हरकोपानलेनैव भस्मीभूयाकरोत्स्मरः । अर्द्धं नारीशरीरं हि यश्च तस्मै नमोऽस्तु ते ॥ १ ॥ सम्यगाराधितः कामः सुगन्धिकुसुमादिभिः । विदधाति वरस्त्रीणां मानग्रन्थिविमोचनम् ॥ २ ॥ स्मरन्निर्जित्य रुद्रेण पश्चादुद्दीपितः स्मरः । तेन तन्नामधेयेन निर्मिता स्मरदीपिका ॥ ३ ॥ अनेककामशास्त्राणां सारमाकृष्य यत्नतः । बालव्युत्पत्तये स्त्रीणां चित्तसन्तोषणाय च । प्रबोधाय वरस्त्रीणां तुष्ट्यै रतिसुखाय च ॥ ४ ॥ गर्गेणाभाषितां सम्यग्वक्ष्यामि स्मरदीपिकाम् । यस्य विज्ञानमात्रेण मूर्खोऽपि रतिरङ्गधीः ॥ ५ ॥ बालिका तरुणी प्रौढा वृद्धा चेति विशेषतः । ज्ञातव्यो ह्यन्वितः कामो ध्रुवं शृङ्गारमिच्छता ॥ ६ ॥ कामशास्त्रस्य तत्त्वज्ञा जायन्ते सुन्दरीप्रियाः । कामशास्त्रमजानन्तो रमन्ते पशुवत्स्त्रियम् ॥ ७ ॥ नानानिबन्धैः सुरतोपचारैः क्रीडासुखं जन्मफलं नराणाम् । किं सौरभेयीशतमध्यवर्ती वृषोऽपि संभोगसुखं न भुङ्क्ते ॥ ८ ॥ स्वनारीरक्षणं पुंसां परनार्यनुरञ्जनम् । बन्धभेदेङ्गितज्ञानमेतत्फलमुदाहृतम् ॥ ९ ॥ येन संवत्सरो दृष्टः सकृत्कामः सुसेवितः । तेन सर्वमिदं दृष्टं पुनरावर्तितं जगत् ॥ १० ॥ प्रथमं लक्षणं पुंसां स्त्रीणां च तदनन्तरम् । ध्वजस्य लक्षणं प्रोक्तं भगलक्षणसंयुतम् ॥ ११ ॥ कामस्थानानि संलक्ष्य पुनः सम्यक्प्रचालनम् । पुनः षोडश बन्धाश्च तथैवाधोमुखाश्च षट् ॥ १२ ॥ द्वौ बन्धौ सुन्दरीणां च पश्चान्मुखरतं तथा । बाह्यं रतं ततः कुर्याद्रतं देशविशेषजम् ॥ १३ ॥ इङ्गितस्य परिज्ञानं दूत्याश्च तदनन्तरम् । तथाष्टनायिकायाश्च मन्त्रौषधिसुतोदयः ॥ १४ ॥ शशो मृगो वृषश्चैव चतुर्थस्तु हयस्तथा । कथयामि क्रमात्पुंसामेतज्जातिचतुष्टयम् ॥ १५ ॥ मृदुचपलसुशीलः कोमलाङ्गः सुवेषः सकलगुणनिधानं सत्यवादी शशोऽसौ ॥ १६ ॥ वदति मधुरवाणीं नृत्यगीतानुरक्तः । द्विजसुरगुरुभक्तो बन्धुयुक्तो धनाढ्यः ॥ १७ ॥ स्त्रीजितो गायनश्चैव नारीसत्त्वपरः सुखी । षडङ्गुलो भवेन्मेढ्रः श्रीमांश्च शशको मतः ॥ १८ ॥ वदति मधुरवाणीं रक्तनेत्रः सुशीलः चलमतिरतिभीरुः शीघ्रगामी मृगोऽसौ ॥ १९ ॥ उदरकटिकृशः स्याद्दीर्घबिम्बाधरौष्ठो दशनवदनदीर्घो दीर्घबाहुः प्रतापी ॥ २० ॥ अल्पभुग्धार्मिकश्चैव सत्यवादी प्रियंवदः । अष्टाङ्गुलो भवेन्मेढ्रो रूपयुक्तो मृगो मतः ॥ २१ ॥ वृषो यथा उदरकटिकृशास्यः शीघ्रगामी नतांसः कनकरुचिरदेहः कष्टवादी वृषोऽसौ ॥ २२ ॥ व्यसनकृपणबुद्धिः स्त्रीवशः स्त्रीविलासो बहुगुणबहुतेजाः दीर्घनेत्रोऽभिमानी ॥ २३ ॥ उपकारपरो नित्यं स्त्रीवशी श्लेष्मलस्तथा । लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः । दशाङ्गुलशरीरस्तु मेदस्वी वृषभो मतः ॥ २४ ॥ हयो यथा उदरकटिकृशास्यो दीर्घकण्ठाधरोष्ठः । दशनवदननेत्रं तस्य दीर्घोऽपि नाभिः ॥ २५ ॥ लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ॥ २६ ॥ द्वादशाङ्गुलमेढ्रस्तु कुशलोऽपि हयो मतः ॥ २७ ॥ इति पुरुषलक्षणानि चत्वारि ॥ २८ ॥ अथ स्त्रीणां जातिचतुष्टयप्रकरणम् । पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् ॥ २९ ॥ पद्मिनी यथा भवति कमलनेत्रा नासिकादूर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी ॥ ३० ॥ मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा ॥ ३१ ॥ शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा । मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना ॥ ३२ ॥ गायनी सुरताढ्या च पारावतकलस्वना । स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी ॥ ३३ ॥ चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ॥ ३४ ॥ कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा ॥ ३५ ॥ गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता । उत्तानशायिनी चोष्णा पारावतकलस्वना ॥ ३६ ॥ स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी । धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी ॥ ३७ ॥ दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा । लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात् ॥ ३८ ॥ शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा । मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला ॥ ३९ ॥ गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा । विशालजघना क्रूरा सुरताढ्या च शङ्खिनी ॥ ४० ॥ हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा । कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च ॥ ४१ ॥ स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला । गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा ॥ ४२ ॥ विशालजघना क्रूरा फुल्लनासातिशीतला । खर्वा च खर्वनासा च बहुलोमा च कामुकी ॥ ४३ ॥ मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी । लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता ॥ ४४ ॥ पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी । शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी ॥ ४५ ॥ पद्मिनी पादशोभा च केशशोभा च चित्रिणी । शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी ॥ ४६ ॥ पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी । शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी ॥ ४७ ॥ पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी । शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी ॥ ४८ ॥ पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी । शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी ॥ ४९ ॥ पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी । शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी ॥ ५० ॥ शशकः पद्मिनीं चैव चित्रिणीं च मृगस्तथा ॥ ५१ ॥ शङ्खिनीं वृषभश्चैव हस्तिनीं तु हयस्तथा । रमते तुल्यभावेन तदा समरतं भवेत् ॥ ५२ ॥ उच्चनीचातिनीचं च तथात्युच्चं च वर्जितम् ॥ ५३ ॥ ख्यातं समरतं चैव तद्विरहत्यन्यथा स्त्रियः ॥ ५४ ॥ इति स्त्रीणां जातिचतुष्टयम् । अथ ध्वजलक्षणप्रकरणम् । मुसलं रङ्गवीरं च द्विविधं ध्वजलक्षणम् । स्थूलं मुसलमित्याहुर्दीर्घं तद्रङ्गवीरकम् ॥ ५५ ॥ नातिह्रस्वं नातिदीर्घं स्थूलं स्थूलान्तिकं वरम् । क्षत्रशीर्षे प्रसन्नं च लिङ्गानि स्युः शुभानि षट् ॥ ५६ ॥ अथ भगलक्षणप्रकरणम् । कूर्मपृष्ठा गजस्कन्धा पद्मनाभिसमा तथा । अलोमा मृदुविस्तीर्णा षडेते सुभगा भगाः ॥ ५७ ॥ शीतलं चोष्णमत्युष्णं गोजिह्वासदृशं खरम् । इत्युक्तं कामशास्त्रज्ञैर्भगचिह्नचतुष्टयम् ॥ ५८ ॥ शीतलं सुखदं प्रोक्तमुष्णं च मध्यमं स्मृतम् । अत्युष्णमसुखं चैव खरं प्राणहरं स्मृतम् ॥ ५९ ॥ अथ कामचालनप्रकरणम् । अङ्गुष्ठे चरणे गुल्फे भगे नाभौ कुचे हृदि । कक्षे कण्ठेऽधरे नेत्रे कपोले च श्रुतावपि । शीर्षे सर्वशरीरे तु वसेत्कामस्तिथिक्रमात् ॥ ६० ॥ सव्ये पुंसः स्त्रियो वामे कृष्णे शुक्ले विपर्ययः । ऊर्द्ध्वं प्रतिपदादौ च कृष्णे चाधः प्रचक्षते ॥ ६१ ॥ एवं चैव वसेत्कामः स्थाने चैव विशेषतः । पादे जङ्घे ऊरुदेशे स्तने कक्षे गले श्रुतौ ॥ ६२ ॥ नखक्षतं प्रदातव्यं भगे नाभौ च मर्दनम् । गण्डे नेत्रे ललाटे च चुम्बनं कामुकैरिह । हृदये ताडनं हस्ताद्दन्तेनाधरपीडनम् ॥ ६३ ॥ आत्मास्येन्दुशरद्विसप्ततिथयः ख्यातं नलिन्या रते पौलस्त्याब्धिरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी । रुद्रानङ्गगणेशशम्भुतिथयः स्युः शङ्खिनीभुक्तये शेषाः स्युः सुरतोत्सवेषु करिणां जातां स्त्रियः प्रीतये ॥ ६४ ॥ अङ्गुष्ठे चरणे च गुल्फनिचये जानुद्वये बास्तिके नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके धौतं च वामभ्रुवामूर्ध्वाधश्चलनक्रमेण तिथयश्चान्द्रीकलापक्षये ॥ ६५ ॥ सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे पिण्डके । गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धक्षीणसमं तदा शशिकलापक्षद्वये योषिताम् ॥ ६६ ॥ मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयोः दन्तेनाधरपीडनं हृदि हतिं मुष्ट्या च नाभौ शनैः । कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते शिखरं नखैरुरसिजौ गृह्णीत गाढं ततः ॥ ६७ ॥ कुर्वाणो विरतिं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फहननं चान्योन्यतः कामिनाम् । इत्येवं गदितं प्रदेशकलनादिन्दोः कलारोपणं कर्तव्यं च नरैस्तु स्त्रीषु रभसादुक्तः प्रबोधाधिकः ॥ ६८ ॥ इति कामुकसंघातैः कर्तव्यं कामचालनम् । द्रवत्यनेन कामो हि घृतभाण्डमिवाग्निना ॥ ६९ ॥ आलिङ्गनं चुम्बनं च दन्तक्षतनखक्षते । मर्दनं नखचाटुश्चाधरपानं कुचग्रहः ॥ ७० ॥ चुम्बनं संप्रहरणं नारीक्षोभणमेव च । एतद्बाह्यरतं कुर्यात्कामप्रकटहेतवे ॥ ७१ ॥ अधरे गण्डयोर्भाले कपोले गलके हृदि । स्तने च कक्षयोर्हस्ते नाभिमूले भगस्थले ॥ ७२ ॥ कुक्षौ जघनयोर्मूले हृदयोर्नेत्रयोर्मुखे । कट्यां च चुम्बनं दन्तक्षतं नेत्रे तु वर्जितम् ॥ ७३ ॥ भगे मर्दनमापूर्य ततो मैथुनमाचरेत् । कृत्वा विवस्त्रां कान्तां तु मेढ्रं तत्र प्रवेशयेत् ॥ ७४ ॥ वक्षसा स्तनयुग्मं तु सम्पीड्य बाहुबन्धनम् । अन्योन्यं दृढमाक्रम्य कुर्यादालिङ्गनं स्त्रियः ॥ ७५ ॥ रसिकेन रसज्ञेन सततं रतिमिच्छता । गाढमालिङ्गनं देयं तत्सख्या ह्यनुरागतः ॥ ७६ ॥ गले वक्षःस्थले कुक्षौ कण्ठपार्श्वे भगे तथा । जघनोरुनितम्बेषु पृष्ठे हस्ते शिरःसु च ॥ ७७ ॥ कण्ठमूले कपोले च नखक्षतमथाचरेत् ॥ ७८ ॥ कक्षाकण्ठकपोलेषु नाभिश्रोणिकुचौ तथा । भगस्कन्धौ कर्णमूलौ त्रयोदश नखालयः ॥ ७९ ॥ स्थानेष्वेतेषु कुक्षौ च नखचाटुं समाचरेत् । रोमाञ्चहेतुसुखदं मदनोद्दीपनं मतम् ॥ ८० ॥ इत्थं च मन्मथोत्पन्ने केलिं कुर्यात्तथैव च । स्तनयोर्युगयोश्चैव सनाभिकभगस्थले ॥ ८१ ॥ जघनोरुनितम्बेषु कामुको मुहुरर्पयेत् ॥ ८२ ॥ भुजयोः स्तनयोश्चैव भगे नाभौ तथैव च । षट्सु स्थानेषु विधिना मर्दनं परिकीर्तितम् ॥ ८३ ॥ कक्षाकण्ठकपोलेषु नाभौ श्रोण्यां पयोधरे । कर्णमूले तथा स्कन्धे चुम्बनं द्वादशस्थले ॥ ८४ ॥ गण्डौष्ठं च तथा वक्त्रं कक्षा नाभिर्भगस्तथा । कुचौ च बाहुमूलं च द्वादशैतानि चुम्बनम् ॥ ८५ ॥ गण्डौ नेत्रे तथा वक्त्रं कक्षा नाभिर्भगस्तथा । कुचौ च बाहुमूलं च स्थानान्येतानि चुम्बने ॥ ८६ ॥ अधरौष्ठे च सम्पीड्य नायको नायिकाधरम् । पूर्णचन्द्रनिभं पेयान्नार्याश्च सरसं मुखम् ॥ ८७ ॥ पयोधरौष्ठजिह्वाया द्वयोरेव कुचाग्रयोः । पञ्चस्थानस्य वै पानं कुर्यात्कृशविचक्षणः ॥ ८८ ॥ ओष्ठेन चौष्ठग्रहणपूर्वकं केशकर्षणम् । शिरःप्रदेशे कृत्वा तामुपविष्टां च कारयेत् ॥ ८९ ॥ यथा कोकिलशब्दः स्याद्यथा पारावतध्वनिः । यथा हंसमयूरादेः कलरावं तथा चरेत् ॥ ९० ॥ मुष्टामुष्टिनितम्बे च कुर्याच्चैव परस्परम् । उपहस्तेनाबलायास्ताडयेज्जघनद्वये ॥ ९१ ॥ भगगर्भस्य मध्ये तु नाडिका ध्वजरूपिणी । पूर्णा कामजलैर्नित्यं वामस्था मृदुपीवरा । मर्दिता चाङ्गुलीभ्यां तु जनयेत्कामजं जलम् ॥ ९२ ॥ तत्र एकविंशतिप्रकारः । तेषां नामानि काकपदः विपरीतकः नागरिकः रतिपाशः केयूरः प्रियतोषणं समपदः एकपदः ऊर्ध्वसंपुटः संपुटकः मन्मथप्रियः रतिसुन्दरः उरुपीडनः स्मरचक्रं नागपाशकः गगनकः वंशदारकः कनकक्षयः नागरः कुलिशनामकः कामसुन्दर इति । यथाक्रमं तेषां लक्षणान्यप्याह । स्त्रीपादौ स्कन्धयुग्मस्थौ क्षिप्त्वा ध्वजं भगं लघु । कामयेत्कामुको नारीं बन्धः काकपदो हि सः ॥ ९३ ॥ पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् । नारीं कामयते कामी बन्धः स्याद्विपरीतकः ॥ ९४ ॥ ऊरुमूलोपरि न्यस्य योषिदूरुं नरो यदि । ग्रीवां धृत्वा कराभ्यां तु बन्धो नागरिको मतः ॥ ९५ ॥ पीडयेदूरुयुग्मेन कामुकं यदि कामिनी । रतिपाशस्तदा ख्यातः कामिनीनां मनोहरः ॥ ९६ ॥ स्त्रीणां जङ्घान्तराविष्टो गाढालिङ्ग्य च सुन्दरीम् । रमते विह्वलः कामी बन्धः केयूरसंज्ञकः ॥ ९७ ॥ नरीपादौ स्वहस्तेन हृदये धारयेद्यदि । स्तनार्पितकरः कामी कामयेत्प्रियतोषणम् ॥ ९८ ॥ योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ । यथेष्टं ताडयेद्योनौ बन्धः समपदः स्मृतः ॥ ९९ ॥ पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् । स्तनार्पितकरः कामी बन्धस्त्वेकपदो हि सः ॥ १०० ॥ सम्प्रसार्य स्त्रियाः पादौ शय्यार्पितकफोणिकः । भगे लिङ्गस्य संयोगाद्रमते सम्पुटो हि सः ॥ १०१ ॥ स्त्रीपादौ सरलीकृत्य भूमौ कुञ्चितजानुकः । स्तनलग्नो रमेत्कामी बन्धः सम्पुटको मतः ॥ १०२ ॥ स्वजङ्घाद्वयबाह्ये च वा योषित्पदद्वयम् । स्तनौ धृत्वा रमेत्कामी बन्धः स्यान्मन्मथप्रियः ॥ १०३ ॥ नारीपादद्वयं कामी धारयेत्कुचमण्डले । धृत्वा कण्ठं रमेन्नारीं बन्धोऽयं रतिसुन्दरः ॥ १०४ ॥ स्त्रिया ऊरुयुगं धृत्वा कराभ्यां पीडयेत्पुनः । कुर्याच्च निर्भयां कामी बन्धः स्यादूरुपीडनः ॥ १०५ ॥ धृत्वा वामकरेणोरुं पादं चापि शिरःस्थितम् । रमते सुदृढः कामी स्मरचक्रं प्रकीर्तितम् ॥ १०६ ॥ स्वजानुद्वयमध्याभ्यां हस्ताभ्यां धारयेत्स्त्रियम् । रमेन्निःशङ्कितः कामी बन्धः स्यान्नागपाशकः ॥ १०७ ॥ समाश्लिष्य यदा कान्तः कामिन्या जघनद्वयम् । ऊर्ध्वगं रमते दोर्भ्यां बन्धो गगनकः स्मृतः ॥ १०८ ॥ नारीपादद्वयं चैव स्कन्धे यः परिवर्तनम् । कृत्वा कान्तो रमेदाशु बन्धोऽयं वंशदारकः ॥ १०९ ॥ मुखं मुखे यदा बाह्यं बाह्ये जङ्घेऽपि जङ्घयोः । वक्षो वक्षःस्थले दत्त्वा भवेत्स कनकक्षयः ॥ ११० ॥ सुन्दरीं च रमेत्कान्तः कट्यासक्तभुजद्वयाम् । हृदि तत्कान्तहस्तां च बन्धोऽयं नागरो मतः ॥ १११ ॥ स्त्रीपादद्वयमालिङ्ग्य विमुखाक्षिप्तलिङ्गकः । योनिमापीडयेत्कामी बन्धः कुलिशनामकः ॥ ११२ ॥ स्वजङ्घाद्वयबाह्येन धारयेत्कुचमण्डलम् । धृत्वा कण्ठं रमेत्कामी बन्धः स्यात्कामसुन्दरः ॥ ११३ ॥ इत्यादिकण्ठविन्यासाद्गाढं सम्पादयेत्सुखम् । तस्माद्विदग्धसंघातैः कार्या बन्धाः प्रयत्नतः ॥ ११४ ॥ स्त्रियमानतपूर्वाङ्गीं पादाहितकरद्वयाम् । धृतोदरो रमेत्कामी बन्धोऽयं पशुनामकः ॥ ११५ ॥ पादालीढस्तनीं नारीमुत्क्षिप्तजघनां यदि । कान्तः कामयते पश्चात्कथितस्त्वेकबन्धकः ॥ ११६ ॥ उद्धृत्य पादमेकं तु भुवि संस्थाप्य चापरम् । कुड्याश्रितां रमेत्कान्तां बन्धस्त्रैविक्रमो मतः ॥ ११७ ॥ हृदि संस्थाप्य पादैकं बाहुभ्यां वेष्टयेद्यदि । कान्तः कुड्याश्रितां नारीं बन्धो वेष्टनको मतः ॥ ११८ ॥ नारीजानुद्वयं धृत्वा आत्मजानुद्वयोपरि । कुड्याश्रितां रमेत्कान्तां बन्धो दोलादिनामकः ॥ ११९ ॥ नारीबाहुद्वयं न्यस्य स्वीयबाहुद्वये तथा । ग्रीवां धृत्वा रमेत्कामी बन्धो दोलायितः स्मृतः ॥ १२० ॥ कुड्याश्रितां रमेत्कान्तां कण्ठासक्तकरद्वयाम् । पादाभ्यां मध्यमावेष्ट्य बन्धः प्रालम्बको मतः ॥ १२१ ॥ स्त्रियाः पादद्वयं कान्तः कान्तस्योरुद्वयोपरि । कटिमालोलयेदाशु बन्धोऽयं हंसलीलकः ॥ १२२ ॥ लिङ्गोपरिस्थिता नारी भूमौ दत्त्वा करद्वयम् । हृदये दत्तहस्ता च बन्धो लीलासनो मतः ॥ १२३ ॥ विपरीतरते नारीमृतुस्नातां न गुर्विणीम् । योजयेत्कामशास्त्रज्ञः सद्यो भुक्तवतीं तथा ॥ १२४ ॥ भगे निःक्षिप्तजिह्वाग्रो विलोलं चुम्बति प्रियः । तथैव रमणस्यापि नारी लिङ्गं प्रकर्षति ॥ १२५ ॥ मध्यदेशभवा नार्यो नखदन्तपदे रताः । चुम्बाघातरता नार्यस्तथा मध्यमदेशजाः ॥ १२६ ॥ अधोमुखरताश्चैव केशग्राहेषु सिन्धुजाः । नानारतरता नार्यस्तथा सिंहलदेशजाः ॥ १२७ ॥ चुम्बनालिङ्गने रक्तास्तथा कृत्रिमलिङ्गकैः । महाराष्ट्रे रता रामाः स्त्रीराज्ये कोशलेषु च ॥ १२८ ॥ क्षताघातांशुकाक्षेपैस्तथा कृत्रिमलिङ्गकैः । ध्वजवृषणलुब्धाश्च रामाः कार्णाटदेशजाः ॥ १२९ ॥ चुम्बकेशग्रहैश्चैव जिह्वावक्षोजमर्दनैः । वृषणैस्ताडनेनाङ्गे रता द्राविडदेशजाः ॥ १३० ॥ नितान्तरसिका बन्धे चुम्बनालिङ्गनादिषु । लुब्धाश्चाधरपानेषु न तु लावण्यविग्रहाः ॥ १३१ ॥ तीर्थयात्राभिलुब्धाश्च गौडवङ्गाङ्गनाः किल । निःसहा मर्दनाघाते नेपालाः कामरूपजाः ॥ १३२ ॥ स्त्रीणां विषयसात्म्यं च ज्ञात्वा मैथुनमाचरेत् । समाने सुखसम्पत्तिरन्यथा वै द्विषन्ति ताः ॥ १३३ ॥ मृदुह्रस्वध्वजो यत्र प्रियोऽशक्तो द्रुतच्युतिः । यत्र स्त्रीणां च काठिन्यं तत्र नीचरतो भवेत् ॥ १३४ ॥ नार्यो नीचरतोद्विग्ना द्विषन्ति पुरुषं क्षणात् । श्रूयते चैव कर्णाटे कान्तया निहतः पतिः ॥ १३५ ॥ अङ्गुलीनां प्रवेशैस्तु तथा कृत्रिमलिङ्गकैः । मृदुह्रस्वध्वजैः कामी रमेत्स्त्रीतोषहेतवे ॥ १३६ ॥ अथ प्रासङ्गिकं कन्यापरीक्षणप्रकरणम् । इदानीं यदहं वक्ष्ये कन्यायाः लक्षणं ततः । निरूप्य लक्षणादींस्तां परितः स्वीयसम्पदम् ॥ १३८ ॥ न कृष्णा नातिगौराङ्गी तन्वी मृदुवचास्तथा । न खर्वा नातिदीर्घा च सुवक्त्रा चारुलोचना ॥ १३९ ॥ कम्बुग्रीवा च मृद्वङ्गी श्यामरुक्थोदरी तु या । अल्पनिद्राल्पभोक्त्री च समाङ्गी निम्ननासिका ॥ १४० ॥ आरक्ता सुतरां नेत्रे नखे दन्तच्छदेऽपि च । पद्मरक्तादिचिह्नं च पाणौ पादे विशेषतः ॥ १४१ ॥ समदन्ता गुरुश्रोणी बिम्बौष्ठी च सुगायनी । भवेत्कन्या प्रशंस्या सा धर्मकामार्थसिद्धये ॥ १४२ ॥ भूमौ पादकनिष्ठा वानामिका वार्पयेद्युगम् । कन्या सा वर्जनीया च सैवोपपतिका मता ॥ १४३ ॥ कन्या सा पुंश्चली खर्वा या स्याच्छबलमध्यमा । पीवरा कर्कशाङ्गी च पिङ्गनेत्रा कचे जटा ॥ १४४ ॥ दीर्घनेत्रा दीर्घवक्त्रा खर्वा परुषवादिनी । जङ्घायामुत्तरोष्ठे च बिभ्रती लोमसंचयम् ॥ १४५ ॥ करोति यदि वा नित्यं भोजनं विपुलं बहु । निम्नग्रीवा निम्नकण्ठा बहुकेशी सुलोचना ॥ १४६ ॥ गण्डकूपे हसन्ती च दन्तपङ्क्त्या तु दन्तुरा । सा विज्ञैर्वर्जनीया च सुखैश्वर्यसमीहया ॥ १४७ ॥ तद्यथा कुलद्वयं चापि विनिन्दिता स्त्री यशोविभूतिं च तिरस्करोति । निमग्नचन्द्रेव निशासमाना प्रयाति नैवादरतां पृथिव्याम् ॥ १४८ ॥ सेवनं योषितां कुर्यान्मत्वा दोषबलाबलम् । बालायोग्यातिरूढानामृतुयोगविभागतः ॥ १४९ ॥ बाला च तरुणी प्रौढा वृद्धा भवति नायिका । एभिः प्रकारैर्विख्याता युवती नागरी सदा ॥ १५० ॥ बालेति गीयते नारी यावत्षोडशवत्सरम् । तस्मात्परं च योग्या सा यावद्विंशतिवत्सरम् ॥ १५१ ॥ विद्वद्भिः सर्वजगति तरुणीत्यभिधीयते । तदूर्ध्वमतिरूढा स्याद्यावत्पञ्चाशतं पुनः ॥ १५२ ॥ वृद्धा ततः परं ज्ञेया सुरतोत्सववर्जिता । प्रीणाति बाला मालाद्यैस्तरुणी वस्त्रदानतः ॥ १५३ ॥ प्रेमवाक्यादिभिः प्रौढा वृद्धा च दृढताडनात् । फलताम्बूलवासोभिर्बाला वश्या भवेन्नृणाम् ॥ १५४ ॥ विविधाभरणैः स्नेहैस्तरुणी वशवर्तिनी । गाढालिङ्गनचुम्बनैश्च अतिरूढास्तु योषितः ॥ १५५ ॥ गौरवैर्मधुरालापैर्भवेद्वृद्धा प्रियंवदा । तथा कुसुमधर्मिण्यः स्त्रियो वृद्धपरिग्रहाः ॥ १५६ ॥ उपक्रामन्ति विश्वासाद्द्विषन्ति पुरुषं क्षणात् । निदाघशरदोर्बाला सेव्या विषयिणां भवेत् ॥ १५७ ॥ हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः । सततं सेव्यमानापि बाला वर्धयते बलम् ॥ १५८ ॥ क्षेमं नयति योग्या स्त्री वृद्धा प्रकुरुते जराम् । उत्साहहानिं वृद्धा स्त्री दिशेद्रोगक्षयादिकम् ॥ १५९ ॥ बाला च प्राणदा प्रोक्ता तरुणी प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ १६० ॥ आसीने लालयेद्बालां तरुणीं शयने तथा । उत्थाने त्वतिरूढां च लालनं त्रिविधं मतम् ॥ १६१ ॥ अध्वक्लान्ता ऋतुस्नाता प्रथमज्वरिता तथा । मधुपानप्रसन्ना च नर्तिता विरही तथा ॥ १६२ ॥ षण्मासगर्भिणी मासप्रसूता नवरङ्गिणी । एता वहन्ति सुतरां स्त्रियो न सुरतोत्सवम् ॥ १६३ ॥ आलिङ्गनविहीनं तु यो वेत्ति सुरतोत्सवम् । पशोरिव भवेत्तस्य सिद्धिः स्वार्थैकसिद्धये ॥ १६४ ॥ आलिङ्गचुम्बने दंशो भगस्तनविमर्दनम् । नखदानं च घातश्च ग्रहणं कुचकेशयोः ॥ १६५ ॥ करोति चिन्मयं हास्यं जिह्वाकण्ठाधरग्रहः । एतद्दशप्रभेदं हि क्षरणस्य प्रकीर्तितम् ॥ १६६ ॥ नारीणां मोहनं तावद्यावन्नोत्कण्ठिता प्रिया । अन्यथा तत्सुखोच्छितिरशीतार्ककरादिव ॥ १६७ ॥ शीत्कारं चाथ हुंकारं हसितं च त्रपाक्षयः । प्रस्विन्नवदनं चैव विकारोऽथ भगस्य च ॥ १६८ ॥ बुद्ध्वा चैतानि लिङ्गानि योषितां सुरते बुधः । तया तुल्यसुखं वाञ्छन्ननुरागं समाचरेत् ॥ १६९ ॥ पुष्पं माल्यं सुवर्णं च राजतं तरुणीसुखम् । तरुणीरहिते कान्ते व्यर्थं देशविचेष्टितम् ॥ १७० ॥ दैवाद्यदि कदाचिद्धि विच्छेदः क्रमशस्तदा । दशमीं मन्मथावस्थां प्राप्नोत्येव न संशयः ॥ १७१ ॥ अभिलाषश्चिन्तनं चानुस्मृतिर्गुणकीर्तनम् । उन्मादो विप्रलापश्च उद्वेगो व्याधिरष्टमः ॥ १७२ ॥ जरता मरणं चेति दशावस्था मनोभुवः । प्रमदानां नराणां च स्मरोन्मथितचेतसाम् ॥ १७३ ॥ लक्षयित्वेङ्गितं स्त्रीणां हृदि विज्ञः प्रवर्तते । सत्यं वल्लभतां याति सुमध्यानां च योषिताम् ॥ १७४ ॥ विज्ञः साध्यां यत्नसाध्यां वचसा चैव साधयेत् । साधनं कठिनं स्त्रीणां दुर्निरूप्या भवन्ति ताः ॥ १७५ ॥ प्राकाशीं बाहुमूलस्य कक्षोदरकुचस्य च । बालालिङ्गनमोक्षं च कवरीमोचनं तथा ॥ १७६ ॥ स्वीयाङ्गावयवस्यैव निरन्तरविलोकनम् । अश्रुपातोऽङ्गुलीमर्दश्लेष्मोत्सर्गं मुहुर्मुहुः ॥ १७७ ॥ कान्तस्य रूपसौभाग्यसंक्रीडागुणसम्पदाम् । संकीर्तनं महोल्लासः स्वाङ्गभद्रावमर्दनम् ॥ १७८ ॥ श्रुतिवर्त्माङ्गुलिक्षेपः सस्मिते वदनेक्षणे । एतान्यफलसाध्यानि लिङ्गानि च समुन्नयेत् ॥ १७९ ॥ व्रीडयालंकृता कान्ता ऊष्मार्ता लोभवर्जिता । साध्या लिङ्गर्थवीर्यस्ता असाध्या सा प्रकीर्तिता ॥ १८० ॥ यत्नसाध्या साधुवक्त्री धनहीना प्रवासिनी । साध्येङ्गितविपर्यस्ता यत्नसाध्या कुटुम्बिनी ॥ १८१ ॥ उद्यानोत्सवतीर्थेषु अध्ववाटीवनेषु च । अनिष्टयुवतीसङ्गे क्षेत्रे पितृगृहे तथा ॥ १८२ ॥ देवागारे कुटौ चैव तथा वाप्यादिसेवने । नटने गोगृहे चैव तथा बन्धुगृहोत्सवे । रक्षितव्या सदा नार्यः सद्भिरात्मप्रयत्नतः ॥ १८३ ॥ सत्यप्रदानैर्मधुरैर्वचोभिः संरक्षितव्या तरुणी सदैव । अरक्षिता चापि कुलस्य नाशं कुर्याद्धि वै बाह्यजनानुरागात् ॥ १८४ ॥ अग्राम्यमण्डनः प्राज्ञः शुचिः श्रीमांश्च गायनः । नर्मगोष्ठीप्रविष्टश्च षड्गुणो नागरो मतः ॥ १८५ ॥ त्यागी विवेकी कुशलः कुलीनः कलाभिविज्ञः सुमतिर्धनाढ्यः । भवक्षमः सर्वसहः सुखी च श्रीमान् सुशीलः स हि नायकः स्यात् ॥ १८६ ॥ रजकी मालिनी धात्री योगिनी प्रतिवेशिनी । सखी गोपालिका चेटी नापिता विधवा नटी ॥ १८७ ॥ सैरन्ध्री कन्यका चैव दैवज्ञा दूतिका मता । विचित्राभरणा दक्षा परिज्ञातपरेङ्गिता ॥ १८८ ॥ प्रवीणा स्थिरभावा च प्रगल्भा दूतिका मता । दूती नियुज्यते कार्ये बहुभाषाविभूषिता ॥ १८९ ॥ रोषानुरूपकोपा या अनुनीता च तुष्यति । लक्ष्यते सा भृशं नाथगुणहार्यमनोज्ञया ॥ १९० ॥ अहरहरनुरागा दूतिकां प्रेष्य पूर्वं सरभसमुपयाति क्वापि संकेतदेशे । न मीलति खलु यस्या वल्लभो दैवयोगान्निगदति भरतस्तां नायिकां विप्रलब्धाम् ॥ १९१ ॥ यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ १९२ ॥ या नित्यं प्रियविच्छेदे कान्तसौन्दर्यचेष्टिते । ध्यायेदेकमना भूत्वा स्यात्सा विरहिणी मता ॥ १९३ ॥ उद्दाममन्मथशरज्वरवेपमाना रोमाञ्चकर्णकुसुमं कुशलं वहन्ती । निःशङ्किनी व्रजति या प्रियसंगमाय सा नायिका खलु भवेदभिसारिकेति ॥ १९४ ॥ या निर्लज्जा कृता गाढं मदेन मदनेन च । अभियाति प्रियं साभिसारिका कथिता बुधैः ॥ १९५ ॥ अज्ञानान्न गतो यस्याः संकेतमुचितप्रियः । तदनागमसंतप्ता खण्डिता सा प्रकीर्तिता ॥ १९६ ॥ निरस्तो मन्युना कान्तः समर्थो हि यया पुनः । अवस्थिता विना तेन कुपिता कथिता बुधैः ॥ १९७ ॥ भवेद्वासकसज्जा सा दूतीद्वारेण निर्जने । निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥ १९८ ॥ दुर्वारदारुणमनोभवयोगमाप्य पर्याकुलाकलितमानसमुद्वहन्तीम् । दुर्वारमन्मथशरज्वरवेपमानामुत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥ १९९ ॥ प्रियैकवर्तिनी चोष्णा धावत्युन्मादिनी तथा । तत्रैवावस्थिते कान्ते विरहोत्कण्ठिता मता ॥ २०० ॥ असाध्यायाः सुखं सिद्धिः साध्यायाश्चानुरञ्जनम् । स्वेच्छया वर्धते सम्यक्कामशास्त्रप्रयोजनम् ॥ २०१ ॥ अथ शुद्धं तथाशुद्धं समासादिततत्क्रियः । मन्त्रो गुरुमुखाल्लब्धः सिध्यत्यत्र न संशयः ॥ २०२ ॥ त्रिचामुण्डे इति पदं ततः क्वनु क्वनु स्मृतम् । ततः पदं छनु छनु स्वकीयं वशमानयेत् ॥ २०३ ॥ साध्यानाम द्वितीयान्तं दत्त्वा स्वाहेति योजयेत् । सामान्येनामुकीनामजपं कृत्वा वशं नयेत् ॥ २०४ ॥ ह्रीं स्वाहेति मन्त्रेण साध्यानामान्वितेन च । सप्ताभिमन्त्रितं पुष्पं यैव गृह्णाति सा वशा ॥ २०५ ॥ काकजिह्वालिपक्षौ च सुवर्णमलमश्रु च । रक्तं रतेश्च लेपेन वशीकुर्युर्मनीषिणः ॥ २०६ ॥ सम्भोगजं वचाबीजं जिह्वा चार्कदलं सितम् । संचूर्ण्याञ्जितनेत्राणां भार्यापि वशतां नयेत् ॥ २०७ ॥ हरितालं मनःशिला रक्तचन्दनमेतत्सर्वं चूर्णीकृत्य । पुष्पेण सह यस्याः शिरसि दीयते सा पशुवद्वश्या भवति । पेचकस्य हृदयं कुङ्कुमेन सह सम्पिष्य तिलकं कुर्यात्तेन लोको वश्यो भवति ॥ २०८ ॥ अश्वगन्धा वचा कुष्ठं बला नागबला तथा । माहिषं नवनीतं च गजपिप्पलीसंयुतम् ॥ २०९ ॥ पिष्ट्वा तेषां विलेपेन गाढीकरणमुत्तमम् । सम्पिष्टं छागमूत्रेण शूकशिम्बीसमुद्भवम् ॥ २१० ॥ नूनं तस्य प्रलेपेन लिङ्गं लौहोपमं भवेत् । नीलोत्पलसिताम्भोजकेसरं मधु शर्करा ॥ २११ ॥ अमीषां नाभिलेपेन रमते कामुकश्चिरम् । क्षीरेण कमलं पिष्ट्वा सलिलं गुटिकाकृतम् ॥ २१२ ॥ उपस्थे निहितं कुर्यात्प्रकीर्णमपि च क्वचित् । अस्थि कृष्णबिडालस्य दक्षिणपार्श्वसम्भवम् ॥ २१३ ॥ बद्धं कटितटे बीजं विबन्धं कुरुते ध्रुवम् । सप्तपर्णस्य बीजं हि स्तम्भयेच्छुक्रमात्मगम् ॥ २१४ ॥ सितशरपुंषामूलं पारदसहितं करे धृत्वा । करञ्जबीजं मध्यस्थं समूलं बन्धयेद्बीजम् ॥ २१५ ॥ केतकीभूमिलतासनमूलीबन्धविपक्वं कुसुम्भतैलम् । पादतले लेपेनावश्यं बीजस्तम्भं नयति पुंसाम् ॥ २१६ ॥ माहिषदधिसहदेवीतिलमधुसितपद्मकेसरं मिलितम् । चूर्णं नाभिविलेपाद्वीर्यस्तम्भं करोत्यवश्यम् ॥ २१७ ॥ बृहत्करञ्जबीजस्थं पारदं पद्मवेष्टितम् । मुखे क्षिप्तमिदं बीजं स्तम्भयत्येव निश्चितम् ॥ २१८ ॥ कुर्यादादौ परिच्छेदं मर्दनं च विशेषतः । सप्ताहं भावयेन्माषं निस्तुषं विदलं ततः ॥ २१९ ॥ नालिकेरोदकेनाथ पुनस्तेषां च भावना । तत्पश्चाद्घनभ्रष्टं च भक्षयेत्क्षीरसाधितम् ॥ २२० ॥ वधूशतसहस्राणि कामी कामयते ततः ॥ २२१ ॥ यस्तूपानहमाकुञ्च्य समानेन नियोजयेत् । पादाङ्गुष्ठेन भूमौ तां पीडयेत्तु समाहितः ॥ २२२ ॥ भक्षयेदथवा दग्धैश्चम्पकीकदलीयुतम् । अत्यग्रभागसंयुक्तः पुना ऋद्धिं प्रयच्छति ॥ २२३ ॥ कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चार्पितचित्तवृत्तिः । समृद्धमाबद्धमभिन्नधैर्यः श्लथोऽपि दीर्घं रमते रते ॥ २२४ ॥ पारदं टङ्कनं व्योषा काकमाची तथा मधु । क्षिप्तलिङ्गश्चिरं नारीं द्रावयेद्रमणः सदा ॥ २२५ ॥ तुम्बीपत्रं च लोध्रं च समभागेन लेपयेत् । भगलेपप्रदत्तेऽस्मिन् प्रसूताप्यक्षता भवेत् ॥ २२६ ॥ पलाशोदुम्बरं चापि तैलं कुसुमसम्भवम् । मधुना योनिसंलेपाद्गाढीकरणमुत्तमम् ॥ २२७ ॥ स्वीयेष्टदेवतामन्त्रो जप्तः स्वार्थमहिंसकः । यथाविभूतिदानं हि ब्रह्मचर्ये च तिष्ठति ॥ २२८ ॥ कृत्वादौ तत्र शुद्धिं तु पुनः क्षेत्रे शुभेक्षणे । सूर्योदयप्रदोषाभ्यां विशेषाच्च स्वयं बली ॥ २२९ ॥ कृत्वा चैकमना विज्ञो यदि बीजं विमुञ्चति । सूते मासोदये नूनं गुणवन्तं यशस्विनम् ॥ २३० ॥