१, १ कैलासशिखरासीनं कालकन्दर्पनाशनम् । प्रसन्नं परमेशानं जगदानन्दकारणम् ॥ १,१.१ ॥ प्रणम्य परया भक्त्या भैरवी स्तुतिमातनोत् । देवदेव महादेव जन्मदारिद्र्यनाशन ॥ १,१.२ ॥ प्रसीद करुणामूर्ते प्रसन्न परमेश्वर । दिव्यागमरहस्यानि कुलकौलादिकानि च ॥ १,१.३ ॥ जाने तव प्रसादेन मायामङ्गलविग्रह । श्रोतुमिच्छामि सर्वेश तव दिव्यरसायनम् ॥ १,१.४ ॥ जराजन्मामयघ्नं च खेचरत्वादिसिद्धिदम् । दारिद्र्यदुःखशमनं ब्रह्मत्वादिवरप्रदम् ॥ १,१.५ ॥ ईश्वर उवाच । साधु साधु महाभागे सर्वलोकोपकारिणि । तत्सर्वं जायते सूताच्छुद्धात्मप्राणवल्लभे ॥ १,१.६ ॥ सर्वलोकोपकारार्थं गुह्यात्गुह्यतमं हितम् । रसेन्द्रस्य समुत्पत्तिं लक्षणं च सुरार्चिते ॥ १,१.७ ॥ तत्सर्वं सम्प्रवक्ष्यामि शृणु भैरवि सम्प्रति । <रसोत्पत्तिः> सुरेन्द्रैर्मुनिभिर्दिव्यैः गन्धर्वोरगकिंनरैः ॥ १,१.८ ॥ प्रार्थितो भवत्यां तु कुमारोत्पत्तिमिच्छद्भिः । तारकासुरनाशाय लोकानां रक्षणाय च ॥ १,१.९ ॥ तदा हिमालयगिरेः गुहायां सुचिरं प्रिये । संक्रीडमानयोः कालो गतो नः पुत्रलिप्सया ॥ १,१.१० ॥ त्रिजगत्क्षोभि सुरतं त्यजितुं प्रेषितः सुरैः । कपोतरूपमास्थाय वह्निः प्रागाद्गवाक्षतः ॥ १,१.११ ॥ तं दृष्ट्वा लज्जया देवि विसृष्टं सुरतं मया । निक्षिप्तं वदने वह्नेरावयोस्तेज उज्ज्वलम् ॥ १,१.१२ ॥ तेन दन्दह्यमानोऽग्निर्गङ्गायां तन्न्यमज्जयत् । तेन गङ्गापि संतप्ता तद्बहिर्विससर्ज च ॥ १,१.१३ ॥ तत्द्विधाभूद्बहिः प्राप्य चैकं स्कन्दप्रसूतये । अन्यच्छुद्धरसो जातो ह्यापदंबुधिपारदः ॥ १,१.१४ ॥ शतयोजननिम्नेषु पञ्चकूपेषु संस्थितः । तन्मला धातवो जाता मणयो दिव्यवस्तु च ॥ १,१.१५ ॥ तत्तत्क्षेत्रविशेषेण नामवर्णादिकान् गुणान् । भिन्नः प्राप्तो रसेन्द्रोऽयं जन्मदारिद्र्यभञ्जनः ॥ १,१.१६ ॥ ते कूपाः प्रलये पञ्च संज्ञा जातादि वै मुखाः । ससंचवर्णां निवृत्त्या निक्षिप्ता नियुतानि हि ॥ १,१.१७ ॥ पञ्चवर्णानि देवेशि सर्वसत्त्वयुतानि च । पूर्वस्यां पारदः श्वेतो नानावर्णैर्गदापहः ॥ १,१.१८ ॥ चञ्चलो दक्षिणस्यां तु रसेन्द्रो नीलवर्णवान् । दोषहीनोऽतिरूक्षश्च सुतरां चपलः प्रिये ॥ १,१.१९ ॥ तेन जाता भुजङ्गेन्द्रा जराजन्मगदोषोज्झिताः । पश्चिमस्यां तु सूताख्यः पीतवर्णोऽतिरूक्षकः ॥ १,१.२० ॥ सर्वदोषयुतोऽसौ तु शुद्धोऽष्टादशकर्मभिः । सर्वसिद्धिप्रदो देवि देहलोहादिसिद्धिदः ॥ १,१.२१ ॥ उत्तरस्यां दिशो रक्तः सर्वदोषविवर्जितः । रसायनं तु तेनैव देवा जन्मजरोज्क्षिताः ॥ १,१.२२ ॥ मध्ये तु मिश्रको ज्ञेयः सर्ववर्णसमन्वितः । बहिश्चन्द्रार्काच्छायो रसो दोषसमन्वितः ॥ १,१.२३ ॥ स चाष्टादशसंस्कारैः शुद्धः सिद्धिप्रदो भवेत् । अमराणां स्वरूपं तु रसेन्द्रो हि महेश्वरः ॥ १,१.२४ ॥ पूरयामासतुस्तौ च स्तोकतो ह्यतिदुर्लभौ । अन्येषु सर्वकार्येषु सिद्धदोऽपि हि कर्मभिः ॥ १,१.२५ ॥ अष्टादशभिरत्यन्तं शुद्धः सिद्धिप्रदो द्रुतम् । रसावतारं यो वेत्ति स तु धार्मिकसत्तमः ॥ १,१.२६ ॥ आयुष्यसुखसंतानधनारोग्यमवाप्नुयात् । <रसपर्यायाः तन्निरुक्तैस्त> जन्मरोगजरामृत्युदारिद्र्यांभोनिधेः परम् ॥ १,१.२७ ॥ पारं ददाति तेनैव पारदः परिकीर्तितः । रसोपरसलोहादिकर्तृत्वाच्च रसेन्द्रकः ॥ १,१.२८ ॥ मम प्रत्यङ्गसूतत्वात्सूत इत्यभिधीयते । सूते यस्मात्सर्वसिद्धिं तस्मात्सूत इति स्मृतः ॥ १,१.२९ ॥ मम देहरसो यस्मात्रसस्तस्मात्प्रकीर्तितः । जरामरणदारिद्र्यरोगनाशाय शस्यते ॥ १,१.३० ॥ तस्माश्रस इति प्रोक्तो धातुत्वाच्च वरानने । सर्वधातून्रसत्येषः तस्माच्च रस ईरितः ॥ १,१.३१ ॥ मित्रकारी सवर्णत्वात्सर्वसिद्धिप्रदायकः । पारदो व्याधिसंहर्ता रसेन्द्रो रसकर्मणि ॥ १,१.३२ ॥ धातुकर्मसु सूतः स्याद्रसेन्द्रो रससाधने । सर्वकर्मार्हततया सर्वतया प्रिये ॥ १,१.३३ ॥ सर्वसिद्धिप्रदो देवि मिश्रकोऽयमुदाहृतः । <रसगता दोषाः> अमोघसिद्धिममलं सर्वसिद्धिप्रदं रसम् ॥ १,१.३४ ॥ आलोक्य त्रिदशाः सर्वे ब्रह्मविष्णुपुरेगमाः । मामभिप्रार्थयामासुः स्तोत्रैश्च विविधैः प्रिये ॥ १,१.३५ ॥ रसेन्द्रदर्शनादेव नरपक्षिमृगादयः । सिद्धिं नानाविधां यान्ति तन्निवारय शंकर ॥ १,१.३६ ॥ तस्मात्त्रिधा कञ्चुकाभिर्दोषैश्चासौ नियोजितः । तदा प्रभृति दोषैश्च कञ्चुकाभिश्च वर्जितः ॥ १,१.३७ ॥ शुद्धोऽष्टादशसंस्कारैः सूतो भवति सिद्धिदः । <रसावस्थाः> धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥ १,१.३८ ॥ सकंपश्च विकंपश्च पञ्चावस्था रसस्य तु । <रसगतयः> रसस्य गतयः पञ्च जले स्याज्जलवद्गतिः ॥ १,१.३९ ॥ धूमे धूमगतिः सूतः स्तरणे हंसवद्गतिः । किट्टे किट्टनिभा देवि पञ्चमो जीववद्गतिः ॥ १,१.४० ॥ चतस्रो गतयो दृश्याः अदृश्या पंचमी गतिः । यन्त्रौषधाद्यै रोद्धव्याश्चतस्रो गतयः प्रिये ॥ १,१.४१ ॥ ध्यानमन्त्रौषधाद्यैश्च रोद्धव्या पञ्चमी गतिः । <नैसर्गिका दोषाः> पार्थिवश्च तथैवाप्य आग्नेयश्चानिलस्तथा ॥ १,१.४२ ॥ नाभसो गजचर्माख्यः पुण्डरीको विसर्पकृत् । हारिद्रो रक्तचर्माख्यो नारङ्गो रक्तबिन्दुकः ॥ १,१.४३ ॥ असह्याग्निश्च मण्डूको मला नैसर्गिकाः स्मृताः । <औपधिका दोषाः> कालिका मलिनी चैव कपोती रक्तकञ्चुका ॥ १,१.४४ ॥ सलोमी गिरिजा चैव पिङ्गली सप्त कञ्चुकाः । औपाधिका इमा ज्ञेयाः पारदे कीर्तिताः प्रिये ॥ १,१.४५ ॥ <यौगिका दोषाः> विषं नागश्च वङ्गश्च यौगिकश्च त्रयः स्मृताः । <दोषाणां स्वरूपम्> भौमः कुष्ठकरश्चाप्यो दोषोद्रेकं करोति सः ॥ १,१.४६ ॥ आग्नेयः कुरुते दाहं वायव्यः शूलकृद्भवेत् । बाधिर्यं नाभसो दोषो गजत्वग्गजचर्मकृत् ॥ १,१.४७ ॥ पुण्डरीको दद्रुकरो विसर्पश्च विसर्पकृत् । हारिद्रः पाडुकृत्प्रोक्तो रक्तचर्माक्षिपाटलम् ॥ १,१.४८ ॥ नारङ्गो दुम्बरं कुष्ठं रक्तबीजो मसूरिकाः । असह्याग्निर्मोहकारी मण्डूकश्चर्मकीलकृत् ॥ १,१.४९ ॥ मलो मूर्च्छाकरो देवि ख्याता दोषोद्भवास्तथा । कालिका कृष्णवर्णं च मलिनी मलसग्रहम् ॥ १,१.५० ॥ कपोती स्वरसादं च विस्फोटं रक्तकञ्चुका । सलोमी वमनं कुर्यात्गिरिजा जाड्यकारिणी ॥ १,१.५१ ॥ पिङ्गली नेत्रघ्नी दोषाः कचुकजाः स्मृताः । विषं मृत्युप्रदो नागो जाड्यं वङ्गस्सुरार्चिते ॥ १,१.५२ ॥ कुरुते पूतिगन्धत्वं गदा यौगिकसम्भवाः । <रसस्य स्थानान्तरगतिः> प्रथमार्तवसुस्नाता सुरूपा शुभलक्षणा ॥ १,१.५३ ॥ शुद्धाम्बरधरा माल्यगन्धन्लिप्ता सुभूषिता । उत्तमाश्वसमारूढा रतिसङ्गविवर्जिता ॥ १,१.५४ ॥ अभ्यर्च्य गणनाथं च भैरवं च गुरुं पुरा । रसेन्द्रभैरवं ध्यात्वा कूपस्थं पारदं प्रिये ॥ १,१.५५ ॥ पश्येच्छीघ्रं ततो गच्छेत्न पुनः पृष्ठमीक्षयेत् । एषा योजनमात्रोआ कुमारी हयसाधना ॥ १,१.५६ ॥ तदानीमाहरेत्ततु कुमारासंजिघृक्षया । कूपमध्यात्समुत्पत्य सोऽनुधावति तां प्रति ॥ १,१.५७ ॥ यावद्योजनमागत्य पुनः कूपे विशेत्क्षणात् । परितः कृतगर्तेषु तेषु तेषु च संस्थितम् ॥ १,१.५८ ॥ तं रसेन्द्रं शुचिर्भूत्वा गृह्णीयाद्रसदेशिकः । गौरवादग्निवदनात्पतितो दरदाह्वये ॥ १,१.५९ ॥ देशे स सूतो भूलीनः तन्त्रज्ञै रसकोविदः । निक्षिप्य मृत्तिकायन्त्रे पातनाख्ये समागतः ॥ १,१.६० ॥ पारदो गृह्यते देवि दोषहीनस्स उच्यते । एवमेव तत्र तत्र सिद्धविद्याधरैस्सदा ॥ १,१.६१ ॥ निक्षेपितः पारदेन्द्रो विद्यते देवि सिद्धिदः ॥ १,१.६२ ॥ आक्, १, २ श्रीभैरवी । रसोपदेशदातारं तच्छिष्यं काकिनीस्त्रियम् । रसपूजां तु पृच्छामि यथावत्कथयस्व मे ॥ १,२.१ ॥ श्रीभैरवः । <रसोपदेशकलक्षणम्> शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते । आचार्यो ज्ञानवान्दक्षः शीलवान् गुणवान् शुचिः ॥ १,२.२ ॥ धर्मज्ञः सत्यसंधश्च रसशास्त्रविशारदः । वेदवेदान्ततत्त्वज्ञो निर्मलः शिववत्सलः ॥ १,२.३ ॥ देवीभक्तः सदा शान्तो रसमण्डपकोविदः । मन्त्रसिद्धो महावीरो देवतायागतत्परः ॥ १,२.४ ॥ रसदीक्षाविधानज्ञो मन्त्रौषधमहारसान् । रागसंख्यां बीजकल्पं द्वन्द्वमेलापनं बिडम् ॥ १,२.५ ॥ रञ्जनं सारणां तैलं दलानि क्रामणानि च । वर्णोत्कर्षं मृदुत्वं च जारणं बालवृद्धयोः ॥ १,२.६ ॥ खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्भवेत् । <शिष्यलक्षणम्> गुरुभक्तः सदाचारो लोभमायाविवर्जितः ॥ १,२.७ ॥ निस्पृहो निरहङ्कारः सत्यवाङ्नियमस्थितः । निरालस्यः स्वधर्मज्ञः षट्कर्मनिरतः सुधीः ॥ १,२.८ ॥ दम्भहिंसादिनिर्मुक्तः शिवाचारेषु दीक्षितः । अत्यन्तसाधकः शान्तो मन्त्रानुष्ठानतत्परः ॥ १,२.९ ॥ दान्तः शिष्यः स विज्ञेयः शक्तिमान् गतमत्सरः । <काकिनीलक्षणम्> आकुञ्चितस्निग्धकेशा पद्मपत्रायतेक्षणा ॥ १,२.१० ॥ दीर्घोत्तुङ्गघ्राणकेशा विद्रुमाधरशोभिता । दाडिमीबीजदशना कम्बुग्रीवोन्नतस्तनी ॥ १,२.११ ॥ शिरीषमालामृदुलबाहुपाशविराजिता । संकीर्णोरस्थला निम्ननाभिः सूक्ष्मा चलाङ्गका ॥ १,२.१२ ॥ तलोदरी रोमराजिवलित्रयविभूषिता । विशालजघनोपेता रम्भोरुः सुभगा प्रिया ॥ १,२.१३ ॥ कादलोपमजङ्घा च पाटलाङ्घ्रिसरोरुहा । शोणामलनखोपेता राजहंसगतिः शुभा ॥ १,२.१४ ॥ कलकोकिलनिध्वानकलकण्ठादिमञ्जुला । पिप्पलछदसंकाशस्मरमन्दिरमण्डिता ॥ १,२.१५ ॥ युवती श्यामला स्निग्धा सुरूपा शुभलक्षणा । चुम्बनस्पर्शनाश्लेषरतिकर्मविचक्षणा ॥ १,२.१६ ॥ बहुले या पुष्पवती पक्षे सा काकिनी स्मृता । स्वस्ववर्णसद्भूता ग्राह्या वाप्यन्यवर्णजा ॥ १,२.१७ ॥ रसकर्मणि दीक्षायां प्रयोगे च रसायने । <काकिनीत्वापादनम्> काकिन्यभावे तरुणी सुरूपान्याथवा भवेत् ॥ १,२.१८ ॥ गन्धकं गोघृतोपेतं निष्कं त्रिः सप्तवासरम् । प्रातर्दद्यात्तु सा नारी काकिनीसदृशा भवेत् ॥ १,२.१९ ॥ धार्मिकः पापभीरुश्च बलवान् ज्ञानवित्तमः । न्यायश्रेष्ठः सर्वसमो रसागमविशारदः ॥ १,२.२० ॥ भूपतिश्चास्य मन्त्री च सर्वशास्त्रविशारदः । सर्वधर्मरतः श्रेष्ठो न्यायमार्गप्रवर्तकः ॥ १,२.२१ ॥ <रसशालानिर्माणम्> रसशालां प्रवक्ष्यामि रसेन्द्रस्य वरानने । निर्णयेच्च निरातङ्के देशे च निरुपप्लवे ॥ १,२.२२ ॥ आस्तिकप्राणिसुभगे धनधान्यसमाकुले । सौराज्ये पूर्णविभवे निरपाये ह्यनिन्दके ॥ १,२.२३ ॥ नगरे सर्ववर्णाढ्ये महामाहेश्वरावृते । तत्रापि विजये स्थाने पवित्रे च सुरक्षिते ॥ १,२.२४ ॥ सव्यालपशुपक्ष्यादिसंबाधपरिवर्जिते । समस्थले च प्राकारपरिघार्गलभूषिते ॥ १,२.२५ ॥ नारङ्गदाडिमडहजम्बीरफलपूरके । तालहिन्तालवकुलनारिकेलाम्लपाटले ॥ १,२.२६ ॥ अशोकजम्बूपनससालपुंनागमण्डिते । कपित्थपूगसरलदेवदारुसुबिल्वके ॥ १,२.२७ ॥ धात्रीन्यग्रोधवरणमधूकाम्रातमण्डिते । केतकीमल्लिकाजातीयूथिकामालतीयुते ॥ १,२.२८ ॥ मागधीकुन्दकुरवतिलके शतपत्रके । कुमुदोत्पलकल्हारपुण्डरीकांबुजोत्पलैः ॥ १,२.२९ ॥ हंससारसकारण्डचक्रवाकविराजितैः । सरोभिः शीतलजले परितः परिवेष्टिते ॥ १,२.३० ॥ शीतानिलाभिलुलितललितप्रसवाञ्चिते । चित्रोद्यानेऽतिरुचिरे रसशालां प्रकल्पयेत् ॥ १,२.३१ ॥ षोडशस्तम्भरुचिरां चतुरश्रां समायताम् । मनोज्ञां देवदेवेशि मत्तवारणसंयुताम् ॥ १,२.३२ ॥ वातायनसमोपेतां कवाटार्गलरक्षिताम् । कक्षपताकासंयुक्तां सर्वोपकरणोज्ज्वलाम् ॥ १,२.३३ ॥ समालिखितदिक्पालां समर्चितविनायकाम् । प्रतिष्ठितोमामाहेशां द्वारपालैश्च रक्षिताम् ॥ १,२.३४ ॥ भेरीकाहलघण्टादिदिव्यवाद्यविनादिताम् । वास्तुलक्षणसंयुक्तां रसशालां प्रकल्पयेत् ॥ १,२.३५ ॥ शालायां वेदिका कार्या सुदृढा दर्पणोपमा । इष्टकैः खचिता रम्या ससोपाना सलक्षणा ॥ १,२.३६ ॥ कपिलागोमयालिप्ता हिरण्यकलशावृता । <रसेन्द्रपूजाविधिः> वेदिकायां रसेन्द्रस्य भद्रपीठं प्रकल्पयेत् ॥ १,२.३७ ॥ भद्रपीठे लिखेत्सम्यक्सिन्दूरेण द्विहस्तकम् । षट्कोणं वसुपत्रं च तद्बहिश्चाष्टपत्रकम् ॥ १,२.३८ ॥ कमलं चतुरश्रं च चतुर्द्वारोपशोभितम् । रसलिङ्गं न्यसेद्यन्त्रे पुष्पाद्यैश्च समर्चयेत् ॥ १,२.३९ ॥ <रससन्ध्या> अथ सन्ध्यां प्रवक्ष्यामि रसकर्मफलप्रदाम् । प्रविशेद्रसशालां च स्नातः शुद्धोऽनुलेपितः ॥ १,२.४० ॥ शुक्लमाल्याम्बरधरः संयतात्मा जितेन्द्रियः । यतवाग्गुरुभक्तश्च सत्यवादी दृढव्रतः ॥ १,२.४१ ॥ उपविश्य समाचामेत्मृदुले चित्रकम्बले । वाङ्मायाश्रीयुतं तोयमात्मविद्याशिवात्मकम् ॥ १,२.४२ ॥ तत्त्वं च शोधयामीति त्रिवारं विधिवत्पिबेत् । ध्यायेद्वरदगायत्रीं त्रिवारं प्रजपेत्प्रिये ॥ १,२.४३ ॥ रसभैरवगायत्रीं शृणु भैरवि तत्त्वतः । ऐं रसेश्वराय विद्महे रसाङ्कुशाय धीमहि । तन्नः सूतः प्रचोदयात् । कोटिसूर्यप्रतीकाशं दशकोटीन्दुसंनिभम् ॥ १,२.४४ ॥ शुभ्रं पञ्चमुखं देवं त्रिनेत्रं चन्द्रशेखरम् । अष्टादशभुजं शान्तं पञ्चकृत्यपरायणम् ॥ १,२.४५ ॥ शुक्लमाल्यांबरधरं नागयज्ञोपवीतिनम् । स्फटिकसङ्काशं प्रेतारूढं रसेश्वरम् ॥ १,२.४६ ॥ नीलकण्ठं च सर्वज्ञं सर्वाभरणभूषितम् । वरदं रसशास्त्रं च पारदं भुजङ्गं सुधाम् ॥ १,२.४७ ॥ शङ्खभैषज्यकोदण्डशूलखट्वाङ्गसायकम् । डमरुं करवालं च गदां पावकमीश्वरि ॥ १,२.४८ ॥ आरोग्यं दिव्यमालां च ह्यभयं द्विनवैः करैः । रसाङ्कुशीं निजोत्सङ्गे बिभ्राणं वृषवाहनम् ॥ १,२.४९ ॥ कपर्दभाररुचिरं मन्दहासाननं शिवम् । रसभैरवमाचिन्त्य तस्योत्सङ्गे रसाङ्कुशीम् ॥ १,२.५० ॥ अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः । पाशाभयं च बिभ्राणां दक्षिणेतरहस्तयोः ॥ १,२.५१ ॥ चतुर्भुजां रक्तवर्णां त्रिणेत्रामिन्दुशेखराम् । रक्ताम्बरधरां देवीं कम्बुग्रीवां कृपामयीम् ॥ १,२.५२ ॥ रत्नालङ्काररुचिरां मन्दहासविराजिताम् । ध्यायेद्रसाङ्कुशीं देवीं देवस्याभिमुखीं शिवाम् ॥ १,२.५३ ॥ ततो भस्म समादाय वामहस्तेन धारयेत् । नैवाधःपतितं पात्रे गृहीत्वा गोमयं सुधीः ॥ १,२.५४ ॥ विशोष्य प्रदहेत्कुण्डे क्रमेण धारयेत्प्रिये । पुनरुद्धारणं चैव सद्योजातादिभिर्भवेत् ॥ १,२.५५ ॥ निरीक्षणं प्रोक्षणं च ताडनाभ्युक्षणं तथा । सद्योजातादिभिर्मन्त्रैरभिमन्त्र्य च तत्पुनः ॥ १,२.५६ ॥ मूर्ध्नि वक्त्रे च हृदये गुह्ये चरणयोः क्रमात् । ईशानाद्यैः पञ्चमन्त्रैस्तत्तत्स्थानेषु निक्षिपेत् ॥ १,२.५७ ॥ सर्वाङ्गोद्धूलनं कुर्यात्भस्मना पञ्चभिश्च तैः । संकल्पं विधिवत्कुर्यात्रसाचार्यो महेश्वरः ॥ १,२.५८ ॥ प्राणायामत्रयं कृत्वा मूलमन्त्रेण पार्वति । प्रोक्षयेन्मन्त्रितं तोयं मूर्ध्नि वामकरस्थितम् ॥ १,२.५९ ॥ आचम्य च पुनस्तोयं मूलमन्त्रेण मन्त्रितम् । त्रिधा दक्षिणहस्तस्थं पिबेदाचमनं ततः ॥ १,२.६० ॥ अर्घ्यं मूलेन दत्त्वा त्रिः पुनराचम्य पार्वति । अष्टोत्तरशतं जप्त्वा मूलमन्त्रमुदारधीः ॥ १,२.६१ ॥ समर्पयेच्च सूताय रससन्ध्येयमीश्वरि । त्रिकालमेवं कुर्वीत सन्ध्यां सर्वाघनाशिनीम् ॥ १,२.६२ ॥ <रसांकुशरसांकुशीमूलमन्त्रोद्धारः> वक्ष्येऽहं मूलमन्त्रस्य शृणूद्धारक्रमं प्रिये । वाङ्माया कमला चाथ चतुर्थ्यन्तो रसेश्वरः ॥ १,२.६३ ॥ ततो महाकालपदं महाबलपदं ततः । अघोरभैरवपदं वज्रवीरपदं ततः ॥ १,२.६४ ॥ क्रोधकालपदं चैतत्सर्वं सम्बुद्धिसंयुतम् । कषष्टवर्गान्तयुतः साधोदन्तः सबिन्दुकः ॥ १,२.६५ ॥ इदं पञ्चाक्षरं कूटं ततः कर्षणसंयुतः । सविसर्गोऽप्ययं कूटश्चतुर्वर्णात्मकः प्रिये ॥ १,२.६६ ॥ रसेन्द्रभैरवस्यायं मन्त्रो द्वात्रिंशदर्णकः । गोपितः सर्वतन्त्रेषु रहस्योऽत्यन्तदुर्लभः ॥ १,२.६७ ॥ रसाङ्कुशामन्त्रमहं वक्ष्यामि शृणु भैरवि । वाङ्माया भुवनेशी च रमा मकरकेतनः ॥ १,२.६८ ॥ रसाङ्कुशा चतुर्थ्यां च नमोऽन्तो द्वादशार्णकः । मन्त्रो रसाङ्कुशायाश्च तव देव्याः प्रकीर्तितः ॥ १,२.६९ ॥ रसभैरवस्य छन्दोऽनुष्ठुप्प्रकीर्तितः । नन्दिकेश ऋषिः प्रोक्तो देवः श्रीरसभैरवः ॥ १,२.७० ॥ रं बीजं लं भवेत्कीलमन्त्यार्णः शक्तिरीरितः । रसांकुशायाः स्कन्दस्यार्द्रं बीजं कीलकं रसः ॥ १,२.७१ ॥ नमः शक्तिरिति ख्यातं रहस्यं मन्त्रमुत्तमम् । <रसलिङ्गार्चना> रसलिङ्गार्चनं वक्ष्ये भैरवि शृणु तत्त्वतः ॥ १,२.७२ ॥ वामपादं पुरस्कृत्य प्रविशेद्यागमन्दिरम् । आसने मृदुले स्थित्वा शुचिः संयतमानसः ॥ १,२.७३ ॥ प्राणानायम्य संकल्प्य श्रीगुरुं शिरसि स्थितम् । शुद्धस्फटिकसंकाशं प्रशान्तं वरदाभयम् ॥ १,२.७४ ॥ स्मरेत्तन्नाम पूर्वं च तदनुज्ञामवाप्य च । दिवि स्थिताश्च ये भूता भूमिस्था विघ्नकारिणः ॥ १,२.७५ ॥ पाताले ये महाभूताः ते नश्यन्तु शिवाज्ञया । अनेनैव च मन्त्रेण दिग्विदिक्ष्वक्षतान् क्षिपेत् ॥ १,२.७६ ॥ पुष्पमस्त्राय फडिति निक्षिपेदन्तरिक्षके । सर्वशत्रुप्रमथनी चेति दक्षिणपार्ष्णिकाम् ॥ १,२.७७ ॥ त्रिवारं घातयेद्भूमौ प्राणायामो भवेत्पुनः । रसेन्द्रभद्रपीठस्य दक्षिणे चतुरश्रकम् ॥ १,२.७८ ॥ मण्डलं हस्तमात्रं च सार्धं कुर्यात्सुशोभनम् । त्रिकोणवृत्तषट्कोणचतुरश्रं भवेत्क्रमात् ॥ १,२.७९ ॥ इन्द्रादिलोकपालांश्च तत्तन्नामपुरःसरम् । प्रणवादिनमोऽन्तैश्च पूजयेत्कुसुमाक्षतैः ॥ १,२.८० ॥ वाङ्मायाकमलाबीजैर्हृदयादीन् प्रपूजयेत् । प्राच्यामवाच्यां क्रमशः प्रतीच्योत्तरयोः शिवे ॥ १,२.८१ ॥ ईशानलासुरमरुत्कोणे नेत्रे प्रपूजयेत् । अस्त्रं सर्वासु काष्ठासु चतुर्थ्यन्तं फडन्तकम् ॥ १,२.८२ ॥ छोटिका दर्शयेदष्ट पश्चादाधारमाहरेत् । तत्रैवावाहयेदग्निमण्डलं बीजमूलकम् ॥ १,२.८३ ॥ अग्नेर्दश कलास्तत्र या गन्धाक्षतैः क्रमात् । ततः पात्रं समादाय भावयेत्सूर्यमण्डलम् ॥ १,२.८४ ॥ मार्तण्डद्वादशकलास्तत्रार्च्याश्चन्दनाक्षतैः । गन्धोत्तमान्वितं तोयं पूरयेदर्घ्यपात्रकम् ॥ १,२.८५ ॥ चिन्तयेदैन्दवं बिम्बं तास्तत्र पूजयेत् । मध्ये त्रिकोणमालिख्य शक्तिबीजं समुल्लिखेत् ॥ १,२.८६ ॥ तत्र क्षिपेत्गन्धपुष्पं मूलमन्त्रं त्रिधा जपेत् । पूर्वादिदिक्षु चतसृषु चतुःपात्राणि धारयेत् ॥ १,२.८७ ॥ पूरयेत्पूर्ववत्तानि गन्धपुष्पाक्षतैर्यजेत् । प्रोक्षयेन्मूलमन्त्रेण मध्यपात्रोदकेन च ॥ १,२.८८ ॥ पात्राणि निजगात्राणि पूजाद्रव्याणि सर्वतः । स्वागतश्चतुरश्रं च मण्डलं परिकल्पयेत् ॥ १,२.८९ ॥ पूर्ववत्पञ्चपात्राणि पूरयेच्छुद्धवारिणा । निक्षिपेन्मध्यगे सूतं रत्नं दक्षिणके क्षिपेत् ॥ १,२.९० ॥ स्वर्णं तद्वामपात्रे च तत्समीपे कुशं न्यसेत् । रत्नपात्रसमीपस्थे पात्रे स्यादष्टगन्धकम् ॥ १,२.९१ ॥ प्रतिपात्रे त्रिकोणं च लिखेन्मायासमन्वितम् । न्यसेद्गन्धाक्षतं पुष्पं त्रिधा मूलेन मन्त्रयेत् ॥ १,२.९२ ॥ सप्तधा रसपात्रं च मूलमन्त्रेण मन्त्रयेत् । रसपात्रोदकेनैव पूजाद्रव्याणि चात्मनः ॥ १,२.९३ ॥ शरीरमुत्तमाङ्गं च प्रोक्षयेत्पीठदीपकम् । आसनस्य ऋषिर्मेरुः सुतलं छन्द ईरितम् ॥ १,२.९४ ॥ कूर्मरूपी तु भगवान् देवता परिकीर्तिता । पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् । अनेनैव तु मन्त्रेण चासने कुसुमं क्षिपेत् ॥ १,२.९५ ॥ <भूतशुद्धिः> भूतशुद्धिं प्रवक्ष्यामि पृथ्वी पीता सवज्रका । कठिना लंबीजयुता जान्वन्ताङ्गुष्ठमूलतः ॥ १,२.९६ ॥ ध्येया जान्वादिकट्यन्तमुपर्यस्यार्धचन्द्रका । शुभ्रा वं बीजसहिता विचिन्त्या द्रवरूपिका ॥ १,२.९७ ॥ कट्यादि हृदयान्तं च बहिर्ध्येयस्त्रिकोणगः । रं बीजं रक्तवर्णश्च स्वस्तिकेन विभूषितः ॥ १,२.९८ ॥ हृदादिकण्ठपर्यन्तं वायुः स्मर्योऽञ्जनप्रभः । यंबीजसहितो देवि षड्बिन्दुपरिभूषितः ॥ १,२.९९ ॥ षट्कोणः कर्णदेशाच्च ब्रह्मरन्ध्रान्तमीश्वरि । वर्तुलं हंबीजयुतं महाकृष्णं वियत्स्मरेत् ॥ १,२.१०० ॥ पृथिवीमप्सु च तास्त्वग्नौ स च वायौ स सोऽम्बरे । मेलयित्वा द्वादशान्ते स्थापयेत्परमेश्वरि ॥ १,२.१०१ ॥ यंबीजेनात्मनो देहं मूलाधाराद्विशोषयेत् । षडाधाराणि निर्भिद्य यावत्ब्रह्मबिलं प्रिये ॥ १,२.१०२ ॥ रं बीजेन दहेद्देहं सर्वमाप्लावयेत्ततः । वंबीजेन द्रवीभूतं ब्रह्मरन्ध्रेन्दुमण्डलात् ॥ १,२.१०३ ॥ स्यन्दमानामृतेनैव तनुमाप्लावयेच्छिवे । आकाशाद्वायुमादद्यात्तस्माद्वह्निं समाहरेत् ॥ १,२.१०४ ॥ वह्नेरापः समादेयास्ताभ्यो भूमिं समाहरेत् । एवं पञ्च च भूतानि स्वस्वस्थाने नियोजयेत् ॥ १,२.१०५ ॥ वामकुक्षिस्थितं पापपुरुषं कृष्णरूपिणम् । ध्यायेत्तं निर्गतं देवि खड्गचर्मधरं परम् ॥ १,२.१०६ ॥ न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु । ऐं ह्रीं श्रीं क्ष्मौं क्ष्मं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट्रसेश्वराय महाकालभैरवाय शिखायै वषट् । रौद्ररूपाय कृष्णपिङ्गललोचनाय अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ मम महारक्षां कुरु कुरु कारय २ मम रससिद्धिं देहि देहि १८८८ । महाकालभैरवाय हृदयाय नमः । पूर्ववन्महाबलभैरवाय शिरसे स्वाहा । पूर्ववतघोरभैरवाय शिखायै वषट् । पूर्ववत्वज्रवीरभैरवाय कवचाय हुम् । पूर्ववत्क्रोधभैरवाय नेत्रत्रयाय वौषट् । पूर्ववत्कालभैरवाय अस्त्राय फट् । एवमङ्गुलिन्यासः । प्रतिबीजैः समुच्चार्य चतुर्थं रसांकुशम् ॥ १,२.१०७ ॥ हृदादिपञ्चस्थानेषु विन्यसेद्बीजपञ्चकम् । ततश्चास्त्राय फडिति चोटिकां दिक्षु दर्शयेत् ॥ १,२.१०८ ॥ मातृकां च कलान्यासं पाज्योन्यासं च कोलकम् । प्रकुर्वीत ततो देवि चान्तर्यजनमाचरेत् ॥ १,२.१०९ ॥ कुम्भकेन हृदम्भोजे सम्फुल्लं विदधाति हि । हृत्पद्मकर्णिकायां च रसमूर्तिं च चिन्तयेत् ॥ १,२.११० ॥ मानसैर्गन्धपुष्पाद्यैरुपचारैः प्रपूजयेत् । स्वदेहं गन्धपुष्पाद्यैरलंकुर्याद्यथासुखम् ॥ १,२.१११ ॥ अन्तर्यजनमेवं स्याद्बहिर्यजनमाचरेत् । अस्त्रेण लिङ्गं सम्प्रोक्ष्य लिङ्गशुद्धिं विधाय च ॥ १,२.११२ ॥ वस्त्रेन तोयेन पूरितां वर्धनीं प्रिये । दक्षपार्श्वे संनिवेश्य पूजयेत्तां विधानतः ॥ १,२.११३ ॥ पीठे सिन्दूररजसा विदध्याच्चतुरश्रकम् । षट्कोणं विलिखेत्तस्मिनृजुं स्वर्णशलाकया ॥ १,२.११४ ॥ वसुपत्रं चाष्टपत्रं सचतुर्द्वारभूगृहम् । चतुरश्रं बहिर्भागे दिक्पालान्पूजयेत्प्रिये ॥ १,२.११५ ॥ नन्दिनं च महाकालं भृङ्गिं रिटिं महाबलम् । कुम्भकर्णं च सुग्रीवं भृङ्गकं च दृढायुधम् ॥ १,२.११६ ॥ चतुर्द्वारे तु विन्यस्य द्वौ द्वौ प्रागादिपूजितौ । रुक्मं रौप्यं ताम्रसीसं वङ्गकान्तशठं ह्ययः ॥ १,२.११७ ॥ प्रागादिद्वार्षु सम्पूज्य क्रमाद्द्वे द्वे महेश्वरि । भूगृहाभ्यन्तरे प्राच्यां शुक्रमग्नौ ग्रहं यजेत् ॥ १,२.११८ ॥ दक्षिणस्यां यजेद्रुद्रमासुरे च समीरणम् । पश्चिमस्यां शिवं वह्निं वायव्यामुत्तरे ह्युमाम् ॥ १,२.११९ ॥ यजेत्पावकमैशान्यां ततश्चाष्टदलाग्रके । प्रागादौ गन्धकं तालं कासीसं च मनःशिलाम् ॥ १,२.१२० ॥ कंकुष्ठं माक्षिकं चैव नृपावर्तं च गैरिकम् । लेपिका क्षेपिका चैव क्रामिका रञ्जिका तथा ॥ १,२.१२१ ॥ लोहटी बन्धकारी च भूचरी मृत्युनाशिनी । विभूतिः खेचरी चैव दश दूत्यः क्रमेण च ॥ १,२.१२२ ॥ पूज्यास्त्वष्टदले पद्मे ह्यूर्ध्वाधस्ताद्दलेषु च । माणिक्यमुक्तावैडूर्यनीलगारुडविद्रुमाः ॥ १,२.१२३ ॥ गोमेदः पुष्परागश्च मणयः सर्वसिद्धिदाः । द्वितीयवसुपत्रस्य दलाग्रेषु प्रपूजयेत् ॥ १,२.१२४ ॥ अष्टादशभुजा रुद्राः पञ्चवक्त्रास्त्रियम्बकाः । चन्द्रार्धशोभिमकुटाः नीलग्रीवा वृषध्वजाः ॥ १,२.१२५ ॥ स्वस्ववर्णधराः सर्वे त्वष्टविद्येश्वरास्तु ते । पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥ १,२.१२६ ॥ रसकं विमलं ताप्यं चपलं तुत्थमञ्जनम् । षट्कोणस्य दलाग्रेषु सख्यः स्युः सर्वसिद्धिदाः ॥ १,२.१२७ ॥ वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् । भूनागः शक्तयश्चैताः षडस्रेषु प्रपूजयेत् ॥ १,२.१२८ ॥ हिंगुलं सस्यकं चैव शिलाजत्वग्निजारकम् । तत्कर्णिकायां पूर्वादौ पराशक्तिचतुष्टयम् ॥ १,२.१२९ ॥ हिंगुलं मालिनी शक्तिः परा शक्तिश्च सस्यकम् । शिलाजत्वपरा शक्तिरग्निजारः परापरा ॥ १,२.१३० ॥ प्रणवादिनमोऽन्तैश्च तत्तन्नामपुरःसरम् । सचतुर्थ्या यजेदेतान्रसावरणसंस्थितान् ॥ १,२.१३१ ॥ मध्ये तु दिव्यशक्तीनां पूजयेद्रसभैरवम् । सप्तविंशतिनिष्के तु द्राविते शुद्धहाटके ॥ १,२.१३२ ॥ नवनिष्कं सूतराजं विन्यसेच्चैकमानसः । मधूच्छिष्टकृते यन्त्रे लिङ्गाकारे सुलक्षणे ॥ १,२.१३३ ॥ निष्टप्ते हाटके सूतं प्रतप्ते प्रक्षिपेच्छिवे । मुहूर्तात्स्वाङ्गशीतं तं रसलिङ्गं पयोऽन्तरे ॥ १,२.१३४ ॥ स्थापयेत्पुनरादाय ह्युपरिस्थं मलं हरेत् । संघृष्य च समीकृत्य लिङ्गं संप्रोक्षयेत्ततः ॥ १,२.१३५ ॥ एवं रौप्यादिलोहैर्वा व्यस्तैर्वाथ समस्तकैः । अभ्रकादिमसत्त्वैर्वा लिङ्गं कुर्यात्स्वशक्तितः ॥ १,२.१३६ ॥ रसलिङ्गं द्विधा प्रोक्तं सकलं निष्कलं प्रिये । पूर्वोक्तं सकलं लिङ्गं निष्कलं केवलो रसः ॥ १,२.१३७ ॥ बुभुक्षूणां हि सकलं निष्कलं मोक्षमिच्छताम् । रसलिङ्गं हेमबद्धं ब्रह्मविष्ण्वीशवह्नयः ॥ १,२.१३८ ॥ अपूजयन् रूप्यबद्धं गणेशस्कन्दनन्दिनः । त्वयाभ्रसत्वसम्बद्धं रसलिङ्गं प्रपूजितम् ॥ १,२.१३९ ॥ ताम्रबद्धं रमावाणीकुबेरेन्द्रजलाधिपाः । कान्तबद्धं यममरुन्नैरृताः समपूजयन् ॥ १,२.१४० ॥ वङ्गबद्धं सिद्धसाध्यविद्याधरमहर्षयः । नागबद्धं नागवसुगन्धर्वोरगकिन्नराः ॥ १,२.१४१ ॥ तीक्ष्णबद्धं भद्रकालीयक्षभूतपिशाचकाः । मुण्डबद्धं च दुर्गाम्बा चाप्सरोगुह्यकासुराः ॥ १,२.१४२ ॥ निष्कलं रसलिङ्गं तु भृङ्ग्याद्या योगिनोऽर्चयन् । उक्तानि रसलिङ्गानि मानवाः फलकाङ्क्षिणः ॥ १,२.१४३ ॥ पूजयेयुः प्रयत्नेन नित्यं सर्वार्थसिद्धये । उक्तानां रसलिङ्गानां प्राणसंस्थापनं शृणु ॥ १,२.१४४ ॥ प्राणानायम्य विधिवत्प्राणशक्तिं स्मरेच्छिवे । शोणिताम्भोधिमध्यस्थरक्ताम्भोजासनां पराम् ॥ १,२.१४५ ॥ रक्तांबरधरां रक्तां नानारत्नकिरीटिनीम् । विमलेन्दुकलाजूटां रविवह्नीन्दुलोचनाम् ॥ १,२.१४६ ॥ कर्णताटङ्ककिरणारुणीकृतकपोलकाम् । श्रीपर्णीकुसुमाकारनासावंशविराजिताम् ॥ १,२.१४७ ॥ प्रवालपद्मरागाभबिम्बाधरविराजिताम् । कुरुविन्ददलाकारश्लक्ष्णदन्ताभिशोभिताम् ॥ १,२.१४८ ॥ शङ्खाभिरामकण्ठस्थमुक्ताहारविराजिताम् । अङ्गुलीयककेयूरकटकादिविभूषिताम् ॥ १,२.१४९ ॥ पाशाङ्कुशेक्षुकोदण्डपुष्पबाणाभयप्रदाम् । रुधिरापूर्णपात्रेण शोभमानकराम्बुजाम् ॥ १,२.१५० ॥ पीनस्तनतटोद्भासिहारकुङ्कुममण्डिताम् । काञ्चीमञ्जीरकटकपादाङ्गुलिविभूषिताम् ॥ १,२.१५१ ॥ प्राणप्रतिष्ठां लिङ्गस्य कुर्वीतैकाग्रमानसः । सृणिं मञ्च पाशश्च हंसः सोऽहमिति प्रिये । अमुष्य लिङ्गस्य प्राण इह प्राणः । अमुष्य लिङ्गस्य जीव इह स्थितः । अमुष्य लिङ्गस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु सोऽहं हंसः स्वाहा । यरलवशषसहोम् । क्रों ह्रीमाम् । एतन्मन्त्रं समुच्चार्य प्राणानावाहयेत्प्रिये । अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानि छन्दांसि । श्रीपराशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः क्रों कीलकम् । अमुष्य लिङ्गस्य प्राणप्रतिष्ठायां विनियोगः । आसनं पूजयेत्पूर्वं गन्धपुष्पाक्षतादिभिः ॥ १,२.१५२ ॥ हामाधारशक्त्यै नमः । ह्रीं कूर्माय नमः । ह्रूमनन्ताय नमः । ह्रैं पृथिव्यै नमः । ह्रौं कन्दाय नमः । अङ्कुराय नालाय कर्णिकेभ्यः दलेभ्यः केसरेभ्यः कर्णिकायै तन्मध्ये धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय नमः । हृदम्भोजस्थितं देवं सह देव्या महेश्वरि । आवाहयेत्सावरणं स्वाङ्गशक्तिसमन्वितम् ॥ १,२.१५३ ॥ पीठे संस्थापयेल्लिङ्गं मूलेनार्घ्यं कुशोदकैः । पाद्यं गन्धोदकैर्दद्याथैमेनाचमनं भवेत् ॥ १,२.१५४ ॥ रत्नोदकैर्भवेत्स्नानं सर्वं मूलेन शाम्भवि । एकादशेन रुद्रेण पवमानेन पार्वति ॥ १,२.१५५ ॥ चमकैः पुरुषसूक्तैश्च फलैः पञ्चामृतैरपि । नालिकेरेक्षुसलिलैः सुगन्धोदकवारिणा ॥ १,२.१५६ ॥ संस्नाप्य च ततो लिङ्गं पीठे संस्थापयेच्छिवे । लिङ्गस्य परितः ओं वामदेवाय नमः ज्येष्ठाय रुद्राय कालाय कलविकरणाय बलाय बलविकरणाय बलप्रमथनाय सर्वभूतदमनाय इत्यष्टासु दिक्षु मनोन्मनाय इति शिवसन्निधौ पुष्पैरभ्यर्च्य । ओं ह्रां हृदयाय नमः । ओं ह्रीं शिरसे स्वाहा । ओं ह्रूं शिखायै वषट् । ओं ह्रैं कवचाय हुम् । ओं ह्रौं नेत्रत्रयाय वौषट् । ओं ह्रः अस्त्राय फट् । ह्रामीशानाय नमः । ह्रीं तत्पुरुषाय नमः । ह्रूमघोराय नमः । ह्रैं वामदेवाय नमः । ह्रौं सद्योजाताय नमः । मूलमन्त्रेण देवाय दद्यात्पुष्पाञ्जलिं प्रिये ॥ १,२.१५७ ॥ मूलमन्त्रषडङ्गेन न्यासं कुर्याच्छिवस्य च । लिङ्गस्य दक्षिणे भागे ऋगादीन्निगमानपि ॥ १,२.१५८ ॥ ब्रह्माणं पृथिवीं तोयं विष्णुं रुद्रं हुताशनम् । ईश्वरं पवनं चैवमाकाशं च सदाशिवम् ॥ १,२.१५९ ॥ श्रीकण्ठममृतांशुं च भैरवं भास्करं तथा । परं शिवं परात्मानं पूजयेन्मतिमान् क्रमात् ॥ १,२.१६० ॥ लिङ्गस्य वामपार्श्वे तु ब्राह्म्यादीः सप्त मातरः । महालक्ष्मीं महाकालीं दुर्गां स्कन्दविनायकौ ॥ १,२.१६१ ॥ योगिन्यः क्षेत्रपालाश्च शक्तयश्चादिपीठकाः । ओड्याणशक्तिर्जालंध्री तथा पूर्णा गिरिः प्रिये ॥ १,२.१६२ ॥ कामेश्वरीति संपूज्या रुद्रशक्तिः सुरार्चिते । लोपामुद्रा कुब्जिका च कालसंकर्षणी तथा ॥ १,२.१६३ ॥ मधुरादिरसा गन्धाः सर्वधान्यानि पार्वति । दिव्यौषध्यः सुधा हाला विषं चर्मादिधातवः ॥ १,२.१६४ ॥ इन्द्रियाणि मनो बुद्धिरहङ्कारश्च चेतनः । शब्दाद्या विषयाः पूज्या देहाङ्गानि च शाम्भवि ॥ १,२.१६५ ॥ लिङ्गस्य पश्चिमे भागे समुद्राः सरितो नदाः । पर्वता मेरुमुख्याश्च भास्कराद्या नव ग्रहाः ॥ १,२.१६६ ॥ ज्योतिश्चक्रं ध्रुवश्चैव शिशुमारः प्रजापतिः । कलाः काष्ठाश्च घटिका मुहूर्ताः प्रहरा दिनम् ॥ १,२.१६७ ॥ रात्रिः पक्षश्च मासश्च ऋतुकालायनानि च । संवत्सरा युगाः कल्पा दिशस्तारास्तिथिः शिवे ॥ १,२.१६८ ॥ पातालानि च नागेन्द्रास्तथा कालाग्निरुद्रकाः । यक्षाः पिशाचभूताश्च राक्षसा दनुजास्तथा ॥ १,२.१६९ ॥ गुह्यका दुष्टवेताला राजयक्ष्मादयो गदाः । मन्त्राः शस्त्राणि चास्त्राणि सम्पूज्य क्रमशः प्रिये ॥ १,२.१७० ॥ लिङ्गस्य पूर्वभागे तु संपूज्या गुरुपङ्क्तयः । सिद्धाः साध्याश्च मुनयो योगिनो ब्रह्मवादिनः ॥ १,२.१७१ ॥ विद्याधराः किन्नराश्च गन्धर्वश्चाश्विनौ तथा । वसवोऽप्सरसां मुख्या शृङ्गारादिरसा नव ॥ १,२.१७२ ॥ गीतं नृत्तानि तद्भेदाः काश्यपाद्यास्तथा दश । रुद्राः समनवः पूज्या भास्करा वह्नयस्त्रयः ॥ १,२.१७३ ॥ विश्वे देवाश्च पितरो मातरः पितृदेवताः । कुलाचार्या रसाचार्याः पूर्वाचार्याः शिवार्चकाः ॥ १,२.१७४ ॥ मत्स्यादिदशजन्मानि जिनो लोकायतस्तथा । नरकाद्याः सर्वलोका गरुडा गरुडाण्डकाः ॥ १,२.१७५ ॥ ब्रह्माण्डाः खेचराः सर्वे भूचराश्च जलेचराः । सम्पूज्य देवताः सर्वाः प्रणवादिनमोऽन्तकैः ॥ १,२.१७६ ॥ तत्तन्नामचतुर्थ्यन्तैः पुष्पगन्धाक्षतैः प्रिये । देवाय वस्त्रयुगलमुपवीतद्वयं तथा ॥ १,२.१७७ ॥ मधुपर्कं दिव्यगन्धमक्षतान् कुसुमानि च । सदा कैतकवर्ज्यानि दिव्यानि विदलानि च ॥ १,२.१७८ ॥ तत्पुष्पाणि च कह्लारकमलोत्पलकैरवम् । जातीचम्पकपुन्नागपूगनारङ्गकैः ॥ १,२.१७९ ॥ मागधीमाधवीमल्लीयूथिकाप्रभृतीनि च । दमनी मरुवं चैव रसेन्द्राय समर्पयेत् ॥ १,२.१८० ॥ धूपं दशाङ्गं दीपं चापूपान्नं घृतपायसम् । सषड्रसानि शाकानि शुद्धगन्धोत्तमान्वितम् ॥ १,२.१८१ ॥ लेह्यं चोष्यादि नैवेद्यं पारदेन्द्राय दर्शयेत् । हस्तप्रक्षालनं देवि दद्याद्गन्धोदकेन च ॥ १,२.१८२ ॥ सुवासितानि पूगानि घनसारयुतानि च । अवदातानि साग्राणि नागवल्लीदलानि च ॥ १,२.१८३ ॥ मुक्ताफलोद्भवं चूर्णं ताम्बूलं च समर्पयेत् । दर्पणं चामरद्वन्द्वं छत्रं नृत्तं च गीतकम् ॥ १,२.१८४ ॥ उपचारेषु सर्वेषु दद्यादाचमनं प्रिये । सर्वोपचारान्मूलेन दद्यात्स्तोत्रं जपेच्छिवे ॥ १,२.१८५ ॥ रसेन्द्रभैरवं देवं ध्यात्वा देवीं रसांकुशाम् । माहेश्वरांश्च विनतां गन्धपुष्पादिभिर्यजेत् ॥ १,२.१८६ ॥ अङ्गुष्ठानामिकाभ्यां च दद्याद्गन्धोत्तमान्वितम् । बिन्दुमूलेन देवाय देव्यै च गुरुपङ्क्तये ॥ १,२.१८७ ॥ क्रमादावरणस्थेभ्यो देवीभ्योऽपि च तर्पयेत् । ह्रीमानन्दशिवमूर्तिमाराधयामि । ह्रीं परानन्दशिवमूर्तिमाराधयामि । ह्रीं परापरानन्दशिवमूर्तिमाराधयामि । ह्रीमानन्दसिद्धमूर्तिमाराधयामि । ह्रीं परानन्दसिद्धमूर्तिमाराधयामि । ह्रीं परापरानन्दसिद्धमूर्तिमाराधयामि । क्लीमानन्दगुरुमूर्तिमाराधयामि । क्लीं परानन्दगुरुमूर्तिमाराधयामि । क्लीं परापरानन्दगुरुमूर्तिमाराधयामि । तेभ्यो दत्त्वा प्रसादं च तैरनुज्ञापितः स्वयम् ॥ १,२.१८८ ॥ कुण्डल्यामात्मतत्त्वं च विद्यातत्त्वं च नाभिगम् । हृदये शिवतत्त्वं च सर्वतत्त्वं हि तालुगम् ॥ १,२.१८९ ॥ त्रितत्त्वमेवं संचिन्त्य प्रसादं च समन्त्रकम् । ततः प्रज्वलितं स्मृत्वा ज्योतिरन्तर्गतं प्रिये ॥ १,२.१९० ॥ स्वीकुर्वीत प्रसादं च यथेष्टं सुरसेविते । प्रीणन्ति पितरो हर्षान्मूर्छया सर्वदेवताः ॥ १,२.१९१ ॥ अज्ञाना [... औ३ Zएइछेन्झ्] वप्रीतिः स एवाहं न संशयः । <रसेन्द्रबलिक्रमः> गन्धोत्तमौदनं शुद्धक्षतजं च घृतं मधु ॥ १,२.१९२ ॥ संयोज्य पञ्चखण्डं च कृत्वा दद्यात्क्रमेण च । दक्षिणोत्तरपूर्वासु पश्चिमायां च मध्यमे ॥ १,२.१९३ ॥ तांस्तान्मन्त्रान्समुच्चार्य बलिं दद्यात्ततो नरः । प्रणवं मायां कमलां देवीं पुत्रप्रदं ततः ॥ १,२.१९४ ॥ ततो वटुकनाथाख्यं कपिलं जटाभारभासुरं च ततः पिङ्गल त्रिणेत्र इमां बलिं पूजां गृह्ण गृह्ण स्वाहा । ओं ह्रीं श्रीं सिद्धयोगिनीभ्यः सर्वमातृभ्यो नमः । ओं ह्रीं श्रीं सर्वभूतेभ्यः सर्वभूतपतिभ्यो नमः । ओं ह्रीं श्रीं स्थानक्षेत्रपाल इमां बलिं पूजां गृह्ण गृह्ण स्वाहा । ओं ह्रीं श्रीं रसेन्द्र क्षेत्रपाल राजराजेश्वर इमां बलिं पूजां गृह्ण गृह्ण स्वाहा । बलिं दद्यादिति शिवे सर्वविघ्नोपशान्तये । ततश्चाष्टोत्तरशतं जपेन्मूलं रसाग्रतः ॥ १,२.१९५ ॥ ततः स्तोत्रं जपेद्देवि रसभैरवतुष्टये । संतुष्टाः सर्वदेवाः स्युः तुष्टे तु रसभैरवे ॥ १,२.१९६ ॥ अयं नित्यार्चनविधिः प्रोक्तः सर्वत्र दुर्लभः । <पारदपूजाफलम्> विद्धि मां पारदं देवि तत्स्मर्ता मत्समः प्रिये ॥ १,२.१९७ ॥ पारदस्त्वधिको मत्तो मदीयत्वाच्च सारतः । रसस्य स्मरणं पुण्यं दर्शनं स्पर्शनं तथा ॥ १,२.१९८ ॥ पूजनं भक्षणं दानं षोढा पुण्यमुदीरितम् । सात्त्विकं राजसं चैव तामसं त्रिविधं वपुः ॥ १,२.१९९ ॥ सात्त्विकं मुक्तिदं शुभ्रं बालं द्विभुजमण्डितम् । पूर्णपात्रं सूक्ष्मदण्डं द्विनेत्रं किङ्किणीस्रजम् ॥ १,२.२०० ॥ राजसं भुक्तिदं रक्तं किरीटशशिशेखरम् । चतुर्भुजं च तरुणं नीलकण्ठं त्रिलोचनम् ॥ १,२.२०१ ॥ सर्वैश्वर्यप्रदं ध्यायेत्शूलपात्रवराभयम् । तामसं कृष्णवर्णं च ज्वलदूर्ध्वशिरोरुहम् ॥ १,२.२०२ ॥ अष्टादशभुजं त्र्यक्षं पूर्वोक्तं चिन्तयेद्रसम् । सर्वसिद्धिप्रदं देवि सर्वकामफलप्रदम् ॥ १,२.२०३ ॥ स्मरणं रसराजस्य सर्वोपद्रवनाशनम् । हृदम्भोजस्थितं ध्यायेन्नश्यन्त्येनांसि भैरवि ॥ १,२.२०४ ॥ दर्शनं पारदेन्द्रस्य हन्ति पापं त्रिकालजम् । सेतुकेदारपर्यन्तदिव्यलिङ्गौघदर्शने ॥ १,२.२०५ ॥ यत्पुण्यं लभते मर्त्यः तत्कोटिगुणितं भवेत् । पृथिव्यां सर्वतीर्थेषु सागरान्तेषु दर्शनात् ॥ १,२.२०६ ॥ स्नानपानादिभिः पुण्यं तत्कोटिगुणितं भवेत् । गोहत्यानियुतं देवि भ्रूणहत्याशतानि च ॥ १,२.२०७ ॥ ब्रह्महत्यासहस्राणि नश्यन्ति रसदर्शनात् । गवां कोटिप्रदानेन स्वर्णकोटिशतेन च ॥ १,२.२०८ ॥ अश्वमेधसहस्रेण यत्पुण्यं तच्च दर्शनात् । रसस्य स्पर्शनं हन्यादगम्यागमनं प्रिये ॥ १,२.२०९ ॥ परद्रव्यापहारं च पापं प्राणिवधार्जितम् । सप्तद्वीपे धरण्यां च पाताले गगने दिवि ॥ १,२.२१० ॥ यान्यर्चयति लिङ्गानि तत्पुण्यं रसपूजया । स्वायंभुवेषु लिङ्गेषु दिव्येषु कृतपूजया ॥ १,२.२११ ॥ यत्पुण्यं रसलिङ्गस्य पूजया तत्फलं भवेत् । योगिनोऽष्टाङ्गनिरता यत्पदं ब्रह्मवादिनः ॥ १,२.२१२ ॥ तत्पदं समवाप्नोति रसलिङ्गस्य पूजया । कुंकुमागरुकस्तूरीकर्पूरान्तर्गतं रसम् ॥ १,२.२१३ ॥ मूर्छितं रसलिङ्गाय दद्यादिष्टार्थसिद्धये । भक्षणाद्रसराजस्य सर्वपापं विनश्यति ॥ १,२.२१४ ॥ अनादिमायामलिनमात्मानं च विशोषयेत् । भवरोगं हरेच्छीघ्रं त्रितापं च विनाशयेत् ॥ १,२.२१५ ॥ रसराजस्य दानेन चतुरब्ध्यन्तमेदिनीम् । महामेरुसमं स्वर्णं दत्त्वा यत्तत्फलं भवेत् ॥ १,२.२१६ ॥ ब्रह्मरूपी शुद्धरसो विष्णुरूपी स मूर्छितः । भस्मीकृतो रुद्ररूपी बद्धः सूतः सदाशिवः ॥ १,२.२१७ ॥ कामरूपी जलूकाभः कालरूपी च दोषवान् । मूर्छितो भस्मितो बद्धः पारदेन्द्रो महेश्वरि ॥ १,२.२१८ ॥ व्याधिमृत्युदरिद्रत्वं हरतेऽसौ कृपाकरः । <रसेन्द्रस्तोत्रम्> ददासि त्वं रसेन्द्राशु शब्दस्पर्शनधूमतः ॥ १,२.२१९ ॥ स्वर्णमर्बुदकोट्यन्तं त्राहि खेचरसिद्धिद । नमस्ते कालकालाय नमः सर्वगुणात्मने ॥ १,२.२२० ॥ वलीपलितनाशाय महावीर्यप्रदायिने । नमः शस्त्रास्त्रहन्त्रे च मायाम्भोनिधिपारद ॥ १,२.२२१ ॥ पारदेन्द्र नमस्तुभ्यं कामिनीकेलिमन्मथ । सुधारूप त्रिदोषघ्न नमस्ते षड्रसात्मने ॥ १,२.२२२ ॥ घनत्वात्पृथिवीरूप द्रवत्वाज्जलरूपिणे । तेजोऽधिकत्वात्तेजस्विन् चाञ्चल्याद्वायुरूपिणे ॥ १,२.२२३ ॥ सूक्ष्मत्वाद्रसरूपाय नमस्ते भूतरूपिणे । नमस्ते योगयोग्याय प्रसीदामरवन्दित ॥ १,२.२२४ ॥ वेदगोद्विजराजेन्द्रगुरुवीरादिहिंसया । सम्भूतक्षयकुष्ठादीन्रोगान्हरसि पावन ॥ १,२.२२५ ॥ नष्टेन्द्रियार्थानज्ञानान् त्राता त्वमसि पारद । सर्वौषधीभ्योऽप्यधिको ह्यणुमात्रोपयोगतः ॥ १,२.२२६ ॥ एकोऽपि सर्वदोषघ्नोऽरुचिनाशन ते नमः । त्वया सृष्टा महेन्द्राद्याः सुरा ब्रह्मादयः कलाः ॥ १,२.२२७ ॥ चन्द्रार्कग्रहनक्षत्रशिवभैरवशक्तयः । ज्ञानाज्ञानगुणा लोका गन्धर्वोरगराक्षसाः ॥ १,२.२२८ ॥ दिव्यौषधानि सर्वाणि सर्वसिद्धिकराण्यपि । सूतेन्द्र भवतः श्रीमन् कलां नार्हन्ति षोडशीम् ॥ १,२.२२९ ॥ प्रत्यक्षशम्भो सूतेन्द्र किमन्यैर्भवति स्थिते । अणिमादिगुणोपेते नानासिद्धिप्रदायके ॥ १,२.२३० ॥ योगिनो हेममुख्यानि लोहान्यक्षयतां सदा । अमृतत्वं प्राप्नुवन्ति सेवया तत्र कोज्वल ॥ १,२.२३१ ॥ दृश्यादृश्यस्वरूपं त्वां भोगमोक्षप्रदं परम् । यो न जानाति सूतेन्द्र स मां वेत्ति कथं नरः ॥ १,२.२३२ ॥ गुरुर्माता पिता भ्राता धनं विद्या गतिः सुहृत् । रस त्वमेव भूतानां त्वत्तः कोऽन्यो हितंकरः ॥ १,२.२३३ ॥ रसेन्द्र तव योगे च शास्त्रे स्तोत्रे रसायने । यस्तु भक्तियुतो लोके स एवाहं न संशयः ॥ १,२.२३४ ॥ ब्रह्मज्ञानेऽपि निष्णातो यस्त्वां निन्दति पारद । त्याज्योऽसौ सर्वलोकेषु नैवाहं रक्षितुं क्षमः ॥ १,२.२३५ ॥ यस्त्वां नास्तीति च वदेत्तस्य सिद्धिर्न कुत्रचित् । यस्त्वामस्तीति च वदेत्तस्य सिद्धिर्भवेत्सदा ॥ १,२.२३६ ॥ रसेन्द्रं यस्तु लोकेऽस्मिन्कुलीनो वाधमान्वयः । संस्कृतं कुरुते सूत त्वामष्टादशकर्मभिः ॥ १,२.२३७ ॥ स पुण्यः स व्रती धन्यः स श्लाघ्यः स च बुद्धिमान् । स पुमान्स च सर्वज्ञः स सिद्धः स च दैवतम् ॥ १,२.२३८ ॥ तत्कुलं पावनं भूमिः पुण्या राजा जयान्वितः । तत्पुरं सोत्सवं नित्यं कृतार्था च तदम्बिका ॥ १,२.२३९ ॥ तस्य संदर्शनं पुण्यं स्पर्शनं भाषणं तथा । प्रत्यक्षादिप्रमाणेन पारद त्वं सदाशिवः ॥ १,२.२४० ॥ त्वत्तो देहादि लोहानि वज्रत्वं यान्ति हेमताम् । रसेन्द्र त्वत्प्रसादेन मानिन्यो मृगलोचनाः ॥ १,२.२४१ ॥ चक्रवाकसमोत्तुङ्गपीनवृत्तस्तनोज्ज्वलाः । चञ्चला मन्मथासक्ता विद्रुमाधरशोभिताः ॥ १,२.२४२ ॥ शुकतुण्डप्रतीकाशवक्रतीक्ष्णनखाङ्कुराः । शिरीषमालासुभुजाः चम्पकस्रक्समप्रभाः ॥ १,२.२४३ ॥ निम्ननाभिसमुद्भूतरोमराजिविराजिताः । सर्वाङ्गसौष्ठवाः कान्ताः स्निग्धा वश्या भवन्ति च ॥ १,२.२४४ ॥ सूतेन्द्र शुष्ककाष्ठानां राशिमग्निर्यथा दहेत् । तथैव जन्मदारिद्र्यमृत्युदुःखमहामयान् ॥ १,२.२४५ ॥ जारणार्थेऽग्निमध्ये त्वां धारयेत्कति वासरान् । तावत्कल्यसहस्राणि शिवलोके सुखं वसेत् ॥ १,२.२४६ ॥ तव कार्येषु सूतेन्द्र किंचिद्द्रव्यं व्ययेन्नरः । तेषां ददासि तद्वित्तं कोटिकोटिगुणाधिकम् ॥ १,२.२४७ ॥ परमा पारदी विद्या सर्वलोकेषु दुर्लभा । भोगमोक्षप्रदा पुण्या पुत्रारोग्यप्रवर्धनी ॥ १,२.२४८ ॥ ये त्वां निन्दन्ति सूतेन्द्र मार्जालखरवायसाः । जम्बूका ऋषभाः श्वानः क्लीबान्धबधिरा जडाः ॥ १,२.२४९ ॥ मूकाः कुब्जाः पङ्गवश्च व्यङ्गा वन्ध्याश्च रोगिणः । कैवर्ताः पापकर्माणो जायन्तेऽनेकजन्मसु ॥ १,२.२५० ॥ भवतो निन्दकैः सार्धं भाण्डपक्वान्नमिश्रणम् । यः कुर्यादासनं शय्यां भोजनालापसंगतिम् ॥ १,२.२५१ ॥ स पापिष्ठो भवेत्त्याज्यः सर्वधर्मबहिष्कृतः । इति स्तोत्रं मया प्रोक्तं पारदेन्द्रस्य भैरवि ॥ १,२.२५२ ॥ यः पठेत्शृणुयाद्भक्त्या त्रिसन्ध्यं रससिद्धये । ब्रह्महत्यादिपापैश्च पातकैरुपपातकैः ॥ १,२.२५३ ॥ त्रिकर्मकलिभिर्देवि मुच्यते नात्र संशयः । घोरे युद्धे महारण्ये दिग्भ्रमे शत्रुसंकटे ॥ १,२.२५४ ॥ नदीप्रतरणे देवि चोरव्याघ्रादिसङ्कटे । जपेत्स्तोत्रमिदं देवि ध्यात्वा श्रीरसभैरवम् ॥ १,२.२५५ ॥ इति स्तुत्वा सूतराजं सर्वं कर्म समर्पयेत् । रसो दाता रसो भोक्ता रसः कर्ता च कारणम् ॥ १,२.२५६ ॥ रसो होता च हव्यं च सर्वव्यापी रसः सदा । अनेनैव च मन्त्रेण रसेन्द्राय समर्पयेत् ॥ १,२.२५७ ॥ ततो न्यासं च मूलेन कुर्याद्ध्यात्वा च पूर्ववत् । संहारमुद्रां कृत्वाथ वहेन्नद्यां रसेश्वरम् ॥ १,२.२५८ ॥ हृत्पद्मे स्थापयेद्देवं साङ्गावरणशक्तिकम् । शिवोऽहमिति सद्भावं चिन्तयेद्रसदेशिकः ॥ १,२.२५९ ॥ पूजास्थानं च संमार्ज्य प्रोक्षयेदुदकेन च । ततो होमालयं प्राप्य समाचम्य च देशिकः ॥ १,२.२६० ॥ शालायामग्निदिग्भागे योनिकुण्डे त्रिमेखलम् । दर्भैः प्रागुदगग्रैश्च परिस्तीर्णं यथाविधि ॥ १,२.२६१ ॥ न्यासं मूलेन संकल्प्य प्राणायामं विधाय च । पञ्चभूसंस्कृतं कृत्वा स्वस्त्रिया वा द्विजेन वा ॥ १,२.२६२ ॥ आनीय वह्निं निक्षिप्य कुण्डे प्रज्वालयेत्ततः । वह्निं पिङ्गजटाजूटं त्रिनेत्रं शुक्लवाससम् ॥ १,२.२६३ ॥ रक्ताम्भोजस्थितं देवं माल्याभरणभूषितम् । सप्तहस्तं चतुःशृङ्गं द्विशीर्षं च त्रिपादकम् ॥ १,२.२६४ ॥ त्रिधा बद्धं च ऋषभं शक्त्याद्यायुधधारिणम् । ध्यात्वा तस्यार्घ्यपाद्यादि कुर्यात्सर्वोपचारकम् ॥ १,२.२६५ ॥ गन्धाक्षतसुपुष्पैश्च पूजयेज्जातवेदसम् । तस्मिन्नावाहयेद्देवं संचिन्त्य रसभैरवम् ॥ १,२.२६६ ॥ न्यासं देवस्य कुर्वीत मूलमन्त्रेण होमयेत् । तिलाज्यव्रीहिभिर्मन्त्रं शतमष्टोत्तरं प्रिये ॥ १,२.२६७ ॥ अष्टाविंशति वा कुर्यात्मूलात्पूर्वाहुतिं हुनेत् । प्राणायामं ततो न्यासं कृत्वा च हृदि धारणम् । एवं नित्यार्चनविधिः प्रोक्तस्तव सुरार्चिते ॥ १,२.२६८ ॥ आक्, १, ३ <रसदीक्षाक्रमः> अथ दीक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीम् । सा च पञ्चविधा प्रोक्ता समयादिविभेदतः ॥ १,३.१ ॥ समया प्रथमा दीक्षा साधकाख्या द्वितीयका । निर्वाणाख्या तृतीया च चतुर्थ्याचार्यसंज्ञका ॥ १,३.२ ॥ पञ्चमी सिद्धसंज्ञा च प्रायशो दुर्लभा नृणाम् । पूर्वोक्तलक्षणोपेतः शिष्यो भक्तिनतः शुचिः ॥ १,३.३ ॥ गुरुं प्रणम्य चाष्टाङ्गं स्तुत्वा च बहुधा ततः । अनुगृह्णीष्व मे दीक्षामिति विज्ञापयेद्गुरुम् ॥ १,३.४ ॥ दीक्षां च विधिवत्प्राप्य शिष्यः सर्वार्थदृग्भवेत् । <दीक्षायोग्याः शुभतिथ्यादयः> अश्विनीमूलरेवत्यो मृगः पुण्यः पुनर्वसुः ॥ १,३.५ ॥ रोहिणी श्रवणो मैत्रं हस्तः स्यादुत्तरात्रयम् । मघाश्विनी श्रेष्ठतमा दीक्षाकर्मणि तारकाः ॥ १,३.६ ॥ तृतीया पञ्चमी चैव सप्तमी च चतुर्दशी । अष्टमी पौर्णमासी च दशमी च त्रयोदशी ॥ १,३.७ ॥ एतास्तु तिथयो मुख्याः सौम्येन्दुगुरुभार्गवाः । आदित्य इति वारेषु रसदीक्षा सुशोभना ॥ १,३.८ ॥ <समयादीक्षाक्रमः> शुक्लपक्षे सुयोगे च करविष्टिविवर्जिते । चन्द्रताराबलोपेतविषुवायनसंक्रमे ॥ १,३.९ ॥ ग्रहणे शिवरात्रे च जन्मर्क्षे सुमुहूर्तके । शुभग्रहे सिद्धयोगे दद्याद्दीक्षां गुरूत्तमः ॥ १,३.१० ॥ रसशालां प्रविश्याथ सर्वोपकरणोज्ज्वलाम् । पुष्पमालासमाकीर्णामुत्तोरणपताकिनीम् ॥ १,३.११ ॥ नित्यपूजाग्निकार्यं च कृत्वा दीक्षाक्रमं भजेत् । देवस्य दक्षिणे पार्श्वे विस्तरे तण्डुलान् श्रितान् ॥ १,३.१२ ॥ चतुरश्रं च तन्मध्ये क्षिपेत्प्रस्थं सुतण्डुलम् । तदूर्ध्वं विन्यसेत्कुम्भं सितसूत्रेण वेष्टितम् ॥ १,३.१३ ॥ वासोभ्यां वेष्टितं सूतपञ्चरत्नसमन्वितम् । पञ्चमृत्पल्लवत्वग्भिः पावितं जलपूरितम् ॥ १,३.१४ ॥ दूर्वागन्धोत्तमतिलहेमदर्भाक्षतान्वितम् । शिवसंज्ञमिदं कुम्भं शिवरूपं विचिन्तयेत् ॥ १,३.१५ ॥ तद्वामभागे संस्थाप्य वर्धनीसंज्ञकं घटम् । शक्तिरूपं च पूर्वोक्तसर्वद्रव्यसमन्वितम् ॥ १,३.१६ ॥ परितः सर्वतोभद्रं श्रीगौरीतिलकं लिखेत् । नन्द्यावर्तं स्वस्तिकं च पञ्चवर्णविराजितम् ॥ १,३.१७ ॥ प्रक्षाल्य पादौ पाणी च समाचम्य गुरूत्तमः । निजासनं समासाद्य प्राणायामत्रयं तथा ॥ १,३.१८ ॥ शिष्यस्यास्यायुरारोग्यसंपत्संतानवृद्धये । मुक्तये चाष्टसिद्ध्यै च संकल्प्याभ्यर्चयेच्छिवम् ॥ १,३.१९ ॥ गन्धपुष्पाक्षैर्धूपैर्दीपैर्नैवेद्यदर्शनैः । शिवकुम्भं वर्धनीं च पूजयेत्सोपचारकम् ॥ १,३.२० ॥ रसाङ्कुशीं मूलमन्त्रं प्रजपेच्च सहस्रकम् । तद्दशांशं हुनेत्कुण्डे त्रिकोणे लक्षणान्विते ॥ १,३.२१ ॥ फलं त्रिमधुसंयुक्तं ततो गन्धोत्तमान्वितम् । क्रमादावृतिदेवांश्च चतुर्थ्यां स्वस्वनामकम् ॥ १,३.२२ ॥ स्वाहान्तं प्रणवादिं च समुच्चार्य हुनेद्धविः । शिवत्रयं पुरा देवि ततः सिद्धत्रयं यजेत् ॥ १,३.२३ ॥ ततो गुरुत्रयं देवि कुलवृद्धान् गुरूत्तमः । योगिनीं पूजयित्वा तु लब्धानुज्ञो गुरुस्ततः ॥ १,३.२४ ॥ स शक्तिमानन्दशिवमूर्तिमाराधयामि च । तथा परानन्दशिवमूर्तिमाराधयामि च ॥ १,३.२५ ॥ एवं त्रिसिद्धमूर्तिं च श्रीबीजसहितं यजेत् । एवं त्रिगुरुमूर्तिं च मारबीजयुतं यजेत् ॥ १,३.२६ ॥ तत्त्वत्रयं गृहीत्वा च पुनर्न्यासं समाचरेत् । स्वयं शिवतनुर्भूत्वा शिवोऽहमिति भावयेत् ॥ १,३.२७ ॥ हृष्टं शक्तियुतं शिष्यं शिवद्रष्टा विलोकयेत् । स्ववामपार्श्वे संस्थाप्य तन्मूर्धनि विनिक्षिपेत् ॥ १,३.२८ ॥ मूलाभिमन्त्रितं भस्म तन्नेत्रं वस्त्ररोधितम् । कृत्वा तन्मूर्ध्नि संप्रोक्ष्य शिववर्धनिवारिणा ॥ १,३.२९ ॥ त्रिधा स्वदक्षिणे हस्ते शिवं सावरणं यजेत् । विज्ञेयः शिवहस्तोऽयं भवपाशनिकृन्तनः ॥ १,३.३० ॥ अङ्कुशीमूलमन्त्रं च त्रिवारं च समुच्चरेत् । शिष्यदक्षिणकर्णे च कुर्यान्मन्त्रोपदेशकम् ॥ १,३.३१ ॥ पूर्वं गणपतेर्मन्त्रं क्षेत्रपालमनुं ततः । ऋषिस्तु गणकश्छन्दो न्यृचिद्गायत्रिका स्मृतम् ॥ १,३.३२ ॥ देवो गणपतिर्ज्ञेयो न्यासं बीजाक्षरेण च । आदिवर्गतृतीयार्णं सार्धचन्द्रं गणाख्यकम् ॥ १,३.३३ ॥ पतिं चतुर्थ्या संयुक्तं नमोऽन्तं मनुमुच्चरेत् । पाशाङ्कुशं मोदकं च बिभ्राणं स्वविपाणकम् ॥ १,३.३४ ॥ गजाननं प्रवालाभं मकुटेन्दुकलाधरम् । तुन्दिलं गणनाथं च ध्यात्वा लक्षं जपेन्मनुम् ॥ १,३.३५ ॥ दशांशं तर्पणं होमं सगुडं सतिलं हुनेत् । कषबिन्दुयुतं क्षेत्रपालं च सचतुर्थिकम् ॥ १,३.३६ ॥ नमोऽन्तं मनुमुच्चार्य न्यासं बीजाक्षरेण च । छन्दः पङ्क्तिर्मुनिर्ज्ञेयो भृगुर्देवश्च भैरवः ॥ १,३.३७ ॥ चतुर्भुजं शूलपात्रवरदाभयशोभितम् । कालाम्बुदनिभं नागभूषणं किङ्किणीस्रजम् ॥ १,३.३८ ॥ त्रिनेत्रं वक्रदंष्ट्रं च ध्यात्वा लक्षं जपेन्मनुम् । दशांशं तर्पणं होमं पायसं त्रिमधुप्लुतम् ॥ १,३.३९ ॥ हुनेदिति समादिश्य सामयाचारिकं भजेत् । देवतापरिचर्यां च शुश्रूषां च गुरोः कुरु ॥ १,३.४० ॥ अतन्द्रितो जपं कुर्यात्शास्त्रश्रवणमादरात् । पूर्वोक्ताचारमार्गेण निरतो भव संततम् ॥ १,३.४१ ॥ प्रह्वः कृताञ्जलिर्भूत्वा करिष्यामि तथा प्रभो । धन्योऽहं कृतकृत्योऽस्मि श्रीनाथ त्वत्प्रसादतः ॥ १,३.४२ ॥ इति विज्ञापयेच्छिष्यः समयाचारबृंहितः । प्रातस्तरां समुत्थाप्य गुरूंश्च शिरसि स्मरेत् ॥ १,३.४३ ॥ निवेद्यावश्यकं कर्म स्नातः संध्यां समाचरेत् । नद्यास्तीर्थे तटाके वा पुष्करिण्यां शुचौ जले ॥ १,३.४४ ॥ उपस्पृश्य च संकल्प्य नित्यतर्पणमाचरेत् । आदौ शिवत्रयं विघ्ननाथं क्षेत्राधिपं हरिम् ॥ १,३.४५ ॥ ब्रह्माणं भास्करादींश्च ग्रहान् दुर्गां च मातृकाः । भैरवानसिताङ्गादीन् ततः सिद्धत्रयं वदेत् ॥ १,३.४६ ॥ आदिनाथं मीननाथं गोरक्षं कोङ्कणेश्वरम् । जालन्ध्रेशं कन्धनीशमोड्डीशं चिञ्चिणीश्वरम् ॥ १,३.४७ ॥ चौरङ्गिमेतान्नाथाख्यान्नव संतर्पयेत्ततः । चौरङ्गिं चर्पटिं घोडाचूलिं रामद्वयं ततः ॥ १,३.४८ ॥ भोलगोविन्दसिद्धं च व्याडिं नागार्जुनं तथा । कोरण्डं शूर्पकर्णं च मुक्तायीं रेवणं तथा ॥ १,३.४९ ॥ सिद्धं कुक्कुरपादं च शूर्पपादं कणैरिकम् । सिद्धं किङ्किणिकाख्यं च सिद्धान् षोडश तर्पयेत् ॥ १,३.५० ॥ ततो गुरुत्रयं तर्प्य मातरं पितरं गुरुम् । आचार्यं भ्रातरं मित्रं तर्प्य चान्यान्कुलोद्भवान् ॥ १,३.५१ ॥ तर्पयेद्विधिनाचम्य देवताराधनं ततः । नद्यास्तीरे तटाके वा गोष्ठे देवालये तथा ॥ १,३.५२ ॥ शुचिस्थले वा संस्तीर्य सैकतं वर्तुलाकृतिम् । आवाहयेद्दिनाधीशं पाटलं शिवरूपिणम् ॥ १,३.५३ ॥ द्विनेत्रपद्मयुगलधारिणं द्विभुजं परम् । रक्तस्रगम्बरालेपभूषापद्मासनोज्ज्वलम् ॥ १,३.५४ ॥ ध्यात्वार्चयेद्रक्तपुष्पैस्ततो विघ्नेशभैरवौ । ध्यात्वा पूर्वोक्तवत्तौ द्वौ रक्तपुष्पैः समर्चयेत् ॥ १,३.५५ ॥ अष्टाङ्गदण्डप्रणतिं कुर्यात्द्वादशवारकम् । पुनः संस्थापयेत्स्वान्ते सेवायै स्वगुरोर्व्रजेत् ॥ १,३.५६ ॥ इत्युक्ता समया दीक्षा साधका कथ्यतेऽधुना । <साधकदीक्षा> समयाचारनिरतं सच्छिष्यं पक्वमानसम् ॥ १,३.५७ ॥ दीक्षयेत्सुदिने लग्ने दीक्षया साधकाख्यया । कुर्यान्नैमित्तिकीं पूजां शिष्यमावाहयेद्गुरुः ॥ १,३.५८ ॥ स्वयं शिवतनुः शिष्यं गौरीगर्भगतं स्मरेत् । भूमौ विभूतिं संस्तीर्य तस्मिन्कोणत्रयं लिखेत् ॥ १,३.५९ ॥ तत्रोपवेश्य शिष्यं च बन्धयित्वा विलोचने । गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ १,३.६० ॥ जातकर्म च दीक्षाङ्गं नामधेयं च कल्पयेत् । व्रतकर्मणि सम्प्रोक्ष्य मूलमन्त्रेण भस्मना ॥ १,३.६१ ॥ गौरीपुत्रं भावयित्वा तस्य दीक्षां प्रकल्पयेत् । शिवदृष्ट्या विलोक्यामुं शिवभस्म च मूर्धनि ॥ १,३.६२ ॥ निधाय मूलमन्त्रं च पूजयेद्दशवारकम् । तस्य दक्षिणकर्णे च उपदिश्याद्दशाक्षरम् ॥ १,३.६३ ॥ <रसगायत्री> रसेन्द्रभैरवं मन्त्रं गायत्रीं रससंज्ञिकाम् । स बिन्दुहुतभुग्बीजं रसेन्द्रस्य पदं ततः ॥ १,३.६४ ॥ भैरवं च चतुर्थ्यन्तं कर्मास्त्रं च दशांशकम् । वह्निबीजं दीर्घयुक्तं करन्यासं समाचरेत् ॥ १,३.६५ ॥ अघोराख्य ऋषिश्छन्दो विराड्देवो महेश्वरः । पूर्वसेवाजपं लक्षं दशांशं होमतर्पणम् ॥ १,३.६६ ॥ तिलाज्यव्रीहिभिः कुर्याद्धोमं निश्चलमानसः । पूर्वोक्तां रसगायत्रीं जपेल्लक्षं च तर्पणम् ॥ १,३.६७ ॥ हुनेद्दशांशमाज्येन सतिलव्रीहिभिः प्रिये । दद्याच्छिष्यायाक्षमालां रसलिङ्गं रसागमम् ॥ १,३.६८ ॥ पूर्वोक्ताचारवान् भूत्वा रसलिङ्गं समर्चयेत् । स्वशास्त्रार्थावगमनं कुर्यात्सूतेन्द्रसंस्कृतिम् ॥ १,३.६९ ॥ गुरुसेवारतं नित्यं शिष्यमाज्ञापयेदिति । शिष्यो बद्धाञ्जलिर्नम्रस्तवाज्ञामाचराम्यहम् ॥ १,३.७० ॥ इत्युक्ता साधका दीक्षा निर्वाणाख्या प्रशस्यते । <निर्वाणदीक्षा> कृतनित्यक्रियः पूर्वं कृतनैमित्तिकार्चनः ॥ १,३.७१ ॥ पूर्ववच्छिवकुम्भादि वर्धनीं स्थापयेत्क्रमात् । स्ववामे भस्म संस्तीर्य षट्कोणं भूगृहं लिखेत् ॥ १,३.७२ ॥ शिष्यं संवेश्य कुम्भस्थजलैः संप्रोक्षयेद्गुरुः । मूलाभिमन्त्रितं भस्म तस्य मूर्ध्नि निक्षिपेत् ॥ १,३.७३ ॥ गन्धपुष्पाक्षतं दद्यात्बध्नीयाद्दक्षिणे करे । कङ्कणं चरणाङ्गुष्ठब्रह्मरन्ध्रान्तमानकम् ॥ १,३.७४ ॥ सूत्रं तन्मूलमन्त्रेण मन्त्रितं सुरभीकृतम् । शिवहस्तं च तन्मूर्ध्नि निधाय गुरुसत्तमः ॥ १,३.७५ ॥ रसांकुशां द्वादशार्णामुपदिश्यान्मनुं परम् । रसभैरवदैवत्यं दद्याच्छिष्याय देशिकः ॥ १,३.७६ ॥ ऋषिश्छन्दो देवता च न्यासं पूर्वोक्तवत्प्रिये । तर्पणं चाथ होमं च ध्यानं कुर्याच्च पूर्ववत् ॥ १,३.७७ ॥ उत्थाय च गुरुं नत्वा बहुशः स्तोत्रमुच्चरेत् । गुरुः शिष्याय वै दद्याद्व्याघ्रचर्मासनं च यत्र ॥ १,३.७८ ॥ भस्त्रिकां वस्त्रसम्पूर्णां दद्याद्भैषज्यभस्त्रिकाम् । रसागमं पाठयित्वा भव शिष्य चिकित्सकः ॥ १,३.७९ ॥ रुद्ररूपी भवान् जातः सर्वभूतहितो भव । इत्यादिशेद्गुरुः शिष्यं शिष्यो हृष्टमनास्ततः ॥ १,३.८० ॥ कृतकृत्योऽस्मि पूतोऽस्मि तीर्णसंसारसागरः । इति विज्ञापयेच्छिष्यः स्तुत्वा च बहुधा गुरुम् ॥ १,३.८१ ॥ प्रोक्ता निर्वाणदीक्षेयमथाचार्याभिषेचनम् । <आचार्यदीक्षा> निर्वाणदीक्षितस्यास्य शिष्यस्यापि महात्मनः ॥ १,३.८२ ॥ आचार्यदीक्षां कुर्वीत यथावद्गुरुसत्तमः । यथा निर्वाणदीक्षायास्तथा सर्वं प्रकल्पयेत् ॥ १,३.८३ ॥ विशेषाच्छिववर्धन्योः पुरतः स्थापयेद्घटम् । रूप्यगन्धादिलोहाशादिव्यौषधगणान्वितम् ॥ १,३.८४ ॥ शिवकुम्भवदन्यच्च सर्वमस्मिन् विनिक्षिपेत् । गुरुकुम्भं जपेत्स्पृष्ट्वा मूलमष्टोत्तरं शतम् ॥ १,३.८५ ॥ गुरुकुम्भमिमं विद्धि गुरुमन्त्रेण पूजयेत् । आवाहनासनार्घ्याद्यैरुपचारैश्च षोडशैः ॥ १,३.८६ ॥ शिवादिपङ्क्तिं तत्रैव पूजयेद्गुरुणा सह । यथापूर्वं समासीनं शिष्यं चैकाग्रमानसम् ॥ १,३.८७ ॥ पूर्ववच्छिववर्धन्योरम्बुना परिषेचयेत् । पूर्ववच्छिवहस्तं च मूलमन्त्रोपदेशकम् ॥ १,३.८८ ॥ कृत्वा तदुत्तमाङ्गे च गुरुपङ्क्तिं गुरुं तथा । आवाहनाद्यैः सम्पूज्य गन्धस्रग्दीपकैः ॥ १,३.८९ ॥ फलगन्धोत्तमोपेतैर्नैवेद्यैः पूजयेत्क्रमात् । गुरुः कुम्भजलैः कुर्यात्प्रोक्षणं पञ्चपल्लवैः ॥ १,३.९० ॥ मूलमन्त्रेण शतधा शिवपङ्क्त्या त्रिसप्तधा । तथैव सिद्धपङ्क्त्या च गुरुपङ्क्त्या तथैव च ॥ १,३.९१ ॥ शिष्याय गुरुभक्ताय शक्तियुक्ताय धीमते । हारकेयूरकटकमुद्रिकामकुटानि च ॥ १,३.९२ ॥ वाहनासनसच्छत्रचामरव्यजनानि च । मणिकुण्डलयुग्मं च भूत्याढ्यं पात्रमक्षयम् ॥ १,३.९३ ॥ सशिरस्त्राणमुष्णीषं पट्टकूर्पासमुत्तमम् । योगपट्टं योगदण्डं तथैवोड्याणबन्धनम् ॥ १,३.९४ ॥ दद्यात्तस्मै तथैवाज्ञां त्वमाचार्योऽसि संप्रति । ईश्वरोऽस्यद्य धन्योऽसि सर्वेषां देशिको भव ॥ १,३.९५ ॥ रसागमानां दिव्यानां व्याख्याता भव तत्त्ववित् । इत्यादिशेद्गुरुः शिष्यं प्रणतं गुरुवत्सलम् ॥ १,३.९६ ॥ इति चाचार्यदीक्षेयं सिद्धदीक्षाद्य कथ्यते । <सिद्धदीक्षा> नवं सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥ १,३.९७ ॥ वीराः शक्तियुताः पूज्याः एकविंशति चान्वहम् । तत्संख्या योगिनः पूज्याः कुमाराः कन्यकाः स्त्रियः ॥ १,३.९८ ॥ गन्धपुष्पाक्षतैः पुष्पैः फलगन्धोत्तमार्पणैः । तोषयित्वा प्रदद्याच्च वस्त्राभरणदक्षिणाः ॥ १,३.९९ ॥ अथासनसमासीनं शिष्यं भक्तियुतं शुचिम् । स्पृष्ट्वा कराभ्यां तच्छीर्षं दक्षिणे श्रवणे मनुम् ॥ १,३.१०० ॥ वह्निं सबीजं शीतांशुं सविसर्गं च दीक्षयेत् । मूलाधारात्समुद्भूतं रेफं वह्निशिखोपमम् ॥ १,३.१०१ ॥ षडाधाराम्बुजं तीर्त्वा ब्रह्मरन्ध्रान्तगं स्मरेत् । ब्रह्मरन्ध्राद्द्रवीभूतं सकारं सोमरूपिणम् ॥ १,३.१०२ ॥ आप्लावयन्तं सर्वाङ्गं सिद्धः संचिन्तयेन्मनुम् । उच्छ्वासनिश्वासभवं संहारस्थितिकारणम् ॥ १,३.१०३ ॥ ज्ञात्वेत्थं मनसा नित्यं सर्वमन्त्रात्मकं सदा । सर्वदेवमयं पुण्यं सर्वसिद्धिप्रदायकम् ॥ १,३.१०४ ॥ जीवतो मुक्तिदं शुद्धं शिवशक्त्यात्मकं परम् । रसमन्त्रमिमं विद्धि चाग्नीषोमात्मकं भज ॥ १,३.१०५ ॥ एकविंशतिसाहस्रषट्शताधिकसंख्यकम् । प्रवर्तितं दिवारात्रं मनस्तत्र निधेहि च ॥ १,३.१०६ ॥ मन्त्रस्यास्य ऋषिर्जीवश्छन्देत्युक्ताः प्रकीर्तिताः । रसो देवस्तु रं बीजं सं शक्तिस्तु प्रकीर्तितः ॥ १,३.१०७ ॥ रेफदीर्घयुतं कुर्यात्कराङ्गन्यासमाचरेत् । ध्यायेद्धृदम्बुजे देवि कोटिसूर्येन्दुसन्निभम् ॥ १,३.१०८ ॥ शुद्धस्फटिकसंकाशं रसं संसारपारदम् । एवं निष्कलरूपं तं ध्यात्वा तन्मयतां व्रजेत् ॥ १,३.१०९ ॥ <निष्कलरसस्तोत्रम्> त्वं रसस्त्वं शिवस्त्वं हि शक्तिस्त्वं भैरवेश्वरः । त्वं ब्रह्मा त्वं हि रुद्रश्च सूर्यस्त्वं शीतदीधितिः ॥ १,३.११० ॥ त्वं भूस्त्वं सलिलस्त्वं च वह्निस्त्वं च सदागतिः । त्वं व्योम त्वं पराकाशः त्वं जीवस्त्वं परा गतिः ॥ १,३.१११ ॥ त्वं सिद्धस्त्वं प्रबुद्धस्त्वं सुगन्धस्त्वं च मन्मथः । त्वं लोकपालस्त्वं तारा मातृकास्त्वं गजाननः ॥ १,३.११२ ॥ त्वं स्कन्दस्त्वं गुरुस्त्वं च त्वं सर्वजनकः शुचिः । त्वं यज्वा त्वं हरिस्त्वं च त्रेताग्निस्त्वं च ऋत्विजः ॥ १,३.११३ ॥ येन त्वमर्च्यसे तेन पूजिताः सर्वदेवताः । त्वयि तुष्टे च संतुष्टा ब्रह्मविष्णुमहेश्वराः ॥ १,३.११४ ॥ त्वत्पादोदकपानेन सर्वतीर्थफलं लभेत् । यस्त्वां पश्यति सद्भक्त्या तमालोकयते शिवः ॥ १,३.११५ ॥ यस्त्वां संकीर्तयेत्तस्य सर्वमन्त्रफलं भवेत् । यत्र त्वं क्षणमात्रे च पुण्यक्षेत्रं तदुच्यते ॥ १,३.११६ ॥ त्वं यं पश्यति सिद्धेन्द्र स ब्रह्मा विष्णुरीश्वरः । यत्र भुङ्क्षेऽन्नकवलं तत्र त्रैलोक्यमति हि ॥ १,३.११७ ॥ येन त्वं ध्रियसे नाथ त्वयायं स्त्रियतेक्षणम् । स एव चित्सदानन्दः परमात्मा ध्रुवं भवेत् ॥ १,३.११८ ॥ एवं निश्चितचित्तस्य सिद्धस्य तव योगिनः । वर्णाश्रमसदाचाराः कृत्याकृत्यविवेकतः ॥ १,३.११९ ॥ पापं पुण्यं सुखं दुःखं शीतमुष्णं प्रियाप्रिये । स्नानास्नानं हानिवृद्धी शुद्धाशुद्धं भयाभयम् ॥ १,३.१२० ॥ ग्राह्याग्राह्यं क्षुधा तृष्णा न किंचिदिह विद्यते । स्वेच्छाहारविहारश्च सुखी संहृष्टमानसः ॥ १,३.१२१ ॥ निर्ममः सर्वकार्येषु कलत्रादिषु बन्धुषु । एवमाचार्यवचनमङ्गीकृत्य च दीक्षितः ॥ १,३.१२२ ॥ अद्य प्रभृति वन्द्यस्त्वं मा कुरु प्रणतिं क्वचित् । मत्समानोऽसि सिद्धोऽसि जीवन्मुक्तोऽसि संप्रति ॥ १,३.१२३ ॥ इत्युक्त्वाचार्यवर्योऽपि सिद्धमालिङ्ग्य च क्षणम् । सिद्धदीक्षेयमाख्याता शिवसायुज्यदायिनी ॥ १,३.१२४ ॥ दुर्लभा सर्वतन्त्रेषु तव प्रीत्या प्रकाशिता । देवीत्थमेव मन्तव्यं दुर्लभं समयेषु च ॥ १,३.१२५ ॥ आक्, १, ४ <रससंकाराः> श्रीभैरवी । रससंस्कारमीश त्वं यथावत्कथयस्व मे । श्रीभैरवः । अष्टादश स्युः संस्कारा रसस्य परमेश्वरि ॥ १,४.१ ॥ तान्सिद्धसाधकाभ्यर्च्ये यथावत्कथयामि ते । अथादौ स्वेदनं कर्म द्वितीयं मर्दनं प्रिये ॥ १,४.२ ॥ मूर्छा तृतीयमुत्थानं चतुर्थं पातनं शिवे । पञ्चमं रोधनं षष्ठं नियामं सप्तमं स्मृतम् ॥ १,४.३ ॥ दीपनं चाष्टमं देवि नवमं चानुवासनम् । दशमं चारणं देवि जारणं रुद्रसंख्यकम् ॥ १,४.४ ॥ गर्भद्रुतिर्द्वादशी स्यात्बाह्यद्रुतिस्त्रयोदशी । चतुर्दशं स्याद्रागाख्यं सारणा दशपञ्चमी ॥ १,४.५ ॥ अनुसारणा षोडशी च विख्याता प्रतिसारणा । सप्तदशी चाष्टदशं वेधनं देहलोहयोः ॥ १,४.६ ॥ <रससंस्कारप्रकारः> अथ वक्ष्यामि संस्कारान् रसराजस्य पार्वति । लिङ्गस्य दक्षिणे भागे लिखेत्षट्कोणमण्डले ॥ १,४.७ ॥ तद्बहिश्चाष्टपत्रं च कमलं चतुरश्रकम् । दिग्द्वारशोभितं तस्य कर्णिकायां न्यसेच्छिवे ॥ १,४.८ ॥ ताम्रजं कान्तजं वापि खल्वं तु स्वर्णरेखितम् । तन्मध्ये रसराजं तु पलानां शतमात्रकम् ॥ १,४.९ ॥ तदर्धं वा तदर्धं वा क्षिप्त्वा भक्त्या प्रपूजयेत् । साधको रसराजस्य ततः संस्कारमाचरेत् ॥ १,४.१० ॥ <स्वेदनम्, धान्याम्लसन्धानप्रकारः> यवगोधूमकलममाषमुद्गचणादिभिः । श्यामाककोद्रवाद्यैश्च नानाधान्यैश्च निस्तुषैः ॥ १,४.११ ॥ धान्यं चतुर्गुणजले मृद्घटे निक्षिपेत्प्रिये । प्राप्नोति यावदम्लत्वं तावद्यत्नेन रक्षयेत् ॥ १,४.१२ ॥ तन्मध्ये हंसपादीं च मीनाक्षीं द्विपुनर्नवाम् । चित्रकं भृङ्गराजं च विष्णुक्रान्तां शतावरीम् ॥ १,४.१३ ॥ सर्पाक्षीं गिरिकर्णीं च मुण्डीं च सहदेविकाम् । त्रिफलां खण्डशः कृत्वा सर्वानेतान्विनिक्षिपेत् ॥ १,४.१४ ॥ धान्यस्य च चतुर्थांशान् धान्याम्लमिदमुत्तमम् । स्वेदनादिषु कार्येषु पारदस्य विशिष्यते ॥ १,४.१५ ॥ आतप्ते कान्तजे खल्वे रसराजं विनिक्षिपेत् । चूर्णं च गृहधूमं च चित्रकं त्रिफलां गुडम् ॥ १,४.१६ ॥ दग्धोर्णामिष्टकां कन्यां लवणं बृहतीद्वयम् । मागधीं राजिकां चैव वन्ध्यां कर्कोटकीं तथा ॥ १,४.१७ ॥ एतान्कलांशान्सूतस्य तस्मिन्क्षिप्त्वा विमर्दयेत् । दत्त्वा दत्त्वाथ धान्याम्लमेवं कृत्वा दिनत्रयम् ॥ १,४.१८ ॥ सम्यक्सोष्णारनालेन रसं प्रक्षालयेत्प्रिये । पटुं राजीं त्रिकटुकं मूलकं चित्रकं वराम् ॥ १,४.१९ ॥ पुनर्नवां मेषशृङ्गीं मेघनादं दुरालभाम् । आर्द्रकं रजनीं नागबलां च नवसारकम् ॥ १,४.२० ॥ समं धान्याम्लकैः पिष्ट्वा श्लक्ष्णं वस्त्रे प्रलेपयेत् । यावदङ्गुलिमात्रं च तस्मिन्पूर्वरसं क्षिपेत् ॥ १,४.२१ ॥ तद्बद्ध्वा ताम्रजे पात्रे क्षिप्त्वा धान्याम्लपूरिते । घटे दोलाख्ययन्त्रे च स्वेदयेत्तमहर्निशम् ॥ १,४.२२ ॥ तमुद्धृत्य पुनः सोष्णैरारनालैः शरावके । प्रक्षालयेत्सूतराजमेवं कुर्यात्त्रिसप्तधा ॥ १,४.२३ ॥ प्रस्वेदितं सूतराजं ततः संमर्दयेत्प्रिये । <मर्दनम्> अथातो मर्दनं कर्म वक्ष्यामि शृणु भैरवि ॥ १,४.२४ ॥ चूर्णादिपूर्ववद्द्रव्यं विशालां राजवृक्षकम् । अङ्कोलं कृष्णधुत्तूरं त्रिकटुं च समं समम् ॥ १,४.२५ ॥ सर्वं सूतकलांशं च तप्तखल्वे रसं क्षिपेत् । मर्दयेत्पूर्वधान्याम्लैर्दिवारात्रं पुनश्च तम् ॥ १,४.२६ ॥ क्षालयेन्मृण्मये पात्रे ततः सोष्णारनालकैः । मर्दनं क्षालनं चैवमेकविंशतिवासरम् ॥ १,४.२७ ॥ एवं विमर्दितं सूतं समादायाथ मूर्छयेत् । अभ्रजीर्णोऽथवा बीजजीर्णः सूतोऽपि मर्द्यते ॥ १,४.२८ ॥ चूर्णादिपूर्वद्रव्यैश्च रागान् गृह्णाति निर्मलः । <मूर्च्छा> अथ मूर्छां प्रवक्ष्यामि शृणु त्वं सावधानतः ॥ १,४.२९ ॥ राजिका मेषशृङ्गी च चित्रकं च फलत्रयम् । क्षीरकन्दं सूरणं च सर्पाक्षी काकमाचिका ॥ १,४.३० ॥ नीला वचा बला कन्या कृष्णोन्मत्तस्तथाकुली । श्वेतापराजिताङ्कोलं गोजिह्वा गरुडी तथा ॥ १,४.३१ ॥ एतेषां स्वरसैर्मर्द्यो रविक्षीरेण पारदः । व्यस्तानां वा समस्तानां रसैरेषां दिनावधि ॥ १,४.३२ ॥ मर्दयेत्तप्तखल्वे च मूषायां तं रसं क्षिपेत् । निरुध्य भूधरे यन्त्रे विपचेत्तं पुनः प्रिये ॥ १,४.३३ ॥ राजिकाद्यौषधभवै रसैस्त्रिः सप्तवासरम् । मर्दनं भूधरे पाकं कुर्यात्संमूर्छितो रसः ॥ १,४.३४ ॥ भवेत्तदुत्थानविधिं प्रकुर्वीत सुरार्चिते । <उत्थापनविधिः> एवं संमूर्छितं सूतं क्षालयेत्कांजिकेन च ॥ १,४.३५ ॥ सोष्णेन वारिणा वापि सूतमुत्थापयेत्प्रिये । पातनायन्त्रयोगे वा रसस्योत्थापनं भवेत् ॥ १,४.३६ ॥ <पातनम्> पातनं त्रिविधं प्रोक्तं रसराजस्य पार्वति । ऊर्ध्वपातमधःपातं तिर्यक्पातनमुच्यते ॥ १,४.३७ ॥ <ऊर्ध्वपातनविधिः> रसस्य पातनं वक्ष्ये पाठा ब्राह्मी च चित्रकम् । शाङ्गेरी काकमाची च मण्डूकी गिरिकर्णिका ॥ १,४.३८ ॥ कुमारी च जया भृङ्गी गोजिह्वा शङ्खपुष्पिका । भूपाटली च निर्गुण्डी काकजङ्घा शतावरी ॥ १,४.३९ ॥ आर्द्रकं देवदाली च तिलपर्णी च नीलिका । आरग्वधः क्षीरकन्दमङ्कोलो देवदारु च ॥ १,४.४० ॥ एषां रसैः समस्तानां व्यस्तानां वा दिनं रसम् । मर्दयेत्तप्तखल्वे तत्शुल्बं सूतचतुर्थकम् ॥ १,४.४१ ॥ तं पिष्ट्वा पातयेद्यन्त्रे ह्यूर्ध्वपातनके दिनम् । ऊर्ध्वलग्नं रसं शुद्धं तमादायाथ मर्दयेत् ॥ १,४.४२ ॥ पूर्वोदितौषधरसैः पूर्ववत्शुल्बसंयुतम् । पातयेन्मर्दयेदेवं सप्तधैवं पुनः पुनः ॥ १,४.४३ ॥ ऊर्ध्वपातनसंशुद्धं पारदं पातयेदधः । <अधःपातनविधिः> अथाधःपातनं वक्ष्ये त्र्यूषणं लवणं वराम् ॥ १,४.४४ ॥ चित्रकं राजिकां शिग्रुं सर्वं सूतसमं क्षिपेत् । मर्दयेत्तप्तखल्वे च रसं धान्याम्लकेन च ॥ १,४.४५ ॥ तत्कल्केन लिपेदूर्ध्वं भाण्डं सम्यक्निरोधयेत् । ऊर्ध्वभाण्डस्य पृष्ठे तु दद्याल्लघुपुटं ततः ॥ १,४.४६ ॥ इत्यधःपातनं कुर्यात्सप्तवारं पुनः पुनः । अधःपातनशुद्धस्य तिर्यक्पातनमाचरेत् ॥ १,४.४७ ॥ <तिर्यक्पातनविधिः> वक्ष्यामि तिर्यक्पतनं सूतं धान्याभ्रकं समम् । धान्याम्लैर्मर्दयेद्यामं तिर्यक्पातनयन्त्रके ॥ १,४.४८ ॥ चण्डाग्निना पचेदेवं सप्तवारं पुनः पुनः । एवं त्रिधा पातितं च ततः सूतं निरोधयेत् ॥ १,४.४९ ॥ अभ्रकं वाथ गन्धं वा माक्षिकं विमलामपि । स्वर्णं वा रजतं वापि कान्तं वा तीक्ष्णमेव वा ॥ १,४.५० ॥ प्रत्येकं शोधितं देयं ताम्रवत्पादमात्रकम् । पाठादिकरसैः कुर्यान्मर्दनं पातनं क्रमात् ॥ १,४.५१ ॥ यद्यद्द्रव्यान्वितः सूतस्तत्तद्द्रव्यगुणप्रदः । पातने ताम्रयोगेन नागवङ्गौ त्यजेद्रसः ॥ १,४.५२ ॥ अथवा दीपिकायन्त्रे शुद्धः स्यात्पातितो रसः । <निरोधनम्> कदर्थितो भवेत्सूतः स्वेदाद्यैः पञ्चकर्मभिः ॥ १,४.५३ ॥ आप्यायनार्थं सूतस्य कर्म कुर्यान्निरोधनम् । अथ कर्म निरोधाख्यं पेषयेल्लवणं जलैः ॥ १,४.५४ ॥ स्थालीमध्ये रसं क्षिप्त्वा तदूर्ध्वं लवणं क्षिपेत् । किंचिज्जलं च निवपेत्तं शरावेण रोधयेत् ॥ १,४.५५ ॥ कुर्यात्सम्यक्सन्धिलेपं तदूर्ध्वं च पुटेल्लघु । एवं निरोधनं कर्म विदध्यात्सप्तधा प्रिये ॥ १,४.५६ ॥ आप्यायितो भवेत्सूतोऽनेन षण्डत्ववर्जितः । निरोधकर्मसिद्धोऽसौ वीर्यवान् सुनियम्यते ॥ १,४.५७ ॥ <नियामनम्> अथो नियामनं कर्म कथयामि वरानने । यवचिञ्चा क्षीरकन्दं सर्पाक्षी पटु भृङ्गराट् ॥ १,४.५८ ॥ वन्ध्या कर्कोटकी निम्बः सर्वं धान्याम्लपेषितम् । कृत्वालोड्यारनालेन तद्द्रवैः स्वेदयेद्दिनम् ॥ १,४.५९ ॥ यन्त्रे नियामके सप्तवासरं तं च दीपयेत् । <दीपनम्> अथातो दीपनं कर्म वदामि तव पार्वति ॥ १,४.६० ॥ स्वर्णपुष्पी च मरीचं त्रिक्षारं पञ्चपुष्पिका । भूखगः पञ्चलवणं राजिका शिग्रुमूलकम् ॥ १,४.६१ ॥ कासीसं विजया कन्या पातालगरुडी कणा । क्षीरकन्दं च कर्कोटी गिरिकर्णी जया मधु ॥ १,४.६२ ॥ चित्रकं काकजङ्घा च सर्वमम्लगणेन च । कल्कयेत्पारदं तेन मर्दयेत्तद्द्रवैरपि ॥ १,४.६३ ॥ डोलायन्त्रे पचेदेकदिनमेवं च सप्तधा । मर्दनं पाचनं कुर्यात्ग्रासार्थी दीपितो रसः ॥ १,४.६४ ॥ एवं प्रदीपितं सूतं शुद्धं तमनुवासयेत् । <अनुवासनम्> अथानुवासनं कर्म मृत्पात्रे दीपितं रसम् ॥ १,४.६५ ॥ क्षिप्त्वा जम्बीरजद्रावैस्तीव्रघर्मेऽनुवासयेत् । एवं सप्तदिनं कुर्यात्ततश्चारणमाचरेत् ॥ १,४.६६ ॥ नवभिः स्वेदनाद्यैश्च शुद्धः स्यात्कर्मभिः प्रिये । पारदः सर्वरोगघ्नः सप्तकञ्चुकवर्जितः ॥ १,४.६७ ॥ श्रीभैरवी । स्वेदनादीनि कर्माणि श्रुतानि वद शङ्कर । त्वत्प्रसादादसंदेहं संशृण्वे चारणादिकम् ॥ १,४.६८ ॥ श्रीभैरवः । साधु पृष्टं महाभागे शृणु तच्चारणादिकम् । <चारणविधिः> अथाभ्रचारणं कर्म वक्ष्यामि परमेश्वरि ॥ १,४.६९ ॥ समुखे वा निर्मुखे वा रसे वा वासनामुखे । गगनं चारयेद्गर्भपिष्टिग्रासक्रमैः क्रमात् ॥ १,४.७० ॥ <समुखचारणम्> अत्रादौ कथ्यते देवि समुखं चारणं स्फुटम् । समुखो ग्रसति ग्रासं निर्मुखो ग्रसनाक्षमः ॥ १,४.७१ ॥ तस्मात्परं रसेन्द्रस्य मुखीकरणमाचरेत् । <प्रथमो मुखीकरणप्रकारः> इष्टकामध्यभागे तु गम्भीरं वर्तुलं समम् ॥ १,४.७२ ॥ गर्तं कृत्वा तत्र सूतं प्रक्षिपेदनुवासितम् । निरुन्ध्यात्स्वच्छवस्त्रेण रसस्य दशमांशकम् ॥ १,४.७३ ॥ गन्धं तदूर्ध्वं निक्षिप्य शरावेण निरोधयेत् । तत्पृष्ठेऽल्पपुटं दद्यात्गन्धे जीर्णे पुनः पुनः ॥ १,४.७४ ॥ क्षिप्त्वा क्षिप्त्वा शतगुणं चारयेत्पातयेदिति । चतुर्गुणे सान्द्रवस्त्रे गालयेत्तं रसेश्वरम् ॥ १,४.७५ ॥ वेणौ क्षिप्त्वा निरुध्यास्यं पचेद्गोमूत्रपूरिते । भाण्डे त्रिसप्तदिवसं पुनस्तं तप्तखल्वके ॥ १,४.७६ ॥ जम्बीरमातुलुङ्गाम्लवेतसैर्भूखगैस्त्र्यहम् । भूनागैश्च त्र्यहं मर्द्यं तं पश्चादिष्टकोदरे ॥ १,४.७७ ॥ एकैकं गर्तमादद्याद्धान्याभ्रं गन्धकं तथा । प्रत्येकं दशनिष्कं च यामं जम्बीरमर्दितम् ॥ १,४.७८ ॥ अनेन लेपयेद्गर्तद्वयमेकेष्टकान्तरे । गर्ते क्षिप्त्वाथ तं तं विंशन्निष्कं तदूर्ध्वतः ॥ १,४.७९ ॥ अपरामिष्टकां दद्यात्तत्सन्धिं लोणमृत्स्नया । दृढं लिप्त्वाथ दीपाग्नौ पचेत्सप्तदिनावधि ॥ १,४.८० ॥ इष्टकां स्वाङ्गशीतां तामवतार्य हरेद्रसम् । किट्टहीनं पुनरपि कुर्यादित्थं त्रिवारकम् ॥ १,४.८१ ॥ एवं कृते रसेन्द्रस्य सुखं स्याद्देवसंज्ञकम् । <द्वितीयो मुखीकरणप्रकारः> पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् ॥ १,४.८२ ॥ रसेन्द्रं जीविभूनागसमं संमर्दयेत्त्र्यहम् । तत्क्षिपेत्भूलतालिप्तमूषायां संनिवेशयेत् ॥ १,४.८३ ॥ तदूर्ध्वं भूलताकल्कं क्षिप्त्वा रुद्ध्वा विशोषयेत् । आर्द्रगोमयलिप्तां तां पादमग्नां निवेशयेत् ॥ १,४.८४ ॥ तद्गर्ते च पुटं देयं तुषकारीषवह्निना । दिनान्ते तत्समुद्धृत्य पूर्ववन्मर्दयेत्पचेत् ॥ १,४.८५ ॥ त्रिंशद्वारं पुनः कुर्यादित्थं वह्निमुखो रसः । ग्रसते गुह्यसूतोऽयं सर्वसिद्धिप्रदो भवेत् ॥ १,४.८६ ॥ <तृतीयो मुखीकरणप्रकारः> पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् । गोमूत्रपूरिते भाण्डे डोलायन्त्रे पचेद्रसम् ॥ १,४.८७ ॥ त्रिः सप्तवारं सम्यक्च रन्ध्रितं वेणुनालके । मुखं भवति सूतस्य चारणार्हं वरानने ॥ १,४.८८ ॥ <चतुर्थो मुखीकरणप्रकारः> इष्टकाद्वयमध्ये च गर्तं तु चतुरङ्गुलम् । दशनिष्कं शुद्धगन्धं धान्याभ्रं दशनिष्ककम् ॥ १,४.८९ ॥ जम्बीरनीरैः संमर्द्य यामं कल्केन तेन च । गर्तद्वयं समांशेन लिप्त्वा गर्ते विनिक्षिपेत् ॥ १,४.९० ॥ वासितं रसराजं तं विंशन्निष्कं तदूर्ध्वतः । इष्टकामपरां न्यस्य श्लक्ष्णमृल्लवणैर्दृढम् ॥ १,४.९१ ॥ लेपयेदथ दीपाग्निमधः प्रज्वालयेत्प्रिये । अनुस्यूतं सप्तरात्रं स्वाङ्गशीतं समुद्धरेत् ॥ १,४.९२ ॥ किट्टं विहाय तं सूतं पूर्ववच्च त्रिवारकम् । कुर्यादेवं हि सूतस्य मुखं भवति शोभनम् ॥ १,४.९३ ॥ <निर्मुखचारणाप्रकारः> दिव्यौषधिप्रभावेन रसश्चरति निर्मुखः । अथवा वज्रवैक्रान्तस्पर्शादभ्रादिकं चरेत् ॥ १,४.९४ ॥ पारदस्य चतुःषष्टिनिष्कं वैक्रान्तभस्म च । चतुर्निष्कं वज्रभस्म निष्कं दिव्यौषधिद्रवैः ॥ १,४.९५ ॥ सर्वं सप्तदिनं मर्द्य स रसोऽभ्रादिकं चरेत् । <वासनामुखचारणम्> गन्धकं जारयेत्सूते दोलाख्ये पूर्वभाषिते ॥ १,४.९६ ॥ यन्त्रे च षोडशगुणं रसः स्याद्वासनामुखः । <अभ्रकाभिषेकः चारणीयाभ्रकस्य संस्कारः> चारणार्हाभ्रकस्याहमभिषेकं वदामि ते ॥ १,४.९७ ॥ <प्रथमः प्रकारः> मृतमभ्रं तु रुधिरैः क्षारैर्जलकणैरपि । सृष्टित्रयैस्तुम्बुरुभिर्मर्दयेदम्लवर्गकैः ॥ १,४.९८ ॥ सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा । <द्वितीयः प्रकारः> मृतमभ्रं च कदली मूलकं च शतावरी ॥ १,४.९९ ॥ पुनर्नवा मेघनादो यवचिञ्चा च शिग्रुकः । सूरणं च रसैरेषां मर्दयेद्भावयेत्प्रिये ॥ १,४.१०० ॥ सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा । <तृतीयः प्रकारः> शुल्वपात्रे तु लवणसर्जिटङ्कणभूखगान् ॥ १,४.१०१ ॥ क्षिप्त्वारनालं त्रिदिनं कुर्यात्पर्युषितं यथा । तस्मिन्नागं तु विद्राव्य ढालयेच्छतधा प्रिये ॥ १,४.१०२ ॥ रौप्यकर्मणि वङ्गस्य तद्द्रवैर्भावयेद्घनम् । सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ॥ १,४.१०३ ॥ <चतुर्थः प्रकारः> धान्याभ्रमर्कक्षीरेण मर्दयेदेकवासरम् । निरुध्य संपुटे पच्यात्कपोताख्ये पुटे पुनः ॥ १,४.१०४ ॥ चतुर्वारं पुटेदेवं मर्दयेच्च पुनस्तथा । रम्भाद्रवैस्त्रिधा मर्द्यं मूलकस्य द्रवैस्त्रिधा ॥ १,४.१०५ ॥ काकमाची मेघनादो मत्स्याक्षी च पुनर्नवा । अपामार्गश्चित्रकं च विदारी भृङ्गराण्मुनिः ॥ १,४.१०६ ॥ चतुर्वारं पचेदेवं मर्दयेच्च पुनस्तथा । एतैरेकैकधा मर्द्यं पुटपाकं पृथक्पृथक् ॥ १,४.१०७ ॥ तदभ्रकं भावयेच्च मुसली यवचिञ्चिकाः । तण्डुली कदली शिग्रुर्वरी चार्कः पुनर्नवा ॥ १,४.१०८ ॥ एकैकैश्च द्रवैर्भाव्यमेकैकं दिवसं पृथक् । तदभ्रकं पारदेन्द्रश्चरत्येव सुरार्चिते ॥ १,४.१०९ ॥ <पञ्चमः प्रकारः> धान्याभ्रं रविदुग्धेन मर्दयेद्याममात्रकम् । तदभ्रं संपुटे रुद्ध्वा कपोताख्यपुटे पचेत् ॥ १,४.११० ॥ वारांश्चतुर्दशैवं स्यात्ततो रम्भार्कपीलुकाः । नागवल्ली च मुसली कुबेराक्षी च शिग्रुकः ॥ १,४.१११ ॥ तुम्बी तुम्बुरुरङ्कोलबलापामार्गकाः प्रिये । गृहीत्वैषामेकरसं सव्योषं च सकांजिकम् ॥ १,४.११२ ॥ भाण्डमध्ये विनिक्षिप्य डोलायन्त्रे पचेत्त्र्यहम् । पूर्वाभ्रं च ततस्तस्मात्समुद्धृत्याथ साधयेत् ॥ १,४.११३ ॥ टङ्कणं तुवरी सिन्धुकासीसं च समं समम् । अभ्रकस्य दशांशं तु सर्वमेतद्विमर्दयेत् ॥ १,४.११४ ॥ तदभ्रकं चरेत्सूतः समुखो निर्मुखोऽथवा । <षष्टः प्रकारः> मुण्डीद्रवे तु शतधा द्रुतं नागं प्रढालयेत् ॥ १,४.११५ ॥ तद्द्रवेण च धान्याभ्रं मर्दयेत्संपुटे क्षिपेत् । रुद्ध्वा पचेत्कपोताख्ये पुटे चैवं तु सप्तधा ॥ १,४.११६ ॥ आर्द्रकस्य द्रवैरेवं सप्तधा चित्रकद्रवैः । तत्समं गन्धकं दत्त्वा मर्दयेद्भावयेत्क्रमात् ॥ १,४.११७ ॥ प्रागुक्तमुण्डीस्वरसैर्बीजपूररसेन च । स्तन्यैरेकदिनं भाव्यं तदभ्रं च चरेद्रसः ॥ १,४.११८ ॥ एवं सर्वाणि बीजानि सत्त्वं चाभ्रकस्य च । स्वर्णादिसर्वलोहानि सत्वानि विविधानि च ॥ १,४.११९ ॥ द्वन्द्वानि सर्वरत्नानि यद्यत्स्याच्चारणार्हकम् । तत्तत्पिष्ट्वाभ्रवत्कार्यं तत्तच्चरति पारदः ॥ १,४.१२० ॥ <सप्तमः प्रकारः> तिलपर्णीरसैः पिष्ट्वा धान्याभ्रं पुटयेत्त्रिधा । सप्तधा भावयेदस्य मर्दनेन च पारदः ॥ १,४.१२१ ॥ पिष्टतां याति सहसा गगनं चरति क्षणात् । <अष्टमः प्रकारः> त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसटङ्कणम् ॥ १,४.१२२ ॥ भूखगं हेममाक्षीकं सौराष्ट्री वत्सनाभकम् । तुवरी वेतसाम्लं च सर्वमेतत्समांशकम् ॥ १,४.१२३ ॥ तत्समांशं तु धान्याभ्रं धान्याम्लैर्मर्दयेद्दिनम् । अर्कक्षीरं भृङ्गराजो मेघनादः पुनर्नवा ॥ १,४.१२४ ॥ मूलकं चित्रकं रंभा काकमाची शतावरी । अपामार्गस्तालमूली विदारी तण्डुली मुनिः ॥ १,४.१२५ ॥ मीनाक्षी शिग्रु बृहती कुमारी यवचिञ्चिका । बला तुम्बी कुबेराक्षी व्योषं तुम्बुरुपीलुनी ॥ १,४.१२६ ॥ अङ्कोलः फणिवल्ली च सर्वमेतत्समांशकम् । संपेष्य कल्कयेद्देवि धान्याम्ले तच्चतुर्गुणे ॥ १,४.१२७ ॥ द्रुतं नागं शतं वारान्क्षिपेत्तस्मिन्पुनः पुनः । कल्कद्रवेण पूर्वाभ्रं यामं संमर्दयेद्दृढम् ॥ १,४.१२८ ॥ कपोताख्ये पुटे पच्यादेवं विंशतिवारकम् । तत्तुल्यं गन्धकं दत्त्वा पूर्वोक्तैरौषधद्रवैः ॥ १,४.१२९ ॥ सस्तन्यैर्बीजपूरोत्थैर्द्रवैर्भाव्यं त्रिवासरम् । एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥ १,४.१३० ॥ द्वंद्वितं व्योमसत्वं च बीजानि विविधानि च । हेमादिसर्वलोहानि रत्नानि विविधानि च ॥ १,४.१३१ ॥ द्वंद्वितं वज्रबीजं च चारणायां विधीयते । समस्तमेतत्पूर्वोक्तप्रकारेणैव कारयेत् ॥ १,४.१३२ ॥ तदा रसेन्द्रश्चरति तत्सर्वं चारणोचितः । <नवमः प्रकारः> पात्रे तु कासीसं कांक्षी माक्षीकगन्धकम् ॥ १,४.१३३ ॥ क्षारत्रयं पञ्चलोणमम्लयुक्तं क्षणं क्षिपेत् । दिव्याभिषेकयोगोक्तं शतधा ढालयेदहिम् ॥ १,४.१३४ ॥ वङ्गं वानेन वस्तूनि चारणार्हाणि भावयेत् । वरी पुनर्नवा रंभा गवाक्षी यवचिञ्चिका ॥ १,४.१३५ ॥ शिग्रुका मेघनादश्च रसैरेषां विभावयेत् । वज्राभ्रकं क्रमेणैव सप्ताहं सुरवन्दिते ॥ १,४.१३६ ॥ तदभ्रकं नागवल्ल्या कोबेर्या शिग्रुकस्य वा । बाणाङ्कोलबलारंभास्फोतानां पीलुकस्य वा ॥ १,४.१३७ ॥ अलम्बुषाहिमरुचामुसलीतुम्बुरोरपि । अथवा खरमञ्जर्यास्तिक्तशाकस्य वा प्रिये ॥ १,४.१३८ ॥ एकेनैषां रसेनैव व्योषसर्षपसंयुतम् । स्विन्नं त्रिदिवसं कुर्यात्तस्मिन्टङ्कणसैन्धवम् ॥ १,४.१३९ ॥ कासीसं तुवरीं क्षिप्त्वा पूर्वाभिषवयोगतः । एतदभ्रं चरेत्सूतः समुखो निर्मुखोऽथवा ॥ १,४.१४० ॥ तदभ्रकप्रभावेन गोलकः सिद्धिदो भवेत् । <दशमः प्रकारः> धान्याम्लैरम्लवर्गैश्च स्वेदयेदभ्रकं दिनम् ॥ १,४.१४१ ॥ ततः स्नुक्क्षीरतो मर्द्यं कपोताख्ये पुटे दहेत् । मुनित्रयं मेघनादं रम्भाकन्दं च मूलकम् ॥ १,४.१४२ ॥ मत्स्याक्षी शृङ्गिवेरं च काकमाची पुनर्नवा । अपामार्गस्त्वरूपूगश्चैतेषां तु रसेन च ॥ १,४.१४३ ॥ एकैकेन पुनर्दद्यादेकैकं पूर्वमभ्रकम् । डोलायन्त्रे स्नुहीक्षीरयुक्तमेकदिनं पचेत् ॥ १,४.१४४ ॥ ततश्छायागते शुष्के घनेऽस्मिन्नवसारकम् । निम्बं वचां च कासीसं चणकाम्लं पृथक्पृथक् ॥ १,४.१४५ ॥ अभ्रस्य षोडशांशं च निक्षिपेत्ताम्रभाजने । घर्षयेत्तच्चरेत्सूतो लोहपात्रस्य योगतः ॥ १,४.१४६ ॥ <एकादशः प्रकारः> धान्याभ्रं मर्दयेत्सोमवल्लीतोयैर्दिनं दृढम् । पुटेदेवं त्रिधा पश्चात्सोमवल्ल्या रसेन च ॥ १,४.१४७ ॥ भावयेत्सप्तधा देवि रसश्चरति तद्घनम् । <द्वादशः प्रकारः> सारनाले तु शतधा निषिच्य तमनेन च ॥ १,४.१४८ ॥ शतधा प्लावयेदभ्रं ताम्रवासनया सह । खलल्यां तच्चरेत्सूतो नात्र कार्या विचारणा ॥ १,४.१४९ ॥ <गन्धकभावना> चारणार्थस्य गन्धस्य भावनां शृणु पार्वति । सौराष्ट्रं चाजमोदं च सर्जीं सीसमेव च ॥ १,४.१५० ॥ मर्दयेच्छिग्रुतोयेन गन्धकं तेन भावयेत् । सप्ताहं मर्दितं गन्धं चारयेत्पारदस्य च ॥ १,४.१५१ ॥ रागं धत्ते रसेन्द्रस्य बीजानां पाकजारणे । पक्षच्छेदे रसेन्द्रस्य श्रेष्ठः स्यात्सर्वकर्मणि ॥ १,४.१५२ ॥ पलाशपुष्पस्वरसैः शाकवृक्षच्छदद्रवैः । विष्णुक्रान्ताद्रवैर्गन्धं भावयेत्सप्तवासरम् ॥ १,४.१५३ ॥ तं गन्धं चारयेत्सूते इष्टकायन्त्रयोगतः । <अम्रचारणे श्रेष्ठा दिव्यमूल्यः> अथाभ्रचारणे श्रेष्ठा दिव्यमूलीर्वदामि ते ॥ १,४.१५४ ॥ वज्री रंभा हंसपदी चिञ्चिका व्याघ्रपादिका । मण्डूकी बृहती पुङ्खा कुमारी लाङ्गली तथा ॥ १,४.१५५ ॥ सर्पाक्षी चाग्निधमनी शङ्खपुष्पीन्द्रवारुणी । षण्डजारी च कर्कोटी विख्याता दिव्यमूलिका ॥ १,४.१५६ ॥ <गन्धकाभ्रकचारणम्> अथातश्चारणं कर्म प्रवक्ष्यामि समासतः । धान्याभ्रकं द्रुते गन्धे समं क्षिप्त्वा नियोजयेत् ॥ १,४.१५७ ॥ ख्यातो गन्धाभ्रयोगोऽयं श्रेष्ठश्चारणकर्मणि । समुखं निर्मुखं वापि पारदं दशनिष्ककम् ॥ १,४.१५८ ॥ गन्धाभ्रयोगनिष्के द्वे पिष्टं कुर्याद्यथा तथा । तं पिष्टं नागपिष्ट्याथ समया परिवेष्टयेत् ॥ १,४.१५९ ॥ हेमकर्मणि वङ्गस्य पिष्ट्या रजतकर्मणि । ताम्रपिष्ट्या देहसिद्धौ वेष्टयेत्परमेश्वरि ॥ १,४.१६० ॥ तां पिष्टिं विद्रुते गन्धे विपचेद्दिवसत्रयम् । तां पिष्टिं दीपिकायन्त्रे पाचयेत्पातयेदधः ॥ १,४.१६१ ॥ तं रसं पूर्ववत्पिष्टिं कुर्याद्वेष्टनवर्जिताम् । त्रिदिनं विद्रुते गन्धे विपचेत्पातयेदधः ॥ १,४.१६२ ॥ तं रसं तप्तखल्वे तु चतुःषष्टिगुणं क्षिपेत् । भागैकमभिषिक्ताभ्रं मर्द्यं दिव्यौषधैर्दिनम् ॥ १,४.१६३ ॥ तत्क्षिपेच्चारणायन्त्रे जम्बीररससंयुते । तीव्रातपे दिनं स्थाप्यं सूतश्चरति तद्घनम् ॥ १,४.१६४ ॥ एवं पुनः पुनर्गर्भपिष्टीग्रासक्रमात्मकम् । पत्त्राभ्रचारणं प्रोक्तमेवं सत्वाभ्रचारणम् ॥ १,४.१६५ ॥ एवं कुर्याद्यथाशक्यं चारणं परमेश्वरि । रसेऽभ्रं चारयेत्पूर्वं चतुःषष्टितमांशकम् ॥ १,४.१६६ ॥ द्वात्रिंशत्तमभागं स्यात्तदेतत्षोडशांशकम् । अष्टमांशं चतुर्थांशं द्वितीयांशं समं क्रमात् ॥ १,४.१६७ ॥ द्विगुणं चतुर्गुणं चाष्टगुणं षोडशकं गुणम् । द्वात्रिंशद्गुणमेवं स्यात्चतुःषष्टिगुणं क्रमात् ॥ १,४.१६८ ॥ पक्षच्छेदस्त्वदोषत्वं लघुता ग्रासयोग्यता । मुखिताग्निसहत्वं च व्यापित्वं गतिहीनता ॥ १,४.१६९ ॥ रसेन्द्रस्यानवस्थत्वं च भवेदभ्रकचारणात् । <जारणा> यस्याहमपि तुष्टः स्यां तस्य सूतेन्द्रजारणे ॥ १,४.१७० ॥ मतिर्भवेन्न सन्देहो जारणा भुक्तिमुक्तिदा । दुर्लभा जारणा देवि विना भाग्यं न लभ्यते ॥ १,४.१७१ ॥ जारणा द्विविधा बालजारणा वृद्धजारणा । <जारणे क्रमः> गगनं जारयेत्पूर्वं सर्वसत्वान्यतः परम् ॥ १,४.१७२ ॥ द्वंद्वानि सर्वलोहानि पक्वबीजानि भैरवि । पद्मरागादिरत्नानि जारयेच्च यथाक्रमम् ॥ १,४.१७३ ॥ <जारणाय अभ्रकसत्वनिर्माणप्रकारः, प्रथमः प्रकारः> जारणार्हं व्योमसत्वं रसराजस्य वक्ष्यते । धान्याभ्रकं च विधिवन्मारयेद्वज्रसंज्ञकम् ॥ १,४.१७४ ॥ अभिषेकं पूर्ववत्स्यात्तस्मिन् ताप्यं दशांशकम् । पञ्चमाहिषगव्यश्च मर्दयेत्कर्षसन्निभाः ॥ १,४.१७५ ॥ कुर्वीत वटिकाः कोष्ठीयन्त्रे सत्वं विपातयेत् । सत्वस्य च चतुर्थांशं ताप्ये मूषागतं धमेत् ॥ १,४.१७६ ॥ एवं कृत्वा चतुर्वारं तत्सत्वं रसजारणे । रसायने च भैषज्ये श्रेष्ठं सकलकर्मणि ॥ १,४.१७७ ॥ <द्वितीयः प्रकारः> मृताभ्रं तच्चतुर्थांशं नागं तत्पादमाक्षिकम् । पञ्चभिर्माहिषैर्गव्यैः पातयेत्सत्त्वमुज्ज्वलम् ॥ १,४.१७८ ॥ तत्सत्वं तच्चतुर्थांशं माक्षिकं तत्समां शिलाम् । धमेत्प्रलिप्तमूषायां सत्वं स्याद्धेमसन्निभम् ॥ १,४.१७९ ॥ एवं कुर्याच्चतुर्वारं तत्सत्वं ग्रसते रसः । <तृतीयः प्रकारः> मृताभ्रकं षोडशांशं तच्चतुर्थांशकं त्रपु ॥ १,४.१८० ॥ तत्समं तालकं क्षिप्त्वा पञ्चमाहिषगव्यतः । सत्त्वं निपातयेत्तच्च चतुर्थं हरितालकम् ॥ १,४.१८१ ॥ क्षिप्त्वा क्षिप्त्वा चतुर्वारं तत्सत्वं ग्रसते रसः । <चतुर्थः प्रकारः, अभ्रकसत्त्वमृदूकरणम्> वज्रमूषागतं कृत्वा घनसत्वं च तत्समम् ॥ १,४.१८२ ॥ कचं च टङ्कणं क्षिप्त्वा रुद्ध्वा तीव्राग्निना धमेत् । तत्क्षिपेदम्लवर्गेण चिञ्चाबीजं स्नुहीदलम् ॥ १,४.१८३ ॥ पिष्ट्वा तस्मिन्पुनस्तद्वत्काचटङ्कणयोगतः । धमेदेवं सप्तवारं सेचनं च पुनः पुनः ॥ १,४.१८४ ॥ तदभ्रसत्त्वं शुभ्रं स्यान्मृदु स्याच्चारणोदितम् । <पञ्चमः प्रकारः> रसेन्द्रं टङ्कणं ताप्यं भागैकैकं पृथक्पृथक् ॥ १,४.१८५ ॥ त्रिभागं शोधितं नागं मृताभ्रं दशभागकम् । यवक्षारं च दग्धोर्णां सर्जक्षारं च गुग्गुलुम् ॥ १,४.१८६ ॥ अजापञ्चाङ्गसंयुक्तमम्लमूत्रगणैर्युतम् । मर्दयेत्पूर्ववत्सत्वं पातयेन्मृदु निर्मलम् ॥ १,४.१८७ ॥ <द्वन्द्वमेलापनाय मूषालेपः: प्रथमः प्रकारः> द्वन्द्वमेलापने मूषालेपं वक्ष्यामि पार्वति ॥ १,४.१८८ ॥ मेषशृङ्गं खुरं गुञ्जा टङ्कणं च विषं समम् । स्थूलभेकस्य वसया पिष्ट्वा मूषां प्रलेपयेत् ॥ १,४.१८९ ॥ मिलन्ति सर्वसत्वानि मूषायां चूर्णितानि च । गुग्गुलुं धातकीपुष्पं गुडं क्षारत्रयं समम् ॥ १,४.१९० ॥ स्तन्यैः पिष्ट्वाथ मूषायां लेपनं द्वन्द्वमेलनम् । <द्वितीयः प्रकारः> अश्मभेदी लाङ्गली च भूलता च मरीचकः ॥ १,४.१९१ ॥ कार्पासस्य फलं शक्रगोपश्चैतांश्च मर्दयेत् । नारीस्तन्येन तेनैव मूषामन्तः प्रलेपयेत् ॥ १,४.१९२ ॥ तस्यां मिलन्ति सत्वानि सर्वाणि च महारसाः । हेममुख्यानि लोहानि चण्डाग्निधमनेन च ॥ १,४.१९३ ॥ <तृतीयः प्रकारः> चुचुन्दर्याश्च पिशितं टङ्कणं च विषं समम् । मर्दयित्वा च मूषान्तर्लेपयेत्तत्र निक्षिपेत् ॥ १,४.१९४ ॥ द्वन्द्वयोग्यं तु यद्यत्स्यात्तत्सर्वं धमनान्मिलेत् । <चतुर्थः प्रकारः> भस्मीकृतमपामार्गं कङ्गुणीतैलमर्दितम् ॥ १,४.१९५ ॥ मूषायां लेपयेत्तेन द्वन्द्वद्रव्यं विनिक्षिपेत् । मिलेत्तीव्राग्निधमनात्तत्तन्मारकवापनात् ॥ १,४.१९६ ॥ <द्वन्द्वमेलापनम्> अत एव प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु । वर्षाभूकदलीकन्दकाकमाचीपुनर्नवम् ॥ १,४.१९७ ॥ स्वर्णं नरकपालं च गुञ्जा टङ्कणमभ्रकम् । सत्वं मूषागतं ध्मातं हेमाभ्रं मिलति क्षणात् ॥ १,४.१९८ ॥ अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् । कपित्थतोयसंयुक्तं सूतटङ्कणसंयुतम् ॥ १,४.१९९ ॥ वङ्गपत्रान्तरे न्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् । आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् ॥ १,४.२०० ॥ हेमाभ्रं नागताप्येन ताराभ्रं हरितालकात् । गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् ॥ १,४.२०१ ॥ वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् । लाङ्गली चमरीकेशाः कार्पासास्थि कुलत्थकम् ॥ १,४.२०२ ॥ भूलता चाश्मदमनी स्त्रीस्तन्यं सुरगोपकः । द्वन्द्वे प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना ॥ १,४.२०३ ॥ कान्ताभ्रशैलविमलाः मिलन्ति सकलाः क्षणात् । अथ चुच्छुन्दरीमांसं विषटङ्कणयोजितम् ॥ १,४.२०४ ॥ मूषाप्रलेपात्कुरुते सर्वद्वन्द्वेषु मेलनम् । जौरभ्रमरशृङ्गं च मण्डूकस्य वसामिषम् ॥ १,४.२०५ ॥ गुञ्जाटङ्कणलेपेन सर्वसत्वेषु मेलनम् । टङ्कणोर्णागिरिजतुकर्णाक्षीमलकर्कटैः ॥ १,४.२०६ ॥ मिलन्ति सर्वद्रव्याणि स्त्रीस्तन्यपरिपेषितैः । धातकीगुग्गुलुगुडसर्जयावकटङ्कणैः ॥ १,४.२०७ ॥ स्त्रीस्तन्यपेषितं शस्तं द्वन्द्वं स्यात्तु रसायने । सूक्ष्मचूर्णं तु यत्किंचित्पूर्वकल्केन संयुतम् ॥ १,४.२०८ ॥ अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् । वापितं ताप्यरसकसस्यकैर्दरदेन च ॥ १,४.२०९ ॥ स सत्वं स्यादनिबिडं दृढं ध्मातं मिलेत्ततः । रसोपरसलोहानि सर्वाण्येकत्र मेलयेत् ॥ १,४.२१० ॥ <प्रथमः प्रकारः> अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा । वज्राभ्रसत्त्वचूर्णं तु यत्किंचिल्लोहचूर्णकम् ॥ १,४.२११ ॥ द्वयं समं तयोस्तुल्यमरिवर्गं विनिक्षिपेत् । द्वन्द्वमेलनमूषायां धमनान्मेलनं भवेत् ॥ १,४.२१२ ॥ <द्वितीयः प्रकारः> मर्दयेट्टङ्कणं रम्भाकन्दतोयेन लेपयेत् । मूषां श्वेताभ्रकं वङ्गं धमनान्मिलति प्रिये ॥ १,४.२१३ ॥ <तृतीयः प्रकारः> वनशिग्रुष्टङ्कणश्च गुञ्जा च नृकपालकम् । पिष्ट्वा योषित्स्तन्यनीरैस्तेन मूषां प्रलेपयेत् ॥ १,४.२१४ ॥ वङ्गश्वेताभ्रसत्वं च चूर्णयित्वा क्षिपेद्धमेत् । असंशयं मिलन्त्येव श्रेष्ठं रजतकर्मणि ॥ १,४.२१५ ॥ <चतुर्थः प्रकारः> श्वेताभ्रसत्वं संचूर्ण्य तच्चतुर्थांशपारदम् । सूततुल्यं टङ्कणं च मर्दयेत्काकमाचिजैः ॥ १,४.२१६ ॥ द्रवैस्तद्गोलकं कृत्वा वङ्गपत्रेण वेष्टयेत् । श्वेताभ्रसत्वतुल्येन लिप्तमूषागतं धमेत् ॥ १,४.२१७ ॥ भवेत्सम्मेलनं सम्यक्मुख्यः स्याद्रूप्यकर्मणि । <वज्रहेममेलापने मूषालेपः: प्रथमः प्रकारः> अथातो वज्रकनकद्वन्द्वमेलाप्रलेपनम् ॥ १,४.२१८ ॥ गुञ्जा कान्तमुखं तुल्यं द्वन्द्वयोर्द्विगुणं बलिम् । स्तन्येन योषितां पिष्ट्वा मूषायामन्तरे तथा ॥ १,४.२१९ ॥ मेलयेद्वज्रमेलापोऽयं कथितो मया । <द्वितीयः प्रकारः> शिलाधातुः कान्तमुखं शशदन्ताश्च गन्धकः ॥ १,४.२२० ॥ अम्लवेतसकं तुल्यं पिष्ट्वा मूषां प्रलेपयेत् । हेमवज्रं मिलत्येव मूषायां नात्र संशयः ॥ १,४.२२१ ॥ <तृतीयः प्रकारः> कुलीरास्थि शिलाधातु महिषीकणदृङ्मलम् । टङ्कणोर्णासमं सर्वं कान्तास्तन्येन मर्दयेत् ॥ १,४.२२२ ॥ अनेन लेपयेन्मूषां हेमवज्रं मिलत्यलम् । <चतुर्थः प्रकारः> कान्तास्यं टङ्कणं बालवत्सविड्भ्रमरास्थि च ॥ १,४.२२३ ॥ मनुष्यचिकुरास्थीनि स्त्रीस्तन्येन विमर्दयेत् । अनेन लिप्तमूषायां हेमवज्रं मिलेद्ध्रुवम् ॥ १,४.२२४ ॥ <पञ्चमः प्रकारः> ताप्यटङ्कणभूनागकान्तकाचमधूनि च । कुलीरास्थि स्नुहीक्षीरमर्कक्षीरं समं समम् ॥ १,४.२२५ ॥ स्तन्येन मर्दयेत्सर्वं मूषालेपं तु कारयेत् । मूषालेपो भवेदेष वज्रहाटकमेलनः ॥ १,४.२२६ ॥ वज्रं भस्मीभवेद्यैस्तैर्मूषामन्तर्विलेपयेत् । धमेत्तीव्राग्निना हेमवज्रमेलापनं भवेत् ॥ १,४.२२७ ॥ <वज्रहेममेलापनम्; प्रथमः प्रकारः> अथातो मेलनं वक्ष्ये वज्रहेम्नोः सुरेश्वरि । स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदम् ॥ १,४.२२८ ॥ रसेन्द्रार्धं नागभस्म नागार्धं मृतवज्रकम् । एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ॥ १,४.२२९ ॥ उद्धृत्य द्वन्द्वमेलापे मूषायां रोधयेद्धमेत् । हठात्तच्च मिलत्येतन्नात्र कार्या विचारणा ॥ १,४.२३० ॥ <द्वितीयः प्रकारः> भावयेच्छारिवाक्षीरे मृतं वज्रं दिनं ततः । मर्दयेद्गोलकं कृत्वा शेषयेच्चैकभागकम् ॥ १,४.२३१ ॥ त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् । अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्गोलकम् ॥ १,४.२३२ ॥ तत्पिष्ट्वा वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत् । पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः पुनः ॥ १,४.२३३ ॥ धमेद्धठान्मिलत्येव नात्र कार्या विचारणा । <तृतीयः प्रकारः> वज्रं षोडशभागेन हेमपत्रेण वेष्टयेत् ॥ १,४.२३४ ॥ तत्क्षिपेल्लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् । चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ॥ १,४.२३५ ॥ निरुध्य च धमेत्तीव्रमेवं कुर्यात्पुनः पुनः । क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ॥ १,४.२३६ ॥ सप्तधैवं मिलत्येव पुनरेवं विधीयते । अस्य हेम्नः षोडशांशं मृतं वज्रं विनिक्षिपेत् ॥ १,४.२३७ ॥ पूर्ववल्लिप्तमूषायां काचं वा नृकपालकम् । क्षिप्त्वा क्षिप्त्वा धमेत्तीव्रं सप्तवारं मिलत्यलम् ॥ १,४.२३८ ॥ एवं तृतीयवारं च कुर्यादेवं चतुर्थकम् । <द्वन्द्वितानामभिषेकः> अथातो द्वंद्वितानां च प्रवक्ष्याम्यभिषेचनम् ॥ १,४.२३९ ॥ कासीसं पञ्चलवणं माक्षीकं गन्धकं तथा । कांक्षी क्षारत्रयं तुल्यमारनालेन मर्दयेत् ॥ १,४.२४० ॥ तत्कल्कमातपे ताम्रपात्रे संस्थापयेत्त्र्यहम् । तस्मिन्क्षिपेद्द्रुतं नागंशतधा तद्द्रुतं द्रुतम् ॥ १,४.२४१ ॥ ताम्रपात्रस्थसौवीरैर्भावयेच्छतवारकम् । द्वंद्वितं तच्चरेत्सूतो यत्किंचिज्जारणार्हकम् ॥ १,४.२४२ ॥ रूप्यकर्मणि वङ्गं स्यान्नागं स्याद्धेमकर्मणि । <पक्वबीजविधानम्> अथातः सम्प्रवक्ष्यामि पक्वबीजं सुरार्चिते ॥ १,४.२४३ ॥ <प्रथमं विधानम्> सुवर्णे विद्रुते तुल्यं नागाभ्रं द्वंद्वितं प्रिये । वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत् ॥ १,४.२४४ ॥ पक्वबीजमिदं ख्यातं जारयेत्पारदे क्रमात् । <द्वितीयं विधानम्> पीताभ्रसत्वं स्वर्णं च समांशं द्वंद्वितं धमेत् ॥ १,४.२४५ ॥ वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत् । पुनः पीताभ्रसत्वं च वहेद्दशगुणं शनैः ॥ १,४.२४६ ॥ स्वर्णशेषं भवेद्यावत्पक्वबीजमिदं भवेत् । <तृतीयं विधानम्> नागार्कव्योमरसकं चतुस्त्रिर्द्व्येकभागिकम् ॥ १,४.२४७ ॥ चूर्णयेल्लिप्तमूषायामन्धयेच्च धमेद्दृढम् । माक्षिकेण च तत्खोटं संपेष्याम्लैः पुटे पचेत् ॥ १,४.२४८ ॥ पुनस्तत्सममाक्षीकमम्लैः पिष्ट्वा पुटे पचेत् । एवं पञ्चपुटं दत्त्वा तद्द्रुते हेम्नि वाहयेत् ॥ १,४.२४९ ॥ धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकम् । <चतुर्बीजक्रमः> अथातः सम्प्रवक्ष्यामि चतुर्बीजं वरानने ॥ १,४.२५० ॥ हेमताराहिकुटिलबीजान्येतानि तत्त्वतः । हेमबीजं नागबीजं शस्यते हेमकर्मणि ॥ १,४.२५१ ॥ तारबीजं वङ्गबीजं कथिते रूप्यकर्मणि । हेमबीजं तारबीजं भवेतां च रसायने ॥ १,४.२५२ ॥ नागबीजं वङ्गबीजं न रसायनकर्मणि । चत्वार्येतानि बीजानि भवेयू रोगशान्तये ॥ १,४.२५३ ॥ अन्यथा नैव योज्यानि बीजान्येतानि शाम्भवि । <हेमबीजविधानम्, प्रथमं हेमबीजम्> गन्धकं सस्यकं वापि माक्षीकं वाथ तालकम् ॥ १,४.२५४ ॥ शिलां च विमलां वापि वैक्रान्तं वाञ्जनं च वा । खर्परं वा कान्तमुखं वा चूर्णयित्वा समांशकम् ॥ १,४.२५५ ॥ शतवारान्द्रुते हेम्नि वाहयेच्च पुनः पुनः । <द्वितीय नागभस्मसिद्धं हेमबीजम्> सूतहिंगुलकंकुष्ठलोहपर्पटिकाभ्रकम् ॥ १,४.२५६ ॥ मृतार्कमाक्षीकशिलाविमलांश्च समांशकान् । एतान्नागकलाभागान् स्नुह्यर्कपयसा प्रिये ॥ १,४.२५७ ॥ मर्दयेत्तेन पत्राणि शुद्धनागस्य लेपयेत् । पुटेद्द्वात्रिंशतिपुटे नागो भस्मति तद्वहेत् ॥ १,४.२५८ ॥ समं समं च शतधा विद्रुते पूर्ववाहिते । सुवर्णे च तथा हेमशेषं तावद्धमेद्दृढम् ॥ १,४.२५९ ॥ <तृतीयं वङ्गभस्मसिद्धं हेमबीजम्> अथवा भस्मयेद्वङ्गं तालशङ्खाभ्रपारदैः । चिञ्चाक्षारैस्त्रपुसमैः स्नुह्यर्कक्षीरमर्दितैः ॥ १,४.२६० ॥ पुटेत्षोडशभिस्तच्च शतधा हेम्नि वाहयेत् । <चतुर्थं ताम्रभस्मसिद्धं हेमबीजम्> अथवा मारयेच्छुल्बमूर्ध्वाधो गन्धकं समम् ॥ १,४.२६१ ॥ क्षिप्त्वा पुटेदष्टवारं तत्ताम्रं हेम्नि वाहयेत् । <पञ्चमं तीक्ष्णभस्मसिद्धं हेमबीजम्> अथवा मारयेत्तीक्ष्णं तीक्ष्णतुल्यं च हिंगुलम् ॥ १,४.२६२ ॥ स्त्रीस्तन्यैर्मर्दयित्वा तु पुटेदथ कलांशकम् । तीक्ष्णस्य हिंगुलं दत्त्वा मर्दयेत्पुटयेत्क्रमात् ॥ १,४.२६३ ॥ एवं तत्षोडशपुटैः तत्तीक्ष्णं हेम्नि वाहयेत् । शतधा हेम तदिशं विद्रुते हेम्नि वाहयेत् ॥ १,४.२६४ ॥ <षष्ठं हेमबीजम्> तद्धेम्नि द्विगुणं ताप्यं पूर्णितं तद्धमेद्दृढम् । तच्चूर्णयेद्द्वित्रिपुटैः पञ्चभिर्मारितं भवेत् ॥ १,४.२६५ ॥ तद्वाहयेद्दशगुणं द्रुते हेम्नि धमन् धमन् । तदेव जायते दिव्यं सर्वसिद्धिप्रदायकम् ॥ १,४.२६६ ॥ हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे । <सप्तमं हेमबीजम्> सस्यकाभ्रकवैक्रांतसत्वं स्वर्णमहिं रविम् ॥ १,४.२६७ ॥ तीक्ष्णं च चूर्णयेल्लिप्तमूषायां चान्ध्रितं धमेत् । पुनः प्रकटमूषायां धमेत्तस्मिन्द्रुते सति ॥ १,४.२६८ ॥ माक्षिकं निक्षिपेत्किंचित्किंचिद्दत्त्वा पुनः पुनः । यावत्स्वर्णावशेषं स्यात्ततस्तस्मिन् विनिक्षिपेत् ॥ १,४.२६९ ॥ स्वर्णं नागं रविं तीक्ष्णं पूर्ववच्च धमेत्क्रमात् । वाहयेन्माक्षिकं तद्वद्धमेत्स्वर्णावशेषकम् ॥ १,४.२७० ॥ हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे । <अष्टमं हेमबीजम्> समांशं चूर्णयेदभ्रं सत्वं ताम्रमयं शुभम् ॥ १,४.२७१ ॥ अभ्रकाद्द्विगुणं धौतं ताप्यं सर्वं धमेद्धठात् । मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ॥ १,४.२७२ ॥ मर्द्यं दिव्यौषधिरसैः संपुटे रोधयेद्दृढम् । पचेद्गजपुटे तद्वच्चूर्णयेन्मर्दयेत्पुटेत् ॥ १,४.२७३ ॥ एवं पञ्चपुटैः पक्वं तद्वहेत्कनके द्रुते । यावद्दशगुणं तावन्मूषायां प्रकटे धमेत् ॥ १,४.२७४ ॥ ततस्तस्मिन् शुद्धताप्यं क्षिप्त्वा क्षिप्त्वा धमेद्धमेत् । यावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ॥ १,४.२७५ ॥ <नवमं हेमबीजम्> तीक्ष्णार्कनागभस्मानि ताप्यचूर्णं समं समम् । एतद्द्रुते वहेद्धेम्नि यावद्दशगुणं भवेत् ॥ १,४.२७६ ॥ तावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये । <दशमं हेमबीजम्> मृततारार्कतीक्ष्णायः समं सर्वं धमेद्दृढम् ॥ १,४.२७७ ॥ मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः । तच्चूर्णं द्राविते स्वर्णे वाहयेच्च शनैः शनैः ॥ १,४.२७८ ॥ यावद्दशगुणं पश्चात्ताप्यचूर्णं क्षिपन्क्षिपन् । धमेत्स्वर्णावशेषं स्याद्धेमबीजमिदं प्रिये ॥ १,४.२७९ ॥ <एकादशं हेमबीजम्> नागमेकं चतुस्ताम्रं सत्त्वं रसकसम्भवम् । मूषायां द्वन्द्वलिप्तायां सर्वं ध्मातं विचूर्णयेत् ॥ १,४.२८० ॥ तच्चूर्णं वाहयेत्स्वर्णे विद्रुते षड्गुणं शनैः । स्वर्णशेषं भवेद्यावत्तावत्स्यात्स्वर्णबीजकम् ॥ १,४.२८१ ॥ <द्वादशं हेमबीजम्> ताप्येन मारयेत्ताम्रं तन्नागे वाहयेच्छनैः । यावच्छतगुणं ताप्यं चूर्णं क्षिप्त्वा धमन्धमन् ॥ १,४.२८२ ॥ तद्वाहयेद्धमेद्धेम्नि क्रमाद्द्वात्रिंशतं गुणम् । स्वर्णशेषं भवेद्यावत्तावत्स्याद्धेमबीजकम् ॥ १,४.२८३ ॥ <त्रयोदशं हेमबीजम्> भागैकं खर्परीसत्वं द्विभागं चाभ्रसत्वकम् । त्रिभागं ताम्रचूर्णं च लिप्तमूषागतं धमेत् ॥ १,४.२८४ ॥ तत्खोटं चूर्णयेत्ताप्यं तुल्यमम्लैर्विमर्दयेत् । तत्क्षिपेत्संपुटे रुद्ध्वा पुटेल्लघुपुटे पुनः ॥ १,४.२८५ ॥ एवं पञ्चपुटैः पक्वं तच्चूर्णं वाहयेद्द्रुते । सहस्रगुणितं हेम्नि यावत्स्वर्णावशेषितम् ॥ १,४.२८६ ॥ तावत्ताप्यं वहेद्युक्त्या स्यादिदं हेमबीजकम् । <चतुर्दशं हेमवीजम्> भागैकमभ्रसत्वं च द्विभागं शुद्धताम्रकम् ॥ १,४.२८७ ॥ चूर्णयेल्लिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढम् । ततस्तं चूर्णयेत्ताप्यं तुल्यमम्लेन मर्दयेत् ॥ १,४.२८८ ॥ तद्रुद्ध्वा संपुटे पच्यात्पुटे तच्चूर्णयेत्पुनः । पूर्ववन्माक्षिके क्षिप्त्वा मर्दयेत्पातयेत्प्रिये ॥ १,४.२८९ ॥ एवं पञ्चपुटे कार्ये तच्चूर्णं वाहयेत्प्रिये । स्वर्णे शतगुणं यावत्तावत्स्याद्धेमबीजकम् ॥ १,४.२९० ॥ <पञ्चदशं हेमबीजम्> माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् । वैक्रान्तकं कान्तमुखं सस्यकं विमलांजने ॥ १,४.२९१ ॥ रसकं चापि शतशश्चूर्णितं हेम्नि वाहयेत् । लोहपर्पटिकाताप्यकङ्कुष्ठविमलाभ्रकैः ॥ १,४.२९२ ॥ मृतशुल्बशिलासूतस्नुह्यर्कक्षीरहिङ्गुलैः । नागो निर्जीवतां याति योगैः पुनः पुनः ॥ १,४.२९३ ॥ रसतालकशुद्धचिंचाक्षारैस्तथा त्रपु । मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णं च वा मृतम् ॥ १,४.२९४ ॥ एकैकमुत्तमे हेम्नि वाहयेत्सुरवन्दिते । निरुद्धे पन्नगे हेम्नि निर्व्यूढे शतसंगुणैः ॥ १,४.२९५ ॥ <हेम्नि नागादिनिर्वहणेन वर्णव्यत्यासः> नागजीर्णं रोचनाभं हारीतं ताम्रवाहितम् । तीक्ष्णजीर्णं रविसमं वङ्गजीर्णं जपानिभम् ॥ १,४.२९६ ॥ <प्रथमं तारबीजम्> श्वेताभ्रसत्वं तीक्ष्णं च ताप्यं च विमलां तथा । खर्परं च समं सर्वं कुटिलं च चतुर्गुणम् ॥ १,४.२९७ ॥ धमेत्सर्वं चूर्णयेच्च भस्मयेत्पुटपञ्चकैः । तारे द्रुते शतगुणं वाहयेच्च शनैः शनैः ॥ १,४.२९८ ॥ तारबीजमिदं ख्यातं जारणे परमं हितम् । <द्वितीयं तारबीजम्> यथा ताप्येन कुटिलं तथा ताप्येन मारयेत् ॥ १,४.२९९ ॥ तद्भागं च समं तालं तत्समं रजते द्रुते । त्रिंशद्गुणं भवेद्यावत्तावद्वाह्यं क्रमेण च ॥ १,४.३०० ॥ तारबीजमिदं ख्यातं पारदे तच्च जारयेत् । <तृतीयं तारबीजम्> तीक्ष्णं वङ्गं च विमलां समांशं चूर्णयेत्प्रिये ॥ १,४.३०१ ॥ द्वन्द्वमेलोपलिप्तायां धमेत्तत्खोटकं भवेत् । तत्खोटं चूर्णयेदम्लैर्मर्दयेत्पुटयेदिति ॥ १,४.३०२ ॥ पञ्चवारं प्रकुर्वीत भस्म तज्जायते प्रिये । तद्भस्म विद्रुते तारे वाहयेच्च समं समम् ॥ १,४.३०३ ॥ धमन् धमन् दशगुणं यावद्भवति भैरवि । तारबीजमिदं श्रेष्ठं रसराजस्य जारणे ॥ १,४.३०४ ॥ <चतुर्थं तारबीजम्> श्वेताभ्रसत्वं कुटिलं तारमाक्षीकसत्वकम् । त्रयं समांशं संचूर्ण्य लिप्तमूषागतं धमेत् ॥ १,४.३०५ ॥ तच्चूर्णं वाहयेत्तारे तारतुल्यं विनिक्षिपेत् । यावद्दशगुणं तावत्तारमाक्षीकवापतः ॥ १,४.३०६ ॥ तारबीजमिदं प्रोक्तं जारणे परमं हितम् । <पञ्चर्मं तारबीजम्> त्रिद्व्येकभागान् देवेशि तीक्ष्णतालामलान् क्रमात् ॥ १,४.३०७ ॥ चूर्णितान् लिप्तमूषायां क्षिप्त्वा तीव्राग्निना धमेत् । तत्खोटं चूर्णयेदम्लैर्मर्दयेत्पुटयेदिति ॥ १,४.३०८ ॥ सप्तधा तद्द्रुते तारे वाह्यं दशगुणं ततः । क्षिप्त्वा क्षिप्त्वा तालचूर्णं तारशेषं यथा धमेत् ॥ १,४.३०९ ॥ तारबीजमिदं श्रेष्ठं जारणे परमं हितम् । <षष्ठं तारबीजम्> खर्परी तालशुभ्राभ्रसत्त्वकं तारमाक्षिकम् ॥ १,४.३१० ॥ तुल्यं सर्वसमं वङ्गं सर्वं मूषागतं धमेत् । चूर्णयेन्मर्दयेदम्लैः पुटेदेवं तु सप्तधा ॥ १,४.३११ ॥ तच्चूर्णं वाहयेत्तारे द्रुते दशगुणं धमन् । तारशेषं भवेद्यावत्तावत्स्यात्तारबीजकम् ॥ १,४.३१२ ॥ <सप्तमं तारबीजम्> श्वेताभ्रसत्वं वङ्गं च द्वन्द्वं कुर्याच्च पूर्ववत् । तच्चूर्णे तालकं दत्त्वा पादमम्लैर्विमर्दयेत् ॥ १,४.३१३ ॥ पुटेत्तस्मिन्क्षिपेत्तालं पूर्ववन्मर्दनं पुटम् । एवं पञ्चपुटं कुर्यात्तच्चूर्णं वाहयेद्द्रुते ॥ १,४.३१४ ॥ रजते द्वादशगुणं तद्भवेत्तारबीजकम् । <अष्टमं तारबीजम्> श्वेताभ्रसत्वं वङ्गं च वङ्गार्धं तीक्ष्णचूर्णकम् ॥ १,४.३१५ ॥ तीक्ष्णांशा तारविमला सर्वं मूषागतं धमेत् । ततस्तच्चूर्णयेदम्लैः पिष्ट्वा रुद्ध्वा पुटेत्पचेत् ॥ १,४.३१६ ॥ पञ्चवारं पुनस्तच्च वाहयेद्रजते द्रुते । यावच्छतगुणं तावत्तालकं च क्षिपन् धमेत् ॥ १,४.३१७ ॥ तारशेषं भवेद्यावत्तावत्स्यात्तारबीजकम् । <ताम्रबीजम्> ताम्रबीजं प्रवक्ष्यामि जारणार्थं रसस्य तु ॥ १,४.३१८ ॥ स्वर्णं ताम्रं समं देवि तयोस्तुल्यं च माक्षिकम् । ऊर्ध्वाधो निक्षिपेल्लिप्तमूषायां तद्धमेद्दृढम् ॥ १,४.३१९ ॥ धमेदेवं च दशधा दत्त्वा दत्त्वाथ माक्षिकम् । ताम्रबीजमिदं ख्यातं भास्वत्किरणसंनिभम् ॥ १,४.३२० ॥ <प्रथमं नागबीजम्> अभ्रकं रसकं तुल्यं नागभस्म चतुर्गुणम् । धमयेच्चूर्णयेत्तच्च माक्षिकेण च मारयेत् ॥ १,४.३२१ ॥ एतत्समं शिलाचूर्णमेकीकृत्याथ वापयेत् । तद्धमेत्सदृशे हेम्नि विद्रुते शतधा प्रिये ॥ १,४.३२२ ॥ नागबीजमिदं प्रोक्तमेतत्सूते तु जारयेत् । <द्वितीयं नागबीजम्> नागबीजं प्रवक्ष्यामि श्रेष्ठं तद्रसजारणे ॥ १,४.३२३ ॥ रसकाभ्रकताम्रेऽहिं भागवृद्ध्या धमेत्ततः । माक्षिकेण हतं तच्च बीजं निर्वाहयेत्प्रिये ॥ १,४.३२४ ॥ द्वात्रिंशांशगुणं हेम्नि वङ्गं ताप्यहतं वहेत् । त्रिंशद्गुणं शिलावाप्यं नागबीजमुदाहृतम् ॥ १,४.३२५ ॥ <वङ्गबीजक्रमः> बीजं प्रवक्ष्यामि वङ्गं तालं च ताप्यकम् । समं धमेच्चूर्णयेच्च तत्समं ताप्यतालकम् ॥ १,४.३२६ ॥ मर्दयेत्पुटयेदम्लैर्भस्म स्यात्षोडशैः पुटैः । तारे द्रुते शतगुणं वाहयेद्वङ्गभस्म च ॥ १,४.३२७ ॥ तत्तारे तालकं देवि द्वात्रिंशद्गुणमावहेत् । वङ्गबीजमिदं ज्ञेयमेतत्सूते तु जारयेत् ॥ १,४.३२८ ॥ <जारणे बिडयोगाः> विडयोगान्प्रवक्ष्यामि जारणार्हान् सुरार्चिते । <१. वडवानलविडः> सौवीरं गन्धकं कांक्षी कासीसं व्योषसैन्धवम् ॥ १,४.३२९ ॥ सौवर्चलं सर्जिका च मालतीतीरसम्भवम् । शिग्रुमूलरसैः सर्वं भावयेत्सप्तवासरम् ॥ १,४.३३० ॥ बिडोऽयं जारणे श्रेष्ठो नाम्ना च वडबानलः । <२. वैश्वानरविडः> अर्कक्षीरैर्दग्धशङ्खं भावयेत्पुटयेत्प्रिये ॥ १,४.३३१ ॥ शतधायं विडः प्रोक्तो नाम्ना वैश्वानरो महान् । <३. ज्वालामुखबिडः> गन्धकं शङ्खचूर्णं च सैन्धवं च विषं समम् ॥ १,४.३३२ ॥ शतवारं गवां मूत्रैः शिग्रुमूलरसैस्तथा । भावितोऽयं बिडः प्रोक्तो नाम्ना ज्वालामुखः स्मृतः ॥ १,४.३३३ ॥ <४. अग्निजिह्वकबिडः> पलाशस्य रसैर्भाव्यं टङ्कणं शतधा प्रिये । लोहानां जारणे श्रेष्ठो बिडो नाम्नाग्निजिह्वकः ॥ १,४.३३४ ॥ <५ वडबाबिडः> कान्तास्यं गन्धकं चूली चैकैकं लोहजारकम् । चूलीगन्धकसिन्धूत्थतालभूखगटङ्कणान् ॥ १,४.३३५ ॥ सक्षारमूत्रैर्विपचेन्नाम्नायं वडबामुखः । <६. महावैश्वानरो विडः> देवदालिं मोक्षकं च निचुलं च पुनर्नवाम् ॥ १,४.३३६ ॥ पलाशं काञ्चनं वासामेरण्डं वास्तुकं तिलम् । कदलीमपि सर्वाङ्गं खण्डितं नाति शोषयेत् ॥ १,४.३३७ ॥ मूत्रवर्गे चाष्टगुणे प्रक्षिपेत्तदनन्तरम् । समूलं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥ १,४.३३८ ॥ क्षारद्वयं पूर्वरसे क्षिप्त्वा स्थाप्यं त्र्यहं खरे । आतपे तद्वस्त्रपूतं लोहपात्रे द्रवं पचेत् ॥ १,४.३३९ ॥ बहवो बुद्बुदा बाष्पा उद्भवन्ति यदा यदा । त्रिक्षारं त्रिकटुं गन्धं कासीसं लोणपञ्चकम् ॥ १,४.३४० ॥ सौराष्ट्रीं रामठं चूलिं समं चूर्णीकृतं क्षिपेत् । प्रचालयेल्लोहदर्व्या गुडपाको यथा भवेत् ॥ १,४.३४१ ॥ समुत्तार्य क्षिपेल्लोहसंपुटे सप्तवासरम् । भूगर्भे धान्यराशौ च सप्ताहं धारयेत्पुनः ॥ १,४.३४२ ॥ सप्ताहं धारयेद्घर्मे महावैश्वानरो बिडः । <७. वह्निबिडः> जम्बीराम्लेन शतधा वनशिग्रुरसेन च ॥ १,४.३४३ ॥ गन्धकं भावयेदेष बिडः स्याद्वह्निसंज्ञकः । नवसारोऽपि च तथा गन्धवत्स बिडो भवेत् ॥ १,४.३४४ ॥ <८. चित्रभानुबिडः> गन्धकं निचुलक्षारं गुंजाबीजं च टङ्कणम् । मूलबीजं देवदाल्याः समं सर्वं च भावयेत् ॥ १,४.३४५ ॥ तिक्तकोशातकीनीरैः सप्तधाम्लगणैस्तथा । बिडोऽयं चित्रभानुः स्यात्प्रधानं हेमजारणे ॥ १,४.३४६ ॥ <९. महाबिडः> मूलकं शृङ्गिवेरं च वह्निं दग्ध्वा त्रयं समम् । गोमूत्रे निक्षिपेत्तच्च वस्त्रपूतं च कारयेत् ॥ १,४.३४७ ॥ अनेन भावितो गन्धः शतधा स्यान्महाबिडः । <१०. अन्यो महाबिडः> तालं शिला टङ्कणं च शङ्खं लवणशुक्तिके ॥ १,४.३४८ ॥ मूत्राम्लैर्विपचेन्मन्दं वह्नावेष बिडो महान् । <११. वज्रानलबिडः> अर्कक्षीरैर्दग्धशङ्खं शतधा भावयेत्ततः ॥ १,४.३४९ ॥ मर्दयित्वाम्लवर्गेण रुद्ध्वा पञ्चपुटैः पचेत् । तत्समं टङ्कणक्षारं क्षिप्त्वाम्लगणभावितम् ॥ १,४.३५० ॥ कृत्वा मनःशिलां गन्धं दरदं विद्रुमं ततः । नृपावर्तं तु पञ्चानां शंखचूर्णं समं प्रिये ॥ १,४.३५१ ॥ भावयेदम्लवर्गेण त्रिदिनं स्यान्महाबिडः । नाम्ना वज्रानलः प्रोक्तः खोटः सूतस्य जारणे ॥ १,४.३५२ ॥ द्वन्द्वमेलापमूषायां सारणे योजयेत्सदा । पारदस्तु क्षणादेव वज्रादीन्यपि जारयेत् ॥ १,४.३५३ ॥ <१२. अन्यो विडः> निर्दग्धशङ्खचूर्णं च रविक्षीरशताप्लुतम् । पुटितं बहुशो देवि प्रशस्तो जारणे बिडः ॥ १,४.३५४ ॥ <१३. बडबामुखो बिडः> शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः । निर्दग्धशङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् ॥ १,४.३५५ ॥ शतशो विषसिन्धूत्थसंयुतं वडबामुखः । <१४. सर्वजारकबिडः> गन्धकं भावयेत्कन्याधुत्तूरकरवीरजैः ॥ १,४.३५६ ॥ द्रवैस्तु शतधा घर्मे विडोऽसौ सर्वजारकः । <१५. अन्यो बिडः> ताम्रवल्लीदलरसैः प्लावयेद्गन्धसैन्धवम् ॥ १,४.३५७ ॥ सप्ताहेन भवेदेनं नियुञ्ज्याद्धेमजारणे । <१६. सिद्धबिडः> सैन्धवं कुनटी गन्धं प्रत्येकं च पलं पलम् ॥ १,४.३५८ ॥ भूलता त्रिपलं सर्वं मर्दयेच्छोषयेत्पचेत् । एवं कुर्यादष्टवारमयं सिद्धबिडः स्मृतः ॥ १,४.३५९ ॥ <अभ्रकजारणम्> अथाभ्रजारणं कर्म वक्ष्यामि शृणु पार्वति । तप्तखल्वे चतुःषष्टिनिष्कसूतं सुचारितम् ॥ १,४.३६० ॥ भावितं गगनं चैकं निष्कं तत्र विनिक्षिपेत् । त्रिक्षारं पञ्चलवणं भूखगाम्लजवेतसान् ॥ १,४.३६१ ॥ षोडशांशान् रसेन्द्रस्य क्षिपेज्जम्बीरवारिणा । मर्दयेद्याममात्रं तु कूर्मयन्त्रे विडान्विते ॥ १,४.३६२ ॥ पचेद्दिनं विनिक्षिप्य जीर्णग्रासो भवेद्रसः । एतत्सूतं तप्तखल्वे क्षिप्त्वा राजीगुडोर्णकम् ॥ १,४.३६३ ॥ इष्टिकां गृहधूमं च सैन्धवं पारदस्य तु । एतत्सर्वं षोडशांशं मर्द्यमम्लगणैर्दिनम् ॥ १,४.३६४ ॥ चण्डातपे पिण्डितं तद्रसे बद्ध्वाथ पोटलम् । अम्लवर्गेण भरिते डोलायन्त्रे पचेद्दिनम् ॥ १,४.३६५ ॥ प्रतिग्रासे त्विदं कुर्यात्पुनर्ग्रासमपेक्षते । ग्रासोऽजीर्णो यदि भवेत्पाच्यः कच्छपयन्त्रके ॥ १,४.३६६ ॥ एवं ग्रासक्रमेणैव जारयेद्गगनादिकम् । चतुःषष्टितमांशादि चतुःषष्टिगुणावधि ॥ १,४.३६७ ॥ रसेन्द्रे जारयेद्ग्रासं दत्त्वा दत्त्वा पुनः । <जीर्णाभ्रकरसलक्षणम्> चतुःषष्ट्यंशके सूतो व्योमसत्वे तु जारिते ॥ १,४.३६८ ॥ दण्डधारी जलूकाभो वैष द्वात्रिंशदंशके । षोडशांशे वायसस्य विष्ठातुल्योऽष्टमांशके ॥ १,४.३६९ ॥ दधिमण्डसमो देवि चतुर्थांशे तु जारिते । नवनीतसमो द्व्यंशे गोलाभो जारितो भवेत् ॥ १,४.३७० ॥ अभ्रके समजीर्णे तु शतवेधी भवेद्रसः । घने द्विगुणजीर्णे तु सहस्रांशेन वेधयेत् ॥ १,४.३७१ ॥ चतुर्गुणेऽभ्रके जीर्णे त्वयुतायुर्भवेत्प्रिये । गगनेऽष्टगुणे जीर्णे ब्रह्मायुर्लक्षवेधकः ॥ १,४.३७२ ॥ विष्ण्वायुः षोडशगुणे जीर्णेऽभ्रे कोटिवेधकः । द्वात्रिंशद्गुणिते जीर्णे रुद्रायुर्दशकोटिभिः ॥ १,४.३७३ ॥ चतुःषष्टिगुणे जीर्णे नित्यायुः शतकोटिभिः । अभ्रके समजीर्णे तु रसो दोषान्विमुञ्चति ॥ १,४.३७४ ॥ जहाति स्वगतान्सर्वान् सर्वलोहानि भक्षयेत् । <पक्षच्छेद> यन्त्रादधो न पतति नैवोत्पतति चोर्ध्वतः ॥ १,४.३७५ ॥ नोद्गारी कपिलो वर्णे वह्नौ तिष्ठति निश्चलः । विप्रुषो मुञ्चते देवि छिन्नपक्षो भवेद्रसः ॥ १,४.३७६ ॥ समजीर्णे तु बालः स्याद्युवा जीर्णचतुर्गुणः । व्योमषड्गुणजीर्णस्तु वृद्धसंज्ञो भवेद्रसः ॥ १,४.३७७ ॥ बालो विध्यति कल्केन युवा पत्रप्रलेपतः । जारितस्तु रसेन्द्रोऽयं वृद्धो लोहानि विध्यति ॥ १,४.३७८ ॥ बालः सूतो रुजं हन्ति न समर्थो रसायने । युवा रसायने दक्षो वृद्धः स्याद्देहलोहयोः ॥ १,४.३७९ ॥ <अन्यजारणप्रकारः> अभावे घनसत्वस्य कान्तसत्वं प्रदीयते । तदभावे भवेत्तीक्ष्णमेवं द्वन्द्वानि जारयेत् ॥ १,४.३८० ॥ घनजीर्णस्य सूतस्य ततो द्वन्द्वानि जारयेत् । रसेन्द्रो द्वन्द्वरहितं न चरेदभ्रसत्वकम् ॥ १,४.३८१ ॥ तस्माद्धेमादिलोहेन युक्तमभ्रं चरेद्ध्रुवम् । नागाभ्रं वापि वङ्गाभ्रं ताम्राभ्रं वा सुरार्चिते ॥ १,४.३८२ ॥ ताराभ्रं वापि हेमाभ्रं ताप्याभ्रं वापि जारयेत् । घनसत्वं यथा जीर्णं तथा द्वन्द्वानि जारयेत् ॥ १,४.३८३ ॥ द्वन्द्वबीजरसस्याथ पक्वबीजानि जारयेत् । <जारणाफलम्> खल्वं तु पीठिका देवि रसेन्द्रो लिङ्ग उच्यते ॥ १,४.३८४ ॥ मर्दनं चन्दनं तस्य ग्रासः पूजा विधीयते । क्षीयमाणे पातकौघे सुलभा रसजारणा ॥ १,४.३८५ ॥ जारणायां च लब्धायां ज्ञानं कैवल्यदं भवेत् । तावन्मुक्तिः कुतः कान्ते यावन्नो वेत्ति जारणाम् ॥ १,४.३८६ ॥ जारणा साधकेन्द्रस्य मुक्तिव्यक्तिकरा प्रिये । जारणार्थं रसो यावद्दिनं वह्नौ तु धार्यते ॥ १,४.३८७ ॥ शिवलोके सुखं भुङ्क्ते तावत्कल्पसहस्रकम् । धारयेद्यो रसं वह्नावेकाहं वा तदर्धकम् ॥ १,४.३८८ ॥ क्षीयन्ते तस्य पापानि बहुजन्मार्जितानि च । सुवर्णरेतसो मित्रं स्वर्णदेहस्तथा रसः ॥ १,४.३८९ ॥ असहत्वं सूतवह्नौ तोये मैत्रं सुवर्णतः । चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥ १,४.३९० ॥ गालनक्रियया ग्रासे सति निःशेषनिर्गते । स भवेद्दण्डधारी च जीर्णग्रासस्तदा रसः ॥ १,४.३९१ ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट्रसेश्वराय सर्वसत्त्वोपहाराय ग्रासं गृह्ण गृह्ण ह्रीं स्वाहा । <गर्भद्रुतिः; गर्भद्रावणयोग्यबीजसिद्धिः; प्रथमः प्रकारः> गर्भद्रुतिं प्रवक्ष्यामि जारितस्य रसस्य च । गर्भद्रावणयोग्यानि बीजानि शृणु भैरवि ॥ १,४.३९२ ॥ नागभस्म च माक्षीकं गन्धकं च समं समम् । चूर्णितं वाहयेत्स्वर्णे त्रिगुणं द्राविते धमन् ॥ १,४.३९३ ॥ पूतिबीजमिदं सूतगर्भे द्रवति तत्क्षणात् । <द्वितीयः प्रकारः> स्वर्णे नागं समावर्त्य शिलाचूर्णं क्षिपन्क्षिपन् ॥ १,४.३९४ ॥ नागक्षये पुनर्नागं दत्त्वा दत्त्वा त्रिवारकम् । स्वर्णशेषं भवेद्यावत्तावद्धाम्यं पुनः पुनः ॥ १,४.३९५ ॥ एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् । <तृतीयः प्रकारः> सुवर्णं ताप्यसत्वं तु समं मूषागतं धमेत् ॥ १,४.३९६ ॥ तस्मिन्द्रुते ताप्यचूर्णं तुल्यं तुल्यं क्षिपन्क्षिपन् । माक्षीकसत्वं त्रिगुणमेवं वाह्यं पुनः पुनः ॥ १,४.३९७ ॥ एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् । <चतुर्थः प्रकारः> सुवर्णस्य समं ताप्यसत्वमावर्तयेत्ततः ॥ १,४.३९८ ॥ कुर्यात्कण्टकवेध्यानि पत्राणि च विलेपयेत् । लवणेनाम्लपिष्टेन गन्धतुल्येन पार्वति ॥ १,४.३९९ ॥ तानि पत्राणि च पुटे पचेद्धेमावशेषितम् । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ १,४.४०० ॥ <पञ्चमः प्रकारः> ताप्यतुल्यं च सिन्धूत्थं मर्दयेदम्लकेन च । तत्संपुटे पुटे पच्यात्पुनः संमर्दयेत्पुटेत् ॥ १,४.४०१ ॥ पुनः पुनर्द्विषड्वारमस्य तुल्यं च नागजम् । भस्म संमर्दयेदम्लैरनेन स्वर्णपत्रकम् ॥ १,४.४०२ ॥ लिप्त्वा लिप्त्वा धमेत्सप्तवारं तद्वाहयेत्ततः । द्रुतं तं वापयेत्पूर्वं कल्कितैः सप्तवारकम् ॥ १,४.४०३ ॥ एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् । <षष्ठः प्रकारः> कासीसं टङ्कणं गन्धं ताप्यं सौवर्चलं शिलाम् ॥ १,४.४०४ ॥ तुल्यं संमर्दयेत्सर्वांश्चणकाम्लैर्दिनावधि । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ १,४.४०५ ॥ <गर्भद्रावणे मूषायन्त्रसिद्धिः> सुवर्चलं च कासीसं यवक्षारं च टङ्कणम् । माक्षिकं सैन्धवं चुल्ली सामुद्रं राजिका तथा ॥ १,४.४०६ ॥ तुल्यं कांक्षीं च कर्पूरमर्कस्नुक्क्षीरमर्दितम् । अनेन लेपयेन्मूषां बिडेनांगुलमात्रकम् ॥ १,४.४०७ ॥ मूषायन्त्रमिदं श्रेष्ठं गर्भद्रावणकर्मणि । <गर्भद्रुतिप्रकाराः; प्रथमः प्रकारः> स्वर्णं ताम्रं मृतं तीक्ष्णं रञ्जितं पक्वबीजकम् ॥ १,४.४०८ ॥ गर्भद्रावणबीजं च सर्वमावर्तयेद्दृढम् । द्रुतेऽस्मिंस्ताप्यचूर्णं च क्षिप्त्वा क्षिप्त्वा धमन्धमन् ॥ १,४.४०९ ॥ यावत्क्षयं गते ताम्रतीक्ष्णे तावत्सुरेश्वरि । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ १,४.४१० ॥ <द्वितीयः प्रकारः> हेम गन्धहतं नागं पक्वबीजस्य साधनम् । तद्द्वयं लिप्तमूषायामन्ध्रयित्वा धमेद्दृढम् ॥ १,४.४११ ॥ तच्चूर्णमभिषिक्तं च रसगर्भे द्रवत्यलम् । <तृतीयः प्रकारः> सुवर्णे विद्रुते शुल्बं मृतं तीक्ष्णं शनैः शनैः ॥ १,४.४१२ ॥ वाहयेत्षड्गुणं यावत्तद्रसे द्रवति प्रिये । <चतुर्थः प्रकारः> महारसाननुरसान्क्षीणलोहानि चाक्षये ॥ १,४.४१३ ॥ समांशं सममाक्षीकगन्धकावापयोगतः । शतशो वाहयेदेतदक्षीणांशावशेषितम् ॥ १,४.४१४ ॥ समांशं रसराजस्य गर्भे द्रवति निश्चितम् । <पञ्चमः प्रकारः> जारितस्य रसेन्द्रस्य चतुःषष्टितमांशकम् ॥ १,४.४१५ ॥ गर्भद्रावणबीजं च तप्तखल्वे विनिक्षिपेत् । शिलारुचकमाक्षीकगन्धकासीसटङ्कणैः ॥ १,४.४१६ ॥ मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि । रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ॥ १,४.४१७ ॥ मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् । <षष्ठः प्रकारः> अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ॥ १,४.४१८ ॥ टङ्कणं सयवक्षारं कासीसं च सुवर्चलम् । सामुद्रं सैन्धवं राजीं माक्षिकं नवसारकम् ॥ १,४.४१९ ॥ कर्पूरं माक्षिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् । मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ॥ १,४.४२० ॥ लेपमङ्गुलमानेन प्राक्सूतं चात्र निक्षिपेत् । रुद्ध्वा स्वेद्यं दिनैकं तु करीषाग्नौ द्रवत्यलम् ॥ १,४.४२१ ॥ इत्येवं द्रावितं जार्यं यावद्बीजं तु षड्गुणम् । <१३. बाह्यद्रुतिः> शिवे वक्ष्यामि ते बाह्यद्रुतिकर्म यथाक्रमम् ॥ १,४.४२२ ॥ येनोपायेनाभ्रकादिद्रुतिर्भवति तच्छृणु । <अभ्रकद्रुतिः> अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्दमेव च ॥ १,४.४२३ ॥ कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् । मूषायां द्रावयित्वा तदभ्रसत्वं द्रुतिर्भवेत् ॥ १,४.४२४ ॥ <स्वर्णद्रुतिः> फलपांशुर्देवदाल्याः शकगोपोऽश्वलालकाः । टङ्कणं जालिनीनीरैर्भावयेद्बहुधा प्रिये ॥ १,४.४२५ ॥ द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः । <सर्वरत्नद्रुतिः> त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् ॥ १,४.४२६ ॥ तथा ज्वालामुखीक्षारं स्थलकुम्भीरसेन च । पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकम् ॥ १,४.४२७ ॥ निक्षिपेत्तच्च जम्बीरे डोलायन्त्रे त्र्यहं पचेत् । एवं कृते हीरकस्य द्रुतिर्भवति सूतवत् ॥ १,४.४२८ ॥ पद्मरागादिरत्नानां द्रुतिरेव कृते भवेत् । <द्रुतिमेलापनम्> द्रुतीनां मेलनं वक्ष्ये शृणु भैरवि तत्त्वतः ॥ १,४.४२९ ॥ कृष्णागरुश्च कस्तूरी ब्रह्मबीजं च माक्षिकम् । नारीपुष्पं विषं हिंगु लशुनं टङ्कणं निशा ॥ १,४.४३० ॥ एतैः समं द्रुतिं सूतं तप्तखल्वे विमर्दयेत् । पाठा वन्ध्या तालमूली नीली त्रिविधचित्रकम् ॥ १,४.४३१ ॥ पद्मकन्दं क्षीरकन्दं बला गुञ्जामृतार्द्रकम् । अश्वलाला निम्बपत्रं स्त्रीस्तन्यं च समं समम् ॥ १,४.४३२ ॥ एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् । एतद्द्रुतियुते सूते क्षिप्त्वा क्षिप्त्वा विमर्दयेत् ॥ १,४.४३३ ॥ मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः । द्रुतयो मिलिता येन यन्त्रं तेनैव कच्छपम् ॥ १,४.४३४ ॥ लिम्पेच्च बिडयोगेन मेलयेज्जारयेत्क्रमात् । इत्येवं रसराजस्य षड्गुणां जारयेद्द्रुतिम् ॥ १,४.४३५ ॥ <१४. रञ्जनम्> द्रुतिजीर्णस्य सूतस्य रञ्जनं शृणु पार्वति । तस्माद्रञ्जकबीजानां रञ्जनं च वदामि ते ॥ १,४.४३६ ॥ <रञ्जनतैलविधिः> पलाशपुष्पं मञ्जिष्ठा लोहितं करवीरजम् । पुष्पं च खदिरं रक्तचन्दनं कुक्कुटी तथा ॥ १,४.४३७ ॥ निशाद्वयं च सरलं देवदारुं जपासुमम् । अन्यानि रक्तपुष्पाणि लाक्षातोयेन मर्दयेत् ॥ १,४.४३८ ॥ एतच्चतुर्गुणं तैलं तैलाद्रक्तप्रसूनजम् । द्रवं चतुर्गुणं देयं तैलशेषं यथा भवेत् ॥ १,४.४३९ ॥ तस्मिन्निषेचयेद्बीजमेकविंशतिवारकम् । रञ्जयेत्पक्वबीजानि सर्वाण्येवं सुरार्चिते ॥ १,४.४४० ॥ <नागबीजरञ्जनम्> खर्परे नागमादाय चण्डाग्निं ज्वालयेदधः । पलाशपर्णबीजानि क्षिपेत्तस्मिन्प्रचालयेत् ॥ १,४.४४१ ॥ पलाशदण्डेनामर्द्यं चतुर्यामेन भस्मति । तद्भस्म गन्धकं तुल्यमम्ले यामं प्रपेषयेत् ॥ १,४.४४२ ॥ रुद्ध्वा पुटेद्गजपुटे स्वाङ्गशीतं तदुद्धरेत् । तच्चतुर्थांशकं गन्धं दत्त्वा पिष्ट्वा पुटे पचेत् ॥ १,४.४४३ ॥ एवं द्विसप्तवारेण नागं स्याद्रक्तवर्णकम् । वाशापञ्चाङ्गचूर्णं च तच्चूर्णं ककुभस्य च ॥ १,४.४४४ ॥ शिग्रुकिंशुककोरण्डशाकपुष्पाणि नागिनीम् । अहिमारं कुमारीं च नागकन्यां च चूर्णयेत् ॥ १,४.४४५ ॥ एतत्सर्वं चैकभागं द्विभागं च मनःशिलाम् । भाण्डे सर्वं विनिक्षिप्य गवां मूत्रे चतुर्गुणे ॥ १,४.४४६ ॥ पचेत्पादावशेषं तु पूर्वनागे क्षिपन्क्षिपन् । चुल्ल्यां पचेद्ब्रह्मदण्डैश्चालयेत्सप्तवासरम् ॥ १,४.४४७ ॥ इदं नागं पक्वबीजे द्रुते निर्वाहयेत्त्रिधा । रञ्जितं जायते बीजं मुख्यं स्याद्रसरञ्जने ॥ १,४.४४८ ॥ <बीजरञ्जनप्रकारः> ताप्यसत्वं च कृष्णाभ्रसत्वचूर्णं धमेत्समम् । तस्मिन्द्रुते ताप्यचूर्णं मृतशुल्बं क्रमाद्वहेत् ॥ १,४.४४९ ॥ त्रिगुणं तद्भवेद्बीजं रञ्जकं परमेश्वरि । <अन्यः प्रकारः> कुनटी माक्षिकं गन्धं दरदं पेषयेत्समम् ॥ १,४.४५० ॥ रक्तवर्गस्य गोमूत्रे पेषितस्य रसे प्रिये । पेषयेच्छोषयेत्सप्तवारं तच्चूर्णयेत्क्षिपेत् ॥ १,४.४५१ ॥ द्वंद्विते तीक्ष्णताम्रे च तुल्यं क्षिप्त्वा धमेद्दृढम् । ज्योतिष्मतीतैलयुक्ते रक्तवर्गे निषेचयेत् ॥ १,४.४५२ ॥ पुनश्च पूर्वचूर्णं तु तुल्यं क्षिप्त्वा धमेत्प्रिये । सेचयेत्सप्तधा त्वेवं स्याद्बीजं रसरञ्जकम् ॥ १,४.४५३ ॥ <अन्यः प्रकारः> तारं च विमलासत्त्वं समांशं द्रावयेत्ततः । सरक्तवर्गे गोमूत्रे भावितं दरदं त्रिधा ॥ १,४.४५४ ॥ तत्तुल्यं निक्षिपेत्तस्मिन् धमेदेवं तु सप्तधा । क्षिप्त्वा क्षिप्त्वा च दरदं स्याद्बीजं रसरञ्जकम् ॥ १,४.४५५ ॥ <अन्यः प्रकारः> घनसत्त्वमहिं स्वर्णं समांशं द्वंद्वितं धमेत् । खर्परे रक्तवर्गं च माक्षिकं गैरिकं शिलाम् ॥ १,४.४५६ ॥ समं संचूर्णयेत्तस्मिन् वापयेच्च समं समम् । दशवारं भवेदेतद्बीजं सूतेन्द्ररञ्जकम् ॥ १,४.४५७ ॥ <अन्यः प्रकारः> यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला । विंशद्वारं प्रयत्नेन तेन कल्केन लेपयेत् ॥ १,४.४५८ ॥ नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् । रसकस्य तु भागांस्त्रीन् भागैकं दरदस्य च ॥ १,४.४५९ ॥ शिलागन्धविषाणां च त्रयाणामेकभागकम् । सेचयेन्मातुलुङ्गाम्लैः तेन कल्केन लेपयेत् ॥ १,४.४६० ॥ मूषागर्भे क्षिपेत्तत्तत्पूर्वनागं धमेत्ततः । द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥ १,४.४६१ ॥ इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् । <अन्यः प्रकारः> पीताभ्रकस्य सत्वं तु पूर्वनागं च तत्समम् ॥ १,४.४६२ ॥ द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् । अनेन द्वन्द्वयोगेन वापो देयो द्रुतस्य च ॥ १,४.४६३ ॥ पक्वबीजस्य वारांस्त्रीन् तद्बीजं रञ्जितं शुभम् । <तारबीजरञ्जनम्> अथातस्तारबीजानां रञ्जनं शृणु पार्वति ॥ १,४.४६४ ॥ नानाभूरुहसम्भूतश्वेतपुष्परसे प्रिये । चतुर्भागे चैकभागं कङ्गुणीतैलकं क्षिपेत् ॥ १,४.४६५ ॥ तैलावशेषं विपचेत्तारबीजानि तत्र वै । भूयो भूयो द्रावयित्वा सेचयेदेकविंशतिम् ॥ १,४.४६६ ॥ बीजानि रञ्जितान्येवं भवेयू रसरञ्जने । एवं वङ्गस्य बीजानि रञ्जयेत्परमेश्वरि ॥ १,४.४६७ ॥ <रञ्जनक्रमः> द्रुतिजीर्णस्य सूतस्य चतुःषष्टितमांशकम् । निक्षिपेद्रञ्जकं बीजं तप्तखल्वे दिनावधि ॥ १,४.४६८ ॥ मर्दयेत्तप्तखल्वे तु पचेत्कच्छपयन्त्रके । एवं ग्रासक्रमेणैव षड्गुणं जारयेत्प्रिये ॥ १,४.४६९ ॥ <१५. - १७. सारणत्रयम्; सारणार्थे वज्रबीजसाधनम्; प्रथमः प्रकारः> रञ्जितस्य रसेन्द्रस्य प्रवक्ष्ये सारणात्रयम् । सारणा योग्यबीजानि दिव्यानि च सुरार्चिते ॥ १,४.४७० ॥ स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदम् । रसेन्द्रार्धं नागभस्म चतुर्भागं मृतं पविम् ॥ १,४.४७१ ॥ एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके । उद्धृत्य द्वन्द्वमेलापमूषायां रोधयेद्धमेत् ॥ १,४.४७२ ॥ हठात्तच्च मिलत्येव वज्रबीजमिदं प्रिये । <द्वितीयः प्रकारः> भावयेच्छारिबाक्षीरैर्मृतं वज्रं दिनं ततः ॥ १,४.४७३ ॥ मर्दयेद्गोलकं कृत्वा शोषयेच्चैकभागकम् । त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् ॥ १,४.४७४ ॥ अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्वज्रगोलकम् । तत्पिष्ट्या वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत् ॥ १,४.४७५ ॥ पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः प्रिये । धमेद्धठान्मिलत्येव वज्रबीजमिदं भवेत् ॥ १,४.४७६ ॥ वज्रषोडशभागेन स्वर्णपत्रेण वेष्टयेत् । तत्क्षिप्त्वा लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् ॥ १,४.४७७ ॥ चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् । निरुध्य च धमेत्तीव्रमेवं कुर्यात्पुनः पुनः ॥ १,४.४७८ ॥ क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा । सप्तधैवं मिलत्येव वज्रबीजमिदं भवेत् ॥ १,४.४७९ ॥ <सारणातैलम्> अतः परं सारणायां प्रवक्ष्ये तैलसाधनम् । ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ॥ १,४.४८० ॥ तैलं कूर्मवराहादिमेषमत्स्यसमुद्भवम् । जलूकाभेकजाता च वसा ग्राह्या विधानतः ॥ १,४.४८१ ॥ रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्चतुर्गुणैः । पुष्पाणां रक्तपीतानामनेकानां द्रवं हरेत् ॥ १,४.४८२ ॥ पाटलीकाकतुण्ड्युत्थमहाराष्ट्रीद्रवं तथा । एकांशं तैलमेकांशा वसा क्वाथश्चतुर्गुणः ॥ १,४.४८३ ॥ द्व्यंशैः पुष्पद्रवैर्द्व्यंशान् पाटल्यादिद्रवानपि । सर्वं ताम्रमये पात्रे मृदुना वह्निना पचेत् ॥ १,४.४८४ ॥ तस्मिन्क्षिपेत्षोडशांशं भूलतामलताप्यकम् । विख्यातं सारणातैलं रसराजस्य जारणे ॥ १,४.४८५ ॥ रञ्जितं रसराजं तु सारणातैलसंयुतम् । निक्षिपेत्सारणायन्त्रे नालमूषां गतं द्रुतम् ॥ १,४.४८६ ॥ बीजं तु ढालयेत्सूते चतुःषष्टितमांशकम् । उद्धृत्य तप्तखल्वे तु पट्वम्लैर्मर्दयेद्दिनम् ॥ १,४.४८७ ॥ ततः कच्छपयन्त्रे तु सविव्ये पाचयेद्दिनम् । इत्येवं षड्गुणं सार्यं सारितो जायते रसः ॥ १,४.४८८ ॥ एवं द्वितीयवारे तु कृते सूतोऽनुसारितः । तथा तृतीयवारे तु रसः स्यात्प्रतिसारितः ॥ १,४.४८९ ॥ <१८. वेधः> सारितस्य रसेन्द्रस्य हरितालं समांशकम् । मर्दयेद्धूर्ततैलैश्च दिनं दिव्यौषधिद्रवैः ॥ १,४.४९० ॥ तत उद्धृत्य क्षिपेद्वज्रमूषायां विपचेद्दिनम् । करीषाग्नाविति पुनर्मर्द्यं पाच्यं त्रिधा प्रिये ॥ १,४.४९१ ॥ अनेन कर्मणा देवि सूतो बद्धमुखो भवेत् । बद्धवक्त्रस्य सूतस्य भागमेकं सुरार्चिते ॥ १,४.४९२ ॥ सुतारताम्रतीक्ष्णानां चूर्णानामेकभागकम् । सर्वं संमर्दयेद्देवदालीनीरैर्दिनं ततः ॥ १,४.४९३ ॥ मध्वाज्यैश्च दिनं मर्द्यं तेन कुर्यात्सुगोलकम् । निक्षिपेद्वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ १,४.४९४ ॥ स रसः खोटबद्धः स्यात्तत्खोटं काचटङ्कणैः । तेजःपुञ्जो भवेद्यावत्तावत्कुर्याद्धमन् धमन् ॥ १,४.४९५ ॥ तं रसं योजयेद्देहे लोहे रोगे च पार्वति । <देहवेधक्रमः> देहवेधं प्रवक्ष्यामि सावधानं शृणु प्रिये ॥ १,४.४९६ ॥ पाचनस्नेहनस्वेदवमनारेचनैः क्रमात् । शरीरं शोधयेल्लोणक्षाराम्लादिविवर्जितः ॥ १,४.४९७ ॥ ततस्त्वारोटकं सूतं भक्षयेत्परमेश्वरि । क्षेत्रं कृत्वा शरीरं तु ततः सिद्धरसं क्षिपेत् ॥ १,४.४९८ ॥ शतवेधिरसं पूर्वं ततः साहस्रवेधकम् । दशसाहस्रवेधं च लक्षवेधकरं रसम् ॥ १,४.४९९ ॥ वेधकं दशलक्षस्य कोटिवेधं सुरार्चिते । गन्धकेन युतं सूतं क्रमेणानेन सुव्रते ॥ १,४.५०० ॥ स रसः क्रमते देहे सिद्धयः सम्भवन्ति हि । रसायने तु याः प्रोक्ता मूलिका देहसिद्धिदाः ॥ १,४.५०१ ॥ ताभिर्युक्तो रसेन्द्रस्तु देहे संक्रमते प्रिये । क्रामति तनौ हि सूतो जनयति पुत्रांश्चदेवतागर्भान् ॥ १,४.५०२ ॥ खे गमनेन च नित्यं संचरणं सकलभुवनेषु । धाता भुवनत्रितये स्रष्टाद्यो ब्रह्मयोनिरिव ॥ १,४.५०३ ॥ विष्णुरिव पालनार्थे संहर्ता रुद्रदेववत्सत्कलम् । <लोहवेधक्रमः> क्रामणं लोहवेधस्य वक्ष्यामि शृणु भैरवि ॥ १,४.५०४ ॥ दरदं माक्षिकं कान्तं शिलां गन्धं विषं घनम् । रसकं भूलतां हिङ्गु कान्तास्यं टङ्कणं प्रिये ॥ १,४.५०५ ॥ गन्धकेन हतं ताम्रं भुजङ्गं शिलया हतम् । दरदेन हतं तीक्ष्णं महिषीकर्णसम्भवम् ॥ १,४.५०६ ॥ मलं वायसविष्ठां च प्रथमार्तवरक्ततः । अनेन वेष्टयेत्सिद्धसूतं लोहेषु वेधयेत् ॥ १,४.५०७ ॥ तारकृष्ट्यष्टनवतिः स्वर्णमेकं तथा रसः । शतवेधी तु विख्यातस्त्वेवं साहस्रवेधकः ॥ १,४.५०८ ॥ वेधयेद्दशसाहस्रं लक्षं कोटिमथार्बुदम् । जारणायां बलं यावत्तावल्लोहानि वेधयेत् ॥ १,४.५०९ ॥ <१. क्रामणयोगः> माक्षिकं भूलतां सूतं कुनटीं टङ्कणं तथा । स्त्रीस्तन्यरक्तं सम्पिष्टं क्रामणं क्षेपलेपयोः ॥ १,४.५१० ॥ <२. क्रामणयोगः> हिङ्गुलं रसकं कान्तमिन्द्रगोपं विषं तथा । मर्दयेत्तैलरक्ताभ्यां क्रामणं क्षेपलेपयोः ॥ १,४.५११ ॥ <३. क्रामणयोगः> गण्डोलविषभेकास्यमहिषीनेत्रजं मलम् । रुधिरेण समायुक्तं रससंक्रामणे हितम् ॥ १,४.५१२ ॥ <४. क्रामणयोगः> रोचनं गुग्गुलुं स्तन्यमिन्द्रगोपं विषं तथा । सर्वं संमर्दयेद्देवि रससंक्रामणे हितम् ॥ १,४.५१३ ॥ <५. क्रामणयोगः> विष्णुक्रान्ता मधूच्छिष्टं माहिषं कर्णजं मलम् । भूलता काकविष्ठा च लाङ्गली द्विपदीरजः ॥ १,४.५१४ ॥ नररक्तं ब्रह्मसोमा सुरसा शैलजं प्रिये । शृङ्गी च लक्ष्मणा गृध्रकर्णी च क्रामणं परम् ॥ १,४.५१५ ॥ <६. क्रामणयोगः> श्रीवेष्टनिम्बनिर्यासस्त्रीस्तन्यविषटङ्कणैः । गोघृतेन समायुक्तो लोहे संक्रामते रसः ॥ १,४.५१६ ॥ <७. क्रामणयोगः> परमं क्रामणं वङ्गं मृगनाभं च पार्वति । मातृवाहः कुलीरश्च शङ्खाभ्यन्तरजो मलः ॥ १,४.५१७ ॥ तथा कपित्थनिर्यासो रससंक्रामणं परम् । क्रामणं रसराजस्य वेधकाले प्रदापयेत् ॥ १,४.५१८ ॥ आक्, १, ५ <विशेषजारणाक्रमः> श्रीभैरवी । सामान्यजारणा प्रोक्ता त्वया पूर्वं सदाशिव । विशेषजारणं ब्रूहि यथा जानाम्यहं प्रभो ॥ १,५.१ ॥ श्रीभैरवः । शृणु देवि वक्ष्यामि भूचराख्यं तु जारणम् । <भूचरी जारणा> कृष्णं पीतं तथा रक्तं शुल्बे तीक्ष्णे च मेलयेत् ॥ १,५.२ ॥ शुल्बं शुद्धं यदा जीर्णं द्वाविंशतिगुणं मते । गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥ १,५.३ ॥ हेम्ना तु सह दातव्यं सूतकैकेन षोडश । गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः ॥ १,५.४ ॥ हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् । गन्धकेन हतं शुल्बं माक्षिकं दरदायसम् ॥ १,५.५ ॥ पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणम् । सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् ॥ १,५.६ ॥ बद्धरागं विजानीयाद्धेमाभो जायते रसः । सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् ॥ १,५.७ ॥ त्रिभागं सारितं कृत्वा पुनस्तत्रैव जारयेत् । जारितः सारितश्चैव पुनर्जारितसारितः ॥ १,५.८ ॥ सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः । भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥ १,५.९ ॥ <खेचरी जारणा> हीनरागानि रत्नानि रसोच्छिष्टानि कारयेत् । कटुतुंबस्य बीजानि तस्यार्धेन तु दापयेत् ॥ १,५.१० ॥ महाजारसमायुक्तं कल्कं कुर्याद्विचक्षणः । वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसम् ॥ १,५.११ ॥ कतकं कनकं चैवमेकीकृत्य विमर्दयेत् । पद्मरागप्रलेपं तु रसे ग्रासं तु दापयेत् ॥ १,५.१२ ॥ भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः । सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः ॥ १,५.१३ ॥ मूर्च्छाङ्गदाहश्च ततो जायते नात्र संशयः । आत्मानमुत्थितं पश्येद्दिव्यदेहो महाबलः ॥ १,५.१४ ॥ शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह । इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥ १,५.१५ ॥ देवा वै यत्र लीयन्ते सिद्धस्तत्रैव लीयते । <अन्यो जारणाप्रकारः> पुनरन्यं प्रवक्ष्यामि जारणायोगमुत्तमम् ॥ १,५.१६ ॥ सुघृष्टं पातितं सूतं सर्वदोषोज्झितं ततः । शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥ १,५.१७ ॥ पालाशपुष्पतोयेन भावितं गन्धकं समम् । समं कृष्णाभ्रसत्वं च रसकं चाष्टकं गुणम् ॥ १,५.१८ ॥ तीक्ष्णशुल्बोरगं चैव कूर्मयन्त्रेण जारयेत् । काञ्चनं जारयेत्पश्चाद्बिडयोगेन पार्वति ॥ १,५.१९ ॥ ततः सिद्धं विजानीयाद्द्वैधं शुल्वस्य दापयेत् । कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥ १,५.२० ॥ अतः परं प्रवक्ष्यामि जारणाक्रममुत्तमम् । बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः ॥ १,५.२१ ॥ षोडशांशेन तं ग्रासमङ्गुल्या मर्दयेच्छनैः । आर्द्रकादि ततो योगाद्दातव्यं षोडशांशतः ॥ १,५.२२ ॥ भूर्जे दत्त्वा ततो देयं डोलायन्त्रे विनिक्षिपेत् । अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये ॥ १,५.२३ ॥ समुद्धृत्य रसं देवि खल्वे संमर्दयेत्ततः । ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना ॥ १,५.२४ ॥ तप्तं समुद्धृतं यन्त्रात्तप्तखल्वे विमर्दयेत् । मर्दयित्वार्द्रके पिण्डे क्षिप्त्वाथ त्रिपुटं दहेत् ॥ १,५.२५ ॥ ततो गर्भे पतत्याशु जरते तत्सुखेन तु । डोलायन्त्रे ततो दद्यादार्द्रपिण्डेन संयुतम् ॥ १,५.२६ ॥ तृतीयदिवसे सूतो जरते ग्रसते ततः । समजीर्णं ततो यावत्डोलायन्त्रे विचक्षणः ॥ १,५.२७ ॥ पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति । ताम्रांशद्वादशांशेन कच्छपेन तु जारयेत् ॥ १,५.२८ ॥ प्राग्वदार्द्रकयोगं च गर्भद्रावणमेव च । पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥ १,५.२९ ॥ अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् । कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् ॥ १,५.३० ॥ पुटयेद्वार्तिकस्तावत्यावत्कन्दो न दह्यते । पादांशेन तु मूषायां ग्रासः सूते विधीयते ॥ १,५.३१ ॥ पूर्ववच्च बिडं दद्याद्गर्भद्रावणमेव च । एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत् ॥ १,५.३२ ॥ ततः शलाकया ग्रासमग्निस्थो ग्रसते रसः । ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥ १,५.३३ ॥ अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च । रसानुपरसान्दत्त्वा महाजारसमन्वितम् ॥ १,५.३४ ॥ वज्रकन्दलतां ब्राह्मीमेषशृङ्ग्यमृतायसम् । कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥ १,५.३५ ॥ सर्वाणि समभागानि शिखिशोणितमर्दितम् । तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत् ॥ १,५.३६ ॥ मूषा मल्लाकृतिश्चैव कर्तव्याच्छादनैः सह । तन्मध्ये स्थापयेत्सूतमधोवातेन धामयेत् ॥ १,५.३७ ॥ आदौ तावत्प्रकर्तव्यं वज्रमौषधलेपितम् । गृह्यते नात्र सन्देहो यथा तीव्रहुताशने ॥ १,५.३८ ॥ कुलिशादि भवेद्दग्धं करीषा तेन मर्दयेत् । यावदेकादशगुणं कुलिशं जारयेद्बुधः ॥ १,५.३९ ॥ संदग्धा शङ्खनाभिश्च मातुलुङ्गरसप्लुता । मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥ १,५.४० ॥ अनेन क्रमयोगेन ह्येकादशगुणं भवेत् । केवलं शिखिपित्तं च नीलीनिर्यासमिश्रितम् ॥ १,५.४१ ॥ नीलोत्पलानि लिप्तानि निक्षिप्तानि तु सूतके । रसः पिबेन्महारागान् हीनरागान् परित्यजेत् ॥ १,५.४२ ॥ रत्नानि शिखिपित्तं च महारत्नसमन्वितम् । सद्रत्नं लेपयेत्तेन प्रक्षिपेद्रसमध्यतः ॥ १,५.४३ ॥ रजनी चैव कङ्कुष्ठं ब्रह्मनिर्यासभावितम् । जारणं पुष्परागस्य तेनैव सह दापयेत् ॥ १,५.४४ ॥ बहुरत्नेषु जीर्णेषु भृङ्गराजेषु सुव्रते । रसेन्द्रो दृश्यतां देवि नीलपीतारुणच्छविः ॥ १,५.४५ ॥ <धूमवेधीरसः> शुद्धानि हेमपत्राणि शतांशेनानुलेपयेत् । पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत् ॥ १,५.४६ ॥ संस्पर्शाद्वेधयेत्सर्वमिदं हेम मृतं प्रिये । त्रिभागं सूतकेन्द्रस्य तेनेव सह कारयेत् ॥ १,५.४७ ॥ मूषामध्ये स्थिते तस्मिन् पुनस्तेनैव जारयेत् । धूमवेधी भवेद्देवि पुनः पुनः प्रसारितः ॥ १,५.४८ ॥ अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला । वेधयेन्नात्र सन्देहो गिरिपाषाणभूतलम् ॥ १,५.४९ ॥ पार्श्वे ज्योतिः प्रदृश्येत ऊर्ध्वं दृश्येत तेन वै । भूचरं तं विजानीयाद्रसेन्द्रं नात्र संशयः ॥ १,५.५० ॥ तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत् । दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः ॥ १,५.५१ ॥ सर्वरोगविनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् । तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥ १,५.५२ ॥ <अन्ये वेधप्रकाराः> समजीर्णेन वज्रेण हेम्ना च सहितेन च । अग्निस्थो जारयेल्लोहान् बन्धमायाति सूतकः ॥ १,५.५३ ॥ सारयेत्तेन बीजेन सहस्रमपि वेधयेत् । सारितं जारयेत्पश्चात्लेप्यं क्षेप्यं सहस्रतः ॥ १,५.५४ ॥ सारयेत्तेन बीजेन लक्षवेधमवाप्नुयात् । अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ १,५.५५ ॥ केवलं तु यदा वज्रं समजीर्णं तु कारयेत् । बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥ १,५.५६ ॥ अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् । हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥ १,५.५७ ॥ ग्रसते जरते सूतमायुर्द्रव्यप्रदायकः । मूषास्थं धमयेत्सूतं हठाग्नौ नैव कम्पयेत् ॥ १,५.५८ ॥ जारयेत्सर्वरत्नानि बद्धः खेचरतां नयेत् । अष्टलोहेऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥ १,५.५९ ॥ लोहानि सर्वांस्त्रिगुणं त्रिगुणं कनकं तथा । धूमावलोके वेधी स्यात्भवेन्निर्वाणदोऽम्बरः ॥ १,५.६० ॥ आदावष्टगुणं जार्यं व्योमसत्त्वं महारसे । समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥ १,५.६१ ॥ समं च जारयेद्वज्रं तदासौ खेचरो रसः । क्रमे प्रदक्षिणावर्तः कोटिवेधी च जायते ॥ १,५.६२ ॥ <जीर्णद्रव्यमानभेदाद्वेधे विशेषः> समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः । द्विगुणे शतवेधी स्यात्सहस्रं त्रिगुणे भवेत् ॥ १,५.६३ ॥ चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् । उत्तरोत्तरवृद्ध्या तु जारयेत्तत्र पन्नगम् ॥ १,५.६४ ॥ कुटिलं पन्नगं जार्यं नवसंख्याक्रमेण तु । दत्त्वा क्रमेण देवेशि कोटिवेधी भवेद्रसः ॥ १,५.६५ ॥ गन्धकादिमपाषाणे षड्गुणे जीर्णतां गते । रोगहर्ता रसः स्यात्तु समुखे तवदा भवेत् ॥ १,५.६६ ॥ तस्मिन् शतगुणे जीर्णे रुग्जरामृत्युहा भवेत् । अभ्रकादिमपाषाणसत्त्वान्यात्मसमं ग्रसन् ॥ १,५.६७ ॥ रुग्जरा मरणं जित्वा शतवेधी रसो भवेत् । शतायुर्द्विगुणे जीर्णे सूतः साहस्रवेधकः ॥ १,५.६८ ॥ चतुर्गुणे सहस्रायुः पारदोऽयुतवेधकः । रसश्चाष्टगुणे जीर्णे लक्षायुर्लक्षवेधकः ॥ १,५.६९ ॥ ब्रह्मायुः षोडशगुणे कोटिवेधी भवेद्रसः । द्वात्रिंशद्गुणिते जीर्णे खेचरत्वादिसिद्धिदः ॥ १,५.७० ॥ विष्णोरायुर्बलं दत्ते पारदः स्पर्शवेधकः । चतुःषष्टिगुणे जीर्णे शिवायुः शब्दवेधकः ॥ १,५.७१ ॥ <षड्गुणाभ्रकजारणेन सर्वदोषनाशः> रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेण तु । जीर्णेन नाशमायान्ति नात्र कार्या विचारणा ॥ १,५.७२ ॥ तदा ग्रसति लोहानि त्यजेच्च गतिमात्मनः । <पञ्चावस्था> धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥ १,५.७३ ॥ सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु । समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणः ॥ १,५.७४ ॥ वृद्धः षड्गुणजीर्णस्तु सर्वकर्मकरः शुभः । <जारणे क्रमः> गन्धकं जारयेदादौ सर्वसत्त्वान्यतः परम् ॥ १,५.७५ ॥ ततः सर्वाणि लोहानि द्वन्द्वानि विविधानि च । पक्वबीजानि रत्नानि द्रुतिसत्त्वे च जारयेत् ॥ १,५.७६ ॥ चतुःषष्ट्यंशके पूर्वं द्वात्रिंशांशे तृतीयकः । तृतीयः षोडशांशे तु चतुर्थश्चाष्टमेन च ॥ १,५.७७ ॥ पञ्चमोऽथ चतुर्थांशे षष्ठो द्व्यंशे प्रकीर्तितः । शतांशे सप्तमो ज्ञेयो ग्रासमानं रसस्य तु ॥ १,५.७८ ॥ <ग्रासमानभेदेन स्वरूपभेदः> चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः । जलूकाभो द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ १,५.७९ ॥ ग्रासे रसात्तृतीये च काकविष्ठासमो भवेत् । चतुर्थो गोलकाकारः पञ्चमे दहनप्रभः ॥ १,५.८० ॥ षष्ठे सूर्यप्रभः सूतस्तेजःपुञ्जश्च सप्तमे । रसराजस्य देवेशि क्रमाज्जीर्णस्य लक्षणम् ॥ १,५.८१ ॥ समांशं द्विगुणं ग्रासं ततः सूते चतुर्गुणम् । तथा चाष्टगुणं देवि जारयेच्च कलागुणम् ॥ १,५.८२ ॥ द्वात्रिंशद्गुणितं देवि चतुःषष्टिगुणं क्रमात् । <संस्कारैर्जायमाना गुणाः> तीव्रत्वं जनयेत्स्वेदादमलत्वं च मर्दनात् ॥ १,५.८३ ॥ मूर्छनाद्दोषराहित्यमुत्थानात्पूतिनाशनम् । रसायनं पातनेन रोधादाप्यायनं भवेत् ॥ १,५.८४ ॥ अचापल्यं नियमनाद्दीपनात्समुखो ज्वलेत् । वासनाद्योगसांगत्यं चारणाद्बलचारिता ॥ १,५.८५ ॥ जारणाद्बन्धनं सम्यगेकत्वं द्रावणद्वयात् । रक्तत्वं रञ्जनात्तस्य व्यापित्वं सारणात्रयात् ॥ १,५.८६ ॥ क्रामित्वं क्रामणाद्देहलोहेष्वपि च वेधनात् ॥ १,५.८७ ॥ आक्, १, ६ <देहवेधक्रमः> प्रणम्य शिरसा शम्भुं पप्रच्छ गिरिजात्मजा । श्रीभैरवी । देहवेधस्त्वया पूर्वं संक्षेपात्कथितः प्रभो ॥ १,६.१ ॥ तं देहवेधमाचक्ष्व सम्यक्जानाम्यहं यथा । श्रीभैरवः । देवि प्रवक्ष्यामि देवानामपि दुर्लभम् ॥ १,६.२ ॥ योगिनां भोगयुक्तानां देहवेधं सुरेश्वरि । पाचनादि प्रकुर्वीत पञ्चकर्मविधानतः ॥ १,६.३ ॥ <पञ्चकर्माणि; १. पाचनम्> लवणादिसमुत्क्लिष्टान् दोषान् संशोधयेत्क्रमात् । ततो जीर्णरसं चाद्यात्क्रमादेवं सुरेश्वरि ॥ १,६.४ ॥ लघ्वाहारो दिवा भूत्वा क्षुद्राधान्याकनागरम् । एतत्त्रयं पलोन्मेयमुदकेष्ववलोडयेत् ॥ १,६.५ ॥ अष्टावशिष्टं संक्वाथ्य प्रतिरात्रं पिबेत्त्र्यहम् । अनन्तरं वराक्वाथं पूर्ववत्त्रिदिनं पिबेत् ॥ १,६.६ ॥ इति पाचनमातन्यादथ स्नेहनमाचरेत् । <२. स्नेहनम्> घृतौदनं छागरसं दिवा भुञ्जीत मात्रया ॥ १,६.७ ॥ आज्यान्नं वा मुद्गरसं लघ्वाशी स्याद्दिने सुधीः । रात्रौ पिबेद्घृतं गव्यं सैन्धवेन समन्वितम् ॥ १,६.८ ॥ निष्कमेकं सैन्धवं च घृतं निष्कचतुष्टयम् । भृङ्गामलकतैलेन सर्वाङ्गमभिषेचयेत् ॥ १,६.९ ॥ एवं सप्तदिनं कुर्यात्स्नेहनं परमं हितम् । <३. स्वेदनम्> मत्स्यमांसं माषतिलयवजामलसक्तवः ॥ १,६.१० ॥ सर्वमेतद्भवेत्प्रस्थमेकाष्ठीलागरूबला । रास्ना व्याघ्री घनापत्रं कौशिकातिविषा निशा ॥ १,६.११ ॥ सर्वमेतद्द्वयपलं तक्रक्षीराम्बुकांजिकम् । द्व्याढके निक्षिपेत्सर्वं मृत्पात्रे क्वाथयेत्सुधीः ॥ १,६.१२ ॥ कुर्यात्तस्योष्मणा गात्रं स्विन्नं द्विघटिकावधि । एवं सप्तदिनं कुर्यात्स्वेदनं परमं हितम् ॥ १,६.१३ ॥ <४ वमनम्> मदनस्य फलं चैकं पाठा षोडशिकं जलम् । पादावशिष्टं संक्वाथ्य तज्जले वस्त्रशोधिते ॥ १,६.१४ ॥ पिप्पलीन्द्रयवा यष्टिलवणं कर्षमात्रकम् । निक्षिपेच्च पिबेत्प्रातर्वान्तिः स्यात्सर्वरोगहा ॥ १,६.१५ ॥ <५. विरेचनम्> सूतटङ्कणगन्धाश्म त्रिकटुं त्रिफलां समम् । एतैः समं तु जेपालं श्लक्ष्णं तत्परिमर्दयेत् ॥ १,६.१६ ॥ गुञ्जाद्वितयमात्रं तु गुडेन सह भक्षयेत् । विरेचनमिति प्रोक्तं सर्वव्याधिविनाशनम् ॥ १,६.१७ ॥ पञ्चकर्मेति कथितं क्रमात्कुर्याद्विरेचने । <दोषशोधकयोगाः> केतकीस्तनजम्बीरं प्रत्यहं कुडुवं पिबेत् ॥ १,६.१८ ॥ सप्तवासरपर्यन्तं प्रातर्लवणदोषहृत् । सलिले षोडशपले त्रिफलैकपलं क्षिपेत् ॥ १,६.१९ ॥ क्वाथयेत्पादशेषं तत्तस्मिन् शीते मधोः पलम् । पिबेत्प्रभाते त्रिदिनं क्षारदोषहरं परम् ॥ १,६.२० ॥ विडङ्गं सवचाकुष्ठं केतकीस्तनसंयुतम् । क्वथितं त्रिदिनं पीतमम्लदोषहरं पिबेत् ॥ १,६.२१ ॥ अथवा तिन्त्रिणीक्षारसलिलं पलमात्रकम् । यवक्षारसिताकर्षं संयोज्य त्रिदिनं पिबेत् ॥ १,६.२२ ॥ अम्लदोषविनाशोऽयं कथितश्च रसायने । वचाबिडालपालाशबीजजन्तुघ्नकर्षकम् ॥ १,६.२३ ॥ कर्षं गुडं च तत्सर्वं भक्षयेदुष्णवारि च । पिबेत्प्रातस्त्रिदिवसं भवेत्तत्क्रिमिपातनम् ॥ १,६.२४ ॥ श्यामावह्निविडङ्गानि वाशा त्र्यूषं फलत्रयम् । सैन्धवं देवदारुं च मुस्ता चैतत्समं समम् ॥ १,६.२५ ॥ घृतैः कर्षं लिहेत्प्रातः सप्ताहात्सर्वरोगजित् । एवं कृत्वा देहशुद्धिं शाल्यन्नं क्षीरभोजनम् ॥ १,६.२६ ॥ सम्यग्जातबलो भूत्वा ततः कुर्याद्रसायनम् । <रसायनोपयोगः> क्षीराज्यामलकरसक्षौद्रैः सुरतरूद्भवम् ॥ १,६.२७ ॥ तैलं निर्मथ्य तत्सर्वं द्विपलं प्रत्यहं पिबेत् । मासेन कान्तिर्मेधा च भवत्येव न संशयः ॥ १,६.२८ ॥ द्वितीयमासि पूर्वोक्तं तत्पिबेत्तच्चतुःपलम् । तेन शाम्यन्ति दोषाश्च विकारा नेत्रसम्भवाः ॥ १,६.२९ ॥ पुनस्तृतीये मासे तु सेव्यं षट्पलमात्रकम् । तेनामरवपुर्भूयान्महातेजा भवेद्ध्रुवम् ॥ १,६.३० ॥ <आरोटरससेवाक्रमः> अथारोटरसः सेव्यः क्रमेण परमेश्वरि । अयःशुल्बाभ्रताप्येभ्यः पातितो मारितः क्रमात् ॥ १,६.३१ ॥ अयमारोटकरसो देहसिद्धिकरः परः । स्वेदनाद्यैश्च संस्कारैः सप्तभिः संस्कृतो रसः ॥ १,६.३२ ॥ मूर्छितो रञ्जितो देवि सूतस्त्वारोटकः स्मृतः । रसायने रोगशान्त्यां श्रेष्ठः सर्वगुणप्रदः ॥ १,६.३३ ॥ कान्ताभ्रसत्वारोटाश्च समं गुञ्जाद्वयोन्मितम् । मध्वाज्यत्रिफलाभिश्च मासमेकं भजेदिति ॥ १,६.३४ ॥ एवं क्रमेण संसेव्यं द्वित्रिवेदेषुषट्क्रमात् । एवं षोडशमासान्तं गुञ्जाषोडशमात्रकम् ॥ १,६.३५ ॥ आरोटकरसे चेत्थं कुर्यान्मत्प्राणवल्लभे । वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥ १,६.३६ ॥ <आरोटरसः> कान्तसत्त्वाभ्रसत्त्वं च स्वर्णजीर्णरसस्तथा । सर्वमेतत्समीकृत्य भजेदारोटकं तथा ॥ १,६.३७ ॥ क्षेत्रीकरणमेतद्धि सहस्रायुष्यकारकम् । अभूमौ योजितः सूतो न प्ररोहति कुत्रचित् ॥ १,६.३८ ॥ तस्मात्क्षेत्रमकृत्वैव योजयेद्यस्तु सूतकम् । न प्ररोहेदस्य शुभं बीजमिवोषरे ॥ १,६.३९ ॥ <खोटबद्धरससेवाक्रमः> पूर्वोक्तखोटबद्धस्य सूतस्य विधिमुत्तमम् । क्रामणं च क्रमाद्वक्ष्ये तथा विधिनिषेधनम् ॥ १,६.४० ॥ शृणु पार्वति यत्नेन त्वत्प्रीत्या कथयाम्यहम् । कान्ताभ्रस्वर्णवज्राणि रसस्य क्रामणं परम् ॥ १,६.४१ ॥ क्रामणेन विना सूतो न सिध्येद्देहलोहयोः । गुञ्जामात्रं खोटबद्धं क्रामणक्षौद्रसंयुतम् ॥ १,६.४२ ॥ मासमेकं भजेदित्थं पुनर्विधिक्रमेण वै । मासषोडशपर्यन्तं यथारोटरसस्तथा ॥ १,६.४३ ॥ स शतायुष्यमाप्नोति सर्वरोगविवर्जितः । पलमात्रोपयोगेन व्याधिभिर्नाभिभूयते ॥ १,६.४४ ॥ द्वितीये शुक्रवृद्धिः स्यात्तृतीये बलवान् भवेत् । चतुर्थे पलितं हन्ति वलिं जयति पञ्चमे ॥ १,६.४५ ॥ षष्ठे श्रुतिधरो वाग्मी सप्तमे नेत्ररोगहृत् । अष्टमे तार्क्ष्यदृष्टिः स्याद्ब्रह्मायुर्ब्रह्मविक्रमः ॥ १,६.४६ ॥ उपयुञ्ज्यान्नवपलं सिद्धिमेलापकं भवेत् । विनियुञ्ज्याद्दशपलं द्वितीयः शङ्करो भवेत् ॥ १,६.४७ ॥ सहस्रायुष्यकरं सूतं माषमात्रं भजेन्नरः । अयुतायुष्करं सूतं यवमात्रं भजेत्प्रिये ॥ १,६.४८ ॥ लक्षायुष्यकरं सूतं व्रीहिमात्रं भजेत्सुधीः । कोट्यां भजेत्सूतं खादयन्मुद्गमात्रकम् ॥ १,६.४९ ॥ एतत्सर्वं रसानां तु क्रामणं पूर्ववद्भवेत् । सहस्रायुःप्रदः सूतो ब्रह्मत्वं विदधाति सः ॥ १,६.५० ॥ अयुतायुष्करः सूतो विष्णुतां प्रददाति च । लक्षायुष्यकरः सूतो रुद्रत्वमुपपादयेत् ॥ १,६.५१ ॥ कोट्यायुष्यप्रदः सूतः शिवत्वं विदधाति च । माक्षीकजीर्णसूतस्तु धनदत्वं ददाति वै ॥ १,६.५२ ॥ इन्द्रत्वं विमलाजीर्णस्त्वभ्रजीर्णोऽर्कतां ददेत् । ब्रह्मतां शुल्बजीर्णश्च विष्णुतां तारजारितः ॥ १,६.५३ ॥ रुद्रता हेमजीर्णे स्यादीशत्वं वज्रजारिते । सदाशिवत्वं च ददेत्पारदो द्रुतिजारितः ॥ १,६.५४ ॥ सच्चिदानन्दरूपत्वं सूतको बीजजारितः । सामान्येन तु तीक्ष्णेन रुद्रत्वं प्राप्नुयान्नरः ॥ १,६.५५ ॥ एवं यो लोहजीर्णं तु भक्षयेद्भस्मसूतकम् । जलेन जलरूपी स्यात्स्थलेन स्थलतां व्रजेत् ॥ १,६.५६ ॥ तेजस्त्वं तेजसा देवि वायुना वायुरूपभाक् । कर्ता हर्ता स्वयं साक्षाच्छापानुग्रहकारकः ॥ १,६.५७ ॥ यत्र मूत्रपुरीषं तु साधकस्तु परित्यजेत् । पाषाणं मृण्मयं तत्र स्पृष्टं भवति काञ्चनम् ॥ १,६.५८ ॥ प्रस्वेदात्तस्य गात्रस्य लोहान्यष्टौ च वेधयेत् । तत्सर्वं कनकं दिव्यं भक्षिते द्वादशे पले ॥ १,६.५९ ॥ अथवा तारजीर्णं तु भक्षयेद्भस्मसूतकम् । शुल्बारं वङ्गघोषं च तत्स्वेदात्तारता भवेत् ॥ १,६.६० ॥ अथवा तीक्ष्णजीर्णं तु भक्षयेद्भस्मसूतकम् । मूत्रेण तस्य स्पृष्टं तु वङ्गं व्रजति तारताम् ॥ १,६.६१ ॥ एकैकेन निषेकेन स्तम्भनं नागवङ्गयोः । गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ॥ १,६.६२ ॥ द्विगुञ्जं तारजीर्णस्य रविजीर्णस्य च त्रयम् । तीक्ष्णाभ्रकान्तमाषैकं गुंजैका द्वेऽथवा भवेत् ॥ १,६.६३ ॥ वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोन्मितम् । नागवङ्गवसाकीटविषोपविषसंयुतम् ॥ १,६.६४ ॥ मूत्रयुक्तं हठाद्बद्धं त्यजेत्कल्कं रसायने । हेमतारप्रवेशेन जातो योऽग्निसहः क्रमात् ॥ १,६.६५ ॥ बद्धश्च रसराजोऽयं देहसिद्धिप्रदो भवेत् । वज्रायस्कान्तमाक्षीकवैक्रान्ताभ्रककाञ्चनम् ॥ १,६.६६ ॥ एतैर्जीर्णो यथालाभं रसः शस्तो रसायने । षडेवोपरसाश्चैव भक्षणार्थं रसायने ॥ १,६.६७ ॥ भस्मनस्तीक्ष्णजीर्णस्य पलमेकं तु भक्षयेत् । दशवर्षसहस्राणि वज्रकायः स जीवति ॥ १,६.६८ ॥ एवं च द्वादशपलं तीक्ष्णजीर्णस्य भक्षयेत् । एवं जीवन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥ १,६.६९ ॥ भस्मनः शुल्बजीर्णस्य पलेन ब्राह्ममायुषम् । द्विपले वैष्णवायुष्यं रुद्रायुस्त्रिपलेन तु ॥ १,६.७० ॥ चतुर्थे तु पले देवि शिवत्वं प्राप्नुयान्नरः । हेमजीर्णे भस्मसूते त्रिपले भक्षिते क्रमात् ॥ १,६.७१ ॥ अष्टाशीतिसहस्राणि योगिन्यो मददर्पिताः । तस्य तिष्ठन्ति किंकर्यः कामरूपी भवेन्नरः ॥ १,६.७२ ॥ यद्यद्भावयते रूपं तत्तद्रूपधरो भवेत् । यत्र यत्र विलीयन्ते सिद्धिस्तत्रैव लीयते ॥ १,६.७३ ॥ मिते पले द्वादशभिर्हेमभस्मनि भक्षिते । गुंजैकमात्रं देवेशि ज्ञात्वा चाग्निबलं निजम् ॥ १,६.७४ ॥ घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं भजेत् । एको हि दोषः सूक्ष्मोऽपि भक्षिते भस्मसूतके ॥ १,६.७५ ॥ त्रिःसप्ताहाद्वरारोहे कामान्धो जायते नरः । कामिनीनां सहस्रं तु क्षोभयेद्दिवसान्तरे ॥ १,६.७६ ॥ नारीसङ्गाद्वरारोहे देहे क्रामति सूतकः । नारीसङ्गाद्विना देवि ह्यजीर्णं तस्य जीर्यते ॥ १,६.७७ ॥ मैथुनाच्चलिते शुक्ले त्रिसप्ताहादधः कृतात् । जायते प्राणसंदेहस्तावन्मैथुनं त्यजेत् ॥ १,६.७८ ॥ युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम् । यस्याः स्पर्शनमात्रेण रसः क्रामति विग्रहे ॥ १,६.७९ ॥ यथा तथा ह्लादयते सुस्त्रीरूपनिरीक्षणम् । तथा क्रामति देवेशि सूतकोऽसौ ततः क्षणात् ॥ १,६.८० ॥ अश्वत्थसदृशो यस्या आधारश्च समः शुभः । तादृशस्तु भगो देवि भाजने तु रसायने ॥ १,६.८१ ॥ निर्मांसश्चैव दीर्घश्च भगः शुष्कशिरास्तथा । दुःखदारिद्र्यकर्तारं वर्जयेत्तं रसायने ॥ १,६.८२ ॥ पक्षे शुक्ले शुभदिने चन्द्रताराबलान्विते । सुमुहूर्ते चिन्त्य शिवानलविप्रगुरून्द्विजः ॥ १,६.८३ ॥ संतुष्टः सुमना भूत्वा रसं सेवेत सिद्धिदम् । पयसा हेमशुण्ठीभ्यां नस्यं क्रामणमुत्तमम् ॥ १,६.८४ ॥ हेमादि षड्लोहकृतमञ्जनं क्रामणं परम् । <रससेवायां पथ्यापथ्यम्> अतः परं प्रवक्ष्यामि रससेवाहिताहितम् ॥ १,६.८५ ॥ रक्तशाल्यन्नगोधूमं गव्यं क्षीरं घृतं दधि । जाङ्गलं पललं मुद्गं शर्करा मधु सैन्धवम् ॥ १,६.८६ ॥ हंसोदकं वास्तुकं च मेघनादः पुनर्नवा । पटोलालाबुकदलीधान्यकेक्षुकदाडिमम् ॥ १,६.८७ ॥ नालिकेराम्बु विश्वं च सदा ताम्बूलचर्वणम् । गन्धसारं कुङ्कुमं च मृगनाभिं विलेपयेत् ॥ १,६.८८ ॥ सुरभीणि सुपुष्पाणि मृदुशय्येष्टकामिनीः । शिवात्मज्ञानकथनं मृदुभाषा सुखासिका ॥ १,६.८९ ॥ दिव्याम्बराणि शुद्धानि छाया चाल्पविपर्यटम् । मृत्युञ्जयजपो हर्षो मन्दहासश्च शुद्धता ॥ १,६.९० ॥ नर्तनालोकनं गीतश्रवणं शिवपूजनम् । देवाग्निगुरुविप्राणां वन्दनं श्रुतिपालनम् ॥ १,६.९१ ॥ समाधिः प्राणिकरुणा सत्यवाक्यं हितं प्रियम् । वाग्देहमनसा चेष्टा यथा दुःखनिरोधिनी ॥ १,६.९२ ॥ एतत्सर्वं रसेन्द्रस्य क्रामणं कथितं प्रिये । अहितं रससेवायाः कथयामि शृणु प्रिये ॥ १,६.९३ ॥ अत्यशनं चातिपानमतिनिद्रातिजागरम् । अकाले भोजनं स्त्रीणामतिसङ्गोऽप्यसङ्गिता ॥ १,६.९४ ॥ अस्थानमदहासाश्च हर्षः कोपोऽधिकस्पृहा । बहुजल्पो जलक्रीडा दुःखमत्यन्तचिन्तनम् ॥ १,६.९५ ॥ कलिङ्गं कारवेल्लं च कूष्माण्डः कर्कटी तथा । काकमाची कुलत्थं च कार्कोटी च कुसुम्भिका ॥ १,६.९६ ॥ तिलातसीतैलमाषकपोतकमसूरकाः । तक्रभक्तं च सौवीरं तिक्तकट्वम्ललावणम् ॥ १,६.९७ ॥ क्षारं क्षौद्रं पिच्छिलं च पित्तलं च परूषकम् । माहिषीः क्षीरविकृतीर्विदरं सहकारकम् ॥ १,६.९८ ॥ नारङ्गबिल्वलिकुचशिग्रुनैवेद्यभोजनम् । अग्निस्पर्शनमङ्घ्रिभ्यां ताडनं गोद्विजन्मनोः ॥ १,६.९९ ॥ कुमारीबालतुरगपश्वादीनां च ताडनम् । पातकं प्राणिहिंसा च छेदनं भूरुहामपि ॥ १,६.१०० ॥ अक्षादिसप्तव्यसनं छायाश्वत्थकपित्थयोः । लिङ्गस्त्रीनरखट्वानां तथा द्वीपिविभीतयोः ॥ १,६.१०१ ॥ चतुष्पथातिनिर्विक्तस्थाने विण्मूत्रमोचनम् । शिवद्विजगुरुस्त्रीणां वीरयोनियतात्मनाम् ॥ १,६.१०२ ॥ समयश्रुतिसूतानां नदीतीर्थाम्भसां नृणाम् । पलाण्डुहिङ्गुलशुनराजिकाबृहतीद्वयम् ॥ १,६.१०३ ॥ निष्पावलङ्घनोद्वर्तिनिशाशाभरणन्दिता । सुप्तिर्मद्यासवौ ताम्रचूडश्च जलजामिषम् ॥ १,६.१०४ ॥ तीक्ष्णोष्णगुरुविष्टम्भिरूक्षशुष्कामिषं मधु । कदलीपत्रकांस्येषु भोजनं घर्मसेवनम् ॥ १,६.१०५ ॥ एतानि द्रव्यजालानि निषिद्धानि रसायने । <अपथ्यजनिता रोगाः> सेवेत चेत्प्रमादेन विकृतिर्जायते क्षणात् ॥ १,६.१०६ ॥ रसाजीर्णे भवेत्कान्ते शोषो मूर्च्छा भ्रमो ज्वरः । क्लमः कम्पः शकृन्मूत्ररोधनं शूलवेपथुः ॥ १,६.१०७ ॥ अनिद्रालस्यहिक्का च कासश्वासविजृम्भिकाः । अरोचकातिसारश्च लिङ्गस्तम्भोऽक्षिकुक्षिषु ॥ १,६.१०८ ॥ वक्षःकर्णोदराङ्घ्रौ च मेढ्रे शिरसि सन्धिषु । दाहोऽङ्गभङ्गसर्वेऽन्ये व्याधयः सम्भवन्ति वै ॥ १,६.१०९ ॥ रसाजीर्णप्रशान्त्यर्थं योगोऽयं कथ्यते मया । राजकोशातकी पुङ्खा गरुडी कारवल्लिका ॥ १,६.११० ॥ कार्कोटी काकमाची च देवदाली पराजिता । सर्वमेतच्चैकपलं गोमूत्रे तु चतुष्पले ॥ १,६.१११ ॥ क्वाथयेत्पादशेषं तु कार्षिकं स्वच्छसैन्धवम् । निक्षिपेत्तत्पिबेत्क्वाथं रसाजीर्णे हितंकरम् ॥ १,६.११२ ॥ सुखीभवेत्त्रिदिवसे रसस्य क्रामणं भवेत् । रसो व्यथयते तत्तदङ्गं संपरिमर्दयेत् ॥ १,६.११३ ॥ वा स्तनेन च तन्वङ्ग्या निर्व्यथः क्रमते रसः । <सप्तधातुवेधः> त्वग्वेधः प्रथमं देवि रक्तवेधो द्वितीयकः ॥ १,६.११४ ॥ तृतीयो मांसवेधः स्यान्मेदोवेधश्चतुर्थकः । अस्थिवेधः पञ्चमः स्यात्षष्ठो मज्जात्मको भवेत् ॥ १,६.११५ ॥ सप्तमः शुक्लवेधः स्यात्नाडीवेधस्तथाष्टमः । नवमश्चक्षुषो वेधो दशमः सर्ववेधकः ॥ १,६.११६ ॥ रसवेधेन भुजगः स्वर्णं स्याद्रक्तवेधतः । त्रपु स्वर्णं भवेन्मांसवेधात्तीक्ष्णं च काञ्चनम् ॥ १,६.११७ ॥ मेदोवेधेन शुल्बं तु स्वर्णं स्यादस्थिवेधतः । रूप्यं स्वर्णं भवेन्मज्जवेधाल्लोहानि कांचनम् ॥ १,६.११८ ॥ शुक्लवेधेन मृत्पात्रं काञ्चनं भवति प्रिये । वज्रजीर्णो वीर्यवेधी मज्जामभ्रकजारितः ॥ १,६.११९ ॥ हेमजीर्णस्त्वस्थिवेधी रूप्यजीर्णो रसं प्रिये । मेदोवेधी ताप्यजीर्णो मांसवेधी तु पारदः ॥ १,६.१२० ॥ शुल्बजीर्णो रक्तवेधी कान्तजीर्णो रसात्मकः । तीक्ष्णबद्धेन नीलाभस्ताम्रेणारुणसप्रभः ॥ १,६.१२१ ॥ रजतेनेन्दुसंकाशो हेम्ना काञ्चनसप्रभः । धूमावलोकी वक्त्रस्थो मासात्खेचरतां नयेत् ॥ १,६.१२२ ॥ स्पर्शवेधी तु वक्त्रस्थो द्विमासात्सिद्धिदायकः । शतकोटिस्त्रिभिर्मासैश्चतुर्भिर्दशकोटिकृत् ॥ १,६.१२३ ॥ पञ्चभिः कोटिवेधी स्यादष्टभिश्चायुतं पुनः । साहस्रं नवभिर्मासैर्दशमासे शतं पुनः ॥ १,६.१२४ ॥ तस्य मूत्रपुरीषैस्तु श्लेष्मणाङ्गमलैस्तथा । लेपाद्धेमत्वमायान्ति यानि लोहानि भूतले ॥ १,६.१२५ ॥ चतुःषष्ट्यंशतो वेधी मासमेकादशस्य तु । द्वात्रिंशकवेधी तु वर्षाद्देहं तु वेधयेत् ॥ १,६.१२६ ॥ सर्वरोगैर्विनिर्मुक्तो वलीपलितवर्जितः । नासौ छिद्येत शस्त्रैश्च पावकेन न दह्यते ॥ १,६.१२७ ॥ वायुवेगी महातेजाः कामदेव इवापरः । इच्छया जायते दृश्योऽप्यदृश्यचैव जायते ॥ १,६.१२८ ॥ यस्य संस्पर्शमात्रेण सर्वलोहानि काञ्चनम् । तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ १,६.१२९ ॥ देवा यत्र विलीयन्ते सिद्धस्तत्रैव लीयते ॥ १,६.१३० ॥ आक्, १, ७ <पद्मरागादिरत्नोत्पत्तिः> पुरा कैलासशिखरे गह्वरेऽद्रिसुतेश्वरौ । चिरमास्तां क्रीडमानौ जिगूषू तौ परस्परम् ॥ १,७.१ ॥ तदा रेतः सूतरूपप्रवाहोऽभूत्तयोर्महान् । तत्प्रवाहप्रभावेन वेधिता दृषदोऽभवन् ॥ १,७.२ ॥ पद्मरागादिमणयो लोहा हेमादयस्तथा । गन्धकाद्याश्च पाषाणा दिव्या ओषधयो लताः ॥ १,७.३ ॥ नानावर्णा बहुविधा नानासिद्धिप्रदायकाः । पूर्वोक्तानां समस्तानां वज्रं श्रेष्ठतमं महत् ॥ १,७.४ ॥ तज्जातिलक्षणं देवि संस्कारं भजनं फलम् । क्रमाद्वक्ष्यामि ते देवि सावधानं शृणु प्रिये ॥ १,७.५ ॥ <वज्रलक्षणं वज्रभेदांश्च> द्विजन्मानश्च राजन्या ऊरव्या वृषलाः क्रमात् । शुभ्रशोणहरिद्राभाः काला नानाविधास्तथा ॥ १,७.६ ॥ स्त्रीपुंनपुंसकाश्चैव ज्ञातव्यास्ते क्रमात्प्रिये । शुक्लाः फलकसम्पूर्णा ज्योतिष्मन्तो महत्तराः ॥ १,७.७ ॥ पुमांसस्ते तु विज्ञेया रेखाबीजविवर्जिताः । बलाढ्याः सत्वसहिता लोहक्रमणहेतवः ॥ १,७.८ ॥ रसबन्धकराः क्षिप्रं सर्वेषां सिद्धिदायकाः । रसायनकराः स्थूला ह्यष्टसिद्धिप्रदायकाः ॥ १,७.९ ॥ षट्कोणबीजरेखाभिरुज्ज्वलास्ताः स्त्रियः स्मृताः । देहज्योतिःप्रजनना भोगकान्तिसुखप्रदाः ॥ १,७.१० ॥ दीर्घास्त्र्यस्राश्च तनवो निबोद्धव्या नपुंसकाः । क्षीणसत्वाः स्वल्पवीर्याः क्रामकाः सुरनायिके ॥ १,७.११ ॥ क्लीबा नपुंसके स्त्रीणां स्त्रियः सर्वहिता नराः । जात्यानुरूपाश्चोत्साहं यथा सत्वं तथा गुणम् ॥ १,७.१२ ॥ यथा कान्तिस्तथा शीलं कुर्वन्त्येवं द्विजातयः । वलीपलितरोगघ्नाः क्षत्रिया मृत्युहारिणः ॥ १,७.१३ ॥ देहस्थैर्यकरा वैश्या लोहानां वेधकारिणः । वयःस्तंभकराः शूद्रा नानामयविनाशनाः ॥ १,७.१४ ॥ <वज्रसंस्कारः> वज्रसंस्कारमधुना कथयामि शृणु प्रिये । श्यामा शमी मेघनादा वर्षाभूधूर्तकोद्रवाः ॥ १,७.१५ ॥ मेषशृङ्ग्याखुकर्णी च कुलुत्थं चाम्लवेतसः । मदनागस्त्यनिर्गुण्डी चैतेषां स्वरसैर्युते ॥ १,७.१६ ॥ डोलायन्त्रे पाचयेच्च व्याघ्रीकन्दगतं दिनम् । उद्धृत्य माहिषशकृल्लिप्तं कारीषवह्निना ॥ १,७.१७ ॥ दहेद्रात्रौ चतुर्यामं रात्र्यन्ते परिषेचयेत् । हयमूत्रस्नुहीक्षीरकुलत्थकरसैस्तथा ॥ १,७.१८ ॥ पाचयेद्दाहयेदेवं सेचयेत्सप्तवारकम् । एवं द्विजातिजातीयाः शोधिताः स्युश्च सिद्धिदाः ॥ १,७.१९ ॥ <वज्ररसायनम्> रसायनार्हं वक्ष्यामि वज्रभस्म सुरेश्वरि । वैक्रान्तताप्यगन्धाश्मशिलामाक्षिकतालकम् ॥ १,७.२० ॥ कान्तास्यटङ्कणक्षारकुलीरास्थीनि पेषयेत् । स्तन्येन गोलके क्षिप्त्वा मूषायां निक्षिपेत्ततः ॥ १,७.२१ ॥ धमेद्दृढतरं पूर्वं पश्चाद्गजपुटे पचेत् । तदेव वज्रमादाय तस्मिन्षोडशमात्रके ॥ १,७.२२ ॥ एकांशं पारदं तस्मिन् पक्वबीजेन जारितम् । स्तन्येन मर्दयेत्तौ द्वौ पुनर्गजपुटे पचेत् ॥ १,७.२३ ॥ एवं तत्षोडशपुटाद्बीजजीर्णरसान्वितम् । दृढं कुर्वीत तद्वज्रं भवेद्भस्म रसायनम् ॥ १,७.२४ ॥ शृणु रुद्राणि वक्ष्यामि दिव्यं वज्ररसायनम् । पूर्वोक्तवत्प्रकुर्वीत देहशुद्ध्यादिकं विधिम् ॥ १,७.२५ ॥ शुभर्क्षे सुमुहूर्ते च चन्द्रताराबलान्विते । शिवाग्निगुरुगोविप्रभिषजः पूजयेत्पुरा ॥ १,७.२६ ॥ ततः सेवेत तद्भस्म यवमात्रं वरानने । कान्ताभ्रसत्त्वं सौवर्णभस्म गुञ्जैकमात्रकम् ॥ १,७.२७ ॥ त्रिफलामधुसर्पिर्भिः प्रातः शुद्धवपुर्लिहेत् । एवं षोडशमासान्तमेकद्वित्रिचतुष्टयम् ॥ १,७.२८ ॥ प्रतिमासं वर्धयित्वा यावद्यावकषोडशम् । कान्तादिभस्मत्रितयं गुञ्जावृद्धिक्रमे तथा ॥ १,७.२९ ॥ द्विनिष्कं त्रिफलाचूर्णं सर्पिर्मधु यथासुखम् । पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्यान्मम वल्लभे ॥ १,७.३० ॥ सेवितं पलमात्रं तु वज्रभस्म दिनं क्रमात् । वलीपलितरोगघ्नं शतायुष्यं ददाति च ॥ १,७.३१ ॥ द्विपलं च सहस्रायुरयुतं त्रिपलं तथा । चतुष्पलं लक्षमायुर्दशलक्षं च पञ्चमम् ॥ १,७.३२ ॥ कोट्यायुष्यं षट्पलं च सुरेन्द्रायुश्च सप्तमम् । ब्रह्मायुष्यं चाष्टपलं विष्णुत्वं नवमं पलम् ॥ १,७.३३ ॥ रुद्रत्वं दशमं देवि ईश्वरत्वं ततः परम् । सदाशिवत्वं द्वादश्यां वज्रभस्म ददात्यलम् ॥ १,७.३४ ॥ सर्वज्ञत्वं सर्वगत्वं स्वेच्छाविहरणं तथा । <वज्रौदनम्> वज्रौदनं प्रवक्ष्यामि रसायनहितं परम् ॥ १,७.३५ ॥ पूर्ववच्छोधिते वज्रे मृदुकर्म समारभेत् । मातृवाहकमध्यस्थं तित्तिरीमांसवेष्टितम् ॥ १,७.३६ ॥ तीक्ष्णकान्ताननरसैः पुनस्तत्परिवेष्टयेत् । कुलत्थत्रिफलानीरकोद्रवेषु पृथक्पृथक् ॥ १,७.३७ ॥ त्रिदिनं पाचयेदेवं तद्वज्रं वेष्टयेद्दलैः । त्रिवर्षारूढताम्बुल्यास्तथा कार्पासकस्य वा ॥ १,७.३८ ॥ चेष्टितं जानुमध्यस्थं वज्रं यामद्वयान्मृदु । वज्रौदनमिदं प्रोक्तं वज्रद्रुतिरथोच्यते ॥ १,७.३९ ॥ <वज्रद्रुतिः> त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् । ज्वालामुखी चेक्षुरकं स्थलकुम्भीरसेन च ॥ १,७.४० ॥ पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकम् । निक्षिपेत्तच्च जम्बीरे दोलायन्त्रे त्र्यहं पचेत् ॥ १,७.४१ ॥ एवं कृते हीरकस्य द्रुतिर्भवति सूतवत् । <अन्यद्रुत्यतिदेशः> पद्मरागादिरत्नानां द्रुतिरेवं कृते भवेत् ॥ १,७.४२ ॥ अभ्रकादिमपाषाणा द्रवन्त्येवं कृते ध्रुवम् । द्रवन्ति रसरत्नानि मौक्तिकं चाम्लवेतसम् ॥ १,७.४३ ॥ सप्ताहं भावयेद्घर्मे क्षिपेज्जम्बीरके ततः । धान्यराशौ त्रिसप्ताहं पुटपाके द्रवत्यलम् ॥ १,७.४४ ॥ <वज्रभस्मगुणाः> वज्रभस्म यथा तद्वद्द्रुतिमार्दवयोरपि । भवेद्भस्म वरारोहे जरादारिद्र्यमृत्युजित् ॥ १,७.४५ ॥ रसायने भवेत्सौख्यं भस्म द्रुतिमृदूद्भवम् । रसायने तु स्त्रीपुंसौ क्रामणे तु नपुंसकः ॥ १,७.४६ ॥ षड्रसं हिमवीर्यं च सर्वामयविनाशनम् । सर्वदोषप्रशमनं सर्वसौख्यं रसायनम् ॥ १,७.४७ ॥ विद्युत्प्रभां देहदार्ढ्यं स्वच्छं स्निग्धं च लेखनम् । सौन्दर्यं बलमायुष्यं ग्रहालक्ष्मीविनाशनम् ॥ १,७.४८ ॥ शुद्धिर्मृदुद्रुतीभस्म वैक्रान्तस्य तु वज्रवत् । <स्वर्णं तद्भेदाः> अथ वक्ष्ये श्रेष्ठतमं शृणु हेमरसायनम् ॥ १,७.४९ ॥ हेमोत्पत्तिः पुरा प्रोक्ता तथापि त्रिविधा भवेत् । रसवेधाद्भवेच्चैकमितरत्क्षेत्रसम्भवम् ॥ १,७.५० ॥ लोहसङ्करजं चान्यच्छ्रेष्ठमध्यकनीयसः । क्रमेण पीतरक्ते च पीतरक्तं च वर्णतः ॥ १,७.५१ ॥ निकर्षछेददाहेषु कुङ्कुमश्वेतशोणितम् । <स्वर्णशुद्धिः> दिव्यमेवंविधं स्वर्णं पट्टकं कणशः कृतम् ॥ १,७.५२ ॥ हलिनीकञ्चुकीकन्दस्नुह्यर्काग्निकरञ्जकम् । धूर्तगुञ्जेङ्गुदीचीरमूलतालाश्वगन्धिकाः ॥ १,७.५३ ॥ पिष्ट्वेन्द्रवारुणी चैषा मूलानि मथितेन वै । लेपयेत्स्वर्णपट्टानि तापयेज्जातवेदसि ॥ १,७.५४ ॥ मूत्रे मथिते तैले कुलुत्थाम्भसि काञ्जिके । जम्बीरार्कपयोमध्ये प्रत्येकं सप्तधा क्षिपेत् ॥ १,७.५५ ॥ लेपयेत्तापयेत्सिञ्च्याद्भूयो भूयोऽपि सप्तधा । वल्मीकमृद्धूमसारमिष्टकापटुगैरिकम् ॥ १,७.५६ ॥ पिष्ट्वा जम्बीरनीरेण लिप्त्वा पत्रं पुटीकृतम् । चतुर्वर्णाभ्रकं ताप्यं दरदं तालकं शिलाम् ॥ १,७.५७ ॥ कान्तकङ्कुष्ठरसकविमलासूतभूलताः । पिष्ट्वाम्लेन वटीः कुर्यान्निष्कमात्राः सुरेश्वरि ॥ १,७.५८ ॥ पलादूनं न कर्तव्यमधिकं च चतुष्पलात् । पुटितं हेम शुल्बं च द्रावयेच्च समीकृतम् ॥ १,७.५९ ॥ तन्मध्ये तद्द्रवीभूते चैकैकां वटिकां क्षिपेत् । स्वर्णाद्दशगुणा वाह्या वटिकाः शोषिताः क्रमात् ॥ १,७.६० ॥ यावच्छेषं भवेत्स्वर्णं तावदेवं धमेच्छनैः । शुद्धं तज्जायते दिव्यं जरामरणरोगहृत् ॥ १,७.६१ ॥ <स्वर्णभस्म> चिञ्चापत्रनिभं स्वर्णं पत्रं शुद्धं च पारदम् । एकान्तं मर्दयेदम्लैस्तत्पिष्टिमपि लेपयेत् ॥ १,७.६२ ॥ समगन्धकताप्याभ्यां पिष्टिं मूषागतां धमेत् । षोडशांशं सूतभस्म हेमचूर्णे विनिक्षिपेत् ॥ १,७.६३ ॥ अम्लेन मर्दयेद्गाढं पचेत्तद्भूधरे पुटे । एवं षोडशपर्यन्तं रसं प्रतिपुटं क्षिपेत् ॥ १,७.६४ ॥ निरुत्थं हेमभस्मेदं जायते सर्वसिद्धिदम् । <हेमरसायनम्> विरेकवमनाद्यैश्च शुद्धदेहः शुभे दिने ॥ १,७.६५ ॥ अर्चयेदीशविप्राग्निगुरुवैद्यपुरःसरान् । सेवेत शुद्धहृदयो दिव्यं हेमरसायनम् ॥ १,७.६६ ॥ कान्ताभ्रयोः सत्त्वभस्म चैकगुञ्जाप्रमाणकम् । माषोन्मितं हेमभस्म वरामध्वाज्ययुग्लिहेत् ॥ १,७.६७ ॥ पूर्वोक्तवद्वज्रमासषोडशिकावधि । पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत रसायनी ॥ १,७.६८ ॥ शृणु चित्रां गिरिसुते सेवां हेमरसायने । पलमात्रोपयोगेन सर्वरोगविवर्जितः ॥ १,७.६९ ॥ ततो द्विपलयोगेन वलीपलितवर्जितः । वाक्सिद्धिर्दिव्यदृष्टिश्च त्रिपलेन भवेत्प्रिये ॥ १,७.७० ॥ चतुःपलोपयोगेन विषव्याघ्राहिभीर्न हि । तथा पञ्चपलेनैव दिव्यात्मज्ञानिता भवेत् ॥ १,७.७१ ॥ देवि षट्पलयोगेन सिद्धसाध्यपदं भवेत् । तथा सप्तपलेनापि विद्याधरपदं भवेत् ॥ १,७.७२ ॥ तथाष्टपलयोगेन स्वेच्छाविहरणे पटुः । पलेन नवमेनापि चाष्टैश्वर्यगुणान्वितः ॥ १,७.७३ ॥ तथा दशपलेनापि महेन्द्रत्वमवाप्नुयात् । एकादशपलैर्देवि ब्रह्मत्वं नात्र संशयः ॥ १,७.७४ ॥ द्वादशभिः पलैः कान्ते विष्णुत्वं समुपैति च । त्रयोदशपलेनापि रौद्रं पदमवाप्नुयात् ॥ १,७.७५ ॥ तथा चतुर्दशपलैरैश्वरं लभते पदम् । पलैः पञ्चदशैरेति सदाशिवपदं परम् ॥ १,७.७६ ॥ तथा स्यात्षोडशपलैः सच्चिदानन्दविग्रहः । सर्वज्ञः सर्वकर्ता च हर्ता गोप्ता स सर्वगः ॥ १,७.७७ ॥ <हेमद्रुतिः> हेमद्रुतिं प्रवक्ष्यामि शृणु संप्रति पार्वति । फलपांशुर्देवदाल्याः शक्रगोपोऽश्वलालिका ॥ १,७.७८ ॥ टङ्कणं जालिनीनीरैर्भावयेद्बहुधा प्रिये । द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः ॥ १,७.७९ ॥ इमां द्रुतिं काञ्चनवद्भस्म सेवां च कल्पयेत् । स्वादु तिक्तं कषायं च शीतमुष्णं रसायनम् ॥ १,७.८० ॥ हृद्यं कान्तिप्रदं शुद्धं चक्षुष्यं गुरु लेखनम् । धृतिस्मृत्यायुरारोग्यनयवाक्सिद्धिदायकम् ॥ १,७.८१ ॥ क्षयोन्मादादिरोगाणां नाशनं दोषशान्तिकृत् । स्निग्धं रुच्यं दीप्तिं वीर्यकृद्बलवर्धनम् ॥ १,७.८२ ॥ <कान्तं तद्भेदा लक्षणञ्च> अथ कान्ते प्रवक्ष्यामि कान्तं कान्तरसायनम् । दिव्या औषधयः सन्तु सर्वसिद्धिप्रदायिकाः ॥ १,७.८३ ॥ तेभ्यः कान्तं श्रेष्ठतमं वलीरुक्पलितापहम् । कल्पान्ते ताण्डवं शंभुः शर्वाणीसहितः स्वयम् ॥ १,७.८४ ॥ उच्चण्डं व्यतनोत्तत्र संजाताः स्वेदबिन्दवः । तत्र तत्र गतास्तेऽपि ह्ययस्कान्तत्वमाययुः ॥ १,७.८५ ॥ जाङ्गले बहवो जाता देशे साधारणे क्वचित् । जलप्रायेऽस्ति वा नास्ति जात्या पञ्चविधाः स्मृताः ॥ १,७.८६ ॥ भ्रामकं चुम्बकं देवि कर्षकं द्रावकं तथा । रोमकं च तथैकद्वित्रिचतुः सर्वतोमुखाः ॥ १,७.८७ ॥ तेषां पञ्चविधानां तु पीतं कृष्णं च शोणितम् । मिश्रं पृथक्पृथक्तेषां क्रमात्स्युरधिदेवताः ॥ १,७.८८ ॥ ब्रह्मविष्ण्वीशभूतात्ममातृकाः परिकीर्तिताः । पीतवर्णं स्पर्शवेधि कृष्णं श्रेष्ठं रसायने ॥ १,७.८९ ॥ रसबन्धकरं रक्तं मिश्रं सर्वरुजापहम् । रोमकं ग्रहभीतिघ्नं द्रावकं चोत्तमोत्तमम् ॥ १,७.९० ॥ उत्तमं मध्यमं नीचं कर्षकं चुम्बकं क्रमात् । भ्रामकं लक्षणं वच्मि लोहं तु भ्रामयेत्ततः ॥ १,७.९१ ॥ तस्माद्भ्रामकमित्युक्तं चुम्बकं लोहचुम्बकम् । कर्षकं कर्षयेल्लोहं द्रावकं द्रावयेद्यतः ॥ १,७.९२ ॥ स्फुटनाद्रोमजननं तद्रोमकमुदाहृतम् । अत्युत्तमं बहुमुखं चतुःपञ्चास्यमुत्तमम् ॥ १,७.९३ ॥ मध्यमं स्याद्द्वित्रिमुखं नीचमेकमुखं भवेत् । भ्रामकं चुम्बकं सर्वरोगाणां नाशने हितम् ॥ १,७.९४ ॥ कर्षकं द्रावकं श्रेष्ठं रसयोगे रसायने । रसद्विपाङ्कुशमिदं कान्तं पञ्चविधं प्रिये ॥ १,७.९५ ॥ समीरणातपस्पृष्टं न ग्राह्यं तत्कदाचन । हस्तद्वयं समुत्खाय कान्तं ग्राह्यं वरानने ॥ १,७.९६ ॥ <कान्तसत्त्वपातनम्> आदौ सम्पूज्य दुर्गां च गणेशं भैरवं प्रिये । तीव्राग्निना दहेत्कान्तं सेचयेत्त्रिफलाम्बुना ॥ १,७.९७ ॥ तत्कान्तं चूर्णयेत्सूक्ष्मं काचसामुद्रटङ्कणैः । लाक्षागुग्गुलुगुञ्जाभिरूर्णाज्यमधुसिक्थकैः ॥ १,७.९८ ॥ शशास्थिक्षुद्रमीनैश्च भल्लाततिलकल्ककैः । सर्जक्षारयवक्षाररालैश्चिरगुलैस्तथा ॥ १,७.९९ ॥ न्यङ्कुसैरिभदन्तीनां विषाणैश्च समांशकैः । एतत्समांशं तत्कान्तमजाक्षीरेण मर्दयेत् ॥ १,७.१०० ॥ मेलयेत्पञ्चमाहिष्यैर्दध्याद्यैर्गोमयान्तकैः । श्लक्ष्णं पिष्ट्वा वटीः कुर्यात्कर्षमात्राः सुरेश्वरि ॥ १,७.१०१ ॥ कोष्ठीयन्त्रे वङ्कनाले खदिराङ्गारकैर्दृढम् । पञ्च पञ्च वटीस्तत्र निक्षिपेच्च शनैः शनैः ॥ १,७.१०२ ॥ त्रियाममथनादेव कान्तात्सत्वं पतेच्छुचि । तत्सर्वं कणशः कृत्वा काचाद्यैरौषधैः समैः ॥ १,७.१०३ ॥ मूषागतं धमेत्तीव्रमेवं धाम्यं त्रिधा प्रिये । एवं कृतं तु तत्कान्तसत्वं सत्त्वतमं भवेत् ॥ १,७.१०४ ॥ <कान्तस्वरूपम्> कान्तलोहस्य पात्रस्थजले तैलस्य बिन्दवः । न सर्पन्ति चणास्त्वेताः कृष्णाः स्युर्नात्र संशयः ॥ १,७.१०५ ॥ घृष्टहिङ्गोर्न गन्धः स्यात्क्षीरोर्मिः शिखराकृतिः । न कदाचिद्भुवि पतेच्छिवा मुञ्चति तिक्तताम् ॥ १,७.१०६ ॥ तल्लोहक्षिप्तमुष्णाम्बु शीतलं भवति क्षणात् । <लोहशुद्धिः> ऊनं पञ्चपलान्नैव नोर्ध्वं पञ्चदशात्पलात् ॥ १,७.१०७ ॥ त्रिफला षोडशपला तच्चतुर्गुणमम्बु च । क्वाथयेत्पादशेषं तु तस्मिन्पत्राणि ढालयेत् ॥ १,७.१०८ ॥ शशरक्तप्रलिप्तानि शोषयेदातपे पुनः । तापितानि पुनस्तक्रतैलसौवीरसर्पींषि ॥ १,७.१०९ ॥ क्षौद्रार्कक्षीरजम्बीरकुलत्थकरसेष्वपि । लेपनं शोषणं दाहं सेचनं च क्रमात्प्रिये ॥ १,७.११० ॥ प्रत्येकं सप्तधा कुर्याद्गिरिदोषं त्यजेदयः । <लोहसंस्कारमन्त्राः> आदौ मन्त्रस्ततः कर्म कर्तव्यो मन्त्र उच्यते ॥ १,७.१११ ॥ उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तोऽमृतात्परः । स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥ १,७.११२ ॥ ओममृतोद्भवोद्भवाय स्वाहा । रक्षायै लोहनरयोरयमेकोद्भवो मनुः । विना स्वाहापदं स्थाने फडन्तं यः समुच्चरेत् ॥ १,७.११३ ॥ ओममृतोद्भवाय फट्प्रणवोर्ध्वं नमश्चण्डवज्रपाणय इत्यपि । ततः परं महायक्षसेनाधिपतये नमः ॥ १,७.११४ ॥ द्विरुक्तं सुरुशब्दस्य महाविद्याबलाय च । ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि कीर्तितः ॥ १,७.११५ ॥ ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये नमः सुरु सुरु महाविद्याबलाय स्वाहा । <लोहभस्म> एतानि लोहपत्राणि सूक्ष्मं संचूर्णयेत्ततः । अयःपात्रे कान्तचूर्णं निक्षिप्य त्रिफलारसैः ॥ १,७.११६ ॥ सेचयेत्तदयोदर्व्या चालयन्पाचयेदिति । पिण्डीभूतं तदादाय मृत्तिकापटले शुभे ॥ १,७.११७ ॥ संपुटे निक्षिपेत्सम्यक्षोडशाङ्गुलगर्तके । निधायारण्यकारीषमध्यगं कारिषं दहेत् ॥ १,७.११८ ॥ अहोरात्रं प्रकुर्वीत वातातपविवर्जितम् । पुनः प्रातः समादाय वराक्वाथेन मर्दयेत् ॥ १,७.११९ ॥ स्थालीसंपुटयोरेवं कुर्यात्पाकपुटैः क्रमात् । एवं विदध्यात्सप्ताहं तस्मिन्क्षेप्यं च हिङ्गुलम् ॥ १,७.१२० ॥ लोहस्य षोडशांशं च नारीस्तन्येन मर्दयेत् । स्थाल्यां पाकं संपुटे च पुटं कुर्वीत षोडश ॥ १,७.१२१ ॥ निरुत्थं तद्भवेद्भस्म देवि योज्यं रसायने । <ल्होहभस्मनोऽमृतीकरणम्> यावत्स्यात्त्रिफला तस्माद्भवेद्वारि चतुर्गुणम् ॥ १,७.१२२ ॥ अष्टावशेषं क्वाथयेत्क्वाथस्य सदृशं घृतम् । घृततुल्यं कान्तभस्म ताम्रपात्रे पचेत्प्रिये ॥ १,७.१२३ ॥ लोहदर्व्या प्रचलयन् यावच्छुष्यति तद्रसः । तावन्मृद्वग्निना पाच्यं लोहतुल्यां सितां क्षिपेत् ॥ १,७.१२४ ॥ अमृतीकरणमित्युक्तं सर्वयोगवहं परम् । <लोहपाकभेदाः> लोहपाकं प्रवक्ष्यामि तद्भवेत्त्रिविधं प्रिये ॥ १,७.१२५ ॥ मृदुमध्यखराः प्रोक्ता जम्बीरसदृशो मृदुः । मध्यमः पिण्डसदृशो वालुकासदृशः खरः ॥ १,७.१२६ ॥ <कान्तलोहरसायनसेवाक्रमः> अथ सेवां प्रवक्ष्यामि कान्तलोहस्य भस्मनः । सुमुहूर्ते शुभदिने पूजितेशादिदेवतः ॥ १,७.१२७ ॥ सेवेत सिद्धिदं दिव्यं कान्तभस्म रसायनम् । शुद्धदेहो विरेकाद्यैरभ्रभस्म पुरा प्रिये ॥ १,७.१२८ ॥ मासमेकं तु सेवेत तस्माच्छुद्धवपुर्भवेत् । माषमात्रं कान्तभस्म गुञ्जामात्राभ्रभस्म च ॥ १,७.१२९ ॥ द्विनिष्कं त्रिफलाचूर्णं मधुसर्पिःसमन्वितम् । लिहेत्प्रातर्विशुद्धात्मा स्नानदानादिकर्मभिः ॥ १,७.१३० ॥ अनुपेयं ततो लोहाद्गव्यं षष्टिगुणं पयः । धारोष्णं तदभावे तु कृत्वा क्षीरं समाम्बुकम् ॥ १,७.१३१ ॥ यावत्क्षीणजलं क्वाथ्यं क्षीरं चानुपिबेत्प्रिये । तदसात्म्ये वराक्वाथं गुडूच्या वा कषायकम् ॥ १,७.१३२ ॥ इत्येकमासं सेवेत क्रमाद्द्वित्रिचतुष्टयम् । प्रतिमासं माषगुञ्जावृद्धिः कान्ताभ्रभस्मनोः ॥ १,७.१३३ ॥ एवं षोडशमासान्तं वृद्धिः षोडशमात्रकाः । पूर्वोक्तवद्विधिं त्याज्यं कुर्यात्सिद्धिमवाप्नुयात् ॥ १,७.१३४ ॥ अस्य वत्सरयोगेन क्षुद्रामयविनाशनम् । एतद्द्विवर्षयोगेन महारोगप्रणाशनम् ॥ १,७.१३५ ॥ त्रिवर्षात्पलितं हन्ति चतुर्वर्षाद्वलिं हरेत् । पञ्चमादपमृत्युघ्नं षष्ठे स्यादायुषः शतम् ॥ १,७.१३६ ॥ सप्ताब्दे सूर्यवद्दीप्तिं दशमे सिद्धिमेलनम् । वैद्याधरं समाप्नोति वर्षे चैकादशे प्रिये ॥ १,७.१३७ ॥ त्रयोदशाब्दे देवत्वमिन्द्रत्वं च चतुर्दशे । तथा पञ्चदशाब्दे च सर्वलोकप्रियो भवेत् ॥ १,७.१३८ ॥ षोडशाब्देऽष्टसिद्धिः स्यात्सत्यं सत्यं महेश्वरि । <कान्तद्रुतिक्रमः> सुवर्णद्रुतिवत्कान्तद्रुतिः स्यात्पूर्ववत्प्रिये ॥ १,७.१३९ ॥ कान्तद्रुतिर्भवेद्भस्म कान्तलोहस्य भस्मवत् । <लोहभेदास्तद्गुणाश्च> किट्टं मुण्डं तथा तीक्ष्णं कान्तं पूर्वोत्तरोत्तरम् ॥ १,७.१४० ॥ गुणाढ्याः स्युर्दशशतसहस्रं लक्षकं क्रमात् । शताधिको भवेत्कान्तस्त्वौषधानां रसायनम् ॥ १,७.१४१ ॥ त्रिदोषशमनं दिव्यं सर्वरोगापहारकम् । कान्तिं रुच्यं च चक्षुष्यं हृद्यमायुष्यदं शुचि ॥ १,७.१४२ ॥ स्थैर्यं दार्ढ्यं च धातूनां बलवच्च रसायनम् । <अभ्रकोत्पत्तिः तद्भेदा लक्षणञ्च> अथाभ्रकं प्रवक्ष्यामि तदुत्पत्त्यादिकं क्रमात् ॥ १,७.१४३ ॥ पुरादिशक्तिर्भवती श्वेतद्वीपे मनोरमे । इन्द्राणीकमलावाणीगायत्रीप्रमुखैः सह ॥ १,७.१४४ ॥ अरुन्धतीमुखैर्दिव्यमुनिदारैश्च संयुता । संचिक्रीडे महामाया चित्सदानन्दरूपिणी ॥ १,७.१४५ ॥ आनन्दाश्रुकणाः क्षौमे न्यपतन्बहवो दृशोः । तदा ऋतुमती जाता ततः स्वादु सरित्पतेः ॥ १,७.१४६ ॥ तीरे त्यक्त्वा च तद्वस्त्रं स्नात्वा कैलासमाययौ । वात्यावशेन तद्वस्त्रं क्षीराब्धौ न्यपतत्तदा ॥ १,७.१४७ ॥ देवासुरैर्मथ्यमानात्तस्मात्क्षीराम्बुधेस्तदा । समभूत्तद्रजोवस्त्रं चतुर्धाभ्रकसंज्ञकम् ॥ १,७.१४८ ॥ कृष्णाभ्रकं साञ्जनाभं पीतं देव्यङ्गलेपनात् । रक्तं तस्य रजोरूपं क्षौमं श्वेतमभूदिति ॥ १,७.१४९ ॥ चतुर्विधं तदालोक्य रसबन्धनकारणम् । रसायनं रोगहरं सर्वसिद्धिप्रदायकम् ॥ १,७.१५० ॥ इत्यूचिरे सुराः सर्वे साक्षादमृतसंमितम् । श्वेतं रजतकार्येषु त्रयमन्यत्सुवर्णके ॥ १,७.१५१ ॥ सर्वं रसायने योज्यं रक्तपीतसितासितम् । श्वेताच्छतगुणं रक्तं रक्तात्पीतं सहस्रकम् ॥ १,७.१५२ ॥ पीताल्लक्षगुणं कृष्णं ज्ञेयं लोहे रसायने । प्रत्येकं तानि जायन्ते चतुर्धा जातितः क्रमात् ॥ १,७.१५३ ॥ पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् । वज्रं समाहरेन्मुख्यं त्रीण्यन्यानि विवर्जयेत् ॥ १,७.१५४ ॥ पिनाकमग्निनिक्षिप्तं मुञ्चते दलसंचयम् । तत्सेवितं मलं बद्ध्वा मारयेद्रोगकारणम् ॥ १,७.१५५ ॥ दर्दुरं वह्निनिक्षिप्तं कुरुते भेकनिःस्वनम् । तदुत्पादयते रोगमश्मर्याख्यमसाध्यकम् ॥ १,७.१५६ ॥ नागमग्नौ विनिक्षिप्तं फूत्कारं वितनोति यत् । तत्सेवया महाकुष्ठं मण्डलाख्यं भवेद्ध्रुवम् ॥ १,७.१५७ ॥ <ग्राह्यलक्षणम्> एतत्त्रितयसेवाभिर्जायते रोगसंचयः । वह्निस्थितं तु वज्राभ्रं विकारान्नाचरेत्क्वचित् ॥ १,७.१५८ ॥ तस्माद्वज्राभ्रकं सेव्यं वलीपलितमृत्युजित् । राजहस्तात्परं ग्राह्यं खनित्रेन तदाकरात् ॥ १,७.१५९ ॥ <वज्राभ्र:: परीक्षा:: बदॄउअलित्य्> भारयुक्तं पृथुदलं स्निग्धं मोच्यदलं सुखम् । काचचन्द्रककिट्टाभं न योज्यं तत्कदाचन ॥ १,७.१६० ॥ <धान्याभ्रकम्> पूर्वोक्तलक्षणयुतं वज्राभ्रं धमयेद्दृढम् । अर्कक्षीरारनाले च गोमूत्रे त्रिफलारसे ॥ १,७.१६१ ॥ मेघनादरसे चेत्थं निक्षिपेत्तेषु तत्त्रिधा । सम्यग्दलं मोचयित्वा मेघनादाम्लयोर्द्रवैः ॥ १,७.१६२ ॥ भावयेदातपे तीव्रे श्लक्ष्णं पिष्ट्वाथ वस्त्रके । निक्षिप्य धान्यसहितं बद्ध्वा तत्काञ्जिके पुनः ॥ १,७.१६३ ॥ कराभ्यां घट्टयेद्गाढं सूक्ष्मं तत्काञ्जिके स्रवेत् । तत्कुर्यादातपे शुष्कमेतद्धान्याभ्रकं स्मृतम् ॥ १,७.१६४ ॥ <अभ्रकसत्वपातनम्> कान्तवत्सत्वपतनमभ्रकस्य भवेत्प्रिये । हेम रूप्यं माक्षिकं च वैक्रान्तं मधु टङ्कणम् ॥ १,७.१६५ ॥ गुञ्जा गुडं घृतं भल्लमेकैकं दशनिष्ककम् । पिष्ट्वार्कपयसा कार्या वटिकाः कर्षमात्रकाः ॥ १,७.१६६ ॥ शतनिष्केऽभ्रसत्वेऽस्मिन् विद्रुते वटिकाः क्षिपेत् । एकैकघटिकामात्रं वट्यः क्षेप्याः शनैः शनैः ॥ १,७.१६७ ॥ यावत्तत्सत्त्वशेषं स्यात्तावद्धाम्यमतन्द्रितैः । इदमभ्रकसत्त्वं तु देवयोग्यं रसायनम् ॥ १,७.१६८ ॥ <अभ्रकसत्वभस्म> चूर्णीकृत्याभ्रसत्त्वं तन्मेघनादः पुनर्नवा । सूरणोऽर्कदलं मुस्ता जम्बीरस्तालमूलिका ॥ १,७.१६९ ॥ त्रिफला वज्रवल्ली च शाङ्गेरी मरिचं तथा । अम्लवर्गो वटजटा कार्पासमुनिशिग्रुकम् ॥ १,७.१७० ॥ एकवीरा कोकिलाक्षी सर्पाक्षी तुलसी वचा । पेटारी वाकुची कन्या चैकैकस्य रसैः पृथक् ॥ १,७.१७१ ॥ मर्दनं घर्मपाकं च स्थालीपाकं पुटं क्रमात् । एकैकाहं प्रकुर्वीत ततो दरदमाक्षिके ॥ १,७.१७२ ॥ सत्वषोडशभागेन योज्यं पेष्यं वरारसैः । पुटषोडशपर्यन्तं कुर्यादेवं हि भैरवि ॥ १,७.१७३ ॥ पूर्वोक्तवत्स्यादमृतीकरणं कान्तसत्ववत् । निरुत्थं भस्म भवति चायुरारोग्यदायकम् ॥ १,७.१७४ ॥ <अभ्रकसत्वसेवाक्रमः> अथ सेवां प्रवक्ष्यामि घनसत्वरसायने । वमनादिविशुद्धात्मा पूजितस्वेष्टदेवतः ॥ १,७.१७५ ॥ गुञ्जामात्राभ्रसत्वं च द्विनिष्कं त्रिफलारजः । मध्वाज्याभ्यां लिहेत्प्रातरेकमासं भजेदिति ॥ १,७.१७६ ॥ एवं षोडशमासान्तं मासवृद्धिक्रमेण वै । गुञ्जावृद्धिर्भवेद्देवि सेवेतेत्थं रसायनम् ॥ १,७.१७७ ॥ पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत सुरेश्वरि । वर्षेण देहशुद्धिः स्याद्द्विवर्षादामयाच्च्युतः ॥ १,७.१७८ ॥ त्रिवत्सरान्महारोगनाशनं भवति ध्रुवम् । चतुर्वर्षान्महाकान्तिबलवीर्यप्रवर्धनम् ॥ १,७.१७९ ॥ पञ्चवर्षाद्देहदार्ढ्यं षष्ठे वाक्सिद्धिमेति हि । सप्तमे दिव्यदृष्टिः स्यादष्टमे विषनाशनम् ॥ १,७.१८० ॥ नवाब्दे सिद्धतामेति ततो विद्याधरो भवेत् । एकादशाब्दे त्विन्द्रत्वं द्वादशे ब्रह्मता भवेत् ॥ १,७.१८१ ॥ त्रयोदशाब्दे विष्णुत्वं रुद्रत्वं च चतुर्दशे । ईशत्वं पञ्चदशके षोडशाब्दे सदाशिवः ॥ १,७.१८२ ॥ अणिमादियुतः स्वैरी सर्वज्ञः सर्वकृद्भवेत् । <अभ्रकद्रुतिः> अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्द एव च ॥ १,७.१८३ ॥ कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् । मूषायां द्रावयित्वा तदभ्रसत्वद्रुतिर्भवेत् ॥ १,७.१८४ ॥ भस्मीकुर्यात्प्रयत्नेन द्रुतिमभ्रकसत्ववत् । <अभ्रकगुणाः> षड्रसः सर्वरोगघ्नस्त्रिदोषशमनः परः ॥ १,७.१८५ ॥ वीर्यायुष्यबलप्रज्ञाकान्तिरूपविवर्धनः । वपुर्दार्ढ्यस्थैर्ययुक्तो वलीपलितमृत्युहा ॥ १,७.१८६ ॥ रुच्यो वृष्यो लघुः शीतो मेध्यः स्निग्धो रसायनम् । अभ्रकं दीपनं ग्राहि श्रेष्ठं पारदबन्धनम् ॥ १,७.१८७ ॥ पक्षजित्सूतराजस्य भस्मीभूताभ्रसत्वकः । अभ्रस्य पत्रं रोगघ्नं तच्च सत्वं दृढंकरम् ॥ १,७.१८८ ॥ चेतसत्वं मृदु हरेद्द्रुतिस्तांश्च दरिद्रताम् ॥ १,७.१८९ ॥ आक्, १, ८ <रसायनसेवा> सूतो वज्रं सुवर्णं च कान्तलोहं तथाभ्रकम् । पञ्चैतान्यमृतानि स्युः कल्पितानि नृणां मया ॥ १,८.१ ॥ मत्तकाशिनि यो वेत्ति सोऽपि साक्षान्महेश्वरः । अहं रसो रसश्चाहमावयोरन्तरं न हि ॥ १,८.२ ॥ तेन युक्तास्तु वज्राद्याः सिद्धिदाः स्युर्न संशयः । पुरुषं रससेवार्हं वदामि शृणु पार्वति ॥ १,८.३ ॥ स्त्रीक्लीबबालकानां च न हि योज्यं रसायनम् । बालाः पञ्चदशाब्दा ये कुमारांस्त्रिंशदब्दकाः ॥ १,८.४ ॥ पञ्चाशद्वर्षदेशीया युवानः परिकीर्तिताः । अतः परं च स्थविराः भवेयुस्ते रसायने ॥ १,८.५ ॥ यथोक्तकाले सिद्धिः स्यात्कुमारस्य रसायनात् । तस्माद्द्विगुणकालेन यूनः सिद्धिर्भवेद्ध्रुवम् ॥ १,८.६ ॥ तस्मात्त्रिगुणकालेन वृद्धः सिद्धिमवाप्नुयात् । ज्ञातव्याः क्रमशो देवि ह्युत्तमो मध्यमोऽधमः ॥ १,८.७ ॥ <रसायनसेवाक्रमः> पूर्वमभ्रकमश्नीयात्ततः कान्तरसायनम् । अथ कान्ताभ्रकं देवि पश्चाद्धेमरसायनम् ॥ १,८.८ ॥ अथाभ्रकं स्वर्णयोगं कान्तहेमरसायनम् । घनकान्तस्वर्णयोगं ततो वज्ररसायनम् ॥ १,८.९ ॥ अथाभ्रवज्रसेवां च कान्तवज्रमतः परम् । घनायस्कान्तहीरं च हेमवज्रं ततो भवेत् ॥ १,८.१० ॥ पश्चादभ्रस्वर्णवज्रं कान्ताष्टापदवज्रकम् । घनकान्तं हेमवज्रमतः पारदभक्षणम् ॥ १,८.११ ॥ तथाभ्ररसयोगं स्यात्ततः कान्तरसं भवेत् । घनकान्तरसं देवि पश्चाद्धेमरसं भवेत् ॥ १,८.१२ ॥ घनहेमरसं पश्चात्कान्तहेमरसं ततः । घनकान्तं हेमसूतमतो वज्ररसं भवेत् ॥ १,८.१३ ॥ घनवज्ररसं देवि कान्तवज्ररसं ततः । घनकान्तं वज्रसूतं हेमवज्ररसं ततः ॥ १,८.१४ ॥ घनहेमपवीसूतं कान्तहेमपवीरसम् । घनकान्तस्वर्णवज्ररसमस्मात्परं न हि ॥ १,८.१५ ॥ उत्तरोत्तरतः सर्वे चैते सर्वगुणोत्तराः । रसायनानि पञ्च स्युरेकैकानि वरानने ॥ १,८.१६ ॥ रसा द्विद्व्यौषधभवास्त्रित्र्यौषधभवा दश । चतुश्चतुर्भवाः पञ्च त्वेकः पञ्चौषधोद्भवः ॥ १,८.१७ ॥ एकत्रिंशद्वरारोहे रसायनमिति प्रिये । घनं कान्तं हेम वज्रं पारदश्चेतरम् ॥ १,८.१८ ॥ पूर्वोत्तरोत्तरगुणा भवन्ति प्राणवल्लभे । रसस्य क्रामणं वज्रं हेमकान्तघनं भवेत् ॥ १,८.१९ ॥ वज्रसंक्रामणं हेम कान्तं व्योम भवेत्प्रिये । हेम्नः कान्तभवं योज्यं कान्तस्य क्रामणं घनम् ॥ १,८.२० ॥ अभ्रस्य क्रामणं चाभ्रसत्त्वं सिद्धिप्रदं यतः । एकैकौषधसेवायां यथोक्तं क्रामणं भवेत् ॥ १,८.२१ ॥ युक्तो द्वित्रिचतुःपञ्चभैषज्यैः क्रामणं न हि । त्रिफलामधुसर्पींषि सामान्यक्रामणं भवेत् ॥ १,८.२२ ॥ आक्, १, ९ <रसायनार्हरससंस्कारः; प्रथमः प्रकारः> श्रीभैरवी । रसायनार्हां सूतस्य संस्कृतिं वद मे विभो । श्रीभैरवः । शृणु पार्वति यत्नेन संस्कारं शोधनादिकम् ॥ १,९.१ ॥ पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् । तप्तखल्वे दिनं देवि वज्रमूषागतं रसम् ॥ १,९.२ ॥ पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् । पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः ॥ १,९.३ ॥ कृत्वैवं दशवारं तं पात्यं पातनयन्त्रके । शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने ॥ १,९.४ ॥ <द्वितीयः प्रकारः> दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् । वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् ॥ १,९.५ ॥ पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा । सगन्धकं मर्दनं च पातनं भवति प्रिये ॥ १,९.६ ॥ शुद्धः स्यात्पारदो देवि योग्यो योगे रसायने । <तृतीयः प्रकारः> तिलतैलैर्माहिषिकैर्मूत्रैर्मर्द्याम्लकेन च ॥ १,९.७ ॥ गोमांसैर्हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना । सप्ताहं लोहदण्डेन चालयन्सद्रवं मुहुः ॥ १,९.८ ॥ सार्द्रमायूरपित्तेन भावयेदातपे दिनम् । पाचयेत्पातनायन्त्रे दरदं खरवह्निना ॥ १,९.९ ॥ शुद्धो भवेच्चतुर्यामात्पारदः स्याद्रसायने । <रसभस्मक्रमः; प्रथमः प्रकारः> ऊर्ध्वाधस्तात्खजीर्णस्य सूतस्य समगन्धकम् ॥ १,९.१० ॥ निक्षिपेत्पक्वमूषायां गर्ते द्वाभ्यां चतुर्गुणम् । काकमाचीद्रवं दत्त्वा निरुध्यैनां क्रमाग्निना ॥ १,९.११ ॥ पचेद्गुण्डकयन्त्रस्थां मूषां यामचतुष्टयम् । भस्मसाज्जायते सूतो योजयेत्तु रसायने ॥ १,९.१२ ॥ <द्वितीयः प्रकारः> जीर्णसूतं स्नुक्क्षीरैः समं गन्धं विमर्दयेत् । दिनं ततो गर्भयन्त्रे पुटे भस्मति पूर्ववत् ॥ १,९.१३ ॥ <तृतीयः प्रकारः> खजीर्णसूतं तुल्यांशं लाक्षोर्णामधुटङ्कणम् । गुञ्जां भृङ्गरसैः सर्वं दिनमेकं विमर्दयेत् ॥ १,९.१४ ॥ अन्ध्रितं वज्रमूषायां धमेद्भस्मति पारदः । <चतुर्थः प्रकारः> घनजीर्णं रसं गन्धं त्र्यहं तुल्यं विमर्दयेत् ॥ १,९.१५ ॥ अहिमार्या रसैर्वाथ ह्यजामार्या रसेन वा । रसेन कीटमारिण्याः श्वेताङ्कोलरसेन वा ॥ १,९.१६ ॥ दिवारात्रं करीषाग्नौ मृण्मये संपुटे दहेत् । तुषाग्निना वा त्रिदिनाद्भस्मीभवति पारदः ॥ १,९.१७ ॥ तप्तखल्वे वज्रभस्म जीर्णे सूते समं त्र्यहम् । हंसपादीरसैर्मर्द्यं बीजैर्दिव्यौषधोद्भवैः ॥ १,९.१८ ॥ लेपयेद्वज्रमूषायां तत्र पूर्वं रसं क्षिपेत् । त्र्यहं तुषाग्निना पाच्यं हंसपादीद्रवैः पुनः ॥ १,९.१९ ॥ मर्दयेत्त्रिदिनं गाढं तद्गोलं पूर्ववत्पचेत् । भस्मीभवति सूतेन्द्रः शङ्खकुन्देन्दुसन्निभः ॥ १,९.२० ॥ <जारितरसमारणम्; प्रथमः प्रकारः> अथ वक्ष्यामि देवेशि जारितं रसमारणम् । प्रथमं जारणं कुर्यात्सबीजं सुरनायिके ॥ १,९.२१ ॥ अजारितं रसं मूढः प्रमादान्मारयेद्यदि । मम द्रोही स पापिष्ठो महापातकवान् भवेत् ॥ १,९.२२ ॥ भ्रूणहा गुरुघाती च गोघ्नः स्त्रीबालघातकः । तस्मात्सर्वप्रयत्नेन कुर्याज्जारणपूर्वकम् ॥ १,९.२३ ॥ मारणं रसराजस्य मम बीजस्य पार्वति । धरायां गोमयं देवि स्थापयित्वा तत उपरि ॥ १,९.२४ ॥ पक्वमूषायां विनिक्षिप्य तन्मध्ये कटुतुम्बिजम् । तैलं निधाय सूतं च निक्षिपेच्च तत उपरि ॥ १,९.२५ ॥ काकमाचीरसो देयस्तैलतुल्यो वरानने । शुद्धं गन्धं व्रीहिमात्रं दत्त्वा मूषां निरोधयेत् ॥ १,९.२६ ॥ तदूर्ध्वं खादिराङ्गारपूरितं श्रावकं न्यसेत् । ज्ञात्वा तत्स्वाङ्गशीतत्वं पुनर्गन्धं च तैलकम् ॥ १,९.२७ ॥ काकमाचीद्रवं दत्त्वा वह्निमेवं पुनः पुनः । अधस्ताद्गोमयं सान्द्रमुपरिष्टाच्च पावकम् ॥ १,९.२८ ॥ काकमाचीद्रवः सूतस्तैलं चैतत्त्रयं समम् । जारयेत्षड्गुणं गन्धं रसस्येत्थं मुखीकृतिः ॥ १,९.२९ ॥ दिनं जम्बीरनीरेण मर्दयेत्तं रसं पुनः । चतुः षष्ट्यंशकं हेम्नः पत्रं कण्टकभेदनम् ॥ १,९.३० ॥ मयूरपित्तं तैलं च लिपेत्सर्षपसंभवम् । अभावे तैलपित्तस्य चूलिकालवणं बलिम् ॥ १,९.३१ ॥ जम्बीरस्य रसैर्मर्द्यं तं रसं हेमपत्रकम् । पाचयेत्पूर्ववद्वह्नौ जम्बीरस्य रसैः पुनः ॥ १,९.३२ ॥ सम्पूर्णां रोधयेन्मूषां पूर्ववज्जारयेत्पुनः । द्वात्रिंशदंशकं हेम षोडशांशं तत उपरि ॥ १,९.३३ ॥ मर्दयेज्जारयेदेवं ततः सूतस्य मारणम् । समूलां कुम्भिमादाय गवां मूत्रेण पेषयेत् ॥ १,९.३४ ॥ दिनमेकं तद्रसेन मर्दयेत्पारदं सुधीः । संपुटे कान्तजे क्षिप्त्वा चोर्ध्वाधश्च नियामकान् ॥ १,९.३५ ॥ चुल्ल्यां मृद्वग्निना पाच्यं दिनं भस्म भवेद्रसः । अक्षीणो मृत्युनाशी स्याज्जरादारिद्र्यनाशनः ॥ १,९.३६ ॥ <द्वितीयः प्रकारः> वासितं पारदं कर्षमष्टगुञ्जाः सुवर्णकम् । मृतं वज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः ॥ १,९.३७ ॥ तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् । पचेद्भूधरयन्त्रे च पुनरादाय तं रसम् ॥ १,९.३८ ॥ हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् । पूर्ववद्भूधरे यन्त्रे पचेत्सूतं पुनः पुनः ॥ १,९.३९ ॥ एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् । एतानि रसभस्मानि शस्तानि च रसायने ॥ १,९.४० ॥ <रसायनयोगाः; अभ्रकरसायनम्> एकद्वित्रिचतुःपञ्चयोगयुक्तं रसायनम् । क्रमाद्वक्ष्यामि देवेशि तत्राप्यभ्रकसेवनम् ॥ १,९.४१ ॥ वमनादिविशुद्धात्मा त्यक्तक्षाराम्लकादिकः । पूर्ववद्भस्मयेद्व्योमसत्वं भृङ्गवरारसैः ॥ १,९.४२ ॥ त्रिः सप्तधा भावनीयं प्रातर्गुञ्जाद्वयं भजेत् । ससितं तदनु क्षौद्रं घृतैः सत्रिफलं लिहेत् ॥ १,९.४३ ॥ द्वात्रिंशद्गुञ्जका वृद्धिः क्रामणं कर्षमात्रकम् । एष षोडशमासान्ते सर्वरोगाद्विमुच्यते ॥ १,९.४४ ॥ स भवेत्कान्तसेवार्हस्त्वेवमभ्रकसेवया । <कान्तरसायनम्> पूर्ववद्भस्मयेत्कान्तं वरानिर्गुण्डिभृङ्गजैः ॥ १,९.४५ ॥ रसैस्त्रिसप्तवाराणि मर्दयेद्भावयेत्क्रमात् । क्षौद्राज्याभ्यां लिहेत्प्रातर्नित्यं गुञ्जाद्वयोन्मितम् ॥ १,९.४६ ॥ अनु भक्ष्यं सिन्दुवारवराभृङ्गभवं रजः । मध्वाज्याभ्यां कर्षमात्रं शुद्धाङ्गो वमनादिभिः ॥ १,९.४७ ॥ द्वात्रिंशद्गुञ्जिका वृद्धिः परमावधिरीश्वरि । भवेत्षोडशमासान्ताज्जराव्याधिभिरुज्झितः ॥ १,९.४८ ॥ कान्तस्य सेवया पश्चाद्भवेत्कान्ताभ्रकार्हकः । <कान्ताभ्ररसायनम्> मृतं कान्तं घनं तुल्यं धात्रीभृङ्गपुनर्नवाः ॥ १,९.४९ ॥ द्रवैरेषां पृथङ्मर्द्यं कल्ये गुञ्जाद्वयं लिहेत् । शर्करामधुसर्पिर्भिः शुद्धात्मा वमनादिभिः ॥ १,९.५० ॥ भृङ्गामलकवर्षाभूचूर्णं क्रामणमुत्तमम् । मध्वाज्यैरनु लेह्यं तद्द्वात्रिंशद्गुञ्जकावधि ॥ १,९.५१ ॥ मासषोडशयोगेन वलीपलितजिद्बली । कान्ताभ्रसत्वभजनाद्धेमसेवार्हको भवेत् ॥ १,९.५२ ॥ <स्वर्णरसायनम्> पूर्ववद्भस्मयेत्स्वर्णं दशमूलकषायतः । एकविंशतिवारं तं मर्दयेद्भावयेत्प्रिये ॥ १,९.५३ ॥ मध्वाज्याभ्यां मुद्गमानं लिहेत्प्रातर्विशुद्धधीः । गुडूचीत्रिफलाक्वाथं पलं चानुपिबेत्सुधीः ॥ १,९.५४ ॥ अष्टगुञ्जावधिर्वृद्धिर्भवेत्षोडशमासतः । तेजस्वी बलवान्धीमांश्चक्षुष्मान् रोगवर्जितः ॥ १,९.५५ ॥ वलीपलितनिर्मुक्तस्त्रिकालविषजिद्भवेत् । <स्वर्णाभ्रकरसायनम्> पूर्ववन्मारयेत्स्वर्णं तस्माद्द्विगुणमभ्रकम् ॥ १,९.५६ ॥ दशमूलवराभृङ्गीक्वाथैर्भाव्यं त्रिसप्तधा । प्रातर्माषत्रयं लेह्यं मध्वाज्यैः क्रामणं लिहेत् ॥ १,९.५७ ॥ पलं गुडूचीत्रिफलाक्वाथं तदनु पार्वति । चतुर्विंशतिगुञ्जास्य वृद्धिः स्यात्परमावधिः ॥ १,९.५८ ॥ मासषोडशयोगेन दिव्यतेजा महाबलः । घनकाञ्चनयोगेन स्वर्णकान्तार्हको भवेत् ॥ १,९.५९ ॥ <स्वर्णकान्तरसायनम्> पूर्ववन्मारयेत्स्वर्णं कान्तं स्वर्णद्विभागकम् । धात्रीफलैर्द्विसप्तैव भावयेन्मर्दयेत्क्रमात् ॥ १,९.६० ॥ सशर्करं भजेत्प्रातस्त्रिमाषं च पिबेदनु । धात्रीसत्वं घृतं क्षौद्रं कर्षमात्रं सुरेश्वरि ॥ १,९.६१ ॥ चतुर्विंशतिका गुञ्जा वृद्धिः स्यात्परमावधिः । मासषोडशयोगेन वलीपलितवर्जितः ॥ १,९.६२ ॥ तप्तकाञ्चनसच्छायः पञ्चबाण इवापरः । हेमकान्तास्वादनेन कान्ताभ्रकनकार्हकः ॥ १,९.६३ ॥ <स्वर्णाभ्रकान्तरसायनम्> पूर्ववन्मारयेत्स्वर्णं कान्तसत्त्वाभ्रसत्वकम् । समानि त्रीणि चैतानि भावयेच्च त्रिसप्तकम् ॥ १,९.६४ ॥ मुण्डिनिर्गुण्डिकाभृङ्गवरानीरेण पार्वति । माषत्रयोन्मितं प्रातर्लिहेत्क्षौद्रघृताप्लुतम् ॥ १,९.६५ ॥ मुण्डीचूर्णं कर्षमात्रं मध्वाज्याभ्यां लिहेदनु । गोक्षीरं पलमात्रं च पिबेत्तदनु पार्वति ॥ १,९.६६ ॥ वल्लद्वादशसंख्याता परा वृद्धिर्भवेत्प्रिये । मासषोडशयोगे दिव्यकायो भवेन्नरः ॥ १,९.६७ ॥ हेमाभ्रकान्तभजनाद्योग्यः स्याद्वज्रभक्षणे । <वज्ररसायनम्> पूर्ववद्भस्मयेद्वज्रं धात्रीनीरेण मर्दयेत् ॥ १,९.६८ ॥ भावयेत्सप्तधा धीमान्व्रीहिमात्रं लिहेत्प्रिये । घृतक्षौद्रयुतं चानुपिबेद्धात्रीरसं पलम् ॥ १,९.६९ ॥ वल्लावधिर्भवेद्वृद्धिर्मासषोडशयोगतः । चिरजीवी वज्रकायो दिव्यदृष्टिर्महाबलः ॥ १,९.७० ॥ वज्रस्य सेवया योग्यो भवेद्वज्राभ्रभक्षणे । <वज्राभ्ररसायनम्> पूर्ववन्मारयेद्व्योम वज्रं वज्राच्चतुर्गुणम् ॥ १,९.७१ ॥ घनं धात्र्याः शतावर्या रसैर्भाव्यं त्रिसप्तधा । यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां लिहेदनु ॥ १,९.७२ ॥ धात्रीशतावरीनीरं क्रामणं पलमात्रकम् । चतुर्गुञ्जा परा वृद्धिर्भवेत्षोडशमासतः ॥ १,९.७३ ॥ वाक्सिद्धिर्दिव्यदृष्टिः स्याद्देवतासदृशप्रभः । सेवया घनवज्रस्य कान्तवज्रार्हको भवेत् ॥ १,९.७४ ॥ <कान्तवज्ररसायनम्> पूर्ववद्भस्मयेद्वज्रं कान्तं वज्राच्चतुर्गुणम् । कान्तं त्रिसप्तधा भाव्यमश्वगन्धावरारसैः ॥ १,९.७५ ॥ यवमात्रं क्षौद्रघृतैर्युक्तं लेह्यं दिनोदये । अश्वगन्धावराचूर्णं कर्षं गोपयसा पिबेत् ॥ १,९.७६ ॥ चतुर्गुञ्जावधिर्ज्ञेया वृद्धिः स्यात्परमावधिः । मासषोडशयोगेन बालसूर्यसमद्युतिः ॥ १,९.७७ ॥ महाबलो महातेजा वाक्सिद्धः सिद्धतां व्रजेत् । सेवया वज्रकान्तस्य वज्रकान्ताभ्रकार्हकः ॥ १,९.७८ ॥ <वज्राभ्रकरसायनम्> पूर्ववन्मारयेद्वज्रं कान्ताभ्राणि च हीरकात् । चतुर्गुणे च कान्ताभ्रे वराभृङ्गकुरण्डजैः ॥ १,९.७९ ॥ रसैस्त्रिसप्तधा भाव्यं यवमात्रं लिहेत्प्रिये । समध्वाज्यं भृङ्गवराकुरण्डकरजोयुतम् ॥ १,९.८० ॥ पलं पिबेच्च गोक्षीरं चतुर्गुञ्जापरावधिः । मासषोडशयोगेन गृध्रदृष्टिर्महाबलः ॥ १,९.८१ ॥ अव्याहतगतिर्धीरः सिद्धसंघेन वर्तते । कान्ताभ्रवज्रभजनाद्योग्यः स्याद्धेमवज्रयोः ॥ १,९.८२ ॥ <स्वर्णवज्ररसायनम्> पूर्ववन्मारयेद्वज्रं स्वर्णं वज्राद्द्विभागकम् । सुवर्णवज्रं वर्षाभूरसैर्भाव्यं त्रिसप्तधा ॥ १,९.८३ ॥ व्रीहिमेयं लिहेत्क्षौद्रघृताभ्यां च पुनर्नवाम् । कर्षं पलं च गोक्षीरमनुपेयं सुरेश्वरि ॥ १,९.८४ ॥ द्विगुञ्जावधि वृद्धिः स्यान्मासषोडशयोगतः । चिरकालं भवेज्जीवी वलीपलितवर्जितः ॥ १,९.८५ ॥ वज्रहेमोपयोगेन स्वर्णाभ्रकुलिशार्हकः । <स्वर्णाभ्रवज्ररसायनम्> पूर्ववद्भस्मयेद्धेमघनवज्राणि पार्वति ॥ १,९.८६ ॥ हीरकाद्द्विगुणं स्वर्णं स्वर्णादभ्रं द्विभागकम् । मुसलीकन्दसारेण भावनीयं त्रिसप्तधा ॥ १,९.८७ ॥ यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु । कर्षं स्यान्मुसलीचूर्णं गोक्षीरं पलमात्रकम् ॥ १,९.८८ ॥ चतुर्गुञ्जावधिर्वृद्धिर्मासषोडशयोगतः । मृत्युं जयेज्जराहीनो वज्रकायो महाबलः ॥ १,९.८९ ॥ एतस्य सेवया वज्रहेमकान्तार्हको भवेत् । <स्वर्णवज्रकान्तरसायनम्> वज्रकान्तसुवर्णानि पूर्ववन्मारितानि च ॥ १,९.९० ॥ वज्रात्सुवर्णं द्विगुणं स्वर्णात्कान्तं द्विभागकम् । धात्रीभृङ्गरसैर्मर्द्यमेकविंशतिवारकम् ॥ १,९.९१ ॥ यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु । धात्रीभृङ्गभवं चूर्णं कर्षं गोदुग्धकं पलम् ॥ १,९.९२ ॥ गुञ्जाचतुष्टयी वृद्धिर्मासषोडशयोगतः । वलीपलितनिर्मुक्तो दिव्यतेजा महाबलः ॥ १,९.९३ ॥ एतस्य सेवया कान्तस्वर्णवज्राभ्रकार्हकः । <स्वर्णकान्तवज्राभ्रकरसायनम्> भस्मयेत्स्वर्णकान्ताभ्रवज्राणि च यथोक्तवत् ॥ १,९.९४ ॥ ज्योतिष्मतीरसैर्भाव्यमेकविंशतिवारकम् । यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥ १,९.९५ ॥ अश्वगन्धाकन्दचूर्णं कर्षं गोदुग्धकं पलम् । गुञ्जाचतुष्टयी वृद्धिः परमावधिरीश्वरि ॥ १,९.९६ ॥ मासषोडशयोगेन साक्षादिन्द्रसमो भवेत् । एतस्य सेवया देवि रसं सेवितुमर्हति ॥ १,९.९७ ॥ <रसभस्म> धान्याभ्रं पारदं मर्द्यं तप्तखल्वे दिनत्रयम् । त्रिफलारग्वधनिशाकुमारीकृष्णधूर्तजैः ॥ १,९.९८ ॥ पुनर्नवाग्निजंबीरभवैर्नीरैर्विमर्दयेत् । पातयेत्पातनायन्त्रे त्वेवं मर्दनपातनम् ॥ १,९.९९ ॥ कुर्यात्त्रिवारं शुद्धः स्यात्पारदो दोषवर्जितः । नियामकैर्मर्दयेत्तं मूषालेपं नियामकैः ॥ १,९.१०० ॥ कृत्वा तं मर्दितं सूतं मूषायां निक्षिपेत्सुधीः । अन्ध्रयित्वा भूधराख्ये यन्त्रे पाच्यं सुरेश्वरि ॥ १,९.१०१ ॥ एवं च सप्तधा कुर्यान्मर्दनं पुटपाचनम् । रसभस्म भवेच्छुभ्रं योज्यं योगे रसायने ॥ १,९.१०२ ॥ <आरोटकरसाः; अभ्रकजीर्णरसभस्म> अथ चारोटकरसं देहसिद्ध्येककारणम् । माषमात्रं लिहेत्प्रातर्मध्वाज्यत्रिफलैः सह ॥ १,९.१०३ ॥ धारोष्णं गोपयः पेयं मात्रमनु प्रिये । अष्टगुञ्जावधिं वृद्धिं कृत्वा षोडशमासकम् ॥ १,९.१०४ ॥ वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् । एतस्य सेवया देवि ह्यभ्रसूतार्हको भवेत् ॥ १,९.१०५ ॥ मुखीकृते रसे देवि चतुःषष्टिकनिष्कके । अभ्रसत्वं निष्कमात्रं क्षिप्त्वा जम्बीरजैर्द्रवैः ॥ १,९.१०६ ॥ तप्तखल्वे मर्दयेच्च दिनं कच्छपयन्त्रके । सबिडं च पचेत्पश्चात्तमादाय विमर्दयेत् ॥ १,९.१०७ ॥ अभ्रसत्वं द्विनिष्कं च जम्बीराम्लेन पार्वति । तप्तखल्वे कच्छपाख्ये यन्त्रे पचनकर्म च ॥ १,९.१०८ ॥ तृतीये च चतुर्निष्कं चतुर्थे पञ्चमे क्रमात् । अष्टनिष्काभ्रसत्वं च दद्यात्पञ्चमपातने ॥ १,९.१०९ ॥ घनषोडशनिष्कं च षष्ठे द्वात्रिंशदंशकम् । सत्त्वं सप्तमे स्यात्सममेव हि पार्वति ॥ १,९.११० ॥ पारदेऽभ्रकसत्वस्य जारणा भवति प्रिये । एवं जारितसूतेन्द्रं भस्मीकुर्याच्च पूर्ववत् ॥ १,९.१११ ॥ पलं चैतत्सूतभस्म व्योमसत्वं चतुष्पलम् । भृङ्गराजद्रवैर्मर्द्यं मूषायामन्धयेद्दृढम् ॥ १,९.११२ ॥ कुक्कुटाख्ये पुटे पच्यात्स्वाङ्गशीतं समाहरेत् । त्रिफलाभृङ्गजैर्नीरैर्भावयेत्तत्त्रिसप्तधा ॥ १,९.११३ ॥ मध्वाज्याभ्यां गुञ्जमात्रं लिहेत्प्रातर्विशुद्धधीः । पिबेदनु वराक्वाथं पलं नियतमानसः ॥ १,९.११४ ॥ गुञ्जाषोडशिका वृद्धिः सेव्यं षोडशमासतः । आचन्द्रतारकं जीवेद्वलीपलितवर्जितः ॥ १,९.११५ ॥ एतस्य सेवया कान्तसूतसेवार्हको भवेत् । <कान्तजीर्णरसभस्म> मुखीकृते सूतराजे यथाभूदभ्रजारणा ॥ १,९.११६ ॥ तथैव कान्तसत्वस्य जारणा भवति प्रिये । मारयेत्पूर्ववत्सूतं कान्तसत्वेन जारितम् ॥ १,९.११७ ॥ एवंविधं सभस्म भागमेकं भवेत्पुनः । चतुर्भागं कान्तभस्म मर्दयेत्त्रिफलाम्बुना ॥ १,९.११८ ॥ मूषायामन्ध्रयेत्पश्चात्पचेत्कौक्कुटिके पुटे । तमादाय वरानीरैर्भावयेच्च त्रिसप्तधा ॥ १,९.११९ ॥ मध्वाज्याभ्यां लिहेद्गुञ्जामात्रं प्रातरतन्द्रितः । अनुपेयं च गोक्षीरं पलमात्रं सुरेश्वरि ॥ १,९.१२० ॥ गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः । दिव्यदृष्टिं खेचरत्वं प्राप्नुयादैन्द्रकं पदम् ॥ १,९.१२१ ॥ एतस्य सेवया सूतघनकान्तार्हको भवेत् । मुखीकृतरसे कुर्यात्पूर्ववद्व्योमजारणम् ॥ १,९.१२२ ॥ <कान्ताभ्रकजीर्णरसभस्म> समं सूतस्य देवेशि पश्चात्कार्यं विचक्षणैः । पूर्ववत्कान्तसत्वस्य जारणा सूतराट्समा ॥ १,९.१२३ ॥ कान्तसत्वाभ्रसत्वाभ्यां जारितः पारदो यदि । स रसः पक्षहीनः स्याच्चाञ्चल्यरहितः शिवः ॥ १,९.१२४ ॥ तं रसं पूर्ववद्दिव्यैरौषधैर्मारितं रसम् । पलं तद्द्विगुणं व्योमसत्वभस्म च तत्समम् ॥ १,९.१२५ ॥ भस्म वैक्रान्तसत्वस्य मर्द्यमेवं त्रयं त्रिधा । भृङ्गधात्रीफलरसे ततो लघुपुटे पचेत् ॥ १,९.१२६ ॥ भृङ्गधात्रीफलरसैश्छायायां भावयेद्रसम् । त्रिफलामधुसर्पिर्भिर्गुञ्जामात्रं लिहेदनु ॥ १,९.१२७ ॥ पिबेत्पलं च गोक्षीरं वृद्धिः षोडशगुञ्जिका । मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥ १,९.१२८ ॥ एतस्य सेवया सूतस्वर्णसेवार्हको भवेत् । <स्वर्णजीर्णरसभस्म> हेमजीर्णं सूतराजं भस्मीकुर्याच्च पूर्ववत् ॥ १,९.१२९ ॥ एवंविधं सूतभस्म पलं स्वर्णपलद्वयम् । भृङ्गधात्रीफलरसैश्छायायां भावयेत्त्रिधा ॥ १,९.१३० ॥ रुद्ध्वा तं संपुटे पच्यात्कुक्कुटाख्ये पुटे पचेत् । पुनस्त्रिसप्तधा भृङ्गधात्रीनीरैश्च भावयेत् ॥ १,९.१३१ ॥ माषमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां युतं रसम् । अनुपेयं च गोक्षीरं वृद्धिः षोडशमाषकम् ॥ १,९.१३२ ॥ मासषोडशयोगेन देवतुल्यश्चिरायुषः । सेवया स्वर्णसूतस्य घनहेमरसार्हकः ॥ १,९.१३३ ॥ <स्वर्णाभ्रकजीर्णरसभस्म> मुखीकृतरसे चाभ्रसत्वं जार्यं समं पुरा । ततः स्वर्णं समं जार्यं तं सूतं भस्मयेत्ततः ॥ १,९.१३४ ॥ पूर्वोक्तवत्सूतभस्म पलं स्वर्णपलद्वयम् । चतुष्पलं व्योमसत्वभस्म चैकत्र योजयेत् ॥ १,९.१३५ ॥ नीलीपत्ररसे मर्द्यं वराक्वाथे दिनं प्रिये । रुद्ध्वा तं संपुटे पच्यादन्यैर्विंशतिगोमयैः ॥ १,९.१३६ ॥ नीलीरसवराक्वाथैर्भावयेत्तं त्रिसप्तधा । गुञ्जोन्मेयं लिहेत्कल्ये मध्वाज्याभ्यां पिबेदनु ॥ १,९.१३७ ॥ पलमात्रं वराक्वाथं वृद्धिः षोडशगुञ्जिका । मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥ १,९.१३८ ॥ एतस्य सेवया कान्तहेमसूतार्हको भवेत् । <स्वर्णकान्तजीर्णरसभस्म> समुखे पारदे कान्तसत्वं जार्यं यथोक्तवत् ॥ १,९.१३९ ॥ जारयेच्च तथा स्वर्णं द्वाभ्यां जीर्णं समं समम् । विधिना भस्मयेत्सूतं कान्तहाटकजारितम् ॥ १,९.१४० ॥ तं रसं पलमेकं च हेमभस्म पलद्वयम् । चलं कान्तसत्वभस्म युञ्ज्याद्यथाविधि ॥ १,९.१४१ ॥ शतावरीवरानीरे दिनं संमर्द्य संपुटे । रुद्ध्वा तं कुक्कुटपुटे पचेदादाय तं रसम् ॥ १,९.१४२ ॥ त्रिः सप्तधा शतावर्या रसैर्भाव्यं वरारसैः । गुञ्जामात्रं घृतक्षौद्रयुक्तं लेह्यं पिबेदनु ॥ १,९.१४३ ॥ शतावरीरसः पेयः पलमात्रं सुरेश्वरि । गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः ॥ १,९.१४४ ॥ वलीपलितनिर्मुक्तः प्रलयान्तं च जीवति । एतस्य सेवया स्वर्णकान्ताभ्ररसभुग्भवेत् ॥ १,९.१४५ ॥ <स्वर्णकान्ताभ्रजीर्णरसभस्म> घनकान्तसुवर्णानि चैकैकानि समानि वै । मुखीकृतस्य सूतस्य जारयेत्क्रमशः प्रिये ॥ १,९.१४६ ॥ घनादिजारितं सूतं मारयेत्पूर्ववत्सुधीः । तस्माद्भस्मीकृतात्सूताद्द्विगुणं हेमभस्म च ॥ १,९.१४७ ॥ हेमतुल्यं मृतं कान्तं कान्ततुल्यं मृतं घनम् । एतत्सर्वं वराक्वाथमुण्डीभृङ्गरसैर्दिनम् ॥ १,९.१४८ ॥ मर्दयेत्संपुटे रुद्ध्वा पचेत्कौक्कुटिके पुटे । तदादाय वराभृङ्गमुण्डिनीरैश्च भावयेत् ॥ १,९.१४९ ॥ त्रिः सप्तवारं छायायां प्रातर्गुञ्जोन्मितं लिहेत् । शर्करामधुसर्पिर्भिरनुपेयं च गोपयः ॥ १,९.१५० ॥ गुञ्जाषोडशिका वृद्धिर्मासषोडशयोगतः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ १,९.१५१ ॥ एतस्य सेवया सूतवज्रसेवार्हको भवेत् । <वज्रजीर्णरसभस्म> समुखे पारदे कुर्यात्पूर्ववद्वज्रजारणाम् ॥ १,९.१५२ ॥ वज्रजीर्णं रसं देवि भस्मीकुर्याच्च पूर्ववत् । भस्मीभूतरसाद्वज्रभस्म च द्विगुणं प्रिये ॥ १,९.१५३ ॥ कन्याभृङ्गवरानीरैर्दिनं मर्द्यं च संपुटे । कुक्कुटाख्ये पुटे पच्यात्तमादायाथ भावयेत् ॥ १,९.१५४ ॥ कन्याभृङ्गवरानीरैर्भावयेच्च त्रिसप्तधा । यवमात्रं लिहेत्प्रातर्मध्वाज्याभ्यां पिबेदनु ॥ १,९.१५५ ॥ गोक्षीरं पलमात्रं तु वृद्धिर्गुञ्जाचतुष्टयम् । मासषोडशयोगेन जीवेदाचन्द्रतारकम् ॥ १,९.१५६ ॥ एतस्य सेवया वज्रसूतव्योमार्हको भवेत् । <वज्राभ्रकजीर्णरसभस्म> घनजीर्णं वज्रजीर्णं भस्मीकुर्याद्रसं सुधीः ॥ १,९.१५७ ॥ भस्मीभूताद्रसाद्वज्रं द्विगुणं व्योमभस्म च । चतुर्गुणं च तत्सर्वमेकीकृत्य विमर्दयेत् ॥ १,९.१५८ ॥ वराक्वाथे रसैर्दिनं संपुटके पचेत् । कृते लघुपुटे पश्चाद्भाव्यं भृङ्गवरारसैः ॥ १,९.१५९ ॥ त्रिसप्तधा समध्वाज्यं माषमात्रं पिबेदनु । गव्यं क्षीरपलं पेयं वृद्धिर्गुञ्जाष्टकावधिः ॥ १,९.१६० ॥ एवं षोडशमासेन जीवेदाचन्द्रतारकम् । एतस्य सेवया कान्तवज्रसूतार्हको भवेत् ॥ १,९.१६१ ॥ <कान्तवज्रजीर्णरसभस्म> कान्तं वज्रं समं जार्यं समुखे पारदे प्रिये । कान्तहीरकजीर्णं तं पारदं मारयेत्सुधीः ॥ १,९.१६२ ॥ पूर्वोक्तविधिना कान्ते एतत्पारदभस्म च । पारदाद्द्विगुणं वज्रं वज्रात्कान्तं चतुर्गुणम् ॥ १,९.१६३ ॥ पलाशपुष्पस्वरसैर्दिनं मर्द्यं च संपुटे । रुद्ध्वा कुक्कुटके पश्चात्तमादायाथ भावयेत् ॥ १,९.१६४ ॥ पलाशपुष्पनीरेण भावयेत्तं त्रिसप्तधा । समध्वाज्यं माषमात्रं लिहेदनु पिबेत्पयः ॥ १,९.१६५ ॥ अष्टगुञ्जावधिर्वृद्धिर्भवेत्षोडशमासतः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ १,९.१६६ ॥ एतस्य सेवया वज्ररसकान्ताभ्रकार्हकः । <कान्तवज्राभ्रकजीर्णरसभस्म> समुखे पारदे व्योमकान्तवज्राणि च क्रमात् ॥ १,९.१६७ ॥ समानि जारयेत्पश्चाज्जीर्णं तं मारयेद्रसम् । पूर्ववत्पारदाद्वज्रं समं वज्रचतुर्गुणम् ॥ १,९.१६८ ॥ कान्तं कान्तसमं व्योमसत्वं चैतानि मर्दयेत् । त्रिफलाभृङ्गजरसै रुद्ध्वा संपुटके पचेत् ॥ १,९.१६९ ॥ लघुनाग्निपुटेनैव तमादायाथ भावयेत् । वराभृङ्गरसैरेकविंशतिं वारमातपे ॥ १,९.१७० ॥ माषमात्रं समध्वाज्यं लिहेत्प्रातर्विशुद्धधीः । अनुपेयं च गोक्षीरं वृद्धिर्गुञ्जाष्टकं भवेत् ॥ १,९.१७१ ॥ मासषोडशयोगेन जीवेदाचन्द्रतारकम् । एतस्य सेवया हेमवज्रसूतार्हको भवेत् ॥ १,९.१७२ ॥ <स्वर्णवज्रजीर्णरसभस्म> समुखे पारदे तुल्ये हेम वज्रं च जारयेत् । तं रसं भस्मयेद्देवि रसं वज्रं समं समम् ॥ १,९.१७३ ॥ तयोः समं मृतं हेम वराक्वाथेन मर्दयेत् । तत्सर्वं संपुटे क्षिप्त्वा भूधराख्ये पुटे पचेत् ॥ १,९.१७४ ॥ तमादाय वराक्वाथैर्भावयेच्च त्रिसप्तधा । माषमात्रं लिहेत्प्रातस्तिलाज्यमधुसंयुतम् ॥ १,९.१७५ ॥ गोक्षीरमनुपेयं स्यादष्टगुञ्जावधि क्रमात् । मासषोडशपर्यन्तं जीयादाचन्द्रतारकम् ॥ १,९.१७६ ॥ एतस्य सेवया व्योमहेमवज्ररसार्हकः । <स्वर्णवज्राभ्रकजीर्णरसभस्म> समुखे पारदे व्योमहेमवज्राणि जारयेत् ॥ १,९.१७७ ॥ पारदस्य समांशानि ततः सूतं विमारयेत् । रसतुल्यं मृतं वज्रं तयोस्तुल्यं च हाटकम् ॥ १,९.१७८ ॥ सर्वतुल्यं रसं व्योम तत्सर्वं ब्रह्मबीजकैः । तैलैस्त्र्यहं पेषयित्वा संपुटेद्भूधरे पुटे ॥ १,९.१७९ ॥ तं पलाशकषायेण भावनाश्चैकविंशतिः । तं रसं माषमात्रं च तैलं ब्रह्मद्रुबीजकम् ॥ १,९.१८० ॥ कर्षमात्रं पिबेच्चानु यावद्गुञ्जाष्टकावधि । मासषोडशयोगेन सिद्धो भवति शाश्वतः ॥ १,९.१८१ ॥ एतस्य सेवया कान्तहेमवज्ररसार्हकः । <स्वर्णकान्तवज्रजीर्णरसभस्म> मुखीकृते सूतराजे कान्तं स्वर्णं समं समम् ॥ १,९.१८२ ॥ जारयेद्भस्मयेत्तं च तत्समं वज्रभस्म च । तयोस्तुल्यं मृतं हेम कान्तं सर्वसमं प्रिये ॥ १,९.१८३ ॥ वराभृङ्गरसे पिष्ट्वा भूधरे संपुटे पचेत् । ततो भृङ्गवरानीरैरेकविंशतिभावनाः ॥ १,९.१८४ ॥ वराक्षौद्रैर्लिहेत्प्रातर्माषमात्रं रसं सुधीः । गव्यं पयः पलं पेयं वृद्धिः षोडशमाषिका ॥ १,९.१८५ ॥ मासषोडशयोगेन भवेत्सिद्धसमः प्रभुः । एतस्य सेवया व्योमकान्तहेमपवीरसम् ॥ १,९.१८६ ॥ सेवितुं जायतेऽर्होऽसौ संयतात्मा महेश्वरः । <स्वर्णकान्तवज्राभ्रकजीर्णरसभस्म> घनकान्तस्वर्णवज्रं जारयेत्समुखे रसे ॥ १,९.१८७ ॥ प्रत्येकं पारदसममेव कार्यं सुरेश्वरि । ततस्तं मारयेद्युक्त्या रसतुल्यं मृतं पविम् ॥ १,९.१८८ ॥ तयोस्तुल्यं मृतं हेम सर्वतुल्यं मृतं घनम् । घनतुल्यमयस्कान्तं सर्वतुल्यं सुरद्रुजैः ॥ १,९.१८९ ॥ तैलैस्ततः संपुटे च क्षिप्त्वा भूधरके पचेत् । गुञ्जामात्रं रसं चैतं लिहेत्प्रातः शुचिः सुधीः ॥ १,९.१९० ॥ देवदारुजतैलेन कर्षमात्रं तु पार्वति । धारोष्णं गोपयः पेयं पलमात्रमनु प्रिये ॥ १,९.१९१ ॥ गुञ्जाषोडशपर्यन्तं मासषोडशयोगतः । य इमं पारदं दिव्यं सेवते पथ्यभुक्सदा ॥ १,९.१९२ ॥ व्याधिजन्मजरामृत्युवर्जितः सर्वसिद्धिभाक् । सर्वज्ञः सर्वगः सिद्धः सृजतीव पितामहः ॥ १,९.१९३ ॥ विष्णुवत्त्रायते विश्वं हरतीव हरः स्वयम् । वाञ्छितार्थान् स्वयं दत्ते कल्पद्रुम इवापरः ॥ १,९.१९४ ॥ कन्दर्प इव कामाक्षीः सहस्रं रमयेत्क्षणात् । सच्चिदानन्दरूपोऽयं रससेवी भवेद्ध्रुवम् ॥ १,९.१९५ ॥ घनादिपञ्चयोगोत्थमेकत्रिंशद्रसायनम् । भवत्स्नेहेन कथितं रहस्यं देवदुर्लभम् ॥ १,९.१९६ ॥ आक्, १, १० <घुटिकासिद्धिः> प्रणम्य परया भक्त्या भैरवं भैरवी शिवम् । उवाच विनयेनेदं लोकानां हितकांक्षिणी ॥ १,१०.१ ॥ श्रीभैरवी । देवदेव कृपामूर्ते सर्वानुग्राहक प्रभो । त्वत्प्रसादान्मया ज्ञातं रहस्यमतिदुर्लभम् ॥ १,१०.२ ॥ कान्ताभ्रहेमकुलिशरसभस्म रसायनम् । अतः परं महादेव श्रोतुमिच्छामि भैरव ॥ १,१०.३ ॥ एतैर्घनाद्यै रचितघुटिकानां रसायनम् । श्रुत्वा सविनयं वाक्यं भैरव्यास्त्वादिभैरवः ॥ १,१०.४ ॥ स्थित्वेत्युवाच वचनं तद्वक्ष्यामि रसायनम् । श्रीभैरवः । <१. सञ्जीवनी घुटिका> शृणु पार्वति यत्नेन सावधानेन साम्प्रतम् ॥ १,१०.५ ॥ प्रथमं जारणं कार्यं पश्चात्पारदबन्धनम् । तस्माज्जारणबीजानि घनादीनां वदामि ते ॥ १,१०.६ ॥ गन्धतालशिलातुत्थखर्परीहिङ्गुलामलाः । भूनागताप्यकासीसनृपावर्ताभ्रगैरिकम् ॥ १,१०.७ ॥ कान्तत्रिक्षारवैक्रान्तास्त्वेते चूर्णसमांशकः । सिद्धचूर्णमिदं ख्यातं श्रेष्ठं स्याद्बीजकर्मणि ॥ १,१०.८ ॥ द्वन्द्वमेलोपलिप्तायां मूषायां निक्षिपेत्प्रिये । कृष्णसत्वाभ्रसत्वं च द्रावयेत्समशुल्बकम् ॥ १,१०.९ ॥ समित्रपञ्चकं तस्मिन्सिद्धचूर्णं मुहुर्मुहुः । घनाद्दशगुणं क्षेप्यं धमेद्गाढं वरानने ॥ १,१०.१० ॥ घनसत्वावशिष्टं स्याद्धमनीयं च तावता । कालेनेदं व्योमसत्वबीजं जार्यं रसायने ॥ १,१०.११ ॥ समुखे पारदे बीजं चतुःषष्ट्यंशके क्षिपेत् । तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ १,१०.१२ ॥ तं सूतं कच्छपे यन्त्रे सबिडे जारयेत्प्रिये । ततो द्वात्रिंशदंशं च षोडशांशं रसस्य तु ॥ १,१०.१३ ॥ अष्टमांशं चतुर्थांशं द्व्यंशं चैव समांशकम् । पारदे जारयेदेवं क्रमाद्बीजं सुरेश्वरि ॥ १,१०.१४ ॥ सूतमेवंविधं व्योमसत्वं बीजसमं प्रिये । तप्तखल्वेऽम्लवर्गेण मर्दयेदेकवासरम् ॥ १,१०.१५ ॥ पिष्टिं पारदराजं तं जम्बीरान्तर्विनिक्षिपेत् । दोलायन्त्रेऽम्लयुक्ते तं विपचेत्सप्तवासरम् ॥ १,१०.१६ ॥ तमादाय बलिं क्षिप्त्वा सिद्धचूर्णेन पार्वति । ततस्तं भूधरे यन्त्रे पचेल्लघुपुटेन च ॥ १,१०.१७ ॥ यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः । दोलापाकं सिद्धचूर्णलेपं भूधरके पुटम् ॥ १,१०.१८ ॥ मृतसञ्जीवनी नाम्ना घुटिका सर्वसिद्धिदा । वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥ १,१०.१९ ॥ हेम्ना सुवेष्टिता सम्यग्वलीपलितनाशिनी । वक्त्रस्था मृत्युहा वर्षाद्विषविग्रहनाशिनी ॥ १,१०.२० ॥ शुद्धं गन्धं कर्षमात्रं गव्यं क्षीरं पलं पिबेत् । अनेन क्रमणेनैव सूतः संक्रमते तनुम् ॥ १,१०.२१ ॥ <२. दिव्या घुटिका> कान्तम्लेच्छमुखं रूप्यं लिप्तमूषान्तरे समम् । द्रावयित्वा सिद्धचूर्णं कान्ताद्दशगुणं शनैः ॥ १,१०.२२ ॥ वहेन्मुहुर्मुहुर्द्राव्यं यावत्कान्तोऽवशिष्यते । कान्तबीजमिदं प्रोक्तं श्रेष्ठं जार्यं रसायने ॥ १,१०.२३ ॥ समुखे पारदे चेदं बीजं चार्यं च पूर्ववत् । चतुःषष्ट्यंशकं पूर्वं समांशं तं क्रमेण वै ॥ १,१०.२४ ॥ एवंविधं सूतराजं कान्तबीजं द्वयं समम् । मर्दयेत्तप्तखल्वे च साम्लवर्गे दिनत्रयम् ॥ १,१०.२५ ॥ पिष्टीभूतं च जम्बीरे क्षिप्त्वाम्लगणपूरिते । दोलायन्त्रे पचेत्सम्यगेवमा सप्तवारकम् ॥ १,१०.२६ ॥ तमादाय लिहेद्बाह्ये सिद्धचूर्णेन भैरवि । ततो दिव्यौषधैर्लिप्ते संपुटे भूधरे पचेत् ॥ १,१०.२७ ॥ यावत्कठिनतां याति तावत्कुर्यात्क्रमेण च । दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥ १,१०.२८ ॥ पुटे तौ जारयेद्दिव्यनाम्नाथ परमेश्वरि । वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥ १,१०.२९ ॥ हेम्ना सुवेष्टितं धार्यं वलीपलितनाशनम् । पूर्ववत्फलदा पुण्या धार्या यत्नेन मानवैः ॥ १,१०.३० ॥ पूर्ववत्क्रामणं कार्यं देहे संक्रमते रसः । <३. कामेश्वरी घुटिका> समुखे पारदे व्योमकान्तबीजं च मारयेत् ॥ १,१०.३१ ॥ प्रत्येकं पारदसमं पूर्ववच्च शनैः शनैः । चतुःषष्ट्यंशकं चादौ समांशं तं क्रमाद्रसे ॥ १,१०.३२ ॥ अस्य सूतस्य तुल्यांशं कान्तबीजाभ्रबीजकम् । तप्तखल्वेऽम्लवर्गेण मर्दयेद्वासरत्रयम् ॥ १,१०.३३ ॥ पिष्टीकृतं च जम्बीरे क्षिप्त्वा दोलागतं पचेत् । पुनरादाय तां पिष्टिं सिद्धचूर्णेन लेपयेत् ॥ १,१०.३४ ॥ दिव्यौषधिगणैर्लिप्ते संपुटे भूधरे पचेत् । यदा कठिनतां याति द्विधा कुर्यात्क्रमेण तु ॥ १,१०.३५ ॥ दोलास्वेदं चूर्णलेपं कृत्वा भूधरपाचनम् । कामेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥ १,१०.३६ ॥ पूर्ववत्क्रामणं कार्यं रसेन्द्रः क्रामते तनुम् । <४. हेमसुन्दरी घुटिका> स्वर्णं रूप्यं म्लेच्छमुखं कान्तसत्वाभ्रसत्वकम् ॥ १,१०.३७ ॥ द्वन्द्वमेलोपलिप्तायां मूषायां तद्विनिक्षिपेत् । तस्मिन्द्रुते सिद्धचूर्णं स्वर्णाद्दशगुणं क्षिपेत् ॥ १,१०.३८ ॥ यावत्स्वर्णावशेषं स्यात्तावद्द्राव्यं शनैः शनैः । हेमबीजमिदं ख्यातं श्रेष्ठं रसरसायने ॥ १,१०.३९ ॥ समुखे पारदे देवि बीजं रससमं क्रमात् । जारयेत्पूर्ववद्देवि चतुःषष्ट्यंशकादिकम् ॥ १,१०.४० ॥ एतद्रसं हेमबीजं समं खल्वे च तापिते । मर्दयेदम्लवर्गेण त्र्यहात्पिष्टिर्भवेद्रसः ॥ १,१०.४१ ॥ पिष्टिं जम्बीरजां कृत्वा दोलायन्त्रेऽम्लपूरिते । षडहं पाचयेद्देवि सिद्धचूर्णप्रलेपनम् ॥ १,१०.४२ ॥ तथा संपुटलेपं च तथा भूधरपाचनम् । यावत्कठिनतां याति तावत्कुर्याच्च पूर्ववत् ॥ १,१०.४३ ॥ इयं तु घुटिका दिव्या विख्याता हेमसुन्दरी । वक्त्रस्था सिद्धिदा न्ःणां जरामृत्युविषापहा ॥ १,१०.४४ ॥ पूर्ववत्क्रामणं कार्यं सूतः संक्रमते पुनः । <५. मदनसुन्दरी घुटिका> मुखीकृते रसे व्योमबीजं हाटकबीजकम् ॥ १,१०.४५ ॥ समं समं क्रमाज्जार्यं चतुःषष्ट्यंशकादिकम् । इत्येवं जारितं सूतं बीजं गगनरुक्मयोः ॥ १,१०.४६ ॥ मर्दयेत्पारदसमं तप्तखल्वेऽम्लवर्गतः । त्रिदिनाज्जायते पिष्टिः पुनर्जम्बीरगां कुरु ॥ १,१०.४७ ॥ दोलायन्त्रेऽम्लभरिते पचेत्तां सप्तवासरम् । लेपनं सिद्धचूर्णस्य तथा संपुटलेपनम् ॥ १,१०.४८ ॥ तथा भूधरपाकश्च यावत्कठिनतां व्रजेत् । सिद्धिदा घुटिका ह्येषा नाम्ना मदनसुन्दरी ॥ १,१०.४९ ॥ आस्यान्तरस्थिता कुर्यात्सर्वसिद्धीश्चिरायुषः । व्यालव्याघ्रगजादीनां राज्ञां वश्यं स्त्रियामपि ॥ १,१०.५० ॥ पूर्ववत्क्रामणं कार्यं कायमाक्रामते रसः । <६. खेचरी घुटिका> मुखीकृते रसे कान्तहेमबीजं समं समम् ॥ १,१०.५१ ॥ रसोन्मिते पृथक्जार्यं चतुःषष्ट्यंशकादिकम् । इत्थं जीर्णं रसं बीजं कान्तहेम्नो रसोन्मितम् ॥ १,१०.५२ ॥ पूर्ववत्पिष्टिकां कृत्वा दोलायन्त्रे च पाचनम् । यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः ॥ १,१०.५३ ॥ घुटिका जायते नाम्ना खेचरी सर्वसिद्धिदा । पूर्ववत्क्रामणं कार्यं सुगन्धं गोपयः पिबेत् ॥ १,१०.५४ ॥ तेन संक्रमते देहं घुटिकान्तर्गतो रसः । <७. वज्रेश्वरी घुटिका> समुखे पारदे व्योमकान्तहेम्नां समं समम् ॥ १,१०.५५ ॥ बीजं पृथक्पृथक्जार्यं चतुःषष्ट्यंशकादिकम् । इत्थंभूतस्य सूतस्य समं व्योमादिबीजकम् ॥ १,१०.५६ ॥ त्रयं तापितखल्वेन त्र्यहमम्लेन मर्दयेत् । स सूतः पिष्टिमाप्नोति तां पिष्टिं पूर्ववत्प्रिये ॥ १,१०.५७ ॥ दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् । यावत्कठिनतां याति तावत्कार्यमतन्द्रितैः ॥ १,१०.५८ ॥ वज्रेश्वरीति घुटिका वक्त्रस्था सर्वसिद्धिदा । पूर्ववत्क्रामणं कार्यं गात्रं व्याप्नोति पारदः ॥ १,१०.५९ ॥ <८. महावज्रेश्वरी घुटिका> शुद्धं स्वर्णं वज्रभस्म लोहचूर्णाभ्रसत्वकम् । एतच्चतुःसमं नागं मूषायां चान्ध्रितं धमेत् ॥ १,१०.६० ॥ द्वन्द्वमेलोपलिप्तायां पुनरादाय तं प्रिये । एकीभूतं च मूषायां प्रकटं च धमेत्पुनः ॥ १,१०.६१ ॥ धौतसत्त्वं माक्षिकं च स्वल्पं स्वल्पं मुहुः क्षिपेत् । वज्रहेमावशेषं तु यावत्स्यात्तत उद्धरेत् ॥ १,१०.६२ ॥ एतस्मिन् व्योमसत्वायश्चूर्णनागांश्च पूर्ववत् । द्वन्द्वमेलोपलिप्तायामन्ध्रयित्वा दृढं धमेत् ॥ १,१०.६३ ॥ एकीभूतं समादाय मूषायां प्रकटं धमेत् । हेमवज्रावशेषं स्याद्यावत्तत्पुनराहरेत् ॥ १,१०.६४ ॥ व्योमसत्वमयश्चूर्णं नागं वाह्यं पुनः पुनः । पूर्ववत्क्रमयोगेन माक्षिकं धौतसत्त्वकम् ॥ १,१०.६५ ॥ मुहुः क्षिप्य धमेत्तं तु बाह्यमेवं तु षड्गुणम् । वज्रबीजमिदं श्रेष्ठं जार्यं रसरसायने ॥ १,१०.६६ ॥ समुखे पारदे जार्यं वज्रबीजं रसोन्मितम् । चतुःषष्ट्यंशकाद्यं च क्रमात्संक्रामयेत्प्रिये ॥ १,१०.६७ ॥ इत्थं जारितसूतस्य समं कुलिशबीजकम् । तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ १,१०.६८ ॥ स पिष्टिर्जायते सूतस्तां पिष्टीं च समाहरेत् । दोलापाकः सिद्धचूर्णलेपः सम्पुटभूधरम् ॥ १,१०.६९ ॥ कुर्वीत पूर्ववत्सर्वं यावत्कठिनतां व्रजेत् । महावज्रेश्वरी नाम्ना घुटिका सिद्धिदायिनी ॥ १,१०.७० ॥ वक्त्रस्था क्रामणं कार्यं पूर्ववत्क्रामते रसः । <९. वज्रखेचरी घुटिका> मुखीकृते रसे व्योमवज्रबीजं रसोन्मितम् ॥ १,१०.७१ ॥ पृथक्पृथक्जारणीयं चतुःषष्ट्यंशकादिकम् । अमुष्य जीर्णसूतस्य समं वज्राभ्रबीजकम् ॥ १,१०.७२ ॥ तप्तखल्वेऽम्लवर्गेण त्रिदिनं मर्दयेद्दृढम् । स रसो जायते पिष्टिस्तां पुनः पूर्ववत्प्रिये ॥ १,१०.७३ ॥ दोलास्वेदं सिद्धचूर्णलेपं भूधरपाचनम् । यावत्कठिनतां यति तावदेवं मुहुर्मुहुः ॥ १,१०.७४ ॥ घुटिका जायते दिव्या नाम्नेयं वज्रखेचरी । वक्त्रस्था सिद्धिदा नृणां पूर्ववत्क्रामणं प्रिये ॥ १,१०.७५ ॥ <१०. कालविध्वंसिनी घुटिका> मुखीकृते रसे कान्तवज्रबीजं रसोन्मितम् । पृथक्पृथग्जारणीयं चतुःषष्ट्यंशकादिकम् ॥ १,१०.७६ ॥ अस्य जीर्णस्य सूतस्य समं कुलिशकान्तयोः । बीजं संतप्तखल्वेऽम्लवर्गे मर्द्यं दिनत्रयम् ॥ १,१०.७७ ॥ पिष्टिर्भवत्येष सूतः पिष्टिं तां पुनराहरेत् । दोलास्वेदः सिद्धचूर्णलेपः संपुटभूधरम् ॥ १,१०.७८ ॥ यावत्कठिनतां याति तावदेवं मुहुर्मुहुः । कालविध्वंसिनी नाम्ना घुटिका जायते शुभा ॥ १,१०.७९ ॥ मुखस्था सिद्धिदा दिव्या पूर्ववत्क्रामणं पिबेत् । <११. गगनेश्वरी घुटिका> मुखीकृते सूतराजे वज्रकान्ताभ्रबीजकम् ॥ १,१०.८० ॥ पृथक्पृथक्सूतराजे चतुःषष्ट्यंशकादिकम् । रसस्य तस्य सदृशं वज्रबीजाभ्रबीजकम् ॥ १,१०.८१ ॥ तप्तखल्वेऽम्लवर्गेण त्र्यहात्पिष्टिः सुमर्दनात् । दोलापाकः सिद्धचूर्णलेपः संपुटभूधरम् ॥ १,१०.८२ ॥ यावत्कठिनतां याति तावत्कुर्यान्मुहुर्मुहुः । गगनेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥ १,१०.८३ ॥ पूर्ववत्क्रामणं कार्यं देहे क्रामति सूतकः । <१२. वज्रघण्टेश्वरी घुटिका> मुखीकृते सूतराजे बीजं वज्रसुवर्णयोः ॥ १,१०.८४ ॥ पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् । अस्य सूतस्य सदृशं हेम्नो वज्रस्य बीजकम् ॥ १,१०.८५ ॥ तप्तखल्वेऽम्लवर्गेण त्र्यहात्पिष्टिर्भवेद्रसः । तां पिष्टिं पुनरादाय पूर्ववत्परिकल्पयेत् ॥ १,१०.८६ ॥ दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् । यावत्कठिनतां याति तावत्कुर्यान्मुहुर्मुहुः ॥ १,१०.८७ ॥ वज्रघण्टेश्वरी ह्येषा घुटिका सिद्धिदायिनी । मुखस्था सिद्धिदा दिव्या पूर्वोक्तं क्रामणं पिबेत् ॥ १,१०.८८ ॥ <१३. वज्रभैरवी घुटिका> मुखीकृते सूतराजे हेमवज्राभ्रबीजकम् । पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ॥ १,१०.८९ ॥ अस्य सूतस्य सदृशं हेमवज्राभ्रबीजकम् । मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ १,१०.९० ॥ पिष्टिर्भवेत्पुनस्तां च समादाय ततः प्रिये । दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥ १,१०.९१ ॥ यावत्कठिनतामेति तावत्कार्यं मुहुर्मुहुः । घुटिका जायते दिव्या नाम्नेयं वज्रभैरवी ॥ १,१०.९२ ॥ मुखस्थिता सिद्धकरी क्रामणं पूर्ववत्प्रिये । <१४. त्रिपुरभैरवी घुटिका> मुखीकृते रसे कान्तवज्रहाटकबीजकम् ॥ १,१०.९३ ॥ जार्यं पृथक्सूतसमं चतुःषष्ट्यंशकादिकम् । जीर्णसूतसमं कान्तवज्रकाञ्चनबीजकम् ॥ १,१०.९४ ॥ तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् । जायते पारदः पिष्टिः पूर्ववत्तां समाहरेत् ॥ १,१०.९५ ॥ दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् । यावत्कठिनतामेति तावत्कार्यं मुहुर्मुहुः ॥ १,१०.९६ ॥ घुटिका जायते दिव्या नाम्ना त्रिपुरभैरवी । मुखस्था सिद्धिदा ह्येषा पूर्ववत्क्रामणं प्रिये ॥ १,१०.९७ ॥ <१५. महाभैरवी घुटिका> मुखीकृते रसे कान्तवज्राभ्रस्वर्णबीजकम् । पृथक्सूतसमं जार्यं चतुःषष्ट्यंशकादिकम् ॥ १,१०.९८ ॥ अस्य सूतस्य जीर्णस्य समं व्योमादिबीजकम् । मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ १,१०.९९ ॥ पिष्टिर्भवति सूतेन्द्रस्तां पिष्टिं पुनराहरेत् । दोलापाकं सिद्धचूर्णलेपं संपुटभूधरे ॥ १,१०.१०० ॥ यावत्कठिनतामेति तावत्कार्यं मुहुर्मुहुः । नाम्ना महाभैरवीयं घुटिका सर्वसिद्धिदा ॥ १,१०.१०१ ॥ धारयेन्मुखमध्ये तत्पूर्ववत्क्रामणं पिबेत् । <क्रामणानि> त्रिफला मुसली मुण्डी भृङ्गराजश्च वाकुची ॥ १,१०.१०२ ॥ नीली कन्या काकमाची हयगन्धा शतावरी । उत्तरा वारुणी देवदाली चित्रा पुनर्नवा ॥ १,१०.१०३ ॥ निर्गुण्डी सहदेवी च रुदन्ती गजकर्णिका । भूतावरातभल्लातकाकतुण्डामृतालताः ॥ १,१०.१०४ ॥ पलाशः कुक्कुरूटश्च धात्रीफलरसः पयः । पलाशबीजकं तैलं घृतं मधु शिवाम्बु च ॥ १,१०.१०५ ॥ बिल्वमज्जा च तैलं च तैलं ज्योतिष्मतीभवम् । एतानि क्रामणार्हाणि चौषधानि भवन्ति हि ॥ १,१०.१०६ ॥ एते चाष्टार्धगदिताः क्रामणार्थे प्रयोगतः । रसभस्मप्रयोगे च घुटिकानां रसायने ॥ १,१०.१०७ ॥ <पञ्चदशघुटिकाफलम्> प्रिये पञ्चदशानां च घुटिकानां फलं शृणु । अभ्रबीजेन रचितघुटिका रससंयुता ॥ १,१०.१०८ ॥ मुखस्थिता द्वादशाब्दं सर्वरोगविनाशनी । स जीवेद्वत्सरशतं पुमांश्च परमेश्वरि ॥ १,१०.१०९ ॥ कान्तबीजेन रचिता घुटिका रससंयुता । आस्यस्था सर्वरोगघ्नी द्वादशाब्दं वरानने ॥ १,१०.११० ॥ धातुदार्ढ्यप्रजननी सहस्रायुष्यदायिनी । कान्ताभ्रबीजरचिता रसयुग्घुटिका शुभा ॥ १,१०.१११ ॥ द्वादशाब्दं मुखान्तस्था जरामयविनाशिनी । अयुतायुष्यदा दिव्या महाबलविवर्धिनी ॥ १,१०.११२ ॥ हेमबीजयुता सूतघुटिका मुखमध्यगा । आ द्वादशाब्दं देहस्य वलीपलितरोगहा ॥ १,१०.११३ ॥ आयुष्यप्रदा पुण्या नागायुतबलप्रदा । हेमाभ्रबीजघटिता घुटिका युक्तपारदा ॥ १,१०.११४ ॥ वक्त्रास्थितार्कसंख्याब्दं दशलक्षाब्दजीवदा । दिव्यबुद्धिप्रजननी दिव्यसत्वप्रदायिनी ॥ १,१०.११५ ॥ कान्तकाञ्चनबीजाभ्यां ससूता घुटिका कृता । द्वादशाब्दं मुखान्ता कोट्यायुष्यविवर्धिनी ॥ १,१०.११६ ॥ महातेजःप्रजननी बिलनिध्यादिदर्शिनी । कान्ताभ्रहेमघटिता घुटिका रससंयुता ॥ १,१०.११७ ॥ मुखस्था द्वादशाब्दान्ताद्दशकोट्यब्दजीवदा । हालाहलादिसंवर्तखेचरत्वप्रदायिनी ॥ १,१०.११८ ॥ निर्मुक्तवज्रबीजेन रसयुग्घुटिका शुभा । मुखस्था द्वादशाब्दान्तं सर्वलोकगतिप्रदा ॥ १,१०.११९ ॥ यावद्भूमिः स्थिरतरा तावदायुःप्रवर्धिनी । तरुणः सर्वदा कामः कान्तानां सुरतक्षमः ॥ १,१०.१२० ॥ वज्राभ्रबीजरचिता घुटिका रसगर्भिता । घुटिका रससंख्याब्दं मुखस्था सर्वसिद्धिदा ॥ १,१०.१२१ ॥ ब्रह्मायुष्यप्रदा पुंसां जगत्सृष्टुं क्रमात्प्रभुः । पूज्यते ब्रह्मवद्देवैर्वेदवेदाङ्गपारगः ॥ १,१०.१२२ ॥ सरस्वत्या च सावित्र्या सेव्यते सर्वलोकगः । अष्टाभिः सिद्धिभिर्युक्तो ह्यणिमादिभिरीश्वरि ॥ १,१०.१२३ ॥ वज्रकाञ्चनबीजेन ससूता घुटिका कृता । मुखस्था द्वादशाब्दान्तं विष्ण्वायुष्यप्रदा नृणाम् ॥ १,१०.१२४ ॥ स च विष्णुत्वमाप्नोति विष्णुवत्पालितुं क्षमः । सेव्यते सनकाद्यैश्च श्रिया युक्तो महाबलः ॥ १,१०.१२५ ॥ स्वेच्छागतिर्महेन्द्राद्यैर्निर्जरैः सेव्यते सदा । हेमाभ्रवज्रबीजेन रचिता घुटिका प्रिये ॥ १,१०.१२६ ॥ सपारदा मुखान्तःस्था द्वादशाब्दं वरानने । रुद्रायुष्प्रदा न्ःणां रुद्रत्वं सा ददाति हि ॥ १,१०.१२७ ॥ संहर्ता रुद्रवल्लोकं विष्ण्विन्द्राद्यैश्च सेव्यते । अणिमाद्यैश्च सहितः सर्वज्ञः सर्वलोकगः ॥ १,१०.१२८ ॥ सेव्यते प्रमथश्रेष्ठैर्दिव्यशक्त्या समन्वितः । योगीन्द्रैर्ध्यायते धीरो महातेजा महाबलः ॥ १,१०.१२९ ॥ कान्तकाञ्चनवज्राणां बीजैः सूतयुता कृता । घुटिका भानुसंख्याब्दं मुखस्था सिद्धिदा नृणाम् ॥ १,१०.१३० ॥ ईश्वरायुष्यमाप्नोति खेचरत्वं च मानवः । तिरोधत्ते स्वयं लोकाद्ब्रह्मेन्द्राद्यभिवन्दितः ॥ १,१०.१३१ ॥ कोटिसूर्यप्रतीकाशो महामारुतसत्त्ववान् । महाकल्पान्तकालेऽपि विनाशं न व्रजेद्ध्रुवम् ॥ १,१०.१३२ ॥ योगक्रीडानुषक्तात्मा ध्यायते योगवित्तमैः । कान्ताभ्रहेमवज्राणां कृता बीजै रसात्मिका ॥ १,१०.१३३ ॥ घुटिका रविसंख्याब्दवक्त्रस्था यस्य भैरवि । सदाशिवायुः स भवेत्सर्वानुग्राहकः प्रभुः ॥ १,१०.१३४ ॥ सदाशिवत्वमाप्नोति देवानामधिपस्तथा । वह्नौ वह्निर्जले वारि मारुते मारुतात्मकः ॥ १,१०.१३५ ॥ पृथिव्यां पृथिवीरूपः शून्ये शून्यात्मको भवेत् । तस्याक्षिणीन्दुवह्न्यर्का ब्रह्मेन्द्राद्याश्च सेवकाः ॥ १,१०.१३६ ॥ गायका नारदाद्याश्च नर्तक्यश्चाप्सरोऽङ्गनाः । तदाज्ञयैव ब्रह्मेन्द्राः सृष्टिस्थितिविनाशकाः ॥ १,१०.१३७ ॥ सच्चिदानन्दकः शक्तः सर्वगः सर्वविच्छिवः । पराशक्तियुतः पुण्यो निर्मायो निष्कलः परम् ॥ १,१०.१३८ ॥ एवं गुणाः प्रकथिता घुटिकानां मया प्रिये । शस्त्रस्तम्भकरश्चासां सर्वासामपि विद्यते ॥ १,१०.१३९ ॥ रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि । <घुटिकासिद्धौ मन्त्रप्रयोगः> वक्ष्यते मन्त्रराजोऽयं सर्वसिद्धिप्रदायकः ॥ १,१०.१४० ॥ ऐं ह्रीं श्रीं क्लीं सौः अमृतेश्वरभैरव अमृतं कुरु अमृतेश्वरभैरवाय हुम् । सौः क्लीं श्रीं ह्रीमैं हुं फट्स्वाहा । सौः क्लीं श्रीं ह्रीमैम् । पुमाननेन मन्त्रेण शीघ्रं सिद्धिमवाप्नुयात् ॥ १,१०.१४१ ॥ आक्, १, ११ <जीवत एव दिव्यदेहसिद्धिः; भूतकालान्तकरसः> श्रीभैरवी । देवदेव महादेव कथितानि त्वयाधुना । रसायनानि दिव्यानि सिद्धिदानि महेश्वर ॥ १,११.१ ॥ चिरकालेन देहानां कल्पानां सिद्धिदानि हि । सद्यः सिद्धिर्यथा देव जायते परमेश्वर ॥ १,११.२ ॥ तद्ब्रूहि न्यूनाभ्यधिकहीनक्षीणाङ्गिनामपि । अथ गद्गदमूकानां कुब्जानामथ कुष्ठिनाम् ॥ १,११.३ ॥ अन्धपङ्ग्वबलानां च जराजर्जरितात्मनाम् । सदा रोगार्तषण्डानां कृशानां भ्रान्तचेतसाम् ॥ १,११.४ ॥ भूतप्रेतपिशाचापस्मारोन्मत्तयुजामपि । प्रमादाज्जीवशेषाणां देहसिद्धिप्रदं नृणाम् ॥ १,११.५ ॥ श्रीभैरवः । श्रुत्वा तद्भैरवीवाक्यं साधु पृष्टं त्वया प्रिये । तथाविधां प्रवक्ष्यामि देहसिद्धिं वरानने ॥ १,११.६ ॥ पञ्चभूतात्मिकाः पञ्च कर्तव्या घुटिकाः प्रिये । जीवात्मिका भवेत्षष्ठी घुटिका पिण्डकोष्टयुक् ॥ १,११.७ ॥ काले तु या कन्या कुर्यात्संभोगमायतम् । तद्वराङ्गस्थितं रक्तं शुक्लं स्याद्व्योमसत्वकम् ॥ १,११.८ ॥ तस्याः सद्यः प्रसूतस्य विष्ठा पुत्रस्य मारुतम् । तत्त्वं स्यात्केवलं तस्या रजस्तेजात्मसत्त्वकम् ॥ १,११.९ ॥ तदपत्यस्य रुधिरं जलतत्त्वं प्रकीर्तितम् । तत्सूतस्य वपुः सर्वं पार्थिवं तत्त्वमुच्यते ॥ १,११.१० ॥ सूतसेवकशुक्लं च जीवतत्त्वं भवेत्प्रिये । कोटिवेधकरं सूतं कर्षं कर्षं नियोजयेत् ॥ १,११.११ ॥ एकैकतत्त्वमध्ये तु प्रसेकं तानि मर्दयेत् । तेषां च गोलकान्कृत्वा षड्रसं स्थापयेत्पृथक् ॥ १,११.१२ ॥ नृमानमुन्नतं कायमायामं तु तदर्धकम् । कटाहं ताम्रघटितं पिण्डस्थौल्यं षडङ्गुलम् ॥ १,११.१३ ॥ चतुर्मुखमयं कोष्ठं तस्योपरि कटाहकम् । धारयेन्निश्चलं सम्यक्तदन्तः पूरयेत्प्रिये ॥ १,११.१४ ॥ गोघृतं च महातैलं समभागमिदं द्वयम् । अर्चयेद्दशदिक्पालान् योगिनीश्च कुमारिकाम् ॥ १,११.१५ ॥ श्रीगुरुं सिद्धचक्रं च भैरवं भैरवीं तथा । गणाधिपं क्षेत्रपालं निजेष्टदैवतं तथा ॥ १,११.१६ ॥ नवग्रहाग्निविप्रांश्च दैवज्ञान् भिषगुत्तमान् । तथान्तरायकर्त्ःंश्च भूतप्रेतपिशाचकान् ॥ १,११.१७ ॥ यक्षराक्षसगन्धर्वान्मन्त्रज्ञान्स्वजनानपि । तर्पयेन्मद्यमांसैश्च वस्त्रभूषणकाञ्चनैः ॥ १,११.१८ ॥ तत्तत्प्रियकरैर्दिव्यैर्बलिं दिक्षु विनिक्षिपेत् । चतुर्भिर्वङ्कनालैश्च धमयेत्खदिराग्निना ॥ १,११.१९ ॥ फेनहीनमधूमं च संतप्तं च यदा भवेत् । श्रीगुरुं निजदेवं च चन्द्रसूर्याग्नितारकाः ॥ १,११.२० ॥ भुवनानि नमस्कृत्य कटाहे निक्षिपेत्तनुम् । ज्ञात्वा सम्यग्द्रुतं देहं पार्थिवाख्यं रसं क्षिपेत् ॥ १,११.२१ ॥ धमेद्गाढं प्रयत्नेन तत्कल्कं च यदा भवेत् । ततोऽप्तत्त्वाख्यरसकं निक्षिपेद्रक्ततां नयेत् ॥ १,११.२२ ॥ तेजस्तत्त्वरसं पश्चात्क्षिपेत्तन्मांसतां व्रजेत् । निक्षिपेद्वायुतत्त्वाख्यं रसं तत्र विनिक्षिपेत् ॥ १,११.२३ ॥ शुभ्रवर्णत्वमाप्नोति ततश्चाकाशतत्त्वकम् । निक्षिपेज्जीवतत्त्वाख्यं रसतत्त्वं च पार्वति ॥ १,११.२४ ॥ रसं क्षिपेत्त्वन्ध्रितस्य स्वर्णस्य तत्समं भवेत् । सजीवो जायते सिद्धो हुंकारत्रयमुच्चरेत् ॥ १,११.२५ ॥ यथोदितो भानुबिम्बो महाबुद्धिपराक्रमः । महावपुर्महातेजा नागायुतमहाबलः ॥ १,११.२६ ॥ मन्मथोपमरूपाढ्यो वाचा वागीश्वरीसमः । बुद्ध्या जीवसमः श्रीमान्विष्णुवद्धनदोपमः ॥ १,११.२७ ॥ त्यागे रोषे च कालाग्निर्गाम्भीर्येण महोदधिः । स्रष्टा हर्ता च गोप्ता च सर्वानुग्राहकः प्रभुः ॥ १,११.२८ ॥ दिव्यदृष्टिर्वज्रदेहः स साक्षाद्भैरवस्त्वयम् । अर्धयोजनविस्तीर्णहेमकिङ्किणिमण्डितम् ॥ १,११.२९ ॥ चलद्भ्रमरसशोभं नानामाणिक्यमण्डितम् । हेममालापरिष्वक्तं घण्टानादमनोहरम् ॥ १,११.३० ॥ दिव्यदीप्तमहानादिशङ्खकाहलसंकुलम् । वीणावेणुमृदङ्गाद्यैर्वादित्रैर्मुरजैः समम् ॥ १,११.३१ ॥ तालैर्बहुविधैश्चान्यैर्दिव्यघोषैः समाकुलम् । गायत्किन्नरगन्धर्वैस्तथा किंपुरुषैर्युतम् ॥ १,११.३२ ॥ लसन्माणिक्यकेयूरहारकङ्कणमुद्रकाः । काचनूपुरसंयुक्ता दिव्याभरणभूषिताः ॥ १,११.३३ ॥ दिव्यमालापरिष्कारा दिव्यगन्धानुलेपनाः । दिव्याम्बराश्चारुरूपा मत्तमन्मथविह्वलाः ॥ १,११.३४ ॥ दिव्याङ्गनास्तदा चैनं समाश्रित्य ब्रुवन्ति च । किं कर्म सिद्धसंखेदास्त्वादेशो देव दीयताम् ॥ १,११.३५ ॥ उपासते सिद्धकन्याः परः शतसहस्रकम् । यत्र यास्यति तत्रैव चानुयामो वयं वृताः ॥ १,११.३६ ॥ दिव्यालयांश्च विविधान्हेममाणिक्यमण्डितान् । दिव्यानि स्नानपानानि स्वीकुर्वाणो मुहुर्मुहुः ॥ १,११.३७ ॥ वज्र्यादिसर्वलोकेषु स्वेच्छया विहरत्यसौ । पूज्यते देवसिद्धौघैः यथायं भैरवस्तथा ॥ १,११.३८ ॥ भुञ्जानः सर्वभोगांश्च क्षुत्पिपासाविवर्जितः । योगिनीशतसाहस्रं भोक्ता संचिन्तयन् सुखम् ॥ १,११.३९ ॥ महाकल्पान्तकालेऽपि प्रक्षीणेऽस्मिन्वरानने । लीयते परमे व्योम्नि लीयन्ते यत्र देवताः ॥ १,११.४० ॥ भूतकालान्तको नाम रसस्यास्य प्रभावतः । अभेद्योऽयमखण्ड्यश्च त्वदाह्यो भवति प्रिये ॥ १,११.४१ ॥ रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि । वक्ष्यते मन्त्रराजोऽयं रससिद्धिप्रदायकः ॥ १,११.४२ ॥ ऐं ह्रीं श्रीं क्लीं सौः श्रीभैरव ॥ १,११.४३ ॥ आक्, १, १२ <श्रीशैले सिद्धिलाभः> श्रीभैरवी । श्रीशैले विविधा सिद्धिः सद्यः प्रत्ययकारिणी । सुलभा श्रूयते देव तां ब्रूहि विविधां प्रभो ॥ १,१२.१ ॥ श्रीभैरवः । वक्ष्यामि शृणु तत्सर्वं सद्यः सिद्धिकरं प्रिये । कैलासान्मन्दरान्मेरोर्विन्ध्याद्रेश्च हिमालयात् ॥ १,१२.२ ॥ महेन्द्रान्मलयाद्रेश्च सह्यादृश्यगिरेरपि । श्रेष्ठः श्रीपर्वतो दिव्यः सिद्धियोगीन्द्रसेवितः ॥ १,१२.३ ॥ तत्र तीर्थानि सर्वाणि सरांसि सरितः प्रिये । सिद्धिप्रदानि लिङ्गानि लतापाषाणपादपाः ॥ १,१२.४ ॥ मृत्तिकाकन्दतोयानि पत्रपुष्पफलानि च । एवमादीनि विद्यन्ते सर्वसिद्धिकराणि च ॥ १,१२.५ ॥ श्रीपर्वतोऽहमीशानि त्वहं साक्षात्स पर्वतः । स्थावरं मामकं रूपं विद्धि तं सुरसेवितम् ॥ १,१२.६ ॥ अस्मिन्यदस्ति नान्यत्र यदन्यत्र स्थितं च तत् । दिव्यलिङ्गस्पर्शनीयं ज्योतिर्लिङ्गमनामयम् ॥ १,१२.७ ॥ श्रीमल्लिकार्जुनमिति प्रख्यातं परमेश्वरि । वामपार्श्वेऽस्य लिङ्गस्य घण्टासिद्धेश्वरः स्थितः ॥ १,१२.८ ॥ घण्टा विलम्बते द्वारे तीर्थकुण्डं च विद्यते । उपोषितैस्त्रिभिः कार्यं जागरूकैरतन्द्रितैः ॥ १,१२.९ ॥ निशि कृष्णचतुर्दश्यामजस्रं स्नापयेच्छिवम् । एकः समानयेत्तोयं कुण्डस्थमपरः प्रिये ॥ १,१२.१० ॥ घण्टां निनादयेदन्यश्चतुर्यामावधि प्रिये । घण्टासिद्धेश्वरस्तुष्टो दद्यात्तेभ्योऽपि खे गतिम् ॥ १,१२.११ ॥ घण्टासिद्धेश्वरस्यास्य दक्षिणे निखनेत्प्रिये । जानुदघ्नं तु तत्रैव दृश्यते रोचनप्रभा ॥ १,१२.१२ ॥ मृत्तिका तां समाहृत्य कर्षमात्रं पिबेत्प्रिये । क्षीरयुक्तां च सप्ताहं स साक्षादमरो भवेत् ॥ १,१२.१३ ॥ श्रीगिरीशस्य पुरतो गजाकारा महाशिला । स्रवत्येव दिवारात्रं दिव्यगन्धं सुगुग्गुलुम् ॥ १,१२.१४ ॥ तं गृह्णीयात्पलाशस्य दर्व्यालाबुकपात्रके । प्रक्षिपेद्गन्धकयुतं भक्षयेत्कर्षमात्रकम् ॥ १,१२.१५ ॥ प्रत्यहं मासपर्यन्तं ततः सिद्धिमवाप्नुयात् । सदानन्दो युवा धीरो जीवेदाचन्द्रतारकम् ॥ १,१२.१६ ॥ विद्रुते म्लेच्छवदने गुग्गुलुं तं विनिक्षिपेत् । कोटिमंशं ततस्ताम्रं दिव्यं भवति काञ्चनम् ॥ १,१२.१७ ॥ <चन्द्रोदक बेइ ंल्लिकार्जुन> मल्लिकार्जुनदेवस्य चन्द्रवाप्यस्ति पश्चिमे । वैशाखपूर्णिमायां तु साधयेत्साधकोत्तमः ॥ १,१२.१८ ॥ निर्भयो निर्विकल्पश्च वसंस्तोयसमीपतः । जपेन्मृत्युञ्जयं मन्त्रं रात्रौ वासोविवर्जितः ॥ १,१२.१९ ॥ निशीथे चन्द्रसलिलं चन्द्रस्पृष्टं भवेद्यदा । तत्तीर्थच्छिद्रदेशे च स्वाञ्जलिं प्रक्षिपेदतः ॥ १,१२.२० ॥ स्पृष्ट्वा चन्द्रो यदा गच्छेत्तदा तत्तोयमाहरेत् । पिबेच्च सहसा धीरो जीवेदाचन्द्रतारकम् ॥ १,१२.२१ ॥ वज्रकायः सौम्यरूपः शान्तात्मा स भवेन्नरः । <ट्रिपुरान्तक> पूर्वद्वारे श्रीगिरेस्तु विद्यते त्रिपुरान्तकः ॥ १,१२.२२ ॥ देवस्य निकटे देशे चोत्तरे तिन्त्रिणीतरुः । दृश्यते तत्र मूले तु स्वयं श्रीभैरवः प्रभुः ॥ १,१२.२३ ॥ नृमात्रां निखनेद्भूमिं तदग्रे दृश्यते तदा । तप्तकुण्डं नीलजलं दिव्यसिद्धिप्रदायकम् ॥ १,१२.२४ ॥ तत्तिन्त्रिणीकपत्राणि वस्त्रे बद्ध्वा विनिक्षिपेत् । कुण्डे तस्मिंस्तदा तानि स्थूलमीना भवन्ति च ॥ १,१२.२५ ॥ गृहीत्वा तिन्त्रिणीकाष्ठैः पचेदेवं क्रमात्सुधीः । तेषां शिरःकण्टकानि खानि च विवर्जयेत् ॥ १,१२.२६ ॥ भक्षयेच्छेषमखिलं साधकः सिद्धिकाङ्क्षया । क्षणमात्रं भवेन्मूर्च्छा तेन पश्चाद्विबुध्यते ॥ १,१२.२७ ॥ वसुधायां बिलं पश्येज्जीवेद्दिव्यायुताब्दकम् । <मणिपल्लि> पश्चिमे त्रिपुरान्तस्य गव्यूतिद्वयमात्रके ॥ १,१२.२८ ॥ मणिपल्लिरिति ग्रामस्तस्य पश्चिमभागतः । विद्यते कश्चन गिरिस्तत्पश्चादेकवाटकम् ॥ १,१२.२९ ॥ दृश्यते प्रविशेत्तत्र पूर्वास्यश्च ततो व्रजेत् । दक्षिणाभिमुखः पश्चाद्दशचापान्तमात्रकम् ॥ १,१२.३० ॥ तत्र चाम्रफलाकारान् पाषाणाञ्ज्वलनप्रभान् । गृहीत्वा बन्धयेद्वस्त्रे तद्वस्त्रं रक्ततां व्रजेत् ॥ १,१२.३१ ॥ पाषाणयुक्तं तद्वस्त्रं क्षीरमध्ये विनिक्षिपेत् । ततः क्षीरं रक्तवर्णं स्यात्पिबेत्साधकोत्तमः ॥ १,१२.३२ ॥ सप्ताहाज्जायते सिद्धिर्वज्रकायो महाबलः । जीवेदाचन्द्रतारं च आ कल्पमविल्पकम् ॥ १,१२.३३ ॥ <कोकिलाबिल> त्रिपुरान्तस्योदग्भागे कोकिलाबिलमुत्तमम् । जगत्प्रकाशं तत्रास्ते कृत्वा देहविशोधनम् ॥ १,१२.३४ ॥ साधको वमनाद्यैश्च तद्बिलं प्रविशेत्सुधीः । दशचापावधिस्तत्र पाषाणाः कोकिलोपमाः ॥ १,१२.३५ ॥ सन्ति गृहीत्वा तत्पृष्ठे तिलाः क्षिप्ताः स्फुटन्ति च । इत्येतत्प्रत्ययं दृष्ट्वा ताश्च घृष्य परस्परम् ॥ १,१२.३६ ॥ दुग्धान्तः प्रक्षिपेत्तांश्च तत्क्षीरं कृष्णतां व्रजेत् । तत्क्षीरं मासमात्रं च पिबेद्दिव्यतनुर्भवेत् ॥ १,१२.३७ ॥ ब्रह्मणस्त्रिदिनं जीवेद्वलीपलितवर्जितः । वेगे समीरसदृशश्छिद्रं पश्यति भूतले ॥ १,१२.३८ ॥ त्रिपुरान्तस्य पूर्वस्यां दिशि योजनमात्रके । अस्ति स्वर्गपुरीनाथो देवस्तस्याग्रतः खनेत् ॥ १,१२.३९ ॥ जानुमात्रं च वसुधां तत्र सर्पफणोपमाः । स्पर्शसंज्ञास्तु पाषाणा निर्गच्छन्ति वरानने ॥ १,१२.४० ॥ त्रिपुरान्तकदेवस्य पश्चिमेऽर्धार्धयोजने । अस्ति दिव्यबिलद्वारं तत्र चापत्रयान्तरम् ॥ १,१२.४१ ॥ व्रजेत्खर्जूरवृक्षोऽस्ति कृष्णवर्णः फलान्वितः । तत्फलानां रसं पीत्वा तेन मूर्च्छा भवेत्क्षणम् ॥ १,१२.४२ ॥ प्रबुद्धोऽसौ भवेत्सिद्धो जीवेदा चन्द्रभास्करम् । श्रीगिरेर्दक्षिणद्वारे वज्रेश्वरसुरेश्वरौ ॥ १,१२.४३ ॥ तिष्ठतो निखनेद्भूमिं तत्र श्रीफलसन्निभाः । पाषाणाः स्पर्शभेदाः स्युः संग्राह्यास्ते सुरेश्वरि ॥ १,१२.४४ ॥ तत्र रामेश्वराख्योऽस्ति निखनेत्तस्य सन्निधौ । रुद्राक्षाकारपाषाणाः स्पर्शभेदा भवन्ति ते ॥ १,१२.४५ ॥ <आवर्तक> ज्योतिःसिद्धवटस्थाने दक्षिणे चैकपादपः । तिष्ठत्यावर्तको नाम तदासन्ने तु पश्चिमे ॥ १,१२.४६ ॥ पर्वतो विद्यते तत्र खनेत्तालफलोपमाः । पाषाणास्तान्धमेद्गाढं तत्सर्वं काञ्चनं भवेत् ॥ १,१२.४७ ॥ तस्यैव दक्षिणे द्वारे विद्यते कुण्डलेश्वरः । तन्निकृष्टे जानुमात्रं खनेद्भूमिं समुद्धरेत् ॥ १,१२.४८ ॥ रक्ताभाः श्रीफलाकाराः पाषाणाः स्पर्शवेधकाः । पुरुषेश्वरदेवस्य समीपे कुण्डमस्ति हि ॥ १,१२.४९ ॥ गुञ्जारिड्ढौ च विद्येते वृक्षौ तत्पत्त्रमश्नीयात् । सप्ताहाज्जायते सिद्धो जरामरणवर्जितः ॥ १,१२.५० ॥ <हस्तिशिला> तत्र हस्तिशिला दक्षे खनेद्धस्तप्रमाणतः । तत्र जम्बूफलाकारा ग्राह्यास्ते स्पर्शसंज्ञकाः ॥ १,१२.५१ ॥ ख्याता हस्तिशिरोनाम्ना ख्याता हस्तिशिलेति सा । <छायाछत्त्र> एकयोजनमात्रे तु तस्या दक्षिणभागतः ॥ १,१२.५२ ॥ शिवरूपं शिवप्रोक्तं छायाछत्त्रं तु विद्यते । वर्तुलं शतहस्तं तु छिद्रं तस्याप्यधो व्रजेत् ॥ १,१२.५३ ॥ न कैश्चिद्दृश्यते सोऽपि सिद्धो भवति तत्क्षणात् । यदृच्छया रुद्रतुल्यः क्रीडत्येव जगत्त्रये ॥ १,१२.५४ ॥ सिद्ध्यष्टकं साधयेद्वा सर्वसिद्धिप्रदायकः । कान्ताभ्रसत्वकनकसूताः क्रमगुणोत्तराः ॥ १,१२.५५ ॥ अम्लेन मर्दयेद्गाढं गोलं कृत्वा तु वेष्टयेत् । तद्गोलं दीर्घवंशाग्रे बद्ध्वा श्रीकालिकामनुम् ॥ १,१२.५६ ॥ जपेन्निवेशयेत्तत्र छायाछत्त्रेण तेन च । वंशाग्रबद्धगोलान्तर्जायते घुटिका शुभा ॥ १,१२.५७ ॥ वक्त्रान्तर्धारयेत्तां तु तत्क्षणात्खेचरो भवेत् । शिलां तालं वस्त्रबद्धं कृत्वा वंशाग्रवेष्टितम् ॥ १,१२.५८ ॥ छायाछत्त्रे निवस्यैतत्ताभ्यां नेत्रे समञ्जयेत् । निधिं पश्यति भूमिस्थं नात्र कार्या विचारणा ॥ १,१२.५९ ॥ वंशाग्रबद्धखड्गं च छायाछत्त्रे विनिक्षिपेत् । मन्त्रयेत्कालिकामन्त्रं तं खड्गं धारयेत्करे ॥ १,१२.६० ॥ त्रैलोक्यविजयी धीरो भवेद्वीरो जगत्त्रये । वंशाग्रे रोचनं बद्ध्वा छायाछत्त्रे निवेशयेत् ॥ १,१२.६१ ॥ ललाटे तिलकं तेन कृत्वा लोकं वशं नयेत् । स्रोतोञ्जनाञ्जने तद्वच्छायाच्छत्रे निवेशयेत् ॥ १,१२.६२ ॥ तेनाञ्जनेनाञ्जितोऽसौ देवैरपि न दृश्यते । पादुके पूर्ववद्बद्ध्वा छायाच्छत्रे निधापयेत् ॥ १,१२.६३ ॥ पादाभ्यां पादुके धृत्वा यत्र यत्राभिवाञ्छति । प्रयातुं तत्र तत्रैव नयतस्तं च पादुके ॥ १,१२.६४ ॥ पूर्ववद्रक्तवस्त्रं च छायाच्छत्रे निवेशयेत् । आवेष्टयेत्तं च पटमदृश्यो भवति क्षणात् ॥ १,१२.६५ ॥ समुज्झिते पटे पश्चाद्दृश्यतेऽसौ न संशयः । कान्तं व्योम हेम सूतमेकीकृत्य विमर्दयेत् ॥ १,१२.६६ ॥ गोलीभूतं तु वस्त्रेण वंशाग्रे बन्धयेत्सुधीः । छायाच्छत्रे स्थापयेत्तत्कालीमन्त्रेण मन्त्रयेत् ॥ १,१२.६७ ॥ स्पर्शवेधी भवेदेतत्सत्यं सत्यं वरानने । श्रीशैलपश्चिमद्वारे देवो ब्रह्मेश्वरः स्थितः ॥ १,१२.६८ ॥ दुर्गा देवी च तत्रस्था सोपानं नवमं च यत् । तुङ्गभद्रायां च नद्यां ततो ब्रह्मेश्वरस्य च ॥ १,१२.६९ ॥ द्वारदेशे मुद्गवर्णं चत्वारः स्पर्शका अमी । चिञ्चावनं च नैरृत्ये स्थितं ब्रह्मेश्वरस्य हि ॥ १,१२.७० ॥ कुण्डं च विद्यते तत्र चिञ्चाधश्चण्डिका स्थिता । एकपादेन सततं तच्चिञ्चाफलमाहरेत् ॥ १,१२.७१ ॥ वस्त्रेण बन्धयेत्कुण्डे क्षिप्त्वा स्नानं समाचरेत् । स्नानान्ते तानि गृह्णीयात्तावन्मत्स्या भवन्ति हि ॥ १,१२.७२ ॥ तदिन्धनैः पचेत्ताश्च ह्यस्थिपुच्छशिरस्त्यजेत् । दद्याद्देवायैकमंशमतिथीनां द्वितीयकम् ॥ १,१२.७३ ॥ तृतीयांशं स्वयं भक्षेन्मूर्छितो भवति क्षणात् । दिव्यो भवति सिद्धोऽयं बिलं पश्यति भूतले ॥ १,१२.७४ ॥ जरामरणनिर्मुक्तो ह्यबध्यो निर्जरैरपि । अलम्पुरोत्तरे ग्रामो विद्यते भीमपादुकः ॥ १,१२.७५ ॥ पार्श्वे तु तस्य ग्रामस्य हस्तमात्रं धरां खनेत् । पाषाणा हि फणाकाराः स्पर्शसंज्ञा भवन्ति ते ॥ १,१२.७६ ॥ योगीश्वरीति देव्यस्ति तत्रालंपुरदेवता । तस्याग्रतो रम्यगुहा तस्या मध्ये खनेद्भुवम् ॥ १,१२.७७ ॥ पाषाणा भेदसंकाशा ग्राह्या मार्जालविष्ठया । संमिश्र्य निक्षिपेद्वङ्गे द्रुते तत्तारतां व्रजेत् ॥ १,१२.७८ ॥ मध्वाज्याभ्यां पिबेत्तांश्च पाषाणान्साधकोत्तमः । दिव्यो भवति सिद्धोऽयं वलीपलितमृत्युजित् ॥ १,१२.७९ ॥ श्रीपर्वतोत्तरद्वारे देवो नाम्ना महेश्वरः । तिष्ठति भ्रमराम्रश्च तत्र तत्फलमाहरेत् ॥ १,१२.८० ॥ स्फोटयेच्च तदन्तस्था निर्यान्ति भ्रमरास्तथा । सजीवा अथ तान्सर्वान्भ्रमरांस्तान्विवर्जयेत् ॥ १,१२.८१ ॥ तत्फलानि पचेत्क्षारे यावच्छक्यं पयः पिबेत् । क्षणं मूर्च्छा भवेत्तेन मूर्च्छान्ते च पयः पिबेत् ॥ १,१२.८२ ॥ एवं कुर्यात्प्रयत्नेन चैकविंशतिवासरम् । तेन वज्रशरीरः स्याद्वलीपलितवर्जितः ॥ १,१२.८३ ॥ वेदवेदाङ्गतत्त्वज्ञो जीवेदादित्यतारकम् । तरसा वायुना तुल्यस्तत्क्षणाद्भवति प्रिये ॥ १,१२.८४ ॥ तदाम्रस्य फलेनैव त्यक्तभ्रमरकेन च । वङ्गस्य पलसाहस्रं द्रावितं रजतं भवेत् ॥ १,१२.८५ ॥ रन्ध्रमापादयेदाम्रफले भृङ्गं विवर्जयेत् । तन्मध्ये निक्षिपेत्सूतं कर्षं कृष्णाभ्रसत्वकम् ॥ १,१२.८६ ॥ निरुध्य वक्त्रं समृदा गोमयेन च लेपयेत् । छायायां शोषयेत्काष्ठैस्तदीयैः प्रहरं पचेत् ॥ १,१२.८७ ॥ स्वभावशीतलं कृत्वा वक्त्रस्थां कारयेत्सुधीः । खेचरत्वमवाप्नोति वलीपलितवर्जितः ॥ १,१२.८८ ॥ जीवेच्चन्द्रार्कपर्यन्तं वाग्मित्वं ब्रह्मणा समम् । सूतं कृष्णाभ्रसत्वं चाम्रफले पूर्ववत्क्षिपेत् ॥ १,१२.८९ ॥ प्रलिप्य गोशकृन्मृद्भ्यां पुटेदारण्यकोपलैः । स्वशीतं पारदं ग्राह्यं मधुसर्पिर्भिर्युतं लिहेत् ॥ १,१२.९० ॥ गुञ्जामात्रं च मासान्तं बालो भवति मानवः । नवनागोपमः सत्वे जीवेद्ब्रह्मैकवासरम् ॥ १,१२.९१ ॥ उत्तरे श्रीगिरीशस्य विद्यते शुक्लपर्वते । पञ्चोपचारैः सम्पूज्य त्रिषु लोकेषु विश्रुतः ॥ १,१२.९२ ॥ ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकः । पश्येत्पश्चिमदिग्भागमन्तरिक्षे विमानकम् ॥ १,१२.९३ ॥ दिव्यं ह्यनेकरुचिरं सद्यः प्रत्ययकारकम् । ततः पश्चिमदिग्भागे व्रजेत्तीर्त्वा महानदीम् ॥ १,१२.९४ ॥ दृश्यते च गुहा तत्र प्रविशेत्पश्चिमाननः । त्रियोजनं व्रजेत्तत्र विभीरेकोऽविकल्पकः ॥ १,१२.९५ ॥ कदलीकाननं तत्र दृश्यते पञ्चयोजनम् । अच्छोदपूर्णा सरसी तन्मध्ये भद्रपीठकम् ॥ १,१२.९६ ॥ तत्पीठं तु महद्दिव्यं पश्येत्स्फटिकसन्निभम् । उच्चारयेन्मन्त्रमिमं दण्डवत्प्रणतिं भजेत् ॥ १,१२.९७ ॥ ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीमों स्वाहा । तत्र स्नात्वा जपेन्मन्त्रं लक्षमेकं वरानने । कन्दमूलाशनो वा यथेष्टं साधकः प्रिये ॥ १,१२.९८ ॥ सिंहासनान्तरे देवं पश्येत्स्फटिकसन्निभम् । चतुर्भुजं त्रिणेत्रं च विशदेन्दुकलाधरम् ॥ १,१२.९९ ॥ नीलग्रीवं नागभूषं परश्वथमृगायुधम् । वराभयं वरेण्यं तं विशिष्टविबुधार्चितम् ॥ १,१२.१०० ॥ नमस्कुर्याच्च साष्टाङ्गं मन्त्रैः स्तोत्रैर्मुहुर्मुहुः । ततः प्रसन्नः स शिवो वरं दत्ते यथेप्सितम् ॥ १,१२.१०१ ॥ शतमायतनं तत्र कूपं नवशतं यथा । आरामाश्चापि तावन्ति नन्दनानि वनानि च ॥ १,१२.१०२ ॥ वाप्यो नवशतं सन्ति विवरं चैव तत्समम् । कल्पवृक्षाश्च तावन्ति एते सर्वेऽपि सिद्धिदाः ॥ १,१२.१०३ ॥ तत्रास्ते मोहली नाम्ना प्रथिता यक्षिणीष्टदा । ब्रूते सा देहि मे भुक्तिं सिद्धिं त्वं यदि वाञ्छसि ॥ १,१२.१०४ ॥ देवि दास्याम्यहं भुक्तिं वक्तव्यमिह चामुना । कन्दमूलं फलं तस्यै पायसं वा समर्पयेत् ॥ १,१२.१०५ ॥ सा यक्षिणी पुनर्वक्ति यावद्भुञ्जे सुतं मम । धारयेर्वक्षसा तावद्वरं दास्यामि ते महत् ॥ १,१२.१०६ ॥ विसृजेस्त्वं यदि तदा भवन्तं हन्मि निर्दया । एवं गतभयश्चीरः कुर्याच्चेत्सिद्धिभाग्भवेत् ॥ १,१२.१०७ ॥ व्रजेदुदीचीदिग्भागे तत्सरो योजनार्धके । तत्रास्ते चन्दनं दिव्यं पुष्पपूर्णं महेश्वरि ॥ १,१२.१०८ ॥ तत्पुष्पाघ्राणमात्रेण क्षुत्पिपासा न बाधते । भक्षयेदथवा तस्य फलमेकं यथोचितम् ॥ १,१२.१०९ ॥ वज्रकायो भवेत्तस्य भक्षणादेव मानवः । सरोदक्षिणदिग्भागे गच्छेद्योजनपादकम् ॥ १,१२.११० ॥ नन्दनं दृश्यते तत्र दाडिमीवृक्षसंकुलम् । तत्फलं भक्षयेद्यस्तु जीवेद्युगसहस्रकम् ॥ १,१२.१११ ॥ तस्यैव सरसः पूर्वभागे क्रोशार्धमात्रकम् । गच्छेद्धात्रीफलैर्युक्तं विद्यते नन्दनं वनम् ॥ १,१२.११२ ॥ अश्नीयात्तत्फलं धीरो जीवेत्संवर्तकत्रयम् । सरसस्तस्य भागे च पश्चिमे योजनं व्रजेत् ॥ १,१२.११३ ॥ तत्र श्रीफलसम्पूर्णं नन्दनं विद्यते वनम् । अद्यते तत्फलं येन जीवत्याचन्द्रतारकम् ॥ १,१२.११४ ॥ तत्रैव नन्दनवने लिङ्गं स्यान्नीलवर्णकम् । तस्योदग्द्वारमार्गेण विशेन्नागो महाबलः ॥ १,१२.११५ ॥ तत्र सप्तफणोपेतस्तूग्रभीतिकरो महान् । एवंविधं महानागं हुंहुंकारं वदन्मुहुः ॥ १,१२.११६ ॥ नमस्कुर्यात्प्रयत्नेन साधकः सिद्धिकाङ्क्षया । वदत्येवं महानागस्त्वदृश्यत्वं ददामि ते ॥ १,१२.११७ ॥ याहि स्वं पश्चिमद्वारं दिव्या कन्यास्ति तत्र वै । समुच्चरन्महामन्त्रं व्रजेत्तत्रैव साधकः ॥ १,१२.११८ ॥ ददाति हारं सा कन्या प्रवेशं न ददाति च । हारं गले धारयेत्तं तेन सारस्वतं भवेत् ॥ १,१२.११९ ॥ तस्माद्दक्षिणदिग्द्वारे व्रजेद्भीतिकरं परम् । तत्र पश्येन्मुक्तकेशं जिह्मनेत्रं दिगम्बरम् ॥ १,१२.१२० ॥ गदाहस्तं नीलवर्णं दृष्ट्वा श्रीक्षेत्रपालकम् । वन्देत मन्त्रमुच्चार्य स्तोत्रैर्विघ्ननिवारणम् ॥ १,१२.१२१ ॥ हाहाहेहेहुंहुंकारं फठुं स्वाहान्तमेव च । क्षेत्रपालोऽप्यनेनैव मन्त्रेणाशु प्रसीदति ॥ १,१२.१२२ ॥ स्वागत्वं वितरत्येष प्रवेशं न ददाति हि । अथ व्रजेत्पूर्वदिशो द्वारं तत्र गणाधिपम् ॥ १,१२.१२३ ॥ स्थितं प्रपूजयेत्तत्र प्रविशेत्साधकोत्तमः । दृश्यते दिव्यलिङ्गं च चापस्तत्र मनोहरः ॥ १,१२.१२४ ॥ ओं हुङ्कारेण मन्त्रेण पूजयेच्च तमीश्वरम् । उपवासेन तत्रैव दिवारात्रं जपेत्सुधीः ॥ १,१२.१२५ ॥ प्रत्यक्षो भवतीशानो ददाति हि वरं परम् । इत्येवमादयः सन्ति सिद्धयः कदलीवने ॥ १,१२.१२६ ॥ तत्रैव सरसः पूर्वभागे योजनमात्रके । अक्षरैर्लिखितं द्वारि तत्र पद्मावतीबिलम् ॥ १,१२.१२७ ॥ वमनाद्यैर्विशुद्धात्मा प्रविशेत्तत्र साधकः । तत्र चापान्तरशतं गच्छेत्तत्र मृदङ्गकम् ॥ १,१२.१२८ ॥ आलोक्य वादयेत्तं च तद्ध्वनिश्रवणात्तदा । पद्मावती स्वयं याति ह्यमृतं च ददाति च ॥ १,१२.१२९ ॥ तस्य पानेन सिद्धोऽयममरत्वं लभेत च । ततः सैनं समागम्य प्रार्थयेत्त्वं ममान्तिकम् ॥ १,१२.१३० ॥ समागच्छालये दिव्ये कन्यापञ्चशताकुले । स्थित्वा मम पतिर्भूया ब्रह्मायुष्यावधि प्रभो ॥ १,१२.१३१ ॥ तदन्ते शाश्वतं स्थानं गमिष्यसि न संशयः । तस्य पूर्वतटाकस्य चाग्नेय्यां दिशि विद्यते ॥ १,१२.१३२ ॥ कदम्बेश्वरदेवोऽपि वृक्षः कादम्बकोऽग्रतः । तत्र पत्राणि चादाय कटुतैलेन लेपयेत् ॥ १,१२.१३३ ॥ तद्बीजसंभवैस्तैलैर्लिम्पेद्वाथ पचेत्सुधीः । तत्काष्ठैस्तानि मत्स्याः स्युस्ताम्रपात्रे विनिक्षिपेत् ॥ १,१२.१३४ ॥ वर्ज्यमस्थि शिरः पुच्छं क्षौद्रसर्पिर्युतं भजेत् । तत्सेवया भवेत्सिद्धो रुद्रतुल्यो महाबलः ॥ १,१२.१३५ ॥ तद्वृक्षश्च नदीतीरे कुण्डलेशस्य सन्निधौ । विद्यते पूर्ववद्युक्त्या सिद्धिर्भवति नान्यथा ॥ १,१२.१३६ ॥ अस्त्युत्तरे पुष्पगिरिः कपोतेशश्च विद्यते । त्रिः प्रदक्षिणमातन्यात्तस्य मूर्धानमाव्रजेत् ॥ १,१२.१३७ ॥ खेचरत्वं भवेत्तस्य साधकस्य न संशयः । तस्य पूर्वोत्तरे भागे छेदिकीद्वारकं स्थितम् ॥ १,१२.१३८ ॥ उदङ्मुखं विशेत्तत्र त्रिचापान्तरमादरात् । मूषिकाकारपाषाणं तक्रे पिष्ट्वा पिबेन्नरः ॥ १,१२.१३९ ॥ क्षिप्रं मूर्च्छा भवेत्तस्य जीवेद्ब्रह्मदिनत्रयम् । वेधयेत्सर्वलोहानि स्पर्शमात्रान्न संशयः ॥ १,१२.१४० ॥ उपोष्य च दिवा नक्तं देवाग्रे सिद्धिमाप्नुयात् । विद्यते देवतायुग्मं कपोतेश्वरदक्षिणे ॥ १,१२.१४१ ॥ आ नाभिमात्रं निखनेद्देवताद्वयमध्यतः । गोरोचनोपमास्तत्र पाषाणाः सन्ति तान्हरेत् ॥ १,१२.१४२ ॥ पिष्ट्वा क्षौद्रघृताभ्यां च पिबेद्यः सोऽमरो भवेत् । कपोतेशस्य वायव्ये निखनेद्धस्तमात्रकम् ॥ १,१२.१४३ ॥ तत्र पारावताकारपाषाणाः स्पर्शसंज्ञकाः । देवताराधनं कृत्वा तेषामेकं समाहरेत् ॥ १,१२.१४४ ॥ ऐशान्यां श्रीगिरीशस्य ह्यस्त्येव भृगुपातनम् । तत्समीपे दिव्यकुण्डं मृदं तस्मात्समाहरेत् ॥ १,१२.१४५ ॥ गव्यपञ्चकयुक्तां तां धमेत्खदिरवह्निना । तस्माल्लोहं पतेन्नीलं मध्वाज्याभ्यां प्रतापितम् ॥ १,१२.१४६ ॥ तत्सेचयेत्सप्तधौते तद्गोलं निक्षिपेन्मुखे । विष्णुतुल्यो भवेत्सिद्धः सर्वज्ञः सर्वगः सुखी ॥ १,१२.१४७ ॥ भृगुपातनशैलाग्रात्क्रोशे दधिकवाटकम् । अच्छतैलगिरिर्नाम्ना तदग्रे विद्यते सदा ॥ १,१२.१४८ ॥ बिलं तत्पश्चिमे ह्यस्ति तन्मध्ये चापपञ्चके । गते पश्येत्तत्र कुण्डं तत्र लाक्षासमं रसम् ॥ १,१२.१४९ ॥ अलाबुपात्रे गृह्णीयात्स सूतः कोटिवेधकः । प्राकारश्चन्द्रगुप्तस्य श्रीगिरीशस्य पश्चिमे ॥ १,१२.१५० ॥ तन्मध्ये विद्यते वेश्म चैत्यं तत्पूर्वतः स्थितम् । चैत्यात्पूर्वे शिला दिव्या मुद्गाभा स्पर्शसंज्ञका ॥ १,१२.१५१ ॥ तत्रास्ते मोहनो दन्ती तमारुह्य समाहितः । पृष्ठात्तस्य तृणं ग्राह्यं तत्सर्वं काञ्चनं भवेत् ॥ १,१२.१५२ ॥ तद्गजस्योत्तरे पार्श्वे जानुदघ्नां खनेद्धराम् । जम्बूफलाभाः पाषाणाः स्पर्शसंज्ञा भवन्ति ते ॥ १,१२.१५३ ॥ क्षितिं खनेद्गजस्याधो जानुमात्रं लभेत्ततः । लक्षवेधकरा सिद्धा त्रिकोणे घुटिका परा ॥ १,१२.१५४ ॥ मल्लिनाथस्य वायव्ये नत्वा देवह्रदः परः । तीर्थं तत्रास्ति पाषाणा मुद्गाभाः स्पर्शसंज्ञः ॥ १,१२.१५५ ॥ लिङ्गं कूर्मोपमं तत्र स्पर्शसंज्ञं शुभं प्रिये । पूर्णिमायां कृत्तिकायां पूजयित्वा समाहरेत् ॥ १,१२.१५६ ॥ तस्माद्गव्यूतियुगलात्स्मृता नीलवनी परा । तस्या लिङ्गं च सलिलं नीलवर्णं प्रशस्यते ॥ १,१२.१५७ ॥ अश्वाम्रकाकसङ्काशाः पाषाणाः स्पर्शवेधकाः । देवालयान्तर्निखनेज्जानुमात्रान्तराद्धराम् ॥ १,१२.१५८ ॥ मूषिकाकारपाषाणाः स्पर्शसंज्ञा भवन्ति ते । श्रीगिरीशस्य नैरृत्यां ख्याता गुण्डीप्रभाख्यया ॥ १,१२.१५९ ॥ तस्याग्रगर्ते पीताभां मृत्तिकां च पुटे दहेत् । तस्यान्निःसरति स्वर्णं शुद्धदेवार्हकं परम् ॥ १,१२.१६० ॥ तत्रास्ते भृङ्गचूतोऽपि पूर्ववत्सिद्धिदायकः । तथा तम्बीपुरे चास्ति तीर्थे च विपुले शुभम् ॥ १,१२.१६१ ॥ सदाफलं तु विख्यातं तस्याः पूर्वोत्तरे सुधीः । श्रीगिरेर्नैरृते भागे महानन्देति विश्रुतः ॥ १,१२.१६२ ॥ व्रजेद्घण्टापथेनैव तस्य पूर्वोत्तरे सुधीः । तत्रास्ते कालकण्ठेशो नाम्नाग्रे तस्य कुण्डकम् ॥ १,१२.१६३ ॥ तत्रेन्द्रगोपसङ्काशं सिद्धिः सूतस्य विद्यते । भवन्ति सप्त लोहानि स्वर्णं तप्तानि सेकतः ॥ १,१२.१६४ ॥ ऐशान्ये श्रीगिरीशस्य चास्ति श्रीमालिनीश्वरः । तस्योत्तरदिशि ख्यातस्तूमापर्वतसंज्ञकः ॥ १,१२.१६५ ॥ तस्याग्रे च त्रिशूलाभाः सन्ति दर्भाः शुभङ्कराः । तदधो निखनेन्नाभिमात्रं नीलां मृदं हरेत् ॥ १,१२.१६६ ॥ अक्षकाष्ठैः पचेत्तां च देवातिथ्यग्नये क्रमात् । एकैकभागं कल्पेत चतुर्थांशं स्वयं भजेत् ॥ १,१२.१६७ ॥ जीवेत्कल्पायुतं सिद्धो महाबलपराक्रमः । इलेश्वरस्य निकटे तत्र कोटीश्वरः स्थितः ॥ १,१२.१६८ ॥ पुष्पं पत्रं तदग्रेऽस्ति स्पर्शवेधकरं भवेत् । तत्राचलेश्वरो देवः स्पर्शवेधकरः परः ॥ १,१२.१६९ ॥ तस्य योजनमात्रे च दक्षिणे चामरेश्वरः । ततः स्वर्णशिला चास्ति तदूर्ध्वं नरमांसकम् ॥ १,१२.१७० ॥ गोमांसं वा क्षिपेत्काष्ठैर्बादरैर्ज्वालयेत्सुधीः । प्रातः काञ्चनसङ्काशा दृश्यते सा शिला तदा ॥ १,१२.१७१ ॥ प्रत्यग्रपुष्पवत्याश्च रजसा भावितांशुकम् । लोडयेत्तच्छिलायां च क्षिपेदल्पाम्बुपात्रके ॥ १,१२.१७२ ॥ तस्य संस्पर्शमात्रेण लेहः स्यात्काञ्चनं परम् । श्रीगुरौ यत्र तत्रापि पिण्डभूमिस्थितोपलाः ॥ १,१२.१७३ ॥ कर्षमात्रं तु तच्चूर्णं भक्षयेत्त्रिफला समम् । वलीपलितजिन्मासाज्जीवेदाचन्द्रतारकम् ॥ १,१२.१७४ ॥ श्रीगिरीन्द्रस्य नैरृत्यां पटाहकर्ण ईश्वरः । तस्य पूर्वोत्तरे भागे पञ्चविंशतिचापके ॥ १,१२.१७५ ॥ द्विहस्तमात्रोर्ध्वशिला खनेत्तत्र द्विहस्तकम् । शरावसंपुटाकारान् दृषदस्तान्समाहरेत् ॥ १,१२.१७६ ॥ कुर्वीत तानग्निवर्णान् सिञ्च्यात्कूष्माण्डजैर्द्रवैः । तन्मध्यान्नवनीतं तु दद्याद्देवाय भागकम् ॥ १,१२.१७७ ॥ भागैकमतिथेर्देयं भागमेकं स्वयं लिहेत् । दिवा नक्तं भवेन्मूर्च्छा विनिद्रो भवति स्वयम् ॥ १,१२.१७८ ॥ वलीपलितसंवर्ज्यो जीवेद्वर्षायुतं नरः । स्पर्शकान्तस्य सोपानं द्वितीयं भवति प्रिये ॥ १,१२.१७९ ॥ तद्देवपार्श्वयोः सर्वे पाषाणाः श्वेतपीतकाः । स्पर्शाः सर्वा भवन्त्येते तेषु चैकं समाहरेत् ॥ १,१२.१८० ॥ प्राच्यां हि तस्य देवस्य समीपे कूपमस्ति च । मण्डूकाभाश्च पाषाणाः सन्ति च स्पर्शसंज्ञकाः ॥ १,१२.१८१ ॥ तस्येश्वरस्य चोदीच्यां लिङ्गाद्रिर्विद्यते महान् । तदुत्तरस्यां दिश्यस्ति तटिनी पूर्ववाहिनी ॥ १,१२.१८२ ॥ तटिन्याः पश्चिमाशायां पिङ्गाभं लिङ्गमस्ति हि । पूर्णशैलोदकं कुण्डं तत्र स्यात्क्षणवेधकम् ॥ १,१२.१८३ ॥ द्वियोजने महेशस्य दक्षिणे चण्डिका स्थिता । पिण्डिकाख्या सुविख्याता तस्या वायव्यकोणतः ॥ १,१२.१८४ ॥ अन्धुरस्ति हि तन्मध्ये मुद्गवर्णास्तथोपलाः । केचित्पथ्यानिभाः सन्ति ते सर्वे स्पर्शसंज्ञकाः ॥ १,१२.१८५ ॥ अत्रत्यानां च सर्वेषां स्पर्शानां विधिरुच्यते । यदि स्थूलं पेषयेत्तं श्लक्ष्णं मूषान्तरेण हि ॥ १,१२.१८६ ॥ कुर्यात्सर्वाणि लोहानि तस्यामावर्तयेत्प्रिये । तत्सर्वं जायते स्वर्णं कुर्यादेवं यथेष्टकम् ॥ १,१२.१८७ ॥ सूक्ष्मश्चेत्सर्वलोहानां द्रुतानामन्तरे क्षिपेत् । तत्स्पर्शात्सर्वलोहानि काञ्चनत्वं प्रयान्ति हि ॥ १,१२.१८८ ॥ वायव्यां मल्लिनाथस्य तीर्थे सर्वेश्वराख्यकम् । तस्य दक्षिणदिग्भागे राजमार्गे द्वियोजने ॥ १,१२.१८९ ॥ गते डोंगलिका तत्र दृश्यते तस्य मूर्धनि । कृष्णधात्रीफलान्येव सन्ति तानि च भक्षयेत् ॥ १,१२.१९० ॥ सप्तवासरपर्यन्तमा तृप्तिं वज्रविग्रहः । जरामरणनिर्मुक्तो जीवेत्कल्पशतत्रयम् ॥ १,१२.१९१ ॥ तस्माच्च दक्षिणे भागे काकलारीमहावने । तत्रास्ते स्तम्बकदली प्रविशेत्तत्र साधकः ॥ १,१२.१९२ ॥ क्रोशार्धमात्रं गच्छेच्च रसकुण्डं च दृश्यते । अलाबुपात्रे संस्थाप्य कोटिवेधी भवेत्तु सः ॥ १,१२.१९३ ॥ शिलामयो नीलवर्णः शिखण्डी तत्र दृश्यते । तन्मुखाग्रेऽस्ति कुण्डं वितस्तिमात्रातिनीलकम् ॥ १,१२.१९४ ॥ शुष्कवंशं च तन्मध्ये क्षणं क्षिप्तं नवं भवेत् । पत्रं पुष्पं दिनैकेन भवत्येव न संशयः ॥ १,१२.१९५ ॥ तत्र प्रस्थं रसं क्षिप्त्वा तावन्मात्रं जलं हरेत् । मधुतुल्यं पिबेत्तं च मूर्च्छा भवति तत्क्षणात् ॥ १,१२.१९६ ॥ क्षणेन लब्धज्ञानः स्याज्जीवेद्युगसहस्रकम् । श्रीगिरेर्वह्निदिग्भागे घटिकासिद्धखेचरः ॥ १,१२.१९७ ॥ अस्ति तस्य पुरो भूमौ पञ्चहस्तं खनेत्सुधीः । बदराकारपाषाणा विद्यन्ते खगतिप्रदाः ॥ १,१२.१९८ ॥ एकं वक्त्रे सदा धार्यं सिद्धैः खेगतिलिप्सुभिः । <सिद्धिक्रमः> श्रीशैले सर्वसिद्धीनामुक्तानां विधिरुच्यते ॥ १,१२.१९९ ॥ मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेन्मनुम् । अघोरान्तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ॥ १,१२.२०० ॥ <अथ न्यासः> ओं ह्रीं महापर्वतवासिन्यै हृदयाय नमः । ओं ह्रीं ज्येष्ठायै शिरसे स्वाहा । ओं ह्रीं रौद्र्यै शिखायै वषट् । ओं ह्रीं कनककुण्डलिन्यै कवचाय हुम् । ओं ह्रीं संजीविन्यै नेत्रेभ्यो वौषट् । ओं ह्रीं मालिन्यै अस्त्राय फट् । ओं हुं शिवाय नमः पादयोर्न्यसेत् । ओं वं वामदेवाय नमः जङ्घयोः । ओं पं पद्मिन्यै नमः गुह्ये । ओं कां कन्याकुमार्यै नमः नाभौ । ओं ग्लौं नमः कुक्षौ । ओं द्रां ह्रीं दुर्गायै नमः उरसि । ओं हुं विन्ध्यवासिन्यै नमः कण्ठमूले । ओं लं नमः ग्रीवायाम् । ओं ह्रीं श्रीमष्टभुजायै नमः भुजयोः । ओं हुं सर्वतोमुखिन्यै नमः मुखे । ओं प्रकाशिकायै नमः नेत्रयोः । ओं महिषमर्दिन्यै नमः कर्णयोः । ओं ह्रां सर्वाङ्गसुन्दर्यै नमः मूर्ध्नि न्यसेत् । एवमङ्गरक्षां कृत्वा क्षेत्रं पूजयेत् । ओं ह्रीं श्रीं नमो भगवति सर्वेश्वरि देवि नमो मण्डलवासिनि क्रां क्रीं क्रूं हन हन पच पच मथ मथ शीघ्रमावेशय शीघ्रमावेशय एह्येहि भुवनवन्दिते स्वाहा । अनेन मन्त्रेण देवतामावाहयेत् । ओं ह्रां ह्रीं ह्रूं त्रिभुवनेश्वर्यै नमः सांनिध्यं कुरु कुरु स्वाहा । अनेन मन्त्रेण तत्क्षेत्रदेवतां पूजयेत् । ओं कृष्णवर्णिनि अपरामुख्यै नमः पूर्वस्मिन् । ओं सुधावर्षिण्यै नमः आग्नेये । ओं पर्वताकृष्णवर्णिनीरौद्रमुख्यै नमः दक्षिणे । ओं बालार्कवर्णिनीमहालक्ष्म्यै नमः नैरृत्ये । ओं खं रक्तपर्वतवर्णिनी । महामहिषासुरमर्दिन्यै नमः पश्चिमे । ओं मां सर्ववर्णिनीहुङ्कारवाग्देव्यै नमः वायव्ये । ओं सिह्मवाहिन्यै नमः उत्तरे । ओं शिवाशिवाशिवात्रिशूलहस्तायै नमः ऐशान्ये । ओं ह्रां ह्रीं क्लीं मनोन्मन्यै नमः आकाशे । ओं ह्रां ह्रीं महामोहिन्यै नमः पाताले । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रौं ह्रं महाविद्ये जम्भय जम्भय मोहय मोहय दर्शय दर्शय मूर्छय मूर्छय क्लीं मथ मथ आकर्षयाकर्षय हुं फट्स्वाहा । मध्ये च पूजयेत् । एवं न्यासं रक्षां पूजां कृत्वा तत्कर्मणि लक्षमेकमघोरं जपेत् । ततः सिद्धिमवाप्नोति । मन्त्रं यथा । ओं ह्रां ह्रीं ह्रमघोरतर प्रस्फुर प्रस्फुर प्रकट प्रकट कह कह शम शम जात जात दह दह पातय पातय ओं ह्रैं ह्रां ह्रमधोरास्त्राय फट् । अमुं मन्त्रं लक्षं जपेत् । ततः स्वप्ने प्रत्यक्षीभूय देवता वरं ददाति ॥ १,१२.२०१ ॥ आक्, १, १३ <गन्धकः> श्रीभैरवी । प्रणम्य शिरसा शम्भुमस्तौषीत्परमेश्वरी । श्रुतं तव प्रसादेन दिव्यं सर्वरसायनम् ॥ १,१३.१ ॥ उत्पत्तिं गन्धकस्यापि जातिं संशोधनं तथा । सेवां रसायनफलं क्रमाद्ब्रूहि महेश्वर ॥ १,१३.२ ॥ श्रीभैरवः । देवि शृणु प्रवक्ष्यामि गन्धकस्य रसायनम् । श्वेतद्वीपे पुरा देवि लताकल्पद्रुमोज्ज्वले ॥ १,१३.३ ॥ नानामणिगणाकीर्णे नानापुष्पफलाकुले । सिद्धविद्याधरस्त्रीभिः किन्नर्यप्सरसां गणैः ॥ १,१३.४ ॥ अनेकनिर्जरस्त्रीभिः क्रीडन्ती त्वं मदोल्लसा । वेणुवीणाविनोदेन वाद्यनादैर्मनोहरैः ॥ १,१३.५ ॥ तालैर्झल्लरिकाढक्कानिनादैः करतालकैः । अत्यानन्देन देवेशि नृत्यन्ती त्वं सुरार्चिते ॥ १,१३.६ ॥ तदा ऋतुमती जाता सुस्राव च रजो महत् । सुगन्धिना तद्रजसा त्वद्वस्त्रं रक्ततां ययौ ॥ १,१३.७ ॥ विहाय तद्रक्तवस्त्रं स्नात्वा क्षीरमहोदधौ । अनेकामरकान्ताभिर्वृता कैलासमाव्रजः ॥ १,१३.८ ॥ वायुना तद्रजोवस्त्रं क्षिप्तं क्षीरमहोदधौ । मग्नं तत्रैव तद्वस्त्रं चिरकालं सुरेश्वरि ॥ १,१३.९ ॥ मथ्यमानान्महाम्भोधेरमृतेन सहोद्भवम् । श्लाघ्येन निजगन्धेन मोदयन्नसुरान्सुरान् ॥ १,१३.१० ॥ तेनैव नाम्ना ऊचुस्ते शक्राद्याः सुरपुङ्गवाः । गन्धकोऽयं भवत्वस्य नाम्ना जातं तु मत्प्रिये ॥ १,१३.११ ॥ चतुर्विधं शोणितं ते दिव्यं बलकरं परम् । समर्थोऽयं गन्धकस्तु रसबन्धे च जारणे ॥ १,१३.१२ ॥ रसेन्द्रे ये गुणाः सन्ति ते गुणाः सन्ति गन्धके । इत्यूचुरिन्द्रप्रमुखा हृष्टा गन्धकगन्धतः ॥ १,१३.१३ ॥ तदा प्रभृति लोकेऽस्मिन्ख्यातोऽयं गन्धकः प्रिये । जपाकुसुमसङ्काशः क्षत्रियश्चोत्तमः प्रिये ॥ १,१३.१४ ॥ पीतो वैश्यो मध्यमः स्याच्छ्वेतो विप्रोऽधमः स्मृतः । कृष्णवर्णो भवेच्छूद्रः प्रिये स्यादधमाधमः ॥ १,१३.१५ ॥ रक्तवर्णं लोहवेधि पीतवर्णं रसायनम् । श्वेतवर्णं च भैषज्ये कृष्णं कुष्ठादिलेपने ॥ १,१३.१६ ॥ <गन्धकशुद्धिः> अथ वक्ष्ये गन्धकस्य शोधनं सिद्धिदायकम् । तिलपर्ण्यजमोदाश्च ब्राह्मी भृङ्गी च धुत्तुरः ॥ १,१३.१७ ॥ एतेषां च रसैर्भाव्यं चूर्णितं गन्धकं दिनम् । कान्तपात्रे विनिक्षिप्य समांशाज्येन पाचयेत् ॥ १,१३.१८ ॥ मृद्वग्निना तु तत्पक्त्वा ह्यजाक्षीरे विनिक्षिपेत् । गोक्षीराज्यैः किंचिदूनं स्थाल्या वक्त्रं तु बन्धयेत् ॥ १,१३.१९ ॥ स्वच्छांशुकेन बद्धस्य चूर्णं तदुपरि क्षिपेत् । तदूर्ध्वं श्रावकं रुद्ध्वा तत्स्थाप्यं गर्तकान्तरे ॥ १,१३.२० ॥ वनोत्पलैर्मृदुपुटं दत्त्वा द्रवति गन्धकम् । पुनश्च तिलपर्ण्याद्यैर्भावयेच्छोषयेत्त्रिधा ॥ १,१३.२१ ॥ द्रावयेत्तत्समादाय मत्स्यपित्तेन सप्तधा । भावयेज्जालिनीबीजचूर्णैस्तत्परिपेषयेत् ॥ १,१३.२२ ॥ ततो भृङ्गद्रवैर्भाव्यं सप्तकृत्वस्तपे खरे । जलैः प्रक्षाल्य तत्सम्यक्शोषयेत्तत्पुनः पचेत् ॥ १,१३.२३ ॥ मृद्वग्निना कान्तपात्रे घृताक्ते तु क्षणं ततः । भृङ्गराजद्रवे क्षिप्त्वा शुद्धं तद्गन्धकं भवेत् ॥ १,१३.२४ ॥ रसे रसायने योगे योज्यं सुखकरं भवेत् । <गन्धकरसायनम्> पूर्वोक्तवद्देहशुद्धिं कुर्याद्वान्तिविरेचनैः ॥ १,१३.२५ ॥ सुमुहूर्ते सुनक्षत्रे पूजयित्वा परं शिवम् । गणाधिपं क्षेत्रपालं श्रीगुरुं भिषजं क्रमात् ॥ १,१३.२६ ॥ निष्कैकं त्रिफलाचूर्णं निष्कमेकं च गुग्गुलुम् । गुञ्जोन्मेयं शुद्धगन्धं लिहेदेरण्डतैलतः ॥ १,१३.२७ ॥ गुञ्जावृद्धिक्रमेणैव सेव्यं तत्प्रतिवासरम् । दिनषोडशपर्यन्तं गुञ्जाषोडशमात्रकम् ॥ १,१३.२८ ॥ तदा षोडशघस्रान्ते सेव्यं तत्प्रतिवासरम् । गुञ्जाषोडशिकोन्मेयमपूर्वं त्रिफलां परम् ॥ १,१३.२९ ॥ एतस्मादधिका वृद्धिर्न कार्या सिद्धिलिप्सुना । एवं मासप्रयोगेण कुष्ठमष्टादशं हरेत् ॥ १,१३.३० ॥ तथा प्रमेहान् गुल्मानि कासश्वासक्षयज्वरान् । व्रणान्भगन्दरादींश्चाशीतिवातोद्भवान्गदान् ॥ १,१३.३१ ॥ मासद्वयप्रयोगेण बहुकान्तिं प्रयच्छति । सर्वव्याधिप्रशमनं भवेन्मासत्रयात्प्रिये ॥ १,१३.३२ ॥ ततः षण्मासयोगेन वृद्धो यौवनमाप्नुयात् । एवमब्दप्रयोगेण सिद्धो भवति शाम्भवि ॥ १,१३.३३ ॥ तन्मूत्रमलयोगेन ताम्रं काञ्चनतां व्रजेत् । विधिं च प्रतिषेधं च कुर्यात्पूर्वोक्तवत्सुधीः ॥ १,१३.३४ ॥ रसादि पुण्यममलं यः सेवेत रसायनम् । स एव कृतकृत्यः स्याद्दैवतैरपि पूज्यते ॥ १,१३.३५ ॥ सर्वतीर्थेषु संस्नातः सर्वव्रतफलान्वितः । अश्वमेधादियज्ञानां सर्वेषां फलमाप्नुयात् ॥ १,१३.३६ ॥ धन्यः पुण्यतमः श्रेष्ठः श्लाघनीयो मनीषिभिः । स योगविज्ञः सर्वज्ञः सर्वानुग्राहकः प्रभुः ॥ १,१३.३७ ॥ शुद्धः सर्वगतः शान्तः शूरः सत्वगुणोज्ज्वलः । तस्य देहलयो नास्ति ह्यदृश्यः शिवतां व्रजेत् ॥ १,१३.३८ ॥ आक्, १, १४ <विषम्; विषोत्पत्तिः> श्रीभैरवी । श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् । विषोत्पत्तिं च जातिं च सेवां वद च तत्फलम् ॥ १,१४.१ ॥ श्रीभैरवः । क्षीरोदधौ मथ्यमाने मन्थनीकृतमन्दरैः । सिद्धकिन्नरगुह्येन्द्रपिशाचोरगराक्षसैः ॥ १,१४.२ ॥ ब्रह्माद्यैरखिलैर्देवैरेकतो दनुजाधिपैः । दैत्यैरन्यत्र विपुलैर्महाबलपराक्रमैः ॥ १,१४.३ ॥ ततो जातानि रत्नानि कौस्तुभादीनि कामगौः । कल्पवृक्षो महालक्ष्मीरैरावतमहागजः ॥ १,१४.४ ॥ उच्चैःश्रवास्तथा चेन्दुर्धन्वन्तरिभिषग्वरः । अमृतं च लता दिव्या दिव्यसिद्धिप्रदायकाः ॥ १,१४.५ ॥ मन्दरभ्रमणश्रान्तनागराजमुखात्ततः । विषज्वाला समुत्पन्ना तीव्रा लोकभयंकरी ॥ १,१४.६ ॥ ममज्ज क्षीरजलधावत्यन्तमथनात्पुनः । कालकूटं महाक्ष्वेडं कल्पान्तयमसन्निभम् ॥ १,१४.७ ॥ संवर्ताग्निप्रतीकाशं वीक्ष्य भीताः सुरास्तदा । ममान्तिकं समाजग्मुः स्तुवन्तो दीनमानसाः ॥ १,१४.८ ॥ स्वामिन्सर्वोत्तम त्राहि शरणागतपालक । इत्यादि बहुधा स्तोत्रं कुर्वाणास्ते सुरासुराः ॥ १,१४.९ ॥ अहं स्मितमुखं कृत्वा कालकूटं तदापिबम् । तत्र तत्रावशिष्टं तद्बहुधा समभूद्भुवि ॥ १,१४.१० ॥ क्वचिन्मूलस्वरूपेण क्वापि त्वग्रूपतः प्रिये । कुत्रापि पर्णरूपेण तोयरूपेण कुत्रचित् ॥ १,१४.११ ॥ एवं बहुविधं जातं तत्र तत्र विषं गतम् । तेषां श्रेष्ठं कन्दविषमष्टादशविषं प्रिये ॥ १,१४.१२ ॥ <पोइसोन्:: १० किन्द्स्> क्रमाद्भेदं प्रवक्ष्यामि कालकूटं च दर्दुरम् । हालाहलं मेषशृङ्गं मोहदं ग्रन्थि कर्कटम् ॥ १,१४.१३ ॥ रक्तशृङ्गि हरिद्रं च केसरं दशमं स्मृतम् । एते दशविधाः क्ष्वेडा न प्रयोज्या रसायने ॥ १,१४.१४ ॥ <पोइसोन्:: ८ किन्द्स्> श्वेतशृङ्गी वत्सनाभं सर्षपं शृङ्गि वालुकम् । मुस्तकं सक्तुकं देवि चाष्टमं कर्दमं भवेत् ॥ १,१४.१५ ॥ रसायने योजनीयास्त्वष्टौ भेदाः प्रकीर्तिताः । कालकूटं काकचञ्चुप्रभं दर्दुरसन्निभम् ॥ १,१४.१६ ॥ दर्दुरं नीलवर्णं च हालाहलविषं समम् । मेषशृङ्गी तु मेषस्य शृङ्गाभं मोहदं पुनः ॥ १,१४.१७ ॥ रक्तनीलप्रभं देवि ग्रन्थिकं ग्रन्थिसंयुतम् । कर्कटं कपिलाभं च रक्तशृङ्गि महाविषम् ॥ १,१४.१८ ॥ कृष्णपिङ्गं च रक्ताभं हरिद्राभं हरिद्रकम् । केसरं पद्मकिञ्जल्कप्रभं दशविधं त्विति ॥ १,१४.१९ ॥ श्वेतशृङ्गीभदन्ताभं वत्सनाभं च पाण्डुरम् । सर्षपाकृतिभिर्युक्तं बिन्दुभिः सर्षपं भवेत् ॥ १,१४.२० ॥ शृङ्गी शृङ्गाकृतिर्ज्ञेयो वालुकं वालुकाकृति । मुस्ताकृतिर्मुस्तकं स्याच्छ्वेतवर्णं तु सक्तुकम् ॥ १,१४.२१ ॥ मधूच्छिष्टाकृतिर्देवि कर्दमं विषमुत्तमम् । विषखण्डेषु भग्नेषु दृश्यन्ते येषु बिन्दवः ॥ १,१४.२२ ॥ श्वेतरक्तपीतवर्णाः कृष्णा विप्रादयः क्रमात् । श्वेता रसायने रक्ता वश्ये पारदकर्मणि ॥ १,१४.२३ ॥ क्षुद्रकर्मणि पीताः स्युः कृष्णवर्णास्तु मारणे । विषं युक्त्यामृतं देवि तदयुक्त्या विषं भवेत् ॥ १,१४.२४ ॥ तस्माद्युक्त्या विषं सेव्यमयुक्त्या न कदाचन । रसाभ्रहेमकान्तानां वीर्येण सदृशं विषम् ॥ १,१४.२५ ॥ <विषशुद्धिः> रक्तसर्षपतैलेन लिप्ते वस्त्रे च बन्धयेत् । त्रिदिनान्ते समुद्धृत्य टङ्कणेन समं विषम् ॥ १,१४.२६ ॥ मर्दयेच्छ्लक्ष्णचूर्णं तत्कारयेच्च विशुध्यति । रोगे रसायने योज्यं सिद्धिदं स्याद्वरानने ॥ १,१४.२७ ॥ <विषरसायनम्> शुद्धदेहो विरेकाद्यैः पथ्याशी विषभुग्भवेत् । क्रमेण सेवनीयं तत्सर्षपं राजसर्षपम् ॥ १,१४.२८ ॥ मुद्गव्रीहियवा माषा गुञ्जामात्रं परावधिः । शर्करासहितं सेव्यं क्ष्वेलं तदमृतं भवेत् ॥ १,१४.२९ ॥ कट्वम्ललवणास्त्याज्या व्यायामोष्णातपादयः । तैलसर्षपखाद्याश्च वर्ज्या विषरसायने ॥ १,१४.३० ॥ गव्यं क्षीरं घृतं तक्रं स्निग्धं दधि च शर्करा । सेव्या स्वादुरसद्रव्या नोचेद्विकृतिकारणम् ॥ १,१४.३१ ॥ <विषोपद्रवास्तच्चिकित्सा च> मात्रया सेवितं क्ष्वेलममृतं भवति प्रिये । अतिमात्रं यदि भवेदमृतं च विषायते ॥ १,१४.३२ ॥ प्रमादादतिमात्रं चेत्तदा वेगा भवन्ति च । कष्टं प्रथमवेगे स्याद्वेपथुश्च द्वितीयके ॥ १,१४.३३ ॥ तृतीये च तृषा दाहश्चतुर्थे गतिभञ्जनम् । फेनिलास्यः पञ्चमे स्यात्षष्ठे कन्धरभञ्जनम् ॥ १,१४.३४ ॥ सप्तमे च निरुत्थानं मरणं चाष्टमे भवेत् । तस्माच्छीघ्रं प्रतीकारः करणीयो वरानने ॥ १,१४.३५ ॥ किंचिन्मात्राधिकं क्ष्वेलं नानारोगान्करोति तत् । भ्रान्तिविस्मृतिशूलानि वान्त्यतीसारकं परम् ॥ १,१४.३६ ॥ स्वरसादं गद्गदत्वं दाहं दृष्टिभ्रमं तथा । कर्णरुक्श्वासकासादीनन्यान् वातोद्भवान् गदान् ॥ १,१४.३७ ॥ यदातिमात्रं चिह्नानि दृश्यन्ते वपुषि प्रिये । तदा तु टङ्कणं निष्कमाज्यं चापि चतुर्गुणम् ॥ १,१४.३८ ॥ पेयं तत्परिहारार्थं जलैर्वा तण्डुलीयकम् । मज्जां वा पुत्रजीवस्य फलान्निष्कं जलान्वितम् ॥ १,१४.३९ ॥ तुत्थं पणद्वयोन्मेयं नृमूत्रैर्वा हरिद्रकम् । वचां वा देवदालीं वा सर्पाक्षीं वाथ सार्बुणीम् ॥ १,१४.४० ॥ पटोलीं गिरिपर्णीं नृमूत्रैर्विषजित्पृथक् । लां यां वां हां चतुर्वर्णैर्गारुडं संपुटीकृतम् ॥ १,१४.४१ ॥ स्तम्भस्तोभननिर्वाहनिर्विषीकरणं तथा । लां प्रों लामनेन मन्त्रेण स्तम्भनम् । शीतजलघटमभिमन्त्र्य विषातुरस्य मस्तके जलं ढालयेत् । विषं नाक्रामति । यां प्रों यामनेन स्तोभनमन्त्रेण विषातुरस्य शिखिनमन्धयेत् । वां प्रों वामनेन निर्वाहमन्त्रेणार्कदण्डं वा धुत्तूरकाष्ठदण्डं वाभिमन्त्र्य विषातुरस्य सर्वाङ्गं स्पृष्ट्वा विषं निर्वाहयेत् । हां प्रों हामनेन निर्विषीकरणमन्त्रेण निर्विषीकरणार्थं विषातुरस्य सर्वाङ्गं दण्डेनापामार्जयेत्स्वस्थो भवति । जीर्णं क्ष्वेलं शरीरे चेत्पित्तान्तं वमनं प्रिये ॥ १,१४.४२ ॥ आमान्तं रेचनं कार्यं तण्डुलीयकमूलभुक् । सेवेत मांसं सघृतं विषदोषहरं भवेत् ॥ १,१४.४३ ॥ पूर्वोक्तमात्रासेवी यो महाव्याधेर्विमुच्यते । देवि षण्मासयोगेन जरापलितखण्डनम् ॥ १,१४.४४ ॥ संवत्सरोपयोगेन जीवेच्चन्द्रार्कतारकम् । हिमशीतवसन्तेषु योज्यं विषरसायनम् ॥ १,१४.४५ ॥ ग्रीष्मवर्षशरत्स्वेतन्न प्रयोज्यं कदाचन । वातस्थविरगर्भिण्यः क्षुत्तृड्घर्माध्वपीडिताः ॥ १,१४.४६ ॥ नपुंसका गदक्षीणाः पित्तक्रोधाधिकास्तथा । यक्ष्मिणो नैव योग्याः स्युः सदा विषरसायने ॥ १,१४.४७ ॥ आक्, १, १५ <दिव्यौषधिरसायनानि> श्रीभैरवी । मलमायाविहीनेश जराजन्मगदापह । त्वत्प्रसादेन विदितं रसादीनां रसायनम् ॥ १,१५.१ ॥ इतःपरमपि स्वामिन् शुश्रूषे किमपि प्रभो । सुखोपायोपयोग्यं च दिव्यौषधिरसायनम् ॥ १,१५.२ ॥ ब्रूहि मे तद्विधं दिव्यं सर्वसिद्धिप्रदायकम् । श्रीभैरवः । <१. ब्रह्मकल्पः; ब्रह्मवृक्षतैलकल्पः> वक्ष्यामि ब्रह्मवृक्षादि दिव्यौषधिरसायनम् ॥ १,१५.३ ॥ तत्रादौ ब्रह्मवृक्षस्य शृणु देवि रसायनम् । ब्रह्मवृक्षस्य बीजानि विदध्यान्निस्तुषाणि च ॥ १,१५.४ ॥ परिशोष्यातपे तीव्रे सूक्ष्मचूर्णानि कारयेत् । धात्रीफलेन सप्ताहं भावयेत्पयसाथवा ॥ १,१५.५ ॥ चक्रयन्त्रे क्षिपेत्तानि ततस्तत्तैलमाहरेत् । इत्थमुत्थापितं तैलं दोषघ्नं च रसायनम् ॥ १,१५.६ ॥ ब्रह्मबीजजतैलस्य प्रस्थमाज्यं च तत्समम् । निक्षिप्तं स्निग्धभाण्डे च धान्यराशौ विनिक्षिपेत् ॥ १,१५.७ ॥ मासार्धमासं देवेशि तस्मात्तैलं समाहरेत् । शुद्धदेहो विरेकाद्यैरर्चिताग्निगुरुद्विजः ॥ १,१५.८ ॥ द्विपलं च गवां क्षीरं तत्तैलं निष्कमात्रकम् । संमिश्र्य च पिबेत्प्रातः पथ्याशी स्याज्जितेन्द्रियः ॥ १,१५.९ ॥ एवं द्वितीयेऽपि दिने ह्येकाहान्तरिते क्रमात् । निष्कवृद्धिर्भवेदेवं यावत्षोडशनिष्ककम् ॥ १,१५.१० ॥ एतत्तैलस्य परमा मात्रा ह्यस्यैवमीरिता । पीतमात्रे क्षणं मूर्च्छा जायते सिञ्चयेन्मुखम् ॥ १,१५.११ ॥ प्रबुद्धे सघृतं दद्याद्दुग्धान्नं शर्करान्वितम् । एवं तैलोपयोगेन मासाज्ज्ञानी भवेन्नरः ॥ १,१५.१२ ॥ सकृद्ग्राही सुकान्तश्च षोडशाब्द इव स्थितः । द्वितीये नागबलवान् सर्वव्याधिविवर्जितः ॥ १,१५.१३ ॥ इन्द्रोपमबलो धीरश्चतुर्थे मासि च क्रमात् । वज्रदेहो दिव्यदृष्टिः पञ्चमे खेचरो भवेत् ॥ १,१५.१४ ॥ अणिमादिगुणोपेतः सर्वगः सर्वकालिकः । षष्ठे मासि स्वयं स्रष्टा भोक्ता हर्ता त्रिमूर्तिवत् ॥ १,१५.१५ ॥ वर्षैकसेवनाद्देवि भवेत्साक्षात्सदाशिवः । यावत्तैलोपजीवी स्यात्तावत्क्षीरौदनाशनः ॥ १,१५.१६ ॥ वमनादिविशुद्धाङ्गः कृत्वा वैद्यद्विजार्चनम् । प्रातर्गोक्षीरकुडुबं तैलं किंशुकबीजजम् ॥ १,१५.१७ ॥ कुडुबं पूर्ववज्जातमेकीकृत्य द्वयं पिबेत् । तत्पानमात्रे मूर्छा स्यात्कुर्यात्तं भस्मशायिनम् ॥ १,१५.१८ ॥ सप्तरात्रे प्रबुद्धः स्याद्बद्धवच्छयने स्थितः । नाङ्गानि चालयेदेष जायते विचलेक्षणः ॥ १,१५.१९ ॥ तैले जीर्णे समापन्ने संज्ञा भवति भैरवि । गोक्षीरं तस्य दातव्यं प्रत्यहं दशवासरम् ॥ १,१५.२० ॥ स त्वचं च त्यजेद्देहात्कञ्चुकं भुजगो यथा । क्षीराहारी भवेन्नित्यमेकविंशतिवासरम् ॥ १,१५.२१ ॥ वाचां पतिर्भवेद्धीरः श्रुतं धारयते क्षणात् । दूरश्रावी दिव्यदृष्टिर्जीवेद्ब्रह्मदिनं सुधीः ॥ १,१५.२२ ॥ <ब्रह्मवृक्षपल्लवकल्पः> पुण्यर्क्षे ब्रह्मवृक्षस्य पल्लवानि समाहरेत् । क्रिमिकीटविहीनानि कोमलानि शुभानि च ॥ १,१५.२३ ॥ आतपे शोषयेत्तीव्रे चूर्णितं वस्त्रगालितम् । कुर्यान्नूतनभाण्डे च निक्षिपेच्च प्रयत्नतः ॥ १,१५.२४ ॥ वमनाद्यैर्विशुद्धाङ्गो ब्रह्मचारी जितेन्द्रियः । क्षाराम्लवर्जिताहारः क्षीरशाल्यन्नभोजनः ॥ १,१५.२५ ॥ कोष्णं जलं पिबेन्नित्यं निवाते शयनं भजेत् । कर्षमात्रं च सेवेत मासं गोतक्रसंयुतम् ॥ १,१५.२६ ॥ द्वितीये च तृतीये च वृद्धिः कर्षाधिका क्रमात् । एवं षोडशमासान्तं सतक्रं कुडुबं पिबेत् ॥ १,१५.२७ ॥ एवं नित्योपसेवी यः कुञ्चितस्निग्धकुन्तलः । मत्तमातङ्गबलवान् जीवेद्ब्रह्मदिनं नरः ॥ १,१५.२८ ॥ <ब्रह्मवृक्षपुष्पकल्पः> ब्रह्मवृक्षस्य पुष्पाणि छायायां शोषयेत्सुधीः । चूर्णयेद्गालयेद्वस्त्रे नवभाण्डे विनिक्षिपेत् ॥ १,१५.२९ ॥ विंशत्पलं पुष्पचूर्णं चतुर्विंशतिगोघृतम् । पलमेकत्र संमिश्रं धान्यराशौ निवेशयेत् ॥ १,१५.३० ॥ तदुद्धरेच्च मासान्ते कृत्वा भागांश्चतुर्दश । एकैकं प्रत्येकं सेव्यमेवं मासत्रयं भवेत् ॥ १,१५.३१ ॥ भुञ्जीत शुल्बपात्रे च लवणाम्लादिवर्जितम् । पायसाशी कषायं तृषार्तः खादिरं पिबेत् ॥ १,१५.३२ ॥ त्रिमासाज्जायते गात्रं वज्रवन्नात्र संशयः । नागायुतबलो धीरो वायुवेगगतिर्भवेत् ॥ १,१५.३३ ॥ अस्य वर्षोपयोगेन पुरीषमपि मूत्रकम् । वेधयेत्सर्वलोहानि काञ्चनानि च कारयेत् ॥ १,१५.३४ ॥ जीवेद्ब्रह्मदिनं साक्षाद्दैवतैः सह मोदते । <ब्रह्मवृक्षबीजकल्पः> ब्रह्मवृक्षस्य बीजानि चूर्णयेन्निक्षिपेद्घटे ॥ १,१५.३५ ॥ मध्वाज्यशर्करायुक्तं धान्यराशौ विनिक्षिपेत् । मासादूर्ध्वं समाहृत्य प्रत्यहं कर्षमात्रकम् ॥ १,१५.३६ ॥ उपयुञ्जीत शुद्धात्मा गोक्षीरं च पिबेदनु । यावत्पलं भवेद्वृद्धिस्तावदेवाधिकं न हि ॥ १,१५.३७ ॥ एवं संवत्सरात्सिद्धिर्जायते मृत्युवर्जिता । जीवेद्ब्रह्मदिनं शुद्धो मतङ्गजबलोपमः ॥ १,१५.३८ ॥ <ब्रह्मवृक्षवल्कलकल्पः> सूक्ष्मचूर्णं प्रकुर्वीत ब्रह्मवृक्षस्य वल्कलम् । भावयेद्गव्यपयसा पलं चानुदिनं पिबेत् ॥ १,१५.३९ ॥ जितेन्द्रियश्च पथ्याशी भवेदा वत्सरं सुधीः । दशवर्षसहस्राणि जीवेत्सिद्धो भवेद्ध्रुवम् ॥ १,१५.४० ॥ <ब्रह्मवृक्षनिर्यासकल्पः> ब्राह्मी च मधुकं साज्यं निर्यासं ब्रह्मवृक्षजम् । समभागानि सेवेत पलं चानुपिबेत्पयः ॥ १,१५.४१ ॥ एवमेकाब्दयोगेन शुभंयुदर्शनः शुचिः । जीवेद्ब्रह्मदिनं ज्ञानी वलीपलितवर्जितः ॥ १,१५.४२ ॥ <ब्रह्मवृक्षपञ्चाङ्गकल्पः> पञ्चाङ्गं ब्रह्मवृक्षस्य विधिवत्तत्समाहरेत् । छायाशुष्कं प्रकुर्वीत चूर्णितं पटशोधितम् ॥ १,१५.४३ ॥ कर्षमात्रं लिहेच्छुद्धः क्षौद्राज्याभ्यां दिनोदये । वलीपलितनिर्मुक्तो वत्सराज्जायते नरः ॥ १,१५.४४ ॥ <ब्रह्मवृक्षमूलगुप्तधात्रीकल्पः> अतिस्थूलतरं दीर्घं भेदयेद्ब्रह्मभूरुहम् । मूले त्रिहस्तशेषं च तदग्रे गर्तमारचेत् ॥ १,१५.४५ ॥ धात्रीफलानि पक्वानि तत्र सम्पूरयेत्प्रिये । तच्छिन्नकाष्ठशेषेण तद्गर्तं च निरोधयेत् ॥ १,१५.४६ ॥ कुशैः संवेष्टयेत्सम्यगा मूलाग्रं च लेपयेत् । मृद्गोमयाभ्यां मतिमांस्ततो वस्त्रेण वेष्टयेत् ॥ १,१५.४७ ॥ पुनर्मृद्गोमयाभ्यां च लेपयेच्छोषयेत्सुधीः । सम्यक्शुष्के च परितः करीषैः परिपूरयेत् ॥ १,१५.४८ ॥ दहेत्तं शीतलीभूते सान्द्रं तत्फलमाहरेत् । भाण्डे क्षौद्राज्यभरिते क्षिपेद्धात्रीफलं च तत् ॥ १,१५.४९ ॥ भूगृहे वा निवाते वा प्रदेशे च वसन्सुखी । यथेष्टं भक्षयेन्नित्यं क्षीराहारी जितेन्द्रियः ॥ १,१५.५० ॥ षण्मासात्पश्यति छिद्रं निधानानि च भूतले । त्यजेत्त्वचं सर्प इव जीवेद्ब्रह्मयुगं नरः ॥ १,१५.५१ ॥ <२. श्वेतब्रह्मवृक्षकल्पः; श्वेतब्रह्मवृक्षपञ्चाङ्गकल्पः> चूर्णयेच्छ्वेतपालाशपञ्चाङ्गं शोषयेत्प्रिये । छायायां वस्त्रगलितं मधुना च लिहेत्प्रिये ॥ १,१५.५२ ॥ कर्षमात्रं त्रिमासान्तर्जरामृत्युं जयेन्नरः । संवत्सराच्च ब्रह्मायुः सिद्धः सर्वगतो भवेत् ॥ १,१५.५३ ॥ <श्वेतब्रह्मबीजकल्पः> श्वेतपालाशबीजानि चैकैकानि समाहरेत् । अजाघृतेनानुदिनं मासान्मृत्युं जरां जयेत् ॥ १,१५.५४ ॥ संवत्सराद्ब्रह्मयुगं जीवेत्सिद्धिपुरोगमः । ये प्रोक्ता रक्तपालाशतैलत्वक्पर्णकादिषु ॥ १,१५.५५ ॥ ते गुणाः श्वेतपालाशे सन्ति साधकसिद्धिदाः । <ब्रह्मवृक्षकल्पसिद्धिः> वक्ष्यामि ब्रह्मवृक्षस्य कल्पसिद्धिं मनुम् ॥ १,१५.५६ ॥ ओं ह्रीममृतं कुरु कुरु अमृतमालिन्यै नमः । पूर्वं विंशतिसाहस्रं पुरश्चरणमाचरेत् । सुधाकुम्भवराक्षस्रग्ज्ञानमुद्रां करांबुजैः ॥ १,१५.५७ ॥ बिभ्राणां मौक्तिकं पाशं ध्यायेदमृतमालिनीम् । ग्रहणेऽष्टोत्तरशतं भक्षयेत्सप्तवारकम् ॥ १,१५.५८ ॥ चन्द्रसूर्योपरागादिकालेष्वष्टसहस्रकम् । मन्त्रं विना न सिद्धिः स्यात्कल्पकोटिशतैरपि ॥ १,१५.५९ ॥ समन्त्रे शीघ्रसिद्धिः स्याच्चरेन्मन्त्रपुरःसरः । <३. मुण्डीकल्पः> अथ मुण्डीं प्रवक्ष्यामि साधकेष्टार्थदायिनीम् ॥ १,१५.६० ॥ चतुर्विधा भवेत्च रक्ता पीता सितासिता । पुष्यार्के पूर्णमास्यां वा रेवत्यां श्रवणेऽपि वा ॥ १,१५.६१ ॥ उपरागादिकाले वा सिद्धयोगेषु वा हरेत् । कैदारीं मुण्डिनीं तां च बलिपूजनपूर्वकम् ॥ १,१५.६२ ॥ समाहरेत्कृतस्नानो मौनी मन्त्रं समुच्चरन् । ओममृतोद्भवाय अमृतं कुरु कुरु स्वाहा ह्रीं सः । मन्त्रं द्वादशसाहस्रं पुरश्चर्यां समाचरेत् ॥ १,१५.६३ ॥ मूलं नालं फलं पुष्पं पत्रं पञ्चाङ्गमीरितम् । स पञ्चाङ्गं हरेन्मुण्डीं सम्यक्शीतेन वारिणा ॥ १,१५.६४ ॥ प्रक्षाल्य शोषयेत्तां च छायायां चूर्णयेत्ततः । वस्त्रेण शोधयेत्कुम्भे नूतने स्थापयेत्क्रमात् ॥ १,१५.६५ ॥ विशुद्धदेहस्तच्चूर्णं कर्षं गोपयसा सह । पिबेज्जीर्णे च भैषज्ये घृतमादौ पिबेन्नरः ॥ १,१५.६६ ॥ ततो भुञ्जीत लवणतैलाम्लादिविवर्जितम् । घृतपक्वं समधुरं षष्टिकान्नं पयोऽधिकम् ॥ १,१५.६७ ॥ षण्मासाज्जायते सिद्धिस्त्वचं सर्प इव त्यजेत् । पलितादिविनिर्मुक्तो दिव्यदृष्टिर्दृढं वपुः ॥ १,१५.६८ ॥ मत्तनागबलो धीरो युवा दर्पविग्रहः । संवत्सरात्सर्वसिद्धिर्भवेद्ब्रह्मायुषो नरः ॥ १,१५.६९ ॥ घृतोपयुक्ता सा मुण्डी पूर्वफलदा भवेत् । <४. देवदालीकल्पः> अथ वक्ष्याम्यहं देवि देवदालीरसायनम् ॥ १,१५.७० ॥ श्वेता कृष्णा च पीता च देवदाली त्रिधा मता । श्वेता रोगप्रशमनी कृष्णा पीता विशेषतः ॥ १,१५.७१ ॥ रसायने च फलदा लोहकर्मणि पार्वति । चन्द्रसूर्योपरागेषु पूर्णिमायां सुरार्चिते ॥ १,१५.७२ ॥ त्रयोदश्यां कृष्णपक्षे पञ्चम्यां वा यथाविधि । शुभाहे शुभनक्षत्रे चाहरेन्मन्त्रपूर्वकम् ॥ १,१५.७३ ॥ ओममृतगणरुद्रगणान्ताय स्वाहा । अष्टोत्तरशतं जप्त्वा बलिपूर्वं समाहरेत् । ओं नमो भगवते रुद्राय फट्स्वाहा । साधकस्य शिखाबन्धनमन्त्रः । देवदाल्याश्च पञ्चाङ्गं छायायां शोषयेत्सुधीः ॥ १,१५.७४ ॥ वस्त्रेण शोधयेत्सम्यग्गव्यक्षीरेण भक्षयेत् । पचेत्तां लौहपात्रेण ततो मन्दाग्निना सुधीः ॥ १,१५.७५ ॥ मध्वाज्याभ्यां लिहेत्कर्षं शुद्धात्मा सप्तवासरम् । तस्य दिव्या भवेत्प्रज्ञा रोगहृन्माससेवया ॥ १,१५.७६ ॥ द्विमासभक्षणेनैव निध्यादिं पश्यति ध्रुवम् । धात्रीफलरसं क्षौद्रं देवदालीरसं घृतम् ॥ १,१५.७७ ॥ प्रत्येकं कर्षमात्रं स्यात्प्रत्यहं च पिबेल्लघु । एकविंशद्दिनादूर्ध्वं मेधावी श्रुतधारकः ॥ १,१५.७८ ॥ पञ्चाङ्गं चूर्णयेद्देवदाल्या वस्त्रेण शोधयेत् । शिवाम्बुना वा पयसा गोमूत्रैर्वा पिबेत्सदा ॥ १,१५.७९ ॥ पूर्ववत्सिद्धिदा सा स्यात्सर्वकुष्ठापहारिणी । कामिलाप्लीहपवनशूलं हन्ति भगन्दरान् ॥ १,१५.८० ॥ तद्रसो गन्धकोपेतः सर्वलोहं विलापयेत् । बध्नाति च रसं सम्यक्समं मूर्छति तत्क्षणात् ॥ १,१५.८१ ॥ गन्धर्वलज्जागान्धारीदेवदालीरसस्तथा । लेपनं मेषतैलेन स्तम्भयेदग्निमुज्ज्वलम् ॥ १,१५.८२ ॥ बीजानि देवदाल्याश्च सगुडानि च मर्दयेत् । तेन वर्तिं प्रकुर्वीत अर्शोघ्नी स्याद्गुदाङ्कुरे ॥ १,१५.८३ ॥ रसेन देवदाल्याश्च नयनं त्वञ्जयेन्नरः । पश्यत्यसौ भूतजालं तस्मै सर्वं प्रयच्छति ॥ १,१५.८४ ॥ घृतं धात्रीफलरसं देवदालीरसं मधु । रसं च लक्ष्मणायाश्च सर्वमेकपलं पिबेत् ॥ १,१५.८५ ॥ त्रिदिनमृतुकाले तु स्त्रीणां पुत्रप्रदायकम् । देवदालीरसं क्षीरं मध्वाज्याभ्यां समं लिहेत् ॥ १,१५.८६ ॥ पुंसः कोमलबीजानां बीजं गर्भप्रदं भवेत् । भृङ्गराड्वाकुची वह्निः सर्पाक्षी देवदालिकम् ॥ १,१५.८७ ॥ शिवाम्बुना चानुदिनं पिबेत्कर्षं महेश्वरि । धरित्र्याः पश्यति छिद्रं वर्षान्मृत्युं जरां जयेत् ॥ १,१५.८८ ॥ पुनर्नवादेवदाल्योः पलं क्षीरयुतं पिबेत् । शिवाम्बुना देवदालीं ससर्पाक्षीपलं पिबेत् ॥ १,१५.८९ ॥ पूर्ववज्जायते सिद्धिः शीघ्रमेव वरानने । शिवांबुना देवदाल्या निर्गुण्ड्याश्च पलं पिबेत् ॥ १,१५.९० ॥ संवत्सराज्जरां हन्याज्जीवेदाचन्द्रतारकम् । ओममृतं कुरु कुरु अमृतेश्वराय स्वाहा । एतन्मन्त्रं जपेदादौ देवदाल्युपयोगके ॥ १,१५.९१ ॥ <५. श्वेतार्ककल्पः; श्वेतार्कमूलकल्पः> अथ श्वेतार्कमूलस्य कल्पं वक्ष्याम्यहं शृणु । श्वेतार्कमूलं पुष्यर्क्षे गृहीत्वा काष्ठवर्जितम् ॥ १,१५.९२ ॥ शुद्धां त्वचं च छायायां शोषयेत्पटशोधितम् । चूर्णं कृत्वा कर्षमेकं सेव्यं गोपयसा सह ॥ १,१५.९३ ॥ पलद्वयेन षण्मासात्सर्वव्याधीञ्जरां हरेत् । संवत्सराद्ब्रह्मदिनत्रयं जीवेन्न संशयः ॥ १,१५.९४ ॥ <श्वेतार्कपर्णकल्पः> श्वेतार्कपर्णस्वरसं भृङ्गराजरसं समम् । एकीकृत्यातपे शोष्यं यावच्चूर्णत्वमाप्नुयात् ॥ १,१५.९५ ॥ चतुर्गुणे गवां क्षीरे तत्पचेन्मृदुवह्निना । यावत्पिण्डं भवेत्तावत्सेव्यं तत्कर्षमात्रकम् ॥ १,१५.९६ ॥ गवां क्षीरं पलं पेयं पूर्ववत्फलमाप्नुयात् । ओमां हंसमालिनि स्वाहा अयं भक्षणमन्त्रः । <६. हस्तिकर्णीकल्पः; हस्तिकर्णीपत्रकल्पः> अथेन्दुवारसंयुक्तत्रयोदश्यां समाहरेत् ॥ १,१५.९७ ॥ हस्तिकर्णीपलाशानि छायाशुष्काणि चूर्णयेत् । पलं सेव्यं गवां क्षीरं वर्षान्मृत्युं जरां जयेत् ॥ १,१५.९८ ॥ जीवेद्ब्रह्मायुषं मर्त्यः सिद्धसाध्यादिसेवितः । <हस्तिकर्णीपञ्चाङ्गकल्पः> पञ्चाङ्गं हस्तिकर्ण्याश्च कुर्याच्छायाविशोषितम् ॥ १,१५.९९ ॥ मासैकमुदकैः सार्धं कर्षं प्रत्यहमश्नुयात् । सौवीरदधिदुग्धाज्यतक्रक्षौद्रैर्यथाक्रमम् ॥ १,१५.१०० ॥ एकैकं प्रतिमासं च सेव्यं वर्षाच्च सिध्यति । जीवेद्ब्रह्मदिनं सिद्धो वज्रकायो महाबलः ॥ १,१५.१०१ ॥ ओममृताय अमृतं गृह्णामि स्वाहा । अयं ग्रहणमन्त्रः । अमृतकुटीजातानाममृतं कुरु कुरु स्वाहा । अनेन मन्त्रेण पूजयेत् । ओममृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः । अयं भक्षणमन्त्रः । <७. रुदन्तीकल्पः> अथ वक्ष्याम्यहं दिव्यं रुदन्तीकल्पमुत्तमम् । चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशैः ॥ १,१५.१०२ ॥ रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी । रोदितीव जनान्दृष्ट्वा म्रियमाणान्गदाकुलान् ॥ १,१५.१०३ ॥ चतुर्विधा च सा ज्ञेया पीता रक्ता सितासिता । शुक्लपक्षे शुभदिने रुदन्तीं तां समाहरेत् ॥ १,१५.१०४ ॥ समूलां शोषयेद्धीमान् छायायां वस्त्रशोधिताम् । विशुद्धदेहः सेवेत बिडालपदमात्रकम् ॥ १,१५.१०५ ॥ क्षौद्राज्याभ्यामनुदिनं भुक्तिः क्षीराज्यसंयुता । जीर्णायां संयमी भूत्वा वर्षात्तेजोबलान्वितः ॥ १,१५.१०६ ॥ परमायुर्भवेन्मर्त्यो जराव्याधिविवर्जितः । तैलं कतकमूलोत्थं कुर्यात्पातालयन्त्रके ॥ १,१५.१०७ ॥ गर्भयन्त्रेऽथवा क्षाल्यं पञ्चाशद्वारमम्बुना । नालिकेराम्बुना वाथ कृत्वेत्थं तैलशोधनम् ॥ १,१५.१०८ ॥ पञ्चाङ्गं च रुदन्त्याश्च छायाशुष्कं विचूर्णयेत् । तदर्धं मुसलीचूर्णं मुसल्यर्धपलत्रयम् ॥ १,१५.१०९ ॥ एतत्त्रिचूर्णं संमिश्रं कर्षं कतकतैलतः । लिहेदनुदिनं शुद्धस्तद्वृद्धिः स्यात्पलावधि ॥ १,१५.११० ॥ संवत्सराद्वज्रकायः स जीवेद्ब्रह्मणो दिनम् । <८. निर्गुण्डीकल्पः; निर्गुण्डीमूलकल्पः> अथ वच्मि शुभं दिव्यं निर्गुण्डीकल्पमुत्तमम् ॥ १,१५.१११ ॥ प्रातः पुष्यरवौ ग्राह्या निर्गुण्डीमूलसंभवा । त्वक्शोषणीया छायायां तच्चूर्णं कर्षमात्रकम् ॥ १,१५.११२ ॥ पलमात्राजमूत्रेण पिबेच्छुद्धोऽनुवासरम् । षण्मासाद्दिव्यदेहः स्यान्मत्तनागबलान्वितः ॥ १,१५.११३ ॥ मध्वाज्यक्षीरलुलितं तच्चूर्णं स्निग्धभाण्डके । पिधाय धान्यराशौ तु मासमेकं तु निक्षिपेत् ॥ १,१५.११४ ॥ मासान्ते तत्समुद्धृत्य शुद्धाङ्गो द्विपलं सदा । सेवेत वर्षपर्यन्तं जीवेदाचन्द्रतारकम् ॥ १,१५.११५ ॥ अथवार्धपलं चूर्णं तदीयं सघृतं पिबेत् । पूर्ववज्जायते सिद्धिर्जरारोगविवर्जितः ॥ १,१५.११६ ॥ वचामुण्डीनिम्बवरागुडूचीभृङ्गराट्समाः । एषां समांशं संयोज्य निर्गुण्डीमूलचूर्णतः ॥ १,१५.११७ ॥ क्षौद्राज्याभ्यां लिहेद्धस्तादन्वहं पलमात्रकम् । आयुर्विरिञ्चित्रिदिनं भवेन्मृत्युजरोज्झितम् ॥ १,१५.११८ ॥ निर्गुण्डीमूलचूर्णं तु क्रिमिघ्नकटुकैः समम् । पलमात्रमजाक्षीरैर्नित्यं शुद्धः पिबेद्बुधः ॥ १,१५.११९ ॥ वलीपलितनिर्मुक्तो निर्गदः स्यात्त्रिमासतः । <निर्गुण्डीपत्रकल्पः> निर्गुण्डीपत्रजद्रावं भाण्डे मृद्वग्निना पचेत् ॥ १,१५.१२० ॥ गुडवत्पाकमापन्नं तं पिबेन्निष्कमात्रकम् । दिने दिने निष्कवृद्धिर्यावद्द्विपलिकं भवेत् ॥ १,१५.१२१ ॥ तेन वान्तिर्विरेकः स्यान्निर्यान्ति क्रिमयः परम् । अपानतो देहगता मुखनासाक्षिकर्णतः ॥ १,१५.१२२ ॥ क्षयकुष्ठादिरोगाश्च नश्यन्ति मुनिवासरात् । मासत्रये जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ १,१५.१२३ ॥ <निर्गुण्डीपञ्चाङ्गकल्पः> पञ्चाङ्गचूर्णं निर्गुण्ड्यास्तिलतैलेन सेवितम् । निष्कादिपलपर्यन्तं त्रिमासेन जरां जयेत् ॥ १,१५.१२४ ॥ अशीतिं वातजान्रोगान् कुष्ठानपि गलामयान् । आस्यार्त्युपकुशादींश्च जयेत्तत्पर्णचर्वणात् ॥ १,१५.१२५ ॥ सिन्धुवारकपञ्चाङ्गचूर्णं मधुघृतप्लुतम् । पलमात्रं लिहेत्प्रातस्ततो जीर्णे गवां पयः ॥ १,१५.१२६ ॥ पिबेद्यथानलबलं भुञ्जीताग्नौ क्रमेण च । निर्वाते निवसेद्धीमान्सिद्धिमाप्नोति वत्सरात् ॥ १,१५.१२७ ॥ सिद्धदेहस्य पूर्वेण म्रियेते विषपारदौ । काले काले यथाप्राप्तं पञ्चाङ्गं सिन्धुवारकात् ॥ १,१५.१२८ ॥ छायायां शोषितं चूर्णं त्रिमधुत्रिफलायुतम् । स्निग्धभाण्डे धान्यराशौ त्रिमासं स्थापयेत्ततः ॥ १,१५.१२९ ॥ निष्कादिपलपर्यन्तं सेवेताकर्षकं सुधीः । सर्वव्याधिविनिर्मुक्तो जरामरणवर्जितः ॥ १,१५.१३० ॥ ओं नमो मायागणपतये कुबेराय स्वाहा । अयं भक्षणमन्त्रः । <९. शुनकशाल्मलीकल्पः> अथ वक्ष्यामि देवेशि कल्पं शुनकशाल्मलेः । अष्टम्यां कृष्णपक्षस्य स्नात्वा रात्रौ समाहितः ॥ १,१५.१३१ ॥ आवेष्ट्य कृष्णसूत्रैश्च वृक्षं शुनकशाल्मलिम् । तत्राघोरं जपेद्धीरः सहस्रवसुसंमितम् ॥ १,१५.१३२ ॥ <९. शुनकशाल्मलीमूलकल्पः> तन्मूलवल्कलं ग्राह्यं छायायां शोषयेत्ततः । चूर्णं कृत्वा तु मध्वाज्यैः खादेत्प्रातः पलं पलम् ॥ १,१५.१३३ ॥ वर्षाद्वलिजरामुक्तः स जीवेद्ब्रह्मणो दिनम् । <शुनकशाल्मलीपुष्पकल्पः> तस्याष्टादश पुष्पाणि गोक्षीरेऽष्टपले पचेत् ॥ १,१५.१३४ ॥ पुष्पवर्ज्यं पिबेत्क्षारमेवं च प्रतिवासरम् । मासेन दिव्यदेहः स्याज्जीवेद्ब्रह्मदिनत्रयम् ॥ १,१५.१३५ ॥ <शुनकशाल्मलीफलकल्पः> तत्फलं तु गवां क्षीरे पाचयेत्कान्तपात्रके । फलं त्यक्त्वा पिबेत्क्षीरं दीप्तेऽग्नौ क्षीरभोजनम् ॥ १,१५.१३६ ॥ मासषट्कप्रयोगेण दिव्यदेहो भवेन्नरः । जीवेत्कल्पान्तपर्यन्तं वायुवेगी महाबलः ॥ १,१५.१३७ ॥ तस्य मूत्रपुरीषाभ्यां शुल्बं स्वर्णं भवेद्ध्रुवम् । <१०. पथ्याकल्पः; पथ्योत्पत्तिः> अथातः सम्प्रवक्ष्यामि पथ्याकल्पमनूपमम् ॥ १,१५.१३८ ॥ येन रोगा विनश्यन्ति सिध्यन्ति च मनोरथाः । पीत्वामृतं शचीनाथः प्रीत्या शच्यै समापिबत् ॥ १,१५.१३९ ॥ तयोर्हृष्टमुखाम्भोजगलितामृतबिन्दवः । सप्तधा भुवि ते जाता महावीर्याः स्थिरायुषः ॥ १,१५.१४० ॥ ते सप्तदेशेषूत्पन्नाः सप्तधा नाम धारकाः । विन्ध्यदेशे कान्यकुब्जे सौराष्ट्रे हिमवद्गिरौ ॥ १,१५.१४१ ॥ गङ्गातटे च काश्मीरे वैन्यदेशे यथाक्रमम् । विजया रोहिणी चैव पूता स्यात्त्रिवृतामृता ॥ १,१५.१४२ ॥ जीवन्ती त्वभया जाता देशे देशे यथाक्रमम् । उत्तमा मध्यमा नीचाः स्वयं पक्वास्तु शोभनाः ॥ १,१५.१४३ ॥ हरीतक्यां रसाः पञ्च विद्यन्ते लवणोज्झिताः । स्वाद्वम्लतिक्तकटुकतुवराश्च यथाक्रमम् ॥ १,१५.१४४ ॥ स्युर्मज्जस्नायुवृन्तत्वङ्मांसेषु क्रमशो रसाः । अलाबुकर्णी वृत्ता च चतुरङ्ग्यल्पचर्मका ॥ १,१५.१४५ ॥ पञ्चास्रा मांसला स्वर्णवर्णा कृष्णा स्मृताः क्रमात् । या मज्जन्ती जले ग्राह्या गुर्वी स्निग्धा घनाघनाः ॥ १,१५.१४६ ॥ द्विकर्षमात्रा सा श्रेष्ठा कर्षमात्रा तु मध्यमा । अर्धकर्षा भवेन्नीचा पथ्या फलमुदाहृतम् ॥ १,१५.१४७ ॥ क्रिमिजुष्टा वह्निदग्धा नष्टा पङ्कजलार्द्रिता । स्फुटिता चोषरस्था च वर्जनीया हरीतकी ॥ १,१५.१४८ ॥ <पथ्याकल्पः> शुद्धदेशे पुण्यदिने ग्रहणे चन्द्रसूर्ययोः । गन्धाद्यैः पूजयित्वादौ प्रार्थयित्वा जपेत्सुधीः ॥ १,१५.१४९ ॥ गायत्रीशतमावृत्त्य पथ्यामेवं समाहरेत् । शुण्ठ्या वाथ गुडेनापि सैन्धवेनाथवा शिवाम् ॥ १,१५.१५० ॥ सेवेत दीपनं तेन करोत्यामविनाशनम् । क्षौद्रेण वा गुडेनापि पिप्पल्या नागरेण वा ॥ १,१५.१५१ ॥ सैन्धवेनाथवा सेव्या शुद्धाङ्गः प्रतिवासरम् । द्वे द्वे पथ्ये द्वादशाब्दं तेन जीवेच्छतं समाः ॥ १,१५.१५२ ॥ द्विनिष्कचूर्णं पथ्याया निष्कैकं लोहभस्म च । लोलयित्वा गोघृतेन कान्तपात्रे च लेपयेत् ॥ १,१५.१५३ ॥ अधोमुखीकृतं पात्रं स्थापयेत्तद्दिवानिशम् । प्रातः शुद्धवपुर्लेह्यं जरां मृत्युं जयेत्सुधीः ॥ १,१५.१५४ ॥ शाल्मलीं छिद्रयित्वादौ तदन्तर्निक्षिपेच्छिवाः । आ षण्मासं परस्तास्तु ग्राह्या चैकैकशोऽन्वहम् ॥ १,१५.१५५ ॥ सेवेत पथ्यां शुद्धाङ्गस्तस्य मृत्युर्जरा न हि । <११. आमलकीकल्पः> अथ वक्ष्यामि देवेशि कल्पमामलकीभवम् ॥ १,१५.१५६ ॥ चैत्रादौ ग्राहयेद्धात्र्याः सुपक्वानि फलानि च । हरीतकीवद्ग्राह्यानि छायाशुष्काणि चूर्णयेत् ॥ १,१५.१५७ ॥ कर्षं जलेन वाज्येन मधुना वा फलं निशि । वर्धयेज्जाठरं वह्निमिन्द्रियाणां प्रसादकृत् ॥ १,१५.१५८ ॥ धात्रीचूर्णं लोहभस्म क्षौद्राज्यालुलितं लिहेत् । वलीपलितमृत्युघ्नं वत्सरात्पूर्ववद्विधिः ॥ १,१५.१५९ ॥ क्षीरपक्वं च तद्भक्ष्यं पूर्ववत्सिद्धिदायकः । धात्रीचूर्णं भृङ्गचूर्णं मध्वाज्यसहितं लिहेत् ॥ १,१५.१६० ॥ वलीपलितनिर्मुक्तो वत्सराद्भवति ध्रुवम् । निंबामलकयोश्चूर्णं मध्वाज्यसहितं लिहेत् ॥ १,१५.१६१ ॥ पूर्ववच्च फलं देवि नात्र कार्या विचारणा । <१२. त्रिफलाकल्पः> अथ ब्रवीमि ते देवि त्रिफलाया रसायनम् ॥ १,१५.१६२ ॥ एकं हरीतकीभागं द्विभागं च विभीतकम् । चतुर्भागं तथा धात्री सर्वमेकत्र चूर्णयेत् ॥ १,१५.१६३ ॥ पिप्पल्या वा तुगाक्षीर्या सैन्धवैर्मधुकेन वा । क्षौद्रेण वा सर्पिषा वा वचया सितयाथवा ॥ १,१५.१६४ ॥ सुवर्णै रजतैः शुल्बैर्वङ्गैर्नागैस्तथायसैः । संयुक्ता त्रिफला लीढा जरामरणनाशिनी ॥ १,१५.१६५ ॥ त्रिफलायाः समांशास्तु योज्याश्चैकैकशस्तु ताः । पिप्पल्याद्यास्तु सौवर्णभस्मादीनां च कथ्यते ॥ १,१५.१६६ ॥ सौवर्णं पणमात्रं च द्विपणं राजतं भवेत् । पणार्धं शुल्बचूर्णं च द्विपणं नागवङ्गजम् ॥ १,१५.१६७ ॥ चूर्णं तथायसं प्रोक्तं पणपञ्चकमात्रकम् । एवं यस्त्रिफलासेवी जीवेदाचन्द्रतारकम् ॥ १,१५.१६८ ॥ एकां हरीतकीं प्रातर्भुक्तेः प्राग्द्विविभीतकम् । चतुरामलकं रात्रौ सर्वे ते घृतपाचिताः ॥ १,१५.१६९ ॥ सेवेतावत्सरं धीमान्वलीपलितवर्जितः । अन्नोदकेन संपेष्य कान्तपात्रे लिहेन्निशि ॥ १,१५.१७० ॥ सक्षौद्रं तल्लिहेत्प्रातरायुरारोग्यवर्धनम् । त्रिफलां भावयेत्पूर्वं खदिरासनयूषतः ॥ १,१५.१७१ ॥ त्रिः सप्तवारं देवेशि ततः क्षौद्रघृताप्लुताम् । सेवेतानुदिनं कर्षं वर्षादिन्द्रायुषो भवेत् ॥ १,१५.१७२ ॥ विडङ्गभृङ्गखदिरब्रह्मवृक्षरसैः पृथक् । पृथक्सप्तदिनं घर्मे भावयेत्त्रिफलां प्रिये ॥ १,१५.१७३ ॥ भक्षयेद्गुडसर्पिर्भ्यां कर्षं वर्षात्सुरोपमः । त्रिफलायाः शतफलं चूर्णं भृङ्गरसैः पुरा ॥ १,१५.१७४ ॥ त्रिः सप्तवासरं भाव्यं लिहेन्मधुघृतान्वितम् । पलार्धं प्रत्यहं प्रातर्जीर्णेऽद्याद्दधिभक्तकम् ॥ १,१५.१७५ ॥ वर्षात्प्रसन्नदृष्टिश्च जीवेत्षट्शतवत्सरम् । महाबलः कृष्णकेशः स्मृतिबुद्धिसमन्वितः ॥ १,१५.१७६ ॥ युवा शतस्त्रीरन्ता च धीरः स सुभगो भवेत् । <१३. शुण्ठीकल्पः> अथ वक्ष्यामि गिरिजे दिव्यं शुण्ठीरसायनम् ॥ १,१५.१७७ ॥ श्रेष्ठं नागरमादाय चूर्णयेत्पटगालितम् । गुडं चास्य समं योज्यं मधुना गोघृतेन च ॥ १,१५.१७८ ॥ स्निग्धभाण्डे विनिक्षिप्य धान्यराशौ सुयन्त्रितम् । द्विमण्डलात्समाहृत्य शुद्धाङ्गः पुण्यवासरे ॥ १,१५.१७९ ॥ कर्षं कर्षं लिहेन्नित्यं सप्ताहाद्रोगवर्जितः । षण्मासमुपभुञ्जानो जीवेद्वर्षशतद्वयम् ॥ १,१५.१८० ॥ बुद्ध्या वाचस्पतिसमः पुराणागमशास्त्रवित् । मयानुभूतं देवेशि कथितं तव सौहृदात् ॥ १,१५.१८१ ॥ <१४. पिप्पलीकल्पः> अथ प्रिये प्रवक्ष्यामि पिप्पलीनां रसायनम् । पिप्पलीं शोधयेत्पूर्वं किंशुकक्षारवारिणा ॥ १,१५.१८२ ॥ सप्तधा च ततः कुर्यात्तासां च घृतभर्जनम् । ततः सेवेत शुद्धाङ्गः पञ्चाष्टौ दश सप्तधा ॥ १,१५.१८३ ॥ वर्षमेकं तु मध्वाज्यै रोगास्तस्य न सन्ति च । वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥ १,१५.१८४ ॥ प्रातः प्राग्भोजनात्पश्चाद्भक्षयेत्त्रित्रिपिप्पलीः । वर्षाद्व्याधिं जरां हन्ति शतायुष्यमवाप्नुयात् ॥ १,१५.१८५ ॥ एकद्वित्रिक्रमेणैव वर्धयेद्दशवासरम् । ह्रासयेत्पिप्पलीस्तद्वद्ध्रासवृद्धी पुनः पुनः ॥ १,१५.१८६ ॥ गोक्षीरेण युतं यावत्पिप्पलीनां सहस्रकम् । तावत्सेवेत शुद्धाङ्गो जरारोगविवर्जितः ॥ १,१५.१८७ ॥ अजाक्षीरेण संपेष्य पिबेद्युक्ता बलाधिका । क्षीरशृता मध्यफला पूर्ववद्ध्रासवृद्धयः ॥ १,१५.१८८ ॥ यावत्सहस्रद्वितयं तावत्सेव्यं रसायनम् । कासश्वासक्षयाः पाण्डुप्लीहशोणितमारुताः ॥ १,१५.१८९ ॥ मेहार्शोग्रहणीशोफहिध्मवमिगलग्रहाः । रसायनेन पिप्पल्या नश्यन्ति विषमज्वराः ॥ १,१५.१९० ॥ जीवेद्वर्षशतं पूर्णं वलीपलितवर्जितः । <१५. चित्रककल्पः> अथ चित्रककल्पं ते वक्ष्यामि शृणु पार्वति ॥ १,१५.१९१ ॥ चित्रकस्त्रिविधो ज्ञेयः कृष्णो रक्तः सितः शिवे । कृष्णो रसायने रक्तो लोहे रोगे सितो भवेत् ॥ १,१५.१९२ ॥ श्रेष्ठमध्यकनीयांसो न हेमन्ते समाहरेत् । वसन्ते कृष्णपञ्चम्यां कृष्णाम्बरधरः शुचिः ॥ १,१५.१९३ ॥ कृष्णगन्धाक्षतैः पुष्पैः पूजयेत्कृष्णसूत्रकैः । परिवेष्ट्य च पूर्वेद्युर्दद्यात्कृष्णौदनं बलिम् ॥ १,१५.१९४ ॥ प्रातर्मौनी खनेच्छुद्धः समूलं चित्रकं हरेत् । न गोघ्रातं पदा स्पृष्टं शुचौ देशे विनिक्षिपेत् ॥ १,१५.१९५ ॥ क्षिप्तं क्षीरान्तरे कृष्णं वह्नौ क्षीरं तु कृष्णति । रक्तचित्रं परीक्ष्यैवं क्षीरं रक्तत्वमाप्नुयात् ॥ १,१५.१९६ ॥ एवं च रक्तचित्रस्य रक्तपुष्पाक्षतादिभिः । कृष्णं वा लोहितं वापि समूलमपि खण्डयेत् ॥ १,१५.१९७ ॥ सप्तधामलकाम्भोभिर्भावयेच्छोषयेत्क्रमात् । संचूर्ण्य तार्क्षीतालत्वक्चित्रकत्रिफलाः समाः ॥ १,१५.१९८ ॥ एषां समं चाग्निचूर्णं सर्वं भाण्डे नवे क्षिपेत् । ततः शुद्धः शुभदिने निष्कं निष्कं घृताप्लुतम् ॥ १,१५.१९९ ॥ भक्षयेन्मासमात्रेण व्रणकुष्ठादिकृन्तनम् । दन्तकेशनखा यान्ति पतनं च पुनर्भवम् ॥ १,१५.२०० ॥ वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् । एवं च रक्तचित्रस्य योजना च फलं तथा ॥ १,१५.२०१ ॥ <१६. भल्लातकीकल्पः> अथ भल्लातकीकल्पं शृणु वक्ष्यामि पार्वति । पक्वं नवं सुतीक्ष्णं च भल्लातकफलं हरेत् ॥ १,१५.२०२ ॥ गोक्षीरे फलमेकं तु सूचीभिन्नं पचेत्सुधीः । मध्वाज्यशर्करायुक्तं फलं त्यक्त्वा पयः पिबेत् ॥ १,१५.२०३ ॥ एकद्वित्रिक्रमेणैवं वर्धयेदेकविंशतिम् । फलानि च दिनान्येकविंशतिः क्रमशः प्रिये ॥ १,१५.२०४ ॥ सर्वे रोगा विनश्यन्ति षण्मासाद्दिव्यविग्रहः । <१७. भूमिकदम्बकल्पः> अथ भूमिकदम्बस्य कल्पं वक्ष्यामि पार्वति ॥ १,१५.२०५ ॥ त्रिविधः स तु विज्ञेयः श्वेतो रक्तश्च मेचकः । शुक्लपक्षे च पुष्यार्के विधिवत्तं समाहरेत् ॥ १,१५.२०६ ॥ समूलं शोषयेत्तं च छायायां चूर्णयेत्ततः । तच्चूर्णं कर्षमाज्येन लिहेच्छुद्धवपुः प्रिये ॥ १,१५.२०७ ॥ तस्मिञ्जीर्णे प्रकुर्वीत क्षीरान्नं विजितेन्द्रियः । नश्यन्ति वलयस्तस्य षण्मासात्पलितानि च ॥ १,१५.२०८ ॥ संवत्सरप्रयोगेण जीवेद्वर्षशतत्रयम् । <१८. पुनर्नवाकल्पः> दिव्यं पुनर्नवाकल्पं वक्ष्यामि शृणु पार्वति ॥ १,१५.२०९ ॥ पुनर्नवाख्या द्विविधा लोहिता धवला तथा । रसे रसायने श्वेता रोगे रक्ता प्रशस्यते ॥ १,१५.२१० ॥ पुष्यार्के श्वेतशोफघ्नीं समूलामाहरेत्सुधीः । छायाशुष्कं चूर्णयित्वा गोक्षीरेण पलार्धकम् ॥ १,१५.२११ ॥ पलं वाथ पिबेत्प्रातः शुद्धाङ्गो वत्सरावधि । युवा भवति वृद्धोऽपि स जीवेच्छरदः शतम् ॥ १,१५.२१२ ॥ गोक्षीरेण च तन्मूलं क्षीरक्षीणं पचेत्प्रिये । चूर्णीकृत्य च तन्मूलं पक्वीकृतगुडे समम् ॥ १,१५.२१३ ॥ गोघृतं च क्षिपेत्तत्र त्वेकीकृत्यावतारयेत् । पलं चानुदिनं लेह्यं क्षीरान्नाशी जितेन्द्रियः ॥ १,१५.२१४ ॥ संवत्सरप्रयोगेण वलीपलितवर्जितः । तत्सेवकस्य नश्यन्ति विषाणि विविधानि च ॥ १,१५.२१५ ॥ त्वग्दोषः कफपाण्ड्वाद्या औदरा गुल्मपायुजाः । नश्यन्ति सकला रोगाश्छर्दिहिक्काक्षिकर्णजाः ॥ १,१५.२१६ ॥ पुष्पितां फलितां पक्वामादाय च पुनर्नवाम् । खण्डितां नागरक्वाथसुस्विन्नां क्षीरपेषिताम् ॥ १,१५.२१७ ॥ पिबेद्दिवा च चूर्णान्ते निशि क्षीरघृताशनः । षण्मासात्सिद्धिमाप्नोति योषिच्छतरतो भवेत् ॥ १,१५.२१८ ॥ <१९. भृङ्गराजकल्पः> अथ श्रीभृङ्गराजस्य कल्पं वच्मि महेश्वरि । समूलं तच्च पुष्यार्के समाहृत्याथ शोषयेत् ॥ १,१५.२१९ ॥ छायायां पूर्णितं कृत्वा कर्षं सौवीरलोडितम् । प्रातः पिबेच्छुद्धदेहो मासाद्रोगान्व्यपोहति ॥ १,१५.२२० ॥ ततः षण्मासयोगेन वलीपलितखण्डनम् । घृतक्षीराशनो नित्यं जीवेद्वर्षशतत्रयम् ॥ १,१५.२२१ ॥ युक्तः कृष्णतिलैरर्धैर्भृङ्गराजस्य पल्लवम् । उपयुञ्जीत षण्मासं वलीपलितकृन्तनम् ॥ १,१५.२२२ ॥ भृङ्गराजफलं पुष्पं पत्रं मूलं च चूर्णयेत् । एतच्चूर्णस्य सदृशांश्चित्राद्यान्परिकल्पयेत् ॥ १,१५.२२३ ॥ चित्रविश्वकणाबिल्वपथ्याधात्रीविडङ्गकम् । मरीचं व्याधिघातं च चक्रमर्दस्य बीजकम् ॥ १,१५.२२४ ॥ लोध्रसर्षपराज्यश्च चूर्णिताश्च समाहृताः । एकीकृत्यैव भृङ्गस्य रसेन परिभावयेत् ॥ १,१५.२२५ ॥ सप्तधा च ततः सर्वं चूर्णीकृत्य पुनः प्रिये । कर्षं गोपयसा सार्धं शुद्धकोष्ठो लिहेत्प्रिये ॥ १,१५.२२६ ॥ षण्मासाज्जायते सिद्धिर्वलीपलितवर्जितः । पूर्वोक्तवद्विधिः प्रोक्तः स्वर्णभृङ्गस्य पार्वति ॥ १,१५.२२७ ॥ ओं नमो भगवते रुद्राय तिष्ठ तिष्ठ संगृहाण स्वाहा । अयं ग्रहणमन्त्रः । ओं नमो रुद्राय अमृतात्मने स्वाहा । अयमालोडनमन्त्रः । ओमुत्तिष्ठोत्तिष्ठ कल्याणि स्वाहा । अयं भक्षणमन्त्रः । <२०. कुमारीकल्पः> अथ वक्ष्याम्यहं देवि कुमारीकल्पमुत्तमम् । नदीतीरेऽथवा ग्रामे नगरेऽब्धितटेऽथवा ॥ १,१५.२२८ ॥ मृदुकर्णकपत्राणि पीतान्यहिसमानि च । प्रवालसमपुष्पाणि सक्लेदहस्तीनि च ॥ १,१५.२२९ ॥ यस्याः पत्राणि तिष्ठन्ति सा कुमारीति कथ्यते । शुचिः पुण्यदिने कन्यां सोपवासः समाहरेत् ॥ १,१५.२३० ॥ अर्चयित्वा बलिं दत्त्वा कुमारीं सिद्धिदायिनीम् । शुद्धकोष्ठः प्रगे खादेच्चतुरङ्गुलमात्रतः ॥ १,१५.२३१ ॥ एवं मासं ततः खाद्यं यथा वृद्धिः शनैः शनैः । अत्यन्तं वर्जयेन्मध्यं खाद्यं भवति सर्वदा ॥ १,१५.२३२ ॥ स्वशक्त्यनुगुणं सेव्यं स्वेच्छाहारविहारवान् । स्निग्धैर्मांसरसक्षीरैर्युक्त्या सेव्या कुमारिका ॥ १,१५.२३३ ॥ हरत्यखिलरोगांश्च राजयक्ष्मादिकान्प्रिये । किन्नरैः सदृशं गायेद्गृध्रदृष्टिर्महाबलः ॥ १,१५.२३४ ॥ स्निग्धकेशश्च मतिमान् बालादित्यसमप्रभः । दशनागबलोपेतः समीरसदृशो गतौ ॥ १,१५.२३५ ॥ वलीपलितनिर्मुक्तः षोडशाब्दवया भवेत् । एवं वर्षप्रयोगेण भवत्येतैर्गुणैर्युतः ॥ १,१५.२३६ ॥ यस्तु द्वादशवर्षान्तं सेवेत स सुरासुरैः । महोरगैरवध्यश्च त्रिंशन्नागबलान्वितः ॥ १,१५.२३७ ॥ मयूरदृष्टिः सर्वज्ञः सर्वशास्त्रविशारदः । विद्याधरो भवेन्मर्त्यो नात्र कार्या विचारणा ॥ १,१५.२३८ ॥ कुमार्या दलमादाय हस्तर्क्षे साधकेऽहनि । प्रातः प्रत्यहमास्वाद्य शुचिरग्निबलं यथा ॥ १,१५.२३९ ॥ तन्मज्जां वा लिहेद्यस्तु मध्वाज्यव्योषसंयुताम् । मासं सेवेत नियमात्सर्वरोगैः प्रमुच्यते ॥ १,१५.२४० ॥ षण्मासमुपयुञ्जानो वलीपलितवर्जितः । तस्याः क्लेदं समानीय व्योषक्षौद्राज्यसंयुतम् ॥ १,१५.२४१ ॥ स्विन्नं मृद्वग्निना सेव्यं क्षीराहारो जितेन्द्रियः । मासाद्रोगा विनश्यन्ति द्विमासाद्दृढविग्रहः ॥ १,१५.२४२ ॥ दिव्यदृष्टिश्च तेजस्वी द्विमासाद्द्विषहृद्भवेत् । षण्मासयोगाद्वृद्धोऽपि युवा स्यात्सत्यमीश्वरि ॥ १,१५.२४३ ॥ एवं वर्षोपयोगेन जीवेद्द्विशतवत्सरम् । तस्या दलं युगैः सार्धं भक्षयेच्छुद्धकोष्ठवान् ॥ १,१५.२४४ ॥ वलीपलितनाशः स्याद्वत्सरान्नात्र संशयः । <२१. नीलीकल्पः> अथ देवि प्रवक्ष्यामि महानीलीरसायनम् ॥ १,१५.२४५ ॥ पुष्यार्के शुचिरादद्यान्महानीलीं विधानतः । मूलपुष्पफलोपेतां छायायां शोषयेत्प्रिये ॥ १,१५.२४६ ॥ पटचूर्णं द्विनिष्कं स्यान्निष्कमभ्रं च योजयेत् । सर्वं च मधुनालोड्य स्निग्धभाण्डे विनिक्षिपेत् ॥ १,१५.२४७ ॥ धान्यराशौ न्यसेन्मासमुद्धृत्य च ततः प्रिये । शुद्धकोष्ठो लिहेत्प्रातर्बिडालपदमात्रकम् ॥ १,१५.२४८ ॥ षण्मासाज्जायते मर्त्यो वलीपलितवर्जितः । महानीलीं च कृष्णाभ्रं मुसलीममृतालताम् ॥ १,१५.२४९ ॥ समांशं चूर्णितान्कृत्वा मधुना कर्षमालिहेत् । एवं वर्षोपयोगेन जीर्णोऽपि तरुणायते ॥ १,१५.२५० ॥ बलवान्मतिमान्धीरो जीवेद्वर्षशतद्वयम् । अभ्रकं च कुमारीं च काकजङ्घां शतावरीम् ॥ १,१५.२५१ ॥ एतत्समां महानीलीं चूर्णयेत्स्निग्धभाण्डके । मधुना सहितं सप्तरात्र्यन्ते च समुद्धरेत् ॥ १,१५.२५२ ॥ कर्षं लिहेत्क्षीरभोजी वर्षाद्वलिजरां जयेत् । <२२. मुसलीकल्पः> अथ ब्रवीमि देवेशि मुसलीकल्पमुत्तमम् ॥ १,१५.२५३ ॥ स्वर्णपुष्पी च खर्जूरपत्रवत्पत्रशोभिता । अन्तः श्वेता च नाराचमूला सा मुसली स्मृता ॥ १,१५.२५४ ॥ तन्मूलं च समुद्धृत्य छायाशुष्कं च चूर्णयेत् । कर्षं मध्वाज्यलुलितं प्रातः शुद्धतनुर्लिहेत् ॥ १,१५.२५५ ॥ जीर्णे दुग्धान्नभोजी स्याद्रूक्षान्नं वर्जयेत्प्रिये । षष्ठे मासि भवेद्बालो वृद्धोऽपि बलबुद्धिमान् ॥ १,१५.२५६ ॥ पयसा मुसलीचूर्णं दध्ना वापि पिबेच्छुचिः । वर्षाद्यौवनमाप्नोति शतस्त्रीगमने पटुः ॥ १,१५.२५७ ॥ <२३. इन्द्रवल्लीकल्पः> अथेन्द्रवल्लीकल्पं च व्याख्यामि शृणु पार्वति । मयोदिता सुरेन्द्रस्य दैत्यानां विजयाय च ॥ १,१५.२५८ ॥ तदा प्रभृति लोकेषु ख्याता सा चेन्द्रवल्लिका । तामिमां भजतां पुंसां देहसिद्धिर्भवेद्ध्रुवम् ॥ १,१५.२५९ ॥ समूलां तां समुद्धृत्य छायाशुष्कां विचूर्णयेत् । तच्चूर्णं द्वादशपलं वचाचूर्णं च तत्समम् ॥ १,१५.२६० ॥ व्रणघ्नीचूर्णमेतस्य समांशं त्रिकटूद्भवम् । षट्पलं सर्वमेकत्र कृत्वा भाण्डे विनिक्षिपेत् ॥ १,१५.२६१ ॥ कर्षं कर्षं मधुयुतं प्रातः प्रातर्लिहेत्सदा । षण्मासात्सर्वरोगघ्नं वत्सराद्देहसिद्धिदम् ॥ १,१५.२६२ ॥ भूयो भूयश्च षण्मासान्नवं चूर्णं प्रकल्पयेत् । <२४. ज्योतिर्द्रुमकल्पः> अथ ज्योतिर्द्रुमस्यापि पञ्चाङ्गान्याहरेत्प्रिये ॥ १,१५.२६३ ॥ त्रिः सप्तरात्रं सक्षौद्राण्याश्रयेद्धान्यराशिके । भक्षयेद्रोगनिर्मुक्तस्तेजस्वी देहसिद्धिभाक् ॥ १,१५.२६४ ॥ <२५. अश्वगन्धाकल्पः> अथाश्वगन्धाकन्दं च पौत्रीकोरण्टयोः समम् । चूर्णितं मधुसर्पिर्भ्यां कर्षं प्रातर्लिहेच्छुचिः ॥ १,१५.२६५ ॥ संवत्सरप्रयोगेण त्रिशतायुर्भवेन्नरः । <२६. ज्योतिष्मतीकल्पः> अथ ज्योतिष्मतीकल्पं वक्ष्यामि शृणु पार्वति ॥ १,१५.२६६ ॥ दिव्या ज्योतिष्मती वल्ली तप्तकाञ्चनसन्निभा । बहुप्रताना स्वर्णाभा फलबीजा शुभप्रदा ॥ १,१५.२६७ ॥ आषाढे शुक्लपक्षे च शुभर्क्षे शुभवासरे । कुङ्कुमाक्तेन सूत्रेण तां वल्लीं परिवेष्टयेत् ॥ १,१५.२६८ ॥ रक्तगन्धाक्षतैः पुष्पैरर्चयित्वा प्रणम्य च । रक्तमाल्याम्बरधरः कुङ्कुमागरुचर्चितः ॥ १,१५.२६९ ॥ तांबूलचर्वणं कुर्वन्हृष्टो नियतमानसः । अभीष्टदेवतामन्त्रैस्तारामन्त्रेण वार्चयेत् ॥ १,१५.२७० ॥ अभीष्टदेवतां ध्यात्वा ततश्चोदङ्मुखः प्रिये । पक्वबीजानि गृह्णीयादातपे शोषयेत्ततः ॥ १,१५.२७१ ॥ त्वग्वर्ज्यानि निधायादौ चूर्णितानि विशेषतः । तेभ्यस्तैलं समाहृत्य तत्तैलसदृशं पयः ॥ १,१५.२७२ ॥ पादांशं मधु संयोज्य तैलशेषं पचेच्छनैः । तस्मिन्कर्पूरतक्कोलत्वग्जातीफलमेव च ॥ १,१५.२७३ ॥ एतानि समभागानि चूर्णयित्वा च कोविदः । तत्तैलं षोडशपलं तच्चूर्णं पलमात्रकम् ॥ १,१५.२७४ ॥ एकीकृत्यावलोड्याथ स्नेहभाण्डे विनिक्षिपेत् । त्रिः सप्तवासरं धान्यराशौ भाण्डे विनिक्षिपेत् ॥ १,१५.२७५ ॥ दशाहमथवा त्रिंशत्षष्टिर्वा नवतिस्तथा । अधिकं वा यथायोगं पश्चात्तैलं समाहरेत् ॥ १,१५.२७६ ॥ शुद्धकोष्ठः शुभदिने कृतदेवद्विजार्चनः । सूर्योदये पिबेद्धीरो बिन्दुवृद्ध्या क्रमात्प्रिये ॥ १,१५.२७७ ॥ पलान्तं साधकस्तेन निःसंज्ञत्वमवाप्यते । मन्दं मन्दं लब्धसंज्ञो मुहुः क्रन्दति नन्दति ॥ १,१५.२७८ ॥ रोदित्येव मुहुः कृच्छ्राल्लब्धसंज्ञो भवेन्नरः । गोक्षीरं पाययेत्पश्चात्सक्षौद्रं श्रान्तचेतसे ॥ १,१५.२७९ ॥ क्रमादेवं भवेत्स्वस्थः साधकोऽसौ न संशयः । षष्टिकान्नं सगोक्षीरं तैले जीर्णे च भोजनम् ॥ १,१५.२८० ॥ एवं कुर्यात्प्रतिदिनं मासमेकं निरन्तरम् । मासात्सूर्यसमः साक्षात्तेजसा मन्त्रशास्त्रवित् ॥ १,१५.२८१ ॥ साङ्गोपाङ्गश्रुतिं वेत्ति त्वनधीतोऽपि मानवः । मध्याह्ने भास्करं पश्येत्पूर्णचन्द्रमिवापरम् ॥ १,१५.२८२ ॥ वैनतेयसमा दृष्टिर्दिवा पश्यति तारकाः । अन्नवज्जीर्यते क्ष्वेलं सुप्तोऽप्याकर्णयेद्ध्वनिम् ॥ १,१५.२८३ ॥ अष्टादशविधं कुष्ठं सर्वरोगान्विनाशयेत् । फलं द्वितीयमासस्य शृणु वक्ष्यामि भैरवि ॥ १,१५.२८४ ॥ गन्धर्वोरगरक्षोभिः सेव्यते तैलसेवकः । महापातककर्तारो देवतापितृनिन्दकाः ॥ १,१५.२८५ ॥ समयाचाररहितास्त एते मुक्तकिल्बिषाः । अमुष्य सेवया मुक्ताः प्रयान्ति परमां गतिम् ॥ १,१५.२८६ ॥ फलं तृतीयमासस्य शृणु पार्वति वक्ष्यते । देवाश्च दिव्या ऋषयो वसवोऽष्टौ महोरगाः ॥ १,१५.२८७ ॥ अमुष्य सेवां कुर्वन्ति प्रियं नित्यहितं तथा । तस्य मूत्रं ताम्रघटे पूरयित्वा खनेद्भुवम् ॥ १,१५.२८८ ॥ तद्गर्ते विहितं कृत्वा षण्मासात्कनकं भवेत् । चतुर्थमासस्य फलं शर्वाणि शृणु सांप्रतम् ॥ १,१५.२८९ ॥ अदृश्योऽसौ भवेन्मर्त्यः सर्वैश्वर्ययुतो बली । दशब्रह्मदिनं जीवेत्सर्वलोकगतौ पटुः ॥ १,१५.२९० ॥ तन्मूत्रमलघर्माम्बूद्वर्तनैस्ताम्रलेपनम् । कुर्याद्वह्नौ प्रतपनं तच्छुल्बं काञ्चनं भवेत् ॥ १,१५.२९१ ॥ अथ पञ्चममासे तु सदेहः खेचरो भवेत् । साक्षाद्ब्रह्मा भवेद्देवि शृणु षाण्मासिकं फलम् ॥ १,१५.२९२ ॥ महासिद्धैः परिवृतः सर्वलोकान् यदृच्छया । विचरेच्छिवतुल्यः स्यान्महातेजा महायशाः ॥ १,१५.२९३ ॥ अथ सप्तममासस्य फलं कल्याणि वक्ष्यते । जितारिषड्वर्गमनाः सर्वभूतहिते रतः ॥ १,१५.२९४ ॥ विष्ण्वायुष्यमवाप्नोति पुण्यापुण्यविवर्जितः । विचरेच्च महावीर्यः श्रीमान् विष्णुरिवापरः ॥ १,१५.२९५ ॥ अष्टमासफलं वच्मि शृणु त्वं सर्वमङ्गले । मत्प्रियो दिव्यकर्मा च सर्वज्ञो मुक्तिमाप्नुयात् ॥ १,१५.२९६ ॥ फलं नवममासस्य शृणु कात्यायनि प्रिये । द्वितीयचिन्तामणिवद्वीरोऽसौ कामरूपवान् ॥ १,१५.२९७ ॥ ब्रह्मविष्ण्विन्द्रचन्द्राणां रूपं सृजति साधकः । मनसा चिन्तितं यद्यत्तत्तत्कर्तुं स्वयं प्रभुः ॥ १,१५.२९८ ॥ एतद्रसायनं दिव्यं सुकरं मोक्षसाधनम् । पुण्यं परमगुह्यं च गोपनीयं त्वया प्रिये ॥ १,१५.२९९ ॥ एतस्य सदृशं नास्ति देवानामपि दुर्लभम् । बहुनात्र किमुक्तेन त्वत्प्रियार्थं मयोदितम् ॥ १,१५.३०० ॥ रसायनमिदं दिव्यं न कुर्वन्ति च मानवाः । अज्ञानोपहताः केचित्केचिन्नास्तीति शङ्कया ॥ १,१५.३०१ ॥ अन्तरायेण केचिच्च तदलाभेन केचन । तत्कल्पाज्ञानतः केचित्केचिद्गुरुविवर्जिताः ॥ १,१५.३०२ ॥ केचिद्रोगाकुला देवि त्वित्थं तैरपि विघ्निताः । यत्र ज्योतिष्मती वल्ली सा भूमिः पुण्यभूमिका ॥ १,१५.३०३ ॥ तत्रैव सर्वतीर्थानि सिद्धयो विविधा अपि । ज्योतिष्मतीफलभवं सेव्यं दिव्यरसायनम् ॥ १,१५.३०४ ॥ <२७. गुग्गुलुकल्पः> अथ गुग्गुलुकल्पं च शृणु त्वं चण्डिकेऽधुना । चतुर्विधो गुग्गुलुः स्यात्कुमुदः पद्मकस्तथा ॥ १,१५.३०५ ॥ महिषाक्षं च हेमाख्यस्तत्तद्वर्णसमुज्ज्वलः । हेमाख्यं च मनुष्याणां रसायनमुदाहृतम् ॥ १,१५.३०६ ॥ कणशो गुग्गुलुं कृत्वा गोघृतेन शनैः पचेत् । डोलायन्त्रे युक्तिपरो घृतभर्जितमांसवत् ॥ १,१५.३०७ ॥ पथ्याविभीतकौ धात्री गन्धकश्च पृथक्पृथक् । समांशं तान्विचूर्ण्यैव एतत्सर्वसमं पुरम् ॥ १,१५.३०८ ॥ शुद्धकोष्ठो लिहेत्प्रातस्तैलं ह्येरण्डसंभवम् । लोलयित्वा निष्कमात्रं वृद्धिः कर्षावधिर्भवेत् ॥ १,१५.३०९ ॥ एवं वर्षप्रयोगेण शीतवातव्रणास्तथा । पिडकागण्डमालाद्या विनश्यन्ति महारुजः ॥ १,१५.३१० ॥ द्वादशाब्दप्रयोगेण वज्रकायो भवेन्नरः । यद्यद्द्रव्यं च सात्म्यं स्यात्तत्तद्द्रव्येण वा भजेत् ॥ १,१५.३११ ॥ यस्य यस्य च रोगस्य यद्यद्भेषजमीरितम् । तैस्तैः सहैव सेवेत तत्तद्रोगहरं भवेत् ॥ १,१५.३१२ ॥ <२८. विजयाकल्पः; विजयोत्पत्तिः> श्रीभैरवी । देवदेव जगन्नाथ सुरासुरनमस्कृत । पञ्चकृत्यप्रधानेश नमस्तुभ्यं परात्पर ॥ १,१५.३१३ ॥ सर्वेऽप्यौषधकल्पाश्च मत्प्रीत्या कथितास्त्वया । आश्चर्यं भूतदेवेश सद्यः सिद्धिप्रदायकम् ॥ १,१५.३१४ ॥ सुखसेव्यं सुखकरं ज्ञानदं भुक्तिदं शुचिम् । अस्मत्सायुज्यदं ब्रूहि प्रीत्या मम रसायनम् ॥ १,१५.३१५ ॥ ततः स्मितमुखो भूत्वा शङ्करो लोकशंकरः । श्रीभैरवः । देवि वक्ष्याम्यहं कल्पं स्पृहणीयं सुरासुरैः ॥ १,१५.३१६ ॥ सिद्धैश्च मुनिभिः स्त्रीभिः सर्ववर्णैश्च योगिभिः । बालैर्वृद्धैश्च रुग्णैश्च षण्ढैश्च बहुयोषितैः ॥ १,१५.३१७ ॥ शृणु त्वममृतोद्भूतं सावधानेन चेतसा । आग्नेयो मामकोऽंशः स्यात्सौम्यांशस्तावकः प्रिये ॥ १,१५.३१८ ॥ अग्नीषोमात्मकं सर्वमौषधं जलधौ सुराः । असुराः प्राक्षिपंश्चक्रुर्मथनं मन्दराद्रिणा ॥ १,१५.३१९ ॥ अतीव मथनात्तत्र देव्याग्नेयो ममांशकः । ज्वलन्महाविषं घोरं जातं हालाहलाख्यकम् ॥ १,१५.३२० ॥ तेन व्याकुलिता म्लाना गतवेगाः सुरासुराः । कृपया तन्मया सर्वं विषं च कबलीकृतम् ॥ १,१५.३२१ ॥ ततो देवा दितिसुता ममन्थुर्हृष्टमानसाः । ततो लक्ष्मीप्रभृतयः प्रादुरासंस्ततोऽमृतम् ॥ १,१५.३२२ ॥ तदुद्भूतं परं दिव्यं जरामरणकृन्तनम् । तदा तदा महाविष्णुर्मम हस्ताम्बुजेऽर्पयत् ॥ १,१५.३२३ ॥ त्रिवारं बिन्दवो दत्ताः परस्मै परमात्मने । पराशक्तियुजे पश्चात्तुभ्यं दत्ते मया प्रिये ॥ १,१५.३२४ ॥ पीतं त्वया च मे दत्तं मधुसूक्तमुदीर्य च । स्वीकृतं च मया कान्ते चिदानन्दात्मकामृतम् ॥ १,१५.३२५ ॥ सान्द्रानन्देन च मया स्फूत्कृतिर्लज्जया कृता । पतिता बिन्दवः सूक्ष्मास्तेभ्यो जाता महौषधिः ॥ १,१५.३२६ ॥ तामालोक्य शुभां दिव्यां मुदिताः पर्यपालयन् । मत्करांबुजनीतेन पीयूषेण विवर्धितम् ॥ १,१५.३२७ ॥ तस्मात्त्रिशूलसदृशपर्णं च पटलं बहु । तस्मान्महौषधिर्जाता मदादिष्टैर्गुणैर्वृता ॥ १,१५.३२८ ॥ कदाचिद्भैरवो दृष्ट्वा हृष्टस्तां प्रार्थयन्मया । दत्ता तस्मै भैरवोऽपि योगिनीभ्यः समर्पिपत् ॥ १,१५.३२९ ॥ ताश्च प्रीताः स्वभक्तेभ्यो भक्तेभ्यः प्रददुश्च ते । निन्युश्च भूतलं दिव्यामौषधिं सर्वसिद्धिदाम् ॥ १,१५.३३० ॥ <विजयाभेदाः> श्रीभैरवी । किंनाम्नी सा कथंवीर्या सेवनीया कथं प्रभो । कीदृग्वर्णा कियद्भेदा कीदृग्रूपगुणा च सा ॥ १,१५.३३१ ॥ कथं वा सिद्धिदा सा स्यात्क्रमान्मे ब्रूहि वल्लभ । श्रीभैरवः । अथ तस्याश्चतुर्वर्णा युगधर्माश्रिताः प्रिये ॥ १,१५.३३२ ॥ शुक्लवर्णा कृतयुगे त्रेतायां शोणितप्रभा । द्वापरे पीतवर्णा च नीलवर्णा कलौ युगे ॥ १,१५.३३३ ॥ एकपर्णा त्रिपर्णा च पञ्चपर्णा मुनिच्छदा । दशपर्णा रुद्रपर्णा त्रयोदशदलान्विता ॥ १,१५.३३४ ॥ नवपर्णेति विज्ञेया भेदा ह्येते सुरेश्वरि । <विजयालक्षणम्> स्त्रीरूपा सफला वल्ली पुंरूपा च द्रुमाकृतिः ॥ १,१५.३३५ ॥ सफला तु मदं मूर्छां सुखं सत्वं करोति च । योगवाहा तिक्तरसा सा कटुश्चूग्रगन्धिनी ॥ १,१५.३३६ ॥ शिवमूली च विजया भङ्गी गञ्जा विमर्दिनी । दिव्या सिद्धा सिद्धिदा च सिद्धमूली मनोन्मनी ॥ १,१५.३३७ ॥ मधुद्रवा चिदाह्लादा पशुपाशविनाशिनी । कालघ्नी सर्वरोगघ्नी नामान्येतानि पार्वति ॥ १,१५.३३८ ॥ शिवो मूलं भवेद्यस्याः शिवमूलीति कथ्यते । त्रिलोकानरिषड्वर्गान् विजयाख्या जयेदिति ॥ १,१५.३३९ ॥ तापत्रयादिदुःखानां भञ्जनाद्भङ्गिनी स्मृता । गञ्जेति मादयत्येषा मदिरास्थानकारिणी ॥ १,१५.३४० ॥ सदृशं मर्शनं यस्याः सैव प्रोक्ता विमर्शिनी । क्रीडामोदद्युतिमदकान्तिदत्वाच्च दिव्यका ॥ १,१५.३४१ ॥ स्वतःसिद्धेति सिद्धाख्या दिष्टसिद्धिप्रदायिका । सिद्धिदेति महासिद्धैः सा नीता सिद्धमूलिका ॥ १,१५.३४२ ॥ मनश्चिन्तितकार्याणां साधनाच्च मनोन्मना । संविदानन्ददत्वाच्च चिदाह्लादेति कीर्तिता ॥ १,१५.३४३ ॥ ब्रह्मरन्ध्रस्थितसुधाद्रावणाच्च मधुद्रवा । जन्तूनां पाशनाशत्वात्पशुपाशविनाशिनी ॥ १,१५.३४४ ॥ मृत्युञ्जयत्वात्कालघ्नी रोगघ्नी सार्थनामिका । <विजयावर्धनक्रमः> वर्धनक्रममाचक्षे शृणु लोकशिवंकरि ॥ १,१५.३४५ ॥ शिलालोष्टादितो वर्ज्या वालुकाशर्करादितः । भूमिः कृष्णा पांसुला च मृदुला सकरीषका ॥ १,१५.३४६ ॥ भुजङ्गमांससहिता तत्र बीजानि वापयेत् । अहिवक्त्रेषु सत्वञ्चि स्निग्धानि च गुरूणि च ॥ १,१५.३४७ ॥ पुष्यार्के सिद्धयोगे वा श्रवणे शुक्लपक्षके । स्नातो लिप्ततनुर्गन्धैः कृतन्यासजपार्चनः ॥ १,१५.३४८ ॥ उदङ्मुखः प्राङ्मुखो वा ध्यात्वा च गुरुपादुकाम् । सक्षीराङ्कोलतैलेन जलेन परिषेचयेत् ॥ १,१५.३४९ ॥ अङ्कुरे च समुत्पन्ने सिञ्चेत्सघृतवारिणा । पर्णे कीटे समुत्पन्ने सामुद्रं वारि सेचयेत् ॥ १,१५.३५० ॥ ततोऽस्यां विततायां च शिरश्छित्त्वा च रन्ध्रयेत् । तत्र सूतं क्षिपेन्निष्कं निष्कं प्रत्येकमादरात् ॥ १,१५.३५१ ॥ निरोधयेत्तन्मुखानि कौशिकेन प्रयत्नतः । पुष्पिते फलिते मद्यमांसाम्बु च निषेचयेत् ॥ १,१५.३५२ ॥ एकैकपक्षपर्यन्तं क्षीरादि परिषेचयेत् । अस्यां बद्ध्वा जटामांसीं सक्षौद्रं वारि सेचयेत् ॥ १,१५.३५३ ॥ शेषं मद्येन वा वारा वर्धनीया महौषधिः । आदौ वा परमं मन्त्रं पश्चात्सेवनमन्त्रकम् ॥ १,१५.३५४ ॥ ओं क्षां क्षीं क्षूं क्षेत्रपालाय नमः सवीर्यं कुरु कुरु सिद्धिं देहि देहि स्वाहा । अयं स्थापनमन्त्रः । ओं श्रीं ह्रीं क्लीं यरलवशषसह अमृतेश्वरि अमृतं कुरु कुरु आं ह्रां क्रों स्वाहा । अयं सेवनमन्त्रः । फाल्गुने कृष्णपक्षस्य चतुर्दश्यां च साधकः । स्नातः शुद्धाम्बरो गन्धपुष्पभूषणसंयुतः ॥ १,१५.३५५ ॥ अर्चयेद्भैरवं तत्र नन्दीशं च क्रमेण च । मद्यमांसोपहारेण रक्तपीतसितासितैः ॥ १,१५.३५६ ॥ तन्तुभिर्वेष्टयेद्देवि तन्मन्त्रं च निगद्यते । ओं ग्लौं सौं ह्रीं खेचरभूचरदिव्ययोगिनि इमां रक्ष रक्ष सर्वशत्रुप्रमथिनि स्वाहा । अयं तन्तुबन्धनमन्त्रः । सहस्रं प्रत्यहं जप्यमघोरं मन्त्रनायकम् ॥ १,१५.३५७ ॥ एवं सप्तदिनं कार्यं पञ्चम्याममृतेश्वरीम् । ध्यात्वा कुन्देन्दुकर्पूरसंकाशां धवलांबराम् ॥ १,१५.३५८ ॥ सितमाल्यानुलेपार्द्रां मुक्ताभरणमण्डिताम् । दक्षिणेऽक्षगुणं वामे सुधापूर्णघटं ततः ॥ १,१५.३५९ ॥ तदधो दक्षिणे वामे संवित्पुस्तकधारिणीम् । तत्र स्थितां ततः कुर्याल्लवनं च समन्त्रकम् ॥ १,१५.३६० ॥ स्निग्धानि च सबीजानि सपर्णानि समाहरेत् । ओं क्लीं वं सं क्रौं शिवानन्दामृतोद्भवे त्रिभुवनविजये विजयं प्रयच्छ स्वाहा । अयं लावनमन्त्रः । मन्दातपे शुद्धदेशे शोषयेत्सप्तवासरम् ॥ १,१५.३६१ ॥ निक्षिपेन्नूतने भाण्डे तत्पर्णानि सुचूर्णयेत् । स्थालीद्वयं प्रताप्यादावेकस्यां प्रथमं पुटेत् ॥ १,१५.३६२ ॥ ततोऽपरस्यां पुटयेदेवं कार्यं मुहुर्मुहुः । यावत्सुपाकतां याति तज्ज्ञस्तावद्विपाचयेत् ॥ १,१५.३६३ ॥ गुञ्जोन्मत्तश्च वल्ली च तासां पर्णरसैर्मुहुः । स्थाल्यौ पृथक्पृथक्देवि सप्तधा सप्तधा प्रिये ॥ १,१५.३६४ ॥ मुण्डी ब्राह्मी कुमारी च वरी धात्री कटुद्वयम् । सुगन्धिका क्रमाज्ज्ञेया चैकैकपलमानतः ॥ १,१५.३६५ ॥ योजनीयाश्चूर्णिताश्च तत्सर्वसदृशा जयाः । सिता सर्वसमा योज्या तत्समं गोपयः क्षिपेत् ॥ १,१५.३६६ ॥ क्षीरमध्ये सितां क्षिप्त्वा तन्तुपाकं भवेद्भिषक् । मुण्डादिविजयान्तं च तच्चूर्णं तत्र निक्षिपेत् ॥ १,१५.३६७ ॥ लोलयित्वावतार्यैवं शैत्ये क्षौद्रं सितार्धकम् । निक्षिप्य गोघृतं तुल्यं क्षौद्रस्य परिमेलयेत् ॥ १,१५.३६८ ॥ पक्षद्वयं धान्यराशौ निधाय प्रत्यहं जपेत् । सहस्रं वा यथाशक्त्या महावटुकमन्त्रकम् ॥ १,१५.३६९ ॥ ह्रीं श्रीं महाकालाग्निभैरवाय सर्वसिद्धिमातृब्रह्मा लिङ्गितविग्रहाय सर्वापदां शोषकाय हुं फट्ठम् । अयमग्निपाकमन्त्रः । मासादुद्धृत्य विधिवद्ग्रसेदामलकोपमम् । निवातमन्दिरे स्थायी क्षीरान्नाशी जितेन्द्रियः ॥ १,१५.३७० ॥ गुरूपदिष्टदेवं वा तत्त्वं वा परमं स्मरेत् । द्विकालं वा त्रिकालं वा यथा सेवाबलं क्रमात् ॥ १,१५.३७१ ॥ एवं त्रिवर्षाज्जरया वलीभिश्च विवर्जितः । भूचरीसिद्धिमाप्नोति जीवेत्त्रिशतवत्सरम् ॥ १,१५.३७२ ॥ वाराही त्रिफला चित्रमश्वगन्धा क्रमेण च । एवं द्वित्रिचतुर्भागमश्वगन्धादि योजयेत् ॥ १,१५.३७३ ॥ एतत्समा च विजया मधुना लोलयेत्सुखम् । आतपे पक्षपर्यन्तं स्थापयेत्प्रतितापयेत् ॥ १,१५.३७४ ॥ धात्रीफलोपमं सेव्यं सूर्याभश्चाष्टमासतः । साधको जायते वर्षाज्जरामरणवर्जितः ॥ १,१५.३७५ ॥ जपन्मन्त्रमिमं भक्त्या देहसिद्ध्यै सुरेश्वरि । ह्रीं श्रीं महाव्योमभास्कराय दीपिमातृकालिङ्गितविग्रहाय तेजसां निधिं कुरु कुरु ठम् । इति सूर्यपाकमन्त्रः । पलत्रयं जयायाश्च यष्टीचूर्णं पलद्वयम् ॥ १,१५.३७६ ॥ पलमेलाभद्रचूर्णं चित्रमूलं पलार्धकम् । श्रीखण्डचूर्णं च पलं चैतत्सर्वसमा सिता ॥ १,१५.३७७ ॥ स्वर्णचूर्णं च निष्कार्धं निष्कं च हिमवालुकम् । सर्वमाज्येन लुलितं ज्योत्स्नायां निक्षिपेत्सुधीः ॥ १,१५.३७८ ॥ शुक्लपञ्चमीमारभ्य पक्षान्तं शशिभावना । विधिवत्पूजयित्वा तु शुद्धकोष्ठो लिहेत्प्रिये ॥ १,१५.३७९ ॥ अस्य मन्त्रं पुनर्वच्मि सर्वसिद्धिप्रदायकम् । ह्रीं श्रीं महाशशाङ्ककिरणविस्फारभैरवाय अमृतेश्वरी मातृकालिङ्गितविग्रहाय विस्फुरणं कुरु कुरु हुं फट्ठम् । इति चन्द्रपाकमन्त्रः । एवंविधस्य कल्पस्य त्रिविधं मन्त्रमीरितम् ॥ १,१५.३८० ॥ एकैकमन्त्रमयुतं पुरश्चरणमाचरेत् । वह्निपाकं चतुर्मासेष्वाषाढादिषु तन्यते ॥ १,१५.३८१ ॥ फाल्गुनादौ प्रकुर्वीत रविपाकं सुरेश्वरि । कार्त्तिकादिषु चन्द्रस्य पाकः स्यात्सिद्धिदायकः ॥ १,१५.३८२ ॥ मुण्डीचित्रकनिर्गुण्डीसहिता कुष्ठनाशिनी । ब्राह्मी कुमार्या युक्ता चेदमपस्मारविनाशिनी ॥ १,१५.३८३ ॥ जया वराव्योषयुता क्षयस्य क्षयकारिणी । जया कार्पासमत्स्याक्षीपत्रयुक्ता च पित्तनुत् ॥ १,१५.३८४ ॥ स्नुह्यर्कपत्रक्षारेण संयुता गुल्मशूलहृत् । वचादूर्वारजोयुक्ता ज्ञानवृद्धिप्रदायिनी ॥ १,१५.३८५ ॥ यष्टीगन्धकसंयुक्ता कुष्ठनुत्पुष्टिदायिनी । शाल्मलीपिच्छसंयुक्ता ससिता वीर्यवर्धिनी ॥ १,१५.३८६ ॥ पाठातिक्तात्रिकटुकैर्युक्ता कफगदापहा । शुक्लगुञ्जायुता न्ःणां महाविषविनाशिनी ॥ १,१५.३८७ ॥ व्याघातचूर्णसहिता कुष्ठरोगविनाशिनी । आरण्यमरिचैरण्डयुक्ता वातविनाशिनी ॥ १,१५.३८८ ॥ एते द्वादशयोगाश्च मासेषु द्वादशेषु च । मन्त्रत्रयं च प्रजपेत्प्रतिमासेषु साधकः ॥ १,१५.३८९ ॥ साधकोऽनेन योगेन जरामरणवर्जितः । भवत्येव न सन्देहः सत्यं सत्यं वरानने ॥ १,१५.३९० ॥ रसत्रिगन्धकृष्णाभ्ररुद्राक्षस्वर्णभस्म च । जयारसेन संमर्द्यं पक्षमेकं तु भावयेत् ॥ १,१५.३९१ ॥ भूधरे संपुटे यन्त्रे पुटयेच्चूर्णयेत्ततः । एतच्चतुर्गुणजया शर्कराघृतसंयुता ॥ १,१५.३९२ ॥ सेव्या निष्कप्रमाणेन प्रातः सायन्तनेऽथवा । महावटुकमन्त्रं च जपेल्लक्षावधि प्रिये ॥ १,१५.३९३ ॥ षष्ठमासे भवेत्सिद्धिर्जरामरणवर्जितः । वर्षान्मनोजवगतिर्नागायुतबलो भवेत् ॥ १,१५.३९४ ॥ वज्रकायश्च सिद्धोऽसौ जीवेदाचन्द्रतारकम् । वटाङ्कुरस्य चूर्णेन सितामध्वाज्यसंयुता ॥ १,१५.३९५ ॥ त्रिपक्षात्सेवितजया सर्वलोकवशंकरी । अपामार्गरजोयुक्ता जया घृतसमन्विता ॥ १,१५.३९६ ॥ मन्त्रजापी भवेन्नित्यं षण्मासादमरो भवेत् । वरा सितजया चित्रस्त्रिवृता त्रिकटुर्वृषा ॥ १,१५.३९७ ॥ दूर्वा भृङ्गो मरीचश्च मधुकाजाजिसैन्धवम् । कर्पूरं च कचोरं च सर्वतुल्यं जयारजः ॥ १,१५.३९८ ॥ मधुत्रयेण लुलितं स्निग्धभाण्डे विनिक्षिपेत् । कर्षं प्रभाते सेवेत मण्डलात्सिद्धिभाग्भवेत् ॥ १,१५.३९९ ॥ स्याद्वर्षाद्देवसदृशो जीवेद्देवदिनत्रयम् । अश्वगन्धा वचा व्योषं जयाचूर्णं च तत्समम् ॥ १,१५.४०० ॥ लिहेत्त्रिमधुरैर्युक्तं त्रिवर्षाद्देवतासमः । गञ्जाचूर्णं चाष्टभागं चतुर्भागा च मुण्डिका ॥ १,१५.४०१ ॥ ब्राह्मीरजो द्विभागं स्याद्वाजिगन्धैकभागिका । द्विभागस्त्र्यूषणस्यापि वराभागद्वयं तथा ॥ १,१५.४०२ ॥ भागमेकं शिलायाश्च भागैकं गन्धकस्य च । रसराडेकभागः स्यात्तदर्धं स्वर्णभस्म च ॥ १,१५.४०३ ॥ तत्समं मौक्तिकं योज्यं मुक्तातुल्यं प्रवालकम् । मध्वाज्याभ्यां विलुलितं स्निग्धभाण्डे विनिक्षिपेत् ॥ १,१५.४०४ ॥ सप्तरात्रं धान्यपाकं कृत्वा लक्षत्रयं जपम् । निष्कमात्रवटी सेव्या क्षीराहारो जितेन्द्रियः ॥ १,१५.४०५ ॥ मण्डलात्सर्वरोगघ्नं त्वब्दात्पुष्पवदग्निभाक् । अर्धवर्षाद्भैरवः स्याज्जीवेदाचन्द्रतारकम् ॥ १,१५.४०६ ॥ त्रिसुगन्धिवराव्योषैः समांशा शिवमूलिका । मध्वाज्याभ्यां युता लेह्या कासघ्नी वह्निवर्धनी ॥ १,१५.४०७ ॥ मधुरप्रायभोजी चेत्सकासश्वासरोगजित् । हरिद्रया च सहिता सर्वमेहविनाशिनी ॥ १,१५.४०८ ॥ मण्डूकपर्ण्या सहिता वचया वाङ्मतिप्रदा । द्राक्षा सिता वल्लकी च खर्जूरी दुग्धपिण्डिका ॥ १,१५.४०९ ॥ सहिता कन्दलीनीरसैः सर्वस्वादुरिति स्मृतः । नारिकेलोदकैर्युक्ता कर्पूरसुरभीकृता ॥ १,१५.४१० ॥ सर्वस्वादुयुता सिद्धा पित्तघ्नी वीर्यवर्धनी । स्वादोश्चतुर्गुणं क्षीरं मधुपाकं यथा भवेत् ॥ १,१५.४११ ॥ तद्वस्त्रगालितं कृत्वा कर्पूरं तत्र निक्षिपेत् । एलां च सर्वमधुरं जयां च पिबतस्ततः ॥ १,१५.४१२ ॥ शतस्त्रीगमने शक्तिः पित्तहृत्पुष्टिवर्धनम् । समाम्बुपयसि क्षिप्त्वा जयाबीजं सवस्त्रकम् ॥ १,१५.४१३ ॥ अवशिष्टं चतुर्थांशं पचेन्मृद्वग्निना प्रिये । तद्दधीकृत्य विधिवन्मन्थयेत्तत उद्धरेत् ॥ १,१५.४१४ ॥ नवनीतं क्षिपेत्तत्र कर्पूरैला सिता मधु । पुष्ट्यायुष्यद्युतिकरं बलारोग्यविवर्धनम् ॥ १,१५.४१५ ॥ शतधा स्तन्यधौतं तच्छतधौतमितीरितम् । नागकेसरकच्छूरलवङ्गैलागरुं तथा ॥ १,१५.४१६ ॥ कर्पूरचन्दनमृगनाभितक्कोलकुङ्कुमम् । एतत्समं जयाबीजं गोक्षीरेण च मर्दयेत् ॥ १,१५.४१७ ॥ निष्कनिष्कप्रमाणेन विदध्याद्वटिकाः सुधीः । सुपुष्पवासिताः कृत्वा सताम्बूलं मुखे क्षिपेत् ॥ १,१५.४१८ ॥ प्रसेकमुखवैरस्यमलपूतिहरी शुचिः । सौगन्ध्यवैशद्यकरी चित्तहर्षप्रदायिनी ॥ १,१५.४१९ ॥ गोक्षीरे चार्धसलिले धातकीकुसुमं क्षिपेत् । जातीफलं नागरं च तत्सर्वसदृशां जयाम् ॥ १,१५.४२० ॥ क्षीरावशिष्टं वस्त्रेण गालयेत्त्रिमधुप्लुतम् । सिद्धयोग इति ख्यातो वृष्यायुष्यबलप्रदः ॥ १,१५.४२१ ॥ अजमोदयुता वापि निशारजोयुताथवा । तन्मात्रसेविता चूर्णा पामाकिट्टिभनाशिनी ॥ १,१५.४२२ ॥ जया तालयुता हन्यात्प्रदरं श्वयथुं तथा । कण्डूप्रशमनी ज्ञेया विजया शिलया युता ॥ १,१५.४२३ ॥ तैलेन भावयेत्स्थाल्यां जयां पश्चाच्च फाणिते । सान्द्रपाकं भवेद्धीमान् सघृतं भक्षयेत्सदा ॥ १,१५.४२४ ॥ साक्षात्पर्यायमदनोऽनेकयोषित्सुखप्रदः । पथ्या भल्लातकगुडं तिलाश्चैते समांशिनः ॥ १,१५.४२५ ॥ तत्समा विजया हन्ति गुदकीलांश्च षड्विधान् । यवानी जीरकयुगमजमोदा समांशिनः ॥ १,१५.४२६ ॥ एतत्समा च विजया सर्पिषा सेव्यतां बुधैः । सन्धिवातं भ्रमं छर्दिमुन्मादं मस्तकव्यथाम् ॥ १,१५.४२७ ॥ शर्करां मधु विश्वं च मागधीं तत्समां जयाम् । कृत्वाज्यगलितां गोलीमिमां पञ्चागदं विदुः ॥ १,१५.४२८ ॥ हृद्रोगप्लीहजठरभगन्दरनिकृन्तनीम् । सचित्रका वह्निकरी सवरा शूलभञ्जिनी ॥ १,१५.४२९ ॥ सव्योषा वातसंहर्त्री पित्तघ्नी शर्करायुता । श्वेताद्रिकर्णिकाबीजं विजयां खरमूत्रतः ॥ १,१५.४३० ॥ नस्येनापस्मृतिहरा भूतप्रेतादिभञ्जनी । जयाचूर्णं समध्वाज्यं भजेदामलकोपमम् ॥ १,१५.४३१ ॥ वाक्पाटवं वीर्यवृद्धिं कुरुते विजया परम् । मधुनाज्येन वा धात्र्या मुस्तया स्वरसेन वा ॥ १,१५.४३२ ॥ उपयुक्ता जया रात्रौ दृक्प्रसादकरी नृणाम् । यौवनस्थैर्यमातन्यादायुष्यं परमं भवेत् ॥ १,१५.४३३ ॥ गुडोऽभया च विजया दुर्नामकुलभञ्जनी । जयाकाष्ठेन दन्तानां शोधनं दन्तदार्ढ्यकृत् ॥ १,१५.४३४ ॥ तैलाक्तविजयाकाष्ठाद्रसज्ञाशोधनं यदि । जिह्वापूतिमलान् हन्याद्यथार्था स्याद्रसज्ञता ॥ १,१५.४३५ ॥ नालिकेरभवक्षीरे पचेन्मृद्वग्निना जयाम् । त्रिमध्वक्तां पिबेद्रात्रौ ततो रामाशतं भजेत् ॥ १,१५.४३६ ॥ शुण्ठी हरीतकी तुल्ये तत्समा च जया तथा । सर्वतुल्या सिता योज्या योगस्त्रैलोक्यमोहनम् ॥ १,१५.४३७ ॥ त्र्यूषणं मधुकं चव्यं चातुर्जातं फलं वरा । गोस्तनी पिप्पलीमूलं समांशं परिकल्पयेत् ॥ १,१५.४३८ ॥ प्रियालमज्जा तैस्तुल्या चैतत्सर्वसमा जया । त्रिगुणेन गुडे पक्वे तेषां चूर्णं क्षिपेच्छिवे ॥ १,१५.४३९ ॥ आलोड्य मोदकान्कुर्यात्कामी कन्दर्पमोदकान् । सर्वरोगोपशमनांस्त्रिदोषघ्नान्बलप्रदान् ॥ १,१५.४४० ॥ वृष्यान्पुष्टिकरान् धीमांस्त्रिसंध्यमनुवासरम् । भक्षयेच्छुद्धकोष्ठे तु त्रिवर्षात्सिद्धिरीदृशी ॥ १,१५.४४१ ॥ सदैवमुपयुञ्जानो जरामरणवर्जितः । मरीचं पिप्पली शुण्ठी त्वगेलां पत्रकं समम् ॥ १,१५.४४२ ॥ एतैश्च विजया तुल्या समगोधूमपिष्टकैः । द्विगुणेन गुडेनैव मोदकान्परिकल्पयेत् ॥ १,१५.४४३ ॥ कर्षमात्रान्प्रतिदिनं भक्षयेन्नियतेन्द्रियः । बलपुष्टियुतो वर्षाद्वलीपलितवर्जितः ॥ १,१५.४४४ ॥ चणकैर्माषकैर्मुद्गैराढकैर्वा तिलैस्तथा । निष्पावैर्वितुषैराज्यभर्जितैर्गुडसंयुतैः ॥ १,१५.४४५ ॥ सत्रिजातैश्च सव्योषैः सजीरैः समभागतः । संयोज्य विजयां कुर्यान्मोदकान् कर्षमात्रकान् ॥ १,१५.४४६ ॥ एकैकं प्रत्यहं खादेत्सायं प्रातर्विशुद्धधीः । सर्वरोगहरान् वृष्यान् बुद्धीन्द्रियबलप्रदान् ॥ १,१५.४४७ ॥ तक्कोलं चन्दनं सेव्यं कर्पूरं नागकेसरम् । एलालवङ्गमधुकं पिप्पली मरिचं तथा ॥ १,१५.४४८ ॥ सर्वैः समांशा विजया सिता सर्वसमा शुभा । पञ्चबाणाभिधानोऽयं चूर्णं सर्वरुजापहम् ॥ १,१५.४४९ ॥ द्वादशाब्दोपयोगेन वलीपलितहा भवेत् । वरा त्रिजातकश्चन्द्रखण्डबीजं कटुत्रयम् ॥ १,१५.४५० ॥ एतैः समा सिद्धमूली सर्वतुल्या च शर्करा । मधुना लोलिता लीढा दीपनी देहसिद्धिदा ॥ १,१५.४५१ ॥ शतावर्युत्तमाव्योषमुसलीद्विगुणान्वितः । जया समा समसिता वृष्यायुष्यबलप्रदा ॥ १,१५.४५२ ॥ आयुर्घृतयुता धत्ते प्रातः शुण्ठीसितायुता । क्षीरसिद्धा जया वृष्या बल्या च निशि सेविता ॥ १,१५.४५३ ॥ मधुना सेविता भुक्तेः पूर्वं सा वाजिगन्धया । बलपुष्टिकरा सिद्धा रसायनमिदं परम् ॥ १,१५.४५४ ॥ निस्त्वङ्मर्कटिकाबीजं माषचूर्णं समा जया । क्षीरे च माहिषे पक्त्वा रात्रौ सेव्यातिवृष्यकृत् ॥ १,१५.४५५ ॥ विधिवच्छाल्मलीपिच्छवरीभृङ्गामृतारसैः । कान्तपात्रे प्रतिरसैः सप्तधा सप्तधातपे ॥ १,१५.४५६ ॥ कुर्वीत भावनां पश्चाच्चूर्णयेत्तत्समां जयाम् । मधुना च लिहेत्कर्षं जरामरणनाशिनी ॥ १,१५.४५७ ॥ पञ्चाङ्गं शाल्मलेर्ग्राह्यं तत्समं विजयारजः । मध्वाज्याभ्यां लिहेत्कर्षं वलीपलितखण्डनम् ॥ १,१५.४५८ ॥ अथ पुष्यरवौ हस्तिकन्दं ग्राह्यं समूलकम् । अनातपे च संशोष्य चूर्णयेत्तत्समां जयाम् ॥ १,१५.४५९ ॥ मधुनालोडयेत्पश्चात्स्निग्धभाण्डे विनिक्षिपेत् । एकविंशद्दिनं धान्यराशौ स्थाप्यं तत उद्धरेत् ॥ १,१५.४६० ॥ प्रत्यहं पलमेकं तु भक्षयेन्मण्डलद्वयम् । कट्वम्लौ वर्जयेत्तावन्मृदु यूषान्नभोजनम् ॥ १,१५.४६१ ॥ मधुरं लघु पित्तघ्नं पललं जाङ्गलं हितम् । बालार्काभश्च मतिमान् पिकालापो बलान्वितः ॥ १,१५.४६२ ॥ शतयोजनपर्यन्तं दिनेनैकेन गच्छति । मुण्डीचूर्णं जयाचूर्णं समं मधुघृतान्वितम् ॥ १,१५.४६३ ॥ कर्षं प्रातः प्रतिदिनं लिहेदायुष्यपुष्टिकृत् । द्वादशाब्दं तु सेवेत भुञ्जीत घृतसंयुतम् ॥ १,१५.४६४ ॥ गोक्षीरं षष्टिकान्नं च लोणाम्लक्षारहीनकम् । भवेद्वलिजराहीनो दृश्यः स्याल्लघुदेहवान् ॥ १,१५.४६५ ॥ पत्रं पुष्पं फलं श्वेतब्रह्मवृक्षस्य चाहरेत् । छायायां शोषयेच्चूर्णं तत्समं विजयारजः ॥ १,१५.४६६ ॥ मध्वाज्याभ्यां लिहेत्कर्षमब्दाद्यौवनमाप्नुयात् । जयाबीजानि च तिलान्भर्जयेत्सगुडान्प्रिये ॥ १,१५.४६७ ॥ विधाय लड्डुकान्प्रातर्भक्षयेद्गोघृताप्लुतान् । मनःसंमोहनकरान् कान्तासङ्गमसाधकान् ॥ १,१५.४६८ ॥ पाकार्हव्यञ्जनैः सार्धं जयापत्राणि पाचयेत् । भर्जयेद्गोघृतेनैव गुडैलातीक्ष्णजीरकैः ॥ १,१५.४६९ ॥ संस्कृतः सुखसेव्योऽयं नाम्ना व्यञ्जनयोगराट् । तण्डुलान्विजयाबीजं मुद्गं च विगतत्वचः ॥ १,१५.४७० ॥ सुरन्ध्रनालिकेरान्तः क्षिपेद्रन्ध्रं निरोधयेत् । बहिर्गोमयमृल्लिप्तं शोषयेन्मृदुवह्निना ॥ १,१५.४७१ ॥ पाचयेन्नालिकेरस्थं समज्जं तत्समाहरेत् । मधुत्रयेण सहितं भुञ्जीत च यथाबलम् ॥ १,१५.४७२ ॥ महावृष्यकरो योगः षण्ढानामपि पुंस्त्वदः । गोक्षीरे विजयाबीजं वस्त्रबद्धं विनिक्षिपेत् ॥ १,१५.४७३ ॥ अर्धावशिष्टे तत्क्षीरे व्यजनानिलशीतले । वाराहीमर्कटीबीजकर्पूरैलालवङ्गकम् ॥ १,१५.४७४ ॥ त्रिमधु त्रिसुगन्धं च निक्षिपेच्च समांशतः । एकीकृत्य पिबेद्रात्रौ महावृष्यकरः परः ॥ १,१५.४७५ ॥ वाराहीयोग एषोऽयं षण्ढत्वादिनिकृन्तनः । क्षीरशृतं च तद्बीजं पेषयेच्छिलया तनु ॥ १,१५.४७६ ॥ रसेनोत्तमकन्यायाः कांस्यपात्रे प्रलेपयेत् । तीव्रातपे धारयेत्तं तस्मात्स्नेहं समाहरेत् ॥ १,१५.४७७ ॥ स्नेहान्तरयुजा तेन नस्यकर्म समाचरेत् । जत्रूर्ध्वगतरोगांश्च कासश्वासादिकान्हरेत् ॥ १,१५.४७८ ॥ यस्य यस्य च रोगस्य विहितं यद्यदौषधम् । तेन तेन युता सिद्धा तत्तद्रोगहरा भवेत् ॥ १,१५.४७९ ॥ गुणा मया च कथ्यन्ते तान् शृणुष्व महेश्वरि । जिह्वार्द्रता मनःसौख्यं तृप्तिः संकल्पसिद्धता ॥ १,१५.४८० ॥ वाक्पटुत्वं मुखोल्लासो भवेद्व्यायामपेशलः । स्नानध्यानार्चनपरो मधुरास्वादलोलुपः ॥ १,१५.४८१ ॥ मृष्टान्नाशी शीतवारि पिबन्नालापतत्परः । यथेष्टालोकनपरः कामिनीसङ्गलोलुपः ॥ १,१५.४८२ ॥ सर्वभूतदयाविष्टस्तत्त्वज्ञानविलीनधीः । कविताख्यानविज्ञानोपन्यासैकपरायणः ॥ १,१५.४८३ ॥ वादेषु विजयं कुर्यात्सङ्ग्रामे मल्लसङ्गरे । अन्येऽपि बहवः सन्ति गुणास्त्वन्यत्र दुर्लभाः ॥ १,१५.४८४ ॥ <विजयाव्यापत्सिद्धी> एतस्याः सिद्धिमूल्याश्च भक्षणे त्वधिके सति । जायन्ते हि विकाराश्च शृणु तान्परमेश्वरि ॥ १,१५.४८५ ॥ आरक्तलोचनः शुष्कजिह्वौष्ठपुटतालुकः । प्रथमे शुष्कनासाग्र उष्णकृच्छ्वासपार्श्वयोः ॥ १,१५.४८६ ॥ द्वितीयेऽक्षिनिमीलत्वं पटलीकृतविग्रहः । तृतीये पादहस्ताक्षिदाहकृद्गद्गदध्वनिः ॥ १,१५.४८७ ॥ चतुर्थे क्षुत्पिपासार्तो निद्राघूर्णितलोचनः । पञ्चमे गद्गदा वाणी स्वप्रोक्तं विस्मरेत्क्षणात् ॥ १,१५.४८८ ॥ षष्ठे विकारे संजाते चित्तापस्मृतिकारणम् । सप्तमे करसादश्च देहे च रुचिरायते ॥ १,१५.४८९ ॥ महोर्मय इवोल्लासा जायन्ते च पुनः पुनः । अष्टमे दिग्भ्रमः शान्तिर्भ्रूभङ्गश्चातिरोदनम् ॥ १,१५.४९० ॥ नवमे श्रोत्रहुङ्कारो मूर्च्छापस्मृतिकातरः । उद्गारः कूजनं भूमौ लुठनं दैन्यभाषणम् ॥ १,१५.४९१ ॥ अन्यथा भाषणं गुह्यं ब्रवन्सौख्यं न वेत्ति च । दुःखं च मृदुकल्पोऽयं स्विन्नाङ्गश्च भवेत्प्रिये ॥ १,१५.४९२ ॥ अन्ये विकारा बहवः सन्ति तेषां चिकित्सनम् । विरेकोऽम्लरसः शीर्षस्नानं शीताम्बुना ततः ॥ १,१५.४९३ ॥ चन्दनोशीरकर्पूरहिमाम्बुपरिलेपनम् । सुगन्धिशीतलीभूतमालालंकृतविग्रहः ॥ १,१५.४९४ ॥ मल्लिकाजातिचाम्पेयकमलोत्पलधारिणा । मृणालवलयोद्भासिशय्या च कदलीदलम् ॥ १,१५.४९५ ॥ कर्पूरैलालवङ्गाश्च तक्कोलं कटुकीफलम् । चर्वयेत्सह ताम्बूलं तालवृन्तेन वीजनम् ॥ १,१५.४९६ ॥ सूक्ष्मकाषायवस्त्राणि सुगन्धीनि च धारयेत् । कङ्कणे चन्द्रमापश्यञ्ज्योत्स्नायां द्विमुहूर्तकम् ॥ १,१५.४९७ ॥ पीनोत्तुङ्गकुचद्वन्द्वगाढालिङ्गनतत्परः । शयीत शर्कराक्षीरघृतमांसरसादिकम् ॥ १,१५.४९८ ॥ पानकं मुद्गयूषं वा पेयं वा शार्करं मधु । केवलं शयनं कुर्याद्यद्यच्छीतं भजेच्च तत् ॥ १,१५.४९९ ॥ <२९. कञ्चुकीकल्पः> अथ वक्ष्यामि देवेशि कञ्चुकीकल्पमुत्तमम् । सप्ताष्टच्छदसंयुक्ता मूलकोपमकन्दुका ॥ १,१५.५०० ॥ क्षीरान्विता मेषशब्दाज्जायन्ते पल्लवान्यपि । सा ज्ञेया पीतरक्ताभकाण्डा श्वेततनुः प्रिये ॥ १,१५.५०१ ॥ आषाढे कार्त्तिके मासे चैत्यदेशे प्ररोहति । पिष्टां पलाष्टके क्षीरे त्वङ्गुष्ठद्वयमात्रकम् ॥ १,१५.५०२ ॥ कुटीप्रवेशं कृत्वादौ पीत्वा पश्चात्पयः पिबेत् । जीर्णे क्षीरं पुनः पेयं पेयां वा स्नेहवर्जिताम् ॥ १,१५.५०३ ॥ स्तोकोष्णलवणाम्लां तां न स्पृशेच्छीतलं जलम् । एवं सप्तदिनं सेव्यं खिलकुष्ठं विनाशयेत् ॥ १,१५.५०४ ॥ तृतीये सप्तरात्रेण नश्यन्ति निखिला गदाः । तृतीये सप्तरात्रेण भुजङ्गः कञ्चुकं तथा ॥ १,१५.५०५ ॥ त्वक्केशनखदन्तांश्च स त्यजेत्स्वयमेवं हि । जीवेत्पञ्चशतं वर्षं रूपमेधाबलान्वितः ॥ १,१५.५०६ ॥ चूर्णितं कञ्चुकीकन्दं तत्क्षीरेण विभावितम् । कर्षं गोक्षीरकुडुबैः पिष्ट्वा खण्डं पलं क्षिपेत् ॥ १,१५.५०७ ॥ नखकेशास्थिदन्तस्थान् रोगान्पानेन नाशयेत् । कञ्चुक्यास्तु पलं चूर्णं प्रस्थगोक्षीरवापितम् ॥ १,१५.५०८ ॥ चूर्णशेषं पचेत्तावद्गोघृतेन च भर्जयेत् । सितया मधुना लिह्यात्क्षीरान्नो मण्डलावधि ॥ १,१५.५०९ ॥ महागजबलोपेतो द्विरष्टवयसोज्ज्वलः । जीवेत्पञ्चशतं वर्षान्कामिनीकेलिमन्मथः ॥ १,१५.५१० ॥ <३०. कुक्कुटीकल्पः> अथ वक्ष्यामि ते देवि कुक्कुटीकल्पमुत्तमम् । सुरासुरैर्मथ्यमानादब्धेरमृतबिन्दवः ॥ १,१५.५११ ॥ पतितास्तेभ्य उत्पन्ना कुक्कुटी निर्जरत्वदा । पत्त्रैर्मरकतच्छायैः खर्जूरीदलसन्निभैः ॥ १,१५.५१२ ॥ कन्दैश्च कुक्कुटास्याभैरीषत्कटुकपिच्छिलैः । लक्षिता कुक्कुटी ज्ञेया महारोगहरा परा ॥ १,१५.५१३ ॥ विशेषाद्वातरोगांश्च गुदकीलविषाणि च । घृतेन भर्जयेत्कन्दं शुद्धकोष्ठः कुटीं व्रजेत् ॥ १,१५.५१४ ॥ गुञ्जामात्रं प्रगे सेव्यं धारोष्णं गोपयः पिबेत् । जीर्णे क्षीरान्नमश्नीयाज्जलान्नं वा विचक्षणः ॥ १,१५.५१५ ॥ यथाबलं प्रतिदिनं वर्धयेन्मण्डलावधि । जत्रूर्ध्वरोगान् पाण्ड्वादीन् क्षयकुष्ठादिकान्हरेत् ॥ १,१५.५१६ ॥ स्थिरकेशद्विजनखो वलीपलितवर्जितः । जीवेद्द्विशतवर्षं च मेधाधैर्यबलान्वितः ॥ १,१५.५१७ ॥ शुक्लप्रतिपदारभ्य चैकैकं घृतवर्जितम् । कन्दं प्राश्नीय पर्वान्तं वर्धयेत्तद्यथाबलम् ॥ १,१५.५१८ ॥ तथैवासितपक्षादि नूनं कुर्याद्दिनाद्दिनम् । भुक्तेः प्रागुपयुञ्जीत पश्चात्क्षीराशनो भवेत् ॥ १,१५.५१९ ॥ दर्शान्तमेवं सेवेत प्रतिमासं पुनः पुनः । त्रिवर्षात्सिद्धिमाप्नोति जीवेद्वर्षायुतत्रयम् ॥ १,१५.५२० ॥ कुक्कुटीकन्दचूर्णं च गोक्षीरेण यथाबलम् । जीर्णे पिबेद्यवागूंश्च मासात्सिद्धिः प्रजायते ॥ १,१५.५२१ ॥ नानाविधगदान्हन्ति जीवेद्वर्षशतद्वयम् । <३१. सोमलताकल्पः> अथ सोमलताकल्पं दिव्यं वक्ष्यामि शङ्करि ॥ १,१५.५२२ ॥ सोमः स्वयं मनुष्याणां हितायावनिमण्डलम् । प्रतिपेदे च तन्नाम्ना ख्याता सोमलता भुवि ॥ १,१५.५२३ ॥ चतुर्विंशतिधा प्रोक्ता स्थाननामादिभेदतः । पूर्वप्रतिपदारभ्य पूर्णान्तं प्रतिवासरम् ॥ १,१५.५२४ ॥ एकैकं जायते पर्णं तथैवापरपक्षके । पतति क्रमशः पर्णं दर्शे सैकावशिष्यते ॥ १,१५.५२५ ॥ पूर्णमास्यां पञ्चदशछदोपेता सदा भवेत् । नानाविधदलोपेताश्छदपञ्चदशात्मिकाः ॥ १,१५.५२६ ॥ क्षीरयुक्तलताकन्दाः सर्वाः सोमलताः स्मृताः । तुषाराद्रावर्बुदे च सह्ये देवगिरौ तथा ॥ १,१५.५२७ ॥ श्रीपर्वते च मलये महेन्द्रे पारियात्रके । विन्ध्ये देवसहेऽद्रौ च देवसूतहृदे तथा ॥ १,१५.५२८ ॥ वितस्तोत्तरतीरेऽस्ति प्रभासाख्यो महीधरः । सिन्धुह्रदोऽस्ति पाञ्चाले चन्द्रमाः प्लवतेऽत्र च ॥ १,१५.५२९ ॥ तत्प्रदेशे च वाप्यस्ति त्वंशुमानथ मुञ्जवान् । दिव्यं सरोऽस्ति काश्मीरे ख्यातं क्षुद्रकमानसम् ॥ १,१५.५३० ॥ औष्णिक्त्रैष्टुभगायत्रो जागतस्त्र्यैष्टुभस्तथा । अन्याश्च पञ्च सन्त्यत्र मृगाङ्काभासवल्लिकाः ॥ १,१५.५३१ ॥ भाग्यहीना न पश्यन्ति देवाग्निद्विजनिन्दकाः । सर्वसोमलतानां च विधिरेक उपासने ॥ १,१५.५३२ ॥ चन्द्रमाः स्वर्णसच्छायो विशदो रजतप्रभः । तौ रंभाकृतिकन्दौ तु चन्द्रमास्तु जलेचरः ॥ १,१५.५३३ ॥ लशुनच्छदनः पुण्यो मुञ्जवान्गरुडाहृतः । श्येनच्छदनिभः पाण्डुः सर्पनिर्मोकवत्सदा ॥ १,१५.५३४ ॥ लम्बते पादपाग्रेषु विशेषं लक्षणं स्मृतम् । अंशुमांश्चन्द्रमाश्चैव शोनकी कर्णकोपमः ॥ १,१५.५३५ ॥ दूर्वासोमौ जाग्रतश्च कन्याभासश्च शाक्वरः । करवीरस्तालवृन्तः प्रतानश्च गवीनसः ॥ १,१५.५३६ ॥ पथ्यः सोमप्रदश्चैव गरुडाहृतनामकः । अयःप्रभोऽग्निष्टोमः स्यादौक्थ्यो रेवतकस्तथा ॥ १,१५.५३७ ॥ अंशुमान्सर्वमुख्यः स्यादस्य सेवां प्रचक्षते । एतद्रसायनज्ञैश्च प्रीतैर्मन्त्रविदुत्तमैः ॥ १,१५.५३८ ॥ भिषग्वरैः सुहृद्भिश्च संयुक्तः शुद्धकोष्ठवान् । कुटीं प्रविश्य निवृतां पुण्यर्क्षे शुभवासरे ॥ १,१५.५३९ ॥ पूर्वेद्युर्देवि विप्राग्निसिद्धसामायिकान्गुरून् । योगिनीश्च कुमारीश्च बालकान् सिद्धसन्ततिम् ॥ १,१५.५४० ॥ गन्धपुष्पाक्षताद्यैश्च धूपैर्दीपैश्च पूजयेत् । भोजनैर्दक्षिणाभिश्च तोषयेच्च विधानतः ॥ १,१५.५४१ ॥ क्षीरमंशुमतः कन्दात्स्वर्णसूच्या विभेदितात् । हेमपात्रे समादाय तत्क्षीरं कुडुबं पिबेत् ॥ १,१५.५४२ ॥ सकृदेव पिबेत्सर्वं पीतशेषं जले क्षिपेत् । दिवा सुहृद्भिर्विहरेद्वाग्यतश्च वशी भवेत् ॥ १,१५.५४३ ॥ द्रव्यदेहोपदेशज्ञैः कुट्यामास्तिकबुद्धिभिः । उपवासी जपरतः सायं सन्ध्यार्चनापरः ॥ १,१५.५४४ ॥ प्रसुप्याद्दर्भशयने कृष्णाजिनतिरोहिते । पिपासितोऽपि पानीयं शीतलं मात्रया पिबेत् ॥ १,१५.५४५ ॥ प्रभाते च समुत्थाय कृतप्रागेतनक्रमः । विना सोमं तथासीत जीर्णे क्षीरे सशोणितम् ॥ १,१५.५४६ ॥ पित्तावसानं सकृमि वमनं भवति प्रिये । शृतशीतं च गोक्षीरं सायं पेयं सुसाधकैः ॥ १,१५.५४७ ॥ विरेको जायते तस्य तृतीयदिवसे महान् । तेन प्रमुच्यते मर्त्यः पूर्वकैर्दुष्टभोजनैः ॥ १,१५.५४८ ॥ स्नानं कुर्याद्दिनान्ते स शृतशीतं पिबेत्पयः । दर्भशय्यां सुमक्षौमछादितायां शयीत सः ॥ १,१५.५४९ ॥ ततश्चतुर्थे दिवसे श्वयथुस्तस्य जायते । अङ्गेभ्यः क्रिमयो बह्व्यः सूक्ष्मा निर्यान्ति तद्दिने ॥ १,१५.५५० ॥ गोविड्भस्ममयीं शय्यां शोधितां मृदुलां सुधीः । अधिशेत पिपासा चेच्छृतशीतं जलं पिबेत् ॥ १,१५.५५१ ॥ सायं गव्यं शृतं क्षीरं पीत्वा शिष्यसुहृद्वृतः । यथासुखं प्रसुप्याच्च निशि पञ्चमषष्ठयोः ॥ १,१५.५५२ ॥ अह्नो विधिरयं कार्यो द्विकालं पाययेत्पयः । सप्तमे दिवसे देहस्त्वगस्थिस्नायुशेषितः ॥ १,१५.५५३ ॥ मांसरक्तविहीनः स्यात्सोमपः प्राणशेषितः । सुखोष्णैः सिञ्चयेत्क्षीरैर्गव्यैरेतस्य विग्रहम् ॥ १,१५.५५४ ॥ श्रीखण्डतिलयष्ट्याह्वैः पिष्टैस्तं परिलेपयेत् । क्षीराशी कटशायी च क्षौममय्यां शयीत सः ॥ १,१५.५५५ ॥ अष्टमेऽह्नि नखं श्मश्रु त्वक्केशा रदना अपि । पतन्ति सद्योजातस्य देहवज्जायते वपुः ॥ १,१५.५५६ ॥ क्षीराशी स्यात्तु नवमेऽणुतैलाभ्यङ्गमाचरेत् । स्नायात्सोमलताकल्पं क्वथितेन जलेन च ॥ १,१५.५५७ ॥ ततस्तु नवमे त्वक्च स्थिरतां प्रतियाति च । तथैवैकादशदिनं प्रारभ्य षोडशं दिनम् ॥ १,१५.५५८ ॥ अभ्यङ्गं नाचरेत्स्नानं सोमवल्ककषायजम् । दिनात्सप्तदशादूर्ध्वं चतुर्विंशतिकावधि ॥ १,१५.५५९ ॥ स्थिरत्वं त्वगवाप्नोति दन्ता वज्रनिभोज्ज्वलाः । स्थिरा दृढतराः स्निग्धा जायन्ते समपङ्क्तयः ॥ १,१५.५६० ॥ पञ्चविंशत्तमे घस्रे षष्ट्यन्नं गोपयोऽन्वितम् । भुञ्जीत नखरास्तस्य शुकचञ्चुनिभोज्ज्वलाः ॥ १,१५.५६१ ॥ त्वगस्य जायते स्निग्धा नीलोत्पलसमद्युतिः । सुलक्षणातसीपुष्पवैडूर्याम्बुदसन्निभा ॥ १,१५.५६२ ॥ मासादनन्तरं कुर्यात्तिलोशीरकचन्दनैः । पिष्टैः प्रलेपनं पश्चात्पयसा स्नपनक्रिया ॥ १,१५.५६३ ॥ रोहन्ति चिकुरास्तस्य भ्रमराञ्जनसन्निभाः । माससप्तदिनादूर्ध्वं द्वितीयावरणस्थितिः ॥ १,१५.५६४ ॥ पुनस्तृतीयावरणे तिष्ठेत्सिद्धो मुहूर्तकम् । कुटीं विशेद्यथापूर्वं बलातैलाज्यलेपनम् ॥ १,१५.५६५ ॥ कुर्याद्दिनत्रयं पश्चाच्चत्वारिंशद्दिनात्परम् । करीषभस्मनोद्धूल्य देहं कल्कैर्विलेपयेत् ॥ १,१५.५६६ ॥ अजशृङ्गीत्वगुद्भूतैः स्नानं कोष्णजलेन च । चन्दनोशीरकर्पूरैर्लिप्ताङ्गो मुद्गधात्रिजैः ॥ १,१५.५६७ ॥ यूषैः षष्ट्यन्नमश्नीयात्क्षीरैस्त्रिमधुसंयुतैः । घृतेन वा द्वितीये तु वसेदावरणे सुधीः ॥ १,१५.५६८ ॥ दिवसं पञ्चकं तत्र किंचिद्वातातपे सुधीः । मध्ये मध्ये च सेवेत तथैव दशवासरम् ॥ १,१५.५६९ ॥ सोढवातातपस्तस्मात्तृतीयावरणं भजेत् । एकविंशद्दिनं तिष्ठन् स्थिरीकृतमनाः समुत् ॥ १,१५.५७० ॥ ततो द्वाविंशतिदिने देहसिद्धिः प्रजायते । बहिर्निर्गत्य च तदा पूजयेद्भैरवं पुरा ॥ १,१५.५७१ ॥ गुर्वग्निद्विजसिद्धानां चेतांसि परिमोदयन् । सर्वत्र स्वेच्छया नित्यं विहरेद्दुःखवर्जितः ॥ १,१५.५७२ ॥ वर्षायुतं नवं दिव्यं वपुर्धत्ते सुकान्तिमत् । बलं गजसहस्राणां भवेदस्य न संशयः ॥ १,१५.५७३ ॥ विषाग्नितोयशस्त्रास्त्रमृगादिभ्यो भयं न हि । ब्रह्मलोकादिलोकेषु विचरेत्स्वेच्छया सदा ॥ १,१५.५७४ ॥ कान्त्या द्वितीयश्चन्द्रः स्याद्रूपेण मकरध्वजः । सर्वाह्लादकरः शान्तः सषडङ्गपदक्रमान् ॥ १,१५.५७५ ॥ वेदान्वेत्ति च शास्त्राणि भूलोकगतिनिर्जरः । ह्रस्वशाखाप्रतानायाः सोमवल्ल्याः समाहरेत् ॥ १,१५.५७६ ॥ काण्डान्द्वात्रिंशतिं स्वर्णपात्रे पुण्ये यथाविधि । रौप्ये पात्रेऽथवा योज्यं द्विपलं गोपयस्तथा ॥ १,१५.५७७ ॥ सोमवल्लीरसं तद्वन्मेलयित्वा पिबेत्ततः । कुटीप्रवेशः पथ्यं च पूर्ववत्समुदाहृतम् ॥ १,१५.५७८ ॥ अणिमाद्यष्टसिद्धिः स्यात्स साक्षादमरो भवेत् । <३२. गुडूचीकल्पः> अथामृतलताकल्पं वक्ष्यामि शृणु भैरवि ॥ १,१५.५७९ ॥ साक्षात्सुधामृतलता व्याधिजन्मजरापहा । अमृतायाः शतपलं त्रिप्रस्थं मधुरत्रयम् ॥ १,१५.५८० ॥ चूर्णं लिहेत्कर्षमात्रमेवं संवत्सरावधि । सर्वव्याधिप्रशमनं जीवेच्च शरदः शतम् ॥ १,१५.५८१ ॥ अथ छिन्नरुहाचूर्णं पञ्चविंशत्पलं सिता । द्विगुणा च तवक्षीरी चात्मगुप्ताश्वगन्धिका ॥ १,१५.५८२ ॥ पुनर्नवाज्यं प्रत्येकं युञ्ज्याद्दशपलं प्रिये । मृद्वीकाष्टपला यष्टी ततः पञ्चपला तथा ॥ १,१५.५८३ ॥ एकीकृत्य च तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् । पक्षमेकं धान्यराशौ निधाय प्रतिवासरम् ॥ १,१५.५८४ ॥ पलं पलं प्रयुञ्जीत मासं स्याद्व्याधिवर्जितः । षण्मासाद्गृध्रदृष्टिः स्याद्वर्षं जीवेच्छतायुषम् ॥ १,१५.५८५ ॥ अमृतायाः शतपलं चूर्णं षष्टिपलं मधु । चत्वारिंशत्पलं सर्पिर्द्विमासं धान्यराशिगम् ॥ १,१५.५८६ ॥ प्रत्यहं पलमात्राशी मासात्सर्वगदान्हरेत् । दिव्यदृष्टिः शतं जीवेन्मेधाबलमहाद्युतिः ॥ १,१५.५८७ ॥ <३३. तुवरककल्पः> अथ वक्ष्याम्यहं देवि कल्पं तुवरकस्य च । वृक्षाः पश्चिमवारीशतटे तिष्ठन्ति संततम् ॥ १,१५.५८८ ॥ तरङ्गानिलसंक्षुब्धशीकारार्द्रितपल्लवाः । वर्षर्तौ च सुपक्वानि तत्फलानि समाहरेत् ॥ १,१५.५८९ ॥ शोषयित्वाथ संचूर्ण्य तिलवत्तैलमाहरेत् । अथवैरण्डवत्तैलं प्रयत्नेन समाहरेत् ॥ १,१५.५९० ॥ पुनर्वह्नौ पचेत्तैलं यावदंभःक्षयं भवेत् । तत्कर्षं निक्षिपेत्पक्षं तत उद्धृत्य प्रयत्नतः ॥ १,१५.५९१ ॥ चतुर्भक्तविहीनः सन् शुद्धः कर्षं पिबेत्प्रिये । शङ्खचक्रगदापाणिस्त्वामाज्ञापयदच्युतः ॥ १,१५.५९२ ॥ मन्त्रेणानेन सेवेत सर्वो दोषो विनश्यति । एवं पञ्चदिनं सेव्यमहितानि च वर्जयेत् ॥ १,१५.५९३ ॥ मासं मुद्गरसाशी स्यात्सर्वकुष्ठविवर्जितः । ततः क्षौद्रघृताभ्यां च लिहेत्षाण्मासिकावधि ॥ १,१५.५९४ ॥ वलीपलितहीनश्च जीवेद्वर्षशतद्वयम् । तत्तैलं दिनपञ्चाशं नस्येद्धीरकवद्द्विजः ॥ १,१५.५९५ ॥ वलीपलितनिर्मुक्तः श्रुतधारी दृढाङ्गवान् । जीवेद्द्विशतवर्षं च मेधावी गृध्रलोचनः ॥ १,१५.५९६ ॥ <३४. सोमराजीकल्पः> अथ वक्ष्याम्यहं देवि सोमराजीरसायनम् । संग्रहेत्तां पुष्यरवावातपे शोषयेत्ततः ॥ १,१५.५९७ ॥ चूर्णितां कोष्णसलिलैः पिबेत्प्रातर्विशुद्धये । त्रिदिवं च ततः क्षौद्रैः कर्षमात्रं लिहेत्प्रगे ॥ १,१५.५९८ ॥ मासेन रोगा नश्यन्ति षण्मासात्सिद्धिमाप्नुयात् । <३५. वृद्धदारुककल्पः> अथ ब्रवीमि देवेशि वृद्धदारुककल्पकम् ॥ १,१५.५९९ ॥ नागवल्लीदलक्षौद्रैः सदुग्धैर्मृदुरोमकैः । पत्रैर्युतापि सफला रक्तपुष्पा प्रतानिका ॥ १,१५.६०० ॥ तिक्तोषणं काम्बुतेति महिषाख्यलता स्मृता । तुलोन्मितं च तन्मूलं चूर्णितं सर्षपायुतम् ॥ १,१५.६०१ ॥ धान्यराशौ न्यसेत्पक्षमुद्धृत्योन्मितकर्षकम् । अनुपेयं च गोक्षीरं जीर्णे क्षीरान्नभोजनम् ॥ १,१५.६०२ ॥ वृद्धोऽपि तरुणो भूयाद्वर्षात्सर्वगदोज्झितः । एवं द्वादशवर्षाणि सेवेतालस्यवर्जितः ॥ १,१५.६०३ ॥ जीवेत्षट्शतवर्षं च वलीपलितवर्जितः । वृद्धदारुकचूर्णं च शुद्धं शतपलोन्मितम् ॥ १,१५.६०४ ॥ वाजिगन्धाकन्दचूर्णं शतत्रयपलं घृतैः । आलोड्य भक्षयेत्कर्षं स जीवेच्छरदां शतम् ॥ १,१५.६०५ ॥ तुरंगमसमो वेगे बले दन्ताबलोपमः । कान्त्या हिमांशुसदृशस्तेजसा भास्करोपमः ॥ १,१५.६०६ ॥ शतावर्याश्वगन्धा च गोक्षुरो वृद्धदारुकः । समांशमखिलं सर्पिर्युक्तं कर्षं च खादयेत् ॥ १,१५.६०७ ॥ सप्ताहात्किन्नरध्वानो वत्सरात्सिद्धिभाग्भवेत् । वृद्धदारुकमूलं च वरीस्वरसपेषितम् ॥ १,१५.६०८ ॥ कर्षं पिबेद्वत्सरं यत्स जीवेच्छरदः शतम् । वृद्धदारुकचूर्णं च धात्रीस्वरसभावितम् ॥ १,१५.६०९ ॥ एकविंशतिधा प्रातर्मध्वाज्याभ्यां तु कर्षकम् । लिहेदब्दं स जीवेच्च वर्षाणि च शतद्वयम् ॥ १,१५.६१० ॥ योवसापस्तधा जीवेन्नीरुजः स महान्भवेत् । गोदुग्धेन च तन्मूलं रसं धात्र्याश्च संमितम् ॥ १,१५.६११ ॥ पिबेत्संवत्सरं यस्तु स जीवेच्छरदः शतम् । तत्सिद्धं सर्पिरश्नीयात्पूर्ववत्फलमाप्नुयात् ॥ १,१५.६१२ ॥ पुनर्नवा वरी शुण्ठी मागधी रजनीद्वयम् । एतत्सर्वं समं वृद्धदारुकं काञ्जिकान्वितम् ॥ १,१५.६१३ ॥ पलं प्रातः पिबेद्धीमान् दच्छदाद्धारमाचरेत् । मासात्सर्वामयान् हन्ति वर्षादायुः शतं भवेत् ॥ १,१५.६१४ ॥ द्वीपी शौण्डी वरा विश्वं मुस्तमेला समांशकम् । एतत्संयोज्य सिद्धं तच्चूर्णं वेल्लरिकं भवेत् ॥ १,१५.६१५ ॥ क्षौद्राज्यलुलितं खादेत्कर्षं वर्षेण सिध्यति । तत्फलं स्वरसं कर्षं घृतं क्षौद्रं च तत्समम् ॥ १,१५.६१६ ॥ पिबेदनु गवां क्षीरं माहिषं वा पलोन्मितम् । मासेन सर्वरोगघ्नं वर्षाज्जीवेच्छतायुषम् ॥ १,१५.६१७ ॥ चूर्णं वेल्लरिकामूलं फलं पिप्पलिकाभवम् । समवेल्लरिकामूलफलजैश्च रसैस्तथा ॥ १,१५.६१८ ॥ गुडूचीस्वरसेनापि भावयेदेकविंशतिम् । शुष्कं घृतप्लुतं भाण्डे स्निग्धे धान्यचये स्थितः ॥ १,१५.६१९ ॥ त्रिसप्ताहात्तदुद्धृत्य कर्षं प्रातर्लिहेन्नरः । वर्षाद्वर्षसहस्रायुः सर्वरोगविवर्जितः ॥ १,१५.६२० ॥ <३६. वज्रवल्लीकल्पः> अथ व्याख्याम्यहं देवि वज्रवल्लीरसायनम् । वज्रवल्लीं समूलां च छायाशुष्कां विचूर्णयेत् ॥ १,१५.६२१ ॥ वरा व्रणारिमूलं च प्रत्येकं भास्करं पलम् । रोगानशेषान् षण्मासाद्धन्यात्संवत्सराद्भवेत् ॥ १,१५.६२२ ॥ देहसिद्धिश्च षण्मासाच्चूर्णमन्यत्प्रकल्पयेत् । <३७. तिलक्षीरिणिकाकल्पः> तिलक्षीरिणिकाकल्पं कथयिष्यामि शाम्भवि ॥ १,१५.६२३ ॥ तिलक्षीरिणिकामूलं मौनेनोत्पाट्य साधकः । कोष्णेन वारिणा पिष्ट्वा प्राङ्मुखोदङ्मुखः पिबेत् ॥ १,१५.६२४ ॥ गिलेद्वा गुलिकां कृत्वा क्षीराज्यानाशयेच्छुचिः । क्रमेणार्धद्वित्रिनिष्कं सेवेताब्दं स सिद्धिभाक् ॥ १,१५.६२५ ॥ दशाहाच्छुक्रवृद्धिः स्यात्त्रिमासात्सर्वरोगजित् । षण्मासात्सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ १,१५.६२६ ॥ <३८. ब्राह्मीकल्पः> अथ वक्ष्यामि देवेशि ब्राह्मीकल्पमनुत्तमम् । समूलामुद्धरेद्ब्राह्मीं प्रक्षाल्य सलिलेन च ॥ १,१५.६२७ ॥ उलूखले कुट्टयित्वा पात्रे तत्र समाहरेत् । जुहुयाच्छारदामन्त्रैस्तद्रसैश्च सहस्रकम् ॥ १,१५.६२८ ॥ अर्चयित्वा गुरून्विप्रान्प्राश्नीत हुतशेषकम् । पलमात्रं तद्रसं च जीर्णे क्षीरान्नभोजनम् ॥ १,१५.६२९ ॥ एवं सप्तदिनं सेव्यं ब्रह्मचारी जपे रतः । मेधावी ब्रह्मवर्चस्वी वाग्विशुद्धः प्रजायते ॥ १,१५.६३० ॥ ऊर्ध्वं सप्तदिनात्सेव्यं प्रबध्नातीच्छया अपि । विस्मृतानपि वेत्त्येव श्रुतं शीघ्रं च धारयेत् ॥ १,१५.६३१ ॥ द्वितीये सप्तमादूर्ध्वं पूर्ववत्तद्रसं पिबेत् । सकृच्छ्रुतं श्लोकशतं सहस्रमपि धारयेत् ॥ १,१५.६३२ ॥ एवं त्रिसप्तदिवसं पिबेद्ब्राह्मीरसं शुचिः । देहादलक्ष्मीर्निर्याति वाणी विशति शाश्वती ॥ १,१५.६३३ ॥ भवेत्पुंरूपवाग्देवी सर्वशास्त्रार्थवेदिनी । वेदवेदान्तविद्धीमाञ्जीवेत्पञ्चशताब्दकम् ॥ १,१५.६३४ ॥ आक्, १, १६ <१. अङ्कोलकल्पः> अथ ब्रवीम्यहं देवि कल्पमङ्कोलबीजकम् । चतुर्भिः साधकैर्धीरैर्विशुद्धैः शुद्धिकाङ्क्षिभिः ॥ १,१६.१ ॥ समवेतः साधकेन्द्रैः पुण्यर्क्षेष्वारभेच्च तत् । अङ्कोलमूलं वितृणं कृत्वा संमार्ज्य शोधनम् ॥ १,१६.२ ॥ तत्र लिङ्गं च संस्थाप्य तदग्रे स्थापयेद्घटम् । एकसूत्रेण बध्नीयाल्लिङ्गाङ्कोलघटान् प्रिये ॥ १,१६.३ ॥ गन्धपुष्पादिभिः पूजामघोरेण प्रकल्पयेत् । प्रतिमासं दिवा नक्तं पुष्पादि फलितावधि ॥ १,१६.४ ॥ गृहीत्वा तत्फलं पक्वं पूरयेत्तद्घटं फलैः । योगिनीभैरवीप्रीत्यै महापूजां विधाय च ॥ १,१६.५ ॥ आनीय तद्घटं गेहे शोषयेदातपे फलम् । वितुषाणि च बीजानि कुर्यात्तन्मुखघर्षणम् ॥ १,१६.६ ॥ कुर्यात्ततो विशालास्ये पात्रे मृच्चूर्णलेपनम् । एकैकशश्चोर्ध्वमुखं रोपयेद्भुजगाकृति ॥ १,१६.७ ॥ ततस्तु टङ्कणं तद्वत्तत्तद्वक्त्रेषु लेपयेत् । तत्पात्रं कांस्यपात्रे च स्थापयेत्तदधोमुखम् ॥ १,१६.८ ॥ आतपे धारयेद्धीमान्पललैश्च तिरोदधेत् । दिने दिने च्युतं तैलं गृह्णीयाद्दिनपञ्चकम् ॥ १,१६.९ ॥ तत्तैलं काचकूप्यन्तः स्थापयेच्च समन्त्रकम् । अर्धमात्राङ्कोलतैलं द्विगुणं तिलतैलकम् ॥ १,१६.१० ॥ नासारन्ध्रद्वये नस्यं जरामृत्युविनाशनम् । स जीवेत्त्रिशतं वर्षं सर्वामयविवर्जितः ॥ १,१६.११ ॥ रोगादिजलपाशाद्यैर्भ्रमाद्यैश्च विषेण च । गतासूनां नृणां नस्यं कुर्यात्पुंशुक्लमिश्रितम् ॥ १,१६.१२ ॥ मृतसूतं च तैलं ते जीवन्ति च न संशयः । मृतसंजीवनी विद्या पूर्वोक्ता कथितानघे ॥ १,१६.१३ ॥ <अन्ये रसायनकल्पाः> एलाभया वचा काकतुण्डीफलमरुष्करः । सहदेवी निम्बपत्रं लाङ्गलीकन्दमेव च ॥ १,१६.१४ ॥ समांशं शोषयेद्यन्त्रे पाताले तैलमाहरेत् । तत्तैलं नस्यमादद्यात्सप्ताहान्तरितं प्रिये ॥ १,१६.१५ ॥ एवं वर्षे कृते नस्ये सहस्रायुर्भवेन्नरः । नीलिकामूलसंयुक्तं तैलं चार्धपलं पिबेत् ॥ १,१६.१६ ॥ वत्सराज्जायते सिद्धो वलीपलितवर्जितः । जीवेद्ब्रह्मदिनं त्र्यब्दाद्वायुवेगो महाबलः ॥ १,१६.१७ ॥ भृङ्गीरसं कृष्णजीरं प्रस्थं प्रस्थं प्रकल्पयेत् । नीलोत्पलं च मधुकं प्रस्थार्धं च पृथग्भवेत् ॥ १,१६.१८ ॥ तिलतैलं पञ्चपलं पाचयेत्सर्वमेकतः । तैलावशिष्टं तत्तैलं जरा मृत्युश्च नश्यति ॥ १,१६.१९ ॥ अर्धनिष्कं चैकनिष्कं सार्धनिष्कं क्रमेण च । तैलप्रमाणमित्युक्तमब्दाञ्जीवेच्छतत्रयम् ॥ १,१६.२० ॥ इष्टिकाक्षिपलं क्षिप्त्वा कर्षैकमुदकैः पिबेत् । वत्सरात्पलितं हन्ति सहस्रायुर्भवेन्नरः ॥ १,१६.२१ ॥ सर्पाक्षी काकमाची च सहदेवी च भृङ्गराट् । काकतुण्डीफलं निम्बं पर्णं वाकुचिबीजकम् ॥ १,१६.२२ ॥ समूलां देवदालीं च ब्राह्मीमूलं फलत्रयम् । मूलं च वाजिगन्धाया नीलकोरण्डपत्रकम् ॥ १,१६.२३ ॥ समं समं कन्यकाया द्रवैश्च परिभावयेत् । सप्ताहं शोषयेच्चूर्णं छायायां त्रिमधुप्लुतम् ॥ १,१६.२४ ॥ द्विकर्षं प्रत्यहं सेव्यं वत्सरेण जरां जयेत् । आ चन्द्रतारकं जीवेन्महाबलयुतः सुखम् ॥ १,१६.२५ ॥ <महाकामेश्वरकल्पः> चातुर्जातकचोरचन्दनजलद्राक्षातुगारेणुकं कस्तूरीतगरेन्दुकुङ्कुमजटाकुष्ठाश्वगन्धाब्दकम् । कङ्कोलामरदारुचित्रकविषं द्वे जीरके सैन्धवं भार्ङ्गीगोक्षुरदेवपुष्पमुसलीयष्टीबलाफेनकम् ॥ १,१६.२६ ॥ रंभाकन्दफलत्रयं त्रिकटुकं जातीफलं वाशकं तालीशं कटुकीफलं गजकणा माषामृताशर्करा । पिच्छाभृङ्गविदारिकामदनकं बीजं च कच्छूद्भवं शाल्मल्यङ्घ्रिपुनर्नवागरुशतावर्यप्यथो दीप्यकम् ॥ १,१६.२७ ॥ पादांशं मृतमभ्रकं च विजया तुल्यौषधानां समा सर्वेषां सदृशा सिता च मधुना चाज्येन संयोजिता । जातीचम्पककेतकादिकुसुमैः सेवेत संवासितं कर्षार्धं निशि देहसिद्धिदमहाकामेश्वरः कामदः ॥ १,१६.२८ ॥ पुंसां शुक्रविवृद्धिदार्ढ्यकरणे क्षीरानुपानं हितं शाल्मल्यङ्घ्रिजलानुपानमथवाप्यन्यच्च यच्छुक्रलम् । प्रौढानां सुदृशां सुखातिसुखदो वश्यो महाद्रावकः सङ्गे भङ्गुरकामकौतुकरसः क्रीडाकलामोददः ॥ १,१६.२९ ॥ संभोगे स्थविराग्नियोषिति मदे यूनां स्मरे दर्पहा नित्यानन्दनिदानमादिपुरुषैरप्याहितास्वादनः । वाचां सिद्धिकरः प्रकृष्टकवितासंदर्भसंपादनः सौख्यारोग्यविशेषयौवनकलासामग्र्यसंधायकः ॥ १,१६.३० ॥ वृद्धत्वं हरते बलं च कुरुते मृत्युं निरस्येत्परं व्याधिव्रातमपाकरोति कुरुते कान्तिं नयत्यार्जवम् । योगाभ्यासविधौ रतस्य सुलभा सिद्धिं विधत्तेतरामंहः संततिसंहृतिं कलयते स्त्रीणामपत्यप्रदः ॥ १,१६.३१ ॥ रोगाणां निचयं क्षयं क्षपयति क्षिप्रं महारुद्गणं व्याहन्ति श्वसनं लयं गमयते छिन्ते च कासोदयम् । दुर्नामानि च षड्भिनत्ति हरते सर्वार्तिरोगोल्बणं मेहौघं च लुनाति शोणितदरं विध्वंसते सेवनात् ॥ १,१६.३२ ॥ क्षीणे पोषमुपादधाति विपुलं पूर्णातिजीर्णोज्ज्वलं मन्दाग्निं ग्रहणीं निकृन्ततितरां दोषानशेषानपि । श्रेष्ठः सर्वरसायनेषु विदुषां भोगार्थिनां योगिनां सिद्धिं सम्यगिहातनोति वपुषः संसेवनादन्वहम् ॥ १,१६.३३ ॥ <मूलिकाकल्पेषु रसाभ्रकादिमेलनातिदेशः> महावृक्षादिकल्पेषु प्रोक्तेष्वेतेषु साधकैः । एष साधारणो योगः कर्तव्यः सिद्धिकाङ्क्षिभिः ॥ १,१६.३४ ॥ गुञ्जामात्रं शुद्धसूतं वाभ्रकं वा पणद्वयम् । कान्तलोहं तथैवोपयोजयेद्भक्षयेन्नरः ॥ १,१६.३५ ॥ रसाभ्रलोहयोगेन सद्यः सिद्धिमवाप्नुयात् । जीवहीनो यथा देहो गन्धहीनं प्रसूनकम् ॥ १,१६.३६ ॥ तथैव मूलिकाकल्पा रसहीना न सिद्धिदाः । तस्माद्रसेन सहिताः सद्यः सिद्धिप्रदायकाः ॥ १,१६.३७ ॥ <अभ्यङ्गरसायनम्; महानीलीतैलम्> महानीलीरसं प्रस्थं प्रस्थं भृङ्गरसं प्रिये । धात्रीफलरसं प्रस्थं काकतुण्डीफलोद्भवम् ॥ १,१६.३८ ॥ प्रस्थं कषायतिलजं तैलप्रस्थं च गोपयः । आढकं योजयेत्सर्वं काकतुण्डीफलं पलम् ॥ १,१६.३९ ॥ त्रिपलं चामलं भृङ्गनीलीपत्ररजः पलम् । पिष्ट्वा तस्मिन् क्षिपेत्सर्वं पचेन्मन्दाग्निना प्रिये ॥ १,१६.४० ॥ तैलावशिष्टं विपचेत्ततो वस्त्रेण शोधयेत् । तैलेनानेन चाभ्यज्य शिरोऽभ्यङ्गं समाचरेत् ॥ १,१६.४१ ॥ प्रत्यहं कर्णपूरं च एवं कुर्याद्रसायनम् । केशा भ्रमरसङ्काशाः श्रोत्रं दिगन्तपाटवम् ॥ १,१६.४२ ॥ जत्रूर्ध्वरोगा नश्यन्ति तथा पादहितं भवेत् । <चन्दनाद्यं तैलम्> चन्दनागरुकर्पूरकस्तूरीकुङ्कुमं तथा ॥ १,१६.४३ ॥ उशीरद्वयकङ्कोलजातीफललवङ्गकम् । नलिकानलदास्पृक्कातुरुष्कस्थाणुलोचनम् ॥ १,१६.४४ ॥ हरेणुस्तगरं लाक्षा नखं स्थौणेयकं मुरा । नलदामलकं कुष्ठं चोरकं कटुकीफलम् ॥ १,१६.४५ ॥ प्रपौण्डरीकं खर्जूरं पद्मकं जातिपत्त्रिका । शैलेयं धातकीपुष्पं सरलं चैलवालुकम् ॥ १,१६.४६ ॥ पूगीफलं सप्तपर्णं तथा तामलकं प्रिये । एकैकं कर्षमात्रं स्यात्प्रस्थं तैलं च गोपयः ॥ १,१६.४७ ॥ आढकं तत्पचेत्सर्वं तैलशेषं समाहरेत् । तस्मिन्मृगाण्डं कस्तूरीं कर्पूरं कुङ्कुमं क्षिपेत् ॥ १,१६.४८ ॥ पृथक्कर्षं च जात्यादिकुसुमैर्वासयेद्बुधः । तेनाभ्यङ्गमधःकाये कुर्याद्दौर्गन्ध्यनाशनम् ॥ १,१६.४९ ॥ अशीतिवर्षदेशीयोऽप्यसौ स्यात्षोडशाब्दकः । कामिनीलोककन्ददर्पः सुभगः शुक्लवृद्धिमान् ॥ १,१६.५० ॥ योषिच्छतं च रमते स जीवेच्छरदः शतम् । <उद्वर्तनरसायनम्> अथोद्वर्तनमाख्यामि वलीपलितभञ्जनम् ॥ १,१६.५१ ॥ सूतं गन्धं समं मर्द्यं स्तनदुग्धेन योषितः । मुण्डिका मेघनादश्च विष्णुक्रान्ता मुनिस्तथा ॥ १,१६.५२ ॥ सर्पाक्षी च द्रवैरासां दिनमेकं विमर्दयेत् । एतद्दशगुणं क्षारस्तिलस्य च यवस्य च ॥ १,१६.५३ ॥ एतत्सर्वं समध्वाज्यमनेनोद्वर्तनं वपुः । वलीपलितनाशः स्याद्वर्षात्त्रिशतवत्सरः ॥ १,१६.५४ ॥ जीवेद्दिव्यवपुर्भूत्वा साधको नात्र संशयः । सनालमुत्पलं सूतं सप्ताहं परिमर्दयेत् ॥ १,१६.५५ ॥ आत्मीयशिवतोयेन ततश्चाङ्गं विमर्दयेत् । वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः ॥ १,१६.५६ ॥ शिवांभसा च सूतेन्द्रं ब्रह्मदण्डीयमूलकम् । मर्दयेत्सप्तदिवसं सम्यग्देवि विमर्दयेत् ॥ १,१६.५७ ॥ वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः । कटुतैलेन सुरभिं भावयेद्दिनसप्तकम् ॥ १,१६.५८ ॥ पलार्धं भक्षयेन्नित्यं वर्षाद्वज्रवपुर्भवेत् । त्रिशतायुःस्वर्णवर्णो वलीपलितवर्जितः ॥ १,१६.५९ ॥ समध्वाज्यं कुष्ठचूर्णं कर्षं प्रातर्लिहेन्नरः । शतपुष्पसुगन्धाङ्गो जीवेद्वलिविवर्जितः ॥ १,१६.६० ॥ <केशरञ्जनकल्पाः> काकतुण्डीफलं कान्तचूर्णमाम्राण्डतैलकम् । आलोड्य भाण्डे निक्षिप्य मासं धान्यमये क्षिपेत् ॥ १,१६.६१ ॥ उद्धृत्य लेपयेच्छीर्षं नस्यकर्मामुना भवेत् । त्र्यहात्केशाः सुनीलाः स्युः षण्मासात्केशरञ्जनम् ॥ १,१६.६२ ॥ हरीतकी निष्कमेकं द्विपलं कान्तचूर्णकम् । पलमेकं नागचूर्णमम्लदध्ना प्रमर्दयेत् ॥ १,१६.६३ ॥ अभ्यक्तो निक्षिपेन्मूर्ध्नि मर्दयेन्नाडिकार्धकम् । एरण्डपत्रैः संवेष्ट्य पुनर्वस्त्रेण बन्धयेत् ॥ १,१६.६४ ॥ स्नायात्पुनश्च त्रिदिनं पूर्ववत्केशरञ्जनम् । समूलौ नीलिकाभृङ्गावयश्चूर्णं वरासमम् ॥ १,१६.६५ ॥ चूर्णमेडकमूत्रेण दिनमेकं च भावयेत् । स्नानादि पूर्ववत्कृत्वा पूर्ववत्केशरञ्जनम् ॥ १,१६.६६ ॥ निस्त्वग्गुञ्जाफलं चैला देवदारु च कुष्ठकम् । समं चूर्णं भृङ्गरसैर्भाव्यमेकदिनं प्रिये ॥ १,१६.६७ ॥ अन्यच्चूर्णं तैलं पचेन्मृद्वग्निना बुधः । यस्य तैलघृताभ्यङ्गात्केशा भ्रमरसन्निभाः ॥ १,१६.६८ ॥ हस्तिदन्तस्य दग्धस्य समभागं रसाञ्जनम् । छागीदुग्धेन संपेष्य लेपनात्केशरञ्जनम् ॥ १,१६.६९ ॥ कृष्णमृत्त्रिफलाभृङ्गरसायश्चूर्णकं समम् । आलोड्यैनं समं भाण्डे मासमेकं निरोधयेत् ॥ १,१६.७० ॥ तल्लेपाच्चिकुराः कृष्णा भवेयुः पञ्चमासतः । धात्रीफलं जपापुष्पं किट्टं पिष्ट्वा च मूर्धनि ॥ १,१६.७१ ॥ लेपयेत्त्रिदिनं तेन केशाः स्युर्भ्रमरोपमाः । चूर्णं सिन्दूरसदृशं तयोस्तुल्या च सांब्रणिः ॥ १,१६.७२ ॥ पिष्ट्वांभसा प्रलेपेन तत्क्षणात्केशरञ्जनम् । गोरोचनं कृष्णतिलान् शतपुष्पां शिवांबुना ॥ १,१६.७३ ॥ काकमाचीमिदं सर्वमयःपात्रे विमर्दयेत् । तेनैव दिवसादूर्ध्वं केशरञ्जनमुत्तमम् ॥ १,१६.७४ ॥ चूर्णं सिद्धार्थकं सर्जो यवक्षारं च काञ्जिकैः । नागपुष्परसैः पेष्यं लेपनं केशरञ्जनम् ॥ १,१६.७५ ॥ कदलीकन्दचूर्णं च सिन्दूराङ्गारकौ तथा । रसैर्जम्बीरजैर्लोहमुष्ट्यायःपात्रके पिषेत् ॥ १,१६.७६ ॥ दिनैकलेपनात्तेन केशानां रञ्जनं भवेत् । कासीसं नीलिकापत्रं दधिभृङ्गरसस्तथा ॥ १,१६.७७ ॥ समांशं लोहचूर्णं च लेपनात्केशरञ्जनम् । नागदण्डेन पत्राणि कोरण्टस्य च मर्दयेत् ॥ १,१६.७८ ॥ दिनत्रयं च तल्लेपात्केशाः स्युर्भ्रमरोपमाः । वरा भृङ्गी चूतबीजं मृणालं च प्रियङ्गुकम् ॥ १,१६.७९ ॥ नीली निशा लोहनागौ चूर्णिता निंबतैलकैः । कान्तपात्रे लोडयित्वा मासमेकं विभावयेत् ॥ १,१६.८० ॥ तेन लिप्ताः कचाः कृष्णा रञ्जिता भ्रमरोपमाः । तिलाः कृष्णाः काकमाचीबीजानि समभागतः ॥ १,१६.८१ ॥ तत्तैलयन्त्रतो ग्राह्यं तेन स्यात्केशरञ्जनम् । कर्षं जपारसः क्षौद्रं सप्ताहं नस्यमाचरेत् ॥ १,१६.८२ ॥ तदूर्ध्वं रञ्जयेत्केशान् सर्वनस्योत्तमो ह्ययम् । भृङ्गराजरसैः पिष्ट्वा त्रिफलां लोहचूर्णकम् ॥ १,१६.८३ ॥ तैलमेतत्समं योज्यं तथा भृङ्गरसैः पुनः । मृद्वग्निना पचेत्सर्वं तैलशेषं यथा भवेत् ॥ १,१६.८४ ॥ स्निग्धभाण्डे च तत्तैलं मासं भूमौ विनिक्षिपेत् । तैलेन लेपयेच्छीर्षं कारवल्लीदलैः पुरा ॥ १,१६.८५ ॥ वेष्टयेत्तत्तु वस्त्रेण निवाते क्षीरभोजनम् । क्षालयेत्त्रिफलाक्वाथैः कुर्यात्सप्तदिनं प्रिये ॥ १,१६.८६ ॥ कपालरञ्जनं कुर्याद्यावज्जीवं न संशयः । श्रियालीकाकतुण्ड्याश्च बीजं निर्गुण्डिकारसैः ॥ १,१६.८७ ॥ जपापुष्परसैर्भाव्यं पृथक्दिनचतुष्टयम् । पातालयन्त्रे तत्तैलं पातयेत्तेन लेपनम् ॥ १,१६.८८ ॥ कुर्यान्मूर्ध्नि च गन्धर्वपत्त्रैश्च परिवेष्टयेत् । वस्त्रेण च ततो वातशून्यदेशे वसन्सुधीः ॥ १,१६.८९ ॥ क्षीराशी काञ्जिके स्नानं कुर्यात्सप्तदिनं त्विति । केशा भ्रमरसङ्काशा यावज्जीवं न संशयः ॥ १,१६.९० ॥ जलमण्डनिकाकाकमाचीभृङ्गाः समाः समाः । पिष्ट्वा तैलं पचेत्सूपं पुनस्तैलेन लेपयेत् ॥ १,१६.९१ ॥ मूर्धानं लेपयेत्तेन सप्ताहं केशरञ्जनम् । स्नानभोजनशय्यां च पूर्ववत्परिकल्पयेत् ॥ १,१६.९२ ॥ वराभृङ्गरसैः पिष्ट्वा कान्तपात्रे विलेपयेत् । अवाङ्मुखं विनिष्ठाप्य प्रातस्तं भृङ्गराड्रसैः ॥ १,१६.९३ ॥ पुनः पिष्ट्वा लिहेच्छीर्षं क्षालयेत्त्रिफलांबुना । एकविंशद्दिनं कुर्यात्पूर्ववत्फलमाप्नुयात् ॥ १,१६.९४ ॥ गरलं कृष्णजीरं च पिष्ट्वा रुद्ध्वा च तन्मुखम् । गृहाङ्गणे पङ्किले च खनित्वा स्थापयेत्सुधीः ॥ १,१६.९५ ॥ षण्मासात्तद्द्रवीभूतं कृष्णं साधु समुद्धरेत् । शिरोमध्ये क्षिपेत्कर्षं पूर्ववद्वेष्टनादिकम् ॥ १,१६.९६ ॥ आ जन्म रञ्जयेत्केशांस्तच्च कापालरञ्जनम् । भृङ्गी नीली वरा कृष्णायसं मदनबीजकम् ॥ १,१६.९७ ॥ कोरण्टकुसुमं चूर्णमर्जुनस्य त्वचोद्भवम् । अम्भोजमूलं जम्ब्वाश्च तत्सर्वं च समांशकम् ॥ १,१६.९८ ॥ लोहभाण्डगतं कुर्यात्पक्षं भूमौ विनिक्षिपेत् । हरेद्भाण्डगतं कल्कं कल्कात्तैलं चतुर्गुणम् ॥ १,१६.९९ ॥ तैलाच्चतुर्गुणं भृङ्गरसस्तस्माच्चतुर्गुणः । वराक्वाथः सर्वमिदं मन्दवह्नौ विपाचयेत् ॥ १,१६.१०० ॥ तैलावशिष्टं विपचेत्तत्पिष्ट्वायसपात्रके । निक्षिपेच्च परीक्षार्थं काकपक्षं विलेपयेत् ॥ १,१६.१०१ ॥ तैलेन यदि कृष्णं तदौषधं सिद्धिदं भवेत् । साधको मासमेकं तु तस्मिन्पात्रे विपाचितम् ॥ १,१६.१०२ ॥ तेन लिप्ताः कचास्तस्य षण्मासाद्भ्रमरोपमाः । चिञ्चाश्वत्थपलाशानां वासायाश्च द्रवैर्मुहुः ॥ १,१६.१०३ ॥ द्रुतं पात्रगतं नागं चालयेद्भस्मतां व्रजेत् । तावत्पचेन्नागभस्म पलं लोहस्य चूर्णकम् ॥ १,१६.१०४ ॥ द्विपलं च वराचूर्णं त्रिपलं दाडिमत्वचः । पलं चैतत्सर्वसमं काञ्जिकं लोहभाजने ॥ १,१६.१०५ ॥ लोडयेत्पाचयेत्किंचित्क्षणं तल्लोहपात्रके । आतपे धारयेद्भृङ्गकोरण्टरसभावितम् ॥ १,१६.१०६ ॥ एकविंशद्दिनं भाव्यं भूयो भूयो द्रवं द्रवम् । तेनैव लिप्ताश्चिकुराः पिञ्छतापिञ्छसन्निभाः ॥ १,१६.१०७ ॥ कचरञ्जनयोगेषु कथिताकथितेषु च । निशि लेपं तथैरण्डपत्रैश्च परिवेष्टनम् ॥ १,१६.१०८ ॥ प्रातः स्नानमिदं कर्म सर्वसाधारणं स्मृतम् । <दिव्यौषधिग्रहणयोग्यस्थलनिर्देशः> श्मशाने सलिले मार्गे गृहे देवालये तथा ॥ १,१६.१०९ ॥ मलमूत्रयुतस्थाने ग्रामे गोष्ठे तरोरधः । छायायां च विषप्राये कुशीते चान्यबाधिते ॥ १,१६.११० ॥ एवंप्रायेषु देशेषु न ग्राह्या सिद्धमूलिका । अरण्ये पर्वते तीरे नद्या तपवने शुचौ ॥ १,१६.१११ ॥ शिलासङ्गिशुचिक्षेत्रे सिद्धक्षेत्रेऽब्धिरोधसि । श्रीपर्वते हिमगिरौ तटाके विजने ह्रदे ॥ १,१६.११२ ॥ गृह्णीयान्मूलिका जाता देहसिद्धिप्रदायिकाः । <दिव्यौषधिग्रहणविधिः> सर्वेषां सिद्धमूलानां रक्षाबन्धनकर्मणि ॥ १,१६.११३ ॥ खननेषूत्पाटनेषु ग्रहणेषु क्रमेण वै । कथ्यन्ते मनवो दिव्याः सर्वसाधारणाः स्मृताः ॥ १,१६.११४ ॥ पूर्वेद्युरेव सुस्नातः कृतदन्तविशोधनः । अनुलिप्तः शुद्धवस्त्रो हृष्टः संयतमानसः ॥ १,१६.११५ ॥ मौनी गन्धाक्षतोपेतो रक्षाबन्धनसूत्रिताम् । पूर्वमन्वेषितां गत्वा मूलिकां स्वेष्टदायिकाम् ॥ १,१६.११६ ॥ वितृणं परितः कृत्वा खात्वाम्बु परिषेचयेत् । गन्धपुष्पाक्षतैः पूजां कृत्वा सूत्रेण बन्धयेत् ॥ १,१६.११७ ॥ समन्त्रकं साधकेन्द्रः सोपवासो जितेन्द्रियः । अत्रैव तिष्ठ कल्याणि मम कार्यकरी भव ॥ १,१६.११८ ॥ मम कार्यकरी सिद्धा ततः स्वर्गं गमिष्यसि । ओं ह्रीं नमस्तेऽमृतसम्भूते बलवीर्यविवर्धिनि बलमायुश्च मे देहि पापं मे जहि दूरतः । ह्रीं फट् । अनेनैव तु मन्त्रेण त्रिधा सूत्रेण वेष्टितम् ॥ १,१६.११९ ॥ रक्षां बध्नीत तां स्पृष्ट्वा जपेदष्टोत्तरं शतम् । ततः प्रातः समुत्थाय कृत्वा नित्यविधिं शुचिः ॥ १,१६.१२० ॥ मूलिकां तां समासाद्य गन्धपुष्पाक्षतादिभिः । सर्वोपचारैः सम्पूज्य बलिं दद्यात्सहेतुकाम् ॥ १,१६.१२१ ॥ समन्त्रकं खनेद्धीमान्मन्त्रोऽयमपि कथ्यते । येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ॥ १,१६.१२२ ॥ येनेन्द्रो वरुणो विष्णुस्तेन त्वामुपचक्रमे । त्वामेवाहं खनिष्यामि मन्त्रपूतेन पाणिना ॥ १,१६.१२३ ॥ एवं सम्प्रार्थयित्वादौ पश्चान्मन्त्रं समुच्चरेत् । ओं श्रीं ह्रीं तममृतेश्वरि एहि एहि मम सकलसिद्धिं कुरु हुं फट् । अनेनैव तु मन्त्रेण निखनेत्सिद्धिमूलिकाम् ॥ १,१६.१२४ ॥ अथ तूत्पाटयेत्तां तु प्राञ्जलिः प्रार्थयेदिति । मा उत्पते मा निपते मा च ते चान्यथा भवेत् । ओं ह्रीं चण्ड हुं फट्स्वाहा । उत्पाटयेदनेनैव मन्त्रेण परमेश्वरि । अच्छिन्नमूलामादाय शुद्धवस्त्राभिवेष्टिताम् ॥ १,१६.१२५ ॥ क्षिप्त्वा पटलिकायां च स्ववेश्मनि शुचिस्थले । निचये हृष्टमनसा निदध्यात्पारणं ततः ॥ १,१६.१२६ ॥ ओं नमो भैरवाय महासिद्धिप्रदायकाय आपदुत्तरणाय हुं फट् । अनेनैव तु मन्त्रेण गृहीत्वा गृहमानयेत् ॥ १,१६.१२७ ॥ आक्, १, १७ <उषःपानरसायनम्> अथ प्रीतमना देवी पप्रच्छ परमेश्वरी । श्रीभैरवी । आदिभैरव देवेश सृष्टिस्थित्यन्तकारण ॥ १,१७.१ ॥ सर्वज्ञ शिव लोकेश त्वत्प्रसादान्मया विभो । रसायनानि दिव्यानि श्रुतानि विविधानि च ॥ १,१७.२ ॥ सुसाध्यं सुलभं दिव्यं सद्यः प्रत्ययकारणम् । बालस्त्रीषण्ढवृद्धानां रोगार्तानां विशेषतः ॥ १,१७.३ ॥ योग्यं रसायनार्हाणां ब्रूहि देव कृपानिधे । ततः स्मेराननाम्भोजो भैरवो भवभैरवः ॥ १,१७.४ ॥ श्रीभैरवः । शृणु देवि प्रवक्ष्यामि सर्वयोग्यं सुखङ्करम् । पावनं सुलभं चान्तर्बहिरंहोविनाशनम् ॥ १,१७.५ ॥ यस्माज्जगन्ति जातानि प्राणाः प्राणभृतामपि । त्रायते विश्वमखिलं सर्वदेवात्मकं प्रिये ॥ १,१७.६ ॥ त्रिदोषशमनं सौख्यं पथ्यं सर्वरसाधिकम् । षड्जीवनादिगुणयुग्रसयुक्तं बलप्रदम् ॥ १,१७.७ ॥ जीवनं च बलं प्रायः प्राणिनामग्निमूलकम् । तस्याग्निरिन्धनं तोयं तस्मात्तोयं पिबेद्बुधः ॥ १,१७.८ ॥ वैद्युतो बाडवो वह्निर्जाठरश्च त्रयोऽग्नयः । अबिन्धनाः स्युरन्येषां काष्ठादीनीन्धनानि हि ॥ १,१७.९ ॥ तस्माद्देवि शिवं वच्मि शृणु तोयरसायनम् । पूरयेन्नूतनघटे प्रातः शोध्यैश्च वारिभिः ॥ १,१७.१० ॥ गाङ्गेयैर्वाथ नादेयैस्ताटाकैर्वापि सारसैः । कौपैर्वा चापि वै घर्मैर्वार्षिकैर्वा यथाभवैः ॥ १,१७.११ ॥ तद्घटं स्थापयेन्मञ्चे दिव्यभास्कररश्मिभिः । नष्टदोषं निशायां च चन्द्रामृतकराप्लुतम् ॥ १,१७.१२ ॥ एलोशीरककर्पूरचन्दनैरधिवासितम् । पाटलीकेतकीजातिमल्लिकोत्पलवासितम् ॥ १,१७.१३ ॥ उशीरतालवृन्तेन तोयसिक्तेन मन्द्रतः । मुहुर्मुहुर्वीजितं तु हंसोदकमुदाहृतम् ॥ १,१७.१४ ॥ अनुराधोदयात्पूर्वं नास्पृष्टमलमूत्रकम् । पिबेत्तोयं ततः कुर्यान्मलमूत्रविसर्जनम् ॥ १,१७.१५ ॥ सन्ध्यावन्दनकर्मादि कुर्वन्स्वेच्छाशनो भवेत् । एकाब्दबालको नित्यं पिबेत्तोयं पलं पलम् ॥ १,१७.१६ ॥ एवं षोडशवर्षान्तं प्रत्यब्दं च पलं पलम् । वर्धयेत्क्रमशो धीमान्पलषोडशिकावधि ॥ १,१७.१७ ॥ षोडशाब्दात्परं सेव्यं षोडशप्रसृतं जलम् । एवं विंशतिवर्षान्तं नित्यं सेवेत सादरम् ॥ १,१७.१८ ॥ अनेन व्याधयः सर्वे विनश्यन्ति न संशयः । जीवेद्वर्षशतं बुद्धिबलेन्द्रियसुखान्वितः ॥ १,१७.१९ ॥ प्रसृतं च पिबेदष्टपलं दीर्घायुषाय च । यथा वह्निबलं तोयं त्र्यहाद्वा पञ्चवासरात् ॥ १,१७.२० ॥ सप्ताहाद्वा क्रमात्प्राज्ञः प्रसृतं प्रसृतं तथा । पुनस्तु कुडवं वापि वर्धयेत्तच्छनैः शनैः ॥ १,१७.२१ ॥ षोडशप्रसृतं यावत्तावत्सेव्यं ततः परम् । यथा यथाम्बुनो वृद्धिस्तथा दोषः प्रशाम्यति ॥ १,१७.२२ ॥ षण्मासं वा वत्सरं वा वाद्यन्तं वा पिबेज्जलम् । यथा वृद्धिस्तथा ह्रासो यावच्चुलुकमात्रकम् ॥ १,१७.२३ ॥ उपवासं दिवा रात्रौ पथ्याशी तत्परित्यजेत् । आत्यन्तिके च व्यायामे सति वाञ्जलिमात्रकम् ॥ १,१७.२४ ॥ पादमर्धं त्रिपादं वा यथा सेवाञ्जलिं पिबेत् । मध्वाज्यतैलदुग्धाज्यजलाद्यन्यतमैर्युतम् ॥ १,१७.२५ ॥ हन्याच्छीघ्रं वातरोगमथवास्यस्थभेषजैः । तत्तद्रोगोपशमनं भक्षयित्वा च भेषजम् ॥ १,१७.२६ ॥ ततो जलं वा प्रपिबेन्मुहूर्ते वा गते सति । जीर्णे वा सलिले सेव्यं भोजनान्तेऽथवा निशि ॥ १,१७.२७ ॥ ज्वरादिरोगे संजात उपवासो भवेद्यदि । पिबेदर्धं च पूर्वस्माल्लघ्वाहारी यथासुखम् ॥ १,१७.२८ ॥ उपवासो व्रतार्थं चेत्तत्क्षीरं वा पलं निशि । रात्रावभोजनं देवि जठरे वारि शुष्यति ॥ १,१७.२९ ॥ अर्धं वा प्राञ्जलिं वारि पिबेन्नित्यं प्रयत्नतः । सर्वत्राहारसत्वाग्निसाम्यं वारि पिबेत्सुधीः ॥ १,१७.३० ॥ विण्मूत्रोत्सर्जनं ब्राह्मान्मुहूर्तात्पूर्वतो यदि । ततः पीत्वैव सलिलं विण्मूत्रं च विसर्जयेत् ॥ १,१७.३१ ॥ वारि पूतं विषं त्वल्पं विण्मूत्रोत्सर्जनात्परम् । अज्ञातवेले रात्रौ चेत्पिबेत्तोयं पुनः प्रगे ॥ १,१७.३२ ॥ पादं वाथ चतुर्थांशमञ्जलिं वा पिबेज्जलम् । <जलपानकल्पे पथ्यमपथ्यञ्च> गोधूमषष्टिशाल्यन्नं यवजाङ्गलजामिषम् ॥ १,१७.३३ ॥ गव्यं सर्पिर्दधि क्षीरमुदश्विन्नवनीतकम् । मध्विक्षुदाडिमद्राक्षामोचखर्जूरशर्कराः ॥ १,१७.३४ ॥ सहकारफलं धात्री नालिकेरजलं नवम् । कूष्माण्डालाबुरुनिम्बपत्रफलानि च ॥ १,१७.३५ ॥ पत्रपुष्पफलं शिग्रोर्मुद्गयूषरसौ कृतौ । सुनिषण्णकगोरण्टी जीवन्तीद्वयकं तथा ॥ १,१७.३६ ॥ राजवृक्षकशोथघ्नी चिल्ली वापि लघुच्छदा । शतावरी तण्डुली च मत्स्याक्षी च विदारिका ॥ १,१७.३७ ॥ उपोदकी च वार्त्ताकी कारवल्लीफलानि च । लघुकोशातकी लक्ष्मी पटोलं तालमूलकम् ॥ १,१७.३८ ॥ मोचायाः कुसुमं दण्डफलानि क्षुद्रदन्तिका । सदाफलं च मत्स्याण्डी शृङ्गवेरं च सैन्धवम् ॥ १,१७.३९ ॥ फलपूराम्लकं पक्वधात्रीफलमलर्ककः । वायसी कुन्तली चैव वसुकन्यालिका तथा ॥ १,१७.४० ॥ कुस्तुम्बरी च सरसी शार्ङ्गेरी चक्रमर्दकः । मण्डूकपर्णी पालक्याः पत्रं गाङ्गेरुकं तथा ॥ १,१७.४१ ॥ आखुकर्णी कासमर्दपत्रं गाङ्गेरुकं तथा । संस्कारार्थं च कैडर्यसैन्धवोषणजारकाः ॥ १,१७.४२ ॥ सर्वेऽपि मधुरप्रायाः स्वादुशीताः सुखप्रदाः । कतकस्य च पथ्यायाः शलाटुं लवणाक्तकम् ॥ १,१७.४३ ॥ नीलोत्पलाब्जयोर्नालपुष्पशालूककेसराः । स्नेहयुक्तं भजेत्स्नानं श्वेताम्बरधरः शुचिः ॥ १,१७.४४ ॥ कस्तूरीचन्दनहिमकर्पूरैरनुलेपनम् । मन्दानिलं पुष्पमाल्यं कौमुदीरत्नभूषणम् ॥ १,१७.४५ ॥ पथ्यं रुच्यं जलीयं च स्वादुप्रायं च सद्रवम् । घृतक्षीरयुतं भक्तं भुञ्जीतोदकसेवकः ॥ १,१७.४६ ॥ ताम्बूलचर्वणं कुर्यात्सकर्पूरं सुखासनम् । नारिकेलजलं सायं निशि क्षीरं सशर्करम् ॥ १,१७.४७ ॥ शाल्मली तूलशय्या च निशि निद्रा यथासुखम् । ऊनातिमात्रविष्टम्भिविबन्ध्युष्णखराणि च ॥ १,१७.४८ ॥ रूक्षाहृद्यस्थिरगुरुपिच्छिलाकालभोजनम् । कुल्माषबृहतीचोषद्वयालाबुनिरूढकम् ॥ १,१७.४९ ॥ कुलुत्थयूषकालिङ्गगुञ्जावृक्षफलं तथा । पलाण्डु लशुनं सर्वकन्दं सिद्धार्थकं तथा ॥ १,१७.५० ॥ अजाङ्गलं पलं मत्स्यं किंचित्क्षीरान्नभोजनम् । अनुक्तशाकमन्नं च फलं क्षीरयुतं पलम् ॥ १,१७.५१ ॥ सर्वक्षीरयुतान्सर्वान्रसानमधुरानपि । तिलतैलं च तत्कल्कमेतैः संयुक्तमौषधम् ॥ १,१७.५२ ॥ बहुभाष्यातपछायासमचिन्ताध्वरोषणम् । शोकवाहनभीतिश्चालस्यात्यन्तरतं तथा ॥ १,१७.५३ ॥ मूर्ध्नि भारवहश्चांभस्तरणं चोपवासकम् । व्यायामेर्ष्यादिवास्वापो निशि जागरणं तथा ॥ १,१७.५४ ॥ पुरोवातो हिमं धूलिर्वातप्रायस्थलं तथा । धूमप्रायगृहं तल्पं कार्पासपरिकल्पितम् ॥ १,१७.५५ ॥ अग्निः श्रमाम्बुजननं तथोष्णाम्बरधारणम् । कौशेयधारणं तूर्वोस्ताडनं कठिनासनम् ॥ १,१७.५६ ॥ उष्णालयक्षारकूपसलिलं कटुतिक्तकौ । अम्लः कषायतिक्तश्च रामठं च विरूक्षकम् ॥ १,१७.५७ ॥ मदिरा च वसा मज्जा मूत्रं दुष्टजलानि च । मदं शीतमनारोग्यं भोजनं तैलवर्जितम् ॥ १,१७.५८ ॥ अभ्यङ्गं काञ्जिकं शीतं रोगाभावे कषायकम् । विदाहि शोषणं मूर्ध्नि स्नानमप्युष्णवारिभिः ॥ १,१७.५९ ॥ कारणं दोषकोपानां निन्द्यमन्यद्विवर्जयेत् । <पीतजलजीर्णलक्षणम्> स्वस्थः पीत्वा सुखासीनः सलिलं वाग्यतः शुचिः ॥ १,१७.६० ॥ विसर्जयेन्मलं मूत्रं ताम्बूलादींश्च वर्जयेत् । यावज्जलं पिबेत्तावन्मूत्रं निर्याति चेत्तदा ॥ १,१७.६१ ॥ जलं जीर्णं विजानीयादौषधेन विना यदा । निर्गच्छेत्सलिलं पीतं तदा स्वस्थतरो मतः ॥ १,१७.६२ ॥ निर्गते पीतसलिले निःशेषे क्षुत्प्रजायते । तैलाभ्यङ्गं ततः कुर्याद्विहितं पथ्यमाचरेत् ॥ १,१७.६३ ॥ <जलाजीर्णलक्षणं तत्परिहारश्च> परिहारं विना रोगा जायन्ते नाविचारतः । श्रमः क्लमश्च वमनं शिरस्तोदः शिरोभ्रमः ॥ १,१७.६४ ॥ सलिलस्तम्भशोषौ चाभिष्यन्दो वेगरोधनम् । गुल्मोदावर्तकौ वह्निसदनं गात्रभञ्जनम् ॥ १,१७.६५ ॥ तोदो बस्तौ मेहने च वक्षणे हृदि लोचने । जङ्घोद्वेष्टनकं श्वासो भुक्तिद्वेषस्त्वरोचकः ॥ १,१७.६६ ॥ अश्मरी पीनसः कासस्त्वतिसारश्च दुस्तरः । सकृदम्भोविशोषश्चेद्रूक्षायासादिकर्मभिः ॥ १,१७.६७ ॥ स दोषो न तु विज्ञेयो दोषस्तंभोऽसकृद्यदि । प्रपीते सलिले स्तब्धे चिकित्सात्र विधीयते ॥ १,१७.६८ ॥ कूष्माण्डपत्रैरुदरं बस्तिं चाच्छादयेत्सुधीः । मूत्रमोचनकृल्लेपं विदध्याज्जलमुक्तये ॥ १,१७.६९ ॥ यद्वाज्यधात्रीलिप्ताङ्गस्नानं कुर्याद्रसायनम् । सगुडं वा पिबेत्क्षीरं तक्रं वा शर्करान्वितम् ॥ १,१७.७० ॥ नालिकेरोदकैर्वापि ससितोर्वारुबीजकम् । कष्टाज्जीर्णं जलं यस्य भुक्तेः प्राक्सर्पिराददेत् ॥ १,१७.७१ ॥ यद्वा तिष्ठेच्चिरं चाप्सु स्नायाद्धात्र्यादिभिर्हिमैः । यद्वा स्तब्धे जले पीते स्वादुशीतैर्विशोधयेत् ॥ १,१७.७२ ॥ कृष्णामदनसिन्धूत्थैः कल्कैर्मधुयुतैर्वमेत् । पथ्याचूर्णं नालिकेरजलैः पीत्वा विरेचयेत् ॥ १,१७.७३ ॥ यद्वा त्रिजातकव्योषक्रिमिघ्नामलकाब्दकैः । त्रिवृत्सर्वसमा योज्या ह्येतत्सर्वसमा सिता ॥ १,१७.७४ ॥ सक्षौद्रगुलिकां कृत्वा लिहेदम्भोविमुक्तये । रात्रौ वरा सेविता चेत्सर्वदोषविनाशिनी ॥ १,१७.७५ ॥ नाभेरधश्चार्द्रपटं क्षणमात्रं निधापयेत् । अवगाहेन शीताम्भो मूर्ध्नि वा शीतवारि च ॥ १,१७.७६ ॥ निक्षिपेदथवा सार्द्रसिकतातल्पशोभिते । धारागृहे वा चासीत त्रपुसोर्वारुबीजकम् ॥ १,१७.७७ ॥ वरीद्राक्षाम्बुना पेयं वा तु काश्मीरजं वृषम् । द्राक्षारसेन वा पेयं कर्कटीबीजकानि च ॥ १,१७.७८ ॥ तण्डुलक्षालनजलैर्मधुकं वाथ शर्कराम् । सद्राक्षं च गुडं दार्वीं तण्डुलोदकयोगतः ॥ १,१७.७९ ॥ यद्वा धात्रीफलरसैर्गोस्तनीं शर्करान्विताम् । वरीं वा शर्करायुक्तां द्राक्षां वा मस्तुना सह ॥ १,१७.८० ॥ जलेन वा गुडं पेयं नालिकेरजलेन वा । तुगाक्षीरीभवं कल्कं वापि कर्कारुबीजकम् ॥ १,१७.८१ ॥ कल्पं वा तामलक्याश्च मूलं वा यष्टिकल्ककम् । पिशाचकदलीपक्वफलं क्षौद्रसितान्वितम् ॥ १,१७.८२ ॥ नालिकेरजलैर्वापि तक्रैर्वा मस्तुनापि वा । रम्भाकन्दजलैर्वापि क्षीरैर्वामलकीरसैः ॥ १,१७.८३ ॥ यद्वामृतारसैर्वापि कूष्माण्डस्वरसेन वा । दाडिमस्य रसैर्वापि त्वभीरोश्च रसैस्तथा ॥ १,१७.८४ ॥ अलाबोश्च रसैर्वापि पिबेदेलां सशर्कराम् । कदलीकन्दयष्ट्याह्वश्वदंष्ट्राश्च कशेरुकाः ॥ १,१७.८५ ॥ तृणपञ्चकमूलानि शुक्रा चैव शतावरी । एतेषां कदलीकन्दप्रमुखानां कषायकम् ॥ १,१७.८६ ॥ सक्षौद्रं ससितं वापि पेयं जलविमुक्तये । <उषःपानगुणाः> एवं ब्राह्मे मुहूर्ते यत्पीतं वारि रसायनम् ॥ १,१७.८७ ॥ दोषानशेषान् शमयेद्रोगानपि विनाशयेत् । रक्तवातं च वातांश्च हृद्रोगं श्वासकासकम् ॥ १,१७.८८ ॥ रक्तपित्तं च पित्तानि ग्रहणीछर्द्यरोचकान् । क्षयमूर्च्छाकुष्ठमेहमोहगण्डार्बुदान् गदान् ॥ १,१७.८९ ॥ गुल्मप्लीहाश्मरीशूलानाहाजीर्णविषूचिकाः । क्रिमिं पाण्डुं कामिलां च हलीमकविसर्पकाः ॥ १,१७.९० ॥ व्रणं च श्वयथुं श्वित्रमग्निसादं त्रिधा विषम् । जत्रूर्ध्वगुह्यकान् रोगानपस्मारं च विभ्रमम् ॥ १,१७.९१ ॥ ज्वरानाध्मानजठरमूत्राघातगुदाङ्कुरान् । वलीपलितनिर्मुक्तो जीवेत्त्रिशतवत्सरम् ॥ १,१७.९२ ॥ स्थिरधीर्बलवान्धीरः कान्तः कान्तामनोभवः । <नासापानरसायनम्> नासापुटाभ्यां सलिलं यस्तु प्रातः पिबेन्नरः ॥ १,१७.९३ ॥ शुक्तिमात्रं प्रतिदिनं पथ्याशी विजितेन्द्रियः । इन्द्रियाणां पटुत्वं च वलीपलितनाशनम् ॥ १,१७.९४ ॥ शतायुष्यमवाप्नोति नासारन्ध्ररसायनम् ॥ १,१७.९५ ॥ आक्, १, १९ <ऋतुचर्या, कालविभागः> श्रीभैरवी । भगवन् त्वत्प्रसादेन नित्याचारक्रमः श्रुतः । स्वामिन्नैमित्तिकाचारं श्रोतुं वाञ्छास्ति मे वद ॥ १,१९.१ ॥ श्रीभैरवः । तच्छृणु त्वं महादेवि ब्रूमि नैमित्तिकीं विधिम् । कालाधीनः स तु भवेदनपायोऽमितः सदा ॥ १,१९.२ ॥ अनादिनिधनः सूक्ष्मः स्थूलो व्याप्तः सदातनः । ब्रह्मादयश्च सूर्याद्या महाभूतादयः परे ॥ १,१९.३ ॥ कालानुसारिणः सर्वे प्रयत्ने कालरूपिणः । कालादेव हि जायन्ते लीयन्ते तत्र सर्वदा ॥ १,१९.४ ॥ यः कालः सोऽहमेवेति त्वं च कालप्रवर्तिनी । तस्माज्जन्मभृतां जन्मनिधनाय निवेद्यते ॥ १,१९.५ ॥ अविभाज्यो हि कालोऽयं तथापि प्रविभज्यते । तीक्ष्णसूच्याब्दपत्रं तु यावत्कालेन भिद्यते ॥ १,१९.६ ॥ स कालो लव इत्युक्तस्त्रुटी त्रिंशल्लवैर्भवेत् । तद्योऽयं स्यात्त्रुटिः कालो मात्रा स्यात्तद्द्वयान्विता ॥ १,१९.७ ॥ दृक्पक्ष्मणोः परिक्षेपः स तु मात्रा प्रशस्यते । मात्राष्टादशभिः काष्ठा काष्ठात्रिंशद्युता कला ॥ १,१९.८ ॥ कलात्रिंशत्क्षणः प्रोक्तः क्षणैः षड्भिश्च नाडिका । नाडीद्वयं मुहूर्तः स्यात्तैश्चतुर्भिश्च यामकः ॥ १,१९.९ ॥ यामैश्चतुर्भिर्दिवसस्तथा रात्रिर्भवेत्प्रिये । एवं दिवानिशं किं तु पूर्वाह्णो दश नाडिकाः ॥ १,१९.१० ॥ मध्याह्ने दश नाडी स्यादपराह्णस्तथैव च । पूर्वरात्रं चार्धरात्रं तथैवापररात्रकम् ॥ १,१९.११ ॥ दिवसैः पञ्चदशभिः पक्षः स्याच्छुक्लसंज्ञकः । द्वितीयः कृष्णपक्षः स्याद्द्वाभ्यां मासस्तु जायते ॥ १,१९.१२ ॥ मासाभ्यामृतुसंज्ञा स्यादृतुभ्यां कालसंज्ञकः । ऋतुत्रयं स्यादयनं द्वाभ्यां संवत्सरो भवेत् ॥ १,१९.१३ ॥ अष्टादशप्रकारेण कालस्तस्माद्विभज्यते । माघादिमासाः क्रमशो भवन्ति शिशिरादयः ॥ १,१९.१४ ॥ शिशिरश्च वसन्तश्च ग्रीष्मो वर्षा शरद्धिमः । ऋतवो दक्षिणं तेषां कथयामि शृणु प्रिये ॥ १,१९.१५ ॥ <हेमन्तर्तुस्वरूपम्> तत्र सूर्यो दिशश्चैव हिमानीकलुषीकृताः । धूमधूम्ररजोमन्दो वायुः शीतप्रबोधनः ॥ १,१९.१६ ॥ रोमाञ्चकारी कौबेरो लवल्यः पुष्पितास्तदा । पुंनागलोध्रफलिनीपुष्पामोदितषट्पदाः ॥ १,१९.१७ ॥ गजवाजीगोमहिषीकाकाजाद्याश्च गर्विताः । सरित्प्रालेयपटलसंछन्नशकुनादयः ॥ १,१९.१८ ॥ सोष्णबाष्पजलाः कूपाः पश्य हैमन्तिके ऋतौ । <शिशिरर्तुस्वरूपम्> एवं हि शिशिरे काले चयं याति कफः स्वतः ॥ १,१९.१९ ॥ <वसन्तर्तुस्वरूपम्> वसन्ते विमला दिक्काः सूर्यश्चारुणदीधितः । मलयानिलसञ्चारो नवपल्लवशोभिताः ॥ १,१९.२० ॥ नवीनत्वक्पलाशाढ्या वृक्षाः सर्वत्र पुष्पिताः । सहकाशोकबकुलमाधवीचम्पकोद्भवैः ॥ १,१९.२१ ॥ पलाशकादिमैः पुष्पैः प्रविभाति वनस्थली । भ्रमद्भ्रमरनिध्वानकोकिलालापसंकुला ॥ १,१९.२२ ॥ श्लेष्मकोपश्च भवति कालः सर्वोत्तमो ह्ययम् । <ग्रीष्मर्तुस्वरूपम्> ग्रीष्मे तीक्ष्णकरश्चण्डोऽतसीकुसुमसन्निभः ॥ १,१९.२३ ॥ संतापितमहीदिक्कः शोषिताशेषभूरसः । दावाग्निनातिज्वलिता दिशो भूमिश्च धूसराः ॥ १,१९.२४ ॥ नैरृतो वायुरत्युग्रो वात्या चोग्रासुखा भवेत् । आतपस्वेदपवनैः प्राणिनो ज्वरिता इव ॥ १,१९.२५ ॥ संतप्तक्रोडमहिषमातङ्गैराकुलीकृताः । चण्डाशुकिरणोत्तप्तशुष्कस्वल्पजलान्विताः ॥ १,१९.२६ ॥ कल्लोलितास्तटाकाद्याः संतप्तजलजन्तवः । जीर्णशुष्कविशीर्णैश्च पर्णैश्च पतितैर्द्रुमाः ॥ १,१९.२७ ॥ सोष्माश्छायाविहीनाश्च वायुव्याकुलिता भृशम् । शुष्कपत्रलतागुल्माः शिरीषाः कुसुमोज्ज्वलाः ॥ १,१९.२८ ॥ श्लेष्मक्षयश्चानुदिनं तस्माद्वायोश्चयो भवेत् । <वर्षर्तुस्वरूपम्> वर्षर्तौ पश्चिमो वायुर्मही नवतृणावृता ॥ १,१९.२९ ॥ भिन्नैस्तथाञ्जनाभैश्च जलदैश्छादिताखिला । शक्रगोपावृता पृथ्वी सर्वसस्यमनोहरा ॥ १,१९.३० ॥ भूलतानिवहच्छन्ना जलक्लिन्ना च पङ्किला । मत्तकेकिकुलक्रीडानृत्तविस्तीर्णपिञ्छका ॥ १,१९.३१ ॥ भेकभीकरनिध्वानबधिरीकृतदिङ्मुखा । कदम्बकदलीजातिकुटजामोदमेदुरा ॥ १,१९.३२ ॥ धाराधराम्बुधाराभिघातनष्टसरोरुहा । प्रभूतसलिलापूर्णसोपाना दीर्घिका भृशम् ॥ १,१९.३३ ॥ पतिसंयोगसदृशमहाकारा महाजलाः । पूर्णोभयतटान्ताश्च नद्यः सकलुषोदकाः ॥ १,१९.३४ ॥ नभः स्तनितजीमूतप्रोद्यद्विद्युत्प्रदीपितम् । अन्योन्याम्बुदसंघट्टजातनिर्घोषभीकरम् ॥ १,१९.३५ ॥ इन्द्रचापलसन्मेघच्छादितार्केन्दुमण्डलम् । वनं हृष्टाजमहिषकिटिचातकसङ्कुलम् ॥ १,१९.३६ ॥ श्लेष्मा क्षीणतरो वायोः कोपः पित्तचयस्तदा । <शरदृतुस्वरूपम्> शरदि स्फुरिताभाश्च भानोस्तीक्ष्णा मरीचयः ॥ १,१९.३७ ॥ प्रक्षीणवारिविमलवारिदोन्मुक्तमार्गकाः । ज्योत्स्नामृतरसासिक्तमोदिताखिलजन्तवः ॥ १,१९.३८ ॥ स्फुरितोडुकुलाकीर्णा रात्रयश्च मनोहराः । विमलाकाशरुचिराः कामलीलोत्सवप्रदाः ॥ १,१९.३९ ॥ मही चाश्यानपङ्का च कणिकापूर्णशालिका । सदस्यः फुल्लकमलकुमुदोत्पलमण्डिताः ॥ १,१९.४० ॥ प्रहृष्टमीनहंसालीलीलालोलतरङ्गिकाः । अमलाम्बुसराकीर्णाः स्नानपानहितप्रदाः ॥ १,१९.४१ ॥ दिशः प्रफुल्लरुचिरकाशचामरशोभिताः । विमलामोदितक्रोञ्चमल्लिकापरिमण्डिताः ॥ १,१९.४२ ॥ सप्तच्छदरजोयोगदृप्तदन्तिकुलं वनम् । प्रक्षीयते तदा वायुः पित्तं कुप्यति पार्वति ॥ १,१९.४३ ॥ <आदानविसर्गकालस्वरूपम्> दिवानिशादिमध्यान्ते श्लेष्मपित्तसमीरणाः । कुप्यन्ति ऋतवः सर्वे प्रवर्तन्ते क्रमाच्छिवे ॥ १,१९.४४ ॥ दिनमाग्नेयरूपं स्याद्रात्रिः सौम्यमयी भवेत् । द्वौ च पक्षौ तदा देवि ऋतू हेमन्तशैशिरौ ॥ १,१९.४५ ॥ तौ ऋतू हिमकालः स्यादुष्णौ मधुनिदाघकौ । प्रावृट्शरदृतू ज्ञेयौ वर्षाकालः स उच्यते ॥ १,१९.४६ ॥ ऋतुभिः शिशिराद्यैस्तत्त्रिभिः स्यादुत्तरायणम् । तदा ज्ञेयमिति ज्ञेयमादानं तद्भवेत्प्रिये ॥ १,१९.४७ ॥ सूर्यानिलौ स्वभावेन भूमिसौम्यरसापहौ । किंतु मार्गवशादेतावत्युष्णखररूक्षकौ ॥ १,१९.४८ ॥ आददाते बलं तेजः प्राणिनां प्रतिवासरम् । तिक्तः कषायकटुकौ प्रबलाः स्युर्यथोत्तरम् ॥ १,१९.४९ ॥ प्रावृडाद्यैश्च ऋतुभिस्त्रिभिः स्याद्दक्षिणायनम् । एतत्सोमात्मकं विद्धि विसर्गाख्यमिति स्मृतम् ॥ १,१९.५० ॥ प्रकृत्या शीतला वृष्ट्या वायुसोमाम्बुदाः परम् । बलिनः स्युर्यतस्तस्मात्सूर्यः क्षीणरुचिर्भवेत् ॥ १,१९.५१ ॥ गते भूतलतापेऽस्मिन् प्राणिनां प्रतिवासरम् । कालो बलं विसृजति प्रबलाः स्युर्यथोत्तरम् ॥ १,१९.५२ ॥ अत्राम्ललवणौ स्वादू रसाः स्निग्धा भवन्ति हि । हेमन्ते शिशिरे पूर्णं मधौ शरदि मध्यमम् ॥ १,१९.५३ ॥ ग्रीष्मे प्रावृषि शीतं स्यात्सर्वेषां प्राणिनां बलम् । <हेमन्तर्तुचर्या> रसस्य बलिनः शीतसंवृतत्वाद्धिमागमे ॥ १,१९.५४ ॥ कोष्ठाग्नेश्चाविकीर्णत्वात्पिण्डितो जठरे यतः । ततो बलीयान् कोष्ठाग्निस्तस्मिन् स्वल्पाशनो यदि ॥ १,१९.५५ ॥ वायुना दीप्यते वह्निः पचेद्धातून् रसादिकान् । तस्माद्धिमागमे सेव्यो मधुरो लवणाम्लकः ॥ १,१९.५६ ॥ अथ दैर्घ्यान्निशानां तु क्षुधा प्रातस्तरां भवेत् । दिनचर्याप्रकारेण विसृजन्मलमूत्रकम् ॥ १,१९.५७ ॥ दन्तकाष्ठादिकं सर्वं विदध्यात्परमेश्वरि । ततो मूर्धार्हवातघ्नतैलेनाभ्यङ्गमाचरेत् ॥ १,१९.५८ ॥ गात्राभ्यङ्गं मर्दनं च यावच्छक्यं च यथासुखम् । कुशलैर्बाहुयुद्धं च यावच्छक्यं भजेत्ततः ॥ १,१९.५९ ॥ गोधूमचणकैर्मुद्गैर्हृततैलो यथाविधि । स्नात्वा कौशेयेके रक्ते लघुन्युष्णे सुसान्द्रके ॥ १,१९.६० ॥ वाससी परिधायैव कस्तूर्या कुङ्कुमेन च । कालागरुद्रवेणैव चर्चां कुर्वीत विग्रहे ॥ १,१९.६१ ॥ धूपयेद्देहचिकुरान्कालागरुजधूपतः । चम्पकं बकुलं पुष्पं शतपत्रं च कैतकम् ॥ १,१९.६२ ॥ जवाद्यैरुपलिप्तानि कृत्वा शिरसि धारयेत् । गुडासवं मद्यमण्डं मद्यं मांसं च मेदुरम् ॥ १,१९.६३ ॥ स्निग्धं मांसरसं सोष्णं माषगोधूमपिष्टजान् । इक्षुक्षीरविकारांश्च सोष्णमन्नं तिलोद्भवम् ॥ १,१९.६४ ॥ शौचे सुखोष्णं सलिलं सोष्मलं चारु मन्दिरम् । शयनं कौथकश्लक्ष्णमृदुलाजिनकम्बलैः ॥ १,१९.६५ ॥ प्रावारैः शुभकौशेयैः क्रमेणास्तृतमुज्ज्वलम् । भजेदवृद्धसूर्यांशून् पृष्ठभागेन शाम्भवि ॥ १,१९.६६ ॥ स्वेदं चोपानहं नित्यं हसन्तीतीव्रतापिते । गर्भगेहे निवासं च वृत्तपीनोन्नतस्तनीः ॥ १,१९.६७ ॥ रथाङ्गवृत्तसुश्रोण्यो रम्भास्तम्भोरुमण्डिताः । मद्यपानमदोन्मत्ता वस्त्रस्रग्गन्धशोभिताः ॥ १,१९.६८ ॥ प्रियाः प्रीताः समाश्लिष्येन्न बाधा शीतदोषजा । कस्तूरी कुङ्कुमं चन्द्रं लवङ्गं जातिकाफलम् ॥ १,१९.६९ ॥ प्रत्येकं निष्कमेकं स्यात्सारः खदिरसम्भवः । युञ्ज्यात्षोडशनिष्कं च सर्वं पेष्यं हिमाम्बुना ॥ १,१९.७० ॥ गुलिकां मरिचाकारां कुर्याद्दौर्गन्ध्यनाशिनीम् । वातश्लेष्महरा रुच्या गुटिकैषा प्रकीर्तिता ॥ १,१९.७१ ॥ गुट्यन्वितं च ताम्बूलं यथेष्टं भक्षयेत्सदा । एवं हेमन्तचर्या स्यात्शिशिरेऽप्यमुमाचरेत् ॥ १,१९.७२ ॥ श्लेष्मा चितः स्यान्नितरां भजेद्धैमन्तिकं विधिम् । अत्रादानभवं रूक्षं भवेच्छीतो महत्तरः ॥ १,१९.७३ ॥ <वसन्तर्तुचर्या> शिशिरे तु चितः श्लेष्मा वसन्तेऽर्कांशुविद्रुतः । नाशयेज्जाठरं वह्निं स्वयं तोयस्वभावतः ॥ १,१९.७४ ॥ जनयेद्रोगमखिलं तस्माच्छीघ्रं कफं जयेत् । अथ वासन्तिकां चर्यां कथयामि मम प्रिये ॥ १,१९.७५ ॥ तीक्ष्णाञ्जनच्छर्दिनस्यैर्व्यायामोद्वर्तनैरपि । पादाभ्यां मर्दनेनोष्मवारिस्नानेन तं हरेत् ॥ १,१९.७६ ॥ काषायरक्तकौसुम्भकौशेयवसनानि च । परिधाय सकर्पूरागरुणाङ्गानि धूपयेत् ॥ १,१९.७७ ॥ कस्तूरीकुङ्कुमहिमैश्चन्दनैर्लेपयेत्तनुम् । चूतचम्पकपुन्नागपूगकेसरपाटलम् ॥ १,१९.७८ ॥ माधवीकेतकीमल्लिकाशोकनवमालिकाः । जवाद्यैर्लेपिताः कृत्वा वहेत्कल्हारमुत्पलम् ॥ १,१९.७९ ॥ मद्यं पञ्चविधं प्रोक्तं सर्वव्याधिहरं परम् । माधवारिष्टमार्द्वीकासवशीथुरितीरिताः ॥ १,१९.८० ॥ क्षौद्रैर्मदकरद्रव्यै रचितो माधवः स्मृतः । चिरं मदकरद्रव्यं खनित्वा स्थापितं भुवि ॥ १,१९.८१ ॥ अरिष्टोऽयमिति ज्ञेयो मार्द्वीको गोस्तनीभवः । आसवो मदकृद्द्रव्यसवनाद्वा समुद्भवः ॥ १,१९.८२ ॥ शीथुरिक्षुरसाज्जातः सेव्याः पञ्च मया मताः । कामिनीवदनाम्भोजवासिताश्चित्तहारिणः ॥ १,१९.८३ ॥ पुष्पादिवासिता हृद्याः कान्तानयनरञ्जिताः । पुराणाः कटुकास्तिक्ताः कषायाः श्लेष्महारिणः ॥ १,१९.८४ ॥ मातुलुङ्गाम्रजम्बूनां पत्रपुष्पफलान्विताः । सुहृद्भिः सह जंबीररसार्द्रकपलाण्डुकम् ॥ १,१९.८५ ॥ जाङ्गलं पललं शूल्यं तद्रसं च कृतं नवम् । पुराणक्षौद्रगोधूमयवषष्टिकशालिकान् ॥ १,१९.८६ ॥ भजेत्कफघ्नं शाकं च व्यञ्जनं पानकं तथा । अमद्यपस्तु शुण्ठ्यम्बु मुस्ताम्बु क्षौद्रवारि वा ॥ १,१९.८७ ॥ खदिरासनसारोत्थक्वथितं वारि वा पिबेत् । उद्याने सौधकाचाद्यैर्मणिनीकाशरोचिभिः ॥ १,१९.८८ ॥ कुट्टिमैर्मण्डिते चारुमण्डपे सुरतोचिते । कोकिलालापरुचिरे सुगन्धिकुसुमोज्ज्वले ॥ १,१९.८९ ॥ बहुपादपसच्छायावारितोष्णाशुदीधितौ । समन्तात्सलिलापूर्णकुल्याभिः शीतलीकृते ॥ १,१९.९० ॥ मलयानिलसञ्चारशमितश्रमवारिणि । नानाप्रसूनसुभगशाखिनीनालनन्दिते ॥ १,१९.९१ ॥ लम्बमानसुगन्धस्रङ्मकरन्दाभिषेचिते । उशीरपाटलीपङ्क्तिशोभिते बिसविस्तृते ॥ १,१९.९२ ॥ पुष्पैराकीर्णिते मन्दतालवृन्तानिलोज्ज्वले । समासीनः प्रियालापचतुराः कामलोलुपाः ॥ १,१९.९३ ॥ कन्दर्पदर्पसर्वस्वाः सूक्ष्मस्वच्छांबराः प्रियाः । तरुणी रमयन् गोष्ठीः कुर्वंस्ताभिर्मनोहराः ॥ १,१९.९४ ॥ सुहृद्भिराप्तैः सहितो मध्याह्नं गमयेत्सुखी । अतिशीतगुरुस्निग्धस्वाद्वम्ललवणानि च ॥ १,१९.९५ ॥ तिलेक्षुक्षीरविकृतिदिवास्वप्नातिपिच्छिलम् । मत्स्यं क्षारोदकं पूपं श्लेष्मलं वर्जयेन्मधौ ॥ १,१९.९६ ॥ <ग्रीष्मर्तुचर्या> ग्रीष्मे ह्यत्यर्थतीक्ष्णः स्याद्घर्मभानुर्भुवो रसान् । स्निग्धान् गुणांश्च क्षपयेत्कफस्तस्मात्क्षयं व्रजेत् ॥ १,१९.९७ ॥ तेन वायुश्चितः स्याच्च पूरितैः शीतलैर्जलैः । चन्दनागरुकस्तूरीकुङ्कुमैश्च सुगन्धिभिः ॥ १,१९.९८ ॥ प्रसूनैर्विविधैः फुल्लैर्वासिते मल्लिकादिभिः । कामिनीपीनवक्षोजदघ्नाम्बुनि सुशोधिते ॥ १,१९.९९ ॥ ह्रदे वा दीर्घिकायां वा संस्कृतायां यथाविधि । आ कर्णपूर्णनयनविराजितमुखेन्दुभिः ॥ १,१९.१०० ॥ मृणालभूषणोद्भासिशिरीषमृदुबाहुभिः । कर्पूरमुक्ताकुसुममालामलयजोज्ज्वलैः ॥ १,१९.१०१ ॥ सूक्ष्मकौसुम्भवसनबद्धमध्यनितम्बिभिः । स्वनूपुररवाकृष्टसारसारावरञ्जितैः ॥ १,१९.१०२ ॥ जलक्रीडातिचतुरैः संयुक्तः कामिनीजनैः । संक्रीडेत करोन्मुक्तवारिसिक्ताङ्गनामुखः ॥ १,१९.१०३ ॥ द्रुतिशृङ्गमुखोत्सृष्टवारिसेचितविग्रहः । ताभिर्भुजान्तरं श्लिष्यन् कुर्वन् लीलां मुहुर्मुहुः ॥ १,१९.१०४ ॥ उत्तीर्य च वपुर्वस्त्रैरुद्वर्त्य चिकुरान्सुखम् । स्वच्छे सूक्ष्मे कषाये च वसने धारयेत्ततः ॥ १,१९.१०५ ॥ चन्दनागरुकर्पूरैर्धूपयेत्केशविग्रहौ । श्रीखण्डचन्द्रकस्तूरीपङ्कचर्चितविग्रहः ॥ १,१९.१०६ ॥ नेपालमालतीमल्लीपाटलीशतपत्रकाः । सौगन्धिकं मरुवकं ह्रीवेरं च मृगाण्डजैः ॥ १,१९.१०७ ॥ सुगन्धतैलैर्लिप्तानि धारयेत्कुसुमानि च । अत्र मद्यं न पेयं स्यादथवा मद्यसात्म्यकैः ॥ १,१९.१०८ ॥ स्वल्पं पेयं तु तेनेषन्न तृप्तिश्चेत्तदा जलैः । स्वादुभिर्बहुभिर्युक्तं पिबेन्मद्यं यथासुखम् ॥ १,१९.१०९ ॥ तथा नोचेद्भवेद्धातुशोषोऽन्तर्दाहमोहभाक् । शिथिलावयवक्षीणप्राणबुद्धिबलः प्रिये ॥ १,१९.११० ॥ मधुरं शीतलं स्निग्धं द्रवं लघु हितं भजेत् । सद्यः सशर्करं लिह्याच्छालेयं जाङ्गलं पलम् ॥ १,१९.१११ ॥ अमेदुरं मांसरसं रसालां पानकं पिबेत् । पञ्चसारं च रागं च षाडवं चाथवा हितम् ॥ १,१९.११२ ॥ <रसालापानके> शर्करामरिचोपेतं दधि हस्तविलोडितम् । एतद्रसाला विख्याता रम्भापनसचूतजैः ॥ १,१९.११३ ॥ फलैः सशर्कराम्भोभिर्नवमृत्पात्रगं कृतम् । ईषदम्लमिति ख्यातं पानकं तद्धितंकरम् ॥ १,१९.११४ ॥ <पञ्चसारः> मृद्वीकाराजखर्जूरमधूककुसुमानि च । श्रीपर्णीक्षुद्रखर्जूरीपरिपक्वफलानि च ॥ १,१९.११५ ॥ सशर्कराम्बु निक्षिप्य दृढं हस्तेन पेषयेत् । संस्थाप्य नवमृद्भाण्डे ह्यन्येद्युर्वस्त्रशोधितम् ॥ १,१९.११६ ॥ पञ्चसार इति ख्यातो हृद्यो वातकफापहः । <रागषाडवौ> सिताक्षौद्रादिमधुरद्रव्ययुक्तं फलं च यत् ॥ १,१९.११७ ॥ स्वच्छं राग इति ज्ञेयः सर्वसन्तापनाशनः । अयमेव तु सान्द्रश्चेल्लेह्यं षाडव ईरितः ॥ १,१९.११८ ॥ स च वस्त्रेण संशुद्धः पेयषाडव उच्यते । एतत्पञ्चविधं पानं पाटलीचम्पकादिभिः ॥ १,१९.११९ ॥ एलया वासितं शुद्धं मृद्भाण्डे स्थापिते नवे । उशीरतालवृन्तस्य वायुना शीतलीकृतम् ॥ १,१९.१२० ॥ मोचचोचदलोपेतमेषा सामान्यसंस्कृतिः । अथ नूतनभाण्डान्तः पूरितं स्वादु निर्मलम् ॥ १,१९.१२१ ॥ पाटलीकेतकीपुष्पकर्पूरसुरभीकृतम् । सान्द्रांबरेण संवीतं तालवृन्तैः सुशीतलम् ॥ १,१९.१२२ ॥ पिबेज्जलं तालसालपूगखर्जूरपादपैः । नालिकेराम्रपनसजम्बूपुन्नागचम्पकैः ॥ १,१९.१२३ ॥ करप्रचेयव्यालम्बिफलपुष्पकगुच्छकैः । द्राक्षास्तबकसंछन्नशाखान्तरितराजितैः ॥ १,१९.१२४ ॥ माधवीस्तबकालीनभृङ्गगीताभिनन्दितैः । नानासुगन्धितरुभिर्वार्यमाणार्कदीधितौ ॥ १,१९.१२५ ॥ हंससारसकारण्डशोभमानसरोवरे । परितः प्रवहत्कुल्यातरङ्गानिलशीतले ॥ १,१९.१२६ ॥ नृत्यत्केकिकलाकीर्णकोकिलालापशोभिते । शारिकाशुकसंलापमुह्यन्मानवतीजने ॥ १,१९.१२७ ॥ उद्याने बालकोशीरवृतौ सलिलसेचिते । मृणालपद्मकल्हारोत्पलपल्लवनिर्मिते ॥ १,१९.१२८ ॥ सुगन्धिपुष्पमालाभिर्लम्बमाने सुशीतले । आर्द्राम्बरैश्च रचितच्छायानवपटालिके ॥ १,१९.१२९ ॥ माधवीमण्डपे रम्ये सर्वसन्तापहारिणि । कदलीमृणालकुसुमपल्लवैः परिकल्पिताम् ॥ १,१९.१३० ॥ चारूत्तमच्छदपटां हिमाम्बुपरिषेचिताम् । शय्यामत्यन्तमृदुलां सन्तापश्रमहारिणीम् ॥ १,१९.१३१ ॥ तुषारशीतलतरैश्चर्मवस्त्राभिपूरितैः । सूक्ष्मैर्जललवैः सिक्तः सवयोभिः समन्वितः ॥ १,१९.१३२ ॥ मध्याह्नं गमयेदेवं तथा धारागृहेऽथवा । दीव्यन् पुस्तमयीकान्तास्तनहस्तमुखच्युतैः ॥ १,१९.१३३ ॥ बालोशीराम्बुभिः शीते स्वच्छस्फटिकपट्टके । कर्पूरचन्दनालिप्ते लुठंस्तापप्रशान्तये ॥ १,१९.१३४ ॥ प्रत्यग्रस्नानशीताङ्ग्यो मुक्ताभरणभूषिताः । मृणालचन्दनालेपा मृणालवलयान्विताः ॥ १,१९.१३५ ॥ स्वच्छाम्बरातिरुचिराः प्रमदास्तापहारिणीः । चुम्बनालिङ्गनस्पर्शैस्तोषयन् परिहासयन् ॥ १,१९.१३६ ॥ पुष्पमालाविरचितवितानपरिशोभिते । शीतांशुकिरणस्पर्शद्रवच्चन्द्रोपलोज्ज्वले ॥ १,१९.१३७ ॥ चन्द्रिकाकान्तिलसिते मन्दानिलविराजिते । सौधस्थले समासीनः शशाङ्ककिरणाह्वयान् ॥ १,१९.१३८ ॥ भक्षानश्नीत तारेन्दुकिरणैः शीतलीकृतम् । सशर्करं पिबेत्क्षीरं माहिषं बलकृद्धितम् ॥ १,१९.१३९ ॥ निदाघहं शरीरस्य मालाचन्दनधारिणः । स्वच्छांशुकावृताङ्गस्य समाप्तरतिकर्मणः ॥ १,१९.१४० ॥ जलार्द्रांशुकवातेन तालवृन्तानिलेन च । विस्तारिताब्जपत्रस्य वीजनैश्चाम्बुवर्षिभिः ॥ १,१९.१४१ ॥ मयूरतालवृन्तैश्च तथा च हरिचन्दनैः । कर्पूरमल्लिकामुक्तामालाभिर्मधुरैः प्रिये ॥ १,१९.१४२ ॥ शारिकाशुकबालानामालापैर्बिसभूषणैः । फुल्लकल्हारकमलनीलोत्पलविराजितैः ॥ १,१९.१४३ ॥ कर्पूरचन्दनालेपैः कान्तैश्च प्रमदाजनैः । तापः संह्रियते चास्य चादानोष्णाभितापिनः ॥ १,१९.१४४ ॥ सक्तुकट्वम्ललवणरूक्षायासातपांस्त्यजेत् । <वर्षर्तुचर्या> अथातो वार्षिकीं चर्यां शृणु वक्ष्यामि भैरवि ॥ १,१९.१४५ ॥ आदानक्षीणधातूनां नराणां जठरानलः । क्षीणोऽपि वर्षासमये दोषैः सीदति सत्वरम् ॥ १,१९.१४६ ॥ सवारिवारिदव्राततिरोहितदिवाकरे । व्योम्नि झञ्झासमीरेण शीतलेन तुषारिणा ॥ १,१९.१४७ ॥ वातः स्यात्कुपितोऽत्यन्तं प्रतप्ताया निदाघतः । भूमेर्मेघादिसिक्ताया बाष्पैः कालस्वभावतः ॥ १,१९.१४८ ॥ अम्लपाकैश्च लूतादिमलिनैः सलिलैस्तथा । पित्तं कुप्यति चात्यर्थं दुर्दिनत्वाच्च जाठरः ॥ १,१९.१४९ ॥ वह्निः सीदति तेनैव श्लेष्मा कुप्यति दुस्तरः । एवमन्योन्यदुष्टाः स्युर्दोषाः साधारणं ततः ॥ १,१९.१५० ॥ मर्दनं च शिरोऽभ्यङ्गं तैलैर्नारायणैर्भजेत् । उष्णोदकैश्च बहुभिः स्नात्वा संमार्जयेत्तनुम् ॥ १,१९.१५१ ॥ रक्तं चाप्यथवा शुक्लं माञ्जिष्ठं वाथ धारयेत् । सान्द्रेणागरुधूपेन शरीरं धूपयेच्छिवे ॥ १,१९.१५२ ॥ कस्तूरीं कुङ्कुमं चारु भजेत्कालागरुद्रवम् । कुटजं केतकीं जातिं मरुवं करवीरकम् ॥ १,१९.१५३ ॥ स्निग्धजाङ्गलमांसानि संस्कृतांस्तद्रसानपि । मुद्गाढककुलुत्थानां पिबेद्यूषं च संस्कृतम् ॥ १,१९.१५४ ॥ अरिष्टाख्यं च मैरेयं पुराणमथवा पिबेत् । सौवर्चलयुतं मस्तु पञ्चकोलरजोयुतम् ॥ १,१९.१५५ ॥ भजेदुष्णकरं सर्वं शुद्धकोष्ठो भवेन्नरः । कुर्यात्कषायबस्तिं च जीर्णधान्याशनं भजेत् ॥ १,१९.१५६ ॥ दिव्यं वा कौपमुदकं शृतं पेयं सुखावहम् । अत्यन्तवातवर्षेऽह्नि प्रायेण लवणाम्लकम् ॥ १,१९.१५७ ॥ मधुरं लघु सक्षौद्रं शुष्कनिस्तालितानि च । व्यञ्जनानि च तैलं च वटकान्पर्पटान्भजेत् ॥ १,१९.१५८ ॥ यथासुखं च ताम्बूलं कस्तूरीफलसंयुतम् । नेतेवनीस्यादगरुधूपिताम्बरमावहेत् ॥ १,१९.१५९ ॥ सुगन्धावयवस्तिष्ठेत्सौधे भूबाष्पवर्जिते । तुषारशीतरहिते सुरम्येऽगरुधूपिते ॥ १,१९.१६० ॥ दिवासुप्तिं नदीतोयं सक्तुं जलघृताप्लुतम् । व्यायाममर्ककिरणान् संगमात्यन्तिकं त्यजेत् ॥ १,१९.१६१ ॥ <शरदृतुचर्या> अथातः शारदीं चर्यां वक्ष्यामि शृणु वाङ्मयि । वर्षर्तौ शीतवृष्टिभ्यां सहसैव रवेः करैः ॥ १,१९.१६२ ॥ तप्ताङ्गानां नृणां पित्तं चितं वृष्टौ तु शारदे । सुतरां कुप्यति तदा तस्मात्पित्तापनुत्तये ॥ १,१९.१६३ ॥ पित्तघ्नतैलेनाभ्यङ्गं मर्दनं मृदु कल्पयेत् । सुखोष्णवारिणा स्नानं शुक्लकाषायमम्बरम् ॥ १,१९.१६४ ॥ धृत्वा चागरुकर्पूरधूमेनाङ्गानि लेपयेत् । भद्रश्रीहिमलिप्ताङ्गः केतकीभल्लकानि च ॥ १,१९.१६५ ॥ चम्पकाम्बुजपत्राणि वहेन्मृगमदान्वितम् । विरेचनं सिरामोक्षं तिक्ताज्यास्वादनं भजेत् ॥ १,१९.१६६ ॥ शालिगोधूममुद्गं च पटोलक्षौद्रशर्कराः । जाङ्गलं पिशितं तिक्तं कषायं मधुरान् भजेत् ॥ १,१९.१६७ ॥ बुभुक्षितस्तु लघ्वन्नं धात्रीं शीथुं घृतं पयः । पानकं यावसं चेक्षुनालिकेरोदकं नवम् ॥ १,१९.१६८ ॥ अगस्त्योदयसंशुद्धनिर्विषं लघु शीतलम् । अर्केन्दुकिरणोत्तप्तशीतं हंसोदकं पिबेत् ॥ १,१९.१६९ ॥ मौद्गयूषं प्रदोषे तु हिमचन्दनचर्चितः । सुगन्धमालानिर्धौतवसनालंकृतः सुखी ॥ १,१९.१७० ॥ मुक्तामालापरिष्कारः सुगन्धोशीरलेपितः । रम्यारामापरिवृते हर्म्ये ज्योत्स्नातिसुन्दरे ॥ १,१९.१७१ ॥ समासीनश्चन्द्रपादान् सेवेत तरुणीयुतः । स्वादन् स्वादंश्चेक्षुदण्डान् पित्तघ्नमदिरामपि ॥ १,१९.१७२ ॥ पायं पायं सुखं तिष्ठन्क्रीडयन्कामिनीजनम् । यवक्षारादिकान् क्षारान् हिममातृप्ति भोजनम् ॥ १,१९.१७३ ॥ तिलतैलं रविकरान्दिवा निद्रां वसां दधि । तीक्ष्णं मद्यं त्यजेद्वस्तु प्राचीवायुं च पित्तकृत् ॥ १,१९.१७४ ॥ <सर्वर्तुसाधारणी चर्या> अथ साधारणी चर्या संक्षेपाद्वक्ष्यते शिवे । स्वाद्वम्ललवणान्प्रायो हिमवर्षागमे भजेत् ॥ १,१९.१७५ ॥ तिक्तोषणकषायांश्च वसन्ते नितरां भजेत् । निदाघे मधुरप्रायं भजेद्वर्षात्यये पुनः ॥ १,१९.१७६ ॥ तिक्तस्वादुकषायांश्च वर्षर्तौ च भजेत्क्रमात् । मधौ रूक्षोष्णमश्नीयाद्ग्रीष्मे स्निग्धं च शीतलम् ॥ १,१९.१७७ ॥ प्रावृट्शिशिरहेमन्ते स्निग्धं चोष्णतरं भजेत् । मेघात्यये रूक्षशीतं विधिनानेन सेवयेत् ॥ १,१९.१७८ ॥ तत्तदृतूक्तानधिकान् रसान् सेवेत चान्वहम् । अन्यानपि रसान्सर्वानल्पमात्रं यथारुचि ॥ १,१९.१७९ ॥ एकस्यान्त्यं च सप्ताहमन्यस्य दिनसप्तकम् । एवं चतुर्दशदिनमृतुसंधिरिति स्मृतः ॥ १,१९.१८० ॥ वर्तमानामृतोश्चर्यां मन्दं मन्दं समुत्सृजेत् । आगामिन ऋतोश्चर्यामृतुसंधौ भजेत्क्रमात् ॥ १,१९.१८१ ॥ सात्म्यद्रव्यविसर्गाच्च ह्यसात्म्यद्रव्यसेवनात् । रोगा भवन्ति तस्मात्तच्छीलत्यागौ शनैर्व्रजेत् ॥ १,१९.१८२ ॥ ऋतुचर्यामिति भजन्नायुरारोग्यमाप्नुयात् । <अन्नपाकक्रमो धातुमलाद्युत्पत्तिक्रमश्च> अन्नपाकक्रमं वक्ष्ये समासेन सुरार्चिते ॥ १,१९.१८३ ॥ भुक्तमन्नं च सकलं कोष्ठकं प्राणवायुना । आहृतं तद्द्रवैर्भिन्नसंघातं मार्दवं पुनः ॥ १,१९.१८४ ॥ स्नेहेन नीतं कोष्ठाग्निरामाशयगतं पचेत् । समानवायुनोद्दीप्तो जाठरस्तु यथा बहिः ॥ १,१९.१८५ ॥ स्थालीस्थं तण्डुलं तोयं पचेदन्नं च पावकः । भुक्तमात्रेण तत्सर्वं षड्रसं मधुरायते ॥ १,१९.१८६ ॥ पच्यमानं कफोत्पाद्यैः फेनः स्यान्मधुरादिभिः । फेनस्तु कफतत्त्वं यात्यम्लतां च विदाहतः ॥ १,१९.१८७ ॥ आमाशयाच्च्युतं तच्च पित्तं भवति निर्मलम् । पक्वाशयमनुप्राप्तमग्निना परिशोषितम् ॥ १,१९.१८८ ॥ पिण्डितं परिपक्वं स्यान्महतः पाकतः कटुः । पार्थिवश्चाप्य आग्नेयो वायव्यश्चेति नाभसः ॥ १,१९.१८९ ॥ पञ्चोष्माणः पार्थिवादीनन्नाननु पचन्ति च । पञ्चाहारगुणान् पक्वांस्तथा भूतगुणानपि ॥ १,१९.१९० ॥ पृथक्पृथक्यथास्वं च पुष्णन्त्येते यथासुखम् । भौमो भौमांस्तथैवान्यानन्ये देहगतान्क्रमात् ॥ १,१९.१९१ ॥ पक्वं तदन्नं द्विविधं किट्टसारप्रभेदतः । किट्टं तु द्विविधं चाच्छं मूत्रं सान्द्रं शकृद्भवेत् ॥ १,१९.१९२ ॥ पुनः सारं पचन्त्येव यथास्वं सप्त वह्नयः । धातुगास्तु ततो देवि रसाद्रक्तं भवेत्ततः ॥ १,१९.१९३ ॥ मांसं मांसाद्भवेन्मेदस्तस्मादस्थि प्रजायते । अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भो भवेत्प्रिये ॥ १,१९.१९४ ॥ प्रसादशेषजान्वक्ष्ये रसात्स्तन्यमसृक्ततः । सिराश्च कण्डरा मांसात्षट्त्वचश्च वसा भवेत् ॥ १,१९.१९५ ॥ मेदसः स्नायुसन्धी च शेषं नश्यत्यतः परम् । रसस्य किट्टं श्लेष्मा स्यादसृजः पित्तमेव च ॥ १,१९.१९६ ॥ मांसस्य किट्टं खमला मेदसो घर्मवारि च । अस्थ्नो रोमाणि केशाः स्युर्मज्जायास्त्वक्षिविट्त्वचाम् ॥ १,१९.१९७ ॥ स्नेहः शुक्लस्य चौजः स्यात्क्रमाद्धातुमलाः स्मृताः । किट्टं प्रसादो भवति धातूनां परिपाकतः ॥ १,१९.१९८ ॥ इतरेतरसंस्तम्भा धातुस्नेहपरम्परा । आहारात्साधु जीर्णाद्यो जातः सारो रसो हि सः ॥ १,१९.१९९ ॥ तस्माद्रसस्तु धातूनां रक्तादीनां च वर्धनः । नराणां धातवः सप्त सन्ति स्त्रीणां यथा तथा ॥ १,१९.२०० ॥ पुंसां शुक्लं च शिरसि नारीणां हृष्टमानसे । पतिसङ्गे तु तच्छुक्लं स्रवन्ति स्मरमन्दिरे ॥ १,१९.२०१ ॥ तच्चाम्बुसदृशं स्वच्छं सौम्यं गर्भाय नो भवेत् । भुक्तमन्नं दिवारात्रं शुक्लवृद्धिं करोति तत् ॥ १,१९.२०२ ॥ सप्ताहादच्छशुक्लं स्यान्मासाद्गर्भक्षमं हि तत् । एवं पाकक्रमेणैव भवेत्षाण्मातुरांबिके ॥ १,१९.२०३ ॥ वृष्यौषधप्रभावेण सद्यः शुक्लादि जायते । चङ्क्रमद्भोज्यधातूनां परिवृत्तिः सदा भवेत् ॥ १,१९.२०४ ॥ <पाचकाग्निस्वरूपम्> जाठरो भौतिकश्चैव धातवीयोऽग्नयः स्मृताः । एतेषु जाठरः श्रेष्ठो येनान्नं परिपच्यते ॥ १,१९.२०५ ॥ स एव मूलं सर्वेषामग्नीनां तत्क्षये क्षयः । तद्वृद्धौ च भवेद्वृद्धिस्तन्मूलं जीवितं बलम् ॥ १,१९.२०६ ॥ देवि तस्माद्धितैः सात्म्यैरन्नपानाख्यदारुभिः । पालयेत्तं प्रयत्नेन तदायत्ता ह्यरोगता ॥ १,१९.२०७ ॥ चतुर्विधः स एवाग्निस्तीक्ष्णो मन्दः समोऽसमः । पित्ताभिमूर्छिते वायौ समाने तीक्ष्णपावकः ॥ १,१९.२०८ ॥ असम्यग्बहु वा भुक्तं पचेच्छीघ्रं तु पित्तजान् । रोगान्कुर्यात्तु मन्दाग्निः समाने कफपीडिते ॥ १,१९.२०९ ॥ सम्यग्भुक्तं मितं वापि हितं चान्नं चिरात्पचेत् । वक्त्रशोषाध्मानताश्च गौरवं चान्त्रकूजनम् ॥ १,१९.२१० ॥ आटोपमसकृत्कुर्याच्छ्लेष्मजानामयानपि । स्वस्थानस्थे समाने तु समोऽग्निरभिधीयते ॥ १,१९.२११ ॥ सम्यग्भुक्तं पचेत्काले त्वारोग्यफलदो भवेत् । असमोऽग्निरमार्गस्थे समाने स्यात्सुभोजनम् ॥ १,१९.२१२ ॥ चिरात्पचेत्तु दुर्भुक्तमचिराद्वातजान् गदान् । कुर्यात्तस्मादप्रमत्तः समाग्निं रक्षयेत्प्रिये ॥ १,१९.२१३ ॥ यामद्वये पचेत्तीक्ष्णः षड्यामान्मन्दपावकः । कृच्छ्रादन्नं समाग्निस्तु चतुर्यामात्पचेत्सुखम् ॥ १,१९.२१४ ॥ असमाग्निः कदाचित्तु शीघ्रं वा मन्दमेव वा । नाभिस्थाने स्थितो वह्निः सर्वेषां प्राणिनामपि ॥ १,१९.२१५ ॥ गजोष्ट्रतुरगादीनां वह्निरङ्गुष्ठमात्रकः । पशुमर्त्यमृगाणां च यवमात्रानलो भवेत् ॥ १,१९.२१६ ॥ गृध्रोलूकबकादीनां जाठराग्निस्तिलोन्मितः । कृमिकीटादिजन्तूनां केशमात्रो हुताशनः ॥ १,१९.२१७ ॥ प्रदीप्तो जाठरो वह्निरादावन्नं पचेत्ततः । अन्नाभावे पचेद्दोषान्दोषे क्षीणे पचेत्ततः ॥ १,१९.२१८ ॥ धातून्धातुक्षये प्राणान्संहरेत्प्राणिनां परम् ॥ १,१९.२१९ ॥ आक्, १, २० <योगरसायनम्> श्रीभैरवी । देवदेव कृपाम्भोधे कालकन्दर्पनाशन । अष्टमूर्ते महामूर्ते पञ्चकृत्यपरायण ॥ १,२०.१ ॥ प्रपञ्चितं जगत्सर्वं त्र्यम्बक त्रिपुरान्तक । जटाकलितभोगीन्द्रफूत्कारक्लान्तचन्द्रमः ॥ १,२०.२ ॥ सूर्येन्दुवह्निनयन स्मेरपञ्चानन प्रभो । कुण्डलाहिफणारत्नद्योतमानकपोलभूः ॥ १,२०.३ ॥ कुन्दाग्रदन्तसुभगपल्लवाधरशोभित । हालाहलासितगल सप्तभोगीन्द्रभूषण ॥ १,२०.४ ॥ महाहिवलयप्रोद्यदष्टादशभुजोज्ज्वल । सर्वदिव्यायुधोपेत वरव्याघ्राजिनांबर ॥ १,२०.५ ॥ नमत्सुरासुराधीशमकुटोत्पलरश्मिभिः । नीराजितपदद्वन्द्व योगिजन्मजरापह ॥ १,२०.६ ॥ सच्चिदानन्दविभव प्रसन्न करुणाम्बुधे । ओङ्कारगम्य विमलातर्क्याचिन्त्याप्रमेय भोः ॥ १,२०.७ ॥ स्तोता स्तुत्यः स्तुतिस्त्वं हि कर्ता कार्यं च कारकः । सर्वोऽपि हि त्वमेवासि प्रसीद परमेश्वर ॥ १,२०.८ ॥ त्वन्मायया जगत्सर्वं सृष्टं त्रातं हतं तथा । त्वं भूस्त्वमापस्त्वं वह्निस्त्वं वायुस्त्वं नभः शशी ॥ १,२०.९ ॥ रविस्त्वं परमात्मा त्वं गुणास्त्वं प्रकृतिस्तथा । पुरुषस्त्वं मनस्त्वं च बुद्धिश्चित्तमहंकृतिः ॥ १,२०.१० ॥ रसायनं च सकलमाख्यातुं च सविस्तरम् । आज्ञापयाहं यदि ते हृद्या प्राणप्रिया विभो ॥ १,२०.११ ॥ जीवन्मुक्तिः कथं नाथ योगरूपं च कीदृशम् । अनुगृह्णीष्व देवेश सुखोपायं भवापहम् ॥ १,२०.१२ ॥ श्रुत्वा स्तुतिं स्मितमुखो भैरवः परया मुदा । उवाच देवीं कल्याणीं पर्वताधिपनन्दिनीम् ॥ १,२०.१३ ॥ श्रीभैरवः । साधु साधु महामाये सर्वं वेत्सि सनातने । तथापि पृच्छसीशानि लोकानां हितकाम्यया ॥ १,२०.१४ ॥ प्रवक्ष्यामि समासेन सावधानं शृणु प्रिये । त्वत्तोऽन्या वल्लभा का मे रहस्यार्थविभाषणे ॥ १,२०.१५ ॥ <जीवन्मुक्तलक्षणम्> शृणु वक्ष्यामि देवेशि जीवन्मुक्तस्य लक्षणम् । कामं क्रोधं भयं लोभं मदं मोहं च मत्सरम् ॥ १,२०.१६ ॥ मानं लज्जां कुलं शीलं कुत्सां दम्भं च वञ्चनाम् । अविद्यां जडतां गर्वं शीतमुष्णं तथातपम् ॥ १,२०.१७ ॥ वातं सुखं च दुःखं च पापं पुण्यं हिताहितम् । तापत्रयं पुत्रमित्रकलत्रादीनि यस्त्यजेत् ॥ १,२०.१८ ॥ न सक्तः सर्वविषये तत्त्वचिन्तापरायणः । पद्मपत्रमिवाम्भोभिर्निर्लिप्तहृदयो भवेत् ॥ १,२०.१९ ॥ मैत्रीकृतातटोपेक्षामदैतैर्मण्डिताशयः । ऐहिकामुष्मिकसुखप्राप्तिकार्याविरक्तधीः ॥ १,२०.२० ॥ नित्यानित्यविवेकज्ञो ह्यन्तःकरणनिग्रहः । जरामरणहीनश्च शिवसामरसात्मवान् ॥ १,२०.२१ ॥ जीवन्मुक्तः स विज्ञेयस्तीर्णसंसारसागरः । देवदैत्यादिभिर्वन्द्यः स सेव्यः स गुरुः शिवः ॥ १,२०.२२ ॥ यथाहं सर्वलोकेषु पूजनीयो महेश्वरि । तथासौ सर्वलोकेषु सर्वैः सम्पूज्यते सदा ॥ १,२०.२३ ॥ देहान्तेषु तु मुक्तिर्या प्राणिनां साप्रयोजना । देहान्ते देहिनः सर्वे मुक्तिं यान्ति न संशयः ॥ १,२०.२४ ॥ भगसंद्रावणान्मुक्तिर्भवेच्चेद्गर्दभादयः । पक्षिणो वृषभा मेषाः किं मुक्तास्त्रिपुराम्बिके ॥ १,२०.२५ ॥ रेतोविण्मूत्रसेवायां यदि मुक्तिर्भवेत्प्रिये । कपिश्च सूकराद्याश्च कथं मुक्ता भवन्ति ते ॥ १,२०.२६ ॥ न केवलामरत्वाच्च न शिवत्वाद्भवेत्तथा । तद्द्वयोर्मेलनाच्च स्याज्जीवन्मुक्तिरियं स्मृता ॥ १,२०.२७ ॥ सर्वस्मिन्समये शास्त्रे मुक्तिरस्त्यन्तकालजा । न दृश्यते करान्तस्थमणिवत्सा च शाम्भवि ॥ १,२०.२८ ॥ अतिगोप्यमवाच्यं यद्देवानामपि दुर्लभम् । कथयिष्यामि देवेशि देहस्थैर्यं सदातनम् ॥ १,२०.२९ ॥ <जीवन्मुक्तिसाधकशरीरस्थैर्यसंपादनोपायः; योगसिद्धिः> शिवत्वं खेचरत्वं च सर्वसिद्धिप्रदं शुभम् । देहं विना न किंचित्स्याद्देहोऽयं सर्वसाधनम् ॥ १,२०.३० ॥ तस्माद्देहं प्रयत्नेन रक्षयेत्सर्वतः सदा । देहपाते धर्मनाशो धर्मनाशे क्रियाच्युतिः ॥ १,२०.३१ ॥ क्रियाच्युतौ कुतो योगो योगभ्रंशे न चिद्भवेत् । चिदभावे कुतो मोक्षो मोक्षे भ्रष्टे न किंचन ॥ १,२०.३२ ॥ अन्योपायशतेनापि न देहो धार्यते सदा । पारदः पवनश्च स्यात्सर्वसिद्धिद उत्तमः ॥ १,२०.३३ ॥ संमूर्छितौ मृतौ बद्धावुभौ पवनपारदौ । क्रमाद्रोगहरौ नित्यं मृत्युघ्नौ खेचरप्रदौ ॥ १,२०.३४ ॥ रसः पूर्वं मया ख्यातोऽधुना वायुः प्रशस्यते । वायोः संधारणाज्ज्ञानं ज्ञानान्मोक्षः प्रजायते ॥ १,२०.३५ ॥ सर्वेषां देहमूलं स्यात्तत्स्थैर्ये पवनः प्रभुः । परस्मादक्षरात्तस्मादाकाशं समभूत्ततः ॥ १,२०.३६ ॥ वायुस्तस्माच्च दहनस्तस्मादापस्ततो मही । एतेषां पञ्चभूतानामक्षरं कारणं परम् ॥ १,२०.३७ ॥ व्योम शब्दात्मकं वायुः शब्दस्पर्शात्मको भवेत् । वह्निः शब्दस्पर्शरूपमयः सलिलमुच्यते ॥ १,२०.३८ ॥ शब्दरूपस्पर्शरसात्मकं भूमिर्विशेषतः । शब्दरूपरसस्पर्शगन्धरूपा भवेत्प्रिये ॥ १,२०.३९ ॥ भूवाय्वग्न्यनिलाकाशाधिष्ठात्र्यश्चैव देवताः । ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ॥ १,२०.४० ॥ भूमिर्नष्टाम्बुसंमग्ना ताश्च ग्रस्ता महाग्निना । स च चण्डसमीरेण शमितः सोऽपि पार्वति ॥ १,२०.४१ ॥ व्योम्नि लीनः क्रमात्तस्मादाकाशादुद्भवन्ति ते । अन्तर्बहिः स्थितं व्याप्तं निराधारं निराश्रयम् ॥ १,२०.४२ ॥ आकाशं चेतसा ध्यायन् प्रच्छिन्द्याद्भवबन्धनम् । जगत्प्राणमयं वायुं चिदानन्दप्रदं जलम् ॥ १,२०.४३ ॥ निश्चलीकुरुते युक्त्या वायुवत्स्यात्स खेचरः । अनन्तार्काग्निसंदीप्तं दहन्तं जगतां त्रयम् ॥ १,२०.४४ ॥ तेजो ध्यात्वा स्वहृदये नाग्निना स तु बाध्यते । सुधातरङ्गनिकरप्लाव्यमानमहीतलम् ॥ १,२०.४५ ॥ अप्तत्त्वं भावयन् स्वान्ते वारि तं न हि बाधते । अभूतलचराक्रान्तं भूतलं भूतसंप्लवम् ॥ १,२०.४६ ॥ हृदये भावयन्नित्यं तस्य नो पार्थिवं भयम् । यद्यद्भावयते चित्ते तत्तद्रूपमवाप्नुयात् ॥ १,२०.४७ ॥ यथाग्नित्वं व्रजेत्काष्ठः कीटो भ्रमरतां यथा । <योगाङ्गानि> आसनं प्राणनियमः प्रत्याहारश्च धारणा ॥ १,२०.४८ ॥ ध्यानं समाधिः षोढा स्युर्योगाङ्गानि क्रमेण च । <१. आसनविधिः> चतुरशीतिलक्षाणि ह्यासनानि भवन्ति हि ॥ १,२०.४९ ॥ तेषु मुख्यासने द्वे च सिद्धपद्मासने स्मृते । <सिद्धासनम्> स्वयोनिं पादमूलेन चैकेन घटयेद्दृढम् ॥ १,२०.५० ॥ अन्यच्चरणमूलं च मेहनोपरि विन्यसेत् । अवक्राङ्गः समासीनो वशीभूतेन्द्रियः प्रिये ॥ १,२०.५१ ॥ निश्चलाक्षो भ्रुवोर्मध्यं पश्यन्निश्चलमानसः । सिद्धासनमिदं ज्ञेयं मुक्तिमार्गप्रदायकम् ॥ १,२०.५२ ॥ <पद्मासनम्> दक्षिणोरौ पदं वामं वामोरौ दक्षिणं पदम् । विन्यस्य करयुग्मेन पृष्ठभागगतेन च ॥ १,२०.५३ ॥ विपरीतेन चाङ्गुष्ठं वामं वामकरेण च । दक्षिणं दक्षिणेनैव दृढं धृत्वा निजोरसि ॥ १,२०.५४ ॥ विन्यस्य चुबुकं ध्यायेन्नासाग्रं संयतेन्द्रियः । एतत्पद्मासनं ख्यातं सर्वरोगनिबर्हणम् ॥ १,२०.५५ ॥ <२. प्राणायामः; अजपामुद्रा> आधारं तु गुदस्थाने चतुर्दलसरोरुहम् । वादिसान्ताक्षरोपेतं बालारुणसमप्रभम् ॥ १,२०.५६ ॥ स्वाधिष्ठानं षड्दलाब्जं बादिलान्ताक्षरान्वितम् । विद्युत्प्रभं ततो देवि रत्नाभं मणिपूरकम् ॥ १,२०.५७ ॥ डादिफान्तार्णसंयुक्तं नाभौ दलशतात्मकम् । अनाहतं सुवर्णाभं द्वादशच्छदपङ्कजम् ॥ १,२०.५८ ॥ हृदये कादिठान्तार्णं विशुद्धिस्तु प्रशस्यते । षोडशारं महापद्मं षोडशस्वरभूषितम् ॥ १,२०.५९ ॥ आज्ञाचक्रं द्वयदलं पद्महस्तविराजितम् । श्वेतमेवं क्रमाद्देवि षट्चक्रं समुदाहृतम् ॥ १,२०.६० ॥ नाभेरधस्तान्मेढ्रस्योपरिष्टात्कन्द उच्यते । विहंगमाण्डसङ्काशस्तत्र नाडीसमुद्भवः ॥ १,२०.६१ ॥ सप्ततिद्विसहस्राः स्युस्तासु मुख्या दश स्मृताः । इडा च प्रथमा नाडी पिङ्गला च द्वितीयका ॥ १,२०.६२ ॥ सुषुम्ना च तृतीया स्याद्गान्धारी च चतुर्थिका । पञ्चमी हस्तिजिह्वा स्यात्षष्ठी पूषा तरस्विनी ॥ १,२०.६३ ॥ सप्तम्यलम्बुषा नाडी चाष्टमी च कुहूः स्मृता । नवमी शङ्खिनी चैव दशमी च क्रमेण हि ॥ १,२०.६४ ॥ एतास्तु प्राणवाहिन्यो वायवस्तु जपाः स्मृताः । प्राणापानौ तथा व्यानोदानौ चैव समानकः ॥ १,२०.६५ ॥ नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः । सर्वेषु नाडीचक्रेषु वर्तन्ते दश वायवः ॥ १,२०.६६ ॥ वामदक्षिणमार्गाभ्यामध ऊर्ध्वं च चञ्चलाः । प्राणापानवशो जीवः प्रधावति न दृश्यते ॥ १,२०.६७ ॥ हस्ताभ्यामाहतो भूमौ कन्दुको न स्थिरो यथा । प्राणापानपरिक्षिप्तस्तथा जीवोऽपि न स्थिरः ॥ १,२०.६८ ॥ प्राणापानसमाकर्षे तथा प्राणमपानतः । बहिर्गच्छद्धकारेण सकारेणान्तराविशेत् ॥ १,२०.६९ ॥ हंसः सोऽहं मनुममुं सदा जीवो जपेत्प्रिये । एकविंशत्सहस्रं च षट्शताधिकमीश्वरि ॥ १,२०.७० ॥ हंसमन्त्रस्य संख्या स्यादहोरात्रेण सर्वदा । हंसाख्योऽयं महामन्त्रो ह्यजपेति प्रकीर्तितः ॥ १,२०.७१ ॥ जपाख्येयं च गायत्री यमिकैवल्यदायिनी । एतत्समं तपो ज्ञानं जपः पुण्यं न किंचन ॥ १,२०.७२ ॥ अनुच्चार्या ह्यवर्णा च कुण्डलिन्याः समुद्भवा । प्राणसंचारिणी ह्येषा ज्ञातव्या योगिभिः सदा ॥ १,२०.७३ ॥ माता कुण्डलिनी शक्तिः कन्दादूर्ध्वं प्रतिष्ठिता । अष्टधा परिवृत्ता च प्रसुप्तभुजगाकृतिः ॥ १,२०.७४ ॥ ब्रह्मद्वारमुखं सा तु स्वमुखेन पिधाय च । तां च प्रबोधयेदादौ वह्नियोगेन पार्वति ॥ १,२०.७५ ॥ वायुना मनसा सार्धं मध्यनाड्या व्रजेच्छिवे । हठादाकुञ्चनाद्ब्रह्मद्वारमुद्घाटयेत्तु सा ॥ १,२०.७६ ॥ यथा नयेद्गुणं सूची तद्वद्ब्रह्मबिलं तु सा । सुखं पद्मासनासीनः पाणी चोत्तानितौ प्रिये ॥ १,२०.७७ ॥ अङ्कमध्ये निधायैव चुबुकं वक्षसि न्यसेत् । दृढं गुदमुखं गाढमाकुञ्च्यापानरन्ध्रकम् ॥ १,२०.७८ ॥ मुहुर्मुहुर्वायुमूर्ध्वं चालयेत्त्वरितं प्रिये । प्राणं मुञ्चन्कुण्डलिन्याः प्रभावान्मोक्षवर्त्मजम् ॥ १,२०.७९ ॥ उपैति सत्प्रबोधं च देवानामपि दुर्लभम् । तदोद्भूतैः श्रमजलैः स्वाङ्गानि परिमार्जयेत् ॥ १,२०.८० ॥ क्षीराहारी मितान्नाशी कट्वम्ललवणं त्यजेत् । जितेन्द्रियो ब्रह्मचारी कुटीस्थः कर्मवर्जितः ॥ १,२०.८१ ॥ एवमभ्यासनिरतो वत्सरात्सिद्धिमेति सः । <प्राणायामे मुद्राः> जालन्धरं मूलबन्धमोड्डीयाणं च खेचरीम् ॥ १,२०.८२ ॥ महामुद्रां च यः कुर्यात्स भवेद्देहसिद्धिभाक् । एषां वक्ष्ये लक्षणानि गोप्यानि तव शाम्भवि ॥ १,२०.८३ ॥ <जालन्धरबन्धः> जालन्धरं कण्ठसिरासमूहानां च बन्धनम् । कृत्वाधो नमयित्वा कं तदा स्यन्दति मूर्धतः ॥ १,२०.८४ ॥ नभस्तः स्यन्दमाना च सुधा दोग्धौ पतेन्न च । न धावति मरुत्तत्र कर्णसंकोचने कृते ॥ १,२०.८५ ॥ कर्णामयसमूहघ्नं मृत्युघ्नं तत्परं भवेत् । <मूलबन्धः> मूलबन्धं पार्ष्णिभागाद्योनिस्थानं प्रपीडयेत् ॥ १,२०.८६ ॥ गुदमाकुञ्चयेद्योगी नयेदूर्ध्वमपानकम् । एवं कृते मूलबन्धे क्षीयते मलमूलकम् ॥ १,२०.८७ ॥ प्राणापानौ च संयुक्तौ स्यातां वृद्धोऽपि यौवनम् । प्राप्नुयान्मूलबन्धेन मृत्युथोपि विवस्वताम् ॥ १,२०.८८ ॥ <ओड्याणबन्धः> ओड्डियाणे नाभिविवरमूर्ध्वं जठरे दृढम् । आकृष्य पश्चिमं तानं बन्धयेत्पवनस्तदा ॥ १,२०.८९ ॥ विश्रान्तः स्यान्महामाये चोड्याणोऽयं प्रकीर्तितः । मृत्युदावानलो दीप्तो जरारोगाब्धिवाडबः ॥ १,२०.९० ॥ <खेचरीमुद्रा> आस्यान्तर्विवरे जिह्वां तालुरन्ध्रे प्रवेशयेत् । विपरीतां भ्रुवोर्मध्ये पश्येन्निश्चलया दृशा ॥ १,२०.९१ ॥ एषा हि खेचरी मुद्रा गोपनीयातिदुर्लभा । जिह्वा तु खगता यस्मान्मनश्चरति खे ततः ॥ १,२०.९२ ॥ खेचरीति प्रसिद्धेयं मृत्युरोगजरापहा । निद्रा क्षुधा तृषा नास्ति खेचर्या मुद्रितस्य च ॥ १,२०.९३ ॥ मूर्च्छा भवति साध्वी च कर्मबन्धभयं न हि । रमण्या संगतस्यापि रेतो न पतति ध्रुवम् ॥ १,२०.९४ ॥ यावच्छुक्रं स्थिरं देहे तावत्कालभयं न हि । येन बद्धा नभोमुद्रा बीजस्तस्य न गच्छति ॥ १,२०.९५ ॥ यदि गच्छेत्तस्य बीजो हुताशनमुपैति हि । स बीजश्चोर्ध्वमायाति शक्त्या प्रतिहतः स्वयम् ॥ १,२०.९६ ॥ योनिमुद्रानिबद्धः सन्सा मुद्रा तेन दुर्लभा । बीजस्तु द्विविधः प्रोक्तः शुक्रं चैव महारजः ॥ १,२०.९७ ॥ शिरःस्थानगतं शुक्रं योनिस्थानगतं रजः । शुक्रं तु श्वेतवर्णं स्यात्प्रवालाभं रजः स्मृतम् ॥ १,२०.९८ ॥ शुक्रं चन्द्रगतं नित्यं रजः सूर्येण सङ्गतम् । शुक्रं शिवो रजः शक्तिस्तया योगः सुदुर्लभः ॥ १,२०.९९ ॥ मरुता शक्तिचारेण रजश्चोर्ध्वं प्रणीयते । ऐक्यं तद्बिन्दुना याति तदा दिव्यं वपुर्भवेत् ॥ १,२०.१०० ॥ <महामुद्रा> वामाङ्घ्रिमूलभागेन योनिस्थानं प्रपीडयेत् । दक्षिणाङ्घ्रिं च विततं हस्ताभ्यामभिधारयेत् ॥ १,२०.१०१ ॥ हनुं वक्षसि निक्षिप्य वायुना जठरं ततः । आपूर्य रेचयेद्देवि स्थित्वा बद्धासनो यमी ॥ १,२०.१०२ ॥ एषा ख्याता महामुद्रा मलसंशोधनी वरा । सूर्येन्दू घटयेज्जिह्वाशोषणी पापनाशिनी ॥ १,२०.१०३ ॥ तथा दक्षिणपादेन योनिस्थानं प्रपीडयेत् । वितत्य वामपादं च कराभ्यां धारयेत्प्रिये ॥ १,२०.१०४ ॥ शेषं पूर्वोक्तवत्कुर्यादेवं सव्यापसव्ययोः । भागयोः समकालः स्यादभ्यासस्तां विवर्जयेत् ॥ १,२०.१०५ ॥ तस्य पथ्यमपथ्यं च षड्रसा नीरसा अपि । घोरं विषं वातिसुखं पीयूषमिव जीर्यते ॥ १,२०.१०६ ॥ गुल्मोदावर्तकुष्ठाद्या रोगा नश्यन्त्यसंशयम् । सिद्धिदेयं महामुद्रा कालं हन्ति जराभयम् ॥ १,२०.१०७ ॥ न प्रकाश्या न देया च यस्मै कस्मैचन प्रिये । <३. प्रत्याहारः> मुक्तासनस्थितो योगी ऋज्वङ्गग्रीवमस्तकः ॥ १,२०.१०८ ॥ घोणाग्रलोचनः स्वस्थः कुटीस्थः प्रणवं जपेत् । त्रिलोकश्च त्रिकालश्च त्रिदेवास्त्रीश्वरा अपि ॥ १,२०.१०९ ॥ त्रिज्योतींषीन्दुमुख्यानि त्रिवेदाश्चाग्नयस्त्रयः । शक्तित्रयं त्रिपदवी ब्राह्मी चैन्द्री च वैष्णवी ॥ १,२०.११० ॥ वर्णत्रयं च भासन्ते यत्र तज्ज्योतिरोमिति । तमोंकारं च मनसा वचसा कर्मणा तु यः ॥ १,२०.१११ ॥ ध्यायेज्जपेदभ्यसेच्च स मुक्तो भवबन्धनात् । गच्छंस्तिष्ठञ्जपञ्जाग्रच्छुचिर्वाप्यशुचिर्यदि ॥ १,२०.११२ ॥ न कर्मणा च लिप्तः स्याज्जलेनाब्जदलं यथा । वायौ चलति सर्वेऽपि चलन्तीन्द्रियधातवः ॥ १,२०.११३ ॥ स्थिते वायौ स्थिरे सर्वं वपुःप्रभृति शाम्भवि । तस्माद्वायुं निबध्नीयात्स्थिरे वाते स्थिरं मनः ॥ १,२०.११४ ॥ स्थिरे मनसि जीवश्च स्थिरो भवति भैरवि । यावत्संयमितो वायुर्यावच्चेतोऽपि सुस्थिरम् ॥ १,२०.११५ ॥ बीजं यावद्भ्रुवोर्मध्ये तावत्कालभयं न हि । षट्त्रिंशद्व्यङ्गुलं नित्यं ततः प्राणः प्रकीर्तितः ॥ १,२०.११६ ॥ बद्धपद्मासने स्थित्वा ऋज्वङ्गः स्थिरमानसः । वामनासापुटेनैव पूरयेत्प्राणमारुतम् ॥ १,२०.११७ ॥ यावत्षोडशमात्रं च कुम्भयेद्द्वादश प्रिये । रेचयेद्दशमात्रं च दक्षनासापुटेन च ॥ १,२०.११८ ॥ पुनश्च सूर्यमार्गेण पूरयेत्पूर्ववत्प्रिये । कुम्भयित्वा रेचयेच्च वामनासापुटेन च ॥ १,२०.११९ ॥ प्राणायामविधिः प्रोक्तस्त्रिविधो योगिवन्दिते । अधमो मध्यमो देवि ह्युत्तमोऽपि यथाक्रमम् ॥ १,२०.१२० ॥ प्रोक्तोऽयमधमस्तस्माद्द्विगुणो मध्यमः स्मृतः । उत्तमस्त्रिगुणः प्रोक्तः प्राणायामोऽयमीश्वरि ॥ १,२०.१२१ ॥ यदा तु वामनासायां पूरयेच्चन्द्रमक्षरम् । ध्यायेदमृतवारीशमध्यस्थं क्षीरसन्निभम् ॥ १,२०.१२२ ॥ यदा तु दक्षनासायां पूरयेत्सूर्यमक्षरम् । ज्वलज्ज्वलनसङ्काशं नाभिस्थं चिन्तयेत्सदा ॥ १,२०.१२३ ॥ एवं बीजद्वयं ध्यात्वा नासारन्ध्रद्वयेन च । पूरयेद्यस्तु मतिमान्नाडीशुद्धिरतो भवेत् ॥ १,२०.१२४ ॥ एवं मासत्रयाभ्यासाद्यथेष्टं वायुधारणम् । प्रदीप्तो जाठरो वह्निर्नादव्यक्तिश्च जायते ॥ १,२०.१२५ ॥ आरोग्यं प्राप्नुयाद्देवि नित्यमभ्यासयोगतः । प्रथमेयं न धर्मः स्याद्द्वितीये कम्पते वपुः ॥ १,२०.१२६ ॥ उत्तिष्ठति तृतीये तु बद्धपद्मासनस्थितेः । प्राणायामादिषट्केन प्रत्याहारो भवेच्छिवे ॥ १,२०.१२७ ॥ तद्द्विषट्केन विधिना धारणा तु प्रशस्यते । धारणाद्वादशेन स्याद्ध्यानं तद्द्वादशात्मकः ॥ १,२०.१२८ ॥ समाधिः कथ्यते देवि तेन दृश्यं परात्परम् । तस्मिन्परापरे धाम्नि क्षीयते कर्मसंचयः ॥ १,२०.१२९ ॥ जन्ममृत्यू न भवतो जरारोगश्च नश्यति । युक्तियुक्तेन योगेन चिरायुश्च सुखी भवेत् ॥ १,२०.१३० ॥ अयुक्त्याभ्यासनाद्धिक्काकर्णरोगशिरोव्यथा । श्वासकासादयो रोगा दोषाः स्युर्बहवस्तथा ॥ १,२०.१३१ ॥ <विपरीतकरणीमुद्रा> सौम्यस्थानात्समायाता द्वाभ्यां चैका तु भुज्यते । ततस्तृतीयो यः कश्चित्स स्याज्जन्मजरोज्झितः ॥ १,२०.१३२ ॥ प्रज्वलज्ज्वलनाकारो नाभिमध्ये स्थितो रविः । तालुमध्ये शशी भाति सुधां वर्षत्यधोमुखः ॥ १,२०.१३३ ॥ तां ग्रसत्यूर्ध्ववदनो भास्करः किरणत्विषा । एतस्य विपरीतं यत्करणं विपरीतकम् ॥ १,२०.१३४ ॥ काकचञ्चुवदास्यं च कृत्वा वायुं ससूत्कृतम् । आदाय नासारन्ध्रेण पुनस्तं श्वसनं त्यजेत् ॥ १,२०.१३५ ॥ शीतलीकरणाख्योऽयं योगस्तु ज्वरपित्तहृत् । अमृतं शीतलं तस्य पिबतश्च जरा न हि ॥ १,२०.१३६ ॥ जिह्वया तालुमूलेन प्राणं यः पिबति प्रिये । तस्य षण्मासतः सर्वे रोगा नश्यन्ति योगिनः ॥ १,२०.१३७ ॥ रसनामूर्ध्वतः कृत्वा सोमं पिबति यः प्रिये । सिद्धिर्मासार्ध आयाति रोगास्तस्य न सन्ति हि ॥ १,२०.१३८ ॥ जिह्वाग्रेण च संपीड्य रसनान्तर्बिलं महत् । ध्यात्वामृतझरीमम्बामर्धाब्देन भवेत्कविः ॥ १,२०.१३९ ॥ अमृताप्लाविततनोर्योगिनो वत्सरत्रयात् । रेतश्चोर्ध्वं प्रयात्येव सिध्यन्ति ह्यणिमादयः ॥ १,२०.१४० ॥ त्रिविधं गरलं तस्य शरीरे च न संक्रमेत् । जरा च मरणं नास्ति दुष्टसत्त्वभयं तथा ॥ १,२०.१४१ ॥ <४. धारणम्> उक्तासनसमारूढः प्राणायामरतः सदा । प्रत्याहारप्रसन्नः सन्नभ्यसेद्धारणं ततः ॥ १,२०.१४२ ॥ चेतसो निश्चलत्वं यद्धारणा सा स्मृता शिवे । पृथ्व्यादिपञ्चभूतानां या पृथग्धारणा हृदि ॥ १,२०.१४३ ॥ चतुरश्रा सुवर्णा सलकारा च हृदि स्थिता । ब्रह्मणा सहिता भूमिर्ध्यातव्या पञ्च नाडिकाः ॥ १,२०.१४४ ॥ प्राणं तत्रैव मनसा धारयेत्सह शांभवि । एषा स्तम्भकरी विद्या पृथ्वीजयमवाप्नुयात् ॥ १,२०.१४५ ॥ अर्धचन्द्रप्रतीकाशं कर्पूरहिमनिर्मलम् । कण्ठस्थानगतं नित्यं सुधाप्लुतवकारयुक् ॥ १,२०.१४६ ॥ जलतत्त्वं च संयुक्तं विष्णुना तत्र धारयेत् । प्राणं चित्तेन सहितं ध्यातव्यं पञ्चनाडिकाः ॥ १,२०.१४७ ॥ एषा हि वारुणी विद्या विषपित्तज्वरापहा । ग्रसने कालकूटस्य मयैव परिकल्पिता ॥ १,२०.१४८ ॥ त्रिकोणं तप्तहेमाभं सरेफं रुद्रदैवतम् । तालुस्थानगतं ध्यायेद्वह्नितत्त्वं ज्वलत्प्रभम् ॥ १,२०.१४९ ॥ तत्रैव पञ्चघटिकाः प्राणं च मनसा सह । धारयेन्निहितं योगी ह्येषा वैश्वानरी परा ॥ १,२०.१५० ॥ विषाग्निभीतिसंहर्त्री वातश्लेष्मादिरोगहृत् । वर्तुलं नीलमेघाभं भ्रुवोर्मध्ये प्रतिष्ठितम् ॥ १,२०.१५१ ॥ सयकारं वायुतत्त्वं नित्यमीश्वरदैवतम् । तत्रैव नाडिकाः पञ्च प्राणं च मनसा सह ॥ १,२०.१५२ ॥ धारयेद्वायवीयैषा विद्या खगतिदायिनी । मृगतृष्णाम्बुसङ्काशं हकारेण समन्वितम् ॥ १,२०.१५३ ॥ सदाशिवादिदैवं च ब्रह्मरन्ध्रगतं सदा । व्योमतत्त्वं निराकाशं शान्तं सर्वगतं प्रिये ॥ १,२०.१५४ ॥ तत्र प्राणं च संयम्य मनसा सह धारयेत् । यावत्स्युः पञ्च घटिका नभोविद्येयमीश्वरि ॥ १,२०.१५५ ॥ कथिता मोक्षदा देवि योगिनां दुःखहारिणी । स्तम्भनी पार्थिवी विद्या प्लावनी वारुणी मता ॥ १,२०.१५६ ॥ ततो वैश्वानरी विद्या दाहिनीति प्रकीर्तिता । वायवी भ्रामणी प्रोक्ता शमनी व्योमरूपिणी ॥ १,२०.१५७ ॥ क्रमशः पञ्चविद्याश्च धारणीयाः पृथक्पृथक् । स्वनामकर्मसदृशं फलं ददति योगिनाम् ॥ १,२०.१५८ ॥ एषा पञ्चविधा देवि धारणा भुवि दुर्लभा । <५. ध्यानम्> तत्त्वेषु निश्चला चिन्ता या तद्ध्यानं प्रकीर्त्यते ॥ १,२०.१५९ ॥ ध्यानं द्विधेति विख्यातं सगुणं निर्गुणं प्रिये । सगुणं वर्णसहितं निर्गुणं वर्णवर्जितम् ॥ १,२०.१६० ॥ लक्षं च वाजपेयानामश्वमेधसहस्रकम् । सकृद्ध्यानस्य योगस्य कलां नार्हन्ति षोडशीम् ॥ १,२०.१६१ ॥ प्रत्यङ्मना बहिर्दृष्टिरृजुः पद्मासनस्थितः । ध्यानयोगः स विज्ञेयः सद्यः सिद्धिप्रदः शुभः ॥ १,२०.१६२ ॥ मूलाधारे सुवर्णाभे चक्रेऽस्मिन्प्रथमे प्रिये । ध्यात्वात्मानं च नासाग्रे लक्षयेद्धन्ति किल्बिषम् ॥ १,२०.१६३ ॥ स्वाधिष्ठाने च रत्नाभे ह्यात्मानं परिचिन्तयेत् । नासाग्रलक्षो दुःखेभ्यो मुच्यते योगिसत्तमः ॥ १,२०.१६४ ॥ बालारुणाभे चात्मानं चक्रेऽस्मिन्मणिपूरके । स्मृत्वा नासाग्रदृष्टिः संस्त्रिजगत्क्षोभयेद्यमी ॥ १,२०.१६५ ॥ विद्युन्मालानिभे चक्रेऽनाहते हृदयस्थले । प्राणायामेन बहुधा साधिते परमेश्वरि ॥ १,२०.१६६ ॥ आत्मानं चिन्तयेद्यस्तु नासाग्रगतलोचनः । भवेद्ब्रह्मसमो योगी वशीकृतमनाः प्रिये ॥ १,२०.१६७ ॥ घण्टिकायां विशुद्धाख्ये स्वर्णचम्पकसन्निभे । घ्राणाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥ १,२०.१६८ ॥ लम्बिकायां सुधापूर्णे चन्द्रमण्डलमण्डिते । नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥ १,२०.१६९ ॥ भ्रुवोर्मध्येऽञ्जनाकारे ध्यायेदात्मानमीश्वरि । जितप्राणो भवेद्योगी योगानन्दमयो भवेत् ॥ १,२०.१७० ॥ निर्गुणं निरपायं च शिवं शान्तं परात्परम् । विश्वतैजसमात्मानं ध्यायेद्भ्रूमध्यलोचनः ॥ १,२०.१७१ ॥ ब्रह्मानन्दमयो योगी भवत्येव न संशयः । आज्ञाचक्रमिति ख्यातं परे व्योम्नि निरामये ॥ १,२०.१७२ ॥ शिवमात्मानमाचिन्त्य भवेज्ज्ञानमयो वशी । गगनाकारममलं मृगतृष्णाम्बुसन्निभम् ॥ १,२०.१७३ ॥ ध्यात्वात्मानं सर्वगतं मोक्षं व्रजति संयमी । अपानमेढ्रौ नाभिश्च हृदयं घण्टिका तथा ॥ १,२०.१७४ ॥ लम्बिका च भ्रुवोर्मध्यं नभश्च ब्रह्मरन्ध्रकम् । तव चक्रमिति ख्यातं देयं स्थानं च योगिनाम् ॥ १,२०.१७५ ॥ धारणा पञ्चघटिका षण्णाडी ध्यानमुच्यते । समाधिर्द्वादशाहं स्यात्प्राणसंयमनात्प्रिये ॥ १,२०.१७६ ॥ <६. समाधिः> जलसैन्धवयोर्योगादेकत्वं च यथा भवेत् । चित्तात्मनोः सामरस्यं समाधिः स तु कथ्यते ॥ १,२०.१७७ ॥ मनः प्रलीयते चान्ते यदा प्राणक्षयो भवेत् । सामरस्यं तदा स्याच्च समाधिः स तु कथ्यते ॥ १,२०.१७८ ॥ प्रणष्टाखिलसङ्कल्पो जीवात्मा परमात्मना । यदेकत्वं भजेद्देवि समाधिः स तु कथ्यते ॥ १,२०.१७९ ॥ परापेक्षोज्झितं चित्तमिन्द्रियेषु प्रवर्तते । यदा जीवो गतश्चैक्यं तदा नैवेन्द्रियं मनः ॥ १,२०.१८० ॥ शब्दं स्पर्शं च रूपं च रसं गन्धं परं तथा । आत्मानं च सुखं दुःखं मानामानं प्रियाप्रिये ॥ १,२०.१८१ ॥ शीताशीतं तथा वातमातपं यो न वेत्ति च । न बाध्यते स्वकर्मौघैर्न कैश्चिदपि बाध्यते ॥ १,२०.१८२ ॥ न शस्त्रैर्बाध्यते मन्त्रैर्यन्त्रैस्तन्त्रैर्न गृह्यते । नाग्निना न जलेनापि वायुना न च पीड्यते ॥ १,२०.१८३ ॥ अवध्यो देहिभिः सर्वैर्माननीयः सुरैरपि । आहारे च विहारे च निद्रायामवबोधने ॥ १,२०.१८४ ॥ सर्वकर्मसु युक्तः सन्स तत्त्वं वेत्ति योगिनि । निरालम्बं निराकारमनाद्यन्तं निराश्रयम् ॥ १,२०.१८५ ॥ अनालयं निष्प्रपञ्चं निष्क्रियं निर्मलं महत् । निश्चलं निर्मलं नित्यं निर्गुणं व्योम चिन्मयम् ॥ १,२०.१८६ ॥ सदानन्दमनन्तं च सर्वगं विभु संततम् । एतद्ब्रह्मपदं तत्त्वं विद्धि त्वं विन्ध्यवासिनि ॥ १,२०.१८७ ॥ अनामये निरालम्बे निरातङ्के महाद्युतौ । निराभासे परे तत्त्वे योगयुक्तः प्रलीयते ॥ १,२०.१८८ ॥ दुग्धे दुग्धं घृते चाज्यमग्नावग्निर्जले जलम् । क्षिप्तं व्रजेत्तन्मयत्वं तथा ब्रह्मणि लीयते ॥ १,२०.१८९ ॥ <योगाभ्यासफलम्> मयोदितमिदं सर्वं दिव्यवायुरसायनम् । यः सेवेत स पुण्यात्मा कृतकृत्यो जगत्त्रये ॥ १,२०.१९० ॥ सर्वयज्ञफलोपेतः स स्नातः सर्वतीर्थके । स यशस्वी स योगीन्द्रः स एवामरवन्दितः ॥ १,२०.१९१ ॥ स एव सिद्धः शुद्धश्च मम तुल्यो वरानने । तस्मिन्स्निह्यति मे चेतस्तच्चित्तं मे निवासभूः ॥ १,२०.१९२ ॥ सफलं जीवितं तस्य पूतं तदुभयं कुलम् । तत्पदन्यासमात्रेण धरित्री पावनीकृता ॥ १,२०.१९३ ॥ यत्रोषितं क्षणं तेन पुण्यक्षेत्रं हि सा मही । धन्या तज्जनयित्री च पुण्यस्तज्जनकः प्रिये ॥ १,२०.१९४ ॥ तद्दर्शनात्सजीवाः स्युः शूलप्रोतादयः शवाः । तद्वाक्येनैव सर्वेऽपि लभन्तेऽपि शुभाशुभम् ॥ १,२०.१९५ ॥ तन्मूत्रमलसंस्पर्शाल्लोहा यान्ति सुवर्णताम् । किं पुनः कथ्यते देवि मम तुल्यपराक्रमः ॥ १,२०.१९६ ॥ आक्, १, २१ <योगसिद्धिदकुटीनिर्माणविधिः> श्रीभैरवी । कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी । तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो ॥ १,२१.१ ॥ श्रीभैरवः । वक्ष्यामि तां कुटीं सम्यक्शृणु त्रिपुरसुन्दरि । मेदिनीमुन्नतीकृत्य पुनस्तां सुहृदं प्रिये ॥ १,२१.२ ॥ स्तंभांश्च क्रमशः षट्षट्पङ्क्तिशः स्थापयेदृजून् । तुला उपरि चारोप्य दारूणि सुदृढानि च ॥ १,२१.३ ॥ स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् । परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभाम् ॥ १,२१.४ ॥ कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः । निखनेच्चतुरश्रं च दशप्रादेशमात्रकम् ॥ १,२१.५ ॥ पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः । एवं दशवितस्त्याभिरचिन्त्यां तां मनोहराम् ॥ १,२१.६ ॥ प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे । याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते ॥ १,२१.७ ॥ द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते । सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितम् ॥ १,२१.८ ॥ सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलम् । दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयम् ॥ १,२१.९ ॥ सार्धत्रयं वितस्तीनां विशालं चायतं दश । प्रादेशमात्रमुत्सेधं मध्यं प्रादेशिकत्रयम् ॥ १,२१.१० ॥ तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितम् । पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरम् ॥ १,२१.११ ॥ भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहम् । फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितम् ॥ १,२१.१२ ॥ नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनम् । दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहम् ॥ १,२१.१३ ॥ हारकेयूरकटकमुद्रिकादिविभूषितम् । दशहस्तं च डमरुमङ्कुशं खड्गशूलकम् ॥ १,२१.१४ ॥ वरदं सव्यहस्ताब्जैर्नागं पाशं च घण्टिकाम् । मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः ॥ १,२१.१५ ॥ कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनम् । व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनम् ॥ १,२१.१६ ॥ ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये । पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितम् ॥ १,२१.१७ ॥ किङ्किणीमालया बद्धकर्णनूपुरशोभितम् । बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणम् ॥ १,२१.१८ ॥ श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः । दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनम् ॥ १,२१.१९ ॥ मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् । आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयम् ॥ १,२१.२० ॥ वटुकायेति मायां च वटुकस्य मनुः स्मृतः । मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते ॥ १,२१.२१ ॥ मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् । रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात् ॥ १,२१.२२ ॥ कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितम् । अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके ॥ १,२१.२३ ॥ बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् । द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान् ॥ १,२१.२४ ॥ अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः । आपदुद्धारणं यन्त्रमपमृत्युनिवारणम् ॥ १,२१.२५ ॥ रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि । स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकम् ॥ १,२१.२६ ॥ नानासिद्धिप्रदं नित्यं सर्वरोगविषापहम् । हारकेयूररुचिरं कान्त्या विश्वविमोहनम् ॥ १,२१.२७ ॥ महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् । एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च ॥ १,२१.२८ ॥ स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः । रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः ॥ १,२१.२९ ॥ प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् । तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत् ॥ १,२१.३० ॥ आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् । बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत् ॥ १,२१.३१ ॥ चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकम् । अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनम् ॥ १,२१.३२ ॥ तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् । नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननम् ॥ १,२१.३३ ॥ पाशारुणोत्पलं वामे दक्षे शूलकपालकौ । दधानमिन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरम् ॥ १,२१.३४ ॥ वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः । प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः ॥ १,२१.३५ ॥ इदं चिन्तामणेर्मन्त्रं चिन्तितार्थप्रदं शुभम् । षोडशस्वरसंवीतं चिन्तामणिमभीष्टदम् ॥ १,२१.३६ ॥ ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहम् । ततश्च शारदादेवीमालिखेत्सिद्धिदायिनीम् ॥ १,२१.३७ ॥ शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधराम् । सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः ॥ १,२१.३८ ॥ बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलाम् । वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः ॥ १,२१.३९ ॥ वाग्वादिनीं ससम्बुद्धिमग्निपत्नीं समुच्चरेत् । एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः ॥ १,२१.४० ॥ आदिबीजद्वयं हित्वा शेषं पूर्ववदुच्चरेत् । दशार्णशारदामन्त्रो वाग्विलासप्रदायकः ॥ १,२१.४१ ॥ वियद्वर्णसुकारं च सद्यान्तं सविसर्गकम् । कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि ॥ १,२१.४२ ॥ अष्टच्छदेष्वष्टवर्गान्यशहाद्यैः परैस्त्रिभिः । काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः ॥ १,२१.४३ ॥ लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् । इदं हि मातृकायन्त्रं विषमृत्युगदापहम् ॥ १,२१.४४ ॥ अघोरं विलिखेद्देवि नीलजीमूतसन्निभम् । क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितम् ॥ १,२१.४५ ॥ रक्ताङ्गरागवसनं रक्तमालाविराजितम् । परश्वथुं च डमरुं खड्गं खेटमिषुं धनुः ॥ १,२१.४६ ॥ त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः । भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितम् ॥ १,२१.४७ ॥ घोरं ततोऽघोरतरं तनुरूपं चटद्वयम् । प्रकटद्विगुणं चैव कहशब्दयुगं ततः ॥ १,२१.४८ ॥ वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितम् । घातयद्वितयं देवि कवचं च फडन्तकम् ॥ १,२१.४९ ॥ एकोत्तरोऽयं पञ्चाशदर्णोऽघोरः स्मृतो मनुः । वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतम् ॥ १,२१.५० ॥ मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहम् । सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये ॥ १,२१.५१ ॥ मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतम् । तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकम् ॥ १,२१.५२ ॥ ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान् लिखेत् । अग्रशेषेषु तद्वत्तत्षट्कोणे कवचास्त्रकौ ॥ १,२१.५३ ॥ तद्बहिर्भूपुरं लेख्यमेनदाघोरयन्त्रकम् । स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः ॥ १,२१.५४ ॥ षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् । षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः ॥ १,२१.५५ ॥ ऋतुभिः शिष्टमन्त्रार्णैरमीभिर्विलिखेत्ततः । षट्कोणे वह्निचास्त्राभ्यामुद्धृतं वीतकोणकम् ॥ १,२१.५६ ॥ भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये । व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहम् ॥ १,२१.५७ ॥ अथो महागणपतिं लिखेद्विद्रुमसन्निभम् । कोटीरचन्द्रशकलं गजास्यं लोचनत्रयम् ॥ १,२१.५८ ॥ तुन्दिलं रक्तवसनं रक्तमालानुलेपनम् । दशदोर्दण्डसुभगं वामोरुस्थितयोषितम् ॥ १,२१.५९ ॥ हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलम् । फलपूरं गदामिक्षुकोदण्डं च त्रिशूलकम् ॥ १,२१.६० ॥ चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीम् । स्वदन्ततुण्डया रत्नकलशं दशभिः करैः ॥ १,२१.६१ ॥ बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया । आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमम् ॥ १,२१.६२ ॥ प्रणवं कमलां मायां कामराजं वसुंधराम् । क्रमाद्गणपतेर्बीजं महागणपतिं ततः ॥ १,२१.६३ ॥ चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा । ततः सर्वजनं मे च वशमानय शब्दकम् ॥ १,२१.६४ ॥ अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकम् । मन्त्रं महागणपतेर्मृत्युदारिद्र्यनाशनम् ॥ १,२१.६५ ॥ त्रिकोणे बीजमालिख्य सतारे च गणेशितुः । दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत् ॥ १,२१.६६ ॥ षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकम् । ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत् ॥ १,२१.६७ ॥ अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः । लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः ॥ १,२१.६८ ॥ भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभम् । गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनम् ॥ १,२१.६९ ॥ एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् । कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत् ॥ १,२१.७० ॥ असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् । कपालिनं भीषणं च संहारं भैरवं क्रमात् ॥ १,२१.७१ ॥ द्वितीयावरणस्यान्तर्भित्तावेकादश क्रमात् । रुद्रांस्त्रिलोचनांश्चन्द्रकलाजूटजटान् लिखेत् ॥ १,२१.७२ ॥ तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश । सनत्कुमारसनकसनन्दादीन् लिखेत्ततः ॥ १,२१.७३ ॥ तृतीयावरणस्यान्तर्भित्तौ ब्राह्म्यादिमातरः । चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि ॥ १,२१.७४ ॥ तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् । ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः ॥ १,२१.७५ ॥ मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः । कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत् ॥ १,२१.७६ ॥ द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ । गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च ॥ १,२१.७७ ॥ द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ । यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः ॥ १,२१.७८ ॥ देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनम् । तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः ॥ १,२१.७९ ॥ राष्ट्रं सुभिक्षमारोग्यमनामयसुखावहम् । ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलम् ॥ १,२१.८० ॥ तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितम् । तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च ॥ १,२१.८१ ॥ इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः । योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः ॥ १,२१.८२ ॥ तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः । सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलम् ॥ १,२१.८३ ॥ वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् । कुष्ठापस्मारभूतादिमहाव्याधिविनाशनम् ॥ १,२१.८४ ॥ कुटीगता भवेयुस्ते ये सेवन्ते रसायनम् । सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभाम् ॥ १,२१.८५ ॥ <अमरीकल्पः> देवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवम् । अमरीकल्पमनघं सुलभं निजदेहजम् ॥ १,२१.८६ ॥ अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदम् । वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः ॥ १,२१.८७ ॥ कुटीगतस्तु देवेशि शिवतोयमुदारधीः । स्थूलस्य कतकस्यैव दारुणा पानपात्रकम् ॥ १,२१.८८ ॥ कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे । कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये ॥ १,२१.८९ ॥ स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् । मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः ॥ १,२१.९० ॥ लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा । इष्टदेवान्गुरून्वृद्धान्नत्वार्चितगणेश्वरः ॥ १,२१.९१ ॥ मिताहारो युक्तचेष्टो वातातपविवर्जितः । एकमण्डलमात्रेण बाह्यान्तः शुचिभाग्भवेत् ॥ १,२१.९२ ॥ मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनम् । मण्डलेन तृतीयेन चतुर्विधविषापहम् ॥ १,२१.९३ ॥ मण्डलेन चतुर्थेन नालिकेराम्बुवद्भवेत् । आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनम् ॥ १,२१.९४ ॥ षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनम् । सप्तमण्डलयोगेन भवेदिन्द्रियपाटवम् ॥ १,२१.९५ ॥ ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् । सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलम् ॥ १,२१.९६ ॥ वलीपलितहीनः स्यान्महाविषभयोज्झितः । मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ ॥ १,२१.९७ ॥ शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिम् । मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः ॥ १,२१.९८ ॥ द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतम् । एवं भजेद्यमी यावदष्टाविंशतिमण्डलम् ॥ १,२१.९९ ॥ मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः । एकोनत्रिंशति प्राप्ते मण्डले वरया युताम् ॥ १,२१.१०० ॥ सकान्तचूर्णविमलां गोधामपि पिबेत्प्रिये । पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः ॥ १,२१.१०१ ॥ षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितम् । आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकम् ॥ १,२१.१०२ ॥ चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् । त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतम् ॥ १,२१.१०३ ॥ वरायुतं पिबेदूनपञ्चाशन्मण्डलावधिः । अणिमादिगुणोपेतो वज्रकायश्च खेचरः ॥ १,२१.१०४ ॥ सिद्धैर्युक्तो निरातङ्को निरपायो निरञ्जनः । यदृच्छया सर्वलोके विहरत्येव सर्वदा ॥ १,२१.१०५ ॥ आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् । आत्मतोयेन धुत्तूररसेन परिलोडयेत् ॥ १,२१.१०६ ॥ भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् । अन्यकालसमायातमात्मतोयं विशेषतः ॥ १,२१.१०७ ॥ मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये । शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः ॥ १,२१.१०८ ॥ कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये । अमरीसेविनः पुंसः शिवतोयेन जायते ॥ १,२१.१०९ ॥ सर्वलोहं च कनकं दिव्यं मनुजदुर्लभम् । विजयासहितां गोधां प्रतिवासरमापिबेत् ॥ १,२१.११० ॥ आक्, १, २२ <वन्दाककल्पः> वन्दाको द्विविधः प्रोक्तः पुरुषस्त्रीविभेदतः । खर्जूरीपत्रवत्पत्रः पुरुषः सर्वसिद्धिदः ॥ १,२२.१ ॥ स्त्रीसंज्ञस्तु गुणैरल्पो वृत्तपत्रः प्रतापवान् । वन्दाकः पादपरुहः शिखरी तरुरोहिणी ॥ १,२२.२ ॥ वृक्षादनी कामिनी च वृक्षरुग्बन्धबन्धकम् । वन्दाकस्तिक्ततुवरः कफपित्तश्रमापहः ॥ १,२२.३ ॥ वश्यादिसिद्धिदो वृष्यो विषघ्नश्च रसायनम् । <वन्दाकाहरणविधिः> कृतोपवासः सुस्नातो रक्तमाल्यानुलेपनः ॥ १,२२.४ ॥ मुक्तकेशाम्बरो भूत्वा रात्रौ संयतमानसः । वृक्षं प्रदक्षिणं कृत्वा गन्धपुष्पाक्षतादिभिः ॥ १,२२.५ ॥ पूजाद्रव्यैः समभ्यर्च्य बलिं दध्योदनैः किरेत् । चिन्तामणिं नृसिंहं च मनुमष्टोत्तरं शतम् ॥ १,२२.६ ॥ जप्त्वा खड्गेन संछिद्य वन्दाकं विधिनाहरेत् । वन्दाकानां तु सर्वेषां विधिरेष उदाहृतः ॥ १,२२.७ ॥ अश्विन्यां शुचिरश्वत्थवन्दाकं विधिनाहृतम् । क्षीरेण पिष्टमालोड्य पिबेदश्वबलो भवेत् ॥ १,२२.८ ॥ तथैवाश्वत्थवन्दाकमुपरागेऽर्कचन्द्रयोः । नृसिंहमन्त्रं प्रजपन् खड्गेनाच्छिद्य चाहरेत् ॥ १,२२.९ ॥ घृष्ट्वांभसा प्रकोष्ठेण लिप्त्वा गोरोचनान्वितम् । विधाय तिलकं पश्येत्सर्ववश्यो भवेद्ध्रुवम् ॥ १,२२.१० ॥ न्यग्रोधस्य तु वन्दाकमश्विन्यां विधिनाहरेत् । सूत्रेण बन्धयेद्धस्ते ह्यदृश्यो जायते नरः ॥ १,२२.११ ॥ सर्ववश्यं भवेत्क्षीरैः पिष्ट्वा पाने गदाञ्जयेत् । अश्विन्यां तु शिरीषस्य वन्दाकं विधिनाहरेत् ॥ १,२२.१२ ॥ सूत्रेण बन्धयेद्धस्ते वीर्यस्तम्भो भवेद्ध्रुवम् । अश्विन्यामाहरेद्धीमान् पलाशस्य तु बन्धकम् ॥ १,२२.१३ ॥ हस्ते बद्ध्वा स्पृशेद्यस्तु सा नारी वशगा भवेत् । अङ्कोलबन्धमश्विन्यां करे बद्ध्वा जगत्प्रियः ॥ १,२२.१४ ॥ भरण्यां कुशवन्दाकं गृहीत्वा शुभयोगतः । बध्नीयाद्दक्षिणे हस्ते तेनादृश्यो भवेन्नरः ॥ १,२२.१५ ॥ भरण्यां फल्गुवन्दाकं धान्यराशौ विनिक्षिपेत् । तेन वै धान्यवृद्धिः स्यान्नात्र कार्या विचारणा ॥ १,२२.१६ ॥ भरण्यां बदरीणां च वन्दाकं विधिनाहरेत् । बन्धयेद्दक्षिणे हस्ते संलभेदीप्सितं फलम् ॥ १,२२.१७ ॥ कृत्तिकायां तु कतकवन्दाकं विधिनाहरेत् । वर्तिमध्ये क्षिपेत्तं च तेन संगृह्य कज्जलम् ॥ १,२२.१८ ॥ स्त्रीणामञ्जनमात्रेण पतिर्वश्यो भवेद्ध्रुवम् । कृत्तिकायां शुचिर्भूत्वा जम्बूवन्दाकमाहरेत् ॥ १,२२.१९ ॥ क्षीरेण पिष्टं तत्कल्कं पीत्वा रोगैर्विमुच्यते । रोहिण्यां तिन्त्रिणीकस्य वन्दाकं विधिनाहरेत् ॥ १,२२.२० ॥ बद्ध्वा हस्ते स्पृशेद्यं यं सर्ववश्यो भवेन्नरः । तिमिरादिषु शस्तं तदसाध्यं घृतमञ्जनात् ॥ १,२२.२१ ॥ क्षौद्रघृष्टेन तेनैव कृतं चक्षुष्यमञ्जनम् । बन्धकमुदुम्बरभवं रोहिण्यां गृह्य वलयकं कुर्यात् । तद्वलयोपरि विनिहितभाण्डस्थितमोदकं क्षयं नैति ॥ १,२२.२२ ॥ अश्वत्थस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥ १,२२.२३ ॥ गृहे स्थिते च वन्दाके नित्यैश्वर्यं प्रजायते । कतकस्य तु वन्दाकं रोहिण्यां विधिनाहरेत् ॥ १,२२.२४ ॥ अञ्जने नेत्रयुगले निधिं पश्यति निश्चितम् । तदेव बन्धयेद्धस्ते सर्ववश्यो भवेद्ध्रुवम् ॥ १,२२.२५ ॥ उदुम्बरस्य वन्दाकं रोहिण्यां विधिनाहरेत् । हस्ते बद्ध्वा निहन्त्याशु ज्वरं चातुर्थिकं प्रिये ॥ १,२२.२६ ॥ रोहिण्यां मातुलुङ्गस्य बन्धकं तु समाहरेत् । धारयेद्दक्षिणे कर्णे जगद्वश्यकरं परम् ॥ १,२२.२७ ॥ रोहिण्यां बिल्ववन्दाकं करे बद्ध्वा जगत्प्रियः । मृगशीर्षे शिरीषस्य वन्दाकं सम्यगाहृतम् ॥ १,२२.२८ ॥ हस्ते बद्ध्वा स्पृशेन्नारीं नरं वा वशयेद्ध्रुवम् । मृगशीर्षे तु वन्दाकं तिन्त्रिणीवृक्षसम्भवम् ॥ १,२२.२९ ॥ क्षीरेण पिष्ट्वा प्रपिबेददृश्यो जायते नरः । तद्दध्ना यः पिबेत्प्रातः सर्वव्याधिहरो भवेत् ॥ १,२२.३० ॥ महिषीतक्रपिष्टेन तेन सर्वाङ्गलेपनम् । कृत्वा वह्निगतो यस्तु वह्निना च न दह्यते ॥ १,२२.३१ ॥ तिन्त्रिणीकस्य वन्दाकं गृहे यस्य प्रतिष्ठितम् । तस्य चोरभयं नास्ति करे द्यूतजयो भवेत् ॥ १,२२.३२ ॥ उदुम्बरस्य वन्दाकं मृगशीर्षे समाहरेत् । हस्ते बद्ध्वा स्पृशेन्नारीं सा नारी वशगा भवेत् ॥ १,२२.३३ ॥ स्त्रीणां हस्ते तु बध्नीयादन्नमध्ये विनिक्षिपेत् । जायते चान्नवृद्धिस्तु नात्र कार्या विचारणा ॥ १,२२.३४ ॥ न्यग्रोधस्य तु वन्दाकं मृगशीर्षे समाहरेत् । बध्नीयाद्दक्षिणे हस्ते जनवश्यो भवेद्ध्रुवम् ॥ १,२२.३५ ॥ आदाय माटरूषस्य वन्दाकं समुदाहृतम् । बद्ध्वा हस्ते जनैर्दीव्यन् स्याद्द्यूतेष्वपराजितः ॥ १,२२.३६ ॥ आर्द्रायां तौम्बुरं ग्राह्यं वन्दाकं विधिना हरेत् । क्षीरेण प्रपिबेद्यस्तु तस्य स्याल्लोहमोटनम् ॥ १,२२.३७ ॥ आर्द्रार्के वा पुष्यरवौ वन्दाकं तुम्बुरोर्हरेत् । बध्नीयाद्दक्षिणे हस्ते बाणस्तम्भः प्रजायते ॥ १,२२.३८ ॥ पुनर्वसोर्हृतं वंशवन्दाकं क्षीरपेषितम् । पीत्वा स्त्रीपुरुषौ वन्ध्यौ प्रसुवाते सुतान्बहून् ॥ १,२२.३९ ॥ नक्तमालस्य वन्दाकमाहरेच्च पुनर्वसौ । क्षीरेण पिष्ट्वा प्रपिबेदखिलामयनाशनम् ॥ १,२२.४० ॥ तच्चूर्णस्य मात्रेण नश्यन्ति ग्रहराक्षसाः । पुष्ये बन्धूकवन्दाकं गृहीत्वा तं निधापयेत् ॥ १,२२.४१ ॥ क्षेत्रमध्ये रिपोस्तत्र सस्यनाशश्च जायते । आश्लेषायां कर्णिकारवन्दाकं सम्यगाहृतम् ॥ १,२२.४२ ॥ बद्ध्वा हस्ते दृढं तेन स्पृशन् वशति तेजनात् । मधूकस्य च वन्दाकमाश्लेषायां समाहरेत् ॥ १,२२.४३ ॥ बन्धयेद्दक्षिणे हस्ते व्याघ्रादिभयनाशनम् । मघासु मुचुकुन्दस्य वन्दाकं विधिनाहृतम् ॥ १,२२.४४ ॥ निधापयेद्धान्यमध्ये तद्धान्यं त्वक्षयं भवेत् । विभीतकस्य वन्दाकं फल्गुन्योः पूर्वयोर्हृतम् ॥ १,२२.४५ ॥ स्थापयेद्धान्यमध्येन तदक्षय्यं क्षणाद्भवेत् । फल्गुन्योरन्ययोर्हस्तेऽप्ययमेव विधिः स्मृतः ॥ १,२२.४६ ॥ शाकवृक्षस्य वन्दाकं मघायां विधिनाहरेत् । धान्यसंचयकृद्द्वारे धान्यवृद्धिश्च जायते ॥ १,२२.४७ ॥ मौञ्जीवृक्षस्य वन्दाकं मघार्के विधिनाहरेत् । शिरसा धारयेन्नित्यं तस्य श्रीर्वशमाप्नुयात् ॥ १,२२.४८ ॥ पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् । करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् ॥ १,२२.४९ ॥ तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा । बद्ध्वा हस्ते समस्तानां सध्वधो भवति द्विषाम् ॥ १,२२.५० ॥ कुटजस्य तु वन्दाकं चित्रायां विधिनाहरेत् । बध्नीयाद्दक्षिणे हस्ते दुर्लभं चेप्सितं लभेत् ॥ १,२२.५१ ॥ स्वात्यां लिकुचवन्दाकं गृहीत्वा यत्र वस्तुनि । निधापयति तत्सर्वमक्षयं नात्र संशयः ॥ १,२२.५२ ॥ बब्बूलबन्धकं स्वात्यां बदर्यास्त्वनुराधके । बध्नन्यो धारयेद्धस्ते तत्स्पृष्टा स्त्री वशा भवेत् ॥ १,२२.५३ ॥ आहृत्य धात्रीवन्दाकं विशाखायां यथाविधि । शुक्तकारस्य भवने विरुद्धस्य निधापयेत् ॥ १,२२.५४ ॥ सर्वं मद्यमपेयं स्यान्मोक्षस्तस्मिन्समुद्धृते । अनुराधासु विधिना ऐन्द्रीवन्दाकमाहृतम् ॥ १,२२.५५ ॥ धान्यमध्ये विनिक्षिप्तं धान्यमक्षयतां नयेत् । ज्येष्ठायामाम्रवन्दाकं हृत्वा वेश्यागृहे खनेत् ॥ १,२२.५६ ॥ सा दुर्भगा भवेत्सत्यमुद्धृते मोक्ष उच्यते । मूले खदिरवन्दाकं गृहीत्वा विधिपूर्वकम् ॥ १,२२.५७ ॥ बद्ध्वा हस्ते नरः क्षिप्रं दुर्भगः सुभगो भवेत् । तदेव पिष्टं क्षीरेण पीतं कुष्ठादिनाशनम् ॥ १,२२.५८ ॥ मूलार्के गोट्टिकायाश्च वन्दाकं विधिनाहरेत् । दक्षिणे बन्धयेद्धस्ते स्त्रीवश्यं भवति ध्रुवम् ॥ १,२२.५९ ॥ तदेव शिरसा धार्यं सर्वसिद्धिर्भवेद्ध्रुवम् । करवीरस्य वन्दाकं पूर्वाषाढासु साधितम् ॥ १,२२.६० ॥ धारयेच्छिरसा युद्धे स भवेदपराजितः । पूर्वाषाढासु वन्दाकं बदरीवृक्षसम्भवम् ॥ १,२२.६१ ॥ पिबेत्क्षीरेण या वन्ध्या सा बहूंश्च सुतांल्लभेत् । कुरवस्य तु वन्दाकं पूर्वाषाढार्कवारके ॥ १,२२.६२ ॥ बन्धयेद्दक्षिणे हस्ते ह्यदृश्यो जायते नरः । उत्तराषाढनक्षत्रे ग्राह्यं मन्दारबन्धकम् ॥ १,२२.६३ ॥ पलाशबन्धकं वाथ करे बद्ध्वा वशंकरम् । श्रवणे चित्रकोद्भूतं वन्दाकं प्राप्यते न तु ॥ १,२२.६४ ॥ कङ्कुणीतैलघृष्टेन ताम्रपत्रं च लेपयेत् । पुटपाकविधानेन तत्स्वर्णं भवति ध्रुवम् ॥ १,२२.६५ ॥ एरण्डस्य तु वन्दाकं श्रवणार्के समाहरेत् । बन्धयेद्दक्षिणे हस्ते सदा द्यूतजयो भवेत् ॥ १,२२.६६ ॥ धनिष्ठायां तु बदरीवन्दाकं विधिनाहृतम् । बद्ध्वा करे स्पृशेद्यं यं स स दासो भवेद्ध्रुवम् ॥ १,२२.६७ ॥ हृतं पुन्नागवन्दाकं वारुणेषु यथाविधि । क्षीरेण पिष्ट्वा प्रपिबन्महानागबलो भवेत् ॥ १,२२.६८ ॥ नक्तमालस्य वन्दाकं मघार्के विधिनाहरेत् । विधिना धारयेद्बाहौ पिशाचानां च दर्शनम् ॥ १,२२.६९ ॥ तिन्त्रिणीकस्य वन्दाकं पुन्नर्क्षे विधिनाहरेत् । बन्धयेद्दक्षिणे हस्ते नित्यं द्यूतजयो भवेत् ॥ १,२२.७० ॥ पुन्नर्क्षे वंशवन्दाकमदृश्यो जायते करे । शिरीषस्य तु वन्दाकमुत्तरे विधिनाहरेत् ॥ १,२२.७१ ॥ करे शिरसि बध्नीयाद्व्याघ्रादिग्रहहृद्भवेत् । मघायां स्थापयेत्क्षेत्रे वन्दाकं मधुकोद्भवम् ॥ १,२२.७२ ॥ पक्षिणां मूषिकानां च जायते तुण्डबन्धनम् । पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥ १,२२.७३ ॥ लिङ्गलेपं प्रकुर्वीत वीर्यस्तम्भो भवेद्ध्रुवम् । क्षीरेणालोड्य वल्लीकं क्षौद्रं पिष्ट्वा निषेचयेत् ॥ १,२२.७४ ॥ वङ्गं तु सप्तधा देवि तद्वङ्गं रजतं भवेत् । पलाशस्य तु वन्दाकं हस्तर्क्षे विधिनाहरेत् ॥ १,२२.७५ ॥ क्षीरेण प्रपिबेद्यस्तु ह्यदृश्यो जायते नरः । तिन्दुकस्य च वन्दाकं चित्रायामाहृतं तथा ॥ १,२२.७६ ॥ बद्ध्वा हस्ते समस्तानामवध्यो भवति द्विषाम् । हरीतक्यास्तु वन्दाकं पूर्वभाद्रपदाहृतम् ॥ १,२२.७७ ॥ क्षीरेण कल्कितं पीत्वा चरेद्वररुचेः समः । उत्तरास्वर्कवन्दाकं हृतं भाद्रपदासु तत् ॥ १,२२.७८ ॥ प्रलेपाद्यैः परं हन्याद्विषं स्थावरजङ्गमम् । रेवत्यां बोधिवन्दाकलतया कृतकौतुका ॥ १,२२.७९ ॥ वन्ध्यापि लभते गर्भं पीत्वा गोपयसा च तत् । रेवत्यां वटवन्दाकं वल्मीकमधुघर्षितम् ॥ १,२२.८० ॥ अक्षिदोषेष्वतिश्रेष्ठमक्षरावरणादिषु । रेवत्यां वटवन्दाकं गृहीत्वा धारयेद्भुजे ॥ १,२२.८१ ॥ महानागबलोपेतो महागणश्च जायते । समुद्धृतं विशाखायां वन्दाकं राजवृक्षकम् ॥ १,२२.८२ ॥ निवारयति गेहस्थं वैश्वानरभयं गृहे । रोहिण्यां वटवन्दाकं कटिस्थं वीर्यवर्धनम् ॥ १,२२.८३ ॥ अश्वत्थभववन्दाकं रेवत्यां गर्भदं स्मृतम् । विषवृक्षोत्थवन्दाकं पूर्वाषाढोद्धृतं यदि ॥ १,२२.८४ ॥ प्रलिप्तं तनुते भूतपिशाचादिप्रभाषणम् । चुल्लिकान्तर्गतं कुर्यात्सभक्तां पानसन्ततिम् ॥ १,२२.८५ ॥ द्यूते जाम्बववन्दाकं रेवत्यां जयकारकम् । कुर्यात्कुरववन्दाकं हस्तस्थं बाणवारणम् ॥ १,२२.८६ ॥ मधूकवृक्षवन्दाकं धान्यस्थं धान्यवृद्धिदम् । पलाशतरुवन्दाकं वाक्प्रदं क्षीरसेवितम् ॥ १,२२.८७ ॥ वेश्यायां निम्बवन्दाकं गृहान्तर्निहितं यदि । वश्यं करोति साश्चर्यमा जन्ममरणान्तिकम् ॥ १,२२.८८ ॥ आक्, १, २३ <विशिष्टा रससंस्काराः> श्रीभैरवी । श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् । शंभो तव प्रसादेन कृपांभोधे सुरेश्वर ॥ १,२३.१ ॥ विज्ञापयिष्याम्यपरं सर्वलोकहितङ्करम् । वृद्धस्त्रीबालषण्ढानामन्येषां रोगिणामपि ॥ १,२३.२ ॥ रसायनेष्वशक्तानां कथं सौख्यं भवेत्प्रभो । सर्वानुग्राहक श्रीमन् तदाज्ञापय भैरव ॥ १,२३.३ ॥ श्रुत्वा देव्याः स्तुतिपरं सर्वलोकहितप्रदम् । श्रुत्वा मन्दस्मितं देवो जगादेत्थं परं वचः ॥ १,२३.४ ॥ श्रीभैरवः । साधु साधु महाभागे लोकानां जननी यतः । तस्माल्लोकहितं पृष्टं तद्वक्ष्याम्यहमीश्वरि ॥ १,२३.५ ॥ रसादिसंस्कारविधिं सर्वरोगनिबर्हणम् । यथाक्रमं प्रवक्ष्यामि श्रूयतामवधानतः ॥ १,२३.६ ॥ रसेन्द्रो रसराजश्च रसः सूतश्च पारदः । शिवबीजं शिवो जैत्रो रसलोहो महारसः ॥ १,२३.७ ॥ रसोत्तमो महातेजाः सूतराट्चपलोऽमृतः । धुत्तुरो लोकनाथश्च प्रभुरिन्द्रो भवस्तथा ॥ १,२३.८ ॥ रुद्रतेजाः खेचरश्च रसधातुरचिन्त्यजः । अमरो देहदः स्कन्दः स्कन्देशो मृत्युनाशनः ॥ १,२३.९ ॥ देवो रसायनः श्रेष्ठो यशोदः पावनः स्मृतः । प्रोक्ता दिव्यरसाश्चैव त्रयस्त्रिंशच्च नाम च ॥ १,२३.१० ॥ दोषयुक्तः सूतराजो विषमेव वरानने । दोषहीनो रसः साक्षादमृतं नात्र संशयः ॥ १,२३.११ ॥ तस्मात्पारदसंस्कारं दोषघ्नं शृणु पार्वति । रसाचार्यो भिषक्श्रेष्ठो यतात्माघोरमन्त्रवित् ॥ १,२३.१२ ॥ <रसशोधनसंस्काराः; प्रथमः प्रकारः> शुभर्क्षे शुभलग्नेषु सुमुहूर्ते सुवासरे । पूर्वोक्तवत्सूतपूजां कुर्यादादौ शुचिस्थले ॥ १,२३.१३ ॥ शतं पलानां पञ्चाशत्पञ्चविंशति वा पुनः । दश वा पञ्च वा देवि नैतस्मादूनमिष्यते ॥ १,२३.१४ ॥ लोहजे वा शिलोत्थे वा खल्वे सूतं विनिक्षिपेत् । कलांशं सूतराजस्य चूर्णेष्टकनिशारजः ॥ १,२३.१५ ॥ जम्बीराम्लेन संमर्द्य तप्तखल्वे दिनं प्रिये । क्षालयेदुष्णसौवीरैर्नागदोषो विनश्यति ॥ १,२३.१६ ॥ अङ्कोलेनेन्द्रवारुण्या वङ्गदोषो विनश्यति । आरग्वधेन च मलं चित्रके नागदूषणम् ॥ १,२३.१७ ॥ कृष्णधूर्तेन चाञ्चल्यं त्रिफलाभिर्विषं हरेत् । गिरिदोषं त्रिकटुकैरसह्याग्निस्तु गोक्षुरैः ॥ १,२३.१८ ॥ वङ्गादिसप्तदोषाणां नाशार्थं सप्तवासरम् । तत्तच्चूर्णैः कलांशैश्च कुमार्या रससंयुतैः ॥ १,२३.१९ ॥ मर्दयित्वा रसं पश्चात्क्षालयेदुष्णकांजिकैः । पारदः सकलैर्दोषैर्मुच्यते सप्तकञ्चुकैः ॥ १,२३.२० ॥ वैद्यकर्मणि योज्यश्चेद्रसः स्यात्सर्वरोगहा । <द्वितीयः प्रकारः> देवदारुमलयजजयावायसतुण्डिका ॥ १,२३.२१ ॥ कुमारीमुसलीवन्ध्याकर्कोटीरससंयुतम् । सूतं दिनं मर्दयेच्च पुनः पातनयन्त्रके ॥ १,२३.२२ ॥ पातयेद्योजयेत्सूतं शुद्धं वैद्यस्य कर्मणि । <तृतीयः प्रकारः> दग्धं पाषाणचूर्णं च निशाकन्यारसै रसम् ॥ १,२३.२३ ॥ मर्दयेद्दिनमेकं च पूर्वयन्त्रे च पातयेत् । एवं संस्कारसंशुद्धं योजयेद्वैद्यकर्मणि ॥ १,२३.२४ ॥ <चतुर्थः प्रकारः> दरदं याममात्रं तु पारिभद्रद्रवैः प्रिये । अथवा जम्बीररसैर्मर्दयित्वा तु पाचयेत् ॥ १,२३.२५ ॥ यन्त्रे पातनके देवि दोषकञ्चुकवर्जितः । <पञ्चमः प्रकारः> पुनर्नवारसैः पेष्यं धान्याभ्रं पारदं समम् ॥ १,२३.२६ ॥ तप्तखल्वे दिनं कृत्वा वज्रमूषागतं रसम् । पचेद्भूधरयन्त्रे च पुनः संमर्दयेच्च तम् ॥ १,२३.२७ ॥ पूर्वद्रवैर्यथापूर्वं मर्दनं पाचनं पुनः । कृत्वैतं दशवारं तं पात्यं पातनयन्त्रके ॥ १,२३.२८ ॥ शुद्धः स्यात्पारदो देवि योज्यो योगे रसायने । <षष्ठः प्रकारः> दशमांशं रसाद्गन्धं तप्तखल्वे विनिक्षिपेत् ॥ १,२३.२९ ॥ वराजम्बीरकन्याग्निद्रवैर्यामं विमर्दयेत् । पातयेत्पातनायन्त्रे कुर्यादेवं तु सप्तधा ॥ १,२३.३० ॥ सगन्धकं मर्दनं च पातनं भवति प्रिये । शुद्धः स्यात्पारदो देवि योज्यः पारदकर्मणि ॥ १,२३.३१ ॥ <सप्तमः प्रकारः> तिलतैलैर्माहिषिकैर्मूत्रैर्मद्याम्लकेन च । गोमांसैर्हिङ्गुलं पाच्यं लोहपात्रे क्रमाग्निना ॥ १,२३.३२ ॥ सप्ताहं लोहदण्डेन चालयेत्तद्द्रवं मुहुः । सार्द्रं मयूरपित्तेन भावयेदातपे दिनम् ॥ १,२३.३३ ॥ पातयेत्पातनायन्त्रे दरदं खरवह्निना । शुद्धो भवेच्चतुर्यामात्पारदो योगवाहकः ॥ १,२३.३४ ॥ <जारणार्हो वडबानलविडः> शृणु देवि प्रवक्ष्यामि जारणार्हं बिडं प्रिये । चूर्णं कृत्वा दग्धशङ्खं घर्मेऽर्कक्षीरभावितम् ॥ १,२३.३५ ॥ कुर्याद्दिनं ततो देवि धूमसारं च भावयेत् । दिनं जम्बीरकरसैरातपे चातितीव्रके ॥ १,२३.३६ ॥ चतुर्याममजामूत्रैः षोडशांशं सुवर्चलम् । यथा सान्द्रत्वमाप्नोति तावत्क्वाथ्यं वरानने ॥ १,२३.३७ ॥ नरमूत्रे षोडशांशे कण्टकारीं समूलकाम् । यावद्घनीभवेत्तावत्क्वाथनीया प्रयत्नतः ॥ १,२३.३८ ॥ तिन्त्रिणीक्षारकासीससर्जक्षाराः शिलाजतु । जम्बीरस्य रसैः सर्वं चतुर्यामं पृथक्पृथक् ॥ १,२३.३९ ॥ जेपालं तत्त्वचाहीनं मूलकक्षारसैन्धवम् । गुञ्जां च टङ्कणं शिग्रुद्रवैर्भाव्यं पृथक्पृथक् ॥ १,२३.४० ॥ जम्बीराणां द्रवैर्भाव्यं शङ्खाद्यं तत्त्रयोदश । सर्वं समांशं च दिनमेकीकृत्य तु गालितम् ॥ १,२३.४१ ॥ रक्षयेत्सर्वदा ज्ञेयो नाम्ना च वडबानलः । सुवर्णादिमलोहानां रत्नानां जारणे तथा ॥ १,२३.४२ ॥ अभ्राद्युपरसानां च योजनीयं प्रयत्नतः । <पारदभस्मविधिः; प्रथमः प्रकारः> शुद्धसूतं शुद्धगन्धं मर्दयेद्गोघृतैः समम् ॥ १,२३.४३ ॥ पिण्डीभूतं कुमार्याश्च दलगर्भे निवेशयेत् । सम्यक्सूत्रेण संवेष्ट्य तमयस्कान्तसंपुटे ॥ १,२३.४४ ॥ निरुध्य तं मृदुपुटे त्रिधा पाच्यं पुनः प्रिये । आदाय दृढमूषायामन्धयित्वा धमेत्सुधीः ॥ १,२३.४५ ॥ भस्मीभवेत्सूतराजो योज्यो योगे रसायने । <द्वितीयः प्रकारः> छायाशुष्काणि कुर्वीत शाकपक्वफलानि च ॥ १,२३.४६ ॥ मर्दयेदर्कपयसा तेन मूषोदरं लिपेत् । अग्रप्रसूतगोजातजरायोः शिषितं रजः ॥ १,२३.४७ ॥ मूषामध्ये क्षिपेत्पश्चात्सूतं गन्धश्च तद्रजः । क्षिप्त्वा निरुध्य च धमेद्भस्मीभवति पारदः ॥ १,२३.४८ ॥ <तृतीयः प्रकारः> वन्ध्या कार्कोटकी काकतुण्डी च कटुतुम्बिका । कञ्चुकी नलिका काकमाची वै कालमञ्जरी ॥ १,२३.४९ ॥ काकजङ्घास्त्विमाः सर्वाः पिष्ट्वा मूषान्तरे क्षिपेत् । पूर्वोक्तवन्ध्यामुख्याभिरष्टाभिर्मर्दयेद्रसम् ॥ १,२३.५० ॥ तद्रसं लिप्तमूषायां क्षिप्त्वा रुद्ध्वा च भूधरे । पचेदेवं चाष्टवारमेवं मूषाप्रलेपनम् ॥ १,२३.५१ ॥ मर्दनं धमनं कुर्याद्भूयो भूयः सुरेश्वरि । मृतो भवति सूतेन्द्रो योग्यो रोगे रसायने ॥ १,२३.५२ ॥ <चतुर्थः प्रकारः> नियामकौषधैर्मर्द्यं चतुर्यामं रसं दृढम् । द्विगुणे गन्धतैले च शनैर्मन्दाग्निना पचेत् ॥ १,२३.५३ ॥ यावत्खोटत्वमाप्नोति तावदेवं पचेद्रसम् । तत्खोटं संपुटे लौहे क्षिप्त्वा रुन्ध्याद्दृढं सुधीः ॥ १,२३.५४ ॥ पथ्याजलैर्लोहकिट्टं पिष्ट्वा सम्पुटमालिखेत् । तस्योर्ध्वं श्रावके काचं कृत्वा नागं विनिक्षिपेत् ॥ १,२३.५५ ॥ स नागो द्रवते यावत्तावदेवं धमेत्प्रिये । यावन्न याति काठिन्यं तावन्नैव धमेत्सुधीः ॥ १,२३.५६ ॥ पुनः कठिनतां प्राप्ते धमेत्पूर्वोक्तवन्मुहुः । त्रियामधमनादेवं भस्मीभवति पारदः ॥ १,२३.५७ ॥ भस्मीकृते मूलिकाभिर्जारणारहितो रसः । देहे लोहे न योज्यः स्याद्योज्यो भेषजकर्मणि ॥ १,२३.५८ ॥ <पञ्चमः प्रकारः> द्विगुणे गन्धतैले च शुद्धं सूतं विमर्दयेत् । एकाहं तं पुनर्मर्द्यं सर्पाक्षीभृङ्गराडपि ॥ १,२३.५९ ॥ विष्णुक्रान्ता त्र्यहं चैषां रसैः श्लक्ष्णं विमर्दयेत् । पचेद्यन्त्रे त्रिसंघट्टे ह्यष्टवारमिति प्रिये ॥ १,२३.६० ॥ कुर्याद्भस्मति सूतेन्द्रो रोगसंघातनाशनः । <षष्ठः प्रकारः> श्वेताङ्कोलस्य मूलोत्थरसैर्मर्द्यस्त्र्यहं रसः ॥ १,२३.६१ ॥ मूषायां निक्षिपेद्रुद्ध्वा पचेद्भूधरयन्त्रके । पारदो भस्मतां याति सर्वरोगहरः परः ॥ १,२३.६२ ॥ <सप्तमः प्रकारः> विष्णुक्रान्तां वेदिकां च काञ्जिकेन विमर्दयेत् । तत्कल्केन रसो मर्द्यः सप्तधा मूर्छितोत्थितः ॥ १,२३.६३ ॥ तं रसं श्रावके क्षिप्त्वा सिञ्चयेत्तद्रसैर्मुहुः । दीपाग्निना दिनं पच्याद्भस्म स्याल्लवणाकृतिः ॥ १,२३.६४ ॥ <अष्टमः प्रकारः> काकोदुंबरिकाक्षीरैर्भावयेत्सोमरामठम् । पुनः पुनः सप्तधैवं शोषयेन्मर्दयेत्सुधीः ॥ १,२३.६५ ॥ काकोदुम्बरपञ्चाङ्गं षोडशांशे जले क्षिपेत् । यथैकांशोऽवशिष्टः स्यात्तेन तद्धिङ्गु मर्दयेत् ॥ १,२३.६६ ॥ तद्गोलके रसं क्षिप्त्वा मूषायां तं च रोधयेत् । भूधरे च पुटेदेवमष्टवारं पुनः पुनः ॥ १,२३.६७ ॥ पुटे पुटे च तद्धिङ्गु दद्यात्सूतो मृतो भवेत् । <नवमः प्रकारः> उरुबूकस्य बीजानि तथापामार्गजानि च ॥ १,२३.६८ ॥ पूर्णयेत्तच्च मूषायां क्षिप्त्वा सूतं ततः क्षिपेत् । तदूर्ध्वं पूर्वचूर्णं च सम्यङ्मूषां निरोधयेत् ॥ १,२३.६९ ॥ पचेल्लघुपुटैरेवं चतुर्भिर्भस्मतां व्रजेत् । <दशमः प्रकारः> कुडुहुञ्च्याः कन्दमध्ये कान्तास्तन्यपरिप्लुते ॥ १,२३.७० ॥ रसं क्षिप्त्वा मुखं रुद्ध्वा तन्मज्जकल्कतः सुधीः । तं गोमयैः समालिप्य स्वेदयेद्गोमयाग्निना ॥ १,२३.७१ ॥ एवं कृते सप्तवारं रसो भस्मत्वमाप्नुयात् । <एकादशः प्रकारः> अङ्कोलस्य शिफानीरैः सूतं गन्धं समं समम् ॥ १,२३.७२ ॥ दिनमेकं मर्दयेच्च मूषागर्भं निरोधयेत् । पुटेद्भूधरयन्त्रे च दिनान्ते भस्म जायते ॥ १,२३.७३ ॥ <द्वादशः प्रकारः> सूतं धान्याभ्रकं तुल्यं मारकौषधिजै रसैः । मर्दयेद्दिनमेकं तु तत्कल्कैर्वस्त्रलेपनम् ॥ १,२३.७४ ॥ तद्वस्त्रं वर्तिकां कृत्वा धृत्वा दंशेन दीपयेत् । तद्द्रुतिं पतितां कांस्ये कृष्णवर्णं च तद्भवेत् ॥ १,२३.७५ ॥ तत्पुनर्मारकैर्मर्द्यं पातनायन्त्रके पचेत् । मृतो भवेद्दिनैकेन तद्भस्माखिलरोगहृत् ॥ १,२३.७६ ॥ <त्रयोदशः प्रकारः> कालधुत्तूरतैलेन मर्दनीयश्च पारदः । ततो नियामकैर्मर्द्याद्दिनैकं कूर्मयन्त्रके ॥ १,२३.७७ ॥ पाचयेद्भस्मतां याति शुभ्रः स्यात्सर्वरोगहा । <चतुर्दशः प्रकारः> शुद्धसूतादर्धभागं शुद्धं गन्धं विमर्दयेत् ॥ १,२३.७८ ॥ मारकौषधजैर्द्रावैर्दिनं मूषागतं पचेत् । यन्त्रे भूधरसंज्ञे च दिनेनैकेन भस्मति ॥ १,२३.७९ ॥ <पञ्चदशः प्रकारः> सूतमभ्रं वटक्षीरैस्त्रियामं मर्दयेत्प्रिये । मूषागर्भे विनिक्षिप्य करीषाग्नौ दिनं पचेत् ॥ १,२३.८० ॥ भस्मीभवति सूतेन्द्रः शुभ्रः सर्वार्तिनाशनः । <षोडशः प्रकारः> मुखीकृते वासिते च पारदे समकाञ्चनम् ॥ १,२३.८१ ॥ जारयेत्पूर्वयोगेन ततो गन्धं समं क्षिपेत् । दिव्यौषधिद्रवैर्मर्द्यं दिनं मूषाधृतं रसम् ॥ १,२३.८२ ॥ दिवानक्तं करीषाग्नौ पचेद्वा तुषवह्निना । स्वेदयेत्तं समुद्धृत्य भूयो दिव्यौषधोद्भवैः ॥ १,२३.८३ ॥ बीजैः समांशैः संमर्द्यं चतुर्यामं सुरेश्वरि । वज्रमूषागतं धाम्यं भस्मीभवति पारदः ॥ १,२३.८४ ॥ तद्भस्म दिव्यं युञ्जीत सदा रोगे रसायने । <सप्तदशः प्रकारः> स्वजीर्णे पारदे स्वर्णं सममम्लेन मर्दयेत् ॥ १,२३.८५ ॥ पिष्टीभूतं काञ्जिकेन प्रक्षाल्यादाय तां पुनः । पिष्ट्यर्धं शुद्धगन्धं च तदर्धं टङ्कणं क्षिपेत् ॥ १,२३.८६ ॥ सर्वतुल्यां निशां नारीपुष्परक्तद्रवैर्दिनम् । मर्दयेत्तां दिनान्ते च कुर्यात्तद्गोलकं ततः ॥ १,२३.८७ ॥ पचेद्गड्डुकयन्त्रे च दिनं मन्दाग्निना सुधीः । समादाय विचूर्ण्यैव दत्त्वा तत्समगन्धकम् ॥ १,२३.८८ ॥ गर्भयन्त्रे त्र्यहं पाच्यं लघुना तत्तुषाग्निना । रसो भस्म भवेद्देवि निरुत्थः स्याद्रसायनम् ॥ १,२३.८९ ॥ <अष्टादशः प्रकारः> कर्षत्रयं शुद्धसूतं कर्षं ताम्ररजः प्रिये । अम्लैः संमर्दयेद्गाढं दिनं खल्वे ततो भवेत् ॥ १,२३.९० ॥ पिष्टिस्तां क्षालयेत्तोयैस्तत आदाय निर्मलम् । माक्षीकसत्वं तत्सर्वं चक्रमर्दच्छदद्रवैः ॥ १,२३.९१ ॥ त्रिदिनं मर्दयेद्गाढं तां पिष्टिं गर्भयन्त्रके । तुषाग्निना पचेद्देवि त्रिदिनं वा दिवानिशम् ॥ १,२३.९२ ॥ करीषाग्नौ भवेत्सूतभस्म रोगजरापहम् । <एकोनविंशः प्रकारः> सूतं स्वर्णं व्योमसत्वं समं स्वर्णसमं बिडम् ॥ १,२३.९३ ॥ रम्भादण्डद्रवैः सर्वं तत्खल्वे मर्दयेद्दिनम् । ततो दिव्यौषधोद्भूतैर्बीजैस्तुल्यं दिनद्वयम् ॥ १,२३.९४ ॥ सह संमर्दयेद्रम्भातोयैस्तद्गर्भयन्त्रके । पूर्वक्रमेण विपचेद्रसभस्म भवेच्छुभम् ॥ १,२३.९५ ॥ जरामरणरोगघ्नं सर्वसिद्धिप्रदायकम् । <विंशः प्रकारः> रसेन्द्रं विमलासत्वं तुल्यं मर्द्य दिनत्रयम् ॥ १,२३.९६ ॥ सिन्दुवारछदरसैः पिष्टिः स्यात्तां विनिक्षिपेत् । काचकूप्यन्तरे कूपीं सप्तमृत्कर्पटैर्लिपेत् ॥ १,२३.९७ ॥ शोषयेद्वालुकायन्त्रे दिनं मन्दाग्निना पचेत् । रसभस्म भवेद्दिव्यं रुग्जरामरणापहम् ॥ १,२३.९८ ॥ <एकविंशः प्रकारः> कर्षद्वयं रसेन्द्रं च तदर्धं शुद्धगन्धकम् । माक्षीकसत्वं गन्धांशं तत्सर्वं मर्दयेद्दिनम् ॥ १,२३.९९ ॥ निर्गुण्डीपत्रसारैश्च तं गोलं निक्षिपेत्प्रिये । मूषामध्ये ततो मूषावक्त्रं रुद्ध्वा विनिक्षिपेत् ॥ १,२३.१०० ॥ तां मूषां गड्डुकायन्त्रे पचेन्मन्दाग्निना दिनम् । रसभस्म भवेद्दिव्यं सिन्दूरारुणसन्निभम् ॥ १,२३.१०१ ॥ जरामरणरोगघ्नं सर्वसिद्धिप्रदं शुभम् । <द्वाविंशः प्रकारः> पक्वमूषोदरे तुल्यगन्धकान्तरितं रसम् ॥ १,२३.१०२ ॥ तयोश्चतुर्गुणं दत्त्वा काकमाचीरसं पुनः । आच्छाद्य गड्डुकायन्त्रे तां निधाय पचेत्क्रमात् ॥ १,२३.१०३ ॥ मृदुमध्यमचण्डाख्यवह्नौ यामचतुष्टयम् । ततश्च सर्वरोगघ्नं रसभस्म भवेच्छुभम् ॥ १,२३.१०४ ॥ <त्रयोविंशः प्रकारः> स्नुहीक्षीरैर्दिनं सूतं मर्दयेत्तदभावतः । अम्लवल्ल्या रसैरेव तं रसं गन्धकैः समम् ॥ १,२३.१०५ ॥ गर्भयन्त्रे विनिक्षिप्य पूर्ववद्विपचेद्बुधः । मृतो भवेद्रसः सोऽयं सर्वरोगहरो भवेत् ॥ १,२३.१०६ ॥ <चतुर्विंशः प्रकारः> गुञ्जाफलं रससमं मधुटङ्कणयावकैः । भृङ्गपत्ररसैर्युक्तं दिनमेकं विमर्दयेत् ॥ १,२३.१०७ ॥ छादितं वज्रमूषायां धमयेन्मृदुवह्निना । अयं रसायनो वृष्यो रसः स्याच्छशिसन्निभः ॥ १,२३.१०८ ॥ <पञ्चविंशः प्रकारः> समं गन्धरसं शुद्धं कीटमारिणिकाद्रवैः । अजमार्यहिमार्योर्वा श्वेताङ्कोलरसेन वा ॥ १,२३.१०९ ॥ मर्दयेत्त्रिदिनं क्षिप्त्वा मृण्मये संपुटे ततः । दिनमेकं करीषाग्नौ तुषाग्नौ वा दिनत्रयम् ॥ १,२३.११० ॥ पचेत्ततः सूतभस्म जायते रुग्जरापहम् । <षड्विंशः प्रकारः> ताम्राभ्रपातनायोगाच्छोधितं पारदं प्रिये ॥ १,२३.१११ ॥ वज्रभस्म समं हंसपादीद्रावैर्विमर्दयेत् । दिव्यौषधिभवैर्बीजैर्वज्रमूषान्तरं लिपेत् ॥ १,२३.११२ ॥ तस्मिन्पूर्वरसं क्षिप्त्वा रुद्ध्वाथ त्रिदिनं पचेत् । तुषाग्निना तत उद्धृत्य तत्तुल्यं द्रुतपारदम् ॥ १,२३.११३ ॥ हंसपादीरसैः सर्वं मर्दयेत्त्रिदिनं ततः । पूर्ववत्तं पचेत्सोऽयं रसो भस्मति निश्चयः ॥ १,२३.११४ ॥ जरामरणरोगघ्नः सर्वसिद्धिप्रदः शुभः । <सप्तविंशः प्रकारः> वासितं पारदं कर्षमष्टगुञ्जं सुवर्णकम् ॥ १,२३.११५ ॥ मृतवज्रं चतुर्गुञ्जं मर्द्यं हंसपदीरसैः । तप्तखल्वे वज्रमूषागतं कृत्वा निरोधयेत् ॥ १,२३.११६ ॥ पचेद्भूधरयन्त्रे च पुनरादाय तं रसम् । हंसपादीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥ १,२३.११७ ॥ पूर्ववद्भूधरे यन्त्रे पचेत्तं च पुनः पुनः । एवं शतपुटं कृत्वा भस्म स्याद्रक्तवर्णकम् ॥ १,२३.११८ ॥ जरामरणदारिद्र्यनाशनं भवनाशनम् । <अष्टाविंशः प्रकारः> युगांशः शुद्धसूतः स्यादेकांशं ताम्रचूर्णकम् ॥ १,२३.११९ ॥ अम्ले दिनं मर्दयेत्तं प्रक्षाल्यादाय पिष्टिकाम् । ताप्यसत्वं पिष्टिसमं चक्रमर्ददलद्रवैः ॥ १,२३.१२० ॥ मर्दयेत्त्रिदिनं सर्वं गोलकं गर्भयन्त्रके । निक्षिप्य त्रिदिनं पाच्यं तुषाग्नौ वा सुरेश्वरि ॥ १,२३.१२१ ॥ दिवारात्रं करीषाग्नौ पचेद्भस्म भवेद्रसः । <एकोनत्रिंशः प्रकारः> मुखीकृतरसं चाभ्रसत्वं स्वर्णं त्रयं समम् ॥ १,२३.१२२ ॥ रंभाद्रवेण संमर्द्यं दिनं सर्वसमं बिडम् । ततो दिव्यौषधीनां च बीजैर्मर्द्यं दिनत्रयम् ॥ १,२३.१२३ ॥ गर्भयन्त्रे पचेत्पश्चात्करीषाग्नौ मृतो भवेत् । <त्रिंशः प्रकारः> खजीर्णसूतं विमलां समं निर्गुण्डिकारसैः ॥ १,२३.१२४ ॥ मर्दयित्वा त्र्यहं काचकूपिकायां विनिक्षिपेत् । सिकतायन्त्रके पच्याच्चतुर्यामेन भस्मितः ॥ १,२३.१२५ ॥ <एकत्रिंशः प्रकारः> ताप्यसत्वं समं गन्धं द्वाभ्यां तुल्यं च जारितम् । सूतं निर्गुण्डिकां मर्द्य दिनं तद्गोलकं पुनः ॥ १,२३.१२६ ॥ वज्रमूषान्धितं कृत्वा धमेद्वा गड्डुयन्त्रके । पचेत्तद्रक्तवर्णं स्यात्स रसः सर्वरोगहा ॥ १,२३.१२७ ॥ <रसभस्मलक्षणम्> अक्षयित्वं निरुत्थत्वं निर्लेपत्वं सुभस्मता । मारकत्वं च लोहानां लक्षयेद्रसभस्मतः ॥ १,२३.१२८ ॥ <१. गन्धपिष्टी; प्रथमः प्रकारः> संचूर्ण्य शोधितं गन्धं पूर्वपत्ररसेन च । सप्तधा भावयेद्घर्मे स्त्रीणां च रजसा तथा ॥ १,२३.१२९ ॥ तथा मानवपित्तेन लोलयेद्गन्धकं पुनः । पलमेकं शुद्धरसं कर्परे चातपे न्यसेत् ॥ १,२३.१३० ॥ तदूर्ध्वं लोलितं गन्धं विन्यस्याङ्गुष्ठमर्दितम् । कुर्यात्सूतो भवेत्पिष्टिः सर्वकर्मसु सिद्धिदः ॥ १,२३.१३१ ॥ <द्वितीयः प्रकार, स्वर्णगन्धपिष्टी> गन्धकं शोधितं देवि तिलपर्णीरसेन च । सप्तधा मर्दयेच्छोष्यं छायायां भावयेत्क्रमात् ॥ १,२३.१३२ ॥ मूषायां पारदं शुद्धं पलमात्रं विनिक्षिपेत् । सुवर्णनिष्कगुलिकां मूषायां निक्षिपेत्ततः ॥ १,२३.१३३ ॥ तत्र नारीरजोमूत्रमलमात्रं विनिक्षिपेत् । वालुकायन्त्रमध्ये च तां मूषां स्थापयेच्छिवे ॥ १,२३.१३४ ॥ अल्पमल्पं पूर्वगन्धं वारं वारं विनिक्षिपेत् । मृद्वग्निना पचेद्यावत्कर्षगन्धं च जीर्यते ॥ १,२३.१३५ ॥ अवतार्य स्वाङ्गशीतमाहरेत्स्वर्णगोलकम् । स्वर्णपिष्टिर्भवेद्दिव्या सर्ववाञ्छितदायिनी ॥ १,२३.१३६ ॥ <तृतीयः प्रकारः> भावयेन्मर्कटीतोयैः शतधा शुद्धगन्धकम् । छायायां शुद्धसूतं च घर्मे मृत्कर्परे क्षिपेत् ॥ १,२३.१३७ ॥ किंचित्किंचित्पूर्वगन्धं निक्षिपेन्मर्कटीरसम् । जीर्णे गन्धे द्रवं देयं मुहुर्गन्धं मुहुर्द्रवम् ॥ १,२३.१३८ ॥ यावत्पादांशकं जीर्णं गन्धं च पिष्टिका भवेत् । दिव्या सा सर्वकर्मार्हा देवानामपि दुर्लभा ॥ १,२३.१३९ ॥ <चतुर्थः प्रकारः> शुद्धगन्धं चूर्णयित्वा त्रिवारं काञ्जिकेन च । जम्बीराम्लैस्त्रिवारं च हंसपादीरसेन च ॥ १,२३.१४० ॥ सप्तधा क्षालयेदेवं कर्पूरं भावयेत्पृथक् । श्वेताद्रिकर्णिकातोयैरातपे च त्रिवारकम् ॥ १,२३.१४१ ॥ द्विगुञ्जमात्रं कर्पूरं यन्त्रान्तः परिलेपयेत् । तत्र गन्धं सार्धनिष्कं भावितं चूर्णितं क्षिपेत् ॥ १,२३.१४२ ॥ तदूर्ध्वं च पलं सूतं निक्षिपेत्तस्य पृष्ठतः । पूर्वमात्रं च कर्पूरं तदूर्ध्वं सार्धनिष्ककम् ॥ १,२३.१४३ ॥ गन्धकं च पुनः क्षिप्त्वा ततो गोमूत्रकेन च । श्वेताद्रिकर्णिकामूलं पिष्ट्वा तत्कल्ककेन च ॥ १,२३.१४४ ॥ आच्छाद्य तच्छरावेण रोधयेत्पाचयेत्क्रमात् । जालिकायन्त्रमध्ये च दिव्यं पश्चात्तमुद्धरेत् ॥ १,२३.१४५ ॥ एवं कुर्यात्त्रिवारं च गन्धपिष्टिर्भवेद्ध्रुवम् । <पञ्चमः प्रकारः> स्नेहलिप्ते खल्वमध्ये शुद्धसूतं पलं न्यसेत् ॥ १,२३.१४६ ॥ कर्षं च शोधितं गन्धं देवदालीद्रवं क्षिपेत् । कराङ्गुल्या खरे घर्मे मर्दयेत्पिष्टिका भवेत् ॥ १,२३.१४७ ॥ <षष्ठः प्रकारः> ताम्रखल्वे पलं सूतं कर्षार्धं गन्धकं क्षिपेत् । मृद्वग्निना पचेद्यामं कराङ्गुष्ठेन चालयेत् ॥ १,२३.१४८ ॥ गन्धपिष्टिर्भवेद्दिव्या सर्वकर्मकरी शुभा । <पिष्टीस्तम्भनम् (२)> पिष्टीनां स्तम्भनं वक्ष्ये तिक्तकोशातकीभवम् ॥ १,२३.१४९ ॥ बीजं चण्डालिनीकन्दं तुल्यं कान्तास्तनोद्भवैः । क्षीरैः पिष्ट्वा च तां पिष्टीं लेपयेदङ्गुलं दृढम् ॥ १,२३.१५० ॥ वन्ध्याकन्देऽथवा क्षीरकन्दे वा सूरणोद्भवे । कन्दे वा वज्रकन्दे वा कन्दे वा कुडुहुञ्चिजे ॥ १,२३.१५१ ॥ तां पिष्टिं निक्षिपेत्तत्तन्मज्जया रोधयेन्मुखम् । तत्कन्दं च मृदा लिप्त्वा पुटेद्भूधरयन्त्रके ॥ १,२३.१५२ ॥ दिवानक्तं करीषाग्नावूर्ध्वाधः परिवर्तनम् । यथा कन्दं तु न दहेत्तथा पाकक्रमः स्मृतः ॥ १,२३.१५३ ॥ अथ पिष्टिं समानीयाद्भवेत्सा स्तम्भिता प्रिये । <पिष्टीजारणम् (२)> पिष्टीनां स्तम्भितानां च जारणा वक्ष्यते शिवे ॥ १,२३.१५४ ॥ स्तनयन्त्रे लोहकृते गन्धकं पिष्टितुल्यकम् । क्षिपेदूर्ध्वं च देवेशि स्तम्भितां गन्धपिष्टिकाम् ॥ १,२३.१५५ ॥ तदूर्ध्वं पिष्टितुल्यं च गन्धकं चूर्णितं क्षिपेत् । निरुध्य भूधरे यन्त्रे पाचयेज्जारयेत्क्रमात् ॥ १,२३.१५६ ॥ गन्धं पुनःपुनर्देयमेवं शतगुणं प्रिये । जीर्णे शतगुणे गन्धे यन्त्रात्पिष्टिं समाहरेत् ॥ १,२३.१५७ ॥ सर्वासां गन्धपिष्टीनां जारणं स्याच्च रञ्जनम् । <पिष्टीमारणम् (२)> जारितानां च पिष्टीनां प्रवक्ष्ये मारणक्रमम् ॥ १,२३.१५८ ॥ तप्तखल्वे विनिक्षिप्य जारितां गन्धपिष्टिकाम् । दिव्यौषधिरसैः पिष्ट्वा दिनं कुर्याच्च गोलकम् ॥ १,२३.१५९ ॥ दिव्यौषधीनां बीजानि पिष्ट्वा दिव्यौषधोद्भवैः । स्वरसैर्वज्रमूषान्तर्लेपयेत्पूर्वगोलकम् ॥ १,२३.१६० ॥ क्षिप्त्वा निरुध्य मूषास्यं पचेद्भूधरयन्त्रके । प्रवर्तयंश्चोर्ध्वमधो दिनमेकं पुनः प्रिये ॥ १,२३.१६१ ॥ समाहृत्य यथापूर्वं पूर्वतोयैश्च मर्दयेत् । पुटयेत्पूर्ववद्देवि दशवारमिति क्रमात् ॥ १,२३.१६२ ॥ असंशयं गन्धपिष्टिर्म्रियते सर्वकार्यकृत् । गन्धपिष्टिक्रमाज्जातरसभस्मानि भैरवि ॥ १,२३.१६३ ॥ सर्वकर्मसु मुख्यानि विशेषाद्वादकर्मणि । <रसबन्धाः; प्रथमः प्रकारः: वैक्रान्तबन्धः> वक्ष्यामि रसबन्धानि शृणु भैरवि सम्प्रति ॥ १,२३.१६४ ॥ शोधितं पारदं खल्वे दशनिष्कं विनिक्षिपेत् । निष्कैकं शुद्धगन्धं च स्वल्पं स्वल्पं विनिक्षिपेत् ॥ १,२३.१६५ ॥ कुट्टयेन्मर्दयेद्ग्राव्णा पिष्टिः स्याद्याममात्रके । क्षीरकन्देऽथवा वन्ध्याकन्दे वा कुडुहुञ्चिजे ॥ १,२३.१६६ ॥ कन्दे वा निक्षिपेत्पक्वे शुभे गन्धकपिष्टिकाम् । निष्कार्धं भस्म वैक्रान्तमूर्ध्वाधो निक्षिपेत्सुधीः ॥ १,२३.१६७ ॥ तत्कन्दमज्जया वक्त्रं निरुध्य च मृदा बहिः । लिम्पेदङ्गुलिमात्रेण शोषयित्वाथ सर्वतः ॥ १,२३.१६८ ॥ अष्टवारं पचेद्यन्त्रे भूधरे कौक्कुटे पुटे । करीषाग्नौ पुनः कुर्यादूर्ध्वभागमधः प्रिये ॥ १,२३.१६९ ॥ अधोभागं तथोर्ध्वं च भूयो भूयः प्रवर्तनम् । एवमेकदिनं पश्चात्पचेद्युगकरीषकैः ॥ १,२३.१७० ॥ पक्वदाडिमबीजाभो बद्धो भवति पारदः । वैक्रान्तबद्धनामा स्याच्चूर्णितो योगवाहकः ॥ १,२३.१७१ ॥ <द्वितीयः प्रकारः: गन्धकबन्धः> पूर्वोक्तां गन्धपिष्टीं तां वस्त्रे बद्ध्वाथ संपुटे । लोहजे पोट्टलीं स्थाप्यचोर्ध्वाधः समगन्धकम् ॥ १,२३.१७२ ॥ निरुध्य संपुटं सम्यक्पचेत्भूधरयन्त्रके । यथा जीर्णो भवेद्गन्धो भूयो भूयस्तथापि च ॥ १,२३.१७३ ॥ एव षड्गुणगन्धस्तु जारणीयो महेश्वरि । एवं गन्धकबद्धोऽयं रसः सर्वामयापहः ॥ १,२३.१७४ ॥ <तृतीयः प्रकारः: गन्धकबन्धः> षोडशाङ्गुलदीर्घा च जम्बीरफलविस्तृता । पक्वमूषा दृढतरा वालुकायन्त्रमध्यतः ॥ १,२३.१७५ ॥ त्रिभागमग्नां कुर्वीत बहिः पादांशसंस्थिताम् । तस्यां क्षिपेद्गन्धसूतं पलमेकं सुरेश्वरि ॥ १,२३.१७६ ॥ सूतादथोर्ध्वभागे तु द्विपलं शुद्धगन्धकम् । निक्षिपेत्तन्मुखं सम्यग्रोधयेन्मन्दवह्निना ॥ १,२३.१७७ ॥ पचेन्निर्धूमता यावत्तावद्धूमे गते पुनः । काकमाचीद्रवैः पूर्या तद्द्रवे जीर्णतां गते ॥ १,२३.१७८ ॥ रसेन नागवल्ल्याश्च पूरणीया पुनः प्रिये । उन्मत्तकरसैः पूर्या शनैर्मन्दाग्निना पचेत् ॥ १,२३.१७९ ॥ गन्धकं जीर्यते यावत्काकमाच्यादिकद्रवैः । धत्तूरान्तैः पचेदेवं बद्धो भवति पारदः ॥ १,२३.१८० ॥ नाम्ना गन्धकबद्धोऽयं सर्वयोगेषु योजयेत् । <चतुर्थः प्रकारः गन्धकस्वर्णबन्धः> पूर्ववद्गन्धपिष्टिं च विधायादौ विचक्षणः ॥ १,२३.१८१ ॥ सप्तार्धनिष्कसूतः स्यादध्यर्धं शुद्धहाटकम् । याममम्लेन संमर्द्यं ख्यातोऽयं हेमपिष्टिका ॥ १,२३.१८२ ॥ गन्धपिष्टिं हेमपिष्ट्या समयावेष्ट्य बाह्यतः । स्तनाकारे लोहमये संपुटे वस्त्रबन्धिताम् ॥ १,२३.१८३ ॥ कृत्वा तां पिष्टिकां क्षिप्त्वा पिष्ट्यूर्ध्वाधश्च गन्धकम् । सर्वतुल्यं क्षिपेत्सन्धिं रुद्ध्वाम्ललवणैः सुधीः ॥ १,२३.१८४ ॥ पचेद्भूधरयन्त्रे च जीर्णे जीर्णे पुनः पुनः । षड्गुणं गन्धकं दद्यात्ततो वस्त्रं शनैर्हरेत् ॥ १,२३.१८५ ॥ समांशं गन्धकं भूयो भूयो जार्यं शनैः शनैः । निःशेषं गन्धकं नैव कुर्याच्चेत्पारदच्युतिः ॥ १,२३.१८६ ॥ एवं शतगुणे जीर्णे गन्धपिष्टिं समाहरेत् । तत्समांशसुवर्णस्य संपुटे पिष्टिकां क्षिपेत् ॥ १,२३.१८७ ॥ काचं कन्याद्रवैः पिष्ट्वा लेपयेद्बाह्यतोऽङ्गुलम् । ततष्टङ्कणकैर्लिप्त्वा पश्चान्मृल्लवणैः क्रमात् ॥ १,२३.१८८ ॥ एकैकं लेपनं कार्यं वेष्ट्यमङ्गुलमानकम् । प्रतिलेपं शोषयेच्च कोष्ठीयन्त्रगतं धमेत् ॥ १,२३.१८९ ॥ वङ्कनालेन तीव्रेण वह्निना प्रहरं भवेत् । उदयादित्यसङ्काशं खोटं दिव्यरसायनम् ॥ १,२३.१९० ॥ गन्धहाटकबन्धोऽयं जराव्याधिदरिद्रहा । <पञ्चमः प्रकारः गन्धकबन्धः> अथवा गन्धपिष्टिं तां वस्त्रे बद्ध्वाथ गन्धकम् ॥ १,२३.१९१ ॥ तुल्यं दत्त्वा निरुध्याथ संपुटे लोहजे दृढम् । पुटेत्तद्भूधरे तावद्यावज्जीर्यति गन्धकम् ॥ १,२३.१९२ ॥ एवं पुनः पुनर्देयं यावद्गन्धं तु षड्गुणम् । इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगजित् ॥ १,२३.१९३ ॥ <षष्ठः प्रकारः मूलिकाबन्धः> कार्कोटीमूलजैर्द्रावैः पारदं मर्दयेद्दिनम् । मर्कटीमूलजे पिण्डे क्षिपेत्तं मर्दितं रसम् ॥ १,२३.१९४ ॥ तं पिण्डं वज्रमूषायां रुद्ध्वा तीव्राग्निना पचेत् । जायते खोटबद्धोऽयं सर्वकार्यकरः शुभः ॥ १,२३.१९५ ॥ <सप्तमः प्रकारः मूलिकाबन्धः> अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां प्रलेपयेत् । तन्मध्ये रञ्जितं सूतं क्षिप्त्वा बद्ध्वाथ रोधयेत् ॥ १,२३.१९६ ॥ मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे । पचेद्गजपुटे पश्चात्पारदो बन्धमाप्नुयात् ॥ १,२३.१९७ ॥ <अष्टमः प्रकारः मूलिकाबन्धः> जलकुम्भीरसैः सूतं मर्दयेद्दिवसत्रयम् । जलकुम्भीदलैर्मूषां कृत्वा तत्र क्षिपेद्रसम् ॥ १,२३.१९८ ॥ रुद्ध्वा तां वज्रमूषायां छायाशुष्कं पुटेल्लघु । छगणैरेकवृद्ध्या तु त्रिंशद्वारं पुटैः पचेत् ॥ १,२३.१९९ ॥ ततो गजपुटे देयं सम्यग्बद्धो भवेद्रसः । <नवमः प्रकारः मूलिकाबन्धः> एकवीराद्रवैर्मर्द्यं दिनं शुद्धं तु सूतकम् ॥ १,२३.२०० ॥ एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् । तस्यां पूर्वरसं क्षिप्त्वा ध्माते बद्धो भवेद्रसः ॥ १,२३.२०१ ॥ <दशमः प्रकारः मूलिकाबन्धः> आरक्तक्षीरकन्दोत्थद्रवैः स्त्रीस्तन्यसंयुतैः । त्रिदिनं पारदं मर्द्यं वज्रकन्दद्रवैस्त्र्यहम् ॥ १,२३.२०२ ॥ क्षीरकन्दस्य कल्केन वज्रमूषां प्रलेपयेत् । तत्र पूर्वरसं बद्ध्वा ध्माते बद्धो भवेद्रसः ॥ १,२३.२०३ ॥ <एकादशः प्रकारः मूलिकाबन्धः> अर्कमूलफलं पिष्ट्वा मूषां तेन प्रलेपयेत् । तन्मध्ये निक्षिपेन्मूषां पुङ्खामूलविनिर्मिताम् ॥ १,२३.२०४ ॥ तन्मध्ये सूतकं क्षिप्त्वा पुङ्खामूलसमुद्भवैः । पूरयित्वा रसैर्मूषां निरुन्ध्यात्तन्मुखं दृढम् ॥ १,२३.२०५ ॥ एवमन्धीकृतां मूषां क्षिपेत्सम्पुटमध्यतः । ततस्तं लेपयेद्यत्नाल्लवणेन मृदा तथा ॥ १,२३.२०६ ॥ ततोऽसौ पुटयोगेन सूतो बन्धमवाप्नुयात् । राजिकाद्वयमात्रेण चित्रकद्रवसैन्धवैः ॥ १,२३.२०७ ॥ चूर्णितो भक्षितः प्रातः सर्वरोगविनाशकः । <द्वादशः प्रकारः मूलिकाबन्धः> कपित्थस्य शिफानीरैर्यामं सूतं विमर्दयेत् ॥ १,२३.२०८ ॥ अन्यस्यामन्धमूषायां सूतमूषां निरोधयेत् । तथा धमेत्ततो मूषां यथा सिन्दूरवद्भवेत् ॥ १,२३.२०९ ॥ एवं कृते रसेन्द्रोऽसौ बध्यते नात्र संशयः । मूलिकाबन्धनं ह्येतद्रसेन्द्रस्य प्रकीर्तितम् ॥ १,२३.२१० ॥ इत्येते मारिताः सूता मूर्छिता बन्धमागताः । प्रत्येकं योजितास्तत्र प्रयोगैर्योगवाहिनः ॥ १,२३.२११ ॥ <रसमूर्च्छनाविधिः; प्रथमः प्रकारः> अथ शुद्धस्य सूतस्य मूर्च्छनाविधिरुच्यते । मेघनादवचाहिङ्गुलशुनैर्मर्दयेद्रसम् ॥ १,२३.२१२ ॥ दिनं पिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः । पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥ १,२३.२१३ ॥ ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण बन्धयेत् । ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत् ॥ १,२३.२१४ ॥ जीर्णे गन्धं पुनर्देयं षड्भिर्वारैः समं समम् । षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥ १,२३.२१५ ॥ <द्वितीयः प्रकारः> गन्धकं धूमसारं च शुद्धं सूतं समं समम् । यामैकं चूर्णयेत्खल्वे काचकुप्यां निवेशयेत् ॥ १,२३.२१६ ॥ रुद्ध्वा द्वादशयामान्तं वालुकायन्त्रके पचेत् । स्फोटयेत्स्वांगशीतं तमूर्ध्वस्थं गन्धकं त्यजेत् ॥ १,२३.२१७ ॥ अधःस्थं रसमादाय सर्वयोगेषु योजयेत् । <तृतीयः प्रकारः> शुद्धसूतं तथा गन्धं सूतार्धं सैन्धवे क्षिपेत् ॥ १,२३.२१८ ॥ द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् । कृत्वा गोलं तु संशोष्य मूषायां तं निरोधयेत् ॥ १,२३.२१९ ॥ शोषयित्वा धमेत्किंचित्सुतप्तेऽथ जले क्षिपेत् । तस्माद्रसं समुद्धृत्य त्रिकन्दरसभावितम् ॥ १,२३.२२० ॥ योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् । <चतुर्थः प्रकारः> रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥ १,२३.२२१ ॥ कृत्वा तद्बन्धयेद्वस्त्रे डोलायन्त्रगतं पचेत् । गोमूत्रे तद्गतं यामं नरमूत्रैर्दिनत्रयम् ॥ १,२३.२२२ ॥ शोषयेत्तत्पुनर्वस्त्रैर्बद्ध्वा वेष्ट्यं मृदा दृढम् । शुष्कं निरुध्य मूषायां पचेदथ तुषाग्निना ॥ १,२३.२२३ ॥ ऊर्ध्वभागमधः कृत्वा त्वधोभागमथोर्ध्वगम् । इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥ १,२३.२२४ ॥ पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् । सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ॥ १,२३.२२५ ॥ चण्डालीरुधिरं सूतं सूतपादं च टङ्कणम् । जयन्त्या मर्दयेद्द्रावैर्दिनमेकं तु गोलकम् ॥ १,२३.२२६ ॥ पिष्टया सहदेव्याथ लेपयेत्ताम्रसम्पुटम् । तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ॥ १,२३.२२७ ॥ वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः । चित्रकैः सहदेव्या च गन्धकं लेपयेद्बहिः ॥ १,२३.२२८ ॥ सम्पुटं बन्धयेद्वस्त्रे मृदा लेप्यं च शोषयेत् । तं रुद्ध्वा चान्यमूषायां ध्माते सम्पुटमाहरेत् ॥ १,२३.२२९ ॥ सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः । सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥ १,२३.२३० ॥ <पञ्चमः प्रकारः> धुत्तूरकद्रवैर्मर्द्यं दिनं गन्धांशसूतकम् । अन्धमूषागतं स्वेद्यं भूधरे मूर्छितो दिनात् ॥ १,२३.२३१ ॥ <षष्ठः प्रकारः> कृत्वा षडङ्गुलां मूषां सुपक्वां मृण्मयीं दृढाम् । मूषागर्भे विलिप्याथ मूलैर्वर्तुलपत्त्रजैः ॥ १,२३.२३२ ॥ तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः । रुद्ध्वा तां वालुकायन्त्रे चुल्ल्यां दीपाग्निना पचेत् ॥ १,२३.२३३ ॥ सप्ताहान्ते समुद्धृत्य योजयेत्तं जरापहम् । <सप्तमः प्रकारः> कुरण्डकरसैः सान्द्रमातपे मर्दयेद्रसम् ॥ १,२३.२३४ ॥ लताकरञ्जपत्रोत्थैः पादांगुष्ठेन मर्दयेत् । दिनैकं मूर्छितं सम्यक्सर्वयोगेषु योजयेत् ॥ १,२३.२३५ ॥ <अष्टमः प्रकारः> कासीसं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् । कासीसस्याप्यभावे तु दातव्या फुल्लतूरिका ॥ १,२३.२३६ ॥ स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मूर्छयेत् । प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित् ॥ १,२३.२३७ ॥ स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् । ऊर्ध्वलग्नं ततः शुभ्रं मूर्छितं चाहरेच्छुभम् ॥ १,२३.२३८ ॥ <नवमः प्रकारः> अथ शुद्धस्य सूतस्य मूर्छितस्यापरो विधिः । सूततुल्यं मृतं स्वर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥ १,२३.२३९ ॥ रविक्षीरैर्दिनं मर्द्यमन्धयेद्भूधरे पुटे । दिनैकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥ १,२३.२४० ॥ शुभ्रः शोणोऽथवा कृष्णवर्णो गुरुतरो रसः । पुनरुत्थानवान्यस्तु मूर्छितः स उदाहृतः ॥ १,२३.२४१ ॥ <मूलिकाबन्धाः> श्रीभैरवी । कीदृशी ओषधी नाथ रसमूर्च्छाकरी शुभा । केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥ १,२३.२४२ ॥ श्रीभैरवः । शृणु भैरवि तत्त्वेन रहस्यं रसबन्धनम् । ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं सुरवन्दिते ॥ १,२३.२४३ ॥ <निशाचरमूलिकाकल्पः> गङ्गायमुनयोर्मध्ये प्रयागो नाम राक्षसः । तस्यासने वरारोहे क्षणाद्बध्येत सूतकः ॥ १,२३.२४४ ॥ निशाचरस्य पत्राणि गृह्णीयात्साधकोत्तमः । ततो निपीड्यते देवि रसो भवति चोत्तमः ॥ १,२३.२४५ ॥ रसं संमर्द्य तेनैव दिनानि त्रीणि वार्तिकः । आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत् ॥ १,२३.२४६ ॥ तेन पत्ररसेनैव साधयेद्गन्धकं पुनः । सप्तधा भावितं तेन त्र्यूषणेन सहैकतः ॥ १,२३.२४७ ॥ यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् । मासमात्रेण देवेशि जीर्यते तु समं समम् ॥ १,२३.२४८ ॥ समजीर्णे तु गगने शतवेधी भवेद्रसः । निशाचररसे देवि गन्धकं भावयेत्ततः ॥ १,२३.२४९ ॥ भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु । तारस्य पत्रलेपेन अर्धार्धे काञ्चनोत्तमम् ॥ १,२३.२५० ॥ गन्धके समजीर्णेऽस्मिन् शतवेधी भवेद्रसः । निशाचररसैर्भाव्यं सप्तवारं तु तालकम् ॥ १,२३.२५१ ॥ तेनैव घातयेद्वङ्गं नागं तारे तु निर्वहेत् । तत्तारं जारयेत्सूते तत्सूतं बन्धितं भवेत् ॥ १,२३.२५२ ॥ चतुः षष्टितमे भागे शुल्बवेधं तु दापयेत् । तदंशं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥ १,२३.२५३ ॥ निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् । पलानि दशचूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥ १,२३.२५४ ॥ घृतेन मधुनालोड्यं नवभाण्डे विनिक्षिपेत् । धान्यराशौ निधातव्यं त्रिः सप्ताहं सुरेश्वरि ॥ १,२३.२५५ ॥ तेन भक्षितमात्रेण वलीपलितवर्जितः । वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् ॥ १,२३.२५६ ॥ अर्धमासप्रयोगेण प्रत्ययोगं भवेत्प्रिये । तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥ १,२३.२५७ ॥ मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् । <मेर्चुर्य्:: पट्टबन्ध> ग्राह्यं तत्फलतैलं तु यन्त्रे पातालसंज्ञके ॥ १,२३.२५८ ॥ तेन तैलेन देवेशि रसं संकोचयेद्बुधः । तत्क्षणाज्जायते देवि पाटबन्धो महारसः ॥ १,२३.२५९ ॥ कटकं कङ्कणं कार्यं रसलिङ्गं वरानने । संकोचमरणं तेन कर्तव्यं परमाद्भुतम् ॥ १,२३.२६० ॥ <अङ्गनायिकाकल्पः> पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् । त्रैलोक्यजननी या सा ओषधी अङ्गनायिका ॥ १,२३.२६१ ॥ तया संपर्कमात्रेण बद्धस्तिष्ठति पारदः । सप्ताहं मर्दितस्यास्य महौषध्या रसै रसः ॥ १,२३.२६२ ॥ शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् । त्रिः सप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि ॥ १,२३.२६३ ॥ लक्षवेधी रसः साक्षादष्टौ लोहानि विध्यति । त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति ॥ १,२३.२६४ ॥ चतुर्थे चैव सप्ताहे कोटिवेधी भवेद्रसः । स्वेदतापनिघर्षेण महौषध्या रसेन तु ॥ १,२३.२६५ ॥ ददाति खेचरीं सिद्धिमनिवारितगोचरः । कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे ॥ १,२३.२६६ ॥ नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेदसौ । महौषध्या रसेनैव मृतसंजीवनं भवेत् ॥ १,२३.२६७ ॥ अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये । मृतस्य दापयेन्नस्यं हस्तौ पादौ तु मर्दयेत् ॥ १,२३.२६८ ॥ तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने । <नरसारकल्पः> पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १,२३.२६९ ॥ नरसारस्पर्शनेन क्षणाद्बध्येत सूतकः । नरसाररसं दत्त्वा द्विपदीरजसा रसे ॥ १,२३.२७० ॥ दिनान्ते बन्धमायाति सर्वलोहानि रञ्जति । नरसाररसेनैव भावयेत्तु मनःशिलाम् ॥ १,२३.२७१ ॥ निर्गन्धा जायते सा तु घातयेत्तेन पन्नगम् । द्विपदीरजसा सार्धं निरुद्धः पन्नगो भवेत् ॥ १,२३.२७२ ॥ नरसाररसेनैव जीर्णे षड्गुणपन्नगे । तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥ १,२३.२७३ ॥ नरसाररसे स्तन्ये भावितं सप्तधा पृथक् । रसस्य दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥ १,२३.२७४ ॥ जीर्यते गगनं देवि निर्मुखे च वरानने । नरसाररसेनेशि कीटनारीरसेन च ॥ १,२३.२७५ ॥ द्रावयेद्गगनं देवि तीक्ष्णलोहं च पन्नगम् । नरसाररसेनेशि हनुमत्या रसेन च ॥ १,२३.२७६ ॥ जायते काञ्चनं दिव्यं निषेकाद्भास्करः प्रिये । नरसाररसे दत्त्वा मञ्जिष्ठां रक्तचन्दनम् ॥ १,२३.२७७ ॥ स्वरसैर्मदयन्त्याश्च पन्नगं देवि सेचयेत् । तत्क्षणात्काञ्चनं दिव्यं सप्तवारा निषेचितम् ॥ १,२३.२७८ ॥ अष्टमांशयुतं हेम हेमकर्मणि चौषधम् । नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् ॥ १,२३.२७९ ॥ तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमाप्नुयात् । तद्भस्म ताम्रपिष्टे तु त्रिगुणं तेन निर्वहेत् ॥ १,२३.२८० ॥ तच्छुल्बं हेमसङ्काशं तारे वाष्टांशयोजितम् । तारं हेमसमांशं तु द्विवर्णं पतितं भवेत् ॥ १,२३.२८१ ॥ नरसाररसे भाव्यं रसकं सप्तवारतः । नरसाररसेनैव रसेन्द्रं सप्तवारतः ॥ १,२३.२८२ ॥ तं रसं रसकं चैव तीक्ष्णलोहं च पन्नगम् । नरसाररसेनैव तेनैकत्र विमर्दयेत् ॥ १,२३.२८३ ॥ तत्क्षणाज्जायते बद्धो रसस्य रसकस्य च । तीक्ष्णनागं तथा शुल्बं रसकेन तु रञ्जयेत् ॥ १,२३.२८४ ॥ हठात्तज्जायते हेम कूष्माण्डकुसुमप्रभम् । <कङ्कालखेचरीकल्पः> पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १,२३.२८५ ॥ कङ्कालखेचरी नाम्ना ओषधी परमेश्वरि । तस्य तैलं तु संग्राह्यमाद्यखेचरिसंयुतम् ॥ १,२३.२८६ ॥ स्थापयेद्दिनमेकं तु पात्रे भास्करनिर्मिते । द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् ॥ १,२३.२८७ ॥ अनले धामयेत्तं तु सुतप्तं प्रज्वलत्प्रभम् । <मन्त्रसिह्मासनीकल्पः> सबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये ॥ १,२३.२८८ ॥ मन्त्रसिंहासनी नाम तृतीया देवि खेचरी । पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥ १,२३.२८९ ॥ तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसम् । मेदिनीयन्त्रमध्ये तु स्थापयेच्च वरानने ॥ १,२३.२९० ॥ पूर्वौषध्यां तु तद्देवि गगनं मेदिनीजले । रसे मासं ततो दत्त्वा मर्दनाद्गोलकं कुरु ॥ १,२३.२९१ ॥ बद्ध्वा पोट्टलिकां तेन गगनं जारयेत्प्रिये । समे तु गगने जीर्णे बद्धस्तिष्ठति पारदः ॥ १,२३.२९२ ॥ भस्त्राफूत्कारयुक्तेन धाम्यमानो न नश्यति । काकविष्ठासमं रूपं समजीर्णस्य जायते ॥ १,२३.२९३ ॥ द्विगुणे गगने जीर्णे ह्यष्टलोहानि संहरेत् । <इरिन्दिरीकल्पः> पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १,२३.२९४ ॥ शिवदेहात्समुत्पन्ना ओषधी तु इरिन्दिरी । जारयेद्गन्धकं सा तु जारयेत्सापि तालकम् ॥ १,२३.२९५ ॥ काञ्चनं जारयेत्सा तु रसेन्द्रं सा च बन्धयेत् । प्रवालं द्रावयेत्सा तु द्रावयेद्गगनं तथा ॥ १,२३.२९६ ॥ वज्रं च घातयेत्सा तु सर्वसत्वं च घातयेत् । जारयेत्सर्वलोहानि सत्वान्यपि च जारयेत् ॥ १,२३.२९७ ॥ इरिन्दिरीरसे न्यस्य गोशृङ्गे तु वरानने । धान्यराशौ निधातव्यं द्रुतस्तिष्ठति पारदः ॥ १,२३.२९८ ॥ दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते । समे तु कनके जीर्णे दशकोटिं तु वेधयेत् ॥ १,२३.२९९ ॥ पञ्चमे लक्षकोटिं तु षड्गुणे स्पर्शवेधकः । सप्तमे धूपवेधी स्यादष्टमे त्ववलोकतः ॥ १,२३.३०० ॥ नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते । भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥ १,२३.३०१ ॥ तृणौषधिरसानां च नैव सिद्धिः प्रजायते । तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥ १,२३.३०२ ॥ दिव्यौषध्यश्चतुः षष्टिः कुलमध्ये व्यवस्थिताः । नैव जानाति मूढास्ताः शिवमोहेन मोहिताः ॥ १,२३.३०३ ॥ अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे । तृणौषध्या रसे सूतो नैव बद्धः कदाचन ॥ १,२३.३०४ ॥ अक्षयो नैव तिष्ठेत कुलौषधिविवर्जितः । कुलौषध्या विहीनास्तु गगनं चारयन्ति ये ॥ १,२३.३०५ ॥ स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति । न खोटं न च वा भस्म नैव द्रव्यं करोति सः ॥ १,२३.३०६ ॥ किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति । पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥ १,२३.३०७ ॥ न वेधं च शतादूर्ध्वं करोति स रसः प्रिये । यावन्न चाब्दमेकं तु विक्रान्तं त्रपु तत्तु काञ्चनम् ॥ १,२३.३०८ ॥ धर्मार्थकाममोक्षेषु नैव दद्यात्ततः प्रिये । श्रीभैरवी । निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ॥ १,२३.३०९ ॥ निर्जीवेन तु निर्जीवं कथं जीवति शंकरः । श्रीभैरवः । दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥ १,२३.३१० ॥ कालिकारहितः सूतस्तदा भवति पार्वति । परस्य हरते कालं कालिकारहितो रसः ॥ १,२३.३११ ॥ अष्टानां चैव लोहानां मलं शमयति क्षणात् । महामूर्च्छागतं सूतं को वा विकथयेन्मृतम् ॥ १,२३.३१२ ॥ दिव्यौषध्या रसेनैव जायते नष्टचेतनः । पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥ १,२३.३१३ ॥ <क्ष्मापालकल्पः> पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि । क्ष्मापालेन हरेद्वज्रमनेनैव तु काञ्चनम् ॥ १,२३.३१४ ॥ वज्रभस्म हेमभस्म तद्वा एकत्र बन्धयेत् । <अन्ये कुलमूलिकाकल्पाः> निशाचररसे जार्यं नरजीवेन जारयेत् ॥ १,२३.३१५ ॥ तं सूतं मारयेद्भद्रे जागरिर्दिव्य ओषधिः । भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः ॥ १,२३.३१६ ॥ भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः । प्रस्वेदात्तस्य गात्रस्य अष्टौ लोहानि काञ्चनम् ॥ १,२३.३१७ ॥ लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः । प्रस्वेदात्तस्य गात्रस्य रसराजश्च बध्यते ॥ १,२३.३१८ ॥ अजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् । जागरीस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥ १,२३.३१९ ॥ तुरुवल्ल्या रसेनैव भावितं गगनं प्रिये । जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥ १,२३.३२० ॥ द्रुतगोलकमाषैकं माषैकं हेमगोलकम् । एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् ॥ १,२३.३२१ ॥ कर्षैकं नागपत्राणि रसकल्केन लेपयेत् । वेष्टयेद्वृश्चिकालीं च तत्पिण्डं लेपयेत्ततः ॥ १,२३.३२२ ॥ मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् । कर्षैकं तारपर्णानि मृतनागेन लेपयेत् ॥ १,२३.३२३ ॥ लेपयेद्वृश्चिकालीं च तत्पत्रं लेपयेत्ततः । तत्तारं म्रियते देवि सिन्दूरारुणसन्निभम् ॥ १,२३.३२४ ॥ सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरभूषणम् ॥ १,२३.३२५ ॥ क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति । नाम्ना वर्तुलपत्त्राणि शस्यते रसबन्धने ॥ १,२३.३२६ ॥ एकवारं कन्दकल्के मूकमूषागतं रसम् । धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥ १,२३.३२७ ॥ रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् । मूषायां पूर्वयोगेन कुरुते सूतबन्धनम् ॥ १,२३.३२८ ॥ वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् । धमयेत्पूर्ववत्सूतं भक्षणार्थाय वार्तिकः ॥ १,२३.३२९ ॥ वज्रकन्दं समादाय रसं मध्ये विनिक्षिपेत् । गजेन्द्राख्यं पुटं दद्यात्सप्तधा बन्धतां नयेत् ॥ १,२३.३३० ॥ भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् । लाङ्गलीकन्दमादाय कर्कोटीकन्दमेव च ॥ १,२३.३३१ ॥ रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः । म्रियते नात्र सन्देहो ध्मातस्तीव्रानलेन तु ॥ १,२३.३३२ ॥ शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः । शतांशवेधकर्तायं देहसिद्धिकरो भवेत् ॥ १,२३.३३३ ॥ हंसपादीरसं सूतं शुष्ककन्दोदरे क्षिपेत् । गजेन्द्रपुटनं दद्यान्म्रियते नात्र संशयः ॥ १,२३.३३४ ॥ सहस्रवेधकर्ता च जायते नात्र संशयः । हंसाङ्घ्रिं शुकचञ्चुं च गृहीत्वा मर्दयेद्रसम् ॥ १,२३.३३५ ॥ क्रौञ्चपादोदरे क्षिप्त्वा ततो दद्यात्पुटत्रयम् । म्रियते नात्र सन्देहो लक्षवेधी महारसः ॥ १,२३.३३६ ॥ <तृणज्योतिःकल्पः> तृणज्योतिरिति ख्यातां शृणु दिव्यौषधिं प्रिये । निशा तु प्रज्वलेन्नित्यं नाह्ना ज्वलति पार्वति ॥ १,२३.३३७ ॥ तस्य मूले तु संक्षिप्ते क्षीरं रक्तं भवेत्क्षणात् । तन्मूलरसगन्धाभ्रैर्मातुलुङ्गाम्लपेषितैः ॥ १,२३.३३८ ॥ शुल्बपत्रं विलिप्तं तु भवेद्धेम पुटत्रयात् । तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि ॥ १,२३.३३९ ॥ मातुलुङ्गरसे घृष्टमभ्रकं चरति क्षणात् । <उच्चाटाकल्पः> अथोच्चाटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ॥ १,२३.३४० ॥ एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् । तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ॥ १,२३.३४१ ॥ तत्पत्राणि च देवेशि शुकपिञ्छनिभानि च । तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ॥ १,२३.३४२ ॥ जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति । वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ॥ १,२३.३४३ ॥ रसतालकतुत्थानि मर्दयेदुच्चटारसैः । आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥ १,२३.३४४ ॥ वेधयेत्सर्वलोहानि लक्षांशेन वरानने । आवर्तितं भवेद्यावज्जायतेऽर्कसमप्रभम् ॥ १,२३.३४५ ॥ <रक्तस्नुहीकल्पः> रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् । दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥ १,२३.३४६ ॥ स्नुहीक्षीरं समादाय निशाचूर्णेन वेष्टयेत् । गुटिकीकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥ १,२३.३४७ ॥ <स्थलपद्मिनीकल्पः> अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु । पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥ १,२३.३४८ ॥ भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णा सुशोभना । आक्रम्य वामपादेन पश्येद्गगनमण्डलम् ॥ १,२३.३४९ ॥ पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् । लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥ १,२३.३५० ॥ तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् । मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥ १,२३.३५१ ॥ मर्दयेत्सप्तरात्रं तु तेन शुल्बं च वेधयेत् । सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥ १,२३.३५२ ॥ तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये । चारयेत्सूतराजं तु मूकमूषागतं धमेत् ॥ १,२३.३५३ ॥ म्रियते मूषिकामध्ये संकोचेन न संशयः । तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥ १,२३.३५४ ॥ <चित्रककल्पः> चित्रकस्य यथा गुह्यं कथयामि समासतः । त्रिविधश्चित्रको ज्ञेयः कृष्णो रक्तो रसायनम् ॥ १,२३.३५५ ॥ शुक्लो व्याधिप्रशमनः श्रेष्ठमध्यकनीयसाः । कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः ॥ १,२३.३५६ ॥ कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि । क्षीरमध्ये क्षिपेत्क्षीरं कृष्णवर्णं भवेत्क्षणात् ॥ १,२३.३५७ ॥ तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् । धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥ १,२३.३५८ ॥ रक्तांबरधरो भूत्वा रक्तमाल्यानुलेपनः । कृष्णपक्षे तु पञ्चम्यां रक्तमाल्यौदनेन तु ॥ १,२३.३५९ ॥ बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् । रक्तचित्रकचूर्णेन वङ्गं पायैस्त्रिभिस्त्रिभिः ॥ १,२३.३६० ॥ सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् । तन्मूलं सूतकं ताम्रं कुङ्कुणीतैलसेचनात् ॥ १,२३.३६१ ॥ एकविंशतिवारेण शुद्धं शुल्बं भविष्यति । रक्तचित्रकभल्लाततैललिप्तं पुटेन तु ॥ १,२३.३६२ ॥ चन्द्रार्कपत्रं देवेशि जायते दिव्यकाञ्चनम् । नागिनीकन्दसूतेन्द्ररक्तचित्रसंयुतम् ॥ १,२३.३६३ ॥ पत्रलेपप्रतीवापैश्चन्द्रार्कं काञ्चनं भवेत् । <ज्योतिष्मतीतैलकल्पः> ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥ १,२३.३६४ ॥ ज्योतिष्मती नाम लता या च काञ्चनसन्निभा । वल्लीवितानबहुला हेमवर्णफला शुभा ॥ १,२३.३६५ ॥ आषाढपूर्वपक्षेऽस्या गृहीत्वा बीजमुत्तमम् । तिलवत्क्वाथयित्वा वा हस्तपादैरथापि वा ॥ १,२३.३६६ ॥ तस्यास्तैलं समादाय कुम्भे ताम्रमये क्षिपेत् । स्थापयेद्भूगतं कुम्भं क्रमादूर्ध्वतुषाग्निना ॥ १,२३.३६७ ॥ षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् । ताम्रं हेमसमं कृत्वा तैलमाक्षीकमिश्रितम् ॥ १,२३.३६८ ॥ प्रतिवापेन सिञ्चेत्तद्धेम ताम्रसमं भवेत् । तथा च शतवेधी स्याद्विद्यारत्नमनुत्तमम् ॥ १,२३.३६९ ॥ <दग्धरुहाकल्पः> दग्धरुहां प्रवक्ष्यामि रसबन्धकरीं प्रिये । स्पर्शौषधीति सा ज्ञेया सर्वकामार्थसाधनी ॥ १,२३.३७० ॥ शश्वच्छिन्ना महादेवि दग्धा सा पावकेन तु । प्ररोहति क्षणाद्दिव्या दग्धा सा तु महौषधी ॥ १,२३.३७१ ॥ रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते । चणकस्येव पत्राणि सुप्रसूतानि लक्षयेत् ॥ १,२३.३७२ ॥ सा स्थिता गोमतीतीरे गङ्गायामर्बुदे गिरौ । उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥ १,२३.३७३ ॥ तस्याः कन्दरसं दिव्ये कृष्णराजीसमन्वितम् । ताम्बूलेन समं कृत्वा घुटिकां कारयेद्बुधः ॥ १,२३.३७४ ॥ सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः । सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥ १,२३.३७५ ॥ तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः । <कटुतुम्बीकल्पः> कटुतुंबी तु विख्याता देवि दिव्यौषधिं शृणु ॥ १,२३.३७६ ॥ तस्या बीजानि संगृह्य सूक्ष्मचूर्णं तु कारयेत् । एकविंशतिवाराणि भाव्यं धात्रीरसेन च ॥ १,२३.३७७ ॥ पयसा सह तेनैव विश्वभेषजसंयुतम् । बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पिण्डितः ॥ १,२३.३७८ ॥ रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् । <लोहदण्डकल्पः> गोपित्तं शिखिपित्तं च कांक्षीकासीससंयुतम् ॥ १,२३.३७९ ॥ तारतुल्यानि चैतानि सर्वेषां सूतकं समम् । मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् ॥ १,२३.३८० ॥ लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् । गन्धकं लोहदण्डेन एकविंशतिभावितम् ॥ १,२३.३८१ ॥ युक्तं लोहकुलेनैव जम्बीररससंयुतम् । सबीजं सूतकोपेतमन्धमूषानिवेशितम् ॥ १,२३.३८२ ॥ भूगतं मासमेकं तु तारं काञ्चनतां नयेत् । दलस्य भागमेकं तु तारपञ्चांशमेव च ॥ १,२३.३८३ ॥ शुल्बं च पञ्चभागं च बीजस्यैकं च योजयेत् । एते द्वादशभागाः स्युः सर्वं तद्धारयेत्क्षितौ ॥ १,२३.३८४ ॥ स्थानस्यास्य निषेकं तु सुदण्डेन तु कारयेत् । पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥ १,२३.३८५ ॥ <क्षीरकन्दकल्पः> क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं तथा । चतुर्वर्णं विषं तत्र रक्तकन्दं प्रशस्यते ॥ १,२३.३८६ ॥ भग्नमेतत्स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् । मेघानां तु निनादेन संजातैरुपशोभितम् ॥ १,२३.३८७ ॥ पत्रैः स्नुहीसमैः स्निग्धैः समभिर्हेमसत्प्रभैः । बन्धनं रसराजस्य सर्वसत्ववशंकरम् ॥ १,२३.३८८ ॥ तस्य क्षीरं तु संगृह्य तारं निर्वाहयेद्बुधः । धमेद्धठाग्निना चैव जायते हेम शोभनम् ॥ १,२३.३८९ ॥ तिन्त्रिणीपत्रनिर्यासमीषत्ताम्ररजोयुतम् । मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति ॥ १,२३.३९० ॥ तोयमध्ये विनिक्षिप्य गुलिका वज्रवद्भवेत् । <शाकवृक्षकल्पः> शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् ॥ १,२३.३९१ ॥ रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् । मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥ १,२३.३९२ ॥ गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् । रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥ १,२३.३९३ ॥ शाकवृक्षस्य निर्यासं यत्नतः परिगालयेत् । शिग्रुमूलस्य चूर्णं तु तद्रसेन तु मर्दयेत् ॥ १,२३.३९४ ॥ प्रलिप्तशुल्बपत्राणि पुटेत्क्षिप्त्वा विपाचयेत् । तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥ १,२३.३९५ ॥ फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् । तद्रसेन तु सम्प्राज्ञः सप्तरात्रं तु भावयेत् ॥ १,२३.३९६ ॥ तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा । लेपयेत्तारपत्राणि ध्मातं भवति काञ्चनम् ॥ १,२३.३९७ ॥ <देवदालीकल्पः> देवदाल्या महौषध्या विधिं वक्ष्याम्यतः परम् । सा श्वेता व्याधिशमने कृष्णा पीता रसायने ॥ १,२३.३९८ ॥ पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे । अथवा कृष्णपञ्चम्यामिमां विधिवदुद्धरेत् ॥ १,२३.३९९ ॥ देवदालीफलं देवि विष्णुक्रान्तां च सूतकम् । मूर्छयेद्बन्धयेत्क्षिप्रं शुल्बं हेम करोति च ॥ १,२३.४०० ॥ देवदालीफलं मूलमीश्वरीरसमेव च । तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥ १,२३.४०१ ॥ <श्वेतगुञ्जाकल्पः> अथातः सम्प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये । कृष्णपक्षे चतुर्दश्यामष्टम्यां च सुरार्चिते ॥ १,२३.४०२ ॥ कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु । बीजानि सितगुञ्जायाः पुष्ययोगे तु वापयेत् ॥ १,२३.४०३ ॥ वक्ष्यमाणेन योगेन कुर्यात्संग्रहणं तथा । ओं नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि ॥ १,२३.४०४ ॥ सर्वकार्याणि कुरु कुरु अप्रतिहतं नमो नमः स्वाहा । शुद्धशुल्बं तु संगृह्य मूषामध्ये तु संस्थितम् ॥ १,२३.४०५ ॥ त्रिपञ्चपलसंख्या तु कर्षार्धसितगुञ्जया । सहैकत्र भवं तारं तस्य गन्धविवर्जितम् ॥ १,२३.४०६ ॥ ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः । देवीनां भूषणं देवि जायते हेम शोभनम् ॥ १,२३.४०७ ॥ <कर्तरीरसबन्धः> अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् । असुराणां समायोगे क्रोधाविष्टेन चेतसा ॥ १,२३.४०८ ॥ सुदर्शनं महाचक्रं प्रेषितं मुरवैरिणा । भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः ॥ १,२३.४०९ ॥ ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः । रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् ॥ १,२३.४१० ॥ चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति । कुरुते गर्जनं नादं धूमज्वालां विमुञ्चति ॥ १,२३.४११ ॥ कर्तरीदृष्टिमात्रेण तथान्या शब्दकर्तरी । लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता ॥ १,२३.४१२ ॥ रसरूपा महाघोरा सा सिद्धानां तु वेदिनी । तस्य क्षेत्रं यदा गच्छेदघोरास्त्रं जपेत्तदा ॥ १,२३.४१३ ॥ पुनर्घोरं न्यसेत्तत्र अथान्यं विन्यसेद्बुधः । अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् ॥ १,२३.४१४ ॥ मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् । दीप्तेन रोधयेत्तां तु स्तम्भयेद्दीपनेन तु ॥ १,२३.४१५ ॥ निष्ठया मुद्रया तां तु स्थानयोगेन योजयेत् । <उदकबन्धाः; चन्द्रोदकबन्धः> अथ चन्द्रोदकेनेशि वक्ष्यामि रसबन्धनम् ॥ १,२३.४१६ ॥ दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः । ग्रहणं तत्र कर्तव्यं पौर्णमास्यां प्रयत्नतः ॥ १,२३.४१७ ॥ निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या तु वर्धते । क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शङ्करम् ॥ १,२३.४१८ ॥ चतुर्दश्यां तु तत्क्षेत्रं पूजयित्वा विचक्षणः । अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥ १,२३.४१९ ॥ पौर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः । चन्द्रोदकं तु संगृह्य मन्त्रयुक्तः सुमन्त्रितम् ॥ १,२३.४२० ॥ आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः । पीतमात्रेण तेनैव मूर्छितो भवति क्षणात् ॥ १,२३.४२१ ॥ चन्द्रोदये तथोत्तिष्ठेत्क्षारं तस्य तु दापयेत् । सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥ १,२३.४२२ ॥ एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयम् । एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥ १,२३.४२३ ॥ चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् । मूषामध्यगतं ध्मातं तत्क्षणाद्घुटिका भवेत् ॥ १,२३.४२४ ॥ अयं तु स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् । तद्रसं तु रसं चान्यं वज्रेण समजारितम् ॥ १,२३.४२५ ॥ चतुःषष्ट्यंशतो विध्येद्द्विगुणेन सहस्रकम् । दशसङ्कलिकाबद्धं गुञ्जामात्रं रसं ततः ॥ १,२३.४२६ ॥ त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् । ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्नं नाशय नाशय दिशो रक्ष रक्ष रुद्रो ज्ञापयति हुं फट्स्वाहा । इति दिग्बन्धमन्त्रः । ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भव रक्ष रक्ष हुं फट्स्वाहा । इति पानमन्त्रः । <विषोदकबन्धः> अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥ १,२३.४२७ ॥ सितपीतादिवर्णाढ्यं तत्र देवि रसोत्तमम् । तत्र गत्वाचलोद्देशे स्मरेद्घोरं सहस्रकम् ॥ १,२३.४२८ ॥ केशाः क्षिप्ताः स्फुटन्त्यस्मिन्नात्मच्छायां न दृश्यते । तैलं च गोलकाकारं घृतं तेन विसर्पति ॥ १,२३.४२९ ॥ गन्धकस्य हरेद्गन्धं पललं लवणायते । ज्ञात्वा पलाशपत्रेण कटुकालाबुके क्षिपेत् ॥ १,२३.४३० ॥ विषोदकं गन्धकं च हरबीजं च तत्समम् । अजाक्षीरेण पिष्ट्वा तु शुल्बपात्रे तु लेपयेत् ॥ १,२३.४३१ ॥ तत्पुटेन भवेद्देवि सिन्दूरारुणसन्निभम् । शतांशेनैव तद्देवि सर्वलोहानि वेधयेत् ॥ १,२३.४३२ ॥ अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् । सहस्रांशेन तस्यैव तारं भवति काञ्चनम् ॥ १,२३.४३३ ॥ रक्तं पीतं तथा कृष्णमुत्तरोत्तरकार्यकृत् । त्रिफलाकान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा ॥ १,२३.४३४ ॥ गृहीत्वा पूर्ववत्पत्रैः पालाशैर्वेष्टयेद्बहिः । स्थापयेद्धान्यमध्ये तु दिवसानेकविंशतिम् ॥ १,२३.४३५ ॥ महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् । पायसं भक्षयेद्यस्तु पयोमध्वाज्यसंयुतम् ॥ १,२३.४३६ ॥ यावत्पूर्णं बलं देवि जीवेत्तद्बिन्दुसंख्यया । लाङ्गली गृहधूमश्च सिन्दूरं रजनीद्वयम् ॥ १,२३.४३७ ॥ मेषस्य शृङ्गं शृङ्गीं च कृष्णोन्मत्ताश्वमारकम् । सबीजसूतकं चैव विषतोयेन मर्दयेत् ॥ १,२३.४३८ ॥ विषतोयेन मेधावी सप्तवाराणि भावयेत् । अथवा भावयेत्तं तु यावच्चूर्णं तु मर्दयेत्तद्भवेत् ॥ १,२३.४३९ ॥ तेन नागं प्रतीवाप्य षोडशांशेन खं भवेत् । मूषास्थं वेणुयन्त्रे च त्रीणि वाराणि भावयेत् ॥ १,२३.४४० ॥ धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् । स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये च तत् ॥ १,२३.४४१ ॥ तच्चूर्णं तु शतांशेन तारताम्रादि वेधयेत् । विषपानीयमादाय वङ्गमावर्तितं शुभम् ॥ १,२३.४४२ ॥ निषिक्तं चैव तत्तोयैस्तारं भवति काञ्चनम् । विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे ॥ १,२३.४४३ ॥ कुनटीगन्धपाषाणविषटङ्कणलाङ्गलीः । नष्टपिष्टं कृतं खल्वे तारपत्राणि लेपयेत् ॥ १,२३.४४४ ॥ अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् । ओं ह्रीं नीलकण्ठाय ठः ठः । अस्य अयुतं जपेत् । इति विषोदकग्रहणपानमन्त्रः । <सञ्जीवनीजलकल्पः> संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥ १,२३.४४५ ॥ शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते । दानवानां हितार्थाय मृतानां देवसङ्गरे ॥ १,२३.४४६ ॥ मया संजीवनी विद्या दत्ता चोदकरूपिणी । तया संजीविता दैत्या ये मृता देवसङ्गरे ॥ १,२३.४४७ ॥ निक्षिप्ता मर्त्यलोके सा सम्यक्ते कथयाम्यहम् । अस्ति मर्त्या महापुण्या पवित्रा दक्षिणापथे ॥ १,२३.४४८ ॥ दक्षिणे तु तटे तस्या उत्पलीनगरं परम् । तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥ १,२३.४४९ ॥ नाम्ना कृष्णगिरिः चेति दृश्यते सर्वमङ्गले । सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति सन्निधौ ॥ १,२३.४५० ॥ तत्राप्युदकमालोक्य परीक्षेत सुरार्चिते । गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः ॥ १,२३.४५१ ॥ जायते हरितं स्निग्धमहोरात्रेण निश्चितम् । मुञ्चत्यङ्कुरपत्रानि दृश्यतेऽतिमनोहरम् ॥ १,२३.४५२ ॥ बलिपुष्पोपहारेण ततो देवि समर्चयेत् । क्षेत्राधिपं गणेशं च चन्द्रं योगिगणं तथा ॥ १,२३.४५३ ॥ ओं चन्द्राय पिनाकिने शूलपाणये ओं दिशो बन्ध बन्धय दिशो बन्ध बन्धय ठः ठः । तिलांश्च सर्षपांश्चैव मन्त्रेणानेन सर्षपान् । सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥ १,२३.४५४ ॥ कटुकालाबुके तोयं कृतरक्षः समाहितः । गृहीत्वा तत्प्रयत्नेन निजं स्थानं समाश्रयेत् ॥ १,२३.४५५ ॥ ओं नमोऽमृते अमृतरूपिणि अमृतं कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा । सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् । दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् ॥ १,२३.४५६ ॥ मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः । एकविंशतिरात्रं तु क्षीराहारोऽथ यत्नतः ॥ १,२३.४५७ ॥ जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः । योजनानां शतं गत्वा पुनरेव निवर्तते ॥ १,२३.४५८ ॥ अवध्यः सर्वभूतानां स्वेच्छाहारः स खेचरः । कनकं पारदं व्योम सममेकत्र योजयेत् ॥ १,२३.४५९ ॥ मर्दयेत्तेन तोयेन सप्ताहं स्वेदयेत्ततः । स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥ १,२३.४६० ॥ अथवा तं रसं दिव्यं मधुना सह भक्षयेत् । मासमात्रप्रयोगेन जीवेद्ब्रह्मदिनायुतम् ॥ १,२३.४६१ ॥ तस्य मूत्रमलस्वेदैः शुल्बं भवति काञ्चनम् । निर्वाते तोयमादाय पारदं च मनःशिलाम् ॥ १,२३.४६२ ॥ मर्दयेत्खल्वपाषाणे नष्टपिष्टं भवेत्ततः । स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥ १,२३.४६३ ॥ अन्तर्धानं क्षणाद्गच्छेद्विद्याधरपतिर्भवेत् । सिद्धकन्याशतवृतो यावत्कल्पांश्चतुर्दश ॥ १,२३.४६४ ॥ दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् । पयसा च समायुक्तं नित्यमेवं च कारयेत् ॥ १,२३.४६५ ॥ <उष्णोदककल्पः> उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु । पश्यत्युष्णोदकं यत्र वासं तत्रैव कारयेत् ॥ १,२३.४६६ ॥ शर्वरीमुषितां तत्र चणकास्तु दिने दिने । भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकम् ॥ १,२३.४६७ ॥ तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् । उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् ॥ १,२३.४६८ ॥ चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् । शुल्बं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु ॥ १,२३.४६९ ॥ तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् । निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः ॥ १,२३.४७० ॥ शुल्बं च जायते हेम तरुणादित्यवर्चसम् । तारं च तेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥ १,२३.४७१ ॥ उष्णोदकेन भल्लातं तिलमुष्टिं च भक्षयेत् । मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥ १,२३.४७२ ॥ रसगन्धाश्मरसकतुत्थं दरदमाक्षिकम् । याममुष्णाम्बुना घृष्ट्वा तारपत्राणि लेपयेत् ॥ १,२३.४७३ ॥ विभ्राम्य तु धमेद्देवि स्याच्चतुर्दशवर्णकम् । क्रमेणानेन देवेशि शुल्बं षोडशवर्णकम् ॥ १,२३.४७४ ॥ एकैकं हेमतारांशं द्वयं कांताभ्रयोः पृथक् । उष्णोदकेन संमर्द्य धमनात्खोटतां नयेत् ॥ १,२३.४७५ ॥ तं मुखे धारयेन्मासं वज्रकायो भवेत्ततः । तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा ॥ १,२३.४७६ ॥ यावत्पलं तस्य मलैः शुल्बं भवति काञ्चनम् । उष्णोदपाचितान् खादेत्कुलुत्थान्क्षीरपो भवेत् ॥ १,२३.४७७ ॥ स्नानमुष्णांभसा कुर्याद्वर्षाद्वर्षाच्छतायुषः । क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् ॥ १,२३.४७८ ॥ पाचयेत्पायसं कान्तपात्रे भुक्त्वा महायुषः । <शैलोदककल्पः> अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये ॥ १,२३.४७९ ॥ कर्दमापो महीशैलशिला चेति चतुर्विधम् । कानिचित्क्षणवेधीनि दिनवेधीनि कानि च ॥ १,२३.४८० ॥ पक्षमासादिषण्मासवेधनानि महीतले । क्षिप्तं जले यदा काष्ठं शैलीभूतं च दृश्यते ॥ १,२३.४८१ ॥ बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितम् । हिङ्गुलं हरितालं च गन्धकं च मनःशिलाम् ॥ १,२३.४८२ ॥ एषां गन्धापहारं तु कुरुते तच्च वेधकम् । अन्यथा चेष्टकं देवि तदग्राह्यं निरर्थकम् ॥ १,२३.४८३ ॥ श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले । तत्रस्थं क्षणवेधि स्यान्नद्यां भगवतीतटे ॥ १,२३.४८४ ॥ एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् । भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवत्सरम् ॥ १,२३.४८५ ॥ धारेश्वरे पाक्षिकं स्यात्कर्षापुर्यां दिनैकतः । ब्रह्मेश्वरे मासिकं स्याद्व्याघ्रपुर्यां तु वासरम् ॥ १,२३.४८६ ॥ अघोरेशे मासिकं स्यात्सिंहद्वीपे तथा पुनः । दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥ १,२३.४८७ ॥ वासरं माल्यवन्ते तु क्षणवेधी तु तत्र च । किष्किन्धे पर्वते रम्ये पम्पातीरे क्षणोदकम् ॥ १,२३.४८८ ॥ तस्य पश्चिमतो देवि योजनद्वितये पुनः । भूशैलमस्ति तत्रैव त्रिदिनं वेदपर्वते ॥ १,२३.४८९ ॥ अन्यत्र यत्र यत्रापि ब्रह्मविष्णुशिवोद्भवम् । अमृतं तत्र तत्रापि वज्रीकरणमुत्तमम् ॥ १,२३.४९० ॥ तस्योत्पत्तिं प्रवक्ष्यामि यथा जानाति साधकः । महीं समुद्धृतवतो वराहस्य कलेवरात् ॥ १,२३.४९१ ॥ यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परम् । तं मुखे क्षणिकं जातं कर्णदेशे तु वासरम् ॥ १,२३.४९२ ॥ बाहुभ्यां त्र्यहवेधी स्यान्मासवेधी तु पार्श्वयोः । षण्मासमपराङ्गे च सर्वं समफलं च तत् ॥ १,२३.४९३ ॥ अघोरास्त्रेण तत्क्षेत्रे रक्षां कृत्वा दिशां बलिम् । दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥ १,२३.४९४ ॥ शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते । आयसे ताम्रपात्रे वा कान्तलोहमयेऽथवा ॥ १,२३.४९५ ॥ शिलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् । क्षीरावशेषं संक्वाथ्यं त्रिसप्ताहं पिबेन्नरः ॥ १,२३.४९६ ॥ जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः । अथवाष्टपलं क्षीरं पलैकेनाम्बुमिश्रितम् ॥ १,२३.४९७ ॥ क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् । कुलुत्थाष्टगुणं वारि पचेदष्टावशेषितम् ॥ १,२३.४९८ ॥ चतुर्गुणेन तेनाज्यं पाचयेद्घृतशेषितम् । लिह्यान्मधुसितोपेतं त्रिसप्ताहाद्बृहस्पतिः ॥ १,२३.४९९ ॥ द्विरष्टवार्षिकाकारः सहस्रायुर्न संशयः । अवशिष्टकुलुत्थं तु पादांशमधुसर्पिषा ॥ १,२३.५०० ॥ भक्षयेत्कर्षमेकं तु मासेनायुतजीवितः । तत्सिद्धतैलेनाभ्यङ्गं म्रक्षणं चैव कारयेत् ॥ १,२३.५०१ ॥ पामाविचर्चिकादद्रुकुष्ठानि सहसा जयेत् । वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥ १,२३.५०२ ॥ यः पिबेत्प्रातरुत्थाय शैलाम्बु चुलुकं पयः । षण्मासात्स्यात्सहस्रायुर्निर्वलीपलितश्च सः ॥ १,२३.५०३ ॥ अथवा सूतकं देवि वारिणा सह मर्दयेत् । मासेनैकेन देवेशि नष्टपिष्टिर्भविष्यति ॥ १,२३.५०४ ॥ मासमात्रं समश्नीयात्स भवेदजरामरः । अथवा तं रसं हेम्ना धामयेत्खदिराग्निना ॥ १,२३.५०५ ॥ गुलिका सुन्दरी नाम सर्वायुधनिवारिणी । कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥ १,२३.५०६ ॥ अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् । मासमात्रप्रयोगेण वलीपलितवर्जितः ॥ १,२३.५०७ ॥ पक्त्वा तेनाम्भसा पथ्याः षष्टिस्त्रीणि शतानि च । मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥ १,२३.५०८ ॥ दिने दिने तदेकैकं भक्षयेत्प्रातरुत्थितः । वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥ १,२३.५०९ ॥ शैलीभूतं कुलुत्थं वा भक्षयेन्मधुसर्पिषा । षण्मासात्तु प्रयोगेण जीवेद्वर्षसहस्रकम् ॥ १,२३.५१० ॥ कूष्माण्डमादितः कृत्वा यानि कानि फलानि च । जले क्षिप्तानि लोहानि शैलभूतानि भक्षयेत् ॥ १,२३.५११ ॥ क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः । तेनोदकेन संमर्द्यमभ्रकं क्वाथयेत्प्रिये ॥ १,२३.५१२ ॥ कटुत्रययुतं खादेज्जीवेद्वर्षसहस्रकम् । अथवा रसकर्षैकं तज्जलेन तु मर्दितम् ॥ १,२३.५१३ ॥ इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगः । कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥ १,२३.५१४ ॥ षण्मासं तन्मुखे धार्यं वज्रकायं करोति तत् । दशनागसमप्राणो देवैः सह स मोदते ॥ १,२३.५१५ ॥ गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् । यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः ॥ १,२३.५१६ ॥ कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् । भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥ १,२३.५१७ ॥ उदयादित्यसङ्काशो मेधावी प्रियदर्शनः । नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥ १,२३.५१८ ॥ पारदं हरितालं च शिलां माक्षिकमेव च । दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥ १,२३.५१९ ॥ मर्दयेत्खल्वपाषाणे मातुलुङ्गरसेन तु । गोलकं कारयित्वा तु वारिमध्ये विनिक्षिपेत् ॥ १,२३.५२० ॥ तेन तारं च शुल्बं च कांचनं भवति ध्रुवम् । उपयुञ्जीत मासैकं वलीपलितवर्जितः ॥ १,२३.५२१ ॥ सहस्रं जीवितं तस्य महाबलपराक्रमः । शैलीभूतहरिद्रां तु तच्चूर्णावापमात्रतः ॥ १,२३.५२२ ॥ हेमत्वं लभते नागो बालार्कसदृशप्रभः । शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा ॥ १,२३.५२३ ॥ ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः । रक्तक्षारयुतं ध्मातं सुवर्णसमसारितम् ॥ १,२३.५२४ ॥ शतांशेन तु लोहानां सर्वेषां हेमकारकम् । द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति ॥ १,२३.५२५ ॥ तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् । <केचन घुटिकायोगाः> निचुले ककुभे चैव किंशुके मधुकेऽपि वा ॥ १,२३.५२६ ॥ इङ्गुदीफलमध्ये वा रजनीद्वयमार्द्रके । अमृते कन्दके वाथ उक्तकन्दौषधीषु च ॥ १,२३.५२७ ॥ विधाय कोटरं तत्र क्षिप्त्वा तेनैव डोलयेत् । त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः ॥ १,२३.५२८ ॥ पादेन कनकं दत्त्वा पारदं तत्र योजयेत् । शैलोदके क्षिपेत्तत्र गुलिका वज्रवद्भवेत् ॥ १,२३.५२९ ॥ पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् । धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥ १,२३.५३० ॥ द्वितीयसारणायोगादयुतं वेधयेत्तु सा । धार्यमाणा मुखे सैवमयुतायुष्यदा भवेत् ॥ १,२३.५३१ ॥ तृतीयसारणायोगाज्जायते लक्षवेधिनी । तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥ १,२३.५३२ ॥ चतुर्थी सारणा देवि कोटिवेधी न संशयः । कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥ १,२३.५३३ ॥ पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् । यावच्चन्द्रार्कजीवित्वमनन्तबलवीर्यवान् ॥ १,२३.५३४ ॥ ददाति सप्तमी चापि सारणा गुलिका परा । खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥ १,२३.५३५ ॥ यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् । वज्रदेहः स सिद्धः स्याद्दिव्यस्त्रीजनवल्लभः ॥ १,२३.५३६ ॥ क्रीडते खेचरैर्भोगैः स्वेच्छया शिवतां व्रजेत् । नानाविधफलाश्चास्या घुटिकां शृणु सुन्दरि ॥ १,२३.५३७ ॥ शुद्धबद्धं रसेन्द्रं तु गन्धकं तत्र जारयेत् । त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥ १,२३.५३८ ॥ कारयेद्भस्म सूतं तु काञ्चनं तेन सूतकम् । तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥ १,२३.५३९ ॥ तेन सूतकजीर्णेन वज्ररत्नं तु घातयेत् । तद्वज्रं जायते भस्म सिन्दूरारुणसन्निभम् ॥ १,२३.५४० ॥ तद्भस्म जारयेत्सूते त्रिगुणे तु सुरार्चिते । हाटकं सारयेत्तं तु घुटिकां तेन कारयेत् ॥ १,२३.५४१ ॥ त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः । नष्टच्छायो भवेत्सोऽयमदृश्यो देवदानवैः ॥ १,२३.५४२ ॥ लक्षवर्षसहस्राणि निर्वलीपलितो भवेत् । शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् ॥ १,२३.५४३ ॥ वक्त्रे करे च बिभृयात्सर्वायुधनिवारणम् । व्योम माक्षिकसत्वं च तारं ताम्रं सुरायुधम् ॥ १,२३.५४४ ॥ सारलोहं सूतकं च रत्नादिगुणभूषितम् । घुटिका सा वरारोहे मधुरत्रयसंयुता ॥ १,२३.५४५ ॥ वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः । शिवः शक्तिश्च देवेशि रत्नानि सितगोनसा ॥ १,२३.५४६ ॥ हेम तारं तथा भानुः समभागानि कारयेत् । स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥ १,२३.५४७ ॥ सितयेन तथा वेष्ट्यं गुह्यस्थाने निवेशयेत् । रणे राजकुले द्यूते दिव्ये कामे जयो भवेत् ॥ १,२३.५४८ ॥ वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् । विभीतकादिसम्भूतकांजिकस्य समं भवेत् ॥ १,२३.५४९ ॥ समावर्त्य ततः सूते योजयेत्पादयोगतः । कुमारीरससंघृष्टा कृतैषा घुटिका शुभा ॥ १,२३.५५० ॥ रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः । पञ्च तारं वरारोहे सूतकद्वयमेव च ॥ १,२३.५५१ ॥ त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः । अर्धं शुल्बं विभागेन गुलिकामरसुन्दरी ॥ १,२३.५५२ ॥ अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः । भस्म सूतपलैकं च मृतकान्तपलं तथा ॥ १,२३.५५३ ॥ माक्षिकस्य पलं चैव शिलाजतु पलं तथा । पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा ॥ १,२३.५५४ ॥ एकीकृत्य तु तत्सर्वं मध्वाज्येन तु पेषयेत् । गुलिकाः कारयेत्तेन षष्ट्याधिकशतत्रयम् ॥ १,२३.५५५ ॥ एकैकां भक्षयेन्नित्यं वर्षमेकं निरन्तरम् । जीवेद्वर्षशतायुः स यथा रुद्रो महाबलः ॥ १,२३.५५६ ॥ <केचन रसायनकल्पाः> अतः परं प्रवक्ष्यामि रसभस्मरसायनम् । विज्ञेयं निष्परिहारं साक्षाद्दिव्यौषधं परम् ॥ १,२३.५५७ ॥ आमलक्यादि कान्तं च पारदं च मनःशिलाम् । वाकुचीसमभागानि क्षीरिणीरसपेषितम् ॥ १,२३.५५८ ॥ मेघनादरसोपेतं मूकमूषागतं पचेत् । माषं द्विमाषं त्रिगुणं भक्षयेत्तत्क्रमेण तु ॥ १,२३.५५९ ॥ वर्षत्रयं परं देवि पादनिष्कार्धकं क्रमात् । षट्सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः ॥ १,२३.५६० ॥ भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः । किंचित्काञ्चनसंयुक्तं निष्कं निष्कार्धमेव वा ॥ १,२३.५६१ ॥ यो भक्षयेत्त्रिभिर्वर्षैः सर्वव्याधीञ्जयत्ययम् । अष्टवर्षसहस्रायुर्द्वादशे लक्षवेधकः ॥ १,२३.५६२ ॥ षोडशे वत्सरे देवि दिव्यरूपः स जायते । उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् ॥ १,२३.५६३ ॥ अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् । शतपलमभयानामक्षधात्र्योस्तथैव क्वथितजलसमाष्टौ भागमष्टावशिष्टम् । घृतमधुसितयाढ्यं व्योषचित्रं दशैव रसपलदशसिद्धं लोहजीर्णं मृतं च ॥ १,२३.५६४ ॥ गिरियुतसममभ्रं कान्तभृङ्गं विडङ्गं रससहितविभाव्यं तण्डुलैर्बिल्वमज्जैः । हिमकरकृतकल्कं लोहपात्रस्थमासं त्रिदिनतनुविशुद्धं कल्कमेनं वरिष्ठम् ॥ १,२३.५६५ ॥ लिहति शयनकाले वामनेत्रार्धसेवी घननिबिडसमाधिर्मत्तमातङ्गदर्पः । विगतसकलदोषः सर्वदृक्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥ १,२३.५६६ ॥ जलद इव वपुष्मान्कुञ्चिताग्राग्रकेशः तुरग इव विशुद्धः सत्कविश्चित्रकारी । वृषभगतिविचेष्टो मन्दगम्भीरघोषः सुरगज इव लोके चन्द्रतारार्कजीवी ॥ १,२३.५६७ ॥ कान्तहेमरविचन्द्रमभ्रकैर्गोलकं निहितमिङ्गुदीफले । शैलवारिवरिसिद्धगोलकं सुन्दरी ह्यमरसंज्ञिका शुभा ॥ १,२३.५६८ ॥ कान्तहेमरविचन्द्रमभ्रकं वज्ररत्नरसमहिराजगोलकम् । क्षिप्तमामलककाष्ठकोदरे भूमिशैलनिहितं समुद्धृतम् ॥ १,२३.५६९ ॥ शैलतां गतमथाहितं मुखे वज्रकायकरकल्पवासरैः । तारहेमवरशुल्बसूतकैर्गोलकं वरणकाष्ठयन्त्रितम् ॥ १,२३.५७० ॥ शैलवारिकृतसुन्दरीरसैः खेचरीति गुलिका निगद्यते ॥ १,२३.५७१ ॥ शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् । त्रिसप्तरात्रं दिनमेकमेकं सहस्रजीवी विदितो नरः स्यात् ॥ १,२३.५७२ ॥ सूतकं चाभ्रकं चैव वज्रतीक्ष्णसमन्वितम् । हाटकेन समायुक्तं गुलिका खेचरी भवेत् ॥ १,२३.५७३ ॥ करञ्जफलमध्यस्थं सूतं तत्रैव निक्षिपेत् । धृतः शैलाम्बुमध्यस्थः सहस्रायुः प्रयच्छति ॥ १,२३.५७४ ॥ तिन्दुके द्विसहस्रायुर्जम्बीरे त्रिसहस्रकम् । मातुलुंगे च नारङ्गे चतुःपञ्चसहस्रकम् ॥ १,२३.५७५ ॥ रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् । विभीतकफले चैव दशसाहस्रसंख्यकम् ॥ १,२३.५७६ ॥ नालिकेरे महाभागे सहस्राणि चतुर्दश । त्रिंशत्सहस्रं पथ्यायां लक्षमामलके पुनः ॥ १,२३.५७७ ॥ अभ्रपत्रभवात्क्वाथादहोरात्रं शिलोदके । बध्नाति चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥ १,२३.५७८ ॥ सारणाक्रमयोगेन वज्रवज्जायते वपुः । रसे रसायने चैव लक्षवेधी न संशयः ॥ १,२३.५७९ ॥ कर्दमं तु कुमार्याश्च रसेन कृतपिण्डिकम् । धमनात्पतते सत्त्वं मुखस्थं धारयेन्नरः ॥ १,२३.५८० ॥ षण्मासोपप्रयोगेण ह्यजरामरतां व्रजेत् । स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् ॥ १,२३.५८१ ॥ तत्खोटं धारयेद्वक्त्रे ह्यदृश्यो भवति ध्रुवम् । यस्य यो विधिराम्नात उदकस्य शिवागमे ॥ १,२३.५८२ ॥ शतेन बत कालेन कुर्याद्देहे रसायनम् । <बद्धजारणविधिः> या पूर्वा निर्मिता सेयमधमा बालजारणा ॥ १,२३.५८३ ॥ उत्तमा दुर्लभा चैव श्रूयतां बद्धजारणा । अबद्धं जारयेद्यस्तु क्षीयमाणः क्षयं व्रजेत् ॥ १,२३.५८४ ॥ बद्धस्य जीर्यते ग्रासो जीर्णस्य च मुखं भवेत् । समुखो दुर्मुखं दत्ते सामान्योत्तमलक्षणम् ॥ १,२३.५८५ ॥ <बन्धप्रकाराः> सामान्योऽग्निसहत्वेन महारत्नादिजारकः । सामान्यः प्रथमः कार्यः सग्रासस्तु समन्ततः ॥ १,२३.५८६ ॥ वसुदेहकरो देवि सामान्यो हि भवेदयम् । ग्रासहीनस्तु यो बद्धो दिव्यसिद्धिकरो भवेत् ॥ १,२३.५८७ ॥ उत्तमो मूलबन्धस्तु मध्यमं सारबन्धनम् । अधमः पाकबन्धस्तु एवं त्रिविधबन्धनम् ॥ १,२३.५८८ ॥ मूलबन्धस्तु यो बन्धो मूलसंकुचितं महत् । सारबन्धस्तु यो बन्धो वासनाबन्ध उच्यते ॥ १,२३.५८९ ॥ स्याच्चतुः षष्टिमूलेभ्यः किंचिन्मूलेन बन्धनम् । प्राण्यङ्गं दैत्यादीनां मूलाङ्गं देवतामयम् ॥ १,२३.५९० ॥ पाषाणं चैव सिद्धानां मानुषाणां च पूजितम् । पीठिकाद्रुतिसंकोचैस्त्रिविधं बन्धनं भवेत् ॥ १,२३.५९१ ॥ दिव्याभिरौषधीभिः प्रागुक्तं संकोचबन्धनम् । द्रुतिभिर्बध्यते सूतः क्षणबन्ध उदाहृतः ॥ १,२३.५९२ ॥ अभ्रकं हरबीजं च षोडशांशेन काञ्चनम् । ध्मातं प्रकाशमूषायां शोधयेत्काचटङ्कणैः ॥ १,२३.५९३ ॥ दक्षिणावर्तितं ध्मातं हरबीजेन मेलकम् । मूषां त्यक्त्वा वरारोहे तिष्ठते खगबद्धवद्रसः ॥ १,२३.५९४ ॥ रक्तिकार्धार्धमात्रेण पर्वतानपि वेधयेत् । भक्षणात्तस्य देवेशि रुद्रतुल्यो भवेन्नरः ॥ १,२३.५९५ ॥ क्रीडते सप्तलोकेषु शिवतुल्यपराक्रमः । <द्रुतिमेलनविधिः> वज्रकन्दं गुडूची च उच्चटादिसमन्वितम् ॥ १,२३.५९६ ॥ अभ्रकं क्रमते शीघ्रमन्यथा नास्ति सङ्गमः । कृष्णागरुनाभिसितैः रसोनपितरामठैः ॥ १,२३.५९७ ॥ नारीकुसुमपालाशबीजतैलसमन्वितैः । सोष्णैर्मिलन्ति मृदिता द्रुतयः सकला रसे ॥ १,२३.५९८ ॥ <वज्रबन्धः; दशसङ्कलिकाविधिसिद्धः> पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुरार्चिते । गन्धकं भक्षयेन्नारी दिनानामेकविंशतिम् ॥ १,२३.५९९ ॥ तद्रजो रसराजस्य बन्धने जारणे हितम् । वज्रभस्म तु भागैकं भागाः शुद्धरसात्त्रयः ॥ १,२३.६०० ॥ द्विपदीरजसा मर्द्यं यावत्तत्कल्कतां गतम् । पादांशेन सुवर्णेन पत्त्रलेपं तु कारयेत् ॥ १,२३.६०१ ॥ सोमवल्लीरसं कान्तं टङ्कणालं सुचूर्णितम् । दद्यात्तमष्टमांशेन मर्दयेच्च प्रयत्नतः ॥ १,२३.६०२ ॥ नष्टपिष्टं च शुष्कं तदन्धयित्वा पुटे ततः । अन्धमूषागतं ध्मातं क्रामणेन समन्वितम् ॥ १,२३.६०३ ॥ खोटस्तु जायते देवि शतवेधी महारसः । सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा विशोधयेत् ॥ १,२३.६०४ ॥ अक्षीणो मिलते हेम्ना समावर्तश्च जायते । एकोत्तरक्रमे वृद्ध्या संकलैः क्रामयेत्ततः ॥ १,२३.६०५ ॥ एकगुणेन सूतेन एका सङ्कलिकोच्यते । त्रिगुणेन तु सूतेन द्वितीया संकलोच्यते ॥ १,२३.६०६ ॥ षड्गुणेन तु सूतेन तृतीया सङ्कली भवेत् । दशगुणेन सूतेन चतुर्थी सङ्कली भवेत् ॥ १,२३.६०७ ॥ पञ्चादशगुणेनेशि पञ्चमी सङ्कली भवेत् । एकविंशद्गुणेनेशि षष्ठी सङ्कलिका भवेत् ॥ १,२३.६०८ ॥ अष्टाविंशद्गुणेनेशि सप्तमी सङ्कली स्मृता । षट्त्रिंशद्गुणिते बद्धा भवेत्सङ्कलिकाष्टमी ॥ १,२३.६०९ ॥ पञ्चचत्वारिंशगुणे सङ्कली नवमी मता । पञ्चाध्यधिकपञ्चाशद्दशसङ्कलिका स्मृता ॥ १,२३.६१० ॥ एवं च क्रमवृद्ध्या तु संकली दशबन्धिता । प्रथमे दशवेधी च शतवेधी द्वितीयके ॥ १,२३.६११ ॥ तृतीये सहस्रवेधी स्याच्चतुर्थेऽयुतवेधिकः । पञ्चमे लक्षवेधी स्याद्दशलक्षं तु षष्ठके ॥ १,२३.६१२ ॥ सप्तमे कोटिवेधी स्याद्दशकोटिं तथाष्टमे । धूमवेधी तु नवमे दशमे शब्दवेधकः ॥ १,२३.६१३ ॥ संकलैः सकलैर्बद्धे वेधो दशगुणो भवेत् । दशसंकलिकाबद्धः शब्दवेधी महारसः ॥ १,२३.६१४ ॥ यथा लोहे तथा देहे क्रामते नात्र संशयः । वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥ १,२३.६१५ ॥ कारयेद्घुटिकां दिव्यां बदरास्थिप्रमाणतः । महाकालीं पूजयित्वा धारयेत्सततं बुधः ॥ १,२३.६१६ ॥ ओमैं ह्रीं श्रीं कालि कालि महाकालि मांसशोणितभोजनि । ह्रां ह्रीं ह्रं रक्ष कृष्णमुखि देवि रससिद्धिं ददस्व मे । श्रीं ह्रीमैम् ॥ १,२३.६१७ ॥ पूजयित्वा ततो देवीं सिद्धचक्रं विशेषतः । तां क्षिपेच्चक्रमध्ये तु घुटिकां दिव्यरूपिणीम् ॥ १,२३.६१८ ॥ शतवेधेन या बद्धा रसेन घुटिका प्रिये । मासमेकं तु वक्त्रस्था जीवेच्चैव यथा विधिः ॥ १,२३.६१९ ॥ तथा सहस्रवेधेन बद्धा या घुटिका शुभा । मासद्वयं तु वक्त्रस्था जीवेच्चन्द्रार्कतारकम् ॥ १,२३.६२० ॥ दशसहस्रवेधेन बद्धा या घुटिका यदि । शक्रतुल्यं तदायुष्यं त्रिभिर्मासैस्तु जायते ॥ १,२३.६२१ ॥ लक्षवेधेन या बद्धा घुटिका दिव्यरूपिणी । चतुर्मासं तु वक्त्रस्था ब्रह्मायुष्यं प्रयच्छति ॥ १,२३.६२२ ॥ दशलक्षेण या बद्धा घुटिका दिव्यरूपिणी । सप्तमासं तु वक्त्रस्था वैष्णवं लभते फलम् ॥ १,२३.६२३ ॥ कोटिवेधेन या बद्धा घुटिका दिव्यरूपिणी । षण्माससंस्थिता वक्त्रे साक्षाद्वै रुद्रतां नयेत् ॥ १,२३.६२४ ॥ दशकोटिप्रभेदेन घुटिका दिव्यरूपिणी । सप्तमासं तु वक्त्रस्था स भवेद्व्यापको नरः ॥ १,२३.६२५ ॥ कर्ता हर्ता स्वयं भोक्ता शापानुग्रहकारकः । सर्वज्ञः सर्वकर्ता च सूक्ष्मरूपो निरञ्जनः ॥ १,२३.६२६ ॥ इच्छया कुरुते सृष्टिमिच्छया संहरेज्जगत् । स्वच्छन्दगमनो भूत्वा शिवरूपो भवेन्नरः ॥ १,२३.६२७ ॥ पूज्यते सर्वदेवैश्च ब्रह्मविष्णुमहेश्वरैः । <अन्यो वज्रबन्धः> पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुदुर्लभम् ॥ १,२३.६२८ ॥ समांशभक्षणं हेम शुद्धसूतेन कारयेत् । मृतवज्रं कलांशेन मर्दयेद्द्विपदीरसैः ॥ १,२३.६२९ ॥ प्राग्वच्छेषं क्रियाजातं पूर्ववच्च फलं भवेत् । वज्रबन्धो भवेत्सिद्धो देवदानवदुर्जयः ॥ १,२३.६३० ॥ चतुर्विंशतिसिद्धानां नायकः सर्वसिद्धिमान् । <अन्यो वज्रबन्धः> वज्रचूर्णसमं सूतं हंसपाद्या विमर्दितम् ॥ १,२३.६३१ ॥ पुटित्वा मारयेत्तत्र पुनस्तुल्यं रसं क्षिपेत् । ध्मातः खोटो भवत्याशु शोधितः काचटङ्कणैः ॥ १,२३.६३२ ॥ यावच्छुक्रोदयप्रख्यो जायते च रसः प्रिये । <अन्यो वज्रबन्धः> वज्रसत्त्वं च गगनं रसं हेम च मेलयेत् ॥ १,२३.६३३ ॥ अमरत्वमवाप्नोति वक्त्रस्थेन सुराधिपे । जारयित्वा रसं तद्धि पुनस्तेनैव जारयेत् ॥ १,२३.६३४ ॥ कोटिवेधी न सन्देहो वक्त्रस्थं खेचरं परम् । वेधयेत्तत्प्रमाणेन धातूंश्चैव शरीरकम् ॥ १,२३.६३५ ॥ कारयेद्घुटिकां दिव्यां वज्रसिद्धेन काञ्चने । अनेन क्रमयोगेन यावच्छक्यं तु मारयेत् ॥ १,२३.६३६ ॥ तद्भस्म सूतकं देवि सर्वरोगनिबर्हणम् । हेम्ना च सारयित्वा तु चन्द्रार्कं लेपयेत्ततः ॥ १,२३.६३७ ॥ द्वात्रिंशांशेन हेमार्धं मातृकार्यधिकं भवेत् । बदरास्थिप्रमाणेन कारयेद्गुलिकां बुधः ॥ १,२३.६३८ ॥ यथा लोहे तथा देहे क्रमते नान्यथा क्वचित् । <अन्यो वज्रबन्धः> वज्रेण द्वंद्वितं हेम कान्तशुल्बकपालिना ॥ १,२३.६३९ ॥ रञ्जयेत्सप्तवाराणि तं खोटं सूक्ष्मचूर्णितम् । भावितं स्त्रीरजेनैव भूर्जपत्रे निवेशितम् ॥ १,२३.६४० ॥ द्रुतसूतेन संयुक्तं बद्ध्वा वस्त्रेण पोट्टलीम् । स्वेदयेद्देवदेवेशि यावद्भवति गोलकः ॥ १,२३.६४१ ॥ लाङ्गली जीवनी चैव गन्धार्युत्तरवारुणी । एतेषां निक्षिपेत्पिण्डे वज्रगोलं तु वेष्टयेत् ॥ १,२३.६४२ ॥ मूषामध्ये विनिक्षिप्य संधयित्वा प्रयत्नतः । भूमौ मूषां विनिक्षिप्य पुटं मूर्ध्नि प्रदापयेत् ॥ १,२३.६४३ ॥ अनेनैव प्रतापेन बन्धमेति महारसः । गोलकं धारयेद्वक्त्रे वर्षमेकं यदा प्रिये ॥ १,२३.६४४ ॥ जीवेत्कल्पसहस्राणि यथा नागो महाबलः । वर्षैर्द्वादशभिः साक्षाज्जायते रसपूरुषः ॥ १,२३.६४५ ॥ गात्रस्य तस्य प्रस्वेदादष्टौ लोहास्तु काञ्चनम् । वज्रभस्म तथा सूतं काञ्चनेन समन्वितम् ॥ १,२३.६४६ ॥ वक्त्रस्थं कुरुते यस्तु अब्दात्पलितवर्जितः । <अन्ये वेधोपयोगिनो बन्धाः> कृष्णाभ्रकस्य सत्वं च तारं ताम्रं च हाटकम् ॥ १,२३.६४७ ॥ माक्षिकं कान्ततीक्ष्णं च समभागानि कारयेत् । अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥ १,२३.६४८ ॥ तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलयेत् । मृतसत्त्वस्य भागैकं भागाश्चत्वारि गोलकम् ॥ १,२३.६४९ ॥ मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः । मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥ १,२३.६५० ॥ गुञ्जामात्रं तु तद्भस्म मध्वाज्येन तु लेहयेत् । संवत्सरप्रयोगेण ह्ययुतायुर्भवेन्नरः ॥ १,२३.६५१ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । तद्भस्म पलमेकं तु पलैकं गन्धकस्य च ॥ १,२३.६५२ ॥ अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् । जीवेत्कल्पसहस्राणि यथा नागो महाबलः ॥ १,२३.६५३ ॥ तस्य मूत्रपुरीषेण लोहान्यष्टौ च काञ्चनम् । तत्खोटं रञ्जयेत्पश्चाद्वङ्गाभ्रककपालिना ॥ १,२३.६५४ ॥ रञ्जयेत्सप्तवाराणि भवेत्कुङ्कुमसन्निभः । हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥ १,२३.६५५ ॥ शतांशेन तु तेनैव शुल्बमध्ये प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १,२३.६५६ ॥ बद्धसूतस्य भागैकं भागैकं कुटिलस्य च । अन्धमूषागतं ध्मातं यावद्वङ्गावशेषितम् ॥ १,२३.६५७ ॥ अनेन क्रमयोगेन वङ्गं निर्वाह्य षड्गुणम् । अनेन क्रमयोगेन वहन्नागं च षड्गुणम् ॥ १,२३.६५८ ॥ ततस्तं रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना । पक्वसूतस्य भागैकं भागैकं द्रुतसूतकम् ॥ १,२३.६५९ ॥ मर्दयेन्मध्यमाम्लेन गोलकं भवति क्षणात् । मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥ १,२३.६६० ॥ मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः । मारयेद्भूधरे यन्त्रे सप्तसंकलिकाक्रमात् ॥ १,२३.६६१ ॥ तद्भस्म तु पुनः पश्चान्मध्यमाम्लेन मर्दयेत् । पुटं दद्यात्प्रयत्नेन षष्ट्याधिकशतत्रयम् ॥ १,२३.६६२ ॥ तद्भस्म जायते दिव्यं सिन्दूरारुणसन्निभम् । तेनैव वेधयेत्तारं सहस्रांशेन काञ्चनम् ॥ १,२३.६६३ ॥ मृतवज्रस्य भागैकं भागाः षोडश सूतकम् । देवदालीशङ्खपुष्पीरसेन मृदितं क्रमात् ॥ १,२३.६६४ ॥ मारयेद्भूधरे यन्त्रे भस्मीभवति तत्क्षणात् । पूत्काराणां सहस्रेण धाम्यमानं न गच्छति ॥ १,२३.६६५ ॥ ईदृशं भस्म सूतं च देहे लोहे च योजयेत् । तद्भस्म पलमेकं तु पलमेकं च गन्धकम् ॥ १,२३.६६६ ॥ अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् । तं खोटं रञ्जयेत्पश्चात्कपालिक्रमयोगतः ॥ १,२३.६६७ ॥ सारणात्रययोगेन शुल्बवेधं प्रदापयेत् । भस्मसूतपलैकं च पलैकं पन्नगस्य च ॥ १,२३.६६८ ॥ कान्तपात्रेण तं कृत्वा मर्दयेल्लोहमुष्टिना । मृद्वग्निना ततः पाच्यं यावन्नागेन मेलकम् ॥ १,२३.६६९ ॥ पुटेन जायते भस्म सिन्दूरारुणसप्रभम् । तद्भस्म तु पुनः पश्चाद्गोपित्तेन तु मर्दयेत् ॥ १,२३.६७० ॥ तच्चतुर्दशवारांस्तु पुटयेद्भस्मयेत्ततः । तद्भस्म भागमेकं तु भागैकं हेमगोलकम् ॥ १,२३.६७१ ॥ एकीकृत्याथ संमर्द्य क्रामणेन सहैकतः । तारपिष्टं तु तेनैव सहस्रांशेन काञ्चनम् ॥ १,२३.६७२ ॥ अनेन क्रमयोगेन वङ्गभस्म प्रजायते । सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥ १,२३.६७३ ॥ तच्छुल्बं जायते तारं शङ्खकुन्देन्दुसन्निभम् । श्वेताभ्रकं च सत्त्वं च काङ्क्षी कान्तं तथायसम् ॥ १,२३.६७४ ॥ वङ्गं कान्तं तारं तथा श्वेतं वैक्रान्तं च कदम्बकम् । अन्धमूषागतं ध्मातं खोटं कुन्देन्दुसन्निभम् ॥ १,२३.६७५ ॥ तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन गोलकम् । मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकः ॥ १,२३.६७६ ॥ मर्दयेत्तप्तखल्वेन भस्मीभवति सूतकः । मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥ १,२३.६७७ ॥ ततश्च जायते भस्म शङ्खकुन्देन्दुसन्निभम् । तद्भस्म पलमेकं तु पलमेकं तु गन्धकम् ॥ १,२३.६७८ ॥ अन्धमूषागतं ध्मातं खोटं भवति तद्रसः । तारेण च समावर्त्य सारणात्रयसारितम् ॥ १,२३.६७९ ॥ सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् । तीक्ष्णचूर्णपलान्यष्टौ पलाष्टौ द्रुतसूतकम् ॥ १,२३.६८० ॥ मर्दयेत्तप्तखल्वेन टेटञ्चिल्वीरसेन च । तत्क्षणाज्जायते पिण्डं तीक्ष्णेन सह गोलकम् ॥ १,२३.६८१ ॥ मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् । मर्दयेत्तप्तखल्वेन भस्मीभवति तत्क्षणात् ॥ १,२३.६८२ ॥ मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् । षोडशांशेन तेनैव वङ्गवेधं प्रदापयेत् ॥ १,२३.६८३ ॥ तद्भस्म पलमेकं तु पलैकं गन्धकस्य च । अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥ १,२३.६८४ ॥ तस्य खोटस्य भागं च तीक्ष्णचूर्णं च तत्समम् । द्वौ भागौ द्रुतसूतस्य सर्वमेकत्र मर्दयेत् ॥ १,२३.६८५ ॥ तप्तखल्वे तु संमर्द्य गोलकं भवति क्षणात् । मारयेद्भूधरे यन्त्रे सप्तसङ्कलिकाक्रमात् ॥ १,२३.६८६ ॥ तत्सर्वं जारयेद्भस्म शङ्खकुन्देन्दुसन्निभम् । तद्भस्म कारयेत्खोटं तीक्ष्णेन द्वंद्वितं सह ॥ १,२३.६८७ ॥ अनेन क्रमयोगेन सप्तसङ्कलिकाक्रमात् । तं खोटं जारयेत्पश्चात्सारणात्रयसारितम् ॥ १,२३.६८८ ॥ लक्षांशेन तु तेनैव वङ्गवेधं प्रदापयेत् । भस्मसूतपलैकं तु शुद्धवङ्गं प्रदापयेत् ॥ १,२३.६८९ ॥ मर्दयेदायसे पात्रे वङ्गं तु म्रियते क्षणात् । द्विपलं मृतवङ्गस्य तारचूर्णपलद्वयम् ॥ १,२३.६९० ॥ द्विपलं गन्धकं दद्यात्पलैकं टङ्कणस्य च । अन्धमूषागतं ध्मातं खोटं भवति तत्क्षणात् ॥ १,२३.६९१ ॥ पलैकं खोटचूर्णस्य पलैकं द्रुतसूतकम् । मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥ १,२३.६९२ ॥ षोडशांशेन तेनैव तारारिष्टं तु वेधयेत् । मृतवङ्गपलैकं तु पलैकं सूतकस्य च ॥ १,२३.६९३ ॥ सर्वचूर्णं पलैकं तु त्रयमेकत्र कारयेत् । मर्दयेन्मातुलुङ्गाम्लैर्गोलको भवति क्षणात् ॥ १,२३.६९४ ॥ मृतवज्रस्य भागैकं भागश्चत्वारि गोलकम् । एकत्र मर्दयेद्भद्रे ओषधीद्रवसंयुतम् ॥ १,२३.६९५ ॥ मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु । तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥ १,२३.६९६ ॥ सामुद्रं त्रिपलं देवि भस्ममध्ये प्रदापयेत् । एकीकृत्याथ संमर्द्य वज्रीक्षीरे दिनत्रयम् ॥ १,२३.६९७ ॥ विश्वामित्रकपालस्थं पुटं दद्यात्तु भूधरे । तत्सर्वं जायते भस्म शङ्खकुन्देन्दुसन्निभम् ॥ १,२३.६९८ ॥ तेनैव यवमात्रेण वङ्गं स्तम्भयति क्षणात् । वङ्गं तारं तथा सत्त्वं समसूतेन गोलकम् ॥ १,२३.६९९ ॥ अनेन क्रमयोगेन मारयेच्च पृथक्पृथक् । तत्सर्वं जायते भस्म वज्रस्यैव प्रभावतः ॥ १,२३.७०० ॥ भस्मसूतपलैकं च वङ्गभस्म पलद्वयम् । द्वे पले मृततारस्य सत्त्वभस्म पलद्वयम् ॥ १,२३.७०१ ॥ शङ्खचूर्णं पलं पञ्च सामुद्रस्य पलाष्टकम् । टङ्कणस्य पलान्यष्टौ सर्वमेकत्र जारयेत् ॥ १,२३.७०२ ॥ वज्रीक्षीरेण संवेष्ट्य पुटं दद्याच्चतुर्दश । एष सिद्धरसः साक्षाद्दुर्लभस्त्रिदशैरपि ॥ १,२३.७०३ ॥ वङ्गं तु दापयेत्पश्चाद्भाण्डे चैव तु मृण्मये । सिद्धं भस्म भवेल्लोहशलाकेन च चालयेत् ॥ १,२३.७०४ ॥ वापयेच्च प्रयत्नेन यावत्कठिनतां व्रजेत् । अन्धमूषागतं ध्मातं तारं भवति शोभनम् ॥ १,२३.७०५ ॥ कदाचित्स्फाटिते तारे पुनर्वङ्गं प्रदापयेत् । पत्रे दाहे कषे छेदे तत्तारं शाश्वतं भवेत् ॥ १,२३.७०६ ॥ संतितं दनुगोलं च षोडशांशसमन्वितम् । मृतवज्रस्य भगैकमेकत्रैव तु कारयेत् ॥ १,२३.७०७ ॥ देवदालीशङ्खपुष्पं तद्रसेन तु मर्दयेत् । मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु ॥ १,२३.७०८ ॥ तद्भस्म तु पुनः पश्चाद्दीपयन्त्रेण पाचयेत् । भस्मसूतपलैकं च श्वेताभ्रकदलद्वयम् ॥ १,२३.७०९ ॥ शङ्खचूर्णपलैकं तु पलैकं टङ्कणस्य तु । एकीकृत्याथ तत्सर्वं वज्रीक्षीरेण पेषयेत् ॥ १,२३.७१० ॥ अरण्योत्पलकैः पश्चात्पुटं दद्याच्चतुर्दश । रसोऽयं यवमात्रेण वङ्गं स्तम्भयति क्षणात् ॥ १,२३.७११ ॥ कृष्णाभ्रकपलैकं तु द्विपलेनैव सूतकम् । गन्धकस्य पलैकं च एकीकृत्याथ मर्दयेत् ॥ १,२३.७१२ ॥ मर्द्यमानं प्रयत्नेन गोलकं भवति क्षणात् । मृतवज्रस्य भागैकं भागाश्चत्वारि गोलकम् ॥ १,२३.७१३ ॥ मर्दयेत्प्रहरैकं तु भस्मीभवति सूतकः । आरण्यगोमयेनैव पुटं दद्यात्तु भूधरे ॥ १,२३.७१४ ॥ अनेन क्रमयोगेन सप्तसङ्कलिकां कुरु । शतांशेन तु तेनैव नागवेधं प्रदापयेत् ॥ १,२३.७१५ ॥ तं खोटं रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना । पुनस्तां रञ्जयेत्पश्चात्तीक्ष्णशुल्बकपालिना ॥ १,२३.७१६ ॥ पुनस्तं रञ्जयेत्पश्चान्नागाभ्रककपालिना । हेम्ना सह समावर्त्य सारणात्रयसारितम् ॥ १,२३.७१७ ॥ सहस्रांशेन तेनैव शुल्ववेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १,२३.७१८ ॥ वज्रवल्लीभस्मस्नुहीक्षीरे पुटितं दशभिः पुटैः । तत्तुल्यं मर्दयेत्सूतं देवदाल्या रसैः पुटेत् ॥ १,२३.७१९ ॥ तत्तुल्यं पुटयेत्तीक्ष्णं त्रिफलाया रसेन तु । तत्तुल्यं पुटयेन्नागमहिमाराटरूषकैः ॥ १,२३.७२० ॥ हेमवर्णप्रदं तद्धि विंशत्यंशेन योजितम् । चतुःषष्ट्यंशकेनेदं शुद्धतारं च रञ्जयेत् ॥ १,२३.७२१ ॥ अष्टमांशेन तेनैव नागपत्राणि लेपयेत् । पुटयेन्मारयेन्नागं सिन्दूरारुणसन्निभम् ॥ १,२३.७२२ ॥ तत्तुल्यं मारयेद्धेम काञ्चनाररसे पुटेत् । तत्तुल्यं मारयेच्छुल्बं गृहकन्यारसेन च ॥ १,२३.७२३ ॥ पश्चादम्लेन पुटयेद्यावत्सिन्दूरसन्निभम् । चन्द्रार्कौ रञ्जयेत्तेन शतांशेन तु पाचितम् ॥ १,२३.७२४ ॥ सबीजं बीजवर्जं वा वज्रेण सह सूतकः । तद्भस्म मर्दयेत्पश्चात्स्वर्णपत्ररसेन च ॥ १,२३.७२५ ॥ तेनैव वेधयेच्छुल्बं शुल्बं तारेण योजयेत् । <वज्रहेमद्वन्द्वमेलापनम्> वज्रेण द्वंद्वयेद्धेम हेम्ना च द्वंद्वयेद्रसम् ॥ १,२३.७२६ ॥ रसेन द्वंद्वयेद्देहं स देहो ह्यजरामरः । कदलीटङ्कसौवीरं कण्टकारीरसप्लुतम् ॥ १,२३.७२७ ॥ क्रामणं सर्वधातूनां सर्वद्वन्द्वेषु मेलनम् । तिमिरस्य तु पञ्चाङ्गं पेटारीबीजसंयुतम् ॥ १,२३.७२८ ॥ एकीकृत्याथ संमर्द्य वज्रं तेनैव वेष्टयेत् । वज्रमूषागतं ध्मातं हेमद्वन्द्वं तु कारयेत् ॥ १,२३.७२९ ॥ कान्तपाषाणचूर्णे तु भूलता रामठं मधु । गुञ्जाटङ्कणकाचं च कर्कटास्थि स्नुहीपयः ॥ १,२३.७३० ॥ तत्सर्वं तु समं योज्यं स्त्रीस्तन्येन तु मर्दयेत् । मूषालेपः कृतः प्राज्ञो वज्रमेलापकः सुखम् ॥ १,२३.७३१ ॥ हठाग्नौ वज्रमूषाभिर्दृढं वज्रा मिलन्ति च । सुसूक्ष्मा रवका भूत्वा ह्येकीभावं व्रजन्ति च ॥ १,२३.७३२ ॥ काचटङ्कणयोगेन ध्मातः शुद्धिमवाप्नुयात् । बहुभिश्चैव मूषाभिस्तेजःपुञ्जोऽपि जायते ॥ १,२३.७३३ ॥ मृतवज्रस्य भागैकं भागाः षोडश हाटकम् । श्वेतकाचस्य सूतं तु भागं षोडश दापयेत् ॥ १,२३.७३४ ॥ अन्धमूषागतं ध्मातं वज्रद्वन्द्वं तु कारयेत् । अनेन क्रमयोगेन सप्तवारांश्च दापयेत् ॥ १,२३.७३५ ॥ मिलते तत्क्षणाद्वज्रं हेम्ना तु सलिलं यथा । चूर्णे नरकपालस्य मृतवज्रं च दापयेत् ॥ १,२३.७३६ ॥ अन्धमूषागतं ध्मातं हेम्ना मिलति तत्क्षणात् । भृङ्गपत्रं नृकेशं च मुखं कान्तस्य टङ्कणम् ॥ १,२३.७३७ ॥ बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् । अन्धमूषागतं ध्मातं वज्रं मिलति तत्क्षणात् ॥ १,२३.७३८ ॥ क्षीरेणोत्पलसारिण्या मृतवज्रं तु भावयेत् । हेमपिष्टिकया मध्ये वज्रं तत्रैव निक्षिपेत् ॥ १,२३.७३९ ॥ वेष्टयेद्भूर्जपत्रेण बाह्ये वस्त्रेण वेष्टयेत् । धान्यमध्ये तु संस्थाप्य पक्षमेकं निरन्तरम् ॥ १,२३.७४० ॥ उद्धरेत्तत्प्रयत्नेन वज्रबन्धं तु कारयेत् । <रत्नद्रुतिबन्धः> द्रुता वज्रास्तु सूतेन मेलनीयास्तु पार्वति ॥ १,२३.७४१ ॥ द्रुतिबन्धः स विज्ञेयः शतसाहस्रवेधकः । रत्नानां द्रुतयः सर्वा मेलयित्वा यथाविधि ॥ १,२३.७४२ ॥ शतसहस्रवेधी च देहसिद्धिप्रदायकः । मुसली चित्रकं वन्ध्या कुक्कुटीकन्दपद्मिनी ॥ १,२३.७४३ ॥ कञ्चुकी नीलिसिन्दूरी पाठा नागबला यथा । कंसपात्रे रसश्चैव रत्नानां द्रुतयस्तथा ॥ १,२३.७४४ ॥ आतपे धारयित्वा वै अधः कर्षानलं यथा । ओषधीनां रसं दत्त्वा स्वच्छं कृत्वा पुनः पुनः ॥ १,२३.७४५ ॥ याममात्रं तु घर्मे च द्रुतिर्मिलति वै रसम् । न तेषां क्रामणे शक्तिर्वक्तुं वक्त्रशतैरपि ॥ १,२३.७४६ ॥ सैन्धवं निंबपत्राणि वाकुची द्वेषिणीजके । द्रुताभ्रस्य रसेनैव मेलनं परमं मतम् ॥ १,२३.७४७ ॥ वज्रद्वन्द्वानमीशानि वज्रेण रसमारणम् । सबीजं सारणं प्रोक्तं खोटबन्धनमेव च ॥ १,२३.७४८ ॥ तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥ १,२३.७४९ ॥ आक्, १, २४ <महारसैरुपरसैर्लोहैश्च रसस्य वेधोपयोगिनो बन्धाः> श्रीभैरवः । महारसैरुपरसैर्लोहैश्च परमेश्वरि । आज्ञापय समस्तं तं रसराजस्य बन्धनम् ॥ १,२४.१ ॥ <वैक्रान्तबन्धाः; प्रथमः प्रकारः> वैक्रान्तस्य तु भागैकमष्टभागं तु सूतकम् । कनकस्य तु सप्तांशं द्विपदीरसटङ्कणम् ॥ १,२४.२ ॥ नष्टपिष्टं च शुष्कं च ध्मातं खोटो भवेत्प्रिये । सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥ १,२४.३ ॥ समहेम्नि समावर्त्य मूषागतं ततः । समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥ १,२४.४ ॥ वैक्रान्तं षोडशांशेन पूर्वयोगेन धामयेत् । दशसङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥ १,२४.५ ॥ <द्वितीयः प्रकारः> पुनरन्यं प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् । वैक्रान्तसत्त्वं देवेशि पारदेन समन्वितम् ॥ १,२४.६ ॥ जारितं समहेम्ना तु शिलाभाण्डे निधापयेत् । मासमात्रोषितं भूमौ समुद्धृत्य प्रयत्नतः ॥ १,२४.७ ॥ एष देवि रसो दिव्यो देहद्रव्यकरो भवेत् । <तृतीयः प्रकारः> वैक्रान्तकास्तु ये केचित्त्रिफलाया रसेन च ॥ १,२४.८ ॥ एकैकं देवि सप्ताहं स्वेदिता मर्दितास्तथा । सुध्माता मूकमूषायां खोटो भवति चाक्षयः ॥ १,२४.९ ॥ कान्तं रूप्यं च कनकं पारदं चैव योजयेत् । शुल्बं तृतीयभागं तु स्रोतोञ्जनसमन्वितम् ॥ १,२४.१० ॥ तद्ध्मातं खोटतां यातं देहलोहकरं भवेत् । <चतुर्थः प्रकारः श्वेतवैक्रान्तसिद्धः> श्वेतवैक्रान्तचूर्णं तु हयमूत्रेण मर्दयेत् ॥ १,२४.११ ॥ आदौ सुस्विन्नमादाय पले पलशतं क्षिपेत् । तारस्य जायते भस्म विशुद्धस्फटिकाकृति ॥ १,२४.१२ ॥ तद्भस्म मेलयेत्सूते समभागं विचक्षणः । चारयेद्रजतं सूते हयमूत्रेण मर्दयेत् ॥ १,२४.१३ ॥ पुटयेदन्धमूषायां क्रमेण मृदुवह्निना । अहोरात्रं त्रिरात्रं वा भवेदग्निसहो रसः ॥ १,२४.१४ ॥ स्पर्शनात्सर्वलोहानि रजतं च करिष्यति । <पञ्चमः प्रकारः रक्तवैक्रान्तसिद्धः> रक्तस्य वक्ष्यते कर्म जरादारिद्र्यनाशनम् ॥ १,२४.१५ ॥ सप्तधा भावयेत्तस्य व्याघ्रीकन्दांभसा रजः । पलं तस्य पलं हेम्नः पलं शुद्धरसस्य च ॥ १,२४.१६ ॥ शुद्धभस्म भवेत्सर्वं पुनर्हेम्नः शतं क्षिपेत् । तद्भस्म जायते सर्वं शुद्धहेमसमप्रभम् ॥ १,२४.१७ ॥ तद्भस्म रसराजे तु पुनर्हेम्ना तु मेलयेत् । भवेदग्निसहो देवि ततो रसवरो भवेत् ॥ १,२४.१८ ॥ सर्ववेधी भवेत्सूतः कोटिवेधी महारसः । <षष्ठः प्रकारः> रक्तवैक्रान्तसत्त्वं तु हेम्ना तु सह मेलयेत् ॥ १,२४.१९ ॥ समं तु जारयेत्सूते सारयित्वा समेन तु । सहस्रांशेन लोहानि वेधयेन्नात्र संशयः ॥ १,२४.२० ॥ <सप्तमः प्रकारः कृष्णवैक्रान्तसिद्धः> कृष्णवैक्रान्तभागैकं शुद्धसूतं शतांशकम् । एकत्र मर्दयेत्खल्वे चूर्णं भवति तद्द्वयम् ॥ १,२४.२१ ॥ अस्य चूर्णस्य भागैकं हेमभागसहस्रकम् । एकत्र मर्दयेत्तावद्यावद्भस्म तु जायते ॥ १,२४.२२ ॥ धमेत्तदन्धमूषायां यावत्खोटो भविष्यति । समांशभक्षणं तस्य पीठिकां तस्य कारयेत् ॥ १,२४.२३ ॥ वेधयेत्सर्वलोहानि स्पर्शमात्रेण हेमताम् । तच्चूर्णमभ्रकं चैव रसेन सह मर्दयेत् ॥ १,२४.२४ ॥ स्वेदयेज्जारयेच्चैव ततो वह्निसहो भवेत् । स रसश्चारितश्चैव सर्वलोहानि विध्यति ॥ १,२४.२५ ॥ <अष्टमः प्रकारः पीतवर्णवैक्रान्तसिद्धः> पीतवर्णेऽपि वैक्रान्ते रक्तकृष्णविधिः स्मृतः । पीतवैक्रान्तचूर्णं तु हेमचूर्णसमन्वितम् ॥ १,२४.२६ ॥ पीताभ्रकस्य चूर्णं तु मेलयित्वा महारसः । स्वेदितो मर्दितश्चैव मासादग्निसहो भवेत् ॥ १,२४.२७ ॥ <नीलवैक्रान्तभस्मरसायनम्> नीलवर्णं तु वैक्रान्तं म्रियते रससंयुतम् । कृष्णाभ्रकेण सहितं मधुसर्पिर्युतं च तत् ॥ १,२४.२८ ॥ भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् । यस्य यस्य हि यो योगस्तस्य तस्य प्रयोगतः ॥ १,२४.२९ ॥ मेलयित्वा रसं गुञ्जामानं त्रिमधुसंयुतम् । खादेत्क्षीराज्यशाल्यन्नं भोज्यमन्यच्च वर्जयेत् ॥ १,२४.३० ॥ <नवमः प्रकारः> वैक्रान्तसत्वसंयुक्तं लुङ्गाम्ले मर्दयेद्रसम् । तापयेदुष्णतोयेन जलेन परिपूरयेत् ॥ १,२४.३१ ॥ सत्त्वं सूतं च संमिश्रं धमेत्स्याद्रसबन्धनम् । बद्धं रसं मुखे क्षिप्त्वा भूमिच्छिद्राणि पश्यति ॥ १,२४.३२ ॥ <दशमः प्रकारः> निष्कमेकं रसं क्रान्तमश्वमूत्रेण मर्दयेत् । दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत् ॥ १,२४.३३ ॥ चतुर्दिनमिदं कृत्वा समसूतं समं नयेत् । मर्दनं स्वेदनं चैव पूर्ववच्छुद्धमानसः ॥ १,२४.३४ ॥ सप्तद्वन्द्वजमेकैकं सप्तमेऽष्टपलं भवेत् । शल्याविशल्यामूलस्य वारिणा मर्दयेद्दिनम् ॥ १,२४.३५ ॥ भूधरीयन्त्रमध्यस्थं पुटं सप्तदिनं ददेत् । तद्भस्म शुद्धं सेव्यं स्याद्गुञ्जामात्रं तु मण्डलम् ॥ १,२४.३६ ॥ एकाद्यं पञ्चमं मध्यं पुनरेकं प्रशस्यते । पूर्ववद्बन्धनं देवि कोटिवेधी भवेद्रसः ॥ १,२४.३७ ॥ <कान्तबन्धः> रक्तवर्णमयस्कान्तं लाक्षारससमप्रभम् । भिन्नस्त्रीरक्तसंकाशं तच्चूर्णं सूतसंयुतम् ॥ १,२४.३८ ॥ मर्दयेच्छागरक्तेन ध्मातं खोटो भवेत्प्रिये । स सूतः शतवेधी तु स तु व्याधिहरो भवेत् ॥ १,२४.३९ ॥ गुलिकां धारयेद्वक्त्रे जीवेद्वर्षसहस्रकम् । पीतवर्णमयस्कान्तं भिन्नहेमसमप्रभम् ॥ १,२४.४० ॥ वेधयेत्स्पर्शमात्रेण स तु लोहानि सुन्दरि । <चपलबन्धः; प्रथमः प्रकारः> लाङ्गलीं करवीरं च चित्रकं गिरिकर्णिकाम् ॥ १,२४.४१ ॥ स्त्रीस्तन्यटङ्कसौवीरं मूषालेपं तु कारयेत् । चपलाद्द्विगुणं सूतं सूताद्द्विगुणकाञ्चनम् ॥ १,२४.४२ ॥ नष्टपिष्टं च तत्कुर्यादन्धमूषागतं धमेत् । तत्र स्थितो रसेन्द्रोऽयं खोटो भवति शोभनः ॥ १,२४.४३ ॥ शतांशं वेधयेन्नागं गुञ्जावर्णस्तु जायते । तेन नागशतांशेन शुल्बं रक्तनिभं भवेत् ॥ १,२४.४४ ॥ तेन शुल्बशतांशेन तारं विध्यति काञ्चनम् । <द्वितीयः प्रकारः> चपलस्य तु षड्भागास्तारभागास्तु सप्त च ॥ १,२४.४५ ॥ अष्टौ कनकभागास्तु नव भागा रसस्य च । त्रिंशद्भागा मिलित्वा तु भवन्ति सुरवन्दिते ॥ १,२४.४६ ॥ चित्रकं कणवीरं च लाङ्गली गृध्रविट्तथा । मर्दितं मातुलुङ्गाम्लैर्मूषालेपं तु कारयेत् ॥ १,२४.४७ ॥ अन्धयित्वा धमेद्देवि खोटो भवति शोभनः । तेन खोटदशांशेन विद्धो नागोऽरुणो भवेत् ॥ १,२४.४८ ॥ तेन नागेन विद्धं तु शुल्बं गुञ्जारुणं भवेत् । तेन शुल्बेन तारं तु विद्धं भवति काञ्चनम् ॥ १,२४.४९ ॥ <तृतीयः प्रकारः> हेमाभ्रं चपलं देवि पारदार्धेन संयुतम् । पारदेन कनकं दत्त्वा कुनट्या मर्दयेत्क्षणम् ॥ १,२४.५० ॥ लाङ्गली चित्रकं चैव स्त्रीस्तन्यं कणवीरकम् । गृध्रविष्ठा तथा सर्वं मूषालेपं तु कारयेत् ॥ १,२४.५१ ॥ तन्मध्ये तु स्थितं ध्मातं खोटो भवति शोभनः । पूर्वोक्तं वेधयेदेतन्निर्बीजं कनकं भवेत् ॥ १,२४.५२ ॥ सुतप्तलोहपात्रे च क्षिपेच्चपलचूर्णकम् । सबीजं पारदं कृत्वा चपलस्य तु वापयेत् ॥ १,२४.५३ ॥ लाक्षाभो बध्यते सूतोऽङ्कुशेनेव महागजः । <गन्धकबन्धः; प्रथमः प्रकारः> शुद्धसूतपलैकं च पलैकं गन्धकस्य च ॥ १,२४.५४ ॥ एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च । मारयेच्चक्रयोगेन भस्मीभवति सूतकः ॥ १,२४.५५ ॥ अन्धमूषागतो ध्मातः खोटो भवति शोभनः । सितं हेम च नागं च चन्द्रार्कं चापि वेधयेत् ॥ १,२४.५६ ॥ <द्वितीयः प्रकारः> पलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च । मर्दयेत्स्निग्धखल्वेन देवदालीरसप्लुतम् ॥ १,२४.५७ ॥ मर्दयेत्तु कराङ्गुल्या गन्धपिष्टिस्तु जायते । जम्बीरस्य रसेनैव दिनमेकं तु मर्दयेत् ॥ १,२४.५८ ॥ पञ्चद्रावकसंयुक्तां वटिकां कारयेच्छुभाम् । पलाशमूलकल्केन वटिकां तां प्रलेपयेत् ॥ १,२४.५९ ॥ धमेत्खोटो भवेच्छ्वेतकाचटङ्कणयोगतः । शोधयेत्तं प्रयत्नेन यावन्निर्मलतां व्रजेत् ॥ १,२४.६० ॥ स खोटो जायते देवि त्रिगुणं पन्नगं ततः । शतशो रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना ॥ १,२४.६१ ॥ शुल्बे तारे च खोटोऽयं सहस्रांशेन वेधकः । <तृतीयः प्रकारः> गन्धकेन हते सूते मृतलोहानि वाहयेत् ॥ १,२४.६२ ॥ पुनर्हेम समावर्त्य समांशं भक्षणं कुरु । सारितः शुल्बतारैर्घोषं विध्यति सूतकः ॥ १,२४.६३ ॥ <चतुर्थः प्रकारः> रसं हेमसमं कृत्वा पिष्टिकार्धेन गन्धकम् । द्विपदीरजसा युक्तं मर्दयेट्टङ्कणान्वितम् ॥ १,२४.६४ ॥ नष्टपिष्टं च शुष्कं च ध्मातः खोटो भवेत्ततः । चन्द्रार्कषोडशांशेन विद्धं भवति काञ्चनम् ॥ १,२४.६५ ॥ हेमार्धमिलितं तं तु मातृकासमतां व्रजेत् । कुर्यात्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥ १,२४.६६ ॥ यथा हेम्नि तथा तारे व्याटिबीजेन योजितम् । तृतीयसङ्कलाबद्धं षट्शते नागवेधकम् ॥ १,२४.६७ ॥ चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनम् । अनेन क्रमयोगेन सप्त सङ्कलिका यदि ॥ १,२४.६८ ॥ कुरुते काञ्चनं दिव्यमष्टलोहानि पार्वति । तं पुनश्चूर्णयित्वा तु पुटयेद्भस्म जायते ॥ १,२४.६९ ॥ सर्वव्याधिजयो देवि पलैकेन सुभक्षिते । द्विपले ब्राह्ममायुष्यं त्रिपले वैष्णवं भवेत् ॥ १,२४.७० ॥ चतुष्पले च पञ्चत्वमीशः पञ्चपले भवेत् । षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥ १,२४.७१ ॥ <पञ्चमः प्रकारः> सूतकं गन्धकं तारं मेषवल्लीवसा समा । त्रिदिनं मर्दयेल्लक्षं वङ्गं पादेन लेपयेत् ॥ १,२४.७२ ॥ अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् । <षष्ठः प्रकारः, गन्धपिष्टिविधिः> चूर्णितं गन्धकं देवि मर्कटीरसभावितम् ॥ १,२४.७३ ॥ भावयेच्छतवाराणि जीवभस्म तु गच्छति । दापयेन्मृण्मये पात्रे रसेन सह संयुतम् ॥ १,२४.७४ ॥ तापयेद्रवितापेन मर्कटीरससंयुतम् । गन्धकं ग्रसते सूतः पिष्टिका भवति क्षणात् ॥ १,२४.७५ ॥ तिलपर्णीरसेनैव गन्धकं भावयेत्ततः । सप्तवारांस्तु देवेशि छायाशुष्कं पुनःपुनः ॥ १,२४.७६ ॥ शोधितं पातितं सूतं पलैकप्रमितं प्रिये । मूषामध्ये विनिक्षिप्य नरेन्द्रीरससंयुतम् ॥ १,२४.७७ ॥ जारयेद्वालुकायन्त्रे भावितं गन्धकं पुनः । त्रुटि त्रुटि प्रदातव्यं गन्धकं च पुनः पुनः ॥ १,२४.७८ ॥ अनेन क्रमयोगेन जायते गन्धपिष्टिका । गन्धपाषाणचूर्णं तु कनकस्य रसेन तु ॥ १,२४.७९ ॥ भावयेत्सप्तवारांस्तु स्त्रीरजेन तु सप्तधा । शुद्धसूतपलैकं च खर्परे दापयेत्ततः ॥ १,२४.८० ॥ भावितं गन्धकं दद्यान्नरपित्तेन संयुतम् । दोलयेद्रवितापेन पिष्टिका भवति क्षणात् ॥ १,२४.८१ ॥ गन्धकं सूक्ष्मचूर्णं तु चणकाम्लेन पार्वति । भावयेत्सप्तवाराणि स्त्रीपुष्पेण च सप्तधा ॥ १,२४.८२ ॥ द्रुतसूतकमध्ये तु कर्पूरं गन्धकं रसम् । दापयेन्निक्षिपेद्गोष्ठे सप्ताहाद्गन्धपिष्टिका ॥ १,२४.८३ ॥ <गन्धकपिष्टीस्तंभनं वेधश्च> कटुकोशातकीबीजं चाण्डालीकन्दमेव च । स्तन्यक्षीरेण संपेष्य पिष्टिकां तेन लेपयेत् ॥ १,२४.८४ ॥ पुटयेद्भूधरे यन्त्रे स्तम्भते नात्र संशयः । हेमसम्पुटमध्ये तु समावर्तं तु कारयेत् ॥ १,२४.८५ ॥ अष्टमांशेन तेनैव नागवेधं प्रदापयेत् । षोडशांशेन तेनैव तारवेधं प्रदापयेत् ॥ १,२४.८६ ॥ <सप्तमः प्रकारः> गन्धपिष्टिपलैकं तु नागपिष्टिपलाष्टकम् । लेपयेन्नागपत्राणि छायायां शोषयेत्ततः ॥ १,२४.८७ ॥ आटरूषकपिण्डेन नागपत्राणि लेपयेत् । आरण्योत्पलकैर्देवि दापयेच्च पुटत्रयम् ॥ १,२४.८८ ॥ तन्नागं म्रियते दिव्यं सिन्दूरारुणसप्रभम् । तन्नागं पलमेकं तु शुल्बचूर्णपलाष्टकम् ॥ १,२४.८९ ॥ वासकस्य रसेनैव प्रहरैकं तु मर्दयेत् । मारयेत्पातनायन्त्रे शुल्बं तन्म्रियते क्षणात् ॥ १,२४.९० ॥ षोडशांशेन तेनैव तारवेधं प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १,२४.९१ ॥ या काचिद्गन्धपिष्टी तु आदौ नागं तु मारयेत् । नागेन वेधयेच्छुल्बं शुल्बे तारं तु वेधयेत् ॥ १,२४.९२ ॥ कनकं जायते दिव्यं सिद्धयोग उदाहृतः । <अष्टमः प्रकारः> गन्धकं मधुसंयुक्तं हरबीजेन मर्दितम् ॥ १,२४.९३ ॥ भूमिस्थं मासमेकं तु तारमायाति काञ्चनम् । उद्वर्तनेन तेनैव सर्वकुष्ठविनाशनम् ॥ १,२४.९४ ॥ घनेन सह संयुक्तं व्रणरोगविनाशनम् । संवत्सरप्रयोगेण सहस्रायुर्भवेन्नरः ॥ १,२४.९५ ॥ <तालकबन्धः> शुद्धसूतपलैकं तु पलैकं तालकस्य च । एकीकृत्याथ संमर्द्य उन्मत्तकरसेन च ॥ १,२४.९६ ॥ मारयेच्चक्रयन्त्रेण भस्मीभवति सूतकः । अन्धमूषागतं ध्मातं खोटो भवति शोभनः ॥ १,२४.९७ ॥ वङ्गं तारं च शुल्बं च क्रमशो वेधयेद्रसः । शुद्धवङ्गपलैकं च पलैकं सूतकस्य च ॥ १,२४.९८ ॥ द्वे पले तालकं चैतदुन्मत्तरसमर्दितम् । मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ॥ १,२४.९९ ॥ श्वेताभ्रकस्य सत्त्वं च तारं तीक्ष्णं च माक्षिकम् । अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ १,२४.१०० ॥ तत्खोटपलमेकं च पलैकं सूतकस्य च । तालकस्य पलं सर्वमेकीकृत्याथ मर्दयेत् ॥ १,२४.१०१ ॥ मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् । <अन्ये लघुबन्धाः> शुद्धसूतपलैकं च पलैकं पन्नगस्य च ॥ १,२४.१०२ ॥ पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् । मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ॥ १,२४.१०३ ॥ हेमपिष्टिपलैकं च पलैकं गन्धकस्य तु । एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ॥ १,२४.१०४ ॥ मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् । कृष्णाभ्रकस्य सत्वं च कान्तं तीक्ष्णं च हाटकम् ॥ १,२४.१०५ ॥ शुद्धं तारं च माक्षीकं समभागानि कारयेत् । अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ १,२४.१०६ ॥ तत्खोटपलमेकं तु पलैकं सूतकस्य च । पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ॥ १,२४.१०७ ॥ मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् । कृष्णाभ्रकपलैकं तु रसकस्य पलं तथा ॥ १,२४.१०८ ॥ सूतकस्य पलैकं तु सर्वमेकीकृतं प्रिये । उन्मत्तकरसेनैव मर्दयेत्प्रहरद्वयम् ॥ १,२४.१०९ ॥ मर्दयेद्दिनमेकं वा टङ्कणेन समन्वितम् । घुटिकां कारयेत्पश्चाच्छायाशुष्कं तु कारयेत् ॥ १,२४.११० ॥ महावर्तिगतं ध्मातं खोटं भवति सूतकः । तं खोटं शोधयेत्काचटङ्कणद्रवयोगतः ॥ १,२४.१११ ॥ हेम्ना सह समावर्त्य सारणात्रयसारितम् । सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥ १,२४.११२ ॥ अनेन क्रमयोगेन कोटिवेधी भवेद्रसः । बीजद्वयं पलाशस्य पलमेकं तु सूतकम् ॥ १,२४.११३ ॥ जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् । तुम्बीका मेघनादी च काकजङ्घा च भूलिका ॥ १,२४.११४ ॥ स्तन्यं च तैः प्रलिप्तायां मूषायां चैव निक्षिपेत् । धमयेत्खदिराङ्गारैः खोटो भवति चाक्षयः ॥ १,२४.११५ ॥ पलाशतैले संमर्द्यं यावत्स्याद्द्रवपिष्टिका । अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ १,२४.११६ ॥ पूर्वशुद्धेन सूतेन समहेम्ना च पार्वति । गोलकं कारयेत्तेन मर्दयित्वा दृढं कृतम् ॥ १,२४.११७ ॥ ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकम् । यवचिञ्चा च वन्ध्या च राजिका च समन्वितम् ॥ १,२४.११८ ॥ सूक्ष्मपिण्डीकृतं सर्वं तेन लिप्त्वा तु गोलकम् । पुटनैः सप्तभिर्देवि पिष्टिकास्तम्भनं भवेत् ॥ १,२४.११९ ॥ बृहत्पुटं ततो दत्त्वा मूषायां तु धमेत्ततः । समावर्त्य तु तं सूतं समहेम्ना नियोजितम् ॥ १,२४.१२० ॥ शतांशेन तु चन्द्रार्कं वेधयेत्सुरवन्दिते । पुनस्तेनैव योगेन पिष्टीस्तंभं तु कारयेत् ॥ १,२४.१२१ ॥ सारयित्वा ततो हेम्ना वेधश्चैव सहस्रकः । एवं लक्षाणि कोटिं च वेधयेत्क्रमयोगतः ॥ १,२४.१२२ ॥ सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रं तु गोलकम् । वर्षेणैकेन स भवेद्वलीपलितवर्जितः ॥ १,२४.१२३ ॥ चाण्डालीराक्षसीपुष्पैरथ मध्वाज्यटङ्कणैः । महारसाष्टमध्ये तमभ्रकं वापि योजयेत् ॥ १,२४.१२४ ॥ नागवङ्गसमं सूतं हेमतारमथापि वा । अभ्रकं द्रुतिसत्त्वं वा मर्दयेत्प्रहरद्वयम् ॥ १,२४.१२५ ॥ छायाशुष्कं ततो गोलं मूकमूषागतं प्रिये । दत्त्वा लघुपुटं ध्मातः खोटो भवति शोभनः ॥ १,२४.१२६ ॥ रंभा वीरा स्नुहीक्षीरं कञ्चुकी यवचिञ्चिका । दीनारी चैव गोरम्भा मीनाक्षी काकमाचिका ॥ १,२४.१२७ ॥ एभिर्मर्दितसूतस्य पुनर्जन्म न विद्यते । पूर्ववत्क्रमयोगेन खोटो भवति शोभनः ॥ १,२४.१२८ ॥ विष्णुक्रान्ता च वक्राङ्काबला च तुलसी तथा । महासोमाहिवल्ली च सूर्यावर्तं च सुन्दरि ॥ १,२४.१२९ ॥ एभिस्तु मर्दितः सूतः पूर्ववत्खोटतां नयेत् । स्नुहीक्षीरं च काञ्जीरं बीजानि कनकस्य च ॥ १,२४.१३० ॥ कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका । पालाशमूलतोयं च मर्दयेत्तेन सूतकम् ॥ १,२४.१३१ ॥ समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः । महारसान्पिष्टिकार्धं मर्दयेदोषधीरसैः ॥ १,२४.१३२ ॥ यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः । पिष्टिकां बन्धयित्वा तु गन्धतैले विपाचयेत् ॥ १,२४.१३३ ॥ अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् । ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् ॥ १,२४.१३४ ॥ खोटवज्जायते देवि सह हेम्ना तु धामयेत् । अक्षीणो मिलते हेम्नि समावर्तश्च जायते ॥ १,२४.१३५ ॥ तत्क्षणादेव सूतस्य दिव्यदेहो भवेन्नरः । वेधयेत्सर्वलोहानि रञ्जितः क्रामितो रसः ॥ १,२४.१३६ ॥ समांशभक्षणे सूते मर्दयेदोषधीरसैः । नष्टपिष्टं तु तं कृत्वा पूर्वयोगेन धामयेत् ॥ १,२४.१३७ ॥ खोटस्तु जायते दिव्यः षोडशांशेन वेधकः । बद्धः सङ्कलिकायोगाद्विध्येद्दशगुणोत्तरम् ॥ १,२४.१३८ ॥ अथवा चूर्णबद्धस्तु विध्येद्दशगुणोत्तरम् । मृगदूर्वा चन्द्रवल्ली पक्वबिम्बा तथैव च ॥ १,२४.१३९ ॥ काङ्क्षीला करवीरं च बीजं चोन्मत्तकस्य च । काकाण्डीपलसंयुक्तं मर्दयेत्सुरसुन्दरि ॥ १,२४.१४० ॥ समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः । अथवा सारयित्वा तु समेन समसूतकम् ॥ १,२४.१४१ ॥ महारसपिष्टिकां च मर्दयेदोषधीरसैः । यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ॥ १,२४.१४२ ॥ अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् । ततो लघुपुटं दत्त्वा ध्मातः खोटो भवेत्प्रिये ॥ १,२४.१४३ ॥ मृगदूर्वोत्तमासोमारसैः सूतकसारणम् । मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते ॥ १,२४.१४४ ॥ समेन हेम्ना संयुक्तं पिष्टिकां कारयेद्बुधः । अथवा तारपिष्टिं च समसूतेन कारयेत् ॥ १,२४.१४५ ॥ पूर्ववत्क्रमयोगेन खोटो भवति शोभनः । अन्धमूषागतं भूमौ स्वेदयेत्कर्षकाग्निना ॥ १,२४.१४६ ॥ अहोरात्रं त्रिरात्रं वा चूर्णबन्धं भवेत्ततः । तच्चूर्णबन्धं कुरुते वेधं दशगुणोत्तरम् ॥ १,२४.१४७ ॥ शूलिनीरससूतं च स्रोतोञ्जनसमन्वितम् । पूर्ववत्पिष्टिकायोगात्खोटो भवति शोभनः ॥ १,२४.१४८ ॥ स्रोतोञ्जनं सतगरं सृष्टित्रययुतं रसम् । भवेद्वह्निसहः क्षिप्रं सूतकः सर्वकर्मकृत् ॥ १,२४.१४९ ॥ हेमाभ्रं चैव ताराभ्रं शुल्बाभ्रं चाभ्रतीक्ष्णकम् । वङ्गाभ्रं चैव नागाभ्रं सह सूतेन बन्धयेत् ॥ १,२४.१५० ॥ यथालाभौषधीघृष्टं महारससमन्वितम् । हेम्ना तारेण शुल्वेन तीक्ष्णवङ्गोरगैस्तथा ॥ १,२४.१५१ ॥ एभिर्व्यस्तैः समस्तैर्वा पिष्टिं कृत्वा समे समाम् । मारयेत्पूर्वविधिना गर्भयन्त्रे तुषाग्निना ॥ १,२४.१५२ ॥ समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः । जायते विविधः खोटः कान्तबद्धो महारसः ॥ १,२४.१५३ ॥ भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः । <निगलबन्धः> खोटः पोटस्तथा भस्म धूलीकल्पश्च पञ्चमः ॥ १,२४.१५४ ॥ एते निगलयोगाभ्यां सर्वबन्धफलोदयः । स्नुह्यर्कसंभवं क्षीरं बन्धबीजानि गुग्गुलुः ॥ १,२४.१५५ ॥ सैन्धवं द्विगुणं दत्त्वा मर्दयेत विचक्षणः । पिष्टिकाबन्धनं कृत्वा कल्केनानेन सुन्दरि ॥ १,२४.१५६ ॥ बिल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम् । ऊर्ध्वाधो लवणं दत्त्वा मूषामध्ये रसं क्षिपेत् ॥ १,२४.१५७ ॥ मूषामध्ये प्रदातव्यं दग्धशङ्खादिचूर्णकम् । मुखं तस्य दृढं बद्ध्वा लोणमृत्तिकया बुधः ॥ १,२४.१५८ ॥ कारयेत्सन्धिलोणं च छायाशुष्कं तु कारयेत् । उक्तो निगलबन्धोऽयं पुत्रस्यापि न कथ्यते ॥ १,२४.१५९ ॥ तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् । अहोरात्रं त्रिरात्रं वा पुटं दत्त्वा प्रयत्नतः ॥ १,२४.१६० ॥ सुध्मातं खदिराङ्गारै रसेन्द्रं खोटतां नयेत् । सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥ १,२४.१६१ ॥ अक्षीणो मिलते हेम्नि समावर्तश्च जायते । समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥ १,२४.१६२ ॥ धमयेत्पूर्वयोगेन रसेन्द्रं खोटतां नयेत् । भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥ १,२४.१६३ ॥ पलाशबीजनिर्यासं कोकिलोन्मत्तवारुणी । शूलिनीरससंयुक्तं पेषयेत्सैन्धवान्वितम् ॥ १,२४.१६४ ॥ पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् । अभ्रकस्य तु पत्रेण वज्रार्कक्षीरसिन्धुना ॥ १,२४.१६५ ॥ ताप्येन लोहकिट्टेन सिकतामृण्मयेन च । एभिस्तु निगले बद्धः पारदीयो महारसः ॥ १,२४.१६६ ॥ नातिक्रामति मर्यादा वेलामिव महोदधिः । तैलार्कक्षीरकतकलाङ्गल्या निगलोत्तमः ॥ १,२४.१६७ ॥ काकविट्ब्रह्मबीजानि लाङ्गली निगलोऽपरः । वाकुची ब्रह्मबीजानि कर्कटास्थीनि सुन्दरि ॥ १,२४.१६८ ॥ सामुद्रं शाम्बरं चैव लवणं निगलोत्तमः । स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि कारयेत् ॥ १,२४.१६९ ॥ कनकस्य च बीजानि लोणाष्टेन च मर्दयेत् । निगलोऽन्यस्तु गोजिह्वामूलानि स्त्रीरजोऽपरः ॥ १,२४.१७० ॥ वाकुची ब्रह्मबीजानि स्नुह्यर्कक्षीरसैन्धवम् । ज्वालिनी काकविष्ठा च प्रशस्तो निगलोत्तमः ॥ १,२४.१७१ ॥ लवणं टङ्कणं क्षारं शिलातालकगन्धकम् । तथाम्लवेतसं ताप्यं हिङ्गुलं समभागिकम् ॥ १,२४.१७२ ॥ स्नुह्यर्कपयसा युक्तं पेषयेन्निगलोत्तमम् । पिष्टिकां वेष्टयेदेषामेकेन निगलेन तु ॥ १,२४.१७३ ॥ लोणमूषागतं प्राग्वत्खोटं कृत्वा तु वेधयेत् । द्वितीयं गोलकं वक्ष्ये पिष्टिकास्तम्भमुत्तमम् ॥ १,२४.१७४ ॥ द्विपदीरजमूत्रेण सैन्धवाभ्रं सगुग्गुलम् । पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा ॥ १,२४.१७५ ॥ तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् । अहोरात्रं त्रिरात्रं वा पूर्ववत्खोटतां नयेत् ॥ १,२४.१७६ ॥ वाकुची ब्रह्मबीजानि गगनं विमलं मणिम् । सौवर्चलं सैन्धवं च टङ्कणं गुग्गुलुं तथा ॥ १,२४.१७७ ॥ द्विपदीरजसा मूत्रं सुश्लक्ष्णं तं च मर्दयेत् । पिष्टीमावेष्ट्य कल्केन पूर्ववत्खोटतां नयेत् ॥ १,२४.१७८ ॥ <रसमूर्छाविधिः, प्रथमः प्रकारः> अथ मूर्च्छां प्रवक्ष्यामि रसस्य परमेश्वरि । बाह्लीकं सैन्धवं कन्या धूशरो लशुनं वचा ॥ १,२४.१७९ ॥ मेघनादा काकमाची सर्वांशं मर्दयेद्रसम् । श्लक्ष्णं तं गोलकं कृत्वा हिंगुना वेष्टयेद्बहिः ॥ १,२४.१८० ॥ समेन लोणयन्त्रस्थं कृत्वा तद्विपचेद्दिनम् । चण्डाग्निना स्वाङ्गशीतमधः पात्रे स्थितं रसम् ॥ १,२४.१८१ ॥ चूर्णीभूतं समादाय सान्द्रद्विगुणवाससा । बद्ध्वा सोमानले यन्त्रे ह्यथोर्ध्वं गन्धकं समम् ॥ १,२४.१८२ ॥ दत्त्वा पचेत्पुनर्गन्धमेवं गन्धं तु षड्गुणम् । जारयेत्स रसो देवि मूर्छितः सर्वरोगहा ॥ १,२४.१८३ ॥ <द्वितीयः प्रकारः> गन्धकं नवसारं च शुद्धसूतसमं समम् । यामं संमर्दयेच्छ्लक्ष्णं काचकूप्यां विनिक्षिपेत् ॥ १,२४.१८४ ॥ सप्तमृत्कर्पटैर्लिप्त्वा कूपीं घर्मे विशोषयेत् । कूपिकां वालुकायन्त्रे द्वादशप्रहरं पचेत् ॥ १,२४.१८५ ॥ स रसो जायते देवि मूर्छितो रञ्जितो भवेत् । <तृतीयः प्रकारः> रसार्धं गन्धकं मर्द्यं यामयुग्मं खरातपे ॥ १,२४.१८६ ॥ ततः सितजयन्त्याश्च रसैः संमर्दयेत्त्र्यहम् । ततस्तु गोलकं कृत्वा मूषायां संनिरोधयेत् ॥ १,२४.१८७ ॥ शोषयित्वा धमेत्किंचित्संतप्तां तां जले क्षिपेत् । तं रसेन्द्रं समादाय भावयेद्गोक्षुरद्रवैः ॥ १,२४.१८८ ॥ मूर्छितो जायते सूतः सर्वरोगहरः शुभः । <बद्धरसलक्षणम्> अक्षयश्च लघुद्रावी तेजस्वी निर्मलो गुरुः ॥ १,२४.१८९ ॥ स्फुटनः पुनरावर्तो बद्धः सूतः स उच्यते । <जलूकाबन्धाः; मर्दनजलूका> रसस्याष्टमभागं तु स्वर्णं वा नागमेव वा ॥ १,२४.१९० ॥ श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् । तिलपिण्याकचूर्णं च तप्तखल्वे विमर्दयेत् ॥ १,२४.१९१ ॥ शाल्मल्याश्चैव पञ्चाङ्गं रसं तत्र विनिक्षिपेत् । जलूका जायते यावत्तावन्मर्द्यात्ततः क्षिपेत् ॥ १,२४.१९२ ॥ कर्पूरं वाकुचीतैलं सैन्धवं टङ्कणं कणाम् । कपिकच्छुकरोमाणि तत्सर्वं पेषयेज्जलैः ॥ १,२४.१९३ ॥ एतत्पूर्वजलूकां त्रिसप्ताहं तप्तखल्वके । जलूका जायते दिव्या मर्दनाख्या सुरार्चिते ॥ १,२४.१९४ ॥ नारीणामृतुकाले तु सा योज्या योनिगह्वरे । मददर्पहरा तासां मदविह्वलकारका ॥ १,२४.१९५ ॥ बाल्ये चाष्टाङ्गुला योज्या यौवने सा दशाङ्गुला । द्वादशाङ्गुलिका योज्या प्रगल्भानां जलूकका ॥ १,२४.१९६ ॥ यस्तु तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् । <मन्मथजलूका> रसेन्द्रस्याष्टमं भागं स्वर्णं वा नागमेव वा ॥ १,२४.१९७ ॥ शाल्मलीत्वग्घस्तिकन्दनीलामूलमुनिच्छदम् । एषां द्रवैस्तप्तखल्वे सर्वं मर्द्यमतन्द्रितः ॥ १,२४.१९८ ॥ श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् । सुपक्वबिल्वमज्जां च तस्मिन्क्षिप्त्वा विमर्दयेत् ॥ १,२४.१९९ ॥ जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् । तस्मिन्क्षिप्त्वा त्रिसप्ताहं मर्दयेत्तप्तखल्वके ॥ १,२४.२०० ॥ मन्मथाख्या जलूका स्यात्पूर्ववत्फलदायिनी । <कन्दर्पजलूका> सूतकस्याष्टमं भागं हाटकं सीसमेव वा ॥ १,२४.२०१ ॥ शुण्ठी भृङ्गी वरा क्षौद्री छागक्षीरघृतं गवाम् । मूत्रं त्रिः सप्तदिवसं मर्दयेत्तप्तखल्वके ॥ १,२४.२०२ ॥ जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् । एकविंशद्दिनं मर्द्यं जलूका जायते शुभा ॥ १,२४.२०३ ॥ कन्दर्पाख्या सुरेशानि पूर्ववत्फलदायिनी । <मदनजलूका> त्रिदिनं मर्दयेत्खल्वे सूतनिष्कचतुष्टयम् ॥ १,२४.२०४ ॥ त्रिपलं चाम्रनिर्यासं स्तोकं स्तोकं विनिक्षिपेत् । पयश्चैव महाशम्या दातव्यं मर्दनक्षमम् ॥ १,२४.२०५ ॥ जलूका मदनाख्येयं जायते शुभदा नृणाम् । रामाणां मददर्पाणां द्राविकाग्निघृतौ यथा ॥ १,२४.२०६ ॥ पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरं भवेत् । नानावर्णं तथा स्वच्छं धृतं योनौ जलूकवत् ॥ १,२४.२०७ ॥ बध्यते सूतको यस्तु जलूकाबन्धलक्षणम् ॥ १,२४.२०८ ॥ आक्, १, २५ <परिभाषा> परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः । <वैद्यभागः> अर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च ॥ १,२५.१ ॥ पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च । अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकम् ॥ १,२५.२ ॥ रसेश्वरं समुद्दिश्य रसवैद्याय धीमते । रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये ॥ १,२५.३ ॥ <कज्जली पङ्करसश्च> धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः । सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते ॥ १,२५.४ ॥ सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः । <पिष्टी> अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे । अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा ॥ १,२५.५ ॥ खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ॥ १,२५.६ ॥ पेषणात्पिष्टितां याति सा पिष्टीति मता परैः । <पातनपिष्टी> चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ॥ १,२५.७ ॥ भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता । <हेमपिष्टी तारपिष्टी च> रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ॥ १,२५.८ ॥ समुत्थितं च बहुशः सा कृष्टी हेमतारयोः । कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया ॥ १,२५.९ ॥ स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् । <लोहकम्> ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ॥ १,२५.१० ॥ सगन्धे लिकुचद्रावे निर्गतं वरलोहकम् । <हेमरक्ती ताररक्ती च> तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता ॥ १,२५.११ ॥ निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी । तारस्य रञ्जनी चापि बीजरागविधायिनी ॥ १,२५.१२ ॥ एवमेव प्रकर्तव्या ताररक्ती मनोहरा । रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥ १,२५.१३ ॥ <चन्द्रानलदलम्> मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहम् । सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥ १,२५.१४ ॥ आभासमृतबन्धेन रसेन सह योजितम् । साधितं वान्यलोहेन सितं पीतं हि तद्दलम् ॥ १,२५.१५ ॥ <अयोनागम्> ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् । तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयम् ॥ १,२५.१६ ॥ सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् । तदयोनागमित्युक्तं साधकं देहलोहयोः ॥ १,२५.१७ ॥ रसेन सारणायन्त्रे तदीया गुलिका कृता । सा धृता वदने हन्ति मेहरोगानशेषतः ॥ १,२५.१८ ॥ कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव । तथान्यान् क्षेत्रजान्रोगान् रोगाञ्जत्रूर्ध्वसंभवान् ॥ १,२५.१९ ॥ <शुल्वनागम्> माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् । तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥ १,२५.२० ॥ नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् । इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितम् ॥ १,२५.२१ ॥ साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् । निहन्ति मासमात्रेण मेहव्यूहमशेषतः ॥ १,२५.२२ ॥ पथ्याशनस्य वर्षेण पलितं वलिभिः सह । गृध्रदृष्टिर्लसद्दृष्टिः सर्वारोग्यसमन्वितः ॥ १,२५.२३ ॥ <पिञ्जरी> लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे । पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥ १,२५.२४ ॥ <चन्द्रार्कम्> भागाः षोडश तारस्य तथा द्वादश भास्वतः । एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते ॥ १,२५.२५ ॥ <निर्वापहणम्> धार्यलोहेऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः । निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥ १,२५.२६ ॥ क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकम् । आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत् ॥ १,२५.२७ ॥ <वार्तितर (डेf.)> मृतं तरति यत्तोये लोहं वारितरं हि तत् । <रेखापूर्ण (डेf.)> अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत् ॥ १,२५.२८ ॥ मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः । <निरुत्थभस्मलक्षणम्> गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ॥ १,२५.२९ ॥ न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते । <निरुत्थ> लोहेन सह संयुक्तं ध्मातं रूप्येण चेल्लिहेत् ॥ १,२५.३० ॥ तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् । एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि ॥ १,२५.३१ ॥ तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः । <बीजम्> निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा ॥ १,२५.३२ ॥ मृदुलं चित्रसङ्काशं तद्बीजमिति कथ्यते । <उत्तारणम्> इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु ॥ १,२५.३३ ॥ संसृष्टलोहयोरेकलोहस्य परिनाशनम् । <ताडनम्> प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥ १,२५.३४ ॥ <धान्याभ्रम्> चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ १,२५.३५ ॥ <सत्त्वम्> क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके । यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥ १,२५.३६ ॥ <एककोलीसकः> कोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः । मूषाकर्णमनुप्राप्तैरेककोलीशको मतः ॥ १,२५.३७ ॥ <स्वेदनाद्यर्हाः कोकिलाः> शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः । कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परम् ॥ १,२५.३८ ॥ <छर्चोअल्:: wओओद्> द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः । दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः ॥ १,२५.३९ ॥ <हिङ्गुलाकृष्टरसः> विद्याधराख्ययन्त्रस्थादार्द्रकद्रवमर्दितात् । समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥ १,२५.४० ॥ <घोषाकृष्टं वङ्गम्> स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् । मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ॥ १,२५.४१ ॥ <गुह्यनागम्> पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् । रूपिकादुग्धसम्पिष्टशिलायां परिलेपितम् ॥ १,२५.४२ ॥ शरावसंपुटे रुद्ध्वा पचेत्क्रोडपुटेन ताम् । तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ॥ १,२५.४३ ॥ गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तम् । मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ॥ १,२५.४४ ॥ चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः । लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ॥ १,२५.४५ ॥ पचेद्गजपुटैरेवं वाराणां खलु विंशतिः । पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु ॥ १,२५.४६ ॥ नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् । इति सिद्धं हि तत्सीसं कर्षमात्रावशेषितम् ॥ १,२५.४७ ॥ गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने । निष्कमात्रं तु नागेऽस्मिन् लोहाख्ये या द्रुते सति ॥ १,२५.४८ ॥ स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवम् । लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवम् ॥ १,२५.४९ ॥ गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः । <वरनागम्> तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ॥ १,२५.५० ॥ मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते । <उत्थापनम्> मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया ॥ १,२५.५१ ॥ <ढालनम्> द्रुतद्रव्यस्य निक्षेपो द्रवे तत्ढालनं मतम् । <चपलः> त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ॥ १,२५.५२ ॥ विमृद्य पुटयेत्तावद्यावत्कर्षावशेषकम् । न तत्पुटसहस्रेण क्षयमायाति सर्वदा ॥ १,२५.५३ ॥ चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः । इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥ १,२५.५४ ॥ तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः । स रसो धातुवादेषु शस्यते न रसायने ॥ १,२५.५५ ॥ अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः । भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितम् ॥ १,२५.५६ ॥ कुमारीमूलतोयेन मर्दयेदेकवासरम् । शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतम् ॥ १,२५.५७ ॥ एवं भूनागधौतं च मर्दयेद्दिवसद्वयम् । अथैकपलनागेन तावता त्रपुणापि च ॥ १,२५.५८ ॥ दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् । योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत् ॥ १,२५.५९ ॥ ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च । पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत् ॥ १,२५.६० ॥ अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् । पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च ॥ १,२५.६१ ॥ विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः । निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च ॥ १,२५.६२ ॥ शिखित्रैर्नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु । ततो मूषागतं सत्त्वं समादाय समन्ततः ॥ १,२५.६३ ॥ धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् । दशशाणं हि तत्सत्वं भस्मना लवणेन च ॥ १,२५.६४ ॥ सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् । त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना ॥ १,२५.६५ ॥ अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत्खलु । इयता पूर्वसूतोऽसौ क्षीयते न कथंचन ॥ १,२५.६६ ॥ चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना । अनेनापि रसः शीघ्रं पूर्ववद्बध्यते सुखम् ॥ १,२५.६७ ॥ कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः । भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥ १,२५.६८ ॥ सुखं प्रकटमूषायां भवेच्चातिगुणोत्तरः । जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत् ॥ १,२५.६९ ॥ <भूनागधौतम्> भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलम् । कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥ १,२५.७० ॥ <द्वन्द्वानम्> द्रव्ययोर्मेलनं ध्मानाद्द्वंद्वानं परिकीर्तितम् । <भञ्जनी> भागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकम् ॥ १,२५.७१ ॥ दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता । <फुल्लिका> पतङ्गीकल्कतो जाता लोहे तारत्वहेमता ॥ १,२५.७२ ॥ दिनानि कतिचित्स्थित्वा यात्यसौ फुल्लिका मता । <पतङ्गीरागः> रञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः ॥ १,२५.७३ ॥ विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः । <आवापः> द्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः ॥ १,२५.७४ ॥ स आवापः प्रतीवापस्तदेवाच्छादनं मतम् । <अभिषेकः> द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ॥ १,२५.७५ ॥ सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः । नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान् ॥ १,२५.७६ ॥ उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु । <निर्वाप> तप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत् ॥ १,२५.७७ ॥ प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले । <शुद्धावर्तः> यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ॥ १,२५.७८ ॥ शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे । <रेखावर्तः> द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ॥ १,२५.७९ ॥ द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते । <स्वाङ्गशीतं वह्नि(बहिः)शीतं च> वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥ १,२५.८० ॥ अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितम् । <स्वेदनम्> क्षाराम्लैरौषधैर्वापि डोलायन्त्रे स्थितस्य हि ॥ १,२५.८१ ॥ पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् । <मर्दनम्> उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ॥ १,२५.८२ ॥ पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् । <मूर्छनम्> मर्दनादिष्टभैषज्यैर्नष्टपिष्टित्वकारकम् ॥ १,२५.८३ ॥ तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनम् । <नष्टपिष्टिः> स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ॥ १,२५.८४ ॥ विवृद्धिर्जितसूतेन नष्टपिष्टिः स उच्यते । <उत्थापनम्> स्वेदतापादियोगेन स्वरूपापादनं पुनः ॥ १,२५.८५ ॥ तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् । <पातनम्> उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् । निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम् ॥ १,२५.८६ ॥ <रोधनम्> जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ॥ १,२५.८७ ॥ स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते । <नियमनम्> रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ॥ १,२५.८८ ॥ क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् । <दीपनम्> धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः ॥ १,२५.८९ ॥ ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः । <ग्रासमानम्> इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ॥ १,२५.९० ॥ इयतीत्युच्यते योऽसौ ग्रासमानमितीरितम् । <जारणा> ग्रासस्य चारणं गर्भद्रावणं जारणं तथा ॥ १,२५.९१ ॥ इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः । ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः ॥ १,२५.९२ ॥ समुखा निर्मुखा चेति जारणा द्विविधा मता । निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥ १,२५.९३ ॥ <समुखजारणा> शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते । चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥ १,२५.९४ ॥ एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् । कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ॥ १,२५.९५ ॥ इयं हि समुखी प्रोक्ता जारणामृतजारणा । <निर्मुखचारणा> दिव्यौषधिसमायोगात्स्थितः प्रकटकोष्ठिषु ॥ १,२५.९६ ॥ भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् । <चारणा> रसस्य जठरे ग्रासक्षेपणं चारणा मता ॥ १,२५.९७ ॥ <गर्भद्रुतिः> ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता । <बाह्यद्रुतिः> बहिरेव द्रुतीकृत्य घनसत्वादिकं खलु ॥ १,२५.९८ ॥ जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते । <द्रुति (सुब्स्तन्चे)> निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा ॥ १,२५.९९ ॥ असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् । <द्रुति (प्रोचेस्स्)> औषधाज्यादियोगेन लोहधात्वादिकं सदा ॥ १,२५.१०० ॥ उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता । <जारणा> द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः ॥ १,२५.१०१ ॥ जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः । <विडम्> क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा ॥ १,२५.१०२ ॥ रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितम् । <रञ्जनम्> संसिद्धबीजसत्त्वादिजारणेन रसस्य हि ॥ १,२५.१०३ ॥ पीतादिरागजननं रञ्जनं समुदीरितम् । <सारणा> सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ॥ १,२५.१०४ ॥ वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता । <वेधः> व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ॥ १,२५.१०५ ॥ वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः । <वेधभेदाः> लेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः ॥ १,२५.१०६ ॥ <लेपवेधः> लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा । लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ॥ १,२५.१०७ ॥ <क्षेपवेधः> प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः । <कुन्तवेधः> संदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः ॥ १,२५.१०८ ॥ सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते । <धूपवेधः> वह्नौ धूमायमानेऽन्तःप्रक्षिप्तरसधूमतः ॥ १,२५.१०९ ॥ स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः । <शब्दवेधः> मुखस्थिते रसे नाल्या लोहस्य धमनात्खलु ॥ १,२५.११० ॥ स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः । <उत्पाटनम्> पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ॥ १,२५.१११ ॥ प्रकाशनं च वर्णस्य तदुत्पाटनमीरितम् । <स्वेदनम्> क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ॥ १,२५.११२ ॥ भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितम् । <संन्यासः> रसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः ॥ १,२५.११३ ॥ सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते । <स्वेदनसंन्यासगुणाः> द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ॥ १,२५.११४ ॥ गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ॥ १,२५.११५ ॥ आक्, १, २६ <यन्त्राणि> रसो नियन्त्र्यते येन यन्त्रं तदिति कथ्यते । <१. खल्वयन्त्रम्> खल्वयन्त्रं द्विधा प्रोक्तं मर्दनादिककर्मणि ॥ १,२६.१ ॥ खल्वं लोहमयं देवि पाषाणोत्थमथापि वा । खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥ १,२६.२ ॥ खल्वयन्त्रं द्विधा प्रोक्तं रसादिमुखमर्दने । षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिसुविस्तरा ॥ १,२६.३ ॥ चतुर्विंशाङ्गुलीदीर्घघर्षणी द्वादशाङ्गुला । विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ॥ १,२६.४ ॥ खल्वप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसमर्दने । षोडशाङ्गुलविस्तारः खल्वो भवति वर्तुलः ॥ १,२६.५ ॥ चतुरङ्गुलनिम्नं च मध्येऽतिमसृणीकृतम् । मर्दनी चिपिटाधस्तात्सुग्रहा च शिखोपरि ॥ १,२६.६ ॥ अयं हि वर्तुलः खल्वो मर्दनेऽतिसुखप्रदः । अयसा कान्तलोहेन लोहखल्वमपीदृशम् ॥ १,२६.७ ॥ अधस्ताद्द्रोणिका कार्या वह्निप्रज्वालनोचिता । उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण नवाङ्गुलो रसमितैर्निम्नैस्तथैवाङ्गुलैः । कण्ठे द्व्यङ्गुलविस्तरोऽतिमसृणो द्रोणार्धचन्द्राकृतिर्घर्षश्चैव दशाङ्गुलश्च तदिदं खल्वाख्ययन्त्रं मतम् ॥ १,२६.८ ॥ अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ॥ १,२६.९ ॥ तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् । <तप्तखल्वः> लोहे नवाङ्गुलः खल्वो निम्नश्चैव षडङ्गुलः ॥ १,२६.१० ॥ मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्ययम् । कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्य ताम् ॥ १,२६.११ ॥ तस्मिन्निवेश्य तं खल्वं पार्श्वे भस्त्रिकया धमेत् । तस्मिन्विमर्दिता पिष्टिः क्षाराम्लैश्च सुसंयुता ॥ १,२६.१२ ॥ प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः । कृतः कान्तायसा सोऽयं भवेत्कोटिगुणो रसः ॥ १,२६.१३ ॥ <२. खवलभीयन्त्रम् (वलभीयन्त्रं वा)> यन्त्रे लोहमये पात्रे पार्श्वयोर्वलयद्वयम् । तादृक्स्वल्पतरं पात्रं वलयद्योतकोष्ठकम् ॥ १,२६.१४ ॥ पूर्वपात्रोपरि न्यस्य स्वल्पपात्रोपरि क्षिपेत् । रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥ १,२६.१५ ॥ द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे । तत्स्यात्खवलभीयन्त्रं रससाद्गुण्यकारकम् ॥ १,२६.१६ ॥ सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः । <३. ऊर्ध्वपातनयन्त्रम्> अष्टाङ्गुलमिता सम्यक्वर्तुला चिपिटा तले ॥ १,२६.१७ ॥ चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता । चतुरङ्गुलविस्तारा निम्नया दृढबद्धया ॥ १,२६.१८ ॥ तद्विधा च घटी मूले षोडशाङ्गुलविस्तृता । नवाङ्गुलकविस्तारकर्णेन च समन्विता ॥ १,२६.१९ ॥ पूर्वे घटे रसं क्षिप्त्वा न्युब्जां दद्यात्परां घटीम् । सोर्ध्वं निम्ना च परितो दृढपालिकयान्विता ॥ १,२६.२० ॥ पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः । ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम् ॥ १,२६.२१ ॥ <४. अधःपातनयन्त्रम्> उपरिष्टात्तु तत्स्थाल्यां क्षिपेदन्यामधोमुखीम् । स्थालिकां चिपिटीभूतां तलान्तर्लिप्तपारदाम् ॥ १,२६.२२ ॥ क्षिप्त्वा तत्पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् । अधःपातनयन्त्रं हि तदेतत्परिकीर्तितम् ॥ १,२६.२३ ॥ <५. तिर्यक्पातनयन्त्रम्> क्षिपेद्रसं घटे दीर्घे नताधोनालसंयुते । तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥ १,२६.२४ ॥ तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरधः । अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥ १,२६.२५ ॥ इतरस्मिन् घटे तोयं प्रक्षिपेत्स्वादुशीतलम् । तिर्यक्पातनमेतद्धि वार्तिकैरभिधीयते ॥ १,२६.२६ ॥ पातनात्रितयस्योक्तं यन्त्राणां त्रितयं खलु । पातनैश्च विना सूतो नितरां दोषमृच्छति ॥ १,२६.२७ ॥ त्रिभिरेवोर्ध्वपातैः स कस्माद्दोषैर्न मुच्यते । द्विविभागेन विपाकेन द्रव्यानन्योन्ययोगतः ॥ १,२६.२८ ॥ पात्रान्तरपरिक्षेपाद्गुणाः स्युर्विविधाः खलु । खण्डान्युलूखलांभोभिस्तण्डुलास्युर्जलोज्झिताः ॥ १,२६.२९ ॥ पातनैव महाशुद्धिस्तण्डुली परिकीर्तिता । <६. कच्छपयन्त्रम्> विशालवदने भाण्डे तोयपूर्णे निवेशयेत् ॥ १,२६.३० ॥ अपरं पृथुलं सम्यक्प्रतरस्तस्य मध्यमे । आलवालं बिडैः कृत्वा तन्मध्ये पारदं क्षिपेत् ॥ १,२६.३१ ॥ ऊर्ध्वाधश्च बिडं दत्त्वा मल्लेनारुध्य यत्नतः । पुटमौचित्ययोगेन दीयते तन्निगद्यते ॥ १,२६.३२ ॥ यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे । <७. आन्तरालिकयन्त्रम्> कृत्वा लोहमयीं मूषां वर्तुलाधारकारिणीम् ॥ १,२६.३३ ॥ वितस्त्या समितां कान्तलोहेन परिनिर्मिताम् । मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः ॥ १,२६.३४ ॥ द्व्यङ्गुलं वलयं दद्यान्मध्यदेशे च कण्ठतः । पिधानधारकं चिञ्चापत्रविस्तीर्णकङ्कणम् ॥ १,२६.३५ ॥ पिधानमन्तराविष्टं सशिखं श्लिष्टसन्धिकम् । तले प्रविहतच्छिद्रं भाण्डं कृत्वा ह्यधोमुखम् ॥ १,२६.३६ ॥ यन्त्रेणालम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च । स्थालीकण्ठं ततो दद्यात्पुटानलविधारणम् ॥ १,२६.३७ ॥ एवंरूपं भवेद्यन्त्रमान्तरालिकसंज्ञकम् । अनेन जारयेद्गन्धं द्रुतिं गर्भकृतामपि ॥ १,२६.३८ ॥ <८. तापिकायन्त्रम्> तापीमूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् । सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम् ॥ १,२६.३९ ॥ कान्तलोहमयीं खारीं दद्याद्द्रव्यस्य चोपरि । तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः ॥ १,२६.४० ॥ तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं बिडद्रवम् । पादाङ्गुष्ठमितां ज्वालां ज्वालयेदनलं ततः ॥ १,२६.४१ ॥ लोहाभ्रकादिकं सर्वं रसस्योपरि जारयेत् । तापिकायन्त्रमित्युक्तं सुकरं रसजारणे ॥ १,२६.४२ ॥ <९. गर्भयन्त्रम्> स्थाल्यां विनिक्षिप्य रसादिवस्तु स्वर्णादि खोर्यां प्रविधाय भूयः । अम्लेन चोर्ध्वं लवणानि दत्त्वा चुल्ल्यां पचेत्तत्प्रतिगर्भयन्त्रम् ॥ १,२६.४३ ॥ <गर्भयन्त्र> खोरीमल्लं ततः स्थालीं निरुन्ध्यादतियत्नतः । स्थाल्यां मल्लेन वा खोर्यां क्षिप्त्वा वस्तु निरुध्य च ॥ १,२६.४४ ॥ क्षिप्त्वा पट्टादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रकम् । <१०. पालिकायन्त्रम्> चषकं वर्तुलं लोहं विनताग्रोर्ध्वदण्डकम् ॥ १,२६.४५ ॥ एतद्धि पालिकायन्त्रं बलिजारणहेतवे । <११. घटीयन्त्रम्> चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ॥ १,२६.४६ ॥ घटीयन्त्रमिदं प्रोक्तं तदाप्यायनके स्मृतम् । <१२. इष्टिकायन्त्रम्> विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ॥ १,२६.४७ ॥ विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् । गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयाम् ॥ १,२६.४८ ॥ तत्र सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् । निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ॥ १,२६.४९ ॥ मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च । वनोत्पलैः पुटं देयं कपोताख्यं न चाधिकम् ॥ १,२६.५० ॥ इष्टिकायन्त्रमेतत्स्याद्गन्धकं तेन जारयेत् । <१३. विद्याधरयन्त्रम्> स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ॥ १,२६.५१ ॥ ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः । एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥ १,२६.५२ ॥ <१४. डमरुकयन्त्रम्> यन्त्रं स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्यते । यन्त्रं डमरुकाख्यं तद्रसबन्धकृते हितम् ॥ १,२६.५३ ॥ <१५. नाभियन्त्रम्> मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् । गर्तस्य परितः कुड्यं प्रकुर्यात्त्र्यङ्गुलोच्छ्रितम् ॥ १,२६.५४ ॥ ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया । सम्यक्तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥ १,२६.५५ ॥ <जलमृत्स्ना> लेहवत्कृतबर्बूरक्वाथेन परिमिश्रितम् । जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णैः समन्वितम् ॥ १,२६.५६ ॥ इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु । <वह्निमृत्स्ना> खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ॥ १,२६.५७ ॥ वह्निमृत्सा भवेद्घोरवह्नितापसहा खलु । एतयोर्मृत्स्नयो रुद्धो न गन्तुं क्षमते रसः ॥ १,२६.५८ ॥ <नाभियन्त्र (चोन्त्.)> ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः । नाभियन्त्रमिदं प्रोक्तं नन्दिना तत्त्ववेदिना ॥ १,२६.५९ ॥ अनेन जीर्यते सूते निर्धूमः शुद्धगन्धकः । <१६. ग्रस्तयन्त्रम्> मूषा मूषोदराविष्टा आद्यन्तसमवर्तुला ॥ १,२६.६० ॥ चिपिटा च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः । सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् ॥ १,२६.६१ ॥ <१७. तुलायन्त्रम्> वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु । प्रादेशमात्रां नलिकामृज्वीं लग्नां सगन्धकाम् ॥ १,२६.६२ ॥ तत्रैकस्यां क्षिपेत्सूतमन्यस्यां गन्धचूर्णकम् । निरुध्य मूषयोर्वक्त्रं वालुकायन्त्रके क्षिपेत् ॥ १,२६.६३ ॥ अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम् । शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् ॥ १,२६.६४ ॥ <१८. स्थालीयन्त्रम्> स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च । पच्यते स्थालिसंस्थं यत्स्थालीयन्त्रमिति स्मृतम् ॥ १,२६.६५ ॥ <१९ कोष्ठिकायन्त्रम्> स्थूलभाण्डोदरस्यान्तर्वालुकां निक्षिपेच्छुभाम् । वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् ॥ १,२६.६६ ॥ सुपक्वां मृण्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम् । षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृताम् ॥ १,२६.६७ ॥ पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुलीकृतम् । न न्यूनं नाधिकं कोष्ठे कण्ठतो मसृणा बहिः ॥ १,२६.६८ ॥ कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम् । ततस्त्रैपादिकीं लौहीं निवेश्य च स्थिरीकृताम् ॥ १,२६.६९ ॥ तस्यां च विन्यसेत्खोरीं लौहीं वा कान्तलोहजाम् । तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः ॥ १,२६.७० ॥ टङ्कगन्धकसूतं च भावयेल्लशुनद्रवैः । अधःशिखेन पूर्वोक्तपिधानेन पिधाय च ॥ १,२६.७१ ॥ संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः । सन्धिबन्धे विशुष्के च क्षिपेदुपरि वालुकाम् ॥ १,२६.७२ ॥ भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम् । एवं यामत्रयं यावत्ततो गन्धकसम्भवः ॥ १,२६.७३ ॥ पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे । एवं च षड्गुणं गन्धं भुक्त्वा सूतोऽरुणो भवेत् ॥ १,२६.७४ ॥ करोति कल्पनिर्दिष्टान्विशिष्टानखिलान्गुणान् । कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् ॥ १,२६.७५ ॥ <२०. वालुकायन्त्रम्> पञ्चाढवालुकाचूर्णं भाण्डे निक्षिप्य यत्नतः । पच्यते रसगोलाद्यं वालुकायन्त्रकं हि तत् ॥ १,२६.७६ ॥ <२१. लवणयन्त्रम्> एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् । <२२. धूपयन्त्रम्> विधायाष्टाङ्गुलं पात्रं लोहमष्टांगुलोच्छ्रयम् ॥ १,२६.७७ ॥ कण्ठाधो द्व्यङ्गुले देशे जाताधारं च तत्र च । तिर्यग्लोहशलाकां च तस्मिंस्तिर्यग्विनिक्षिपेत् ॥ १,२६.७८ ॥ तनूनि स्वर्णपत्राणि तस्यामुपरि विन्यसेत् । पात्राधो निक्षिपेद्धूपं वक्ष्यमाणमिहैव हि ॥ १,२६.७९ ॥ तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि । मृदा विलिप्य सन्धिं च वह्निं प्रज्वालयेदधः ॥ १,२६.८० ॥ तेन कृष्णानि पत्राणि हतान्युक्तविधानतः । रसश्चरति वेगेन द्रुतिं गर्भे द्रवन्ति च ॥ १,२६.८१ ॥ गन्धालकशिलानां हि कज्जल्या वा मृताहिना । धूपनं स्वर्णपत्राणां परमं परिकीर्तितम् ॥ १,२६.८२ ॥ तारार्थं तारपत्राणि मृतवङ्गेन धूपयेत् । धूपयेच्च यथायोगं रसैरुपरसैरपि ॥ १,२६.८३ ॥ धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यशोधने । <२३. कन्दुकयन्त्रम्> स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ॥ १,२६.८४ ॥ तत्र स्वेद्यं विनिक्षिप्य मृदास्यं प्रपिधाय च । अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाह्वयम् ॥ १,२६.८५ ॥ <२४. ढेकीयन्त्रम्> भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कान्तकांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥ १,२६.८६ ॥ नालास्यं तत्र संयोज्यं दृढं तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र पुटे रसः ॥ १,२६.८७ ॥ अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः । यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि ॥ १,२६.८८ ॥ जायते रससंधानं ढेकीयन्त्रमिदं भवेत् । <२५. सोमानलयन्त्रम्> ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससङ्ग्रहः ॥ १,२६.८९ ॥ सोमानलमिदं प्रोक्तं जारयेद्गगनादिकम् । <२६. नालिकायन्त्रम्> लोहनालगतं सूतं भाण्डे लवणपूरितम् ॥ १,२६.९० ॥ निरुद्धं विपचेदेतन्नालिकायन्त्रमीरितम् । <२७. पातालयन्त्रम्> सुसंधिसंधितं कृत्वा दिव्यभाण्डे तु सम्मुखम् ॥ १,२६.९१ ॥ अष्टाङ्गुलमुखं तं तु दीर्घं स्यात्षोडशाङ्गुलम् । सुसंधिसंधितं कृत्वा वस्त्रमृत्तिकालेपनम् ॥ १,२६.९२ ॥ तत्र पातालयन्त्रे तु सूतकादि निपातयेत् । <२८. दीपिकायन्त्रम्> कच्छपयन्त्रान्तर्गतमृण्मयपीठस्थदीपिकासंस्थः ॥ १,२६.९३ ॥ यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् । <२९. गङ्गासागर(भट्टी)यन्त्रम्> द्वादशाङ्गुलमुत्सेधं षोडशाङ्गुलमायतम् ॥ १,२६.९४ ॥ ताम्रीयं मृण्मयं वाथ सुश्लक्ष्णं चिपिटं शुभम् । पात्रं कर्णादधो द्रोणीं द्व्यङ्गुलोत्सेधमात्रकाम् ॥ १,२६.९५ ॥ द्रोण्यां पात्रं न्यसेदन्यत्तावन्मात्रं सुसंधितम् । न्युब्जं सन्धौ तयोर्नालं कुर्याद्गोमुखसन्निभम् ॥ १,२६.९६ ॥ पाच्यद्रव्यमधः पात्रे द्रवद्रव्येण योजितम् । क्षिप्त्वा निधाय मृत्संधिं यन्त्रोर्ध्वे जलसेचनम् ॥ १,२६.९७ ॥ चुल्ल्यामारोप्य तद्यन्त्रं चण्डाग्निं ज्वालयेदधः । तस्मान्नान्यद्विनिर्याति तत्तद्द्रव्याश्रितो रसः ॥ १,२६.९८ ॥ गङ्गासागरयन्त्रं हि भट्टियन्त्रमिदं स्मृतम् । गुडपुष्पफलादीनामाहरेद्द्रुतिमुत्तमाम् ॥ १,२६.९९ ॥ <३०. डो(दो)लायन्त्रम्> द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च । मुखे तिर्यक्कृते दण्डे रसं सूत्रेण लम्बितम् ॥ १,२६.१०० ॥ स्वेदयेत्तत्तलगतं डोलायन्त्रमिति स्मृतम् । <३१. कोष्ठीयन्त्रम्> चुल्लीं चतुर्मुखीं कृत्वा तत्र भाण्डं निवेशयेत् ॥ १,२६.१०१ ॥ तत्रौषधं विनिक्षिप्य रुद्ध्वा तद्भाण्डकाननम् । कोष्ठीयन्त्रमिदं नाम्ना तत्रत्यैः परिकीर्तितम् ॥ १,२६.१०२ ॥ <३२. गर्भयन्त्रम्> त्र्यङ्गुलां परिणाहेन दैर्घ्येण चतुरङ्गुलाम् । मृण्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ॥ १,२६.१०३ ॥ लोणस्य विंशतिं भागान्भागमेकं तु गुग्गुलोः । सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ॥ १,२६.१०४ ॥ मूषालेपं दृढं कृत्वा लवणार्धमृदा बुधः । कारीषे वा तुषाग्नौ वा भूमौ तु स्वेदयेन्मृदु ॥ १,२६.१०५ ॥ अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् । गर्भयन्त्रमिदं प्रोक्तं पिष्टिकाभस्मकारकम् ॥ १,२६.१०६ ॥ <३३. हंसपाकयन्त्रम्> खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् । अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ १,२६.१०७ ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च बिडं ततः । हंसपाकः समाख्यातो यन्त्रं तद्वार्तिकोत्तमैः ॥ १,२६.१०८ ॥ <३४. मूषायन्त्रम्> लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः । मूषयोर्मुखयोर्नालं दत्त्वा सम्यङ्निरोधयेत् ॥ १,२६.१०९ ॥ एकस्यां सूतकं शुद्धमन्यस्यां शुद्धगन्धकम् । देयं जलं सूतकाधो वह्निं गन्धोपरि क्षिपेत् ॥ १,२६.११० ॥ जारयेत्षड्गुणं गन्धमनेनैव क्रमेण हि । मूषायन्त्रमिदं ज्ञेयं सिद्धनागार्जुनेरितम् ॥ १,२६.१११ ॥ <३५. स्तनयन्त्रम्> कान्तलोहमयं पात्रमायतं द्वादशाङ्गुलम् । दीर्घमष्टाङ्गुलं देवि पात्राधस्त्र्यङ्गुलं शुभम् ॥ १,२६.११२ ॥ निम्नं पात्रं पिधानीं च लोहोत्थां चिपिटां शुभाम् । स्तनयन्त्रमिदं सूतपिष्टीनां जारणे वरम् ॥ १,२६.११३ ॥ <३६. नागमायूरयन्त्रम्> वृन्ताकमूषायुगलं पद्मवर्तलोहेन कारयेत् । एकस्यां निक्षिपेत्सूतमन्यस्यां गरलं क्षिपेत् ॥ १,२६.११४ ॥ नागाकारं वक्त्रनालं विषमूषामुखे न्यसेत् । मयूराकारनालं हि रसमूषामुखे न्यसेत् ॥ १,२६.११५ ॥ मयूरवदने नागमुखं संयोजयेत्सुधीः । सन्धित्रयं वज्रमृदा लेपं कुर्याद्यथा दृढम् ॥ १,२६.११६ ॥ सलिलं रसमूषाधो विषाधोऽङ्गारपावकः । नागमायूरयन्त्रं हि विषधूपे वरं प्रिये ॥ १,२६.११७ ॥ <३७. चक्रयन्त्रम्> हस्तमात्रायतं गर्तं वितस्तिद्वयनिम्नकम् । कोष्ठीं गर्तस्य मध्ये तु द्वादशांगुलमायताम् ॥ १,२६.११८ ॥ वितस्तिद्वयमुत्सेधां कोष्ठ्यामापूरयेच्छुभाम् । वालुकां तद्बहिश्छाणवह्निं कोष्ठ्यां रसं प्रिये ॥ १,२६.११९ ॥ चक्रयन्त्रमिदं सूतभस्मकर्मणि शस्यते । <३८. खेचरयन्त्रम्> सुस्थाल्यां कदलीपुष्पनिभां सच्छिद्रमूषिकाम् ॥ १,२६.१२० ॥ अधोमुखीं प्रकुर्वीत लिपेद्वज्रमृदा दृढम् । उपरिष्टादधोवक्त्रां स्थालीमन्यां सुसंधिताम् ॥ १,२६.१२१ ॥ मूषायां वत्सनाभं तु निक्षिपेदूर्ध्वभाजने । रसं विलेपयेद्युक्त्या यन्त्रोर्ध्वं कैतवो रसः ॥ १,२६.१२२ ॥ अधो मृद्वग्निना पाकस्त्वेतत्खेचरयन्त्रकम् । प्रायः सिद्धरसेन्द्रस्य विषधूपे वरं प्रिये ॥ १,२६.१२३ ॥ <३९. कापालियन्त्रम्> स्थाल्यां सूतादिकान्क्षिप्त्वा हेमरूप्यादि खोरिकाम् । न्युब्जां सन्धिं मृदा लिप्त्वा वालुकां खोरिकान्तगाम् ॥ १,२६.१२४ ॥ कृत्वा मृद्वग्निना पाकस्त्वेतत्कापालियन्त्रकम् । <४०. वालुकायन्त्रम्> सरसां गूढवक्त्रां च मृद्वस्त्राङ्गुलसंयुताम् ॥ १,२६.१२५ ॥ शोषितां काचकलशीं पूरयेत्त्रिषु भागयोः । भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिता ॥ १,२६.१२६ ॥ भागस्य पूरयित्रीभिरन्याभिरवकुण्ठयेत् । भाण्डवक्त्रं मणिकया सन्धिं लिम्पेन्मृदा पचेत् ॥ १,२६.१२७ ॥ चुल्ल्यां तृणस्य चादाहान्मणिकापृष्ठवर्तिनः । एतद्धि वालुकायन्त्रं रसगोलादिकान्पचेत् ॥ १,२६.१२८ ॥ <४१. लवणयन्त्रम्> एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् । अन्तःकृतरसालेपताम्रपात्रमुखस्य च ॥ १,२६.१२९ ॥ लिप्त्वा मृल्लवणेनैव सन्धिं भाण्डतलस्य च । तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ॥ १,२६.१३० ॥ <४२. भूधरयन्त्रम्> वालुकागूढसर्वाङ्गां यन्त्रे मूषां रसान्विताम् । दीप्तोत्पलैः संवृणुयाद्यन्त्रं तद्भूधराह्वयम् ॥ १,२६.१३१ ॥ <४३. नालिकायन्त्रम्> कुम्भस्य पार्श्वे सुषिरं कुर्यादङ्गुष्ठमात्रकम् । तावत्स्थूलमयोनालं वेणुनालमथापि वा ॥ १,२६.१३२ ॥ छिद्रे संयोजयेन्नालं नालाग्रे घटिकां न्यसेत् । कुम्भे सर्जादिनिर्यासं क्षिप्त्वा वक्त्रं निरोधयेत् ॥ १,२६.१३३ ॥ अधोऽग्निं ज्वालयेदेतन्नालिकायन्त्रमुच्यते । <४४. पुटयन्त्रम्> शरावसम्पुटान्तस्थं करीषेष्वग्निमानवित् ॥ १,२६.१३४ ॥ पचेत चुल्ल्यां यामं वा रसं तत्पुटयन्त्रकम् । <४५. पातालयन्त्रम्> विशालवदनां स्थालीं गर्ते सजलगोमये ॥ १,२६.१३५ ॥ विन्यस्य वदनान्तश्च पूरयेदपरं घटम् । पञ्चसच्छिद्रसहितां स्थालीं वक्त्रे निवेशयेत् ॥ १,२६.१३६ ॥ तद्घटं पूरयेत्तैलपात्यंद्रव्यैर्निरोधयेत् । भाण्डवक्त्रं शरावेण पुटं दद्यात्समन्ततः ॥ १,२६.१३७ ॥ छिद्रेभ्यः पतितं तैलं तत्तद्योगेषु योजयेत् । इदं पातालयन्त्रं हि सर्वतैलं निपातयेत् ॥ १,२६.१३८ ॥ काष्ठत्वग्बीजमांसास्थिवंशतलं समाहरेत् । <४६. धूपयन्त्रम्> स्थाल्यां लद्दिं खरादीनां क्षिप्त्वास्ये कांस्यपात्रकम् ॥ १,२६.१३९ ॥ सजलं विन्यसेद्देवि वह्निं प्रज्वालयेदधः । कान्तपात्रस्थितं तैलं सर्वव्रणविरोपणम् ॥ १,२६.१४० ॥ धूपयन्त्रमिदं देवि नन्दिना परिकीर्तितम् । <४७. अधःपातनयन्त्रम्> वृत्तालाबुसमस्थूलं दीर्घनालं सरन्ध्रकम् ॥ १,२६.१४१ ॥ तस्मिन्क्षिपेत्तैलपात्यद्रव्यं बीजादिकं प्रिये । तन्मुखे निक्षिपेत्केशान्विन्यसेत्तदधोमुखम् ॥ १,२६.१४२ ॥ सच्छिद्रे च घटे नालं भाण्डच्छिद्रे निवेशयेत् । घटमध्ये पुटं दद्यान्नालाधो घटिकां न्यसेत् ॥ १,२६.१४३ ॥ अधःपातनयन्त्रं हि श्रेष्ठं स्यात्तैलपातने । <४८. अन्यतधःपातनयन्त्रम्> विशालकांस्यपात्रान्तर्न्यसेदुत्तम्भनं समम् ॥ १,२६.१४४ ॥ तदूर्ध्वे मृण्मयं पात्रं सुदृढं चतुरङ्गुलम् । विन्यसेदपरं पात्रं संतप्तं पूर्वपात्रके ॥ १,२६.१४५ ॥ विन्यस्य तस्मिन् श्रीखण्डकृष्णागरुमधुप्लुतम् । एवं द्वितीयं पात्रं तु तृतीयमपि तद्विधम् ॥ १,२६.१४६ ॥ उपर्युपरि विन्यस्य तदूर्ध्वं मृत्कटाहकम् । न्युब्जं न्यसेत्कांस्यपात्रे कटाहं मार्जयेज्जलैः ॥ १,२६.१४७ ॥ अधःपातनयन्त्रं हि गन्धतैलं निपातयेत् । <मूषा> मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ॥ १,२६.१४८ ॥ पाचनी वह्निमित्रा च रसवादिभिरिष्यते । मुष्णाति दोषान्मूषेयं सा मूषेति निगद्यते ॥ १,२६.१४९ ॥ उपादानं भवेत्तस्या मृत्तिका लोहमेव च । मूषामुखविनिष्क्रान्ता वरमेकापि काकिनी ॥ १,२६.१५० ॥ दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनाम् । <संधिलेप> मूषापिधानयोर्बन्धे रन्ध्राणं सुविलेपयेत् ॥ १,२६.१५१ ॥ अन्ध्रणं रन्धनं चैव संश्लिष्टं सन्धिबन्धनम् । <मूषार्थे श्रेष्ठा मृत्> मृत्तिका पाण्डुरस्थूलशोणपाण्डुरमूषरा ॥ १,२६.१५२ ॥ चिराध्मानसहा सा हि मूषार्थमतिशस्यते । तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥ १,२६.१५३ ॥ या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च । लोहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थम् ॥ १,२६.१५४ ॥ श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटम् । लद्दिकिट्टं यथायोगं संयोज्या मूषिकामृदि ॥ १,२६.१५५ ॥ <वज्रमूषा> मृदस्त्रिभागं शणलद्दिभागौ नागश्च निर्दग्धतुषोपलादेः । किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥ १,२६.१५६ ॥ <योगमूषा> दग्धाङ्गारतुषोपेतमृत्स्ना वल्मीकसम्भवा । तत्तद्बिडसमायुक्ता तत्तद्बिडविलेपिता ॥ १,२६.१५७ ॥ तया या विहिता मूषा योगमूषेति कथ्यते । अनया साधितः सूतो जायते गुणवत्तरः ॥ १,२६.१५८ ॥ <वज्रद्रावणमूषा> गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि । समैः समा च मूषामृन्महिषीदुग्धसंयुता ॥ १,२६.१५९ ॥ क्रौञ्चिका वक्ष्यमाणा हि बहुधा परिकीर्तिता । तया विरचिता मूषा वज्रद्रावणके हिता ॥ १,२६.१६० ॥ यामयुग्मपरिध्मानान्नासौ द्रवति वह्निना । <गारमूषा> दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता ॥ १,२६.१६१ ॥ कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता । <वज्रमूषा> वस्त्राङ्गारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका ॥ १,२६.१६२ ॥ गाराश्च मृत्तिका तुल्या सर्वैरेतैर्विनिर्मिता । वज्रमूषेति निर्दिष्टा याममग्निं सहेत सा ॥ १,२६.१६३ ॥ <स्वर्ण(वर)मूषा> रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुसाधिता । वरमूषेति निर्दिष्टा स्वर्णमूषेत्युदाहृता ॥ १,२६.१६४ ॥ <वर्णमूषा> मृण्मया साधिता मूषा क्षितिखेचरलेपिता । वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥ १,२६.१६५ ॥ <रूप्यमूषा> एवं हि श्वेतवर्गेण रूप्यमूषा समीरिता । <बिडमूषा> तत्तद्बिडमृदोद्भूता तत्तद्बिडविलेपिता ॥ १,२६.१६६ ॥ देहलोहार्थयोगार्थं बिडमूषेत्युदाहृता । सहतेऽग्निं चतुर्यामं द्रवेण व्यथिता सती ॥ १,२६.१६७ ॥ <मूषाप्यायनम्> द्रवीभावमुपेयोश्च मूषायां ध्मानयोगतः । क्षणमुद्धरणं यत्तन्मूषाप्यायनमुच्यते ॥ १,२६.१६८ ॥ <वृन्ताकमूषा> वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् । धुत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टसन्धिकम् ॥ १,२६.१६९ ॥ अष्टाङ्गुलं च सच्छिद्रं सा स्याद्वृन्ताकमूषिका । अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ १,२६.१७० ॥ <गोस्तनी मूषा> मूषा या गोस्तनाकारा शिखायुक्तपिधानका । सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥ १,२६.१७१ ॥ <मल्लमूषा> निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् । पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥ १,२६.१७२ ॥ <पक्वमूषा> कुलालभाण्डरूपा या दृढा च परिपाचिता । पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ॥ १,२६.१७३ ॥ <गोलमूषा> निर्वक्त्रा गोलकाकारा पुटनद्रव्यगर्भिणी । गोलमूषेति सा प्रोक्ता गत्वरद्रव्यरोधिनी ॥ १,२६.१७४ ॥ <मञ्जुमूषा> तले या कूर्पराकारा क्रमादुपरि विस्तृता । स्थूलवृन्ताकवत्स्थूला मञ्जुमूषेति संस्मृता ॥ १,२६.१७५ ॥ सा चायोऽभ्रकसत्वादेः पुटाय द्रावणाय च । <मञ्जूषामूषा> मञ्जूषाकारमूषा या निम्नतायामविस्तरा ॥ १,२६.१७६ ॥ षडङ्गुलप्रमाणेन मूषा मञ्जूषासंज्ञका । भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥ १,२६.१७७ ॥ <मुसलमूषा> मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया । मूषा सा मुसलाख्या च चक्रिबद्धरसे तथा ॥ १,२६.१७८ ॥ <अन्या वज्रमूषा> दग्धाङ्गारस्य षड्भागा गैरिकं कृष्णमृत्तिका । गारमङ्गारकिट्टं च वज्रमूषा प्रकीर्तिता ॥ १,२६.१७९ ॥ गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका । शणत्वक्च समायुक्ता मूषा वज्रोपमा मता ॥ १,२६.१८० ॥ <अन्धमूषा प्रकाशमूषा च> प्रकाशा चान्ध्रमूषा च मूषा च द्विविधा स्मृता । प्रकाशमूषा विज्ञेया शरावाकारसंयुता ॥ १,२६.१८१ ॥ द्रव्यनिर्वहणे सा च वार्तिकैस्तु प्रशस्यते । अन्ध्रमूषा च कर्तव्या गोस्तनाकारसन्निभा ॥ १,२६.१८२ ॥ पिधानेन समायुक्ता किंचिदुन्नतमस्तका । पत्रलेपे तथा रङ्गे द्वन्द्वमेलापके हितम् ॥ १,२६.१८३ ॥ सैव छिद्रान्विता नन्दगम्भीरा सारणोचिता । <भस्ममूषा> तिलभस्म द्विरंशं तु इष्टकांशसमन्वितम् ॥ १,२६.१८४ ॥ भस्ममूषेति विज्ञेया तारसंशोधने हिता । <अन्या वज्रमूषा> तुषं वस्त्रं समं दग्धं मृत्तिका चतुरंशिका ॥ १,२६.१८५ ॥ कूपीपाषाणसंयुक्ता वज्रमूषा प्रकीर्तिता । <मूषावङ्कनालकोष्ठिकोपयुक्तमृल्लक्षणम्> कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ॥ १,२६.१८६ ॥ आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमे मध्यमे मते । गजाश्वानां मलं दग्ध्वा यावत्कृष्णत्वतां गतम् ॥ १,२६.१८७ ॥ वाशा वज्रलता पत्रं वल्मीकस्य मृदा सह । पेषयेद्वज्रतोयेन यावच्छुक्लत्वतां गतम् ॥ १,२६.१८८ ॥ मर्दयेत्तेन बध्नीयाद्वङ्कनालं च कोष्ठिकाम् । वल्मीकमृत्तिकालोहकिट्टश्वेताश्मनां पृथक् ॥ १,२६.१८९ ॥ एकांशौ द्वौ तु दग्धस्य तुषस्य स्त्रीशिरोरुहाम् । समांशस्तत्समस्तं तु छागीदुग्धेन मर्दयेत् ॥ १,२६.१९० ॥ यामद्वयं दृढं तेन कुर्यान्मूषां च सम्पुटम् । शोषयित्वा रसं क्षिप्त्वा तत्र कंसं निरोधयेत् ॥ १,२६.१९१ ॥ वज्रमूषादिकं प्रोक्तं सम्यक्सूतस्य मारणे । मोक्षक्षारस्य भागौ द्वाविष्टिककांशसंयुतौ ॥ १,२६.१९२ ॥ यत्कृतौ सा तु मूषा स्यादुत्तमा तारशोधने । रक्तवर्गेण संमिश्रा रक्तवर्गपरिप्लुता ॥ १,२६.१९३ ॥ रक्तवर्गकृतालेपा समुक्ता स्वर्णकर्मसु । शुक्लवर्गेण संमिश्रा शुक्लवर्गपरिप्लुता ॥ १,२६.१९४ ॥ शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शस्यते । विड्वर्गेण तु संमिश्रा विड्वर्गेण परिप्लुता ॥ १,२६.१९५ ॥ विड्वर्गेण कृतालेपा मूषा स्याद्द्रुतिजारणे । क्षारवर्गेण संमिश्रा क्षारवर्गपरिप्लुता ॥ १,२६.१९६ ॥ क्षारवर्गकृतालेपा मूषा निर्वहणे हिता । <मूषायामावर्तनविधिः; वर्णपुट (!)> विषटङ्कणगुञ्जाभिर्मूषालेपं तु कारयेत् ॥ १,२६.१९७ ॥ प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् । तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः ॥ १,२६.१९८ ॥ लेपवर्णे पुटे योज्या रक्तमृत्पटुभूखगाः । <आवर्तितद्रव्यस्वरूपम्> आवर्तमाने कनके पीता तारे सितप्रभा ॥ १,२६.१९९ ॥ शुल्बे जलनिभा तीक्ष्णे शुक्लवर्णा प्रशस्यते । यन्त्रमेवौषधीभ्यः स्याच्छ्रेष्ठं सूतस्य यन्त्रणे ॥ १,२६.२०० ॥ ओषधीसहितेऽप्येषां रसो यन्त्रेण बध्यते । <कोष्ठी> सत्त्वानां पातनार्थाय पतितानां विशुद्धये ॥ १,२६.२०१ ॥ कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते । <आकरकोष्ठी अङ्गारकोष्ठी वा> राजहस्तसमुत्सेधा तदर्धायामविस्तरा ॥ १,२६.२०२ ॥ चतुरश्रा च कुड्येन वेष्टिता मृण्मयेन सा । एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ॥ १,२६.२०३ ॥ द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् । दोहल्यधो विधातव्यं धमनाय यथोचितम् ॥ १,२६.२०४ ॥ प्रादेशप्रमिता भित्तिरुत्तराङ्गस्य चोर्ध्वतः । द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ॥ १,२६.२०५ ॥ ततश्चेष्टिकया रुद्ध्वा द्वारसन्धिं विलिप्य च । शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ॥ १,२६.२०६ ॥ शिखित्राधमनद्रव्यमूर्ध्वद्वारेण निक्षिपेत् । सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ॥ १,२६.२०७ ॥ भवेदाकरकोष्ठीयं खराणां सत्त्वपातने । <पातालकोष्ठी> दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ॥ १,२६.२०८ ॥ वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् । चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ॥ १,२६.२०९ ॥ गर्ताद्धरणिपर्यन्तं तिर्यग्दलसमन्वितम् । किंचित्समुन्नतं बाह्यगर्ताभिमुखनिम्नकम् ॥ १,२६.२१० ॥ मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोपरि क्षिपेत् । आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया ॥ १,२६.२११ ॥ पातालकोष्ठिका ह्येषा मृदूनां सत्त्वपातने । ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥ १,२६.२१२ ॥ <गारकोष्ठी> द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा । चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥ १,२६.२१३ ॥ भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् । शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः ॥ १,२६.२१४ ॥ <वङ्कनालम्> मूषामृद्भिः प्रकर्तव्यमरत्निप्रमितं दृढम् । अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ॥ १,२६.२१५ ॥ वङ्कनालमिति प्रोक्तं दृढाध्मानाय कीर्तितम् । <गारकोष्ठी (चोन्त्.!)> गारगोष्ठीयमादिष्टा सृष्टलोहविनाशिनी ॥ १,२६.२१६ ॥ कोष्ठी बन्धरसादीनां विधानाय विधीयते । द्वादशाङ्गुलकोत्सेधा सा बुध्ना चतुरङ्गुला ॥ १,२६.२१७ ॥ तिर्यक्प्रधमना या सा मृदुद्रव्यविशोधनी । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥ १,२६.२१८ ॥ नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् । लोहादेरपुनर्भावो गुणाधिक्यं तथोग्रता ॥ १,२६.२१९ ॥ अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् । पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनम् ॥ १,२६.२२० ॥ जारितादपि सूतेन्द्राल्लोहानामधिको गुणः । यथाश्मनि विशेद्वह्निर्बहिःस्थः पुटयोगतः ॥ १,२६.२२१ ॥ चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् । पाच्यमानौषधं क्षिप्त्वा शरावद्वयसम्पुटे ॥ १,२६.२२२ ॥ रुद्ध्वा गरुण्डपचनं पुटं तदिति कथ्यते । <महापुटम्> निम्नविस्तरतः कुण्डे द्विहस्ते चतुरश्रके ॥ १,२६.२२३ ॥ वनोत्पलसहस्रेण पूरिते पुटनौषधम् । कोष्ठ्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ॥ १,२६.२२४ ॥ वनोत्पलसहस्रार्धं कोविकोपरि निक्षिपेत् । वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥ १,२६.२२५ ॥ <गजपुटम्> राजहस्तप्रमाणेन चतुरश्रं च निम्नकम् । पूर्णं चोपलशाठीभिः कण्ठावध्यथ विन्यसेत् ॥ १,२६.२२६ ॥ विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् । पूर्वच्छगणतोऽर्धानि गरुण्डानि विनिक्षिपेत् ॥ १,२६.२२७ ॥ एतद्गजपुटं प्रोक्तं महागुणविधायकम् । <वाराहपुटम्> इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥ १,२६.२२८ ॥ <कुक्कुटपुटम्> पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् । तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥ १,२६.२२९ ॥ <कपोतपुटम्> यत्पुटं दीयते भूमावष्टसंख्यैर्वनोत्पलैः । तद्बालसूतभस्मार्थं कपोतपुटमुच्यते ॥ १,२६.२३० ॥ <गोर्वरपुटम्> गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् । गोर्वरं तत्समादिष्टं वरिष्ठं रससाधने ॥ १,२६.२३१ ॥ <गोवरपुट> गोर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते । तद्गोर्वरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ १,२६.२३२ ॥ <भाण्डपुटम्> स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते । वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥ १,२६.२३३ ॥ <वालुकापुटम्> अधस्तादुपरिष्टाच्च कोविका छाद्यते खलु । वालुकाभिः प्रतप्ताभिर्यन्त्रं तद्वालुकापुटम् ॥ १,२६.२३४ ॥ <भूधरपुटम्> वह्निमत्यां क्षितौ सम्यङ्निखन्याद्द्व्यङ्गुलादधः । उपरिष्टात्पुटं यन्त्रं पुटं तद्भूधराह्वयम् ॥ १,२६.२३५ ॥ <लावकपुटम्> ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोर्वरैः पुटम् । यन्त्रं तल्लावकाख्यं स्यान्मृदुद्रव्यसुसाधने ॥ १,२६.२३६ ॥ अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् । पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥ १,२६.२३७ ॥ <कूपिकादिस्वरूपम्> काचायोमृद्घटीनां च कूपिका चषकाणि च । रूपिका कूपिका सिद्धा गोलं चैव करण्डकम् ॥ १,२६.२३८ ॥ चषकं च कठोरी च वाटिका खोरिका तथा । कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥ १,२६.२३९ ॥ रसोपरसलोहानां त्रिधा संस्कारवह्नयः । गरुण्डकाष्ठकोलीशसाधनास्ते पृथक्त्रिधा ॥ १,२६.२४० ॥ गरुण्डसाधनास्तेषु पुटं कुक्कुटसंज्ञकम् । वराहपुटसंज्ञं हि गजसंज्ञं पुटे भवेत् ॥ १,२६.२४१ ॥ श्रेष्ठा वनोद्भवच्छाणा मध्यमा गोष्ठसम्भवाः । अधमा कृत्रिमं काष्ठं खदिरासनसम्भवम् ॥ १,२६.२४२ ॥ अथवा सारवृक्षोत्थं वितस्तिद्वयदीर्घकम् । स्थूलप्रकोष्ठमात्रं तु श्रेष्ठं सूतेन्द्रपाचने ॥ १,२६.२४३ ॥ मृदुमध्यमचण्डाग्निसंज्ञं स्याद्दारुसाधनम् । अङ्गाराः खदिरोद्भूतास्त्रिफलावृक्षसम्भवाः ॥ १,२६.२४४ ॥ कर्षाः सारतरूद्भूताः श्रेष्ठा धमनकर्मणि ॥ १,२६.२४५ ॥ आक्, २, १ <उपरसशोधनमारणविधिः> श्रीभैरवी । देवदेव चिदानन्द सच्चिदानन्ददायक । त्वयैव प्रतिबुद्धास्मि पूर्वं रसविधानकम् ॥ २,१.१ ॥ इदानीं त्वत्प्रसादेन श्रोतुमिच्छाम्यहं प्रभो । गन्धाद्युपरसानां च लोहानां हेमपूर्विणाम् ॥ २,१.२ ॥ पद्मरागादिरत्नानां लक्षणं जातिमाह्वयम् । संस्कारं च गुणान्ब्रूहि यथा जानाम्यहं प्रभो ॥ २,१.३ ॥ <उपरसाः> श्रीभैरवः । गन्धतालशिलाताप्यघनहिङ्गुलगैरिकाः । चपलाश्मजभूनागहरिद्राश्माग्निजारकाः ॥ २,१.४ ॥ खर्परीतुत्थकङ्कुष्ठगिरिसिन्दूरटङ्कणाः । कम्पिल्लविषकासीसगौरीपाषाणभूखगाः ॥ २,१.५ ॥ पोद्दारशृङ्गी सिन्दूरस्तुवरिश्च रसाञ्जनम् । नीलाञ्जनं च सौवीरं स्रोतोञ्जनमफेनकम् ॥ २,१.६ ॥ पुष्पाञ्जनं शङ्खशुक्तिशम्बूकाश्च वराटकाः । साबुणी च नवक्षारचीनक्षाराखुमारकाः ॥ २,१.७ ॥ सर्जगुग्गुलुलाक्षाश्च क्षाराश्च लवणानि च । गोरोचनोऽम्लवेतश्च काचच्छगणवालुकाः ॥ २,१.८ ॥ एते उपरसाः ख्याता रसराजस्य कर्मणि । <द्वादश लोहाः> स्वर्णरूप्यार्ककान्ताभ्रसत्त्वं तीक्ष्णं च मुण्डकम् ॥ २,१.९ ॥ भुजङ्गं त्रपुसं चैव रीतिः कांस्यं च वर्तकम् । द्वादशैतानि लोहानि मण्डूरो लोहकिट्टकम् ॥ २,१.१० ॥ <नवरत्नानि> माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्यं भिदुरं च नीलम् । गोमेधकं चाथ विडूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ २,१.११ ॥ <नव उपरत्नानि> सूर्यकान्तश्चन्द्रकान्तस्तारकान्तस्तु कान्तकः । वैक्रान्तश्च नृपावर्तः सस्यको विमला तथा ॥ २,१.१२ ॥ पेरोजश्च नवैतानि ह्युपरत्नानि निर्दिशेत् । <गन्धकः: गन्धकशुद्धिः; प्रथमः प्रकारः> उत्पत्तिलक्षणं जातिं गन्धकं शोधयेदतः ॥ २,१.१३ ॥ साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् । तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा श्रावेण रोधयेत् ॥ २,१.१४ ॥ भाण्डं निक्षिप्य भूम्यन्तरूर्ध्वं देयं पुटं लघु । ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ २,१.१५ ॥ <द्वितीयः प्रकारः> कङ्गुणीसर्षपैरण्डतैलं वाथ कुसुम्भजम् । मेषीक्षीरं घृतं वाथ गोक्षीरं चारनालकम् ॥ २,१.१६ ॥ एतेष्वेकं तु भाण्डान्तः किंचिदूनं प्रपूरयेत् । रुद्ध्वा वस्त्रेण तद्वक्त्रं गन्धचूर्णं तत उपरि ॥ २,१.१७ ॥ लोहपात्रेण रुद्ध्वाथ पृष्ठे स्थाप्य च खर्परम् । साग्निमुत्पलकैः पूर्णमेव द्राव्य समुद्धरेत् ॥ २,१.१८ ॥ तद्धुत्तूरद्रवैः पिष्ट्वा शुष्कं द्राव्यं च पूर्ववत् । पुनरेवं प्रकर्तव्यं सुशुद्धो गन्धको भवेत् ॥ २,१.१९ ॥ <तृतीयः प्रकारः> यामैकं गन्धकं मर्द्यं बृहत्या चाजगन्धया । भृङ्गीधुत्तूरयोर्वाथ तिलपर्ण्याश्च तद्द्रवैः ॥ २,१.२० ॥ तमादाय घृतैस्तुल्यैर्लोहपात्रे क्षणं पचेत् । बद्ध्वाग्निना द्रुतं तं वै ह्यजाक्षीरे विनिक्षिपेत् ॥ २,१.२१ ॥ इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकः । <चतुर्थः प्रकारः> करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ २,१.२२ ॥ क्षिप्त्वा तस्य मुखं बद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् । गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत् ॥ २,१.२३ ॥ तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधापयेत् । आच्छाद्य श्रावकेनैव पृष्ठे देयं पुटं लघु ॥ २,१.२४ ॥ द्रुतं गन्धं समादाय भाव्यं धुत्तूरजैर्द्रवैः । तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ २,१.२५ ॥ आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे । ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ २,१.२६ ॥ भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे । तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ २,१.२७ ॥ घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः । भृङ्गराजद्रवान्तस्थः सम्यक्शुद्धः स जायते ॥ २,१.२८ ॥ <पञ्चमः प्रकारः> गन्धकं याममात्रं वा मद्यब्राह्म्यजगन्धयोः । भृङ्गधुत्तूरयोर्वापि तिलपर्णीरसेन वा ॥ २,१.२९ ॥ तदादाय घृतोपेतं लोहपात्रे क्षणं पचेत् । लघ्वग्निना द्रुतं तच्च मेषीक्षीरे विनिक्षिपेत् ॥ २,१.३० ॥ एवं कृतं सप्तवारं शुद्धं भवति गन्धकम् । <गन्धकतैलम्; प्रथमः प्रकारः> देवदाल्यम्लपर्णी वा नारङ्गं वाथ दाडिमम् ॥ २,१.३१ ॥ मातुलुङ्गं यथालाभं द्रवमेकस्य चाहरेत् । गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ २,१.३२ ॥ आतपे त्रिदिनं शुष्कं द्रवं देयं पुनः पुनः । धुत्तूरतुलसीकृष्णलशुनं देवदालिका ॥ २,१.३३ ॥ शिग्रुमूलं काकमाची कर्पूरं शंखिनीद्वयम् । कृष्णागरु च कस्तूरी वन्ध्या कर्कोटकी समम् ॥ २,१.३४ ॥ मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके । अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ २,१.३५ ॥ त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् । इदं गन्धकतैलं स्यात्सर्वयोगेषु योजयेत् ॥ २,१.३६ ॥ <द्वितीयः प्रकारः> अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा । गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु ताम् ॥ २,१.३७ ॥ तद्वर्तिं ज्वलितां दंशे धृतां कुर्यादधोमुखीम् । तैलं पतेदधो भाण्डे ग्राह्यं योगेषु योजयेत् ॥ २,१.३८ ॥ <गन्धकसत्त्वपातनम्; प्रथमः प्रकारः> गन्धकस्तु कुबेराक्षीतैलेन चिरमर्दितः । दृढं प्रकटमूषायां ध्मातः सत्त्वं विमुञ्चति ॥ २,१.३९ ॥ <द्वितीयः प्रकारः> यद्वा भाण्डोदरे क्षिप्त्वा गन्धकं पूर्वशोधितम् । पिधाय ताम्रपात्रेण तस्मिञ्शीतोदकं क्षिपेत् ॥ २,१.४० ॥ मन्दं प्रज्वाल्य तदधो वह्निमुष्णं जलं हरेत् । एवं पुनः पुनः शीतजलमूर्ध्वं विनिक्षिपेत् ॥ २,१.४१ ॥ गन्धकस्याग्नितः सत्त्वं स्वर्णाभं सर्वकार्यकृत् । न चास्य सत्त्वमादद्यात्सत्त्वरूपो हि गन्धकः ॥ २,१.४२ ॥ इति गन्धकतत्त्वज्ञाः केचिदन्ये प्रचक्षते । <गन्धकद्रुतिः> यद्वा संचूर्णितं गन्धं कटुतैलसमन्वितम् ॥ २,१.४३ ॥ वस्त्रे निक्षिप्य तद्वस्त्रं कारयेद्वर्तिकां दृढाम् । ततः सूत्रेण संवेष्ट्य गोघृतेन परिप्लुताम् ॥ २,१.४४ ॥ संदंशेनोद्धृतं कृत्वा वर्तिं चाधः प्रदीपयेत् । पक्वाम्रफलसम्भूतरसवर्णा भवेद्द्रुतिः ॥ २,१.४५ ॥ <गन्धकस्य गुणाः> गन्धकः कटुकः पाके वीर्योष्णो विमलः सरः । विसर्पकुष्ठकण्डूतिक्रिमिगुल्मक्षयापहः ॥ २,१.४६ ॥ अक्षिरोगप्रशमनो वृष्यो विषगदार्तिजित् । सर्वसिद्धिप्रदो बल्यस्त्रिदोषघ्नो रसायनः ॥ २,१.४७ ॥ <हरितालम्> हरितालं च गोदन्ती तालकं नटमण्डनम् । गिरिजाललितं पीतमतिगन्धं बिडालकम् ॥ २,१.४८ ॥ <हरितालभेदाः> हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् । <पत्त्रतालक:: फ्य्स्. प्रोपेर्तिएस्> स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ॥ २,१.४९ ॥ तत्पत्त्रतालकं प्रोक्तं बहुपत्रं रसायनम् । <पिण्डतालक:: फ्य्स्. प्रोपेर्तिएस्> निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ॥ २,१.५० ॥ स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् । <अशुद्धहरितालसेवने दोषाः> वातश्लेष्मप्रमेहादिकरमायुर्निबर्हणम् ॥ २,१.५१ ॥ तापस्फोटाङ्गसंकोचं हरितालमशोधितम् । <हरितालशुद्धिः; प्रथमः प्रकारः> तालकं कणशः कृत्वा दशांशेन तु टङ्कणम् ॥ २,१.५२ ॥ जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः । वस्त्रे चतुर्गुणे बद्ध्वा डोलायन्त्रे दिनं पचेत् ॥ २,१.५३ ॥ सचूर्णेनारनालेन दिनं कूष्माण्डजै रसैः । स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥ २,१.५४ ॥ <द्वितीयः प्रकारः> मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे । त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥ २,१.५५ ॥ उत्पलैर्दशभिर्देयं पुटं कुर्यात्पुनः पुनः । एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ २,१.५६ ॥ <तृतीयः प्रकारः> तालकं पोट्टलं बद्ध्वा सचूर्णे काञ्जिके पचेत् । दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ २,१.५७ ॥ तिलतैले पचेद्यामं यामं च त्रिफलाजले । एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकम् ॥ २,१.५८ ॥ <तालकसत्त्वपातनम्; प्रथमः प्रकारः> लाक्षा राजी तिलाः शिग्रु टङ्कणं लवणं गुडम् । तालकार्घ्येण संमर्द्य छिद्रमूषां निरोधयेत् ॥ २,१.५९ ॥ पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चयम् । <द्वितीयः प्रकारः> तालकं मर्दयेद्दुग्धैः सर्पाक्ष्या वा कषायकैः ॥ २,१.६० ॥ पूर्ववज्जनयेत्सत्त्वं छिद्रमूषानिरोधितम् । <तृतीयः प्रकारः> लाक्षा राजी गुडं शिग्रु टङ्कणं लवणं तिलाः ॥ २,१.६१ ॥ एभिस्तुल्यं सत्त्वतालं मर्दयेद्रविदुग्धकैः । दिनं वा वज्रिणीदुग्धैः कूश्माण्डस्य द्रवैश्च वा ॥ २,१.६२ ॥ तेन कल्केन लिप्त्वान्तश्छिद्रमूषां निरोधयेत् । पुटाद्वा धमनात्सत्त्वं ग्राह्यं पातालयन्त्रके ॥ २,१.६३ ॥ <चतुर्थः प्रकारः> तालकादष्टमांशेन देयं सूतं च टङ्कणम् । कूश्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्याद्दिनत्रयम् ॥ २,१.६४ ॥ तद्गोलं छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् । <पञ्चमः प्रकारः> भागाः षोडश तालस्य विषपारदटङ्कणाः ॥ २,१.६५ ॥ श्वेताभ्रवङ्गयोश्चूर्णं प्रतिभागं विमिश्रयेत् । समं स्नुह्यर्कपयसा मर्दयेद्दिवसद्वयम् ॥ २,१.६६ ॥ तद्गोलं काचकुप्यन्तः क्षिप्त्वा तां काचकूपिकाम् । सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रे मृदा दृढम् ॥ २,१.६७ ॥ शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् । शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ॥ २,१.६८ ॥ चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् । स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ २,१.६९ ॥ ऊर्ध्वलग्नं तालसत्त्वं स्फटिकोपलसन्निभम् । <षष्ठः प्रकारः> भावितं स्नुक्पयः सिक्तं स्नुहीद्रावैर्द्विसप्तधा ॥ २,१.७० ॥ तिलसर्षपशिग्रूणि लवणं मित्रपञ्चकम् । एभिस्तुल्यं शुद्धतालं दिनमेकं विमर्दयेत् ॥ २,१.७१ ॥ भूधरे छिद्रमूषान्तर्ध्मातं सत्त्वं विमुञ्चति । <तालकस्य गुणाः> तालकं शोधितं श्रेष्ठं कुष्ठमृत्युजरापहम् ॥ २,१.७२ ॥ सौभाग्यसौगन्ध्यकरं परमायुर्विवर्धनम् । <मनःशिला> मनःशिला स्यात्कुनटी नागास्या रक्तगन्धकः ॥ २,१.७३ ॥ नेपालिका नागजिह्वा कल्याणी सप्तनामका । <मनःशिलाभेदाः> मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ॥ २,१.७४ ॥ खण्डाख्या चैव तद्रूपं विविच्य परिकल्प्यते । श्यामा रक्ता खराङ्गा च भाराढ्या श्यामिका मता ॥ २,१.७५ ॥ तेजस्विनी च निर्भारा ताम्राभा कणवीरका । चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ॥ २,१.७६ ॥ उत्तरोक्ता गुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता । <अशुद्धमनःशिलासेवायां दोषाः> अश्मरीं मूत्रकृच्छ्रं च मन्दाग्निं मलबद्धताम् ॥ २,१.७७ ॥ करोति कुष्ठं तापं च शुद्धिहीना मनःशिला । <मनःशिलाशुद्धिः> अजामूत्रैस्त्र्यहं पच्याद्दोलायन्त्रे मनःशिलाम् ॥ २,१.७८ ॥ सप्तधा दध्यजापित्तैर्घर्मे ताप्यं विशुद्धये । जीवन्तीभृङ्गराड्रक्तागस्त्यद्रावैर्मनःशिलाम् ॥ २,१.७९ ॥ दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः । क्षालयेदारनालेन सर्वयोगेषु योजयेत् ॥ २,१.८० ॥ अगस्त्यस्य रसे भाव्या सप्ताहाच्छोधिता शिला । <मनःशिलासत्त्वपातनम्; प्रथमः प्रकारः> तालवच्च शिलासत्त्वं पातनं शोधनं तथा ॥ २,१.८१ ॥ गोमांसैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला । तां रक्तपीतपुष्पाणां रसैः पीतैश्च भावयेत् ॥ २,१.८२ ॥ दिनान्ते मर्दयेद्यामं मित्रपञ्चकसंयुतम् । गुलिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ॥ २,१.८३ ॥ सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रमृदा दृढम् । शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ॥ २,१.८४ ॥ शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् । चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ॥ २,१.८५ ॥ स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् । ऊर्ध्वलग्नं शिलासत्त्वं बालार्कसदृशोपमम् ॥ २,१.८६ ॥ <द्वितीयः प्रकारः> अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला । तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ॥ २,१.८७ ॥ <मनःशिलाया गुणाः> मनःशिला कटूष्णा च सतिक्ता कफवातजित् । कण्डूतिक्षयकासघ्नी विषभूताग्निमान्द्यहृत् ॥ २,१.८८ ॥ <माक्षिकम्> माक्षिकं मधुधातु स्यान्माक्षीकं हेममाक्षिकम् । ताप्यं च तापिजं तार्क्ष्यं तापीदेशसमुद्भवम् ॥ २,१.८९ ॥ <माक्षिकभेदाः> माक्षीकं द्विविधं हेममाक्षिकं तारमाक्षिकम् । तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ २,१.९० ॥ तपतीतीरसम्भूतं पञ्चवर्णं सुवर्णवत् । पाषाणबहलः प्रोक्तस्ताप्याख्योऽसौ गुणात्मकः ॥ २,१.९१ ॥ सुवर्णाकारभेदाच्च प्रत्येकं तत्पुनस्त्रिधा । कादम्बं कारवेल्लाख्यं तण्डुलीयकसंज्ञकम् ॥ २,१.९२ ॥ <अशुद्धमाक्षिकसेवने दोषाः> प्राणविष्टम्भदौर्बल्यवह्निसादाक्षिरोगकृत् । माक्षिकं मारयत्येव शुद्धिहीनं सुरार्चिते ॥ २,१.९३ ॥ <माक्षिकशुद्धिः; प्रथमः प्रकारः> माक्षिकं नरमूत्रेण क्वाथैः कौलुत्थकोद्भवैः । वेतसेनाम्लवर्गेण टङ्कणेन कटुत्रिकैः ॥ २,१.९४ ॥ डोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् । दिनं रम्भाद्रवैः पच्यादुद्धृतं पेषयेद्घृतैः ॥ २,१.९५ ॥ एरण्डतैलसंयुक्तैः पुटे पच्यन्विशोधयेत् । <द्वितीयः प्रकारः> माक्षिकस्य त्रयो भागा भागैकं टङ्कणस्य च ॥ २,१.९६ ॥ मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् । लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ २,१.९७ ॥ ताम्रवर्णमयो वापि तावच्छुध्यति माक्षिकम् । <तृतीयः प्रकारः> अगस्तिपुष्पनिर्यासैः शिग्रुमूलं निघर्षयेत् ॥ २,१.९८ ॥ द्रवैः पाषाणभेद्याश्च पेष्यमेभिश्च माक्षिकम् । तद्वटीं चाथ मूषायां दशभिरुत्पलैः पुटेत् ॥ २,१.९९ ॥ पुनः पुनश्च पिष्ट्वाथ पुटैः षड्भिर्विशुध्यति । <चतुर्थः प्रकारः> क्षौद्रक्षीरारनालाश्च अष्टभागाः पृथक्पृथक् ॥ २,१.१०० ॥ गव्यं तक्रं चतुर्भागं भागः कौलुत्थजो रसः । सर्वं सम्पूरयेद्भाण्डे भागैकं माक्षिकं पचेत् ॥ २,१.१०१ ॥ डोलायन्त्रेण मृद्वग्नौ याममात्रं पुनः पचेत् । उद्धृत्य मातुलुङ्गाम्लैः पिष्ट्वा दशभिरुत्पलैः ॥ २,१.१०२ ॥ पुटे पुनः पुनः कुर्यादेवं द्वादशवासरम् । शुद्धं भवति माक्षीकं सर्वयोगेषु योजयेत् ॥ २,१.१०३ ॥ <पञ्चमः प्रकारः> माक्षिकं कणशः कृत्वा जालिनीमेघनादयोः । पिण्डे निक्षिप्य विपचेद्दोलायन्त्रे कुलुत्थजे ॥ २,१.१०४ ॥ क्वाथे तच्छुद्धतां याति प्रशस्तं लोहमारणे । <षष्ठः प्रकारः> तैले तक्रे गवां मूत्रे कौलुत्थे वाम्लकाञ्जिके ॥ २,१.१०५ ॥ माक्षिकं शोधयेत्प्राज्ञो गिरिदोषनिवृत्तये । <सप्तमः प्रकारः> कुलुत्थकोद्रवक्वाथनरमूत्राम्लवेतसैः ॥ २,१.१०६ ॥ टङ्कणेनाम्लवर्गेण कटुकत्रितयेन वा । डोलायन्त्रे दिनं पाच्यं सूरणकन्दमध्यगम् ॥ २,१.१०७ ॥ दिनं रम्भाद्रवैः पाच्यं ध्मातमुद्धृत्य पेषितम् । एरण्डतैलसर्पिर्भ्यां पुटैः शुध्यति माक्षिकम् ॥ २,१.१०८ ॥ <अष्टमः प्रकारः> सुवर्णवर्णविमलं ताप्यं वा कणशः कृतम् । पुनर्नवायाः कल्कस्थं कौलुत्थे स्वेदयेद्रसे ॥ २,१.१०९ ॥ सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोट्टलीकृतम् । डोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ २,१.११० ॥ <माक्षिकसत्त्वपातनविधिः; प्रथमः प्रकारः> गोदुग्धैश्च स्नुहीक्षीरैर्भाव्यमेरण्डतैलकैः । माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ २,१.१११ ॥ अभ्रवद्धमने सत्वं सस्यकस्याप्ययं विधिः । <द्वितीयः प्रकारः> दोलायन्त्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ॥ २,१.११२ ॥ चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे पचेद्दिनम् । आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि ॥ २,१.११३ ॥ गृहधूमैर्घृतैः क्षौद्रैः संयुक्तैर्मर्दयेद्दिनम् । अन्धमूषागतं ध्मातं सत्त्वं गुञ्जानिभं भवेत् ॥ २,१.११४ ॥ <तृतीयः प्रकारः> कदलीकन्दतोयेन माक्षिकं शतधातपे । भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ॥ २,१.११५ ॥ पूर्ववद्धमनात्सत्त्वमिन्द्रगोपसमं भवेत् । <चतुर्थः प्रकारः> स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ॥ २,१.११६ ॥ कङ्कुष्ठं टङ्कणं चैव प्रतिपादांशमिश्रितम् । मूकमूषागतं ध्मातं सत्वं मणिनिभं भवेत् ॥ २,१.११७ ॥ <पञ्चमः प्रकारः> कदलीकन्दतुलसीजम्बीराणां द्रवैः क्रमात् । भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ॥ २,१.११८ ॥ रुद्ध्वा ध्माते पतेत्सत्त्वं शुकतुण्डनिभं शुभम् । <षष्ठः प्रकारः> मूत्रवर्गाम्लवर्गाभ्यां द्विसप्ताहं विभावयेत् ॥ २,१.११९ ॥ माक्षीकं तीव्रघर्मेण दिनमम्लैश्च मर्दयेत् । मित्रपञ्चकसंयुक्तं वटीकृत्य धमेद्दृढम् ॥ २,१.१२० ॥ व्योमवद्वङ्कनालेन सत्त्वं शुल्बनिभं भवेत् । <सप्तमः प्रकारः> स्नुहीक्षीरैर्गवां क्षीरैर्भाव्यमेरण्डतैलकैः ॥ २,१.१२१ ॥ माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् । पूर्ववद्विधमेत्तेन सत्त्वं लाक्षानिभं भवेत् ॥ २,१.१२२ ॥ <अष्टमः प्रकारः> स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः । मित्रपञ्चकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ २,१.१२३ ॥ भावितं मर्दयेद्यामं दिनं वातारितैलकैः । मृद्वग्निना पचेत्तावद्यावद्द्रवति गोलकम् ॥ २,१.१२४ ॥ सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् । विमलानां च सर्वेषां सस्यकस्याप्ययं विधिः ॥ २,१.१२५ ॥ <नवमः प्रकारः> संचूर्ण्य माक्षिकं शुद्धं मर्द्यमम्लेन केनचित् । क्षालयेदारनालेन ह्यधःस्थं स्वर्णचूर्णवत् ॥ २,१.१२६ ॥ जारयेत्तत्समाहृत्य धमेत्सत्त्वं विमुञ्चति । योजयेद्वापने चेदं बीजानां यत्र यत्र वै ॥ २,१.१२७ ॥ <दशमः प्रकारः> कदलीपत्रजैर्नीरैर्माक्षिकं भावयेद्द्रुतम् । गन्धर्वतैलमध्वाज्यैः पक्वमेकदिनं ततः ॥ २,१.१२८ ॥ तत्ताप्यं वज्रमूषायां पक्वायां निक्षिपेत्ततः । लोहसंधानकरणं तत्समं तत्र निक्षिपेत् ॥ २,१.१२९ ॥ दृढं प्रमूकमूषायां कोष्ठिकायां निवेशयेत् । अङ्गारैः खदिरोद्भूतैर्धमेद्भस्त्राद्वयेन वै ॥ २,१.१३० ॥ वङ्कनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् । <एकादशः प्रकारः> माणिवन्ध्यं वैष्णवं च गृह्णीयात्समभागतः ॥ २,१.१३१ ॥ फलपूररसैः पिष्ट्वा सम्पुटे सुदृढं क्षिपेत् । सम्यग्लिप्त्वा वनोद्भूतैश्छाणकैः पुटयेत्ततः ॥ २,१.१३२ ॥ कुकुप्तोत्थं तदाकृष्यं स्वांगशीतं प्रमर्दयेत् । फलपूररसैः पक्वैर्मर्दयित्वाथ पूर्ववत् ॥ २,१.१३३ ॥ पुटनं छगणेनैव तावत्कुर्याद्विचक्षणः । यावत्तत्पुटितं कल्कं फलपूराम्लमर्दितम् ॥ २,१.१३४ ॥ शाणोत्तेजितनिस्त्रिंशलिप्तं तत्ताम्रतामियात् । इत्थं शुद्धं च गरुडं टङ्कणं नीरजं रसम् ॥ २,१.१३५ ॥ घृतेन मधुना युक्तं सगुडं गुञ्जया समम् । प्राग्वन्मूषागतं कृत्वा धमेत्तत्खदिराग्निना ॥ २,१.१३६ ॥ मृदुसत्त्वं नागसममिन्द्रगोपकसन्निभम् । पतत्येव न संदेहः सर्वज्ञवचनं तथा ॥ २,१.१३७ ॥ शुक्लदीप्तिरशब्दश्च यदा वैश्वानरो भवेत् । तदा तु सत्त्वं पतितं जानीयान्नान्यथा क्वचित् ॥ २,१.१३८ ॥ <माक्षिकस्य गुणाः> कषायतिक्तमधुरं कटुकं माक्षिकद्वयम् । उष्णं रसायनं कुष्ठशोषहिध्मावमिप्रणुत् ॥ २,१.१३९ ॥ माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । दुर्मेललोहद्वयमेलकश्च गुणोत्तरः पूर्वरसायनाग्र्यः ॥ २,१.१४० ॥ <अभ्रकम्> उत्पत्त्यादि घनस्यादौ कथितं तद्रसायने । अधुना सम्प्रवक्ष्यामि तत्क्रियास्तद्गुणानपि ॥ २,१.१४१ ॥ <अभ्रकभस्मविधिः; प्रथमः प्रकारः> धान्याभ्रकं मेघनादद्रवैः संमर्दयेद्दिनम् । शतांशं टङ्कणं दत्त्वा ततो गजपुटे पचेत् ॥ २,१.१४२ ॥ मुस्तासूरणवर्षाभूरसैर्व्यस्तैः पुटं त्रिधा । कासमर्दरसैः पञ्च वरागोमूत्रकैरपि ॥ २,१.१४३ ॥ न्यग्रोधस्य जटाक्वाथैर्मर्द्यं दशपुटं पुनः । षट्च जम्बीरनीरेण गोक्षीरेण पुटत्रयम् ॥ २,१.१४४ ॥ पेषणं घर्मपाकं च स्थालीपाकं पुटं क्रमात् । कुर्याच्चत्वारि कर्माणि टङ्कणं च पुटे पुटे ॥ २,१.१४५ ॥ निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् । अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ॥ २,१.१४६ ॥ <भस्मीकरणे विशिष्टसंस्कारः> निश्चन्द्रकं मृतव्योम सामान्यसंस्कृतम् । तत्तद्रोगहरद्रव्यक्वाथैः पिष्ट्वा पुटे पचेत् ॥ २,१.१४७ ॥ यन्त्रैस्त्रिः सप्तधा कुर्यात्तत्तद्रोगहरं भवेत् । अयं विशेषसंस्कारस्तत्तद्रोगहरो भवेत् ॥ २,१.१४८ ॥ पूर्वाह्ने पेषणं कार्यं मध्याह्ने घर्मपाचनम् । सायाह्ने स्थालिकापाकं कुर्याद्रात्रौ पुटं क्रमात् ॥ २,१.१४९ ॥ संस्कारः पञ्चधा प्रोक्तो घनस्य परमेश्वरि । धान्याभ्रकरणं सत्त्वपातनं निर्मलक्रिया ॥ २,१.१५० ॥ सुमृतीकरणं चैव त्वमृतीकरणं तथा । मारणे घनसत्त्वस्य घनपत्रस्य मारणे ॥ २,१.१५१ ॥ क्रमाच्छ्रेष्ठतमौ प्रोक्तौ शस्तौ दरदटङ्कणौ । <द्वितीयः प्रकारः> मुस्ताक्वाथेन धान्याभ्रं पञ्चविंशत्पुटे पचेत् ॥ २,१.१५२ ॥ गोमूत्रैश्च तथा क्वाथैस्त्रिफलायाः सुरेश्वरि । कासमर्दद्रवैरेकं गोक्षीरेण पुटं त्रिधा ॥ २,१.१५३ ॥ निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् । विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ २,१.१५४ ॥ <तृतीयः प्रकारः> धान्याभ्रकस्य भागैकं भागौ द्वौ टङ्कणस्य च । पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ २,१.१५५ ॥ स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् । विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ २,१.१५६ ॥ <चतुर्थः प्रकारः> धान्याभ्रं मर्दयेदम्लैर्घर्मे संस्थापयेत्ततः । पुटं कुर्यात्ततोऽम्लेन सेचनं मर्दनं पुनः ॥ २,१.१५७ ॥ विंशद्वारं ततो दुग्धे पुटनिस्तब्धमभ्रकम् । क्षिपेत्तं मर्दयेद्दुग्धैर्दुग्धे क्षिप्त्वातपे न्यसेत् ॥ २,१.१५८ ॥ पुटं त्रिः सप्तवाराणि कुर्यादेवं पुनः पुनः । तण्डुलं वज्रवल्ली च तालमूली पुनर्नवा ॥ २,१.१५९ ॥ शार्ङ्गेरी मरिचं चैव बला च पयसा सह । पूर्वाभ्रं पेषयेदेतैः प्रत्येकैश्च त्र्यहं त्र्यहम् ॥ २,१.१६० ॥ क्षिप्त्वातपे पुटे पच्यात्प्रत्येकेन पुनः पुनः । एवं निश्चन्द्रकं व्योम कज्जलाभं मृतं भवेत् ॥ २,१.१६१ ॥ <पञ्चमः प्रकारः> धान्याभ्रकस्य शुष्कस्य दशांशं मरिचं क्षिपेत् । पेषयेदम्लवर्गेण अम्लैर्भाव्यं दिनत्रयम् ॥ २,१.१६२ ॥ तच्छुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् । ऊर्ध्वपात्रे निवार्याथ सिञ्चेदम्लेन केन तम् ॥ २,१.१६३ ॥ धान्यं तत्रैव षड्वारमम्लैः सिञ्च्यात्पुनः पुनः । अगस्त्यशिग्रुवर्षाभूमूलपत्रभवै रसैः ॥ २,१.१६४ ॥ पिष्ट्वाभ्रं सेचयेत्तेन षड्धा धाम्यं च सेचयेत् । सितामध्वाज्यगोक्षीरैस्तद्धौतं पेष्यमभ्रकम् ॥ २,१.१६५ ॥ रुद्ध्वा षड्भिः पुटैः पाच्यं पिष्ट्वा चैव पुनः पुनः । मत्स्याक्ष्याश्चैकवीराया द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ २,१.१६६ ॥ एवं गजपुटैः पाच्यं निश्चन्द्रमयतेऽभ्रकम् । पत्त्राभ्रकस्य सिन्दूरं सर्वयोगेषु योजयेत् ॥ २,१.१६७ ॥ <षष्ठः प्रकारः> धान्याभ्रं मर्दयेद्यामं मत्स्याक्षीस्वरसैस्ततः । पचेद्गजपुटैरेवं सप्तधा तुलसीरसैः ॥ २,१.१६८ ॥ कोकिलाक्षरसैः सप्त कुमारीस्वरसैस्तथा । श्वेतदूर्वारसैस्तद्वद्व्याघ्रीकन्दरसैस्तथा ॥ २,१.१६९ ॥ पुनर्नवारसैः सप्त तद्वत्पञ्चामृतैस्ततः । निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ॥ २,१.१७० ॥ <सप्तमः प्रकारः> धान्याभ्रं टङ्कणं तुल्यं गोमूत्रैस्तुलसीद्रवैः । वाकुच्या सूरणैर्नाल्या दिनं पिष्ट्वा पुटे पचेत् ॥ २,१.१७१ ॥ द्रवैः पुनः पुनः पिष्ट्वा दिनान्तेषु पुटे पचेत् ॥ २,१.१७२ ॥ रुद्ध्वा रुद्ध्वा पुटैस्त्वेवं निश्चन्द्रं चाभ्रकं भवेत् । <अष्टमः प्रकारः> पिष्ट्वा साम्लारनालेन पेटालीमूलजत्वचम् ॥ २,१.१७३ ॥ तद्द्रवैर्मर्दयेदभ्रं दिनं गजपुटे पचेत् । एवं सप्तपुटं कार्यं दध्ना च पुटसप्तकम् ॥ २,१.१७४ ॥ यवचिञ्चाद्रवैस्तद्वन्निश्चन्द्रं जायतेऽभ्रकम् । <नवमः प्रकारः> धान्याभ्रकं रविक्षीरै रविमूलद्रवैश्च वा ॥ २,१.१७५ ॥ मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् । <दशमः प्रकारः> धान्याभ्रकं तुषाम्लान्तरातपे स्थापयेद्दिनम् ॥ २,१.१७६ ॥ यामं मर्द्यं तु तद्गोलं रुद्ध्वा गजपुटे पचेत् । एवं कार्पासतोयान्तः स्थाप्यं पाच्यं पुटे पचेत् ॥ २,१.१७७ ॥ एवं गोक्षीरमध्यस्थं स्थाप्यं पेष्यं पुटे पचेत् । पश्चादम्लैश्च गोक्षीरैः कार्पासैश्च पुनः पुनः ॥ २,१.१७८ ॥ घर्मपाकं मर्दनं च स्थालीपाकं पुटं क्रमात् । एकविंशत्पुटे प्राप्ते निश्चन्द्रं जायतेऽभ्रकम् ॥ २,१.१७९ ॥ सर्वेषां घातिताभ्राणाममृतीकरणे विधिः । <अभ्रकस्य गुणाः> अभ्रकं गगनं भृङ्गं बहुपुत्रमुमाभवम् ॥ २,१.१८० ॥ पत्राभ्रकस्य सिन्दूरममृतं परमं हितम् । त्रिदोषघ्नं बलकरं वृष्यमारोग्यदं शुचि ॥ २,१.१८१ ॥ सर्वरोगहरं सौम्यं विषघ्नं च रसायनम् । <चिन्नबर्:: स्य्नोन्य्म्स्> हिङ्गुलो दरदं चूर्णपारदश्च रसोद्भवः ॥ २,१.१८२ ॥ रसगर्भः सुरङ्गश्च लोहघ्नः सिद्धिपारदः । <चिन्नबर्:: सुब्त्य्पेस्> हिङ्गुलस्त्रिविधो ज्ञेयश्चर्मारः शुकतुण्डकः ॥ २,१.१८३ ॥ हंसपादश्च तत्राद्यं तारकर्मणि योजयेत् । अधमं तं विजानीयाच्छुकतुण्डं च मध्यमम् ॥ २,१.१८४ ॥ हेमतारक्रियामार्गे योजयेत्परमेश्वरि । हंसपादो महाश्रेष्ठः सर्वकर्मकरो हि सः ॥ २,१.१८५ ॥ तस्य सत्त्वं सूत एव दरदस्य त्रिभेदतः । <शुकतुण्ड:: फ्य्स्. प्रोपेर्तिएस्> हेमकिट्टस्य सदृशस्तद्रूपस्तीक्ष्णमारकः ॥ २,१.१८६ ॥ चर्मारस्तीक्ष्णरूपः स्यात्सुप्रीतः शुकतुण्डकः । <हंसपाद:: प्रोपेर्तिएस्> जपाकुसुमसङ्काशो हंसपादो महोत्तमः ॥ २,१.१८७ ॥ रसायने सर्वसूतहरणे सर्वरञ्जने । लोहानां मारणे श्रेष्ठो वर्णोत्कर्षणकर्मणि ॥ २,१.१८८ ॥ रसकस्य तथा रागबन्धे धौरेयकः स्मृतः । मलदोषादिकं नास्ति सर्वकार्येषु पूज्यते ॥ २,१.१८९ ॥ <हिङ्गुलशुद्धिः> मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ २,१.१९० ॥ <हिङ्गुलसत्त्वपातनम्> दरदं पातनायन्त्रे पातितं च जलाशये । सत्त्वं सूतकसङ्काशं विमुञ्चति न संशयः ॥ २,१.१९१ ॥ <हिङ्गुलस्य गुणाः> ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति हिङ्गुले । नवज्वरहरः प्रोक्तः सम्पातज्वरनाशनः ॥ २,१.१९२ ॥ <गैरिकम्> गैरिकं गिरिधातुः स्याद्रक्तधातुर्गवेधुकम् । <गैरिक:: सुब्त्य्पेस्> गैरिकं द्विविधं प्रोक्तं तत्राद्यं स्वर्णगैरिकम् ॥ २,१.१९३ ॥ पाषाणगैरिकं चान्यत्पूर्वं श्रेष्ठतमं गुणैः । <गैरिकस्य गुणाः> शोणितं मसृणं स्निग्धं स्वादु वृष्यं हिमं लघु ॥ २,१.१९४ ॥ चक्षुष्यं रक्तपित्तघ्नं विषहिध्मावमिप्रणुत् । तापज्वरहरं श्रेष्ठं हेमघ्नं रक्तगैरिकम् ॥ २,१.१९५ ॥ <पाषाणगैरिक:: फ्य्स्. प्रोपेर्तिएस्> पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् । <चपलः> देहवेधी लोहवेधी चपला रसबन्धिनी ॥ २,१.१९६ ॥ चपला बहुभेदा च सर्वलोहस्वरूपतः । हेमस्तारो रविमयः सीसात्मा वङ्गरूपधृक् ॥ २,१.१९७ ॥ तीक्ष्णरूपः कांस्यरूपो रक्तो विषमयस्तथा । <चपलस्वरूपम्> सत्त्वलोहस्वरूपास्ते विषो हरितलोहभाक् ॥ २,१.१९८ ॥ विषाख्यं चपलं प्राप्य निर्जीवे तस्य दापयेत् । पुटेनारण्यजैश्छाणैः सधूमं सर्वथा त्यजेत् ॥ २,१.१९९ ॥ नश्येत तस्य धूमं वै स्पर्शनं दूरतस्त्यजेत् । अशनात्तस्य संस्पर्शान्म्रियते सद्य एव हि ॥ २,१.२०० ॥ धूमावलोकनाच्छीर्षपीडा संजायते ज्वरः । एवं दत्तपुटे शान्ते गृह्णीयाच्चपलं ततः ॥ २,१.२०१ ॥ <चपलस्य गुणाः> तस्य संस्पर्शमात्रेण हीरको म्रियते क्षणात् । सर्वेषां चपलानां वै स्वभावः समुदाहृतः ॥ २,१.२०२ ॥ वङ्गस्तम्भे नागराजे क्रमे वातीव शस्यते । सर्वलोहानि कुर्वन्ति सुवर्णं तारमेव च ॥ २,१.२०३ ॥ युक्त्याथ शोधितः सूते विना बीजं च वा तथा । शतं वापि सहस्रं वा लक्षं कोटिं च वेधयेत् ॥ २,१.२०४ ॥ वज्रेण रसराजेन बीजेन च समाश्रिता । धूमतो वेधयेल्लोहान् रसजीर्णः स्वयं गलेत् ॥ २,१.२०५ ॥ निष्पत्य तेन देहस्य चपलेन महात्मना । <शिलाजतु> अश्मजं गिरिजं शैलमश्मलाक्षा शिलाजतु ॥ २,१.२०६ ॥ <शिलाजतु:: सुब्त्य्पेस्> शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनम् । कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः स्मृतः ॥ २,१.२०७ ॥ ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ २,१.२०८ ॥ स्वर्णरूप्याकगर्भेभ्यः शिलाधातुर्विनिःसरेत् । <शिलाजतोर्गुणाः> स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु ॥ २,१.२०९ ॥ ससत्त्वं स्वादु परमं परमं तद्रसायनम् । रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ २,१.२१० ॥ शिलाजं पाण्डुरोगघ्नं विशेषात्पित्तरोगजित् । ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ २,१.२११ ॥ शिलाजं कफवातघ्नं तीक्ष्णोष्णं दीपनं परम् । वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारं ह्यधूमकम् ॥ २,१.२१२ ॥ सलिलेऽप्यवलीनं च तत्सिद्धं हि शिलाजतु । गोमूत्रगन्धि कृष्णं गुग्गुलुकाभं सशर्करं मृत्स्नम् । स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् ॥ २,१.२१३ ॥ सर्वं च तिक्तकटुकं स्वादु नात्युष्णशीतलम् ॥ २,१.२१४ ॥ वृष्यं त्रिदोषजिद्भेदि चक्षुष्यं च रसायनम् । क्षयशोफोदरार्शोघ्नं मेहमूत्रग्रहापहम् ॥ २,१.२१५ ॥ नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूलामयोन्मूलनम् । प्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ २,१.२१६ ॥ रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ २,१.२१७ ॥ <भूनागः> भूनागः क्षितिनागश्च भूलता रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च विषघ्नो रक्ततुण्डकः ॥ २,१.२१८ ॥ यासां छेदे न रक्तं प्रभवति सततं प्रायशो रक्तभूमौ । संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तासु सत्त्वम् । तद्युक्त्या पारदेन्द्रश्चरति यदि समं सारणायन्त्रयोगैः । बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥ २,१.२१९ ॥ <भूनागसत्त्वस्य गुणाः> सत्त्वं भूनागजं क्ष्वेलयक्षराक्षसमृत्युजित् । सर्ववश्यकरं सर्वरोगघ्नं च रसायनम् ॥ २,१.२२० ॥ रसेन्द्रे जारणाकर्मजारितं कोटिवेधकृत् । सुवर्णादीनि लोहानि रक्तानि ग्रसति क्षणात् ॥ २,१.२२१ ॥ <भूनागसत्त्वपातनम्; प्रथमः प्रकारः> रक्तभूजातभूनागमृत्तिकां क्षालयेज्जलैः । यावत्सत्त्वावशेषं स्याद्धौतसत्त्वं तदेव हि ॥ २,१.२२२ ॥ मित्रपञ्चकयुक्तं तन्मूषायां धमयेद्दृढम् । निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ २,१.२२३ ॥ एवं त्रिवारं धमनात्सत्त्वशेषं समाहरेत् । <द्वितीयः प्रकारः> भूनागमृत्तिकां भाण्डे भूनागैः सह निक्षिपेत् ॥ २,१.२२४ ॥ षण्मासान्तं समान्तं वा जलैः सिञ्चेन्मुहुर्मुहुः । अस्य सत्त्वं विधानेन गृह्णीयादभ्रसत्त्ववत् ॥ २,१.२२५ ॥ <तृतीयः प्रकारः> रक्तभूमिजभूनागान् पञ्जरस्थेन बर्हिणा । भक्षयेत्तु शरत्काले नित्यं तन्मलमाहरेत् ॥ २,१.२२६ ॥ लाक्षासर्जरसः सर्जी गुग्गुलुर्मित्रपञ्चकम् । ऊर्णा क्षाराश्च पटवो नीलसर्पेन्द्रगोपकौ ॥ २,१.२२७ ॥ मत्स्यश्च नीलसरटः कूर्मपृष्ठं शशास्थि च । माक्षीकं शिखिशंखतुत्थं च सर्वांशं बर्हिणो मलम् ॥ २,१.२२८ ॥ सर्वं निक्षिप्य मूषायां धमेत्तीव्राग्निना दृढम् । निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ २,१.२२९ ॥ एवं त्रिवारधमनात्सत्त्वशेषं समाहरेत् । <हरिद्राश्मा> हरिद्राश्मा निशाग्रावः पीताङ्गः पीतकर्षणः ॥ २,१.२३० ॥ तत्सत्त्वकं सितं स्वर्णं श्रेष्ठं रसरसायने । <अग्निजारः> अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः ॥ २,१.२३१ ॥ वडबाग्निमलो ज्ञेयो जरायुश्चार्णवोद्भवः । अग्निज्वालोऽग्निजारश्च प्रोक्तः सिन्धुप्लवो दश ॥ २,१.२३२ ॥ सामुद्रस्याग्निनक्रस्य जरायुर्बहिरुज्झितः । संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ २,१.२३३ ॥ जाराभं दहति स्पर्शात्पिच्छिलं सागरोत्प्लवम् । जरायुस्तच्चतुर्वर्णं श्रेष्ठं तेषु सलोहितम् ॥ २,१.२३४ ॥ <अग्निजारस्य गुणाः> स्यादग्निजारः कटुकोष्णवीर्यः तुन्दामयघ्नः कफवातहारी । पित्तप्रदः शोणितसन्निपातशूलादिवातामयनाशकश्च ॥ २,१.२३५ ॥ अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् । मर्दनो रसवीर्यस्य दीपनो जारणस्तथा ॥ २,१.२३६ ॥ <खर्परी (रसकम्)> खर्परी रसकं तुत्थखर्पर्यमृतसम्भवा । रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ २,१.२३७ ॥ सदंशो दर्दुरः प्रोक्तो निर्दंशः कारवेल्लकः । सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ २,१.२३८ ॥ घनसत्त्वनिभं बाह्ये शुभं हारिद्रवत्ततः । अच्छं खर्परवत्तुत्थमुत्तमं सतोदरम् ॥ २,१.२३९ ॥ <खर्पर्या गुणाः> रसकः सर्वदोषघ्नः कफपित्तविनाशनः । चक्षूरोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ २,१.२४० ॥ नागार्जुनेन निर्दिष्टौ रसस्य रसकावुभौ । श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ २,१.२४१ ॥ रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । देहलोहमयीं सिद्धिं दास्यतस्तु न संशयः ॥ २,१.२४२ ॥ <खर्परीसत्त्वपातनम्> जयन्तीत्रिफलाचूर्णं हरिद्रागुडटङ्कणम् । पादांशं रसकस्येदं पिष्ट्वा मूषाः प्रलेपयेत् ॥ २,१.२४३ ॥ नलिकासम्पुटं बद्ध्वा शोषयेदातपे खरे । ग्राह्यं पातालयन्त्रेण सत्त्वं ध्माते पुटेऽथ वा ॥ २,१.२४४ ॥ <खर्परीशुद्धिः> रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् । तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥ २,१.२४५ ॥ <मयूरतुत्थम्> मयूरतुत्थं तुत्थं च नीलाश्मा ताम्रभस्म च । मयूरग्रीवकं क्ष्वेडनाशनं सस्यकं प्रिये ॥ २,१.२४६ ॥ मयूरग्रीवसङ्काशं घृष्टे गोक्षीरसन्निभम् । अप्सु च प्लवते क्षिप्तमेतन्मायूरतुत्थकम् ॥ २,१.२४७ ॥ अथवा शुकपिच्छाभमन्तः काञ्चनबिन्दुभिः । अङ्कितं घर्षयेत्तुत्थमायसे चाम्लसंयुते ॥ २,१.२४८ ॥ भवेदयस्ताम्रनिभमेतन्मायूरतुत्थकम् । <मयूरतुत्थशुद्धिः> विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः ॥ २,१.२४९ ॥ दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे ततः । पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ २,१.२५० ॥ <मयूरतुत्थसत्त्वपातनम्> तुत्थं च टङ्कणं चैव तुल्यं श्लक्ष्णं विमर्दयेत् । मूषायां तं विनिक्षिप्य रुद्ध्वा तीव्राग्निना धमेत् ॥ २,१.२५१ ॥ इन्द्रगोपनिभं सत्त्वं पतत्येव न संशयः । <मयूरतुत्थस्य गुणाः> तुत्थं कटुकषायोष्णं श्वित्रनेत्रामयापहम् ॥ २,१.२५२ ॥ विषदोषेषु सर्वेषु प्रशस्तं कान्तिकारकम् । <कङ्कुष्ठ:: स्य्नोन्य्म्स्> कङ्कुष्ठं काककुष्ठं च रेचकं रागदायकम् ॥ २,१.२५३ ॥ <कङ्कुष्ठ:: सुब्त्य्पेस्> कंकुष्ठं च द्विधा प्रोक्तं हेमतारात्मकं तथा । <कङ्कुष्ठ:: मेदिच्. प्रोपेर्तिएस्> व्रणजन्तुज्वरघ्नं च शूलोदावर्तगुल्महृत् ॥ २,१.२५४ ॥ <गिरिसिन्दूरम्> महागिरिषु चाल्लोव पाषाणान्तस्थितो रसः । शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥ २,१.२५५ ॥ त्रिदोषशमनं भेदि रसबन्धनकारकम् । देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ २,१.२५६ ॥ <टङ्कणम्> टङ्कणं टङ्कणक्षारो रसक्षारो रसाधिकः । लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥ २,१.२५७ ॥ मालतीतीरसम्भूतः क्षारश्रेष्ठो नवाह्वयः । अश्मरीमतिसारं च निहन्यात्स्थावरं विषम् ॥ २,१.२५८ ॥ रससिद्धिकरः प्रोक्तो नागार्जुनपुरःसरैः । <कम्पिल्लकः> इष्टचूर्णस्य सङ्काशश्चन्द्रिकाढ्योऽतिरेकः ॥ २,१.२५९ ॥ सौराष्ट्रदेशखनिजः स हि कम्पिल्लको मतः । पित्तव्रणाध्मानविबन्धनघ्नः श्लेष्मोदरार्तिक्रिमिगुल्महारी । मूलामशूलज्वरशोफहारी कंपिल्लको रिच्य मलापहारी ॥ २,१.२६० ॥ <वत्सनाभिः> उत्पत्यादि विषस्यादौ कथितं हि रसायनम् ॥ २,१.२६१ ॥ अमृतं स्याद्वत्सनाभो विषमुग्रं महौषधम् । गरलं मरणं नागः स्तोककं प्राणहारकम् ॥ २,१.२६२ ॥ सर्वकुष्ठहरं प्रोक्तं सर्वव्याधिविनाशनम् । सन्निपातादिरोगाणां विनिवृत्तिकरं प्रिये ॥ २,१.२६३ ॥ <कासीस:: स्य्नोन्य्म्स्> कासीसं धातुकासीसं केसरं हंसलोमशम् । शोधनं पांशुकासीसं शुभ्रं सत्त्वाह्वयं मतम् ॥ २,१.२६४ ॥ <कासीस:: सुब्त्य्पेस्> कासीसं त्रिविधं शुभ्रं कृष्णं पीतमिति स्मृतम् । कासीसं पुष्पकासीसं हीरकासीसमित्यथ ॥ २,१.२६५ ॥ पीतं कृष्णं सितं रक्तं चतुर्धेति परे जगुः । <कासीस:: मेदिच्. प्रोपेर्तिएस्> कासीसमुष्णं सक्षारकषायाम्लं सतिक्तकम् ॥ २,१.२६६ ॥ वातश्लेष्मप्रशमनं चक्षुष्यं रञ्जकं परम् । मूत्रकृच्छ्राश्मरीकुष्ठकण्डूव्रणविषापहम् ॥ २,१.२६७ ॥ <गौरीपाषाणकः> गौरीपाषाणकः पीतो व्यक्तदेहश्च चूर्णकः । रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ २,१.२६८ ॥ <तुवरी फटकी च> भूमिस्तुवरिका फुल्लतुवरी रञ्जिका क्षितिः । चित्रभूश्चीनकारश्च मञ्जिष्ठारागदायिनी ॥ २,१.२६९ ॥ खगस्तु फटकी दुग्धपाषाणो नेत्ररोगहा । कर्पूराख्यशिलाधातुर्मञ्जिष्ठारागरञ्जकः ॥ २,१.२७० ॥ <पोदारशृङ्गी> सदलं पीतवर्णं च भवेद्गुर्जरमण्डले । अर्जुनस्य गिरेः पार्श्वे जातं पोदारशृङ्गिकम् ॥ २,१.२७१ ॥ सीससत्त्वं मरुच्छ्लेष्मशमनं पुङ्गदापहम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ २,१.२७२ ॥ <सिन्दूर:: स्य्नोन्य्म्स्> सिन्दूरनागगर्भे सैमन्तिकवीरपांसु नागभवम् । रक्तं च नागरेणुः गणपतिभूषा सुरङ्ग इत्याख्या ॥ २,१.२७३ ॥ सौभाग्यं चैव शृङ्गारं मङ्गल्यमरुणं रजः । <सिन्दूर:: मेदिच्. प्रोपेर्तिएस्> सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् ॥ २,१.२७४ ॥ किलासविषकण्डूतिविसर्पशमनं परम् । हिङ्गुले ये गुणाः सन्ति ते गुणास्तिमुरौ प्रिये ॥ २,१.२७५ ॥ <रसाञ्जनम्> रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् । रीत्यां तु धाम्यमानायां तत्किट्टं तु रसाञ्जनम् ॥ २,१.२७६ ॥ तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् । कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ २,१.२७७ ॥ दार्वीक्वाथभवं कण्ठविकासि क्षिप्तमक्ष्णि यत् । तद्रसाञ्जनमुद्दिष्टं कषायं कटु तिक्तकम् ॥ २,१.२७८ ॥ किंचिदुष्णं कफहरं छेदनं लेखनं लघु । रक्तपित्तप्रशमनं नेत्ररोगविनाशनम् ॥ २,१.२७९ ॥ रसाञ्जनं तार्क्ष्यशैलं ज्ञेयं वर्यञ्जनं तथा । रसनाभं चाग्निसारं द्वादशाह्वयकीर्तितम् ॥ २,१.२८० ॥ <नीलाञ्जनम्> नीलं नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् । कपोतकं च कापोतं सम्प्रोक्तं शक्रभूमिजम् ॥ २,१.२८१ ॥ शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकषायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ २,१.२८२ ॥ <सौवीराञ्जनम्> सौवीरमञ्जनं स्निग्धमवघृष्टं शिलातले । अञ्जनाभं शिलारूपमेतच्छ्रेष्ठमकृत्रिमम् ॥ २,१.२८३ ॥ सौवीरमञ्जनं चैव रक्तपित्तहरं हितम् । विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥ २,१.२८४ ॥ <स्रोतोञ्जन:: स्य्नोन्य्म्स्> स्रोतोद्भवं स्रोतनदीभवं च स्रोतोञ्जनं वारिभवं तथान्यम् । सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ २,१.२८५ ॥ वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युतिः । घर्षणे गैरिकच्छायं स्रोतोञ्जनमिदं भवेत् ॥ २,१.२८६ ॥ <स्रोतोञ्जन:: मेदिच्. प्रोपेर्तिएस्> स्रोतोऽञ्जनं शीतकटुकषायं क्रिमिनाशनम् । रसायनं रसे योज्यं स्तन्यवृद्धिकरं परम् ॥ २,१.२८७ ॥ स्रोतोऽञ्जनं हिमं स्निग्धं तृष्णाहृत्स्वादु लेखनम् । नेत्र्यं हिध्मावमिच्छर्दिकफपित्तास्रकोपनुत् ॥ २,१.२८८ ॥ <अहिफेनम्> श्रान्तस्य मथनाक्षोभाद्वासुकेर्वदनोत्थिताः । द्वीपान्तरे पतन्ति स्म सविषाः स्वेदबिन्दवः ॥ २,१.२८९ ॥ यत्र यत्र पतन्ति स्म प्ररूढा गुल्मरूपतः । तेषु जातं तु निर्यासमफेनं ब्रुवते जनाः ॥ २,१.२९० ॥ चतुर्विधमफेनं स्याज्जारणं मारणं तथा । धारणं सारणं चैव क्रमाद्वक्ष्यामि लक्षणम् ॥ २,१.२९१ ॥ श्वेतं तु जारणं प्रोक्तं कृष्णवर्णं तु मारणम् । धारणं पीतवर्णं च कर्बुरं सारणं तथा ॥ २,१.२९२ ॥ जारणं जरयेदन्नं मारणं मृत्युदायकम् । धारणं च वयःस्तम्भं सारणं मलसारकम् ॥ २,१.२९३ ॥ अफेनं सन्निपातघ्नं वृष्यं बल्यं च मोहदम् । ग्रहणीमतिसारं च नाशयेत्षण्डतामपि ॥ २,१.२९४ ॥ <पुष्पाञ्जन:: स्य्नोन्य्म्स्> पुष्पाञ्जनं पुष्पकेतुः कौस्तुभः कुसुमाञ्जनम् । रीतिकं रीतिकुसुमं रीतिपुष्पं च पुष्पकम् ॥ २,१.२९५ ॥ <पुष्पाञ्जन:: मेदिच्. प्रोपेर्तिएस्> पुष्पाञ्जनं हितं प्रोक्तं पित्तहिक्काप्रदाहनुत् । नाशयेद्विषकासार्तिसर्वनेत्रामयापहम् ॥ २,१.२९६ ॥ <शङ्ख> शङ्खोऽर्णवभवः कम्बुर्जलजः पावनध्वनिः । कुटिलोऽन्तर्महानादः श्वेतपीतः सुनादकः ॥ २,१.२९७ ॥ सस्वनो दीर्घनादश्च बहुनादो हरप्रियः । क्षुल्लकः क्षुद्रशङ्खः स्याच्छंबूको नखशङ्खकः ॥ २,१.२९८ ॥ शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः । गुल्मशूलकफश्वासनाशनो विषदोषहा ॥ २,१.२९९ ॥ क्षुल्लकः कटुकः स्निग्धः शूलहारी च दीपनः । शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ॥ २,१.३०० ॥ मुक्तास्फोटस्तौतिकस्तु मौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकसूश्चैव मुक्तामाता तथा स्मृता ॥ २,१.३०१ ॥ मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ २,१.३०२ ॥ जलशुक्तिः क्षुद्रशुक्तिः क्रिमिसुस्फुटिका च सा । जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ॥ २,१.३०३ ॥ तथा विषहरा रुच्या पाचनी बलदायिनी । <कपर्द> कपर्दको वराटश्च कपर्दश्च वराटिका ॥ २,१.३०४ ॥ चराचरश्चरो वर्यो बालक्रीडनकश्च स । पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ॥ २,१.३०५ ॥ रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञका । सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ २,१.३०६ ॥ पादोननिष्कभारा च कनिष्ठा परिकीर्तिता । परिणामादिशूलघ्नी ग्रहणीक्षयनाशनी ॥ २,१.३०७ ॥ कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा । रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ॥ २,१.३०८ ॥ तदन्ये पुंवराटाः स्युर्गुरवः श्लेष्मपित्तलाः । कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ॥ २,१.३०९ ॥ गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः । <साबुणि> सर्वक्षारो बहुक्षारः समूहक्षारसाबुणिः ॥ २,१.३१० ॥ स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः । सर्वक्षारमतिक्षारं चक्षुष्यं बस्तिशोधनम् ॥ २,१.३११ ॥ उदावर्तक्रिमिघ्नं च बिडवद्वस्त्रशोधनम् । <नवसार> करीरपीलुकाष्ठेषु पच्यमानेष्टकोद्भवः ॥ २,१.३१२ ॥ क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः । रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥ २,१.३१३ ॥ गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । <सौराष्ट्री> गोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः ॥ २,१.३१४ ॥ धमित्वा पातयेत्सत्वं क्रामणं चातिगुह्यकम् । <आखुपाषाण> मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ॥ २,१.३१५ ॥ आखुपाषाणनामायं लोहसङ्करकारकः । आखुग्रावा सरो रूक्षो वमिशीतज्वरापहः ॥ २,१.३१६ ॥ तारकर्मणि संपूज्यो मेदोदुर्मांसकृन्तनः । <सर्जरस> रालः सर्जरसश्चैव यक्षधूपोऽग्निवल्लभः ॥ २,१.३१७ ॥ देवेष्टः शालनिर्यासः सुरभिर्धूपवल्लभः । रालस्तु पञ्चधा प्रोक्तो रक्तः पीतः सितोऽसितः ॥ २,१.३१८ ॥ नानावर्णश्च विज्ञेयः कृष्णस्तेषु गुणोत्तरः । रालस्तु शिशिरः स्निग्धः कषायस्तिक्तको रसे ॥ २,१.३१९ ॥ वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः । <गुग्गुलु> दानवेन्द्रविजितान्पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः । वीक्ष्य विष्णुरमृतं किलासृजत्गुग्गुलुं बलवपुर्जयप्रदम् ॥ २,१.३२० ॥ मरुभूमिषु जायन्ते प्रायशः पुरपादपाः ॥ २,१.३२१ ॥ भानोर्मयूखैः संतप्ता ग्रीष्मे मुञ्चन्ति गुग्गुलुम् । गुग्गुलुः पञ्चधा प्रोक्तो महिषाक्षश्च नीलकः ॥ २,१.३२२ ॥ पद्मस्तु कुमुदश्चैव सुवर्णः पञ्चमः प्रिये । महिषाक्षश्च नीलश्च दन्तिनां गुणदायकौ ॥ २,१.३२३ ॥ वाजिनां कुमुदः पद्मो नराणां स्वर्णवर्णकः । एरण्डबीजतैले वा तिलतैलेऽथवा घृते ॥ २,१.३२४ ॥ पञ्चतिक्तशृतैः क्वाथैः शुद्धिं कुर्यात्सुगुग्गुलुम् । दोलायन्त्रे पचेत्तावद्यावन्निर्मलता भवेत् ॥ २,१.३२५ ॥ एवं विशुद्धं संग्राह्यं तत्तद्योगेषु योजयेत् । पिटकागण्डमालाद्या नश्यन्ति च मरुद्गदाः ॥ २,१.३२६ ॥ <यवक्षार> यवक्षारोऽमृतः पाक्यो यवजो यवशूकजः । यवशूको यवाह्वश्च यवपाक्यो यवारुजः ॥ २,१.३२७ ॥ यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् । आमशूलाश्मरीकृच्छ्रविषदोषहरः परः ॥ २,१.३२८ ॥ <सर्जक्षार> सद्यःक्षारः सर्जिकश्च क्षारः सज्जी सुवर्जिकः । सर्जीकः कटुरूक्षश्च तीक्ष्णो वातकफार्तिनुत् ॥ २,१.३२९ ॥ गुल्मानाहवमिघ्नश्च मेहजाठररोगहृत् । <लवणक्षार> लोणारं लवणोत्थं लवणासुरं च लवणमेदश्च ॥ २,१.३३० ॥ जतुजं लवणक्षारं लवणं च क्षारलवणं च । लोणकक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ॥ २,१.३३१ ॥ क्षारं लवणमीषच्च वातगुल्मादिशूलनुत् । <वज्रकक्षार> वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ॥ २,१.३३२ ॥ सारं चन्दनसारं च धूमोत्थं धूमजं गजाः । वज्रकक्षारमत्युष्णं तीक्ष्णं क्षारं च रोधनम् ॥ २,१.३३३ ॥ गुल्मोदरार्तिविष्टम्भशूलप्रशमनं परम् । <सामुद्रलवण> सामुद्रकं तु सामुद्रं सामुद्रलवणं शिवम् ॥ २,१.३३४ ॥ <सेअ सल्त्:: मेदिच्. प्रोपेर्तिएस्> सामुद्रं लघु हृद्यं च वारितासृजपित्तलम् । विदाहि कफवातघ्नं दीपनं रुचिकृत्प्रियम् ॥ २,१.३३५ ॥ <सैन्धव> सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । शुद्धं शिवात्मकं पथ्यं माणिमन्थं नवाभिधम् ॥ २,१.३३६ ॥ सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि । पूतं नस्यात्त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥ २,१.३३७ ॥ सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् । रसवीर्यविपाकेषु गुणाढ्यं पूतनं सितम् ॥ २,१.३३८ ॥ <काचलवण> नीलकाचोद्भवं काचतिलकं चैव काचसम्भवम् । काकसौवर्चलं काचलवणं पाक्यजं स्मृतम् ॥ २,१.३३९ ॥ काचोत्थं हृद्यगन्धं च तत्काललवणं तथा । कुरुविन्दं काचमलं कतिमं च चतुर्दश ॥ २,१.३४० ॥ काचाख्यं लवणं रुच्यमीषत्क्षारं सपित्तलम् । दाहदं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ २,१.३४१ ॥ <बिडलवण> बिडं च बिडकं खण्डं कृतक्षारं च आसुरम् । सुपाक्यं लवणं खण्डं धूर्तं कृत्रिमकं दश ॥ २,१.३४२ ॥ बिडमुष्णं सलवणं दीपनं वातनाशनम् । रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ २,१.३४३ ॥ <सौवर्चल> सौवर्चलं च रुचकं तिलकं हृद्यगन्धकम् । अक्षं च कृष्णलवणं रुच्यं कोद्रविकं तथा ॥ २,१.३४४ ॥ <सौवर्चल:: मेदिच्. प्रोपेर्तिएस्> सौवर्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् । ऊर्ध्ववातामशूलार्तिविबन्धारोचकं जयेत् ॥ २,१.३४५ ॥ <अम्लवेतस> अम्लोऽम्लवेतसो वेधी रसाम्लो वीतवेतसः । वेतसारश्चाम्लसारः शरवेधी च वेधकः ॥ २,१.३४६ ॥ नीलश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः । अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥ २,१.३४७ ॥ सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा । शङ्खमांसादिद्रावी स्यद्द्विधा चैवाम्लवेतसः ॥ २,१.३४८ ॥ अम्लवेतसमत्यम्लं कषायोष्णामवातजित् । कफार्शःसमगुल्माममरोचकहरं परम् ॥ २,१.३४९ ॥ <काच> काचस्तुषारसारश्च रसखोटमलापहः । शृङ्गारी चाभ्रधारी च सर्वनेत्रामयापहा ॥ २,१.३५० ॥ <छगण> पिष्टकं छगणश्छाणमुत्पलं च वनोत्पलम् । करिण्डोपलशाठी च वरटी छगणाभिधा ॥ २,१.३५१ ॥ रसलोहदोषहारि ख्यातं तद्भस्म दुरितसंहृतये । <अङ्गार> शिखित्राः पावकोच्छिष्टा अङ्गाराः कोलिशा मताः ॥ २,१.३५२ ॥ कोकिलाश्चेति चाङ्गारा निर्वाणाः पयसा विना । <सिकता> सिकता प्रवाहजनिता सिक्ता पानीयचूर्णका सूक्ष्मा ॥ २,१.३५३ ॥ सा वालुका श्रमघ्नी संसेकात्सन्निपातघ्नी । <उपरसशोधन> कासीसं भावयेद्घर्मे दिनं जम्बीरजैर्द्रवैः ॥ २,१.३५४ ॥ शुध्यते टङ्कणं गैरी कङ्कुष्ठं च वराटिका । शङ्खं नीलाञ्जनं चैव पृथक्शोध्यं दिने दिने ॥ २,१.३५५ ॥ गोदुग्धैस्त्रिफलाक्वाथैर्भृङ्गद्रावैः शिलाजतु । मर्दयेदायसे पात्रे दिनैकं तच्च शुध्यति ॥ २,१.३५६ ॥ मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चयम् ॥ २,१.३५७ ॥ सूर्यावर्तं वज्रकन्दं कदली देवदालिका । शिग्रुः कोशातकी वन्ध्या काकमाची च वालुका ॥ २,१.३५८ ॥ आसामेकरसेनैव त्रिक्षारैर्लवणैः सह । भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥ २,१.३५९ ॥ सौवीरं कान्तपाषाणः शुद्धा भूनागमृत्तिका । सर्वे उपरसाश्चाथ पृथग्भाव्यं दिनं दिनम् ॥ २,१.३६० ॥ ततः पाच्यं च तद्द्रावैर्डोलायन्त्रे दिनं सुधीः । शुध्यन्ते नात्र सन्देहः सर्वे उपरसाः पृथक् ॥ २,१.३६१ ॥ पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः । अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ २,१.३६२ ॥ वनसूरणभूधात्रीमण्डूकीकरवीरकैः । कारवल्लीक्षीरकन्दरक्तोत्पलशमीघनैः ॥ २,१.३६३ ॥ मेषशृङ्गीशशवसाशक्रवारुणिटङ्कणैः । तैलमत्स्यवसाव्योषद्रवैरेतैः सकाञ्जिकैः ॥ २,१.३६४ ॥ एतैः समस्तैर्व्यस्तैर्वा डोलायन्त्रे दिनत्रयम् । अभ्रपत्राद्युपरसान् शुद्धिहेतोः प्रपाचयेत् ॥ २,१.३६५ ॥ आक्, २, २ श्रीभैरवः । स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे । <गोल्द्:: स्य्नोन्य्म्स्> स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि । गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि ॥ २,२.१ ॥ जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि । कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि ॥ २,२.२ ॥ मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि । आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम ॥ २,२.३ ॥ <स्वर्णभेदाः> प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ॥ २,२.४ ॥ रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् । ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ॥ २,२.५ ॥ तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् । ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत् ॥ २,२.६ ॥ विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् । अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ २,२.७ ॥ एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । धारणादेव तत्कुर्याच्छरीरमजरामयम् ॥ २,२.८ ॥ गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतम् । तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ २,२.९ ॥ रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् । रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥ २,२.१० ॥ रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् । <ग्राह्याग्राह्यस्वर्णरूप> दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥ २,२.११ ॥ गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकम् । हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥ २,२.१२ ॥ श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् । दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत् ॥ २,२.१३ ॥ न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च । सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते ॥ २,२.१४ ॥ <स्वर्णशुद्धि> वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु । इत्येते मृत्तिकाः पञ्च जम्बीरैर्वारनालकैः ॥ २,२.१५ ॥ पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे । यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति ॥ २,२.१६ ॥ मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभाविताम् । सभस्मलवणं हेम शोधयेत्पुटपाकतः ॥ २,२.१७ ॥ भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकाम् । सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत् ॥ २,२.१८ ॥ तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके । क्रमान्निषेचयेत्तप्तं सप्तवारं द्रवैर्द्रवैः ॥ २,२.१९ ॥ स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते । द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये ॥ २,२.२० ॥ सुवर्णं ढालयेत्पूर्वं काञ्चनारोद्भवे रसे । सप्तवारं ततः कर्मयोग्यं हेम भवेद्ध्रुवम् ॥ २,२.२१ ॥ <स्वर्णभस्म (१)> नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितम् । लेपनात्पुटयोगाच्च हेमपत्राणि लेपयेत् ॥ २,२.२२ ॥ मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् । पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ २,२.२३ ॥ आदाय पेषयेदम्ले मृतनागं चाष्टमांशकम् । पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतम् ॥ २,२.२४ ॥ एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवम् । <स्वर्णभस्म (२)> शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः ॥ २,२.२५ ॥ अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया । <स्वर्णभस्म (३)> शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ २,२.२६ ॥ ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च । त्रिंशद्वनोत्पलैर्दद्यात्पुटानेवं चतुर्दश ॥ २,२.२७ ॥ निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः । <स्वर्णभस्म (४)> स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकम् ॥ २,२.२८ ॥ क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके । अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ २,२.२९ ॥ गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः । <रसादिभिः स्वर्णमारणम्> हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना ॥ २,२.३० ॥ अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् । अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मताम् ॥ २,२.३१ ॥ यद्वा मृतेन करिणा शिलायोगेन भस्मयेत् । अथवा मृतवज्रेण योगिन्यंशविलेपितम् ॥ २,२.३२ ॥ भस्मतां यात्युपरसै रसैश्चैव महारसैः । अम्लपिष्टैर्विलिप्तं च पुटितं याति भस्मताम् ॥ २,२.३३ ॥ <स्वर्णमारण (५)> स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् । आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकम् ॥ २,२.३४ ॥ तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकम् । देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समम् ॥ २,२.३५ ॥ सर्वं च चूर्णितं दद्याद्रुद्ध्वा मूषां धमेद्दृढम् । स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकम् ॥ २,२.३६ ॥ टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् । त्रितयं मधुनाज्येन मेलकं गोलकीकृतम् ॥ २,२.३७ ॥ धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् । निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ॥ २,२.३८ ॥ निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् । <स्वर्णमारण (६)> हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ २,२.३९ ॥ पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवम् । शुद्धानां सर्वलोहानां मारणे रीतिरीदृशी ॥ २,२.४० ॥ <स्वर्णमारण (७)> शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकम् । द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ २,२.४१ ॥ भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् । तद्गोलं पातनायन्त्रे हठाद्यामत्रयं पचेत् ॥ २,२.४२ ॥ इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः । <स्वर्णमारण (८)> यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च ॥ २,२.४३ ॥ लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् । तैर्द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः ॥ २,२.४४ ॥ पीलुकङ्कुष्ठबुक्काणसौवर्चलमपेषितम् । लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः ॥ २,२.४५ ॥ <स्वर्णस्य गुणाः> सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः । विषदोषहरं शीतं सकषायं सतिक्तकम् ॥ २,२.४६ ॥ हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनम् । बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदम् ॥ २,२.४७ ॥ क्षयोन्मादप्रशमनं चक्षुष्यं च रसायनम् । त्रिदोषशमनं सौम्यमायुष्यं रुचिरं शुचि ॥ २,२.४८ ॥ प्रज्ञावीर्यस्वरकरमैश्वर्यं धारणाद्भवेत् ॥ २,२.४९ ॥ आक्, २, ३ श्रीभैरवः । <सिल्वेर्:: स्य्नोन्य्म्स्> रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् । रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम् ॥ २,३.१ ॥ कलधौतं च सौधं च चन्द्रहासं च तारकम् । <रजतभेदाः> सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ॥ २,३.२ ॥ रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् । कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् ॥ २,३.३ ॥ तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् । हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत् ॥ २,३.४ ॥ खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् । श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ॥ २,३.५ ॥ तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् । <ग्राह्याग्राह्यरजतस्वरूपम्> घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु ॥ २,३.६ ॥ वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् । शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ २,३.७ ॥ दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु । स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥ २,३.८ ॥ कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् । दाहे छेदे घने नष्टं मध्यमं रजतं मतम् ॥ २,३.९ ॥ करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् । न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत् ॥ २,३.१० ॥ <रजतशुद्धि> नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥ २,३.११ ॥ तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिमाप्नुयात् । पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात् ॥ २,३.१२ ॥ रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् । श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान् ॥ २,३.१३ ॥ <रजतभस्म (१, २, ३)> कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् । तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः ॥ २,३.१४ ॥ म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना । अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः ॥ २,३.१५ ॥ म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् । तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत् ॥ २,३.१६ ॥ म्रियते गन्धयोगाद्यैर्वैष्णवेन विपद्यते । <रजतभस्म (४)> स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत् ॥ २,३.१७ ॥ रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः । चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत् ॥ २,३.१८ ॥ <रजतभस्म (५)> भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः । लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत् ॥ २,३.१९ ॥ द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः । <रजतभस्म (६)> लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ॥ २,३.२० ॥ रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च । स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना ॥ २,३.२१ ॥ स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् । पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥ २,३.२२ ॥ <रजतभस्म (७)> माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः । त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते ॥ २,३.२३ ॥ रागः स्यात्सर्वलोहानां पुटाधिक्ये न संशयः । <रजतभस्म (८)> तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम् ॥ २,३.२४ ॥ मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् । शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत् ॥ २,३.२५ ॥ चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् । <रजतभस्म (९)> रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम् ॥ २,३.२६ ॥ अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः । रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः ॥ २,३.२७ ॥ म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः । <रजतभस्म (१०)> रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम् ॥ २,३.२८ ॥ मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः । हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ २,३.२९ ॥ क्षिप्त्वा दिनैकविंशच्च तद्गर्भादुद्धरेत्पुनः । तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित् ॥ २,३.३० ॥ पुटैर्विंशतिभिर्भस्म जायते नात्र संशयः । भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम् ॥ २,३.३१ ॥ जायते तं मृतं विद्याद्भस्म हाटकतारयोः । <रजतस्य गुणाः> रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम् ॥ २,३.३२ ॥ वयसः स्थापनं शीतं लेखनं वातपित्तजित् । वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम् ॥ २,३.३३ ॥ आक्, २, ४ श्रीभैरवः । <ताम्र> ताम्रं म्लेच्छमुखं शुल्बं तपनेष्टमुदुम्बरम् । त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् ॥ २,४.१ ॥ रक्तं नैपालकं चैव रक्तधातुः करेन्दुधा । म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ॥ २,४.२ ॥ नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते । सुस्निग्धं मृदुलं शोणं घनघातक्षयं गुरु ॥ २,४.३ ॥ निर्विकारं गुरु श्रेष्ठं ताम्रं नेपालमुच्यते । सितकृष्णारुणच्छायं वामभेदि कठोरकम् ॥ २,४.४ ॥ क्षालितं च पुनः कृष्णमेतन्म्लेच्छकताम्रकम् । पाण्डुरं कृष्णशोणं च लघु स्फुटनसंयुतम् ॥ २,४.५ ॥ रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि । उत्क्लेदमोहभ्रमदाहभेदाः ताम्रस्य दोषाः खलु दुर्धरास्ते । विशोधनात्तद्विगतस्वदोषं सुधासमं स्याद्रसवीर्यपाके ॥ २,४.६ ॥ वान्तिमूर्च्छाभ्रमोन्मादनानारुक्कुष्ठशूलकृत् ॥ २,४.७ ॥ आयुःकान्तिबलभ्रंशकरं धातुप्रदूषणम् । नु शुद्धं न मृतं ताम्रं तेन संशोध्य मारयेत् ॥ २,४.८ ॥ <ताम्रशुद्धि> ताम्रं क्षाराम्लसंयुक्तं द्रावितं तप्तगैरिकम् । निक्षिप्तं महिषीतक्रछगणे सप्तवारकम् ॥ २,४.९ ॥ पञ्चदोषविनिर्मुक्तं सप्तवारेण जायते । ताम्रनिर्दलपत्त्राणि लिप्त्वा निम्बवसिन्धुना ॥ २,४.१० ॥ ध्मात्वा सौवीरके क्षेपाद्विशुध्यत्यष्टवारतः । निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ २,४.११ ॥ विशुध्यन्त्यर्कपत्राणि निर्गुण्डीरसमर्दनात् । कुमारीपत्रमध्ये तु शुल्वपत्रं निवेशितम् ॥ २,४.१२ ॥ पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते । इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ॥ २,४.१३ ॥ भवेद्रसायनकरं देहलोहकरं परम् । इमां शुद्धिं विजानीयाच्छिवो वा नन्दिकेश्वरः ॥ २,४.१४ ॥ बलिना निहतं ताम्रं सप्तवारं समुत्थितम् । सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥ २,४.१५ ॥ स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकम् । लिप्त्वा प्रताप्य निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥ २,४.१६ ॥ वारान् द्वादशतः शुद्धं लेपात्तापाच्च सेचनात् । खटिकां लवणं तक्रैरारनालैश्च पेषयेत् ॥ २,४.१७ ॥ तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् । षड्वारमम्लतक्रान्तर्निर्गुण्ड्याश्च विशुद्धये ॥ २,४.१८ ॥ तप्तानि ताम्रपत्राणि सेचयेत्तिक्तकारसैः । लिप्त्वाम्लतक्रलवणकाञ्जिकेन पुनः पुनः ॥ २,४.१९ ॥ तप्तं तप्तं त्रिधा सिञ्च्याच्छुद्धिमायाति निश्चयम् । गोमूत्रेण पचेद्यामं ताम्रपात्रं दृढाग्निना ॥ २,४.२० ॥ शुध्यते नात्र सन्देहो मारणं चाप्यथोच्यते । <ताम्रभस्म (१)> गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ॥ २,४.२१ ॥ कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् । उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥ २,४.२२ ॥ जम्बीरैरारनालैर्वा मृगदूर्वाथवा द्रवैः । पिष्ट्वा पिष्ट्वा पचेद्रुद्धं सगन्धं च चतुष्पुटैः ॥ २,४.२३ ॥ मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् । सितशर्करयाप्येकं पुटं देयं मृतं भवेत् ॥ २,४.२४ ॥ <ताम्रभस्म (२)> पाषाणभेदिमत्स्याक्षीद्रवैर्द्विगुणगन्धकम् । ताम्रस्य लेपयेत्पिष्टिं रुद्ध्वा गजपुटे पचेत् ॥ २,४.२५ ॥ समांशेन पुनर्गन्धं दत्त्वा द्रावैश्च लोलयेत् । एवं सप्तपुटैः पक्वं ताम्रभस्म भवेद्ध्रुवम् ॥ २,४.२६ ॥ <ताम्रभस्म (३)> ताम्रस्य त्रिगुणं सूतं जम्बीराम्लेन मर्दयेत् । आदौ मूषान्तरे क्षिप्त्वा धुत्तूरस्य तु पत्रकम् ॥ २,४.२७ ॥ तत्पृष्ठे ताम्रतुल्यं च गन्धकं चूर्णितं क्षिपेत् । तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं च गन्धकम् ॥ २,४.२८ ॥ आच्छाद्य धूर्तपत्रैस्तु रुद्ध्वा गजपुटे पचेत् । स्वाङ्गशीतं ततश्चूर्णं मृतं भवति निश्चितम् ॥ २,४.२९ ॥ <ताम्रभस्म (४)> किंचिद्गन्धेन वाम्लेन क्षालयेत्ताम्रपत्रकम् । ताम्रपादेन सूतेन सार्द्रं पत्रं प्रलेपयेत् ॥ २,४.३० ॥ ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः । लिप्त्वा ह्यधोर्ध्वगं देया सुपिष्टा चाम्लपर्णिका ॥ २,४.३१ ॥ तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्ल्यां विपाचयेत् । यामैकं ताम्रपाकेन भस्मीभवति निश्चितम् ॥ २,४.३२ ॥ <ताम्रभस्म (५)> सूतमेकं द्विधा गन्धं यामं कन्या विमर्दयेत् । द्वयोस्तुल्ये ताम्रपत्रे स्थाल्या गर्भे निरोधयेत् ॥ २,४.३३ ॥ सम्यङ्मृल्लवणैः सन्धिं पार्श्वे भस्म निधापयेत् । चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ २,४.३४ ॥ जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् । म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ २,४.३५ ॥ <ताम्रभस्म (६)> जीर्णं ताम्रं समादाय तत्र चैतान्विनिक्षिपेत् । वङ्गं घोषं गजं तीक्ष्णसारं कान्तं च षट्समान् ॥ २,४.३६ ॥ प्रत्येकं ताम्रमानेन सर्वानेकत्र धामयेत् । वङ्कनालेन तावत्तद्यावदर्कोऽवशिष्यते ॥ २,४.३७ ॥ तमर्कं ढालयेत्पूर्वं निर्गुण्डीसलिलान्तरे । सप्तवारांश्च तन्मूलचूर्णमर्के प्रवापयेत् ॥ २,४.३८ ॥ तेन ताम्रेण कुर्वीत वटिकामव्रणां शुभाम् । द्विगुणं गन्धकं लिप्त्वा बलेस्त्र्यंशं च पारदम् ॥ २,४.३९ ॥ शुद्धं हिङ्गुलजं वापि मर्दयेद्बीजपूरकैः । जम्बीरजैर्वा लिकुचनीरैः सम्यक्प्रमर्दयेत् ॥ २,४.४० ॥ त्रिदिनं तद्विशोष्याथ भाण्डान्तस्तन्निवेशयेत् । उपरिष्टात्ताम्रघटीमधोवक्त्रां निधाय च ॥ २,४.४१ ॥ दृढं विलेपयेत्पश्चात्कटोरीं मृण्मयीं क्षिपेत् । अतिप्रयत्नाल्लिम्पेत्तां यथा वारा न भिद्यते ॥ २,४.४२ ॥ अधिचुल्लि ततो दत्त्वा पूरयित्वा जलैरधः । प्रज्वालयेद्वीतिहोत्रं मृदुमध्योत्तमक्रमात् ॥ २,४.४३ ॥ दिनानि षट्समादाय स्वाङ्गशीतं तु पात्रकम् । निर्भिद्य शुल्वं गृह्णीत मृतं सूतेन यत्नतः ॥ २,४.४४ ॥ ततः खल्वे विचूर्ण्यैतद्यथेष्टं विनियोजयेत् । <ताम्रभस्मशुद्धिः> नानाविधं मृतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ॥ २,४.४५ ॥ भागैकं श्वेतकाचं च भागं श्वेतं च टङ्कणम् । मूषायां मिश्रितं क्षिप्त्वा भागैकं चाभ्रपत्रकम् ॥ २,४.४६ ॥ ऊर्ध्वं दत्त्वा निरुध्याथ ध्माते ग्राह्यं सुशीतलम् । निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ॥ २,४.४७ ॥ अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् । तद्गोलं सूरणस्यान्तः रुद्ध्वा सर्वत्र लेपयेत् ॥ २,४.४८ ॥ शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् । वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥ २,४.४९ ॥ <ताम्रभस्म (७)> विलिप्य लिकुचद्रावपिष्टगन्धाश्मपङ्कतः । ताम्रपत्राणि संछाद्य स्थालीमध्ये निरुध्य च ॥ २,४.५० ॥ याममात्रं पचेत्सम्यक्शीतान्याकृष्य चूर्णयेत् । तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ २,४.५१ ॥ भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः । ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम् ॥ २,४.५२ ॥ विषं गरं च वेगेन वामयत्येव निश्चितम् । पथ्यमत्र प्रदातव्यं गव्यं तक्रं च भक्तकम् ॥ २,४.५३ ॥ अतिरेकेऽतिवान्तौ च समोहे चातिमात्रके । तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ २,४.५४ ॥ अतिवान्तौ भजेद्भ्रष्टमिक्षुदण्डं सुशीतलम् । यद्वा बिल्वभवं क्वाथं सितया सह पाचयेत् ॥ २,४.५५ ॥ बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतः । <ताम्रभस्म (८)> शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ २,४.५६ ॥ तदर्धांशेन तालेन शिलया च तदर्धया । विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ २,४.५७ ॥ यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे । कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ॥ २,४.५८ ॥ प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं विचूर्णयेत् । तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् । गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं सर्वामयध्वंसनम् ॥ २,४.५९ ॥ ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं कोष्णं पित्तकफापहं जठररुक्कुष्ठामजूर्त्यन्तकृत् । ऊर्ध्वाधःपरिशोधनं च विषहृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ २,४.६० ॥ आक्, २, ५ श्रीभैरवः । <लोहोत्पत्तिः> कान्तायस्तीक्ष्णमुण्डाख्यलोहोत्पत्तिरथोच्यते । देवासुरसमूहेन मथ्यमाने महोदधौ ॥ २,५.१ ॥ समुत्पन्नं पुरा तस्मिन्नमृतं देवजीवनम् । पीयमानात्सुरैस्तस्मान्निपेतुः क्षुद्रबिन्दवः ॥ २,५.२ ॥ ज्ञात्वा तान् भूगतान् यन्ता गोपयामास धूर्जटिः । लोहपाषाणरूपेण कृत्वा तान्वसुधातले ॥ २,५.३ ॥ पापरोगाभिभूता ये मानवा न भजन्त्वमून् । इत्येवं शिवगुप्ता ये सुधाया बिन्दवः पुरा ॥ २,५.४ ॥ तेषां मया समासेन कथ्यते साधनं स्फुटम् । कुष्ठादिरोगनाशार्थं यथाबुद्ध्यनुसारतः ॥ २,५.५ ॥ <इरोन्:: सुब्त्य्पेस्> कान्तायस्तीक्ष्णमुण्डाख्यं लोहमेवमपि त्रिधा । रसायनेभ्यः सर्वेभ्यो विद्याच्छतगुणाधिकम् ॥ २,५.६ ॥ <कान्तलोह:: स्य्नोन्य्म्स्> अयस्कान्तं कान्तलोहं कान्तं स्यात्कृष्णलोहकम् । कान्तायसं महालोहं काललोहं च सप्तधा ॥ २,५.७ ॥ <अशुद्धकान्तलोहसेवनजा दोषाः> हृत्पीडां वह्निदौर्बल्यं महारोगान्मृतिं तथा । करोति सेवनाल्लोहमशोधितममारितम् ॥ २,५.८ ॥ <कान्तग्रहणविधिः> तस्मात्कान्तस्य संशुद्धिर्मारणं च विधीयते । मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ॥ २,५.९ ॥ क्षेत्रं ज्ञात्वा गृहीतव्यं तत्प्रयत्नेन भूयसा । मारुतातपनिक्षिप्तं वर्जयेत्सुरसुन्दरि ॥ २,५.१० ॥ भूमिस्थितं च यत्कान्तं छागरक्तेन भावयेत् । छागरक्तप्रलिप्तेन चर्मणा तत्प्रवेष्टयेत् ॥ २,५.११ ॥ छागचर्म परीवेष्ट्य विन्यसेत्पूर्ववत्क्षितौ । उद्धृतं सप्तभिर्मासैस्तोयकुम्भे विनिक्षिपेत् ॥ २,५.१२ ॥ रक्तपुष्पैः सदा पूज्यं रक्तगन्धानुलेपनैः । पूरितं मद्यमांसैश्च योज्यं रसरसायने ॥ २,५.१३ ॥ संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् । अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥ २,५.१४ ॥ कान्तलोहं विना सूतो देहे न क्रामति क्वचित् । न कान्तेन विना सूतः कान्तः सूतविवर्जितः ॥ २,५.१५ ॥ कान्तसूतसमायुक्तः प्रयोगो देहधारकः । पुरा प्रोक्तं मया सर्वं कान्तसत्वं यथाविधि ॥ २,५.१६ ॥ अधुना सम्प्रवक्ष्यामि कान्तसंस्कारतद्गुणान् । <कान्तलोह:: शोधन:: नैसर्गिक> शशरक्तेन संलिप्तं कान्तपत्रं सुधामितम् ॥ २,५.१७ ॥ त्रिवारं चाग्निना देवि दोषं नैसर्गिकं त्यजेत् । <कान्तलोह:: शोधन:: अद्रि> त्रिफलाष्टगुणे तोये त्रिफला षोडशं पलम् ॥ २,५.१८ ॥ तत्क्वाथपादशेषं च कान्तस्य पलपञ्चकम् । कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ॥ २,५.१९ ॥ एव प्रलीयते दोषो गिरिजो लोहसंभवः । कान्तलोहमयं चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥ २,५.२० ॥ धान्याम्लैः क्षालितं भूयः शोषितं शुद्धिमाप्नुयात् । रत्नमाला हंसपादी गोजिह्वा त्रिफलामृता ॥ २,५.२१ ॥ गोपाली तुम्बुरुर्दन्ती गोमूत्रे पेषयेदिमाः । तत्कल्के कान्तपत्रं तु तप्तं तप्तं द्विसप्तधा ॥ २,५.२२ ॥ सेचयेत्कान्तलोहं तु सर्वदोषनिवृत्तये । <कान्तसिद्धिक्रमः> क्रमः कान्तस्य सिद्ध्यर्थं कर्तव्यो मन्त्रपूर्वकम् ॥ २,५.२३ ॥ उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तोऽमृतात्परम् । स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥ २,५.२४ ॥ रक्षायै लोहरसयोरयमेवैकमुद्भवम् । विना स्वाहेति तस्यान्ते फडन्तं योजयेत्प्रिये ॥ २,५.२५ ॥ प्रणवोर्ध्वं नमश्चण्डं वज्रपाषाण इत्यपि । ततः परं महावज्रसेनाधिपतये नमः ॥ २,५.२६ ॥ द्विरुक्तसरुशब्दः स्यान्महाविद्याबलाय च । ततस्त्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥ २,५.२७ ॥ अनेनैव बलिं कृत्वा यथोक्तामाचरेत्क्रियाम् । <लोहभस्मविधिः (१)> स्तन्येन हिङ्गुलस्याथ पेषयेत्पलपञ्चकम् ॥ २,५.२८ ॥ तेनैव पत्रं कान्तस्य लिम्पेत्पञ्चपलोन्मितम् । रुद्ध्वा गजपुटे पाच्यं कषायैस्त्रैफलैः पुनः ॥ २,५.२९ ॥ जम्बीरैरारनलैर्वा विंशत्यंशेन हिङ्गुलम् । पिष्ट्वालिप्य पुटे रुद्ध्वा तल्लोहे पाचयेत्पुनः ॥ २,५.३० ॥ रुद्धं पुटेत्पचेद्रात्रौ प्रातर्द्रावैश्च भावयेत् । एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ॥ २,५.३१ ॥ <लोहभस्मविधिः (२)> चिञ्चापत्रनिभं कुर्यात्कान्तं तीक्ष्णं च मुण्डकम् । मृत्पात्रस्थं क्षिपेद्घर्मे दन्तीद्रावैः प्रपूरयेत् ॥ २,५.३२ ॥ पत्रं पुनः पुनस्तावद्यावत्तरति तत्स्वयम् । म्रियते तीव्रघर्मेण तच्चूर्णीकृत्य योजयेत् ॥ २,५.३३ ॥ <लोहभस्मविधिः (३)> कान्तायस्तीक्ष्णमुण्डानां चूर्णं मत्स्याक्षिजैर्द्रवैः । आतपे त्रिदिनं भाव्यं त्रिदिनं चित्रकद्रवैः ॥ २,५.३४ ॥ त्र्यहं त्रिकण्टकरसैः सहदेवीद्रवैर्दिनम् । गोमूत्रैस्त्रिफलाक्वाथैर्भावयेच्च त्र्यहं त्र्यहम् ॥ २,५.३५ ॥ उक्तद्रावैस्ततो मर्द्यं क्रमाद्देयं पुटं पुटम् । रुद्ध्वा गजपुटैरेवं मृतं योगेषु योजयेत् ॥ २,५.३६ ॥ <लोहभस्मविधिः (४)> स्थाल्यां वा लोहपात्रे वा लोहदर्व्या विचालयन् । पाचयेत्त्रिफलाक्वाथैर्दिनं लोहचूर्णकम् ॥ २,५.३७ ॥ तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् । षोडशाङ्गुलगर्तान्तर्निर्वातेऽहर्निशं पचेत् ॥ २,५.३८ ॥ एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तकम् । भृङ्गार्द्रकं तालमूलं हस्तिकर्ण्याश्च मूलकम् ॥ २,५.३९ ॥ शतावरीविदार्योश्च मूलं तत्त्रिफलाम्भसि । संपेष्य पूर्ववत्स्थाल्यां पाच्यं पेष्यं त्रिधा पुटैः ॥ २,५.४० ॥ पाच्यं ततः पुनर्नव्याः क्वाथैश्च दशमूलतः । बृहत्याश्च कषायेण बीजपूरस्य च द्रवैः ॥ २,५.४१ ॥ ब्रह्मबीजरसैः शिग्रुक्वाथैर्गोपयसापि च । प्रत्येकं संप्रपेष्यादौ पूर्वगर्ते पुटे पचेत् ॥ २,५.४२ ॥ भावयेत्तद्द्रवेणैव पुटान्ते याममात्रकम् । प्रत्येकमेवं संपेष्य पुटयेद्भावयेत्क्रमात् ॥ २,५.४३ ॥ म्रियते नात्र सन्देहः कान्तं तीक्ष्णं च मुण्डकम् । <लोहभस्मविधिः (५)> शुद्धसूतं द्विधा गन्धं खल्वे कृत्वा तु कज्जलीम् ॥ २,५.४४ ॥ द्वयोः समं कान्तचूर्णं मर्दयेत्कन्यकाद्रवैः । यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ॥ २,५.४५ ॥ आच्छाद्यैरण्डपत्रैश्च यामार्धेऽत्युष्णतां गतम् । धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ॥ २,५.४६ ॥ संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् । कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते मृतम् ॥ २,५.४७ ॥ स्वर्णादीन्मारयेदेवं चूर्णीकुर्याच्च लोहवत् । सिद्धयोगमथाख्यातं सिद्धानां संमुखागतम् ॥ २,५.४८ ॥ अनुभूतं मया देवि सर्वरोगापहारकम् । नायः पचेत्पञ्चपलप्रमाणादधो न चोर्ध्वं त्रिदशप्रमाणात् ॥ २,५.४९ ॥ <लोहभस्मविधिः (६)> अर्जुनस्य त्वचः पेष्याः काञ्जिकेनातिलोलिताः । तन्मध्ये कान्तचूर्णं च कांस्यपात्रे विनिक्षिपेत् ॥ २,५.५० ॥ दिनैकं धारयेद्घर्मे द्रवैः पूर्यं पुनः पुनः । अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ॥ २,५.५१ ॥ द्रवैः कुक्कुटपत्रोत्थैः कान्तचूर्णं विमर्दयेत् । दिनं च ह्यातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टजैः ॥ २,५.५२ ॥ वन्ध्याभृङ्गपुनर्नव्याः सगोमूत्रैर्दिनं पुनः । गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ॥ २,५.५३ ॥ त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः । रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् ॥ २,५.५४ ॥ दिवा मर्द्यं पुटेद्रात्रावेकविंशद्दिनावधि । एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥ २,५.५५ ॥ <लोहभस्मविधिः (८)> माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचाङ्घ्रि च । पिष्ट्वा लेप्यं कान्तपत्रं तप्तं तप्तं निषेचयेत् ॥ २,५.५६ ॥ सप्तधा त्रैफले क्वाथे जलेन क्षालयेत्पुनः । कुट्टयेल्लोहदण्डेन पेषयेत्त्रैफले जले ॥ २,५.५७ ॥ षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला । अम्लेन मर्दितं रुद्ध्वा गजाख्यैकपुटे पचेत् ॥ २,५.५८ ॥ निरुत्थं जायते भस्म कान्तं तीक्ष्णं च मुण्डकम् । <लोहभस्मविधिः (९)> तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ॥ २,५.५९ ॥ धारयेत्कांस्यपात्रान्तर्दिनैकेन स्फुटत्यलम् । लेपं पुनः पुनः कुर्याद्दिनान्ते तं प्रपेषयेत् ॥ २,५.६० ॥ त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतो भवेत् । तोयाष्टभागशेषेण त्रिफला पलपञ्चकम् ॥ २,५.६१ ॥ घृतं क्वाथस्य तुल्यं स्याद्घृततुल्यं मृतायसम् । पाचयेत्ताम्रपात्रे तु लोहदर्व्या विचालयन् ॥ २,५.६२ ॥ मृद्वग्निना पचेद्यावत्तावज्जीर्यति तद्द्रवम् । लोहतुल्या सिता योज्या सुपक्वामवतारयेत् ॥ २,५.६३ ॥ योगवाहमिदं ख्यातं मृतलोहं महामृतम् । इत्थं कान्तस्य तीक्ष्णस्य मुण्डस्यापि ह्ययं विधिः ॥ २,५.६४ ॥ घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् । जीर्णे घृते समादाय सर्वयोगेषु योजयेत् ॥ २,५.६५ ॥ ओमोममृतेन्द्र भक्षयामि नमः । पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेथिङ्गुर्गन्धं विसृजति निजां तिक्ततां निम्बकल्कः । पाके दुग्धं भवति शिखराकारता नैव भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ २,५.६६ ॥ <लोहपाकस्वरूपम्> लोहपाकस्त्रिधा प्रोक्तो मृदुमध्यखरात्मकः । पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ॥ २,५.६७ ॥ तृतीयः खरपाकः स्याद्वालुकासदृशः प्रिये । <निरुत्थभस्मपरीक्षा> पाकं वर्णं तथा गन्धं ज्ञात्वा लोहस्य वह्नितः ॥ २,५.६८ ॥ उत्तार्याथ ततः शुद्धं लोहपात्रान्तरे न्यसेत् । लोहमातङ्गपञ्चास्या गन्धमाक्षीकहिङ्गुलाः ॥ २,५.६९ ॥ <लोह:: छेच्किन्ग्थे वारितर स्तते> सर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हितम् ॥ २,५.७० ॥ मध्वाज्येन समायुक्तं लोहं तारेण संयुतम् । अन्धमूषागतं ध्मातं गृह्णीयात्स्वाङ्गशीतलम् ॥ २,५.७१ ॥ लोहमध्यगतं तारं पूर्वमानं भवेद्यदि । तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ २,५.७२ ॥ गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ २,५.७३ ॥ इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः । <कान्तादिभस्मगुणाः> कान्तसिन्दूरमायुष्यमारोग्यं बलवीर्यदम् ॥ २,५.७४ ॥ देहदार्ढ्यकरं श्रेष्ठं कुर्यादिन्द्रियपाटवम् । त्रिदोषशमनं राजयक्ष्मरोगविनाशनम् ॥ २,५.७५ ॥ ज्वरासृक्पित्तपाण्ड्वादीन् हन्यादष्टमहागदान् । यद्यद्रोगहरैर्योगैस्तत्तद्रोगहरं भवेत् ॥ २,५.७६ ॥ <तीक्ष्णलोह:: स्य्नोन्य्म्स्> तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् ॥ २,५.७७ ॥ अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा । <मुण्डलोह:: स्य्नोन्य्म्स्> मुण्डं मुण्डायसं लोहं कृष्णलौहं शिलोद्भवम् ॥ २,५.७८ ॥ <तीक्ष्ण-, मुण्डलोह:: मारण> कान्तलोहप्रकारेण मारणं तीक्ष्णमुण्डयोः । <तीक्ष्णलोह:: मेदिच्. प्रोपेर्तिएस्> तीक्ष्णलोहं कषायाम्लं तिक्तकं कटुकं लघु ॥ २,५.७९ ॥ शीतलं लेखनं रूक्षं कफपित्तास्रपाण्डुजित् । प्रमेहसर्वशूलघ्नं तीक्ष्णं मुण्डाधिकं गुणैः ॥ २,५.८० ॥ <मुण्ड:: मेदिच्. प्रोपेर्तिएस्> चक्षुष्यं मुण्डलोहं तु कषायं स्वादु तिक्तकम् । लेखनं वातहृच्छीतं कृमिपित्तकफप्रणुत् ॥ २,५.८१ ॥ श्वयथूदरशूलार्शःकुष्ठपाण्डुप्रमेहजित् ॥ २,५.८२ ॥ आक्, २, ६ श्रीभैरवः । <तिन्:: सुब्त्य्पेस्> खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । खुरं तत्र गुणैः श्रेष्ठं गुणहीनं तु मिश्रकम् ॥ २,६.१ ॥ <खुर:: फ्य्स्. प्रोपेर्तिएस्> धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् । <मिश्रक:: फ्य्स्. प्रोपेर्तिएस्> निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ २,६.२ ॥ <तिन्:: स्य्नोन्य्म्स्> त्रपु त्रपुसमारूपं वङ्गं च कुटिलं हिमम् । कुरूप्यं विच्चटं रङ्गं पूतिगन्धं रसाह्वयम् ॥ २,६.३ ॥ <तिन्:: परीक्षा:: गोओदॄउअलित्य्> स्वच्छमुष्णासहं शीतं सूक्ष्मपत्रकरं लघु । रुङ्नाशे रूप्यकरणे तद्वङ्गं श्रेष्ठमुच्यते ॥ २,६.४ ॥ <वङ्गशुद्धि (१)> द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसैः । विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ २,६.५ ॥ अम्लतक्रविनिपिष्टवर्षाभूवृषसिन्धुभिः । कट्वलाबुगतं वङ्गं द्वितयं परिशुध्यति ॥ २,६.६ ॥ सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ । बोधिचिञ्चात्वचः क्षारैर्दद्याल्लघुपुटानि च ॥ २,६.७ ॥ मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् । <वङ्गशुद्धि (२)> नागवच्छोधयेद्वङ्गं तद्वदश्वत्थचिञ्चयोः ॥ २,६.८ ॥ तद्भस्म हरितालं च तुल्यमम्लेन मर्दयेत् । पलाशोत्थद्रवैर्वाथ लोलयित्वान्ध्रयेत्पुटे ॥ २,६.९ ॥ उद्धृत्य दशमांशेन तालेन सह मर्दयेत् । <वङ्गशुद्धि (३)> पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ॥ २,६.१० ॥ एकविंशत्पुटैर्वङ्गो मृतो भवति रोगहा । शिरीषरजनीचूर्णैः कुमार्या युतगोलकम् ॥ २,६.११ ॥ सूतलिप्तं वङ्गपत्रं गोलकं सममर्दितम् । रुद्ध्वा लघुपुटैः पक्वं मृतं स्यात्पूर्वसंख्यया ॥ २,६.१२ ॥ अक्षभल्लातकीतोयैः पिष्ट्वा पत्राणि लेपयेत् । ततस्तिलखरीमध्ये क्षिप्त्वा रुद्ध्वा पुटैः पचेत् ॥ २,६.१३ ॥ चत्वारिंशद्गजपुटैर्वङ्गकं भस्म जायते । <वङ्गगुणाः> वङ्गं तीक्ष्णोष्णकटुकमीषद्वातप्रकोपनम् ॥ २,६.१४ ॥ मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् । हिमं कषायलवणं पाण्डुदाहहरं सरम् ॥ २,६.१५ ॥ लेखनं पित्तलं किंचित्त्रपु सीसं च तद्गुणम् । <सीसक> सीसकं तु जडं शीतं यवनेष्टं भुजङ्गमम् ॥ २,६.१६ ॥ योगीष्टं नागमुरगं कुवङ्गं परिपिष्टकम् । मृदु कृष्णायसं पक्ष्मतारशुद्धिकरं स्मृतम् ॥ २,६.१७ ॥ सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश । सीसं तु वङ्गसाम्यं स्याद्रसवीर्यविपाकतः ॥ २,६.१८ ॥ <अशुद्धवङ्गनागसेवने दोषाः> पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ । मेहपाण्डुज्वरश्लेष्मवातपित्तप्रदौ स्मृतौ ॥ २,६.१९ ॥ द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥ २,६.२० ॥ निर्गुण्डीमूलचूर्णेन सार्कदुग्धेन लेपयेत् । नागपत्रं ततः शुष्कं द्रावयित्वा निषेचयेत् ॥ २,६.२१ ॥ लिप्त्वा द्राव्यं पुनः सेच्यं सप्तवारं विशुद्धये । निशातुम्बुरुबीजानि कोकिलाक्षीकुबेरकम् ॥ २,६.२२ ॥ गौरीफलं मल्लिका च मोक्षो ब्रह्मा मयूरकम् । यथालाभं तु भस्मैषां वज्रीक्षीरेण भावयेत् ॥ २,६.२३ ॥ तन्मध्ये द्रावितं नागं शुद्धं सेच्यं तु सप्तधा । महिषस्यास्थिचूर्णेन सुपाकं मूत्रसेचनात् ॥ २,६.२४ ॥ वङ्गं शुद्धं भवेत्तद्वन्नागो नागास्थिमूत्रतः । <नागभस्म (१)> अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ॥ २,६.२५ ॥ क्षिप्त्वा चुल्ल्यां पचेदग्नौ चालयेल्लोहचट्टुना । यावद्भस्म तमुद्धृत्य भस्मतुल्यां मनःशिलाम् ॥ २,६.२६ ॥ जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् । स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशे शिलाम्लके ॥ २,६.२७ ॥ एवं षष्टिपुटैः पक्त्वा नागः स्यात्तु निरुत्थितः । <नागभस्म (२)> अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ॥ २,६.२८ ॥ अल्पाग्नौ पाचयेद्यामं भस्म तच्चित्रकद्रवैः । भर्जयेल्लोहपात्रे तत्पार्थदण्डेन चालयन् ॥ २,६.२९ ॥ यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः । दण्डेन मर्दयेद्गाढमुद्धृतं चित्रकदवैः ॥ २,६.३० ॥ लोलयित्वा निरुध्याथ षट्पुटैर्म्रियते लघु । <नागभस्म (३)> चिञ्चाक्षमिक्षुभल्लातवाशावज्रलताभवैः ॥ २,६.३१ ॥ अपामार्गार्जुनाश्वत्थसमुद्भूतैश्च भस्मभिः । दृढं पालाशदण्डेन लोहपात्रे तु भर्जयेत् ॥ २,६.३२ ॥ सप्तभिर्दिवसैरेव म्रियते नात्र संशय । <नागभस्म (४)> पिष्ट्वागस्त्यं च भूनागं लिप्त्वा भाण्डं विशोधयेत् ॥ २,६.३३ ॥ तद्भाण्डे द्रावयेन्नागं द्रुते नागे विनिक्षिपेत् । वाशाचिञ्चटयोः क्षारं वाशाकाष्ठेन घट्टयेत् ॥ २,६.३४ ॥ यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् । संचूर्ण्य च शिलाताप्ये वाशकक्षारसंयुतम् ॥ २,६.३५ ॥ चतुस्तुल्यं पूर्वनागं विंशत्येकपुटैः पचेत् । द्विपुटं चिञ्चिकक्षारैर्देयं वाशारसान्वितैः ॥ २,६.३६ ॥ नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् । अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् ॥ २,६.३७ ॥ प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ २,६.३८ ॥ आक्, २, ७ श्रीभैरवः । <ब्रस्स्:: स्य्नोन्य्म्स्> रीतिः क्षुद्रसुवर्णं सितकनकं पिङ्गलं च पित्तलकम् । लोहितकमारकूटं पिङ्गललोहं च पीतकं नवधा ॥ २,७.१ ॥ <ब्रस्स्:: सुब्त्य्पेस्> रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् । <ब्रस्स्:: परीक्षा> संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ॥ २,७.२ ॥ एवं या जायते कृष्णा काकतुण्डीति सा मता । <ब्रस्स्:: परीक्षा:: गोओदॄउअलित्य्> गुर्वी मृद्वी च पीताकपोताभा साराङ्गी ताडनक्षमा ॥ २,७.३ ॥ सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा । शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ॥ २,७.४ ॥ हेमोपमा शुभाश्वत्था जात्या रीतिः प्रकीर्तिता । <ब्रस्स्:: परीक्षा:: बदॄउअलित्य्> पाण्डुः पीता खरा रूक्षा बर्बरा घट्टनाक्षमा ॥ २,७.५ ॥ पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु । <रीतिगुणाः> रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ॥ २,७.६ ॥ कृष्णा कुष्ठहरा योगादुष्णवीर्या च शीतला । <राजरीति:: प्रोपेर्तिएस्> काकतुण्डी कृतस्नेहा राजरीतिगुणानुगा ॥ २,७.७ ॥ राजरीतिस्तु निर्दिष्टा रीतिकासदृशी गुणैः । <ब्रस्स्:: मेदिच्. प्रोपेर्तिएस्> रीतिकायुगलं रूक्षं सतिक्तं लवणं सरम् ॥ २,७.८ ॥ शोभनं पाण्डुवातघ्नं बलवीर्यायुर्वर्धनम् । रीतिका कटुतिक्तोष्णा प्लीहानाहनिबर्हणी ॥ २,७.९ ॥ रूक्षा कफास्रपित्तं च हन्यात्स्वादु प्रयोजिता । <राजरीति:: स्य्नोन्य्म्स्> राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ॥ २,७.१० ॥ ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च । <कांस्य> कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् ॥ २,७.११ ॥ दीप्तलोहं घोषयुष्यं दीप्तकं च नवाह्वयम् । <ब्रोन्शे:: प्रोदुच्तिओन्> अष्टभागेन ताम्रेण द्विभागकुटिलेन च ॥ २,७.१२ ॥ विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् । <ब्रोन्शे:: परीक्षा:: गोओदॄउअलित्य्> तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् ॥ २,७.१३ ॥ निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते । श्वेतदीप्तं मृदुज्योति शब्दाढ्यं स्निग्धनिर्मलम् ॥ २,७.१४ ॥ घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् । <ब्रोन्शे:: परीक्षा:: बदॄउअलित्य्> तत्पीतं दहने ताम्रं घनं रूक्षं घनासहम् ॥ २,७.१५ ॥ मन्दनादं गतज्योति सप्तधा कांस्यमुत्सृजेत् । <ब्रोन्शे:: मेदिच्. प्रोपेर्तिएस्> घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ॥ २,७.१६ ॥ भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा । कांस्यं तु लघुतिक्तोष्णं लेखनं दृक्प्रसादनम् ॥ २,७.१७ ॥ कृमिकोष्ठहरं वातपित्तघ्नं भोजने हितम् । <वर्तलोह> वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरः ॥ २,७.१८ ॥ नीलिका नीललोहं च लोहकं वट्टलोहकम् । कांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकम् ॥ २,७.१९ ॥ तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् । तद्भाण्डसाधितं सर्वमन्यव्यञ्जनपूर्वकम् ॥ २,७.२० ॥ अम्लेन वर्जितं चातिदीपनं पाचनं शुभम् । <वर्तलोहशुद्धिमारणम्> द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥ २,७.२१ ॥ म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् । तेषु तेषु विभागेषु योजनीयं यथाविधि ॥ २,७.२२ ॥ वर्तलोहं कटूष्णं च तिक्तं च शिशिरं तथा । कफजित्पित्तशमनं मधुरं दाहमेहनुत् ॥ २,७.२३ ॥ रूक्षं रुच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् । <पित्तलादीनां शोधनभस्मविधिः> त्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ॥ २,७.२४ ॥ कांस्यारघोषपत्राणि तेन कल्केन लेपयेत् । रुद्ध्वा पुटेद्गजपुटे शुद्धिमायाति नान्यथा ॥ २,७.२५ ॥ ताम्रवन्मारणं तेषां कृत्वा सर्वत्र योजयेत् । मृतानि लोहान्यमृतीभवन्ति निघ्नन्ति युक्तानि महामयांश्च । अभ्यासयोगाद्दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥ २,७.२६ ॥ नागेन स्वर्णं रजतं च ताप्यैः गन्धेन ताम्रं शिलया च नागम् । तालेन वङ्गं त्रिविधं तु लोहं नारीपयो घ्नन्ति च हिङ्गुलेन ॥ २,७.२७ ॥ तथाभ्रसत्वं बलिनोपलोहं वज्रेण सूतं विनिहन्ति सद्यः ॥ २,७.२८ ॥ <अभ्रकसत्त्व> वज्राभ्रकस्य सत्सत्वं वक्ष्यामि शृणु भैरवि । चतुर्धाभ्रकसत्वं स्यात्कठिनं मृदुलं द्रुतिः ॥ २,७.२९ ॥ बीजं च गुणवज्ज्ञेयं तत्क्रमादुत्तरोत्तरम् । <सत्त्वपातनायाभ्रकसिद्धिः> धान्याभ्रकं रविक्षीरे घर्मे स्थाप्यं दिनावधि ॥ २,७.३० ॥ तच्छ्लक्ष्णं पेषयेत्पट्टे शरावे तं निरोधयेत् । सम्यक्पचेद्गजपुटे रविक्षीरे पचेत्पुनः ॥ २,७.३१ ॥ मर्दनं पुटपाकं च कुर्यादेवं तु सप्तधा । तथा जम्बीरनीरे च निचुलस्य रसे तथा ॥ २,७.३२ ॥ एतत्सिद्धघनं श्रेष्ठं निश्चन्द्रं सत्त्वपातने । घनमारकसारैर्वा व्यस्तैर्वाथ समस्तकैः ॥ २,७.३३ ॥ पिष्ट्वा धान्याभ्रकं श्लक्ष्णं रुद्ध्वा गजपुटे पचेत् । लाक्षागुग्गुलुदग्धोर्णासर्जसर्जरसं पटु ॥ २,७.३४ ॥ शशास्थि क्षुद्रमत्स्याश्च हरिद्रा मित्रपञ्चकम् । पञ्चमाहिषकं चापि भल्लातं च समं समम् ॥ २,७.३५ ॥ सर्वतुल्यं सिद्धघनं निश्चन्द्रं पेषयेद्दिनम् । तत्सर्वं तेन वटकाः कार्यास्ते कर्षमात्रकाः ॥ २,७.३६ ॥ कोष्ठीयन्त्रे धमेद्गाढमङ्गारैः खदिरोद्भवैः । त्रियामधमनादेव सत्त्वं पतति निर्मलम् ॥ २,७.३७ ॥ कठिनं सूक्ष्मरवकं काचटङ्कणवर्जितम् । त्रिवारमेवं कुर्वीत तत्किट्टैः सत्त्वपातने ॥ २,७.३८ ॥ <अभ्रकमृदुसत्त्व (१)> पुनरन्यं प्रवक्ष्यामि मृदुसत्त्वं सुरेश्वरि । गुग्गुलुं टङ्कणं गुञ्जां सर्जसर्जरसं गुडम् ॥ २,७.३९ ॥ क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् । भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवम् ॥ २,७.४० ॥ धुत्तूरं लाङ्गली पारा बला गन्धकसेवकम् । गोक्षीरं पञ्चलवणं सर्वं च द्विगुणं मधु ॥ २,७.४१ ॥ षड्बिन्दु क्षुद्रशंबूकमस्थीनि शशकस्य च । पारावतमलं त्र्यूषमिन्द्रगोपं सशिग्रुकम् ॥ २,७.४२ ॥ गोधूमसर्षपं ताप्यं छागक्षीरेण मर्दयेत् । एवं व्यस्तं समस्तं वा याममात्रेण मर्दितम् ॥ २,७.४३ ॥ अस्य पिण्डस्य भागैकं द्विभागं सिद्धमभ्रकम् । पञ्चमाहिषभागैकं सर्वमेकत्र लोडयेत् ॥ २,७.४४ ॥ कर्षाभा वटिकाः कार्याः किंचिच्छायाविशोषिताः । खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपेत्क्षिपेत् ॥ २,७.४५ ॥ घुटीपञ्चकपञ्चैव वङ्कनाले धमेद्दृढम् । मृदुसत्त्वं भवेच्छुभ्रं रुग्जरामृत्युनाशनम् ॥ २,७.४६ ॥ त्रिवारमेवं कुर्वीत तत्किट्टं सत्त्वपातनम् । अनेन क्रमयोगेन कान्तसस्यकमाक्षिकम् ॥ २,७.४७ ॥ कठिनोपरसाश्चान्यैः शुद्धा भूनागमृत्तिका । मुञ्चन्ति द्रुतिसङ्घातं गृह्णन्तीमं पृथक्पृथक् ॥ २,७.४८ ॥ <अभ्रकमृदुसत्त्व (२)> अभ्रसत्वं समादाय समांशं काचटङ्कणम् । दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् ॥ २,७.४९ ॥ अम्लवर्गं स्नुहीपत्रं बिम्बीबीजं सवल्कलम् । कल्कयेत्तत्र संतप्तं सप्तवारं निषेचयेत् ॥ २,७.५० ॥ मृदु शुभ्रं भवेत्तस्य रुग्जरामृत्युनाशनम् । <अभ्रकमृदुसत्त्वम् (३)> सिद्धाभ्रं दशभागं स्याच्छुद्धभागं त्रिभागकम् ॥ २,७.५१ ॥ टङ्कणं माक्षिकं सूतं भागैकं च सुशोधितम् । ऊर्णासर्जयवक्षारं भागं भागं विमिश्रयेत् ॥ २,७.५२ ॥ मर्द्यं मूत्राम्लवर्गाभ्यां यथा प्रोक्तं दिनावधि । अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ॥ २,७.५३ ॥ कृत्वादाय मृतं साक्षान्निर्मलं मृदु जायते । <अभ्रकबीजपाक> बीजपाकं प्रवक्ष्यामि घनस्यैतत्परं हितम् ॥ २,७.५४ ॥ सिद्धाभ्रकं शतपलं स्वर्णरूप्यार्ककान्तकम् । रसत्रिगन्धमाक्षीकं विमलाभूलताद्रिजम् ॥ २,७.५५ ॥ नीलाञ्जनं च कङ्कुष्ठं कासीसं दरदं तथा । प्रत्येकं दशनिष्कं स्यात्ततो गैरिकटङ्कणम् ॥ २,७.५६ ॥ इन्द्रगोपं गुडं गुञ्जा मधु सर्पिश्च गुग्गुलुः । सर्जक्षारो यवक्षारो मत्कुणा नवपञ्चकम् ॥ २,७.५७ ॥ क्षुद्रमीनशशास्थीनि माहिषं शृङ्गमालकम् । पृथक्पृथक्पञ्चमूलं पञ्चमाहिषं मर्दयेत् ॥ २,७.५८ ॥ तेषां च वटिका कार्या किंचिच्छायाविशोषिता । पूर्ववत्पातयेत्सत्त्वं रुग्जरादैन्यमृत्युहृत् ॥ २,७.५९ ॥ बीजसत्वमिदं श्रेष्ठं वैद्ये वादे रसायने । <अभ्रकसत्त्वनिर्मलीकरण> निर्मलीकरणं वक्ष्ये घनसत्वस्य पार्वति ॥ २,७.६० ॥ तत्सत्वं कणशः कृत्वा मित्रपञ्चकसंयुतम् । मूषायां तद्विनिक्षिप्य काचं तदधरोत्तरम् ॥ २,७.६१ ॥ रुद्ध्वा हठाग्नौ धमयेत्खदिराङ्गारयोगतः । एवं क्रमेण धमयेत्सप्तधा निर्मलं भवेत् ॥ २,७.६२ ॥ ससत्वं निर्मलीभूतं लोहखल्वे विचूर्णयेत् । मर्दयेत्त्रिफलाक्वाथैर्यामं घर्मे विशोषयेत् ॥ २,७.६३ ॥ पाकं पुटं च विधिवत्कुर्यादेवं पुनः पुनः । चत्वारिंशत्पुटं कुर्यादेवं मार्कवजैर्द्रवैः ॥ २,७.६४ ॥ पृथक्पञ्चामृतैः पञ्चपुटं चेक्षुरसैस्त्रिधा । उदयादित्यसङ्काशं घनसत्वं सुसिद्धिदम् ॥ २,७.६५ ॥ <अभ्रकसत्त्वसिन्दूरविधि (१)> चूर्णीकुर्याल्लोहखल्वे निर्मलीकृतमभ्रकम् । निष्काणां शतकं तस्मिन्निष्कैकं गन्धकं क्षिपेत् ॥ २,७.६६ ॥ पेषयेद्दिनमेकं तु कुमारीरसयोगतः । यामं तत्तापयेद्घर्मे ततो गजपुटे पचेत् ॥ २,७.६७ ॥ एवं शतपुटं कुर्याद्गन्धं दद्यात्पुनः पुनः । सिन्दूरपाटलच्छायमभ्रसत्वं भवेच्छिवे ॥ २,७.६८ ॥ <अभ्रकसत्त्वसिन्दूरविधि (२)> घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् । शतनिष्कं ततस्तस्मिन्निष्कार्धं माक्षिकं क्षिपेत् ॥ २,७.६९ ॥ अर्कक्षीरैर्दिनं मर्द्य रुद्ध्वा गजपुटे पचेत् । एवं शतपुटं कुर्यान्माक्षीकं च पुटे पुटे ॥ २,७.७० ॥ एतत्स्यात्सत्त्वसिन्दूरं रुग्जरामृत्युनाशनम् । <अभ्रकसत्त्वसिन्दूरविधि (३)> तत्सत्वं रवकान्हित्वा लोहखल्वे सुबुद्धिमान् ॥ २,७.७१ ॥ मर्दयेल्लोहदण्डेन वराक्वाथसमन्वितम् । याममात्रं खरे घर्मे स्थापयेल्लोहपात्रगम् ॥ २,७.७२ ॥ स्थालीपाकं खरं कृत्वा रात्रौ गजपुटे पचेत् । एवं सप्तपुटं कुर्यान्मार्कवस्वरसैस्तथा ॥ २,७.७३ ॥ कुमारीस्वरसैस्तद्वच्चित्रमूलरसैस्तथा । नीलीपत्ररसैस्तद्वत्पुनर्नवरसैस्तथा ॥ २,७.७४ ॥ मेघनादद्रवैः सप्त क्वाथैर्वटजटोद्भवैः । एवं सुसूक्ष्मचूर्णं तु शतांशं गन्धकं क्षिपेत् ॥ २,७.७५ ॥ मर्दयेदारनालेन घर्मे स्थाल्यां पुटे पचेत् । एवं दशदिनं कुर्यात्पुनस्ताप्यं शतांशतः ॥ २,७.७६ ॥ क्षिप्त्वारनालैः संमर्द्य घर्मे स्थाल्यां पुटे पचेत् । एवं दशदिनं कुर्यात्पुनः पञ्चामृतैः पचेत् ॥ २,७.७७ ॥ पञ्चपञ्चेक्षुजरसैः पञ्चधा पुटमाचरेत् । सिन्दूराभेऽभ्रभसिते निक्षिपेच्छुद्धहिङ्गुलम् ॥ २,७.७८ ॥ विंशत्यंशं घनस्याथ स्तन्यैः संमर्द्य संपुटे । रुद्ध्वाथ भूधरे यन्त्रे क्षिप्त्वा लघुपुटं विधेत् ॥ २,७.७९ ॥ एवं विंशत्पुटं कुर्याद्दत्त्वा दत्त्वाथ हिङ्गुलम् । अनेन क्रमयोगेन सत्वं सिन्दूरसन्निभम् ॥ २,७.८० ॥ अयं सामान्यसंस्कारो विशेषस्तु निगद्यते । यद्यद्रोगहरैर्द्रव्यैस्तत्तद्रोगहरं भवेत् ॥ २,७.८१ ॥ <अभ्रकसत्त्वसिन्दूरविधि (४)> घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् । मुण्डीपत्ररसैर्मर्द्यं दिनं गजपुटे पचेत् ॥ २,७.८२ ॥ एवं दशपुटं कार्यं निर्गुण्डीस्वरसैस्तथा । तथा वटजटाक्वाथैः पेटारीमूलजै रसैः ॥ २,७.८३ ॥ ककुभस्य रसैस्तद्वज्जम्बूत्वक्स्वरसैस्तथा । एवं षष्टिपुटं कार्यं ततस्तस्मिन्विनिक्षिपेत् ॥ २,७.८४ ॥ विंशत्यंशेन दरदं स्तन्यैः संमर्दयेद्दिनम् । ततस्तत्सम्पुटे रुद्ध्वा भूधरे तु पुटं लघु ॥ २,७.८५ ॥ एवं विंशतिधा कुर्यात्सिन्दूराभं भवेद्ध्रुवम् । <स्थालीपाक> स्थालीपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरात्मकः ॥ २,७.८६ ॥ पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः । तृतीयः खरपाकः स्याद्वालुकासदृशः प्रिये ॥ २,७.८७ ॥ स्थालीपाको रसे युक्तः संयुक्तो दरदेन वा । मृदुमध्यमपाकाभ्यां कर्तव्यो भूधरे ततः ॥ २,७.८८ ॥ क्षिप्त्वा लघुपुटे देयं रसहिङ्गुलवर्जितः । खरपाकः प्रकर्तव्यो विधिर्गजपुटे पचेत् ॥ २,७.८९ ॥ <लोहभस्मनाममृतीकरणविधिः> सर्वेषां मारितानां च लोहानामभ्रकस्य च । वक्ष्यामि परमं गुह्यममृतीकरणं शृणु ॥ २,७.९० ॥ त्रिफलोत्थकषायस्य भागानादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रकपलान्दश ॥ २,७.९१ ॥ एकीकृत्वा लोहपात्रे पाचयेन्मृदुवह्निना । द्रवे जीर्णे समादाय सर्वयोगेषु योजयेत् ॥ २,७.९२ ॥ अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् । योजयेदनुपानैर्वा तत्तद्रोगहरं भवेत् ॥ २,७.९३ ॥ कठिनस्याभ्रसत्वस्य सिन्दूरं पलितं वलिम् । इन्द्रियाणां पटुत्वं च पत्राभ्रकगुणा अपि ॥ २,७.९४ ॥ मृदुसत्वस्य सिन्दूरं सर्वामयनिबर्हणम् । वलीपलितदारिद्र्यमृत्युघ्नं सुरसायनम् ॥ २,७.९५ ॥ त्रिदोषशमनं सौम्यं दीपनं पाचनं शुभम् । निहन्ति ज्वरजालं च ग्रहणीमतिसारकम् ॥ २,७.९६ ॥ अश्मरीं मूत्रकृच्छ्रं च क्षयं पाण्डुहलीमकम् । दुर्नाममेहकुष्ठानि वातजान् पित्तजानपि ॥ २,७.९७ ॥ कफजान्दुस्तरान्रोगान् विद्रध्यादिव्रणानपि । नानाविधानि शूलानि पुंस्त्रीवन्ध्यत्वभञ्जनम् ॥ २,७.९८ ॥ यद्यद्रोगहरैर्योगैस्तत्तद्रोगनिबर्हणम् । पारदे ये गुणाः सन्ति बीजसत्वेऽपि ते गुणाः ॥ २,७.९९ ॥ <मण्डूर, शुद्धि> अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः । सेचयेदक्षपात्रान्तः षड्वारं च पुनः पुनः ॥ २,७.१०० ॥ मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् । गोमूत्रे त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः ॥ २,७.१०१ ॥ <मण्डूरभस्म> लोहकिट्टं सुतप्तं च यावच्छीर्यति तत्स्वयम् । तच्छीर्णं ग्राहयेत्पेष्यं मण्डूरं यं प्रयोजयेत् ॥ २,७.१०२ ॥ ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥ २,७.१०३ ॥ किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् । तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥ २,७.१०४ ॥ मण्डूरं पाण्डुशोषार्शोग्रहणीकामलापहम् । सर्वशूलप्रमेहघ्नं दीपनं परमं हितम् ॥ २,७.१०५ ॥ शीतं तिक्तं कषायाम्लं हृद्रोगप्लीहनाशनम् । <रसादिमारणायद्रव्यमानम्> रसेन्द्रं शोधयेद्देवि पलानां द्विसहस्रकम् ॥ २,७.१०६ ॥ सहस्रं वा शतं वापि पञ्चाशद्वा तदर्धकम् । न कुर्याद्रसकर्माणि हीनं वै पञ्चविंशतेः ॥ २,७.१०७ ॥ लोहस्य पचनं त्रिंशत्पलादूर्ध्वं न कारयेत् । अर्वाक्पञ्चपलाद्देवि घनसत्वं तथा पचेत् ॥ २,७.१०८ ॥ स्वर्णं पञ्चपलादूर्ध्वं पलादर्वाङ्न शोधयेत् । तथा रूप्यं च ताम्रं च शोधयेन्मारयेत्प्रिये ॥ २,७.१०९ ॥ लोहवद्घनसत्वं च घनपत्रं तथैव च । हीनं पञ्चपलादूर्ध्वं न कुर्यात्पलविंशतेः ॥ २,७.११० ॥ द्रावणं शोधनं देवि मारणं नागवङ्गयोः । वज्रं निष्कादधश्चोर्ध्वं न कुर्याच्छोधनं मृतिम् ॥ २,७.१११ ॥ पद्मरागादिरत्नानि तथा कुर्यात्सुरेश्वरि ॥ २,७.११२ ॥ आक्, २, ८ श्रीभैरवः । महाम्बुराशौ सरिति पर्वते काननेऽपि वा । रत्नानामाकरं देवि स्थानमाधेयगौरवात् ॥ २,८.१ ॥ तेषु रक्षोविषव्यालव्याधिदोषहराणि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ २,८.२ ॥ प्रदुष्टेनोपजातानि जन्तुनोपहतानि च । दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा ॥ २,८.३ ॥ <रुब्य्:: स्य्नोन्य्म्स्> माणिक्यं शोणरत्नं च रत्नराट्रविरत्नकम् । शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥ २,८.४ ॥ रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा । सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ २,८.५ ॥ <नीलगन्धिक> माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च । <रुब्य्:: परीक्षा:: गोओदॄउअलित्य्> कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥ २,८.६ ॥ वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते । परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता ॥ २,८.७ ॥ धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा । ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते ॥ २,८.८ ॥ <माणिक्यभेदाः> यत्सिंहलं कालपुरमन्ध्रं तुम्बुरुसंस्थितम् । क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे ॥ २,८.९ ॥ सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ २,८.१० ॥ अशोकपल्लवच्छायमन्ध्रं सौगन्धिकं प्रिये । तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम् ॥ २,८.११ ॥ मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः । माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः ॥ २,८.१२ ॥ स्निग्धच्छाया गुरुत्वं च नैर्मल्यमतिरक्तता । <माणिक्यगुणाः> माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ॥ २,८.१३ ॥ भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् । माणिक्यं च महापुण्यं महाभाग्यकरं परम् ॥ २,८.१४ ॥ सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परम् । <मुक्ता> मुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च । अम्भःसारं शीतलं नीरजं च नक्षत्रं स्यादिन्दुरत्नं वलक्षम् ॥ २,८.१५ ॥ मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् । स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम् ॥ २,८.१६ ॥ <पेअर्ल्:: ओरिगिन्> मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा । छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौक्तेयकं तूल्वणम् ॥ २,८.१७ ॥ <पेअर्ल्:: परीक्षा:: गोओदॄउअलित्य्> नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥ २,८.१८ ॥ <पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्> मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम् ॥ २,८.१९ ॥ मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम् ॥ २,८.२० ॥ दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् । चक्षुष्यं पवनास्रपित्तविषजित्सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् । धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तदखिलं मूलं शशी प्रीयते ॥ २,८.२१ ॥ <चोरल्:: स्य्नोन्य्म्स्> प्रवालोऽङ्गारकमणिर्विद्रुमोऽम्भोधिपल्लवः ॥ २,८.२२ ॥ भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः । <चोरल्:: प्लचे ओf ओरिगिन्> सेतौ सागरमध्ये या जायते वल्लरी शुभा ॥ २,८.२३ ॥ विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी । <चोरल्:: परीक्षा:: गोओदॄउअलित्य्> पाषाणत्वं भजत्येषा पाकतः कठिना सती ॥ २,८.२४ ॥ प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् । सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु ॥ २,८.२५ ॥ रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते । पक्वबिंबफलाभासं जपाकुसुमसंनिभम् ॥ २,८.२६ ॥ शुकतुण्डसमच्छायं प्रवालमतिशोभनम् । <चोरल्:: परीक्षा:: बदॄउअलित्य्> शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम् ॥ २,८.२७ ॥ विद्धं कृष्णं लघुतमं प्रवालं दोषकृद्भवेत् । गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत् ॥ २,८.२८ ॥ <चोरल्:: परीक्षा:: गोओदॄउअलित्य्> प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् । धनधान्यकरं मेध्यं विषाहिभयनाशनम् ॥ २,८.२९ ॥ <चोरल्:: मेदिच्. प्रोपेर्तिएस्> प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् । वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ २,८.३० ॥ <मरकत> मरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः । सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे ॥ २,८.३१ ॥ गरलारिर्वायवीर्यं गारुडं रुद्रसंमितम् । तुरुष्कविषयांभोधौ समीरारोहणाचले ॥ २,८.३२ ॥ तच्छायाश्यामलो देशः सोऽभून्मरकताकरः । तद्विशेषान्मरकतं जातं दोषगुणान्वितम् ॥ २,८.३३ ॥ दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः । भवेदष्टविधा छाया मणेर्मरकतस्य च ॥ २,८.३४ ॥ अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा । जठरं कान्तिहीनं च विच्छायं मलिनं तथा ॥ २,८.३५ ॥ सशर्करं सपाषाणं कर्कशं सूत्रसंयुतम् । कल्माषवर्णं शबलं समस्तभयदायकम् ॥ २,८.३६ ॥ निर्मलं कथितं स्वच्छं गुरु स्याद्गुरुदायुतम् । स्निग्धं रूक्षं विनिर्मुक्तमरजस्कमरेणुकम् ॥ २,८.३७ ॥ सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः । एतैर्युक्तं मरकतं सर्वपापहरं परम् ॥ २,८.३८ ॥ मरकतं विषघ्नं च शीतलं मधुरं रसे । आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ २,८.३९ ॥ स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् । कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम् ॥ २,८.४० ॥ <पुष्पराग:: स्य्नोन्य्म्स्> पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च । पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च ॥ २,८.४१ ॥ <पुष्पराग:: परीक्षा:: त्रुए> ईषत्पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् । पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः ॥ २,८.४२ ॥ <पुष्पराग:: परीक्षा:: गोओदॄउअलित्य्> हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् । पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते ॥ २,८.४३ ॥ <पुष्पराग:: परीक्षा:: बदॄउअलित्य्> रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् । मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते ॥ २,८.४४ ॥ <पुष्पराग:: मेदिच्. प्रोपेर्तिएस्> पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् । आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ॥ २,८.४५ ॥ पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् । वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम् ॥ २,८.४६ ॥ <वज्र> वज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः । अभेद्यमसिरं रत्नं दृढं भार्गवकं स्मृतम् ॥ २,८.४७ ॥ <वज्र:: परीक्षा:: गोओदॄउअलित्य्> स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् । षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत् ॥ २,८.४८ ॥ <वज्राकरा वज्रभेदाश्च> पौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः । पेण्णानदीतटश्चेत्यष्टौ वज्राकरा विनिर्दिष्टाः ॥ २,८.४९ ॥ श्यामं प्रपौण्ड्रप्रभवं किंचित्पीतं मतङ्गगिरिजातम् । हिमवत्सुराष्ट्रसंभवमाताम्रं कृष्णकान्ति सौपारम् ॥ २,८.५० ॥ फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् । पेण्णानदीतटोद्भवमाहुर्वज्रं सुधांशुनिभम् ॥ २,८.५१ ॥ कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ । सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा ॥ २,८.५२ ॥ कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ । आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम् ॥ २,८.५३ ॥ समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके । कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च ॥ २,८.५४ ॥ इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् । <वज्र:: ५ दोषस्> मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा ॥ २,८.५५ ॥ एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः । कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम् ॥ २,८.५६ ॥ हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते । <वज्रशुद्धि> गृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ॥ २,८.५७ ॥ महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् । अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥ २,८.५८ ॥ एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति । मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः ॥ २,८.५९ ॥ कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः । एतेषां हयमूत्रेण कषायं साधितं पुनः ॥ २,८.६० ॥ जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् । डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात् ॥ २,८.६१ ॥ कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात् ॥ २,८.६२ ॥ कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः । क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ॥ २,८.६३ ॥ डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् । वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत् ॥ २,८.६४ ॥ तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् । व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ॥ २,८.६५ ॥ अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् । वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत् ॥ २,८.६६ ॥ <विप्रजातीयवज्रमारणम्> वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् । अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च ॥ २,८.६७ ॥ समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् । तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम् ॥ २,८.६८ ॥ वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् । कुञ्जराख्येन पुटयेत्पुटेन महता पुनः ॥ २,८.६९ ॥ विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति । करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरम् ॥ २,८.७० ॥ अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् । वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद्ध्रुवम् ॥ २,८.७१ ॥ <वैश्यजातीयवज्रमारणम्> सूरणं लशुनं शंखं शिलायां पेषयेत्समम् । बलामतिबलां गन्धं कच्छपास्थि च पेषयेत् ॥ २,८.७२ ॥ उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् । वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत् ॥ २,८.७३ ॥ <शूद्रजातीयवज्रमारणम्> सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् । वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत् ॥ २,८.७४ ॥ वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् । स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः ॥ २,८.७५ ॥ चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके । <वज्रमारण (१)> सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः ॥ २,८.७६ ॥ शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः । अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः ॥ २,८.७७ ॥ लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा । तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम् ॥ २,८.७८ ॥ रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् । समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत् ॥ २,८.७९ ॥ <वज्रमारण (२)> मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु । गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ॥ २,८.८० ॥ त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी । वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च ॥ २,८.८१ ॥ मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् । पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः ॥ २,८.८२ ॥ पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला । पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च ॥ २,८.८३ ॥ धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् । हंसपादी वज्रकन्दं बृहतीफलसूरणम् ॥ २,८.८४ ॥ गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् । एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ॥ २,८.८५ ॥ तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् । कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत् ॥ २,८.८६ ॥ तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् । एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ॥ २,८.८७ ॥ आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते । गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ॥ २,८.८८ ॥ इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् । अनेन क्रमयोगेन मृतो भवति निश्चितम् ॥ २,८.८९ ॥ तन्मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः । <वज्रमारण (३)> भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम् ॥ २,८.९० ॥ क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला । चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः ॥ २,८.९१ ॥ पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु । एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ॥ २,८.९२ ॥ स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् । तद्गोलके क्षिपेद्वज्रं रुद्ध्वा चैतान्धमेद्दृढम् ॥ २,८.९३ ॥ गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी । क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत् ॥ २,८.९४ ॥ तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा । सेचनान्तं ततः कुर्यादेकविंशतिवारकम् ॥ २,८.९५ ॥ तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् । सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ॥ २,८.९६ ॥ <वज्रमारण (४)> त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् । त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ २,८.९७ ॥ तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत् ॥ २,८.९८ ॥ <वज्रमारण (५)> तालकासीससौराष्ट्रीमपामार्गस्य भस्म च । पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ॥ २,८.९९ ॥ क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः । वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ॥ २,८.१०० ॥ तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् । सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ॥ २,८.१०१ ॥ रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा । म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ २,८.१०२ ॥ <वज्रमारण (७)> उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् । क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम् ॥ २,८.१०३ ॥ नृतैले गन्धतैलेन म्रियते नात्र संशयः । <वज्रमारण (८)> भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत् ॥ २,८.१०४ ॥ तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् । <वज्रमारण (९)> स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ॥ २,८.१०५ ॥ वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् । क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ॥ २,८.१०६ ॥ इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः । पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ॥ २,८.१०७ ॥ ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् । <वज्रमारण (१०)> वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत् ॥ २,८.१०८ ॥ शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि । विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः ॥ २,८.१०९ ॥ तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् । <वज्रमारण (११)> गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ॥ २,८.११० ॥ पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् । सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत् ॥ २,८.१११ ॥ <वज्रमारण (१२)> वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः । स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे ॥ २,८.११२ ॥ कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः । भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात् ॥ २,८.११३ ॥ <वज्रमारण (१३)> रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः । पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ २,८.११४ ॥ <वज्रमारण (१४)> मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः । पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत् ॥ २,८.११५ ॥ <वज्रमृदूकरण (१)> नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् । जानुमध्ये स्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥ २,८.११६ ॥ <वज्रमृदूकरण (२)> मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् । जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ २,८.११७ ॥ कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके । अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत् ॥ २,८.११८ ॥ मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् । पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ २,८.११९ ॥ बदरीवटनिम्बानामङ्कुराणि समाहरेत् । पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ २,८.१२० ॥ अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् । दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥ २,८.१२१ ॥ <वज्रमृदूकरण (३)> पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् । तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ २,८.१२२ ॥ नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् । मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः ॥ २,८.१२३ ॥ तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् । <वज्रमृदूकरण (४)> कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम् ॥ २,८.१२४ ॥ ससूतमम्लयोगेन दिनमेकं विमर्दयेत् । तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः ॥ २,८.१२५ ॥ पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः । वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ २,८.१२६ ॥ <वज्रमृदूकरण (५)> एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् । मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत् ॥ २,८.१२७ ॥ कोमलं जायते वज्रं दिनान्ते नात्र संशयः । <वज्रमृदूकरण (६)> वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे ॥ २,८.१२८ ॥ अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् । निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत् ॥ २,८.१२९ ॥ मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् । तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम् ॥ २,८.१३० ॥ भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् । सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ २,८.१३१ ॥ <वज्रद्रुति> क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् । ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च ॥ २,८.१३२ ॥ स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् । वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत् ॥ २,८.१३३ ॥ डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् । वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम् ॥ २,८.१३४ ॥ अम्लभाण्डगतं सेच्यं सप्ताहाद्द्रवतां व्रजेत् । भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम् ॥ २,८.१३५ ॥ रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः । <वज्रगुणाः> वज्रं च षड्रसोपेतं सर्वरोगापहारकम् ॥ २,८.१३६ ॥ सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् । वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम् ॥ २,८.१३७ ॥ आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् । आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च ॥ २,८.१३८ ॥ सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः । <नील> नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ॥ २,८.१३९ ॥ नीलोपलस्तृणग्राही महानीलः सुनीलकः । इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः ॥ २,८.१४० ॥ <सप्फिरे:: सुब्त्य्पेस्:: चस्ते> सितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः । पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः ॥ २,८.१४१ ॥ <नीलस्य गुणदोषाः> नीलीरससमाभासा वैष्णवीपुष्पसंनिभा । लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा ॥ २,८.१४२ ॥ अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः । कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी ॥ २,८.१४३ ॥ मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा । विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा ॥ २,८.१४४ ॥ एताश्छायाः शुभकरा इन्द्रनीलमहामणेः । गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम् ॥ २,८.१४५ ॥ तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः । न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः ॥ २,८.१४६ ॥ तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः । इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम् ॥ २,८.१४७ ॥ आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति । नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥ २,८.१४८ ॥ यो दधाति शरीरेऽस्य सौरिर्मङ्गलदो भवेत् । <गोमेदक> गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ॥ २,८.१४९ ॥ स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि । गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते । हेमारक्तं श्रीमतां योग्यमेतत्गोमेदाख्यं रत्नमाख्याति सन्तः ॥ २,८.१५० ॥ मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम् ॥ २,८.१५१ ॥ हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् । श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम् ॥ २,८.१५२ ॥ कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् । <गोमेदगुणाः> मेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम् ॥ २,८.१५३ ॥ मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् । गोमेदकोऽम्लमुष्णं च वातकोपविकारजित् ॥ २,८.१५४ ॥ दीपनं पाचनं चैव धृतोऽयं पापनाशनः । <वैडूर्य> वैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा ॥ २,८.१५५ ॥ विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च । कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद्दितिजेन्द्रनादात् । वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम् ॥ २,८.१५६ ॥ अविदूरे विडूरस्य गिरेरुत्तुङ्गरोधसः ॥ २,८.१५७ ॥ कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः । तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः ॥ २,८.१५८ ॥ समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे । सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत् ॥ २,८.१५९ ॥ वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः । वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति ॥ २,८.१६० ॥ स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् । रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम् ॥ २,८.१६१ ॥ विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् । <वैडूर्यलक्षण> वैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम् ॥ २,८.१६२ ॥ मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् । वैडूर्यमम्लमुष्णं च कफमारुतनाशनम् ॥ २,८.१६३ ॥ गुल्मशूलप्रशमनं भूषितं च शुभावहम् । <पञ्चरत्नानि> माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ॥ २,८.१६४ ॥ पञ्चरत्नमिति प्रोक्तं पाप्मालक्ष्मीविषापहम् । <नवरत्नानि> गोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम् ॥ २,८.१६५ ॥ पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् । <सूर्यकान्त> अथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा ॥ २,८.१६६ ॥ <स्फटिक> श्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम् ॥ २,८.१६७ ॥ निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते । हिमालये सिंहले च विन्ध्ये रेवातटे तथा ॥ २,८.१६८ ॥ पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् । सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम् ॥ २,८.१६९ ॥ सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् । सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम् ॥ २,८.१७० ॥ सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् । वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ २,८.१७१ ॥ <चन्द्रकान्त> इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः । शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ २,८.१७२ ॥ स्निग्धं श्वेतं पीतमत्रासमन्ताद्धत्ते चित्तं स्वस्थतां यन्मुनीनाम् । यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ २,८.१७३ ॥ चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रदाहनुत् । शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः ॥ २,८.१७४ ॥ <स्फटिक> स्फटिकः सितोपलः स्यादमलमणिस्तारकोपलः स्वच्छः । शीतोष्णवीर्यमक्ष्णः पित्तं वातं निहन्ति शोफघ्नम् ॥ २,८.१७५ ॥ पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् । वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम् ॥ २,८.१७६ ॥ गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् । श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ॥ २,८.१७७ ॥ श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स । वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम् ॥ २,८.१७८ ॥ अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः । शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ २,८.१७९ ॥ कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ॥ २,८.१८० ॥ मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः । सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत् ॥ २,८.१८१ ॥ <वैक्रान्तभस्म> तप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् । हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥ २,८.१८२ ॥ ततश्चोत्तरवारुण्याः पञ्चाङ्गैर्गोलके क्षिपेत् । रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके ॥ २,८.१८३ ॥ क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् । <वैक्रान्तसत्त्व (१)> वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च ॥ २,८.१८४ ॥ रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् । गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत् ॥ २,८.१८५ ॥ अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् । शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत् ॥ २,८.१८६ ॥ <वैक्रान्तसत्त्व (२)> वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह । महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ॥ २,८.१८७ ॥ पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् । <वैक्रान्तसत्त्व (३)> वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम् ॥ २,८.१८८ ॥ अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् । <वैक्रान्तसत्त्व (४)> म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ २,८.१८९ ॥ सत्त्वपातनयोगेन मर्दितश्च वटीकृतः । मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ २,८.१९० ॥ <वैक्रान्तद्रुति> श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् । सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम् ॥ २,८.१९१ ॥ केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् । इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ २,८.१९२ ॥ सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् । आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी । दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ २,८.१९३ ॥ <राजावर्त> आवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः ॥ २,८.१९४ ॥ राजावर्तरसस्याथ लक्षणं कथयाम्यहम् । वर्णेन भ्रमराभः स्याद्द्विःप्रकारः प्रकर्मतः ॥ २,८.१९५ ॥ एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः । स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः ॥ २,८.१९६ ॥ रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः । नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि ॥ २,८.१९७ ॥ सर्वेषां चलरागाणां रागबन्धनकृन्मतः । राजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः ॥ २,८.१९८ ॥ गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः । निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ॥ २,८.१९९ ॥ द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः । <राजावर्तभस्म> लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ॥ २,८.२०० ॥ पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् । <राजावर्तसत्त्व> राजावर्तमयःपात्रे पाचयेन्माहिषैर्घृतैः ॥ २,८.२०१ ॥ पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् । रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत् ॥ २,८.२०२ ॥ खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति । प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ॥ २,८.२०३ ॥ दीपनः पाचनो वृष्यो राजावर्तो रसायनः । <गरुडोद्गार> सस्यको गरुडोद्गारः कालजिद्विषसारकः ॥ २,८.२०४ ॥ कालकूटविषं पीत्वा गरुडः सोढुमक्षमः । तदा निर्गत्य तच्चञ्चोर्बहुधा सस्यकोऽभवत् ॥ २,८.२०५ ॥ महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः । धवलो मेचकः पीतो हरितश्चातिलोहितः ॥ २,८.२०६ ॥ अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् । धवलो हरितश्चैव शस्यते तारकर्मणि ॥ २,८.२०७ ॥ लोहितो मेचकः पीतः शस्यते हेमकर्मणि । सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः ॥ २,८.२०८ ॥ <विमल> विमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः । बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः ॥ २,८.२०९ ॥ विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः । तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते ॥ २,८.२१० ॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥ २,८.२११ ॥ पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि । तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥ २,८.२१२ ॥ <विमलशुद्धि> आटरूषरसे स्विन्नो विमलो विमलो भवेत् । कदलीकन्दतोयेन विमलं प्रथमं पचेत् ॥ २,८.२१३ ॥ अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् । डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा ॥ २,८.२१४ ॥ कार्कोटीमेषशृङ्ग्युत्थैर्द्रवैर्जंबीरजैर्दिनम् । भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ २,८.२१५ ॥ <विमलसत्त्व> विमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः । वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः ॥ २,८.२१६ ॥ मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् । सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः ॥ २,८.२१७ ॥ <पेरोज> हरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः । रसवीर्यविपाकेषु सस्यकस्य गुणानुगः ॥ २,८.२१८ ॥ आक्, २, ९ श्रीभैरवी । कीदृशी ओषधी नाथ रसकर्मकरी शुभा । केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥ २,९.१ ॥ निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः । निर्जीवेन तु जीवत्वं कथं जीवति शङ्कर ॥ २,९.२ ॥ एतन्मे संशयं ब्रूहि यथा जानाम्यहं शिव । श्रीभैरवः । शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ॥ २,९.३ ॥ ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते । वलीपलितरोगघ्ना मृत्युदारिद्र्यभञ्जनाः ॥ २,९.४ ॥ रसकर्मकरा दिव्याः कुलौषध्यः सुसिद्धिदाः । भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥ २,९.५ ॥ तृणौषधिरसानां च नैव सिद्धिः प्रजायते । तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥ २,९.६ ॥ दिव्यौषध्यश्चतुःषष्टिः कुलमध्ये व्यवस्थिताः । नैव जानन्ति मूढास्ताः शिवमोहेन मोहिताः ॥ २,९.७ ॥ अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे । तृणौषध्या रसे सूतं नैव बन्धं कदाचन ॥ २,९.८ ॥ अक्षयं नैव तिष्ठेत्तु कुलौषधिविवर्जितम् । कुलौषध्या विहीनास्तु गगनं च न हन्ति ते ॥ २,९.९ ॥ स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति । न खोटो न च वा भस्म नैव द्रव्यं करोति सः ॥ २,९.१० ॥ किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति । पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥ २,९.११ ॥ नैव वेधं शतादूर्ध्वं करोति स रसः प्रिये । यावन्न चाब्दमेकं तु विक्रीतं तत्तु काञ्चनम् ॥ २,९.१२ ॥ धर्मार्थकाममोक्षेषु नैव दद्यात्तु तत्प्रिये । दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥ २,९.१३ ॥ कालिकारहितः सूतः सदा भवति पार्वति । परस्य हरते कालं कालिकारहितो रसः ॥ २,९.१४ ॥ अष्टानां चैव लोहानां मलं शमयति क्षणात् । महामूर्च्छागतं सूतं को वापि कथयेन्मृतम् ॥ २,९.१५ ॥ दिव्यौषध्या रसेनैव जायते नष्टचेतनः । पञ्चभूतात्मकः सूतस्तिष्ठते च सदाशिवः ॥ २,९.१६ ॥ रसौषध्यो महौषध्यः सिद्धौषध्यस्तथापराः । दिव्यौषध्य इति प्रोक्ता मया प्रोक्ताश्चतुर्विधाः ॥ २,९.१७ ॥ दिव्यौषध्यो निगद्यन्ते तासु ता गुणवत्तराः । वृक्षवल्लीलतागुल्मतृणवन्दानिका इति ॥ २,९.१८ ॥ रसबन्धकरौषध्यः षड्विधाः परिकीर्तिताः । <सोमवल्ली> सोमवल्ली महागुल्मा यक्षश्रेष्ठा धनुर्लता ॥ २,९.१९ ॥ सोमाह्वा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया । सोमक्षीरा च सोमा च यज्ञा दिव्यलता स्मृता ॥ २,९.२० ॥ सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशेषशमनी पाचनी च रसायनी ॥ २,९.२१ ॥ पञ्चाङ्गका पञ्चदशच्छदाढ्या सर्पाकृतिः शोणितपर्वदेशा । सा सोमवल्ली रसबन्धकर्म करोति राकादिवसोपनीता ॥ २,९.२२ ॥ कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं शुक्ले पक्षे प्रभवति पुनर्लम्बमाना लता स्यात् । तस्याः कन्दः कलयतितरां पूर्णिमायां गृहीतो बद्ध्वा सूतं कनकसहितं देहलोहं विधत्ते ॥ २,९.२३ ॥ इयं सोमलता नाम वल्ली परमदुर्लभा । अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते ॥ २,९.२४ ॥ चतुर्विंशतिसोमानां लक्ष्म व्यक्तं रसायने । <सोमवृक्ष> करोति सोमवृक्षोऽपि रसबन्धवधादिकम् ॥ २,९.२५ ॥ पूर्णिमादिवसानीतस्तयोर्वल्ली गुणाधिका । प्रोक्ता महिषवल्ली च प्रतिसोमान्त्रवल्लिका ॥ २,९.२६ ॥ अपत्त्रवल्लिका प्रोक्ता काण्डशाखा पयस्विनी । रसवीर्यविपाकेषु सोमवल्लीसमा स्मृता ॥ २,९.२७ ॥ <स्थलपद्मिनी> अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु । पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥ २,९.२८ ॥ भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् । आक्रम्य वामपादेन पश्येद्गगनमण्डलम् ॥ २,९.२९ ॥ पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् । लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥ २,९.३० ॥ <गोनसा> गोनसाकारवल्ली स्याच्चित्रमण्डलमण्डिता । जरारुङ्मृत्युशमनी रसबन्धवधक्षमा ॥ २,९.३१ ॥ <उच्चटा> अथोच्चटां प्रवक्ष्यामि रसबन्धकरीं प्रिये । एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ॥ २,९.३२ ॥ तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् । तत्पत्राणि च देवेशि शुकपिच्छनिभानि च ॥ २,९.३३ ॥ तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् । जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ॥ २,९.३४ ॥ वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च । <ईश्वरी> ईश्वरीत्युच्यते काचिदीश्वरीतुल्यरूपिणी ॥ २,९.३५ ॥ भूरिक्षीरपरिस्रावा सबीजरसबन्धिनी । <भूतकेशी> निम्बपत्रसदृक्पत्रा भूतकेशीति कथ्यते ॥ २,९.३६ ॥ न वध्यते यया सूतः सूतोऽसौ हि निबन्धकः । <कृष्णलता> भिन्नकज्जलसङ्काशा लता कृष्णलतेत्यसौ ॥ २,९.३७ ॥ निर्बीजमपि बध्नाति रसं सर्वविषापहा । <लशुनवल्ली> नाम्ना लशुनवल्ली च तद्दलैः सदृशच्छदा ॥ २,९.३८ ॥ क्षरत्क्षीरा सुकन्दा च रसं बध्नाति वेगतः । <रुदन्ती> चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशी ॥ २,९.३९ ॥ रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी । रुदन्तीव जनान्दृष्ट्वा मृत्युदैन्यजराकुलान् ॥ २,९.४० ॥ चतुर्विधा तु सा ज्ञेया पीता रक्ता सितासिता । जारिताभ्रं रसं हन्याद्बध्नाति च रसायनी ॥ २,९.४१ ॥ मुसलीकन्दवत्कन्दा तद्दलाकारवद्दला । सुक्षीरा रोमशा सोक्ता वाराही रसबन्धनी ॥ २,९.४२ ॥ <सप्तपत्त्री> सप्तपल्लवसम्पूर्णां सप्तपत्त्रीत्यसौ मता । रसायनी जराघ्नी च बध्यते पारदस्तया ॥ २,९.४३ ॥ <नागिनी> नागिनीत्युदिता वल्ली नागभोगसमाङ्गिका । सर्पादिकविषघ्नी च सा स्वच्छरसबन्धिनी ॥ २,९.४४ ॥ <सर्पिणी> सर्पिणी लतिका चान्या सर्पवद्वक्रयष्टिका । सक्षीरा स्निग्धपत्रा च बालपारदबन्धिनी ॥ २,९.४५ ॥ <छत्त्रिणी> छत्रवद्दण्डपत्रा या नातिनीचा न चोन्नता । सुक्षीरा छत्त्रिणी नाम रसबन्धकरी मता ॥ २,९.४६ ॥ <गोशृङ्गी> पर्वतेऽश्मसमुद्भूता गोकन्दाकृतिकन्दयुक् । क्षता मुञ्चति सा क्षीरं गोशृङ्गी रसबन्धिनी ॥ २,९.४७ ॥ <ज्योतिर्लता> ज्योतिर्नाम्नी त्रिधा प्रोक्ता वृक्षकन्दतृणात्मिका । गिरौ ज्वलति सा रात्रौ लतापारदबन्धिनी ॥ २,९.४८ ॥ <रक्तवल्ली> रक्तक्षीरदलाङ्गा या नातिविस्तरवल्लिका । रक्तवल्लीत्यसौ दिव्या निर्दिष्टा रसबन्धिनी ॥ २,९.४९ ॥ <पद्मवल्ली> या पद्मपत्राकृतिपत्रवल्ली सा पत्रवल्लीत्युदिता रसज्ञैः । सक्षीरकन्दा सलिलोद्भवा च क्षितौ न तिष्ठेद्रसबन्धनी सा ॥ २,९.५० ॥ <काकिनी> स्थूलकण्टकवर्णाढ्या सा प्रोक्ता काकिनी लता । रसबन्धकरी सैषा जरामृत्युविनाशिनी ॥ २,९.५१ ॥ <चान्डाली> चाण्डालीति विनिर्दिष्टा त्रिचतुःपत्रधारिणी । सा च रक्ता क्षीरकन्दा तया सूतो निबध्यते ॥ २,९.५२ ॥ प्रोक्तश्चण्डालकन्दः स्यादेकपत्रो द्विपत्त्रकः । त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥ २,९.५३ ॥ <ताम्रवल्ली> ताम्रवर्णलतापत्रपुष्पक्षीरसमन्विता । सा ताम्रवल्लिका प्रोक्ता रसलोहादिसाधनी ॥ २,९.५४ ॥ <पीतवल्ली> पीतपत्रलतापुष्परसयुक्तातिदुर्लभा । सा पीतवल्लिकेत्युक्ता रसबन्धविधौ हिता ॥ २,९.५५ ॥ <विजया> सितक्षीराढकीपत्रछदना नातिविस्तृता । विख्याता विजयेत्येषा रसबन्धविधौ हिता ॥ २,९.५६ ॥ <महौषधी> त्रिकोणकन्दसंयुक्ता चित्रकच्छदनच्छदा । महौषधीति सा प्रोक्ता रसबन्धे परं हिता ॥ २,९.५७ ॥ <देवदाली> शिखिकण्ठाभपत्राढ्या चन्दनामोदमेदुरा । देवदालीत्यसौ दिव्या रसं बध्नाति सा क्षणात् ॥ २,९.५८ ॥ <नवनीतकगन्धी> नवनीतकगन्धीति तिक्ता म्रक्षणगन्धिनी । सक्षीरा रक्तपुष्पा च रसेन्द्रो बध्यते तया ॥ २,९.५९ ॥ <गरुडवल्ली> सक्षीरा रक्तपुष्पा च बदरीदलवद्दला । उक्ता गारुडवल्लीति शीघ्रं बध्नाति पारदम् ॥ २,९.६० ॥ <तुम्बिनी> तुम्बिनीत्युदिता वल्ली तत्पत्रकुसुमान्विता । तिक्तरक्तपयोयुक्ता तत्फला रसबन्धिनी ॥ २,९.६१ ॥ <भूतुम्बिनी> या तुम्बिनीपत्रसमानपत्रा भूतुम्बिनी नातिविसर्पिणी सा । निम्बूसमानैश्च फलैरुपेता सर्वामयघ्नी रसबन्धनी च ॥ २,९.६२ ॥ <गन्धर्वा> एरण्डपत्रवत्पत्रा सक्षीरा नातिविस्तृता । गन्धर्वेत्युदिता सा हि तया बन्धं रसो व्रजेत् ॥ २,९.६३ ॥ <व्याघ्रपादी> व्याघ्राङ्घ्रिसमपत्रा या रक्तपुष्पा पयस्विनी । व्याघ्रपादीति निर्दिष्टा रसं बध्नाति निश्चितम् ॥ २,९.६४ ॥ <महौषधी> सप्तच्छदसदृक्पत्रा कृशाङ्गी नातिविस्तृता । महौषधीत्यसौ प्रोक्ता रसं बध्नाति हन्ति च ॥ २,९.६५ ॥ <गोमारी> गोमारीनामिका वल्ली वेणुपत्रसमच्छदा । तस्या मूलं समासाद्य शस्तः सूतो निबध्यते ॥ २,९.६६ ॥ <त्रिशूली> त्रिशूलाकारपत्रा या शम्याकफलवत्फला । त्रिशूलीति समाख्याता विख्याता रसबन्धने ॥ २,९.६७ ॥ <रुतसी> रुतसीपत्रवत्पत्रफला सा क्षीरकन्दयुक् । रुतसी वल्लिकेत्युक्ता गिरिजा रसबन्धनी ॥ २,९.६८ ॥ <त्रिदण्डी> सुपुष्पा तिलकोपेता रक्तत्यत्रिफलान्विता । रसबन्धविधौ प्रोक्ता त्रिदण्डीति कृताभिधा ॥ २,९.६९ ॥ <भृङ्गवल्ली> भृङ्गवद्वर्णपत्राढ्या क्षीरिणी पीतपुष्पिका । भृङ्गवल्लीति सा प्रोक्ता प्रयुक्ता रसबन्धने ॥ २,९.७० ॥ <चमरिका> चमराकारपत्राढ्या क्षीरयुक्चन्द्रधारिणी । लता चमरिका नाम सा च बध्नाति पारदम् ॥ २,९.७१ ॥ <करवीरलता> हयमारसमाकारदलपुष्पवती लता । करवीरलतेत्युक्ता नितरां सूतबन्धिनी ॥ २,९.७२ ॥ <वज्रवल्ली> कोरण्डपत्रछदनोपमानप्रसूनपत्रा च सदुग्धकन्दा । सा वज्रवल्ली कटुतिक्तसारा वज्राङ्कपत्रा रसबन्धिनी च ॥ २,९.७३ ॥ <वारवल्ली> रक्तक्षीरवती बिल्वदलोपमदलान्विता । वारवल्लीति सा सूतबन्धनी रोगनाशिनी ॥ २,९.७४ ॥ <रोहिणी> शणपुष्पदलाकारदशपुष्पा च दुग्धयुक् । सा रोहिणीति निर्दिष्टा रसराजस्य बन्धनी ॥ २,९.७५ ॥ <बिल्विनी> ज्योतिष्मतीदलाकारवर्णपर्णा यशस्विनी । रसबन्धविधौ प्रोक्ता बिल्विनीति निगद्यते ॥ २,९.७६ ॥ <गोरोचनलता> गोरोचनप्रभायुक्तदलवल्लीसमन्विता । गोरोचनलता भूतमोचनी रसबन्धनी ॥ २,९.७७ ॥ <करीरी> श्रीशैलशिखरोद्भूता मार्कण्डीसदृशौषधी । रक्तं क्षीरं क्षता मुञ्चेत्करीरी रसबन्धिनी ॥ २,९.७८ ॥ <अक्षरा> पत्त्रसीसा पत्त्रवत्पत्रा त्रिवर्षात्फलदायिनी । अक्षरेति समाख्याता रसस्यातिनिबन्धिनी ॥ २,९.७९ ॥ <अपत्त्रा> सोमवल्लीव निष्पत्रा कज्जलाभरसान्विता । अपत्त्रासौ भवेद्विन्ध्ये नात्युच्चा रसबन्धिनी ॥ २,९.८० ॥ आद्ये वर्षे भवेदम्ला भवेत्तिक्ता द्वितीयके । तृतीयेऽब्दे च मधुरैः फलैर्युक्ता प्रजायते ॥ २,९.८१ ॥ पित्तज्वरहरा सद्यः सुपत्रफलसंयुता । <कुटजवल्ली> लता कुटजवल्लीति तत्फला तद्दलान्विता ॥ २,९.८२ ॥ मधुरा रुधिरग्रन्थिः सूतराजनिबन्धिनी । <मूलकन्दा> मूलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥ २,९.८३ ॥ लता क्षीरान्विता सूतबन्धनं कुरुते ध्रुवम् । <ब्राह्मणी> पारिजाताद्रिजा वल्ली शतपुष्पदलच्छदा ॥ २,९.८४ ॥ कृष्णक्षीरफला प्रोक्ता ब्राह्मणी रसबन्धिनी । <मुनिवल्ली> अगस्तिपत्रतत्पत्रा तद्रूपारुणपुष्पिणी ॥ २,९.८५ ॥ घृतगन्धा रसघ्नी सा मुनिवल्लीति कथ्यते । <निम्बका> दलैः पुष्पैः फलैर्वल्ली निंबवृक्षस्य सन्निभा ॥ २,९.८६ ॥ तन्मूलैर्बध्यते सूतः सा प्रोक्ता निम्बका लता । <तिलकन्दा> तिलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥ २,९.८७ ॥ लता क्षीरवती सूतं निबध्नात्यातपे खरे । <अतसीवल्लिका> अतस्य इव पुष्पाणि फलानि च दलानि च ॥ २,९.८८ ॥ अतसीवल्लिका सा हि पारदस्य निबन्धिनी । <बोधिलता> उक्ता बोधिलता बोधिपत्त्रदुग्धेन संयुता ॥ २,९.८९ ॥ बध्नाति रसराजं सा दानवेन्द्रमिवाच्युतः । <मद्यगन्धा> मद्यगन्धेति विख्याता निष्पत्रा फलपत्रयुक् ॥ २,९.९० ॥ तस्याः कन्दो रसं शीघ्रं बन्धनं नयति ध्रुवम् । <कूर्मलता> उक्ता कूर्मलता कूर्मरूपकन्दा पयोऽन्विता ॥ २,९.९१ ॥ मल्लिकोपमतत्पत्रप्रसवा रसबन्धिनी । <माधवी> माधवीमूलवन्मूला नागवल्लीदलान्विता ॥ २,९.९२ ॥ माधवीत्युदिता वल्ली तन्मूलैर्बध्यते रसः । <विशाला> श्वेतपत्रतया वल्ली श्वेतपुष्पफला तथा ॥ २,९.९३ ॥ विशालेति विनिर्दिष्टा सापि पारदबन्धिनी । <महानागा> नागकुण्डलवत्कन्दा तत्फणासदृशच्छदा ॥ २,९.९४ ॥ महानागेत्यसौ वल्ली विनिबध्नाति पारदम् । <मण्डूकलतिका> मण्डूकाकारवत्कन्दा मण्डूकीदलवद्दला ॥ २,९.९५ ॥ मण्डूकलतिकेत्येषा तन्मूलैर्बध्यते रसः । <उदुम्बरलता> उदुम्बरफलाकारफलवद्दलवद्दला ॥ २,९.९६ ॥ सोदुम्बरलतेत्युक्ता सूतराजस्य बन्धिनी । <चित्रवल्ली> या दुग्धकन्दा वटपत्रपत्रा विचित्रपर्णोरुफला सुदीर्घा । सा चित्रवल्लीत्युदिता रसेन्द्रो निबध्यते तत्फलमध्यसंस्थः ॥ २,९.९७ ॥ चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ २,९.९८ ॥ आभिर्बद्धो रसो न्ःणां देहलोहार्थसाधकः । सोमवल्ली सोमवृक्षः स्थलपद्मिनिका ततः ॥ २,९.९९ ॥ गोनसा कारवल्ली च उच्चटा ईश्वरी ततः । भूतकेशी कृष्णलता ज्ञेया लशुनवल्लरी ॥ २,९.१०० ॥ रुदन्ती चैव वाराही सप्तपत्त्री च नागिनी । सर्पिणी छत्त्रिणी चैव गोशृङ्गी सर्वसिद्धिदा ॥ २,९.१०१ ॥ ज्योतिर्नाम्नी त्रिधा रक्तवल्लरी पत्रवल्लरी । काकिनी चैव चाण्डाली वल्लरी ताम्रवल्लरी ॥ २,९.१०२ ॥ पीतवल्ली च विजया विज्ञेया च महौषधी । ज्ञातव्या देवदाली च स्यान्नवानीतगन्धिनी ॥ २,९.१०३ ॥ ज्ञेया गरुडवल्ली च तुम्बिनी भूमितुंबिनी । गन्धर्वा व्याघ्रपादी च विज्ञेया च महौषधी ॥ २,९.१०४ ॥ गोमारी च त्रिशूली च रुतसी च त्रिदण्डिका । भृङ्गवल्ली चमरिका करवीरलता ततः ॥ २,९.१०५ ॥ वज्रवल्ली वारवल्ली रोहिणी बिल्विनी तथा । गोरोचनलता चैव करीरी चाक्षरा तथा ॥ २,९.१०६ ॥ अपत्त्री कुटजा वल्ली मूलकन्दा च ब्राह्मणी । घृतगन्धा निम्बवल्ली तिलकन्दातसी तथा ॥ २,९.१०७ ॥ बोधिवल्ली मद्यगन्धा कूर्मवल्ली च माधवी । विशाला च महानागा ज्ञेया मण्डूकवल्ली ॥ २,९.१०८ ॥ उदुम्बरलता चित्रवल्ली चैव सुरार्चिते । चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ २,९.१०९ ॥ आक्, २, १० श्रीभैरवः । <हिमजा> हिमजा काञ्चनक्षीरी यवचिञ्चा महाद्रिजा । हिमावती पीतदुग्धा रेचनी पटुपर्णिका ॥ २,१०.१ ॥ तद्दुग्धं हेमकङ्कुष्ठं पुलकं रेचनं तथा । तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णाग्निगर्भा सुरवल्लरी च ॥ २,१०.२ ॥ हिमजा कटुका तिक्ता रेचनी सर्ववातनुत् । कृमिशोषोदरघ्नी च पित्तज्वरहरा तु सा ॥ २,१०.३ ॥ <कारवी> कारवी कारवल्ली च कषायोष्णा कफापहा । कासश्वासहरा बल्या ज्ञेया रसनियामिका ॥ २,१०.४ ॥ <कटुतुम्बी> कटुतुम्बी कटुफला राजपुत्री महत्फला । कटुतुम्बी कटुस्तिक्ता वान्तिकृच्छ्वासवान्तिजित् ॥ २,१०.५ ॥ कासघ्नी शोधनी शोफव्रणशूलविषापहा । तिक्ततुम्बी तु तिक्ता स्यात्कटुका कटुतुम्बिका ॥ २,१०.६ ॥ तुम्बी च कटुतिक्तादितुम्बीपर्यायगा स्मृता । <ज्योतिष्मती> ज्योतिष्मती नाम लतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला । दीप्या च मेध्या मतिदा च दुर्जरा सारस्वती स्यादमृतार्कसंख्या ॥ २,१०.७ ॥ <लिङ्गिनी> लिङ्गिनी बहुपुत्री स्यादीश्वरी शैववल्लरी ॥ २,१०.८ ॥ स्वयम्भूर्लिङ्गसम्भूता लैङ्गी चित्रफलान्विता । अयःस्तम्भकरी लिङ्गबीजा च शिववल्लरी ॥ २,१०.९ ॥ लिङ्गिनी कटुरूक्षा च दुर्गन्धा च रसायनी । सर्वसिद्धिकरी दिव्या रसराजनियामिका ॥ २,१०.१० ॥ <पातालगरुडी> पातालगरुडी तार्क्षी सौवर्णी गरुडी तथा । वत्सादनी दीर्घकाण्डा दृढकाण्डा महाबला ॥ २,१०.११ ॥ दीर्घवल्ली दृढलता दर्शनामानि पार्वति । सर्ववश्यकरी सैषा सर्पादिविषनाशनी ॥ २,१०.१२ ॥ <गिरिकर्णी> गिरिकर्णी च कटभी गर्दभी दधिपुष्पिका । सितपुष्पी विषघ्नी च श्वेताश्वखुरपुष्पिका ॥ २,१०.१३ ॥ गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥ २,१०.१४ ॥ नीलपुष्पा महानीला स्यान्नीलगिरिकर्णिका । नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री । प्रतर्दिकोन्मादमदश्रमार्तिश्वासार्तिहा स्याद्विषहारिणी च ॥ २,१०.१५ ॥ <आखुकर्णी> आखुकर्णी भूमिचरा द्रवन्ती बहुपादिका ॥ २,१०.१६ ॥ सुतश्रेणी द्रवन्ती च न्यग्रोधा माक्षिकाह्वया । चित्रा मूषकपुच्छी च प्रत्यक्श्रेणी च शबरी ॥ २,१०.१७ ॥ सुतश्रेणी च चक्षुष्या कटुकाखुविषापहा । व्रणदोषहरा चैव नेत्रामयविनाशिनी ॥ २,१०.१८ ॥ कृष्णिका बहुपर्णी च प्रत्यक्शोणी च शबरी । पूतिपर्णी शिवा चाखुकर्णवत्पर्वशालिनी ॥ २,१०.१९ ॥ आखुकर्णी कटूष्णा च कफपित्तहरा सरा । आनाहशूलजूर्त्यर्तिनाशनी पाचनी परा ॥ २,१०.२० ॥ <वाराही> वाराही स्यात्सूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता कुमारी । कौमारी स्याद्ब्रह्मपत्त्री त्रिनेत्रा क्रौडीकन्या गृष्टिका माधवेष्टा ॥ २,१०.२१ ॥ वाराही तिक्तकटुका विषपित्तकफापहा । कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी ॥ २,१०.२२ ॥ <देवदाली> देवदाली त्रिधा प्रोक्ता श्वेता कृष्णा च पीतला । सा श्वेता व्याधिशमनी कृष्णा पीता रसायने ॥ २,१०.२३ ॥ देवदाली कोशफला दाली लोमशपत्त्रिका । कृष्णबीजा कटुफला वृत्तकोशाम्लवल्लरी ॥ २,१०.२४ ॥ जीमूतं कण्टकफला वेणी चाखुविषापहा । तुरङ्गिका जालफला गरारिः सारमूषिका ॥ २,१०.२५ ॥ देवदाली तु तीक्ष्णोष्णा कटुः पाण्डुकफापहा । दुर्नामश्वासकासघ्नी कामिलालूतिकापहा ॥ २,१०.२६ ॥ सर्वलोहद्रुतिकरा पीनसाहिविषापहा । <ऐन्द्री> ऐन्द्रीन्द्रवारुण्यरुणा मृगादिनी गवादनी क्षुद्रसहेन्द्रचिद्भटा । सूर्या विषघ्नी रुणकर्णिकामरा सुपर्णिका स्यात्फलतारका च ॥ २,१०.२७ ॥ वृषभाक्षी गवाक्षी च पीतपुष्पेन्द्रवल्लरी ॥ २,१०.२८ ॥ हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया । रक्तोर्वारुर्विषलता चक्रवल्ली विषापहा ॥ २,१०.२९ ॥ अमृता च विशाला च ज्ञेयोनत्रिंशदाह्वया । इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी ॥ २,१०.३० ॥ गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा । महेन्द्रवारुणी रम्या चक्रवल्ली महाफला ॥ २,१०.३१ ॥ सा महेन्द्री वृत्तफला त्रपुसी त्रपुसा तथा । आत्मरक्षा विशाला च दीर्घवल्ली महाफला ॥ २,१०.३२ ॥ स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश । माहेन्द्रवारुणी ज्ञेया पूर्वोक्ता गुणवाहिनी ॥ २,१०.३३ ॥ रसे वीर्ये विपाके च किंचिदेषा गुणाधिका । <गोजिह्वा> गोजिह्वा क्षुरपत्त्री स्यादधःपुष्पा त्वधोमुखी ॥ २,१०.३४ ॥ गोजिह्वा कटुका तीव्रा शीतला पित्तनाशिनी । व्रणप्रशमनी चैव सप्तदन्तविषापनुत् ॥ २,१०.३५ ॥ <काकतुण्डी> काकतुण्डी काकनासा काकसिंही च रक्तला । काकदन्ती काकपीलुर्वृत्तरक्तफला तथा ॥ २,१०.३६ ॥ काकप्राणा वल्कशल्या कृष्णबीजा च रञ्जकी । काकतुण्डी च मधुरा शिशिरा पित्तहारिणी ॥ २,१०.३७ ॥ रसायनी दार्ढ्यकरी विशेषात्पलितापहा । <रक्तपादी> रक्तपादी शमीपत्त्रपत्त्रा खदिरपत्त्रिका ॥ २,१०.३८ ॥ संकोचनी समङ्गा च नमस्कारी प्रसारणी । लज्जालुः सप्तपर्णी स्यात्खदिरी मण्डमालिका ॥ २,१०.३९ ॥ रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका । लज्जालुश्च कटुः शीता पित्तातीसारनाशिनी ॥ २,१०.४० ॥ शोफदाहज्वरश्वासव्रणकुष्ठकफार्तिनुत् । लज्जालुर्वैपरीत्याह्वः कटुरुष्णः कफामनुत् ॥ २,१०.४१ ॥ रसे नियामकेऽत्यन्तं नानाविज्ञानकारकः । <पुनर्नवा> पुनर्नवा त्रिधा प्रोक्ता श्वेता रक्ता च मेचका ॥ २,१०.४२ ॥ पुनर्नवा विषहरा कठिल्ला नेत्ररोगहा । पृथ्वीका सितवर्षाभूर्दीर्घपत्त्रा सिताङ्गका ॥ २,१०.४३ ॥ श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा । कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥ २,१०.४४ ॥ पुनर्नवान्या रक्ताख्या कृतमण्डलपत्त्रिका । वैशाखी रक्तसर्वाङ्गा शोफघ्नी विषहा परा ॥ २,१०.४५ ॥ पुनर्नवो नवो नव्या प्रावृषेण्या च सारिणी । रक्ता पुनर्नवा तिक्ता सारणी शोफनाशिनी ॥ २,१०.४६ ॥ रक्तप्रदरदोषघ्नी पाण्डुपित्तप्रमर्दनी । श्यामाख्या नीलवर्षाभूर्दीर्घपत्त्रा पुनर्नवा ॥ २,१०.४७ ॥ नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी । हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ २,१०.४८ ॥ <अत्यम्लपर्णी> अत्यम्लपर्णी तीक्ष्णाम्ला कण्डूला वल्लिसारसा । वनस्थारण्यवासी च कन्दाढ्या कर्कशच्छदा ॥ २,१०.४९ ॥ अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी । वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥ २,१०.५० ॥ <कर्कोटकी> कार्कोटकी द्विधा वन्ध्या श्रेष्ठान्या फलमारिणी । मृदुकण्टकिनी वृत्तफला सा वनवासिनी ॥ २,१०.५१ ॥ वन्ध्या देवी वन्ध्यकार्कोटकी स्यान्नागारातिर्नागहन्त्री मनोज्ञा । पथ्या दिव्या पुत्रदात्री त्रिकन्दा श्रीकन्दा सा कन्दवल्ली विषघ्नी ॥ २,१०.५२ ॥ योगीश्वरी व्याघ्रपादी कन्या स्यात्षोडशाह्वया । वन्ध्या कर्कोटकी तिक्ता कटूष्णा च कफापहा ॥ २,१०.५३ ॥ स्थावरादिविषघ्नी स्याद्रसबन्धे रसायने । <शरपुङ्खा> शराभिधानपुङ्खा स्याच्छरपुङ्खीति कथ्यते ॥ २,१०.५४ ॥ शरपुङ्खी त्रिधा श्वेता रक्ता कृष्णा च कण्टका । श्वेताप्येषा गुणाढ्या स्यात्प्रयोगे च रसायने ॥ २,१०.५५ ॥ अन्या तु कण्टपुङ्खा स्यात्कण्टसायकपुङ्खिका । कण्टस्पृशेव कुण्डी कण्टकशरपुङ्खमूलनिर्यूहः ॥ २,१०.५६ ॥ तूर्णमजीर्णविषूचीमहापरतिकृशानुकार्श्यं च । सर्वाश्च शरपुङ्खास्तु कटूष्णाः कफवातहाः ॥ २,१०.५७ ॥ अजीर्णशूलकृमिहा ग्रहणीशमनाः परम् । <भृङ्गराज> मार्कवो भृङ्गराजः स्याद्भृङ्गाह्वः केशरञ्जकः ॥ २,१०.५८ ॥ पितृप्रियो ब्रह्मपत्त्री केश्यः कुन्तलवर्धनः । पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरप्रियः ॥ २,१०.५९ ॥