्त्रिविक्रमो मूत्रकृच्छ्रोधाश्मरीप्रणुत् ॥ ४.४६ ॥ निस्तुषीकृत्य वाकुच्या बीजानां पलविंशतिम् । गोजलस्थां त्रिसप्ताहं लोहं पथ्यापलद्वयम् ॥ ४.४७ ॥ गृहीत्वा गोजलाच्छोष्ये सूर्यतापेऽतिनिष्ठुरे । काकोदुम्बरिकाद्रोणत्वचां क्वाथे त्रिसप्तकम् ॥ ४.४८ ॥ भावयेत्तस्य चूर्णस्य गन्धसूतं समं कृतम् । अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥ ४.४९ ॥ शिग्रुमूलरसेनापि नागवल्लीदलेन च । भावनां त्रिदिनं दत्त्वा कर्षार्धांशां गुटीं कुरु ॥ ४.५० ॥ एकैकां भक्षयेत्प्रातः श्वेतकुष्ठोपशान्तये । चित्रकाङ्घ्रित्वचश्चूर्णं रात्रौ गोदुग्धके वरम् ॥ ४.५१ ॥ क्षिपेदधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् । तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥ ४.५२ ॥ प्रक्षिप्य गुटिकां पश्चात्प्रपिबेद्द्वित्रिसंख्यकाम् । नवनीतेन चाभ्यङ्गः कार्यः स्थेयमथातपे ॥ ४.५३ ॥ सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् । प्रथमे सप्तके पाको जायेताथ द्वितीयके ॥ ४.५४ ॥ रोहणं च तृतीये हि प्राप्नुवन्ति न संशयः । निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥ ४.५५ ॥ सतक्रा गुटिका वापि रसस्यालेपने हिता । श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥ ४.५६ ॥ त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके । मकुष्ठामपि रूक्षाश्च देया जाते द्विसप्तके ॥ ४.५७ ॥ तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् । घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥ ४.५८ ॥ चम्पकाभं वरं देहं कान्तियुक्तं च नीरुजम् । प्राप्नुयाच्छ्रीयुतः सम्यङ्मनुजो भूमिमण्डले ॥ ४.५९ ॥ रसराजप्रभावेण सत्यं सत्यं च नान्यथा । शुद्धं सूतं मृतं लोहं ताप्यगन्धकातालकम् । पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥ ४.६० ॥ तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवैः । मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥ ४.६१ ॥ भक्षयेद्वातरोगार्तो रसं स्वच्छन्दभैरवम् । लघुरास्नाह्वयं क्वाथं सपुरं ह्यनुपानकम् ॥ ४.६२ ॥ शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्ततः । शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥ ४.६३ ॥ गोमूत्रमर्दितं गोलं मूषायां तु निरोधयेत् । सप्तधालेप्य मृद्वस्त्रैः पुटितं स्वाङ्गशीतलम् ॥ ४.६४ ॥ चूर्णीकृतं चतुर्वल्लां समसर्षपचूर्णकम् । जीर्णधृतानुपानं च नस्ये स्नेहं तु सार्षपम् ॥ ४.६५ ॥ कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् । उन्मादापस्मृती हन्ति ह्युन्मादगजकेशरी ॥ ४.६६ ॥ सूतं गन्धमयस्ताम्रमेकद्व्यर्धार्धकं पलम् । द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्त्रके ॥ ४.६७ ॥ चूर्णितं वस्त्रपूतं च लोहपात्रे पुनः पचेत् । जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥ ४.६८ ॥ संचूर्ण्य पञ्चकोलोत्थैः कषायैश्चाम्लवेतसैः । भावना खलु दातव्याः पञ्चाशत्प्रमितास्ततः ॥ ४.६९ ॥ भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् । टङ्कणार्धं विडं दद्याद्विडतुल्यं मरीचकम् ॥ ४.७० ॥ सप्तधा भावयेत्यश्चाच्चणकक्षारवारिणा । एव सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥ ४.७१ ॥ सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् । तक्रेण योजितं चैतदनुपानं पिबेत्सुधीः ॥ ४.७२ ॥ भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् । क्षिप्रं तज्जीर्यते भुक्तं पुनः काङ्क्षति भोजनम् ॥ ४.७३ ॥ घटश्रवेन्द्रभीमैश्च कुम्भयोनिचतुर्मुखैः । शनैश्चरेण रुद्रेण ब्रह्मणा सेवितोऽग्नये ॥ ४.७४ ॥ अस्य संसेवनादेते सर्वे जाता महाशनाः । अतः संसेव्यते भूपैर्महदग्निविवृद्धये ॥ ४.७५ ॥ कुर्याद्दीपनमद्भुतं पचनं दुष्टामयोच्छेदनं तुन्दस्थौल्यनिबर्हणं गरहरः शूलार्तिमूलापहः । गुल्मप्लीहविनाशनो बहुरुजां विध्वंसनः स्रंसनो वातग्रन्थिमहोदरापहरणः क्रव्यादनामा रसः ॥ ४.७६ ॥ सिहणक्षोणिपालाय भूरिभोज्यप्रियाय च । दत्तवान् भैरवानन्दो भूपो ग्रामाष्टकं ददौ ॥ ४.७७ ॥ सूतं भुजंगममृतं लवणं हरिद्रा व्योषं धनंजयजटावनिभूतधात्री । क्वष्टादशद्वयनिधित्रयवेदसंख्याः शोभाञ्जनार्द्रककरीरकबीजपूरैः ॥ ४.७८ ॥ निम्बूफणीश्वरलता सुपलाशतोयैर्भाव्यं विशोष्य खरले प्रपिधाय चूर्णम् । वस्त्रस्रुतं सकलवातगणान्निहन्ति वह्नेरपाटवमरोचकशूलवान्तीः ॥ ४.७९ ॥ सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे । चन्द्रैकाग्निगजत्रिद्विवसुभागैर्मितं क्रमात् ॥ ४.८० ॥ जम्बीरकेन संमर्द्यं भवेदग्निकुमारकः । वाते मन्दानलेऽजीर्णे ज्वरश्लेष्मविषूचिके ॥ ४.८१ ॥ गुञ्जामात्रं प्रदातव्यो विण्मूत्रशिरसो ग्रहे । कासे श्वासे क्षये शूले सर्वरोगे तु योजयेत् ॥ ४.८२ ॥ नृसारं स्फटिका सौरं त्रयमेकत्र चूर्णयेत् । तत्क्षिपेन्मृन्मये कूपे शुभे हस्तमिते दृढे ॥ ४.८३ ॥ सरन्ध्रोदरकाचोत्थे कूपे तत्संनियोजयेत् । सप्तधा वेष्टयेत्पश्चात्तत्संधिं वस्त्रमृत्स्नया ॥ ४.८४ ॥ खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् । अर्धं यन्त्रे निधायात्र श्रीगुरोः संप्रदायतः ॥ ४.८५ ॥ अधोमुखं द्वितीयं तु स्थाप्यं चुल्लेः पराङ्मुखे । अधः प्रज्वालयेदग्निं हठाद्यावद्रसः स्रवेत् ॥ ४.८६ ॥ धारयेत्काचजे पात्रे शङ्खद्रावरसं ततः । शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥ ४.८७ ॥ गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् । बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥ ४.८८ ॥ विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् । कपर्दकाम्बुलोहानि यस्मिन् क्षिप्ते गलन्ति हि ॥ ४.८९ ॥ पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् । दशांशनवसारेण युतं चोन्मत्तवारिणा ॥ ४.९० ॥ खल्वे संमर्द्य तत्सर्वं काचकूप्यां निवेशयेत् । गुरूक्तसम्प्रदायेन वालुकायन्त्रमध्यगम् ॥ ४.९१ ॥ पचेत्षोडशयामांश्च मन्दमध्यहठाग्निना । पक्वः सुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥ ४.९२ ॥ सूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् । पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदुः ॥ ४.९३ ॥ पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवैः । पूर्ववत्पाचितो ह्येष कामदेवरसः स्मृतः ॥ ४.९४ ॥ समांशं क्षिप्यते स्वर्णं रूप्यं ताम्रं च मर्दयेत् । मुसल्या चाखुपर्ण्या च मातुलुङ्गरसैस्त्र्यहम् ॥ ४.९५ ॥ मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रसः । त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणाः । एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमैः ॥ ४.९६ ॥ एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा । शाल्यन्नं गोपयः खण्डं सितां जाङ्गलमामिषम् ॥ ४.९७ ॥ गोधूमजान् विकारांश्च माषान्नं कदलीफलम् । पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥ ४.९८ ॥ सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किंचिदुच्यते । वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥ ४.९९ ॥ सेवया वज्रदेहोऽस्य द्रावद्वयेनिताशतम् । न रेतःसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥ ४.१०० ॥ ऊर्ध्वलिङ्गः सदा तिष्ठेल्ललनामक्षयं व्रजेत् । तप्तहाटकवर्णाभः श्रीधीमेधाविभूषितः ॥ ४.१०१ ॥ हयवेगो मयूराक्षो वाराहश्रुतिरेव च । अपरः कामदेवोऽपि मानिनीमानमर्दनः ॥ ४.१०२ ॥ राजयक्ष्मादिरोगांश्च मेहान् जीर्णज्वरानपि । ग्रहणीं हन्त्यतीसारं गोतक्राद्बहुमूत्रताम् ॥ ४.१०३ ॥ सर्वरोगहरो ह्येष निजौषधानुपानतः । हरगौरीकामदेवरसो मृत्युञ्जयाभिधः ॥ ४.१०४ ॥ किमत्र बहुनोक्तेन जरामृत्युहरास्त्रयः । कज्जलीं सूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् । तत्तैलमर्दितं सेव्य द्विवल्लां ससितापयः ॥ ४.१०५ ॥ मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत्स्त्रियम् । रसः कामप्रदो न्ःणां मानिनीमानमर्दनः ॥ ४.१०६ ॥ हेमबीजविषवङ्गसूतकं हंसपादकरं च जारणम् । शुद्धसूतस्त्र्यहं स्वेद्यो मन्दाग्नौ दध्नि महिषे । त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥ ४.१०७ ॥ तस्मिन् स्वर्णं क्षिपेत्प्राज्ञश्चतुःषष्ठितमांभकम् । मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥ ४.१०८ ॥ पुनः संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजैः । काकमाच्या च जीवन्त्या रसैः स्याद्यामयुग्मकात् ॥ ४.१०९ ॥ दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि महिषे । एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥ ४.११० ॥ मासैकं सेवते भर्ता सितादुग्धौदनप्रियः । त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात्पृथक् ॥ ४.१११ ॥ दिनानि सप्तसंख्यानि पीत्वा ऋतुसमागमे । रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥ ४.११२ ॥ टङ्कणं स्फटिका सूतं पक्वाम्लिकरसान्वितम् । त्रिदिनं मधुना योनेर्लेपं शुद्धिकरं परम् ॥ ४.११३ ॥ महिष्या दधिमध्यस्थं दिवा सूतं त्रिमाषकम् । स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥ ४.११४ ॥ संभोगान्ते तथा स्थेयं यामार्धं संपुटेन च । सर्वलक्षणसम्पन्नं सूतं जनयते वरम् ॥ ४.११५ ॥ तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् । कार्यः शीतोपचारश्च युवत्या भिषजा सदा ॥ ४.११६ ॥ आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् । कुर्याद्रोगहरः पुत्रप्रदो रुद्रविनिर्मितः ॥ ४.११७ ॥ रसं नागाञ्जनं चन्द्रमेकैकद्व्यर्धभागकम् । सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद्दिव्यदृष्टिकृत् ॥ ४.११८ ॥ सूतं गन्धं समं शुद्धं सप्तधा भावयेत्क्रमात् । स्नुह्यर्कदुग्धैः श्रीखण्डद्वयपथ्योभयारसैः ॥ ४.११९ ॥ समं नेपालजं चूर्णं देयमेकत्र मर्दयेत् । उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥ ४.१२० ॥ मलाः पूर्वं जलं पश्चात्ततश्चामः शनैः शनैः । उदराच्च विनान्त्राणि सर्वं निर्याति किल्बिषम् ॥ ४.१२१ ॥ जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् । जयेज्ज्वरादिकान् रोगान् रसः सारणसुन्दरः ॥ ४.१२२ ॥ राढार्कौ मधुकं चैकसार्धद्विपञ्चभागकम् । टङ्कैकोऽम्बुयुतो दत्तो रसोऽयं वामकः स्मृतः ॥ ४.१२३ ॥ रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर्दिनम् । उन्मत्ताख्यो रसो नाम नस्यं स्यात्सन्निपातजित् ॥ ४.१२४ ॥ ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तं तु ताडितम् । तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥ ४.१२५ ॥ स्फटिका तुत्थनेपालं मरिचं निम्बबीजकम् । पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥ ४.१२६ ॥ भावना सप्त दातव्या गुटी गुञ्जामिताञ्जनात् । सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥ ४.१२७ ॥ आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् । उद्धूलनं स्वेदहरमेकद्वित्र्यष्टभागकैः ॥ ४.१२८ ॥ ५ विषं व्योषं हरिद्राब्दं निम्बपत्रं विडङ्गकम् । गुटी छागाम्बुना बद्धा स्याज्जया योगवाहिका ॥ ५.१ ॥ सूतार्कयोर्विषं गन्धं विङ्गंगाग्न्यब्दकेसरम् । रेणुका ग्रन्थिकं बोलं सर्वेषां द्विगुणं गुडम् ॥ ५.२ ॥ कोलप्रमाणां गुटिकां भक्षयेत्प्रातरेव हि । कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥ ५.३ ॥ शोके पाण्ड्वामये कुष्ठे ग्रहण्यर्शोभगन्दरे । विजयागुटिका ह्येषा रुद्रप्रोक्ताधिका गुणैः ॥ ५.४ ॥ अङ्कोलाग्नी च गन्धोषणरसविषकं पित्तभाजं क्रमात्तत्सामुद्रं चार्कदुग्धैस्त्रिभिरथ पुटितं निम्बुतोयैर्विमर्द्य । कृत्वा गुञ्जासमानामिषुशररसदिग्वह्निबाणेषुदिग्भिर्दद्याच्छ्लेष्मानिलार्शो ज्वरं जठरं कफेतां वटीं शङ्कराख्याम् ॥ ५.५ ॥ चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसैः कल्कितं तस्मिञ्छङ्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधिम् । हिङ्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान् बद्धा शङ्खवटी क्षयग्रहणिकागुल्मांश्च शूलं जयेत् ॥ ५.६ ॥ रसं कृष्णाभया त्वक्षं वासा भार्गी क्रमोत्तरम् । तत्समं खादिरं सारं बब्बूलक्वाथभावितम् ॥ ५.७ ॥ एकविंशतिवारांश्च मधुनाक्षमिता वटी । कासं श्वासं क्षयं हिक्कां हन्त्येषा कासकर्तरी ॥ ५.८ ॥ व्योषग्रन्थि वचाग्नि हिंगु जरणद्वन्द्वं विषं निम्बुकं द्रावैरार्द्रकैरसेर्विमृषितं तुल्यौ मरीचोपमा । वर्तिः सा विनिहन्ति शूलमखिलं सर्वाङ्गजं मारुतं वह्निं चाशु करोति वाडवसमं सूर्यप्रभावाभिधा ॥ ५.९ ॥ एला सकर्पूरसिता सधात्री जातीफलं शाल्मलिगोक्षुरौ च । सूतेन्द्रवङ्गायसभस्म सर्वमेतत्समानं परिभावयेच्च ॥ ५.१० ॥ गुडूचिका शाल्मलिका कषायैर्निष्कार्धमाना मधुना ततश्च । बद्धा गुटी चन्द्रकलेति संज्ञा मेहेषु सर्वेषु नियोजनीया ॥ ५.११ ॥ हिङ्गुलं च चतुर्जातं लवङ्गौषधचन्दनम् । जातिजं केसरं कृष्णा त्वाकल्लमहिफेनकम् ॥ ५.१२ ॥ कस्तूरीन्दुसमं सर्वं तत्समे विजयासिते । क्षौद्रैः कोलमिता कार्या गुटी भोगपुरन्दरी ॥ ५.१३ ॥ शुक्रस्तम्भकरी ह्येषा बलमांसविवर्धिनी । नरश्चटकवद्गच्छेच्छतवारं स्थिरेन्द्रियः ॥ ५.१४ ॥ वङ्गं कासीसकं कृष्णा गुञ्जातुल्यार्द्रकाम्बुना । कफवातामयं हन्ति गुटी नागार्जुनाभिधा ॥ ५.१५ ॥ त्रिफला विडङ्गसोमाभल्लातकवह्निविश्वानाम् । अष्टौ शुक्लवचाया भागाः स्युः सद्विषस्यैकः । एतत्सर्वं गोजलपिष्टं वटिकास्तु चणकाभाः । छायाशुष्का देया त्रिद्व्येकचतुःक्रमाद्विज्ञैः ॥ ५.१६ ॥ सार्पविसूचिगदार्ते दुष्टाजीर्णहते त्रिदोषेऽपि । सद्यो जीवति पुरुषो मृतोऽपि गुटिकाप्रभावेण ॥ ५.१७ ॥ मूलेन पत्रेण फलेन वापि व्योषान्विता या कितवोद्भवेन । बद्धा गुटी सा सहसैव हन्ति सोन्माददोषत्रयदुष्टवातान् ॥ ५.१८ ॥ कट्फलाम्बुगिलं कृष्णां हिङ्गुलं बोलटङ्कणम् । गुडेन गुटिका शाणमिता सा नवमेऽह्नि ॥ ५.१९ ॥ उष्णोदकेन दातव्या सद्योऽलर्कविषापहा । गरभृङ्गोषणं चूर्णं साज्यं वा तद्विषापहम् ॥ ५.२० ॥ रसराजशुल्वगन्धकसुरतिक्तैः पीतभृङ्गमरिचैश्च । ब्राह्मीद्वितयरसाढ्या गुटिकाः कार्याश्चणकाभाः ॥ ५.२१ ॥ एका देया प्रथमं त्रिदोषविकलस्य मूर्छितस्यापि । अन्या मुहूर्तपरतः प्रहरादन्यापरा नैव ॥ ५.२२ ॥ जीवति मृतोऽपि पुरुषस्त्रिदोषजान्विततन्द्रिकायुक्तः । श्रीनागार्जुनगदिता गुटिका मृतसंजीवनीख्याता ॥ ५.२३ ॥ एलवालुकाभयाबोलमिन्द्रा गुग्गुलुसंयुता । स्नुहीक्षीरेण गुटिका शोथिनी ज्वरनाशिनी ॥ ५.२४ ॥ वरा व्योषं वरं तुत्थं यष्टी वेल्लार्कवारिजम् । रोध्रं रसाञ्जनं चूर्णं वर्तिः कार्या नभोऽम्बुना ॥ ५.२५ ॥ सद्योऽक्षिकोपं स्तन्येन तिमिरं रोध्रतोयतः । किंशुकस्य रसाद्धन्ति बिल्लं पुष्पं च रक्तताम् ॥ ५.२६ ॥ पटलं वस्तमूत्रेण स्तम्भे पाटलिपतने । नागार्जुनेन लिखिता सर्वनेत्रामयापहा ॥ ५.२७ ॥ व्योषं वरा वरं हिङ्गु तिक्तोग्रा नक्तमालकः । गौरी कटु त्वजामूत्रैश्छायाशुष्का गुटीकृता ॥ ५.२८ ॥ अपस्मारस्मृतिभ्रंशमुन्मादं शिरसो रुजम् । नक्तान्ध्यं तिमिरं हन्ति दोषं भूतादिकं भ्रमम् ॥ ५.२९ ॥ एकद्वित्रिचतुर्थाख्यं मञ्जनाज्ज्वरमेव च । सन्निपातं त्वचैतन्यं नाशयेत्सुप्रचेतनम् ॥ ५.३० ॥ सैन्धवेन युक्तं वज्रीक्षीरमग्निविपाचितम् । द्विवल्लमुष्णकैः पीतं विरेकाज्ज्वरनाशनम् ॥ ५.३१ ॥ लवणं भानुदुग्धेन सकृद्भावितमातपे । गव्येन पयसा पीतं कर्षार्धं वान्तिकारकम् ॥ ५.३२ ॥ सूतेन्द्रं बलितालकं च कुनटी खल्वे समांशं दिनं सौवीरेण विमर्द्य तेन वसनं वर्तीकृतं लेपयेत् । तैलेन प्रविलेपितं च बहुशो वह्निं ततो दीपयेत्तस्माद्यद्गलितं तु तैलमसितं तेनाङ्गलेपः कृतः ॥ ५.३३ ॥ जङ्घाबाहुकराग्रपादशिरसां कम्पानशेषाञ्जयेत्कुष्ठं तीव्रभगन्दरं व्रणगणान्रोगान्महागृध्रसीम् । अन्यान् रोगगणांश्च वातजनितान्नाडीव्रणान्दुस्तरान् । विख्यातं भुवनत्रये गदहरं वातारितैलं महत् ॥ ५.३४ ॥ रामठं निम्बपत्राणि फेनः सागरसंभवः । एतानि समभागानि तद्वद्देयं सितं विषम् ॥ ५.३५ ॥ गोमूत्रेण समायुक्तं कटुतैलं विपाचयेत् । तेनैव पूरयेत्कर्णं नरकुञ्जरवाजिनाम् ॥ ५.३६ ॥ कर्णरोगं निहन्त्याशु लेपनाच्छिरसो गदान् । नाम्ना कर्णामृतं तैलं ब्रह्मणा निर्मितं स्वयम् ॥ ५.३७ ॥ कस्तूरीन्दुश्च बाह्लीकं नखं मांसी च सर्जकम् । मुस्तागुरु सिता सर्वं क्रमवृद्धं समं पुरम् ॥ ५.३८ ॥ स्तोकं स्तोकं क्षिपेत्तैलं दिनैकमथ कुट्टयेत् । वर्तिं निर्वापयेत्दीप्तां दिव्यं धूमं विमुञ्चति ॥ ५.३९ ॥ सर्वदेवप्रियः सर्वः मन्त्रसिद्धिप्रदायकः । स्नाने वस्त्रे रतागारे धूपोऽयं राजवल्लभः । भ्वग्नितिथिमिते वर्षे चामुण्डो योगिनीपुरे । रससंकेतकलिकां कृतवानिष्टसिद्धिदाम् ॥ ५.४० ॥