अथातो दीर्घंजीवितीयमध्यायं व्याख्यास्यामः ॥ १,१.१ [{आयुर्वेददीपिका} गुणत्रयविभेदेन मूर्तित्रयमुपैयुषे । त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥ १ सरस्वत्यै नमो यस्याः प्रसादात्पुण्यकर्मभिः । बुद्धिदर्पणसंक्रान्तं जगदध्यक्षमीक्ष्यते ॥ २ ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु हुताशवेशचरकप्रभृतिभ्यो नमो नमः ॥ ३ पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः । मनोवाक्कायदोषाणां हर्त्रेऽहिपतये नमः ॥ ४ नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी । क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ ५ सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ॥ ६ इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि सुरोपलम्भार्थं नातिसंक्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान् ॥ ७ तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधाय ॥ ८ क्ता इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम् ॥ ९ ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् ॥ १० अथ मन्यसे आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं ननु भो कथमयं प्रयोजनाभिधायी आप्तः तदभिहितशास्त्रस्य यथार्थत्वादिति चेथन्त न यावच्छास्त्रस्य प्रयोजनवत्तावधारणं न तावच्छास्त्रप्रवृत्तिः न यावच्छास्त्रप्रवृत्तिर्न तावच्छास्त्रस्य यथार्थत्वावधारणं न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते आप्तत्वानवधृतौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणमर्थरूपप्रयोजनवत्तासंदेह एव प्रवर्तको भविष्यति कृष्यादावपि हि प्रवृत्तिरर्थसंदेहादेव न हि तत्र कृषीवलानां फललाभावधारणं विद्यते अन्तरावग्रहादेरपिसंभाव्यमानत्वात्नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासंदेहोपदर्शकमस्तु तथाप्यलं प्रयोजनाभिधानेन ॥ ११ नैवं नहि सामान्येन प्रयोजनसंदेहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेतप्रयोजनविशेषविषयः संदेहः अभिप्रेतविशेषविषयश्च संदेहो न विशेषविषयस्मरणमन्तरा भवति अतो ये तावदनवधृताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमाकारविशेषसंदेहोत्पादनार्थं प्रयोजनविशेषाभिधानं ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानम् ॥ १२ प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसंदेहादेव प्रवृत्तिरुपपन्ना न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे ॥ १३ तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं तथा चानवस्था इति तन्निरस्तं भवति ॥ १४ अथेत्यादि सूत्रेऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्वल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम् ॥ १५ ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोत्ःणामविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम् ॥ १६ अथशब्दस्य मङ्गलत्वे स्मृतिरोंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ॥ १७ कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ इति ॥ १८ शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः ॥ १९ यथा अथ शब्दानुशासनमथातो धर्मं व्याख्यास्यामः वै इत्यादौ ॥ २० अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद्व्याख्यानान्तरायभयश्च तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् ॥ २१ यथा च गुर्वाज्ञालाभानन्तरमेतत्तन्त्रकरणं तथा अथ मैत्रीपरः पुण्यमित्यादौ स्फुटमेव ॥ २२ ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति ॥ २३ यत्पुनः शिष्यप्रश्नानन्तर्यार्थत्वमथशब्दस्य वर्ण्यते तन्न मां धिनोति नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ॥ २४ अतःशब्दोऽधिकारप्रागवध्युपदर्शकः अत ऊर्ध्वं यदुपदेक्ष्यामो दीर्घंजीवितीयं तदिति यदि वा हेतौ येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्सम्बन्धत्वमिव अतो हेतोर्दीर्घंजीवितीयं व्याख्यास्याम इति योजनीयम् ॥ २५ दीर्घंजीवितीयमित्यत्र दीर्घंजीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे अध्यायानुवाकयोर्लुक्च इति छप्रत्ययः ॥ २६ यदि वा दीर्घंजीवितशब्दमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायामधिकृत्य कृते ग्रन्थे इत्यधिकारात्शिशुक्रन्दयमसभ इत्यादिना छः ॥ २७ एवमन्यत्राप्येवंजातीये मन्तव्यम् ॥ २८ अत्र च सत्यपि शब्दान्तरे दीर्घंजीवितशब्देनैव संज्ञा कृता दीर्घंजीवितशब्दस्यैव प्रवचनादौ निवेशात्प्रशस्तत्वाच्च ॥ २९ दीर्घंजीवितशब्दोऽस्मिन्नस्ति इति दीर्घंजीवितशब्दमधिकृत्य कृतो वा इत्यनया व्युत्पत्त्या दीर्घंजीवितीयशब्दस्तन्त्रेऽध्याये च प्रवर्तनीयः ॥ ३० तेन दीर्घंजीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति पुनर्दीर्घंजीवितीयमिति पदमावर्त्याध्यायपदसमभिव्याहृतमध्यायव्याख्यानप्रतिज्ञां लम्भयति ॥ ३१ दृष्टं चावृत्य पदस्य योजनं यथा अपामार्गतण्डुलीये गौरवे शिरसः शूले पीनसे इत्यादौ शिरस इति पदं गौरवे इत्यनेन युज्यते आवृत्य शूले इत्यनेन च ॥ ३२ अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति तन्निरस्तं भवति ॥ ३३ यदि वा अध्यायप्रतिज्ञैवास्तु तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव न ह्यध्यायस्तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति ॥ ३४ अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते तां तु प्रत्यध्यायमेव करिष्यति ॥ ३५ अध्यायमिति अधिपूर्वादिङः इङश्च इति कर्मणि घञा साध्यम् ॥ ३६ तेन अधीयते इत्यध्यायः ॥ ३७ न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः यतो योगरूढेयमध्यायसंज्ञाध्यायस्य प्रकरणसमूहविशेष एव दीर्घंजीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते ॥ ३८ वक्ष्यति हि अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता इति नामसंज्ञा योगरूढसंज्ञेत्यर्थः ॥ ३९ यदि वा करणाधिकरणयोरर्थयोः ॥ ४० अध्यायन्यायोद्यावसंहाराश्च इतिसूत्रेण निपातनादध्यायपदसिद्धिः ॥ ४१ अधीयतेऽस्मिन्ननेन वार्थविशेष इत्यध्यायः ॥ ४२ अतिप्रसक्तिनिषेधस्तूक्तन्यायः ॥ ४३ व्याख्यास्याम इति व्याङ्पूर्वात्ख्यातेळ्र्टा साध्यम् ॥ ४४ चक्षिङो हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन स्वरितञित इत्यादिनात्मनेपदं स्यादिति ॥ ४५ वि इति विशेषे विशेषाश्च व्याससमासादयः ॥ ४६ आङयं क्रियायोगे ये तु मर्यादायामभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषामभिप्रायं न विद्मः ॥ ४७ यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात्यथा आसमुद्रक्षितीशानामापाटलीपुत्राद्वृष्टो देव इत्यादौ इहापि च तथा ॥ ४८ क्रियायोगविरहे उपसर्गाः क्रियायोगे इति नियमादाङ उपसर्गत्वं न स्यात्ततश्चानुपसर्गेणाङा व्यवधानाद्वेरुपसर्गस्य प्रयोगो न स्यात् ॥ ४९ येनाव्यवहितः सजातीयव्यवहितो वा धातोरुपसर्गो भवति ॥ ५० व्याङोरुभयोरप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात्तस्मात्क्रियायोगित्वमेवाङो न्याय्यम् ॥ ५१ अथ अतः दीर्घं जीवितीयमध्यायं वि आ ख्यास्याम इत्यष्टपदत्वम् ॥ ५२] इति ह स्माह भगवानात्रेयः ॥ १,१.२ [{आयुर्वेददीपिका} ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयमायुर्वेदं व्याख्यास्यति यतो न तावद्भेषजादीनामशेषविशेषप्रत्यक्षज्ञेयः सर्वपदार्थानां विशेषाणां प्रत्यक्षाविषयत्वातन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव यत एकमेव मधु स्वरूपेण जीवयति मारयति चोष्णं समघृतं च कफप्रकृतेर्हितमहितं वातप्रकृतेः अनूपे सात्म्यमसात्म्यं मरौ शीते सेव्यमसेव्यं ग्रीष्मे हितमवृद्धे वृद्धे चाहितमल्पं गुणकरमाबाधकरमत्युपयुक्तमामतां गतमुदरे उपक्रमविरोधित्वादतिविभ्रमकरं काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति इत्येवमादि तत्तद्युक्तं तत्तच्छतशः करोति अत एवैकस्यैव मधुनो रूपं यदानेन प्रकारेण दुरधिगमं तदात्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोराप्तात्प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर्गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह इति ह स्माह भगवानात्रेय इति ॥ १ अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः हशब्दोऽवधारणे यथा न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति अत्र न हेति नैवेत्यर्थः ॥ २ अत्र स्माह इति स्मशब्दप्रयोगेन भूतमात्र एव लिडर्थे लट्स्मे इति लट्न भूतानद्यतनपरोक्षे आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात् ॥ ३ यथा च भूतमात्रे लिड्भवति तथाच दर्शयिष्यामः ॥ ४ भगं पूजितं ज्ञानं तद्वान् यथोक्तमुत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥ ५ वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः यथोक्तमैश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ६ ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनाः इति ॥ ७ अत्रेरपत्यमात्रेयः अनेन विशुद्धवंशत्वं दर्शितं भवति ॥ ८ अत्रान्ये वर्णयन्ति चतुर्विधं सूत्रं भवति गुरुसूत्रं शिष्यसूत्रं प्रतिसंस्कर्तृसूत्रमेकीयसूत्रं चेति ॥ ९ तत्र गुरुसूत्रं यथा नैतद्बुद्धिमता द्रष्टव्यमग्निवेश इत्यादि प्रतिसंस्कर्तृसूत्रं यथा तमुवाच भगवानात्रेयः इत्यादि शिष्यसूत्रं यथा नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते इत्यादि एकीयसूत्रं यथा कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः इत्यादि ॥ १० तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव शिष्यस्याग्निवेशस्य व्याख्यानेऽनधिकारत्वात् ॥ ११ द्वितीयं च सूत्रं प्रतिसंस्कर्तुः । इतिशब्देन च प्रकारवाचिना दीर्घंजीवितीयं व्याख्यास्याम इति परामृश्यते तेनाह स्मेति भूतानद्यतनपरोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात् ॥ १२ अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादावपि लिड्विधिरुपपन्नो भवति ॥ १३ सुश्रुते च यथोवाच भगवान् धन्वन्तरिः इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता लिड्विधिरुपपादितः इति ॥ १४ अत्र ब्रूमः यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं तन्न नहि जात्या गुरुत्वमस्ति यतः स एवात्रेयः स्वगुरुमपेक्ष्य शिष्यः अग्निवेशादीनपेक्ष्य गुरुः एवमग्निवेशोऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ्शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः ॥ १५ यत्पुनर्द्वितीयस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिरुपपाद्यते तत्र विचार्यं किमिदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा यद्येकवाक्यतापन्नं तदा सुश्रुते तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयं तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नमुवाचेतिपदं न भिन्नकर्तृकं भवितुमर्हति तथा च कुतो लिड्विधिः अथ नैकतापन्नं तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसंगतिः ॥ १६ किंच जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति तत्कथं नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिरधिगम्योवाच इत्यादौ लिड्विधिः ॥ १७ अनेन न्यायेन चरकेऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति तस्माच्चरकेऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता क्वचित्किंचिदर्थं स्तोतुं निन्दितुं वाख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति प्रतिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव ॥ १८ लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात्तथा च हरिवंशे धन्योपाख्याने मामुवाच इति तथा अहमुवाच इति च न स्यात्यथा स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् ॥ १९ किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो इति तथा स्व्यम्भुवचनात्सोऽहं वेदान् वै समुपस्थितः ॥ २० उवाच चैनांश्चतुरः इति ॥ २१ यदपि इति ह स्माह इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते तन्न येन दीर्घंजीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति ॥ २२ भवति तु भावयितुं यथा पुरा व्याख्यातं तस्मात्तदेव न्याय्यमिति ॥ २३ अग्निवेशस्य व्याख्यास्याम इति बहुवचनमेकस्मिन्नप्यस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात्साधु हि वदन्ति वक्तारो वयं करिष्यामः इति ॥ २४ भगवानात्रेय इत्यत्र त्वेकवचननिर्देशः कृतः भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात् ॥ २५] दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत् । इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् ॥ १,१.३ ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः । जग्राह निखिलेनादावश्विनौ तु पुनस्ततः ॥ १,१.४ अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम् । ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत् ॥ १,१.५ विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् । तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ॥ १,१.६ तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः । समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ॥ १,१.७ अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः । आत्रेयो गौतमः सांख्यः पुलस्त्यो नारदोऽसितः ॥ १,१.८ अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ । पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्जलः ॥ १,१.९ विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित् । गार्ग्यः शाण्डिल्यकौण्डिन्यौ वार्क्षिर्देवलगालवौ ॥ १,१.१० सांकृत्यो बैजवापिश्च कुशिको बादरायणः । बडिशः शरलोमा च काप्यकात्यायनावुभौ ॥ १,१.११ काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ । शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ॥ १,१.१२ शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः । वैखानसा वालखिल्यास्तथा चान्ये महर्षयः ॥ १,१.१३ ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च । तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥ १,१.१४ सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् । [{आयुर्वेददीपिका} के ते महर्षय इत्याहाङ्गिरा इत्यादि ॥ १ बह्वृषीणामत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन तथायुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति ॥ २ एषु च मध्ये केचिद्यायावराः केचिच्छालीनाः केचिदयोनिजाः एवंप्रकाराश्च सर्वे मीलिता बोद्धव्याः ॥ ३ भिक्षुरित्यात्रेयविशेषणं वक्ष्यति हि तन्नेति भिक्षुरात्रेयः इति ॥ ४ वैखानसा इति कर्मविशेषप्रयुक्ता संज्ञा ॥ ५ वालखिल्यास्तु स्वल्पप्रमाणाः केचिदृषयः ॥ ६ निधय इव निधयोऽक्षयस्थानत्वेन ॥ ७ दमो दान्तत्वम् ॥ ८ इमामिति अग्रे वक्ष्यमाणाम् ॥ ९] धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् ॥ १,१.१५ रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च । प्रादुर्भूतो मनुष्याणामन्तरायो महानयम् ॥ १,१.१६ कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः । अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा ॥ १,१.१७ स वक्ष्यति शमोपायं यथावदमरप्रभुः । [{आयुर्वेददीपिका} धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः अर्थः सुवर्णादिः काम्यत इत कामो वनितापरिष्वङ्गादिः मोक्षः संसारविमोक्षः ॥ १ आरोग्यं रोगाभावाद्धातुसाम्यम् ॥ २ मूलं कारणम् ॥ ३ उत्तममिति प्रधानं तेनारोग्यं चतुर्वर्गे प्रधानं कारणं रोगगृहीतस्य क्वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्तम् ॥ ४ तस्यापहर्तार इति आरोग्यस्यापहर्तारः इदमेव च रोगाणामारोग्यापहरणं यदनर्थलाभः न पुनरुत्पन्नो रोगः पश्चादारोग्यमपहरति भावाभावयोः परस्पराभावात्मकत्वात् ॥ ५ श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थे दशमहामूलीये वक्ष्यमाणं तस्य जीवितस्यापहर्तार इति योजनीयमश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयमिति कृत्वा तदपहरणमिह नोक्तम् ॥ ६ अत्र सुखितजीवितोपघातो धर्माद्युपघातेनैव लब्धः तेन वयं पश्यामः श्रेयःशब्देन सामान्ये नाभ्युदयवाचिना धर्मादयोऽभिधीयन्ते जीवितशब्देन च जीवितमात्रं यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं वचनं हि आचकमे च ब्रह्मण इयमात्मा आशीः आयुष्मान् भूयासमिति ॥ ७ यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं तत्र दुःखस्यात्यन्तजिहासितस्यान्यथा हातुमशक्यत्वात्प्रियमपि जीवितं त्यक्तुमिच्छति न स्वरूपेण ॥ ८ अन्तराय इति धर्मादिसाधने बोद्धव्यः ॥ ९ अयमिति रोगप्रादुर्भावरूपः ॥ १० तेषामिति रोगाणाम् ॥ ११ शरणमिति रक्षितारम् ॥ १२ शक्तत्वाच्छक्र उच्यते ॥ १३ ध्यानं समाधिविशेषः तदुपलब्धिसाधनत्वाच्चक्षुरिव ध्यानचक्षुः तेन स वक्ष्यति शमोपायं यथावदमरप्रभुः इति ध्यानचक्षुषा ददृशुरिति योजना ॥ १४] कः सहस्राक्षभवनं गच्छेत्प्रष्टुं शचीपतिम् ॥ १,१.१८ अहमर्थे नियुज्येयमत्रेति प्रथमं वचः । भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः ॥ १,१.१९ स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् । ददर्श बलहन्तारं दीप्यमानमिवानलम् ॥ १,१.२० सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम् । प्रोवाच विनयाद्धीमानृषीणां वाक्यमुत्तमम् ॥ १,१.२१ व्याधयो हि समुत्पन्नाः सर्वप्राणिभयंकराः । तद्ब्रूहि मे शमोपायं यथावदमरप्रभो ॥ १,१.२२ तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः । पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये ॥ १,१.२३ [{आयुर्वेददीपिका} अथैतेषु मध्ये भरद्वाजः कथमिन्द्रमुपागमदित्याह क इत्यादि ॥ १ शचीपतिमित्यनेन शचीसम्भोगव्यासक्तमप्यहमुपासितुं क्षम इति भरद्वाजो दर्शयति ॥ २ अर्थे प्रयोजने ॥ ३ नियुज्येयं व्यापारयेयम् ॥ ४ अत्रेति प्रकृतप्रयोजन एव अत्रेतिशब्दो यस्मादर्थे ॥ ५ यथा सुभिक्षमित्यागतः यस्मात्सुभिक्षं तस्मादागत इत्यर्थः ॥ ६ नियोजित इति चौरादिको णिच न हेतौ ॥ ७ अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति ॥ ८ प्रोवाचेति सम्यगुवाच न तु प्रशब्दः प्रपञ्चार्थः पदैरल्पैरित्युक्तत्वात् ॥ ९ कस्मात्पदैरल्पैरुवाचेत्याह मतिं बुद्ध्वा विपुलामिति यस्माद्विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात्पदैरल्पैरुवाचेति भावः मतिश्च बहुविषयत्वेनोपचाराद्विपुलेत्युच्यते सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या ॥ १० अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमग्रत एव बुद्ध्वायुर्वेद उपदिष्टः तेन भरद्वाजस्येन्द्रपृच्छादीह न दर्शितं किंवा भूतमपीन्द्रपृच्छादि ग्रन्थविस्तरभयादिह न लिखितम् ॥ ११] हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम् । त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ॥ १,१.२४ [{आयुर्वेददीपिका} यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदस्तमाह हेत्वित्यादि ॥ १ हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्तेऽनेनेति हेतुलिङ्गौषधज्ञानं यावच्चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतमित्यर्थः ॥ २ हेतुग्रहणेन संनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं लिङ्गग्रहणेन च व्याधेरारोग्यस्य च कृत्स्नं लिङ्गमुच्यते तेन व्याध्यारोग्येऽपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव वक्ष्यति हि विषमारम्भमूलानां ज्वर एको हि लक्षणम् ॥ ३ विषमारम्भमूलाद्यैर्ज्वर एको निगद्यते इत्यादि औषधग्रहणेन च सर्वपथ्यावरोधः ॥ ४ शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति ॥ ५ स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम् ॥ ६ किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदादुतानन्य इत्याह त्रिसूत्रमित्यादि ॥ ७ पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच ॥ ८ त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तन्त्रिसूत्रम् ॥ ९ तत्र सूचनात्सूत्रणाच्चार्थसंततेः सूत्रम् ॥ १० एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानमिन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति ॥ ११ बुबुध इति न कृतवान् ॥ १२ अत एवोक्तं शाश्वतं नित्यमित्यर्थः ॥ १३ तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥ १४] सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः ॥ १,१.२५ तेनायुरमितं लेभे भरद्वाजः सुखान्वितम् । ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन् ॥ १,१.२६ [{आयुर्वेददीपिका} अथोद्दिष्टमायुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह सोऽनन्तेत्यादि ॥ १ अविद्यमानावन्तपारौ यस्यासावनन्तपारः अत्र पारशब्देन गोबलीवर्दन्यायेनादिरुच्यते पारशब्दो ह्युभयोरपि नदीकूलयोर्विवक्षावशाद्वर्तते किंवा अनन्तो मोक्षः पारमुत्कृष्टं फलं यस्यायुर्वेदस्यासावनन्तपारः ॥ २ वक्ष्यति हि चिकित्सा तु नैष्ठिकी या विनोपधामिति ॥ ३ अत्र नैष्ठिकी मोक्षसाधनहेतुः ॥ ४ त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः स्कन्धश्च स्थूलावयवः प्रविभागो वा ॥ ५ तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः ॥ ६ मननाज्ज्ञानप्रकर्षशालित्वान्मुनिः ॥ ७ एतेन यस्मादयं महामतिस्तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवानित्याशयः ॥ ८ अचिरादिति अचिरेण ॥ ९ अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वमुपदर्श्यते तेन त्रिसूत्रत्रिस्कन्धयोर्न पुनरुक्तिः ॥ १० तेनेति इन्द्राद्गृहीतेनायुर्वेदेन ॥ ११ अमितमिति अमितमिवामितमतिदीर्घत्वात् ॥ १२ आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः येनोत्तरकालं हि रसायनोपयोगादयं भरद्वाजोऽमितमायुरवाप्स्यति न ऋषिभ्य आयुर्वेदकथनात्पूर्वं रसायनमाचरति स्म किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्मवशात्तत्कालमेवामितमायुर्लेभे भरद्वाज इति बोद्धव्यम् ॥ १३ तच्चेति श्रुतं यदा तमिति पाठः तदा तमायुर्वेदम् ॥ १४ अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः ॥ १५ आयुर्वेदमधीत्यानन्तरमेवायं तमृषिभ्यो दत्तवान् ॥ १६] ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः ॥ १,१.२७ महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा । सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च ॥ १,१.२८ समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ॥ १,१.२९ [{आयुर्वेददीपिका} दीर्घमायुश्चिकीर्षन्त इति प्राणिनामात्मनश्च ॥ १ ज्ञानार्थं ज्ञानरूपं वा चक्षुर्ज्ञानचक्षुः तेन ज्ञानचक्षुषा ॥ २ गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह सामान्यं चेत्यादि ॥ ३ एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति तेनैतत्तत्रैव व्याकरणीयम् ॥ ४ तदिति सामान्यादि ॥ ५ तन्त्रोक्तं विधिमिति अपथ्यपरिहारपथ्योपादानरूपम् ॥ ६ शर्म सुखम् ॥ ७ परमिति दुःखानाक्रान्तम् ॥ ८ अनित्वरमिति अगत्वरम् ॥ ९] अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया ॥ १,१.३० अग्निवेशश्च भेलश्च जतूकर्णाः पराशरः । हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥ १,१.३१ [{आयुर्वेददीपिका} अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नोऽग्निवेशादिगुरुतां दर्शयति ॥ १ अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते तन्न भरद्वाजसंज्ञया आत्रेयस्य क्वचिदपि तन्त्रप्रदेशेऽकीर्तनाथारीते चात्रेयादिगुरुतया भरद्वाज उक्तः शक्रादहमधीतवानित्यादिना मत्तः पुनरसंख्येयास्त्रिसूत्रं त्रिप्रयोजनम् ॥ २ अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः ॥ ३ आत्रेयाद्धारीत ऋषिरित्यन्तेन ॥ ४ वाग्भटेन तु यदुक्तं ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिमजिग्रहत् ॥ ५ सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन् वा इत्यनेनात्रेयस्येन्द्रशिष्यत्वं तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात्समर्थनीयम् ॥ ६ तत्र हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्तव्यम् ॥ ७ मैत्रीपरो मैत्रीप्रधानः मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः ॥ ८] बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः । तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत् ॥ १,१.३२ अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च । श्रावयामासुरात्रेयं सर्षिसंघं सुमेधसः ॥ १,१.३३ श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम् । यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे ॥ १,१.३४ सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः । साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम् ॥ १,१.३५ तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः । सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ॥ १,१.३६ अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववादयत् । नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः ॥ १,१.३७ शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः । निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ॥ १,१.३८ अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः । बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमादयः ॥ १,१.३९ तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः । भवाय भूतसंघानां प्रतिष्ठां भुवि लेभिरे ॥ १,१.४० हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥ १,१.४१ शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम् । नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते ॥ १,१.४२ तस्यायुषः पुण्यतमो वेदो वेदविदां मतः । वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम् ॥ १,१.४३ ********************************************************** Cअरकसंहिता, षूत्रस्थान, १२ अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः ॥ १,१२.१ इति ह स्माह भगवानात्रेयः ॥ १,१२.२ [{आयुर्वेददीपिका} पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैरभिहिताः उपयुक्तज्ञानास्तत्कारणवातादयो बहुवाच्यत्वान्नोक्ताः अतः सम्प्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये तत्रापि प्राधान्याद्वायुरेव प्रथममुच्यते । कला गुणः यदुक्तं षोडशकलमिति अकला गुणविरुद्धो दोषः तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः यदि वा कला सूक्ष्मो भागस्तस्यापि कला कलाकला तस्यापि सूक्ष्मो भाग इत्यर्थः ॥ १] वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं किंगुणो वायुः किमस्य प्रकोपणमुपशमनानि वास्य कानि कथं चैनमसंघातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वेति ॥ १,१२.३ [{आयुर्वेददीपिका} अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसम्मतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च । असंघातमिति पित्तश्लेष्मवदवयवसंघातरहितम् । अनवस्थितमिति चलस्वभावम् । अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम् ॥ १] अत्रोवाच कुशः सांकृत्यायनः रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति ॥ १,१२.४ [{आयुर्वेददीपिका} रूक्षादयो भावप्रधानाः तेन रूक्षत्वादयो गुणा मन्तव्याः । दारुणत्वं चलत्वं चलत्वातेवं दीर्घंजीवितीयोक्तं चलत्वमुक्तं भवति यदि वा दारुणत्वं शोषणत्वात्काठिन्यं करोतीति ।] तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच एवमेतद्यथा भगवानाह एत एव वातगुणा भवन्ति स त्वेवंगुणैरेवंद्रव्यैरेवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति ॥ १,१२.५ [{आयुर्वेददीपिका} कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम् । एवम्प्रभावैरिति प्रभावाद्रौक्ष्यादिकारकैर्धावनजागरणादिभिः प्रभावाभिधानं च कर्मणां निर्गुणत्वात् । अभ्यस्यमानैरिति असकृत्प्रयुक्तैः ॥ १] तच्छ्रुत्वा वाक्यं काङ्कायनो वाह्लीकभिषगुवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपणानि भवन्ति अतो विपरीतानि वातस्य प्रशमनानि भवन्ति प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति ॥ १,१२.६ तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपप्रशमनानि भवन्ति । यथा ह्येनमसंघातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा तथानुव्याख्यास्यामः वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं गत्वाप्यायमानः प्रकोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते ॥ १,१२.७ [{आयुर्वेददीपिका} शरीराणामिति शरीरावयवानाम् । शुषिरकराणि रन्ध्रकराणि । आश्रयमिति समानगुणस्थानम् । आप्यायमानः चीयमानः । दारुणविपरीतो मृदुः शुषिरविपरीतो घनः । असज्यमानः अनवतिष्ठमानः क्षीयमाणावयव इति यावत् । एतेनैतदुक्तं भवति यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति तथापि शरीरसम्बद्धैस्तैर्वातस्य शरीरचारिणः सम्बन्धो भवति ततश्च वातस्य समानगुणयोगाद्वृद्धिर्विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति ॥ १] तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वायोर्विदो राजर्षिः एवमेतत्सर्वमनपवादं यथा भगवानाह । यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा प्रवर्तकश्चेष्टानामुच्चावचानां नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणामुद्योजकः सर्वेन्द्रियानामभिवोढा सर्वशरीरधातुव्यूहकरः संधानकरः शरीरस्य प्रवर्तको वाचः प्रकृतिः स्पर्शशब्दयोः श्रोत्रस्पर्शनयोर्मूलं हर्षोत्साहयोर्योनिः समीरणोऽग्नेः दोषसंशोषणः क्षेप्ता बहिर्मलानां स्थूलाणुस्रोतसां भेत्ता कर्ता गर्भाकृतीनामायुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः । कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय मनो व्याहर्षयति सर्वेन्द्रियाण्युपहन्ति विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति भयशोकमोहदैन्यातिप्रलापाञ्जनयति प्राणांश्चोपरुणद्धि । प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथा धरणीधारणं ज्वलनोज्ज्वालनमादित्यचन्द्रनक्षत्रग्रहगणानां संतानगतिविधानं सृष्टिश्च मेघानामपां विसर्गः प्रवर्तनं स्रोतसां पुष्पफलानां चाभिनिर्वर्तनमुद्भेदनं चौद्भिदानामृतूनां प्रविभागः विभागो धातूनां धातुमानसंस्थानव्यक्तिः बीजाभिसंस्तारः शस्याभिवर्धनमविक्लेदोपशोषणे अवैकारिकविकारश्चेति । प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथा शिखरिशिखरावमथनमुन्मथनमनोकहानामुत्पीडनं सागराणामुद्वर्तनं सरसां प्रतिसरणमापगानामाकम्पनं च भूमेः आधमनमम्बुदानां नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः व्यापादनं च षण्णामृतूनां शस्यानामसंघातः भूतानां चोपसर्गः भावानां चाभावकरणं चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर्विधाता मृत्युः यमः नियन्ता प्रजापतिः अदितिः विश्वकर्मा विश्वरूपः सर्वगः सर्वतन्त्राणां विधाता भावानामणुः विभुः विष्णुः क्रान्ता लोकानां वायुरेव भगवानिति ॥ १,१२.८ [{आयुर्वेददीपिका} शरीराशरीरचरस्येति वातस्वरूपकथनं तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति ॥ १ अत्रावयवानिति वदन् कार्त्स्न्याभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति ॥ २ साधयित्वा प्रतिपाद्य ॥ ३ वातकर्मसु प्रत्यक्षाणि वचनादीनि मनःप्रेरणाद्यनुमेयं गर्भाकृतिकरणाद्यागमगम्यम् ॥ ४ तन्त्रं शरीरं यदुक्तं तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षतामिति तदेव यन्त्रं यदि वा तन्त्रस्य यन्त्रं संधयः ॥ ५ प्राणाद्यात्मा प्राणादिस्वरूपः ॥ ६ चेष्टाविशेषणमुच्चावचानां विविधानामित्यर्थः किंवा शुभाशुभानामित्यर्थः ॥ ७ नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः प्रणेता च मनस एवेप्सितेऽर्थे ॥ ८ उद्योजकः प्रेरकः किंवा उद्योगकारक इति पाठः सोऽप्यभिन्नार्थः ॥ ९ अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात्पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम् ॥ १० व्यूहकरः संघातकरो रचनाकर इति यावत् ॥ ११ प्रकृतिः कारणं शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशातुक्तं हि खादीन्यभिधाय तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे इति ॥ १२ तथा पुनरुक्तं खादीन्यभिधाय विष्टं ह्यपरं परेण इति ॥ १३ श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात्मूलं प्रधानकारणम् ॥ १४ उत्साहः कार्येषूद्योगो मनसः ॥ १५ योनिः अभिव्यक्तिकारणम् ॥ १६ दोषसंशोषणः शरीरक्लेदसंशोषणः ॥ १७ भेत्ता कर्ता एतच्च शरीरोत्पत्तिकाले ॥ १८ भूतशब्दः स्वरूपवचनः ॥ १९ उपघातायेति छेदः ॥ २० गर्भानिति विकृतिमापादयत्यतिकालं धारयतीत्यनेन च सम्बध्यते ॥ २१ आदित्यादीनां संतानेनाविच्छेदेन गतिविधानं संतानगतिविधानम् ॥ २२ स्रोतसामिति नदीनाम् ॥ २३ प्रविभागो विभक्तलक्षणम् ॥ २४ धातूनामिति पृथिव्यादीनां धातवः कार्यद्रव्याणि प्रस्तरादीनि मानं परिमाणं संस्थानमाकृतिः तयोर्व्यक्तिरभिव्यक्तिः तत्र कारणमिति यावत् ॥ २५ बीजस्य शाल्यादेः अभिसंस्कारोऽङ्कुरजननशक्तिः ॥ २६ अविक्लेदः पाककालादर्वागविक्लिन्नत्वमुपशोषणं च पाकेन यवादीनामार्द्राणामेव अविक्लेदोपशोषणे शस्यानामेव ॥ २७ अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते ॥ २८ शिखरी पर्वतः ॥ २९ अनोकहो वृक्षः ॥ ३० ऊर्ध्वं वर्तनमुद्वर्तनम् ॥ ३१ प्रतिसरणं प्रतीपगमनम् ॥ ३२ विसर्जनं विसर्गः स च पृथङ्नीहारादिभिः सम्बध्यते नीहारः शिशिरसमूहः निर्ह्रादो मेघं विना गर्जितमशनिः वज्रभेदोऽग्निः ॥ ३३ असंघातः अनुत्पादोऽनुपचयो वा ॥ ३४ उपसर्गः मरकादिप्रादुर्भावः ॥ ३५ मेघसूर्येत्यादौ विसर्गः सृष्टिः ॥ ३६ वायुरिह देवतारूपोऽभिप्रेतः तेन तस्य भूतलचतुर्युगान्तकरानिलकरणमविरुद्धमेवं यदन्यदप्यनुपपद्यमानं वायोस्तदपि देवतारूपत्वेनैव समाधेयम् ॥ ३७ सम्प्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते स हि भगवानित्यादि ॥ ३८ प्रभवः कारणम् ॥ ३९ अव्ययः अक्षयः ॥ ४० भूतानामित्युत्तरेण सम्बध्यते ॥ ४१ मृत्युयमादिभेदाश्चागमे ज्ञेयाः ॥ ४२ सर्वतन्त्राणां सर्वकर्मणां तन्त्रशब्दः कर्मवचनोऽप्यस्ति यदुक्तं वस्तिस्तन्त्राणां कर्मणामित्यर्थः ॥ ४३] तच्छ्रुत्वा वायोर्विदवचो मरीचिरुवाच यद्यप्येवमेतत्किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति ॥ १,१२.९ वायोर्विद उवाच भिषक्पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशाम्येत्सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात्वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति ॥ १,१२.१० मरीचिरुवाच अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वंद्वानीति ॥ १,१२.११ [{आयुर्वेददीपिका} पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति न तु पित्तादभेदं पित्ते नाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात् ॥ १ पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म दर्शनादर्शने नेत्रगतस्यालोचकस्य ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य भयशौर्यादयो हृदयस्थस्य साधकस्य रञ्जकस्य तु बहिःस्फुटकार्यादर्शनादुदाहरणं न कृतम् ॥ २] तच्छ्रुत्वा मरीचिवचः काप्य उवाच सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा दार्ढ्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वंद्वानीति ॥ १,१२.१२ [{आयुर्वेददीपिका} सोमो जलदेवता यदि वा चन्द्रः ॥ १] तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति क्रतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति ॥ १,१२.१३ तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति ॥ १,१२.१४ तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे । ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः ॥ १,१२.१५ गुणाः षड्द्विविधो हेतुर्विविधं कर्म यत्पुनः । वायोश्चतुर्विधं कर्म पृथक्च कफपित्तयोः ॥ १,१२.१६ महर्षीणां मतिर्या या पुनर्वसुमतिश्च या । कलाकलीये वातस्य तत्सर्वं संप्रकाशितम् ॥ १,१२.१७ ************************************************************* Cअरकसंहिता, षूत्रस्थान, २६ [आत्रेयभद्रकाप्यीय] अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः ॥ १,२६.१ इति ह स्माह भगवानात्रेयः ॥ १,२६.२ [{आयुर्वेददीपिका} हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायक आत्रेयभद्रकाप्यीयोऽभिधीयते ॥ १ तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणमादौ कृतम् ॥ २] आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च । पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ॥ १,२६.३ यः कुमारशिरा नाम भरद्वाजः स चानघः । श्रीमान् वायोर्विदश्चैव राजा मतिमतां वरः ॥ १,२६.४ निमिश्च राजा वैदेहो बडिशश्च महामतिः । काङ्कायनश्च वाह्लीको वाह्लीकभिषजां वरः ॥ १,२६.५ एते श्रुतवयोवृद्धा जितात्मानो महर्षयः । वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ॥ १,२६.६ तेषां तत्रोपविष्टानामियमर्थवती कथा । बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥ १,२६.७ [{आयुर्वेददीपिका} मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम् ॥ १ रसेनाहारविनिश्चयो रसाहारविनिश्चयः किंवा अयं रसविनिश्चयः तथा परं चातो विपाकानामित्यादिराहारविनिश्चयः ॥ २] एक एव रस इत्युवाच भद्रकाप्यः यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः स पुनरुदकादनन्य इति । द्वौ रसाविति शाकुन्तेयो ब्राह्मणः छेदनीय उपशमनीयश्चेति । त्रयो रसा इति पूर्णाक्षो मौद्गल्यः छेदनीयोपशमनीयसाधारणा इति । चत्वारो रसा इति हिरण्याक्षः कौशिकः स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति । पञ्च रसा इति कुमारशिरा भरद्वाजः भौमौदकाग्नेयवायव्यान्तरिक्षाः । षड्रसा इति वायोर्विदो राजर्षिः गुरुलघुशीतोष्णस्निग्धरूक्षाः । सप्त रसा इति निमिर्वैदेहः मधुराम्ललवणकटुतिक्तकषायक्षाराः । अष्टौ रसा इति बडिशो धामार्गवः मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः । अपरिसंख्येया रसा इति काङ्कायनो वाह्लीकभिषकाश्रयगुणकर्मसंस्वादविशेषाणामपरिसंख्येयत्वात् ॥ १,२६.८ [{आयुर्वेददीपिका} एक एवेत्यादि ॥ १ इन्द्रियार्थानामिति निर्धारणे षष्ठी ॥ २ अन्यतममिति एकमन्यशब्दो ह्ययमेकवचनः यथान्यो दक्षिणेन गतोऽन्य उत्तरेण एक इत्यर्थः तमप्प्रत्ययश्च स्वार्थिकः ॥ ३ जिह्वावैषयिकमिति जिह्वाग्राह्यम् ॥ ४ रसाभावोऽपि जिह्वया गूह्यतेऽत आह भावमिति ॥ ५ उदकादनन्य इति रसोदकयोरेकत्वख्यापनार्थं पूर्वपक्षत्वाददुष्टम् ॥ ६ पूर्वपक्षश्च कपिलमतेन ते ॥ ७ हि रसतन्मात्रं गन्धतन्मात्रमित्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यमिति ब्रुवते ॥ ८ छेदनीय इति अपतर्पणकारकः ॥ ९ उपशमनीय इति बृंहणः ॥ १० साधारण इत्याग्नेयसौम्यसामान्यादुभयोरपि लङ्घनबृंहणयोः कर्ता परस्परविरोधादकर्ता वा ॥ ११ स्वादुरिति अभीष्टः हित इति आयतावनपकारी ॥ १२ आश्रीयत इत्याश्रयो द्रव्यं गुणाः स्निग्धगुर्वादयः कर्म धातुवर्धनक्षपणादि संस्वादः रसानामवान्तरभेदः एषां विशेषाणां भेदानामित्यर्थः ॥ १३ तत्र द्रव्यभेदादाधारभेदेनाश्रितस्यापि रसस्य भेदो भवति आश्रयो हि कारणं कारणभेदाच्च कार्यभेदोऽवश्यं भवतीत्यर्थः ॥ १४ गुर्वादिगुणभेदस्तथा कर्मभेदाश्च रसकृता एव ॥ १५ ततश्च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः ॥ १६ संस्वादभेदस्तु एकस्यामपि मधुरजाताविक्षुक्षीरगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते स तु संस्वादभेदः स्वसंवेद्य एव यदुक्तमिक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ॥ १७ भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते इति ॥ १८] षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः मधुराम्ललवणकटुतिक्तकषायाः । तेषां षण्णां रसानां योनिरुदकं छेदनोपशमने द्वे कर्मणी तयोर्मिश्रीभावात्साधारणत्वं स्वाद्वस्वादुता भक्तिः हिताहितौ प्रभावौ पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः क्षरणात्क्षारः नासौ रसः द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तमव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये अपरिसंख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तमेकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसंख्येयत्वात्न च तस्मादन्यत्वमुपपद्यते परसारसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः । तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेक्ष्यामः ॥ १,२६.९ [{आयुर्वेददीपिका} सिद्धान्तं पुनर्वसुवचनेनाह षडेवेत्यादि ॥ १ पूर्वपक्षोक्तरसैकत्वादिव्यवस्थामाह तेषां षण्णामित्यादि ॥ २ योनिः आधारकारणं कार्यकारणयोश्च भेदात्सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति भावः ॥ ३ क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा रसनार्थो रसस्तस्य इत्यादौ विवृतमेव दीर्घंजीवितीये ॥ ४ तयोर्मिश्रीभावादिति कर्मणोरमूर्तयोर्मिश्रीभावानुपपत्तौ तदाधारयोर्द्रव्ययोर्मिश्रीभावादिति बोद्धव्यम् ॥ ५ साधारणमिति साधारणकार्ययोगित्वम् ॥ ६ भक्तिः इच्छेत्यर्थः ॥ ७ तेन यो यमिच्छति स तस्य स्वादुरस्वादुरितर इति पुरुषापेक्षौ धर्मौ न रसभेदकार्यावित्यर्थः ॥ ८ पञ्चमहाभूतेत्यादौ तुशब्दोऽवधारणे तेन आश्रया एव न रसा इत्यर्थः ॥ ९ किंभूता भौमादयो भूतविकारा आश्रया इत्याह प्रकृतिविकृतिविचारदेशकालवशा इति वशशब्दोऽधीनार्थः स च प्रकृत्यादिभिः प्रत्येकं योज्यः ॥ १० तत्र प्रकृतिवशा यथा मुद्गाः कषाया मधुराश्च सन्तः प्रकृत्या लघवः एतद्धि लाघवं न रसवशं तथाहि सति कषायमधुरत्वाद्गुरुत्वं स्यात्विकृतिवशं च व्रीहेर्लाजानां लघुत्वं तथा सक्तुसिद्धपिण्डकानां च गुरुत्वं विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः तेन विचारणावशं यथा मधुसर्पिषी संयुक्ते विषं तथा विषं चागदसंयुक्तं स्वकार्यव्यतिरिक्तकार्यकारि देशो द्विविधो भूमिरातुरश्च तत्र भूमौ श्वेतकापोती वल्मीकाधिरूढा विषहरी तथा हिमवति भेषजानि महागुणानि भवन्ति शरीरदेशे यथा सक्थिमांसाद्गुरुतरं स्कन्धक्रोडशिरस्पदामित्यादि कालवशं तु यथा मूलकमधिकृत्योक्तं तद्बालं दोषहरं वृद्धं त्रिदोषं तथा यथर्तुपुष्पफलमाददीत इत्यादि ॥ ११ अत्र चैकप्रकरणोक्ता येऽनुक्तास्ते चकारात्स्वभावादिष्वेवान्तर्भावनीयाः ॥ १२ यदुक्तं चरः शरीरावयवाः स्वभावो धातवः क्रियाः ॥ १३ लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते इति ॥ १४ तत्र चरशरीरावयवधातूनां देशेन ग्रहणं मात्रा विचारे प्रविशति शेषं स्वभावे तथा रसविमाने वक्ष्यमाणं चात्राप्रविष्टमाहारविशेषायतनमन्तर्भावनीयं यथासम्भवम् ॥ १५ स्निग्धरूक्षाद्या इत्यत्रादिग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः किंतु द्रव्यगुणाः पृथगेवेति दर्शयति ॥ १६ क्षरणातधोगमनक्रियायोगात्क्षारो द्रव्यं नासौ रसः रसस्य हि निष्क्रियस्य क्रियानुपपन्नेत्यर्थः ॥ १७ क्षरणं च क्षारस्य पानीययुक्तस्याधोगमनेन वदन्ति हि लौकिकाः क्षारं स्रावयामः इति शास्त्रं च छित्त्वा छित्त्वाशयात्क्षारः क्षरत्वात्क्षारयत्यधः इति ॥ १८ हेत्वन्तरमाह द्रव्यं तदनेकरसोत्पन्नमिति अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्पन्नमनेकरसोत्पन्नं यतश्चानेकरसोत्पन्नमत एवानेकरसं कारणगुणानुविधायित्वात्कार्यगुणस्येति भावः ॥ १९ अनेकरसत्वमेवाह कटुकलवणभूयिष्ठमिति ॥ २० भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धोऽस्तीति दर्शयति ॥ २१ हेत्वन्तरमाह अनेकेन्द्रियार्थसमन्वितमिति ॥ २२ क्षारो हि स्पर्शेन गन्धेन चान्वितः तेन द्रव्यं रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः ॥ २३ हेत्वन्तरमाह करणाभिनिर्वृत्तमिति करणेन भस्मपरिस्रावणादिनाभिनिर्वृत्तं कृतमित्यर्थः न रसोऽनेन प्रकारेण क्रियत इति भावः ॥ २४ अव्यक्तरसपक्षं निषेधयति अव्यक्तीभाव इत्यादि ॥ २५ अव्यक्तीभाव इत्यभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानामेव क्वचिदाधारेऽव्यक्तत्वं नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः ॥ २६ रसानामिति मधुरादीनां षण्णाम् ॥ २७ प्रकृतावित्यादि ॥ २८ प्रकृतौ कारणे जल इत्यर्थः ॥ २९ अव्यक्तत्वं च रससामान्यमात्रोपलब्धिर्मधुरादिविशेषशून्या सा च जले भवति यत उक्तं जलगुणकथने सुश्रुते व्यक्तरसता रसदोषः इति इहापि च अव्यक्तरसं च इति वक्ष्यति लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति जलस्येवास्य रसो न कश्चिन्मधुरादिर्व्यक्त इति ॥ ३० विशेषमधुराद्यनुपलब्धिश्चानुद्भूतत्वेन ॥ ३१ यथा दूरादविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर्भवति न शुक्लत्वादिविशेषबुद्धिः तथानुरसेऽव्यक्तीभावो भवति प्रधानं व्यक्तं रसमनुगतोऽव्यक्तत्वेनेत्यनुरसः यथा वेणुयवे मधुरे कषायोऽनुरसः ॥ ३२ यदुक्तं रूक्षः कषायानुरसो मधुरः कफपित्तहा इति ॥ ३३ अनुरससमन्वित इति सर्वानुरसयुक्ते यथा विषे वचनं हि उष्णमनिर्देश्यरसमित्यादि ॥ ३४ किंवा अणुरससमन्विते इति पाठस्तेन अणुरसेनैकेन मरिचेन शर्करापानके कटुत्वमव्यक्तं स्यात् ॥ ३५ अपरिसंख्येयपक्षं दूषयति अपरीत्यादि ॥ ३६ तेषामिति रसानामपरिसंख्येयत्वं न युक्तमाश्रयादीनां भावानामिति आश्रयगुणकर्मसंस्वादानां विशेषापरिसंख्येयत्वादिति आश्रयादिभेदस्यापरिसंख्येयत्वात् ॥ ३७ अत्र हेतुमाह एकैकोऽपि हीत्यादि ॥ ३८ एषामाश्रयगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्रयते न च तस्मादाश्रयादिभेदादन्यत्वमाश्रितस्य मधुरादेर्भवति ॥ ३९ एवं मन्यते यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः तथापि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्ण इव ॥ ४० तथा गुणानां गुरुपिच्छिलस्निग्धादीनामन्यत्वेऽपि कर्मणां वा रसादिवर्धनायुर्जननवर्णकरत्वादीनां भिन्नत्वे सत्यपि न मधुररसस्यान्यत्वं यत एक एव मधुरस्तत्तद्गुणयुक्तो भवति तत्कर्मकारी चेति को विरोधः ॥ ४१ तथा मधुरस्यावान्तरास्वादभेदेऽपि मधुरत्वजात्यनतिक्रमः कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः ॥ ४२ ननु मैवं भवत्वपरिसंख्येयत्वं रसानां परस्परसंयोगात्तु य आस्वादविशेषः स कार्यविशेषकरोऽपि न हि यन्मधुराम्लेन क्रियते तन्मधुरेण वाम्लेन वा शक्यमतस्तेन परस्परसंयोगेनापरिसंख्येयत्वं भविष्यतीत्याह परस्परेत्यादि ॥ ४३ संसृष्टमिति भावे क्तः तेन परस्परसंसर्गभूयिष्ठत्वादेषां मधुरादीनामभिनिर्वृत्तेर्न गुणप्रकृतीनामसंख्येयत्वमिति योजना अयमर्थः यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तोऽभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति तथापि न तेषां गुणा गुरुलघ्वादयः प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसाभिवर्धकत्वाद्यास्ता असंख्येया भवन्ति किंतु य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टास्त एव मिश्रा भवन्ति ॥ ४४ किंवा गुणप्रकृतीनामिति मधुरादिषड्गुणस्वरूपाणामित्यर्थः तेन रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसंख्येयत्वमित्यर्थः ॥ ४५ प्रकृतिशब्देन कर्म वोच्यते तेन गुणकर्मणामित्यर्थः ॥ ४६ मधुरादीनामवान्तरास्वादविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः ॥ ४७ यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमित्याह तस्मादित्यादि ॥ ४८ कर्मशब्देनेह गौरवलाघवादिकारका गुरुत्वादयो रसरक्तादिजननादयश्चापि बोद्धव्याः ॥ ४९ न केवलमन्यशास्त्रकारै रसानां संसृष्टानां कर्म नोपदिष्टं किंतु वयमपि नोपदेक्ष्याम इत्याह तच्चैवेत्यादि ॥ ५० तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानामनधिकगुणकर्मत्वम् ॥ ५१ लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम् ॥ ५२ तत्र लक्ष्यते येन तल्लक्षणमतस्तु मधुरो रसः इत्यादिना ग्रन्थेन तथा स्नेहनप्रीणनह्लादन इत्यादिना च यद्वाच्यं तत्सर्वं गृह्यते ॥ ५३ किंवा लक्षणशब्देन मधुरो रस इत्यादिग्रन्थवाच्यं लक्षणमुच्यते पृथक्त्वं च रसभेदज्ञानार्थं यद्वक्ष्यति स्नेहनप्रीणन इत्यादि तद्गृह्यते ॥ ५४] अग्रे तु तावद्द्रव्यभेदमभिप्रेत्य किंचिदभिधास्यामः । सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे तच्चेतनावदचेनं च तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः कर्म पञ्चविधमुक्तं वमनादि ॥ १,२६.१० [{आयुर्वेददीपिका} अग्रे त्वित्यादि । रसेषु वाच्येषु द्रव्यभेदमभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वाद्द्रव्याभिधानमग्रे कृतमित्यर्थः ॥ १ किंचिदिति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वमप्रसङ्गदोषादिति भावः ॥ २ सर्वद्रव्यमिति कार्यद्रव्यम् ॥ ३ अस्मिन्नर्थे अस्मिन् प्रकरणे ॥ ४ द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणानाह ॥ ५ अत्र च परत्वापरत्वादीनामिहानभिधानेन चिकित्सायां परत्वादीनामप्राधान्यं दर्शयति येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनोऽपि न ते पार्थिवादिद्रव्याणां शब्दादिवत्सांसिद्धिकाः किं तर्ह्याधेयाः अत इह नैसर्गिकगुणकथने नोक्ताः ॥ ६ उक्तमिति अपामार्गतण्डुलीये ॥ ७ एतच्च प्राधान्यादुच्यते तेन बृंहणाद्यपि बोद्धव्यम् ॥ ८] तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि तान्युपचयसंघातगौरवस्थैर्यकराणि द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्याग्नेयानि तानि दाहपाकप्रभाप्रकाशवर्णकराणि लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि ॥ १,२६.११ [{आयुर्वेददीपिका} बहुलशब्दो गुर्वादिभिः प्रत्येकं सम्बध्यते किंवा गन्धेनैव यतो गन्धगुणबहुला पृथिव्येव भवति अत एव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते रसगुणबहुलानि इत्यादि तेन तत्रापि रसादिभिरेव बहुलशब्दो योज्यः ॥ १ सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वेऽपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम् ॥ २ संघातः काठिन्यं स्थैर्यमविचाल्यम् ॥ ३ बन्धनं परस्परयोजनं प्रह्लादः शरीरेन्द्रियतर्पणम् ॥ ४ सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि ॥ ५ प्रभा वर्णप्रकाशिनी दीप्तिः यदुक्तं वर्णमाक्रामति छाया प्रभा वर्णप्रकाशिका इत्यादि ॥ ६ विचरणं विचारो गतिरित्यर्थः ॥ ७ सौषिर्यं रन्ध्रबहुलता ॥ ८ अत्राकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं यदेव भूरिशुषिरं तन्नाभसं किंवा आकाशगुणबहुलत्वेन नाभसं द्रव्यमित्युच्यते ॥ ९] अनेनोपदेशेन नानौषधिभूतं जगति किंचिद्द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य ॥ १,२६.१२ [{आयुर्वेददीपिका} अनेनेति प्रतिनियतद्रव्यगुणोपदेशेन यत्पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे संपाद्ये तद्भेषजं भवतीत्यर्थः ॥ १ तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजमित्याह तां तां युक्तिमित्यादि ॥ २ युक्तिमिति उपायमर्थमिति प्रयोजनमभिप्रेत्येति अधिकृत्य तेन केनचिदुपायेन क्वचित्प्रयोजने किंचिद्द्रव्यमौषधं भवति न सर्वत्र ॥ ३ तेन यदुच्यते वैरोधिकानां सर्वदापथ्यत्वेन नानौषधं द्रव्यमिति वचो विरोधि तन्न भवति वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति वैरोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित्स्युः ॥ ४ यान्यपि सर्वदापि स्वभावादेव विषमन्दकादीन्यपथ्यानि तान्यप्युपाययुक्तानि क्वचित्पथ्यानि भवन्ति यथा उदरे विषस्य तिलं दद्यातित्यादि ॥ ५ यत्तु तृणपांशुप्रभृतीनि नोपयुज्यन्ते अतो न तानि भेषजानीत्युच्यते तन्न तेषामपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात् ॥ ६] न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत्कुर्वन्ति तत्कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यदा कुर्वन्ति स कालः यथा कुर्वन्ति स उपायः यत्साधयन्ति तत्फलम् ॥ १,२६.१३ [{आयुर्वेददीपिका} पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद्भेषजत्वमुक्तं तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह न तु केवलमित्यादि ॥ १ द्रव्यप्रभावाद्यथा दन्त्या विरेचकत्वं तथा मणीनां विषादिहन्तृत्वमित्यादि ॥ २ गुणप्रभावाद्यथा ज्वरे तिक्तको रसः शीतेऽग्निरित्यादि ॥ ३ द्रव्यगुणप्रभावाद्यथा कृष्णाजिनस्योपरीति अत्रापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतं यथा वा मण्डलैर्जातरूपस्य तस्या एव पयः शृतं तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कार्मुकत्वम् ॥ ४ कथं कुर्वन्तीत्याह तस्मिंस्तस्मिन्नित्यादि ॥ ५ तां तां युक्तिमासाद्येति तां तां योजनां प्राप्य ॥ ६ यत्कुर्वन्तीत्यादावुदाहरणं यथा शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति तच्छिरोविरेचनं कर्म येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति तद्वीर्यं वीर्यं शक्तिः सा च द्रव्यस्य गुणस्य वा यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः नान्यत्राधिकरणे शिरोविरेचनद्रव्यं प्रभवतीत्यर्थः यदेति वसन्तादौ शिरोगौरवादियुक्ते च काले एतेनाकाले शीते शिरोविरेचनं स्तब्धत्वान्न कार्मुकं किंतु स्वकाल एव यथा येन प्रकारेण प्रधमनावपीडनादिना तथा प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते ॥ ७ ईषत्प्रलम्बशिरसं संवेश्य चावृतेक्षणमित्यादिना विधिना कुर्वन्ति स उपायः यत्साधयन्ति शिरोगौरवशूलाद्युपरमं तत्फलं फलमुद्देश्यम् ॥ ८ कर्म कार्यं साधनमुद्देश्यं फलं साध्यं यथा यागनिष्पाद्यो धर्मः कार्यतया कर्म तज्जन्यस्तु स्वर्गादिरुद्देश्यः फलमेवं वमनादिष्वपि कर्माधिकरणाद्युन्नेयम् ॥ ९] भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति तमुपदेक्ष्यामः ॥ १,२६.१४ [{आयुर्वेददीपिका} सम्प्रति द्रव्यमभिधाय विकृतानां रसानामेव भेदमाह भेदश्चैषामित्यादि ॥ १ प्रभावशब्दो द्रव्यदेशकालैः प्रत्येकं युज्यते तत्र द्रव्यप्रभावाद्यथा सोमगुणातिरेकान्मधुरः इत्यादि देशप्रभावाद्यथा हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यन्यत्राम्लानीत्यादि कालप्रभावाद्यथा बालाम्रं सकषायं तरुणमम्लं पक्वं मधुरं तथा हेमन्ते ओषध्यो मधुरा वर्षास्वम्ला इत्यादि ॥ २ अग्निसंयोगादयो येऽन्ये रसहेतवस्तेऽपि काले द्रव्ये वान्तर्भावनीयाः ॥ ३] स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक् । यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु ॥ १,२६.१५ [{आयुर्वेददीपिका} भेदमाह स्वादुरित्यादि ॥ १ तत्र स्वादोरम्लादियोगात्पञ्च शेषैरिति आदित्वेनोपयुक्तादन्यैः तेनाम्लस्य लवणादियोगाच्चत्वारि एवं लवणस्य कट्वादियोगात्त्रीणि कटुकस्य तिक्तकषाययोगाद्द्वे तिक्तस्य कषाययोगादेकमेवं पञ्चदश द्विरसानि ॥ २] पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत् । मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा ॥ १,२६.१६ त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशतिः । [{आयुर्वेददीपिका} त्रिरसमाह पृथगित्यादि ॥ १ मधुरस्याम्लादिरसचतुष्टयेन पृथगित्येकैकशो युक्तस्य शेषैर्लवणादिभिर्योगो भवति तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच्चत्वारि तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि तथा कटुयुक्तस्य तिक्तादियोगाद्द्वे तथा तिक्तयुक्तस्य कषाययोगादेकमेवं मधुरेणादिस्थितेन दश ॥ २ एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि तथा कटुकयुक्तस्य शेषाभ्यां योगाद्द्वे एवं तिक्तयुक्तस्य कषाययोगादेकमेवमम्लस्य षट् ॥ ३ अनेनैव न्यायेन लवणस्य त्रीणि कटोश्चैकमेव एवं मिलित्वा त्रिरसानि विंशतिः ॥ ४] वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च ॥ १,२६.१७ स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ । योगं शेषैः पृथग्यातश्चतुष्करससंख्यया ॥ १,२६.१८ सहितौ स्वादुलवणौ तद्वत्कट्वादिभिः पृथक् । युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा ॥ १,२६.१९ कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् । यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा ॥ १,२६.२० युज्येते तु कषायेण सतिक्तौ लवणोषणौ । [{आयुर्वेददीपिका} चतूरसे स्वाद्वम्लावादिस्थितौ लवणादिभिरेकैकश्येन युक्तौ शेषैः कट्वादिभिर्योगात्षड्भवन्ति ॥ १ स्वादुलवणौ सहितौ आदिस्थितौ कट्वादिभिरिति कटुतिक्ताभ्यां पृथग्युक्तौ शेषैरिति तिक्तकषायाभ्यां तेनेह बहुवचनं जातौ बोद्धव्यमेवं त्रीणि ॥ २ स्वादूषणौ तथेत्यनेन स्वादुकटुकतिक्तकषायरूपमेकम् ॥ ३ कट्वाद्यैरित्यादावपि बहुवचनं जातौ ॥ ४ अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगाद्द्वे तथाम्ललवणौ तिक्तयुक्तौ शेषयोगादेकम् ॥ ५ अम्लकटू तथेत्यनेनाम्लकटुतिक्तकषायरूपमेकम् ॥ ६ युज्येते त्वित्यादिना चैकम् ॥ ७ एवं पञ्चदश चतूरसानि ॥ ८] षट्तु पञ्चरसान्याहुरेकैकस्यापवर्जनात् ॥ १,२६.२१ षट्चैवैकरसानि स्युरेकं षड्रसमेव तु । [{आयुर्वेददीपिका} अपवर्जनादिति त्यागात् ॥ १ अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ॥ २] इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया ॥ १,२६.२२ त्रिषष्टिः स्यात्त्वसंख्येया रसानुरसकल्पनात् । रसास्तरतमाभ्यां तां संख्यामतिपतन्ति हि ॥ १,२६.२३ [{आयुर्वेददीपिका} रससंसर्गस्य प्रकारान्तरेणासंख्येयतामाह त्रिषष्टिः स्यादित्यादि ॥ १ अनुरसोऽग्रे वक्ष्यमाणः ॥ २ अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना नास्ति केवले मधुरादौ तदभावात्तेन यथासम्भवं सप्तपञ्चाशत्संयोगविषयं रसानुरसकल्पनं ज्ञेयम् ॥ ३ किंवा एकरसेऽप्यनुरसोऽस्त्येवाव्यपदेश्यः ॥ ४ प्रकारान्तरेणाप्यसंख्येयतामाह रसास्तरतमाभ्यामित्यादि ॥ ५ मधुरमधुरतरमधुरतमादिभेदादसंख्येयता रसानां भवतीति भावः ॥ ६ किंवा रसानुरसत्वेनैव यासंख्येयता तत्रैवायं हेतुः रसास्तरतमाभ्यामित्यादिः ॥ ७] संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा । रसानां तत्र योग्यत्वात्कल्पिता रसचिन्तकैः ॥ १,२६.२४ [{आयुर्वेददीपिका} एवमसंख्येयत्वेऽपि त्रिषष्टिविधैव कल्पना चिकित्साव्यवहारार्थमिहाचार्यैः कल्पितेत्याह संयोगा इत्यादि ॥ १ तत्र योग्यत्वादिति तत्र स्वस्थातुरहितचिकित्साप्रयोगेऽनतिसंक्षेपविस्तररूपतया हितत्वादित्यर्थः ॥ २] क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित् । दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता ॥ १,२६.२५ द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः । रसानेकैकशो वापि कल्पयन्ति गदान् प्रति ॥ १,२६.२६ [{आयुर्वेददीपिका} तमेव चिकित्साप्रयोगमाह क्वचिदित्यादि ॥ १ अत्रादिग्रहणाद्देशकालबलादीनामनुक्तानां ग्रहणम् ॥ २ एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद्वानेकरसैकद्रव्यप्रयोगादेकरसद्रव्यप्रयोगाद्वा भवतीति दर्शयन्नाह द्रव्याणीत्यादि ॥ ३ द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि द्विरसं यथा कषायमधुरो मुद्गः त्रिरसं यथा मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ॥ ४ पित्तश्लेष्महरं भव्यमित्यादि चतूरसस्तिलः यदुक्तं स्निग्धोष्णमधुरस्तिक्तः कषायः कटुकस्तिलः पञ्चरसं त्वामलकं हरीतकी च शिवा पञ्चरसा इत्यादिवचनात्व्यक्तषड्रसं तु द्रव्यमिहानुक्तं विषं त्वव्यक्तषड्रससंयुक्तं हारीते त्वेणमांसं व्यक्तषड्रससंयुक्तमुक्तम् ॥ ५ एवं द्विरसादिद्रव्ययोगाद्द्विरसाद्युपयोगः ॥ ६ तथा संयुक्तांश्च रसानिति एकैकरसादिद्रव्यमेलकात्संयुक्तान् रसानेकैकशः कल्पयन्ति प्रयोजयन्ति ॥ ७ गदान् प्रतीति प्राधान्येन तेन स्वस्थवृत्तेऽपि बोद्धव्यं किंवा द्विरसादिभेदो गद एव स्वस्थे तु सर्वरसप्रयोग एव यदुक्तं समसर्वरसं सात्म्यं समधातोः प्रशस्यते इति ॥ ८ एवं च व्याख्याने सति क्वचिदेको रस इत्यादिना सममस्य न पौनरुक्त्यम् ॥ ९ किंवा क्वचिदेको रसः इत्यादिना स्वमतमुक्तमत्रैवार्थे द्रव्याणि द्विरसादीनि इत्यादिनाचार्यान्तरसम्मतिं दर्शयति अत एवान्याचार्यान्तराभिप्रायेण कल्पयन्तीत्युक्तं तेन न पौनरुक्त्यम् ॥ १०] यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित् । न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु ॥ १,२६.२७ [{आयुर्वेददीपिका} रसज्ञानफलमाह यः स्यादित्यादि ॥ १ अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्नमवरुद्धं रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् ॥ २ दोषविकल्पज्ञानाच्च लिङ्गज्ञानं यावद्धि लिङ्गं तत्सर्वं दोषविकल्पसम्बद्धम् ॥ ३ रसदोषविकल्पज्ञानात्तु भेषजज्ञानं यतो रसतः स्वरूपज्ञानं भेषजद्रव्यस्य दोषतश्च भेषजप्रयोगविषयविज्ञानम् ॥ ४ किंवा रसविकल्पाच्च तथा दोषविकल्पाच्च हेत्वादिज्ञानं पृथगेव वक्तव्यं रसभेदाद्धि तत्कार्यं लिङ्गमपि ज्ञायते हेतुभेषजविज्ञानं तु ॥ ५ रसभेदविज्ञानादेव वक्तव्यं यतो रसभेदवद्द्रव्यमेव विकाराणां हेतुर्भेषजं च भवतीति एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति दोषविरोधि च द्रव्यं भेषजमिति ॥ ६ तद्युक्तमुक्तं न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिष्विति ॥ ७] व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते । विपर्ययेणानुरसो रसो नास्ति हि सप्तमः ॥ १,२६.२८ [{आयुर्वेददीपिका} पूर्वोक्तरसानुरसलक्षणमाह व्यक्त इत्यादि ॥ १ शुष्कस्य चेति चकारादार्द्रस्य च आदौ चेति चकारादन्ते च तेन शुष्कस्य वार्द्रस्य वा प्रथमजिह्वासम्बन्धे वास्वादान्ते वा यो व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन गृह्यते स व्यक्तः यस्तूक्तावस्थाचतुष्टयेऽपि व्यक्तो नोपलभ्यते किं तर्ह्यव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते सोऽनुरस इति वाक्यार्थः ॥ २ यतश्च मधुरादय एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः अतोऽव्यक्तो नाम सप्तमो रसो नास्ति ॥ ३ अयं चार्थः पूर्वं प्रतिषिद्धोऽप्यनुगुणस्पष्टहेतुप्राप्त्या पुनर्निषिध्यते ॥ ४ अन्ये त्वाहुः शुष्कस्य चेत्यनेन यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः तत्र शुष्कावस्थायां योऽव्यक्तः स रस उच्यते यस्त्वार्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति नासौ रसः किंत्वनुरसः ॥ ५ यथा पिप्पल्या आर्द्राया मधुरो रसो व्यक्तः शुष्कायास्तु पिप्पल्याः कटुकः तेन कटुक एव रसः पिप्पल्याः मधुरस्त्वनुरसः यस्तु द्राक्षादीनामार्द्रावस्थायां शुष्कावस्थायां च मधुर एव तत्र विप्रतिपत्तिरपि नास्ति तेन तत्र मधुर एव रसः नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते रसः अनु चोपलभ्यते यः सोऽनुरसो युक्तस्तिक्तत्वादिः तथा आर्द्रावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः सोऽनुरस इति ॥ ६ किंत्वार्द्रापि पिप्पली मधुररसैवेति पश्यामः यतो वक्ष्यति श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली इति मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वान्यनुपपन्नानि तेन आर्द्रा पिप्पली व्यक्तमधुररसैव शुष्का तु मधुरानुरसेति युक्तम् ॥ ७] परापरत्वे युक्तिश्च संख्या संयोग एव च । विभागश्च पृथक्त्वं च परिमाणमथापि च ॥ १,२६.२९ संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः । सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे ॥ १,२६.३० देशकालवयोमानपाकवीर्यरसादिषु । परापरत्वे युक्तिश्च योजना या तु युज्यते ॥ १,२६.३१ संख्या स्याद्गणितं योगः सह संयोग उच्यते । द्रव्याणां द्वंद्वसर्वैककर्मजोऽनित्य एव च ॥ १,२६.३२ विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः । पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता ॥ १,२६.३३ परिमाणं पुनर्मानं संस्कारः करणं मतम् । भावाभ्यसनमभ्यासः शीलनं सततक्रिया ॥ १,२६.३४ इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः । चिकित्सा यैरविदितैर्न यथावत्प्रवर्तते ॥ १,२६.३५ [{आयुर्वेददीपिका} सम्प्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दश गुणान् रसधर्मत्वेनोपदेष्टव्यानाह परेत्यादि ॥ १ तच्च परत्वं प्रधानत्वमपरत्वमप्रधानत्वम् ॥ २ तद्विवरणं देशकालेत्यादि ॥ ३ तत्र देशो मरुः परः अनूपोऽपरः कालो विसर्गः परः आदानमपरः वयस्तरुणं परमपरमितरन्मानं च शरीरस्य यथा वक्ष्यमाणं शरीरे परं ततोऽन्यदपरं पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः अयौगिकास्त्वपराः ॥ ४ आदिग्रहणात्प्रकृतिबलादीनां ग्रहणम् ॥ ५ किंवा परत्वापरत्वे वैशेषिकोक्ते ज्ञेये तत्र देशापेक्षया संनिकृष्टदेशसम्बन्धिनमपेक्ष्य विदूरदेशसम्बन्धिनि परत्वं संनिकृष्टदेशसम्बन्धिनि चापरत्वं भवति एवं संनिकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं यूनि चापरत्वं भवति ॥ ६ वयःप्रभृतिषु परत्वापरत्वं यथासम्भवं कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं यतो न गुणे मानादौ गुणान्तरसम्भवः ॥ ७ युक्तिश्चेत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना अत एवोक्तं या तु युज्यते या कल्पना यौगिकी भवति सा तु युक्तिरुच्यते अयौगिकी तु कल्पनापि सती युक्तिर्नोच्यते पुत्रोऽप्यपुत्रवत् ॥ ८ युक्तिश्चेयं संयोगपरिमाणसंस्काराद्यन्तर्गताप्यत्युपयुक्तत्वात्पृथगुच्यते ॥ ९ संख्यां लक्षयति संख्येत्यादि ॥ १० गणितमिहैकद्वित्र्यादि ॥ ११ संयोगमाह योग इत्यादि ॥ १२ सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः सहेत्यनेनेहाकिंचित्करं परस्परसंयोगं निराकरोति ॥ १३ तद्भेदमाह द्वंद्वेत्यादि ॥ १४ तत्र द्वंद्वकर्मजो यथा युध्यमानयोर्मेषयोः सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रिया योगजः एककर्मजो यथा वृक्षवायसयोः ॥ १५ अनित्य इति संयोगस्य कर्मजत्वेनानित्यत्वं दर्शयति ॥ १६ विभागमाह विभागस्त्वित्यादि ॥ १७ विभक्तिः विभजनम् ॥ १८ विभक्तिमेव विवृणोति वियोग इति संयोगस्य विगमो वियोगः ॥ १९ तत्किं संयोगाभाव एव वियोग इत्याह भागशो ग्रह इति ॥ २० विभागशो विभक्तत्वेन ग्रहणं यतो भवतीति भावः तेन विभक्तिरित्येषा भावरूपा प्रतीतिर्न संयोगाभावमात्रं भवति किंतर्हि भावरूपविभागगुणयुक्ता इत्यर्थः ॥ २१ पृथक्त्वं तु इदं द्रव्यं पटलक्षणं घटात्पृथगित्यादिका बुद्धिर्यतो भवति तत्पृथक्त्वं भवति ॥ २२ तच्चाचार्यस्त्रैविध्येनाह पृथक्त्वमित्यादि ॥ २३ तत्र यत्सर्वथासंयुज्यमानयोरिव मेरुहिमाचलयोः पृथक्त्वमेतदसंयोग इत्यनेनोक्तम् ॥ २४ तथा संयुज्यमानानामपि पृथक्त्वं विजातीयानां महिषवराहादीनां तदाह वैलक्षण्यमित्यादि ॥ २५ विशिष्टलक्षणयुक्तत्वलक्षितं विजातीयानां पृथक्त्वमित्यर्थः ॥ २६ तथैकजातीयानामप्यविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह अनेकतेति ॥ २७ एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं नाप्यसंयोगः अथ चानेकता पृथक्त्वरूपा भवतीति भावः ॥ २८ किंवा पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहारार्थमसंयोगवैलक्षण्यानेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्शयति ॥ २९ मानं प्रस्थाढकादितुलादिमेयम् । करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः यद्वक्ष्यति संस्कारो हि गुणान्तराधानमुच्यते इति ॥ ३० भावस्य षष्टिकादेर्व्यायामादेश्चाभ्यसनमभ्यासः ॥ ३१ अभ्यसनमेव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति शीलनं सततक्रियेति यं लोकाः शीलनसततक्रियाभ्यामभिदधति सोऽभ्यास इति भावः ॥ ३२ अयं च संयोगसंस्कारविशेषरूपोऽपि विशेषेण चिकित्सोपयुक्तत्वात्पृथगुच्यते ॥ ३३ न यथावत्प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्यं सूचयति ॥ ३४] गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक् । विद्याद्द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः ॥ १,२६.३६ [{आयुर्वेददीपिका} सम्प्रति रसानां परस्परसंयोगो गुण उक्तः तथाग्रे च स्निग्धत्वादिर्गुणो वाच्यः स च गुणरूपरसे न सम्भवतीति यथा रसानां गुणनिर्देशो बोद्धव्यस्तदाह गुणा इत्यादि ॥ १ गुणा गुणाश्रया नोक्ता इति दीर्घंजीवितीये समवायी तु निश्चेष्टः कारणं गुणः इत्यनेन ॥ २ रसगुणानिति रसे स्निग्धादीन् गुणान्निर्दिष्टान् तद्रसाधारद्रव्यगुणानेव विद्यात् ॥ ३ ननु यदि द्रव्यगुणा एव ते तत्किमिति रसगुणत्वेनोच्यन्त इत्याह कर्तुरित्यादि कर्तुरिति तन्त्रकर्तुः ॥ ४ अभिप्राया इति तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः सामान्यशब्दोपचारादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात्तथा प्रयोजनवशाच्च क्रियते ॥ ५ तच्च प्रकरणादि अतश्च प्रकृतं बुद्ध्वा इत्यादौ दर्शयिष्यामः ॥ ६ इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्यायमभिप्रायो यत्मधुरादिनिर्देशेनैव स्निग्धशीतादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक्क्रियत इति ॥ ७] अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च । तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत् ॥ १,२६.३७ [{आयुर्वेददीपिका} अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस्तदाह अतश्चेत्यादि ॥ १ तत्र प्रकृतं बुद्ध्वा यथा क्षाराः क्षीरं फलं पुष्पमित्यत्रोद्भिदगणस्य प्रकृतत्वात्क्षीरमिति स्नुह्यादिक्षीरमेव क्षीरशब्देन वदेत् ॥ २ देशान्तरं बुद्ध्वेति यथा शिरसि शोधनेऽभिधीयमाने क्रिमिव्याधौ इति तच्छिरोगतक्रिमिव्याधावेव भवति ॥ ३ कालान्तरे यथा वमनकालेऽभिहितं प्रतिग्रहांश्चोपहारयेदिति तत्र प्रतिग्रहशब्देन पात्रमुच्यते न तु ग्रहणं प्रतिग्रहः ॥ ४ तन्त्रकर्तुरभिप्रायानिति यथोक्तं रसेषु गुणारोपणे तद्बोद्धव्यम् ॥ ५ उपायानिति शास्त्रोपायान् तन्त्रयुक्तिरूपान् ॥ ६ अर्थमभिधेयम् ॥ ७ यद्यपि प्रकृतादयोऽपि तन्त्रकर्तुरभिप्राया एव तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुरभिप्रायत्वेन बोद्धव्यम् ॥ ८] षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् । षट्पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः ॥ १,२६.३८ [{आयुर्वेददीपिका} षड्विभक्तीरिति मधुरादिषड्विभागानित्यर्थः ॥ १ षट्पञ्चभूतप्रभवा इति पञ्चभूतप्रभवाः सन्तो यथोक्तेन प्रकारेण सोमगुणातिरेकातित्यादिना यथा षट्संख्याताः षट्संख्यापरिच्छिन्ना भवन्ति तथा वक्ष्यामीति योजना ॥ २] सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहागुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति तासु मूर्तिषु षडभिमूर्छन्ति रसाः ॥ १,२६.३९ [{आयुर्वेददीपिका} सम्प्रति रसानामादिकारणमेव तावदाह सौम्या इत्यादि ॥ १ सौम्याः सोमदेवताकाः ॥ २ भ्रश्यमाना इति वदता भूमिसम्बन्धव्यतिरेकेणान्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः सम्बन्धो रसारम्भको भवतीति दर्श्यते ॥ ३ मूर्तीरिति व्यक्तीः ॥ ४ अभिप्रीणयन्तीति तर्पयन्ति किंवा जनयन्ति ॥ ५ अभिमूर्छन्ति रसा इति व्यक्तिं यान्ति ॥ ६ अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तं तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव ॥ ७] तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्निभूयिष्ठत्वाल्लवणः वाय्वग्निभूयिष्ठत्वात्कटुकः वाय्वाकाशातिरिक्तत्वात्तिक्तः पवनपृथिवीव्यतिरेकात्कषाय इति । एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः ॥ १,२६.४० [{आयुर्वेददीपिका} सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेषु सर्वभूतसांनिध्यमस्ति क्वचित्तु कस्यचिद्भूतगुणस्यातिरेकाद्रसविशेषे भवतीति दर्शयति एतच्च मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं यच्चाधारकारणत्वमपां तत्सर्वसाधारणम् ॥ १ एवं लवणेऽप्यपां कारणत्वं ज्ञेयम् ॥ २ लवणस्तु सुश्रुते पृथिव्यग्न्यतिरेकात्पठितः अस्मिंश्च विरोधे कार्यविरोधो नास्त्येव ॥ ३ ननु उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्युष्णशीतत्वेन भवितव्यं तल्लवणं कथमुष्णं भवति नैवं यतो भूतानामयं स्वभावो यत्केनचित्प्रकारेण संनिविष्टाः कंचिद्गुणमारभन्ते न सर्वम् ॥ ४ यथा मकुष्ठकेऽद्भिर्मधुरो रसः क्रियते न स्नेहः तथा सैन्धवे वह्निनापि नोष्णत्वमारभ्यते ॥ ५ अयं च भूतानां संनिवेशोऽदृष्टप्रभावकृत एव स च संनिवेशः कार्यदर्शनेनोन्नेयः ॥ ६ तेन यत्र कार्यं दृश्यते तत्र कल्प्यते यथा लवणे उष्णत्वादग्निर्विष्यन्दित्वाच्च जलमनुमीयते ॥ ७ आगमवेदनीयश्चायमर्थो नात्रास्मद्विधानां कल्पनाः प्रसरन्ति ॥ ८ एतेन यदुच्यते तोयवत्पृथिव्यादयोऽपि किमिति पृथग्रसान्तरं न कुर्वन्ति तथा तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम् ॥ ९ इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणरूपमुच्यते तेन नीरसानामपि हि दहनादीनां कारणत्वमुपपन्नमेव व्युत्पादितम् ॥ १० रसभेदं दृष्टान्तेन साधयन्नाह एवमित्यादि ॥ ११ रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात्सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणादुपपन्नं षड्भ्यः कारणेभ्यः षट्कार्याणि भवन्तीति युक्तमेवेति भावः ॥ १२ भूतानां यथा नानावर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात्तथा रसानामपीति ॥ १३ भूतानां यथोक्तानामतिरेकविशेषहेतुमाह षडृतुकत्वादित्यादि ॥ १४ षडृतुकत्वेन कालो नानाहेमन्तादिरूपतया कंचिद्भूतविशेषं क्वचिद्वर्धयति स चात्मकार्यं रसं पुष्टं करोति यथा हेमन्तकाले सोमगुणातिरेको भवति शिशिरे वाय्वाकाशातिरेकः एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादावपि भूतोत्कर्षो ज्ञेयः षडृतुकाच्चेति चकारेणाहोरात्रकृतोऽपि भूतोत्कर्षो ज्ञेयः तथादृष्टकृतश्च तेन हेमन्तादावपि रसान्तरोत्पादः क्वचिद्वस्तुन्युपपन्नो भवति ॥ १५ यद्यपि च ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं यदुक्तं तावेतावर्कवायू इत्यादि तथापि बीजाङ्कुरकार्यकारणभाववत्संसारानादितयैव भूतविशेषर्त्वोः कार्यकारणभावो वाच्यः ॥ १६] तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः लाघवादुत्प्लवनत्वाच्च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः पृथिव्या गुरुत्वान्निम्नगत्वाच्चोदकस्य व्यामिश्रात्मकाः पुनरुभयतोभाजः ॥ १,२६.४१ [{आयुर्वेददीपिका} भूतविशेषकृतं रसानां धर्मान्तरमाह तत्रेत्यादि ॥ १ प्रायेणेति न सर्वे ॥ २ रसा इति रसयुक्तानि द्रव्याणि ॥ ३ प्लवनत्वादिति गतिमत्त्वात्यद्यपि गतिरधोऽपि स्यात्तथापि लघुत्वपरिगतगतिरिह वायोरूर्ध्वमेव गमनं करोति यथा शाल्मलीतुलानाम् ॥ ४ हेत्वन्तरमाह ऊर्ध्वज्वलनत्वाच्चाग्नेरिति अग्नेरप्यूर्ध्वगतित्वादित्यर्थः ॥ ५ निम्नगत्वमधोगत्वमेव ॥ ६] तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः ॥ १,२६.४२ [{आयुर्वेददीपिका} यथाद्रव्यमिति यद्यस्य रसस्य द्रव्यमाधारस्तदनतिक्रमेण ॥ १ एतेन रसानां गुणकर्मणी रसाधारे द्रव्ये बोद्धव्ये इति दर्शयति ॥ २] तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमेदोऽस्थिमज्जौजःशुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसंधानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो दाहमूर्छाप्रशमनः षट्पदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च । [{आयुर्वेददीपिका} तत्रेत्यादि ॥ १ मधुर आदावुच्यते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च ॥ २ षडिन्द्रियाणि मनसा समम् ॥ ३ जीवनः अभिघातादिमूर्छितस्य जीवनः ॥ ४ आयुष्यस्तु आयुःप्रकर्षकारित्वेन ॥ ५ क्षीणस्य संधानकरो धातुपोषकत्वेन किंवा क्षीणश्चासौ क्षतश्चेति तेन क्षीणक्षतस्य उरःक्षतं संदधाति ॥ ६ षट्पदाद्यभीष्टत्वगुणकथनं प्रमेहरूपादिज्ञानोपयुक्तम् ॥ ७ यदुक्तं मूत्रेऽभिधावन्ति पिपीलिकाश्च इति तथा रिष्टे वक्ष्यति यस्मिन् गृध्नन्ति मक्षिकाः इति अनेन च मधुरत्वं ज्ञायते ॥ ८ अक्ष्यामयेनैवाभिष्यन्दे लब्धे विशेषोपादानार्थं पुनर्वचनं किंवा अभिष्यन्दो नासादिष्वपि ज्ञेयः ॥ ९] स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपदगलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवंप्रभृतीन् कफजान् विकारानुपजनयति अम्लो रसो भक्तं रोचयति अग्निं दीपयति देहं बृंहयति ऊर्जयति मनो बोधयति इन्द्रियाणि दृढीकरोति बलं वर्धयति वातमनुलोमयति हृदयं तर्पयति आस्यमास्रावयति भुक्तमपकर्षयति क्लेदयति जरयति प्रीणयति लघुरुष्णः स्निग्धश्च । [{आयुर्वेददीपिका} हृदयं तर्पयतीति हृद्यो भवति ॥ १ भुक्तमपकर्षयतीति सारयति क्लेदयति तथा जरयति भुक्तमेव ॥ २ अवमूत्रितं मूत्रविषैर्जन्तुभिः परिसर्पितं च स्पर्शविशेषैः कारण्डादिभिः ॥ ३] स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति तर्षयति संमीलयत्यक्षिणी संवेजयति लोमानि कफं विलापयति पित्तमभिवर्धयति रक्तं दूषयति मांसं विदहति कायं शिथिलीकरोति क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्परिदहति कण्ठमुरो हृदयं च लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो विकास्यधःस्रंस्यवकाशकरो वातहरः स्तम्भबन्धसंघातविधमनः सर्वरसप्रत्यनीकभूतः आस्यमास्रावयति कफं विष्यन्दयति मार्गान् विशोधयति सर्वशरीरावयवान्मृदूकरोति रोचयत्याहारमाहारयोगी नात्यर्थं गुरुः स्निग्ध उष्णश्च । [{आयुर्वेददीपिका} विकासी क्लेदछेदनः ॥ १ अधःस्रंसी विष्यन्दनशीलः ॥ २ सर्वरसप्रत्यनीकभूत इति यत्र मात्रातिरिक्तो लवणो भवति तत्र नान्यो रस उपलक्ष्यते ॥ ३ आहारयोगीति आहारे सदा युज्यते ॥ ४ मोहयति वैचित्त्यं कुरुते ॥ ५ मूर्छयतीति संज्ञानाशं करोति ॥ ६] स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति रक्तं वर्धयति तर्षयति मूर्छयति तापयति दारयति कुष्णाति मांसानि प्रगालयति कुष्ठानि विषं वर्धयति शोफान् स्फोटयति दन्तांश्च्यावयति पुंस्त्वमुपहन्ति इन्द्रियाण्युपरुणद्धि वलिपलितखालित्यमापादयति अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन् विकारानुपजनयति कटुको रसो वक्त्रं शोधयति अग्निं दीपयति भुक्तं शोषयति घ्राणमास्रावयति चक्षुर्विरेचयति स्फुटीकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति रोचयत्यशनं कण्डूर्विनाशयति व्रणानवसादयति क्रिमीन् हिनस्ति मांसं विलिखति शोणितसंघातं भिनत्ति बन्धांश्छिनत्ति मार्गान् विवृणोति श्लेष्माणं शमयति लघुरुष्णो रूक्षश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात्पुंस्त्वमुपहन्ति रसवीर्यप्रभावान्मोहयन्ति ग्लापयति सादयति कर्शयति मूर्छयति नमयति तमयति भ्रमयति कण्ठं परिदहति शरीरतापमुपजनयति बलं क्षिणोति तृष्णां जनयति अपि च वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारानुपजनयति तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्षः शीतो लघुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्युच्छोषयति स्रोतसां खरत्वमुपपादयति बलमादत्ते कर्शयति ग्लपयति मोहयति भ्रमयति वदनमुपशोषयति अपरांश्च वातविकारानुपजनयति कषायो रसः संशमनः संग्राही संधानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति हृदयं पीडयति उदरमाध्मापयति वाचं निगृह्णाति स्रोतांस्यवबध्नाति श्यावत्वमापादयति पुंस्त्वमुपहन्ति विष्टभ्य जरां गच्छति वातमूत्रपुरीषरेतांस्यवगृह्णाति कर्शयति ग्लपयति तर्षयति स्तम्भयति खरविशदरूक्षत्वात्पक्षवधग्रहापतानकार्दितप्रभृतींश्च वातविकारानुपजनयति ॥ ४३ [{आयुर्वेददीपिका} विपाकस्य प्रभावो विपाकप्रभावः विपाकश्च कटूनां कटुरेव रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः अयं च वक्ष्यमाणे सर्वत्र हेतुः ॥ १ चरणादीनां साक्षाद्ग्रहणं तत्रैव प्रायो वातविकारभावात् ॥ २ अत्र च विपाकप्रभावादिकथनमुदाहरणार्थं तेन मधुरादिषु विपाकादिकार्यमुन्नेयम् ॥ ३ ग्लपयति हर्षक्षयं करोति ॥ ४ पीडनो व्रणपीडनः ॥ ५ शरीरक्लेदस्योपयोक्तेति आचूषकः ॥ ६ शीतोऽलघुश्च इत्यकारप्रश्लेषादलघुः ॥ ७ अवगृह्णातीति बद्धानि करोति ॥ ८] इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ॥ १,२६.४४ [{आयुर्वेददीपिका} पृथक्त्वेनेति एकैकशो मात्रशः ॥ १ एकत्वेनेति एकीकृत्य समुदायमात्रश इत्यर्थः ॥ २ मात्रश इति मात्रया ॥ ३ तच्चैकीकरणं द्वित्र्यादिभिः सर्वैर्ज्ञेयम् ॥ ४ अध्यात्मलोकस्येति सर्वप्राणिजनस्य ॥ ५ अन्यथेति अमात्रया ॥ ६] शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः । तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः ॥ १,२६.४५ [{आयुर्वेददीपिका} सम्प्रति रसद्वारेणैव द्रव्याणां वीर्यमाह शीतमित्यादि ॥ १ यद्द्रव्यं रसे पाके च मधुरं तच्छीतं वीर्येण ज्ञेयं तथा तयोरिति रसपाकयोर्यदम्लं द्रव्यं तदुष्णं वीर्येण तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकमुक्तं तच्चोष्णं वीर्येण भवति इति शेषः ॥ २ किंवा यच्चोष्णं कटुकं तयोः इति पाठः ॥ ३ तत्र यद्रसतो मधुरं तद्वीर्यतः शीतमिति वक्तव्ये यद्रसपाकयोरिति करोति तन्मधुररसोचितपाकस्यैव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थमेवमम्लकटुकयोरपि वाच्यम् ॥ ४] तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः । वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते ॥ १,२६.४६ यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ । एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक् ॥ १,२६.४७ [{आयुर्वेददीपिका} तेषामिति मधुरपाकादीनां रसोपदेशेनेति रसमात्रकथनेनैव यतो विपाकोऽपि रसत एव प्रायो ज्ञायते यद्वक्ष्यति कटुतिक्तकषायाणां विपाकः प्रायशः कटुरित्यादि ॥ १ एतच्च न सर्वत्रेत्याह वीर्यत इत्यादि ॥ २ वीर्यतोऽविपरीतानां रसद्वारा वीर्यज्ञानं न तु रसविरुद्धवीर्याणां महापञ्चमूलादीनां न केवलं रसेन किं तर्हि पाकतश्च य उपदेक्ष्यते गुणसंग्रहः शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः इत्यादिना स च वीर्यतोऽविरुद्धानां विज्ञेयः यदि तत्र वीर्यं विरोधि भवति तदा विपाकोऽपि यथोक्तगुणकरी न स्यात् ॥ ३ किंवा पाकतश्चाविपरीतानां रसोपदेशेन गुणसंग्रहः शीतोष्णलक्षणो निर्देश्यः यस्यास्तु पिप्पल्याः कटुकाया अपि विपरीतमधुरपाकित्वं न तत्र कटु रसत्वेनोष्णत्वमित्यर्थः ॥ ४ अस्मिंश्च पक्षे उपदेक्ष्यते इति यथा पयः इत्यादिना सम्बध्यते ॥ ५ तान्येवाविपरीतवीर्यविपाकान्याह यथा पय इत्यादि ॥ ६ पयःप्रभृतीनि हि द्रव्यगुणकथनेऽविरुद्धवीर्यविपाकान्युपदेष्टव्यानि ॥ ७] [{Cओम्म्. ओन् Cष्} सम्प्रति मधुरतिक्तकषायाणां शीतत्वं तथा कट्वम्ललवणानां चोष्णत्वं तथा कटुतिक्तकषायाणां चावृष्यत्वमित्यादयो रसद्वारेण द्रव्याणां ये गुणा उक्तास्तदपवादमाह तेषामित्यादि ॥ १ रसोपदेशेन रसगुणकथनद्वारेण द्रव्याणां यः शीतोष्णादिगुणसंग्रहः कृतः स वीर्यतः पाकतश्चाविपरीतानां तेषां वक्ष्यमाणक्षीरादिद्रव्याणामेव निर्देष्टुं शक्यः न तु रसविपरीतवीर्यविपाकानामित्यर्थः ॥ २ तेष्वविपरीतवीर्यविपाकानुपदिशत्युपदेक्ष्यत इत्यादि ॥ ३ उपदेक्ष्यत इति यथा पय इत्यादिभिः सम्बध्यते ॥ ४ एतानि हि द्रव्यगुणकथनप्रसङ्गे रसाविपरीतवीर्यविपाकतयैवोपदेष्टव्यानीति रसानुरूपगुणत्वमेषां ज्ञातव्यमित्यर्थः ॥ ५ इदं तूदाहरणैकदेशमात्रं तेनापराण्यप्येवंजातीयान्युदाहर्तव्यानीत्याह एवमादीनीत्यादि ॥ ६ एवमादीनि एवंप्रकाराणि गोधूमादीनीत्यर्थः ॥ ७] मधुरं किंचिदुष्णं स्यात्कषायं तिक्तमेव च । यथा महत्पञ्चमूलं यथाब्जानूपमामिषम् ॥ १,२६.४८ लवणं सैन्धवं नोष्णमम्लमामलकं तथा । अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते ॥ १,२६.४९ [{आयुर्वेददीपिका} सम्प्रति यत्र विरुद्धवीर्यत्वेन रसेनोष्णत्वादि न निर्देश्यं तदाह मधुरमित्यादि ॥ १ किंचित्कषायं चोष्णं तिक्तं चोष्णमिति योजना कषायतिक्तलवणानामुदाहरणमसूत्रितानामपि प्रकरणात्कृतम् ॥ २ महत्पञ्चमूलं बिल्वादिपञ्चमूलमिह ॥ ३ एतच्च तिक्तस्य कषायस्य चोष्णतायामुदाहरणमब्जानूपामिषं तु मधुरस्योष्णवीर्यत्वे ॥ ४] किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च । यथा कपित्थं संग्राहि भेदि चामलकं तथा ॥ १,२६.५० पिप्पली नागरं वृष्यं कटु चावृष्यमुच्यते । कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा ॥ १,२६.५१ तस्माद्रसोपदेशेन न सर्वं द्रव्यमादिशेत् । दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ॥ १,२६.५२ [{आयुर्वेददीपिका} वीर्यप्रसङ्गादन्यमप्यम्लादीनां विरुद्धगुणमाह किंचिदित्यादि ॥ १ अभयायामतोऽन्यथेति अभयायां कषायो रसो भेदनश्चोष्णश्चेत्यर्थः ॥ २] रौक्ष्यात्कषायो रूक्षाणामुत्तमो मध्यमः कटुः । तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः ॥ १,२६.५३ मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः । मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते ॥ १,२६.५४ मध्योत्कृष्टावराः शैत्यात्कषायस्वादुतिक्तकाः । स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः ॥ १,२६.५५ अम्लात्कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः । केचिल्लघूनामवरमिच्छन्ति लवणं रसम् ॥ १,२६.५६ गौरवे लाघवे चैव सोऽवरस्तूभयोरपि । [{आयुर्वेददीपिका} रौक्ष्यादित्यादि ॥ १ रौक्ष्येण कषाय उत्तम इति रूक्षतमः तिक्तो रूक्षः कटुस्तु मध्यो रूक्षतरः एवमन्यत्रापि ॥ २ कटुकश्चान्त्य इति अवर इत्यर्थः ॥ ३ एवं लवणश्चान्त्य इति अवर इत्यर्थः ॥ ४ लवणोऽवर इति गुरुत्वेनेत्यर्थः ॥ ५ अम्लात्कटुरित्यादौ अम्लात्कटुर्लघुः ततः कटुकादुत्तमात्तिक्तो लघुत्वेनोत्तमोत्तमः उत्तमात्कटुकादुत्तम उत्तमोत्तमः ॥ ६ एकीयमतमाह केचिदित्यादि ॥ ७ एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह गौरव इत्यादि ॥ ८ एतेन गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवेऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य लाघवे चावर इत्यनेनाम्लादपि लघुनोऽल्पं लाघवं लवणस्य स्वीकरोति ॥ ९ न च वाच्यमम्ले पृथिवी कारणं लवणे तु तोयं ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति यतो न निवेशेन गौरवलाघवे शक्येतेऽवधारयितुं तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात्कषायाद्गुरुर्भवति ॥ १०] परं चातो विपाकानां लक्षणं सम्प्रवक्ष्यते ॥ १,२६.५७ कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ १,२६.५८ [{आयुर्वेददीपिका} सम्प्रति विपाकस्यापि रसरूपत्वाल्लक्षणमाह परमित्यादि ॥ १ प्रायोग्रहणात्पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति ॥ २ कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते यतो न रसाः पच्यन्ते किंतु द्रव्यमेव ॥ ३ लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः ॥ ४ विपाकलक्षणं तु जठराग्नियोगादाहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः वचनं हि । जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् । आहारपरिणामान्ते स विपाकः प्रकीर्तितः ॥ ५] मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः । वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः ॥ १,२६.५९ कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः । दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम् ॥ १,२६.६० [{आयुर्वेददीपिका} सम्प्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर्वातमूत्रपुरीषानवरोधकत्वे तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुमाह मधुर इत्यादि ॥ १ अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद्वातपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः ॥ २ तेन मधुराम्लपाकयोरेतत्समानं लक्षणम् ॥ ३ एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः ॥ ४] शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः । मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः ॥ १,२६.६१ पित्तकृत्सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः । तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा ॥ १,२६.६२ [{आयुर्वेददीपिका} सम्प्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुमाह शुक्रहेत्यादि ॥ १ अतोऽन्यथेति लघुः ॥ २] विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति । द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत् ॥ १,२६.६३ [{आयुर्वेददीपिका} सम्प्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच्चोत्कृष्टत्वं यथा भवति तदाह विपाकेत्यादि ॥ १ विपाकलक्षणस्याल्पमध्यभूयिष्ठतामुपलक्षयेत्प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोरित्यर्थः ॥ २ एतेन द्रव्येषु यद्गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि ततो हेतोर्विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति ॥ ३ अत्र केचिद्ब्रुवते प्रतिरसं पाको भवति यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति केचिद्ब्रुवते बलवतां रसानामबलवन्तो रसा वशतां यान्ति ततश्चानवस्थितः पाकः ॥ ४ तत्रैतद्द्वितयमपि पाके व्यवस्थाकरणमनादृत्य सुश्रुतेन द्विविधः पाको मधुरः कटुश्चाङ्गीकृतः ॥ ५ द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति शेषलघुभूतातिरेकात्तु कटुकः पाको भवति यदुक्तं द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः ॥ ६ निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ ७ तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ॥ ८ निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते इति ॥ ९ प्रतिरसपाके तथानवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति तेन न कश्चिद्विशेषो विपाकेन तत्र बोध्यत इति सुश्रुतेन तत्पक्षद्वयमुपेक्षितमिति साधु कृतम् ॥ १० तृतीयाम्लपाकनिरासस्तु दोषमावहति यतो व्रीहिकुलत्थादीनामम्लपाकतया पित्तकर्तृत्वमुपलभ्यते अथ मन्यसे व्रीह्यादेरुष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं तन्न मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते रसविपाकाभ्यामेकस्य वीर्यस्य बाधनीयत्वात् ॥ ११ किंच अम्लपाकत्वाद्व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते यदि तु तदुष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात्दृश्यते च व्रीहिभक्षणादम्लोद्गारादिनाम्लगुणभूयिष्ठतैवेति ॥ १२ किंच पृथिवीसोमगुणातिरेकान्मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः ॥ १३ अथवा तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्तव्यं यतो यदम्लपाकं चरको ब्रूते तत्सुश्रुतेन वीर्योष्णमिति कृत्वा समाधीयते तेन न कश्चिद्द्रव्यगुणे विरोधः ॥ १४ यत्तु सुश्रुतेऽम्लपाकनिरासार्थं दूषणमुच्यते पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तदनभ्युपगमादेव निरस्तम् ॥ १५ ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं नैवं सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत्पित्तरक्तादिकारकं विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् सृष्टविण्मूत्र इत्यादिना लक्षणेन लक्ष्यत एव ॥ १६ एतेन यदुच्यते लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत्किं तेनोपदिष्टेनेति तन्निरस्तं भवति ॥ १७ यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् ॥ १८ अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः ॥ १९ अन्ये त्वेतद्दोषभयाल्लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति ॥ २० तन्न कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर्मधुरः इति जतूकर्णवचनात् ॥ २१ नच वाच्यं कस्मात्त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति यतो भूतस्वभाव एवैषः येन मधुरादयस्त्रय एव भवन्ति भूतस्वभावाश्चापर्यनुयोज्याः ॥ २२ ननु यश्च रसविपरीतः पाको यथा लवणस्य मधुरः तिक्तकषाययोश्च कटुः स उच्यतां यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः तत्कथने किं प्रयोजनं यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते ॥ २३ नैवं येन लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरारासार्थमपि तत्रानुगुणोऽपि विपाको वक्तव्य एव विपाकजश्च रस आहारपरिणामान्ते भवति प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः तेन पिप्पल्याः कटुकरसत्वमादौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम् ॥ २४ तथा यत्र विपाकस्य रसाः समानगुणतयानुगुणा भवन्ति तत्र बलवत्कार्यं भवति विपर्यये तु दुर्बलमिति ज्ञेयम् ॥ २५ एतच्च पाकत्रयं द्रव्यनियतं तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नमेव तत्र ह्यविशेषेण सर्वेषामेव रसानामवस्थावशात्त्रयः पाका वाच्याः अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः इत्यादिना ग्रन्थेन ॥ २६] मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् । वीर्यमष्टविधं केचित्केचिद्द्विविधमास्थिताः ॥ १,२६.६४ शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया । नावीर्यं कुरुते किंचित्सर्वा वीर्यकृता क्रिया ॥ १,२६.६५ [{आयुर्वेददीपिका} एकीयमतेन वीर्यलक्षणमाह मृद्वित्यादि ॥ १ एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम् ॥ २ वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति तेन तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति यथा पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयतीति तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनमभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिरित्यादि ॥ ३ यदुक्तं सुश्रुते एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म दर्शयन्ति इत्यादि ॥ ४ शीतोष्णवीर्यवादिमतं त्वग्नीषोमीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् ॥ ५ उक्तं च । नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ । व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्वा ॥ ६ एतच्च मतद्वयमप्याचार्यस्य परिभाषासिद्धमनुमतमेव येनोत्तरत्र रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते इत्यादौ पारिभाषिकमेव वीर्यं निर्देक्ष्यति ॥ ७ पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह वीर्यं त्वित्यादि ॥ ८ वीर्यमिति शक्तिः ॥ ९ येनेति रसेन वा विपाकेन वा प्रभावेन वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते तस्यां क्रियायां तद्रसादि वीर्यम् ॥ १० अत एवोक्तं सुश्रुते येन कुर्वन्ति तद्वीर्यमिति ॥ ११ अत्रैव लोकप्रसिद्धामुपपत्तिमाह नावीर्यमित्यादि ॥ १२ अवीर्यमशक्तमित्यर्थः ॥ १३ वीर्यकृतेति वीर्यवता कृता वीर्यकृता ॥ १४] रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया । वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते ॥ १,२६.६६ [{आयुर्वेददीपिका} रसादीनामेकद्रव्यनिविष्टानां भेदेन नार्थं लक्षणमाह रसो निपात इत्यादि ॥ १ निपात इति रसनायोगे ॥ २ कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः रसोपयोगे सति योऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः तेन विपाको निश्चीयते ॥ ३ अधीवासः सहावस्थानं यावदधीवासादिति यावच्छरीरनिवासातेतच्च विपाकात्पूर्वं निपाताच्चोर्ध्वं ज्ञेयम् ॥ ४ निपाताच्चेति शरीरसंयोगमात्रात्तेन किंचिद्वीर्यमधीवासादुपलभ्यते यथानूपमांसादेरुष्णत्वं किंचिच्च निपातादेव लभ्यते यथा मरीचादीनां तीक्ष्णत्वादि किंचिच्च निपाताधीवासाभ्यां यथा मरीचादीनामेव ॥ ५ एतेन रसः प्रत्यक्षेणैव विपाकस्तु नित्यपरोक्षः तत्कार्येणानुमीयते वीर्यं तु किंचिदनुमानेन यथा सैन्धवगतं शैत्यमानूपमांसगतं वा औष्ण्यं किंचिच्च वीर्यं प्रत्यक्षेणैव यथा राजिकागतमौष्ण्यं घ्राणेन पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः ॥ ६ एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम् ॥ ७ एतच्च यथासम्भवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम् ॥ ८ द्रव्याणामिति उपयुज्यमानद्रव्याणाम् ॥ ९ तच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव ॥ १०] रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते । विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः ॥ १,२६.६७ [{आयुर्वेददीपिका} प्रभावलक्षणमाह रसवीर्येत्यादि ॥ १ सामान्यमिति तुल्यता ॥ २ विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम् । सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत्प्रभावकृतमिति सूचयति अत एवोक्तंप्रभावोऽचिन्त्य उच्यते रसवीर्यविपाककार्यतयाचिन्त्य इत्यर्थः ॥ ३] कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः । तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥ १,२६.६८ विषं विषघ्नमुक्तं यत्प्रभावस्तत्र कारणम् । ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम् ॥ १,२६.६९ मणीनां धारणीयानां कर्म यद्विविधात्मकम् । तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥ १,२६.७० सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः । किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ॥ १,२६.७१ द्रव्यं गुणेन पाकेन प्रभावेण च किंचन । रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ॥ १,२६.७२ बलसाम्ये रसादीनामिति नैसर्गिकं बलम् । [{आयुर्वेददीपिका} अस्यैव दुरभिगमत्वादुदाहरणानि बहून्याह कटुक इत्यादिना ॥ १ तद्वदिति चित्रकसमानगुणा ॥ २ विषघ्नमुक्तमिति तस्माद्दंष्ट्राविषं मौलमित्यादिना ॥ ३ ऊर्ध्वानुलोमिकमिति युगपदुभयभागहरं किंवा ऊर्ध्वहरं तथानुलोमहरं च ॥ ४ कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि ॥ ५ एतच्चोदाहरणमात्रं तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं प्रभाव इति ज्ञेयम् ॥ ६ प्रभावश्चेह द्रव्यशक्तिरभिप्रेता सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव यतः शक्तिर्हि स्वरूपमेव भावानां नातिरिक्तं किंचिद्धर्मान्तरमेवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यं यथोक्तं द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावामित्यादि ॥ ७ न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात्जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम् ॥ ८ नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिरुक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सान्तर्भागत्वात्प्रभावादेव भवति ॥ ९ एवमूर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथनेऽपि वाच्यम् ॥ १०] षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ॥ १,२६.७३ स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुवंल्लिम्पतीव च ॥ १,२६.७४ दन्तहर्षान्मुखास्रावात्स्वेदनान्मुखबोधनात् । विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ॥ १,२६.७५ प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे । यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ॥ १,२६.७६ संवेजयेद्यो रसानां निपाते तुदतीव च । विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ॥ १,२६.७७ प्रतिहन्ति निपाते यो रसनं स्वदते न च । स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ॥ १,२६.७८ वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः । बध्नातीव च यः कण्ठं कषायः स विकास्यपि ॥ १,२६.७९ [{आयुर्वेददीपिका} विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः ॥ १ प्रलीयन्निति विलीनो भवन् ॥ २ संस्रावयतीति संस्रावी ॥ ३ विकासीति हृदयविकसनशील उक्तं हि सुश्रुते हृदयं पीडयति इति ॥ ४] एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच भगवन् श्रुतमेतदवितथमर्थसम्पद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः परं त्वाहारविकाराणां वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ॥ १,२६.८० [{आयुर्वेददीपिका} सम्प्रति विरुद्धाहारं वक्तुमाहैवमित्यादि ॥ १ शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव ॥ २ यत्किंचिद्दोषमास्राव्य इत्यादि वैरोधिकलक्षणं ज्ञेयम् ॥ ३] तमुवाच भगवानात्रेयः देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते परस्परगुणविरुद्धानि कानिचित्कानिचित्संयोगात्संस्कारादपराणि देशकालमात्रादिभिश्चापराणि तथा स्वभावादपराणि ॥ १,२६.८१ [{आयुर्वेददीपिका} देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि ॥ १ विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति दूषयन्तीति यावत् ॥ २ यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरुद्धानि कानिचिदित्यादि ॥ ३ तत्र परस्परगुणविरुद्धानि यथा न मत्स्यान् पयसाभ्यवहरेतुभयं ह्येतदित्यादिनोक्तानि ॥ ४ संयोगविरुद्धं यथा तदेव निकुचं पक्वं न माष इत्यादिनोक्तं यत्संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धमुच्यते तत्संयोगविरुद्धम् ॥ ५ मत्स्यपयसोस्तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम् । विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिदेव द्रव्यप्रभावाद्भवति तेन षड्रसाहारोपयोगे मधुराम्लयोर्विरुद्धशीतोष्णवीर्ययोर्विरोधो नोद्भावनीयः ॥ ६ संस्कारतो विरुद्धं यथा न कपोतान् सर्षपतैलभृष्टानित्यादि ॥ ७ देशो द्विविधः भूमिः शरीरं च ॥ ८ तत्र भूमिविरुद्धं यथा तदेव भस्मपांशुपरिध्वस्तं किंवा यत्किंचिदगोचरभृतं तद्देशविरुद्धं शरीरविरुद्धं यथा उष्णार्तस्य मधु मरणाय ॥ ९ कालविरुद्धं यथा पर्युषिता काकमाची मरणाय ॥ १० मात्राविरुद्धं यथा समधृते मधुसर्पिषी मरणाय ॥ ११ आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम् ॥ १२ स्वभावविरुद्धं यथा विषम् ॥ १३] तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः न मत्स्यान् पयसा सहाभ्यवहरेतुभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ॥ १,२६.८२ तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात्स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत्पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ॥ १,२६.८३ [{आयुर्वेददीपिका} वैरोधिकमधिकृत्येति वैरोधिकमुद्दिश्य ॥ १ शीतोष्णत्वादिति पयः शीतमुष्णवीर्याश्च मत्स्याः शेषं मधुरत्वादि समानम् ॥ २ एतच्च द्रव्यप्रभावादेव विरोधि ॥ ३ स पुनः शकली इत्यादिना नान्दिनिः इति ख्यातो मत्स्य उच्यते ॥ ४] नेति भगवानात्रेयः सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात्स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति च । ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा नैकध्यमद्यात्तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमाप्नोति । न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत्तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति । न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् । न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यमेतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति । तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् । तथाम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् । तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः । पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति । हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति । पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति । उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य । बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति । मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापादयति । हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय । मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय । मधु चोष्णमुष्णार्तस्य च मधु मरणाय । मधुसर्पिषी समधृते चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पीत्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि । इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति ॥ १,२६.८४ [{आयुर्वेददीपिका} ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि ॥ १ कलमूकतेति कलमूकता अव्यक्तवचनता ॥ २ पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः पौष्करं पुष्करत्रत्ररूपं शाकं रोहिणी कटुरोहिणी ॥ ३ धमनीप्रतिचयः सिराजग्रन्थिः ॥ ४ जातुशाकं वंशपत्त्रिका ॥ ५ वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थमेवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम् । तथाम्लेत्यादौ अम्लग्रहणेन लब्धानाप्यम्लाम्रातकादीनामभिधानं विशेषविरोधसूचनार्थम् ॥ ६ सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं सर्वशब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं भवति हि प्रकरणादेकदेशेऽपि सर्वव्यपदेशः यथा सर्वान् भोजयेदिति किंवा सर्वग्रहणमम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम् ॥ ७ पयसेति तृतीययेव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं तेन अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम् ॥ ८ वनको वनकोद्रवः ॥ ९ पद्मोत्तरिका कुसुम्भः ॥ १० शार्कर इति मैरेयविशेषणम् ॥ ११ वातं चातिकोपयतीति वचनेन पित्तकफावल्पं कोपयतीति बोधयति एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम् ॥ १२ हारिद्रको हरिताल इति ख्यातः पक्षी ॥ १३ बलाका वारुण्या सह विरुद्धा तथा कुल्माषैश्च बलाका विरुद्धा ॥ १४ एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं सीसको हि भटित्रकरणकाष्ठमुच्यते ॥ १५ तदेवेति हारिद्रकमांसम् ॥ १६ मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं किंवा निस्तालनं वसा जतूकर्णेऽप्युक्तं मत्स्यवसा सिद्धाः पिप्पल्यः इति ॥ १७ काकमाची मधु चेति संयोगविरुद्धम् ॥ १८ भासो गोष्ठकुक्कुटः ॥ १९] यत्किंचिद्दोषमास्राव्य न निर्हरति कायतः । आहारजातं तत्सर्वमहितायोपपद्यते ॥ १,२६.८५ [{आयुर्वेददीपिका} अनुक्तवैरोधिकसंग्रहार्थमाह यत्किंचिदित्यादि ॥ १ आह्रियत इत्याहारो भेषजमपि ॥ २ दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति ॥ ३ अनेन वमनविरेचनद्रव्याणि निराकरोति तानि हि दोषानास्राव्य निर्हरन्ति ॥ ४] यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः । संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ॥ १,२६.८६ परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ॥ १,२६.८७ विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि । आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ॥ १,२६.८८ कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम् । शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ॥ १,२६.८९ विरुद्धमनले तद्वदन्नपानं चतुर्विधे । मधुसर्पिः समधृतं मात्रया तद्विरुध्यते ॥ १,२६.९० कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् । यत्तत्सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः ॥ १,२६.९१ या समानगुणाभ्यासविरुद्धान्नौषधक्रिया । संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ॥ १,२६.९२ एरण्डसीसकासक्तं शिखिमांसं यथैव हि । विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम् ॥ १,२६.९३ तत्संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते । क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ॥ १,२६.९४ मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु । एतत्कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ॥ १,२६.९५ श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् । निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ॥ १,२६.९६ यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश्चाबुभुक्षितः । तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुगः ॥ १,२६.९७ परिहारविरुद्धं तु वराहादीन्निषेव्य यत् । सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ॥ १,२६.९८ विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् । अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत् । संयोगतो विरुद्धं तद्यथाम्लं पयसा सह ॥ १,२६.९९ अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते । सम्पद्विरुद्धं तद्विद्यादसंजातरसं तु यत् ॥ १,२६.१०० अतिक्रान्तरसं वापि विपन्नरसमेव वा । ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत् । तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् ॥ १,२६.१०१ [{आयुर्वेददीपिका} यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित्पठन्ति स च व्यक्त एव ॥ १] षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगंदराणाम् । मूर्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव ॥ १,२६.१०२ किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् । संतानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ १,२६.१०३ [{आयुर्वेददीपिका} षाण्ढ्यं नपुंसकता ॥ १ संतानदोषो मृतवत्सत्वादिः ॥ २ एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते तेन लशुनस्य क्षीरेण पानं क्वचिन्न विरोधि यदुक्तं साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ॥ ३ क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत्तथा मूलकस्वरसं क्षीरमित्यादिप्रयोगेषून्नेयम् ॥ ४ किंवा अनेकद्रव्यसंयोगादत्र विरोधिनामविरोधः विरोधिमात्रसंयोग एव विरोधी भवति ॥ ५ यत्तु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगेऽविरोधार्थमुक्तमपक्वगमनादि तन्मधुनो द्रव्यान्तरसंयोगेऽप्युष्णसम्बन्धत्वे विरोधित्वोपदर्शनार्थं यतो विषान्वयं मधु विषस्य चोष्णविरोधि ॥ ६ लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते ॥ ७] एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति । तद्यथा वमनं विरेचनं च तद्विरोधिनां च द्रव्याणां संशमनार्थमुपयोगः तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति ॥ १,२६.१०४ विरुद्धाशनजान् रोगान् प्रतिहन्ति विवेचनम् । वमनं शमनं चैव पूर्वं वा हितसेवनम् ॥ १,२६.१०५ सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च । स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ १,२६.१०६ [{आयुर्वेददीपिका} तद्विरोधिनामिति षाण्ढ्यादिहराणाम् ॥ १ तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः ॥ २ अभिसंस्कार इति सततोपयोगेन शरीरभावनम् ॥ ३ किंवा तथाविधैरिति रसायनप्रयोगैः ॥ ४ एतच्चानागताबाधचिकित्सितं ज्ञेयम् ॥ ५] मतिरासीन्महर्षीणां या या रसविनिश्चये । द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ॥ १,२६.१०७ कारणं रससंख्याया रसानुरसलक्षणम् । परादीनां गुणानां च लक्षणानि पृथक्पृथक् ॥ १,२६.१०८ पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना । ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः ॥ १,२६.१०९ षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः । उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ॥ १,२६.११० प्रवरावरमध्यत्वं रसानां गौरवादिषु । पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः ॥ १,२६.१११ षण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् । यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ॥ १,२६.११२ वैरोधिकनिमित्तानां व्याधीनामौषधं च यत् । आत्रेयभद्रकाप्यीये तत्सर्वमवदन्मुनिः ॥ १,२६.११३ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः ॥ १,२६.११४ [{आयुर्वेददीपिका} संग्रहे द्रव्यसंख्या रसाश्रया इति भेदश्चैषामित्यादिना रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद्रसानामिति भावः ॥ १ कारणं रससंख्याया इति रसानां तत्र योग्यत्वादित्यादिना विभक्तयो भेदः तत्र मधुर इत्यादिना ॥ २ उद्देशो द्रव्याणां शीतं वीर्येण इत्यादिना अपवादो द्रव्याणां मधुरं किंचितित्यादिना ॥ ३] ************************************************************ Cअरकसंहिता, षूत्रस्थान, २७ [आन्नपानविधि] अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥ १,२७.१ इति ह स्माह भगवानात्रेयः ॥ १,२७.२ [{आयुर्वेददीपिका} सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमन्नपानविधिरध्यायोऽभिधीयते ॥ १ अत्रोत्पन्नस्य छप्रत्ययस्य लुक् ॥ २ अत्रान्ने काठिन्यसामान्यात्खाद्यं पाने च द्रवत्वसामान्याल्लेह्यमवरुद्धं ज्ञेयम् ॥ ३ अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यतेऽनेनेत्यन्नपानविधिः द्रव्याणां गुणकर्मकथनमेव चान्नपानविधिः यतस्तद्धि ज्ञात्वान्नपानं विधीयते ॥ ४] इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः प्रत्यक्षफलदर्शनात्तदिन्धना ह्यन्तरग्नेः स्थितिः तत्सत्त्वमूर्जयति तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय सम्पद्यते ॥ १,२७.३ [{आयुर्वेददीपिका} किं तदन्नपानं करोतीत्याह इष्टेत्यादि ॥ १ इष्टमिति अभिमतं हितं च किंवा इष्टं प्रियं हितं तु विधिविहितशब्देनैव प्राप्यते ॥ २ विधिर्वक्ष्यमाणरसविमाने तदेतदाहारविधानमित्यादिग्रन्थवाच्यः तथेन्द्रियोपक्रमणीये नारत्नपाणिः इत्यादिनोक्तं विधानं तेन विधिना विहितं विधिविहितम् ॥ ३ अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात् ॥ ४ वर्णादिषु यद्यत्प्रथममन्नपाने गृह्यते तत्तत्पूर्वमुक्तम् ॥ ५ रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः ॥ ६ प्राणिनामित्यनेनैव लब्धेऽपि प्राणिसंज्ञकानामिति वचनं स्थावरप्राणिप्रतिषेधार्थं वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छस्त्रे प्राणिन उक्ताः न तु लोके प्राणिसंज्ञकाः किंतर्हि जङ्गमा एव ॥ ७ इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाहारकथनं मनुषव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम् ॥ ८ प्राणमिति प्राणहेतुत्वात्यथायुर्घृतम् ॥ ९ अथ कथं तत्प्राणमाचक्षत इत्याह प्रत्यक्षफलदर्शनादिति ॥ १० प्रत्यक्षेणैव ह्याहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां प्राणा नह्यवतिष्ठन्त इति दृश्यत इत्यर्थः ॥ ११ प्रत्यक्षशब्दश्चेह स्फुटप्रमाणे वर्तते यतः प्राणानामन्नकार्यत्वमनुमानगम्यमेव ॥ १२ आन्नकार्यत्व एव प्राणानां हेतुमाह तदिन्धना हीत्यादिना ॥ १३ यस्मादन्तरग्निस्थितिश्चान्नपानहेतुना अग्निस्थितिश्च प्राणहेतुः ततोऽन्नं प्राणा इति भावः उक्तं हि बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः ॥ १४ किंवा पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं तदिन्धना हीत्यादिनाग्निहेतुत्वं वर्ण्यते ॥ १५ सत्त्वमूर्जयतीति मनोबलं करोति ॥ १६ धातुव्यूहो धातुसंघातः ॥ १७ विपरीतमविधिसेवितम् ॥ १८] तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिले नोपदेक्ष्यामोऽग्निवेश । तत्स्वभावादुदक्तं क्लेदयति लवणं विष्यन्दयति क्षारः पाचयति मधु संदधाति सर्पिः स्नेहयति क्षीरं जीवयति मांसं बृंहयति रसः प्रीणयति सुरा जर्जरीकरोति सीधुरवधमति द्राक्षासवो दीपयति फाणितमाचिनोति दधि शोफं जनयति पिण्याकशाकं ग्लपयति प्रभूतान्तर्मलो माषसूपः दृष्टिशुक्रघ्नः क्षारः प्रायः पित्तलमम्लमन्यत्र दाडिमामलकात्प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात्प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्त्रात्प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पलीविश्वभेषजात् ॥ १,२७.४ [{आयुर्वेददीपिका} अन्नपानं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः ॥ १ यद्यपि चेह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति वक्ष्यति हि अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः इति तथाप्यनुक्तानामपि द्रव्याणां चरशरीरावयवाद्युपदेशेन तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तमखिलेनेति वक्ष्यति हि यथा नानौषधं किंचिद्देशजानां वचो यथा ॥ २ द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद्भवेत्तथा चरः शरीरावयवाः इत्यादि किंवा विधिशब्दोऽशितपीतलीढखादितप्रकारवाची तेन चाशितादयः सर्व एवाखिलेन वाच्यः तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि अतो वक्ष्यति अन्नपानैकदेशोऽयमुक्तः इति ॥ ३ अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति ॥ ४ उदकाभिधानं चाग्रे कृतमुदकस्यान्ने पाने च व्याप्रियमाणत्वात् ॥ ५ तदित्युदाहरणं किंवा स स्वभावो यस्य स तत्स्वभावः तस्मात्क्लेदनस्वभावादित्यर्थः ॥ ६ यद्यपि उदकमाश्वासकराणां जलं स्तम्भनानामित्युक्तं तथापीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते ॥ ७ इह जललवणादीनां यत्कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयमग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया ॥ ८ क्षारः पचन्तमग्निं पाचयति तेन पाचयतीति हेतौ णिच् ॥ ९ स्नेहयतीत्यादौ तु तत्करोति तदाचष्टे इति णिच् ॥ १० संदधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति ॥ ११ रसः मांसरसः ॥ १२ प्रीणयतीति क्षीणान् पुष्णाति न त्वतिबृहत्त्वं करोति तेन मांसकर्मणा बृंहणेन समं नैक्यम् ॥ १३ जर्जरीकरोतीति श्लथमांसाद्युपचयं करोति यदुक्तं हारीते सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यातिति तथा ह्यत्रैवोक्तं सुरा कृशानां पुष्ट्यर्थमिति ॥ १४ अवधमयतीति विलिखतीत्यर्थः अनेकार्थत्वाद्धातूनां वचनं हि लेखनः शीतरसिकः इति तथा हारीतेऽप्युक्तं सीधुरवधमयति वाय्वग्निप्रबोधनातिति ॥ १५ आचिनोति दोषानिति शेषः तन्त्रान्तरवचनं हि वातपित्तकफांस्तस्मादाचिनोति च फाणितमिति ॥ १६ पिण्याकः तिलकल्कः निघण्टुकारस्त्वाह पिण्याको हरितशिग्रुः ॥ १७ ग्लपयति हर्षक्षयं करोति ॥ १८ प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः यद्यपि माषो बहुमलः इति वक्ष्यति तथापि माषविकृतेः सूपस्येह गुणकथनं तेन न पुनरुक्तं न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति तस्मान्माषविकृतावपि मलवृद्धिदर्शनार्थमेतदभिधानम् ॥ १९ क्षारस्य पाचनत्वं गुणोऽभिहितः इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते ॥ २० प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम् ॥ २१ एवमन्यत्रापि प्रायःशब्दो विशेषार्थो वाच्यः किंवा प्रायःशब्दोऽम्लेन सम्बध्यते ॥ २२ अत्र पित्तमादावम्लजन्यतयोक्तं दोषप्राधान्यस्यानियतत्वातुक्तं हि न ते पृथक्पित्तकफानिलेभ्य इति तथा समपित्तानिलकफा इति किंवा पित्तोष्मा वह्निः स चेहान्नपानपचने प्रधानं यदुक्तं यदन्नं देहधात्वोजोबलवर्णादिपोषकम् ॥ २३ तत्राग्निर्हेतुराहारान्नह्यपक्वाद्रसादयः इति तेनेह वह्निकारणपित्तजनकमेवादावुच्यते यतश्च पित्तजनकमग्रे वक्तव्यमतो रसप्रधानमपि मधुरो नादावुक्तः ॥ २४ मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति ॥ २५ इह च षड्रसस्यैव कथनमेतत्त्रयेणैव अनुक्तानां लवणतिक्तकषायाणामपि पाकद्वारा ग्रहणात्यतो लवणः पाकात्प्रायो मधुरः तिक्तकषायौ कटुकौ पाकतो भवतः ॥ २६ प्रायः सर्वं तिक्तमित्यादिस्तु ग्रन्थो हारीतीयः इह केनापि प्रमादाल्लिखितः ॥ २७] परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः ॥ १,२७.५ शूकधान्यशमीधान्यमांसशाकफलाश्रयान् । वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान् ॥ १,२७.६ दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम् । रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे ॥ १,२७.७ [{आयुर्वेददीपिका} वर्गेण शूकधान्यादीनामाहारद्रव्याणां संग्रहो वर्गसंग्रहः ॥ १ रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः ॥ २ रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति ॥ ३ अत्र शूकधान्यमादावाहारप्रधानत्वात्शूकवन्ति धान्यानि शूकधान्यानि ॥ ४] रक्तशालिर्महाशालिः कलमः शकुनाहृतः । तूर्णको दीर्घशूकश्च गौरः पाण्डुकलाङ्गुलौ ॥ १,२७.८ सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः । पतंगस्तपनीयश्च ये चान्ये शालयः शुभाः ॥ १,२७.९ शीता रसे विपाके च मधुराश्चाल्पमारुताः । बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रलाः ॥ १,२७.१० रक्तशालिर्वरस्तेषां तृष्णाघ्नस्त्रिमलापहः । महांस्तस्यानु कलमस्तस्याप्यनु ततः परे ॥ १,२७.११ यवका हायनाः पांसुवाप्यनैषधकादयः । शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः ॥ १,२७.१२ [{आयुर्वेददीपिका} इह च द्रव्यनामानि नानादेशप्रसिद्धानि तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषामपि टीकाकृतां तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं यत्तु प्रचरति गौडे तल्लिखिष्यामोऽन्यदेशप्रसिद्धं च किंचित् ॥ १ कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः ॥ २ शकुनाहृतः श्रावस्त्यां वक्रनाम्ना प्रसिद्धः ॥ ३ रक्तशालिः प्रसिद्ध एव ॥ ४ महाशालिर्मगधे प्रसिद्धः ॥ ५ अत्र च शालिर्हैमन्तिकं धान्यं षष्टिकादयश्च ग्रैष्मिकाः व्रीहयः शारदा इति व्यवस्था ॥ ६ रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव ॥ ७ महांस्तस्यान्विति रक्तशालेरनु तेन रक्तशालिगुणा महाशालेर्मनागल्पाः एवं तस्यानु कलम इत्यत्रापि वाच्यम् ॥ ८ तस्येति महाशालेः ॥ ९ ततः परे इति शकुनाहृतादयः उत्तरोत्तरमल्पगुणा इत्यर्थः ॥ १० गुणागुणैरिति शालीनां रक्तशाल्यादीनां ये गुणास्तृष्णाघ्नत्वत्रिमलापहत्वादयः तेषामगुणैस्तद्गुणविपरीतैर्दोषैर्यवकादयोऽनुकारं कुर्वन्ति ततश्च यवकास्तृष्णात्रिमलादिकरा इति ॥ ११ गुणशब्दश्चेह प्रशंसायाम् ॥ १२] शीतः स्निग्धोऽगुरुः स्वादुस्त्रिदोषघ्नः स्थिरात्मकः । षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥ १,२७.१३ वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः । गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः ॥ १,२७.१४ मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः । बहुपुरीषोष्मा त्रिदोषस्त्वेव पाटलः ॥ १,२७.१५ [{आयुर्वेददीपिका} षष्टिकगुणेऽकारप्रश्लेषादगुरुरिति बोद्धव्यं मात्राशितीये षष्टिको लघुः पठितः ॥ १ ततोऽनु चेति गौरषष्टिकादल्पान्तरगुणः ॥ २ वरकोद्दालकादयः षष्टिकविशेषाः केचित्कुधान्यानि वरकादीनि वदन्ति ॥ ३ व्रीहिरिति शारदाशुधान्यस्य संज्ञा ॥ ४ पाटलो व्रीहिविशेषः ॥ ५ तन्त्रान्तरेऽपि पठ्यते त्रिदोषस्त्वेव पाटलः इति सुश्रुते पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः तेन तद्गुणकथनेन नेह विरोधः ॥ ६] सकोरदूषः श्यामाकः कषायमधुरो लघुः । वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः ॥ १,२७.१६ हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः । प्रशान्तिकाम्भःस्यामाकलौहित्याणुप्रियङ्गवः ॥ १,२७.१७ मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा । शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः ॥ १,२७.१८ [{आयुर्वेददीपिका} कोरदूषादयः कुधान्यविशेषाः ॥ १ कोरदूषः कोद्रवः कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं तेन यदुक्तं रक्तपित्तनिदाने यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते इत्यादिना पित्तकर्तृत्वं कोरदूषस्य तत्तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम् ॥ २ श्यामाकादयोऽपि तृणधान्यविशेषाः ॥ ३ हस्तिश्यामाकः श्यामाकभेद एव नीवार उडिका गवेधुको घुलुञ्चः स ग्राम्यारण्यभेदेन द्विविधः ॥ ४ प्रशान्तिका उडिकैव स्थलजा रक्तशूका अम्भःश्यामाका जलजा ओडिका लोके डे इत्युच्यते प्रियङ्गुः काङ्गनी इति प्रसिद्धा ॥ ५ मुकुन्दो वाकसतृण इति वरुकः शणबीजं वरकः श्यामबीजं शिबिरस्तीरभुक्तौ सिद्धक इत्युच्यते जूर्णाह्वो जोनार इति ख्यातः ॥ ६] रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः । स्थैर्यकृत्सकषायश्च बल्यः श्लेष्मविकारनुत् ॥ १,२७.१९ रूक्षः कषायानुरसो मधुरः कफपित्तहा । मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः ॥ १,२७.२० [{आयुर्वेददीपिका} यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात्किंवा सुश्रुते यवो लघुः पठितः तेनात्राप्यगुरुरिति मन्तव्यं बल्यश्च स्रोतःशुद्धिकरत्वात्प्रभावाद्वा ॥ १ अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव तेन सुश्रुते कफपित्तहन्ता इत्युक्तमुपपन्नम् ॥ २] संधानकृद्वातहरो गोधूमः स्वादुशीतलः । जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥ १,२७.२१ नान्दीमुखी मधूली च मधुरस्निग्धशीतले । इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते ॥ १,२७.२२ [{आयुर्वेददीपिका} गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच्छ्लेष्मकर्तृत्वं भवत्येव अत एव सुश्रुते श्लेष्मकर इत्युक्तम् ॥ १ यत्तु वसन्ते कफप्रधाने यवगोधूमभोजनः इत्युक्तं तत्पुराणगोधूमाभिप्रायेण पुराणश्च गोधूमः कफं न करोतीत्युक्तमेव प्रायः श्लेष्मलं मधुरमित्यादिना ग्रन्थेनात्रैवाध्याये ॥ २ नन्दीमुखी यविका मधूली गोधूमभेदः । इत्ययमत्र ॥ ३ इति प्रकारार्थः ॥ ४ समाप्त इति वक्तव्ये समाप्यत इति यत्करोति तेन ज्ञापयति यत्बहुद्रव्यत्वान्नायं समाप्तो गणः किंतु यथा कथंचित्प्रसिद्धगुणकथनेन समाप्यते ॥ ५ एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम् ॥ ६] कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः । विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥ १,२७.२३ वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः । बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च ॥ १,२७.२४ राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् । तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥ १,२७.२५ उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः । कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः ॥ १,२७.२६ मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः । मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ॥ १,२७.२७ चणकाश्च मसूराश्च खण्डिकाः सहरेणवः । लघवः शीतमधुराः सकषाया विरूक्षणाः ॥ १,२७.२८ पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च । तेषां मसूरः संग्राही कलायो वातलः परम् ॥ १,२७.२९ स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः । त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत् ॥ १,२७.३० मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः । सस्नेहा बलिभिर्भोज्या विविधाः शिम्बिजातयः ॥ १,२७.३१ शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी । न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते ॥ १,२७.३२ आढकी कफपित्तघ्नी वातला कफवातनुत् । अवल्गुजः सैडगजो निष्पावा वातपित्तलाः ॥ १,२७.३३ काकाण्डोमात्मगुप्तानां माषवत्फलमादिशेत् । द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा ॥ १,२७.३४ [{आयुर्वेददीपिका} धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते ॥ १ सूप्यं सूपयोग्यं शमीधान्यं तत्रोत्तमः सूप्योत्तमः ॥ २ वृष्य इत्यादिमाषगुणे स्निग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थमेवमन्यत्राप्येवंजातीये व्याख्येयम् ॥ ३ पुंस्त्वं शुक्रम् ॥ ४ शीघ्रमिति वचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव वचनं हि शुक्रस्रुतिकरं किंचित्किंचित्शुक्रविवर्धनम् ॥ ५ स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते इति तदेवं सम्पूर्णवृष्यत्वं माषे बोद्धव्यम् ॥ ६ राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः किंवा रूक्षश्चेत्यादि पाठान्तरम् ॥ ७ उष्ण इत्यादिना कुलत्थगुणः कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि अत एव तन्त्रान्तरे वन्यः कुलत्थस्तद्वच्च विशेषान्नेत्ररोगनुतित्युक्तम् ॥ ८ मकुष्टको मोठ इति ख्यातः ॥ ९ चणकः प्रसिद्धः ॥ १० खण्डिका त्रिपुटकलायः हरेणुः वर्तुलकलायः ॥ ११ कलायो वातल इति त्रिपुटकलायः ॥ १२ तिलगुणो यद्यपि विशेषेण नोक्तः तथापि प्रधाने कृष्णतिले ज्ञेयः उक्तं हि सुश्रुते तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्ततोऽन्ये इति ॥ १३ विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः । शिम्बी रूक्षा इत्यादि केचित्पठन्ति ॥ १४ आढकी तुवरी वातलेति छेदः ॥ १५ कफवातनुदवल्गुजैडगजयोर्बीजस्य गुणः ॥ १६ निष्पावो वल्लः ॥ १७ काकाण्डः शूकरशिम्बिः उमा अतसी ऊर्णांपाठपक्षे तस्यैवोर्णा ॥ १८ शमीधान्यवर्ग इत्यत्र शमी शिम्बिः तदन्तर्गतं धान्यम् ॥ १९] गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः । वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ॥ १,२७.३५ लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ । शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः ॥ १,२७.३६ धूमिका कुररश्चेति प्रसहा मृगपक्षिणः । [{आयुर्वेददीपिका} सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान्मांसवर्गाभिधानम् ॥ १ खरः गर्दभः अश्वतरः वेगसरः स चाश्वायां खराज्जातः द्वीपी चित्रव्याघ्रः ऋक्षः भल्लूकः ॥ २ वृकः कुक्कुरानुकारी पशुशत्रुः तरक्षुः व्याघ्रभेदः तरच्छ इति ख्यातः बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति केचिद्बृहन्नकुलमाहुः ॥ ३ लोपाकः स्वल्पशृगालो महालाङ्गूलः ॥ ४ श्येनः पक्षी प्रसिद्धः ॥ ५ वान्तादः कुक्कुरः ॥ ६ चाषः कनकवायस इति ख्यातः ॥ ७ शशघ्नी पाञ्जिः इति ख्याता ॥ ८ भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे ॥ ९ कुलिङ्गः कालचटकः ॥ १०] श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः ॥ १,२७.३७ कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ । कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः ॥ १,२७.३८ [{आयुर्वेददीपिका} काकुलीमृगः मालुयासर्प इति ख्यातः तस्य श्वेत इत्यादयश्चत्वारो भेदाः ॥ १ कूर्चिका संकुचः ॥ २ चिल्लटः चियारः ॥ ३ शल्लको महाशकली शलक इति ख्यातः गण्डकः गोधाभेदः ॥ ४ कदली कदलीहट्ट इति ख्यातः ॥ ५ श्वावित्सेज्जक इति ख्यातः ॥ ६ भूमिशया बिलेशयाः ॥ ७] सृमरश्चमरः खड्गो महिषो गवयो गजः । न्यङ्कुर्वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ॥ १,२७.३९ [{आयुर्वेददीपिका} सृमरः महाशूकरः ॥ १ चमरः केशमृत्युः ॥ २ खड्गः गण्डकः ॥ ३ गवयः गवाकारः ॥ ४ न्यङ्कुः न्यङ्कुशो हरिणः ॥ ५ रुरुः बहुशृङ्गो हरिणः ॥ ६] कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः । शुक्तिशङ्खोद्रकुम्भीरचुलुकीमकरादयः ॥ १,२७.४० [{आयुर्वेददीपिका} शिशुमारः गोतुण्डनक्रः ॥ १ तिमिङ्गिलः सामुद्रो महामत्स्यः ॥ २ शुक्तिः मुक्ताप्रभवो जन्तुः ऊद्रः जलबिडालः कुम्भीरः घटिकावान् चुलुकी शुशु इति ख्यातः ॥ ३ शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम् ॥ ४] इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः । हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः ॥ १,२७.४१ शरारिः पुष्कराह्वश्च केसरी मणितुण्डकः । मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः ॥ १,२७.४२ उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी । आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥ १,२७.४३ रोहिणी कामकाली च सारसो रक्तशीर्षकः । चक्रवाकस्तथान्ये च खगाः सन्त्यम्बुचारिणः ॥ १,२७.४४ [{आयुर्वेददीपिका} हंसश्चतुर्विधोऽपि राजहंसादिर्ग्राह्यः ॥ १ क्रौञ्चः कोञ्च इति ख्यातः ॥ २ बकः पाण्डुरपक्षः ॥ ३ बलाका शुक्ला ॥ ४ कारण्डवः काकवक्त्रः ॥ ५ प्लवः स्वनामप्रसिद्धः प्रसेवगलः ॥ ६ शरारिः शराली इति लोके ॥ ७ मद्गुः पानीयकाकः ॥ ८ कादम्बः कलहंसः ॥ ९ काकतुण्डकः श्वेतकारण्डवः ॥ १० उत्क्रोशः कुरल इति ख्यातः ॥ ११ पुण्डरीकाक्षः पुण्डरः ॥ १२ मेघरावः मेघनादः ॥ १३ मेघरावश्चातक इत्यन्ये तन्न तस्य वारिचरत्वाभावात् ॥ १४ अम्बुकुक्कुटी जलकुक्कुटी ॥ १५ आरा स्वनामख्याता ॥ १६ नन्दीमुखी पत्राटी ॥ १७ सारसः प्रसिद्धः ॥ १८ रक्तशीर्षकः सारसभेदो लोहितशिराः ॥ १९ अम्बुचारिण इति जले प्लवन्त इत्यर्थः ॥ २०] पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका । शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः ॥ १,२७.४५ चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः । ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः ॥ १,२७.४६ [{आयुर्वेददीपिका} पृषतः चित्रहरिणः ॥ १ शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः ॥ २ रामः हिमालये महामृगः ॥ ३ श्वदंष्ट्रः चतुर्दंष्ट्रः कार्त्तिकपुरे प्रसिद्धः ॥ ४ मृगमातृका स्वल्पा पृथूदरा हरिणजातिः ॥ ५ कुरङ्गः हरिणभेदः ॥ ६ गोकर्णः गोमुखहरिणविशेषः ॥ ७ हरिणः ताम्रवर्णः एणः कृष्णसारः ॥ ८ ऋष्यः नीलाण्डो हरिणः ॥ ९ चारुष्कादयोऽपि हरिणभेदा एव ॥ १० शशस्तु सुश्रुते बिलेशयेषु पठितः तददूरान्तरार्थम् ॥ ११] लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः । चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः ॥ १,२७.४७ लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः । वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ ॥ १,२७.४८ कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः । क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः ॥ १,२७.४९ [{आयुर्वेददीपिका} लावः प्रसिद्धः ॥ १ वर्तीरः कपिञ्जलभेदः ॥ २ कपिञ्जलो गौरतित्तिरिः ॥ ३ वार्तीकः चटकभेदः संघातचारी ॥ ४ उपचक्रः चकोरभेदः ॥ ५ कुक्कुभः प्रसिद्धः रक्तवर्त्मक इति कुक्कुभविशेषणं तेन स्थूलकुक्कुभो गृह्यते ॥ ६ वर्तकः वट्टही इति ख्यातः ॥ ७ वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव केचित्तु वर्तकस्त्रियं वर्तिकां वदन्ति अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थमन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात् ॥ ८ बर्ही मयूरः ॥ ९ शारपदेन्द्राभः मल्लकङ्कः ॥ १० गोनर्दो घोडाकङ्क इति ख्यातः ॥ ११ क्रकरः प्रसिद्धः ॥ १२ लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम् ॥ १३] शतपत्त्रो भृङ्गराजः कोयष्टिर्जीवजीवकः । कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः ॥ १,२७.५० लट्टा लटूषको बभ्रुर्वटहा डिण्डिमानकः । जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ॥ १,२७.५१ कपोतशुकसारङ्गाश्चिरटीकङ्कुयष्टिकाः । सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः ॥ १,२७.५२ पारावतः पाण्डविक इत्युक्ताः प्रतुदा द्विजाः । [{आयुर्वेददीपिका} शतपत्त्रः काष्ठकुक्कुटकः ॥ १ भृङ्गराजः प्रसिद्धो भ्रमरवर्णः कोयष्टिः कोडा इति ख्यातः ॥ २ जीवञ्जीवकः विषदर्शनमृत्युः ॥ ३ अत्यूहः डाहुकः दात्यूह इति वा पाठः स च प्रसिद्धः ॥ ४ लट्टा फेञ्चाको रक्तपुच्छाधोभागः लटूषकोऽपि तद्भेदः ॥ ५ डिण्डिमानकः डिण्डिमवदुत्कटध्वनिः ॥ ६ कुलिङ्ग इति वनचटकाकारः पीतमस्तकः वाए इति लोके ॥ ७ कलविङ्कः ग्राम्यचटकः ॥ ८ चटकस्तु देवकुलचटकः स्वल्पप्रमाणः ॥ ९ यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्विद्भ्यो देशान्तरेभ्यश्च ज्ञेयानि ॥ १०] प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ॥ १,२७.५३ भूशया बिलवासित्वादानूपानूपसंश्रयात् । जले निवासाज्जलजा जलेचर्याज्जलेचराः ॥ १,२७.५४ स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः । विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ॥ १,२७.५५ योनिरष्टविधा त्वेषा मांसानां परिकीर्तिता । [{आयुर्वेददीपिका} प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह ॥ १ प्रसह्येति हठात् ॥ २ आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेरनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया ॥ ३ जलेचर्यादिति जलवासिनामेव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम् ॥ ४ स्थलजा इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह जाङ्गलचारिण इति ॥ ५ विकीर्येत्यत्र भक्षयन्ति इति शेषः एवं प्रतुद्येत्यत्रापि प्रतुद्येति बहुधाभिहत्य ॥ ६] प्रसहा भूशयानूपवारिजा वारिचारिणः ॥ १,२७.५६ गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः । वृष्याः परं वातहराः कफपित्तविवर्धनाः ॥ १,२७.५७ हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये । प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् ॥ १,२७.५८ जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत् । लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ॥ १,२७.५९ लघवः शीतमधुराः सकषाया हिता नृणाम् । पित्तोत्तरे वातमध्ये संनिपाते कफानुगे ॥ १,२७.६० विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः । [{आयुर्वेददीपिका} प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः तथा अमांसादाश्च गवादयः तेन मांसादानां विशेषमाह प्रसहानामित्यादि ॥ १ जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति ॥ २ प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः ॥ ३ कफानुगे इति छेदः ॥ ४] नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् ॥ १,२७.६१ शरीरधातुसामान्यादनभिष्यन्दि बृंहणम् । मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकम् ॥ १,२७.६२ योनावजाविके मिश्रगोचरत्वादनिश्चिते । [{आयुर्वेददीपिका} शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् ॥ १ एतेन शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात्कफं न करोतीत्युक्तं भवति ॥ २ आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यमत एव शरद्विधावप्युक्तमुरभ्रशरभानिति ॥ ३ रक्तपित्तनिदाने तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् ॥ ४ योनाविति प्रसहाद्यष्टविधजातौ ॥ ५ मिश्रगोचरत्वादिति कदाचिदनूपसेवनात्कदाचिद्धन्वसेवनात्कदाचिदुभयसेवनादजाव्योरनिश्चितयोनित्वमित्यर्थः ॥ ६ अत्र अनिश्चिते इति योनिविशेषणं किंवा अजा च अवी च एते अनिश्चिते ॥ ७ ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न विष्किरगणे पठनीयः ॥ ८ नैवं तित्तिरिजातिविशेषस्य धन्वानूपयोर्नियमेन निषेवणाद्गुणनियमः पार्यते कर्तुमव्यजयोस्तु नियमोऽयं नास्ति यतः केचिदजावी धन्वमात्रचरे केचिच्चानूपमात्रचरे केचिच्चोभयमात्रचरे तेन तयोर्नियमचरकृतो योनिभेदः कर्तुं न पार्यते ॥ ९] सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥ १,२७.६३ केषांचिद्गुणवैशेष्याद्विशेष उपदेक्ष्यते । दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् ॥ १,२७.६४ बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः । गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ॥ १,२७.६५ बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः । स्निग्धाश्चोष्णाश्चवृष्याश्च बृंहणाः स्वरबोधनाः ॥ १,२७.६६ बल्याः परं वातहराः स्वेदनाश्चरणायुधाः । गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात् ॥ १,२७.६७ तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् । पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ॥ १,२७.६८ मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् । लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ॥ १,२७.६९ संनिपातप्रशमनाः कटुकाश्च विपाकतः । गोधा विपाके मधुरा कषायकटुका रसे ॥ १,२७.७० वातपित्तप्रशमनी बृंहणी बलवर्धनी । शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ॥ १,२७.७१ वातपित्तकफघ्नश्च कासश्वासहरस्तथा । कषायविशदाः शीता रक्तपित्तनिबर्हणाः ॥ १,२७.७२ विपाके मधुराश्चैव कपोता गृहवासिनः । तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ॥ १,२७.७३ शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते । शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ॥ १,२७.७४ शोषकासक्षयहितं संग्राहि लघु दीपनम् । चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ॥ १,२७.७५ संनिपातप्रशमनाः शमना मारुतस्य च । कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ॥ १,२७.७६ शशः स्वादुः प्रशस्तश्च संनिपातेऽनिलावरे । मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ॥ १,२७.७७ लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः । स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ १,२७.७८ वराहपिशितं बल्यं रोचनं स्वेदनं गुरु । गव्यं केवलवातेषु पीनसे विषमज्वरे ॥ १,२७.७९ शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत् । स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम् ॥ १,२७.८० दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि । गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः ॥ १,२७.८१ मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः । शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात् ॥ १,२७.८२ रोहितो दीपनीयश्च लघुपाको महाबलः । वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः ॥ १,२७.८३ मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते । खड्गमांसमभिष्यन्दि बलकृन्मधुरं स्मृतम् ॥ १,२७.८४ स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम् । धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ॥ १,२७.८५ चटकानां च यानि स्युरण्डानि च हितानि च । क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च ॥ १,२७.८६ मधुराण्यविदाहीनि सद्योबलकराणि च । शरीरबृंहणे नान्यत्खाद्यं मांसाद्विशिष्यते ॥ १,२७.८७ इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः । [{आयुर्वेददीपिका} केषांचिदिति वक्ष्यमाणमयूरादीनाम् ॥ १ गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ॥ २ मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत्पुनरुच्यते विशेषार्थम् ॥ ३ एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम् ॥ ४ चरणायुधः कुक्कुटः ॥ ५ धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम् ॥ ६ एवमन्येऽपि ये गवादयो धन्वानूपनिषेविणस्तेऽपि तित्तिरिसमानगुणा भवन्ति तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः ॥ ७ किंवा तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः नान्यत्र गवादेरनूपदेशादेरिति ज्ञेयम् ॥ ८ कपोता गृहवासिन इति पारावताः ॥ ९ चटका मधुरा इत्यादि केचित्पठन्त्येव ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत्पयः इत्यादिवृष्यप्रयोगादेव लभ्यते ॥ १० मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक्पाठः कृतः ॥ ११ मांसं बृंहणानामित्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे शरीरबृंहणे नान्य इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम् ॥ १२] पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम् ॥ १,२७.८८ विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम् । त्रिदोषशमनी वृष्या काकमाची रसायनी ॥ १,२७.८९ नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी । राजक्षवकशाकं तु त्रिदोषशमनं लघु ॥ १,२७.९० ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् । कालशाकं तु कटुकं दीपनं गरशोफजित् ॥ १,२७.९१ लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते । दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते ॥ १,२७.९२ प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा । मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी ॥ १,२७.९३ वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका । रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ॥ १,२७.९४ मधुरो मधुरः पाके शीतलस्तण्डुलीयकः । मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ॥ १,२७.९५ कर्कोटकावल्गुजकौ पटोलं शकुलादनी । वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम् ॥ १,२७.९६ नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका । कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत् ॥ १,२७.९७ कफपित्तहरं तिक्तं शीतं कटु विपच्यते । [{आयुर्वेददीपिका} शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः ॥ १ शुषा कासमर्दः ॥ २ शटी स्वनामप्रसिद्धा ॥ ३ वास्तुकं टङ्कवास्तुकम् ॥ ४ नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वमित्यर्थः ॥ ५ यत्तु सुश्रुते तिक्ता काकमाची वातं शमयति उष्णवीर्यत्वातित्युक्तं तद्वीर्यवादिमतेन अत एव द्रव्यगुणे सुश्रुतेऽपि नात्युष्णशीता इत्येवमेव पठितम् ॥ ६ राजक्षवकः दुग्धिका ॥ ७ कालशाकं कालिया इति ख्यातं कालाख्यमिति कालशाकमेवोच्यते पुनः अन्ये तु कालायमिति पठन्ति ॥ ८ मण्डूकपर्णी मणिमणीति ख्याता ॥ ९ कुचेला अकर्णविद्धिकाभेदः ॥ १० वनतिक्तकं पथ्यसुन्दरम् ॥ ११ अवल्गुजो वाल्गुजी ॥ १२ शकुलादनी कटुरोहिणी ॥ १३ शार्ङ्गेष्टा काकतिक्ता ॥ १४ कठिल्लकः पुनर्नवा ॥ १५ नाडी नाडीचः ॥ १६ कलायो वर्तुलकलायः ॥ १७ तिलपर्णिका हुलहुलिका ॥ १८ गोजिह्वा दार्विपत्त्रिका ॥ १९ कुलकः कारवेल्लकः केचित्तु कुलकं पटोलभेदमाहुः ॥ २० कर्कशः स्वल्पकर्कोटकः ॥ २१] सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः ॥ १,२७.९८ आलुकानि च सर्वाणि सपत्त्राणि कुटिञ्जरम् । शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला ॥ १,२७.९९ निष्पावः कोविदारश्च पत्तूरश्चुच्चुपर्णिका । कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा ॥ १,२७.१०० कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ । लक्ष्मणा च प्रपुन्नाटो नलिनीका कुठेरकः ॥ १,२७.१०१ लोणिका यवशाकं च कुष्माण्डकमवल्गुजं यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ॥ १,२७.१०२ शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति । मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् ॥ १,२७.१०३ स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत्प्रशस्यते । शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः ॥ १,२७.१०४ पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः । न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः ॥ १,२७.१०५ कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् । वायुं वत्सादनी हन्यात्कफं गण्डीरचित्रकौ ॥ १,२७.१०६ श्रेयसी बिल्वपर्णी च बिल्वपत्त्रं तु वातनुत् । भण्डी शतावरीशाकं बला जीवन्तिकं च यत् ॥ १,२७.१०७ पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम् । लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुवूकयोः ॥ १,२७.१०८ तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च । वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् ॥ १,२७.१०९ रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम् । त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ॥ १,२७.११० मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्वति । एर्वारुकं च सम्पक्वं दाहतृष्णाक्लमार्तिनुत् ॥ १,२७.१११ वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणि च । चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते ॥ १,२७.११२ सक्षारं पक्वकूष्माण्डं मधुराम्लं तथा लघु । सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम् ॥ १,२७.११३ [{आयुर्वेददीपिका} सूप्यशाकानि माषपर्ण्यादीनि ॥ १ फञ्जी ब्राह्मणयष्टिका ॥ २ चिल्ली गौडवास्तुकः ॥ ३ कुतुम्बकः द्रोणपुष्पिका ॥ ४ आलुकानि पिण्डालुकादीनि ॥ ५ कर्बुदारः काञ्चनः ॥ ६ सुवर्चला सूर्यभक्तिका केचित्फप्पुकमाहुः ॥ ७ पत्तूरः शालिञ्चः ॥ ८ चुच्चुपर्णिका नाडीचभेदः ॥ ९ कुमारजीवः जीवशाकम् ॥ १० लोट्टाकः लोट्टामारिषः ॥ ११ नालिका गोनाडीचः ॥ १२ आसुरी राजिका मण्डको वा ॥ १३ वृकधूमकः भूमिशिरीषः ॥ १४ लक्ष्मणा स्वनामख्याता ॥ १५ नलिनी पद्ममृणालं नीलिनीति पाठपक्षे बुह्ना ॥ १६ यवशाकं क्षेत्रवास्तुकम् ॥ १७ कूष्माण्डः सर्पच्छत्त्रम् ॥ १८ अवल्गुजमिति अवल्गुजभेदः ॥ १९ यातुकः शुक्ला शालपर्णी ॥ २० शालकल्याणी शालिञ्चभेदः ॥ २१ त्रिपर्णी हंसपादिका ॥ २२ पीलुपर्णी मोरटकः ॥ २३ गण्डीरः शमठः ॥ २४ बिल्वपर्णी बिल्वार्जकम् ॥ २५ भण्डी स्वनामख्याता ॥ २६ पर्वणी पर्वशाकम् ॥ २७ पर्वपुष्पी कुक्कुटी ॥ २८ पञ्चाङ्गुलः चित्रैरण्डः ॥ २९ एर्वारुकं राजकर्कटी ॥ ३० कूष्माण्डकं सुश्रुते बाल्याद्यावस्थाभेदेन पठितं तदप्यविरुद्धमेव यतो बालमध्ययोस्तत्र पित्तहरत्वं कफकरत्वं चोक्तं तदपीह पित्तोत्तरे कफोत्तरे संनिपाते बोद्धव्यम् ॥ ३१] केलूटं च कदम्बं च नदीमाषकमैन्दुकम् । विशदं गुरु शीतं च समभिष्यन्दि चोच्यते ॥ १,२७.११४ उत्पलानि कषायाणि रक्तपित्तहराणि च । तथा तालप्रलम्बं स्यादुरःक्षतरुजापहम् ॥ १,२७.११५ खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम् । तरूटबिसशालूकक्रौञ्चादनकशेरुकम् ॥ १,२७.११६ शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम् । कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ॥ १,२७.११७ शीताः स्वादुकषायास्तु कफमारुतकोपनाः । कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम् ॥ १,२७.११८ पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः । बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः ॥ १,२७.११९ वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम् । जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने ॥ १,२७.१२० विदारीकन्दो बल्यश्च मूत्रलः स्वादुशीतलः । अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ॥ १,२७.१२१ नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये । त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते ॥ १,२७.१२२ तद्वत्स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः । तद्वत्पिण्डालुकं विद्यात्कन्दत्वाच्च मुखप्रियम् । सर्पच्छत्त्रकवर्ज्यास्तु बह्व्योऽन्याश्छत्त्रजातयः ॥ १,२७.१२३ शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च । चतुर्थः शाकवर्गोऽयं पत्त्रकन्दफलाश्रयः ॥ १,२७.१२४ [{आयुर्वेददीपिका} केलूटे हारीतवचनं केलूटं स्वादु विटपं तत्कन्दः स्वादुशीतलः इति ॥ १ कदम्बं कदम्बिकां वदन्ति केचित्तु स्वल्पकदम्बकमाहुः ॥ २ नदीमाषकः उदीमानक इति ख्यातः ॥ ३ ऐन्दुकं निक्षारः ॥ ४ तालप्रलम्बः तालाङ्कुरः ॥ ५ शस्यशब्देनेह मस्तकमज्जा गृह्यते ॥ ६ तरुटः कह्लारकन्दः ॥ ७ क्रौञ्चादनं धिञ्चुलिका ॥ ८ कशेरुकशब्देन चिञ्चोडका राजकशेरुकश्च गृह्यते ॥ ९ अङ्कालोड्यं ह्रस्वोत्पलकन्दः ॥ १० मुञ्जातक औत्तरापथिककन्दः ॥ ११ अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति ॥ १२ सर्पच्छत्त्रं सर्पफणाकारं छत्त्रकम् ॥ १३ अन्याश्छत्त्रजातयः करीषपलालादिजा बहुला ज्ञेयाः ॥ १४ पत्त्रकन्दफलाश्रय इति प्राधान्येन तेन पुष्पाद्याश्रयत्वमपि शाकवर्गस्य ज्ञेयम् ॥ १५] तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान् । वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् ॥ १,२७.१२५ तिक्तास्यतामास्यशोषं कासं चाशु व्यपोहति । मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला ॥ १,२७.१२६ मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम् । क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥ १,२७.१२७ तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम् । परूषकं मधूकं च वातपित्ते च शस्यते ॥ १,२७.१२८ मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु । सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥ १,२७.१२९ तालशस्यानि सिद्धानि नारिकेलफलानि च । बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ॥ १,२७.१३० मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् । पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ॥ १,२७.१३१ अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च । पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि ॥ १,२७.१३२ नात्युष्णं गुरु सम्पक्वं स्वादुप्रायं मुखप्रियम् । बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ॥ १,२७.१३३ द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च । गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ॥ १,२७.१३४ भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते । तथैवाल्पान्तरगुणं तूदमम्लं परूषकात् ॥ १,२७.१३५ कषायमधुरं टङ्कं वातलं गुरु शीतलम् । कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ॥ १,२७.१३६ मधुराम्लकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् । परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि ॥ १,२७.१३७ बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम् । स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ॥ १,२७.१३८ रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम् । पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ॥ १,२७.१३९ कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् । जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ॥ १,२७.१४० बदरं मधुरं स्निग्धं भेदनं वातपित्तजित् । तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ १,२७.१४१ कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् । गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम् ॥ १,२७.१४२ मधुरं सकषायं च शीतं पित्तकफापहम् । सम्पक्वं पनसं मोचं राजादनफलानि च ॥ १,२७.१४३ स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च । कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ॥ १,२७.१४४ अवदंशक्षमं हृद्यं वातलं लवलीफलम् । नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम् ॥ १,२७.१४५ प्राचीनामलकं चैव दोषघ्नं गरहारि च । ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥ १,२७.१४६ तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु । विद्यादामलके सर्वान् रसांल्लवणवर्जितान् ॥ १,२७.१४७ रूक्षं स्वादु कषायं कफपित्तहरं परम् । रसासृङ्मांसमेदोजान्दोषान् हन्ति विभीतकम् ॥ १,२७.१४८ स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम् । अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ॥ १,२७.१४९ स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च । रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ॥ १,२७.१५० मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम् । वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ॥ १,२७.१५१ अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः । गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् ॥ १,२७.१५२ शूलेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे । हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च ॥ १,२७.१५३ वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते । केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा ॥ १,२७.१५४ रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः । कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः ॥ १,२७.१५५ मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् । दुर्जरं वातशमनं नागरङ्गफलं गुरु ॥ १,२७.१५६ वातामाभिषुकाक्षोटमुकूलकनिकोचकाः । गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः ॥ १,२७.१५७ वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः । प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः ॥ १,२७.१५८ श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु । श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित् ॥ १,२७.१५९ गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम् । विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च ॥ १,२७.१६० आम्रातकं दन्तशठमम्लं सकरमर्दकम् । रक्तपित्तकरं विद्यादैरावतकमेव च ॥ १,२७.१६१ वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम् । वातलं कफपित्तघ्नं विद्यात्पर्पटकीफलम् ॥ १,२७.१६२ पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम् । मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च ॥ १,२७.१६३ अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च ॥ १,२७.१६४ भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम् । पञ्चमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः ॥ १,२७.१६५ [{आयुर्वेददीपिका} फलानामपि केषांचिच्छाकवदुपयोगात्फलवर्गमाह ॥ १ मृद्वीकाग्रेऽभिधीयते श्रेष्ठगुणत्वात् ॥ २ फल्गु औदुम्बरम् ॥ ३ मधूकशब्देन समानगुणत्वात्फलं कुसुमं च ज्ञेयम् ॥ ४ परूषकं चेह मधुरपरूषकं ज्ञेयम् ॥ ५ आम्रातमामडा इति ख्यातमाम्रफलसदृशमिति चन्द्रिका एतच्च द्विविधं मधुरमम्लं च अत्र मधुरस्यैव गुणः अम्लस्य वक्ष्यमाणत्वात् ॥ ६ तालशस्यानीति तालफलानि यथा हरीतकीनां शस्यानि इत्यत्र फलमेव शस्यमुच्यते ॥ ७ सिद्धानि पक्वानि तेन पक्वतालस्य ग्रहणम् ॥ ८ भव्यं कर्मरङ्गफलं केचित्त्वक्संहितमात्रफलं वदन्ति ॥ ९ आरुकं कार्त्तिकेयपुरे प्रसिद्धम् ॥ १० कर्कन्धूः शृगालबदरी कर्कन्धूनिकुचयोर्विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर्दर्शयति ॥ ११ परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयोऽम्लास्त एव पित्तश्लेष्मकरा इति ॥ १२ पारावतः कामरूपप्रसिद्धः ॥ १३ अत्र यो मधुरः स शीतः यश्चाम्लः स उष्ण इति ज्ञेयम् ॥ १४ एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद्बोद्धव्यम् ॥ १५ टङ्कं काश्मीरप्रसिद्धम् ॥ १६ सिद्धमिति कालवशात्पक्वम् ॥ १७ कपित्थबिल्वाम्राणामवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात् ॥ १८ बदरं मध्यप्रमाणं तद्धि मधुरमेव भवति ॥ १९ गाङ्गेरुकं नागबलाफलम् ॥ २० करीरो मरुजो द्रुमः ॥ २१ तोदनं धन्वनभेदः ॥ २२ राजादनं क्षीरी ॥ २३ अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति ॥ २४ नीपं कदम्बकम् ॥ २५ शताह्वकफलं सेह इति ख्यातम् ॥ २६ पीलु औत्तरापथिकम् ॥ २७ तृणशून्यं केतकीफलम् ॥ २८ प्राचीनामलकं पानीयामलकम् ॥ २९ तिन्दुकं केन्दुः ॥ ३० दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि मधुरं तु कफाविरोधि एवं च त्रिदोषहरत्वमस्योपपन्नं यदुक्तं सुश्रुते द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च ॥ ३१ त्रिदोषघ्नं तु मधुरमम्लं वातकफापहमिति ॥ ३२ वृक्षाम्लं महार्द्रकम् ॥ ३३ अम्लिका तिन्तिडी ॥ ३४ शेषमिति त्वङ्मांसमतोऽन्यथेति गुरु किंवा शूलेऽरुचावित्याद्युक्तकेसरगुणविपरीतम् ॥ ३५ वातामादय औत्तरापथिकाः ॥ ३६ प्रियालोऽयं मगधप्रसिद्धः ॥ ३७ दन्तशठः जम्बीरः केचिदम्लोटं वदन्ति ॥ ३८ इहाम्रातकमम्लं ग्राह्यं पूर्वं तु मधुरमाम्रातकमुक्तम् ॥ ३९ करमर्दं द्विविधं ग्रामजं वनजं च ॥ ४० ऐरावतमम्लातकं किंवा नागरङ्गम् ॥ ४१ वार्ताकं दक्षिणापथे फलवत्खाद्यते यद्गोष्ठवार्ताकसंज्ञकं तस्येह गुणः किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः ॥ ४२ आक्षिकी लता तस्याः फलमाक्षिकम् ॥ ४३ अनुपाकि अनुया इति ख्याता ॥ ४४ अग्निसममिति स्फोटादिजनकत्वात् ॥ ४५] रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजम् । वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते ॥ १,२७.१६६ रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः । जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः ॥ १,२७.१६७ बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् । स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् ॥ १,२७.१६८ हिक्काकासविषश्वासपार्श्वशूलविनाशनः । पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ॥ १,२७.१६९ यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् । हृद्यान्यास्वादनीयानि पित्तमुत्क्लेशयन्ति च ॥ १,२७.१७० गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका । तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च ॥ १,२७.१७१ पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्त्रशोधनः । खराह्वा कफवातघ्नी वस्तिरोगरुजापहा ॥ १,२७.१७२ धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः । सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च ॥ १,२७.१७३ ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः । स्वेदनेऽभ्यवहारे च योजयेत्तमपित्तिनाम् ॥ १,२७.१७४ श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत् । आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः ॥ १,२७.१७५ क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥ १,२७.१७६ शुष्काणि कफवातघ्नान्येतान्येषां फलानि च । हरितानामयं चैष षष्ठो वर्गः समाप्यते ॥ १,२७.१७७ [{आयुर्वेददीपिका} हरितानामप्यार्द्रकादीनां फलवदग्निपाकमन्तरेण भोजनस्य प्राक्पश्चाच्चोपयोगात्फलमनु हरितकथनं फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात् ॥ १ आर्द्रकमिति विशेषणं शुण्ठीव्यावृत्त्यर्थं शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति ॥ २ जम्बीरः पर्णासभेदः जम्बीरफलं सुगन्धि ॥ ३ बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम् ॥ ४ तन्त्रान्तरवचनं हि यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव ॥ ५ वृद्धं त्रिदोषमिति तदेवप्रवृद्धमेनामेव मूलकावस्थामभिप्रेत्य चोक्तं मूलकं कन्दानामपथ्यत्वे प्रकृष्टतममिति मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च ॥ ६ शुष्काणि कफवातघ्नान्येतानि इति वक्ष्यमाणग्रन्थेनैव शुष्ककस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम् ॥ ७ पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति ॥ ८ अर्जकः श्वेतपर्णासः ॥ ९ शिग्रुः विटपशोभाञ्जनः शालेयश्चाणक्यमूलं मरौ प्रसिद्धं किंवा शालेयमिति मिस्तेयं पाटकप्रसिद्धं वचनं हि चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः इति मृष्टकं राजिका ॥ १० गण्डीरो द्विविधो रक्तः शुक्लश्च तत्र यो रक्तः स हि कटुत्वेन हरितवर्गे पठ्यते यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः ॥ ११ जलपिप्पली जले पिप्पल्याकारा भवति ॥ १२ शृङ्गवेरी गोजिह्विका किंवा आर्द्रकाकृतिः शृङ्गवेरी यदुक्तं शृङ्गवेरवदाकृत्या शृङ्गवेरीति भाषिता ॥ १३ कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च इति ॥ १४ भूस्तृणो गन्धतृणः ॥ १५ खराह्वा कृष्णजीरकम् ॥ १६ अजगन्धा वनयवानी ॥ १७ सुमुखः पर्णासभेदः ॥ १८ अयं च धान्यकादीनामार्द्राणां गुणः शुष्काणां त्वाहारयोगिगणे कारवी कुञ्चिका इत्यादिना गुणं निर्देक्ष्यति ॥ १९ गृञ्जनकः स्वल्पनालपत्त्रः पलाण्डुरेव ॥ २० एतानीति हरितवर्गोक्तानि ॥ २१ शुष्काणीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उक्तो भवति तथापि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानमाहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम् ॥ २२] Cअरकसंहिता, षूत्रस्थान, २८ [Vइविधाशितपीतीय] अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः ॥ १,२८.१ इति ह स्माह भगवानात्रेयः ॥ १,२८.२ [{आयुर्वेददीपिका} पूर्वाध्याये अन्नं प्राणाः इत्युक्तं तद्येन प्रकारेणान्नं प्राणहेतुर्भवति तदभिधानार्थं विविधाशितपीतीयोऽभिधीयते ॥ १ इयमप्यर्थपरा संज्ञा ॥ २] विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसंधुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च । धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ॥ १,२८.३ [{आयुर्वेददीपिका} विविधमित्यादि ॥ १ विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति अशितादिषु यो यः प्राय उपयुज्यते स पूर्वमुक्तः ॥ २ जन्तोर्हितमिति वचनमहितस्याशितादेर्बलवर्णादिकर्तृत्वाभावात् ॥ ३ अन्तरग्निना जाठरेण वह्निना संधुक्षितं बलं यस्य तेनान्तरग्निसंधुक्षितबलेन ॥ ४ यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेयस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन वचनं हि भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ॥ ५ पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि इति ॥ ६ सम्यग्विपच्यमानमिति अशितादि ॥ ७ किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर्य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसतामापन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना ॥ ८ किंविशिष्टं शरीरमित्याह कालवदित्यादि ॥ ९ यथा कालो नित्यगत्वेनानवस्थितः तथानवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनमुपपन्नमिति दर्शयति यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्यादिति भावः ॥ १० किंवा कालवदित्यशितादिविशेषणं तेन यथोक्तकालकृतमशितादीत्यर्थः अकालभोजनस्योपचयाद्यकारकत्वात् ॥ ११ तथा अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा एतेन क्वचिदपि धातौ स्थगितस्याशितादे रसरूपस्य पाकविगमनान्नोपचयादिर्भवतीति दर्शयति ॥ १२ एतच्च व्याख्यानं नातिसुन्दरमस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात्पुनः शरीरविशेषणमनुपपन्नम् ॥ १३ अनुपहतेत्यादि अनुपहतानि सर्वधातूनामूष्ममारुतस्रोतांसि यस्य तत्तथा यदा हि एकोऽपि धातुपाचकोऽग्निरुपहतः मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिदुपहतो भवति तथा स्रोतो वा धातुपोषकरसवहमुपहतं स्यात्तदा अशितादिकं धातूनामवर्धकत्वान्नोपचयादिकारकमिति भावः ॥ १४ केवलमिति कृत्स्नं शरीरं किंवा केवलमिति अधर्मरहितमधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति ॥ १५ ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति तत्किमशितादिना क्रियत इत्याह धातवो हीत्यादि ॥ १६ धातुराहारो येषां ते धात्वाहाराः धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते नान्यथेत्यर्थः ॥ १७] तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते । किट्टात्स्वेदपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति । पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोऽस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसंधिबन्धपिच्छादयश्चावयवाः । ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम् । एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः । निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय किट्टं च मलानामेवमेव । स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ॥ १,२८.४ [{आयुर्वेददीपिका} योऽसौ धातूनामाहारस्तमाह तत्रेत्यादि ॥ १ तत्रेति अशितादौ ॥ २ रसः किट्टं चाभिनिवर्तत इत्यन्वयः ॥ ३ आहारप्रसाद इत्याख्या यस्य स तथा प्रसादः सारः ॥ ४ किट्टमसारभागः ॥ ५ किट्टादिति किट्टांशात्तेन अन्नाद्यः किट्टांशस्ततो मूत्रपुरीषे भवतो वायुश्च रसात्पच्यमानान्मलः कफः एवमादि ग्रहण्यध्याये वक्ष्यमाणमनुसर्तव्यं वक्ष्यति हि । किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः । पित्तं मांसस्य स्वमलो मलः स्वेदस्तु मेदसः ॥ ६ स्यात्किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम् । इति ॥ ७ आदिग्रहणादक्षिस्नेहादि ग्राह्यम् ॥ ८ यद्यपि च वातोऽनशनादप्युपलभ्यते तथापि रूक्षकिट्टादिभोजनमलांशादप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव न चायं नियमो यन्मलादेवोत्पद्यत इति व्यायामादवगाहादेरपि च वातादिसद्भावात् ॥ ९ प्रजननं लिङ्गम् ॥ १० रसपोष्यमाह पुष्यन्ति त्वित्यादि ॥ ११ पञ्चेन्द्रियद्रव्याणीति पृथिव्यादीनि घ्राणादीनीन्द्रियकारणानि ॥ १२ धातुप्रसादसंज्ञकाणीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति ॥ १३ शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिभिः ॥ १४ आदिग्रहणादार्तवस्तन्यादिग्रहणम् ॥ १५ अत्राहाररसाद्रक्तादिपोषणे केचिद्ब्रुवते यत्रसो रक्तरूपतया परिणमति रक्तं च मांसरूपतया एवं मांसादयोऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ॥ १६ अत्रापि च पक्षे केचिद्ब्रुवते क्षीराद्यथा सर्वात्मना दधि भवति तथा कृत्स्नो रसो रक्तं भवति एवं रक्तादयोऽपि मांसादिरूपा भवन्ति ॥ १७ अन्ये त्वाहुः केदारीकुल्यान्यायेन रसस्य धातुपोषणं तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताप्यंशेन तं रसं वर्धयति अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितमिव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति शेषश्च भागो मांसं याति तत्रापि शोणितवद्व्यवस्था तथा मेदःप्रभृतिष्वपीति ॥ १८ अत एव च मुख्यार्थोऽयं ग्रन्थो भवति यथा । रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च । अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः ॥ १९ इति तथा हारीतेऽप्युक्तं रसः सप्ताहादर्वाक्परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यते इति तथा सुश्रुतेऽप्युक्तं स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते एवं मासेन रसः शुक्रीभवति इति ॥ २० अन्ये त्वाहुः खलेकपोतन्यायेनायमन्नरसः पृथक्पृथग्धातुमार्गे गतः सन् रसादीन् पोषयति न त्वस्य धातुपोषको रसभागो धात्वन्तरेण समं सम्बन्धमप्यनुभवति रसादिपोषकानि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च तेनैव रसपोषकरसभागो रसमार्गचारित्वाद्रसं पोषयति एवं रसपोषणकालादुत्तरकालं रक्तपोषको रसभागो रक्तं पोषयति तथा शोणितपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति विदूरसूक्ष्ममार्गचारित्वातेवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम् ॥ २१ तेन रसाद्रक्तं ततो मांसमित्यादेरयमर्थो यत्र रसपुष्टिकालादुत्तरकालं रक्तं जायते तथा रक्तपुष्टिकालादुत्तरकालं मांसं प्रजायते इत्यादि ॥ २२ एवं सुश्रुतहरीतवचने अपि व्याख्येये ॥ २३ यच्च रक्तं विबद्धमार्गत्वान्मांसादीन्न प्रपद्यते इति राजयक्ष्मणि वक्ष्यति तद्धृदयचारिशोणिताभिप्रायेण न तु पोषकशोणिताभिप्रायेण ॥ २४ किंच परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापत्तिक्रमेणातिचिरेण शुक्रं भवतीति क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण सम्बद्धः सन् तत्पुष्टिं करोतीति युक्तं तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात्दुष्टकारणजातत्वात् ॥ २५ खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे तदितरेषामदुष्टकारणत्वात्तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नापि भूयसा भवितव्यं दृश्यते च भूरिमेदस इतरधातुपरिक्षयः वचनं च मेदस्विनो मेद एवोपचीयते न तथेतरे धातवः इति एवमादि परिणामवादे दूषणम् ॥ २६ एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात्मासोपवासे केवलं शुक्रमयं शरीरं स्यात् ॥ २७ केदारीकुल्यान्यायस्तु तुल्यबल एव खलेकपोतन्यायेन यतो यदुक्तं वृष्यप्रभावं प्रति तत्केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं यथा खलेकपोतपक्षेऽपि प्रभवादिति ॥ २८ यत्तु रसदुष्टौ शोणितदूषणं तन्न भवति धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वातिति समानं पूर्वेण ॥ २९ अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणिततामापद्यते किं तर्हि कश्चिदेव शोणितसमानो भागः शेषस्तु शोणितस्थानगतत्वेन किंचिच्छोणितसमानवर्णादित्वाच्च शोणितमुच्यते अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिरपि निरस्ता यतो न मेदसा अस्थि पोष्यते अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोऽनुकारिणा ॥ ३० एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं बुद्धिविभवान्न पक्षबलाबलमत्र न कश्चित्कार्यविरोध इत्युपरम्यते ॥ ३१ नन्वाहाररसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक्स्वीक्रियते ततश्च तस्य किं स्थानं किंवा प्रमाणमिति किमिति नोक्तमुच्यते न तस्याहारोत्कर्षापकर्षावेवंविधौ उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात्स्थानं तु धमन्य एव ॥ ३२ पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात् ॥ ३३ अत्र यद्यप्योजः सप्तधातुसाररूपं तेन धातुग्रहणेनैव लभ्यते तथापि प्राणधारणकर्तृत्वेन पृथक्पठितं ये तु शुक्रजन्यमोज इच्छन्ति तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति रसादीनां शुक्रान्तानां यत्परं तेजः तत्खल्वोजः इति ॥ ३४ उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानमुपसंहरति ते सर्व इत्यादि ॥ ३५ मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं धातवो मलाख्या इति ॥ ३६ यथावयःशरीरमिति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः तथा यस्मिन् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना ॥ ३७ एवमित्यादौ स्वप्रमाणावस्थिताविति अनतिरिक्तावन्यूनौ च ॥ ३८ आश्रयस्येति शरीरस्य यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते सर्वशरीरमित्यर्थः ॥ ३९ समधातोरिति समरसादेः समस्वेदमूत्रादेश्च ॥ ४० निमित्तत इत्यादि ॥ ४१ निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति ॥ ४२ वृद्धिक्षयाभ्यामाहारमूलाभ्यामिति यथासंख्यं वृद्धक्षीणाहारकृताभ्यामेतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः ॥ ४३ धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा साम्यं निराकरोति अस्य साम्यस्य रोगकर्तृत्वादेव ॥ ४४ किट्टं च मलानामेवमेवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितरसक्रमेण करोति ॥ ४५ वृद्धमलानां चिकित्सान्तरमाह स्वमानेत्यादि ॥ ४६ उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति उत्सर्गं वा वहन्तीत्युत्सर्गिणः ॥ ४७ वृद्धानां मलानां चिकित्सान्तरमाह शीतोष्णेत्यादि ॥ ४८ पर्ययः विपर्ययः तेन शीतोष्णविपरीतगुणैरित्यर्थः तेन शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति ॥ ४९ आदिशब्दश्चात्र लुप्तनिर्दिष्टः तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम् ॥ ५० किंवा पर्ययगुणा द्वंद्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् ॥ ५१ एतेन वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागादल्पमलाहारोपयोगाद्वा बोद्धव्यं संशोधनं च उत्सर्गिण इत्यनेनोक्तं शमनं च शीतोष्णेत्यादि ग्रन्थेनोक्तम् ॥ ५२] तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि । तानि यथाविभागेन यथास्वं धातूनापूरयन्ति । एवमिदं शरीरमशितपीतलीढखादितप्रभवम् । अशितपीतलीढखादितप्रभवाश्चास्मिञ्शरीरे व्याधयो भवन्ति । हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ॥ १,२८.५ [{आयुर्वेददीपिका} अयनानि च तानि मुखानि चेत्ययनमुखानि अत्र आयान्त्यनेनेत्ययनानि मार्गाणि मुखानि तु यैः प्रविशन्ति एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनमित्युक्तं भवति ॥ १ रसादीनां यथास्वनाम स्रोतोमुखं चायनं च ॥ २ किंवा अयनस्य गमनस्य मुखानि मार्गाणि तेन अयनमुखानि गतिमार्गाणीत्यर्थः ॥ ३ तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत्पूरयति ॥ ४ यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति तादृक्प्रमाणान्येव पुष्यन्ति नाधिकन्यूनानीत्यर्थः ॥ ५ एतच्च प्रकृतिस्थानां कर्म विकृतानां तु न्यूनातिरिक्तधातुकरणमस्त्येवेति बोद्धव्यम् ॥ ६ उक्तं चान्यत्र स्रोतसा च यथास्वेन धातुः पुष्यति धातुना इति ॥ ७ उपसंहरत्येवमित्यादि ॥ ८ कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोरुत्पाद इत्याह हिताहितेत्यादि ॥ ९ हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः अहितरूपस्त्वशितादिविशेषोऽशुभरूपविशेषकरो भवति तेन नैकरूपात्कारणाद्विरुद्धकार्योदय इति भावः ॥ १०] एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च तथैवाहितसमाख्यातमेवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति ॥ १,२८.६ [{आयुर्वेददीपिका} दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातमुपयुञ्जाना व्याधिमन्तश्चागदाश्चेति सम्बन्धः ॥ १ विशेषात्मकमिति विशेषोद्भवम् ॥ २] तमुवाच भगवानात्रेयो न हिताहारोपयोगिनामग्निवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः तद्यथा कालविपर्ययः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति । ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः । अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः । न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबला न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति । तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं सम्पद्यते । स एव दोष संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते । शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरीतानि पुनर्व्याधिसहानि । एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति । एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिवर्तयन्त्यग्निवेश ॥ १,२८.७ [{आयुर्वेददीपिका} तन्निमित्ता इति हिताहारनिमित्ताः ॥ १ न केवलमिति परम् ॥ २ रोगप्रकृतय इति रोगकारणानि ॥ ३ अहिताहारोपयोगिन इत्यादि ॥ ४ कारणत इति निमित्तान्तरात्प्रतिबन्धात्तच्च कारणं तदेव ह्यपथ्यमित्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् ॥ ५ सद्य इति तत्कालम् ॥ ६ अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति अन्यथा सद्य इत्यनर्थकं स्यात्कालान्तरेऽपि दोषाकर्तृत्वात् ॥ ७ दोषवानिति व्याधिजनकः ॥ ८ अपचार इति अहिताहारोपयोगः उक्ते कारणमाह नहीत्यादि । तुल्यदोषाणीति तुल्यदोषकराणि ॥ ९ व्याधिक्षमत्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ॥ १० तदेवापथ्यतुल्यदोषतादि विवृणोति तदेवेत्यादि ॥ ११ अत्र यद्यपि प्रस्तुतत्वादपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि तथापि समानन्यायतयापथ्यशक्तिवर्धकान्युच्यन्ते ॥ १२ तत्र देशादीनां योगादिति अनुगुणदेशादियोगात्यथा व्रीहिः पित्तकर्तृत्वेनापथ्यः स चानूपदेशयोगाद्भूयस्तरमपथ्यो भवति धन्वदेशे तु हीनबलो भवति तथा शरत्कालस्यानुगुणस्य योगाद्बलवान्भवति हेमन्ते दुर्बलः संयोगाद्यथा स व्रीहिर्दधिफाणितादियुक्तो बलवान्मध्वादियुक्तश्च दुर्बलः वीर्याद्यथा स एवोष्णीकृतो बलवान् शीतस्तु दुर्बलः स एव च प्रमाणातियोगाद्बली हीनमात्रस्त्वबलः इत्याद्यनुसर्तव्यम् ॥ १३ दोषतुल्यबलतामाह स एव दोष इत्यादि ॥ १४ संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा किंवा संसृष्टयोनिरिति अनुगुणदूष्यः यथा पित्तस्य रक्तं दूष्यमासाद्य कष्टत्वं क्षिप्रकारित्वं च भवति ॥ १५ विरुद्धोपक्रमो यथा पित्तं मेहारम्भकं वचनं हि पित्तमेहाः सर्व एव याप्याः विरुद्धोपक्रमत्वातिति विरुद्धता चोपक्रमस्यात्र यत्पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं मेदोऽनुगुणं तु कट्वादि पित्ते विरुद्धमिति ॥ १६ गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः वचनं हि त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयमिति ॥ १७ चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात्कष्टसाध्यः ॥ १८ प्राणायतनसमुत्थ इति अग्रेऽध्याये वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी ॥ १९ मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी ॥ २० मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् ॥ २१ कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च ॥ २२ क्षिप्रकारितम इति आशुविकारकारितमः ॥ २३ चकारात्संसृष्टयोनित्वादिहेतूनामल्पत्वेन कष्टकष्टतरक्षिप्रकारिक्षिप्रकारितरादिविशेषाश्च भवन्तीति दर्शयति यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश्च भवतीति ज्ञेयं कष्टतमत्वादि च यथायोग्यतया ज्ञेयं विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी ॥ २४ व्याध्यक्षमशरीराण्याह शरीराणि चेत्यादि ॥ २५ अनिविष्टानि श्लथानि मांसादीनि येषां शरीरिणां तानि तथा किंवा अनिविष्टानीति विषमाणि ॥ २६ उपचितानीति संवर्धितानि असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः ॥ २७ विपरीतानीति अनतिस्थूलत्वादियुक्तानि ॥ २८ व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि ॥ २९ एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थमुपन्यस्तं तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतदप्युक्तं बोद्धव्यम् ॥ ३० एतदेवापथ्याहारदोषशरीराणामेवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्नाह एभ्यश्चैवेत्यादि ॥ ३१ विशेषा यथोक्ता उक्तविपरीताश्च तत्रोक्तविपरीतविशेषान्मृदवस्तथा चिरकारिणश्च भवन्ति यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् ॥ ३२ अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुमाह त एवेत्यादि ॥ ३३] तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः ॥ १,२८.८ [{आयुर्वेददीपिका} तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर्वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति ॥ १ सत्यपि दोषभेदेऽत्राश्रयस्याभेदादाश्रयप्रभावेणैवाश्रद्धादयो भवन्ति परं दोषभेदे अश्रद्धादावेव वातादिलिङ्गं विशिष्टं भवति ॥ २ किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं यतो न गौरवं वातदुष्टरसे भवितुमर्हति एतच्च नातिसुन्दरं तेन पूर्व एव पक्षो ज्यायान् ॥ ३] अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता । हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ॥ १,२८.९ पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता । नाशोऽग्नेरयथाकालं वलयः पलितानि च ॥ १,२८.१० [{आयुर्वेददीपिका} अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्वनिच्छा अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः ॥ १ आस्यवैरस्यमुचितादास्यरसादन्यथात्वम् ॥ २ अरसज्ञता रसाप्रतिपत्तिः ॥ ३ सादः अङ्गावसादः ॥ ४] रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः । कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ॥ १,२८.११ गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः । नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः ॥ १,२८.१२ दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम् । [{आयुर्वेददीपिका} रक्तप्रदोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् ॥ १ तिलकालकाः तिलाकृतयः ॥ २ अस्रमण्डलं लोहितमण्डलम् ॥ ३] रक्तप्रदोषाज्जायन्ते शृणु मांसप्रदोषजान् ॥ १,२८.१३ अधिमांसार्बुदं कलिं गलशालूकशुण्डिके । पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः ॥ १,२८.१४ [{आयुर्वेददीपिका} कीलशब्देनात्रार्श उच्यते ॥ १] वेद्यान्मांसाश्रयान्मेदःसंश्रयांस्तु प्रचक्ष्महे । निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥ १,२८.१५ [{आयुर्वेददीपिका} निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि तेषामेव निन्दितत्वात्न त्वास्यवैरस्यमधुरत्वादीनि ॥ १ किंवा निन्दितानीति अतिस्थूलगतान्यायुर्ह्रासादीन्यष्टौनिन्दितीयोक्तानि तेषां च निन्दितत्वं निन्दितातिस्थूलसम्बद्धत्वेन ॥ २ एवं पूर्वस्मिन्व्याख्याने यानि च इति चकारो नियमे उत्तरव्याख्याने तु समुच्चये ॥ ३] अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता । केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः ॥ १,२८.१६ [{आयुर्वेददीपिका} अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् । शूलमिति अस्थिशूलमेव बोद्धव्यम् ॥ १] रुक्पर्वणां भ्रमो मूर्छा दर्शनं तमसस्तथा । अरुषां स्थूलमूलानां पर्वजानां च दर्शनम् ॥ १,२८.१७ [{आयुर्वेददीपिका} रुगित्यादि मज्जदोषाज्ज्ञेयम् ॥ १ अरूंषीति व्रणानि ॥ २] मज्जप्रदोषात्शुक्रस्य दोषात्क्लैब्यमहर्षणम् । रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते ॥ १,२८.१८ न चास्य जायते गर्भः पतति प्रस्रवत्यपि । शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ॥ १,२८.१९ [{आयुर्वेददीपिका} क्लैब्यमिति ध्वजानुच्छ्रायः ॥ १ अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः ॥ २ शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन दारबाधा तु स्राविगर्भादिजनकत्वेन ॥ ३] इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः । उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥ १,२८.२० [{आयुर्वेददीपिका} उपघातेत्यादौ उपघातो विनाशः उपतापस्तु किंचिद्वैकल्यम् ॥ १] स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् । स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः ॥ १,२८.२१ [{आयुर्वेददीपिका} कण्डराभ्य इति सप्तम्यर्थे पञ्चमी ॥ १ खल्ली करपदावमोटनम् ॥ २ ग्रन्थिः स्नाय्वादिग्रन्थिरेव ॥ ३] मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् । दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च ॥ १,२८.२२ [{आयुर्वेददीपिका} मलानित्यादौ भेदशोषप्रदूषणमिति यथासम्भवं ज्ञेयं तत्र भेदः पुरीषस्य शोषस्तु विशेषेण सर्वमलेषु सम्भवति प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः ॥ १ संगोत्सर्गावतीव चेति अतीव सङ्गः अप्रवृत्तिः अत्युत्सर्गस्तु अतिप्रवृत्तिः ॥ २] विविधादशितात्पीतादहिताल्लीढखादितात् । भवन्त्येते मनुष्याणां विकारा य उदाहृताः ॥ १,२८.२३ तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा । हितान्येवाशितादीनि न स्युस्तज्जास्तथामयाः ॥ १,२८.२४ रसजानां विकाराणां सर्वं लङ्घनमौषधम् । विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम् ॥ १,२८.२५ मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च । अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम् ॥ १,२८.२६ अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम् । वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च ॥ १,२८.२७ मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् । अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ॥ १,२८.२८ शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते । स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ॥ १,२८.२९ नवेगान्धारणेऽध्याये चिकित्सितसंग्रहः कृतः । मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित् ॥ १,२८.३० [{आयुर्वेददीपिका} सम्प्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यमुपदिशति विविधादित्यादि ॥ १ भिषग्जितमुक्तमिति शेषः ॥ २ पञ्चकर्माणीत्यभिधायापि वस्तय इति वचनं तिक्तोपहितवस्तेर्विशेषेण हितत्वोपदर्शनार्थम् ॥ ३ शुद्धिरिति वमनादिना ॥ ४ सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ ॥ ५] व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात् । कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मरुतस्य च ॥ १,२८.३१ तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः । नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥ १,२८.३२ [{आयुर्वेददीपिका} सम्प्रति रसादीनां शाखारूपत्वात्कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तदाह व्यायामेत्यादि ॥ १ तत्र व्यायामक्षोभात्कोष्ठं परित्यज्य शाखां मला यान्ति ऊष्मणो वह्नेस्तीक्ष्णत्वाद्विलायिता दोषाः शाखां यान्ति हितस्यानवचारणयाहितसेवयातिसेवयातिमात्रवृद्धो दोषो जलापूरवद्वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम् ॥ २ द्रुतत्वान्मारुतस्येति चलत्वाद्वायोर्वायुना क्षिप्तो यातीत्यर्थः वाय्वन्तरेण च वायोराक्षेपणमुपपन्नमेवेति अन्यथा मला इति बहुवचनमसाधु ॥ ३ अथ शाखागताः किं कुर्वन्तीत्याह तत्रस्थाश्चेत्यादि ॥ ४ विलम्बन्ते कदाचिदिति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति ॥ ५ कुतो विलम्बन्त इत्याह न समीरिताः ॥ ६ ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति तथा त एव नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना ॥ ७ अत्रैव हेतुमाह भूय इत्यादि ॥ ८ यस्माद्भूयो हेतुप्रतीक्षिणस्तेऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते एतेन भूयो येऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते अत एवोक्तं कदाचिदिति ॥ ९] वृद्ध्या विष्यन्दनात्पाकात्स्रोतोमुखविशोधनात् । शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात् ॥ १,२८.३३ [{आयुर्वेददीपिका} सम्प्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणामाह वृद्ध्येत्यादि ॥ १ विष्यन्दनादिति विलयनात्विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति ॥ २ पाकादिति पक्वो दोषोऽबद्धत्वेनैव निम्नं कोष्ठं याति ॥ ३ स्रोतोमुखविशोधनादिति अवरोधकापगमात् ॥ ४ वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात्प्राकृतं स्थानं कोष्ठं याति ॥ ५] अजातानामनुत्पत्तौ जातानां विनिवृत्तये । रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ॥ १,२८.३४ सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ॥ १,२८.३५ [{आयुर्वेददीपिका} इदानीं संक्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति अजातानामित्यादि ॥ १ यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे ॥ २ ननु यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं कोऽपि अमार्गे प्रवर्तत इत्याह ज्ञानेत्यादि ॥ ३ अज्ञानादेव सुखसाधनमिदमिति कृत्वा अपरीक्षकाः प्रवर्तन्ते न तु दुःखकर्तृतासंधानादिति भावः ॥ ४] हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः । रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥ १,२८.३६ श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम् । वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ॥ १,२८.३७ लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् । तन्मूला बहवो यन्ति रोगाः शारीरमानसाः ॥ १,२८.३८ [{आयुर्वेददीपिका} हितमेवेति आयतिविशुद्धमेव तदात्वे दुःखकरमपि ॥ १ प्रियमेवेति तदात्वे सुखकरमायतिविरुद्धम् ॥ २ लौकिका अपरीक्षकाः ॥ ३ परीक्षकं स्तौति श्रुतमित्यादि ॥ ४ परीक्षकमाश्रयन्तीति परीक्षके भवन्ति किंवा बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते यदुक्तं विविशुर्ज्ञानदेवताः इति ॥ ५ तन्मूला इति रजस्तमोमूलाः ॥ ६] प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते । संधारयति वेगांश्च सेवते साहसानि च ॥ १,२८.३९ तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते । रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ॥ १,२८.४० [{आयुर्वेददीपिका} यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह प्रज्ञापराधादित्यादि ॥ १ अहितार्थसेवादि च रोगं करोतीति भावः ॥ २ तदात्वसुखेष्विति वक्तव्ये यत्सुखसंज्ञेषु इति करोति तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस्तदात्वेऽप्यसुखत्वं दर्शयति यथा सुखसंज्ञकमारोग्यमित्यत्रोक्तम् ॥ ३ विज्ञातेति परीक्षकः ॥ ४] न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् । परीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभवः ॥ १,२८.४१ [{आयुर्वेददीपिका} न रागादित्यादि ॥ १ अहितत्वेन जानन्नपि रागादेव कश्चिद्दुष्टः प्रवर्तते अज्ञानाच्चाहितत्वाज्ञानादेव कश्चिद्धिताध्यवसायेन प्रवर्तते एतद्द्वयमपि निषिध्यते ॥ २] आहरस्य विधावष्टौ विशेषा हेतुसंज्ञकाः । शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ॥ १,२८.४२ [{आयुर्वेददीपिका} कथमाहारः परीक्ष्य इत्याह आहारस्येत्यादि ॥ १ आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इत्याह शुभेत्यादि ॥ २ शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः अशुभा अशुभकराः इति ज्ञेयम् ॥ ३] परिहार्याण्यपथ्यानि सदा परिहरन्नरः । भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः ॥ १,२८.४३ यत्तु रोगसमुत्थानमशक्यमिह केनचित् । परिहर्तुं न तत्प्राप्य शोचितव्यं मनीषिभिः ॥ १,२८.४४ [{आयुर्वेददीपिका} ननु पथ्यसेवायां क्रियमाणायामपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति तत्किमनेन पथ्यसेवनेनेत्याह परिहार्याणीत्यादि ॥ १ अनृणतामिव प्राप्तोऽनृणतां प्राप्तः एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति ॥ २ यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति एतदेवाह यत्त्वित्यादि ॥ ३ अशक्यं परिहर्तुमिति बलवत्कर्मजन्यत्वादित्यर्थः ॥ ४ न शोचितव्यमिति पुरुषकारस्य दैवजन्येऽवश्यम्भाविनि व्याधावकिंचित्करत्वादित्यर्थः ॥ ५] आहारसंभवं यस्तु रोगाश्चाहारसंभवाः । हिताहितविशेषांश्च विशेषः सुखदुःखयोः ॥ १,२८.४५ सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः । विशेषो रोगसंघाश्च धातुजा ये पृथक्पृथक् ॥ १,२८.४६ तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च । दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ॥ १,२८.४७ प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत् । विविधाशितपीतीये तत्सर्वं संप्रकाशितम् ॥ १,२८.४८ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ॥ १,२८.४९ [{आयुर्वेददीपिका} संग्रहे वस्त्विति शरीरम् ॥ १ सहत्वे चासहत्वे चेत्यादिना शरीराणि चातिस्थूलानि इत्यादि विपरीतानि पुनर्व्याधिसहानि इत्यन्तं ग्रन्थं ज्ञापयति ॥ २] ************************************************************* Cअरकसंहिता, णिदानस्थान, ७ अथात उन्मादनिदानं व्याख्यास्यामः ॥ २,७.१ इति ह स्माह भगवानात्रेयः ॥ २,७.२ इह खलु पञ्चोन्मादा भवन्ति तद्यथा वातपित्तकफसन्निपातागन्तुनिमित्ताः ॥ २,७.३ तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिर्वर्तन्ते तद्यथा भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणां समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां व्याधिवेगसमुद्भ्रमितानामुपहतमनसां वा कामक्रोधलोभहर्षभयमोहायासशोकचिन्तोद्वेगादिभिर्भूयोऽभिघाताभ्याहतानां वा मनस्युपहते बुद्धौ च प्रचलितायामभ्युदीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम् ॥ २,७.४ उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात् ॥ २,७.५ तस्येमानि पूर्वरूपाणि तद्यथा शिरसः शून्यता चक्षुषोराकुलता स्वनः कर्णयोः उच्छ्वासस्याधिक्यमास्यसंस्रवणमनन्नाभिलाषारोचकाविपाकाः हृद्ग्रहः ध्यानायाससम्मोहोद्वेगाश्चास्थाने सततं लोमहर्षः ज्वरश्चाभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृतिकरणं च व्याधेः स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते चक्षुषोश्चापसर्पणमिति ॥ २,७.६ ततोऽनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव । तत्रेदमुन्मादविशेषविज्ञानं भवति तद्यथा परिसरणमजस्रमक्षिभ्रुवौष्टांसहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात्सततमनियतानां च गिरामुत्सर्गः फेनागमनमास्यातभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसंप्रयोगाश्चास्थाने वीणावंशशङ्खशम्यातालशब्दानुकरणमसाम्ना यानमयानैः अलङ्करणमनलङ्कारिकैर्द्रव्यैः लोभश्चाभ्यवहार्येष्वलब्धेषु लब्धेषु चावमानस्तीव्रमात्सर्यं च कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता वातोपशयविपर्यासादनुपशयता च इति वातोन्मादलिङ्गानि भवन्ति । अमर्षः क्रोधः संरम्भश्चास्थाने शस्त्रलोष्टकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा अभिद्रवणं प्रच्छायशीतोदकान्नाभिलाषः संतापश्चातिवेलं ताम्रहारितहारिद्रसंरब्धाक्षता पित्तोपशयविपर्यासादनुपशयता च इति पित्तोन्मदलिङ्गानि भवन्ति । स्थानमेकदेशे तूष्णींभावः अल्पशश्चङ्क्रमणं लालाशिङ्घाणकस्रवणमनन्नाभिलाषः रहस्कामता बीभत्सत्वं शौचद्वेषः स्वप्ननित्यता श्वयथुरानने शुक्लस्तिमितमलोपदिग्धाक्षत्वं श्लेष्मोपशयविपर्यासादनुपशयता च इति श्लेष्मोन्मादलिङ्गानि भवन्ति । त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्तमसाध्यमाचक्षते कुशलाः ॥ २,७.७ साध्यानां तु त्रयाणां साधनानि स्नेहस्वेदवमनविरेचनास्थापनानुवासनोपशमनस्तःकर्मधूमधूपनाञ्जनावपीडप्रधमनाभ्यङ्गप्रदेहपरिषेकानुलेपनवधबन्धनावरोधनवित्रासनविस्मापनविस्मारणापतर्पणसिराव्यधनानि भोजनविधानं च यथास्वं युक्त्या यच्चान्यदपि किंचिन्निदानविपरीतमौषधं कार्यं तदपि स्यादिति ॥ २,७.८ भवति चात्र उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः । अनेन विधियुक्तेन कर्मणा यत्प्रकीर्तितम् ॥ २,७.९ यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादस्तमागन्तुकमाचक्षते । केचित्पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम् । तस्य च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेयः । प्रज्ञापराधाद्ध्ययं देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्याहितान्याचरति अन्यद्वा किंचिदेवंविधं कर्माप्रशस्तमारभते तमात्मना हतमुपघ्नन्तो देवादयः कुर्वन्त्युन्मत्तम् ॥ २,७.१० देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्येमानि पूर्वरूपाणि भवन्ति तद्यथा देवगोब्राह्मणतपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायता अरतिः ओजोवर्णच्छायावलवपुषामुपनप्तिः स्वप्ने च देवादिभिरभिभर्त्सनं प्रवर्तनं चेति ततोऽनन्तरमुन्मादाभिनिर्वृत्तिः ॥ २,७.११ तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति तद्यथा अवलोकयन्तो देवा जनयन्त्युन्मादं गुरुवृद्धसिद्धमहर्षयोऽभिशपन्तः पितरो दर्शयन्तः स्पृशन्तो गन्धर्वाः समाविशन्तो यक्षाः राक्षसास्त्वात्मगन्धमाघ्रापयन्तः पिशाचाः पुनरारुह्य वाहयन्तः ॥ २,७.१२ तस्येमानि रूपाणि भवन्ति तद्यथा अत्यात्मबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणज्ञानवचनविज्ञानानि अनियतश्चोन्मादकालः ॥ २,७.१३ उन्मादयिष्यतामपि खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति तद्यथा पापस्य कर्मणः समारम्भे पूर्वकृतस्य वा कर्मणः परिणामकाले एकस्य वा शून्यगृहवासे चतुष्पथाधिष्ठाने वा सन्ध्यावेलायामप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे रजस्वलाभिगमने वा विगुणे वाध्ययनबलिमङ्गलहोमप्रयोगे नियमव्रतब्रह्मचर्यभङ्गे वा महाहवे वा देशकुलपुरविनाशे वा महाग्रहोपगमने वा स्त्रिया वा प्रजननकाले विविधभूताशुभाशुचिस्पर्शने वा वमनविरेचनरुधिरस्रावे अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा मांसमधुतिलगुडमद्योच्छिष्टे वा दिग्वाससि वा निशि नगरनिगमचतुष्पथोपवनश्मशानाघातनाभिगमने वा द्विजगुरुसुरयतिपूज्याभिधर्षणे वा धर्माख्यानव्यतिक्रमे वा अन्यस्य वा कर्मणोऽप्रशस्तस्यारम्भे इत्यभिघातकाला व्याख्याता भवन्ति ॥ २,७.१४ त्रिविधं तु खलून्मादकराणां भूतानामुन्मादने प्रयोजनं भवति तद्यथा हिंसा रतिः अभ्यर्चनं चेति । तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणैर्विद्यात् । ************************************************************* Cअरकसंहिता, Vइमानस्थान, १ [ऋअसविमान] अथातो रसविमानं व्याख्यास्यामः ॥ ३,१.१ इति ह स्माह भगवानात्रेयः ॥ ३,१.२ [{आयुर्वेददीपिका} निदाने ज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगितया दोषभेषजादिविशेषज्ञानमपेक्षितं भवति अतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानस्थानं ब्रूते ॥ १ तत्रापि च दोषभेषजयोः प्राधान्यात्तद्विशेषज्ञापकं रसविमानं प्रथमं ब्रूते ॥ २ इमं च स्थानसम्बन्धं स्वयमेव दर्शयिष्यति ॥ ३ विशेषेण मीयते ज्ञायते दोषभेषजाद्यनेनेति विमानं दोषभेषजादीनां प्रभावादिविशेष इत्यर्थः एवंभूतंविमानमभिधेयतया यत्र तिष्ठति तद्विमानस्थानम् ॥ ४ रसविमानमधिकृत्य कृतोऽध्यायो रसविमानम् ॥ ५] इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा दोषादिमानज्ञानायत्तत्वात्क्रियायाः । न ह्यमानज्ञो दोषादीनां भिषग्व्याधिनिग्रहसमर्थो भवति । तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश ॥ ३,१.३ [{आयुर्वेददीपिका} इह खल्वित्यादिना स्थानसम्बन्धमाह ॥ १ इह सम्प्राप्तिभेदसंख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिमुपदिशन् संख्यादिभेदेन सर्वैव सम्प्राप्तिः कथिता भवतीति दर्शयति ॥ २ निमित्तादीनां तु न तादृशो भेदोऽल्पग्रन्थवक्तव्योऽस्ति येन भेदेन तेऽपीह कथ्येरनतस्ते सामान्येनैवोक्ताः ॥ ३ अनुप्रविश्येति बुद्ध्वा ॥ ४ दोषादयः सूत्रस्थान एव प्रपञ्चिताः ॥ ५ मानमिति प्रभावादिविशेषः एतज्ज्ञाने हेतुमाह दोषादीत्यादि ॥ ६ क्रियाया इति चिकित्सायाः ॥ ७] तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः रसास्तावत्षट्मधुराम्ललवणकटुतिक्तकषायाः ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ॥ ३,१.४ [{आयुर्वेददीपिका} अध्यायार्थं वक्तुं प्रतिजानीते तत्रादावित्यादि ॥ १ यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद्भेषजस्य दोष आदौ कृतः तथापीह रसद्रव्यरूपभेषजस्यापेक्षितरोगप्रशमकर्तृत्वेन तथा दोषस्यापि च रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचिते रसद्रव्ये एवाग्रे कृते पश्चात्तु दोषग्रहणगृहीतौ दोषविकारौ ॥ २ प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः स चेहाचिन्त्यश्चिन्त्यश्च ग्राह्यः ॥ ३ येन तत्र खल्वनेकरसेषु इत्यादिना द्रव्यविकारयोः प्रभावं रसद्वारा दोषद्वारा च चिन्त्यमपि वक्ष्यति ॥ ४ यापयन्तीति साम्येनावस्थापयन्ति ॥ ५ मिथ्याशब्द इहायोगातियोगमिथ्यायोगेषु वर्तते ॥ ६] दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः । ते प्रकृतिभूताः शरीरोपकारका भवन्ति विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति ॥ ३,१.५ [{आयुर्वेददीपिका} दोषा इति शरीरदोषाः ॥ १ पुनःशब्दो मानसदोषं व्यावर्तयति ॥ २] तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति त्रयस्त्रयश्चोपशमयन्ति । तद्यथा कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणस्त्वेनं शमयन्ति कट्वम्ललवणाः पित्तं जनयन्ति मधुरतिक्तकषायास्त्वेनच्छमयन्ति मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकषायास्त्वेनं शमयन्ति ॥ ३,१.६ [{आयुर्वेददीपिका} रसानामसंसृष्टानां कर्माह तत्रेत्यादि ॥ १ अनेन च रसकर्मोपदेशेन दोषाणामपि तत्तद्रसोत्पाद्यत्वं तथा तत्तद्रसोपशमनीयत्वमुक्तं भवति ॥ २ कटुतिक्तकषाया वातं जनयन्तीति असति परिपन्थिनीति ज्ञेयं तेनार्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकत्वे न दोषः ॥ ३ तत्र ह्युष्णवीर्यता परिपन्थिनी विद्यते तेन न ते वातं जनयन्तीत्याद्यनुसरणीयम् ॥ ४ एनमिति पदेन यश्च कट्वादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्याद्विशेषेण शमयन्तीति दर्शयति जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव विशेषेण पथ्याः ॥ ५ एवं पित्तश्लेष्मणोरपि एनदेनं शब्दयोस्तात्पर्यं दर्शयति ॥ ६] रसदोषसंनिपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति । एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां त्रित्वं च दोषाणाम् ॥ ३,१.७ [{आयुर्वेददीपिका} अथ कया युक्त्या रसा दोषाञ्जनयन्ति शमयन्ति चेत्याह रसदोषेत्यादि ॥ १ संनिपाते इति अन्तःशरीरमेलके ॥ २ तुशब्दो विशेषे तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति ॥ ३ रसानां तु यथा उपाचाराद्गुणा भवन्ति तदभिहितं गुणागुणाश्रया नोक्ताः इत्यादिना सूत्रे ॥ ४ अभ्यस्यमाना इति न सकृदुपयुज्यमानाः ॥ ५ अथ कस्माद्रसदोषसंसर्गभूयस्त्वं परित्यज्य रसषट्त्वं दोषत्रित्वं चोच्यते इत्याह इत्येतदित्यादि ॥ ६ व्यवस्थेति रसदोषसंसर्गप्रपञ्चसंक्षेपः ॥ ७ परस्परेणासंसृष्टानामिति पदं दोषाणामित्यनेनापि योज्यम् ॥ ८] संसर्गविकल्पविस्तरो ह्येषामपरिसंख्येयो भवति विकल्पभेदापरिसंख्येयत्वात् ॥ ३,१.८ [{आयुर्वेददीपिका} रसदोषसंसर्गप्रपञ्चानभिधाने हेतुमाह संसर्गेत्यादि ॥ १ यस्मात्संसर्गभेदविस्तरोऽपरिसंख्येयस्तस्मात्षट्त्वं त्रित्वं चोच्यते ॥ २ विकल्पभेदापरिसंख्येयत्वादिति संसर्गविकल्पस्य भेदो विजातीयप्रकारः तस्यापरिसंख्येयत्वात् ॥ ३ एतेन यथा रसानामवान्तरव्यक्तिभेदेऽपि मधुरत्वादिसामान्ययोगान्मधुरादिव्यपदेशेन षट्त्वमुच्यते तथा मधुराम्लमधुरलवणादिसंसर्गाणामपि सत्यप्यवान्तरभेदे सामान्योपसंग्रहं कृत्वा त्रिषष्टित्वसंख्यानियमो भविष्यतीति निरस्यते यतो मधुराम्लादिसंसर्गेऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतो भेदोऽपरिसंख्येयो भवति ॥ ४ वचनं हि रसास्तरतमाभ्यां तां संख्यामतिपतन्ति हि इति ॥ ५] तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत् ॥ ३,१.९ [{आयुर्वेददीपिका} अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावो ज्ञेय इत्याह तत्र खल्वित्यादि ॥ १ तत्र चानेकरसद्रव्यस्यानेकदोषविकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभावं कथयन् रससंसर्गदोषसंसर्गयोरपि तादृशमेव प्रभावं कथयति यतो रसदोषसंसर्गप्रभावावत्र द्रव्यविकाराश्रयित्वाद्रसदोषयोर्द्रव्यविकारप्रभावत्वेनोच्येते ॥ २ अनेन न्यायेन साक्षादनुक्तेऽपि एकरसद्रव्यैकदोषविकारयोरपि प्रभावोऽसंसृष्टरसदोषप्रभावकथनादुक्त एव ज्ञेयः ॥ ३ एकैकश्येनाभिसमीक्ष्येति प्रत्येकमुक्तरसादिप्रभावेणानेकरसं द्रव्यमनेकदोषं च विकारं समुदितप्रभावमभिसमीक्ष्य ॥ ४] न त्वेवं खलु सर्वत्र । न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम् ॥ ३,१.१० [{आयुर्वेददीपिका} अयं च रसदोषप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह न त्वेवं खलु सर्वत्रेति ॥ १ अत्रैव हेतुमाह न हीत्यादिनाध्यवसातुं शक्यमित्यन्तेन ॥ २ विकृतिविषमसमवेतानामिति विकृतिसमवेतानां तथा विषमसमवेतानां चेति विकृतिविषमसमवेतानाम् ॥ ३ समवेतानामिति मिलितानां रसानां दोषाणां च ॥ ४ तत्र रसस्य विकृतिसमवायो यथा मधुरे तण्डुलीयके मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः तण्डुलीयके तु विकृतिसमवेतत्वेन तन्न करोति ॥ ५ विषमसमवेतास्तु तिले कषायकटुतिक्तमधुराः यदि हीमे रसाः समया मात्रया समवेताः स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोषहरो वा स्यात्पित्तकफकरस्त्वयं तेनात्र रसानां क्वचित्कर्तृत्वमकर्तृत्वं च क्वचिदिति वैषम्यमुन्नीयते ॥ ६ नानात्मकानामित्यादिहेतुत्रयं तु विकृतिसमवायविषमसमवाययोरेवोपलम्भकम् ॥ ७ तेन नानात्मकत्वादित्यादिभिर्विकृतिसमवायविषमसमवायौ भवतः ॥ ८ नानात्मकानामिति नानारूपहेतुजनितानां तेन हेतुभेदबलादेव रसदोषयोर्विकृतो विषमो वा मेलको भवतीत्यर्थः ॥ ९ किंवा नानात्मकानामिति नानाप्रमाणानाम् ॥ १० एवं च नानाप्रमाणत्वं विषमसमवाये हेतुः ॥ ११ परस्परेण चोपहतानामिति अन्योन्यमुपघातितगुणानाम् ॥ १२ परस्परगुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव तथाप्यदृष्टवशात्क्वचिद्भवतीति ज्ञेयं रसानां तु प्रबलेनान्योपघातो भवत्येव ॥ १३ अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः तत्र रसस्य भेदकाः स्वरसकल्कादयः एकस्यैव हि द्रव्यस्य कल्पनाविशेषेण गुणान्तराणि भवन्ति ॥ १४ दोषस्य तु दूष्यान्तराण्येव गुणान्तरयोगाद्भेदकानि भवन्ति ॥ १५ यदुक्तं स एव कुपितो दोषः समुत्थानविशेषतः ॥ १६ स्थानान्तरगतश्चैव विकारान् कुरुते बहूनिति ॥ १७ अस्मिन्व्याख्याने रसानां दोषाणां च य उत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते स न युज्यते यतो विषमसमवायेऽप्युत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणा अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वावयवप्रभावाननुमानेनैव समुदायप्रभावानुमानं शक्यम् ॥ १८ अथोच्यते विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति किंतु गुणान्तरमेव भवति हन्त तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात् ॥ १९ तदेवं दूषणदर्शनादन्यथा व्याख्यायते यद्द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः प्रकृत्यननुगुणश्च तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति स प्रकृतिसमसमवायशब्देनोच्यते यस्तु प्राकृतगुणोपमर्देन भवति स विकृतिविषमसमवायोऽभिधीयते विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः ॥ २० अत्रैव विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम् ॥ २१ ये तु विकृतिविषमसमवायौ पृथगेव कुर्वन्ति विषमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वाद्विषमावयवगुणानुमानं दुःशकमिति कृत्वा तदपि द्रव्यविकारप्रभावेणैव व्यपदिशन्ति ॥ २२] तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ॥ ३,१.११ [{आयुर्वेददीपिका} अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानमित्याह तथायुक्ते हीत्यादि ॥ १ तथायुक्ते समुदय इति विकृतिविषमसमवाये ॥ २ समुदयप्रभावतत्त्वमिति मेलकप्रभावतत्त्वम् ॥ ३ समधृते हि मधुसर्पिषि सूर्यावर्ताख्ये वा दोषसमुदये न संयुज्यमानमधुघृतगुणक्रमागतं मारकत्वं न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य किं तु संयोगमहिमकृतमेवेत्यर्थः ॥ ४ यच्च गतिद्वयं दोषरसमेलकस्य तेन प्रकृतिसमसमवायरूपं संनिपातं ज्वरनिदाने दोषलिङ्गमेलकेनैवोक्तवान् ॥ ५ यदुक्तं पृथगुक्तलक्षणसंसर्गाद्द्वांद्विकमन्यतमं सांनिपातिकं वा ज्वरं विद्यादिति ॥ ६ यस्तु विकृतिविषमसमवेतस्त्रिदोषकृतो ज्वरस्तस्य चिकित्सिते क्षणे दाहः क्षणे शीतमित्यादिना लक्षणमुक्तम् ॥ ७ न हि श्यावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे क्वचिदस्ति ॥ ८ एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतं तत्राम्रातं मधुरमेतन्मात्रमेवोक्तं तेन मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वमपि लभ्यत एव ॥ ९ यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात्तन्न भवति तत्राचार्येण वार्ताकं वातघ्नमित्युक्तमेव ॥ १० एवमित्यादि तत्तदुदाहरणं शास्त्रप्रसृतमनुसरणीयम् ॥ ११ यत्तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणं च ब्रूते तत्प्रकर्षार्थं स्पष्टार्थं चेति ज्ञेयम् ॥ १२] तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः ॥ ३,१.१२ [{आयुर्वेददीपिका} उपसंहरति तस्मादित्यादि ॥ १ तत्त्वमिति रसादिप्रभावतत्त्वम् ॥ २ यत्तु पूर्वं तत्रादौ रसद्रव्यदोषविकारप्रभावानुपदेक्ष्यामः इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतं तत्तु रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात्तथा दोषप्रभावेण च विकारप्रभावकथनाच्चरितार्थं स्यात् ॥ ३ इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानमस्तीति कृत्वा पृथक्पृथग्रसादिप्रभावतत्त्वाभिधानप्रतिज्ञानमिति न पौनरुक्त्यम् ॥ ४ इह द्रव्याणां वीर्यप्रभावविपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे वान्तर्भावनीयौ ॥ ५ तत्र यौ रसानुगुणौ वीर्यविपाकप्रभावौ तौ रसे यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाकौ तौ द्रव्यप्रभावे बोद्धव्यौ ॥ ६ उपदेक्ष्याम इति निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथगुपदेक्ष्याम इत्यर्थः रसादिप्रभावः प्रपञ्चेन निखिले तन्त्र एव वक्तव्यः ॥ ७] तत्रैष रसप्रभाव उपदिष्टो भवति । द्रव्यप्रभावं पुनरुपदेक्ष्यामः । तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति ॥ ३,१.१३ [{आयुर्वेददीपिका} संक्षेपाभिधानमेतदेवेति दर्शयन्नाह तत्रैष इत्यादि ॥ १ एष इति रसाः षडित्यादिना तत्त्वमुपदेक्ष्यामः इत्यन्तेन ग्रन्थेनोक्त इत्यर्थः ॥ २ उपदिष्टो भवतीति संक्षेपेण कथितो भवति ॥ ३ अन्ये तु तत्रैष रसप्रभाव उद्दिष्टो भवति इति पठन्ति ॥ ४ अस्मिन् पक्षे द्रव्यदोषविकारप्रभावोऽपिऽत्र उद्दिष्टः सोऽपि रसद्वारा तेन रसस्यैव प्रपञ्चाभिहितत्वात्तस्यैवाभिधानमुपसंहरति न द्रव्यादीनामिति ज्ञेयं द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात्पुनः शृङ्गग्राहिकया तैलादिद्रव्यप्रभावं कथयिष्याम इत्यर्थः ॥ ५ प्रशमनार्थानीति प्रशमनप्रयोजनानि ॥ ६] तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति विरुद्धगुणसंनिपाते हि भूयसाल्पमवजीयते तस्मात्तैलं वातं जयति सततमभ्यस्यमानम् । सर्पिः खल्वेवमेव पित्तं जयति माधुर्याच्छैत्यान्मन्दत्वाच्च पित्तं ह्यमधुरमुष्णं तीक्ष्णं च । मधु च श्लेष्माणं जयति रौक्ष्यात्तैक्ष्ण्यात्कषायत्वाच्च श्लेष्मा हि स्निग्धो मन्दो मधुरश्च । यच्चान्यदपि किंचिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम् ॥ ३,१.१४ [{आयुर्वेददीपिका} सततमभ्यस्यमानमिति अविच्छेदेनोपयुज्यमानम् ॥ १ विरुद्धगुण इति तैलगुणेभ्यो विपरीतगुणः ॥ २ विरुद्धगुणसंनिपाते इति विरुद्धगुणयोर्मेलके ॥ ३ ननु विरुद्धगुणयोर्मध्ये भूयसाल्पं जीयते तत्कथं तैलं वातं जयति न ह्यस्य वातं प्रति भूयस्त्वं युक्तमित्याह सततमभ्यस्यमानमिति ॥ ४ सततोपयोगेन हि तैलं वातादधिकं भवति तेन वातं जयतीत्यर्थः ॥ ५ सर्पिः खल्वेवमेवेति सर्पिरपि सततमभ्यस्यमानमित्यर्थः ॥ ६ अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कटुरसमित्यर्थः ॥ ७ इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिरुच्यते नाचिन्त्यशक्तिः तेन तैलादीनां स्नेहौष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव भवति ॥ ८ सर्पिषि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते तथापि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्यमेव तेन द्रव्यप्रभाव एव वाच्यः ॥ ९ यदा तु रसद्वारा कार्यं द्रव्यस्य चिन्त्यते तदा रसप्रभाव इति व्यपदेशो भवति ॥ १० एवं कषायानुरसे मधुनि च समाधानं वाच्यम् ॥ ११ अन्ये तु ब्रुवते यत्तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते तत्र च तैलवातयोर्विरुद्धगुणयोर्मेलके तैलमेव वातं जयति न तु वातस्तैलमिति तैलस्याचिन्त्यप्रभावः एवं सर्पिर्मधुनोरपि पित्तश्लेष्महरणे प्रभावाज्ज्ञेये ॥ १२ एतच्चान्ये नेच्छन्ति यतस्तैलादीनां सततमभ्यस्यमानमिति पदेनाधिक्यमेव वातादिजयकारणमुक्तं तथा यच्चान्यदपि किंचिद्द्रव्यमित्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यमेवाभ्यासाद्वातादिजयहेतुरुच्यते ॥ १३] अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः तद्यथापिप्पली क्षारः लवणमिति ॥ ३,१.१५ [{आयुर्वेददीपिका} अभ्यस्यद्रव्यं प्रभावोदाहरणार्थमभिधायानभ्यस्यानाह अथेत्यादि ॥ १ अधिकमन्येभ्य इति वचनादन्यदपि चित्रकभल्लातकाद्येवंजातीयं नात्युपयोक्तव्यं पिप्पल्यादिद्रव्यं त्वन्येभ्योऽप्यधिकमत्युपयोगे वर्जनीयमिति दर्शयति ॥ २] पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च ताः सद्यः शुभाशुभकारिण्यो भवन्ति आपातभद्राः प्रयोगसमसाद्गुण्यात्दोषसंचयानुबन्धाः सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति औष्ण्यात्पित्तं न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्योगवाहिन्यस्तु खलु भवन्ति तस्मात्पिप्पलीर्नात्युपयुञ्जीत ॥ ३,१.१६ [{आयुर्वेददीपिका} कटुकाः सत्यो मधुरविपाकाः इत्यादि पिप्पलीगुणकथनमनभ्यासप्रयोगे दोषवैपरीत्येन दोषप्रशमनोपदर्शनार्थं तथा अत्यभ्यासे गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति इत्यादिग्रन्थवक्तव्यदोषकरणयोग्यतोपदर्शनार्थं च ॥ १ भेषजाभिमताश्च सद्य इति छेदः ॥ २ सद्य इति अनभ्यासे ॥ ३ शुभाशुभकारिण्यो भवन्तीति सद्यः शुभकारिण्यः अत्यभ्यासप्रयोगे त्वशुभकारिण्यः ॥ ४ एतदेव शुभाशुभकारित्वं दर्शयत्यापातभद्रा इत्यादिना ॥ ५ प्रयोगसमसाद्गुण्यादिति समस्य प्रयोगस्य सद्गुणत्वात्समेऽल्पकाले अल्पमात्रे च पिप्पल्यादिप्रयोगे सद्गुणा भवन्तीत्यर्थः ॥ ६ दोषसंचयानुबन्धोऽत्युपयोगो यासां ता दोषसंचयानुबन्धाः ॥ ७ एतदेव दोषसंचयानुबन्धत्वं विवृणोति सततमित्यादि ॥ ८ पिप्पलीधर्मकथनप्रस्तावाद्गुणान्तरमाह योगवाहिन्यस्त्वित्यादि ॥ ९ योगवाहित्वेन कटुकानामपि पिप्पलीनां वृष्यप्रयोगेषु योगः तथा ज्वरगुल्मकुष्ठहरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली ॥ १० अयं च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः ॥ ११ तेन पिप्पलीरसायनप्रयोगस्तथा गुल्मादिषु च पिप्पलीवर्धमानकप्रयोगो न विरोधमावहति ॥ १२ उक्ते हि विषये यथोक्तविधानेन निर्दोषा एव पिप्पल्य इति ऋषिवचनादुन्नीयते । अन्ये तु अन्नसंस्करणे पिप्पल्यादीनामतिप्रयोगो न तु स्वातन्त्र्येणेति ब्रुवते । सततमुपयुज्यमाना इति अतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥ १३] क्षारः पुनरौष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति स पचनदहनभेदनार्थमुपयुज्यते सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते । ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति तद्यथा प्राच्याश्चीनाश्च तस्मात्क्षारं नात्युपयुञ्जीत ॥ ३,१.१७ [{आयुर्वेददीपिका} हृदयापकर्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः ॥ १] लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नमनतिगुरु अनतिस्निग्धमुपक्लेदि विस्रंसनसमर्थमन्नद्रव्यरुचिकरमापातभद्रं प्रयोगसमसाद्गुण्यात्दोषसंचयानुबन्धं तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते । तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति । ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति । तद्यथा वाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः ते हि पयसापि सह लवणमश्नन्ति । येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति लवणोपहतत्वात् । तस्माल्लवणं नात्युपयुञ्जीत । ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति ॥ ३,१.१८ [{आयुर्वेददीपिका} ग्लानिः मांसापचयो हर्षक्षयो वा ॥ १ न केवलं लवणातियोगः शरीरोपघातकरः किंतु भूमेरप्युपघातकर इत्याह येऽपीहेत्यादि ॥ २ ऊषरा इति लवणप्रधानाः ॥ ३ लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततमुपयुञ्जीत अन्नद्रव्यसंस्कारकं तु स्तोकमात्रमभ्यासेनाप्युपयोजनीयमेव ॥ ४ वाह्लीकादिव्यतिरिक्तेऽपि देशे येऽतिलवणमश्नन्ति तेषामपि दोषानाह ये हीत्यादि ॥ ५ एतेन चान्यत्रापि देशेऽतिमात्रलवणसात्म्यानां लवणात्युपयोगकृत एव शैथिल्यादिदोष उन्नीयते न देशस्वभावकृतः ॥ ६] तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः । सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति ॥ ३,१.१९ [{आयुर्वेददीपिका} तेषामिति अतिक्षारलवणसात्म्यानाम् ॥ १ तत्सात्म्यत इति अतिमात्रक्षारादतिमात्रलवणाच्च सात्म्यात् ॥ २ क्रमेणेति न वेगान् धारणीयोक्तसात्म्यपरित्यागक्रमेण ॥ ३ इह च सात्म्यशब्देनौकसात्म्यमभिप्रेतम् ॥ ४ अल्पदोषमदोषं वेति पक्षद्वयेऽत्यर्थसात्म्यमल्पदोषं भवति अन्यत्त्वदोषमिति व्यवस्था ॥ ५] सात्म्यं नाम तद्यदात्मन्युपशेते सात्म्यार्थो ह्युपशयार्थः । तत्त्रिविधं प्रवरावरमध्यविभागेन सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च । तत्र सर्वरसं प्रवरमवरमेकरसं मध्यं तु प्रवरावरमध्यस्थम् । तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत्सात्म्यम् । सर्वरसमपि च सात्म्यमुपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत ॥ ३,१.२० [{आयुर्वेददीपिका} सात्म्यं नामेति ओकसात्म्यं नामेत्यर्थः ॥ १ ओकादिति अभ्यासात् ॥ २ उपशयार्थ इति उपशयशब्दाभिधेय इत्यर्थः ॥ ३ तदिति ओकसात्म्यम् ॥ ४ त्रिविधमिति प्रवरावरमध्यभेदेन ॥ ५ सप्तविधं तु एकैकरसेन षट्संसृष्टरसोपयोगाच्चैकमेवं सप्तविधम् ॥ ६ संसृष्टशब्देन द्विरसादयः षड्रसपर्यन्ता गृह्यन्ते ॥ ७ प्रवरावरमध्यस्थमिति द्विरसादिपञ्चरसपर्यन्तम् ॥ ८ अवरमध्यमाभ्यां लक्षितः पुरुषः ॥ ९ प्रवरमिति सर्वरसम् ॥ १० सात्म्यमुपपादयेतभ्यसेदित्यर्थः ॥ ११ क्रमेणेति यथोक्ताभ्यासक्रमेण ॥ १२ उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्न एव कर्तव्य इत्याह सर्वरसमित्यादि ॥ १३ अभिसमीक्ष्येति हिताहितत्वेन विचार्य ॥ १४ हितमेवेति पदेन यदेव प्रकृत्यादिना हितं तदेवानुरुध्येत सेवेतेत्यर्थः ॥ १५] तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति तद्यथा प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि भवन्ति ॥ ३,१.२१ [{आयुर्वेददीपिका} आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः तस्य विशेषो हितत्वमहितत्वं च तस्यायतनानि हेतूनित्याहारविधिविशेषायतनानि ॥ १ आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकमित्यर्थः ॥ २ उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि ॥ ३] तत्र प्रकृतिरुच्यते स्वभावो यः स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः तद्यथा मषमुद्गयोः शूकरैणयोश्च । [{आयुर्वेददीपिका} उक्तानि प्रकृत्यादिना विभजते तत्रेत्यादिना ॥ १ स्वाभाविक इति संस्काराद्यकृतः ॥ २ माषमुद्गयोरिति प्रकृत्या माषे गुरुत्वं मुद्गे च लघुत्वं शूकरे गुरुत्वमेणे च लघुत्वम् ॥ ३] करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः । संस्कारो हि गुणान्तराधानमुच्यते । ते गुणास्तोयाग्निसंनिकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते । [{आयुर्वेददीपिका} द्रव्याणामिति वक्तव्ये स्वाभाविकानामिति यत्करोति तेनोत्पत्तिकाले जनकभूतैः स्वगुणारोपणं संस्कारस्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति ॥ १ तच्च प्राकृतगुणोपमर्देनैव क्रियते यथा तोयाग्निसंनिकर्षशौचैस्तण्डुलस्थं गौरवमुपहत्य लाघवमन्ने क्रियते ॥ २ यदुक्तं सुधौतः प्रस्रुतः स्विन्नः संतप्तश्चौदनो लघुः ॥ ३ तथा रक्तशाल्यादेर्लघोरप्यग्निसंयोगादिना लाघवं वर्धते ॥ ४ मन्थनाद्गुणाधानं यथा शोथकृद्दधि शोथघ्नं सस्नेहमपि मन्थनातिति ॥ ५ देशेन यथा भस्मराशेरधः स्थापयेतित्यादौ ॥ ६ वासनेन गुणाधानं यथापामुत्पलादिवासनेन सुगन्धानुकरणम् ॥ ७ भावनया च स्वरसादिकृतया स्थितस्यैवामलकादेर्गुणस्योत्कर्षो भवति ॥ ८ कालप्रकर्षाद्यथा पक्षाज्जातरसं पिबेदित्यादि ॥ ९ भाजनेन यथा त्रैफलेनायसीं पात्रीं कल्केनालेपयेतित्यादौ ॥ १० आदिग्रहणात्पेषणाभिमन्त्रणादि गृह्यते ॥ ११ ननु संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियते यतः स्वभावो निष्प्रतिक्रियः इत्युक्तं यदि हि संस्कारेण स्वाभाविकगुरुत्वं प्रतिक्रियते तदा स्वभावो निष्प्रतिक्रियः इति कथं ब्रूमः स्वभावो निष्प्रतिक्रियः इति स्वभावो भावानामुत्पत्तौ नान्यथा क्रियते ॥ १२ तेन जातिप्रतिबद्धं माषादीनां गुरुत्वं न तज्जातौ स्फोटयितुं पार्यते संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात् ॥ १३ कश्चित्तु गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते यथा वह्नेरौष्ण्यं वायोश्चलत्वं तैलस्य स्नेह इत्यादि ॥ १४ एते हि यावद्द्रव्यभाविन एव गुणाः ॥ १५ गौरवादयस्तु पुराणधान्यादिष्वप्यपगमदर्शनान्न यावद्द्रव्यभाविनः ॥ १६ उक्तं हि गुणो द्रव्यविनाशाद्वा विनाशमुपगच्छति ॥ १७ गुणान्तरोपधानाद्वा इति ॥ १८ यत्र तु संस्कारेण व्रीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते तत्र गुणान्तरोत्पादः सुष्ठ्वेव ॥ १९] संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः स विशेषमारभते यं पुनर्नैकैकशो द्रव्याण्यारभन्ते तद्यथा मधुसर्पिषोः मधुमत्स्यपयसां च संयोगः । [{आयुर्वेददीपिका} संयोगमाह संयोगस्त्वित्यादि ॥ १ स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः ॥ २ यं नैकैकश इति यं विशेषं प्रत्येकसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः ॥ ३ मधुसर्पिषी हि प्रत्येकममारके मिलिते तु मारके भवतः क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति ॥ ४ संयोगस्त्विह प्राधान्येनैवोपलभ्यमानद्रव्यमेलको विवक्षितस्तेन भावनादिष्वपि यद्यपि संयोगोऽस्ति तथापि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेर्न संयोगेन ग्रहणम् ॥ ५] राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः । तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहः परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम् । सर्वस्य हि ग्रहः सर्वग्रहः सर्वतश्च ग्रहः परिग्रह उच्यते । [{आयुर्वेददीपिका} राशिः प्रमाणम् ॥ १ मात्रामात्रफलविनिश्चयार्थ इति मात्रावदाहारौषधस्य च यत्फलं शुभममात्रस्य हीनस्यातिरिक्तस्य वा यत्फलमशुभम् ॥ २ यदुक्तं तस्य ज्ञानार्थमुचितप्रमाणमनुचितप्रमाणं च राशिसंज्ञं भवति ॥ ३ सर्वग्रहं विवृणोति तत्रेत्यादि ॥ ४ सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेरेकपिण्डेन मानम् ॥ ५ परिग्रहं विवृणोति परिग्रहः पुनरित्यादि ॥ ६ एकैकश्येनेति अन्नस्य कुडवः सूपस्य पलं मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम् ॥ ७ सर्वग्रहे प्रत्यवयवमाननियमो नास्ति तेन येन केनचिदाहारेण प्रत्येकमनियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः ॥ ८ एतदेव शब्दव्युत्पत्त्या दर्शयति सर्वस्य हीत्यादि ॥ ९ सर्वत इति प्रत्येकावयवत इत्यर्थः ॥ १०] देशः पुनः स्थानं स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे । [{आयुर्वेददीपिका} देशं विभजते देश इत्यादि ॥ १ स्थानग्रहणेनाहारद्रव्यस्य तथा भोक्तुश्च स्थानं दर्शयति ॥ २ आचष्ट इति द्रव्यस्योत्पत्तिप्रचारादिकृतगुणज्ञानहेतुर्भवति ॥ ३ तत्रोत्पत्त्या हिमवति जातं गुणवद्भवति मरौ जातं लघु भवति इत्यादि ॥ ४ प्रचारेण लघु भक्ष्याणां प्राणिनां तथा धन्वप्रचारिणां बहुक्रियाणां च लाघवं विपर्यये च गौरवं गृह्यते ॥ ५ देशसाम्येन च देशविपरीतगुणं सात्म्यं गृह्यते यथानूपे उष्णरूक्षादि धन्वनि च शीतस्निग्धादि ॥ ६ ओकसात्म्यं तु उपयोक्तृग्रहणेन गृहीतम् ॥ ७] कालो हि नित्यगश्चावस्थिकश्च तत्रावस्थिको विकारमपेक्षते नित्यगस्तु ऋतुसात्म्यापेक्षः । [{आयुर्वेददीपिका} नित्यग इति अहोरात्रादिरूपः ॥ १ आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः ॥ २ विकारमपेक्षत इति बाल्यादिकृतं तु श्लेष्मविकारं ज्वरादिकं चाहारनियमार्थमपेक्षत इत्यर्थः ॥ ३ ऋतुसात्म्यं हि ऋतुमपेक्षत इति ऋतुसात्म्यापेक्षः ॥ ४] उपयोगसंस्था योगनियमः स जीर्णलक्षणापेक्षः । [{आयुर्वेददीपिका} एवमाहारोपयोगः कर्तव्य एवं न कर्तव्य इत्युपयोगनियमः स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः ॥ १ तेनेह अजल्पन्नहसन्नातिद्रुतं नातिविलम्बितमित्याद्युपयोगनियममप्यपेक्षत एव अजीर्णभोजने तु महांस्त्रिदोषकोपलक्षणो दोषो भवतीत्ययमेवोदाहृतः ॥ २] उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तमोकसात्म्यम् । इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ॥ ३,१.२२ [{आयुर्वेददीपिका} यदायत्तमोकसात्म्यमिति भोक्तृपुरुषापेक्षं ह्यभ्याससात्म्यं भवति कस्यचिद्धि किंचिदेवाभ्यासात्पथ्यमपथ्यं वा सात्म्यं भवति ॥ १] एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति तान् बुभुत्सेत बुद्ध्वा च हितेप्सुरेव स्यात्न च मोहात्प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किंचित् ॥ ३,१.२३ [{आयुर्वेददीपिका} एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति ज्ञेयम् ॥ १ तत्र प्रकृत्या लाघवादिः शुभफलः गुर्वादिश्चाशुभफलः ॥ २ करणाद्याधेयोऽपि विशेषः शास्त्रोक्तः शुभः निषिद्धस्त्वशुभः ॥ ३ देशासात्म्यं निन्दितदेशभवत्वादि च द्रव्यस्याशुभफलम् ॥ ४ एवं कालासात्म्यमशुभफलं चाजीर्णभोजनादि तथा ओकासात्म्यं चाशुभमशुभफलमिति ज्ञेयं विपरीतं तु शुभफलम् ॥ ५ मोहादिति अज्ञानात्प्रमादादिति ज्ञात्वापि रागादित्यर्थः ॥ ६ प्रियमिति तदात्वमात्रप्रियम् ॥ ७ अहितमित्यस्य विवरणमसुखोदर्कमिति ॥ ८ असुखं दुःखरूपमुदर्क उत्तरकालीनं फलं यस्य स तथा ॥ ९ अन्यद्वेति भेषजविहारादि ॥ १०] तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित्काले प्रकृत्यैव हिततमं भुञ्जानानां भवति उष्णं स्निग्धं मात्रावत्जीर्णे वीर्याविरुद्धमिष्टे देशे इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितमजल्पनहसन् तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् ॥ ३,१.२४ [{आयुर्वेददीपिका} तत्रेत्यादौ इदमिति वक्ष्यमाणम् ॥ १ आहारविधिर्विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम् ॥ २ आतुराणां च केषांचिदिति पदेन रक्तपित्तिनां शीतमेव कफरोगिणां रूक्षमेव हितमित्यादिविपर्ययं दर्शयति ॥ ३ केषांचिद्भुञ्जानानामिदमाहारविधिविधानं हिततमं भवतीति योजना ॥ ४ प्रकृत्यैवेति स्वभावेनैव हिततमं हिततममित्युक्तं तेन यत्प्रकृत्या हितं तत्कदाचिदेव कंचिदेव पुरुषमासाद्याहितं भवति तच्च कादाचित्कत्वादनादृतं तेन प्रायिकत्वादेनं हिततमं वक्ष्याम इति भावः ॥ ५ उष्णमित्यादौ सम्यगिति छेदः ॥ ६] तस्य साद्गुण्यमुपदेक्ष्याम उष्णमश्नीयादुष्णं हि भुज्यमानं स्वदते भुक्तं चाग्निमौदर्यमुदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति श्लेष्माणं च परिह्रासयति तस्मादुष्णमश्नीयात् । स्निग्धमश्नीयात्स्निग्धं हि भुज्यमानं स्वदते भुक्तं चानुदीर्णमग्निमुदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति शरीरमुपचिनोति दृढीकरोतीन्द्रियाणि बलाभिवृद्धिमुपजनयति वर्णप्रसादं चाभिनिर्वर्तयति तस्मात्स्निग्धमश्नीयात् । [{आयुर्वेददीपिका} तस्येति उष्णादिगुणयुक्तस्यान्नस्य ॥ १ साद्गुण्यमिति प्रशस्तगुणयोगिताम् ॥ २ परिह्रासयतीति भिन्नसंघातं करोति ॥ ३] मात्रावदश्नीयात्मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं सुखं गुदमनुपर्येति न चोष्माणमुपहन्ति अव्यथं च परिपाकमेति तस्मान्मात्रावदश्नीयात् । [{आयुर्वेददीपिका} मात्रावदिति प्रशंसायां मतुप्तेन प्रशस्तमात्रमित्यर्थः ॥ १ अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सद्वातादीन् स्थानापीडनादप्रकोपयत् ॥ २ गुदमनुपर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः ॥ ३ ऊष्माणं वह्निम् ॥ ४] जीर्णेऽश्नीयातजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत्सर्वान् दोषान् प्रकोपयत्याशु जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं तस्माज्जीर्णेऽश्नीयात् । [{आयुर्वेददीपिका} पूर्वस्येति दिनान्तरकृतस्य ॥ १ अपरिणतमिति असम्यग्जातम् ॥ २ आहाररसेनेति आहारपरिणामगतेन मधुरादिना किंवा आहारजेन रसेन ॥ ३ स्वस्थानस्थेषु दोषेष्वित्यादि जीर्णाहारस्य लक्षणम् ॥ ४] वीर्याविरुद्धमश्नीयातविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते तस्माद्वीर्याविरुद्धमश्नीयात् । [{आयुर्वेददीपिका} विरुद्धवीर्याहारजैरिति कुष्ठान्ध्यविसर्पाद्यैरात्रेयभद्रकाप्यीयोक्तैः ॥ १] इष्टे देशे इष्टसर्वोपकरणं चाश्नीयातिष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति तथैवेष्टैः सर्वोपकरणैः तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् । [{आयुर्वेददीपिका} मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामादिभिश्चित्तोपतापकरैश्चित्तविकारैरित्यर्थः ॥ १ तथेष्टैश्च सर्वोपकरणैर्भुञ्जानो मनोविघातं न प्राप्नोतीति योजना अनिष्टभोजनादेर्मनोविघातो भवति ॥ २] नातिद्रुतमश्नीयाततिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च भोज्यदोषसाद्गुण्योपलब्धिश्च न नियता तस्मान्नातिद्रुतमश्नीयात् । [{आयुर्वेददीपिका} उत्स्नेहनमुन्मार्गगमनम् ॥ १ अवसादनमवसादः ॥ २ अप्रतिष्ठानं हृदयस्थत्वेन कोष्ठाप्रवेशः ॥ ३ भोज्यगतानां दोषाणां केशादीनां साद्गुण्यस्य च स्वादुत्वादेः उपलब्धिर्न नियता भवति कदाचिदुपलभ्यते कदाचिन्नेति ॥ ४ तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं साद्गुण्यानुपलब्ध्या च प्रीत्यभावः ॥ ५] नातिविलम्बितमश्नीयाततिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति बहु भुङ्क्ते शीतीभवत्याहारजातं विषमं च पच्यते तस्मान्नातिविलम्बितमश्नीयात् । [{आयुर्वेददीपिका} विषमं च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः ॥ १] अजल्पन्नहसन् तन्मना जल्पतो हसतोऽन्यमनस वा भुञ्जानस्य त एव हि दोषा भवन्ति य एवातिद्रुतमश्नतः तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत । [{आयुर्वेददीपिका} य एवातिद्रुतमश्नतो दोषा इति उत्स्नेहनादयः ॥ १] आत्मानमभिसमीक्ष्य भुञ्जीत सम्यगिदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यं भवति तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥ ३,१.२५ [{आयुर्वेददीपिका} नोपशेत इतीत्यत्र इतिशब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलमोकसात्म्यसेवनं दर्शयति ॥ १ आत्मन इति पदेनात्मनैवात्मसात्म्यं प्रतिपुरुषं ज्ञायते न शास्त्रोपदेशेनेति दर्शयति ॥ २] रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः । वेद यो देशकालौ च शरीरं च स नो भिषक् ॥ ३,१.२६ [{आयुर्वेददीपिका} अध्यायोक्तरसप्रभावादिज्ञानं स्तौति रसानित्यादि । स नो भिषगिति नोऽस्माकं संमत इत्यर्थः ॥ १] विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः । द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ॥ ३,१.२७ आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च । विमाने रससंख्याते सर्वमेतत्प्रकाशितम् ॥ ३,१.२८ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः ॥ ३,१.२९ [{आयुर्वेददीपिका} दोषविकारौ च यद्यपि त्रिविधकुक्षीये प्रभावविस्तारेण वक्तव्यौ तथापीह संक्षेपेणोक्तावेव तेन दोषविकारप्रभावावप्युक्ताविति यदुच्यते संग्रहे तत्साधु ॥ १ तैलादिद्रव्यत्रयकथनं च द्रव्यप्रभावगृहीतमिति कृत्वा न पृथक्संग्रहे पठितम् ॥ २] *************************************************************** Cअरकसंहिता, शारीरस्थान, १ अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ॥ ५,१.१ इति ह स्माह भगवानात्रेयः ॥ ५,१.२ कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते । पुरुषः कारणं कस्मात्प्रभवः पुरुषस्य कः ॥ ५,१.३ किमज्ञो ज्ञः स नित्यः किं किमनित्यो निदर्शितः । प्रकृतिः का विकाराः के किं लिङ्गं पुरुषस्य च ॥ ५,१.४ निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् । वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा ॥ ५,१.५ निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् । स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ॥ ५,१.६ वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात् । सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः ॥ ५,१.७ न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम् । क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः ॥ ५,१.८ ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते । क्षेत्रं च यदि पूर्वं स्यात्क्षेत्रज्ञः स्यादशाश्वतः ॥ ५,१.९ साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते । स्यात्कथं चाविकारस्य विशेषो वेदनाकृतः ॥ ५,१.१० अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति । अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ॥ ५,१.११ भविष्यन्त्या असंप्राप्तिरतीताया अनागमः । सांप्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः ॥ ५,१.१२ कारणं वेदनानां किं किमधिष्ठानमुच्यते । क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः ॥ ५,१.१३ सर्ववित्सर्वसंन्यासी सर्वसंयोगनिःसृतः । एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते ॥ ५,१.१४ इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः । सर्वं यथावत्प्रोवाच प्रशान्तात्मा पुनर्वसुः ॥ ५,१.१५ खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः । चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः ॥ ५,१.१६ पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः । मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी ॥ ५,१.१७ लक्षणं मनसो ज्ञानस्याभावो भाव एव च । सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ॥ ५,१.१८ वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते । अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥ ५,१.१९ चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च । यत्किंचिन्मनसो ज्ञेयं तत्सर्वं ह्यर्थसंज्ञकम् ॥ ५,१.२० इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः । ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते ॥ ५,१.२१ [{आयुर्वेददीपिका} मनोगुणमभिधाय मनोविषयमाह चिन्त्यमित्यादि ॥ १ चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते ॥ २ विचार्यमुपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते ॥ ३ ऊह्यं च यत्सम्भावनया ऊह्यते एवमेतद्भविष्यति इति ॥ ४ ध्येयं भावनाज्ञानविषयम् ॥ ५ संकल्प्यं गुणवत्तया दोषवत्तया वावधारणाविषयम् ॥ ६ यत्किंचिदित्यनेन सुखाद्यनुक्तविषयावरोधः ॥ ७ मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम् ॥ ८ एते च मनोऽर्थाः शब्दादिरूपा एव तेन षष्ठार्थकल्पनया न चतुर्विंशतिसंख्यातिरेकः ॥ ९ सुखादयस्तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः ॥ १० मनोविषयमभिधाय मनःकर्माह इन्द्रियेत्यादि ॥ ११ इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म तथा स्वस्य निग्रहो मनसः कर्म मनो ह्यनिष्टविषयप्रसृतं मनसैव नियम्यते मनश्च गुणान्तरयुक्तं सद्विषयान्तरान्नियमयति इत्याहुरेके ॥ १२ यदुक्तं विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते ॥ १३ नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका इति ॥ १४ तेन धृत्या कारणभूतया आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः ॥ १५ मनःकर्मान्तरमाह ऊहो विचारश्चेति ॥ १६ अत्रोह आलोचनज्ञानं निर्विकल्पकं विचारो हेयोपादेयतया विकल्पनम् ॥ १७ चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते तत्र बाह्यमिन्द्रियरूपमाभ्यन्तरं तु मनोऽहंकारो बुद्धिश्चेति त्रितयम् ॥ १८ तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः मनस्तु संकल्पयति हेयोपादेयतया कल्पयतीत्यर्थः अहंकारोऽभिमन्यते ममेदमहमत्राधिकृत इति मन्यत इत्यर्थः बुद्धिरध्यवस्यति त्यजाम्येनं दोषवन्तमुपाददाम्येनं गुणवन्तमित्यध्यवसायं करोतीत्यर्थः ॥ १९ ऊहस्तु यद्यपि बाह्यचक्षुरादिकर्म तथापि तत्रापि मनोऽधिष्ठानमस्तीति मनःकर्मतयोक्तः ॥ २० वचनं हि सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ॥ २१ तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि इति ॥ २२ ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः ॥ २३ अहंकारव्यापारश्चाभिमननमिहानुक्तोऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः ॥ २४ बुद्धिर्हि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहंकाराभिमत एव विषये भवति तेन बुद्धिव्यापारेणैवाहंकारव्यापारोऽपि गृह्यते ॥ २५ बुद्धौ हि सर्वकरणव्यापारार्पणं भवति ॥ २६ यदुक्तमेते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ २७] इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते । कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ॥ ५,१.२२ जायते विषये तत्र या बुद्धिर्निश्चयात्मिका । व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ॥ ५,१.२३ [{आयुर्वेददीपिका} एतदेवोहविचारपूर्वकत्वं बुद्धेर्विवृणोति इन्द्रियेणेत्यादि ॥ १ गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ॥ २ गुणत इति उपादेयतया ॥ ३ दोषत इति हेयतया ॥ ४ बुद्ध्यध्यवसायं विवृणोति जायत इत्यादि ॥ ५ विषये तत्रेति मनसा कल्पिते विषये ॥ ६ निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः ॥ ७ व्यवस्यतीति अनुष्ठानं करोति उद्युक्तो भवतीत्यर्थः बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वानुतिष्ठतीति यावत् ॥ ८ बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकमनुष्ठानं तदेवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति ॥ ९] एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु । पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ॥ ५,१.२४ [{आयुर्वेददीपिका} मनोऽभिधायेन्द्रियाण्यभिधत्ते तत्रापि ज्यायस्त्वाद्बुद्धीन्द्रियाणि प्रागाह एकैकेत्यादि ॥ १ खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति ॥ २ कर्मानुमेयानीति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि ॥ ३ येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि तानीमानि पञ्चेति दर्शयति ॥ ४ यद्यपि च सांख्ये आहंकारिकाणीन्द्रियाणि यदुक्तं सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारादिति तथापि मतभेदाद्भौतिकत्वमिन्द्रियाणां ज्ञेयं किंवा औपचारिकमेतद्भौतिकत्वमिन्द्रियाणां ज्ञेयमुपचारबीजं च यद्गुणभूयिष्ठं यदिन्द्रियं गृह्णाति तत्तद्भूयिष्ठमित्युच्यते चक्षुस्तेजो गृह्णाति तेन तैजसमुच्यते इत्यादि ज्ञेयम् ॥ ५] हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च । कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥ ५,१.२५ पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे । जिह्वावागिन्द्रियं वाक्च सत्या ज्योतिस्तमोऽनृता ॥ ५,१.२६ [{आयुर्वेददीपिका} अथ कर्मेन्द्रियाण्याह हस्तावित्यादि ॥ १ हस्तावेकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया ॥ २ गुदोपस्थं चैकैकम् ॥ ३ वाच उपादानहानार्थं भेदमाह वाक्चेत्यादि ॥ ४ ज्योतिरिव ज्योतिः धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वातेतद्विपर्ययेण तमः अनृता ॥ ५] महाभूतानि खं वायुरग्निरापः क्षितिस्तथा । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ ५,१.२७ [{आयुर्वेददीपिका} सम्प्रत्युद्देशक्रमानुरोधादर्थेऽभिधातव्येऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वादष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह महाभूतानीत्यादि ॥ १ शब्दादयो यथासंख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः ॥ २ यस्तु गुणोत्कर्षोऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धादेव ॥ ३ तेन पृथिव्यां चतुर्भूतप्रवेशात्पञ्चगुणत्वमेवं जलादावपि चतुर्गुणत्वादि ज्ञेयम् ॥ ४] तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे । पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ॥ ५,१.२८ [{आयुर्वेददीपिका} नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणमाह तेषामित्यादि ॥ १ एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः ॥ २ पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वातुक्तं हि खादयश्चेतनाषष्ठा धातवः इति ॥ ३ यथा यथा च परत्वं तथा तथा च गुणवृद्धिर्यथासंख्यम् ॥ ४ ननु एतावताऽप्येकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते को गुणः क्व भूते इत्याह पूर्व इत्यादि ॥ ५ गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते न केवलं पूर्वः किंतु पूर्वस्यापि यो गुणः स च पूर्वगुण उत्तरे भूते वर्तते ॥ ६ तेन खे पूर्वे पूर्वः शब्दगुणो वर्तते वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति पूर्वगुणश्च शब्द इति द्विगुणत्वमेवमग्न्यादौ च ज्ञेयम् ॥ ७ गन्धस्तूत्तरगुणान्तराभावान्न पूर्वो भवति तथापि गन्धश्च तद्गुणाः इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं किंवा पूर्व इति छत्त्रिणो गच्छन्तीति न्यायेनोक्तं तेनापूर्वोऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ॥ ८] खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् । आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ॥ ५,१.२९ लक्षणं सर्वमेवैतत्स्पर्शनेन्द्रियगोचरम् । स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ॥ ५,१.३० [{आयुर्वेददीपिका} भूतानामसाधारणं लक्षणमाह खरेत्यादि ॥ १ अप्रतीघातः अप्रतिहननमस्पर्शत्वमिति यावत्स्पर्शवद्धि गतिविघातकं भवति नाकाशः अस्पर्शवत्त्वात् ॥ २ सर्वमेवैतदिति खरत्वादि ॥ ३ स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् ॥ ४ कथमेतत्सर्वं स्पर्शनेन्द्रियज्ञेयमित्याह स्पर्शनेत्यादि ॥ ५ सविपर्यय इति स्पर्शाभाव इत्यर्थः ॥ ६ यदिन्द्रियं यद्गृह्णाति तत्तस्याभावमपि गृह्णाति तेन आकाशस्यास्पर्शत्वमपि स्पर्शनेन्द्रियग्राह्यमिति युक्तम् ॥ ७ द्रवत्वं चलत्वं च सांख्यमते स्पर्शनग्राह्यत्वात्स्थूलभूतवातधर्मः स्पर्श एव यद्धि स्पर्शनेन गृह्यते तत्सर्वं महाभूतवातपरिणाम एव ॥ ८ एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि ॥ ९ प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः ॥ १० वचनं हि तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ॥ ११ एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च इति तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि ॥ १२] ****************************************************************** Cअरकसंहिता, Cइकित्सास्थान, १ [ऋअसायनाध्याय] अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः ॥ ६,१.१ इति ह स्माह भगवानात्रेयः ॥ ६,१.२ [{आयुर्वेददीपिका} पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते ॥ १ रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते तथानन्तरमेव वक्ष्यति ॥ २ तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम् ॥ ३ तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाग्रेऽभिधीयते ॥ ४] चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् । प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥ ६,१.३ [{आयुर्वेददीपिका} तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह चिकित्सितमित्यादि ॥ १ करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं यथानिदाने हेतुरूपादिपर्यायकथनम् ॥ २ एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य यदुक्तं चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते इति ॥ ३ एवंभूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम् ॥ ४ प्रायश्चित्तमिति भेषजसंज्ञा प्रायश्चित्तवद्भेषजस्याधर्मकार्यव्याधिहरत्वेन ॥ ५] विद्याद्भेषजनामानि भेषजं द्विविधं च तत् । स्वस्थस्योर्जस्करं किंचित्किंचिदार्तस्य रोगनुत् ॥ ६,१.४ [{आयुर्वेददीपिका} द्वैविध्यं विवृणोति स्वस्थस्येत्यादि ॥ १ किंचिदिति न सर्वम् ॥ २ स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाप्रहर्षव्ययायक्षयित्वानुचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावमादधातीति स्वस्थस्योर्जस्करम् ॥ ३ आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनार्तस्य ज्वरादिहरम् ॥ ४ रोगनुदिति वचनेनैवार्तविशेषितायां लब्धायां यदार्तस्य इति करोति तेन सहजजरादिकृतां पीडामनुद्वेजिकां परित्यज्य ज्वरादिनास्वाभाविकेन रोगेण पीडितस्येति दर्शयति ॥ ५] अभेषजं च द्विविधं बाधनं सानुबाधनम् । [{आयुर्वेददीपिका} भेषजप्रसङ्गादभेषजद्वैविध्यमाह अभेषजमित्यादि ॥ १ बाधनमिह तदात्वमात्रबाधकं यथास्वल्पमपथ्यम् ॥ २ सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि ॥ ३] स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥ ६,१.५ प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् । प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत् ॥ ६,१.६ [{आयुर्वेददीपिका} द्विविधं भेषजमुक्तं विभजते स्वस्थस्येत्यादि ॥ १ तद्वृष्यं तद्रसायनं प्राय इति छेदः ॥ २ यद्वृष्यं प्रायो भवति तथा रसायनं यत्प्रायो भवति आर्तस्य रोगहरं यद्बाहुल्येन तत्स्वस्थोर्जस्करमुच्यते यत्तु द्वितीयमार्तरोगहरं तत्प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति यथाक्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः तथा कासाधिकारेऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्यनुसरणीयम् ॥ ३ रसायनोक्तानां च ज्वरादिहरत्वमत्र सुव्यक्तमेव रसायनग्रन्थेषु ॥ ४ अन्ये तु ब्रुवते यद्व्याधिमात्रहरं न तद्रसायनं किंतु शरीरसंयोगदार्ढ्याद्दीर्घायुःकर्तृत्वसाधारणधर्मयोगादुपचरितव्याधिहरं रसायनमिहोच्यत इति ॥ ५ ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं व्याधिहरं च स्वस्थोर्जस्करं तत्किं किंचिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते ब्रूमः बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते येन पाठासप्तपर्णादीनामपि रसायनत्वं साधनीयशक्तित्वादार्तरोगहरत्वेन यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते तत्स्वस्थार्तयोरुभयार्थकर्तृत्वम् ॥ ६ प्रायःशब्दतात्पर्यं विवृणोति प्राय इत्यादि ॥ ७ विशेषार्थमिति बाहुल्यार्थमित्यर्थः ॥ ८] दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः । प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥ ६,१.७ वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् । लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ ६,१.८ [{आयुर्वेददीपिका} रसायनकार्यमाह दीर्घमित्यादि ॥ १ प्रभादीनां त्रयाणामौदर्यं योजनीयम् ॥ २ वाक्सिद्धिः यदुच्यते तदवश्यं भवतीत्यर्थः ॥ ३ प्रणतिः लोकवन्द्यता ॥ ४ कथमेतद्रसायनेन क्रियत इत्याह लाभेत्यादि रसादिग्रहणेन स्मृत्यादयोऽपि गृह्यन्ते ॥ ५] अपत्यसंतानकरं यत्सद्यः सम्प्रहर्षणम् । वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ॥ ६,१.९ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते । जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥ ६,१.१० प्रभूतशाखः शाखीव येन चैत्यो यथा महान् । भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ॥ ६,१.११ संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते । यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥ ६,१.१२ [{आयुर्वेददीपिका} वाजीकरणकार्यमाहापत्येत्यादि ॥ १ अपत्यसंतानः अपत्यपरम्परा तेन पुत्रपौत्रकरमित्यर्थः वाजीकरणजनिताच्छुक्राज्जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः ॥ २ अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात्यदुच्यते । विरूपमपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः । व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः ॥ ३ इति ॥ ४ उपचीयत इति पुष्टिं प्राप्नोति ॥ ५ अक्षयमिवाक्षयम् ॥ ६ फलवदिति गर्भजनकम् ॥ ७ चैत्यो देवतायतनम् ॥ ८ अर्च्यः अर्चनीयः ॥ ९ आनन्त्यमिवानन्त्यं दीर्घसंतानतामित्यर्थः ॥ १०] स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम् । यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥ ६,१.१३ चिकित्सितार्थ एतावान् विकाराणां यदौषधम् । रसायनविधिश्चाग्रे वाजीकरणमेव च ॥ ६,१.१४ [{आयुर्वेददीपिका} चिकित्सित इति ज्वरादिचिकित्सिते ॥ १ ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव तत्किं विशिष्योच्यते वक्ष्यते तच्चिकित्सिते इत्याह चिकित्सितार्थ इत्यादि ॥ २ सत्यं रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच्चिकित्सितशब्देनोच्यत इत्यर्थः ॥ ३ अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु वक्तव्ये इत्याह रसायनेत्यादि ॥ ४ विधिः विधानं रसायनाभिधानमित्यर्थः ॥ ५ अग्रे इति अनन्तरम् ॥ ६ वाजीकरणं चाग्रे अभिधास्यते इति शेषः ॥ ७] अभेषजमिति ज्ञेयं विपरीतं यदौषधात् । तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥ ६,१.१५ [{आयुर्वेददीपिका} अभेषजमपि पूर्वोद्दिष्टं विवृणोत्यभेषजमित्यादि ॥ १ विपरीतं रोगजननलक्षणार्थकारि ॥ २] रसायनानां द्विविधं प्रयोगमृषयो विदुः । कुटीप्रावेशिकं चैव वातातपिकमेव च ॥ ६,१.१६ कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते । नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥ ६,१.१७ निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत्कुटीम् ॥ ६,१.१८ विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम् । घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥ ६,१.१९ शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम् । इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥ ६,१.२० अथोदगयने शुक्ले तिथिनक्षत्रपूजिते । मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ॥ ६,१.२१ धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः । विधूय मानसान्दोषान्मैत्रीं भूतेषु चिन्तयन् ॥ ६,१.२२ देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् । देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम् ॥ ६,१.२३ तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः । रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥ ६,१.२४ [{आयुर्वेददीपिका} कुटीप्रवेशेन यत्क्रियते तत्कुटीप्रावेशिकम् ॥ १ वातातपसेवयापि यत्क्रियते तद्वातातपिकम् ॥ २ त्रिगर्भां प्रथममेकं गृहं तस्याभ्यन्तरे द्वितीयमेवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा त्रिगर्भामिति अन्तस्त्रिप्रकोष्ठाम् ॥ ३ सूक्ष्मलोचनामिति अल्पद्वारजालकाम् ॥ ४ शुक्ले शुक्लपक्षे ॥ ५ सज्जा वैद्यादयो यस्यां सा तथा ॥ ६ तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात्पूजिते ॥ ७ कृतवापन इति कृतक्षौरः ॥ ८ मानसान् दोषानिति कामक्रोधादीन् ॥ ९ संशोधनैरिति वमनविरेचनास्थापनशिरोविरेचनैः ॥ १० सुखीति अरोगः ॥ ११ जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर्जातबलः ॥ १२ यद्यपीह संशोधनैरिति बहुवचनप्रयोगात्सर्वाण्येव संशोधनानि संमतानि तथापीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यमित्याहुः संशोधनैरिति बहुवचनं पुनर्यावच्छुद्धेर्हरीतक्यादिप्रयोगस्यैव करणं दर्शयति ॥ १३] हरीतकीनां चूर्णानि सैन्धवामलके गुडम् । वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥ ६,१.२५ पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः । तेन शुद्धशरीराय कृतसंसर्जनाय च ॥ ६,१.२६ त्रिरात्रं यावकं दद्यात्पञ्चाहं वापि सर्पिषा । सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥ ६,१.२७ शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् । वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥ ६,१.२८ [{आयुर्वेददीपिका} यावकमिति यवान्नम् ॥ १ त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम् ॥ २] हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् । दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ॥ ६,१.२९ आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् । सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥ ६,१.३० कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् । अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥ ६,१.३१ हृद्रोगं सशिरोरोगमतीसारमरोचकम् । कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ॥ ६,१.३२ कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् । श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ॥ ६,१.३३ स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः । स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥ ६,१.३४ अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः । सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये ॥ ६,१.३५ तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि । यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥ ६,१.३६ अतश्चामृतकल्पानि विद्यात्कर्मभिरीदृशैः । हरीतकीनां शस्यानि भिषगामलकस्य च ॥ ६,१.३७ [{आयुर्वेददीपिका} यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति तथापि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्येते तत्रापि यद्यपि आमलकं वयःस्थापनानामित्युक्तं तथापि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्यग्रेऽभिहिता ॥ १ हरीतक्यादिषु पञ्चरसत्वाद्युत्पादोऽदृष्टवशाद्भूतसंनिवेशविशेषप्रभावकृतः तेन नात्रोपपत्तयः क्रमन्ते ॥ २ शिवामिति कल्याणकरिणीं प्रशस्तगुणयुक्तत्वात् ॥ ३ सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना ॥ ४ सर्वरोगहरत्वमभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् ॥ ५ प्रवर्तकत्वेऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं यदुक्तं स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्येते ॥ ६ अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेदिति ॥ ७ बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम् ॥ ८ वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वमुक्तम् ॥ ९ शस्यानीति अस्थिरहितानि फलानि ॥ १०] ओषधीनां परा भूमिर्हिमवाञ्शैलसत्तमः । तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥ ६,१.३८ आपूर्णरसवीर्याणि काले काले यथाविधि । आदित्यपवनच्छायासलिलप्रीणितानि च ॥ ६,१.३९ यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च । तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥ ६,१.४० [{आयुर्वेददीपिका} यद्यपि हिमवानौषधभूमीनामित्युक्तं तथापि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुमौषधीनामित्याहाभिधानम् ॥ १ काले काले इति फलपाककाले इत्यर्थः ॥ २ यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात्तथावश्यं रसायने कर्तव्यम् ॥ ३ अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति ॥ ४] पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् । हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ ६,१.४१ विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् । विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ ६,१.४२ बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् । पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च ॥ ६,१.४३ जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥ ६,१.४४ इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् । भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि ॥ ६,१.४५ दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् । हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ ६,१.४६ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः । विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ ६,१.४७ मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ ६,१.४८ मधुकस्य हरिद्राया वचायाः कनकस्य च । भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥ ६,१.४९ सितोपलासहस्रं च चूर्णितं तुलयाधिकम् । तैलस्य ह्याढकं तत्र दद्यात्त्रीणि च सर्पिषः ॥ ६,१.५० साध्यमौदुम्बरे पात्रे तत्सर्वं मृदुनाग्निना । ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ ६,१.५१ क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने । तिष्ठेत्संमूर्छितं तस्य मात्रां काले प्रयोजयेत् ॥ ६,१.५२ या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति । षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ ६,१.५३ वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः । रसायनमिदं प्राश्य बभूवुरमितायुषः ॥ ६,१.५४ मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः । वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥ ६,१.५५ मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः । ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ ६,१.५६ रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत् । दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते ॥ ६,१.५७ [{आयुर्वेददीपिका} पञ्चानामित्यादौ प्रतिद्रव्यं दशपलभागग्रहणमुक्तं हि जातूकर्णे इति पञ्च पञ्चमूलानि तेषां प्रतिद्रव्यं दशपलानि इति ॥ १ हरीतकीसहस्रमिति हरीतकीफलसहस्रम् ॥ २ शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ ॥ ३ वीरा जालंधरं शाकम् ॥ ४ कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि ॥ ५ विनीयेति प्रक्षिप्य ॥ ६ प्लवः कैवर्तमुस्तकम् ॥ ७ कनकं नागकेशरम् ॥ ८ त्वग्गुडत्वक् ॥ ९ औदुम्बरे इति ताम्रमये ॥ १० स्नेहार्धमिति सर्पिस्तैलार्धम् ॥ ११ एकमनपराह्णिकमाहारम् ॥ १२] यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् । तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥ ६,१.५८ इदं रसायनं ब्राह्मं महर्षिगणसेवितम् । भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥ ६,१.५९ कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः । श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥ ६,१.६० धरणीधरसारश्च वायुना समविक्रमः । स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥ ६,१.६१ [{आयुर्वेददीपिका} पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते तथा तत्स्वेदनीयमित्यर्थः ॥ १ स्वरसपरिपीतमिति स्वरसभावितम् ॥ २ ब्रह्मसुवर्चलाद्यौषधान्यायुर्वेदसमुत्थानीये वक्ष्यमाणानि ॥ ३ युवतिः नवमालिका ॥ ४ अष्टमो भागोऽष्टभागः ॥ ५ क्षुद्रगुडाकृतिमिति फाणिताकृतिम् ॥ ६ अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत् ॥ ७ यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना ॥ ८ यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान् ॥ ९ धरणीधरसार इति उष्ट्रमुखवत्तेन धरणीधराः पर्वतास्तेषां सारो लौहं तद्वत्सार इत्यर्थः ॥ १० अविषमिति विषमविकारि ॥ ११] बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला । पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ ६,१.६२ शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु । अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ॥ ६,१.६३ मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् । विदारी वृषमूलानि काकोली काकनासिका ॥ ६,१.६४ एषां पलोन्मितान् भागाञ्शतान्यामलकस्य च । पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥ ६,१.६५ ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ ६,१.६६ पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् । मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥ ६,१.६७ षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् । चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥ ६,१.६८ पलमेकं निदध्याच्च त्वगेलापत्त्रकेसरात् । इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥ ६,१.६९ कासश्वासहरश्चैव विशेषेणोपदिश्यते । क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥ ६,१.७० स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । पिपासां शुक्रस्थान् दोषांश्चाप्यपकर्षति ॥ ६,१.७१ अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् । अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥ ६,१.७२ मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ ६,१.७३ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ ६,१.७४ [{आयुर्वेददीपिका} पर्ण्यश्चतस्र इति शालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च ॥ १ तामलकी भूम्यामलकी ॥ २ काकनासा नासाफला काकतुण्डक इत्यन्ये ॥ ३ गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति ॥ ४ निष्कुलमिति निरस्थि ॥ ५ तैलसर्पिषोरिति समासनिर्देशादुभाभ्यामेव द्वादशपलानि न पृथक्पृथक् ॥ ६ मत्स्यण्डिका खण्डसंहतिः ॥ ७ अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर्द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम् ॥ ८] अथामलकहरीतकीनामामलकविभीतकानां हरीतकीविभीतकानामामलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनमभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयंच रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् । अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परशरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः ॥ ६,१.७५ [{आयुर्वेददीपिका} कुकूलकः करीषाग्निः ॥ १ अकुलकानामिति अनस्थ्नाम् ॥ २ द्रव्यादीनामत्र मानं नोक्तं तेन प्रधानस्य चूर्णस्य दध्यादिभिर्मिलितैः समानमानत्वं किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम् ॥ ३ पललं तिलचूर्णम् ॥ ४ भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वादुपपन्नम् ॥ ५ अनन्नभुगिति सर्वथाहारान्तराभुक् ॥ ६ तस्यान्त इति एतत्प्रयोगपरित्यागकाले ॥ ७ प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं तेन प्रयोगान्ते यदा अन्नसंसर्जनं कर्तव्यं तदा यवाग्वादिक्रमेणेत्युक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः ॥ ८ यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया ॥ ९] हरीतक्यामलकविभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरवाप्नुयात् ॥ ६,१.७६ [{आयुर्वेददीपिका} अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका ॥ १ अत्र हरीतक्यादिक्वाथस्य त्वेको भागः क्षीरस्याष्टौ भागाः सर्पिष एको भागः ॥ २ कुम्भो द्रोणद्वयम् ॥ ३ वचनं हि द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च इति ॥ ४] हरीतक्यामलकविभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च संनीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रमश्मवत्स्थिरीभवति अधृष्यो भूतानां भवति ॥ ६,१.७७ यथामराणाममृतं यथा भोगवतां सुधा । तथाभवन्महर्षीणां रसायनविधिः पुरा ॥ ६,१.७८ न जरां न च दौर्बल्यं नातुर्यं निधनं न च । जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥ ६,१.७९ न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते । गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥ ६,१.८० [{आयुर्वेददीपिका} अमृतवल्ली गुडूची । सोमवल्कः विट्खदिरः । क्षीरसर्पिः क्षीरसमुत्थितसर्पिः । अयश्चूर्णस्य चतुर्थो भागः यत एतदयश्चूर्णं चतुर्थभागमत एकस्मिन् प्रयोगे जातूकर्णेन अयश्चूर्णपादयुक्तमिति कृतम् । अमराणाममृतं जरादिहरं नागानां च सुधा जरामरणहरी इत्युभयोपादानं दृष्टान्ते । ब्रह्म मोक्षः । मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते ॥ १] अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः । रसायनानां सिद्धानामायुर्यैरनुवर्तते ॥ ६,१.८१ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः ॥ ६,१.८२ [{आयुर्वेददीपिका} अभयेत्यादिना संदेहनिरासार्थमुक्तप्रयोगसंख्यां दर्शयति । एवमन्यत्रापि संख्याप्रणयनमन्ते ज्ञेयम् ॥ १] *************************************************************** Cअरकसंहिता, Cइकित्सास्थान, २ [ऋअसायनाध्याये द्वितीयः पादः] अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ॥ ६,२.१ इति ह स्माह भगवानात्रेयः ॥ ६,२.२ [{आयुर्वेददीपिका} पूर्वपादे ह्यामलकरसायनान्युक्तानि इहाप्यामलकरसायनानि सन्तीति प्राणकामीयमनन्तरमुच्यते ॥ १ प्राणकामशब्दमधिकृत्य कृतमिति प्राणकामीयम् ॥ २] प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसंधुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् । अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश्च । सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्लत्वलवणकटुकक्षारशुक्रशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानामतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते संधयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न संधीयतेऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूते ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति । तस्मादेतान्दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच ॥ ६,२.३ [{आयुर्वेददीपिका} निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन किंवा देववत्सर्वदा प्रबुद्धो निद्रारहितो भवति ॥ १ तन्द्रालक्षणं तन्त्रान्तरे । इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः । निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेतिति ॥ २ अबद्धमांसमनिबिडमांसम् ॥ ३ उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम् ॥ ४ एवंजातीयश्च पूर्वनिपातानियमोऽप्रतिबन्धेन चरकेऽस्ति स मयूरव्यंसकादिपाठाद्द्रष्टव्यः ॥ ५ अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति ॥ ६ रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह सर्वे इत्यादि ॥ ७ तिलस्तु अचूर्णितस्तिलः पललं तिलचूर्णम् ॥ ८ अतोनिमित्तमिति ग्राम्याहारादिकारणकम् ॥ ९ शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः ॥ १०] आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकमतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्त्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत्तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत्जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् । अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ॥ ६,२.४ बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च । अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक्च ॥ ६,२.५ बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी । भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य ॥ ६,२.६ [{आयुर्वेददीपिका} एकैकशः शतपाकमित्यर्थः ॥ १ एकैकपाकसाधनं पृथक्कर्तव्यं तेन त्रिशतधा पाको भवति ॥ २ अत्र च कल्कोपलेपादि नोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं वचनबलात् ॥ ३ सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वमन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशमर्हति ॥ ४ यथोक्तेन विधिनेति कुटीप्रावेशिकेन ॥ ५ गिरिसारः लोहम् ॥ ६] आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः । तस्योत्तरकालमग्निबलसमां मात्रां खादेत्पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः । अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.७ [{आयुर्वेददीपिका} पलाशतरुणः तरुणपलाशः अनेन बालवृद्धपलाशवर्जनमुच्यते ॥ १ क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि भवति तथा कर्तव्यमिति दर्शयति ॥ २ चतुर्भागः पादः ॥ ३ समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तमित्यर्थः ॥ ४] आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेतस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.८ विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः ॥ ६,२.९ [{आयुर्वेददीपिका} यावदाशीरिति आशीः फलश्रुतिः तेन तद्वर्षान्ते इत्यादि ग्रन्थोक्तविधिविधानं दर्शयति ॥ १] यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रमत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.१० [{आयुर्वेददीपिका} पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः ॥ १] धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्यसंजातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्युद्धरेत्तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत्चूर्णीकृतानि वा पिबेत्पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत्जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् । संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.११ [{आयुर्वेददीपिका} धन्वनीति जाङ्गलदेशे । कर्षणं हलादिना । अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि । तपसि माघे ॥ १ तपस्ये इति फाल्गुने । चले सुमुहूर्त इति इन्द्रे मुहूर्ते । आम्रमात्रमिति पलपरिमाणम् ॥ २] बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः । स्वरसानामलाभे त्वयं स्वरसविधिश्चूर्णानामाढकमाढकमुदकस्याहोरात्रास्थितं मृदितपूतं स्वरसवत्प्रयोज्यम् ॥ ६,२.१२ [{आयुर्वेददीपिका} पुनर्नवान्ता दश षड्विरेचनशताश्रितीये अमृताभया धात्री युक्ता श्रेयसी श्वेतातिरसा मण्डूकपर्णी स्थिरा पुनर्नवा इति सर्वा वयःस्थापनोक्ताः ॥ १ नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः ॥ २ बलादीनां स्वरसेनैव विधानम् ॥ ३ नागबलावद्भोजनादिकं ज्ञेयम् ॥ ४ स्वरसालाभेऽनुकल्पमाह स्वरसानामित्यादि ॥ ५] भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत्तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरः । पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषान्तर्मुखमभ्यज्य । तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्या त्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः । प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः । जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनमुपचारः प्रयोगान्ते च द्विस्तावत्पयसैवोपचारः । तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.१३ [{आयुर्वेददीपिका} शुचिः ज्येष्ठः शुक्रस्तु आषाढः सह आग्रहायणः सहस्यः पौषः ॥ १ एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ उद्धृतमात्रं न प्रयोज्यं किंतु यथोक्त एव काले शीतगुणयुक्ते ॥ २ मुखदाहपरिहारार्थं सर्पिषान्तर्मुखमभ्यज्येति ॥ ३ नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य ॥ ४ सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसंपिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव ॥ ५ सहस्रसंख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति तेन पुनरावृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसंख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः ॥ ६ अन्ये त्वत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति तच्च व्याख्यानं नातिसंगतम् ॥ ७ किंच सहस्रद्वयस्य तत्रोपयोगो विहितः अत्र सहस्रपर्यन्तः प्रयोगः तेन व्याधिविषयोऽन्य एव स प्रयोगः अयं तु रसायनविषयः ॥ ८] भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत्तेषां यः स्वरसः कुम्भं प्रपद्येत तमष्टभागमधुसम्प्रयुक्तं द्विगुणघृतमद्यात्तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥ ६,२.१४ [{आयुर्वेददीपिका} पिष्टस्वेदनं तत्यत्रस्थं पिष्टकमुपस्वेद्यते तदुपरि यत्पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यमन्यथोपरिस्थभल्लातकतापाच्च्युतः स्नेहो नाधो याति ॥ १] भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ॥ ६,२.१५ [{आयुर्वेददीपिका} भल्लातकतैलमिति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः ॥ १] भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणमिति भल्लातकविधानमुक्तं भवति ॥ ६,२.१६ [{आयुर्वेददीपिका} भल्लातकसर्पिरित्यादयो दशप्रयोगाः ॥ १ अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः ॥ २ यदुक्तं जतूकर्णे भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि इति ॥ ३ एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः गुडलवणयोस्तु संस्कारः संयोगो वा ॥ ४ लवणे संस्कारपक्षे हि लवणसमं भल्लातकमन्तर्धूमदग्धं ग्राह्यम् ॥ ५ अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति ॥ ६ इह सक्तुप्रयोगोऽद्रवोत्तरत्वादविशेषकर्मणा भेदनीयः ॥ ७] भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च । भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥ ६,२.१७ एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः । रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत् ॥ ६,२.१८ कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन । यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ॥ ६,२.१९ प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः । रसायनैः शिवैरेतैर्बभूवुरमितायुषः ॥ ६,२.२० ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च । दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः ॥ ६,२.२१ तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः । रसायनविधिः सेव्यो विधिवत्सुसमाहितैः ॥ ६,२.२२ [{आयुर्वेददीपिका} अग्निसमानीति दाहस्फोटकर्तृतया ॥ १ संभृत्येति निष्पाद्य ॥ २] रसायनानां संयोगाः सिद्धा भूतहितैषिणा । निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ॥ ६,२.२३ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः ॥ ६,२.२४ [{आयुर्वेददीपिका} पादानुसंग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः अपरे तु व्याहृता व्यक्ता एव ॥ १] **************************************************************** Cअरकसंहिता, Cइकित्सास्थान, १ [ऋअसायनाध्याय], ३ [Kअरप्रचितीय] अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः ॥ ६,१.३.१ इति ह स्माह भगवानात्रेयः ॥ ६,१.३.२ [{आयुर्वेददीपिका} आमलकरसायनत्वसाम्यादनन्तरं करप्रचितीय उच्यते ॥ १] करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेतथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानामभयाविभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्सुशुष्कं तत्कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत्सम्यक्तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति ॥ ६,१.३.३ एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः । जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ॥ ६,१.३.४ प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात् । यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः ॥ ६,१.३.५ इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम् । जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ॥ ६,१.३.६ [{आयुर्वेददीपिका} करप्रचितानामितिपदं स्वयंपतितग्रहणं निषेधयति ॥ १ माघे फाल्गुने वेतिग्रहणवचनात्तथैव गृहीतानामधिकार इत्यागमादुन्नीयते ॥ २ स्वरस इहामलकस्यैव भवति अधिकारात् ॥ ३ शाकः बृहत्पत्त्रस्तरुः ॥ ४ कृत्तानामिति छिन्नानाम् ॥ ५ इह गोमयाग्न्याद्युपकरणनियमेनैव शक्त्युत्कर्षो भवतीति ऋषिवचनादुन्नीयते ॥ ६ यदुक्तमृषयस्त्वेव जानन्ति योगसंयोगजं फलमिति ॥ ७ एवमन्यत्रापि इतिकर्तव्यतानियमो व्याख्येयः ॥ ८ कृष्णाजिनस्येति कृष्णसाराजिनस्य ॥ ९] तपसा ब्रह्मचर्येण यानेन प्रशमेन च । रसायनविधानेन कालयुक्तेन चायुषा ॥ ६,१.३.७ स्थिता महर्षयः पूर्वं नहि किंचिद्रसायनम् । ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ॥ ६,१.३.८ [{आयुर्वेददीपिका} सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह तपसेत्यादि ॥ १ कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव ॥ २ स्थिता इति दीर्घकालजीविनः ॥ ३ विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलतामाह न हीत्यादि ॥ ४] संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत्सदा । सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः ॥ ६,१.३.९ संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम् । त्र्यहोषवासी शुक्लस्य प्रविश्यामलकीवनम् ॥ ६,१.३.१० बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम् । गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ॥ ६,१.३.११ तदा ह्यवश्यममृतं वसत्यामलके क्षणम् । शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥ ६,१.३.१२ भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् । जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः ॥ ६,१.३.१३ सौहित्यमेषां गत्वा तु भवत्यमरसंनिभः । स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक्च रूपिणी ॥ ६,१.३.१४ [{आयुर्वेददीपिका} ब्रह्मचारित्वेनेन्द्रियनियमे लब्धेऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशयोपदर्शनार्थः ॥ १ पौषादिषु संवत्सरान्तत्वं नियमदिनादारभ्य वर्षपूरणेन ज्ञेयम् ॥ २ फाल्गुनीमित्यस्यान्ते प्राप्येति शेषः ॥ ३ न द्रुममारोहेतित्यस्येह आरुह्य द्रुममिति वचनेनापवादः ॥ ४ जपन् ब्रह्मेति ओंकारं जपन् ॥ ५ अमृतागमादिति अमृतागमपर्यन्तम् ॥ ६ सौहित्यमेषामिति करणे षष्ठी ॥ ७ वाग्रूपिणीति तदधिष्ठात्री देवता ॥ ८] त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे । क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥ ६,१.३.१५ तीक्ष्णायसस्य पत्त्राणि वह्निवर्णानि साधयेत् । चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥ ६,१.३.१६ ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् । तानि चूर्णानि मधुना रसेनामलकस्य च ॥ ६,१.३.१७ युक्तानि लेहवत्कुम्भे स्थितानि घृतभाविते । संवत्सरं निधेयानि यवपल्ले तथैव च ॥ ६,१.३.१८ दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः । संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥ ६,१.३.१९ प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् । एष एव च लौहानां प्रयोगः संप्रकीर्तितः ॥ ६,१.३.२० नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना । स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः ॥ ६,१.३.२१ धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः । भवेत्समां प्रयुञ्जानो नरो लौहरसायनम् ॥ ६,१.३.२२ अनेनैव विधानेन हेम्नश्च रजतस्य च । आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥ ६,१.३.२३ [{आयुर्वेददीपिका} क्षार इति परिस्रावितक्षारोदके ॥ १ क्षारे लावण इति ज्योतिष्मत्याः क्षारे ॥ २ साधयेदिति निर्वापयेत् ॥ ३ लौहानामित्यनेनैव लोहान्तर्निविष्टयोः सुवर्णरजतयोर्ग्रहणे सिद्धे पुनस्तयोर्वचनं तयोर्विशेषेणादरोपदर्शनार्थम् ॥ ४ रसायनप्रभावादेव महाधनत्वमिति ज्ञेयम् ॥ ५] ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला । पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥ ६,१.३.२४ एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना । द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च ॥ ६,१.३.२५ सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत् । घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ॥ ६,१.३.२६ जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् । आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् ॥ ६,१.३.२७ परमोजस्करं चैतत्सिद्धमैन्द्रं रसायनम् । नैनत्प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् ॥ ६,१.३.२८ श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च । मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ॥ ६,१.३.२९ [{आयुर्वेददीपिका} मत्स्याख्यको मच्छु इति लोके ख्यातः अन्ये तु ऐन्द्रीभेदं मत्स्याख्यकमाहुः ॥ १ त्रियवकानिति त्रियवप्रमाणान् ॥ २ घृतप्रभूतमित्यन्नविशेषणम् ॥ ३ कृत्या अभिचारः ॥ ४] मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् । रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ ६,१.३.३० आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥ ६,१.३.३१ [{आयुर्वेददीपिका} मण्डूकपर्ण्या इत्यादयश्चत्वारो योगाः ॥ १] पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा । रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥ ६,१.३.३२ तिस्रस्तिस्रस्तु पूर्वाह्णं भुक्त्वाग्रे भोजनस्य च । पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥ ६,१.३.३३ प्रयोज्या मधुरसम्मिश्रा रसायनगुणैषिणा । जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ॥ ६,१.३.३४ अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् । वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ॥ ६,१.३.३५ [{आयुर्वेददीपिका} पञ्चेत्यादौ संख्याव्यतिक्रमेणानुक्तसंख्यानामपि पिप्पलीनामुपयोगं सूचयति ॥ १ यदापि त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पलीं क्षारं लवणमित्युक्तं तथापीह द्रव्यान्तरसंयुक्तानां पिप्पलीनामभ्यासो न विरुद्धः किंवा उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात्स निषेधो ज्ञेयः ॥ २ किंशुकः पलाशः ॥ ३] क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् । वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः ॥ ६,१.३.३६ जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा । पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ॥ ६,१.३.३७ पिष्टास्ता बलिभिः सेव्याः शृता मध्यबलैर्नरैः । चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति ॥ ६,१.३.३८ दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः । प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः ॥ ६,१.३.३९ बृंहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम् । वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ ६,१.३.४० जरणान्तेऽभयामेकां प्राग्भुक्ताद्द्वे विभीतके । भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥ ६,१.३.४१ प्रयोजयन् समामेकां त्रिफलाया रसायनम् । जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥ ६,१.३.४२ त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम् । तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम् ॥ ६,१.३.४३ प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते । अजरोऽरुक्समाभ्यासाज्जीवेच्चैव समाः शतम् ॥ ६,१.३.४४ मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा । त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥ ६,१.३.४५ सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा । विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ॥ ६,१.३.४६ संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा । भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ॥ ६,१.३.४७ अनम्लं च कषायं च कटु पाके शिलाजतु । नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ ६,१.३.४८ हेम्नश्च रजतात्ताम्राद्वरात्कृष्णायसादपि । रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत् ॥ ६,१.३.४९ वातपित्तकफघ्नैश्च निर्यूहैस्तत्सुभावितम् । वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥ ६,१.३.५० [{आयुर्वेददीपिका} शिलाजतुरसायनं दर्शयितुं शिलाजतुनोऽभ्यर्हितस्य गुणानेव तावदाह अनम्लमित्यादि ॥ १ वरादिति श्रेष्ठात् ॥ २ सुश्रुते यद्यपि त्रपुसीसम्भवं प्रक्षिप्य षड्विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तं तथापीह रसायनाधिकारे तदधिकृतचतुर्विधमेवोक्तम् ॥ ३] प्रक्षिप्तोद्धृतमप्येनत्पुनस्तत्प्रक्षिपेद्रसे । कोष्णे सप्ताहमेतेन विधिना तस्य भावना ॥ ६,१.३.५१ पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह । तत्पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥ ६,१.३.५२ जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् । मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ ६,१.३.५३ प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः । निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥ ६,१.३.५४ पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता । [{आयुर्वेददीपिका} शिलाजतुभावनाविधिमाह प्रक्षिप्तेत्यादि ॥ १ प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम् ॥ २ लौहैः सहेति भागानियमे लोहसमानभागता शिलाजतुनः ॥ ३ प्रयोगः सप्तसप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः एवं त्रयश्चैकश्च सप्तक इत्यत्रापि बोद्धव्यम् ॥ ४] जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ॥ ६,१.३.५५ हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः । जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ ६,१.३.५६ मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः । कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥ ६,१.३.५७ रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते । ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ॥ ६,१.३.५८ यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः । कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ ६,१.३.५९ गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः । रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥ ६,१.३.६० यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु । विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ॥ ६,१.३.६१ [{आयुर्वेददीपिका} सविधिमिति विधानसहितम् ॥ १ शिलाजतुविधानं च यथाक्रमं वातपित्ते इत्यादिग्रन्थेन वक्तव्यम् ॥ २ हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते यतो न साक्षात्सुवर्णादिभ्य एव शिलाजतु स्रवति ॥ ३ मृत्स्नं मसृणमच्छं स्वच्छम् ॥ ४ यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादुः पाक उक्तः स उत्सर्गापवादन्यायेन ज्ञेयः ॥ ५ वीर्यं तु ताम्रभवस्योष्णस्य तथा त्रयाणां च शीतत्वयुक्तानामत्युष्णशीतवीर्यताया अवकाशो नास्ति अतः सामान्यगुणकथने नात्युष्णशीतमितिपदेन उष्णस्य शीतस्य च वीर्यस्य प्रकर्षो निषिध्यते तेनानुष्णाशीतत्वं विधीयते ततश्च शिलाजतुनि वीर्यं शीतमुष्णं वाभिहितमपि न बलवद्भवतीति लभ्यते ॥ ६] शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च । वर्जयेत्सर्वकालं तु कुलत्थान्परिवर्जयेत् ॥ ६,१.३.६२ ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम् । लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ॥ ६,१.३.६३ पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः । आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ ६,१.३.६४ न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ॥ ६,१.३.६५ करप्रचितिके पादे दश षट्च महर्षिणा । रसायनानां सिद्धानां संयोगाः समुदाहृताः ॥ ६,१.३.६६ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः ॥ ६,१.३.६७ [{आयुर्वेददीपिका} शिलाजतुप्रयोगेष्विति बहुवचनमालोडनादिभेदेन प्रयोगभेदं बुद्धिस्थीकृत्य ज्ञेयम् ॥ १ शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात्क्षीरादिप्रयोगः ॥ २ सर्वकालमिति यावद्रसायनाहिता गुणाः सन्ति ॥ ३ केचित्तु यावज्जीवं कुलत्थवर्जनमाहुः यदुक्तं सुश्रुते तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेतिति ॥ ४ शिलाजतुप्रयोगं स्तौति न सोऽस्तीत्यादि ॥ ५] *************************************************************** Cअरकसंहिता, Cइकित्सास्थान, १ [ऋअसायनाध्याय], ४ [आयुर्वेदसमुत्थानीय] अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः ॥ ६,१.४.१ इति ह स्माह भगवानात्रेयः ॥ ६,१.४.२ [{आयुर्वेददीपिका} आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्यादुच्यते आयुर्वेदसमुत्थानमस्मिन्नस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः ॥ १] ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः । ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिंनरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ॥ ६,१.४.३ [{आयुर्वेददीपिका} ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात् ॥ १ सम्पन्नमनु उपयुज्यन्त इति साम्पन्निकाः ॥ २ नातिकल्या इति नातिनीरोगाः ॥ ३ इतिकर्तव्यता व्यापारः ॥ ४ इन्द्रपर्यायकथनं स्तुत्यर्थं स्तुतिश्चेयमिन्द्रस्यायुर्वेदप्रकाशकत्वात् ॥ ५] तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत्स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् । अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च ग्राम्यो हि वासो मूलमशस्तानां तत्कृतः पुण्यकृद्भिरनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणामात्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥ ६,१.४.४ तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ॥ ६,१.४.५ [{आयुर्वेददीपिका} असुखानुबन्धमिति रोगरूपमसुखमनुबध्नातीत्यसुखानुबन्धम् ॥ १ मूलमिति कारणम् ॥ २ कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः ॥ ३ अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः ॥ ४ प्रजापतये ब्रह्मेति छेदः ॥ ५ प्रजानामल्पादिकमायुर्मत्त्वेति योजना ॥ ६ अल्पत्वातायुष इति शेषः ॥ ७ अल्पस्तपःप्रभृतीनां संचयोऽस्मिनल्पे आयुषि तत्तथा ॥ ८ प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते ॥ ९ अथशब्दश्चाधिकारे ॥ १० तेन मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात्तमनुश्रोतुमर्हतेति योजना ॥ ११ यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः तथापि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस्तानुपदिशति ॥ १२] अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः संक्रम्योवाच एतत्सर्वमनुष्ठेयमयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी विदारी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्त्रा अतिच्छत्रा मेदा महामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात्परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः ॥ ६,१.४.६ [{आयुर्वेददीपिका} महाश्रावणी अलम्बुषा ॥ १ अतिच्छत्रा मधुरिका ॥ २] ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्त्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बिल्वजसदृशपत्त्रा काष्ठगोधा नामौषधिर्गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजानामौषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः सम्भवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति ॥ ६,१.४.७ [{आयुर्वेददीपिका} ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः ॥ १ आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद्वर्णयन्ति ॥ २ अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते नलौकिकैः लोकाप्रसिद्धत्वात् ॥ ३ सोम इव वर्धते हीयत इति यथासोमवृद्धिक्षयौ तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः ॥ ४ प्रलीयत इति द्रुतो भवति अन्ये तु मूर्छतीति वर्णयन्ति ॥ ५ प्रत्यवस्थापनमिति आहारसेवायां योज्यमित्यर्थः ॥ ६ सर्ववाचोगतानि सर्ववाक्यविशेषाः ॥ ७] दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः । शक्यः सोढुमशक्यस्तु स्यात्सोढुमकृतात्मभिः ॥ ६,१.४.८ ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि । भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥ ६,१.४.९ वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः । शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः ॥ ६,१.४.१० [{आयुर्वेददीपिका} एतद्दिव्यं रसायनमृषिभिस्तद्विधैर्वा सेव्यमिति दर्शयन्नाह दिव्यानामित्यादि ॥ १ विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति भवन्त्योऽपि निर्वार्या भवन्तीति भावः ॥ २] यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा । मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु ॥ ६,१.४.११ पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः । रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥ ६,१.४.१२ [{आयुर्वेददीपिका} सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति तदाह यास्त्वित्यादि ॥ १ क्षेत्रगुणैरिति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः ॥ २ तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम् ॥ ३ मध्यमेन च कर्मणेति असम्यक्प्रयोगेण किंवा अनतिमहतादृष्टेन ॥ ४] बल्यानां जीवनीयानां बृंहणीयाश्च या दश । वयसः स्थापनानां च खदिरस्यासनस्य च ॥ ६,१.४.१३ खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च । मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥ ६,१.४.१४ शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च । ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च ॥ ६,१.४.१५ त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च । इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ॥ ६,१.४.१६ रसाः पृथक्पृथग्ग्राह्याः पलाशक्षार एव च । एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥ ६,१.४.१७ द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः । तत्साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत् ॥ ६,१.४.१८ तत्रामलकचूर्णानामाढकं शतभावितम् । स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥ ६,१.४.१९ शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् । तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्छितं च तत् ॥ ६,१.४.२० सुचौक्षे मार्त्तिके कुम्भे मासार्धं घृतभाविते । मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत् ॥ ६,१.४.२१ हेमताम्रप्रवालानामयसः स्फटिकस्य च । मुक्तावैडूर्यशङ्खानां चूर्णानां रजतस्य च ॥ ६,१.४.२२ प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम् । जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥ ६,१.४.२३ सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम् । सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ॥ ६,१.४.२४ परमूर्जस्करं चैव वर्णस्वरकरं तथा । विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥ ६,१.४.२५ सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके । प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम् ॥ ६,१.४.२६ [{आयुर्वेददीपिका} बल्यानामित्यादौ जोङ्गकमगुरु ॥ १ द्वारदा शाकतरुः कपिकच्छुर्वा ॥ २ श्रीपर्णी गम्भारी ॥ ३ पलाशक्षारः पलाशक्षारोदकम् ॥ ४ सुचौक्षे इति सुविशुद्धे ॥ ५ अग्निसमामिति अग्न्यनुरूपाम् ॥ ६ षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद्ग्राह्यः ॥ ७] समर्थानामरोगाणां धीमतां नियतात्मनाम् । कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ॥ ६,१.४.२७ अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः । तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः ॥ ६,१.४.२८ रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि । यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥ ६,१.४.२९ [{आयुर्वेददीपिका} कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषानाह समर्थानामित्यादि ॥ १ क्षणिनामिति कृतक्षणानाम् ॥ २ सूर्यमारुतसेवयापि क्रियत इति सौर्यमारुतिकः ॥ ३] सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् । अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥ ६,१.४.३० जपशौचपरं धीरं दाननित्यं तपस्विनम् । देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ॥ ६,१.४.३१ आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् । समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ॥ ६,१.४.३२ देशकालप्रमाणज्ञं युक्तिज्ञमनहंकृतम् । शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम् ॥ ६,१.४.३३ उपासितारं वृद्धानामास्तिकानां जितात्मनाम् । धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥ ६,१.४.३४ गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम् । रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ॥ ६,१.४.३५ [{आयुर्वेददीपिका} सामान्येन रसायनविषयपुरुषगुणानाह सत्यवादिनमित्यादि ॥ १ करुणया सत्त्वानि पश्यतीति करुणवेदी ॥ २ असंकीर्णः असंकीर्णभोजी ॥ ३ नित्यं रसायनप्रयोगो यस्य स नित्यरसायनः ॥ ४] यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान् । रसायनगुणैर्जन्तुर्युज्यते न कदाचन ॥ ६,१.४.३६ योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः । मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥ ६,१.४.३७ तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु । अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ॥ ६,१.४.३८ [{आयुर्वेददीपिका} मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस्तदभिधानमितरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम् ॥ १ अरुजेभ्योऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन्न वाच्यमिति योजना ॥ २] ये रसायनसंयोगा वृष्ययोगाश्च ये मताः । यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ॥ ६,१.४.३९ प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम् । अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः ॥ ६,१.४.४० अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ । यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥ ६,१.४.४१ प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च । वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥ ६,१.४.४२ चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा । सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥ ६,१.४.४३ भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः । वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥ ६,१.४.४४ एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ । बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ॥ ६,१.४.४५ ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च । धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥ ६,१.४.४६ प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते । सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥ ६,१.४.४७ इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः । स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ॥ ६,१.४.४८ अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः । एते प्रयतैरेवमश्विनौ भिषजाविति ॥ ६,१.४.४९ मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः । किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः ॥ ६,१.४.५० शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः । प्राणिभिर्गुरुवत्पूज्यः प्राणाचार्यः स हि स्मृतः ॥ ६,१.४.५१ [{आयुर्वेददीपिका} सम्प्रति रसायनादिसिद्धिर्वैद्याधीना तेन वैद्यस्तुतिमारभते य इत्यादि ॥ १ प्राणाचार्यमित्यत्र प्राणिवर्यमिति वा पाठः तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः ॥ २ यज्ञं वहत इति यज्ञवाहौ ॥ ३ एतद्यज्ञवाहत्वमेव दर्शयति दक्षस्य हीत्यादि ॥ ४ पूष्णः सूर्यस्य भगोऽपि सूर्यभेदः ॥ ५ सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः सोमातिपचित इति वा पाठः तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति ॥ ६ ग्रहाः सोमपानपात्राणि ॥ ७ स्तोत्राणि स्तवाः स्तावकवाचः शस्त्राणीति केचित्संशस्यतेऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः शस्त्राणि अस्त्राण्येव वषड्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव ॥ ८ धूम्राश्च पशव इति धूम्रवर्णपशवः एवंवर्णाश्च पशवः श्रेष्ठा भवन्ति ॥ ९ सवन इति यज्ञस्थाने ॥ १० सौत्रामणी यज्ञविशेषः ॥ ११ अतिशक्तित इति निजशक्तेरप्यतिरेकेण ॥ १२] विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते । अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥ ६,१.४.५२ विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा । ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः ॥ ६,१.४.५३ नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत् । प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम् ॥ ६,१.४.५४ [{आयुर्वेददीपिका} वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह विद्येत्यादि ॥ १ तेन विद्यायोगाद्वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति ॥ २ ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद्भवति तयोर्यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्ममितरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था ॥ ३] चिकित्सितस्तु संश्रुत्य यो वासंश्रुत्य मानवः । नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ॥ ६,१.४.५५ भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् । आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम् ॥ ६,१.४.५६ धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः । प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम् ॥ ६,१.४.५७ नार्थार्थं नापि कामार्थमथ भूतदयां प्रति । वर्तते यश्चिकित्सायां स सर्वमतिवर्तते ॥ ६,१.४.५८ कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम् । ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥ ६,१.४.५९ दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम् । छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ॥ ६,१.४.६० धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते । न हि जीवितदानाद्धि दानमन्यद्विशिष्यते ॥ ६,१.४.६१ परो भूतदया धर्म इति मत्वा चिकित्सया । वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते ॥ ६,१.४.६२ [{आयुर्वेददीपिका} संश्रुत्येति प्रतिज्ञाय ॥ १ चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम् ॥ २ ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या इतरा त्वसारकल्पा पांशुराशितुल्या ॥ ३ वैवस्वतक्षयमिति यमगृहम् ॥ ४] आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम् । अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥ ६,१.४.६३ सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः । आयुर्वेदसमुत्थाने तत्सर्वं संप्रकाशितम् ॥ ६,१.४.६४ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ॥ ६,१.४.६५ [{आयुर्वेददीपिका} संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ॥ १ आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः तत्संप्रकाशितमिति योजना ॥ २] *********************************************************************** Cअरकसंहिता, Cइकित्सास्थान, २ [Vआजीकरणाध्याय], १ [षंयोगशरमूलीय] अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः ॥ ६,२.१.१ इति ह स्माह भगवानात्रेयः ॥ ६,२.१.२ [{आयुर्वेददीपिका} स्वस्थोर्जस्करत्वसामान्यात्रसायनमनु वाजीकरणं वाच्यं तत्रापि वाजीकरणे प्रवृत्त्युपदर्शकप्रकरणयुक्तत्वादादौ संयोगशरमूलीय उच्यते । संयोगः शरमूलानामस्मिन्नस्तीति संयोगशरमूलीयः ॥ १] वाजीकरणमन्विच्छेत्पुरुषो नित्यमात्मवान् । तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ॥ ६,२.१.३ पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः । [{आयुर्वेददीपिका} अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद्वाजीकरणम् ॥ १ उक्तं हि वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियमित्यादि ॥ २ अन्विच्छेदिति रसायनान्महाफलात्तदपेक्षयाल्पफलं वाजीकरणं पश्चादिच्छेत् ॥ ३ पुरुष इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति ॥ ४ उक्तं हि । अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियो व्रजन् । उपतप्येत सहसा तडागमिव काजलम् ॥ ५ शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् । स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजनिति ॥ ६ नित्यमित्यनेन न रसायनवत्संप्रयोगो वृष्यस्य किंत्वाहारवत्सर्वदोषयोग इति दर्शयति ॥ ७ आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति स हि वृष्योपयोगादुपचितधातुः सन्नगम्यागमनमपि कुर्यात् ॥ ८ धर्मादयो वृष्यायत्ता एव यथा भवन्ति तदाह पुत्रस्येत्यादि ॥ ९ आयतनं कारणम् ॥ १० एते गुणा इति धर्मादयः वृष्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः सम्पादयतीत्यर्थः ॥ ११ वाजीकरणसेवया चेह युक्तयैव ऋतुकाले च मैथुनं प्राधान्येनाभिप्रेतं तेन तिस्रैषणीये त्रय उपस्तम्भाः इत्यादिग्रन्थेन ब्रह्मचर्यं यदुक्तं तदृतुकाले यथाविधिकृतमैथुनाप्रतिषेधकमिति न विरोधः ॥ १२] वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ॥ ६,२.१.४ इष्टा ह्येकैकशोऽप्यर्थाः परं प्रीतिकराः स्मृताः । किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ॥ ६,२.१.५ संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते । स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम् । स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम् ॥ ६,२.१.६ धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः । सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ॥ ६,२.१.७ या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता । [{आयुर्वेददीपिका} सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह वाजीत्यादि ॥ १ क्षेत्रमिव क्षेत्रं तत्र शुक्ररूपबीजप्ररोहणात् ॥ २ अर्था इति शब्दादयः ते च स्त्रीगताधररसकलविङ्करुतरूपादयः प्रसिद्धा एव ॥ ३ धर्मार्थौ स्त्रीष्विति सहैव पत्न्या धर्मश्चर्य इत्याद्युपदेशाद्धर्मः तथानुरक्ता गृहिणी अर्थरक्षणादि करोतीत्यर्थ इत्यर्थः ॥ ४ स्त्रिया लक्ष्म्याः संयोगे धनसम्पद्भवतीति स्त्रीषु लक्ष्मीः प्रतिष्ठितेत्यर्थः ॥ ५ वश्या आयत्ता ॥ ६ शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुःषष्टिकलाशिक्षिता ॥ ७] नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम् ॥ ६,२.१.८ तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः । वयोरूपवचोहावैर्या यस्य परमाङ्गना ॥ ६,२.१.९ प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा । हृदयोत्सवरूपा या या समानमनःशया ॥ ६,२.१.१० समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः । या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः ॥ ६,२.१.११ यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत् । यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः ॥ ६,२.१.१२ शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते । याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् ॥ ६,२.१.१३ अपूर्वामिव यां याति नित्यं हर्षातिवेगतः । गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति ॥ ६,२.१.१४ सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः । अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् ॥ ६,२.१.१५ शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः । [{आयुर्वेददीपिका} रूपादिव्यतिरेकेणापि काचित्कस्यचित्कर्मवशाद्वृष्या स्त्री भवतीति दर्शयन्नाह नानेत्यादि ॥ १ दैवयोगादिति प्राक्तनकर्मवशात् ॥ २ विवर्धन्त इति वृष्यत्वं सम्पादयन्ति ॥ ३ हावो नरं प्रति स्त्रीणां शृङ्गारचेष्टाविशेषः ॥ ४ उक्तं च भरतेन प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः ॥ ५ तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः इति ॥ ६ दैवादिति प्राक्तनकर्मणः ॥ ७ कर्मण इति ऐहिकाद्वशीकरणादिकर्मणः ॥ ८ मनःशयः कामः ॥ ९ पाशभूतेति मनैन्द्रियबन्धहेतुत्वात् ॥ १० नानाभावा हि मानवाः इत्यनेन रूपादिगुणयोगेन सर्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति ॥ ११] अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः ॥ ६,२.१.१६ अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः । चित्रदीपः सरः शुष्कमधातुर्धातुसंनिभः ॥ ६,२.१.१७ निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः । अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ॥ ६,२.१.१८ मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते । बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः ॥ ६,२.१.१९ बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः । मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम् ॥ ६,२.१.२० बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः । प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम् ॥ ६,२.१.२१ यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः । तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥ ६,२.१.२२ वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च । उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् ॥ ६,२.१.२३ वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम् । [{आयुर्वेददीपिका} सम्प्रति वृष्यप्रयोगसाध्यस्य पुत्रस्योपादेयेतां दर्शयन्नाह अच्छाय इत्यादि ॥ १ एकशाख इति एकस्वरूप इत्यर्थः ॥ २ चित्रलिखितो दीपश्चित्रदीपः ॥ ३ अधातुर्धातुसंनिभ इति असुवर्णादिरूपः सुवर्णादिवदाभासते यो जातुषकङ्कणादिः ॥ ४ पूली नपुंसकधर्मित्वात् ॥ ५ तृणपूली पुरुषाकृतिरिति भाषया पुरुषार्थक्रियाविरहित्वं दर्शयति ॥ ६ कामसुखानि चेत्यनेन पुत्रोत्पादातिरिक्तं नातिश्लाघ्यं फलं दर्शयति ॥ ७ कामसुखानि हि ऐहिकान्येव परं न पुत्रवदुभयलोकोपकारकाणि ॥ ८ उपभोगे मैथुने सुखं कुर्वन्तीत्युपभोगसुखाः किंवा उपभोक्तुं सुखा उपभोगसुखाः । वीर्यं शुक्रम् ॥ ९] शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुबालिका ॥ ६,२.१.२४ शतावरी पयस्या च विदारी कण्टकारिका । जीवन्ती जीवको मेदा वीरा चर्षभको बला ॥ ६,२.१.२५ ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा । एषां त्रिपलिकान् भागान्माषाणामाढकं नवम् ॥ ६,२.१.२६ विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत् । तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ॥ ६,२.१.२७ आत्मगुप्ता मधूकानि खर्जूराणि शतावरी । विदार्यामलकेक्षूणां रसस्य च पृथक्पृथक् ॥ ६,२.१.२८ सर्पिषश्चाढकं दद्यात्क्षीरद्रोणं च तद्भिषक् । साधयेद्घृतशेषं च सुपूतं योजयेत्पुनः ॥ ६,२.१.२९ शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक् । पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च ॥ ६,२.१.३० त्वगेलाकेसराणां च चूर्णैरर्धपलोन्मितैः । मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक् ॥ ६,२.१.३१ पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् । एष वृष्यः परं योगो बृंहणो बलवर्धनः ॥ ६,२.१.३२ अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् । [{आयुर्वेददीपिका} काण्डेक्षुः बृहदिक्षुः ॥ १ इक्षुबालिका खग्गालिका ॥ २ पयस्या क्षीरविदारी ॥ ३ वीरा क्षीरकाकोली ॥ ४ फल्गुः काष्ठोदुम्बरिका ॥ ५ शतावरीत्यन्तेन कल्कच्छेदः ॥ ६ वंशरोचना तुगाक्षीरी अन्ये वंशरोचनानुकारि पार्थिवद्रव्यं तालधीति वदन्ति ॥ ७ स्त्याना इति घनाः ॥ ८] माषाणामात्मगुप्ताया बीजानामाढकं नवम् ॥ ६,२.१.३३ जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम् । मधुकं चाश्वगन्धां च साधयेत्कुडवोन्मिताम् ॥ ६,२.१.३४ रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः । विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥ ६,२.१.३५ दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् । शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक्पृथक् ॥ ६,२.१.३६ भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् । पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत् ॥ ६,२.१.३७ य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् । [{आयुर्वेददीपिका} द्वितीयप्रयोगे रसे इति क्वाथे ॥ १] शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् ॥ ६,२.१.३८ गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत् । तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ॥ ६,२.१.३९ सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः । एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः ॥ ६,२.१.४० अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् । शिखितित्तिरिहंसानामेवं पिण्डरसो मतः । बलवर्णस्वरकरः पुमांस्तेन वृषायते ॥ ६,२.१.४१ [{आयुर्वेददीपिका} उत्कारिका मूषिकोत्कराकारा ॥ १ शिखितित्तिरिहंसानां पिण्डरसैर्व्यस्तसमस्ताश्चत्वारः पिण्डरसाः ॥ २] घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे । भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ॥ ६,२.१.४२ ईषत्सलवणं युक्तं धान्यजीरकनागरैः । एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ॥ ६,२.१.४३ चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे । कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ॥ ६,२.१.४४ नवसर्पिषि संतप्तान् फलाम्लान् कारयेद्रसान् । मधुरान्वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ॥ ६,२.१.४५ तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत्पयः । न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥ ६,२.१.४६ माषसूपेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम् । पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् । न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा । तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥ ६,२.१.४७ निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत् ॥ ६,२.१.४८ हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत् ॥ ६,२.१.४९ [{आयुर्वेददीपिका} निशीत्यनेन सकलनिशामैथुनेऽपीति दर्शयति ॥ १ हंसेत्यादि हंसबर्हिदक्षाणामण्डप्रयोगा यद्यपि भिन्नाः तथापि प्रयोगापेक्षया एक एवायं प्रयोगः ॥ २ एवं संग्रहोक्ताः हंसबर्हिदक्षाणामेकप्रयोगेण पञ्चदशप्रयोगाः पूर्यन्ते ॥ ३] स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले । वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च ॥ ६,२.१.५० तस्मात्पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः । सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ॥ ६,२.१.५१ [{आयुर्वेददीपिका} वृष्ययोगाश्च शुद्धदेहैरेव कर्तव्या इति दर्शयन्नाह स्रोतःस्वित्यादि ॥ १ मितमिति मात्रावत् ॥ २ क्लिष्टे इति म्लाने ॥ ३] वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या । ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ॥ ६,२.१.५२ दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः । उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः ॥ ६,२.१.५३ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः ॥ ६,२.१.५४ [{आयुर्वेददीपिका} संग्रहे यस्य चैव येति यस्य या वृष्येत्यर्थः ॥ १] **************************************************************** Cअरकसंहिता, Cइकित्सास्थान, २ [Vआजीकरणाध्याय], २ [आसिक्तक्षीरिक] अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः ॥ ६,२.२.१ इति ह स्माह भगवानात्रेयः ॥ ६,२.२.२ [{आयुर्वेददीपिका} आसिक्तक्षीरिकं वृष्यपादाभिधानप्रसङ्गात्पदान्तस्य विशिष्टसम्बन्धावयवतयोच्यते ॥ १ आसिक्तक्षीरमिति पदमस्त्यस्मिन्निति आसिक्तक्षीरी तत्र स्वार्थिकः कप्रत्ययः किंवा ढक्प्रत्ययेन वैशेषिकशब्दवतासिक्तक्षीरिक इति साधनीयम् ॥ २] आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम् । उदूखले समापोथ्य पीडयेत्क्षीरमर्दितम् ॥ ६,२.२.३ गृहीत्वा तं रसं पूतं गव्येन पयसा सह । बीजानामात्मगुप्ताया धान्यमाषरसेन च ॥ ६,२.२.४ बलायाः शूर्पपर्ण्याश्च जीवन्त्या जीवकस्य च । ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ॥ ६,२.२.५ शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि । संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ॥ ६,२.२.६ तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च । गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ॥ ६,२.२.७ सान्द्रीभूतं च कुर्यात्प्रभूतमधुशर्करम् । गुटिका बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत् ॥ ६,२.२.८ ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः । पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम् ॥ ६,२.२.९ [{आयुर्वेददीपिका} आसिक्तक्षीरमिति क्षीरसेकवृद्धम् ॥ १ यदुक्तं जतूकर्णे । क्षीरसेकवृद्धं षष्टिकं पक्वमित्यादि ॥ २ शुद्धषष्टिकमिति गौरषष्टिकम् ॥ ३ अत्र बलादिरसानां तुल्यमानताः किंवा मात्राशब्दस्याल्पवचनत्वाद्बलादिरसानामल्पमात्रत्वम् ॥ ४ प्रक्षेप्यचूर्णप्रमाणमाह यैः स सान्द्रीभवेद्रस इति यावन्मानेन चूर्णेन रसस्य सान्द्रता भवति तावन्मात्रं चूर्णं ग्राह्यम् ॥ ५ प्रभूतत्वं मधुशर्करयोर्यावतात्यर्थमधुरत्वं स्यात्तावज्ज्ञेयम् ॥ ६ अत्र च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जनक्रियायामग्निसंयोगो न विरोधमावहति तथा हि सुश्रुतेऽपि त्रिफलायस्कृतौ मधुनोऽग्निसम्बन्धो भवत्येव ॥ ७ आत्मजमिति हर्षभूतात्मजं शुक्रमिति यावत् ॥ ८] चटकानां सहंसानां दक्षाणां शिखिनां तथा । शिशुमारस्य नक्रस्य भिषक्शुक्राणि संहरेत् ॥ ६,२.२.१० गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि । षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ॥ ६,२.२.११ एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा । पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः ॥ ६,२.२.१२ एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा । शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः ॥ ६,२.२.१३ आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् । शृङ्गाटकानि मृद्वीकां साधयेत्प्रसृतोन्मितम् ॥ ६,२.२.१४ क्षीरप्रस्थं जलप्रस्थमेतत्प्रस्थावशेषितम् । शुद्धेन वाससा पूतं योजयेत्प्रसृतैस्त्रिभिः ॥ ६,२.२.१५ शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च । तत्पाययेत्सक्षौद्रं षष्टिकान्नं च भोजयेत् ॥ ६,२.२.१६ जरापरीतोऽप्यबलो योगेनानेन विन्दति । नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ॥ ६,२.२.१७ [{आयुर्वेददीपिका} दक्षः कुक्कुटः ॥ १ शुक्राणीति यद्यप्युक्तं तथापि चटकादिशुक्रग्रहणस्याशक्यत्वात्समानगुणानि तदण्डान्यपीह गृह्यन्ते ॥ २ वर्तिका वर्त्याकारा भक्ष्याः ॥ ३ धाना इति धानाकारा भक्ष्याः ॥ ४ अयं तुल्यद्रव्यतया विविधभक्ष्यरूपोऽप्येक एव योगः ॥ ५] खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम् । खर्जूराणि मधूकानि मृद्वीकामजडाफलम् ॥ ६,२.२.१८ पलोन्मितानि मतिमान् साधयेत्सलिलाढके । तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत् ॥ ६,२.२.१९ क्षीरशेषेण तेनाद्याद्घृताढ्यं षष्टिकौदनम् । सशर्करेण संयोग एष वृष्यः परं स्मृतः ॥ ६,२.२.२० [{आयुर्वेददीपिका} अजडा शूकशिम्बी ॥ १] जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम् । खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् ॥ ६,२.२.२१ शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम् । सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ॥ ६,२.२.२२ षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् । वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम् ॥ ६,२.२.२३ [{आयुर्वेददीपिका} जीवकेत्यादौ विदार्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साधनीयम् ॥ १] दध्नः सरं शरच्चन्द्रसंनिभं दोषवर्जितम् । शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान् ॥ ६,२.२.२४ युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे । मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ॥ ६,२.२.२५ पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् । वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥ ६,२.२.२६ [{आयुर्वेददीपिका} युक्त्येति यथा कटुत्वाद्यधिकं न भवति तथा मरिचादियोगः कर्तव्यः ॥ १ मार्जितमिति सुघृष्टम् ॥ २ रसालालक्षणं सचातुर्जातकाजाजि सगुडार्द्रकनागरम् ॥ ३ रसाला स्याच्छिखरिणी सुघृष्टं ससरं दधि इति ॥ ४] चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम् । शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते ॥ ६,२.२.२७ तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम् । युक्तं षष्टिकचूर्णेन सर्पिषाभिनवेन च ॥ ६,२.२.२८ पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः । य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः ॥ ६,२.२.२९ [{आयुर्वेददीपिका} चन्द्रांशुकल्पमिति अत्यर्थशुक्लम् ॥ १] एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः । हर्षान्वितो वाजिवदष्टवर्षो भवेत्समर्थश्च वराङ्गनासु ॥ ६,२.२.३० यद्यच्च किंचिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः । इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ॥ ६,२.२.३१ [{आयुर्वेददीपिका} अत्र योग्यमिति वृष्यप्रयोगसमर्थम् ॥ १] आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः । अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ॥ ६,२.२.३२ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः ॥ ६,२.२.३३ [{आयुर्वेददीपिका} पौरुषार्थिभिरिति शुक्रार्थिभिः ॥ १] ************************************************************************* Cअरकसंहिता, Cइकित्सास्थान, २ [Vआजीकरणाध्याय], ३ [ंाषपर्णभृतीय] अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः ॥ ६,२.३.१ इति ह स्माह भगवानात्रेयः ॥ ६,२.३.२ [{आयुर्वेददीपिका} माषपर्णभृतीयसम्बन्धोऽपि पूर्ववत् ॥ १] माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम् । समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ॥ ६,२.३.३ रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम् । इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत् ॥ ६,२.३.४ केवलं तु पयस्तस्याः शृतं वाशृतमेव वा । शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम् ॥ ६,२.३.५ [{आयुर्वेददीपिका} गृष्टिमेकवारप्रसूताम् ॥ १ चतुःस्तनीमित्यनेन सम्पूर्णचतुःस्तनीं दर्शयति ॥ २ रोहिणीमिति लोहितवर्णाम् ॥ ३ ऊर्ध्वशृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति वचनाज्ज्ञेयम् ॥ ४ इक्ष्वादेति इक्षुदण्डभक्षा ॥ ५ अर्जुनादा अर्जुनवृक्षपत्त्रभक्षा ॥ ६ इक्ष्वादा वा अर्जुनादा वा माषपर्णभृता वेति विकल्पत्रयम् ॥ ७ पयः शृतमशृतं वेति द्वौ योगौ ॥ ८ शर्कराक्षौद्रसर्पिर्भिर्युक्तं तदिति तृतीयः ॥ ९ एतत्प्रयोगोऽपि जतूकर्णे तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वेति ॥ १०] शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः । क्षीरसंजननैश्चैव पयः सिद्धं पृथक्पृथक् ॥ ६,२.३.६ युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् । पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ॥ ६,२.३.७ [{आयुर्वेददीपिका} पर्यायेणेति पृथक्पृथक्प्रयोक्तव्यं तेन पञ्चभिर्गणैः पञ्च योगा भवन्ति ॥ १] मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम् । श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान् ॥ ६,२.३.८ पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते । विवर्जयेत्पयःशेषं तत्पूतं क्षौद्रसर्पिषा ॥ ६,२.३.९ युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा । विपुलं लभतेऽपत्यं युवेव च स हृष्यति ॥ ६,२.३.१० [{आयुर्वेददीपिका} विवर्जयेदिति मेदादिकल्कं वर्जयेत् ॥ १ वृद्धः सप्ततेरर्वागिति ज्ञेयम् ॥ २ सप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता तथापि वृष्यप्रभावाद्भवतीति विज्ञेयम् ॥ ३] मण्डलैर्जातरूपस्य तस्या एव पयः शृतम् । अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥ ६,२.३.११ [{आयुर्वेददीपिका} जातरूपस्येति सुवर्णस्य मण्डलरूपाकृतिरिह सुवर्णस्य प्रभावाद्वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञेयम् ॥ १ तस्या एवेति माषपर्णभृतधेन्वाः ॥ २] त्रिंशत्सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः । भृष्टाः सशर्करक्षौद्राः क्षीरधारावदोहिताः ॥ ६,२.३.१२ पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा । भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत् ॥ ६,२.३.१३ श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे । घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः ॥ ६,२.३.१४ [{आयुर्वेददीपिका} प्रकुञ्चं पलम् ॥ १ क्षीरधारावदोहिता इति पिप्पलीकल्कादुपरि क्षीरधारावदोहः कर्तव्यः क्षीरं च तावद्दोह्यं यावता पानयोग्याः पिप्पल्यो भवन्ति ॥ २] फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् । कुडवश्चूर्णितानां स्यात्स्वयंगुप्ताफलस्य च ॥ ६,२.३.१५ कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः । गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् ॥ ६,२.३.१६ सर्पिषः कुडवश्चैकस्तत्सर्वं क्षीरमर्दितम् । पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः ॥ ६,२.३.१७ [{आयुर्वेददीपिका} फलानामित्यादि ॥ १ फलानामिति जीवनीयानामित्यादिभिस्त्रिभिः प्रत्येकमभिसंबध्यते ॥ २ जीवनीयानामिति षट्ककषायवर्गोक्तानां जीवकर्षभादीनां दशानाम् ॥ ३ स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम् ॥ ४ तथा रुचिकारिणामिति चतुष्ककषायवर्गोक्तानामाम्रादीनां हृद्यानां दशानामिति ॥ ५ एषां जीवनीयप्रभृतीनां फलानां चूर्णितानां मिलित्वा कुडवो ग्राह्यः ॥ ६ अन्यदतिरोहितार्थम् ॥ ७ तथा ह्ययं प्रयोगो जतूकर्णे च पठ्यते द्राक्षाखर्जूरमाषाजडागोधूमशालिघृतानां कुडवः तिलमुद्गौ द्विकौडविकौ चूर्णयित्वा इत्यादि ॥ ८] घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् । शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् ॥ ६,२.३.१८ [{आयुर्वेददीपिका} घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेप्याणामन्यतोदृष्टन्यायाद्घृतात्पादिकत्वं घृतस्य प्रास्थिकत्वम् ॥ १] कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् । प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत् ॥ ६,२.३.१९ [{आयुर्वेददीपिका} कर्षमित्यादिकान्ताः पञ्चदश प्रयोगाः ॥ १] घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा । संकल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते ॥ ६,२.३.२० कृतैककृत्याः सिद्धार्था ये चान्योन्यानुवर्तिनः । कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये ॥ ६,२.३.२१ कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः । ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः ॥ ६,२.३.२२ ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः । तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते ॥ ६,२.३.२३ अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः । गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः ॥ ६,२.३.२४ विहंगानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः । संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते ॥ ६,२.३.२५ [{आयुर्वेददीपिका} घृतक्षीराशन इत्यादिना तु वृष्यत्वार्थिन आहाराचाराभिधानम् ॥ १ नित्यमित्यनेन व्यवायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति ॥ २ कृतमेकं कृत्यं यैस्ते तथा एतच्च अन्योन्यार्थरागकारणम् ॥ ३ सिद्धार्था इति सिद्धसाध्याः अकृतार्था हि व्याकुलमनसो न कामक्षमाः ॥ ४ वृषायत इति उपचितप्रवृत्त्युन्मुखशुक्रो भवति ॥ ५] मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः । जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥ ६,२.३.२६ नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः । उन्नतिर्नीलमेघानां रम्यचन्द्रोदया निशाः ॥ ६,२.३.२७ वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः । रतिभोगक्षमा रात्र्यः संकोचागुरुवल्लभाः ॥ ६,२.३.२८ [{आयुर्वेददीपिका} मत्तद्विरेफाचरिताः इत्यादि गृहाणि च इत्यन्तं योग्यतया ऋतुविभागेनानुक्तमपि ग्रीष्म एव ज्ञेयं मेघानामित्यन्तं प्रावृषि तथा गन्धिन इत्यन्तं शरदि वल्लभा इत्यन्तं च विधानं हेमन्तशिशिरयोर्ज्ञेयम् ॥ १ संकोचं कुङ्कुमं संकोचागुरुणोः समालभनार्थं वल्लभा यासु निशासु तास्तथा ॥ २] सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः । गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च ॥ ६,२.३.२९ सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य । वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ॥ ६,२.३.३० प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च । माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ॥ ६,२.३.३१ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः ॥ ६,२.३.३२ [{आयुर्वेददीपिका} सुखा इत्यादिग्रन्थविधानं तु वसन्ताभिप्रायविहितमन्यत्राप्यविरुद्धम् ॥ १ आत्मजस्येति मन्मथस्य ॥ २ जातमदः कालो वसन्तादिः ॥ ३] ********************************************************************* Cअरकसंहिता, Cइकित्सास्थान, २ [Vआजीकरणाध्याय], ४ [ড়ुमाञ्जातबलादिक] अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः ॥ ६,२.४.१ इति ह स्माह भगवानात्रेयः ॥ ६,२.४.२ [{आयुर्वेददीपिका} पारिशेष्यात्पुमाञ्जातबलादिक उच्यते ॥ १ पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः आसिक्तक्षीरिकवच्छब्दसिद्धिः ॥ २] पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत् । यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते ॥ ६,२.४.३ न हि जातबलाः सर्वे नराश्चापत्यभागिनः । बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः ॥ ६,२.४.४ सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः । प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ॥ ६,२.४.५ नराश्चटकवत्केचिद्व्रजन्ति बहुशः स्त्रियम् । गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः ॥ ६,२.४.६ कालयोगबलाः केचित्केचिदभ्यसनध्रुवाः । केचित्प्रयत्नैर्व्यज्यन्ते वृषाः केचित्स्वभावतः ॥ ६,२.४.७ तस्मात्प्रयोगान्वक्ष्यामो दुर्बलानां बलप्रदान् । सुखोपभोगान् बलिनां भूयश्च बलवर्धनान् ॥ ६,२.४.८ पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः । बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान् ॥ ६,२.४.९ घृततैलरसक्षीरशर्करामधुसंयुताः । वस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ॥ ६,२.४.१० [{आयुर्वेददीपिका} जातबलत्वे सत्यपि नावश्यमपत्यभागित्वं भवतीति वा यथा जातबलः इत्युक्तेऽपि यथा चापत्यवान् भवेत्युक्तम् ॥ १ तदेव शुक्रवैचित्र्यं स्फोटयति न हीत्यादि ॥ २ न हि जातबलाः सर्वे इत्येकः पक्षः तथा नरा नापत्यभागिनः सर्व इति द्वितीयः पक्षो ज्ञेयः ॥ ३ एतच्छुक्रबलभेदप्रसङ्गादपरानपि शुक्रबलविशेषानाह बृहच्छरीरा इत्यादि ॥ ४ अल्पाश्रया अल्पशरीराः एते च शुक्रसारत्वेन नरीषु बलवन्तो बहुप्रजाश्च भवन्ति ॥ ५ गजवत्प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति ॥ ६ कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः ॥ ७ अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति ॥ ८ एवं प्रयत्नैर्व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते ॥ ९ सुखोपभोगानिति सुखानुष्ठानान् ॥ १० निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम् ॥ ११] पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे । कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ॥ ६,२.४.११ वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे । घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ॥ ६,२.४.१२ यथा न भिन्द्याद्गुलिकास्तथा तं साधयेद्रसम् । तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम् ॥ ६,२.४.१३ मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक् । गुटिकाः सरसास्तासां प्रयोगः शुक्रवर्धनः ॥ ६,२.४.१४ [{आयुर्वेददीपिका} वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः ॥ १ दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम् ॥ २ दाडिमसारश्च दाडिमरसः ॥ ३ मांसानामित्यादि अतिदेशयोगो द्वितीयः ॥ ४ मेद्यानामिति मेदुराणाम् ॥ ५] माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान् । घृताढ्ये माहिषरसे दधिदाडिमसारिके ॥ ६,२.४.१५ प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः । भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् ॥ ६,२.४.१६ [{आयुर्वेददीपिका} अजडा शूकशिम्बी ॥ १ भुक्तः पीतश्चेति पूर्वयोगवद्धनभागस्य भोजनं द्रवस्य च पानं ज्ञेयम् ॥ २] आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः । तप्ते सर्पिषि यः खादेत्स गच्छेत्स्त्रीषु न क्षयम् ॥ ६,२.४.१७ घृतभृष्टान् रसे छागे रोहितान् फलसारिके । अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत् ॥ ६,२.४.१८ [{आयुर्वेददीपिका} मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति ॥ १ फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम् ॥ २] कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः । युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत् ॥ ६,२.४.१९ माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत् । रसे चानुगते मांसं पोथयेत्तत्र चावपेत् ॥ ६,२.४.२० मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम् । माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत् ॥ ६,२.४.२१ एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ । हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ ॥ ६,२.४.२२ [{आयुर्वेददीपिका} कुट्टकमिति कुट्टनेनाणुशः कृतम् ॥ १] माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम् । शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ॥ ६,२.४.२३ संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत् । पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम् ॥ ६,२.४.२४ शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः । प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च ॥ ६,२.४.२५ अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च । तत्सर्वं मूर्छितं तिष्ठेन्मार्त्तिके घृतभाजने ॥ ६,२.४.२६ मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत् । एष वृष्यः परं योगो बल्यो बृंहण एव च ॥ ६,२.४.२७ [{आयुर्वेददीपिका} इक्षुरकः कोकिलाक्षः ॥ १] शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः । श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक्पृथक् ॥ ६,२.४.२८ साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः । शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत् ॥ ६,२.४.२९ [{आयुर्वेददीपिका} शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात्पादिकत्वं शर्करामधुनोः ॥ १] घृतपात्रं शतगुणे विदारीस्वरसे पचेत् । सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ॥ ६,२.४.३० शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च । पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम् ॥ ६,२.४.३१ गुटिकाः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम् । तासां प्रयोगात्पुरुषः कुलिङ्ग इव हृष्यति ॥ ६,२.४.३२ [{आयुर्वेददीपिका} पादांशिकैरिति घृतापेक्षया पादप्रमाणैः ॥ १] सितोपलापलशतं तदर्धं नवसर्पिषः । क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम् ॥ ६,२.४.३३ सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले । शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत् ॥ ६,२.४.३४ शुद्धा उत्कारिकाः कार्याश्चन्द्रमण्डलसंनिभाः । तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः ॥ ६,२.४.३५ [{आयुर्वेददीपिका} समुत्कीर्येति विस्तीर्य ॥ १ उत्कारिकाः कार्या इत्यत्र पुनः पाके नैवोत्कारिकाकरणम् ॥ २] यत्किंचिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु । हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ॥ ६,२.४.३६ द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत् । आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ॥ ६,२.४.३७ गत्वा स्नात्वा पयः पीत्वा रसं वानु शयीत ना । तथास्याप्यायते भूयः शुक्रं च बलमेव च ॥ ६,२.४.३८ यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते । लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम् ॥ ६,२.४.३९ नर्ते वै षोडशाद्वर्षात्सप्तत्याः परतो न च । आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥ ६,२.४.४० अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन् । उपशुष्येत सहसा तडागमिव काजलम् ॥ ६,२.४.४१ शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम् । स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् ॥ ६,२.४.४२ जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात् । क्षयं गच्छत्यनशनात्स्त्रीणां चातिनिषेवणात् ॥ ६,२.४.४३ क्षयाद्भयादविश्रम्भाच्छोकात्स्त्रीदोषदर्शनात् । नारीणामरसज्ञत्वादविचारादसेवनात् ॥ ६,२.४.४४ तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते । देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥ ६,२.४.४५ [{आयुर्वेददीपिका} अनुक्तवाजीकरणं संगृह्णन्नाह यत्किंचिदित्यादि ॥ १ भावित इति वचनात्प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति ॥ २ आत्मवेगेनेति संकल्पजातेनात्मवेगेन ॥ ३ बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाभूयिष्ठतां च दर्शयति ॥ ४ ननु तृप्तस्य शरीरबलं भवत्येव तत्किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यमित्याह देहेत्यादि ॥ ५ एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोरुपहतत्वाद्धर्षो न भवति हर्षाभावाद्व्यवायशक्तिर्न भवतीत्युक्तं भवति ॥ ६] रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा । सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ॥ ६,२.४.४६ तत्स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात् । शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात्पटादिव ॥ ६,२.४.४७ हर्षात्तर्षात्सरत्वाच्च पैच्छिल्याद्गौरवादपि । अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च ॥ ६,२.४.४८ अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात्प्रसिच्यते । चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ॥ ६,२.४.४९ [{आयुर्वेददीपिका} सम्प्रति सम्भवति शुक्रं यथा देहे स्थितं यथा च प्रवर्तते तदाह रस इत्यादि ॥ १ इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति ॥ २ संस्पर्शन इति संस्पर्शनवति तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति ॥ ३ स्त्रीपुरुषसंयोगो मिश्रीभावः ॥ ४ चेष्टा व्यवायचेष्टा संकल्पो योषिदनुरागः पीडनं नारीपुरुषयोः परस्परसम्मूर्छनमत्र च नारीपुरुषसंयोगः प्रधानं कारणं तत्सहकारीणि चेष्टादीनि ॥ ५ आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति ॥ ६ अपरमपि शुक्रप्रवृत्तिहेतुमाह हर्षादित्यादि ॥ ७ हर्षः संकल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकरीच्छा ॥ ८ तर्षः वनिताभिलाषः ॥ ९ सरत्वमस्थैर्यम् ॥ १० अणुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः ॥ ११ द्रुतत्वान्मारुतस्य चेति शुक्रप्रेरकस्य वायोरभिद्रवणशीलत्वादित्यर्थः ॥ १२ एते च यद्यपि हेतवस्तथापि प्राधान्यात्प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः ॥ १३ चरत इति नानामानुषपश्वादिजातिषु भ्रमतः ॥ १४ विश्वरूपस्येति आत्मनः ॥ १५ तथा ह्यात्मपर्यायेषूक्तं विश्वकर्मा स च विश्वरूपः इति ॥ १६ रूपद्रव्यमिति रूपप्राक्तनकारणम् ॥ १७ एतेन अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुरित्युक्तं भवति ॥ १८ शुक्रं चेह प्रकरणागतत्वेनोक्तं तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम् ॥ १९] बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम् । शुक्लं च यच्छुक्रं फलवत्तदसंशयम् ॥ ६,२.४.५० [{आयुर्वेददीपिका} प्रशस्तशुक्रगुणानाह बहलमित्यादि ॥ १] येन नारीषु सामर्थ्यं वाजीवल्लभते नरः । व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ॥ ६,२.४.५१ [{आयुर्वेददीपिका} वाजीकरणशब्दनिरुक्तमाह येनेत्यादि ॥ १ व्रजेच्चाभ्यधिकमिति पुनः पुनर्गच्छेत्व्यज्यते इति वा पाठः तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते ॥ २ व्यज्यातिति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः ॥ ३ अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते यथा शुक्रवृद्धिकरं च माषादि तथा स्रुतिकरं संकल्पादि शुक्रस्रुतिवृद्धिकरं क्षीरादि ॥ ४ यदुक्तमन्यत्र शुक्रस्रुतिकरं किंचित्किंचिच्छुक्रविवर्धनम् ॥ ५ स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते इति ॥ ६ त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति ॥ ७] हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः । यत्पूर्वं मैथुनात्सेव्यं सेव्यं यन्मैथुनादनु ॥ ६,२.४.५२ यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः । निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ॥ ६,२.४.५३ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः ॥ ६,२.४.५४ समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः ॥ ६,२.४.५५ [{आयुर्वेददीपिका} हेतुरित्यादि ॥ १ संग्रहो व्यक्तः ॥ २] ****************************************************************** Cअरकसंहिता, Cइकित्सास्थान, २२ [टृष्णाचिकित्सित] अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः ॥ ६,२२.१ इति ह स्माह भगवानात्रेयः ॥ ६,२२.२ [{आयुर्वेददीपिका} विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितमुच्यते ॥ १] ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः । तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ॥ ६,२२.३ [{आयुर्वेददीपिका} ज्ञानेत्यादौ ज्ञानं तत्त्वज्ञानं प्रशमः शान्तिः तपः चान्द्रायणादि ॥ १ चिकित्सितं चिकित्साविधायको ग्रन्थः निदानाद्यभिधानं च चिकित्सार्थमेव निदानादिज्ञानपूर्वकत्वाच्चिकित्सायाः ॥ २ पञ्चानामिति वचनेन पञ्चानामपि चिकित्साविषयत्वं दर्शयति नहि कासश्वासवदस्यासाध्यत्वं कस्याश्चिदत्रेत्यर्थः तथा सुश्रुतोक्तातिरिक्ततृष्णाद्वयान्तर्भावं पञ्चस्वेव सूचयति ॥ ३ उक्तं हि सुश्रुते तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च ॥ ४ स्यात्सप्तमी भक्तनिमित्तजा च इति ॥ ५] क्षोभाद्भयाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात् । क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ॥ ६,२२.४ धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः । पित्तानिलौ प्रवृद्धौ सौम्यान् धातूंश्च शोषयतः ॥ ६,२२.५ रसवाहिनीश्च नाडीर्जिह्वामूलगलतालुकक्लोम्नः । संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ॥ ६,२२.६ पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम् । घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा ॥ ६,२२.७ [{आयुर्वेददीपिका} क्षोभादित्याद्युक्तनिदानस्य यथायोग्यतया वातकर्तृत्वं वातपित्तकर्तृत्वं चोन्नेयम् ॥ १ पित्तानिलावित्यादिः सर्वतृष्णासम्प्राप्तिग्रन्थः ॥ २ सौम्यान् धातूनिति कफरसोदकानि सोमगुणातिरिक्तानि ॥ ३ प्रदूषयत इति शोषणेन दूषयतः ॥ ४ क्लोम्न इति द्वितीयाबहुवचनान्तम् ॥ ५ देहे इत्यनेन एतासां तृष्णानां शरीरत्वं दर्शयति ॥ ६ या हि मानसी तृष्णा सा शरीरे इच्छाद्वेषात्मिका तृष्णा सुखदुःखात्प्रवर्तते इत्यादावुक्ता इयं तु देहाश्रयदोषकारणा सती देहजैवेति भावः ॥ ७ स्वाभाविकतृष्णायामपि वातपित्ते आरम्भके एव तत्किं साप्यत्र न गृह्यते ॥ ८ मैवं तस्या उचितद्रवपानेनैवाभिप्रेतेन प्रशमादिह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति हृदि कृत्वा ॥ ९ स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णारम्भकवातपित्तयोर्विशेषमाह पीतं पीतमित्यादि ॥ १० प्रकृततृष्णारम्भकौ पित्तवातौ पीतं पीतं जलं शोषयतः अतो जलशोषणत्वाद्धेतोर्न शमं याति पुरुषः स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः ॥ ११ उपद्रवरूपतृष्णोत्पादमाह घोरेत्यादि ॥ १२ उपसर्गभूता इति उपद्रवरूपा ॥ १३] प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् । तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ॥ ६,२२.८ [{आयुर्वेददीपिका} तृष्णाप्राग्रूपमाह प्राग्रूपमित्यादि ॥ १ प्राग्रूपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणमाह स्वलक्षणमित्यादि ॥ २ स्वलक्षणमिति अव्यभिचारिलक्षणं यथा ज्वरस्य संतापः श्वयथोरुत्सेधः ॥ ३ पुनः प्रकृतं प्राग्रूपमाह लिङ्गानां लाघवमपाय इति ॥ ४ लिङ्गानां वक्ष्यमाणवातादिजतृष्णालिङ्गानां लाघवमल्पत्वं केषांचिच्चाभावः पूर्वरूपं तृष्णानामित्यर्थः ॥ ५ तेन पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिन्न भवन्त्येव यानि च भवन्ति तान्यल्पतयास्फुटानि भवन्ति ॥ ६ उक्तं च अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतमिति ॥ ७ किंवा यदेतत्प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वमेतत्प्राग्रूपं स्वलक्षणं च तृष्णानां तेन मुखशोषाम्बुकामित्वे स्वलक्षणे तथा पूर्वरूपे च भवतः पूर्वरूपावस्थायां त्वप्रबले मुखशोषाम्बुकामित्वे ज्ञेये ॥ ८ ये तु प्राग्रूपं मुखशोषः स्वरक्षयः सर्वदाम्बुकामित्वमिति पठन्ति तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात् ॥ ९ उक्तं च हारीतेऽपि तृष्णास्वलक्षणं स्वलक्षणं तु तृष्णानां सर्वदाम्बुपिपासिता इति ॥ १० किंवा मुखशोषस्वरक्षये एव पूर्वरूपं सर्वदाम्बुकामित्वं च स्वलक्षणं लिङ्गानां च लाघवं रोगरूपायास्तृष्णाया अपायो गमनमित्यर्थः अयमेव तृष्णाव्युपरमो यद्वक्ष्यमाणलिङ्गानामल्पत्वं सर्वथोच्छेदो हि तृष्णालक्षणानां न भवत्येव सहजतृष्णाग्रस्तत्वेनैतल्लक्षणानामल्पमात्रतयावस्थानात् ॥ ११ कैश्चित्तु लिङ्गानां लाघवमाशूत्पादः स च अपायो मरणमिति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते तन्नातिमनोहरम् ॥ १२] मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान् । ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ॥ ६,२२.९ जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम् । तृष्णोद्भूता कुरुते पञ्चविधां लिङ्गतः शृणु ताम् ॥ ६,२२.१० [{आयुर्वेददीपिका} सर्वतृष्णानामुपद्रवानाह मुखशोषेत्यादि ॥ १ उद्भूतेति वृद्धा ॥ २ ये तु मुखशोषादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानामभिधानं न स्यातुपद्रवाश्चाध्यायसंग्रहे संगृहीताः तेनातिशयवृद्धा मुखशोषादय उपद्रवाः वृद्धास्तु लिङ्गमिति व्यवस्था ॥ ३] अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति । तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ॥ ६,२२.११ [{आयुर्वेददीपिका} अब्धातुमित्यादिना पञ्चानां सम्प्राप्त्याद्याह ॥ १ देहस्थमिति देहे नानारसादिरूपतया स्थितम् ॥ २ शुष्केऽब्धातौ शुष्यतीति योज्यम् ॥ ३] निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः ॥ ६,२२.१२ [{आयुर्वेददीपिका} स्रोतोऽवरोध इति अत्युपघातः ॥ १] पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम् । संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नृणाम् ॥ ६,२२.१३ तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा । पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः ॥ ६,२२.१४ [{आयुर्वेददीपिका} पित्तमित्यादिना पित्तजामाह ॥ १ शरीरसंख्याशरीरे पित्तमाप्यमुक्तं यद्द्रवसरस्निग्धमन्दमृदुपिच्छिलं रसरुधिरवसाकफपित्तस्वेदादि तदाप्यं रसो रसनं च इत्यनेन तथा तत्रैव यत्पित्तस्य यो या च शरीरे भाः तत्सर्वमाग्नेयमित्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्याग्नेयाकारत्वाद्बाहुल्यात्पित्तमाग्नेयमेवेति दर्शयन्नाह पित्तं मतमाग्नेयमिति द्वयात्मकत्वेऽपि च पित्तस्याग्नेयांशप्राधान्यादन्यत्रापि सौम्याग्नेयवायव्यविकारभेदे पैत्तिकविकारा आग्नेयत्वेन गृहीता एव ॥ २ संतप्तः स हीति अब्धातुः संतप्तः ॥ ३ संतप्तं हि इति पाठपक्षे पित्तमेव जनयेदिति योज्यम् ॥ ४ यदाब्धातुर्जनयति तदा पित्तसंतप्त एव जनयतीति पित्तस्यैव कर्तृत्वम् ॥ ५] तृष्णा यामप्रभवा साप्याग्नेयामपित्तजनितत्वात् । लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च ॥ ६,२२.१५ [{आयुर्वेददीपिका} तृष्णेत्यादिनामजामाह ॥ १ आमशब्देन चेह लक्षणया आमसमानचिकित्सित आमसमानलक्षणश्च कफोऽपि गृह्यते ॥ २ तेनामप्रभवाया व्युत्पादनेन कफजापि सुश्रुतोक्ता गृहीतैवेह साप्याग्नेयेत्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति ॥ ३ वातश्च तृष्णाकारणत्वेनोक्तोऽप्यत्राप्रधानं पित्तमेव ये प्रधानमितीह वाताकथनादुन्नीयते ॥ ४ अन्यत्राप्युक्तं दर्शनपक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् ॥ ५ प्रभाप्रसादौ मेधा च पित्तकर्माविकारजमिति ॥ ६ आमपित्तजनितत्वादिति आमावरोधवृद्धपित्तजनितत्वादित्यर्थः ॥ ७] देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि । दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ॥ ६,२२.१६ [{आयुर्वेददीपिका} देहो रसज इत्यादिना क्षयजामाह ॥ १ आहाररसात्सर्वधातुपोषको धातुरस उत्पद्यते स च रसो देहपोषकोऽम्बुभव इति आप्य इत्यर्थः ॥ २ तस्य क्षयादिति रसक्षयात्तृष्यते रसक्षयादम्बुक्षयो भवति तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णया युक्तो भवतीति युक्तमिति दर्शयति ॥ ३ उक्तं हि सुश्रुते दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः ॥ ४ स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति इति इहापि चोक्तं तस्य क्षयाच्च तृष्येद्धि इति ॥ ५] भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा । ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ॥ ६,२२.१७ [{आयुर्वेददीपिका} भवतीत्यादिनोपसर्गजामाह ॥ १ उपसर्गादिति ज्वराद्युपद्रवात्ज्वराद्युपद्रवरूपतयेति यावत् ॥ २ कष्टेति कष्टसाध्या ॥ ३ एवं प्राक्सूत्रितवातपित्तामाम्बुक्षयोपसर्गात्मिकाः पञ्च तृष्णा व्याहृताः अत्रैव सुश्रुतोक्ता कफजा आमजायामवरुद्धा क्षतजा उपसर्गात्मिकायामवरुद्धा अन्नजा चामजायामेवान्तर्भावनीया ॥ ४] सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् । घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः ॥ ६,२२.१८ [{आयुर्वेददीपिका} इदानीं तृष्णानामसाध्यतालक्षणमाह सर्वास्त्वित्यादि । घोरोपद्रवयुक्तेति पीडाकरोपद्रववती ॥ १]