दक्षं प्रजापतिं वस्थमश्विनौ वाक्यमूचतुः । कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥ १ रसाः कति समाख्याताः कति चोपरसाः स्मृताः । नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ २ के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते । केन द्रव्येण संयुक्ता कांश्च रोगान् व्यपोहति ॥ ३ प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि । अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥ ४ पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् । ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ॥ ५ हरीतक्यभया पथ्या कायस्था पूतनामृता । हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥ ६ वयःस्था विजया चापि जीवन्ती रोहिणीति च ॥ ७ विजया रोहिणी चैव पूतना चामृताभया । जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ ८ विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिष्ठानके । चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः ॥ ९ अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता । पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ १० पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी । त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ ११ विजया सर्वरोगेषु रोहिणी व्रणरोहिणी । प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ॥ १२ अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् । चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ १३ चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः । षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता ॥ १४ काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् । काचित्स्पर्शेन दृष्ट्यान्या चतुर्धा भेदयेच्छिवा ॥ १५ चेतकीपादपच्छायामुपसर्पन्ति ये नराः । भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १६ चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः । तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ॥ १७ नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम् । चेतकी परमा शस्ता हिता सुखविरेचनी ॥ १८ सप्तानामपि जातीनां प्रधाना विजया स्मृता । सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ॥ १९ हरीतकी पञ्चरसालवणा तुवरा परम् । रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ॥ २० चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी । श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् ॥ २१ वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् । गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् ॥ २२ कामलां शूलमानाहं प्लीहानं च यकृत्तथा । अश्मरीं मूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ॥ २३ स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा । कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ॥ २४ पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा ॥ २५ प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते । हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ॥ २६ कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः । यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ॥ २७ पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः । वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः । स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याम्भसि । निमज्जेत्सा प्रशस्ता च कथितातिगुणप्रदा ॥ २८ नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता । हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥ २९ चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी । स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ॥ ३० उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् । विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात्सह भोजनेन ॥ ३१ अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् । हरीतकी हरत्याशु भुक्तस्योपरि योजिता ॥ ३२ लवणेन कफं हन्ति पित्तं हन्ति सशर्करा । घृतेन वातजान् रोगान् सर्वरोगान् गुडान्विता ॥ ३३ सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ ३४ अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च । पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ॥ ३५ विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु सः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ ३६ विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ॥ ३७ रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् । विभीतमज्जा तृट्छर्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः ॥ ३८ त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता ॥ ३९ हरीतकीसमं धात्रीफलं किंतु विशेषतः । रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ॥ ४० हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः । कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् ॥ ४१ यस्य यस्य फलस्येह वीर्यं भवति यादृशम् । तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥ ४२ पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफलासमैः । फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिता ॥ ४३ त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा । चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ ४४ शुण्ठी विश्वा च विश्वं च नागरं विश्वभेषजम् । ऊषणं कटुभद्रं च शृङ्गवेरं महौषधम् ॥ ४५ शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः । स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ ४६ वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्शआनाहोदरमारुतान् ॥ ४७ आग्नेयगुणभूयिष्ठात्तोयांशपरिशोषि यत् । संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ ४८ विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् । शक्तिविबन्धभेदे स्याद्यतो न मलपातने ॥ ४९ आर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका । आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता ॥ ५० कटुका मधुरा पाके रूक्षा वातकफापहा । ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ॥ ५१ भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् । अग्निसंदीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥ ५२ कुष्ठषाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे । दाहे निदाघशरदोर्नैव पूजितमार्द्रकम् ॥ ५३ पिप्पली मागधी कृष्णा वैदेही चपला कणा । उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ॥ ५४ पिप्पली दीपनी वृष्या स्वादुपाका रसायनी । अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ॥ ५५ पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् । कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् ॥ ५६ आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः । पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ॥ ५७ पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी । श्वासकासज्वरहरा वृष्या मेध्याग्निवर्धिनी ॥ ५८ जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली । कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् । द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः ॥ ५९ मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् ॥ ६० मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् । उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ॥ ६१ तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु । किंचित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ॥ ६२ विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते । कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते ॥ ६३ त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥ ६४ ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः । दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु ॥ ६५ रूक्षं पित्तकरं भेदि कफवातोदरापहम् । आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् ॥ ६६ त्र्यूषणं सकणामूलं कथितं चतुरूषणम् । व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ॥ ६७ भवेच्चव्यं तु चविका कथिता सा तथोषणा । कणामूलगुणं चव्यं विशेषाद्गुदजापहम् ॥ ६८ चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ॥ ६९ गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी । उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् ॥ ७० चित्रकोऽनलनामा च पीठो व्यालस्तथोषणः । चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः ॥ ७१ रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् । वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् ॥ ७२ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः । पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥ ७३ पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् । तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् । गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥ ७४ पञ्चकोलं समरिचं षडूषणमुदाहृतम् । पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥ ७५ यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका ॥ ७६ सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया । यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ॥ ७७ दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् । वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥ ७८ अजमोदा खराश्वा च मायूरी दीप्यकस्तथा । तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥ ७९ अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् । उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः । नेत्रामयकृमिच्छर्दिहिक्कावस्तिरुजो हरेत् ॥ ८० पारसीकयवानी तु यवानीसदृशी गुणैः । विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ॥ ८१ जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ॥ ८२ कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजी तु सुषवी कालिका चोपकालिका ॥ ८३ पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥ ८४ जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु । संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ ८५ ज्वरघ्नं पावनं वृष्यं बल्यं रुच्यं कफापहम् । चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ॥ ८६ धान्यकं धानकं धान्यं धाना धानेयकं तथा । कुनटी धेनुका छत्त्रा कुस्तुम्बुरु वितुन्नकम् ॥ ८७ धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु । तिक्तं कटूष्णवीर्यं च दीपनं पाचनं स्मृतम् ॥ ८८ ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् । तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् । आर्द्रं तु तद्गुणं स्वादु विशेषात्पित्तनाशनम् ॥ ८९ शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिलम्बी सितच्छत्त्रा संहितछत्त्रिकापि च ॥ ९० छत्त्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः । शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ ९१ उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् । मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत् ॥ ९२ अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् । रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान् हरेत् ॥ ९३ मेथिका मेथिनी मेथी दीपनी बहुपत्त्रिका । बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ ९४ वल्लरी चक्रिका मन्था मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ ९५ मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी । ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥ ९६ चन्द्रिका चर्महन्त्री च पशुमेहनकारिका । नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥ ९७ चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणाम् । असृग्वातगदद्वेषि बलपुष्टिविवर्धनम् ॥ ९८ मेथिका चन्द्रशूरश्च कालाजाजी यवानिका । एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम् ॥ ९९ तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् । अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम् ॥ १०० सहस्रवेधि जतुकं वाह्लीकं हिङ्गु रामठम् ॥ १०१ हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् । शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्धनम् ॥ १०२ वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका । क्षुद्रपत्त्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ १०३ वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी । अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥ १०४ पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः ॥ १०५ सुगन्धाप्युग्रगन्धा च विशेषात्कफकासनुत् । सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥ १०६ स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता ॥ १०७ द्वीपान्तरवचा किंचित्तिक्तोष्णा वह्निदीप्तिकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ १०८ वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥ १०९ हवुषा वपुषा विस्रा पराश्वत्थफला मता । मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥ ११० हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः । पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् । पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ॥ १११ पुंसि क्लीबे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः । तण्डुलाश्च तथा वेल्लममोघा चित्रतण्डुला ॥ ११२ विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु । शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् ॥ ११३ तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः ॥ ११४ तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु । रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च ॥ ११५ वातश्लेष्माक्षिकर्णौष्ठशिरारुग्गुरुताकृमीन् । कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥ ११६ स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ ११७ वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥ ११८ समुद्रफेनः फेनश्च डिण्डीरोऽब्धिकफस्तथा ॥ ११९ समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः । कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः ॥ १२० जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके । अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥ १२१ अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः । भग्नसंधानकृत्कामबलासबलवर्धनः । वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् ॥ १२२ जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ । रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्त्रकौ ॥ १२३ जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् । जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः ॥ १२४ ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि । जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ ॥ १२५ मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ ॥ १२६ महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते । महामेदा खनीमेदा स्यादित्युक्तं मुनीश्वरैः ॥ १२७ शुक्लार्द्रकनिभः कन्दो लताजातः सुपाण्डुरः । महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥ १२८ शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् । यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः ॥ १२९ शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा । महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥ १३० मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम् । बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् ॥ १३१ जायते क्षीरकाकोली महामेदोद्भवस्थले ॥ १३२ यत्र स्यात्क्षीरकाकोली काकोली अत्र जायते । पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् ॥ १३३ स प्रोक्तः क्षीरकाकोली काकोलीलिङ्गमुच्यते । यथा स्यात्क्षीरकाकोली काकोल्यपि तथा भवेत् ॥ १३४ एषा किंचिद्भवेत्कृष्णा भेदोऽयमुभयोरपि । काकोली वायसोली च वीरा कायस्थिका तथा ॥ १३५ सा शुक्ला क्षीरकाकोली वयःस्था क्षीरवल्लिका । कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी ॥ १३६ काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु । बृंहणं वातदाहास्रपित्तशोषज्वरापहम् ॥ १३७ ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले । श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ १३८ स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे । तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा ॥ १३९ वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः । ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ १४० ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः । प्राणैश्वर्यकरी मूर्छारक्तपित्तविनाशिनी ॥ १४१ वृद्धिर्गर्भप्रदा शीता बृंहणी मधुरा स्मृता । वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ १४२ राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्लभः । तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् । मुख्यसदृशः प्रतिनिधिः ॥ १४३ मेदाजीवककाकोल्यृद्धिद्वंद्वेऽपि चासति । वरीविदार्यश्वगन्धावाराहीश्च क्रमात्क्षिपेत् । मेदामहामेदास्थाने शतावरीमूलम् । जीवकर्षभकस्थाने विदारीमूलम् । काकोलीक्षीरकाकोलीस्थाने अश्वगन्धामूलम् । ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् ॥ १४४ यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा । अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका ॥ १४५ यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् । सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् । व्रणशोथविषच्छर्दितृष्णाग्लानिक्षयापहा ॥ १४६ काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च । काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् । हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् ॥ १४७ आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः । आरेवतो व्याधिघातः कृतमालः सुवर्णकः ॥ १४८ कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः । आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥ १४९ ज्वरहृद्रोगपित्तास्रवातोदावर्तशूलनुत् । तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् ॥ १५० ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम् ॥ १५१ कट्वी तु कटुका तिक्ता कृष्णभेदा कटंभरा । अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥ १५२ मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी । कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः ॥ १५३ भेदिनी दीपनी हृद्या कफपित्तज्वरापहा । प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत् ॥ १५४ किराततिक्तः कैरातः कटुतिक्तः किरातकः ॥ १५५ काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः । किरातकोऽन्यो नैपालः सोऽर्धतिक्तो ज्वरान्तकः ॥ १५६ किरातः सारको रूक्षः शीतलस्तिक्तको लघुः । संनिपातज्वरश्वासकफपित्तास्रदाहनुत् । कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥ १५७ उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा । कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि ॥ १५८ क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् । फलानीन्द्रयवास्तस्य तथा भद्रयवा अपि ॥ १५९ इन्द्रयवं त्रिदोषघ्नं संग्राहि कटु शीतलम् ॥ १६० ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् । दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् ॥ १६१ मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥ १६२ मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः । वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः । रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥ १६३ रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥ १६४ रास्नामपाचिनी तिक्ता गुरूष्णा कफवातजित् ॥ १६५ शोथश्वाससमीरास्रवातशूलोदरापहा । कासज्वरविषाशीतिवातिकामयसिध्महृत् ॥ १६६ नाकुली सुरसा नागसुगन्धा गन्धनाकुली । नकुलेष्टा भुजंगाक्षी सर्पाङ्गी विषनाशिनी ॥ १६७ नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥ १६८ माचिका प्रस्थिकाम्बष्ठा तथा चाम्बालिकाम्बिका । मयूरविदला केशी सहस्रा बालमूलिका ॥ १६९ माचिकाम्ला रसे पाके कषाया शीतला लघुः । पक्वातिसारपित्तास्रकफकण्ठामयापहा ॥ १७० तेजस्विनी तेजवती तेजोह्वा तेजनी तथा । तेजस्विनी कफश्वासकासास्यामयवातहृत् । पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपिनी ॥ १७१ ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च । पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी ॥ १७२ ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् । अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ १७३ कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ॥ १७४ कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् ॥ १७५ उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् । पद्मपत्त्रं च काश्मीरं कुष्ठभेदमिमं जगुः ॥ १७६ पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् । हन्ति शोथारुचिश्वासान् विशेषात्पार्श्वशूलनुत् ॥ १७७ कटुपर्णी हैमवती हेमक्षीरी हिमावती । हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते ॥ १७८ हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी । कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् ॥ १७९ शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका । अजशृङ्गी तु चक्रा च कर्कटाख्या च कीर्तिता ॥ १८० शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् । श्वासोर्ध्ववाततृट्कासहिक्कारुचिवमीन्हरेत् ॥ १८१ कट्फलः सोमवल्कश्च कैटर्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ १८२ कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् । हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः ॥ १८३ भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका । ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका ॥ १८४ भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः । दीपनी तुवरा गुल्मरक्तनुन्नाशयेद्ध्रुवम् । शोथकासकफश्वासपीनसज्वरमारुतान् ॥ १८५ पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी । अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ॥ १८६ भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः । योनिरोगान्प्रमेहांश्च प्लीहशूलव्रणानि च ॥ १८७ धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा । सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥ १८८ धातकी कटुका शीता मृदुकृत्तुवरा लघुः । तृष्णातीसारपित्तास्रविषक्रिमिविसर्पजित् ॥ १८९ मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ १९० मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ॥ १९१ भण्डीतकी च गम्भीरी मञ्जूषा वस्त्ररञ्जिनी । मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् ॥ १९२ गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् । रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत् ॥ १९३ स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि । कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम् ॥ १९४ लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः । लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः ॥ १९५ अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् । व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ॥ १९६ अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः ॥ १९७ हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी । कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी ॥ १९८ हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् । वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥ १९९ दार्वीभेदाम्रगन्धा च सुरभीदारु दारु च । कर्पूरा पद्मपत्त्रा स्यात्सुरीमत्सुरतारका ॥ २०० आम्रगन्धिर्हरिद्रा या सा शीता वातला मता । पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी ॥ २०१ अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ॥ २०२ दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च । कटंकटेरी पीता च भवेत्सैव पचम्पचा । सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ॥ २०३ पीतद्रुश्च हरिद्रश्च पीतदारु च पीतकम् । दार्वी निशागुणा किंतु नेत्रकर्णास्यरोगनुत् ॥ २०४ दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम् । तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥ २०५ रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् । रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ॥ २०६ उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ २०७ अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका । शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥ २०८ सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्तिता । वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ २०९ विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् । रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ २१० तत्फलं पित्तलं कुष्ठकफानिलहरं कटु । केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् ॥ २११ चक्रमर्दः प्रपुन्नाटी दद्रुघ्नो मेषलोचनः । पद्माटः स्यादेडगजश्चक्री पुंनाट इत्यपि ॥ २१२ चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः । हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥ २१३ हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् । गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम् ॥ २१४ विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा । शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा ॥ २१५ विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् । कफपित्तातिसारामविषकासवमिक्रिमीन् ॥ २१६ लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा ॥ २१७ द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः । जीर्णपत्त्रो बृहत्पत्त्रः पट्टी लाक्षाप्रसादनः ॥ २१८ लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् । कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् ॥ २१९ लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ २२० यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्बिन्दुः स रसोनोऽभवद्भुवि ॥ २२१ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ २२२ कश्चापि मूलेषु तिक्तः पत्त्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः । बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ॥ २२३ रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ २२४ भग्नसंधानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ २२५ हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ २२६ मद्यं मांसं तथाम्लं च हितं लशुनसेविनाम् । व्यायाममातपं रोषमतिनीरं पयो गुडम् । रसोनमश्नन्पुरुषस्त्यजेदेतान्निरन्तरम् ॥ २२७ पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः ॥ २२८ स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः । हरते केवलं वातं बलवीर्यकरो गुरुः ॥ २२९ भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः । तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥ २३० भल्लातकफलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् ॥ २३१ मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् । कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रिमीन् ॥ २३२ तन्मज्जा मधुरो वृष्यो बृंहणो वातपित्तहा । वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥ २३३ भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः । वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् । हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् ॥ २३४ भङ्गा गञ्जामातुलानी मादिनी विजया जया ॥ २३५ भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी ॥ २३६ तिलभेदः खसतिलः खाखसश्चापि स स्मृतः । स्यात्खाखसफलाद्भूतं वल्कलं शीतलं लघु ॥ २३७ ग्राहि तिक्तं कषायं च वातकृत्कफकासहृत् ॥ २३८ धातूनां शोषकं रूक्षं मदकृद्वाग्विवर्धनम् । मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनम् ॥ २३९ उक्तं खसफलक्षीरमाफूकमहिफेनकम् । आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् । तथा खसफलोद्भूतवल्कलप्रायमित्यपि ॥ २४० उच्यन्ते खसबीजानि ते खाखसतिला अपि ॥ २४१ खसबीजानि बल्यानि वृष्याणि सुगुरूणि च । जनयन्ति कफं तानि शमयन्ति समीरणम् ॥ २४२ सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजम् । सैन्धवं लवणं स्वादु दीपनं पाचनं लघु । स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् ॥ २४३ शाकम्भरीयं कथितं गुडाख्यं रौमकं तथा ॥ २४४ गुडाख्यं लघु वातघ्नमत्युष्णं भेदि पित्तलम् । तीक्ष्णोष्णं चापि सूक्ष्मं चाभिष्यन्दि कटुपाकि च ॥ २४५ सामुद्रं यत्तु लवणमक्षीबं वशिरं च तत् । समुद्रजं सागरजं लवणोदधिसम्भवम् ॥ २४६ सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु । नात्युष्णं दीपनं भेदि सक्षीरमविदाहि च । श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम् ॥ २४७ विडं पाकं च कृतकं तथा द्राविडमासुरम् । विडं सक्षारमूर्ध्वाधःकफवातानुलोमनम् । ऊर्ध्वं कफमधो वातं संचारयेदित्यर्थः ॥ २४८ दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् ॥ २४९ सौवर्चलं स्याद्रुचकं मन्थपाकं च तन्मतम् । रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥ २५० सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु । उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् ॥ २५१ औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् । क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम् ॥ २५२ चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम् । लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् ॥ २५३ पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः । स्वर्जिकापि स्मृतः क्षारः कापोतः सुखवर्चकः ॥ २५४ कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका । यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ २५५ निहन्ति शूलवातामश्लेष्मश्वासगलामयान् । पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥ २५६ स्वर्जिकाल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् । सुवर्चिका स्वर्जिकावद्बोद्धव्या गुणतो जनैः ॥ २५७ सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते । टङ्कणं वह्निकृद्रूक्षं कफहृद्वातपित्तकृत् ॥ २५८ स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम् । टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम् ॥ २५९ मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परम् । पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः ॥ २६० यवजः स्वर्जिका चेति क्षाराष्टकमुदाहृतम् । क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम् ॥ २६१ भुक्तं सहस्रवेधि स्याद्रसाम्लं शुक्लमित्यपि । चुक्रमत्यम्लमुष्णं च दीपनं पाचनं परम् ॥ २६२ शूलगुल्मविबन्धामवातश्लेष्महरं सरम् । वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥ २६३ Bहावप्रकाश, Vअर्गप्रकरण, Kअर्पूरादिवर्ग पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः । घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥ १ कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ॥ २ तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः । कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः । पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ ३ चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः । कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः ॥ ४ मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥ ५ कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् । काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ ६ कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता ॥ ७ कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः । कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ॥ ८ लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः । चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् ॥ ९ गन्धमार्जारवीर्यं तु वीर्यकृत्कफवातहृत् । कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ॥ १० श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥ ११ स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् । ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ॥ १२ चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु । श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ॥ १३ कालीयकं तु कालीयं पीताभं हरिचन्दनम् ॥ १४ हरिप्रियं कालसारं तथा कालानुसार्यकम् । कालीयकं रक्तगुणं विशेषाद्व्यङ्गनाशनम् ॥ १५ रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ॥ १६ रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् । तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहम् ॥ १७ पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा । पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनम् ॥ १८ पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् । हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनम् ॥ १९ चन्दनानि तु सर्वाणि सदृशानि रसादिभिः । गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः ॥ २० अगुरु प्रवरं लोहं राजार्हं योगजं तथा । वंशिकं कृमिजं वापि कृमिजग्धमनार्यकम् ॥ २१ अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलम् । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ २२ कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ २३ देवदारु स्मृतं दारुभद्रं दार्विन्द्रदारु च । मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः ॥ २४ देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च । विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् । प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् ॥ २५ सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः । सरलो मधुरस्तिक्तः कटुपाकरसो लघुः ॥ २६ स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः । कफानिलस्वेददाहकासमूर्छाव्रणापहः ॥ २७ कालानुसार्यं तगरं कुटिलं नहुषं नतम् । अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥ २८ तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारशूलाक्षिरोगदोषत्रयापहम् ॥ २९ पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् । पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ॥ ३० वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् । गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ॥ ३१ गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः । कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः ॥ ३२ महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ॥ ३३ भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः । महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ॥ ३४ कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः । हिरण्याक्षस्तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥ ३५ महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ । हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥ ३६ विशेषेण मनुष्याणां कनकः परिकीर्तितः । कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि ॥ ३७ गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः । कषायः कटुकः पाके कटू रूक्षो लघुः परः ॥ ३८ भग्नसंधानकृद्वृष्यः सूक्ष्मः स्वर्यो रसायनः । दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ॥ ३९ मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् । पिटिकाग्रन्थिशोफार्शोगण्डमालाकृमीञ्जयेत् ॥ ४० माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा । तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा ॥ ४१ स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः ॥ ४२ स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः । नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥ ४३ शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः । पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः ॥ ४४ अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् । मद्यं रोषं त्यजेत्सम्यग्गुणार्थी पुरसेवकः ॥ ४५ श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः । श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ ४६ पित्तलो वातमूर्धाक्षिस्वरोगकफापहः । रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥ ४७ रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ॥ ४८ रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् । दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः ॥ ४९ कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि ॥ ५० कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् । ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ॥ ५१ सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः । कपितैलं च संख्यातस्तथा च कपिनामकः ॥ ५२ सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् । वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः ॥ ५३ जातीफलं जातिकोशं मालतीफलमित्यपि । जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु । कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ॥ ५४ निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः । कृमिकासवमिश्वासशोषपीनसहृद्रुजः ॥ ५५ जातीफलस्य त्वक्प्रोक्ता जातीपत्त्री भिषग्वरैः ॥ ५६ जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् । कफकासवमिश्वासतृष्णाकृमिविषापहा ॥ ५७ लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् । लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमम् ॥ ५८ दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् । तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् । कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवम् ॥ ५९ एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ॥ ६० भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः । स्थूलैला कटुका पाके रसे चानलकृल्लघुः ॥ ६१ रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा । हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् ॥ ६२ सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः । एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् । रसे तु कटुका शीता लघ्वी वातहरी मता ॥ ६३ त्वक्पत्त्रं च वराङ्गं स्यद्भृङ्गं चोचं तथोत्कटम् । त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकम् ॥ ६४ पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् । हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥ ६५ त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता ॥ ६६ उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् । सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा ॥ ६७ पत्त्रकं तमालपत्त्रं च तथा स्यात्पत्त्रनामकम् । पत्त्रकं मधुरं किंचित्तीक्ष्णोष्णं पिच्छिलं लघु । निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥ ६८ नागपुष्पः स्मृतो नागः केसरो नागकेसरः । चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥ ६९ नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनम् ॥ ७० ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् । दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥ ७१ त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेसरसंयुक्तं चातुर्जातकमुच्यते ॥ ७२ तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ॥ ७३ कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ ७४ काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् । सूक्ष्मकेसरमारक्तं पद्मगन्धि तदुत्तमम् ॥ ७५ वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतम् । केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरम् ॥ ७६ कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णं तदधमं स्थूलकेसरम् ॥ ७७ कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् । तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ॥ ७८ गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना । गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा । विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् ॥ ७९ नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ॥ ८० नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी । नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् ॥ ८१ लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटु ॥ ८२ बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । बालकं शीतलं रूक्षं लघु दीपनपाचनम् । हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥ ८३ स्याद्वीरणं वीरतरुर्वीरं च बहुमूलकम् । वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम् ॥ ८४ स्तम्भनं ज्वरनुद्भ्रान्तिमदजित्कफपित्तहृत् । तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥ ८५ वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् । अमृणालं च सेव्यं च समगन्धिकमित्यपि ॥ ८६ उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥ ८७ मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् । तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥ ८८ जटामांसी भूतजटा जटिला च तपस्विनी । मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा । स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ॥ ८९ शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकम् ॥ ९० शैलेयं शीतलं हृद्यं कफपित्तहरं लघु । कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् ॥ ९१ मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् । कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः ॥ ९२ भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः । मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥ ९३ कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् । अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते । तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥ ९४ कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी । कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च ॥ ९५ सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत् । उष्णो लघुर्हरेच्छ्वासं गुल्मवातकफक्रिमीन् ॥ ९६ मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका ॥ ९७ मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा । ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ॥ ९८ शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । गान्धारिका गन्धवधूर्वधूः पलाशिका ॥ ९९ भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी । शोथकासव्रणश्वासशूलसिध्मग्रहापहा ॥ १०० प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ॥ १०१ गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया । प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् ॥ १०२ रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा । गुल्मतृड्विषमोहघ्नी तद्वद्गन्धप्रियङ्गुका ॥ १०३ तत्फलं मधु रूक्षं कषायं शीतलं गुरु । विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् ॥ १०४ रेणुका राजपुत्री च नन्दिनी कपिला द्विजा । भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका ॥ १०५ रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः । पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी । बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ॥ १०६ ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकम् । नीलपुष्पं सुगन्धं च कथितं तैलपर्णकम् ॥ १०७ ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु । कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् ॥ १०८ स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरम् । शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदम् ॥ १०९ स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् ॥ ११० मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् । हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥ १११ निशाचरो धनहरः कितवो गणहासः । चोरकः शङ्कितश्चण्डो दुष्पत्त्रः क्षेमको रिपुः । रोचको मधुरस्तिकः कटुः पाके कटुर्लघुः ॥ ११२ तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् । रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥ ११३ तालीशमुक्तं पत्त्राढ्यं धात्रीपत्त्रं च तत्स्मृतम् । तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् । निहन्त्यरुचिगुल्मामवह्निमान्द्यक्षयामयान् ॥ ११४ कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतम् ॥ ११५ कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् । आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् ॥ ११६ स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला । गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ॥ ११७ लामज्जकं सुनालं स्यादमृणालं लवं लघु । इष्टकापथकं सव्यं नलदं च विदातकम् ॥ ११८ लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् । त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ॥ ११९ एलवालुकमैलेयं सुगन्धि हरिवालुकम् । ऐलवालुकमेलालु कपित्थं पत्त्रमीरितम् ॥ १२० एलालु कटुकं पाके कषायं शीतलं लघु । हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः । बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् ॥ १२१ कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ १२२ मुस्तावत्पेलवपुटं शुकाभं स्याद्वितुन्नकम् ॥ १२३ वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् । कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् ॥ १२४ स्पृक्कासृग्ब्राह्मणो देवो मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १२५ स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् । कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् ॥ १२६ पर्पटी रञ्जनी कृष्णा जतुका जननी जनी । जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी ॥ १२७ पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः । विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् ॥ १२८ नलिका विद्रुमलता कपोतचरणा नटी । धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली ॥ १२९ नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् । कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा ॥ १३० प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् । पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ॥ १३१ Bहावप्रकाश, Vअर्गप्रकरण, ङुडूच्यादिवर्ग अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः । रामपत्नीं बलात्सीतां जहार मदनातुरः ॥ १ ततस्तं बलवान्रामो रिपुं जायापहारिणम् । हृतो वानरसैन्येन जघान रणमूर्धनि ॥ २ हते तस्मिन्सुरारातौ रावणे बलगर्विते । देवराजः सहस्राक्षः परितुष्टश्च राघवे ॥ ३ तत्र ये वानराः केचिद्राक्षसैर्निहता रणे । तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ॥ ४ ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः । पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ॥ ५ गुडूची मधुपर्णी स्यादमृतामृतवल्लरी । छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥ ६ जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिका धीरा विशल्या च रसायनी ॥ ७ चन्द्रहासा वयःस्था च मण्डली देवनिर्मिता । गुडूची कटुका तिक्ता स्वादुपाका रसायनी ॥ ८ संग्राहिणी कषायोष्णा लघ्वी बल्याग्निदीपिनी । दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ॥ ९ कामलाकुष्ठवातास्रज्वरक्रिमिवमीन् हरेत् । प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ १० ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी । ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ ११ वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु । बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् ॥ १२ बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि । श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् । वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥ १३ गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी ॥ १४ कृष्णवृन्ता मधुरसा महाकुसुमिकापि च । काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः ॥ १५ दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् । दोषतृष्णामशूलार्शोविषदाहज्वरापहा ॥ १६ तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् । वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् ॥ १७ स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् । हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ॥ १८ पाटलिः पाटलामोघा मधुदूती फलेरुहा । कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा ॥ १९ ताम्रपुष्पी च कथितापरा स्यात्पाटला सिता । मुष्कको मोक्षको घण्टापाटलिः काष्ठपाटला ॥ २० पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा । अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी ॥ २१ पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् । पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् ॥ २२ अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ २३ अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् । पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः ॥ २४ श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः । मण्डूकपर्णपत्त्रोर्णशुकनासकुटन्नटाः ॥ २५ दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटंभरः । श्योनाको दीपनः पाके कटुकस्तुवरो हिमः । ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः ॥ २६ टुण्टुकस्य फलं बालं रूक्षं वातकफापहम् ॥ २७ हृद्यं कषायं मधुरं रोचनं लघु दीपनम् । गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणम् ॥ २८ श्रीफलः सर्वतोभद्रा पाटला गणिकारिका । श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् ॥ २९ पञ्चमूलं महत्तिक्तं कषायं कफवातनुत् । मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम् ॥ ३० शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा । विदारिगन्धा दीर्घाङ्गी दीर्घपत्त्रांशुमत्यपि ॥ ३१ शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् ॥ ३२ शोषदोषत्रयहरी बृंहण्युक्ता रसायनी । तिक्ता विषहरी स्वादुः क्षतकासक्रिमिप्रणुत् ॥ ३३ पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि । क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ॥ ३४ पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा । हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः ॥ ३५ वार्त्ताकी क्षुद्रभण्टाकी महती बृहती कुली । हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी ॥ ३६ बृहती ग्राहिणी हृद्या पाचनी कफवातकृत् । कटुतिक्तास्यवैरस्यमलारोचकनाशिनी । उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् ॥ ३७ कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी बृहती तथा ॥ ३८ श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका । गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियंकरी ॥ ३९ कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ॥ ४० रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् । निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् ॥ ४१ तयोः फलं कटु रसे पाके च कटुकं भवेत् । शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु । हन्यात्कफमरुत्कण्डूकासमेदःक्रिमिज्वरान् ॥ ४२ तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी ॥ ४३ गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः । गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ ४४ पलंकषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका । गोक्षुरः शीतलः स्वादुर्बलकृद्वस्तिशोधनः ॥ ४५ मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः । प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ ४६ शालिपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका । गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ॥ ४७ पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् । नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ॥ ४८ उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम् । दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः । तन्द्राशोथज्वरानाहपार्श्वपीडारुचीर्हरेत् ॥ ४९ जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥ ५० जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा । रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः ॥ ५१ मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा ॥ ५२ काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका । मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ॥ ५३ चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् । दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् ॥ ५४