ओंनमःशुक्रबृहस्पतिभ्यां -- ०११०१।पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यैकमिदमर्थशास्त्रं कृतम् ॥ ०११०२। तस्यायं प्रकरणाधिकरणसमुद्देशः ॥ ०११०३ विद्यासमुद्देशः, वृद्धसमुद्देशः, इन्द्रियजयः, अमात्योत्पत्तिः, मन्त्रिपुरोहितोत्पत्तिः, उपधाभिः शौचाशौचज्ञानममात्यानाम्, - - ०११०३ गूढपुरुषप्रणिधिः, स्वविषये कृत्याकृत्यपक्षरक्षणम्, परविषये कृत्याकृत्यपक्षोपग्रहः, - ०११०३ मन्त्राधिकारः, दूतप्रणिधिः, राजपुत्ररक्षणम्, अपरुद्धवृत्तम्, अपरुद्धे वृत्तिः, राजप्रणिधिः, निशान्तप्रणिधिः, आत्मरक्षितकम्, --, इति विनयाधिकारिकं प्रथममधिकरणम् ॥ ०११०४ जनपदनिवेशः, भूमिच्छिद्रापिधानम्, दुर्गविधानम्, दुर्गनिवेशः, सन्निधातृनिचयकर्म, समाहर्तृसमुदयप्रस्थापनम्, अक्षपटले गाणनिक्याधिकारः, - ०११०४ समुदयस्य युक्तापहृतस्य प्रत्यानयनम्, उपयुक्तपरीक्षा, शासनाधिकारः, कोशप्रवेश्यरत्नपरीक्षा, आकरकर्मान्तप्रवर्तनम्, अक्षशालायां सुवर्णाध्यक्षः - ०११०४ विशिखायां सौवर्णिकप्रचारः, कोष्ठागाराध्यक्षः, पण्याध्यक्षः, कुप्याध्यक्षः, आयुधाध्यक्षः, तुलामानपौतवम्, - ०११०४ देशकालमानम्, शुल्काध्यक्षः, सूत्राध्यक्षः, सीताध्यक्षः, सुराध्यक्षः, सूनाध्यक्षः, गणिकाध्यक्षः, - ०११०४ नावध्यक्षः, गोअध्यक्षः, अश्वाध्यक्षः, हस्त्यध्यक्षः, रथाध्यक्षः, पत्त्यध्यक्षः, सेनापतिप्रचारः, मुद्राध्यक्षः, विवीताध्यक्षः, समाहर्तृप्रचारः, - ०११०४ गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः, नागरिकप्रणिधिः -- इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥ ०११०५ व्यवहारस्थापना, विवादपदनिबन्धः, विवाहसम्युक्तम्, दायविभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋणादानम्, औपनिधिकम्, दासकर्मकरकल्पः, - ०११०५ सम्भूय समुत्थानम्, विक्रीतक्रीतानुशयः, दत्तस्य अनपाकर्म, अस्वामिविक्रयः, स्वस्वामिसम्बन्धः, साहसम्, वाक्पारुष्यम्, दण्डपारुष्यम्, द्यूतसमाह्वयम्, प्रकीर्णकं - इति, धर्मस्थीयं तृतीयमधिकरणम् ॥ ०११०६ कारुकरक्षणम्, वैदेहकरक्षणम्, उपनिपातप्रतीकारः, गूढाजीविनां रक्षा, सिद्धव्यञ्जनैर्माणवप्रकाशनम्, शङ्कारूपकर्माभिग्रहः, - ०११०६ आशुमृतकपरीक्षा, वाक्यकर्मानुयोगः, सर्वाधिकरणरक्षणं - ०११०६ एकाङ्गवधनिष्क्रयः, शुद्धश्चित्रश्च दण्ड कल्पः, कन्याप्रकर्म, अतिचारदण्डाः - इति कण्टकशोधनं चतुर्थमधिकरणम् ॥ ०११०७। दाण्डकर्मिकम्, कोशाभिसंहरणम्, भृत्यभरणीयम्, अनुजीविवृत्तम्, समयाचारिकम्, राज्यप्रतिसंधानम्, एकाइश्वर्यं - इति योगवृत्तं पञ्चममधिकरणम् ॥ ०११०८। प्रकृतिसम्पदः, शमव्यायामिकं - इति मण्डलयोनिः षष्ठमधिकरणम् ॥ ०११०९ षाड्गुण्यसमुद्देशः, क्षयस्थानवृद्धिनिश्चयः, संश्रयवृत्तिः, समहीनज्यायसां गुणाभिनिवेशः, हीनसंधयः, विगृह्य आसनम्, संधाय आसनम्, विगृह्य यानम्, संधाय यानम्, - ०११०९ सम्भूय प्रयाणम्, यातव्यामित्रयोरभिग्रहचिन्ता, क्षयलोभविरागहेतवः प्रकृतीनाम्, सामवायिकविपरिमर्शः, - ०११०९ संहित प्रयाणिकम्, परिपणितापरिपणितापसृताः संधयः, द्वैधीभाविकाः संधिविक्रमाः, यातव्यवृत्तिः, अनुग्राह्यमित्रविशेषाः, - ०११०९ मित्रहिरण्यभूमिकर्मसंधयः, पार्ष्णिग्राहचिन्ता, हीनशक्तिपूरणम्, बलवता विगृह्य उपरोधहेतवः, दण्डोपनतवृत्तम्, - ०११०९ दण्डोपनायिवृत्तम्, संधिकर्म, समाधिमोक्षः, मध्यमचरितम्, उदासीनचरितम्, मण्डलचरितं - इति षाड्गुण्यं सप्तममधिकरणम् ॥ ०१११०। प्रकृतिव्यसनवर्गः, राजराज्ययोर्व्यसनचिन्ता, पुरुषव्यसनवर्गः, पीडनवर्गः, स्तम्भवर्गः, कोशसङ्गवर्गः, मित्रव्यसनवर्गः - इति व्यसनाधिकारिकमष्टममधिकरणम् ॥ ०११११ शक्तिदेशकालबलाबलज्ञानम्, यात्राकालाः, बलोपादानकालाः, सन्नाहगुणाः, प्रतिबलकर्म, पश्चात्कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकाराः - ०११११ क्षयव्ययलाभविपरिमर्शः, बाह्याभ्यन्तराश्चापदः, दुष्यशत्रुसम्युक्ताः, अर्थानर्थसंशययुक्ताः, तासामुपायविकल्पजाः सिद्धयः - इत्यभियास्यत्कर्म नवममधिकरणम् ॥ ०१११२। स्कन्धावारनिवेशः, स्कन्धावारप्रयाणम्, बलव्यसनावस्कन्दकालरक्षणम्, कूटयुद्धविकल्पाः, स्वसैन्योत्साहनम्, स्वबलान्यबलव्यायोगः, युद्धभूमयः, पत्त्यश्वरथहस्तिकर्माणि, पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः, सारफल्गुबलविभागः, पत्त्यश्वरथहस्तियुद्धानि, दण्डभोगमण्डलासंहतव्यूहव्यूहनम्, तस्य प्रतिव्यूहस्थापनं - इति सांग्रामिकं दशममधिकरणम् ॥ ०१११३। भेदोपादानानि, उपांशुदण्डाः - इति संघवृत्तमेकादशमधिकरणम् ॥ ०१११४। दूतकर्म, मन्त्रयुद्धम्, सेनामुख्यवधः, मण्डलप्रोत्साहनम्, शस्त्राग्निरसप्रणिधयः, वीवधासारप्रसारवधः, योगातिसंधानम्, दण्डातिसंधानम्, एकविजयः - इत्याबलीयसं द्वादशमधिकरणम् ॥ ०१११५। उपजापः, योगवामनम्, अपसर्पप्रणिधिः, पर्युपासनकर्म, अवमर्दः, लब्धप्रशमनं - इति दुर्गलम्भोपायस्त्रयोदशमधिकरणम् ॥ ०१११६। परबलघातप्रयोगः, प्रलम्भनम्, स्वबलोपघातप्रतीकारः - इत्यौपनिषदिकं चतुर्दशमधिकरणम् ॥ ०१११७। तन्त्रयुक्तयः - इति तन्त्रयुक्तिः पञ्चदशमधिकरणम् ॥ ०१११८। शास्त्रसमुद्देशः पञ्चदशाधिकरणानि साशीतिप्रकरणशतं स-पञ्चाशदध्यायशतं षट्श्लोकसहस्राणीति ॥ ०१११९ सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् । ०१११९ कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ॥E (Cहप्२, षेच्तिओन्१: Eनुमेरतिओनोf थे स्चिएन्चेस्) ((इ) Eस्तब्लिस्हिन्ग्(थे नेचेस्सित्योf) फिलोसोफ्य्) ०१२०१। आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः ॥ ०१२०२। त्रयी वार्त्ता दण्ड नीतिश्चेति मानवाः ॥ ०१२०३। त्रयी विशेषो ह्यान्वीक्षिकीति ॥ ०१२०४। वार्त्ता दण्डनीतिश्चेति बार्हस्पत्याः ॥ ०१२०५। संवरणमात्रं हि त्रयी लोकयात्राविद इति ॥ ०१२०६। दण्डनीतिरेका विद्येत्यौशनसाः ॥ ०१२०७। तस्यां हि सर्वविद्यारम्भाः प्रतिबद्धा इति ॥ ०१२०८। चतस्र एव विद्या इति कौटिल्यः ॥ ०१२०९। ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ॥ ०१२१०। सांख्यं योगो लोकायतं चेत्यान्वीक्षिकी ॥ ०१२११। धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यां बलाबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेभ्युदये च बुद्धिमवस्थापयति प्रज्ञावाक्यक्रियावैशारद्यं च करोति ॥ ०१२१२ प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । ०१२१२ आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥E (Cहप्३, षेच्तिओन्१, (ई) Eस्तब्लिस्हिन्ग्(थे नेचेस्सित्योf) थे Vएदिचॢओरे) ०१३०१। सामर्ग्यजुर्वेदास्त्रयस्त्रयी ॥ ०१३०२। अथर्ववेदेतिहासवेदौ च वेदाः ॥ ०१३०३। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषमिति चाङ्गानि ॥ ०१३०४। एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः ॥ ०१३०५। स्वधर्मो ब्राह्मणस्य अध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ॥ ०१३०६। क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च ॥ ०१३०७। वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च ॥ ०१३०८। शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च ॥ ०१३०९। गृहस्थस्य स्वधर्माजीवस्तुल्यैरसमानर्षिभिर्वैवाह्यमृतुगामित्वं देवपित्रतिथिपूजा भृत्येषु त्यागः शेषभोजनं च ॥ ०१३१०। ब्रह्मचारिणः स्वाध्यायो अग्निकार्याभिषेकौ भैक्षव्रतित्वमाचार्ये प्राणान्तिकी वृत्तिस्तदभावे गुरुपुत्रे स-ब्रह्मचारिणि वा ॥ ०१३११। वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्रतिथिपूजा वन्यश्चाहारः ॥ ०१३१२। परिव्राजकस्य जितेन्द्रियत्वमनारम्भो निष्किंचनत्वं सङ्गत्यागो भैक्षव्रतमनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम् ॥ ०१३१३। सर्वेषामहिंसा सत्यं शौचमनसूय आनृशंस्यं क्षमा च ॥ ०१३१४। स्वधर्मः स्वर्गायानन्त्याय च ॥ ०१३१५। तस्यातिक्रमे लोकः संकरादुच्छिद्येत ॥ ०१३१६ तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् । ०१३१६ स्वधर्मं संदधानो हि प्रेत्य चेह च नन्दति ॥ ०१३१७ व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः । ०१३१७ त्रय्याभिरक्षितो लोकः प्रसीदति न सीदति ॥E ((ईइ) Eस्तब्लिस्हिन्ग्(थे नेचेस्सित्योf) Eचोनोमिच्स्, अन्द्(इव्) थे ष्चिएन्चे ओf ড়ोलितिच्स्) ०१४०१। कृषिपाशुपाल्ये वणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्टिप्रदानादौपकारिकी ॥ ०१४०२। तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम् ॥ ०१४०३। आन्वीक्षिकी त्रयी वार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्ड नीतिः, अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ ०१४०४। तस्यामायत्ता लोकयात्रा ॥ ०१४०५। "तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डः स्यात् ॥ ०१४०६। न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्डः ।" इत्याचार्याः ॥ ०१४०७। नेति कौटिल्यः ॥ ०१४०८। तीक्ष्णदण्डो हि भूतानामुद्वेजनीयो भवति ॥ ०१४०९। मृदुदण्डः परिभूयते ॥ ०१४१०। यथार्हदण्डः पूज्यते ॥ ०१४११। सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति ॥ ०१४१२। दुष्प्रणीतः कामक्रोधाभ्यामवज्ञानाद्वा वानप्रस्थपरिव्राजकानपि कोपयति, किंङ्ग पुनर्गृहस्थान् ॥ ०१४१३। अप्रणीतस्तु मात्स्यन्यायमुद्भावयति ॥ ०१४१४। बलीयानबलं हि ग्रसते दण्डधराभावे ॥ ०१४१५। स तेन गुप्तः प्रभवति इति ॥ ०१४१६ चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः । ०१४१६ स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ॥E (षेच्तिओन्२: आस्सोचिअतिओन् wइथेल्देर्स्) ०१५०१। तस्माद्दण्डमूलास्तिस्रो विद्याः ॥ ०१५०२। विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः ॥ ०१५०३। कृतकः स्वाभाविकश्च विनयः ॥ ०१५०४। क्रिया हि द्रव्यं विनयति नाद्रव्यम् ॥ ०१५०५। शुश्रूषा श्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति नेतरम् ॥ ०१५०६। विद्यानां तु यथास्वमाचार्यप्रामाण्याद्विनयो नियमश्च ॥ ०१५०७। वृत्तचौलकर्मा लिपिं संख्यानं चोपयुञ्जीत ॥ ०१५०८। वृत्तोपनयनस्त्रयीमान्वीक्षिकीं च शिष्टेभ्यो वार्त्तामध्यक्षेभ्यो दण्डनीतिं वक्तृप्रयोक्तृभ्यः ॥ ०१५०९। ब्रह्मचर्यं च षोडशाद्वर्षात् ॥ ०१५१०। अतो गोदानं दारकर्म चास्य ॥ ०१५११। नित्यश्च विद्यावृद्धसम्योगो विनयवृद्ध्यर्थम्, तन्मूलत्वाद्विनयस्य ॥ ०१५१२। पूर्वमहर्भागं हस्त्यश्वरथप्रहरणविद्यासु विनयं गच्छेत् । ०१५१३। पश्चिममितिहासश्रवणे ॥ ०१५१४। पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्रं चेतीतिहासः ॥ ०१५१५। शेषमहोरात्रभागमपूर्वग्रहणं गृहीतपरिचयं च कुर्यात्, अगृहीतानामाभीक्ष्ण्यश्रवणं च ॥ ०१५१६। श्रुताद्धि प्रज्ञोपजायते प्रज्ञाया योगो योगादात्मवत्तेति विद्यानां सामर्थ्यम् ॥ ०१५१७ विद्याविनीतो राजा हि प्रजानां विनये रतः । ०१५१७ अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः ॥E (षेच्तिओन्३: Cओन्त्रोलोवेर्थे सेन्सेस्, (इ) Cअस्तिन्गोउत्थे ग्रोउपोf सिx एनेमिएस्) ०१६०१। विद्या विनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षत्यागात्कार्यः ॥ ०१६०२। कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः, शास्त्रानुष्ठानं वा ॥ ०१६०३। कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः ॥ ०१६०४। तद्विरुद्धवृत्तिरवश्येन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ॥ ०१६०५। यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः स-बन्धुराष्ट्रो विननाश, करालश्च वैदेहः ॥ ०१६०६। कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु ॥ ०१६०७। लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः, सौवीरश्चाजबिन्दुः । ०१६०८। मानाद्रावणः परदारानप्रयच्छन्, दुर्योधनो राज्यादंशं च ॥ ०१६०९। मदाद्दम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः ॥ ०१६१०। हर्षाद्वातापिरगस्त्यमत्यासादयन्, वृष्णिसंघश्च द्वैपायनमिति ॥ ०१६११ एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः । ०१६११ स-बन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः ॥ ०१६१२ शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः । ०१६१२ अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ॥E ((ई) ठे लिfए ओf अ सगे-लिके किन्ग्) ०१७०१। तस्मादरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत, वृद्धसम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनम्, कार्यानुशासनेन स्वधर्मस्थापनम्, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसम्योगेन वृत्तिम् ॥ ०१७०२। एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यमनृतमुद्धतवेषत्वमनर्थ्यसम्योगमधर्मसम्युक्तमनर्थसम्युक्तं च व्यवहारम् ॥ ०१७०३। धर्मार्थाविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥ ०१७०४। समं वा त्रिवर्गमन्योन्यानुबद्धम् ॥ ०१७०५। एको ह्यत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीडयति ॥ ०१७०६। अर्थैव प्रधानेति कौटिल्यः ॥ ०१७०७। अर्थमूलौ हि धर्मकामाविति ॥ ०१७०८। मर्यादां स्थापयेदाचार्यानमात्यान् वा, यैनमपाय स्थानेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः ॥ ०१७०९ सहायसाध्यं राजत्वं चक्रमेकं न वर्तते । ०१७०९ कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतम् ॥E (आप्पोइन्त्मेन्तोf मिनिस्तेर्स्) ०१८०१। "सहाध्यायिनो अमात्यान् कुर्वीत, दृष्टशौचसामर्थ्यत्वात्" इति भारद्वाजः ॥ ०१८०२। "ते ह्यस्य विश्वास्या भवन्ति" इति ॥ ०१८०३। नेति विशालाक्षः ॥ ०१८०४। "सहक्रीडितत्वात्परिभवन्त्येनम् ॥ ०१८०५। ये ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत, समानशीलव्यसनत्वात् ॥ ०१८०६। ते ह्यस्य मर्मज्ञभयान्नापराध्यन्ति" इति ॥ ०१८०७। "साधारणैष दोषः" इति पाराशराः ॥ ०१८०८। "तेषामपि मर्मज्ञभयात्कृताकृतान्यनुवर्तेत ॥ ०१८०९ यावद्भ्यो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः । ०१८०९ अवशः कर्मणा तेन वश्यो भवति तावताम् ॥ ०१८१०। यैनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुस्तानमात्यान् कुर्वीत, दृष्टानुरागत्वात्" इति ॥ ०१८११। नेति पिशुनः ॥ ०१८१२। "भक्तिरेषा न बुद्धिगुणः ॥ ०१८१३। संख्यातार्थेषु कर्मसु नियुक्ता ये यथादिष्टमर्थं सविशेषं वा कुर्युस्तानमात्यान् कुर्वीत, दृष्टगुणत्वात्" इति ॥ ०१८१४। नेति कौणपदन्तः ॥ ०१८१५। "अन्यैरमात्यगुणैरयुक्ता ह्येते ॥ ०१८१६। पितृपैतामहानमात्यान् कुर्वीत, दृष्टावदानत्वात् ॥ ०१८१७। ते ह्येनमपचरन्तमपि न त्यजन्ति, सगन्धत्वात् ॥ ०१८१८। अमानुषेष्वपि चैतद्दृश्यते ॥ ०१८१९। गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते" इति ॥ ०१८२०। नेति वातव्याधिः ॥ ०१८२१। "ते ह्यस्य सर्वमवगृह्य स्वामिवत्प्रचरन्ति ॥ ०१८२२। तस्मान्नीतिविदो नवानमात्यान् कुर्वीत ॥ ०१८२३। नवास्तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्ति" इति ॥ ०१८२४। नेति बाहुदन्ती पुत्रः ॥ ०१८२५। "शास्त्रविददृष्टकर्मा कर्मसु विषादं गच्छेत् ॥ ०१८२६। तस्मादभिजनप्रज्ञाशौचशौर्यानुरागयुक्तानमात्यान् कुर्वीत, गुणप्राधान्यात्" इति ॥ ०१८२७। सर्वमुपपन्नमिति कौटिल्यः ॥ ०१८२८। कार्यसामर्थ्याद्धि पुरुषसामर्थ्यं कल्प्यते ॥ ०१८२९ सामर्थ्यश्च -- विभज्यामात्यविभवं देशकालौ च कर्म च । ०१८२९ अमात्याः सर्व एवैते कार्याः स्युर्न तु मन्त्रिणः ॥E (आप्पोइन्त्मेन्तोf चोउन्सेल्लोर्सन्द्छप्लैन्) ०१९०१। जानपदो अभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशसहः शुचिर्मैत्रो दृढभक्तिः शीलबलारोग्यसत्त्वयुक्तः स्तम्भचापलहीनः सम्प्रियो वैराणामकर्तेत्यमात्यसम्पत् ॥ ०१९०२। अतः पादार्घगुणहीनौ मध्यमावरौ ॥ ०१९०३। तेषां जनपदभिजनमवग्रहं चाप्ततः परीक्षेत, समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च, कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शीलबलारोग्यसत्त्वयोगमस्तम्भमचापलं च, प्रत्यक्षतः सम्प्रियत्वमवैरत्वं च ॥ ०१९०४। प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः ॥ ०१९०५। स्वयं द्र्ष्टं प्रत्यक्षम् ॥ ०१९०६। परोपदिष्टं परोक्षम् ॥ ०१९०७। कर्मसु कृतेनाकृतावेक्षणमनुमेयम् ॥ ०१९०८। यौगपद्यात्तु कर्मणामनेकत्वादनेकस्थत्वाच्च देशकालात्ययो मा भूदिति परोक्षममात्यैः कारयेत् ॥ इत्यमात्यकर्म । ०१९०९। पुरोहितमुदितोदितकुलशीलं साङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतमापदां दैवमानुषीणामथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ॥ ०१९१०। तमाचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनमिव चानुवर्तेत ॥ ०१९११ ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् । ०१९११ जयत्यजितमत्यन्तं शास्त्रानुगमशस्त्रितम् ॥E (आस्चेर्तैन्मेन्तोf थे इन्तेग्रित्योर्थे अब्सेन्चे ओf इन्तेग्रित्योf मिनिस्तेर्ब्य्मेअन्सोf सेच्रेत्तेस्त्स्) ०११००१। मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वामात्यानुपधाभिः शोधयेत् ॥ ०११००२। पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजावक्षिपेत् ॥ ०११००३। स सत्त्रिभिः शपथपूर्वमेकैकममात्यमुपजापयेत्- "अधार्मिको अयं राजा, साधु धार्मिकमन्यमस्य तत्कुलीनमपरुद्धं कुल्यमेकप्रग्रहं सामन्तमाटविकमौपपादिकं वा प्रतिपादयामः, सर्वेषामेतद्रोचते, कथं वा तव" इति ॥ ०११००४। प्रत्याख्याने शुचिः । इति धर्मोपधा ॥ ०११००५। सेनापतिरसत्प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकममात्यमुपजापयेत्लोभनीयेनार्थेन राजविनाशाय, "सर्वेषामेतद्रोचते, कथं वा तव" इति ॥ ०११००६। प्रत्याख्याने शुचिः । इत्यर्थोपधा ॥ ०११००७। परिव्राजिका लब्धविश्वासान्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत्- "राजमहिषी त्वां कामयते कृतसमागमोपाया, महानर्थश्च ते भविष्यति" इति ॥ ०११००८। प्रत्याख्याने शुचिः । इति कामोपधा ॥ ०११००९। प्रहवणनिमित्तमेको अमात्यः सर्वानमात्यानावाहयेत् ॥ ०११०१०। तेनोद्वेगेन राजा तानवरुन्ध्यात् ॥ ०११०११। कापटिकश्चात्र पूर्वावरुद्धस्तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजपेत्- "असत्प्रवृत्तो अयं राजा, साध्वेनं हत्वान्यं प्रतिपादयामः, सर्वेषामेतद्रोचते, कथं वा तव" इति ॥ ०११०१२। प्रत्याख्याने शुचिः । इति भयोपधा ॥ ०११०१३। तत्र धर्मोपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु कर्मसु स्थापयेत्, अर्थोपधाशुद्धान् समाहर्तृसन्निधातृनिचयकर्मसु, कामोपधा शुद्धान् बाह्याभ्यन्तरविहाररक्षासु, भयोपधाशुद्धानासन्नकार्येषु राज्ञः ॥ ०११०१४। सर्वोपधाशुद्धान्मन्त्रिणः कुर्यात् ॥ ०११०१५। सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषु उपयोजयेत् ॥ ०११०१६ त्रिवर्गभयसंशुद्धानमात्यान् स्वेषु कर्मसु । ०११०१६ अधिकुर्याद्यथा शौचमित्याचार्या व्यवस्थिताः ॥ ०११०१७ न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यमीश्वरः । ०११०१७ शौचहेतोरमात्यानामेतत्कौटिल्यदर्शनम् ॥ ०११०१८ न दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् । ०११०१८ कदाचिद्धि प्रदुष्टस्य नाधिगम्येत भेषजम् ॥ ०११०१९ कृता च कलुषाबुद्धिरुपधाभिश्चतुर्विधा । ०११०१९ नागत्वान्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ॥ ०११०२० तस्माद्बाह्यमधिष्ठानं कृत्वा कार्ये चतुर्विधे । ०११०२० शौचाशौचममात्यानां राजा मार्गेत सत्त्रिभिः ॥E (आप्पोइन्त्मेन्तोf पेर्सोन्सिन् सेच्रेत्सेर्विचे) ०१११०१। उपधाभिः शुद्धामात्यवर्गो गूढपुरुषानुत्पादयेत्कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्त्रितीष्क्णरसदभिक्षुकीश्च ॥ ०१११०२। परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः ॥ ०१११०३। तमर्थमानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात्- "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीमेव प्रत्यादिश" इति ॥ ०१११०४। प्रव्रज्या प्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः ॥ ०१११०५। स वार्त्ताकर्मप्रदिष्टायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत् ॥ ०१११०६। कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात् ॥ ०१११०७। वृत्तिकामांश्चोपजपेत्- "एतेनैव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले चोपस्थातव्यम्" इति ॥ ०१११०८। सर्वप्रव्रजिताश्च स्वं स्वं वर्गमेवमुपजपेयुः ॥ ०१११०९। कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः ॥ ०११११०। स कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥ ०१११११। वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः ॥ ०११११२। स वणिक्कर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥ ०११११३। मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः ॥ ०११११४। स नगराभ्याशे प्रभूतमुण्डजटिलान्तेवासी शाकं यवमुष्टिं वा मासद्विमासान्तरं प्रकाशमश्नीयात्, गूढमिष्टमाहारम् ॥ ०११११५। वैदेहकान्तेवासिनश्चैनं समिद्धयोगैरर्चयेयुः ॥ ०११११६। शिष्याश्चास्यावेदयेयुः - "असौ सिद्धः सामेधिकः" इति ॥ ०११११७। समेधाशास्तिभिश्चाभिगतानामङ्गविद्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत्- अल्पलाभमग्निदाहं चोरभयं दूष्यवधं तुष्टिदानं विदेशप्रवृत्तिज्ञानम्, "इदमद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥ ०११११८। तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ॥ ०११११९। सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाग्यमनुव्याहरेत्, मन्त्रिसम्योगं च ब्रूयात् ॥ ०१११२०। मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत ॥ ०१११२१। ये च कारणादभिक्रुद्धास्तानर्थमानाभ्यां शमयेत्, अकारणक्रुद्धांस्तूष्णीं दण्डेन, राजद्विष्टकारिणश्च ॥ ०१११२२ पूजिताश्चार्थमानाभ्यां राज्ञा राजोपजीविनाम् । ०१११२२ जानीयुः शौचमित्येताः पञ्चसंस्थाः प्रकीर्तिताः ॥E (आप्पोइन्त्मेन्तोf रोविन्ग्स्पिएसृउलेस्fओर्सेच्रेत्सेर्वन्त्स्) ०११२०१। ये चाप्यस्मबन्धिनो अवश्यभर्तव्यास्ते लक्षणमङ्गविद्यां जम्भकविद्यां मायागतमाश्रमधर्मं निमित्तमन्तरचक्रमित्यधीयानाः सत्त्रिणः, संसर्गविद्यां च ॥ ०११२०२। ये जनपदे शूरास्त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ॥ ०११२०३। ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ॥ ०११२०४। परिव्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यभिगच्छेत् ॥ ०११२०५। एतया मुण्डा वृषल्यो व्याख्याताः ॥ इति संचाराः । ०११२०६। तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशान् भक्तितः सामर्थ्ययोगाच्चापसर्पयेत् ॥ ०११२०७। तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनोपग्राहिणस्तीक्ष्णा विद्युः ॥ ०११२०८। तं सत्त्रिणः संस्थास्वर्पयेयुः ॥ ०११२०९। सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चाभ्यन्तरं चारं विद्युः ॥ ०११२१०। तं भिक्ष्क्यः संस्थास्वप्रयेयुः ॥ ०११२११। संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसंचारं कुर्युः ॥ ०११२१२। न चान्योन्यं संस्थास्ते वा विद्युः ॥ ०११२१३। भिक्षुकीप्रतिषेधे द्वाह्स्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो वा गीतपाठ्यवाद्यभाण्डगूढलेख्यसंज्ञाभिर्वा चारं निर्हरेयुः॥ ०११२१४। दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम् ॥ ०११२१५। त्रयाणामेकवाक्ये सम्प्रत्ययः ॥ ०११२१६। तेषामभीक्ष्णविनिपाते तूष्णींदण्डः प्रतिषेधः ॥ ०११२१७। कण्टकशोधनोक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुरसम्पातिनश्चारार्थम् ॥ ०११२१८। त उभयवेतनाः ॥ ०११२१९ गृहीतपुत्रदारांश्च कुर्यादुभयवेतनान् । ०११२१९ तांश्चारिप्रहितान् विद्यात्तेषां शौचं च तद्विधैः ॥ ०११२२० एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् । ०११२२० उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ॥ ०११२२१ अन्तर्गृहचरास्तेषां कुब्जवामनपण्डकाः । ०११२२१ शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः ॥ ०११२२२ दुर्गेषु वणिजः संस्था दुर्गान्ते सिद्धतापसाः । ०११२२२ कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः ॥ ०११२२३ वने वनचराः कार्याः श्रमणाटविकादयः । ०११२२३ परप्रवृत्तिज्ञानार्थाः शीघ्राश्चारपरम्पराः ॥ ०११२२४ परस्य चैते बोद्धव्यास्तादृशैरेव तादृशाः । ०११२२४ चारसंचारिणः संस्था गूढाश्चागूढसंज्ञिताः ॥ ०११२२५ अकृत्यान् कृत्यपक्षीयैर्दर्शितान् कार्यहेतुभिः । ०११२२५ परापसर्पज्ञानार्थं मुख्यानन्तेषु वासयेत् ॥E (Kएएपिन्ग wअत्छोवेर्थे सेदुचिब्ले अन्द्नोन्-सेदुचिब्ले पर्तिएसिनोनेऽसोwन् तेर्रितोर्य्) ०११३०१। कृतमहामात्रापसर्पः पौरजानपदानपसर्पयेत् ॥ ०११३०२। सत्त्रिणो द्वन्द्विनस्तीर्थसभापूगजनसमवायेषु विवादं कुर्युः ॥ ०११३०३। "सर्वगुणसम्पन्नश्चायं राजा श्रूयते, न चास्य कश्चिद्गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयति" इति ॥ ०११३०४। तत्र येनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ॥ ०११३०५। "मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥ ०११३०६। धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयाम्-आसुः ॥ ०११३०७। तेन भृता राजानः प्रजानां योगक्षेमावहाः ॥ ०११३०८। तेषां किल्बिषमदण्डकरा हरन्त्ययोगक्षेमावहाश्च प्रजानाम् ॥ ०११३०९। तस्मादुञ्छषड्भागमारण्यकापि निर्वपन्ति - "तस्यैतद्भागधेयं योअस्मान् गोपायति" इति ॥ ०११३१०। इन्द्रयमस्थानमेतद्राजानः प्रत्यक्षहेडप्रसादाः ॥ ०११३११। तानवमन्यमानान् दैवोअपि दण्डः स्पृशति ॥ ०११३१२। तस्माद्राजानो नावमन्तव्याः ॥ ०११३१३। इत्येवं क्षुद्रकान् प्रतिषेधयेत् ॥ ०११३१४। किंवदन्तीं च विद्युः ॥ ०११३१५। ये चास्य धान्यपशुहिरण्यान्याजीवन्ति, तैरुपकुर्वन्ति व्यसनेभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनास्तुष्टातुष्टत्वं विद्युः ॥ ०११३१६। तुष्टान् भूयोअर्थमानाभ्यां पूजयेत् ॥ ०११३१७। अतुष्टांस्तुष्टिहेतोस्त्यागेन साम्ना च प्रसादयेत् ॥ ०११३१८। परस्पराद्वा भेदयेदेनान्, सामन्ताटविकतत्कुलीनापरुद्धेभ्यश्च ॥ ०११३१९। तथाप्यतुष्यतो दण्डकरसाधनाधिकारेण जनपदविद्वेषं ग्राहयेत् ॥ ०११३२०। विविष्टानुपांशुदण्डेन जनपदकोपेन वा साधयेत् ॥ ०११३२१। गुप्तपुत्रदारानाकरकर्मान्तेषु वा वासयेत्परेषामास्पदभयात् ॥ ०११३२२। क्रुद्धलुब्धभीतमानिनस्तु परेषां कृत्याः ॥ ०११३२३। तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धममित्राटविकसम्बन्धं वा विद्युः ॥ ०११३२४। तुष्टानर्थमानाभ्यां पूजयेत् । ०११३२५। अतुष्टान् सामदानभेददण्डैः साधयेत् ॥ ०११३२६ एवं स्वविषये कृत्यानकृत्यांश्च विचक्षणः । ०११३२६ परोपजापात्सम्रक्षेत्प्रधानान् क्षुद्रकानपि ॥E (ॡइन्निन्गोवेर्थे सेदुचिब्ले अन्द्नोन्-सेदुचिब्ले पर्तिएसिन् थे एनेम्य्"स्तेर्रितोर्य्) ०११४०१। कृत्याकृत्यपक्षोपग्रहः स्वविषये व्याख्यातः, परविषये वाच्यः ॥ ०११४०२। संश्रुत्यार्थान् विप्रलब्धः, तुल्यकारिणोः शिल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, समाहूय पराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद्दायाद्याद्वोपरुद्धः, मानाधिकाराभ्यां भ्रष्टः, कुल्यैरन्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्तः, परोक्तदण्डितः, मिथ्याचारवारितः, सर्वस्वम् आहारितः, बन्धनपरिक्लिष्टः, प्रवासितबन्धुः - इति क्रुद्धवर्गः ॥ ०११४०३। स्वयमुपहतः, विप्रकृतः, पापकर्माभिख्यातः, तुल्यदोषदण्डेनोद्विग्नः, पर्यात्तभूमिः, दण्डेनोपनतः, सर्वाधिकरणस्थः, सहसोपचितार्थः, तत्कुलीनोपाशंसुः, प्रद्विष्टो राज्ञा, राजद्वेषी च - इति भीतवर्गः ॥ ०११४०४। परिक्षीणः, अन्यात्तस्वः, कदर्यः, व्यसनी, अत्याहितव्यवहारश्च - इति लुब्धवर्गः ॥ ०११४०५। आत्मसम्भावितः, मानकामः, शत्रुपूजामर्षितः, नीचैरुपहितः, तीक्ष्णः, साहसिकः, भोगेनासंतुष्टः - इति मानिवर्गः ॥ ०११४०६। तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयस्तं तेनोपजापयेत् ॥ ०११४०७। "यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति, एवमयमशास्त्रचक्षुरन्धो राजा पौरजानपदवधायाभ्युत्थितः, शक्यमस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुम्, अमर्षः क्रियताम्" इति क्रुद्धवर्गमुपजापयेत् ॥ ०११४०८। "यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषमुत्सृजति, एवमयं राजा जातदोषाशङ्कस्त्वयि पुरा क्रोधविषमुत्सृजति, अन्यत्र गम्यताम्" इति भीतवर्गंुपजापयेत् ॥ ०११४०९। "यथा श्वगणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवमयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुह्यते नात्मगुणसम्पन्नेभ्यः, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम्" इति लुब्धवर्गंुपजापयेत् ॥ ०११४१०। "यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषाम्, एवमयं राजा नीचो नीचानामेवोपभोग्यो न त्वद्विधानामार्याणाम्, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम्" इति मानिवर्गमुपजापयेत् ॥ ०११४११ तथेति प्रतिपन्नांस्तान् संहितान् पणकर्मणा । ०११४११ योजयेत यथाशक्ति सापसर्पान् स्वकर्मसु ॥ ०११४१२ लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु । ०११४१२ अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयन् ॥E (ठे तोपिचोf चोउन्सेल्) ०११५०१। कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भांश्चिन्तयेत् ॥ ०११५०२। मन्त्रपूर्वाः सर्वारम्भाः ॥ ०११५०३। तदुद्देशः संवृतः कथानामनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् । ०११५०४। श्रूयते हि शुकसारिकाभिर्मन्त्रो भिन्नः, श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति ॥ ०११५०५। तस्मान्मन्त्रोद्देशमनायुक्तो नोपगच्छेत् ॥ ०११५०६। उच्छिद्येत मन्त्रभेदी ॥ ०११५०७। मन्त्रभेदो हि दूतामात्यस्वामिनामिङ्गिताकाराभ्याम् ॥ ०११५०८। इङ्गितमन्यथावृत्तिः ॥ ०११५०९। आकृतिग्रहणमाकारः ॥ ०११५१०। तस्य संवरणमायुक्तपुरुषरक्षणमाकार्यकालादिति ॥ ०११५११। तेषां हि प्रमादमदसुप्तप्रलापाः, कामादिरुत्सेकः, प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ॥ ०११५१२। तस्मादाद्रक्षेन्मन्त्रम् ॥ ०११५१३। "मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च ॥ ०११५१४। तस्माद्गुह्यमेको मन्त्रयेत" इति भारद्वाजः ॥ ०११५१५। "मन्त्रिणामपि हि मन्त्रिणो भवन्ति, तेषामप्यन्ये ॥ ०११५१६। सैषा मन्त्रिपरम्परा मन्त्रं भिनत्ति ॥ ०११५१७ "तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितम् । ०११५१७ आरब्धारस्तु जानीयुरारब्धं कृतमेव वा ॥ ०११५१८। "नैकस्य मन्त्रसिद्धिरस्ति" इति विशालाक्षः ॥ ०११५१९। "प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः ॥ ०११५२०। अनुपलब्धस्य ज्ञानमुपलब्धस्य निश्चितबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशदृष्टस्य शेषोपलब्धिरिति मन्त्रिसाध्यमेतत् ॥ ०११५२१। तस्माद्बुद्धिवृद्धैः सार्धमध्यासीत मन्त्रम् ॥ ०११५२२ "न कंचिदवमन्येत सर्वस्य शृणुयान्मतम् । ०११५२२ बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः ॥" ०११५२३। "एतन्मन्त्रज्ञानम्, नैतन्मन्त्ररक्षणम्" इति पाराशराः ॥ ०११५२४। "यदस्य कार्यमभिप्रेतं तत्प्रतिरूपकं मन्त्रिणः पृच्छेत्- "कार्यमिदमेवमासीत्, एवं वा यदि भवेत्, तत्कथं कर्तव्यम्" इति ॥ ०११५२५। ते यथा ब्रूयुस्तत्कुर्यात् ॥ ०११५२६। एवं मन्त्रोपलब्धिः संवृतिश्च भवति" इति ॥ ०११५२७। नेति पिशुनः ॥ ०११५२८। "मन्त्रिणो हि व्यवहितमर्थं वृत्तमवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥ ०११५२९। स दोषः ॥ ०११५३०। तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ॥ ०११५३१। तैर्मन्त्रयमाणो हि मन्त्रसिद्धिं गुप्तिं च लभते" इति ॥ ०११५३२। नेति कौटिल्यः ॥ ०११५३३। अनवस्था ह्येषा ॥ ०११५३४। मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ॥ ०११५३५। मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्चयं नाधिगच्छेत् ॥ ०११५३६। एकश्च मन्त्री यथेष्टमनवग्रहश्चरति ॥ ०११५३७। द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते, विगृहीताभ्यां विनाश्यते ॥ ०११५३८। तत्त्रिषु चतुषु वा कृच्छ्रेणोपपद्यते ॥ ०११५३९। महादोषमुपपन्नं तु भवति ॥ ०११५४०। ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥ ०११५४१। देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामर्थ्यं मन्त्रयेत ॥(अल्तेर्णतिवे विएwसप्प्रोवेद्) ०११५४२। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः ॥ ०११५४३। तानेकैकशः पृच्छेत्समस्तांश्च ॥ ०११५४४। हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् ॥ ०११५४५। अवाप्तार्थः कालं नातिक्रामयेत् ॥ ०११५४६। न दीर्घकालं मन्त्रयेत, न तेषां पक्षीयैर्येषामपकुर्यात् ॥ ०११५४७। "मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत" इति मानवाः ॥ ०११५४८। "षोडश" इति बार्हस्पत्याः ॥ ०११५४९। "विंशतिम्" इत्यौशनसाः ॥ ०११५५०। यथासामर्थ्यमिति कौटिल्यः ॥ ०११५५१। ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः ॥ ०११५५२। अकृतारम्भमारब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः ॥ ०११५५३। आसन्नैः सह कर्माणि पश्येत् ॥ ०११५५४। अनासन्नैः सह पत्त्रसम्प्रेषणेन मन्त्रयेत ॥ ०११५५५। इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम् ॥ ०११५५६। स तच्चक्षुः ॥ ०११५५७। तस्मादिमं द्व्यक्षं सहस्राक्षमाहुः ॥ ०११५५८। आत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् ॥ ०११५५९। तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं वा तत्कुर्यात् ॥ ०११५६०। कुर्वतश्च -- ०११५६० नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च । ०११५६० गूहेत्कूर्मेवाङ्गानि यत्स्याद्विवृतमात्मनः ॥ ०११५६१ यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुमर्हति । ०११५६१ एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतुमर्हति ॥E (ऋउलेस्fओर्थे एन्वोय्) ०११६०१। उद्वृत्तमन्त्रो दूतप्रणिधिः ॥ ०११६०२। अमात्यसम्पदोपेतो निसृष्टार्थः ॥ ०११६०३। पादगुणहीनः परिमितार्थः ॥ ०११६०४। अर्धगुणहीनः शासनहरः ॥ ०११६०५। सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत ॥ ०११६०६। शासनमेवं वाच्यः परः, स वक्ष्यत्येवम्, तस्येदं प्रतिवाक्यम्, एवमतिसंधातव्यम्, इत्यधीयानो गच्छेत् ॥ ०११६०७। अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत् ॥ ०११६०८। अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत ॥ ०११६०९। दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत ॥ ०११६१०। पराधिष्ठानमनुज्ञातः प्रविशेत् ॥ ०११६११। शासनं च यथोक्तं ब्रूयात्, प्राणाबाधेपि दृष्टे ॥ ०११६१२। परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्यपूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्मरणं विश्वासगमनं च लक्षयेत्तुष्टस्य, विपरीतमतुष्टस्य ॥ ०११६१३। तं ब्रूयात्- "दूतमुखा हि राजानः, त्वं चान्ये च ॥ ०११६१४। तस्मादुद्यतेष्वपि शस्त्रेषु यथोक्तं वक्तारो दूताः ॥ ०११६१५। तेषामन्तावसायिनोअप्यवध्याः, किमङ्ग पुनर्ब्राह्मणाः ॥ ०११६१६। परस्यैतद्वाक्यम् ॥ ०११६१७। एष दूतधर्मः" इति ॥ ०११६१८। वसेदविसृष्टः पूजया नोत्सिक्तः ॥ ०११६१९। परेषु बलित्वं न मन्येत ॥ ०११६२०। वाक्यमनिष्टं सहेत ॥ ०११६२१। स्त्रियः पानं च वर्जयेत् ॥ ०११६२२। एकः शयीत ॥ ०११६२३। सुप्तमत्तयोर्हि भावज्ञानं दृष्टम् ॥ ०११६२४। कृत्यपक्षोपजापमकृत्यपक्षे गूढप्रणिधानं रागापरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यामुपलभेत, तयोरन्तेवासिभिश्चिकित्सकपाषण्डव्यञ्जनोभयवेतनैर्वा ॥ ०११६२५। तेषामसम्भाषायां याचकमत्तोन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहचित्रलेख्यसंज्ञाभिर्वा चारमुपलभेत ॥ ०११६२६। उपलब्धस्योपजापमुपेयात् ॥ ०११६२७। परेण चोक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत ॥ ०११६२८। "सर्वं वेद भवान्" इति ब्रूयात्, कार्यसिद्धिकरं वा ॥ ०११६२९। कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत्- "किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तुकामः, पार्ष्णिग्राहमासारमन्तःकोपमाटविकं वा समुत्थापयितुकामः, मित्रमाक्रन्दं वा व्याघातयितुकामः, स्वं वा परतो विग्रहमन्तःकोपमाटविकं वा प्रतिकर्तुकामः, संसिद्धं वा मे भर्तुर्यात्राकालमभिहन्तुकामः, सस्यपण्यकुप्यसंग्रहं दुर्गकर्म बलसमुद्दानं वा कर्तुकामः, स्वसैन्यानां वा व्यायामस्य देशकालावाकाङ्क्षमाणः, परिभवप्रमादाभ्यां वा, संसर्गानुबन्धार्थी वा, मामुपरुणद्धि" इति ॥ ०११६३०। ज्ञात्वा वसेदपसरेद्वा ॥ ०११६३१। प्रयोजनमिष्टमवेक्षेत वा ॥ ०११६३२। शासनमनिष्टमुक्त्वा बन्धवधभयादविसृष्टोअप्यपगच्छेत्, अन्यथा नियम्येत ॥ ०११६३३ प्रेषणं संधिपालत्वं प्रतापो मित्रसंग्रहः । ०११६३३ उपजापः सुहृद्भेदो गूढदण्डातिसारणम् ॥ ०११६३४ बन्धुरत्नापहरणं चारज्ञानं पराक्रमः । ०११६३४ समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः ॥ ०११६३५ स्वदूतैः कारयेदेतत्परदूतांश्च रक्षयेत् । ०११६३५ प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ॥E (ङुअर्दिन्गगैन्स्त्प्रिन्चेस्) ०११७०१। रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च, पूर्वं दारेभ्यः पुत्रेभ्यश्च ॥ ०११७०२। दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः ॥ ०११७०३। "पुत्ररक्षणं तु ॥ ०११७०४। "जन्मप्रभृति राजपुत्रान् रक्षेत् ॥ ०११७०५। कर्कटकसधर्माणो हि जनकभक्षा राजपुत्राः ॥ ०११७०६। तेषामजातस्नेहे पितर्युपांशुदण्डः श्रेयान्" इति भारद्वाजः ॥ ०११७०७। "नृशंसमदुष्टवधः क्षत्रबीजविनाशश्च" इति विशालाक्षः ॥ ०११७०८। "तस्मादेकस्थानावरोधः श्रेयान्" इति ॥ ०११७०९। अहिभयमेतद्" इति पाराशराः ॥ ०११७१०। "कुमारो हि "विक्रमभयान्मां पितावरुणद्धि" इति ज्ञात्वा तमेवाङ्के कुर्यात् ॥ ०११७११। तस्मादन्तपालदुर्गे वासः श्रेयान्" इति ॥ ०११७१२। "औरभ्रं भयमेतद्" इति पिशुनः ॥ ०११७१३। "प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वान्तपालसखः स्यात् ॥ ०११७१४। तस्मात्स्वविषयादपकृष्टे सामन्तदुर्गे वासः श्रेयान्" इति ॥ ०११७१५। "वत्सस्थानमेतद्" इति कौणपदन्तः ॥ ०११७१६। "वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात् ॥ ०११७१७। तस्मान्मातृबन्धुषु वासः श्रेयान्" इति ॥ ०११७१८। "ध्वजस्थानमेतद्" इति वातव्याधिः ॥ ०११७१९। "तेन हि ध्वजेनादितिकौशिकवदस्य मातृबान्धवा भिक्षेरन् ॥ ०११७२०। तस्माद्ग्राम्य सुखेष्वेनमवसृजेत् ॥ ०११७२१। सुखोपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति" इति ॥ ०११७२२। जीवन्मरणमेतदिति कौटिल्यः ॥ ०११७२३। काष्ठमिव घुणजग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत ॥ ०११७२४। तस्मादृतुमत्यां महिष्यामृत्विजश्चरुमैन्द्राबार्हस्पत्यं निर्वपेयुः ॥ ०११७२५। आपन्नसत्त्वायाः कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत ॥ ०११७२६। प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात् ॥ ०११७२७। समर्थं तद्विदो विनयेयुः ॥ ०११७२८। "सत्त्रिणामेकश्चैनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत्"पितरि विक्रम्य राज्यं गृहाण" इति ॥ ०११७२९। तमन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ॥ ०११७३०। महादोषमबुद्धबोधनमित्कौटिल्यः ॥ ०११७३१। नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत्तदाचूषति ॥ ०११७३२। एवमयं नवबुद्धिर्यद्यदुच्यते तत्तत्शास्त्रोपदेशमिवाभिजानाति ॥ ०११७३३। तस्माद्धर्म्यमर्थ्यं चास्योपदिशेन्नाधर्म्यमनर्थ्यं च ॥ ०११७३४। सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ॥ ०११७३५। यौवनोत्सेकात्परस्त्रीषु मनः कुर्वाणमार्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वेजयेयुः ॥ ०११७३६। मद्यकामं योगपानेनोद्वेजयेयुः ॥ ०११७३७। द्यूतकामं कापटिकैरुद्वेजयेयुः ॥ ०११७३८। मृगयाकामं प्रतिरोधकव्यञ्जनैस्त्रासयेयुः ॥ ०११७३९। पितरि विक्रमबुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, संक्रोशः, प्रजाभिरेकलोष्टवधश्च" इति ॥ ०११७४०। विरागं वेदयेयुः ॥ ०११७४१। प्रियमेकपुत्रं बध्नीयात् ॥ ०११७४२। बहुपुत्रः प्रत्यन्तमन्यविषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥ ०११७४३। आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥ ०११७४४। बुद्धिमानाहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः ॥ ०११७४५। शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान् ॥ ०११७४६। उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः ॥ ०११७४७। अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः ॥ ०११७४८। स यद्येकपुत्रः पुत्रोत्पत्तावस्य प्रयतेत ॥ ०११७४९। पुत्रिकापुत्रानुत्पादयेद्वा ॥ ०११७५०। वृद्धस्तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् ॥ ०११७५१। न चैकपुत्रमविनीतं राज्ये स्थापयेत् ॥ ०११७५२ बहूनामेकसम्रोधः पिता पुत्रहितो भवेत् । ०११७५२ अन्यत्रापद ऐश्वर्यं ज्येष्ठभागि तु पूज्यते ॥ ०११७५३ कुलस्य वा भवेद्राज्यं कुलसंघो हि दुर्जयः । ०११७५३ अराजव्यसनाबाधः शश्वदावसति क्षितिम् ॥E (ठे चोन्दुच्तोf अ प्रिन्चे इन् दिस्fअवोउर्) (Bएहविओउर्तोwअर्द्स प्रिन्चे इन् दिस्fअवोउर्) ०११८०१। विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत, अन्यत्र प्राणाबाधकप्रकृतिकोपकपातकेभ्यः ॥ ०११८०२। पुण्ये कर्मणि नियुक्तः पुरुषमधिष्ठातारं याचेत् ॥ ०११८०३। पुरुषाधिष्ठितश्च सविशेषमादेशमनुतिष्ठेत् ॥ ०११८०४। अभिरूपं च कर्मफलमौपायनिकं च लाभं पितुरुपनाययेत् ॥ ०११८०५। तथाप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तमरण्यायापृच्छेत ॥ ०११८०६। बन्धवधभयाद्वा यः सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवागविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तमाश्रयेत ॥ ०११८०७। तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धमटवीसम्बन्धं कृत्यपक्षोपग्रहं च कुर्यात् ॥ ०११८०८। एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तानाजीवेत् ॥ ०११८०९। पाषण्डसंघद्रव्यमश्रोत्रियोपभोग्यं वा देवद्रव्यमाढ्यविधवाद्रव्यं वा गूढमनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसंधायापहरेत् ॥ ०११८१०। पारग्रामिकं वा योगमातिष्ठेत् ॥ ०११८११। मातुः परिजनोपग्रहेण वा चेष्टेत ॥ ०११८१२। कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर्वा नष्टरूपस्तद्व्यञ्जनसखश्छिद्रेषु प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रहृत्य ब्रूयात्- "अहमसौ कुमारः, सहभोग्यमिदं राज्यम्, एको नार्हति भोक्तुम्, ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्तवेतनेनोपस्थास्यामि" इति ॥ इत्यपरुद्धवृत्तम् । ०११८१३। अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता ॥ ०११८१४। त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः ॥ ०११८१५। अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यानयेयुः ॥ ०११८१६ उपस्थितं च राज्येन मदूर्ध्वमिति सान्त्वयेत् । ०११८१६ एकस्थमथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ॥E (ऋउलेस्fओर्थे किन्ग्) ०११९०१। राजानमुत्थितमनूत्तिष्ठन्ते भृत्याः ॥ ०११९०२। प्रमाद्यन्तमनुप्रमाद्यन्ति ॥ ०११९०३। कर्माणि चास्य भक्षयन्ति ॥ ०११९०४। द्विषद्भिश्चातिसंधीयते । ०११९०५। तस्मादुत्थानमात्मनः कुर्वीत ॥ ०११९०६। नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा ॥ ०११९०७। त्रिपौरुषी पौरुषी चतुरङ्गुला नष्टच्छायो मध्याह्नेति चत्वारः पूर्वे दिवसस्याष्टभागाः ॥ ०११९०८। तैः पश्चिमा व्याख्याताः ॥ ०११९०९। तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानमायव्ययौ च शृणुयात् ॥ ०११९१०। द्वितीये पौरजानपदानां कार्याणि पश्येत् ॥ ०११९११। तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत ॥ ०११९१२। चतुर्थे हिरण्यप्रतिग्रहमध्यक्षांश्च कुर्वीत ॥ ०११९१३। पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत ॥ ०११९१४। षष्ठे स्वैरविहारं मन्त्रं वा सेवेत ॥ ०११९१५। सप्तमे हस्त्यश्वरथायुधीयान् पश्येत् ॥ ०११९१६। अष्टमे सेनापतिसखो विक्रमं चिन्तयेत् ॥ ०११९१७। प्रतिष्ठितेहनि संध्यामुपासीत ॥ ०११९१८। प्रथमे रात्रिभागे गूढपुरुषान् पश्येत् ॥ ०११९१९। द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च ॥ ०११९२०। तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत ॥ ०११९२१। षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् ॥ ०११९२२। सप्तमे मन्त्रमध्यासीत, गूढपुरुषांश्च प्रेषयेत् ॥ ०११९२३। अष्टमे ऋत्विगाचार्यपुरोहितस्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत् ॥ ०११९२४। सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत् ॥ ०११९२५। आत्मबलानुकूल्येन वा निशाहर्भागान् प्रविभज्य कार्याणि सेवेत ॥ ०११९२६। उपस्थानगतः कार्यार्थिनामद्वारासङ्गं कारयेत् ॥ ०११९२७। दुर्दर्शो हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते ॥ ०११९२८। तेन प्रकृतिकोपमरिवशं वा गच्छेत् ॥ ०११९२९। तस्माद्देवताश्रमपाषण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवादात्ययिकवशेन वा ॥ ०११९३० सर्वमात्ययिकं कार्यं शृणुयान्नातिपातयेत् ।[श्] ०११९३० कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वापि जायते ॥[श्] ०११९३१ अग्न्यगारगतः कार्यं पश्येद्वैद्यतपस्विनाम् ।[श्] ०११९३१ पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च ॥[श्] ०११९३२ तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।[श्] ०११९३२ मायायोगविदां चैव न स्वयं कोपकारणात् ॥[श्] ०११९३३ राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् ।[श्] ०११९३३ दक्षिणा वृत्तिसाम्यं तु दीक्षा तस्याभिषेचनम् ॥[श्] ०११९३४ प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।[श्] ०११९३४ नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥[श्] ०११९३५ तस्मान्नित्योत्थितो राजा कुर्यादर्थानुशासनम् । ०११९३५ अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः ॥[श्] ०११९३६ अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।[श्] ०११९३६ प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम् ॥[श्] ऋएगुलतिओन्स्fओर्थे रोयल्रेसिदेञ्चे ०१२००१। वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारमनेककक्ष्यापरिगतमन्तःपुरं कारयेत् ॥ Kआ०१२००२। कोशगृहविधानेन मध्ये वासगृहम्, गूढभित्तिसंचारं मोहनगृहं तन्मध्ये वा वासगृहम्, भूमिगृहं वासन्नचैत्यकाष्ठदेवतापिधानद्वारमनेकसुरुङ्गासंचारं तस्योपरि प्रासादं गूढभित्तिसोपानं सुषिरस्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत्, आपत्प्रतीकारार्थमापदि वा ॥ ०१२००३। अतोअन्यथा वा विकल्पयेत्, सहाध्यायिभयात् ॥ ०१२००४। मानुषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमग्निरन्यो न दहति, न चात्रान्योअग्निर्ज्वलति, वैद्युतेन भस्मना मृत्सम्युक्तेन करकवारिणावलिप्तं च ॥ ०१२००५। जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥ ०१२००६। मयूरनकुलपृषतोत्सर्गः सर्पान् भक्षयति ॥ ०१२००७। शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति ॥ ०१२००८। क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवंजीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते ॥ ०१२००९। इत्येवमग्निविषसर्पेभ्यः प्रतिकुर्वीत ॥ ०१२०१०। पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्षोदकस्थानं च ॥ ०१२०११। बहिः कन्याकुमारपुरम् ॥ ०१२०१२। पुरस्तादलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च ॥ ०१२०१३। कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत् ॥ ०१२०१४। अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत् ॥ ०१२०१५। देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्यान्तर्गतश्च पुत्रः कारूषम् ॥ ०१२०१६। लाजान्मधुनेति विषेण पर्यस्य देवी काशिराजम्, विषदिग्धेन नूप्रेण वैरन्त्यम्, मेखलामणिना सौवीरम्, जालूथमादर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥ ०१२०१७। तस्मादेतान्यास्पदानि परिहरेत् ॥ ०१२०१८। मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ॥ ०१२०१९। न चैनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः ॥ ०१२०२०। रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालंकाराः पश्येयुः ॥ ०१२०२१। अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षधराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः, स्थापयेयुश्च स्वामिहिते, ॥ ०१२०२२ स्वभूमौ च वसेत्सर्वः परभूमौ न संचरेत् ।[श्] ०१२०२२ न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ॥[श्] ०१२०२३ सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।[श्] ०१२०२३ निर्गच्छेदभिगच्छेद्वा मुद्रासंक्रान्तभूमिकम् ॥[श्] E (Cओन्चेर्निन्ग्थे प्रोतेच्तिओनोf (थे किन्ग्"स्) ओwन् पेर्सोन्) ०१२१०१। शयनादुत्थितः स्त्रीगणैर्धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुकोष्णीषिभिर्वर्षधराभ्यागारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः ॥ ०१२१०२। पितृपैतामहं सम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्माणं च जनमासन्नं कुर्वीत, नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाप्यपकृत्योपगृहीतम् ॥ ०१२१०३। अन्तर्वंशिकसैन्यं राजानमन्तःपुरं च रक्षेत् ॥ ०१२१०४। गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत् ॥ ०१२१०५। तद्रजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा ॥ ०१२१०६। अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च ॥ ०१२१०७ अन्नस्य ऊष्मा मयूरग्रीवाभः शैत्यमाशु क्लिष्टस्येव वैवर्ण्यं सोदकत्वमक्लिन्नत्वं च - ०१२१०७ व्यञ्जनानामाशु शुष्कत्वं च क्वाथध्यामफेनपटलविच्छिन्नभावो गन्धस्पर्शरसवधश्च - ०१२१०७ द्रवेषु हीनातिरिक्तच्छायादर्शनं फेनपटलसीमन्तोर्ध्वराजीदर्शनं च - ०१२१०७ रसस्य मध्ये नीला राजी, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणामार्द्राणामाशु प्रम्लानत्वमुत्पक्वभावः क्वाथनीलश्यावता च - ०१२१०७ शुष्काणामाशु शातनं वैवर्ण्यं च, - ०१२१०७ कठिनानां मृदुत्वं मृदूनां च कठिनत्वम्, तदभ्याशे क्षुद्रसत्त्ववधश्च, - ०१२१०७ । आस्तरणप्रवरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च, - ०१२१०७ । लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च - इति विषयुक्तस्य लिङ्गानि ॥ ०१२१०८। विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणमावेगः कर्मणि स्वभूमौ चानवस्थानमिति ॥ ०१२१०९। तस्मादस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः ॥ ०१२११०। भिषग्भैषज्यागारादास्वादविशुद्धमौषधं गृहीत्वा पाचकपेषकाभ्यामात्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥ ०१२१११। पानं पानीयं चाउषधेन व्याख्यातम् ॥ ०१२११२। कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रमुपकरणमन्तर्वंशिकहस्तादादाय परिचरेयुः ॥ ०१२११३। स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः ॥ ०१२११४। आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च ॥ ०१२११५। एतेन परस्मादागतकं व्याख्यातम् ॥ ०१२११६। कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः ॥ ०१२११७। आतोद्यानि चैषामन्तस्तिष्ठेयुः, अश्वरथद्विपालंकाराश्च ॥ ०१२११८। आप्तपुरुषाधिष्ठितं यानवाहनमारोहेत्, नावं चाप्तनाविकाधिष्ठितम् ॥ ०१२११९। अन्यनौप्रतिबद्धां वातवेगवशां च नोपेयात् ॥ ०१२१२०। उदकान्ते सैन्यमासीत ॥ ०१२१२१। मत्स्यग्राहविशुद्धमुदकमवगाहेत ॥ ०१२१२२। व्यालग्राहविशुद्धमुद्यानं गच्छेत् ॥ ०१२१२३। लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत् ॥ ०१२१२४। आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम् ॥ ०१२१२५। सन्नद्धोअश्वं हस्तिनं वारूढः सन्नद्धमनीकं पश्येत् ॥ ०१२१२६। निर्याणेभियाने च राजमार्गमुभयतः कृतारक्षं शस्त्रिभिर्दण्डिभिश्चापास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत् ॥ ०१२१२७। न पुरुषसम्बाधमवगाहेत ॥ ०१२१२८। यात्रासमाजोत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत् ॥ ०१२१२९ यथा च योगपुरुषैरन्यान् राजाधितिष्ठति ।[श्] ०१२१३० तथायमन्याबाधेभ्यो रक्षेदात्मानमात्मवान् ॥[श्] E (Bओओक्ट्wओ: ठे अच्तिवित्योf थे हेअद्सोf देपर्त्मेन्त्स्) (Cहप्, १, षेच्, १९: षेत्त्लेमेन्तोf थे चोउन्त्र्य्सिदे) ०२०१०१। भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत् ॥ ०२०१०२। शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानमन्योन्यारक्षं निवेशयेत् ॥ ०२०१०३। नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षानन्तेषु सीम्नां स्थापयेत् ॥ ०२०१०४। अष्टशतग्राम्या मध्ये स्थानीयम्, चतुह्शतग्राम्या द्रोणमुखम्, द्विशतग्राम्याः कार्वटिकम्, दशग्रामीसंग्रहेण संग्रहं स्थापयेत् ॥ ०२०१०५। अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् ॥ ०२०१०६। तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः ॥ ०२०१०७ ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्यभिरूपदायादकानि प्रयच्छेत्- ०२०१०७ अध्यक्षसंख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि ॥ ०२०१०८। करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ॥ ०२०१०९। अकृतानि कर्तृभ्यो नादेयानि ॥ ०२०११०। अकृषतामाछिद्यान्येभ्यः प्रयच्छेत् ॥ ०२०१११। ग्रामभृतकवैदेहका वा कृषेयुः ॥ ०२०११२। अकृषन्तो वावहीनं दद्युः ॥ ०२०११३। धान्यपशुहिरण्यैश्चैताननुगृह्णीयात् ॥ ०२०११४। तान्यनु सुखेन दद्युः ॥ ०२०११५। अनुग्रहपरिहारौ चैतेब्भ्यः कोशवृद्धिकरौ दद्यात्, कोशोपघातकौ वर्जयेत् ॥ ०२०११६। अल्पकोशो हि राजा पौरजानपदानेव ग्रसते ॥ ०२०११७। निवेशसमकालं यथागतकं वा परिहारं दद्यात् ॥ ०२०११८। निवृत्तपरिहारान् पितेवानुगृह्णीयात् ॥ ०२०११९। आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत् ॥ ०२०१२०। सहोदकमाहार्योदकं वा सेतुं बन्धयेत् ॥ ०२०१२१। अन्येषां वा बध्नतां भूमिमार्गवृक्षोपकरणानुग्रहं कुर्यात्, पुण्यस्थानारामाणां च ॥ ०२०१२२। सम्भूयसेतुबन्धादपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः ॥ ०२०१२३। व्ययकर्मणि च भागी स्यात्, न चांशं लभेत ॥ ०२०१२४। मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥ ०२०१२५। दासाहितकबन्धूनशृण्वतो राजा विनयं ग्राहयेत् ॥ ०२०१२६। बालवृद्धव्यसन्यनाथांश्च राजा बिभृयात्, स्त्रियमप्रजातां प्रजातायश्च पुत्रान् ॥ ०२०१२७। बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्, देवद्रव्यं च ॥ ०२०१२८। अपत्यदारं मातापितरौ भ्रातृऋनप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः ॥ ०२०१२९। पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः ॥ ०२०१३०। लुप्तव्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ॥ ०२०१३१। अन्यथा नियम्येत ॥ ०२०१३२। वानप्रस्थादन्यः प्रव्रजितभावः, सजातादन्यः संघः, सामुत्थायिकादन्यः समयानुबन्धो वा नास्य जनपदमुपनिविशेत ॥ ०२०१३३। न च तत्रारामा विहारार्था वा शालाः स्युः ॥ ०२०१३४। नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः ॥ ०२०१३५। निराश्रयत्वाद्ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति ॥ ०२०१३६ परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।[श्] ०२०१३६ देशं परिहरेद्राजा व्ययक्रीडाश्च वारयेत् ॥[श्] ०२०१३७ दण्डविष्टिकराबाधै रक्षेदुपहतां कृषिम् ।[श्] ०२०१३७ स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान् ॥[श्] ०२०१३८ वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् ।[श्] ०२०१३८ शोधयेत्पशुसंघैश्च क्षीयमाणं वणिक्पथम् ॥[श्] ०२०१३९ एवं द्रव्यद्विपवनं सेतुबन्धमथाकरान् ।[श्] ०२०१३९ रक्षेत्पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥[श्] E (डिस्पोसलोf नोन्-अग्रिचुल्तुरल्लन्द्) ०२२०१। अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥ ०२२०२। प्रदिष्टाभयस्थावरजङ्गमानि च ब्रह्मसोमारण्यानि तपस्विभ्यो गोरुतपराणि प्रयच्छेत् ॥ ०२२०३। तावन्मात्रमेकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छमकण्टकिद्रुममुत्तानतोयाशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्यालं मार्गयुकहस्तिहस्तिनीकलभं मृगवनं विहारार्थं राज्ञः कारयेत् ॥ ०२२०४। सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निवेशयेत् ॥ ०२२०५। कुप्यप्रदिष्टानां च द्रव्याणामेकैकशो वनानि निवेशयेत्, द्रव्यवनकर्मान्तानटवीश्च द्रव्यवनापाश्रयाः ॥ ०२२०६। प्रत्यन्ते हस्तिवनमटव्यारक्षं निवेशयेत् ॥ ०२२०७। नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेत् ॥ ०२२०८। हस्तिघातिनं हन्युः ॥ ०२२०९। दन्तयुगं स्वयंमृतस्याहरतः सपादचतुष्पणो लाभः ॥ ०२२१०। नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकर्मिकसखा हस्तिमूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्तिबन्धकीभिः सह चरन्तः शय्यास्थानपद्यालेण्डकूलघातोद्देशेन हस्तिकुलपर्यग्रं विद्युः ॥ ०२२११। यूथचरमेकचरं निर्यूथं यूथपतिं हस्तिनं व्यालं मत्तं पोतं बन्धमुक्तं च निबन्धेन विद्युः ॥ ०२२१२। अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः ॥ ०२२१३। हस्तिप्रधानं विजयो राज्ञः ॥ ०२२१४। परानीकव्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिनः ॥ ०२२१५ कालिङ्गाङ्गरजाः श्रेष्ठाः प्राच्याश्चेदिकरूषजाः ।[श्] ०२२१५ दाशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः ॥[श्] ०२२१६ सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः ।[श्] ०२२१६ सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ॥[श्] E (Cओन्स्त्रुच्तिओनोf fओर्त्स्) ०२३०१। चतुर्दिशं जनपदान्ते साम्परायिकं दैवकृतं दुर्गं कारयेत्, अन्तर्द्वीपं स्थलं वा निम्नावरुद्धमौदकम्, प्रास्तरं गुहां वा पार्वतम्, निरुदकस्तम्बमिरिणं वा धान्वनम्, खञ्जनोदकं स्तम्बगहनं वा वनदुर्गम् ॥ ०२३०२। तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानम्, धान्वनवनदुर्गमटवीस्थानमापद्यपसारो वा ॥ ०२३०३। जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत्, वास्तुकप्रशस्ते देशे नदीसङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा, वृत्तं दीर्घं चतुरश्रं वा वास्तुवशेन वा प्रदक्षिणोदकं पण्यपुटभेदनमंसपथवारिपथाभ्यामुपेतम् ॥ ०२३०४। तस्य परिखास्तिस्रो दण्डान्तराः कारयेत्चतुर्दश द्वादश दशेति दण्डान् विस्तीर्णाः, विस्तारादवगाढाः पादोनमर्धं वा, त्रिभागमूलाः, मूलचतुरश्रा वा, पाषाणोपहिताः पाषाणेष्टकाबद्धपार्श्वा वा, तोयान्तिकीरागन्तुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्च ॥ ०२३०५। चतुर्दण्डापकृष्टं परिखायाः षड्दण्डोच्छ्रितमवरुद्धं तद्द्विगुणविष्कम्भं खाताद्वप्रं कारयेदूर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम् ॥ ०२३०६। पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत् ॥ ०२३०७ वप्रस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्तादूर्ध्वमोजं युग्मं वा आ चतुर्विंशतिहस्तादिति कारयेत्- ०२३०७ रथचर्यासंचारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम् ॥ ०२३०८। पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम् ॥ ०२३०९। अग्निरवहितो हि तस्मिन् वसति ॥ ०२३१०। विष्कम्भचतुरश्रमट्टालकमुत्सेधसमावक्षेपसोपानं कारयेत्त्रिंशद्दण्डान्तरं च ॥ ०२३११। द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलामध्यर्धायायामां प्रतोलीं कारयेत् ॥ ०२३१२। अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं सापिधानच्छिद्रफलकसंहतमिन्द्रकोशं कारयेत् ॥ ०२३१३। अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत् ॥ ०२३१४। दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च ॥ ०२३१५। बहिर्जानुभञ्जनीशूलप्रकरकूपकूटावपातकण्टकप्रतिसराहिपृष्ठतालपत्त्रशृङ्गाटकश्वदंष्ट्रार्गलोपस्कन्दनपादुकाम्बरीषोदपानकैः प्रतिच्छन्नं छन्नपथं कारयेत् ॥ ०२३१६। प्राकारमुभयतो मेण्ढकमध्यर्धदण्डं कृत्वा प्रतोलीषट्तुलान्तरं द्वारं निवेशयेत्पञ्चदण्डादेकोत्तरमाष्टदण्डादिति चतुरश्रं षड्भागमायामादधिकमष्टभागं वा ॥ ०२३१७। पञ्चदशहस्तादेकोत्तरमाष्टादशहस्तादिति तलोत्सेधः ॥ ०२३१८। स्तम्भस्य परिक्षेपः षडायामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः ॥ ०२३१९। आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च ॥ ०२३२०। दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरमाणीहर्म्यं च ॥ ०२३२१। समुच्छ्रयादर्धतले स्थूणाबन्धश्च ॥ ०२३२२। अर्धवास्तुकमुत्तमागारम्, त्रिभागान्तरं वा, इष्टकावबद्धपार्श्वम्, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानमितरतः ॥ ०२३२३। द्विहस्तं तोरणशिरः ॥ ०२३२४। त्रिपञ्चभागिकौ द्वौ कपाटयोगौ ॥ ०२३२५। द्वौ परिघौ ॥ ०२३२६। अरत्निरिन्द्रकीलः ॥ ०२३२७। पञ्चहस्तमाणिद्वारम् ॥ ०२३२८। चत्वारो हस्तिपरिघाः ॥ ०२३२९। निवेशार्धं हस्तिनखम् ॥ ०२३३०। मुखसमः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥ ०२३३१। प्राकारसमं मुखमवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत् ॥ ०२३३२। प्राकारमध्ये वापीं कृत्वा पुष्करिणीद्वारम्, चतुःशालमध्यर्धान्तरं साणिकं कुमारीपुरम्, मुण्डहर्म्यद्वितलं मुण्डकद्वारम्, भूमिद्रव्यवशेन वा निवेशयेत् ॥ ०२३३३। त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत् ॥ ०२३३४ तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः ।[श्] ०२३३४ मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः ॥[श्] ०२३३५ कार्याः कार्मारिकाः शूला वेधनाग्राश्च वेणवः ।[श्] ०२३३५ उष्ट्रग्रीव्योअग्निसम्योगाः कुप्यकल्पे च यो विधिः ॥[श्] E (ळय्-ओउतोf थे fओर्तिfइएद्चित्य्) ०२४०१। त्रयः प्राचीना राजमार्गास्त्रय उदीचीना इति वास्तुविभागः ॥ ०२४०२। स द्वादशद्वारो युक्तोदकभ्रमच्छन्नपथः ॥ ०२४०३। चतुर्दण्डान्तरा रथ्याः ॥ ०२४०४। राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः सम्यानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः ॥ ०२४०५। चतुर्दण्डः सेतुवनपथः, द्विदण्डो हस्तिक्षेत्रपथः, पञ्चारत्नयो रथपथः, चत्वारः पशुपथः, द्वौ क्षुद्रपशुमनुष्यपथः ॥ ०२४०६। प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे ॥ ०२४०७। वास्तुहृदयादुत्तरे नवभागे यथोक्तविधानमन्तःपुरं प्रान्मुखमुदन्मुखं वा कारयेत् ॥ ०२४०८। तस्य पूर्वोत्तरं भागमाचार्यपुरोहितेज्यातोयस्थानं मन्त्रिणश्चावसेयुः, पूर्वदक्षिणं भाग्ं महानसं हस्तिशाला कोष्ठागारं च ॥ ०२४०९। ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशमधिवसेयुः ॥ ०२४१०। दक्षिणपूर्वं भागं भाण्डागारमक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहमायुधागारं च ॥ ०२४११। ततः परं नगरधान्यव्यावहारिककार्मान्तिकबलाध्यक्षाः पक्वान्नसुरामांसपण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशमधिवसेयुः ॥ ०२४१२। पश्चिमदक्षिणं भागं खरोष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिमोत्तरं भागं यानरथशालाः ॥ ०२४१३। ततः परमूर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशमधिवसेयुः ॥ ०२४१४। उत्तरपश्चिमं भागं पण्यभैषज्यगृहम्, उत्तरपूर्वं भागं कोशो गवाश्वं च ॥ ०२४१५। ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्चोत्तरां दिशमधिवसेयुः ॥ ०२४१६। वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः ॥ ०२४१७। अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत् ॥ ०२४१८। यथोद्देशं वास्तुदेवताः स्थापयेत् ॥ ०२४१९। ब्राह्माइन्द्रयाम्यसैनापत्यानि द्वाराणि ॥ ०२४२०। बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः ॥ ०२४२१। उत्तरः पूर्वो वा श्मशानभागो वर्णोत्तमानाम्, दक्षिणेन श्मशानं वर्णावराणाम् ॥ ०२४२२। तस्यातिक्रमे पूर्वः साहसदण्डः ॥ ०२४२३। पाषण्डचण्डालानां श्मशानान्ते वासः ॥ ०२४२४। कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत् ॥ ०२४२५। तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः ॥ ०२४२६। दशकुलीवाटं कूपस्थानम् ॥ ०२४२७। सर्वस्नेहधान्यक्षारलवणगन्धभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्नायुविषविषाणवेणुवल्कलसारदारुप्रहरणावरणाश्मनिचयाननेकवर्षोपभोगसहान् कारयेत् ॥ ०२४२८। नवेनानवं शोधयेत् ॥ ०२४२९। हस्त्यश्वरथपादातमनेकमुख्यमवस्थापयेत् ॥ ०२४३०। अनेकमुख्यं हि परस्परभयात्परोपजापं नोपैति ॥ ०२४३१। एतेनान्तपालदुर्गसंस्कारा व्याख्याताः ॥ ०२४३२ न च बाहिरिकान् कुर्यात्पुरे राष्ट्रोपघातकान् ।[श्] ०२४३२ क्षिपेज्जनपदे चैतान् सर्वान् वा दापयेत्करान् ॥[श्] E (ठे wओर्कोf स्तोरे-केएपिन्ग्ब्य्थे दिरेच्तोरोf स्तोरिएस्) ०२५०१। सन्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधागारं बन्धनागारं च कारयेत् ॥ ०२५०२। चतुरश्रां वापीमन्-उदकोपस्नेहां खानयित्वा पृथुशिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलमनेकविधानं कुट्टिमदेशस्थानतलमेकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत् ॥ ०२५०३। तस्योपर्युभयतोनिषेधं स-प्रग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा ॥ ०२५०४। जनपदान्ते ध्रुवनिधिमापदर्थमभित्यक्तैः कारयेत् ॥ ०२५०५ पक्वेष्टकास्तम्भं चतुःशालमेकद्वारमनेकस्थानतलं विवृतस्तम्भापसारमुभयतः पण्यगृहं कोष्ठागारं च - ०२५०५ दीर्घबहुशालं कक्ष्यावृतकुड्यमन्तः कुप्यगृहम्, तदेव भूमिगृहयुक्तमायुधागारं - ०२५०५ पृथग्धर्मस्थीयं महामात्रीयं विभक्तस्त्रीपुरुषस्थानमपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत् ॥ ०२५०६। सर्वेषां शालाः खातोदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत् ॥ ०२५०७। कोष्ठागारे वर्षमानमरत्निमुखं कुण्डं स्थापयेत् ॥ ०२५०८। तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥ ०२५०९। तत्र रत्नोपधावुत्तमो दण्डः कर्तुः कारयितुश्च सारोपधौ मध्यमः, फल्गुकुप्योपधौ तत्च तावत्च दण्डः ॥ ०२५१०। रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥ ०२५११। अशुद्धं छेदयेत् ॥ ०२५१२। आहर्तुः पूर्वः साहसदण्डः ॥ ०२५१३। शुद्धं पूर्णमभिनवं च धान्यं प्रतिगृह्णीयात् ॥ ०२५१४। विपर्यये मूल्यद्विगुणो दण्डः ॥ ०२५१५। तेन पण्यं कुप्यमायुधं च व्याख्यातम् ॥ ०२५१६। सर्वाधिकरणेषु युक्तोपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यमोत्तमवधा दण्डाः ॥ ०२५१७। कोशाधिष्ठितस्य कोशावच्छेदे घातः ॥ ०२५१८। तद्वैयावृत्यकराणामर्धदण्डाः ॥ ०२५१९। परिभाषणमविज्ञाते ॥ ०२५२०। चोराणामभिप्रधर्षणे चित्रो घातः ॥ ०२५२१। तस्मादाप्तपुरुॡआधिष्ठितः सन्निधाता निचयाननुतिष्ठेत् ॥०२५२२ बाह्यमभ्यन्तरं चायं विद्याद्वर्षशतादपि । [श्] ०२५२२ यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ [श्] E अध्याय ६ सेच्तिओन्२४ ठे सेत्तिङ्गुपोf रेवेनुए ब्य्थे अद्मिनिस्त्रतिओन् ०२६०१। समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत ॥ ०२६०२। शुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताध्यक्षो द्वारबहिरिकादेयं च दुर्गम् ॥ ०२६०३। सीता भागो बलिः करो वणिक्नदीपालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम् ॥ ०२६०४। सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः ॥ ०२६०५। पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः ॥ ०२६०६। पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम् ॥ ०२६०७। गोमहिषमजाविकं खरोष्त्रमश्वाश्वतरं च व्रजः ॥ ०२६०८। स्थलपथो वारिपथश्च वणिक्पथः ॥ ०२६०९। इत्यायशरीरम् ॥ ०२६१०। मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकमत्ययश्चायमुखम् ॥ ०२६११। देवपितृपूजादानार्थम्, स्वस्तिवाचनम्, अन्तःपुरम्, महानसम्, दूतप्रावर्तिमम्, कोष्ठागारम्, आयुधागारम्, पण्यगृहम्, कुप्यगृहम्, कर्मान्तो, विष्टिः, पत्त्यश्वरथद्विपपरिग्रहो, गोमण्डलम्, पशुमृगपक्षिव्यालवाटाः, काष्ठतृणवाटाश्चेति व्ययशरीरम् ॥ ०२६१२। राजवर्षं मासः पक्षो दिवसश्च व्युष्टम्, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवसोनाः पक्षाः शेषाः पूर्णाः, पृथगधिमासकः, इति कालः ॥ ०२६१३। करणीयं सिद्धं शेषमायव्ययौ नीवी च ॥ ०२६१४। संस्थानं प्रचारः शरीरावस्थापनमादानं सर्वसमुदयपिण्डः संजातं - एतत्करणीयम् ॥ ०२६१५। कोशार्पितं राजहारः पुरव्ययश्च प्रविष्टं परमसंवत्सरानुवृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयं - एतत्सिद्धम् ॥ ०२६१६। सिद्धिकर्मयोगः दण्डशेषमाहरणीयं बलात्कृतप्रतिष्टब्धमवमृष्टं च प्रशोध्यं - एतत्शेषम्, असारमल्पसारं च ॥ ०२६१७। वर्तमानः पर्युषितोअन्यजातश्चायः ॥ ०२६१८। दिवसानुवृत्तो वर्तमानः ॥ ०२६१९। परमसांवत्सरिकः परप्रचारसंक्रान्तो वा पर्युषितः ॥ ०२६२०। नष्टप्रस्मृतमायुक्तदण्डः पार्श्वं पारिहीणिकमौपायनिकं डमरगतकस्वमपुत्रकं निधिश्चान्यजातः ॥ ०२६२१। विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः ॥ ०२६२२। विक्रिये पण्यानामर्घवृद्धिरुपजा, मानोन्मानविशेषो व्याजी, क्रयसंघर्षे वार्धवृद्धिः - इत्यायः ॥ ०२६२३। नित्यो नित्योत्पादिको लाभो लाभोत्पादिक इति व्ययः ॥ ०२६२४। दिवसानुवृत्तो नित्यः ॥ ०२६२५। पक्षमाससंवत्सरलाभो लाभः ॥ ०२६२६। तयोरुत्पन्नो नित्योत्पादिको लाभोत्पादिक इति व्ययः ॥ ०२६२७। संजातादायव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च ॥ ०२६२८ एवं कुर्यात्समुदयं वृद्धिं चायस्य दर्शयेत् ।[श्] ०२६२८ ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् ॥[श्] E (ठे तोपिचोf अच्चोउन्त्सिन् थे रेचोर्द्सन्दौदितोffइचे) ०२७०१। अक्षपटलमध्यक्षः प्रान्मुखमुदन्मुखं वा विभक्तोपस्थानं निबन्धपुस्तकस्थानं कारयेत् ॥ ०२७०२। तत्राधिकरणानां संख्याप्रचारसंजाताग्रम्, कर्मान्तानां द्रव्यप्रयोगवृद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणम्, रत्नसारफल्गुकुप्यानामर्घप्रतिवर्णकमानप्रतिमानोन्मानावमानभाण्डम्, देशग्रामजातिकुलसंघानां धर्मव्यवहारचरित्रसंस्थानम्, राजोपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभम्, राज्ञश्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देशोत्पातिकप्रतीकारलाभम्, मित्रामित्राणां च संधिविग्रहप्रदानादानं निबन्धपुस्तकस्थं कारयेत् ॥ ०२७०३। ततः सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवीमुपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥ ०२७०४। उत्तममध्यमावरेषु च कर्मसु तज्जातिकमध्यक्षं कुर्यात्, सामुदयिकेष्ववक्लृप्तिकम्(अवकॢप्तिकम्) यमुपहत्य राजा नानुतप्येत ॥ ०२७०५। सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः ॥ ०२७०६। त्रिशतं चतुःपञ्चाशत्चाहोरात्राणां कर्मसंवत्सरः ॥ ०२७०७। तमाषाढीपर्यवसानमूनं पूर्णं वा दद्यात् ॥ ०२७०८। करणाधिष्ठितमधिमासकं कुर्यात् ॥ ०२७०९। अपसर्पाधिष्ठितंच प्रचारम् ॥ ०२७१०। प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयमज्ञानेन परिहापयति, उत्थानक्लेशासहत्वादालस्येन, शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन, संक्रोशाधर्मानर्थभीरुभायेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद्दर्पेण, तुलामानतर्कगणितान्तरोपधानात् लोभेन ॥ ०२७११। "तेषामानुपूर्व्या यावानर्थोपघातस्तावानेकोत्तरो दण्डः" इति मानवाः ॥ ०२७१२। "सर्वत्राष्टगुणः" इति पाराशराः ॥ ०२७१३। "दशगुणः" इति बार्हस्पत्याः ॥ ०२७१४। "विंशतिगुणः" इत्यौशनसाः ॥ ०२७१५। यथापराधमिति कौटिल्यः ॥ ०२७१६। गाणनिक्यानि आषाढीमागच्छेयुः ॥ ०२७१७। आगतानां समुद्रपुस्तकभाण्डनीवीकानामेकत्रासम्भाषावरोधं कारयेत् ॥ ०२७१८। आयव्ययनीवीनामग्राणि श्रुत्वा नीवीमवहारयेत् ॥ ०२७१९। यच्चाग्रादायस्यान्तरपर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत्, तदष्टगुणमध्यक्षं दापयेत् ॥ ०२७२०। विपर्यये तमेव प्रति स्यात् ॥ ०२७२१। यथाकालमनागतानामपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः ॥ ०२७२२। कार्मिके चोपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः ॥ ०२७२३। विपर्यये कार्मिकस्य द्विगुणः ॥ ०२७२४। प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः ॥ ०२७२५। पृथग्भूतो मिथ्यावादी चैषामुत्तमं दण्डं दद्यात् ॥ ०२७२६। अकृताहोरूपहरं मासमाकाङ्क्षेत ॥ ०२७२७। मासादूर्ध्वं मासद्विशतोत्तरं दण्डं दद्यात् ॥ ०२७२८। अल्पशेषलेख्यनीवीकं पञ्चरात्रमाकाङ्क्षेत ॥ ०२७२९। ततः परं कोशपूर्वमहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसंकलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत ॥ ०२७३०। दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत् ॥ ०२७३१। व्युष्टदेशकालमुखोत्पत्त्यनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत् ॥ ०२७३२। व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापकोद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत् ॥ ०२७३३। व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत् ॥ ०२७३४। राजार्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाज्ञां निबन्धादायव्ययमन्यथा नीवीमवलिखतो द्विगुणः ॥ ०२७३५। क्रमावहीनमुत्क्रममविज्ञातं पुनरुक्तं वा वस्तुकमवलिखतो द्वादशपणो दण्डः ॥ ०२७३६। नीवीमवलिखतो द्विगुणः ॥ ०२७३७। भक्षयतोअष्टगुणः ॥ ०२७३८। नाशयतः पञ्चबन्धः प्रतिदानं च ॥ ०२७३९। मिथ्यावादे स्तेयदण्डः ॥ ०२७४०। पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृतोत्पन्ने च ॥ ०२७४१ अपराधं सहेताल्पं तुष्येदल्पेपि चोदये । [श्] ०२७४१ महोपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥[श्] E (ऋएचोवेर्योf रेवेनुए मिसप्प्रोप्रिअतेद्ब्य्स्तते एम्प्लोयेएस्) ०२८०१। कोशपूर्वाः सर्वारम्भाः ॥ ०२८०२। तस्मात्पूर्वं कोशमवेक्षेत ॥ ०२८०३। प्रचारसमृद्धिश्चरित्रानुग्रहश्चोरनिग्रहो युक्तप्रतिषेधः सस्यसम्पत्पण्यबाहुल्यमुपसर्गप्रमोक्षः परिहारक्षयो हिरण्योपायनमिति कोशवृद्धिः ॥ ०२८०४। प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणमुपभोगः परिवर्तनमपहारश्चेति कोशक्षयः ॥ ०२८०५। सिद्धीनामसाधनमनवतारणमप्रवेशनं वा प्रतिबन्धः ॥ ०२८०६। तत्र दशबन्धो दण्डः ॥ ०२८०७। कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः ॥ ०२८०८। पण्यव्यवहारो व्यवहारः ॥ ०२८०९। तत्र फलद्विगुणो दण्डः ॥ ०२८१०। सिद्धं कालमप्राप्तं करोति अप्राप्तं प्राप्तं वेत्यवस्तारः ॥ ०२८११। तत्र पञ्चबन्धो दण्डः ॥ ०२८१२। क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयतीति परिहापणम् ॥ ०२८१३। तत्र हीनचतुर्गुणो दण्डः ॥ ०२८१४। स्वयमन्यैर्वा राजद्रव्याणामुपभोजनमुपभोगः ॥ ०२८१५। तत्र रत्नोपभोगे घातः, सारोपभोगे मध्यमः साहसदण्डः, फल्गुकुप्योपभोगे तच्च तावत्च दण्डः ॥ ०२८१६। राजद्रव्याणामन्यद्रव्येनादानं परिवर्तनम् ॥ ०२८१७। तदुपभोगेन व्याख्यातम् ॥ ०२८१८। सिद्धमायं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ॥ ०२८१९। तत्र द्वादशगुणो दण्डः ॥ ०२८२०। तेषां हरणोपायाश्चत्वारिंशत् ॥ ०२८२१ पूर्वं सिद्धं पश्चादवतारितम्, पश्चात्सिद्धं पूर्वमवतारितम्, साध्यं न सिद्धम्, असाध्यं सिद्धम्, सिद्धमसिद्धं कृतम्, असिद्धं सिद्धं कृतम्, अल्पसिद्धं बहु कृतम्, बहुसिद्धमल्पं कृतम्, अन्यत्सिद्धमन्यत्कृतम्, अन्यतः सिद्धमन्यतः कृतम्,- ०२८२१ देयं न दत्तम्, अदेयं दत्तम्, काले न दत्तम्, अकाले दत्तम्, अल्पं दत्तं बहु कृतम्, बहु दत्तमल्पं कृतम्, अन्यद्दत्तमन्यत्कृतम्, अन्यतो दत्तमन्यतः कृतम्,- ०२८२१ प्रविष्टमप्रविष्टं कृतम्, अप्रविष्टं प्रविष्टं कृतम्, कुप्यमदत्तमूल्यं प्रविष्टम्, दत्तमूल्यं न प्रविष्टं - ०२८२१ संक्षेपो विक्षेपः कृतः, विक्षेपः संक्षेपो वा, महार्घमल्पार्घेण परिवर्तितम्, अल्पार्घं महार्घेण वा - ०२८२१ समारोपितोअर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः - ०२८२१ निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरणोपायाः ॥ - ०२८२२। तत्रोपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरानेकैकशोअनुयुञ्जीत ॥ ०२८२३। मिथ्यावादे चैषां युक्तसमो दण्डः ॥ ०२८२४। प्रचारे चावघोषयेत्"अमुना प्रकृतेनोपहताः प्रज्ञापयन्तु" इति ॥ ०२८२५। प्रज्ञापयतो यथोपघातं दापयेत् ॥ ०२८२६। अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव परोक्तः सर्वं भजेत ॥ ०२८२७। वैषम्ये सर्वत्रानुयोगं दद्यात् ॥ ०२८२८। महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत ॥ ०२८२९। कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठमंशं लभेत, द्वादशमंशं भृतकः ॥ ०२८३०। प्रभूताभियोगादल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत ॥ ०२८३१। अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः ॥ ०२८३२ निष्पत्तौ निक्षिपेद्वादमात्मानं वापवाहयेत् ।[श्] ०२८३२ अभियुक्तोपजापात्तु सूचको वधमाप्नुयात् ॥[श्] E (ईन्स्पेच्तिओनोf थे ऋओर्कोf ओffइचेर्स्) ०२९०१। अमात्यसम्पदोपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥ ०२९०२। कर्मसु चैषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात्मनुष्यानाम् ॥ ०२९०३। अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥ ०२९०४। तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपमुदयं चैषु विद्यात् ॥ ०२९०५। ते यथासंदेशमसंहता अविगृहीताः कर्माणि कुर्युः ॥ ०२९०६। संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥ ०२९०७। न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः ॥ ०२९०८। प्रमादस्थानेषु चैषामत्ययं स्थापयेद्दिवसवेतनव्ययद्विगुणम् ॥ ०२९०९। यश्चैषां यथादिष्टमर्थं सविशेषं वा करोति स स्थानमानौ लभेत ॥ ०२९१०। "अल्पायतिश्चेत्महाव्ययो भक्षयति ॥ ०२९११। विपर्यये यथायतिव्ययश्च न भक्षयति" इत्याचार्याः ॥ ०२९१२। अपसर्पेणैवोपलभ्येतेति कौटिल्यः ॥ ०२९१३। यः समुदयं परिहापयति स राजार्थं भक्षयति ॥ ०२९१४। स चेदज्ञानादिभिः परिहापयति तदेनं यथागुणं दापयेत् ॥ ०२९१५। यः समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति ॥ ०२९१६। स चेद्राजार्थमुपनयत्यल्पापराधे वारयितव्यः, महति यथापराधं दण्डयितव्यः ॥ ०२९१७। यः समुदयं व्ययमुपनयति स पुरुषकर्माणि भक्षयति ॥ ०२९१८। स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथापराधं दण्डयितव्यः ॥ ०२९१९। तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यमायव्ययौ च व्याससमासाभ्यामाचक्षीत ॥ ०२९२०। मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत् ॥ ०२९२१। यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः ॥ ०२९२२। यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ॥ ०२९२३। यो भृत्यात्मपीडाभ्यामुपचिनोत्यर्थं स कदर्यः ॥ ०२९२४। स पक्षवांश्चेदनादेयः, विपर्यये पर्यादातव्यः ॥ ०२९२५। यो महत्यर्थसमुदये स्थितः कदर्यः सन्निधत्तेवनिधत्तेवस्रावयति वा - सन्निधत्ते स्ववेश्मनि, अवनिधत्ते पौरजानपदेषु, अवस्रावयति परविषये - तस्य सत्त्री मन्त्रिमित्रभृत्यबन्धुपक्षमागतिं गतिं च द्रव्याणामुपलभेत ॥ ०२९२६। यश्चास्य परविषये संचारं कुर्यात्तमनुप्रविश्य मन्त्रं विद्यात् ॥ ०२९२७। सुविदिते शत्रुशासनापदेशेनैनं घातयेत् ॥ ०२९२८। तस्मादस्याध्यक्षाः संख्यायकलेखकरूपदर्शकनीवीग्राहकोत्तराध्यक्षसखाः कर्मणि कुर्युः ॥ ०२९२९। उत्तराध्यक्षा हस्त्यश्वरथारोहाः ॥ ०२९३०। तेषामन्तेवासिनः शिल्पशौचयुक्ताः संख्यायकादीनामपसर्पाः ॥ ०२९३१। बहुमुख्यमनित्यं चाधिकरणं स्थापयेत् ॥ ०२९३२ यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु७ वा विषं वा । [श्] ०२९३२ अर्थस्तथा ह्यर्थचरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ॥[श्] ०२९३३ मत्स्या यथान्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।[श्] ०२९३३ युक्तास्तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः ॥[श्] ०२९३४ अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।[श्] ०२९३४ न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ॥[श्] ०२९३५ आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु ।[श्] ०२९३५ यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥[श्] ०२९३६ न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च ।[श्] ०२९३६ नित्याधिकाराः कार्यास्ते राज्ञः प्रियहिते रताः ॥[श्] E (Oनेदिच्त्स्) ॰०२१००१। शासने शासनमित्याचक्षते ॥ ०२१००२। शासनप्रधाना हि राजानः, तन्मूलत्वात्संधिविग्रहयोः ॥ ०२१००३। तस्मादमात्यसम्पदोपेतः सर्वसमयविदाशुग्रन्थश्चार्वक्षरो लेखनवाचनसमर्थो लेखकः स्यात् ॥ ०२१००४। सोअव्यग्रमना राज्ञः संदेशं श्रुत्वा निश्चितार्थं लेखं विदध्यात्देशाइश्वर्यवंशनामधेयोपचारमीश्वरस्य, देशनामधेयोपचारमनीश्वरस्य ॥ ०२१००५ जातिं कुलं स्थानवयःश्रुतानि कर्मर्द्धिशीलान्यथ देशकालौ ।[श्] ०२१००५ यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुषानुरूपम् ॥[श्] ०२१००६। अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यमौदार्यं स्पष्टत्वमिति लेखसम्पत् ॥ ०२१००७। तत्र यथावदनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वमभिनिवेश इत्यर्थक्रमः ॥ ०२१००८। प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानमासमाप्तेरिति सम्बन्धः ॥ ०२१००९। अर्थपदाक्षराणामन्यूनातिरिक्तता हेतूदाहरणदृष्टान्तैरर्थोपवर्णनाश्रान्तपदतेति परिपूर्णता ॥ ०२१०१०। सुखोपनीतचार्वर्थशब्दाभिधानं माधुर्यम् ॥ ०२१०११। अग्राम्यशब्दाभिधानमौदार्यम् ॥ ०२१०१२। प्रतीतशब्दप्रयोगः स्पष्टत्वमिति ॥ ०२१०१३। अकारादयो वर्णास्त्रिषष्टिः ॥ ०२१०१४। वर्णसंघातः पदम् ॥ ०२१०१५। तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्चेति ॥ ०२१०१६। तत्र नाम सत्त्वाभिधायि ॥ ०२१०१७। अविशिष्टलिङ्गमाख्यातं क्रियावाचि ॥ ०२१०१८। क्रियाविशेषकाः प्रादय उपसर्गाः ॥ ०२१०१९। अव्ययाश्चादयो निपाताः ॥ ०२१०२०। पदसमूहो वाक्यमर्थपरिसमाप्तौ ॥ ०२१०२१। एकपदावरस्त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः ॥ ०२१०२२। लेखपरिसंहरणार्थ इतिशब्दो वाचिकमस्येति च ॥ ०२१०२३ निन्दा प्रशंसा पृच्छा च तथाख्यानमथार्थना ।[श्] ०२१०२३ प्रत्याख्यानमुपालम्भः प्रतिषेधोअथ चोदना ॥[श्] ०२१०२४ सान्त्वमभ्युपपत्तिश्च भर्त्सनानुनयौ तथा ।[श्] ०२१०२४ एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥[श्] ०२१०२५। तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा ॥ ०२१०२६। गुणवचनमेतेषामेव प्रशंसा ॥ ०२१०२७। "कथमेतद्" इति पृच्छा ॥ ०२१०२८। "एवम्" इत्याख्यानम् ॥ ०२१०२९। "देहि" इत्यर्थना ॥ ०२१०३०। "न प्रयच्छामि" इति प्रत्याख्यानम् ॥ ०२१०३१। "अननुरूपं भवतः" इत्युपालम्भः ॥ ०२१०३२। "मा कार्षीः" इति प्रतिषेधः ॥ ०२१०३३। "इदं क्रियताम्" इति चोदना ॥ ०२१०३४। "योअहं स भवान्, यन्मम द्रव्यं तद्भवतः" इत्युपग्रहः सान्त्वम् ॥ ०२१०३५। व्यसनसाहाय्यमभ्युपपत्तिः ॥ ०२१०३६। सदोषमायतिप्रदर्शनमभिभर्त्सनम् ॥ ०२१०३७। अनुनयस्त्रिविधोअर्थकृतावतिक्रमे पुरुषादिव्यसने चेति ॥ ०२१०३८ प्रज्ञापनाज्ञापरिदानलेखास्तथा परीहारनिसृष्टिलेखौ ।[श्] ०२१०३८ प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चेति हि शासनानि ॥[श्] ०२१०३९ अनेन विज्ञापितमेवमाह तद्दीयतां चेद्यदि तत्त्वमस्ति ।[श्] ०२१०३९ राज्ञः समीपे वरकारमाह प्रज्ञापनैषा विविधोपदिष्टा ॥[श्] ०२१०४० भर्तुराज्ञा भवेद्यत्र निग्रहानुग्रहौ प्रति ।[श्] ०२१०४० विशेषेण तु भृत्येषु तदाज्ञालेखलक्षणम् ॥[श्] ०२१०४१ यथार्हगुणसम्युक्ता पूजा यत्रोपलक्ष्यते ।[श्] ०२१०४१ अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ॥[श्] ०२१०४२ जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।[श्] ०२।१०४२ अनुग्रहो यो नृप्तेर्निदेशात्तज्ज्ञः परीहार इति व्यवस्येत् ॥[श्] ०२१०४३ निसृष्टिस्थापना कार्यकरणे वचने तथा ।[श्] ०२१०४३ एष वाचिकलेखः स्याद्भवेन्नैसृष्टिकोअपि वा ॥[श्] ०२१०४४ विविधां दैवसम्युक्तां तत्त्वजां चैव मानुषीम् ।[श्] ०२१०४४ द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥[श्] ०२१०४५ दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च ।[श्] ०२१०४५ प्रतिलेखो भवेत्कार्यो यथा राजवचस्तथा ॥[श्] ०२१०४६ यत्रेश्वरांश्चाधिकृतांश्च राजा रक्षोपकारौ पथिकार्थमाह ।[श्] ०२१०४६ सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ ०२१०४७। उपायाः सामोपप्रदानभेददण्डाः ॥ ०२१०४८। तत्र साम पञ्चविधं - गुणसंकीर्तनम्, सम्बन्धोपाख्यानम्, परस्परोपकारसंदर्शनम्, आयतिप्रदर्शनम्, आत्मोपनिधानमिति ॥ ०२१०४९। तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसंकीर्तनम् ॥ ०२१०५०। ज्ञातियौनमौखस्रौवकुलहृदयमित्रसंकीर्तनं सम्बन्धोपाख्यानम् ॥ ०२१०५१। स्वपक्षपरपक्षयोरन्योन्योपकारसंकीर्तनं परस्परोपकारसंदर्शनम् ॥ ०२१०५२। "अस्मिन्नेवं कृत इदमावयोर्भवति" इत्याशाजननमायतिप्रदर्शनम् ॥ ०२१०५३। "योअहं स भवान्, यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयोज्यताम्" इत्यात्मोपनिधानम् । इति ॥ ०२१०५४। उपप्रदानमर्थोपकारः ॥ ०२१०५५। शङ्काजननं निर्भर्त्सनं च भेदः ॥ ०२१०५६। वधः परिक्लेशोअर्थहरणं दण्डः । इति ॥ ०२१०५७। अकान्तिर्व्याघातः पुनरुक्तमपशब्दः सम्प्लव इति लेखदोषः ॥ ०२१०५८। तत्र कालपत्त्रकमचारुविषमविरागाक्षरत्वमकान्तिः ॥ ०२१०५९। पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ॥ ०२१०६०। उक्तस्याविशेषेण द्वितीयमुच्चारणं पुनरुक्तम् ॥ ०२१०६१। लिङ्गवचनकालकारकाणामन्यथाप्रयोगोअपशब्दः ॥ ०२१०६२। अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः । इति ॥ ०२१०६३ सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च ।[श्] ०२१०६३ कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ॥[श्] E (Exअमिनतिओनोf थे प्रेचिओउसर्तिच्लेस्तो बे रेचेइवेदिन्तो थे त्रेअसुर्य्) ०२११०१। कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात् ॥ ०२११०२। ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥ ०२११०३। शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥ ०२११०४। मसूरकं त्रिपुटकं कूर्मकमर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम् ॥ ०२११०५। स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम् ॥ ०२११०६। शीर्षकमुपशीर्षकं प्रकाण्डकमवघाटकं तरलप्रतिबद्धं चेति यष्टिप्रभेदाः ॥ ०२११०७। यष्टीनामष्टसहस्रमिन्द्रच्छन्दः ॥ ०२११०८। ततोअर्धं विजयच्छन्दः ॥ ०२११०९। चतुष्षष्टिरर्धहारः ॥ ०२१११०। चतुष्पञ्चाशद्रश्मिकलापः ॥ ०२११११। द्वात्रिंशद्गुच्छः ॥ ०२१११२। सप्तविंशतिर्नक्षत्रमाला ॥ ०२१११३। चतुर्विंशतिरर्धगुच्छः ॥ ०२१११४। विंशतिर्माणवकः ॥ ०२१११५। ततोअर्धमर्धमाणवकः ॥ ०२१११६। एत एव मणिमध्यास्तन्माणवका भवन्ति ॥ ०२१११७। एकशीर्षकः शुद्धो हारः ॥ ०२१११८। तद्वत्शेषाः ॥ ०२१११९। मणिमध्योअर्धमाणवकः ॥ ०२११२०। त्रिफलकः फलकहारः, पञ्चफलको वा ॥ ०२११२१। सूत्रमेकावली शुद्धा ॥ ०२११२२। सैव मणिमध्या यष्टिः ॥ ०२११२३। हेममणिचित्रा रत्नावली ॥ ०२११२४। हेममणिमुक्तान्तरोअपवर्तकः ॥ ०२११२५। सुवर्णसूत्रान्तरं सोपानकम् ॥ ०२११२६। मणिमध्यं वा मणिसोपानकम् ॥ ०२११२७। तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः ॥ ०२११२८। मणिः कौटोमालेयकः पारसमुद्रकश्च ॥ ०२११२९। सौगन्धिकः पद्मरागोअनवद्यरागः पारिजातपुष्पको बालसूर्यकः ॥ ०२११३०। वैडूर्यमुत्पलवर्णः शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः ॥ ०२११३१। इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्वाभो जीमूतप्रभो नन्दकः स्रवन्मध्यः ॥ ०२११३२। शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः ॥ ०२११३३। षडश्रश्चतुरश्रो वृत्तो वा तीव्ररागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानुलेपी चेति मणिगुणाः ॥ ०२११३४। मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः ॥ ०२११३५। विमलकः सस्यकोअञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोअहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः ॥ ०२११३६। शेषाः काचमणयः ॥ ०२११३७। सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकमिन्द्रवानकं च वज्रम् ॥ ०२११३८। खनिः स्रोतः प्रकीर्णकं च योनयः ॥ ०२११३९। मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानामन्यतमवर्णमिति वज्रवर्णाः ॥ ०२११४०। स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम् ॥ ०२११४१। नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम् ॥ ०२११४२। प्रवालकमालकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जमिति ॥ ०२११४३। चन्दनं सातनं रक्तं भूमिगन्धि ॥ ०२११४४। गोशीर्षकं कालताम्रं मत्स्यगन्धि ॥ ०२११४५। हरिचन्दनं शुकपत्त्रवर्णमाम्रगन्धि, तार्णसं च ॥ ०२११४६। ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि ॥ ०२११४७। दैवसभेयं रक्तं पद्मगन्धि, जापकं च ॥ ०२११४८। जोङ्गकं रक्तं रक्तकालं वा स्निग्धम्, तौरूपं च ॥ ०२११४९। मालेयकं पाण्डुरक्तम् ॥ ०२११५०। कुचन्दनं रूक्षमगुरुकालं रक्तं रक्तकालं वा ॥ ०२११५१। कालपर्वतकं रक्तकालमनवद्यवर्णं वा ॥ ०२११५२। कोशागारपर्वतकं कालं कालचित्रं वा ॥ ०२११५३। शीतोदकीयं पद्माभं कालस्निग्धं वा ॥ ०२११५४। नागपर्वतकं रूक्षं शैवलवर्णं वा ॥ ०२११५५। शाकलं कपिलम् । इति ॥ ०२११५६। लघु स्निग्धमश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वगनुसार्यनुल्बणमविराग्युष्णसहं दाहग्राहि सुखस्पर्शनमिति चन्दनगुणाः ॥ ०२११५७। अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा ॥ ०२११५८। श्यामं दोङ्गकम् ॥ ०२११५९। पारसमुद्रकं चित्ररूपमुशीरगन्धि नवमालिकागन्धि वा । इति ॥ ०२११६०। गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहमसम्प्लुतधूमं विमर्दसहमित्यगुरुगुणाः ॥ ०२११६१। तैलपर्णिकमशोकग्रामिकं मांसवर्णं पद्मगन्धि ॥ ०२११६२। जोङ्गकं रक्तपीतकमुत्पलगन्धि गोमूत्रगन्धि वा ॥ ०२११६३। ग्रामेरुकं स्निग्धं गोमूत्रगन्धि ॥ ०२११६४। सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि ॥ ०२११६५। पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा ॥ ०२११६६। भद्रश्रियं पारलौहित्यकं जातीवर्णम् ॥ ०२११६७। आन्तरवत्यमुशीरवर्णम् ॥ ०२११६८। उभयं कुष्ठगन्धि च । इति ॥ ०२११६९। कालेयकः स्वर्णभूमिजः स्निग्धपीतकः ॥ ०२११७०। औत्तरपर्वतको रक्तपीतकः ॥ इति साराः । ०२११७१। पिण्डक्वाथधूमसहमविरागि योगानुविधायि च ॥ ०२११७२। चन्दनागुरुवच्च तेषां गुणाः ॥ ०२११७३। कान्तनावकं प्रैयकं चोत्तरपर्वतकं चर्म ॥ ०२११७४। कान्तनावकं मयूरग्रीवाभम् ॥ ०२११७५। प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम् ॥ ०२११७६। तदुभयमष्टाङ्गुलायामम् ॥ ०२११७७। बिसी महाबिसी च द्वादशग्रामीये ॥ ०२११७८। अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी ॥ ०२११७९। परुषा श्वेतप्राया महाबिसी ॥ ०२११८०। द्वादशाङ्गुलायाममुभयम् ॥ ०२११८१। श्यामिका कालिका कदली चन्द्रोत्तरा शाकुला चारोहजाः ॥ ०२११८२। कपिला बिन्दुचित्रा वा श्यामिका ॥ ०२११८३। कालिका कपिला कपोतवर्णा वा ॥ ०२११८४। तदुभयमष्टाङ्गुलायामम् ॥ ०२११८५। परुषा कदली हस्तायता ॥ ०२११८६। सैव चन्द्रचित्रा चन्द्रोत्तरा ॥ ०२११८७। कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाजिनचित्रा वा । इति ॥ ०२११८८। सामूरं चीनसी सामूली च बाह्लवेयाः ॥ ०२११८९। षट्त्रिंशदङ्गुलमञ्जनवर्णं सामूरम् ॥ ०२११९०। चीनसी रक्तकाली पाण्डुकाली वा ॥ ०२११९१। सामूली गोधूमवर्णा । इति ॥ ०२११९२। सांतिना नलतूला वृत्तपृच्छा चौद्राः ॥ ०२११९३। सातिना कृष्णा ॥ ०२११९४। नलतूला नलतूलवर्णा ॥ ०२११९५। कपिला वृत्तपुच्छा च ॥ इति चर्मजातयः । ०२११९६। चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम् ॥ ०२११९७। शुद्धं शुद्धरक्तं पक्षरक्तं चाविकम्, खचितं वानचित्रं खण्डसंघात्यं तन्तुविच्छिन्नं च ॥ ०२११९८। कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम् ॥ ०२११९९। पिच्छिलमार्द्रमिव च सूक्ष्मं मृदु च श्रेष्ठम् ॥ ०२१११००। अष्टप्रोतिसंघात्या कृष्णा भिङ्गिसी वर्षवारणमपसारक इति नैपालकम् ॥ ०२१११०१। सम्पुटिका चतुरश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकेति मृगरोम ॥ ०२१११०२। वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥ ०२१११०३। पौण्ड्रकं श्यामं मणिस्निग्धम् ॥ ०२१११०४। सौवर्णकुड्यकं सूर्यवर्णं मणिस्निग्धोदकवानं चतुरश्रवानं व्यामिश्रवानं च ॥ ०२१११०५। एतेषामेकांशुकमध्यर्धद्वित्रिचतुरंशुकमिति ॥ ०२१११०६। तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥ ०२१११०७। मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्रोर्णा ॥ ०२१११०८। नागवृक्षो लिकुचो बकुलो वटश्च योनयः ॥ ०२१११०९। पीतिका नागवृक्षिका ॥ ०२११११०। गोधूमवर्णा लैकुची ॥ ०२१११११। श्वेता बाकुली ॥ ०२११११२। शेषा नवनीतवर्णा ॥ ०२११११३। तासां सौवर्णकुड्यका श्रेष्ठा ॥ ०२११११४। तया कौशेयं चीनपट्टाश्च चीनभूमिजा व्याख्याताः ॥ ०२११११५। माधुरमापरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥ ०२११११६। अतः परेषां रत्नानां प्रमाणं मूल्यलक्षणम् । ०२११११७। जातिं रूपं च जानीयान्निधानं नवकर्म च ॥ ०२११११८। पुराणप्रतिसंस्कारं कर्म गुह्यमुपस्करान् । ०२११११९। देशकालपरीभोगं हिंस्राणां च प्रतिक्रियाम् ॥E (ष्तर्तिन्गोर्मिनेसन्द्fअच्तोरिएस्) ०२१२०१। आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञस्तज्ज्ञसखो वा तज्जातकर्मकरोपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वाकरं भूतपूर्वमभुतपूर्वं वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमुग्रगन्धरसं परीक्षेत ॥ ०२१२०२। पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकालयनगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूततालफलपक्वहरिद्राभेदगुड(गूड?)हरितालमनःशिलाक्षौद्रहिङ्गुलुकपुण्डरीकशुकमयूरपत्त्रवर्णाः सवर्णोदकौषधिपर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ॥ ०२१२०३। अप्सु निष्ठ्यूतास्तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शतादुपरि वेद्धारः ॥ ०२१२०४। तत्प्रतिरूपकमुग्रगन्धरसं शिलाजतु विद्यात् ॥ ०२१२०५। पीतकास्ताम्रकास्ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थास् ताम्ररूप्यवेधनाः ॥ ०२१२०६। शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः स-सीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः ॥ ०२१२०७। सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः ॥ ०२१२०८। तेषामशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षरभाविता राजवृक्षवटपीलुगोपित्तरोचनामहिषखरकरभमूत्रलेण्डपिण्डबद्धास्तत्प्रतीवापास्तदवलेपा वा विशुद्धाः स्रवन्ति ॥ ०२१२०९। यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः ॥ ०२१२१० मधुमधुकमजापयः स-तैलं घृतगुडकिण्वयुतं स-कन्दलीकम् । ०२१२१० यदपि शतसहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्निषेकैः ॥ ०२१२११। गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः ॥ ०२१२१२। भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः ॥ ०२१२१३। काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः ॥ ०२१२१४। ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः ॥ ०२१२१५। खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः ॥ ०२१२१६। काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः ॥ ०२१२१७। अच्छः स्निग्धः स-प्रभो घोषवान् शीतस्तीव्रस्तनुरागश्च मणिधातुः ॥ ०२१२१८। धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत् ॥ ०२१२१९। कृतभाण्डव्यवहारमेकमुखम्, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतृऋणां स्थापयेत् ॥ ०२१२२०। आकरिकमपहरन्तमष्टगुणं दापयेदन्यत्र रत्नेभ्यः ॥ ०२१२२१। स्तेनमनिसृष्टोपजीविनं च बद्धं कर्म कारयेत्, दण्डोपकारिणं च ॥ ०२१२२२। व्ययक्रियाभारिकमाअकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकमात्मना कारयेत् ॥ ०२१२२३। लोहाध्यक्षस्ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च ॥०२१२२४। लक्षणाध्यक्षश्चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्जनानामन्यतममाषबीजयुक्तं कारयेत्- पणमर्धपणं पादम्, अष्टभागमिति, पादाजीवं ताम्ररूपं - माषकमर्धमाषकं काकणीम् अर्धकाकणीमिति ॥ ०२१२२५। रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत् ॥ ०२१२२६। रूपिकमष्टकं शतम्, पञ्चकं शतं व्याजीम्, पारीक्षिकमष्टभागिकम्, शतम्, पञ्चविंशतिपणमत्ययं च अन्यत्रकर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः ॥ ०२१२२७। खन्यध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च ॥ ०२१२२८। लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं संगृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च ॥ ०२१२२९। आगन्तुलवणं षड्भागं दद्यात् ॥ ०२१२३०। दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥ ०२१२३१। क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतमत्ययं च ॥ ०२१२३२। विलवणमुत्तमं दण्डं दद्याद्, अनिषृष्टोपजीवी चान्यत्र वानप्रस्थेभ्यः ॥ ०२१२३३। श्रोत्रियास्तपस्विनो विष्टयश्च भक्तलवणं हरेयुः ॥ ०२१२३४। अतोअन्यो लवणक्षारवर्गः शुल्कं दद्यात् ॥ ०२१२३५ एवं मूल्यं च भागं च व्याजीं परिघमत्ययम् । ०२१२३५ शुल्कं वैधरणं दण्डं रूपं रूपिकमेव च ॥ ०२१२३६ खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् । ०२१२३६ एवं सर्वेषु पण्येषु स्थापयेन्मुखसंग्रहम् ॥ ०२१२३७ आकरप्रभः कोशः कोशाद्दण्डः प्रजायते । ०२१२३७ पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ॥E (षुपेरिन्तेन्देन्तोf गोल्दिन् थे ऋओर्क्स्होप्) ०२१३०१। सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानामसम्बन्धावेशनचतुःशालामेकद्वारामक्षशालां कारयेत् ॥ ०२१३०२। विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिजातं प्रात्ययिकं च स्थापयेत् ॥ ०२१३०३। जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णम् ॥ ०२१३०४। किञ्जल्कवर्णं मृदु स्निग्धमनादि भ्राजिष्णु च श्रेष्ठम्, रक्तपीतकं मध्यमम्, रक्तमवरम् ॥ ०२१३०५। श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम् ॥ ०२१३०६। तद्येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत् ॥ ०२१३०७। सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत् ॥ ०२१३०८। रूक्षत्वाद्भिद्यमानं तैलगोमये निषेचयेत् ॥ ०२१३०९। आकरोद्गतं सीसान्वयेन भिद्यमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदलीवज्रकन्दकल्के वा निषेचयेत् ॥ ०२१३१०। तुत्थोद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥ ०२१३११। श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥ ०२१३१२। विपर्यये स्फोटनं च दुष्टम् ॥ ०२१३१३। तत्सीसचतुर्भागेन शोधयेत् ॥ ०२१३१४। उद्गतचूलिकमच्छं भ्राजिष्णु दधिवर्णं च शुद्धम् ॥ ०२१३१५। शुद्धस्यैको हारिद्रस्य सुवर्णो वर्णकः ॥ ०२१३१६। ततः शुल्बकाकण्युत्तरापसारिता आचतुःसीमान्तादिति षोडश वर्णकाः ॥ ०२१३१७। सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ॥ ०२१३१८। समरागलेखमनिम्नोन्नते देशे निकषितम्, परिमृदितं परिलीढं नखान्तराद्वा गैरिकेणावचूर्णितमुपधिं विद्यात् ॥ ०२१३१९। जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति ॥ ०२१३२०। स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः ॥ ०२१३२१। कालिङ्गकस्तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः ॥ ०२१३२२। समरागी विक्रयक्रयहितः ॥ ०२१३२३। हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः ॥ ०२१३२४। स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः ॥ ०२१३२५। छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ॥ ०२१३२६। तापो बहिरन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः ॥ ०२१३२७। श्यावो नीलश्चाप्राप्तकः ॥ ०२१३२८। तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः ॥ ०२१३२९। तेनोपदेशेन रूप्यसुवर्णं दद्यादाददीत च ॥ ०२१३३०। अक्षशालामनायुक्तो नोपगच्छेत् ॥ ०२१३३१। अभिगच्छन्नुच्छेद्यः ॥ ०२१३३२। आयुक्तो वा सरूप्यसुवर्णस्तेनैव जीयेत ॥ ०२१३३३। विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च ॥ ०२१३३४। सर्वं चैषामुपकरणमनिष्ठिताश्च प्रयोगास्तत्रैवावतिष्ठेरन् ॥ ०२१३३५। गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात् ॥ ०२१३३६। सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात् ॥ ०२१३३७। क्षेपणो गुणः क्षुद्रकमिति कर्माणि ॥ ०२१३३८। क्षेपणः काचार्पणादीनि ॥ ०२१३३९। गुणः सूत्रवानादीनि ॥ ०२१३४०। घनं सुषिरं पृषतादियुक्तं क्षुद्रकमिति ॥ ०२१३४१। अर्पयेत्काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम् ॥ ०२१३४२। ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकम्, तस्माद्रक्षेत् ॥ ०२१३४३। पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥ ०२१३४४। त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन सम्यूहयेत् ॥ ०२१३४५। रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत् ॥ ०२१३४६। चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ०२१३४७। तपनीयं ज्येष्ठं सुवर्णं सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकयोज्ज्वालितं नीलपीतश्वेतहरितशुकपत्त्रवर्णानां प्रकृतिर्भवति ॥ ०२१३४८। तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः ॥ ०२१३४९। तारमुपशुद्धं वा - अस्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तं सैन्धविकयोज्ज्वालितम् ॥ ०२१३५०। एतस्मात्काकण्युत्तरमाद्विमाषादिति सुवर्णे देयम्, पश्चाद्रागयोगः, श्वेततारं भवति । ०२१३५१। त्रयोअंशास्तपनीयस्य द्वात्रिंशद्भागश्वेततारमूर्च्छिताः तत्श्वेतलोहितकं भवति ॥ ०२१३५२। ताम्रं पीतकं करोति ॥ ०२१३५३। तपनीयमुज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति ॥ ०२१३५४। श्वेततारभागौ द्वावेकस्तपनीयस्य मुद्गवर्णं करोति ॥ ०२१३५५। कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति ॥ ०२१३५६। प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति ॥ ०२१३५७। तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥ ०२१३५८। तीक्ष्णताम्रसंस्कारं च बुध्येत ॥ ०२१३५९। तस्माद्वज्रमणिमुक्ताप्रवालरूपाणामपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च ॥ ०२१३६० समरागं समद्वन्द्वमसक्तपृषतं स्थिरम् । ०२१३६० सुप्रमृष्टमसम्पीतं विभक्तं धारणे सुखम् ॥ ०२१३६१ अभिनीतं प्रभायुक्तं संस्थानमधुरं समम् । ०२१३६१ मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः ॥E (आच्तिवित्योf थे गोल्द्स्मिथिन् थे मर्केत्-हिघृअय्) ०२१४०१। सौवर्णिकः पौरजानपदानां रूप्यसुवर्णमावेशनिभिः कारयेत् ॥ ०२१४०२। निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम् ॥ ०२१४०३। कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः ॥ ०२१४०४। कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः ॥ ०२१४०५। यथावर्णप्रमाणं निक्षेपं गृह्णीयुस्तथाविधमेवार्पयेयुः ॥ ०२१४०६। कालान्तरादपि च तथाविधमेव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम् ॥ ०२१४०७। आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज्जानीयात् ॥ ०२१४०८। तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥ ०२१४०९। तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः ॥ ०२१४१०। वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमानोपधावुत्तमः, कृतभाण्डोपधौ च ॥ ०२१४११। सौवर्णिकेनादृष्टमन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः ॥ ०२१४१२। कर्तुर्द्विगुणः सापसारश्चेत् ॥ ०२१४१३। अनपसारः कण्टकशोधनाय नीयेत ॥ ०२१४१४। कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा ॥ ०२१४१५। तुलाप्रतिमानभाण्डं पौतवहस्तात्क्रीणीयुः ॥ ०२१४१६। अन्यथा द्वादशपणो दण्डः ॥ ०२१४१७। घनं सुषिरं सम्यूह्यमवलेप्यं संघात्यं वासितकं च कारुकर्म ॥ ०२१४१८। तुलाविषममपसारणं विस्रावणं पेटकः पिङ्कश्चेति हरणोपायाः ॥ ०२१४१९। सन्नामिन्युत्कीर्णिका भिन्नमस्तकोपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्यायस्कान्ता च दुष्टतुलाः ॥ ०२१४२०। रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम् ॥ ०२१४२१। तेनाकरोद्गतमपसार्यते तत्त्रिपुटकापसारितम् ॥ ०२१४२२। शुल्बेन शुल्बापसारितम्, वेल्लकेन वेल्लकापसारितम्, शुल्बार्धसारेण हेम्ना हेमापसारितम् ॥ ०२१४२३। मूकमूषा पूतिकिट्टः करटुकमुखं नाली संदंशो जोङ्गनी सुवर्चिकालवणं तदेव सुवर्णमित्यपसारणमार्गाः ॥ ०२१४२४। पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदादग्निष्ठादुद्ध्रियन्ते ॥ ०२१४२५। पश्चाद्बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणम्, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा ॥ ०२१४२६। गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसंघात्येषु क्रियते ॥ ०२१४२७। सीसरूपं सुवर्णपत्त्रेणावलिप्तमभ्यन्तरमष्टकेन बद्धं गाढपेटकः ॥ ०२१४२८। स एव पटलसम्पुटेष्वभ्युद्धार्यः ॥ ०२१४२९। पत्त्रमाश्लिष्टं यमकपत्त्रं वावलेप्येषु क्रियते ॥ ०२१४३०। शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥ ०२१४३१। शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वम्, तदेव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं चोत्तरवर्णकः ॥ ०२१४३२। तदुभयं तापनिकषाभ्यां निह्शब्दोल्लेखनाभ्यां वा विद्यात् ॥ ०२१४३३। अभ्युद्धार्यं बदराम्ले लवणोदके वा सादयन्ति ॥ इति पेटकः ॥ ०२१४३४। घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोअवतिष्ठते ॥ ०२१४३५। दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोअवतिष्ठते ॥ ०२१४३६। तयोस्तापनमवध्वंसनं वा शुद्धिः ॥ ०२१४३७। स-परिभाण्डे वा रूपे लवणमुल्कया कटुशर्करया तप्तमवतिष्ठते ॥ ०२१४३८। तस्य क्वाथनं शुद्धिः ॥ ०२१४३९। अभ्रपटलमष्टकेन द्विगुणवास्तुके वा रूपे बध्यते ॥ ०२१४४०। तस्यापिहितकाचकस्योदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते ॥ ०२१४४१। मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः ॥ ०२१४४२। तस्य तापनमवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥ ०२१४४३। तस्माद्वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत ॥ ०२१४४४। कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरणोपायाः - परिकुट्टनमवच्छेदनमुल्लेखनं परिमर्दनं वा ॥ ०२१४४५। पेटकापदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्परिकुट्टनम् ॥ ०२१४४६। यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरमवच्छिन्दन्ति तदवच्छेदनम् ॥ ०२१४४७। यद्घनानां तीक्ष्णेनोल्लिखन्ति तदुल्लेखनम् ॥ ०२१४४८। हरितालमनःशिलाहिङ्गुलुकचूर्णानामन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनम् ॥ ०२१४४९। तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न चैषां किंचिदवरुग्णं भवति ॥ ०२१४५०। भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ॥०२१४५१। अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ॥ ०२१४५२। विरूपाणां वा तापनमुदकपेषणं च बहुशः कुर्यात् ॥ ०२१४५३। अवक्षेपः प्रतिमानमग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकायेक्षा दृतिरुदकशरावमग्निष्ठमिति काचं विद्यात् ॥ ०२१४५४। राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टमिति विद्यात् ॥ ०२१४५५ एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् । ०२१४५५ परीक्षेतात्ययं चैषां यथोद्दिष्टं प्रकल्पयेत् ॥E (षुपेरिन्तेन्देन्तोf थे मगशिन्) ०२१५०१। कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्यायोपस्थानान्युपलभेत् ॥ ०२१५०२। सीताध्यक्षोपनीतः सस्यवर्णकः सीता ॥ ०२१५०३। पिण्डकरः षड्भागः सेनाभक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकमौपायनिकं कौष्ठेयकं च राष्ट्रम् ॥ ०२१५०४। धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम् ॥ ०२१५०५। सस्यवर्णानामर्घान्तरेण विनिमयः परिवर्तकः ॥ ०२१५०६। सस्ययाचनमन्यतः प्रामित्यकम् ॥ ०२१५०७। तदेव प्रतिदानार्थमापमित्यकम् ॥ ०२१५०८। कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका ॥ ०२१५०९। नष्टप्रस्मृतादिरन्यजातः ॥ ०२१५१०। विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः ॥ ०२१५११। तुलामानान्तरं हस्तपूरणमुत्करो व्याजी पर्युषितं प्रार्जितं चोपस्थानम् । इति ॥ ०२१५१२। धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताध्यक्षे वक्ष्यामः ॥ ०२१५१३। सर्पिस्तैलवसामज्जानः स्नेहाः ॥ ०२१५१४। फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः ॥ ०२१५१५। सैन्धवसामुद्रबिडयवक्षारसौवर्चलोद्भेदजा लवणवर्गः ॥ ०२१५१६। क्षौद्रं मार्द्वीकं च मधु ॥ ०२१५१७। इक्षुरसगुडमधुफाणितजाम्बवपनसानामन्यतमो मेषशृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुकेक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः ॥ ०२१५१८। वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः ॥ ०२१५१९। दधिधान्याम्लादिर्द्रवाम्लवर्गः ॥ ०२१५२०। पिप्पलीमरिचशृङ्गिबेराजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः ॥ ०२१५२१। शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः ॥ ०२१५२२। ततोअर्धमापदर्थं जानपदानां स्थापयेद्, अर्धमुपयुञ्जीत ॥ ०२१५२३। नवेन चानवं शोधयेत् ॥ ०२१५२४। क्षुण्णघृष्टपिष्टभृष्टानामार्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत ॥ ०२१५२५। कोद्रवव्रीहीणामर्धं सारः, शालीनामर्धभागोनः, त्रिभागोनो वरकाणाम् ॥ ०२१५२६। प्रियङ्गूणामर्धं सारो नवभागवृद्धिश्च ॥ ०२१५२७। उदारकस्तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः ॥ ०२१५२८। पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च ॥ ०२१५२९। पादोना कलायचमसी ॥ ०२१५३०। मुद्गमाषाणामर्धपादोना ॥ ०२१५३१।शौम्ब्यानामर्धं सारः, त्रिभागोनो मसूराणाम् ॥ ०२१५३२। पिष्टमामं कुल्माषाश्चाध्यर्धगुणाः ॥ ०२१५३३। द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम् ॥ ०२१५३४। कोद्रववरकोदारकप्रियङ्गूणां त्रिगुणमन्नम्, चतुर्गुणं व्रीहीणाम्, पञ्चगुणं शालीनाम् ॥ ०२१५३५। तिमितमपरान्नं द्विगुणम्, अर्धाधिकं विरूढानाम् ॥ ०२१५३६। पञ्चभागवृद्धिर्भृष्टानाम् ॥ ०२१५३७। कलायो द्विगुणः, लाजा भरुजाश्च ॥ ०२१५३८।षट्कं तैलमतसीनाम् ॥ ०२१५३९। निम्बकुशाम्रकपित्थादीनां पञ्चभागः ॥ ०२१५४०। चतुर्भागिकास्तिलकुसुम्भमधूकेङ्गुदीस्नेहाः ॥ ०२१५४१। कार्पासक्षौमाणां पञ्चपले पलं सूत्रम् ॥ ०२१५४२। पञ्चद्रोणे शालीनां द्वादशाढकं तण्डुलानां कलभभोजनम्, एकादशकं व्यालानाम्, दशकमौपवाह्यानां नवकं साम्नाह्यानाम्, अष्टकं पत्तीनाम्, सप्तकं मुख्यानाम्, षट्कं देवीकुमाराणाम्, पञ्चकं राज्ञाम्, अखण्डपरिशुद्धानां वा तुअण्डुलानां प्रस्थः ॥ ०२१५४३। तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषस्तैलस्य वैकमार्यभक्तं पुंसः ॥ ०२१५४४।षड्भागः सूपः अर्धस्नेहमवराणाम् ॥ ०२१५४५। पादोनं स्त्रीणाम् ॥ ०२१५४६। अर्धं बालानाम् ॥ ०२१५४७। मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः ॥ ०२१५४८। तेनोत्तरं व्याख्यातम् ॥ ०२१५४९। शाकानामध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः ॥ ०२१५५०। हस्त्यश्वयोस्तदध्यक्षे विधाप्रमाणं वक्ष्यामः ॥ ०२१५५१। बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषमश्वविधानम् ॥ ०२१५५२। विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा ॥ ०२१५५३। द्विगुणं महिषोष्ट्राणाम् ॥ ०२१५५४। अर्धद्रोणं खरपृषतरोहितानाम् ॥ ०२१५५५। आढकमेणकुरङ्गाणाम् ॥ ०२१५५६। अर्धाढकमजैडकवराहाणाम्, द्विगुणं वा कणकुण्डकम् ॥ ०२१५५७। प्रस्थौदनः शुनाम् ॥ ०२१५५८। हंसक्रौञ्चमयूराणामर्धप्रस्थः ॥ ०२१५५९। शेषाणामतो मृगपशुपक्षिव्यालानामेकभक्तादनुमानं ग्राहयेत् ॥ ०२१५६०। अङ्गारांस्तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत् ॥ ०२१५६१। कणिका दासकर्मकरसूपकाराणाम्, अतोअन्यदौदनिकापूपिकेभ्यः प्रयच्छेत् ॥ ०२१५६२। तुलामानभाण्डं रोचनीदृषन्मुसलोलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्चोपकरणानि ॥ ०२१५६३। मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः ॥ ०२१५६४ उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ०२१५६४ मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च ॥E (डिरेच्तोरोf त्रदे) ०२१६०१। पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथोपयातानां सारफल्ग्वर्घान्तरं प्रियाप्रियतां च विद्यात्, तथा विक्षेपसंक्षेपक्रयविक्रयप्रयोगकालान् ॥ ०२१६०२। यच्च पण्यं प्रचुरं स्यात्तदेकीकृत्यार्घमारोपयेत् ॥ ०२१६०३। प्राप्तेर्घे वार्घान्तरं कारयेत् ॥ ०२१६०४। स्वभूमिजानां राजपण्यानामेकमुखं व्यवहारं स्थापयेत्, परभूमिजानामनेकमुखम् ॥ ०२१६०५। उभयं च प्रजानामनुग्रहेण विक्रापयेत् ॥ ०२१६०६। स्थूलमपि च लाभं प्रजानामौपघातिकं वारयेत् ॥ ०२१६०७। अजस्रपण्यानां कालोपरोधं संकुलदोषं वा नोत्पादयेत् ॥ ०२१६०८। बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन् ॥ ०२१६०९। छेदानुरूपं च वैधरणं दद्युः ॥ ०२१६१०। षोडशभागो मानव्याजी, विंशतिभागस्तुलामानम्, गण्यपण्यानामेकादशभागः ॥ ०२१६११। परभूमिजं पण्यमनुग्रहेणावाहयेत् ॥ ०२१६१२। नाविकसार्थवाहेभ्यश्च परिहारमायतिक्षमं दद्यात् ॥ ०२१६१३। अनभियोगश्चार्थेष्वागन्तूनाम्, अन्यत्र सभ्योपकारिभ्यः ॥ ०२१६१४। पण्याधिष्ठातारः पण्यमूल्यमेकमुखं काष्ठद्रोण्यामेकच्छिद्रापिधानायां निदध्युः ॥ ०२१६१५। अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - "इदं विक्रीतम्, इदं शेषम्" इति ॥ ०२१६१६। तुलामानभाण्डं चार्पयेयुः ॥ ०२१६१७। इति स्वविषये व्याख्यातम् ॥ ०२१६१८। परविषये तु - पण्यप्रतिपण्ययोरर्घं मूल्यं चागमय्य शुल्कवर्तन्यातिवाहिकगुल्मतरदेयभक्तभागव्ययशुद्धमुदयं पश्येत् ॥ ०२१६१९। असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत् ॥ ०२१६२०। ततः सारपादेन स्थलव्यवहारमध्वना क्षेमेण प्रयोजयेत् ॥ ०२१६२१। अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रहार्थम् ॥ ०२१६२२। आपदि सारमात्मानं वा मोक्षयेत् ॥ ०२१६२३। आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत ॥ ०२१६२४। वारिपथे वा यानभागकपथ्यदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत ॥ ०२१६२५ नदीपथे च विज्ञाय व्यवहारं चरित्रतः । ०२१६२५ यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ॥E (डिरेच्तोरोf fओरेस्त्प्रोदुचे) ०२१७०१। कुप्याध्यक्षो द्रव्यवनपालैः कुप्यमानाययेत् ॥ ०२१७०२। द्रव्यवनकर्मान्तांश्च प्रयोजयेत् ॥ ०२१७०३। द्रव्यवनच्छिद्रां च देयमत्ययं च स्थापयेदन्यत्रापद्भ्यः ॥ ०२१७०४। कुप्यवर्गः - शाकतिनिशधन्वनार्जुनमधूकतिलकसालशिंशपारिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्ककुशाम्रप्रियकधवादिः सारदारुवर्गः ॥ ०२१७०५। उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः ॥ ०२१७०६। वेत्रशीकवल्लीवाशीश्यामलतानागलतादिर्वल्लीवर्गः ॥ ०२१७०७। मालतीमूर्वार्कशणगवेधुकातस्यादिर्वल्कवर्गः ॥ ०२१७०८। मुञ्जबल्बजादि रज्जुभाण्डम् ॥ ०२१७०९। तालीतालभूर्जानां पत्त्रम् ॥ ०२१७१०। किंशुककुसुम्भकुङ्कुमानां पुष्पम् ॥ ०२१७११। कन्दमूलफलादिरौषधवर्गः ॥ ०२१७१२। कालकूटवत्सनाभहालाहलमेषशृङ्गमुस्ताकुष्ठमहाविषवेल्लितकगौरार्द्रबालकमार्कटहैमवतकालिङ्गकदारदकाङ्कोलसारकोष्ट्रकादीनि विषाणि, सर्पाः कीटाश्च त एव कुम्भगताः विषवर्गः ॥ ०२१७१३। गोधासेरकद्वीप्यृक्षशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृमरखड्गगोमृगगवयानां चर्मास्थिपित्तस्नाय्वक्षिदन्तशृङ्गखुरपुच्छानि, अन्येषां वापि मृगपशुपक्षिव्यालानाम् ॥ ०२१७१४। कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि ॥ ०२१७१५। विदलमृत्तिकामयं भाण्डम् ॥ ०२१७१६। अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च । इति ॥ ०२१७१७ बहिरन्तश्च कर्मान्ता विभक्ताः सार्वभाण्डिकाः । ०२१७१७ आजीवपुररक्षार्थाः कार्याः कुप्योपजीविना ॥E (षुपेरिन्तेन्देन्तोf थे अर्मोउर्य्) ०२१८०१। आयुधागाराध्यक्षः सांग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रमायुधमावरणमुपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत् ॥ ०२१८०२। स्थानपरिवर्तनमातपप्रवातप्रदानं च बहुशः कुर्यात् ॥ ०२१८०३। ऊष्मोपस्नेहक्रिमिभिरुपहन्यमानमन्यथा स्थापयेत् ॥ ०२१८०४। जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्चोपलभेत ॥ ०२१८०५। सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसंघाटीयानकपर्जन्यकबाहूर्ध्वबाह्वर्धबाहूनि स्थितयन्त्राणि ॥ ०२१८०६। पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिमोत्पाटिमोद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि ॥ ०२१८०७। शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि ॥ ०२१८०८। तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि ॥ ०२१८०९। मूर्वार्कशनगवेधुवेणुस्नायूनि ज्याः ॥ ०२१८१०। वेणुशरशलाकादण्डासननाराचाश्चेषवः ॥ ०२१८११। तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि ॥ ०२१८१२। निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः ॥ ०२१८१३। खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः ॥ ०२१८१४। परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः ॥ ०२१८१५। यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि ॥ ०२१८१६। लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसंघातं वर्माणि ॥ ०२१८१७। शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनागोदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाप्रतिहतबलाहकान्ताश्चावरणाणि ॥ ०२१८१८। हस्तिरथवाजिनां योग्याभाण्डमालंकारिकं सन्नाहकल्पनाश्चोपकरणानि ॥ ०२१८१९। ऐन्द्रजालिकमौपनिषदिकं च कर्म ॥ ०२१८२० कर्मान्तानां च - इच्छामारम्भनिष्पत्तिं प्रयोगं व्याजमुद्दयम् । ०२१८२० क्षयव्ययौ च जानीयात्कुप्यानामायुधेश्वरः ॥E (ष्तन्दर्दिसतिओनोf ऋएइघ्त्सन्द्मेअसुरेस्) ०२१९०१। पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत् ॥ ०२१९०२। धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः ॥ ०२१९०३। ते षोडश सुवर्णः कर्षो वा ॥ ०२१९०४। चतुष्कर्षं पलम् ॥ ०२१९०५। अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः ॥ ०२१९०६। ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः ॥ ०२१९०७। विंशतितण्डुलं वज्रधरणम् ॥ ०२१९०८। अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतमिति ॥ ०२१९०९। तेन धरणानि व्याख्यातानि ॥ ०२१९१०। प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा नोदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम् ॥ ०२१९११। षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तरा दश तुलाः कारयेत्लोहपलादूर्ध्वमेकपलोत्तराः, यन्त्रमुभयतःशिक्यं वा ॥ ०२१९१२। पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां समवृत्तां कारयेत् ॥ ०२१९१३। तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत् ॥ ०२१९१४। ततः कर्षोत्तरं पलं पलोत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ॥ ०२१९१५। तत आशताद्दशोत्तरं कारयेत् ॥ ०२१९१६। अक्षेषु नान्दीपिनद्धं कारयेत् ॥ ०२१९१७। द्विगुणलोहां तुलामतः षण्णवत्यङ्गुलायामां परिमाणीं कारयेत् ॥ ०२१९१८। तस्याः शतपदादूर्ध्वं विंशतिः पञ्चाशत्शतमिति पदानि कारयेत् ॥ ०२१९१९। विंशतितौलिको भारः ॥ ०२१९२०। दशधारणिकं पलम् ॥ ०२१९२१। तत्पलशतमायमानी ॥ ०२१९२२। पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च ॥ ०२१९२३। तासामर्धधरणावरं पलम्, द्विपलावरमुत्तरलोहम्, षडङ्गुलावराश्चायामाः ॥ ०२१९२४। पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम् ॥ ०२१९२५। काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता ॥ ०२१९२६। काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् ॥ ०२१९२७। एष प्रदेशो बह्वल्पयोः ॥ ०२१९२८। इति तुलाप्रतिमानं व्याख्यातम् ॥ ०२१९२९। अथ धान्यमाषद्विपलशतं द्रोणमायमानम्, सप्ताशीतिपलशतमर्धपलं च व्यावहारिकम्, पञ्चसप्ततिपलशतं भाजनीयम्, द्विषष्टिपलशतमर्धपलं चान्तःपुरभाजनीयम् ॥ ०२१९३०। तेषामाढकप्रस्थकुडुबाश्चतुर्भागावराः ॥ ०२१९३१। षोडशद्रोणा खारी ॥ ०२१९३२। विंशतिद्रोणिकः कुम्भः ॥ ०२१९३३। कुम्भैर्दशभिर्वहः ॥ ०२१९३४। शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा ॥ ०२१९३५। रसस्य तु सुरायाः पुष्पफलयोस्तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुणोत्तरा वृद्धिः ॥ ०२१९३६। स-पादपणो द्रोणमूल्यमाढकस्य पादोनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥ ०२१९३७। द्विगुणं रसादीनां मानमूल्यम् ॥ ०२१९३८। विंशतिपणाः प्रतिमानस्य ॥ ०२१९३९। तुलामूल्यं त्रिभागः ॥ ०२१९४०। चतुर्मासिकं प्रातिवेधनिकं कारयेत् ॥ ०२१९४१। अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः ॥ ०२१९४२। प्रातिवेधनिकं काकणीकमहरहः पौतवाध्यक्षाय दद्युः ॥ ०२१९४३। द्वात्रिंशद्भागस्तप्तव्याजी सर्पिषः, चतुःषष्टिभागस्तैलस्य ॥ ०२१९४४। पञ्चाशद्भागो मानस्रावो द्रवाणाम् ॥ ०२१९४५। कुडुबार्धचतुरष्टभागानि मानानि कारयेत् ॥ ०२१९४६। कुडुबाश्चतुरशीतिर्वारकः सर्पिषो मतः ॥ ०२१९४७। चतुःषष्टिस्तु तैलस्य पादश्च घटिकानयोः ॥ (ंेअसुरेसोf स्पचे अन्द्तिमे) ०२२००१। मानाध्यक्ष्यो देशकालमानं विद्यात् ॥ ०२२००२। अष्टौ परमाणवो रथचक्रविप्रुट् ॥ ०२२००३। ता अष्टौ लिक्षा ॥ ०२२००४। ता अष्तौ यूका ॥ ०२२००५। ता अष्टौ यवमध्यः ॥ ०२२००६। अष्टौ यवमध्या अङ्गुलम् ॥ ०२२००७। मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाङ्गुलम् ॥ ०२२००८। चतुरङ्गुलो धनुर्ग्रहः ॥ ०२२००९। अष्टाङ्गुला धनुर्मुष्टिः ॥ ०२२०१०। द्वादशाङ्गुला वितस्तिः, छायापौरुषं च ॥ ०२२०११। चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च ॥ ०२२०१२। द्विवितस्तिररत्निः प्राजापत्यो हस्तः ॥ ०२२०१३। स-धनुर्ग्रहः पौतवविवीतमानम् ॥ ०२२०१४। स-धनुर्मुष्टिः कुष्कुः कंसो वा ॥ ०२२०१५। द्विचत्वारिंशदङ्गुलस्तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम् ॥ ०२२०१६। चतुष्पञ्चाशदङ्गुलः कूप्यवनहस्तः ॥ ०२२०१७। चतुरशीत्यङ्गुलो व्यामो रज्जुमानं खातपौरुषं च ॥ ०२२०१८। चतुररत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम् ॥ ०२२०१९। अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम् ॥ ०२२०२०। षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम् ॥ ०२२०२१। दशदण्डो रज्जुः ॥ ०२२०२२। द्विरज्जुकः परिदेशः ॥ ०२२०२३। त्रिरज्जुकं निवर्तनमेकतः ॥ ०२२०२४। द्विदण्डाधिको बाहुः ॥ ०२२०२५। द्विधनुःसहस्रं गोरुतम् ॥ ०२२०२६। चतुर्गोरुतं योजनम् ॥ ०२२०२७। इति देशमानम् ॥ ०२२०२८। कालमानमत ऊर्ध्वम् ॥ ०२२०२९। तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगमिति कालाः ॥ ०२२०३०। द्वौ तुटौ लवः ॥ ०२२०३१। द्वौ लवौ निमेषः ॥ ०२२०३२। पञ्चनिमेषाः काष्ठाः ॥ ०२२०३३। त्रिंशत्काष्ठाः कलाः ॥ ०२२०३४। चत्वारिंशत्कलाः नालिका ॥ ०२२०३५। सुवर्णमाषकाश्चत्वारश्चतुरङ्गुलायामाः कुम्भच्छिद्रमाढकमम्भसो वा नालिका ॥ ०२२०३६। द्विनालिको मुहूर्तः ॥ ०२२०३७। पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः ॥ ०२२०३८। ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते चेति ॥ ०२२०३९। छायायामष्टपौरुष्यामष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, त्रिपौरुष्यामष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुरङ्गुलायां त्रयोअष्टभागाः, अच्छायो मध्याह्न इति ॥ ०२२०४०। परावृत्ते दिवसे शेषमेवं विद्यात् ॥ ०२२०४१। आषाढे मासि नष्टच्छायो मध्याह्नो भवति ॥ ०२२०४२। अतः परं श्रावणादीनां षण्मासानां द्व्यङ्गुलोत्तरा माघादीनां द्व्यङ्गुलावरा छाया इति ॥ ०२२०४३। पञ्चदशाहोरात्राः पक्षः ॥ ०२२०४४। सोमाप्यायनः शुक्लः ॥ ०२२०४५। सोमावच्छेदनो बहुलः ॥ ०२२०४६। द्विपक्षो मासः ॥ ०२२०४७। त्रिंशदहोरात्रः कर्ममासः ॥ ०२२०४८। सार्धः सौरः ॥ ०२२०४९। अर्धन्यूनश्चान्द्रमासः ॥ ०२२०५०। सप्तविंशतिर्नाक्षत्रमासः ॥ ०२२०५१। द्वात्रिंशद्बलमासः ॥ ०२२०५२। पञ्चत्रिंशदश्ववाहायाः ॥ ०२२०५३। चत्वारिंशद्धस्तिवाहायाः ॥ ०२२०५४। द्वौ मासावृतुः ॥ ०२२०५५। श्रावणः प्रौष्ठपदश्च वर्षाः ॥ ०२२०५६। आश्वयुजः कार्त्तिकश्च शरत् ॥ ०२२०५७। मार्गशीर्षः पौषश्च हेमन्तः ॥ ०२२०५८। माघः फाल्गुनश्च शिशिरः ॥ ०२२०५९। चैत्रो वैशाखश्च वसन्तः ॥ ०२२०६०। ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ॥ ०२२०६१। शिशिराद्युत्तरायणम् ॥ ०२२०६२। वर्षादि दक्षिणायनम् ॥ ०२२०६३। द्व्ययनः संवत्सरः ॥ ०२२०६४। पञ्चसंवत्सरो युगम् । इति ॥ ०२२०६५ दिवसस्य हरत्यर्कः षष्टिभागमृतौ ततः । ०२२०६५ करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः ॥ ०२२०६६ एवमर्धतृतीयानामब्दानामधिमासकम् । ०२२०६६ ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् ॥E (Cओल्लेच्तोरोf चोस्तुम्सन्द्तोल्ल्स्) ०२२१०१। शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखमुदन्मुखं वा महाद्वाराभ्याशे निवेशयेत् ॥ ०२२१०२। शुल्कादायिनश्चत्वारः पञ्च वा सार्थोपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ॥ ०२२१०३। अमुद्राणामत्ययो देयद्विगुणः ॥ ०२२१०४। कूटमुद्राणां शुल्काष्टगुणो दण्डः ॥ ०२२१०५। भिन्नमुद्राणामत्ययो घटिकास्थाने स्थानम् ॥ ०२२१०६। राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत् ॥ ०२२१०७। ध्वजमूलोपस्थितस्य प्रमाणमर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्प्रमाणेनार्घेण पण्यमिदं कः क्रेता" इति ॥ ०२२१०८। त्रिरुद्धोषितमर्थिभ्यो दद्यात् ॥ ०२२१०९। क्रेतृसंघर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत् ॥ ०२२११०। शुल्कभयात्पण्यप्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ॥ ०२२१११। शुल्कमष्टगुणं वा दद्यात् ॥ ०२२११२। तदेव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्घापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात् ॥ ०२२११३। प्रतिक्रेतृभयाद्वा पण्यमूल्यादुपरि मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात् ॥ ०२२११४। तदेवाष्टगुणमध्यक्षस्यच्छादयतः ॥ ०२२११५। तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानामानुग्राहिकाणां च ॥ ०२२११६। ध्वजमूलमतिक्रान्तानां चाकृतशुल्कानां शुल्कादष्टगुणो दण्डः ॥ ०२२११७। पथिकोत्पथिकास्तद्विद्युः ॥ ०२२११८। वैवाहिकमन्वायनमौपायिकं यज्ञकृत्यप्रसवनैमित्तिकं देवेज्याचौलोपनयनगोदानव्रतदीक्षादिषु क्रियाविशेषेषु भाण्डमुच्छुल्कं गच्छेत् ॥ ०२२११९। अन्यथावादिनः स्तेयदण्डः ॥ ०२२१२०। कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयमेकमुद्रया भित्त्वा पण्यपुटमपहरतो वैदेहकस्य तच्च तावच्च दण्डः ॥ ०२२१२१। शुल्कस्थानाद्गोमयपलालं प्रमाणं कृत्वापहरत उत्तमः साहसदण्डः ॥ ०२२१२२। शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनामन्यतममनिर्वाह्यं निर्वाहयतो यथावघुषितो दण्डः पण्यनाशश्च ॥ ०२२१२३। तेषामन्यतमस्यानयने बहिरेवोच्छुल्को विक्रयः ॥ ०२२१२४। अन्तपालः स-पादपणिकां वर्तनीं गृह्णीयात्पण्यवहनस्य, पणिकामेकखुरस्य, पशूनामर्धपणिकां क्षुद्रपशूनां पादिकाम्, अंसभारस्य माषिकाम् ॥ ०२२१२५। नष्टापहृतं च प्रतिविदध्यात् ॥ ०२२१२६। वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनमभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ॥ ०२२१२७। वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत् ॥ ०२२१२८। तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणमुपदिशेत्सर्वज्ञख्यापनार्थम् ॥ ०२२१२९। ततः सार्थमध्यक्षोअभिगम्य ब्रूयात्"इदममुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च, न निहूहितव्यम्, एष राज्ञः प्रभावः" इति ॥ ०२२१३०। निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः ॥ ०२२१३१ राष्ट्रपीडाकरं भाण्डमुच्छिन्द्यादफलं च यत् । ०२२१३१ महोपकारमुच्छुल्कं कुर्याद्बीजं च दुर्लभम् ॥E (टरिff ओf दुतिएसन्द्तोल्ल्स्) ०२२२०१। बाह्यमाभ्यन्तरं चातिथ्यम् ॥ ०२२२०२। निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥ ०२२२०३। प्रवेश्यानां मूल्यपञ्चभागः ॥ ०२२२०४। पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात् ॥ ०२२२०५। शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत्कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः ॥ ०२२२०६। क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानामाजैडकस्य च दशभागः पञ्चदशभागो वा ॥ ०२२२०७। वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा॥ O२२२०८। द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेशोपकारं स्थापय्तेत् ॥ O२२२०९। जातिभूमिषु च पण्यानां विक्रयः॥ O२२२१०। खनिभ्यो धातुपण्यादाने षट्छतमत्ययः॥ O२२२११। पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः ॥ O२२२१२ षण्डेभ्यः शाकमूलकन्दादाने पादोनं द्विपञ्चाशत्पणो दण्डः ॥ ०२२२१३। क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः ॥ ०२२२१४। पणोअध्यर्धपणश्च सीतात्ययः ॥ ०२२२१५ अतो नवपुराणां देशजातिचरित्रतः । ०२२२१५ पण्यानां स्थापयेच्शुक्लमत्ययं चापकारतः ॥E (षुपेरिन्तेन्देन्तोf यर्न्स्(अन्द्तेष्तिलेस्)) ०२२३०१। सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत् ॥ ०२२३०२। ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभी रूपाजीवामातृकाभिर्वृद्धराजदासीभिर्व्युपरतोपस्थानदेवदासीभिश्च कर्तयेत् ॥ ०२२३०३। श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्वल्पतां च ॥ ०२२३०४। सूत्रप्रमाण ज्ञात्वा तैलामलकोद्वर्तनैरेता अनुगृह्णीयात् ॥ ०२२३०५। तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः ॥ ०२२३०६। सूत्रह्रासे वेतनह्रासो द्रव्यसारात् ॥ ०२२३०७। कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् ॥ ०२२३०८। क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जानो गन्धमाल्यदानैरन्यैश्चाउपग्राहिकैराराधयेत् ॥ ०२२३०९। वस्त्रास्तरणप्रावरणविकल्पानुत्थापयेत् ॥ ०२२३१०। कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत् ॥ ०२२३११। याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वात्मानं बिभृयुः ताः स्वदासीभिरनुसार्य सोपग्रहं कर्म कारयितव्याः ॥ ०२२३१२। स्वयमागच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत् ॥ ०२२३१३। सूत्रपरीक्षार्थमात्रः प्रदीपः ॥ ०२२३१४। स्त्रिया मुखसंदर्शनेन्यकार्यसम्भाषायां वा पूर्वः साहसदण्डः, वेतनकालातिपातने मध्यमः, अकृतकर्मवेतनप्रदाने च ॥ ०२२३१५। गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसंदंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च ॥ ०२२३१६। वेतनेषु च कर्मकराणामपराधतो दण्डः ॥ ०२२३१७। रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत ॥ ०२२३१८। भाण्डानि च वरत्रादीनि वर्तयेत् ॥ ०२२३१९ सूत्रवल्कमयी रज्जुर्वरत्रा वैत्रवैणवीः । ०२२३१९ साम्नाह्या बन्धनीयाश्च यानयुग्यस्य करयेत् ॥E (डिरेच्तोरोf अग्रिचुल्तुरे) ०२२४०१। सीताध्यक्षः कृषितन्त्रशुल्बवृक्षायुर्वेदज्ञस्तज्ज्ञसखो वा सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासबीजानि यथाकालं गृह्णीयात् ॥ ०२२४०२। बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत् ॥ ०२२४०३। कर्षणयन्त्रोपकरणबलीवर्दैश्चैषामसङ्गं कारयेत्, कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्पग्राहादिभिश्च ॥ ०२२४०४। तेषां कर्मफलविनिपाते तत्फलहानं दण्डः ॥ ०२२४०५। षोडशद्रोणं जाङ्गलानां वर्षप्रमाणम्, अध्यर्धमानूपानां देशवापानाम्, अर्धत्रयोदशाश्मकानाम्, त्रयोविंशतिरवन्तीनाम्, अमितमपरान्तानां हैमन्यानां च, कुल्यावापानां च कालतः ॥ ०२२४०६। वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम् ॥ ०२२४०७। तस्योपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्रोदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च ॥ ०२२४०८। सूर्याद्बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद्वृष्टिः । इति ॥ ०२२४०९ त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः । ०२२४०९ षष्टिरातपमेघानामेषा वृष्टिः समा हिता ॥ ०२२४१० वातमातपयोगं च विभजन् यत्र वर्षति । ०२२४१० त्रीन् करीषांश्च जनयंस्तत्र सस्यागमो ध्रुवः ॥ ०२२४११। ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत् ॥ ०२२४१२। शालिव्रीहिकोद्रवतिलप्रियङ्गूदारकवरकाः पूर्ववापाः ॥ ०२२४१३। मुद्गमाषशैम्ब्या मध्यवापाः ॥ ०२२४१४। कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः ॥ ०२२४१५। यथर्तुवशेन वा बीजवापाः ॥ O२२४१६। वापातिरिक्तमर्धसीतिकाः कुर्युः, स्ववीर्योपजीविनो वा चतुर्थपञ्चभागिकाः ॥ ऊ२२४१७। यथेष्टमनवसितभागं दद्युः, अन्यत्र कृच्छ्रेभ्यः ॥ ऊ२२४१८। स्वसेतुभ्यो हस्तप्रावर्तिममुदकभागं पञ्चमं दद्युः, स्कन्धप्रावर्तिमं चतुर्थम्, स्रोतोयन्त्रप्रावर्तिमं च तृतीयम्, चतुर्थं नदीसरस्तटाककूपोद्धाटम् ॥ ऊ२२४१९। कर्मोदकप्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥ ऊ२२४२०। शाल्यादि ज्येष्ठम्, षण्डो मध्यमः, इक्षुः प्रत्यवरः ॥ ०२२४२१। इक्षवो हि बह्वाबाधा व्ययग्राहिणश्च ॥ ०२२४२२। फेनाघातो वल्लीफलानाम्, परीवाहान्ताः पिप्पलीमृद्वीकेक्षूणाम्, कूपपर्यन्ताः शाकमूलानाम्, हरणीपर्यन्ता हरितकानाम्, पाल्यो लवानां गन्धभैषज्योशीरह्रीबेरपिण्डालुकादीनाम् ॥ ०२२४२३। यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चौषधीः स्थापयेत् ॥ ०२२४२४। तुषारपायनमुष्णशोषणं चासप्तरात्रादिति धान्यबीजानाम्, त्रिरात्रं वा पञ्चरात्रं वा कोशीधान्यानाम्, मधुघृतसूकरवसाभिः शकृद्युक्ताभिः काण्डबीजानां छेदलेपो, मधुघृतेन कन्दानाम्, अस्थिबीजानां शकृदालेपः, शाखिनां गर्तदाहो गोअस्थिशकृद्भिः काले दौह्र्दं च ॥ ०२२४२५। प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत् ॥ ०२२४२६ कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् । ०२२४२६ न सर्पास्तत्र तिष्ठन्ति धूमो यत्रैष तिष्ठति ॥ ०२२४२७। सर्वजीजानां तु प्रथमवापे सुवर्णोदकसम्प्लुतां पूर्वमुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात्- "प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ ०२२४२८। षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात् ॥ ०२२४२९। कर्मानुरूपं कारुभ्यो भक्तवेतनम् ॥ ०२२४३०। प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवमाग्रयणार्थं श्रोत्रियास्तपस्विनश्चाहरेयुः, राशिमूलमुञ्छवृत्तयः ॥ ०२२४३१ यथाकालं च सस्यादि जातं जातं प्रवेशयेत् । ०२२४३१ न क्षेत्रे स्थापयेत्किंचित्पलालमपि पण्डितः ॥ ०२२४३२ प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः । ०२२४३२ न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥ ०२२४३३ खलस्य प्रकरान् कुर्यान्मण्डलान्ते समाश्रितान् । ०२२४३३ अनग्निकाः सोदकाश्च खले स्युः परिकर्मिणः ॥E (Cओन्त्रोल्लेरोf स्पिरितुअल्लिॠउओर्स्) ०२२५०१। सुराध्यक्षः सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेद्, एकमुखमनेकमुखं वा विक्रयक्रयवशेन वा ॥ ०२२५०२। षट्शतमत्ययमन्यत्र कर्तृक्रेतृविक्रेतृऋणां स्थापयेत् ॥ ०२२५०३। ग्रामादनिर्णयणमसम्पातं च सुरायाः, प्रमादभयात्कर्मसु ञ्जिर्दिष्टानाम्, मर्यादातिक्रमभयादार्याणाम्, उत्साहभयाच्च तीष्क्णानाम् ॥ ०२२५०४। लक्षितमल्पं वा चतुर्भागमर्धकुडुबं कुडुबमर्धप्रस्थं प्रस्थं वेति ज्ञातशौचा निर्हरेयुः ॥ ०२२५०५। पानागारेषु वा पिबेयुरसंचारिणः ॥ ०२२५०६। निक्षेपोपनिधिप्रयोगापहृतानामनिष्टोपगतानां च द्रव्याणां ज्ञानार्थमस्वामिकं कुप्यं हिरण्यं चोपलभ्य निष्केप्तारमन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्ययकर्तारमनायतिव्ययं च ॥ ०२२५०७। न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः ॥ ०२२५०८। तामन्यत्र विक्रापयेत् ॥ ०२२५०९। दासकर्मकरेभ्यो वा वेतनं दद्यात् ॥ ०२२५१०। वाहनप्रतिपानं सूकरपोषणं वा दद्यात् ॥ ०२२५११। पानागाराण्यनेककक्ष्याणि विभक्तशयनासनवन्ति पानोद्देशानि गन्धमाल्योदकवन्ति ऋतुसुखानि कारयेत् ॥ ०२२५१२। तत्रस्थाः प्रकृत्यौत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च ॥ ०२२५१३। क्रेतृऋणां मत्तसुप्तानामलङ्कारात्छादनहिरण्यानि च विद्युः ॥ ०२२५१४। तन्नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ॥ ०२२५१५। वणिजश्स्तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशलरूपाभिरागन्तूनां वास्तव्यानां चार्यरूपाणां मत्तसुप्तानां भावं विद्युः ॥ ०२२५१६। मेदकप्रसन्नासवारिष्टमैरेयमधूनाम् ॥ ०२२५१७। उदकद्रोणं तण्डुलानामर्धाढकं त्रयः प्रस्थाः किण्वस्येति मेदकयोगः ॥ ०२२५१८। द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः ॥ ०२२५१९। कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः ॥ ऊ२२५२०। पादधिको ज्येष्ठः पादहीनः कनिष्ठः ॥ ऊ२२५२१। चिकित्सकप्रमाणाः प्रत्येकशो विकाराणामरिष्टाः ॥ ऊ२२५२२। मेषशृङ्गीत्वक्क्वाथाभिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्भारस्त्रिफलायुक्तो वा मैरेयः ॥ य़्२२५२३। गुडयुक्तानां वा सर्वेषां त्रिफलासम्भारः ॥ ऊ२२५२४। मृद्वीकारसो मधु ॥ उ२२५२५। तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकमिति ॥ ऊ२२५२६। माषकलनीद्रोणमामं सिद्धं वा त्रिभागाधिकतण्डुलं मोरटादीनां कार्षिकभागयुक्तं किण्वबन्धः ॥ ०२२५२७। पाठालोघ्रतेजोवत्येलावालुकमधुकमधुरसाप्रियङ्गुदारुहरिद्रामरिचपिप्पलीनां च पञ्चकार्षिकः सम्भारयोगो मेदकस्य प्रसन्नायाश्च ॥ ०२२५२८। मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च ॥ ०२२५२९। चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः ॥ ०२२५३०। दशभागश्चैषां बीजबन्धः ॥ ०२२५३१। प्रसन्नायोगः श्वेतसुरायाः ॥ ०२२५३२। सहकारसुरा रसोत्तरा बीजोत्तरा वा महासुरा सम्भारिकी वा ॥ ०२२५३३। तासां मोरटापलाशपत्तूरमेषशृङ्गीकरञ्जक्षीरवृक्षकषायभावितं दग्धकटशर्कराचूर्णं लोघ्रचित्रकविलङ्गपाठामुस्ताकलिङ्गयवदारुहरिद्रेन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बास्फोतकल्कार्धयुक्तमन्तर्नखो मुष्टिः कुम्भीं राजपेयां प्रसादयति ॥ ०२२५३४। फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः ॥ ०२२५३५। कुटुम्बिनः कृत्येषु श्वेतसुराम्, औषधार्थं वारिष्टम्, अन्यद्वा कर्तुं लभेरन् ॥ ०२२५३६। उत्सवसमाजयात्रासु चतुरहः सौरिको देयः ॥ ०२२५३७। तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकमत्ययं गृह्णीयात् ॥ ०२२५३८। सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः ॥ ०२२५३९। अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च ॥ ०२२५४० अह्नश्च विक्रयं ज्ञात्वा व्याजीं मानहिरण्ययोः । ०२२५४० तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ॥E (षुपेर्विसोरोf (अनिमल्-)स्लौघ्तेर्) ०२२६०१। सूनाध्यक्षः प्रदिष्टाभयानामभयवनवासिनां च मृगपशुपक्षिमत्स्यानां बन्धवधहिंसायामुत्तमं दण्डं कारयेत्, कुटुम्बिनामभयवनपरिग्रहेषु मध्यमम् ॥ ०२२६०२। अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवधहिंसायां पादोनसप्तविंशतिपणमत्ययं कुर्यात्, मृगपशूनां द्विगुणम् ॥ ०२२६०३। प्रवृत्तहिंसानामपरिगृहीतानां षड्भागं गृह्णीयात्, मत्स्यपक्षिणां दशभागं वाधिकम्, मृगपशूनां शुल्कं वाधिकम् ॥ ०२२६०४। पक्षिमृगाणां जीवत्षड्भागमभयवनेषु प्रमुञ्चेत् ॥ ०२२६०५। सामुद्रहस्त्यश्वपुरुषवृषगर्दभाकृतयो मत्स्याः सारसा नादेयास्तटाककुल्योद्भवा वा क्रौञ्चोत्क्रोशकदात्यूहहंसचक्रवाकजीवन्जीवकभृङ्गराजचकोरमत्तकोकिलमयूरशुकमदनशारिका विहारपक्षिणो मङ्गल्याश्चान्येपि प्राणिनः पक्षिमृगा हिंसाबाधेभ्यो रक्ष्याः ॥ ०२२६०६। रक्षातिक्रमे पूर्वः साहसदण्डः ॥ ०२२६०७। मृगपशूनामनस्थिमांसं सद्योहतं विक्रीणीरन् ॥ ०२२६०८। अस्थिमतः प्रतिपातं दद्युः ॥ ०२२६०९। तुलाहीने हीनाष्टगुणम् ॥ ०२२६१०। वत्सो वृषो धेनुश्चैषामवध्याः ॥ ०२२६११। घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च ॥ ०२२६१२। परिशूनमशिरःपादास्थि विगन्धं स्वयंमृतं च न विक्रीणीरन् ॥ ०२२६१३। अन्यथा द्वादशपणो दण्डः ॥ ०२२६१४ दुष्टाः पशुमृगव्याला मत्स्यश्चाभयचारिणः । ०२२६१४ अन्यत्र गुप्तिस्थानेभ्यो वधबन्धमवाप्नुयुः ॥E (षुपेरिन्तेन्देन्तोf चोउर्तेसन्स्) ०२२७०१। गणिकाध्यक्षो गणिकान्वयामगणिकान्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्बार्धेन प्रतिगणिकाम् ॥ ०२२७०२। निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत् ॥ ०२२७०३। तासामभावे राजा हरेत् ॥ ०२२७०४। सौभाग्यालंकारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यममुत्तमं वारोपयेत्छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम् ॥ ०२२७०५। सौभाग्यभङ्गे मातृकां कुर्यात् ॥ ०२२७०६। निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य ॥ ०२२७०७। अष्टवर्षात्प्रभृति राज्ञः कुशीलवकर्म कुर्यात् ॥ ०२२७०८। गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात् ॥ ०२२७०९। अविशन्ती सपादपणमवरुद्धा मासवेतनं दद्यात् ॥ ०२२७१०। भोगं दायमायं व्ययमायतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत् ॥ ०२२७११। मातृहस्तादन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः ॥ ०२२७१२। स्वापतेयं विक्रयमाधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोअर्धपणच्छेदने ॥ ०२२७१३। अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः ॥ ०२२७१४। गणिकामकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपंुपघ्नतः सहस्रं दण्डः ॥ ०२२७१५। स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात् ॥ ०२२७१६। प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः ॥ ०२२७१७। मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः ॥ ०२२७१८। सर्वत्र प्रथमेपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात् ॥ ०२२७१९। राजाज्ञया पुरुषमनभिगच्छन्ती गणिका शिफासहस्रं लभेएत, पञ्चसहस्रं वा दण्डः ॥ ०२२७२०। भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः ॥ ०२२७२१। वसतिभोगापहारे भोगमष्टगुणं दद्यादन्यत्र व्याधिपुरुषदोषेभ्यः ॥ ०२२७२२। पुरुषं घ्नत्याश्चिताप्रतापेप्सु प्रवेशनं वा ॥ ०२२७२३। गणिकाभरणमर्थं भोगं वापहरतोअष्टगुणो दण्डः ॥ ०२२७२४। गणिका भोगमायतिं पुरुषं च निवेदयेत् ॥ ०२२७२५। एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः ॥ ०२२७२६। तेषां तूर्यमागन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात् ॥ ०२२७२७। रूपाजीवा भोगद्वयगुणं मासं दद्युः ॥ ०२२७२८। गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजमण्डलादाजीवं कुर्यात् ॥ ०२२७२९। गणिकापुत्रान् रङ्गोपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च ॥ ०२२७३० संज्ञाभाषान्तरज्ञाश्च स्त्रियस्तेषामनात्मसु । ०२२७३० चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः ॥E (Cओन्त्रोल्लेरोf स्हिप्पिन्ग्) ०२२८०१। नावध्यक्षः समुद्रसम्याननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत ॥ ०२२८०२। तद्वेलाकूलग्रामाः क्लृप्तं दद्युः ॥ ०२२८०३। मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः ॥ ०२२८०४। पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः ॥ ०२२८०५। शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः ॥ ०२२८०६। अध्यक्षश्चैषां खन्यध्यक्षेण व्याख्यातः ॥ ०२२८०७। पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नावध्यक्षः पालयेत् ॥ ०२२८०८। मूढवाताहता नावः पितेवानुगृह्णीयात् ॥ ०२२८०९। उदकप्राप्तं पण्यमशुल्कमर्धशुल्कं वा कुर्यात् ॥ ०२२८१०। यथानिर्दिष्टाश्चैताः पण्यपत्तनयात्राकालेषु प्रेषयेत् ॥ ०२२८११। सम्यातीर्नावः क्षेत्रानुगताः शुल्कं याचेत् ॥ ०२२८१२। हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्रोपघातिकाश्च ॥ ०२२८१३। शासकनिर्यामकदात्ररश्मिग्राहकोत्सेचकाधिष्ठिताश्च महानावो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षास्राविणीषु ॥ ०२२८१४। बाधतीर्थाश्चैताः कार्या राजद्विष्टकारिणां तरणभयात् ॥ ०२२८१५। अकालेतीर्थे च तरतः पूर्वः साहसदण्डः ॥ ०२२८१६। काले तीर्थे चानिषृष्टतारिणः पादोनसप्तविंशतिपणस्तरात्ययः ॥ ०२२८१७। कैवर्तकाष्टतृणभारपुष्पफलवाटषण्डगोपालकानामनत्ययः, सम्भाव्यदूतानुपातिनां च सेनाभाण्डप्रयोगाणां च स्वतरणैस्तरताम्, बीजभक्तद्रव्योपस्करांश्चानूपग्रामाणां तारयताम् ॥ ०२२८१८। ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नावध्यक्षमुद्राभिस्तरेयुः ॥ ०२२८१९। कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः ॥ ०२२८२०। परस्य भार्यां कन्यां वित्तं वापहरन्तं शवित्तं वापहरन्तं शङ्कितमाविग्नमुद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनमलिङ्गिनं वा प्रव्रजितमलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकममुद्रं चोपग्राहयेत् ॥ ०२२८२१। क्षुद्रपशुर्मनुष्यश्च सभारो माषकं दद्यात्, शिरोभारः कायभारो गवाश्वं च द्वौ, उष्ट्रमहिषं चतुरः, पञ्च लभुयानम्, षड्गोलिङ्गम्, सप्त शकटम्, पन्यभारः पादम् ॥ ०२२८२२। तेन भाण्डभारो व्याख्यातः ॥ ०२२८२३। द्विगुणो महानदीषु तरः ॥ ०२२८२४। क्लृप्तमानूपग्रामा भक्तवेतनं दद्युः ॥ ०२२८२५। प्रत्यन्तेषु तराः शुल्कमातिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश्चामुद्रद्रव्यस्य भाण्डं हरेयुः, अतिभारेणावेलायामतिर्थे तरतश्च ॥ ०२२८२६। पुरुषोपकरणहीनायामसंस्कृतायां वा नावि विपन्नायां नावध्ह्यक्षो नष्टं विनष्टं वाभ्यावहेत् ॥ ०२२८२७ सप्ताहवृत्तामाषाढीं कार्त्तिकीं चान्तरा तरः । ०२२८२७ कार्मिकः प्रत्ययं दद्यान्नित्यं चाह्निकमावहेत् ॥E (षुपेरिन्तेन्देन्तोf चत्त्ले) ०२२९०१। गोअध्यक्षो वेतनोपग्राहिकं करप्रतिकरं भग्नोत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसंजातं चोपलभेत ॥ ०२२९०२। गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः ॥ ०२२९०३। क्षीरघृतभृता हि वत्सानुपहन्युः । इति वेतनोपग्राहिकम् ॥ ०२२९०४। जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतमेकः पालयेत् ॥ ०२२९०५। घृतस्याष्टौ वारकान् पणिकं पुच्छमङ्कचर्म च वार्षिकं दद्यात् । इति करप्रतिकरः ॥ ०२२९०६। व्याधितान्यङ्गानन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रूपशतं पालयन्तस्तज्जातिकं भागं दद्युः । इति भग्नोत्षृष्टकम् ॥ ०२२९०७। परचक्राटवीभयादनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः । इति भागानुप्रविष्टकम् ॥ ०२२९०८। वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः, युगवाहनशकटवहा वृषभाः सूनामहिषाः पृष्टस्कन्धवाहिनश्च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च, मासद्विमासजातास्तासामुपजा वत्सा वत्सिकाश्च ॥ ०२२९०९। मासद्विमासजातानङ्कयेत् ॥ ०२२९१०। मासद्विमासपर्युषितमङ्कयेत् ॥ ०२२९११। अङ्कं चिह्नं वर्णं शृङ्गान्तरं च लक्षणमेवमुपजा निबन्धयेत् । इति व्रजपर्यग्रम् ॥ ०२२९१२। चोरहृतमन्ययूथप्रविष्टमवलीनं वा नष्टम् ॥ ०२२९१३। पङ्कविषमव्याधिजरातोयाहारावसन्नं वृक्षतटकाष्ठशिलाभिहतमीशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टम् ॥ ०२२९१४। प्रमादादभ्यावहेयुः ॥ ०२२९१५। एवं रूपाग्रं विद्यात् ॥ ०२२९१६। स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥ ०२२९१७। परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात् ॥ ०२२९१८। स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत् ॥ ०२२९१९। परदेशीयानां मोक्षयितार्धं हरेत् ॥ ०२२९२०। बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः ॥ ०२२९२१। लुब्धकश्वगणिभिरपास्तस्तेनाव्यालपराबाधभयमृतुविभक्तमरण्यं चारयेयुः ॥ ०२२९२२। सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः ॥ ०२२९२३। समव्यूढतीर्थमकर्दमग्राहमुदकमवतारयेयुः पालयेयुश्च ॥ ०२२९२४। स्तेनव्यालसर्पग्राहगृहीतं व्याधिजरावसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन् ॥ ०२२९२५। कारणमृतस्याङ्कचर्म गोमहिषस्य, कर्णलक्षणमजाविकानाम्, पुच्छमङ्कचर्म चाश्वखरोष्ट्राणाम्, बालचर्मबस्तिपित्तस्नायुदन्तखुरशृङ्गास्थीनि चाहरेयुः ॥ ०२२९२६। मांसमार्द्रं शुष्कं वा विक्रीणीयुः ॥ ०२२९२७। उदश्वित्श्ववराहेभ्यो दद्युः ॥ ०२२९२८। कूर्चिकां सेनाभक्तार्थमाहरेयुः ॥ ०२२९२९। किलाटो घाणपिण्याकक्लेदार्थः ॥ ०२२९३०। पशुविक्रेता पादिकं रूपं दद्यात् ॥ ०२२९३१। वर्षाशरद्धेमन्तानुभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मानेककालम् ॥ ०२२९३२। द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः ॥ ०२२९३३। दोहनकालमतिक्रामतस्तत्फलहानं दण्डः ॥ ०२२९३४। एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः ॥ ०२२९३५। क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणाम्, द्विभागाधिकोअजावीनाम् ॥ ०२२९३६। मन्थो वा सर्वेषां प्रमाणम् ॥ ०२२९३७। भूमितृणोदकविशेषाद्धि क्षीरघृतवृद्धिर्भवति ॥ ०२२९३८। यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयत उत्तमः ॥ ०२२९३९। वर्णावरोधेन दशती रक्षा ॥ ०२२९४०। उपनिवेशदिग्विभागो गोप्रचाराद्बलान्वयतो वा गवां रक्षासामर्थ्याच्च् । ०२२९४१। अजावीनां षण्मासिकीमूर्णां ग्राहयेत् ॥ ०२२९४२। तेनाश्वखरोष्ट्रवराहव्रजा व्याख्याताः ॥ ०२२९४३। बलीवर्दानां नस्याश्वभद्रगतिवाहिनां यवसस्यार्धभारस्तृणस्य द्विगुणम्, तुला घाणपिण्याकस्य, दशाढकं कणकुण्डकस्य, पञ्चपलिकं मुखलवनाम्, तैलकुडुबो नस्यं प्रस्थः पानं, मांसतुला, दध्नश्चाढकम्, यवद्रोणं माषाणां वा पुलाकः, क्षीरद्रोणमर्धाढकं वा सुरायाः स्नेहप्रस्थः क्षारदशपलं शृङ्गिबेरपलं च प्रतिपानम् ॥ ०२२९४४। पादोनमश्वतरगोखराणाम्, द्विगुणं महिषोष्ट्राणाम् ॥ ०२२९४५। कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम् ॥ ०२२९४६। सर्वेषां तृणोदकप्राकाम्यम् ॥ ०२२९४७। इति गोमण्डलं व्याख्यातम् ॥ ०२२९४८ पञ्चर्षभं खराश्वानामजावीनां दशर्षभम् । ०२२९४८ शत्यं गोमहिषोष्ट्राणां यूथं कुर्याच्चतुर्वृषम् ॥E (षुपेरिन्तेन्देन्तोf होर्सेस्) ०२३००१। अश्वाध्यक्षः पण्यागारिकं क्रयोपागतमाहवलब्धमाजातं साहाय्यागतकं पणस्थितं यावत्कालिकं वाश्वपर्यग्रं कुलवयोवर्णचिह्नवर्गागमैर्लेखयेत् ॥ ०२३००२। अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत् ॥ ०२३००३। कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभमश्ववाहश्चिन्तयेत् ॥ ०२३००४। अश्वविभवेनायतामश्वायामद्विगुणविस्तारां चतुर्द्वारोपावर्तनमध्यां स-प्रग्रीवां प्रद्वारासनफलकयुक्तानां वानरमयूरपृषतनकुलचकोरशुकसारिकाकीर्णां शालां निवेशयेत् ॥ ०२३००५। अश्वायामचतुरश्रश्लक्ष्णफलकास्तारं स-खादनकोष्ठकं स-मूत्रपुरीषोत्सर्गमेकैकशः प्रान्मुखमुदन्मुखं वा स्थानं निवेशयेत् ॥ ०२३००६। शालावशेन वा दिग्विभागं कल्पयेत् ॥ ०२३००७। वडवावृषकिशोराणामेकान्तेषु ॥ ०२३००८। वडवायाः प्रजतायास्त्रिरात्रं घृतप्रस्थः पानम् ॥ ०२३००९। अत ऊर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम् ॥ ०२३०१०। ततः पुलाको यवसमार्तवश्चाहारः ॥ ०२३०११। दशरात्रादूर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहार आषण्मासात् ॥ ०२३०१२। ततः परं मासोत्तरमर्धवृद्धिर्यवप्रस्थ आत्रिवर्षात्, द्रोण आचतुर्वर्षात् ॥ ०२३०१३। अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः ॥ ०२३०१४। द्वात्रिंशदङ्गुलं मुखमुत्तमाश्वस्य, पञ्चमुखान्यायामो, विंशत्यङ्गुला जङ्घा, चतुर्जङ्घ उत्सेधः ॥ ०२३०१५। त्र्यङ्गुलावरं मध्यमावरयोः ॥ ०२३०१६। शताङ्गुलः परिणाहः ॥ ०२३०१७। पञ्चभागावरो मध्यमावरयोः ॥ ०२३०१८। उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणामर्धशुष्कमर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च, पञ्चपलं लवणस्य, मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थम्, क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम् ॥ ०२३०१९। दीर्घपथभारक्लान्तानां च खादनार्थं स्नेहप्रस्थोअनुवासनं कुडुबो नस्यकर्मणः, यवसस्यार्धभारस्तृणस्य द्विगुणः षडरत्निपरिक्षेपः पुञ्जीलग्रहो वा ॥ ०२३०२०। पादावरमेतन्मध्यमावरयोः ॥ ०२३०२१। उत्तमसमो रथ्यो वृषश्च मध्यमः ॥ ०२३०२२। मध्यमसमश्चावरः ॥ ०२३०२३। पादहीनं वडवानां पारशमानां च ॥ ०२३०२४। अतोअर्धं किशोराणां च ॥ ०२३०२५। इति विधायोगः ॥ ०२३०२६। विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः ॥ ०२३०२७। युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः ॥०२३०२८। असमरप्रयोग्याः पौरजानपदानामर्थेन वृषा वडवास्वायोज्याः ॥ ०२३०२९। प्रयोग्यानामुत्तमाः काम्बोजसैन्धवारट्टवनायुजाः, मध्यमा बाह्लीकपापेयकसौवीरकतैतलाः, शेषाः प्रत्यवराः ॥ ०२३०३०। तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यमौपवाह्यकं वा कर्म प्रयोजयेत् ॥ ०२३०३१। चतुरश्रं कर्माश्वस्य साम्नाह्यम् ॥ ०२३०३२। वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ॥ ०२३०३३। तत्राउपवेणुको वर्धमानको यमक आलीढप्लुतः पृथुगस्त्रिकचाली च वल्गनः ॥ ०२३०३४। स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा ॥ ०२३०३५। प्रकीर्णकः प्रकीर्णोत्तरो निषण्णः पार्श्वानुवृत्त ऊर्मिमार्गः शरभक्रीडितः शरभप्लुतस्त्रितालो बाह्यानुवृत्तः पञ्चपाणिः सिंहायतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्पाभिकीर्णश्चेति नीचैर्गतमार्गः ॥ ०२३०३६। कपिप्लुतो भेकप्लुतेणप्लुतैकपादप्लुतः कोकिलसंचार्युरस्यो बकचारी च लङ्घनः ॥ ०२३०३७। काङ्को वारिकाङ्को मायूरोअर्धमायूरो नाकुलोर्धनाकुलो वाराहोअर्धवाराहश्चेति धोरणः ॥ ०२३०३८। संज्ञाप्रतिकारो नारोष्ट्रेति ॥ ०२३०३९। षण्णव द्वादशेति योजनान्य्ध्वा रथ्यानाम्, पञ्च योजनान्यर्धाष्टमानि दशेति पृष्ठवाहिनामश्वानामध्वा ॥ ०२३०४०। विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः ॥ ०२३०४१। विक्रमो वल्गितमुपकण्ठमुपजवो जवश्च धाराः ॥ ०२३०४२। तेषां बन्धनोपकरणं योग्याचार्याः प्रतिदिशेयुः, सांग्रामिकं रथाश्वालंकारं च सूताः ॥ ०२३०४३। अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारमृतुविभक्तं चाहारम् ॥ ०२३०४४। सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वानाराधयेयुः ॥ ०२३०४५। कर्मातिक्रमे चैषां दिवसवेतनच्छेदनं कुर्यात् ॥ ०२३०४६। नीराजनोपरुद्धं वाहयतश्चिकित्सकोपरुद्धं वा द्वादशपणो दण्डः ॥ ०२३०४७। क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः ॥ ०२३०४८। तदपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः ॥ ०२३०४९। तेन गोमण्डलं खरोष्ट्रमहिषमजाविकं च व्याख्यातम् ॥ ०२३०५० द्विरह्नः स्नानमश्वानां गन्धमाल्यं च दापयेत् । ०२३०५० कृष्णसंधिषु भूतेज्याः शुक्लेषु स्वस्तिवाचनम् ॥ ०२३०५१ नीराजनामाश्वयुजे कारयेन्नवमेहनि । ०२३०५१ यात्रादाववसाने वा व्याधौ वा शान्तिके रतः ॥E (षुपेरिन्तेन्देन्तोf एलेफन्त्स्) ०२३१०१। हस्त्यध्यक्षो हस्तिवनरक्षां दम्यकर्मक्षान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धनोपकरणं सांग्रामिकमलंकारं चिकित्सकानीकस्थाउपस्थायिकवर्गं चानुतिष्ठेत् ॥ ०२३१०२। हस्त्यायामद्विगुणोत्सेधविष्कम्भायामां हस्तिनीस्थानाधिकां सप्रग्रीवां कुमारीसंग्रहां प्रान्मुखीमुदन्मुखीं वा शालां निवेशयेत् ॥ ०२३१०३। हस्त्यायामचतुरश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीषोत्सर्गं स्थानं निवेशयेत् ॥ ०२३१०४। स्थानसमां शय्यामर्धापाश्रयां दुर्गे साम्नाह्याउपवाह्यानां बहिर्दम्यव्यालानाम् ॥ ०२३१०५। प्रथमसप्तम अष्टमभागावह्नः स्नानकालौ, तदनन्तरं विधायाः ॥ ०२३१०६। पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः ॥ ०२३१०७। रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशनोत्थानिकः ॥ ०२३१०८। ग्रीष्मे ग्रहणकालः ॥ ०२३१०९। विंशतिवर्षो ग्राह्यः ॥ ०२३११०। विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ॥ ०२३१११। सप्तारत्नि उत्सेधो नवायामो दश परिणाहः प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः, त्रिंशद्वर्षो मध्यमः, पञ्चविंशतिवर्षोअवरः ॥ ०२३११२। तयोः पादावरो विधाविधिः ॥ ०२३११३। अरत्नौ तणुलद्रोणः, अर्धाढकं तैलस्य, सर्पिषस्त्रयः प्रस्थाः, दशपलं लवणस्य, मांसं पञ्चाशत्पलिकम्, रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थम्, क्षारदशपलिकं मद्यस्याढकं द्विगुणं वा पयसः प्रतिपानम्, गात्रावसेकस्तैलप्रस्थः, शिरसोअष्टभागः प्रादीपिकश्च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्यार्धतृतीयो भारः, कडङ्करस्यानियमः ॥ ०२३११४। सप्तारत्निना तुल्यभोजनोअष्टारत्निरत्यरालः ॥ ०२३११५। यथाहस्तमवशेषः षडरत्निः पञ्चारत्निश्च ॥ ०२३११६। क्षीरयावसिको विक्कः क्रीडार्थं ग्राह्यः ॥ ०२३११७। संजातलोहिता प्रतिच्छन्ना सम्लिप्तपक्षा समकक्ष्या व्यतिकीर्णमांसा समतल्पतला जातद्रोणिकेति शोभाः ॥ ०२३११८ शोभावशेन व्यायामं भद्र्म मन्दं च कारयेत् । ०२३११८ मृगं संकीर्णलिङ्गं च कर्मस्वृतुवशेन वा ॥ (आच्तिवित्योf एलेफन्त्स्) ०२३२०१। कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ॥ ०२३२०२। तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोअवपातगतो यूथगतश्चेति ॥ ०२३२०३। तस्योपविचारो विक्ककर्म ॥ ०२३२०४। साम्नाह्यः सप्तक्रियापथ उपस्थानं संवर्तनं सम्यानं वधावधो हस्तियुद्धं नागरायणं सांग्रामिकं च ॥ ०२३२०५। तस्योपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च ॥ ०२३२०६। औपवाह्योअष्टविध आचरणः कुञ्जराउपवाह्यो धोरण आधानगतिको यष्ट्युपवाह्यस्तोत्रोपवाह्यः शुद्धोपवाह्यो मार्गयुकश्चेति ॥ ०२३२०७। तस्योपविचारः शारदकर्म हीनकर्म नारोष्ट्रकर्म च ॥ ०२३२०८। व्यालैकक्रियापथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च ॥ ०२३२०९। तस्योपविचार आयम्यैकरक्षाकर्म ॥ ०२३२१०। क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च ॥ ०२३२११। तेषां बन्धनोपकरणमनीकस्थप्रमाणम् ॥ ०२३२१२। आलानग्रैवेयकक्ष्यापारायणपरिक्षेपोत्तरादिकं बन्धनम् ॥ ०२३२१३। अङ्कुशवेणुयन्त्रादिकमुपकरणम् ॥ ०२३२१४। वैजयन्तीक्षुरप्रमालास्तरणकुथादिकं भूषणम् ॥ ०२३२१५। वर्मतोमरशरावापयन्त्रादिकः सांग्रामिकालंकारः ॥ ०२३२१६। चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापाचकयावसिकपादपाशिककुटीर्रक्षकाउपशयैकादिरौपस्थायिकवर्गः ॥ ०२३२१७। चिकित्सककुटीरक्षविधापाचकाः प्रस्थौदनं स्नेहप्रसृतिं क्षारलवणयोश्च द्विपलिकं हरेयुः, दशपलं मांसस्य, अन्यत्र चिकित्सकेभ्यः ॥ ०२३२१८। पथिव्याधिकर्ममदजराभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥ ०२३२१९। स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनमभागे घातः परारोहणमकाले यानमभूमावतीर्थेवतारणं तरुषण्ड इत्यत्ययस्थानानि ॥ ०२३२२०। तमेषां भक्तवेतनादाददीत ॥ ०२३२२१ तिस्रो नीराजनाः कार्याश्चातुर्मास्यर्तुसंधिषु । ०२३२२१ भूतानां कृष्णसंधीज्याः सेनान्यः शुक्लसंधुषु ॥ ०२३२२२ दन्तमूलपरीणाहद्विगुणं प्रोज्झ्य कल्पयेत् । ०२३२२२ अब्दे द्व्यर्धे नदीजानां पञ्चाब्दे पर्वतौकसाम् ॥E (षुपेरिन्तेन्देन्तोf छरिओत्स्) (षुपेरिन्तेन्देन्तोf fओओत्-सोल्दिएर्स्) (आच्तिवित्योf थे चोम्मन्दन्तोf थे अर्म्य्) ०२३३०१। अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः ॥ ०२३३०२। स रथकर्मान्तान् कारयेत् ॥ ०२३३०३। दशपुरुषो द्वादशान्तरो रथः ॥ ०२३३०४। तस्मादेकान्तरावरा आषडन्तरादिति सप्त रथाः ॥ ०२३३०५। देवरथपुष्यरथसांग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत् ॥ ०२३३०६। इष्वस्त्रप्रहरणावरणोपकरणकल्पनाः सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात्, आकर्मभ्यश्च भक्तवेतनं भृतानामभृतानां च योग्यारक्षानुष्ठानमर्थमानकर्म च ॥ ०२३३०७। एतेन पत्त्यध्यक्षो व्याख्यातः ॥ ०२३३०८। स मौलभृतश्रेणिमित्रामित्राटवीबलानां सारफल्गुतां विद्यात्, निम्नस्थलप्रकाशकूटखनकाकाशदिवारात्रियुद्धव्यायामं च, आयोगमयोगं च कर्मसु ॥ ०२३३०९। तेदेव सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतो हस्त्यश्वरथचर्यासंघुष्टश्चतुरङ्गस्य बलस्यानुष्ठानाधिष्ठानं विद्यात् ॥ ०२३३१०। स्वभूमिं युद्धकालं प्रत्यनीकमभिन्नभेदनं भिन्नसंधानं संहतभेदनं भिन्नवधं दुर्गवधं यात्राकालं च पश्येत् ॥ ०२३३११ तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् । ०२३३११ स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥E (षुपेरिन्तेन्देन्तोf पस्स्पोर्त्स्) (षुपेरिन्तेन्देन्तोf पस्तुरे लन्द्स्) ०२३४०१। मुद्राध्यक्षो मुद्रां माषकेण दद्यात् ॥ ०२३४०२। स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥ ०२३४०३। द्वादशपणममुद्रो जानपदो दद्यात् ॥ ०२३४०४। कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्योत्तमः ॥ ०२३४०५। विवीताध्यक्षो मुद्रां पश्येत् ॥ ०२३४०६। ग्रामान्तरेषु च विवीतं स्थापयेत् ॥ ०२३४०७। चोरव्यालभयान्निम्नारण्यानि शोधयेत् ॥ ०२३४०८। अनुदके कूपसेतुबन्धोत्सान् स्थापयेत्, पुष्पफलवाटांश्च ॥ ०२३४०९। लुब्धकश्वगणिनः परिव्रजेयुररण्यानि ॥ ०२३४१०। तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दमग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा ॥ ०२३४११। अमित्राटवीसंचारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा ॥ ०२३४१२ द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् । ०२३४१२ सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत् ॥E (आच्तिवित्योf थे अदिमिनिस्त्रतोर्) (षेच्रेतगेन्त्सिन् थे दिस्गुइसे ओf होउसेहोल्देर्स्, त्रदेर्स्, अन्दस्चेतिच्स्) ०२३५०१। समाहर्ता चतुर्धा जनाप्दं विभज्य ज्येष्ठमध्यमकनिष्ठविभागेन ग्रामाग्रं परिहारकमायुधीयं धान्यपशुहिरण्यकुप्यविष्टिप्रतिकरमिदमेतावदिति निबन्धयेत् ॥ ०२३५०२। तत्प्रदिष्टः पञ्चग्रामीं दशग्रामीं वा गोपश्चिन्तयेत् ॥ ०२३५०३। सीमावरोधेन ग्रामाग्रम्, कृष्टाकृष्टस्थलकेदारारामषण्डवाटवनवास्तुचैत्यदेवगृहसेतुबन्धश्मशानसत्त्रप्रपापुण्यस्थानविवीतपथिसङ्ख्यानेन क्षेत्राग्रम्, तेन सीम्नां क्षेत्राणां च करदाकरदसङ्ख्यानेन ॥ ०२३५०४। तेषु चैतावच्चातुर्वार्ण्यम्, एतावन्तः कर्षकगोरक्षकवैदेहककारुकर्मकरदासाश्च, एतावच्च द्विपदचतुष्पदम्, इदं चैषु हिरण्यल्विष्टिशुल्कदण्डं समुत्तिष्ठतीति ॥ ०२३५०५। कुलानां च स्त्रीपुरुषाणां बालवृद्धकर्मचरित्राजीवव्ययपरिमाणं विद्यात् ॥ ०२३५०६। एवं च जनपदचतुर्भागं स्थानिकश्चिन्तयेत् ॥ ०२३५०७। गोपस्थानिकस्थानेषु प्रदेष्टारः कार्यकरणं बलिप्रग्रहं च कुर्युः ॥ ०२३५०८। समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः, मानसंजाताभ्यां क्षेत्राणि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च ॥ ०२३५०९। तेषां जङ्घाग्रमायव्ययौ च विद्युः ॥ ०२३५१०। प्रस्थितागतानां च प्रवासावासकारणम्, अनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः ॥ ०२३५११। एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतुवनकर्मान्तक्षेत्रजानां प्रमाणमर्घं च विद्युः ॥ ०२३५१२। परभूमिजातानां वारिस्थलपथोपयातानां सारफल्गुपुण्यानां कर्मसु च शुल्कवर्तन्यातिवाहिकगुल्मतरदेयभागभक्तपण्यागारप्रमाणं विद्युः ॥ ०२३५१३। एवं समाहर्तृप्रदिष्टास्तापसव्यञ्जनाः कर्षकगोरक्षकवैदेहकानामध्यक्षाणां च शौचाशौचं विद्युः ॥ ०२३५१४। पुराण चोरव्यञ्जनाश्चान्तेवासिनश्चैत्यचतुष्पथशून्यपदोदपाननदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपुरुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन् ॥ ०२३५१५ समाहर्ता जनपदं चिन्तयेदेवमुत्थितः । ०२३५१५ चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्वयोनयः ॥E (ऋउलेस्fओर्थे चित्य्-सुपेरिन्तेन्देन्त्) ०२३६०१। समाहर्तृवन्नागरिको नगरं चिन्तयेत् ॥ ०२३६०२। दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा ॥ ०२३६०३। स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रमायव्ययौ च विद्यात् ॥ ०२३६०४। एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत् ॥ ०२३६०५। धर्मावसथिनः पाषण्डिपथिकानावेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ॥ ०२३६०६। कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु ॥ ०२३६०७। पण्यानामदेशकालविक्रेतारमस्वकरणं च निवेदयेयुः ॥ ०२३६०८। शौण्डिकपाक्वमांसिकाउदनिकरूपाजीवाः परिज्ञातमावासयेयुः ॥ ०२३६०९। अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः ॥ ०२३६१०। चिकित्सकः प्रच्छन्नव्रणप्रतीकारकारयितारमपथ्यकारिणं च गृहस्वामी च निवेद्य गोपस्थानिकयोर्मुच्येत, अन्यथा तुल्यदोषः स्यात् ॥ ०२३६११। प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत ॥ ०२३६१२। क्षेमरात्रिषु त्रिपणं दद्यात् ॥ ०२३६१३। पथिकोत्पथिकाश्च बहिरन्तश्च नगरस्य देवगृहपुण्यस्थानवनश्मशानेषु स-व्रणमनिष्टोपकरणमुद्भाण्डीकृतमाविग्नमतिस्वप्नमध्वक्लान्तमपूर्वं वा गृह्णीयुः ॥ ०२३६१४। एवमभ्यन्तरे शून्यनिवेशावेशनशौण्डिकाउदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः ॥ ०२३६१५। अग्निप्रतीकारं च ग्रीष्मे ॥ ०२३६१६। मध्यमयोरह्नश्चतुर्भागयोरष्टभागोअग्निदण्डः ॥ ०२३६१७। बहिरधिश्रयणं वा कुर्युः ॥ ०२३६१८। पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे ॥ ०२३६१९। तृणकटच्छन्नान्यपनयेत् ॥ ०२३६२०। अग्निजीविन एकस्थान् वासयेत् ॥ ०२३६२१। स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ ॥ ०२३६२२। रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च ॥ ०२३६२३। प्रदीप्तमनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोअवक्रयिणः ॥ ०२३६२४। प्रमादाद्दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः ॥ ०२३६२५। प्रदीपिकोअग्निना वध्यः ॥ ०२३६२६। पांसुन्यासे रथ्यायामष्टभागो दण्डः, पङ्कोदकसन्निरोधे पादः ॥ ०२३६२७। राजमार्गे द्विगुणः ॥ ०२३६२८। पण्यस्थानोदकस्थानदेवगृहराजपरिग्रहेषु पणोत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः ॥ ०२३६२९। भैषज्यव्याधिभयनिमित्तमदण्ड्याः ॥ ०२३६३०। मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तरुत्सर्गे त्रिपणो दण्डः, खरोष्ट्राश्वतराश्वप्रेतानां षट्पणः, मनुष्यप्रेतानां पञ्चाशत्पणः ॥ ०२३६३१। मार्गविपर्यासे शवद्वारादन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः ॥ ०२३६३२। द्वाःस्थानां द्विशतम् ॥ ०२३६३३। श्मशानादन्यत्र न्यासे दहने च द्वादशपणो दण्डः ॥ ०२३६३४। विषण्णालिकमुभयतोरात्रं यामतूर्यम् ॥ ०२३६३५। तूर्यशब्दे राज्ञो गृहाभ्याशे सपादपणंक्षणताडनं प्रथमपश्चिमयामिकम्, मध्यमयामिकं द्विगुणम्, अन्तश्चतुर्गुणम् ॥ ०२३६३६। शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतमनुयुञ्जीत ॥ ०२३६३७। राजपरिग्रहोपगमने नगररक्षारोहणे च मध्यमः साहसदण्डः ॥ ०२३६३८। सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाग्निनिमित्तं मुद्राभिश्चाग्राह्याः ॥ ०२३६३९। चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः ॥ ०२३६४०। रक्षिणामवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः ॥ ०२३६४१। स्त्रियं दासीमधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधामुत्तमः, कुलस्त्रियं वधः ॥ ०२३६४२। चेतनाचेतनिकं रात्रिदोषमशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च ॥ ०२३६४३। नित्यमुदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षावेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम् ॥ ०२३६४४। बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः ॥ ०२३६४५। पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः ॥ ०२३६४६ दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् । ०२३६४६ कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा ॥ ०२३६४७ अपूर्वदेशाधिगमे युवराजाभिषेचने । ०२३६४७ पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥E (डेतेर्मिनतिओनोf (वलिदन्दिन्वलिद्) त्रन्सच्तिओन्स्) (Fइलिन्गोf लw-सुइत्स्) ०३१०१। धर्मस्थास्त्रयस्त्रयोअमात्या जनपदसंधिसंग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकानर्थान् कुर्युः ॥ ०३१०२। तिरोहितान्तरगारनक्तारण्योपध्युपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः ॥ ०३१०३। कर्तुः कारयितुः पूर्वः साहसदण्डः ॥ ०३१०४। श्रोतृऋणामेकैकं प्रत्यर्धदण्डाः ॥ ०३१०५। श्रद्धेयानां तु द्रव्यव्यपनयः ॥ ०३१०६। परोक्षेणाधिकर्णग्रहणमवक्तव्यकरा वा तिरोहिताः सिध्येयुः ॥ ०३१०७। दायनिक्षेपोपनिधिविवाहयुक्ताः स्त्रीणामनिष्कासिनीनां व्याधितानां चामूढसंज्ञानामन्तरगारकृताः सिध्येयुः ॥ ०३१०८। साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः ॥ ०३१०९। सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणामरण्यकृताः सिध्येयुः ॥ ०३११०। गूढाजीविषु चोपधिकृताः सिध्येयुः ॥ ०३१११। मिथःसमवाये चोपह्वरकृताः सिध्येयुः ॥ ०३११२। अतोअन्यथा न सिध्येयुः, अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्याम्, अप्राप्तातीतव्यवहाराभ्याम्, अभिशस्तप्रव्रजितन्यङ्गव्यसनिभिश्च, अन्यत्र निषृष्टव्यवहारेभ्यः ॥ ०३११३। तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥ ०३११४। कर्तृकारयितृश्रोतृऋणां पृथग्यथोक्ता दण्डाः ॥ ०३११५। स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सम्पूर्णाचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः ॥ ०३११६। पश्चिमं चैषां करणमादेशाधिवर्जं श्रद्धेयम् ॥ इति व्यवहारस्थापना । ०३११७। संवत्सरमृतुं मासं पक्षं दिवसं करणमधिकरणमृणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादिप्रतिवादिप्रश्नानर्थानुपूर्व्या निवेशयेत् ॥ ०३११८। निविष्टांश्चावेक्षेत ॥ ०३११९। निबद्धं वादमुत्सृज्यान्यं वादं संक्रामति, पूर्वोक्तं पश्चिमेनार्थेन नाभिसंधत्ते, परवाक्यमनभिग्राह्यमभिग्राह्यावतिष्ठते, प्रतिज्ञाय देशं निर्दिशेत्युक्ते न निर्दिशति, हीनदेशमदेशं वा निर्दिशति, निर्दिष्टाद्देशादन्यं देशमुपस्थापयति, उपस्थिते देशेर्थवचनं नैवमित्यपव्ययते, साक्षिभिरवधृतं नेच्छति, असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते, इति परोक्तहेतवः ॥ ०३१२०। परोक्तदण्डः पञ्चबन्धः ॥ ०३१२१। स्वयंवादिदण्डो दशबन्धः ॥ ०३१२२। पुरुषभृतिरष्टांशः ॥ ०३१२३। पथिभक्तमर्घविशेषतः ॥ ०३१२४। तदुभयं नियम्यो दद्यात् ॥ ०३१२५। अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः ॥ ०३१२६। न चाभियुक्तेभियोगेस्ति ॥ ०३१२७। अभियोक्ता चेत्प्रत्युक्तस्तदहरेव न प्रतिब्रूयात्परोक्तः स्यात् ॥ ०३१२८। कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः ॥ ०३१२९। तस्याप्रतिब्रुवतस्त्रिरात्रं सप्तरात्रमिति ॥ ०३१३०। अत ऊर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात् ॥ ०३१३१। त्रिपक्षादूर्ध्वमप्रतिब्रुवतः परोक्तदण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्युपकरणेभ्यः ॥ ०३१३२। तदेव निष्पततोअभियुक्तस्य कुर्यात् ॥ ०३१३३। अभियोक्तुर्निष्पातसमकालः परोक्तभावः ॥ ०३१३४। प्रेतस्य व्यसनिनो वा साक्षिवचनमसारम् ॥ ०३१३५। अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥ ०३१३६। आधिं वा स कामं प्रवेशयेत् ॥ ०३१३७। रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥ ०३१३८ चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । ०३१३८ नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः ॥ ०३१३९ धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । ०३१३९ विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः ॥ ०३१४० तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ०३१४० चरित्रं संग्रहे पुंसां राज्ञामाज्ञा तु शासनम् ॥ ०३१४१ राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ०३१४१ अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोअन्यथा ॥ ०३१४२ दण्डो हि केवलो लोकं परं चेमं च रक्षति । ०३१४२ राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः ॥ ०३१४३ अनुशासद्धि धर्मेण व्यवहारेण संस्थया । ०३१४३ न्यायेन च चतुर्थेन चतुरन्तां वा महीं जयेत् ॥ ०३१४४ संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । ०३१४४ यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ॥ ०३१४५ शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ०३१४५ न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ॥ ०३१४६ दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः । ०३१४६ अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः ॥ ०३१४७ पूर्वोत्तरार्थव्याघाते साक्षिवक्तव्यकारणे । ०३१४७ चारहस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ॥E (Cओन्चेर्निन्ग्मर्रिअगे) ((इ) ळw ओf मर्रिअगे (ई) ऋउलेस्चोन्चेर्निन्ग्wओमन्ऽस्प्रोपेर्त्य्(ईइ) Cओन्चेर्निन्ग्सुपेर्सेस्सिओन् (ओf अ wइfए) ब्य सेचोन्द्मर्रिअगे) ०३२०१। विवाहपूर्वो व्यवहारः ॥ ०३२०२। कन्यादानं कन्यामलंकृत्य ब्राह्मो विवाहः ॥ ०३२०३। सहधर्मचर्या प्राजापत्यः ॥ ०३२०४। गोमिथुनादानादार्षः ॥ ०३२०५। अन्तर्वेद्यामृत्विजे दानाद्दैवः ॥ ०३२०६। मिथःसमवायाद्गान्धर्वः ॥ ०३२०७। शुल्कादानादासुरः ॥ ०३२०८। प्रसह्यादानाद्राक्षसः ॥ ०३२०९। सुप्तमत्तादानात्पैशाचः ॥ ०३२१०। पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः ॥ ०३२११। तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेन्यतरो वा ॥ ०३२१२। द्वितीयं शुल्कं स्त्री हरेत ॥ ०३२१३। सर्वेषां प्रीत्यारोपणमप्रतिषिद्धम् ॥ इति विवाहधर्मः । ०३२१४। वृत्तिराबन्ध्यं वा स्त्रीधनम् ॥ ०३२१५। परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः ॥ ०३२१६। तदात्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुमदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ॥ ०३२१७। त्रिवर्षोपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ॥ ०३२१८। गान्धर्वासुरोपभुक्तं स-वृद्धिकमुभयं दाप्येत, राक्षसपैशाचोपभुक्तं स्तेयं दद्यात् ॥ ०३२१९। मृते भर्तरि धर्मकामा तदानीमेव स्थाप्याभरणं शुल्कशेषं च लभेत ॥ ०३२२०। लब्ध्वा वा विन्दमाना स-वृद्धिकमुभयं दाप्येत ॥ ०३२२१। कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत ॥ ०३२२२। निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः ॥ ०३२२३। श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत ॥ ०३२२४। ज्ञातिहस्तादभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः ॥ ०३२२५। न्यायोपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत् ॥ ०३२२६। पतिदायं विन्दमाना जीयेत ॥ ०३२२७। धर्मकामा भुञ्जीत ॥ ०३२२८। पुत्रवती विन्दमाना स्त्रीधनं जीयेत ॥ ०३२२९। तत्तु स्त्रीधनं पुत्रा हरेयुः ॥ ०३२३०। पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात् ॥ ०३२३१। बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनमवस्थापयेत् ॥ ०३२३२। कामकरणीयमपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात् ॥ ०३२३३। अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनमायुःक्षयाद्भुञ्जीत ॥ ०३२३४। आपदर्थं हि स्त्रीधनम् ॥ ०३२३५। ऊर्ध्वं दायादं गच्छेत् ॥ ०३२३६। जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तदभावे भर्ता ॥ ०३२३७। शुल्कमन्वाधेयमन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः ॥ इति स्त्रीधनकल्पः । ०३२३८। वर्षाण्यष्टावप्रजायमानामपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुम्, द्वादश कन्याप्रसविनीम् ॥ ०३२३९। ततः पुत्रार्थी द्वितीयां विन्देत ॥ ०३२४०। तस्यातिक्रमे शुल्कं स्त्रीधनमर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम् ॥ ०३२४१। शुल्कं स्त्रीधनमशुल्कस्त्रीधनायास्तत्प्रमाणमाधिवेदनिकमनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ॥ ०३२४२। पुत्रार्था हि स्त्रियः ॥ ०३२४३। तीर्थसमवाये चासां यथाविवाहं पूर्वोढां जीवत्पुत्रां वा पूर्वं गच्छेत् ॥ ०३२४४। तीर्थगूहनागमने षण्णवतिर्दण्डः ॥ ०३२४५। पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामामुपेयात् ॥ ०३२४६। न चाकामः पुरुषः कुष्ठिनीमुन्मत्तां वा गच्छेत् ॥ ०३२४७। स्त्री तु पुत्रार्थमेवंभूतं वोपगच्छेत् ॥ ०३२४८ नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी । ०३२४८ प्राणाभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ॥E ((इव्) ंरितल्दुत्य्(व्) ंैन्तेनन्चे (वि) Cरुएल्त्य्(वी) डिसffएच्तिओन् (वीइ) ंिस्चोन्दुच्त्(इx) ড়्रोहिबितिओनोf fअवोउर्सन्द्देअलिन्ग्स्) ०३३०१। द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति, षोडशवर्षः पुमान् ॥ ०३३०२। अत ऊर्ध्वमशुश्रूषायां द्वादशपणः स्त्रिया दण्डः, पुंसो द्विगुणः ॥ इति शुश्रूषा । ०३३०३। भर्मण्यायामनिर्दिष्टकालायां ग्रासाच्छादनं वाधिकं यथापुरुषपरिवापं सविशेषं दद्यात् ॥ ०३३०४। निर्दिष्टकालायां तदेव संख्याय बन्धं च दद्यात् ॥ ०३३०५। शुल्कस्त्रीधनाधिवेदनिकानामनादाने च ॥ ०३३०६। श्वशुरकुलप्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः ॥ इति भर्म । ०३३०७। "नष्टे" "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनयग्राहणम् ॥ ०३३०८। वेणुदलरज्जुहस्तानामन्यतमेन वा पृष्ठे त्रिराघातः ॥ ०३३०९। तस्यातिक्रमे वाग्दण्डपारुष्यदण्डाभ्यामर्धदण्डाः ॥ ०३३१०। तदेव स्त्रिया भर्तरि प्रसिद्धदोषायाः ॥ ०३३११। ईर्ष्यया बाह्यविहारेषु द्वारेष्वत्ययो यथानिर्दिष्टः ॥ इति पारुष्यम् । ०३३१२। भर्तारं द्विषती स्त्री सप्तार्तवान्यमण्डयमाना तदानीमेव स्थाप्याभरणं निधाय भर्तारमन्यया सह शयानमनुशयीत ॥ ०३३१३। भिक्षुक्यन्वाधिज्ञातिकुलानामन्यतमे वा भर्ता द्विषन् स्त्रियमेकामनुशयीत ॥ ०३३१४। दृष्टलिङ्गे मैथुनापहारे सवर्णापसर्पोपगमे वा मिथ्यावादी द्वादशपणं दद्यात् ॥ ०३३१५। अमोक्ष्या भर्तुरकामस्य द्विषती भार्या, भार्यायाश्च भर्ता ॥ ०३३१६। परस्परंद्वेषान्मोक्षः ॥ ०३३१७। स्त्रीविप्रकाराद्वा पुरुषश्चेन्मोक्षमिच्छेद्यथागृहीतमस्यै दद्यात् ॥ ०३३१८। पुरुषविप्रकाराद्वा स्त्री चेन्मोक्षमिच्छेन्नास्यै यथागृहीतं दद्यात् ॥ ०३३१९। अमोक्षो धर्मविवाहानाम् ॥ इति द्वेषः । ०३३२०। प्रतिषिद्धा स्त्री दर्पमद्यक्रीडायां त्रिपणं दण्डं दद्यात् ॥ ०३३२१। दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः, पुरुषप्रेक्षाविहारगमने द्वादशपणः ॥ ०३३२२। रात्रौ द्विगुणः ॥ ०३३२३। सुप्तमत्तप्रव्रजने भर्तुरदाने च द्वारस्य द्वादशपणः ॥ ०३३२४। रात्रौ निष्कसने द्विगुणः ॥ ०३३२५। स्त्रीपुंसयोर्मैथुनार्थेनाङ्गविचेष्टायां रहोअश्लीलसम्भाषायां वा चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसो द्विगुणः ॥ ०३३२६। केशनीविदन्तनखालम्बनेषु पूर्वः साहसदण्डः, पुंसो द्विगुणः ॥ ०३३२७। शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः ॥ ०३३२८। स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तरे पञ्चशिफा दद्यात् ॥ ०३३२९। पणिकं वा प्रहारं मोक्षयेत् ॥ इत्यतीचारः । ०३३३०। प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्योपकारे क्षुद्रकद्रव्याणां द्वादशपणो दण्डः, स्थूलकद्रव्याणां चतुर्विंशतिपणः, हिरण्यसुवर्णयोश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः, पुंसोर्द्विगुणः ॥ ०३३३१। त एवागम्ययोरर्धदण्डाः, तथा प्रतिषिद्धपुरुषव्यवहारेषु च ॥ इति प्रतिषेधः । ०३३३२ राजद्विष्टातिचाराभ्यामात्मापक्रमणेन च । ०३३३२ स्त्रीधनानीतशुल्कानामस्वाम्यं जायते स्त्रियाः ॥E (ळेअविन्घोमे ङोइन्गwअय्(wइथ मन्) ष्होर्तब्सेन्चे fरों होमे ळोन्गब्सेन्चे fरों होमे) ०३४०१। पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात् ॥ ०३४०२। प्रतिषिद्धायां द्वादशपणः ॥ ०३४०३। प्रतिवेशगृहातिगतायाः षट्पणः ॥ ०३४०४। प्रातिवेशिकभिक्षुकवैदेहकानामवकाशभिक्षापण्यदाने द्वादशपणो दण्डः ॥ ०३४०५। प्रतिषिद्धानां पूर्वः साहसदण्डः ॥ ०३४०६। परगृहातिगतायाश्चतुर्विंशतिपणः ॥ ०३४०७। परभार्यावकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः ॥ ०३४०८। वारणाज्ञानयोर्निर्दोषः ॥ ०३४०९। "पतिविप्रकारात्पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानामन्यतममपुरुषं गन्तुमदोषः" इति आचार्याः ॥ ०३४१०। स-पुरुषं वा ज्ञातिकुलम् ॥ ०३४११। कुतो हि साध्वीजनस्यच्छलम् ॥ ०३४१२। सुखमेतदवबोद्धुम्, इति कौटिल्यः ॥ ०३४१३। प्रेतव्याधिव्यसनगर्भनिमित्तमप्रतिषिद्धमेव ज्ञातिकुलगमनम् ॥ ०३४१४। तन्निमित्तं वारयतो द्वादशपणो दण्डः ॥ ०३४१५। तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् ॥ इति निष्पतनम् । ०३४१६। पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याभरणलोपश्च ॥ ०३४१७। गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम् ॥ ०३४१८। पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः ॥ ०३४१९। बन्धुरदण्ड्यः ॥ ०३४२०। प्रतिषेधेर्धदण्डाः ॥ ०३४२१। पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्यनुसरणे संग्रहणं विद्यात् ॥ ०३४२२। तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानामन्येषां च प्रसृष्टस्त्रीकाणां पथ्यनुसरणमदोषः ॥ ०३४२३। प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्धदण्डाः ॥ इति पथ्यनुसरणम् । ०३४२४। ह्रस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां भार्याः संवत्सरोत्तरं कालमाकाङ्क्षेरनप्रजाताः, संवत्सराधिकं प्रजाताः ॥ ०३४२५। प्रतिविहिता द्विगुणं कालम् ॥ ०३४२६। अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ॥ ०३४२७। ततो यथादत्तमादाय प्रमुञ्चेयुः ॥ ०३४२८। ब्राह्मणमधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषमायुःक्षयादाकाङ्क्षेत ॥ ०३४२९। सवर्णतश्च प्रजाता नापवादं लभेत ॥ ०३४३०। कुटुम्बर्द्धिलोपे वा सुखावस्थैर्विमुक्ता यथेष्टं विन्देत, जीवितार्थमापद्गता वा ॥ ०३४३१। धर्मविवाहात्कुमारी परिग्रहीतारमनाख्याय प्रोषितमश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥ ०३४३२। आख्याय प्रोषितमश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम् ॥ ०३४३३। एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ॥ ०३४३४। दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणम्, दश श्रूयमाणम् ॥ ०३४३५। ततः परं धर्मस्थैर्विसृष्टा यथेष्टं विन्देत ॥ ०३४३६। तीर्थोपरोधो हि धर्मवध इति कौटिल्यः ॥ इति ह्रस्वप्रवासः ॥ ०३४३७। दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता ॥ ०३४३८। ततः पतिसोदर्यं गच्छेत् ॥ ०३४३९। बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठमभार्यं वा ॥ ०३४४०। तदभावेप्यसोदर्यं सपिण्डं कुल्यं वासन्नम् ॥ ०३४४१। एतेषामेष एव क्रमः ॥ ०३४४२ एतानुत्क्रम्य दायादान् वेदने जारकर्मणि । ०३४४२ जारस्त्रीदातृवेत्तारः सम्प्राप्ताः संग्रहात्ययम् ॥E (ড়र्तितिओनोf इन्हेरितन्चे) (Oर्देरोf इन्हेरितन्चे) ०३५०१। अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः ॥ ०३५०२। तेषामूर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम् ॥ ०३५०३। स्वयंार्जितमविभाज्यम्, अन्यत्र पितृद्रव्यादुत्थितेभ्यः ॥ ०३५०४। पितृद्रव्यादविभक्तोपगतानां पुत्राः पौत्रा वा आचतुर्थादित्यंशभाजः ॥ ०३५०५। तावदविच्छिन्नः पिण्डो भवति ॥ ०३५०६। विच्छिन्नपिण्डाः सर्वे समं विभजेरन् ॥ ०३५०७। अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन् ॥ ०३५०८। यतश्चोत्तिष्ठेत स द्व्यंशं लभेत ॥ ०३५०९। द्रव्यमपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च ॥ ०३५१०। रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥ ०३५११। तदभावे पिता धरमाणः ॥ ०३५१२। पित्रभावे भ्रातरो भ्रातृपुत्राश्च ॥ ०३५१३। अपितृका बहवोअपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकमंशं हरेयुः ॥ ०३५१४। सोदर्याणामनेकपितृकाणां पितृतो दायविभागः ॥०३५१५। पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरमवलम्बन्ते, ज्येष्ठे च कनिष्ठमर्थग्राहिणम् ॥ ०३५१६। जीवद्विभागे पिता नैकं विशेषयेत् ॥ ०३५१७। न चैकमकारणान्निर्विभजेत ॥ ०३५१८। पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः ॥ ०३५१९। प्राप्तव्यवहाराणां विभागः ॥ ०३५२०। अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा ॥ ०३५२१। सन्निविष्टसममसन्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम् ॥ ०३५२२। ऋणरिक्थयोः समो विभागः ॥ ०३५२३। "उदपात्राण्यपि निष्किंचना विभजेरन्" इत्याचार्याः ॥ ०३५२४। छलमेतदिति कौटिल्यः ॥ ०३५२५। सतोअर्थस्य विभागो नासतः ॥ ०३५२६। एतावानर्थः सामान्यस्तस्यैतावान् प्रत्यंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥ ०३५२७। दुर्विभक्तमन्योन्यापहृतमन्तर्हितमविज्ञातोत्पन्नं वा पुनर्विभजेरन् ॥ ०३५२८। अदायादकं राजा हरेत्स्त्रीवृत्तिप्रेतकार्यवर्जम्, अन्यत्र श्रोत्रियद्रव्यात् ॥ ०३५२९। तत्त्रैवेद्येभ्यः प्रयच्छेत् ॥ ०३५३०। पतितः पतिताज्जातः क्लीबश्चानंशाः, जडोन्मत्तान्धकुष्ठिनश्च ॥ ०३५३१। सति भार्यार्थे तेषामपत्यमतद्विधं भागं हरेत् ॥ ०३५३२। ग्रासाच्छादनमितरे पतितवर्जाः ॥ ०३५३३ तेषां च कृतदाराणां लुप्ते प्रजनने सति । ०३५३३ सृजेयुर्बान्धवाः पुत्रांस्तेषामंशान् प्रकल्पयेत् ॥E (डिविसिओनिन्तो स्हरेस्) ०३६०१। एकस्त्रीपुत्राणां ज्येष्ठांशः - ब्राह्मणानामजाः, क्षत्रियाणामश्वाः, वैश्यानां गावः, शूद्राणामवयः ॥ ०३६०२। काणलङ्गास्तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः ॥ ०३६०३। चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणामेकं ज्येष्ठो हरेत् ॥ ०३६०४। प्रतिमुक्तस्वधापाशो हि भवति ॥ ०३६०५। इत्यौशनसो विभागः ॥ ०३६०६। पितुः परिवापाद्यानमाभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं च मध्यमांशः, कृष्णं धान्यायसं गृहपरिवापो गोशकटं च कनिष्ठांशः ॥ ०३६०७। शेषद्रव्याणामेकद्रव्यस्य वा समो विभागः ॥ ०३६०८। अदायादा भगिन्यः, मातुः परिवापाद्भुक्तकांस्याभरणभागिन्यः ॥ ०३६०९। मानुषहीनो ज्येष्ठस्तृतीयमंशं ज्येष्ठांशाल्लभेत, चतुर्थमन्यायवृत्तिः, निवृत्तधर्मकार्यो वा ॥ ०३६१०। कामाचारः सर्वं जीयेत ॥ ०३६११। तेन मध्यमकनिष्ठौ व्याख्यातौ ॥ ०३६१२। तयोर्मानुषोपेतो ज्येष्ठांशादर्धं लभेत ॥ ०३६१३। नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्याकृतक्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः ॥ ०३६१४। सूतमागधव्रात्यरथकाराणामैश्वर्यतो विभागः ॥ ०३६१५। शेषास्तमुपजीवेयुः ॥ ०३६१६। अनीश्वराः समविभागाः ॥ ०३६१७। चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोअंशान् हरेत्, क्षत्रियापुत्रस्त्रीनंशान्, वैश्यापुत्रो द्वावंशौ, एकं शूद्रापुत्रः ॥ ०३६१८। तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः ॥ ०३६१९। ब्राह्मणस्यानन्तरापुत्रस्तुल्यांशः ॥ ०३६२०। क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुषोपेतः ॥ ०३६२१। तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात् ॥ ०३६२२। ब्राह्मणानां तु पारशवस्तृतीयमंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वासन्नः, स्वधादानहेतोः ॥ ०३६२३। तदभावे पितुराचार्योअन्तेवासी वा ॥ ०३६२४ क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतम् । ०३६२४ मातृबन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनम् ॥E (Cलस्सिfइचतिओनोf सोन्स्) ०३७०१। "परपरिग्रहे बीजमुत्सृष्टं क्षेत्रिणः" इत्याचार्याः ॥ ०३७०२। "माता भस्त्रा, यस्य रेतस्तस्यापत्यम्" इत्यपरे ॥ ०३७०३। विद्यमानमुभयमिति कौटिल्यः ॥ ०३७०४। स्वयंजातः कृतक्रियायामौरसः ॥ ०३७०५। तेन तुल्यः पुत्रिकापुत्रः ॥ ०३७०६। सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः ॥ ०३७०७। जनयितुरसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग्भवति ॥ ०३७०८। तत्सधर्मा बन्धूनां गृहे गूढजातस्तु गूढजः ॥ ०३७०९। बन्धुनोत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ॥ ०३७१०। कन्यागर्भः कानीनः ॥ ०३७११। सगर्भोढायाः सहोढः ॥ ०३७१२। पुनर्भूतायाः पौनर्भवः ॥ ०३७१३। स्वयंजातः पितुर्बन्धूनां च दायादः ॥ ०३७१४। परजातः संस्कर्तुरेव न बन्धूनाम् ॥ ०३७१५। तत्सधर्मा मातापितृभ्यामद्भिर्मुक्तो दत्तः ॥ ०३७१६। स्वयं बन्धुभिर्वा पुत्रभावोपगत उपगतः ॥ ०३७१७। पुत्रत्वेधिकृतः कृतकः ॥ ०३७१८। परिक्रीतः क्रीतः ॥ इति । ०३७१९। औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः ॥ ०३७२०। ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः ॥ ०३७२१। ब्राह्मणस्य वैश्यायामम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥ ०३७२२। क्षत्रियस्य शूद्रायामुग्रः ॥ ०३७२३। शूद्र एव वैश्यस्य ॥ ०३७२४। सवर्णासु चैषामचरितव्रतेभ्यो जाता व्रात्याः ॥ ०३७२५। इत्यनुलोमाः ॥ ०३७२६। शूद्रादायोगवक्षत्तचण्डालाः ॥ ०३७२७। वैश्यान्मागधवैदेहकौ ॥ ०३७२८। क्षत्रियात्सूतः ॥ ०३७२९। पौराणिकस्त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद्विशेषः ॥ ०३७३०। त एते प्रतिलोमाः स्वधर्मातिक्रमाद्राज्ञः सम्भवन्ति ॥ ०३७३१। उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥ ०३७३२। वैदेहिकायामम्बष्ठाद्वैणः, विपर्यये कुशीलवः ॥ ०३७३३। क्षत्तायामुग्रात्श्वपाकः ॥ ०३७३४। इत्येतेन्ये चान्तरालाः ॥ ०३७३५। कर्मणा वैश्यो रथकारः ॥ ०३७३६। तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च ॥ ०३७३७। शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥ ०३७३८। केवलमेवं वर्तमानः स्वर्गमाप्नोति राजा, नरकमन्यथा ॥ ०३७३९। सर्वेषामन्तरालानां समो विभागः ॥ ०३७४० देशस्य जात्याः संघस्य धर्मो ग्रामस्य वापि यः । ०३७४० उचितस्तस्य तेनैव दायधर्मं प्रकल्पयेत् ॥E (ईम्मोवब्ले प्रोपेर्त्य्) (ड्wएल्लिन्ग्-प्लचेस्) ०३८०१। सामन्तप्रत्यया वास्तुविवादाः ॥ ०३८०२। गृहं क्षेत्रमारामः सेतुबन्धस्तटाकमाधारो वा वास्तुः ॥ ०३८०३। कर्णकीलायससम्बन्धोअनुगृहं सेतुः ॥ ०३८०४। यथासेतुभोगं वेश्म कारयेत् ॥ ०३८०५। अभूतं वा परकुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत् ॥ ०३८०६। अवस्करं भ्रममुदपानं वा न गृहोचितादन्यत्र, अन्यत्र सूतिकाकूपादानिर्दशाहादिति ॥ ०३८०७। तस्यातिक्रमे पूर्वः साहसदण्डः ॥ ०३८०८। तेनेन्धनावघातनकृतं कल्याणकृत्येष्वाचामोदकमार्गाश्च व्याख्याताः ॥ ०३८०९। त्रिपदीप्रतिक्रान्तमध्यर्धमरत्निं वा गाढप्रसृतमुदकमार्गं प्रस्रवणप्रपातं वा कारयेत् ॥ ०३८१०। तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः ॥ ०३८११। एकपदीप्रतिक्रान्तमरत्निं वा चक्रिचतुष्पदस्थानमग्निष्ठमुदन्जरस्थानं रोचनीं कुट्टनीं वा कारयेत् ॥ ०३८१२। तस्यातिक्रमे चतुर्विंशतिपणो दण्डः ॥ ०३८१३। सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ॥ ०३८१४। तयोश्चतुरङ्गुलं नीप्रान्तरम्<नीव्रान्तरम्?> समारूढकं वा ॥ ०३८१५। किष्कुमात्रमाणिद्वारमन्तरिकायां खण्डफुल्लार्थमसम्पातं कारयेत् ॥ ०३८१६। प्रकाशार्थमल्पमूर्ध्वं वातायनं कारयेत् ॥ ०३८१७। तदवसिते वेश्मनिच्छादयेत् ॥ ०३८१८। सम्भूय वा गृहस्वामिनो यथेष्टं कारयेयुः, अनिष्टं वारयेयुः ॥ ०३८१९। वानलट्याश्चोर्ध्वमावार्यभागं कटप्रच्छन्नमवमर्शभित्तिं वा कारयेद्वर्षाबाधभयात् ॥ ०३८२०। तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः ॥ ०३८२१। खातसोपानप्रणालीनिश्रेण्यवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च ॥ ०३८२२। परकुड्यमुदकेनोपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीषोपघाते द्विगुणः ॥ ०३८२३। प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः ॥ ०३८२४। प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणमन्यत्र पारुष्यस्तेयसाहससंग्रहणमिथ्याभोगेभ्यः ॥ ०३८२५। स्वयंभिप्रस्थितो वर्षावक्रयशेषं दद्यात् ॥ ०३८२६। सामान्ये वेश्मनि साहाय्यमप्रयच्छतः, सामान्यमुपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः ॥ ०३८२७। विनाशयतस्तद्द्विगुणः ॥ ०३८२८ कोष्ठकाङ्गणवर्चानामग्निकुट्टनशालयोः । ०३८२८ विवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥E (षले ओf इम्मोवब्ले प्रोपेर्त्य्Fइxइन्गोf बोउन्दरिएस्Eन्च्रोअछ्मेन्तन्द्डमगे) ०३९०१। ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुमभ्याभवेयुः ॥ ०३९०२। ततोअन्ये बाह्याः ॥ ०३९०३। सामन्तचत्वारिंशत्कुल्येषु गृहप्रतिमुखे वेश्म श्रावयेयुः, सामन्तग्रामवृद्धेषु क्षेत्रमारामं सेतुबन्धं तटाकमाधारं वा मर्यादासु यथासेतुभोगं "अनेनार्घेण कः क्रेता" इति ॥ ०३९०४। त्रिराघुषितमव्याहतं क्रेता क्रेतुं लभेत ॥ ०३९०५। स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत् ॥ ०३९०६। विक्रयप्रतिक्रोष्टा शुल्कं दद्यात् ॥ ०३९०७। अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः ॥ ०३९०८। सप्तरात्रादूर्ध्वमनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥ ०३९०९। प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः ॥ इति वास्तुविक्रयः । ०३९१०। सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ॥ ०३९११। कर्षकगोपालकवृद्धाः पूर्वभुक्तिका वा बाह्याः सेतूनामभिज्ञा बहव एको वा निर्दिश्य सीमसेतून् विपरीतवेषाः सीमानं नयेयुः ॥ ०३९१२। उद्दिष्टानां सेतूनामदर्शने सहस्रं दण्डः । ०३९१३। तदेव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात् ॥ ०३९१४। प्रनष्टसेतुभोगं वा सीमानं राजा यथोपकारं विभजेत् ॥ इति सीमविवादः । ०३९१५। क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः ॥ ०३९१६। तेषां द्वैधीभावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥ ०३९१७। तदुभयपरोक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च ॥ ०३९१८। यथोपकारं वा विभजेत् ॥ ०३९१९। प्रसह्यादाने वास्तुनि स्तेयदण्डः ॥ ०३९२०। कारणादाने प्रयासमाजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्रविवादः । ०३९२१। मर्यादापहरणे पूर्वः साहसदण्डः ॥ ०३९२२। मर्यादाभेदे चतुर्विंशतिपणः ॥ ०३९२३। तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः ॥ इति मर्यादास्थापनम् । ०३९२४। सर्व एव विवादाः सामन्तप्रत्ययाः ॥ ०३९२५। विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वंपूर्वमाबाधं सहेत ॥ ०३९२६। ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः ॥ ०३९२७। आधारपरिवाहकेदारोपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथोपघातं मूल्यं दद्युः ॥ ०३९२८। केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः ॥ ०३९२९। पश्चान्निविष्टमधरतटाकं नोपरितटाकस्य केदारमुदकेनाप्लावयेत् ॥ ०३९३०। उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्षोपरतकर्मणः ॥ ०३९३१। तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च ॥ ०३९३२। पञ्चवर्षोपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः ॥ ०३९३३। तटाकसेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिकः परिहारः, भग्नोत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥ ०३९३४। स्वात्माधाने विक्रये च ॥ ०३९३५। खातप्रावृत्तिमनदीनिबन्धायतनतटाककेदारारामषण्डवापानां सस्यवर्णभागोत्तरिकमन्येभ्यो वा यथोपकारं दद्युः ॥ ०३९३६। प्रक्रयावक्रयाधिभागभोगनिषृष्टोपभोक्तारश्चैषां प्रतिकुर्युः ॥ ०३९३७। अर्पतीकारे हीनद्विगुणो दण्डः ॥ ०३९३८ सेतुभ्यो मुञ्चतस्तोयमवारे षट्पणो दमः । ०३९३८ वारे वा तोयमन्येषां प्रमादेनोपरुन्धतः ॥E (डमगे तो पस्तुरेस्, fइएल्द्सन्द्रोअद्स्) ०३१००१। कर्मोदकमार्गमुचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहसदण्डः, सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परभूमौ निवेशयतः ॥ ०३१००२। पूर्वानुवृत्तं धर्मसेतुमाधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहसदण्डः, श्रोतृऋणामुत्तमः, अन्यत्र भग्नोत्सृष्टात् ॥ ०३१००३। स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः ॥ ०३१००४। पथिप्रमाणं दुर्गनिवेशे व्याख्यातम् ॥ ०३१००५। क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः, महापशुपथं चतुर्विंशतिपणः, हस्तिक्षेत्रपथं चतुष्पञ्चाशत्पणः, सेतुवनपथं षट्शतः, श्मशानग्रामपथं द्विशतः, द्रोणमुखपथं पञ्चशतः, स्थानीयराष्ट्रविवीतपथं साहस्रः ॥ ०३१००६। अतिकर्षणे चैषां दण्डचतुर्था दण्डाः ॥ ०३१००७। कर्षणे पूर्वोक्ताः ॥ ०३१००८। क्षेत्रिकस्याक्षिपतः क्षेत्रमुपवासस्य वा त्यजतो बीजकाले द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः ॥ ०३१००९। करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु ॥ ०३१०१०। अन्यथा पूर्वः साहसदण्डः ॥ ०३१०११। करदस्य वाकरदग्रामं प्रविशतः ॥ ०३१०१२। करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात् ॥ ०३१०१३। तदप्यस्मै दद्यात् ॥ ०३१०१४। अनादेयमकृषतोअन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात् ॥ ०३१०१५। अकरदाः परत्र वसन्तो भोगमुपजीवेयुः ॥ ०३१०१६। ग्रामार्थेन ग्रामिकं व्रजन्तमुपवासाः पर्यायेणानुगच्छेयुः ॥ ०३१०१७। अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः ॥ ०३१०१८। ग्रामिकस्य ग्रामादस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्योत्तमः ॥ ०३१०१९। निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ॥ ०३१०२०। स्तम्भैः समन्ततो ग्रामाद्धनुःशतापकृष्टमुपसालं कारयेत् ॥ ०३१०२१। पशुप्रचारार्थं विवीतमालवनेनोपजीवेयुः ॥ ०३१०२२। विवीतं भक्षयित्वापसृतानामुष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः, गवाश्वखराणां चार्धपादिकम्, क्षुद्रपशूनां षोडशभागिकम् ॥ ०३१०२३। भक्षयित्वा निषण्णानामेत एव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः ॥ ०३१०२४। ग्रामदेववृषा वानिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः ॥ ०३१०२५। सस्यभक्षणे सस्योपघातं निष्पत्तितः परिसंख्याय द्विगुणं दापयेत् ॥ ०३१०२६। स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्दः, प्रमुञ्चतश्चतुर्विंशतिपणः ॥ ०३१०२७। पालिनामर्धदण्डाः ॥ ०३१०२८। तदेव षण्डभक्षणे कुर्यात् ॥ ०३१०२९। वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे ॥ ०३१०३०। हिंसाप्रतीकारं कुर्यात् ॥ ०३१०३१। अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथावध्यास्तथा प्रतिषेद्धव्याः ॥ ०३१०३२। पशवो रश्मिप्रतोदाभ्यां वारयितव्याः ॥ ०३१०३३। तेषामन्यथा हिंसायां दण्डपारुष्यदण्डाः ॥ ०३१०३४। प्रार्थयमाना दृष्टापराधा वा सर्वोपायैर्नियन्तव्याः ॥ इति क्षेत्रपथहिंसा । ०३१०३५। कर्षकस्य ग्राममभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ॥ ०३१०३६। कर्माकरणे कर्मवेतनद्विगुणम्, हिरण्यादाने प्रत्यंशद्विगुणम्, भक्ष्यपेयादाने च प्रहवणेषु द्विगुणमंशं दद्यात् ॥ ०३१०३७। प्रेक्षायामनंशदः, स-स्वजनो न प्रेक्षेत ॥ ०३१०३८। प्रच्छन्नश्रवणेक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणमंशं दद्यात् ॥ ०३१०३९। सर्वहितमेकस्य ब्रुवतः कुर्युराज्ञाम् ॥ ०३१०४०। अकरणे द्वादशपणो दण्डः ॥ ०३१०४१। तं चेत्सम्भूय वा हन्युः पृथगेषामपराधद्विगुणो दण्डः ॥ ०३१०४२। उपहन्तृषु विशिष्टः ॥ ०३१०४३। ब्राह्मणश्चैषां ज्यैष्ठ्यं नियम्येत ॥ ०३१०४४। प्रहवणेषु चैषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन् ॥ ०३१०४५। तेन देशजातिकुलसंघानां समयस्यानपाकर्म व्याख्यातम् ॥ ०३१०४६ राजा देशहितान् सेतून् कुर्वतां पथि संक्रमान् । ०३१०४६ ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत् ॥E (णोन्-पय्मेन्तोf देब्त्स्) ०३११०१। सपादपणा धर्म्या मासवृद्धिः पणशतस्य, पञ्चपणा व्यावहारिकी, दशपणा कान्तारगाणाम्, विंशतिपणा सामुद्राणाम् ॥ ०३११०२। ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतृऋणामेकैकं प्रत्यर्धदण्डः ॥ ०३११०३। राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रमवेक्षेत ॥ ०३११०४। धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत ॥ ०३११०५। प्रक्षेपवृद्धिरुदयादर्धं सन्निधानसन्ना वार्षिकी देया ॥ ०३११०६। चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात् ॥ ०३११०७। अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिमारोप्य श्रावयतो बन्धचतुर्गुणो दण्डः ॥ ०३११०८। तुच्छश्रावणायामभूतचतुर्गुणः ॥ ०३११०९। तस्य त्रिभागमादाता दद्यात्, शेषं प्रदाता ॥ ०३१११०। दीर्घसत्त्रव्याधिगुरुकुलोपरुद्धं बालमसारं वा नर्णमनुवर्धेत ॥ ०३११११। मुच्यमानमृणमप्रतिगृह्णतो द्वादशपणो दण्डः ॥ ०३१११२। कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् ॥ ०३१११३। दशवर्षोपेक्षितमृणमप्रतिग्राह्यम्, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः ॥ ०३१११४। प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा ॥ ०३१११५। न प्रातिभाव्यमन्यत् ॥ ०३१११६। असारं बालप्रातिभाव्यम् ॥ ०३१११७। असंख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ॥ ०३१११८। जीवितविवाहभूमिप्रातिभाव्यमसंख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः ॥ ०३१११९। नानर्णसमवाये तु नैकं द्वौ युगपदभिवदेयाताम्, अन्यत्र प्रतिष्ठमानात् ॥ ०३११२०। तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत् ॥ ०३११२१। दम्पत्योः पितापुत्रयोः भ्रातृऋणां चाविभक्तानां परस्परकृतमृणमसाध्यम् ॥ ०३११२२। अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च ॥ ०३११२३। स्त्री चाप्रतिश्राविणी पतिकृतमृणम्, अन्यत्र गोपालकार्धसीतिकेभ्यः ॥ ०३११२४। पतिस्तु ग्राह्यः स्त्रीकृतमृणम्, अप्रतिविधाय प्रोषित इति ॥ ०३११२५। सम्प्रतिपत्तावुत्तमः ॥ ०३११२६। अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवरार्ध्याः ॥ ०३११२७। पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेवैकः ॥ ०३११२८। प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः ॥ ०३११२९। राजश्रोत्रियग्रामभृतककुष्ठिव्रणिनः पतितचण्डालकुत्सितकर्माणोअन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्च, अन्यत्र स्ववर्गेभ्यः ॥ ०३११३०। पारुष्यस्तेयसंग्रहणेषु तु वैरिस्यालसहायवर्जाः ॥ ०३११३१। रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राजतापसवर्जम् ॥ ०३११३२। स्वामिनो भृत्यानामृत्विगाचार्याः शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः, तेसामितरे वा ॥ ०३११३३। परस्पराभियोगे चैषामुत्तमाः परोक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् ॥ इति साक्ष्यधिकारः ॥ ०३११३४। ब्राह्मणोदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात् ॥ ०३११३५। तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ॥ ०३११३६। राजन्यं वैश्यं वा "मा तवेष्टापूर्तफलम्, कपालहस्तः शत्रुकुलं भिक्षार्थी गच्छेः" इति ॥ ०३११३७। शूद्रं "जन्ममरणान्तरे यद्वः पुण्यफलं तद्राजानं गच्छेद्, राज्ञश्च किल्बिषं युष्मानन्यथावादे, दण्डश्चानुबद्धः, पश्चादपि ज्ञायेत यथादृष्टश्रुतम्, एकमन्त्राः सत्यमुपहरत" इति ॥ ०३११३८। अनुपहरतां सप्तरात्रादूर्ध्वं द्वादशपणो दण्डः, त्रिपक्षादूर्ध्वमभियोगं दद्युः ॥ ०३११३९। साक्षिभेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः ॥ ०३११४०। तद्वा द्रव्यं राजा हरेत् ॥ ०३११४१। साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ॥ ०३११४२। अतिरिक्तं वा ब्रूयुस्तदतिरिक्तं राजा हरेत् ॥ ०३११४३। बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् ॥ ०३११४४। "साक्षिबालिष्येष्वेव पृथगनुयोगे देशकालकार्याणां पूर्वमध्यमोत्तमा दण्डाः" इत्यौशनसाः ॥ ०३११४५। "कूटसाक्षिणो यमर्थमभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दशगुणं दण्डं दद्युः" इति मानवाः ॥ ०३११४६। "बालिश्याद्वा विसंवादयतां चित्रो घातः" इति बार्हस्पत्याः ॥ ०३११४७। नेति कौटिल्यः ॥ ०३११४८। ध्रुवं हि साक्षिभिः श्रोतव्यम् ॥ ०३११४९। अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोअर्धमब्रुवाणानाम् ॥ ०३११५० देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् । ०३११५० दूरस्थानप्रसारान् वा स्वामिवाक्येन साधयेत् ॥E (डेपोसित्स्) ०३१२०१। उपनिधिरृणेन व्याख्यातः ॥ ०३१२०२। परचक्राटविकाभ्यां दुर्गराष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्तनाशे वा, ग्राममध्याग्न्युदकाबाधे ज्वालावेगोपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयमुपरूढो नोपनिधिमभ्यावहेत् ॥ ०३१२०३। उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम् ॥ ०३१२०४। उपभोगनिमित्तं नष्टं विनष्टं वाभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने ॥ ०३१२०५। प्रेतं व्यसनगतं वा नोपनिधिमभ्यावहेत् ॥ ०३१२०६। आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः ॥ ०३१२०७। परिवर्तने निष्पातने वा मूल्यसमः ॥ ०३१२०८। तेनाधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्याताः ॥ ०३१२०९। नाधिः सोपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥ ०३१२१०। निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत ॥ ०३१२११। उपस्थितस्याधिमप्रयच्छतो द्वादशण्पणो दण्डः ॥ ०३१२१२। प्रयोजकासन्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयमाधिं प्रतिपद्येत ॥ ०३१२१३। निवृत्तवृद्धिको वाधिस्तत्कालकृतमूल्यस्तत्रैवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा ॥ ०३१२१४। धारणिकासन्निधाने वा विनाशभयादुद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा ॥ ०३१२१५। स्थावरस्तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धमाजीवममूल्यक्षयेणोपनयेत् ॥ ०३१२१६। अनिसृष्टोपभोक्ता मूल्यशुद्धमाजीवं बन्धं च दद्यात् ॥ ०३१२१७। शेषमुपनिधिना व्याख्यातम् ॥ ०३१२१८। एतेनादेशोअन्वाधिश्च व्याख्यातौ ॥ ०३१२१९। सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिमप्राप्तश्चोरैर्भग्नोत्सृष्टो वा नान्वाधिमभ्यावहेत् ॥ ०३१२२०। अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ॥ ०३१२२१। शेषमुपनिधिना व्यकह्यातम् ॥ ०३१२२२। याचितकमवक्रीतकं वा यथाविधं गृह्णीयुस्तथाविधमेवार्पयेयुः ॥ ०३१२२३। भ्रेषोपनिपाताभ्यां देशकालोपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ॥ ०३१२२४। शेषमुपनिधिना व्याख्यातम् ॥ ०३१२२५। वैयावृत्यविक्रयस्तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यमुदयं च दद्युः ॥ ०३१२२६। देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यमुदयं च दद्युः ॥ ०३१२२७। यथासम्भाषितं वा विक्रीणाना नोदयमधिगच्छेयुः, मूल्यमेव दद्युः ॥ ०३१२२८। अर्घपतने वा परिहीणं यथापरिहीणं मूल्यमूनं दद्युः ॥ ०३१२२९। सांव्यवहारिकेषु वा प्रात्ययिकेष्वराजवाच्येषु भ्रेषोपनिपाताभ्यां नष्टं विनष्टं वा मूल्यमपि न दद्युः ॥ ०३१२३०। देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यमुदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम् ॥ ०३१२३१। शेषमुपनिधिना व्याख्यातम् ॥ ०३१२३२। एतेन वैयावृत्यविक्रयो व्याख्यातः ॥ ०३१२३३। निक्षेपश्चोपनिधिना ॥ ०३१२३४। तमन्येन निक्ष्पितमन्यस्यार्पयतो हीयेत ॥ ०३१२३५। निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम् ॥ ०३१२३६। अशुचयो हि कारवः ॥ ०३१२३७। नैषां करणपूर्वो निक्षेपधर्मः ॥ ०३१२३८। करणहीनं निक्षेपमपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वनान्ते वा मद्यप्रहवणविश्वासेन ॥ ०३१२३९। रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३१२४०। तस्य प्रतिदेशेन पुत्रो भ्राता वाभिगम्य निक्षेपं याचेत ॥ ०३१२४१। दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ॥ ०३१२४२। प्रव्रज्याभिमुखो वा श्रद्धेयः कश्चित्कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥ ०३१२४३। ततः कालान्तरागतो याचेत ॥ ०३१२४४। दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ॥ ०३१२४५। कृतलक्षणेन वा द्रव्येण प्रत्यानयेदेनम् ॥ ०३१२४६। बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारमस्य हस्ते निक्षिप्यापगच्छेत् ॥ ०३१२४७। स एनं बन्धनागारगतो याचेत ॥ ०३१२४८। दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ॥ ०३१२४९। अभिज्ञानेन चास्य गृहे जनमुभयं याचेत ॥ ०३१२५०। अन्यतर्तादाने यथोक्तं पुरस्तात् ॥ ०३१२५१। द्रव्यभोगानामागमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहारोपलिङ्गनम्, अभियोक्तुश्चार्थसामर्थ्यम् ॥ ०३१२५२। एतेन मिथःसमवायो व्याख्यातः ॥ ०३१२५३ तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्विभाषितम् । ०३१२५३ स्वे परे वा जने कार्यं देशकालाग्रवर्णतः ॥E (ळw चोन्चेर्निन्ग्स्लवेसन्द्लबोउरेर्स्) ०३१३०१। उदरदासवर्जमार्यप्राणमप्राप्तव्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः, वैश्यं द्विगुणः, क्षत्रियं त्रिगुणः, ब्राह्मणं चतुर्गुणः ॥ ०३१३०२। परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः, क्रेतृश्रोतृऋणां च ॥ ०३१३०३। म्लेच्छानामदोषः प्रजां विक्रेतुमाधातुं वा ॥ ०३१३०४। न त्वेवार्यस्य दासभावः ॥ ०३१३०५। अथवार्यमाधाय कुलबन्धन आर्याणामापदि, निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्वं निष्क्रीणीरन् ॥ ०३१३०६। सकृदात्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृदुभौ परविषयाभिमुखौ ॥ ०३१३०७। वित्तापहारिणो वा दासस्यार्यभावमपहरतोअर्धदण्डः ॥ ०३१३०८। निष्पतितप्रेतव्यसनिनामाधाता मूल्यं भजेत ॥ ०३१३०९। प्रेतविण्मूत्रोच्छिष्टग्राहणमाहितस्य नग्नस्नापनं दण्डप्रेषणमतिक्रमणं च स्त्रीणां मूल्यनाशकरं, धात्रीपरिचारिकार्धसीतिकोपचारिकाणां च मोक्षकरम् ॥ ०३१३१०। सिद्धमुपचारकस्याभिप्रजातस्यापक्रमणम् ॥ ०३१३११। धात्रीमाहितिकां वाकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः ॥ ०३१३१२। कन्यामाहितिकां वा स्वयमन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः ॥ ०३१३१३। आत्मविक्रयिणः प्रजामार्यां विद्यात् ॥ ०३१३१४। आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम् ॥ ०३१३१५। मूल्येन चार्यत्वं गच्छेत् ॥ ०३१३१६। तेनोदरदासाहितकौ व्याख्यातौ ॥ ०३१३१७। प्रक्षेपानुरूपश्चास्य निष्क्रयः ॥ ०३१३१८। दण्डप्रणीतः कर्मणा दण्डमुपनयेत् ॥ ०३१३१९। आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत ॥ ०३१३२०। गृहेजातदायागतलब्धक्रीतानामन्यतमं दासमूनाष्टवर्षं विबन्धुमकामं नीचे कर्मणि विदेशे दासीं वा सगर्भामप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः, क्रेतृश्रोतृऋणां च ॥ ०३१३२१। दासमनुरूपेण निष्क्रयेणार्यमकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात् ॥ ०३१३२२। दासद्रव्यस्य ज्ञातयो दायादाः, तेषामभावे स्वामी ॥ ०३१३२३। स्वामिनः स्वस्यां दास्यां जातं समातृकमदासं विद्यात् ॥ ०३१३२४। गृह्या चेत्कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ॥ ०३१३२५। दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः, अन्यत्र स्वयंवादिभ्यः ॥ इति दासकल्पः । ०३१३२६। कर्मकरस्य कर्मसम्बन्धमासन्ना विद्युः ॥ ०३१३२७। यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपमसम्भाषितवेतनः ॥ ०३१३२८। कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानामात्मना व्यवहृतानां दशभागमसम्भाषितवेतनो लभेत ॥ ०३१३२९। सम्भाषितवेतनस्तु यथासम्भाषितम् ॥ ०३१३३०। कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपरिचारकादिराशाकारिकवर्गस्तु यथान्यस्तद्विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ॥ ०३१३३१। साक्षिप्रत्ययमेव स्यात् ॥ ०३१३३२। साक्षिणामभावे यतः कर्म ततोअनुयुञ्जीत ॥ ०३१३३३। वेतनादाने दशबन्धो दण्डः, षट्पणो वा ॥ ०३१३३४। अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा ॥ ०३१३३५। नदीवेगज्वालास्तेनव्यालोपरुद्धः सर्वस्वपुत्रदारात्मदानेनार्तस्त्रातारमाहूय निष्तीर्णः कुशलप्रदिष्टं वेतनं दद्यात् ॥ ०३१३३६। तेन सर्वत्रार्तदानानुशया व्याख्याताः ॥ ०३१३३७ लभेत पुंश्चली भोगं संगमस्योपलिङ्गनात् । ०३१३३७ अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा ॥E (डुतिएसोf सेर्वन्त्स्) (ऊन्देर्तकिन्गिन् पर्त्नेर्स्हिप्) ०३१४०१। गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात् ॥ ०३१४०२। अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वानुशयं लभेत, परेण वा कारयितुम् ॥ ०३१४०३। तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम् ॥ ०३१४०४। "नान्यस्त्वया कारयितव्यो, मया वा नान्यस्य कर्तव्यम्" इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः ॥ ०३१४०५। कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात् ॥ ०३१४०६। "उपस्थितमकारयतः कृतमेव विद्याद्" इत्याचार्याः ॥ ०३१४०७। नेति कौटिल्यः ॥ ०३१४०८। कृतस्य वेतनं नाकृतस्यास्ति ॥ ०३१४०९। स चेदल्पमपि कारयित्वा न कारयेत्कृतमेवास्य विद्यात् ॥ ०३१४१०। देशकालातिपातनेन कर्मणामन्यथाकरणे वा नासकामः कृतमनुमन्येत ॥ ०३१४११। सम्भाषितादधिकक्रियायां प्रयासं न मोघं कुर्यात् ॥ ०३१४१२। तेन संघभृता व्याख्याताः ॥ ०३१४१३। तेषामाधिः सप्तरात्रमासीत ॥ ०३१४१४। ततोअन्यमुपस्थापयेत्, कर्मनिष्पाकं च ॥ ०३१४१५। न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ॥ ०३१४१६। तस्यातिक्रमे चतुर्विंशतिपणो दण्डः ॥ ०३१४१७। संघेन परिहृतस्यार्धदण्डः ॥ इति भृतकाधिकारः ॥ ०३१४१८। संघभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३१४१९। कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः ॥ ०३१४२०। पुरुषोपस्थाने समग्रमंशं दद्युः ॥ ०३१४२१। संसिद्धे तूद्धृतपण्ये सन्नस्य तदानीमेव प्रत्यंशं दद्युः ॥ ०३१४२२। सामान्या हि पथिसिद्धिश्चासिद्धिश्च ॥ ०३१४२३। प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः ॥ ०३१४२४। न च प्राकाम्यमपक्रमणे ॥ ०३१४२५। चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात्प्रत्यंशमभयं च ॥ ०३१४२६। पुनःस्तेये प्रवासनम्, अन्यत्रगमने च ॥ ०३१४२७। महापराधे तु दूष्यवदाचरेत् ॥ ०३१४२८। याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन् ॥ ०३१४२९। अग्निष्टोमादिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयमंशं, मध्यमोपसद ऊर्ध्वमर्धमंशं, सुत्ये प्रातःसवनादूर्ध्वं पादोनमंशम् ॥ ०३१४३०। माध्यन्दिनात्सवनादूर्ध्वं समग्रमंशं लभेत ॥ ०३१४३१। नीता हि दक्षिणा भवन्ति ॥ ०३१४३२। बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥ ०३१४३३। तेनाहर्गणदक्षिणा व्याख्याताः ॥ ०३१४३४। सनानामादशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः ॥ ०३१४३५। कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥ ०३१४३६। असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः ॥ ०३१४३७ अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः । ०३१४३७ सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः ॥ ०३१४३८ असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः । ०३१४३८ अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ॥E (ऋएस्चिस्सिओनोf सले अन्द्पुर्छसे) ०३१५०१। विक्रीय पण्यमप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः ॥ ०३१५०२। पण्यदोषो दोषः ॥ ०३१५०३। राजचोराग्न्युदकबाध उपनिपातः ॥ ०३१५०४। बहुगुणहीनमार्तकृतं वाविषह्यम् ॥ ०३१५०५। वैदेहकानामेकरात्रमनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम् ॥ ०३१५०६। व्यामिश्राणामुत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम् ॥ ०३१५०७। आतिपातिकानां पण्यानां "अन्यत्राविक्रेयम्" इत्यवरोधेनानुशयो देयः ॥ ०३१५०८। तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा ॥०३१५०९। क्रीत्वा पण्यमप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः ॥ ०३१५१०। समानश्चानुशयो विक्रेतुरनुशयेन ॥ ०३१५११। विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात्सिद्धमुपावर्तनं, शूद्राणां च प्रकर्मणः ॥ ०३१५१२। वृत्तपाणिग्रहणयोरपि दोषमौपशायिकं दृष्ट्वा सिद्धमुपावर्तनम् ॥ ०३१५१३। न त्वेवाभिप्रजातयोः ॥ ०३१५१४। कन्यादोषमौपशायिकमनाख्याय प्रयच्छतः कन्यां षण्णवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च ॥ ०३१५१५। वरयितुर्वा वरदोषमनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च ॥ ०३१५१६। द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनामुत्साहस्वास्थ्यशुचीनामाख्याने द्वादशपणो दण्डः ॥ ०३१५१७। आत्रिपक्षादिति चतुष्पदानामुपावर्तनम्, आसंवत्सरादिति मनुष्याणाम् ॥ ०३१५१८। तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम् ॥ ०३१५१९ दाता प्रतिग्रहीता च स्यातां नोपहतौ यथा । ०३१५१९ दाने क्रये वानुशयं तथा कुर्युः सभासदः ॥E (णोन्-चोन्वेयन्चे ओf गिfत्स्) (षले wइथोउतोwनेर्स्हिप्) (ऋएलतिओनोf ओwनेर्स्हिप्) ०३१६०१। दत्तस्याप्रदानमृणादानेन व्याख्यातम् ॥ ०३१६०२। दत्तमव्यवहार्यमेकत्रानुशये वर्तेत ॥ ०३१६०३। सर्वस्वं पुत्रदारमात्मानं वा प्रदायानुशयिनः प्रयच्छेत् ॥ ०३१६०४। धर्मदानमसाधुषु कर्मसु चाउपघातिकेषु वा, अर्थदानमनुपकारिष्वपकारिषु वा, कामदानमनर्हेषु च ॥ ०३१६०५। यथा च दाता प्रतिग्रहीता च नोपहतौ स्यातां तथानुशयं कुशलाः कल्पयेयुः ॥ ०३१६०६। दण्डभयादाक्रोशभयादनर्थभयाद्वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च ॥ ०३१६०७। रोषदानं परहिंसायां, राज्ञामुपरि दर्पदानं च ॥ ०३१६०८। तत्रोत्तमो दण्डः ॥ ०३१६०९। प्रातिभाव्यं दण्डशुल्कशेषमाक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् ॥ इति दत्तस्यानपाकर्म । ०३१६१०। अस्वामिविक्रयस्तु - नष्टापहृतमासाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥ ०३१६११। देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत् ॥ ०३१६१२। धर्मस्थश्च स्वामिनमनुयुञ्जीत "कुतस्ते लब्धम्" इति ॥ ०३१६१३। स चेदाचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत ॥ ०३१६१४। विक्रेता चेद्दृश्येत, मूल्यं स्तेयदण्डं च दद्यात् ॥ ०३१६१५। स चेदपसारमधिगच्छेदपसरेदापसारक्षयात् ॥ ०३१६१६। क्षये मूल्यं स्तेयदण्डं च दद्यात् ॥ ०३१६१७। नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत ॥ ०३१६१८। स्वकरणाभावे पञ्चबन्धो दण्डः ॥ ०३१६१९। तच्च द्रव्यं राजधर्म्यं स्यात् ॥ ०३१६२०। नष्टापहृतमनिवेद्योत्कर्षतः स्वामिनः पूर्वः साहसदण्डः ॥ ०३१६२१। शुल्कस्थाने नष्टापहृतोत्पन्नं तिष्ठेत् ॥ ०३१६२२। त्रिपक्षादूर्ध्वमनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन ॥ ०३१६२३। पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात्, चतुष्पणिकमेकखुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्रपशूनाम् ॥ ०३१६२४। रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात् ॥ ०३१६२५। परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत् ॥ ०३१६२६। चोरहृतमविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुमशक्तो वा ॥ ०३१६२७। स्वयंग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत् ॥ ०३१६२८। परविषयाद्वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीत, अन्यत्रार्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च ॥ इत्यस्वामिविक्रयः । ०३१६२९। स्वस्वामिसम्बन्धस्तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम् ॥ ०३१६३०। यत्स्वं द्रव्यमन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत, हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः ॥ ०३१६३१। विंशतिवर्षोपेक्षितमनवसितं वास्तु नानुयुञ्जीत ॥ ०३१६३२। ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञामसंनिधौ परवास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिमाधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च ॥ ०३१६३३। आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परमबाधमाना वसेयुः ॥ ०३१६३४। अल्पां बाधां सहेरन् ॥ ०३१६३५। पूर्वागतो वा वासपर्यायं दद्यात् ॥ ०३१६३६। अप्रदाता निरस्येत ॥ ०३१६३७। वानप्रस्थयतिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण ॥ ०३१६३८। विवादपदेषु चैषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः ॥ ०३१६३९। अहिरण्यसुवर्णाः पाषढाः साधवः ॥ ०३१६४०। ते यथास्वमुपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससंग्रहणेभ्यः ॥ ०३१६४१। तेषु यथोक्ता दण्डाः कार्याः ॥ ०३१६४२ प्रव्रज्यासु वृथाचारान् राजा दण्डेन वारयेत् । ०३१६४२ धर्मो ह्यधर्मोपहतः शास्तारं हन्त्युपेक्षितः ॥E (Fओर्चिब्ले सेइशुरे) ०३१७०१। साहसमन्वयवत्प्रसभकर्म ॥ ०३१७०२। निरन्वये स्तेयम्, अपव्ययने च ॥ ०३१७०३। "रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः" इति मानवाः ॥ ०३१७०४। "मूल्यद्विगुणः" इत्यौशनसाः ॥ ०३१७०५। यथापराध इति कौटिल्यः ॥ ०३१७०६। "पुष्पफलशाकमूलकन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां द्वाद्शपणावरश्चतुर्विंशतिपणपरो दण्डः ॥ ०३१७०७। कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलकद्रव्याणां चतुर्विंशतिपणावरोअष्टचत्वारिंशत्पणपरो दण्डः ॥ ०३१७०८। ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलकद्रव्याणामष्टचत्वारिंशत्पणावरः षण्णवतिपरः पूर्वः साहसदण्डः ॥ ०३१७०९। महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः पञ्चशतपरो मध्यमः साहसदण्डः ॥ ०३१७१०। स्त्रियं पुरुषं वाभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहसदण्डः ॥ इत्याचार्याः ॥ ०३१७११। "यः साहसं "प्रतिपत्ता" इति कारयति स द्विगुणं दद्यात् ॥ ०३१७१२। "यावद्धिरण्यमुपयोक्ष्यते तावद्दास्यामि" इति स चतुर्गुणं दण्डं दद्यात् ॥ ०३१७१३। यः "एतावद्धिरण्यं दास्यामि" इति प्रमाणमुद्दिश्य कारयति स यथोक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥ ०३१७१४। स चेत्कोपं मदं मोहं वापदिशेद्यथोक्तवद्दण्डमेनं कुर्यादिति कौटिल्यः ॥ ०३१७१५ दण्डकर्मसु सर्वेषु रूपमष्टपणं शतम् । ०३१७१५ शतात्परेषु व्याजीं च विद्यात्पञ्चपणं शतम् ॥ ०३१७१६ प्रजानां दोषबाहुल्याद्राज्ञां वा भावदोषतः । ०३१७१६ रूपव्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥E (Vएर्बलिन्जुर्य्) ०३१८०१। वाक्पारुष्यमुपवादः कुत्सनमभिभर्त्सनमिति ॥ ०३१८०२। शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीरोपवादे काणखञ्जादिभिः सत्ये त्रिपणो दण्डः, मिथ्योपवादे षट्पणो दण्डः ॥ ०३१८०३। "शोभनाक्षिमन्तः" इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः ॥ ०३१८०४। कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपणोत्तरा दण्डास्तुल्येषु ॥ ०३१८०५। विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः ॥ ०३१८०६। कुष्ठोन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं, क्लीबभावे स्त्रियो मूत्रफेनोअप्सु विष्ठानिमज्जनं च ॥ ०३१८०७। प्रकृत्युपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तरा दण्डाः, पूर्वेणापरस्य द्विपणाधराः, कुब्राह्मणादिभिश्च कुत्सायाम् ॥ ०३१८०८। तेन श्रुतोपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्युपवादः, प्राज्जूणकगान्धारादीनां च जनपदोपवादा व्याख्याताः ॥ ०३१८०९। यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद्, अकरणे यस्तस्य करणे दण्डस्ततोअर्धदण्डं दद्यात् ॥ ०३१८१०। अशक्तः कोपं मदं मोहं वापदिशेद्द्वादशपणं दण्डं दद्यात् ॥ ०३१८११। जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात् ॥ ०३१८१२ स्वदेशग्रामयोः पूर्वं मध्यमं जातिसंघयोः । ०३१८१२ आक्रोशाद्देवचैत्यानामुत्तमं दण्डमर्हति ॥E (ঢ়्य्सिचलिन्जुर्य्) ०३१९०१। दण्डपारुष्यं स्पर्शनमवगूर्णं प्रहतमिति ॥ ०३१९०२। नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतस्त्रिपणो दण्डः, तैरेवामेध्यैः पादष्ठीविकाभ्यां च षट्पणः, छर्दिमूत्रपुरीषादिभिर्द्वादशपणः ॥ ०३१९०३। नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु ॥ ०३१९०४। विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः ॥ ०३१९०५। पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः ॥ ०३१९०६। पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः ॥ ०३१९०७। पातयित्वापक्रामतोअर्धदण्डः ॥ ०३१९०८। शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात्तदस्यच्छेदयेत् ॥ ०३१९०९। अवगूर्णे निष्क्रयः, स्पर्शेर्धदण्डः ॥ ०३१९१०। तेन चण्डालाशुचयो व्याख्यातः ॥ ०३१९११। हस्तेनावगूर्णे त्रिपणावरो द्वादशपणपरो दण्डः, पादेन द्विगुणः, दुःखोत्पादनेन द्रव्येण पूर्वः साहसदण्डः, प्राणाबाधिकेन मध्यमः ॥ ०३१९१२। काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन दुःखमशोणितमुत्पादयतश्चतुर्विंशतिपणो दण्डः, शोणितोत्पादने द्विगुणः, अन्यत्र दुष्टशोणितात् ॥ ०३१९१३। मृतकल्पमशोणितं घ्नतो हस्तपादपारञ्चिकं वा कुर्वतः पूर्वः साहसदण्डः, पाणिपाददन्तभङ्गे कर्णनासाच्छेदने व्रणविदारणे च्च, अन्यत्र दुष्टव्रणेभ्यः ॥ ०३१९१४। सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजनोपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च ॥ ०३१९१५। विपत्तौ कण्टकशोधनाय नीयेत ॥ ०३१९१६। महाजनस्यैकं घ्नतः प्रत्येकं द्विगुणो दण्डः ॥ ०३१९१७। "पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः" इत्याचार्याः ॥ ०३१९१८। नास्त्यपकारिणो मोक्ष इति कौटिल्यः ॥ ०३१९१९। "कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति" इत्याचार्याः ॥ ०३१९२०। नेति कौटिल्यः ॥ ०३१९२१। पूर्वं पश्चाद्वाभिगतस्य साक्षिणः प्रमाणम्, असाक्षिके घातः कलहोपलिङ्गनं वा ॥ ०३१९२२। घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः ॥ ०३१९२३। कलहे द्रव्यमपहरतो दशपणो दण्डः, क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः, स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः, वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः ॥ ०३१९२४। परकुड्यमभिघातेन क्षोभयतस्त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च ॥ ०३१९२५। दुःखोत्पादनं द्रव्यमन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः ॥ ०३१९२६। क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्विगुणो वा दण्डः, शोणितोत्पादने द्विगुणः ॥ ०३१९२७। महापशूनामेतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च ॥ ०३१९२८। पुरोपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः, क्षुद्रशाखाच्छेदने द्वादशपणः, पीनशाखाच्च्छेदने चतुर्विंशतिपणः, स्कन्धवधे पूर्वः साहसदण्डः, समुच्छित्तौ मध्यमः ॥ ०३१९२९। पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च ॥ ०३१९३० सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ०३१९३० त एव द्विगुणा दण्डाः कार्या राजवनेषु च ॥E (ङम्ब्लिन्गन्द्बेत्तिन्ग्) (ंिस्चेल्लनेओउस्) ०३२००१। द्यूताध्यक्षो द्यूतमेकमुखं कारयेत् ॥ ०३२००२। अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम् ॥ ०३२००३। "द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः ॥ ०३२००४। बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते" इत्याचार्याः ॥ ०३२००५। नेत्य्कौटिल्यः ॥ ०३२००६। पराजितश्चेद्द्विगुणदण्डः क्रियेत न कश्चन राजानमभिसरिष्यति ॥ ०३२००७। प्रायशो हि कितवाः कूटदेविनः ॥ ०३२००८। तेषामध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ॥ ०३२००९। काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः, कूटकर्मणि पूर्वः साहसदण्डो जितप्रत्यादानम्, उपधौ स्तेयदण्डश्च ॥ ०३२०१०। जितद्रव्यादध्यक्षः पञ्चकं शतमाददीत, काकण्यक्षारालाशलाकावक्रयमुदकभूमिकर्मक्रयं च ॥ ०३२०११। द्रव्याणामाधानं विक्रयं च कुर्यात् ॥ ०३२०१२। अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः ॥ ०३२०१३। तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् । इति ॥ ०३२०१४। प्रकीर्णकं तु - याचितकावक्रीतकाहितकनिक्षेपकाणां यथादेशकालमदाने, यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, गुल्मतरदेयं ब्राह्मणं साधयतः, प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः ॥ ०३२०१५। संदिष्टमर्थमप्रयच्छतो, भ्रातृभार्यां हस्तेन लङ्घयतो, रूपाजीवामन्योपरुद्धां गच्छतः, परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहमुद्भिन्दतः, सामन्तचत्वारिंशत्कुल्याबाधामाचरतश्चाष्टचत्वारिंशत्पणो दण्डः ॥ ०३२०१६। कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनीं प्रसह्याधिचरतः, चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नमापद्यनभिधावतो, निष्कारणमभिधावनं कुर्वतः, शाक्याजीवकादीन् वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः शत्यो दण्डः ॥ ०३२०१७। शपथवाक्यानुयोगमनिषृष्टं कुर्वतः, युक्तकर्म चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनः, दास्या गर्भमौषधेन पातयतश्च पूर्वः साहसदण्डः ॥ ०३२०१८। पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभगिनेययोः शिष्याचार्ययोर्वा परस्परमपतितं त्यजतः, सार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वः साहसदण्डः, कान्तारे मध्यमः, तन्निमित्तं भ्रेषयत उत्तमः, सहप्रस्थायिष्वन्येष्वर्धदण्डाः ॥ ०३२०१९। पुरुषमबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालमप्राप्तव्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥ ०३२०२०। पुरुषापराधविशेषेण दण्डविशेषः कार्यः ॥ ०३२०२१। तीर्थकरस्तपस्वी व्याधितः क्षुत्पिपासाध्वक्लान्तस्तिरोजनपदो दण्डखेदी निष्किंचनश्चानुग्राह्याः ॥ ०३२०२२। देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधितानामनाथानामनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देशकालभोगच्छलेनातिहरेयुः ॥ ०३२०२३। पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः ॥ ०३२०२४ एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । ०३२०२४ समाः सर्वेषु भावेषु विश्वास्या लोकसम्प्रियाः ॥E (षुप्प्रेस्सिओनोf च्रिमिनल्स्) (Kएएपिन्ग wअत्छोवेरर्तिसन्स्) ०४१०१। प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टकशोधनं कुर्युः ॥ ०४१०२। अर्थ्यप्रतीकाराः कारुशासितारः संनिक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः ॥ ०४१०३। विपत्तौ श्रेणी निक्षेपं भजेत ॥ ०४१०४। निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम् ॥ ०४१०५। कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः ॥ ०४१०६। अन्यत्र भ्रेषोपनिपाताभ्यां नष्टं विनष्टं वाभ्यावहेयुः ॥ ०४१०७। कार्यस्यान्यथाकरणे वेतननाशस्तद्द्विगुणश्च दण्डः ॥ ०४१०८। तन्तुवाया दशैकादशिकं सूत्रं वर्धयेयुः ॥ ०४१०९। वृद्धिच्छेदे छेदद्विगुणो दण्डः ॥ ०४११०। सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानामध्यर्धगुणं, पत्त्रोर्णाकम्बलदुकूलानां द्विगुणम् ॥ ०४१११। मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः ॥ ०४११२। तेन द्विपटवानं व्याख्यातम् ॥ ०४११३। ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च ॥ ०४११४। रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः ॥ ०४११५। अन्यत्र नेनिजतो वस्त्रोपघातं षट्पणं च दण्डं दद्युः ॥ ०४११६। मुद्गराङ्कादन्यद्वासः परिदधानास्त्रिपणं दण्डं दद्युः ॥ ०४११७। परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च ॥ ०४११८। मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं चैकरात्रोत्तरं दद्युः ॥ ०४११९। पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्नोपचार्यं जात्यं वासः सप्तरात्रिकम् ॥ ०४१२०। ततः परं वेतनहानिं प्राप्नुयुः ॥ ०४१२१। श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः ॥ ०४१२२। परार्ध्यानां पणो वेतनं, मध्यमानामर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम् ॥ ०४१२३। प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः ॥ ०४१२४। तेनोत्तरं व्याख्यातम् ॥ ०४१२५। रजकैस्तुन्नवाया व्याख्याताः ॥ ०४१२६। सुवर्णकाराणामशुचिहस्ताद्रूप्यं सुवर्णमनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्तादष्टचत्वारिंशत्पणः ॥ ०४१२७। प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्डोपधौ च ॥ ०४१२८। सुवर्णान्माषकमपहरतो द्विशतो दण्डः, रूप्यधरणान्माषकमपहरतो द्वादशपणः ॥ ०४१२९। तेनोत्तरं व्याख्यातम् ॥ ०४१३०। वर्णोत्कर्षमपसारणं योगं वा साधयतः पञ्चशतो दण्डः ॥ ०४१३१। तयोरपचरणे रागस्यापहारं विद्यात् ॥ ०४१३२। माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः ॥ ०४१३३। शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः ॥ ०४१३४। तेनोत्तरं व्याख्यातम् ॥ ०४१३५। ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम् ॥ ०४१३६। ताम्रपिण्डो दशभागक्षयः ॥ ०४१३७। पलहीने हीनद्विगुणो दण्डः ॥ ०४१३८। तेनोत्तरं व्याख्यातम् ॥ ०४१३९। सीसत्रपुपिण्डो विंशतिभागक्षयः ॥ ०४१४०। काकणी चास्य पलवेतनम् ॥ ०४१४१। कालायसपिण्डः पञ्चभागक्षयः ॥ ०४१४२। काकणीद्वयं चास्य पलवेतनम् ॥ ०४१४३। तेनोत्तरं व्याख्यातम् ॥ ०४१४४। रूपदर्शकस्य स्थितां पणयात्रामकोप्यां कोपयतः कोप्यामकोपयतो द्वादशपणो दण्डः ॥ ०४१४५। व्याजीपरिशुद्धौ पणयात्रा ॥ ०४१४६। पणान्माषकमुपजीवतो द्वादशपणो दण्डः ॥ ०४१४७। तेनोत्तरं व्याख्यातम् ॥ ०४१४८। कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः ॥ ०४१४९। चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च ॥ ०४१५०। रत्नापहार उत्तमो दण्डः ॥ ०४१५१। खनिरत्ननिधिनिवेदनेषु षष्ठमंशं निवेत्ता लभेत, द्वादशमंशं भृतकः ॥ ०४१५२। शतसहस्रादूर्ध्वं राजगामी निधिः ॥ ०४१५३। ऊने षष्ठमंशं दद्यात् ॥ ०४१५४। पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत ॥ ०४१५५। स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम् ॥ ०४१५६। भिषजः प्राणाबाधिकमनाख्यायोपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः ॥ ०४१५७। मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात् ॥ ०४१५८। कुशीलवा वर्षारात्रमेकस्था वसेयुः ॥ ०४१५९। कामदानमतिमात्रमेकस्यातिवादं च वर्जयेयुः ॥ ०४१६०। तस्यातिक्रमे द्वादशपणो दण्डः ॥ ०४१६१। कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः ॥ ०४१६२। कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ॥ ०४१६३। तेषामयःशूलेन यावतः पणानभिवदेयुस्तावन्तः शिफाप्रहारा दण्डाः ॥ ०४१६४। शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत् ॥ ०४१६५ एवं चोरानचोराख्यान् वणिक्कारुकुशीलवान् । ०४१६६ भिक्षुकान् कुहकांश्चान्यान् वारयेद्देशपीडनात् ॥E (Kएएपिन्ग wअत्छोवेर्त्रदेर्स्) ०४२०१। संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानामाधानं विक्रयं वा स्थापयेत् ॥ ०४२०२। तुलामानभाण्डानि चावेक्षेत पौतवापचारात् ॥ ०४२०३। परिमाणीद्रोणयोरर्धपलहीनातिरिक्तमदोषः ॥ ०४२०४। पलहीनातिरिक्ते द्वादशपणो दण्डः ॥ ०४२०५। तेन पलोत्तरा दण्डवृद्धिर्व्याख्याता ॥ ०४२०६। तुलायाः कर्षहीनातिरिक्तमदोषः ॥ ०४२०७। द्विकर्षहीनातिरिक्ते षट्पणो दण्डः ॥ ०४२०८। तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता ॥ ०४२०९। आढकस्यार्धकर्षहीनातिरिक्तमदोषः ॥ ०४२१०। कर्षहीनातिरिक्ते त्रिपणो दण्डः ॥ ०४२११। तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता ॥ ०४२१२। तुलामानविशेषाणामतोअन्येषामनुमानं कुर्यात् ॥ ०४२१३। तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्विगुणा दण्डाः ॥ ०४२१४। गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्णवतिर्दण्डः ॥ ०४२१५। काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः ॥ ०४२१६। सारभाण्डमित्यसारभाण्डं तज्जातमित्यतज्जातं राधायुक्तमित्युपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं द्विगुणो, द्विपणमूल्यं द्विशतः ॥ ०४२१७। तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता ॥ ०४२१८। कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रयक्रयोपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥ ०४२१९। वैदेहकानां वा सम्भूय पण्यमवरुन्धतामनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥ ०४२२०। तुलामानान्तरमर्घवर्णान्तरं वा - धरकस्य मायकस्य वा पणमूल्यादष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः ॥ ०४२२१। तेन द्विशतोत्तरा दण्डवृद्धिर्व्याख्याता ॥ ०४२२२। धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्णोपधाने द्वादशपणो दण्डः ॥ ०४२२३। यन्निषृष्टमुपजीवेयुस्तदेषां दिवससंजातं संख्याय वणिक्स्थापयेत् ॥ ०४२२४। क्रेतृविक्रेत्रोरन्तरपतितमादायादन्यद्भवति ॥ ०४२२५। तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः ॥ ०४२२६। अन्यथानिचितमेषां पण्याध्यक्षो गृह्णीयात् ॥ ०४२२७। तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम् ॥ ०४२२८। अनुज्ञातक्रयादुपरि चैषां स्वदेशीयानां पण्यानां पञ्चकं शतमाजीवं स्थापयेत्, परदेशीयानां दशकम् ॥ ०४२२९। ततः परमर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद्द्विशतो दण्डः ॥ ०४२३०। तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता ॥ ०४२३१। सम्भूयक्रये चैषामविक्रीते नान्यं सम्भूयक्रयं दद्यात् ॥ ०४२३२। पण्योपघाते चैषामनुग्रहं कुर्यात् ॥ ०४२३३। पण्यबाहुल्यात्पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत ॥ ०४२३४। तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ॥ ०४२३५। तानि दिवसवेतनेन विक्रीणीरन्ननुग्रहेण प्रजानाम् ॥ ०४२३६ देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुल्कं वृद्धिमवक्रयम् । ०४२३६ व्ययानन्यांश्च संख्याय स्थापयेदर्घमर्घवित् ॥E (ऋएमेदिअल्मेअसुरेस्दुरिन्ग्चलमितिएस्) ०४३०१। दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसीति ॥ ०४३०२। तेभ्यो जनपदं रक्षेत् ॥ ०४३०३। ग्रीष्मे बहिरधिश्रयणं ग्रामाः कुर्युः, दशमूलीसंग्रहेणाधिष्ठिता वा ॥ ०४३०४। नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च ॥ ०४३०५। बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत् ॥ ०४३०६। वर्षारात्रमानूपग्रामाः पूरवेलामुत्सृज्य वसेयुः ॥ ०४३०७। काष्ठवेणुनावश्चोपगृह्णीयुः ॥ ०४३०८। उह्यमानमलाबुदृतिप्लवगण्डिकावेणिकाभिस्तारयेयुः ॥ ०४३०९। अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः ॥ ०४३१०। पर्वसु च नदीपूजाः कारयेत् ॥ ०४३११। मायायोगविदो वेदविदो वा वर्षमभिचरेयुः ॥ ०४३१२। वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत् ॥ ०४३१३। व्याधिभयमौपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः ॥ ०४३१४। तेन मरको व्याख्यातः ॥ ०४३१५। तीर्थाभिषेचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत् ॥ ०४३१६। पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत् ॥ ०४३१७। दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वानुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा ॥ ०४३१८। मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥ ०४३१९। निष्पन्नसस्यमन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत ॥ ०४३२०। धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा ॥ ०४३२१। मूषिकभये मार्जारनकुलोत्सर्गः ॥ ०४३२२। तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनामनिग्रहे चान्यत्रारण्यचरेभ्यः ॥ ०४३२३। स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा ॥ ०४३२४। मूषिककरं वा प्रयुञ्जीत ॥ ०४३२५। शान्तिं वा सिद्धतापसाः कुर्युः ॥ ०४३२६। पर्वसु च मूषिकपूजाः कारयेत् ॥ ०४३२७। तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः ॥ ०४३२८। व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा ॥ ०४३२९। लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः ॥ ०४३३०। आवरणिनः शस्त्रपाणयो व्यालानभिहन्युः ॥ ०४३३१। अनभिसर्तुर्द्वादशपणो दण्डः ॥ ०४३३२। स एव लाभो व्यालघातिनः ॥ ०४३३३। पर्वसु च पर्वतपूजाः कारयेत् ॥ ०४३३४। तेन मृगपशुपक्षिसंघग्राहप्रतीकारा व्याख्याताः ॥ ०४३३५। सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ॥ ०४३३६। सम्भूय वापि सर्पान् हन्युः ॥ ०४३३७। अथर्ववेदविदो वाभिचरेयुः ॥ ०४३३८। पर्वसु च नागपूजाः कारयेत् ॥ ०४३३९। तेनोदकप्राणिभयप्रतीकारा व्याख्याताः ॥ ०४३४०। रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः ॥ ०४३४१। पर्वसु च वितर्दिच्छत्रोल्लोपिकाहस्तपताकाच्छागोपहारैश्चैत्यपूजाः कारयेत् ॥ ०४३४२। "चरुं वश्चरामः" इत्येवं सर्वभयेष्वहोरात्रं चरेयुः ॥ ०४३४३। सर्वत्र चोपहतान् पितेवानुगृह्णीयात् ॥ ०४३४४ मायायोगविदस्तस्माद्विषये सिद्धतापसाः । ०४३४४ वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः ॥E (ङुअर्दिन्गगैन्स्त्पेर्सोन्स्wइथ्सेच्रेत्मेअन्सोf इन्चोमे) ०४४०१। समाहर्तृप्रणिधौ जनपदरक्षणमुक्तम् ॥ ०४४०२। तस्य कण्टकशोधनं वक्ष्यामः ॥ ०४४०३। समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्रचरचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिकमौहूर्तिकचिकित्सकोन्मत्तमूकबधिरजडान्धवैदेहककारुशिल्पिकुशीलववेशशौण्डिकापूपिकपाक्वमांसिकाउदनिकव्यञ्जनान् प्रणिदध्यात् ॥ ०४४०४। ते ग्रामाणामध्यक्षाणां च शौचाशौचं विद्युः ॥ ०४४०५। यं चात्र गूढाजीविनं शङ्केत तं सत्त्रिणापसर्पयेत् ॥ ०४४०६। धर्मस्थं विश्वासोपगतं सत्त्री ब्रूयात्- "असौ मे बन्धुरभियुक्तः, तस्यायमनर्थः प्रतिक्रियताम्, अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४४०७। स चेत्तथा कुर्यादुपदाग्राहक इति प्रवास्येत ॥ ०४४०८। तेन प्रदेष्टारो व्याख्याताः ॥ ०४४०९। ग्रामकूटमध्यक्षं वा सत्त्री ब्रूयात्- "असौ जाल्मः प्रभूतद्रव्यः, तस्यायमनर्थः, तेनैनमाहारयस्व" इति ॥ ०४४१०। स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ॥ ०४४११। कृतकाभियुक्तो वा कूटसाक्षिणोअभिज्ञातानर्थवैपुल्येनारभेत ॥ ०४४१२। ते चेत्तथा कुर्युः कूटसाक्षिण इति प्रवास्येरन् ॥ ०४४१३। तेन कूटश्रावणकारका व्याख्याताः ॥ ०४४१४। यं वा मन्त्रयोगमूलकर्मभिः श्माशानिकैर्वा संवदनकरकं मन्येत तं सत्त्री ब्रूयात्- "अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयताम्, अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४४१५। स चेत्तथा कुर्यात्संवदनकारक इति प्रवास्येत ॥ ०४४१६। तेन कृत्याभिचारशीलौ व्याख्यातौ ॥ ०४४१७। यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्याहारव्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात्- "असौ मे शत्रुः, तस्योपघातः क्रियताम्, अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४४१८। स चेत्तथा कुर्याद्रसद इति प्रवास्येत ॥ ०४४१९। तेन मदनयोगव्यवहारी व्याख्यातः ॥ ०४४२०। यं वा नानालोहक्षाराणामङ्गारभस्मासंदंशमुष्टिकाधिकरणीबिम्बटङ्कमूषाणामभीक्ष्णक्रेतारं मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मारोपकरणसंसर्गं कूटरूपकारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ॥ ०४४२१। प्रज्ञातः कूटरूपकारक इति प्रवास्येत ॥ ०४४२२। तेन रागस्यापहर्ता कूटसुवर्णव्यवहारी च व्याख्यातः ॥ ०४४२३ आरब्धारस्तु हिंसायां गूढाजीवास्त्रयोदश । ०४४२३ प्रवास्या निष्क्रयार्थं वा दद्युर्दोषविशेषतः ॥E (डेतेच्तिओनोf च्रिमिनल्स्थ्रोउघ्सेच्रेतगेन्त्सिन् थे दिस्गुइसे ओf होल्य्मेन्) ०४५०१। सत्त्रिप्रयोगादूर्ध्वं सिद्धव्यञ्जना माणवान्माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान् ॥ ०४५०२। तेषां कृतोत्साहानां महान्तं संघमादाय रात्रावन्यं ग्राममुद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - "इहैव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम्" इति ॥ ०४५०३। ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥ ०४५०४। अन्तर्धानमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवानतिक्रामयेयुः ॥ ०४५०५। प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ॥ ०४५०६। संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥ ०४५०७। उपलब्धविद्याप्रभावाणां पुरश्चरणाद्यादिशेयुरभिज्ञानार्थम् ॥ ०४५०८। कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥ ०४५०९। अनुप्रविष्टा वैकत्र ग्राहयेयुः ॥ ०४५१०। कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः ॥ ०४५११। गृहीतान् पूर्वापदानसहायाननुयुञ्जीत ॥ ०४५१२। पुराणचोरव्यञ्जना वा चोराननुप्रविष्टास्तथैव कर्म कारयेयुर्ग्राहयेयुश्च ॥ ०४५१३। गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत्- "चोरग्रहणीं विद्यामधीते राजा, तस्योपदेशादिमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह्" इति ॥ ०४५१४। यं चात्रापसर्पोपदेशेन शम्याप्रतोदादीनामपहर्तारं जानीयात्तमेषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ॥ ०४५१५। पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकाननुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनानभियोजयेयुः ॥ ०४५१६। अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्यदनेन ॥ ०४५१७। गृहीतलोप्त्रभारानायतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः ॥ ०४५१८ पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् । ०४५१८ सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ॥E (आर्रेस्तोन् सुस्पिचिओन्, wइथ्थे स्तोलेनर्तिच्ले अन्द्ब्यिन्दिचतिओन्सोf थे अच्त्) ०४६०१। सिद्धप्रयोगादूर्ध्वं शङ्कारूपकर्माभिग्रहः ॥ ०४६०२ क्षीणदायकुटुम्बम्, अल्पनिर्वेशं, विपरीतदेशजातिगोत्रनामकर्मापदेशं, प्रच्छन्नवृत्तिकर्माणं,- ०४६०२ मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तम्, अतिव्ययकर्तारं, पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तम्,- ०४६०२ अभीक्ष्णप्रवासिनम्, अविज्ञातस्थानगमनम्, एकान्तारण्यनिष्कुटविकालचारिणं, प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं,- ०४६०२ सद्यःक्षतव्रणानां गूढप्रतीकारकारयितारम्, अन्तर्गृहनित्यम्, अभ्यधिगन्तारं, कान्तापरं,- ०४६०२ परपरिग्रहाणां परस्त्रीद्रव्यवेश्मनामभीक्ष्णप्रष्टारं, कुत्सितकर्मशास्त्रोपकरणसंसर्गं,- ०४६०२ विरात्रे छन्नकुड्यच्छायासंचारिणं, विरूपद्रव्याणामदेशकालविक्रेतारं, जातवैरशयं, हीनकर्मजातिं,- ०४६०२ । विगूहमानरूपं, लिङ्गेनालिङ्गिनं, लिङ्गिनं वा भिन्नाचारं, पूर्वकृतापदानं, स्वकर्मभिरपदिष्टं,- ०४६०२ । नागरिकमहामात्रदर्शने गुहमानमपसरन्तमनुच्छ्वासोपवेशिनमाविग्नं शुष्कभिन्नस्वरमुखवर्णं,- ०४६०२ । शस्त्रहस्तमनुष्यसम्पातत्रासिनं, हिंस्रस्तेननिधिनिक्षेपापहारपरप्रयोगगूढाजीविनामन्यतमं शङ्केत ॥ इति शङ्काभिग्रहः ॥ ०४६०३। रूपाभिग्रहस्तु - नष्टापहृतमविद्यमानं तज्जातव्यवहारिषु निवेदयेत् ॥ ०४६०४। तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः साचिव्यकरदोषमाप्नुयुः ॥०४६०५। अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ॥ ०४६०६। न चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रयं वा कुर्युः ॥ ०४६०७। तच्चेन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत्"कुतस्ते लब्धम्" इति ॥ ०४६०८। स चेत्ब्रूयात्"दायाद्यादवाप्तम्, अमुष्माल्लब्धं क्रीतं कारितमाधिप्रच्छन्नम्, अयमस्य देशः कालश्चोपसम्प्राप्तेः, अयमस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति, तस्यागमसमाधौ मुच्येत ॥ ०४६०९। नाष्टिकश्चेत्तदेव प्रतिसंदध्यात्, यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यमिति विद्यात् ॥ ०४६१०। चतुष्पदद्विपदानामपि हि रूपलिङ्गसामान्यं भवति, किमङ्ग पुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानामिति ॥ ०४६११। स चेद्ब्रूयात्"याचितकमवक्रीतकमाहितकं निक्षेपमुपनिधिं वैयावृत्यकर्म वामुष्य" इति, तस्यापसारप्रतिसंधानेन मुच्येत ॥ ०४६१२। "नैवम्" इत्यपसारो वा ब्रूयात्, रूपाभिगृहीतः परस्य दानकारणमात्मनः प्रतिग्रहकारणमुपलिङ्गनं वा दायकदापकनिबन्धकप्रतिग्राहकोपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ॥ ०४६१३। उज्झितप्रनष्टनिष्पतितोपलब्धस्य देशकाललाभोपलिङ्गनेन शुद्धिः ॥ ०४६१४। अशुद्धस्तच्च तावच्च दण्डं दद्यात् ॥ ०४६१५। अन्यथा स्तेयदण्डं भजेत ॥ इति रूपाभिग्रहः । ०४६१६। कर्माभिग्रहस्तु - मुषितवेश्मनः प्रवेशनिष्कसनमद्वारेण, द्वारस्य संधिना बीजेन वा वेधम्, उत्तमागारस्य जालवातायननीप्रवेधम्, आरोहणावतरणे च कुड्यस्य वेधम्, उपखननं वा गूढद्रव्यनिक्षेपणग्रहणोपायम्, उपदेशोपलभ्यमभ्यन्तरच्छेदोत्करपरिमर्दोपकरणमभ्यन्तरकृतं विद्यात् ॥ ०४६१७। विपर्यये बाह्यकृतम्, उभयत उभयकृतम् ॥ ०४६१८ अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं तस्करोपकरणसंसर्गं, स्त्रियं वा दरिद्रकुलामन्यप्रसक्तां वा,- ०४६१८ परिचारकजनं वा तद्विधाचारम्, अतिस्वप्नं, निद्राक्लान्तम्, आविग्नं शुष्कभिन्नस्वरमुखवर्णम्, अनवस्थितम्,- ०४६१८ अतिप्रलापिनम्, उच्चारोहणसंरब्धगात्रं, विलूननिघृष्टभिन्नपाटितशरीरवस्त्रं, जातकिणसंरब्धहस्तपादं,- ०४६१८ पांसुपूर्णकेशनखं विलूनभुग्नकेशनखं वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्रं सद्योदौतहस्तपादं वा,- ०४६१८ पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं, प्रवेशनिष्कसनयोर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं परीक्षेत ॥ ०४६१९। चोरं पारदारिकं वा विद्यात् ॥ ०४६२० सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् । ०४६२० कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः ॥E (ईनॄउएस्तोf सुद्देन् देअथ्स्) ०४७०१। तैलाभ्यक्तमाशुमृतकं परीक्षेत ॥ ०४७०२। निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमान्मीलिताक्षं सव्यञ्जनकण्ठं पीटननिरुद्धोच्छ्वासहतं विद्यात् ॥ ०४७०३। तमेव संकुचितबाहुसक्थिमुद्बन्धहतं विद्यात् ॥ ०४७०४। शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपितं विद्यात् ॥ ०४७०५। निस्तब्धगुदाक्षं संदष्टजिह्वमाध्मातोदरमुदकहतं विद्यात् ॥ ०४७०६। शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात् ॥ ०४७०७। सम्भग्नस्फुटितगात्रमवक्षिप्तं विद्यात् ॥ ०४७०८। श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेनोपदिग्धमुखं विषहतं विद्यात् ॥ ०४७०९। तमेव स-शोणितदंशं सर्पकीटहतं विद्यात् । ०४७१०। विक्षिप्तवस्त्रगात्रमतिवन्तविरिक्तं मदनयोगहतं विद्यात् ॥ ०४७११। अतोअन्यतमेन कारणेन हतं हत्वा वा दण्डभयादुद्बद्धनिकृत्तकण्ठं विद्यात् ॥ ०४७१२। विषहतस्य भोजनशेषं वयोभिः परीक्षेत ॥ ०४७१३। हृदयादुद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायदिन्द्रधनुर्वर्णं वा विषयुक्तं विद्यात्, दग्धस्य हृदयमदग्धं दृष्ट्वा वा ॥ ०४७१४। तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत, दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं, दायवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम् ॥ ०४७१५। तदेव हतोद्बद्धस्य परीक्षेत ॥ ०४७१६। स्वयमुद्बद्धस्य वा विप्रकारमयुक्तं मार्गेत ॥ ०४७१७। सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्थासमवायो वा विवादपदानामन्यतमद्वा रोषस्थानम् ॥ ०४७१८। रोषनिमित्तो घातः ॥ ०४७१९। स्वयंादिष्टपुरुषैर्वा, चोरैरर्थनिमित्तं, सादृश्यादन्यवैरिभिर्वा हतस्य घातमासन्नेभ्यः परीक्षेत ॥ ०४७२०। येनाहूतः सह स्थितः प्रस्थितो हतभूमिमानीतो वा तमनुयुञ्जीत ॥ ०४७२१। ये चास्य हतभूमावासन्नचरास्तानेकैकशः पृच्छेत्"केनायमिहानीतो हतो वा, कः सशस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः" इति ॥ ०४७२२। ते यथा ब्रूयुस्तथानुयुञ्जीत ॥ ०४७२३ अनाथस्य शरीरस्थमुपभोगं परिच्छदम् । ०४७२३ वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः ॥ ०४७२४ अनुयुञ्जीत संयोगं निवासं वासकारणम् । ०४७२४ कर्म च व्यवहारं च ततो मार्गणमाचरेत् ॥ ०४७२५ रज्जुशस्त्रविषैर्वापि कामक्रोधवशेन यः । ०४७२५ घातयेत्स्वयमात्मानं स्त्री वा पापेन मोहिता ॥ ०४७२६ रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् । ०४७२६ न श्मशानविधिस्तेषां न सम्बन्धिक्रियास्तथा ॥ ०४७२७ बन्धुस्तेषां तु यः कुर्यात्प्रेतकार्यक्रियाविधिम् । ०४७२७ तद्गतिं स चरेत्पश्चात्स्वजनाद्वा प्रमुच्यते ॥ ०४७२८ संवत्सरेण पतति पतितेन समाचरन् । ०४७२८ याजनाध्यापनाद्यौनात्तैश्चान्योअपि समाचरन् ॥E (ईन्वेस्तिगतिओन् थ्रोउघिन्तेर्रोगतिओनन्द्थ्रोउघ्तोर्तुरे) ०४८०१। मुषितसंनिधौ बाह्यानामभ्यन्तराणां च साक्षिणामभिशस्तस्य देशजातिगोत्रनामकर्मसारसहायनिवासाननुयुञ्जीत ॥ ०४८०२। तांश्चापदेशैः प्रतिसमानयेत् ॥ ०४८०३। ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ॥ ०४८०४। तस्यापसारप्रतिसंधाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः ॥ ०४८०५। त्रिरात्रादूर्ध्वमग्राह्यः शङ्कितकः पृच्छाभावादन्यत्रोपकरणदर्शनात् ॥ ०४८०६। अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च ॥ ०४८०७। चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धः स्यात् ॥ ०४८०८। शुद्धं परिवासयतः पूर्वः साहसदण्डः ॥ ०४८०९। शङ्कानिष्पन्नमुपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत् ॥ ०४८१०। कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत् ॥ ०४८११। एतेषां कारणानामनभिसंधाने विप्रलपन्तमचोरं विद्यात् ॥ ०४८१२। दृश्यते ह्यचोरोअपि चोरमार्गे यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन गृह्यमाणश्चोरभाण्डस्योपवासेन वा, यथाणिमाण्डव्यः कर्मक्लेशभयादचोरः "चोरोअस्मि" इति ब्रुवाणः ॥ ०४८१३। तस्मात्समाप्तकरणं नियमयेत् ॥ ०४८१४। मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं क्षुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं वा न कर्म कारयेत् ॥ ०४८१५। तुल्य शीलपुंश्चलीप्रापाविककथावकाशभोजनदातृभिरपसर्पयेत् ॥ ०४८१६। एवमतिसंदध्यात्, यथा वा निक्षेपापहारे व्याख्यातम् ॥ ०४८१७। आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम् ॥ ०४८१८। स्त्रियास्त्वर्धकर्म, वाक्यानुयोगो वा ॥ ०४८१९। ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतस्तपस्विनश्च ॥ ०४८२०। तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च ॥ ०४८२१। व्यावहारिकं कर्मचतुष्कं - षड्दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च ॥ ०४८२२। परं पापकर्मणां नव वेत्रलताः, द्वादश कशाः, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत्तलाः, द्वौ वृश्चिकबन्धौ, उल्लंबने च द्वे, सूची हस्तस्य, यवागूपीतस्य एकपर्वदहनमङ्गुल्याः, स्नेहपीतस्य प्रतापनमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या च ॥ ०४८२३। इत्यष्टादशकं कर्म ॥ ०४८२४। तस्योपकरणं प्रमाणं प्रहरणं प्रधरणमवधारणं च खरपट्टादागमयेत् ॥ ०४८२५। दिवसान्तरमेकैकं च कर्म कारयेत् ॥ ०४८२६। पूर्वकृतापदानं प्रतिज्ञायापहरन्तमेकदेशदृष्टद्रव्यं कर्मणा रूपेण वा गृहीतं राजकोशमवस्तृणन्तं कर्मवध्यं वा राजवचनात्समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् ॥ ०४८२७। सर्वापराधेष्वपीडनीयो ब्राह्मणः ॥ ०४८२८। तस्याभिशस्ताङ्को ललाटे स्याद्व्यवहारपतनाय, स्तेयो श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगम्, सुरापाने मद्यध्वजः ॥ ०४८२९ ब्राह्मणं पापकर्माणमुद्घुष्याङ्ककृतव्रणम् । ०४८२९ कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ॥E (Kएएपिन्ग wअत्छोवेरोffइचेर्सोf अल्ल्देपर्त्मेन्त्स्) ०४९०१। समाहर्तृप्रदेष्टारः पूर्वमध्यक्षाणामध्यक्षपुरुषाणां च नियमनं कुर्युः ॥ ०४९०२। खनिसारकर्मान्तेभ्यः सारं रत्नं वापहरतः शुद्धवधः ॥ ०४९०३। फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यमुपस्करं वा पूर्वः साहसदण्डः ॥ ०४९०४। पण्यभूमिभ्यो वा राजपण्यं माषमूल्यादूर्ध्वमापादमूल्यादित्यपहरतो द्वादशपणो दण्डः, आद्विपादमूल्यादिति चतुर्विंशतिपणः, आत्रिपादमूल्यादिति षट्त्रिंशत्पणः, आपणमूल्यादित्यष्टचत्वारिंशत्पणः, आद्विपणमूल्यादिति पूर्वः साहसदण्डः, आचतुष्पणमूल्यादिति मध्यमः, आष्टपणमूल्यादित्युत्तमः, आदशपणमूल्याद् इति वधः ॥ ०४९०५। कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्डोपस्करापहारेष्वर्धमूल्येषु एत एव दण्डाः ॥ ०४९०६। कोशभाण्डागाराक्षशालाभ्यश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः ॥ ०४९०७। चोराणामभिप्रधर्षणे चित्रो घातः ॥ ०४९०८। इति राजपरिग्रहेषु व्याख्यातम् ॥ ०४९०९। बाह्येषु तु - प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्डमुपस्करं वा माषमूल्यादूर्ध्वमापादमूल्यादित्यपहरतस्त्रिपणो दण्डः, गोमयप्रदेहेन वा प्रलिप्यावघोषणमाद्विपादमूल्यादिति षट्पणः, गोमयभस्मना वा प्रलिप्यावघोषणम्, आत्रिपादमूल्यादिति नवपणः, गोमयभस्मना वा प्रलिप्यावघोषणम्, शरावमेखलया वा आपणमूल्यादिति द्वादशपणः, मुण्डनं प्रव्राजनं वा आद्विपणमूल्यादिति चतुर्विंशतिपणः, मुण्डस्येष्टकाशकलेन प्रव्राजनं वा आचतुष्पणमूल्यादिति षट्त्रिंशत्पणहापञ्चपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आदशपणमूल्यादिति पूर्वः साहसदण्डहाविंशतिपणमूल्यादित्द्विशतहात्रिंशत्पणमूल्यादिति पञ्चशतहाचत्वारिंशत्पणमूल्यादिति साहस्रहापञ्चाशत्पणमूल्यादिति वधः ॥ ०४९१०। प्रसह्य दिवा रात्रौ वान्तर्यामिकमपहरतोअर्धमूल्येषु एत एव दण्डाः ॥ ०४९११। प्रसह्य दिवा रात्रौ वा स-शस्त्रस्यापहरतश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः ॥ ०४९१२। कुटुंबिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्योत्तमवधा दण्डाः, यथापराधं वा ॥ ०४९१३। धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वमस्मै साहसदण्डं कुर्यात्, वाक्पारुष्ये द्विगुणम् ॥ ०४९१४। पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यममस्मै साहसदण्डं कुर्यात् ॥ ०४९१५। देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यमदेशेनातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तमपवाहयति, मार्गापन्नं वाक्यमुत्क्रमयति, मतिसाहाय्यं साक्षिभ्यो ददाति, तारितानुशिष्टं कार्यं पुनरपि गृह्णाति, उत्तममस्मै साहसदण्डं कुर्यात् ॥ ०४९१६। पुनरपराधे द्विगुणं स्थानाद्व्यवरोपणं च ॥ ०४९१७। लेखकश्चेदुक्तं न लिखति, अनुक्तं लिखति, दुरुक्तमुपलिखति, सूक्तमुल्लिखति, अर्थोत्पत्तिं वा विकल्पयति, इति पूर्वमस्मै साहसदण्डं कुर्याद्, यथापराधं वा ॥ ०४९१८। धर्मस्थः प्रदेष्टा वा हैरण्यदण्डमदण्ड्ये क्षिपति क्षेपद्विगुणमस्मै दण्डं कुर्यात्, हीनातिरिक्ताष्टगुणं वा ॥ ०४९१९। शरीरदण्डं क्षिपति शारीरमेव दण्डं भजेत, निष्क्रयद्विगुणं वा ॥ ०४९२०। यं वा भूतमर्थं नाशयति अभूतमर्थं करोति तदष्टगुणं दण्डं दद्यात् ॥ ०४९२१। धर्मस्थीये चारके बन्धनागारे वा शय्यासनभोजनोच्चारसंचाररोधबन्धनेषु त्रिपणोत्तरा दण्डाः कर्तुः कारयितुश्च ॥ ०४९२२। चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहसदण्डः, अभियोगदानं च, बन्धनागारात्सर्वस्वं वधश्च ॥ ०४९२३। बन्धनागाराध्यक्षस्य संरुद्धकमनाख्याय चारयतश्चतुर्विंशतिपणो दण्डः, कर्म कारयतो द्विगुणः, स्थानान्यत्वं गमयतोअन्नपानं वा रुन्धतः षण्णवतिर्दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहसदण्डः, घ्नतः साहस्रः ॥ ०४९२४। परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधिचरतः पूर्वः साहसदण्डः, चोरडामरिकभार्यां मध्यमः, संरुद्धिकामार्यामुत्तमः ॥ ०४९२५। संरुद्धस्य वा तत्रैव घातः ॥ ०४९२६। तदेवाक्षणगृहीतायामार्यायां विद्यात्, दास्यां पूर्वः साहसदण्डः ॥ ०४९२७। चारकमभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धनागारात्सर्वस्वं वधश्च ॥ ०४९२८ एवमर्थचरान् पूर्वं राजा दण्डेन शोधयेत् । ०४९२८ शोधयेयुश्च शुद्धास्ते पौरजानपदान् दमैः ॥E (ऋएदेम्प्तिओन् fरों थे चुत्तिन्गोf इन्दिविदुअल्लिम्ब्स्) ०४१००१। तीर्थघातग्रन्थिभेदोर्ध्वकराणां प्रथमेपराधे संदेशच्छेदनं चतुष्पञ्चाशत्पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिणहस्तवधश्चतुःशतो वा दण्डः, चतुर्थे यथाकामी वधः ॥ ०४१००२। पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः, नासाग्रच्छेदनं वा चण्डालारण्यचराणामर्धदण्डाः ॥ ०४१००३। पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानामादाने तच्च तावच्च दण्डः ॥ ०४१००४। मृगद्रव्यवनान्मृगद्रव्यापहारे शात्यो दण्डः ॥ ०४१००५। बिंबविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः ॥ ०४१००६। कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्डः, स्थूलकद्रव्यापहारे द्विशतः, कृषिद्रव्यापहारे च ॥ ०४१००७। दुर्गमकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद्वा निक्षेपं गृहीत्वापसरतः काण्डरावधो, द्विशातो वा दण्डः ॥ ०४१००८। चक्रयुक्तं नावं क्षुद्रपशुं वापहरत एकपादवधः, त्रिशतो वा दण्डः ॥ ०४१००९। कूटकाकण्यक्षारालाशलाकाहस्तविषमकारिण एकहस्तवधः, चतुःशतो वा दण्डः ॥ ०४१०१०। स्तेनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः संगृहीतायाश्च कर्णनासाच्छेदनम्, पञ्चशतो वा दण्डः, पुंषो द्विगुणः ॥ ०४१०११। महापशुमेकं दासं दासीं वापहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः ॥ ०४१०१२। वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्यारोहणे चैकहस्तपादवधः, सप्तशतो वा दण्डः ॥ ०४१०१३। शूद्रस्य ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो राजद्विष्टमादिशतो द्विनेत्रभेदिनश्च योगाञ्जनेनान्धत्वम्, अष्टशतो वा दण्डः ॥ ०४१०१४। चोरं पारदारिकं वा मोक्षयतो राजशासनमूनमतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यमपरहतः कूटव्यवहारिणो विमांसविक्रयिणश्च वामहस्तद्विपादवधो, नवशतो वा दण्डः ॥ ०४१०१५। मानुषमांसविक्रये वधः ॥ ०४१०१६। देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः, शुद्धवधो वा ॥ ०४१०१७ पुरुषं चापराधं च कारणं गुरुलाघवम् । ०४१०१७ अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च ॥ ०४१०१८ उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि । ०४१०१८ राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ॥E (ळw ओf चपितल्पुनिस्ह्मेन्त्, सिम्प्ले अन्द्wइथ्तोर्तुरे) ०४११०१। कलहे घ्नतः पुरुषं चित्रो घातः ॥ ०४११०२। सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च ॥ ०४११०३। शस्त्रेण प्रहरत उत्तमो दण्डः ॥ ०४११०४। मदेन हस्तवधः, मोहेन द्विशतः ॥ ०४११०५। वधे वधः ॥ ०४११०६। प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः ॥ ०४११०७। प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकावस्कन्दकोपवेधकान् पथिवेश्मप्रतिरोधकान् राजहस्त्यश्वरथानां हिंसकान् स्तेनान् वा शूलानारोहयेयुः ॥ ०४११०८। यश्चैनान् दहेदपनयेद्वा स तमेव दण्डं लभेत, साहसमुत्तमं वा ॥ ०४११०९। हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैयावृत्यकर्मसूत्तमो दण्डः, परिभाषणमविज्ञाते ॥ ०४१११०। हिंस्रस्तेनानां पुत्रदारमसमन्त्रं विसृजेत्, समन्त्रमाददीत ॥ ०४११११। राज्यकामुकमन्तःपुरप्रधर्षकमटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रदीपिकं घातयेत् ॥ ०४१११२। ब्राह्मणं तमः प्रवेशयेत् ॥ ०४१११३। मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वात्वक्शिरःप्रादीपिकं घातयेत् ॥ ०४१११४। तेषामाक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तदङ्गान्मोच्यः ॥ ०४१११५। यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः ॥ ०४१११६। दशावरं च यूथं विद्यात् ॥ ०४१११७। उदकधारणं सेतुं भिन्दतस्तत्रैवाप्सु निमज्जनम्, अनुदकमुत्तमः साहसदण्डः, भग्नोत्सृष्टकं मध्यमः ॥ ०४१११८। विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमपः प्रवेशयेदगर्भिणीम्, गर्भिणीं मासावरप्रजाताम् ॥ ०४१११९। पतिगुरुप्रजाघातिकामग्निविषदां संधिच्छेदिकां वा गोभिः पाटयेत् ॥ ०४११२०। विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमग्निना दाहयेत् ॥ ०४११२१। राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वामुत्पाटयेत् ॥ ०४११२२। प्रहरणावरणस्तेनमनायुधीयमिषुभिर्घातयेत् ॥ ०४११२३। आयुधीयस्योत्तमः ॥ ०४११२४। मेढ्रफलोपघातिनस्तदेवच्छेदयेत् ॥ ०४११२५। जिह्वानासोपघाते संदंशवधः ॥ ०४११२६ एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् । ०४११२६ अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः ॥E (Vइओलतिओनोf मैदेन्स्) ०४१२०१। सवर्णामप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः ॥ ०४१२०२। मृतायां वधः ॥ ०४१२०३। प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः ॥ ०४१२०४। पितुश्चावहीनं दद्यात् ॥ ०४१२०५। न च प्राकाम्यमकामायां लब्भेत ॥ ०४१२०६। सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियास्त्वर्धदण्डः ॥ ०४१२०७। परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च ॥ ०४१२०८। सप्तार्तवप्रजातां वरणादूर्ध्वमलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात् ॥ ०४१२०९। ऋतुप्रतिरोधिभिः स्वाम्यादपक्रामति ॥ ०४१२१०। त्रिवर्षप्रजातार्तवायास्तुल्यो गन्तुमदोषः, ततः परमतुल्योअप्यनलंकृतायाः ॥ ०४१२११। पितृद्रव्यादाने स्तेयं भजेत ॥ ०४१२१२। परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः ॥ ०४१२१३। न च प्राकांयमकामायां लभेत ॥ ०४१२१४। कन्यामन्यां दर्शयित्वान्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम्, हीनायां द्विगुणः ॥ ०४१२१५। प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात् ॥ ०४१२१६। अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात् ॥ ०४१२१७। अन्यशोणितोपधाने द्विशतो दण्डः, मिथ्याभिशंसिनश्च पुंसः ॥ ०४१२१८। शुल्कव्ययकर्मणी च जीयेत ॥ ०४१२१९। न च प्राकांयमकामायां लभेत ॥ ०४१२२०। स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम् ॥ ०४१२२१। अकामायाः शत्यो दण्ड आत्मरागार्थम्, शुल्कदानं च ॥ ०४१२२२। स्वयं प्रकृता राजदास्यं गच्छेत् ॥ ०४१२२३। बहिर्ग्रामस्य प्रकृतायां मिथ्याभिशंसने च द्विगुणो दण्डः ॥ ०४१२२४। प्रसह्य कन्यामपहरतो द्विशतः, स-सुवर्णामुत्तमः ॥ ०४१२२५। बहूनां कन्यापहारिणां पृथग्यथोक्ता दण्डाः ॥ ०४१२२६। गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः ॥०४१२२७। दासस्य दास्या वा दुहितरमदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च ॥ ०४१२२८। निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च ॥ ०४१२२९। साचिव्यावकाशदाने कर्तृसमो दण्डः ॥ ०४१२३०। प्रोषितपतिकामपचरन्तीं पतिबन्धुस्तत्पुरुषो वा संगृह्णीयात् ॥ ०४१२३१। संगृहीता पतिमाकाङ्क्षेत ॥ ०४१२३२। पतिश्चेत्क्षमेत विसृज्येतोभयम् ॥ ०४१२३३। अक्षमायां स्त्रियाः कर्णनासाच्छेदनम्, वधं जारश्च प्राप्नुयात् ॥ ०४१२३४। जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतस्तदष्टगुणः ॥ ०४१२३५। केशाकेशिकं संग्रहणम्, उपलिङ्गनाद्वा शरीरोपभोगानाम्, तज्जातेभ्यः(तज्ज्ञातेभ्यः? च्fण्१२६०)), स्त्रीवचनाद्वा ॥ ०४१२३६। परचक्राटवीहृतामोघप्रव्यूढामरण्येषु दुर्भिक्षे वा त्यक्तां प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासंभाषितं समुपभुञ्जीत ॥ ०४१२३७। जातिविशिष्टामकामामपत्यवतीं निष्क्रयेण दद्यात् ॥ ०४१२३८ चोरहस्तान्नदीवेगाद्दुर्भिक्षाद्देशविभ्रमात् । ०४१२३८ निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृतेति वा ॥ ०४१२३९ भुञ्जीत स्त्रियमन्येषां यथासंभाषितं नरः । ०४१२३९ न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा ॥ ०४१२४० न चोत्तमां न चाकामां पूर्वापत्यवतीं न च । ०४१२४० ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ॥E (ড়ुनिस्ह्मेन्त्स्fओर्त्रन्स्ग्रेस्सिओन्स्) ०४१३०१। ब्राह्मणमपेयमभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः ॥ ०४१३०२। स्वयं ग्रसितारो निर्विषयाः कार्याः ॥ ०४१३०३। परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः ॥ ०४१३०४। दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥ ०४१३०५। भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, अन्यत्र प्रतिषेधात् ॥ ०४१३०६। स्ववेश्मनो विरात्रादूर्ध्वं परिवारमारोहतः पूर्वः साहसदण्डः, परवेश्मनो मध्यमः, ग्रामारामवाटभेदिनश्च ॥ ०४१३०७। ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः ॥ ०४१३०८। मुषितं प्रवासितं चैषामनिर्गतं रात्रौ ग्रामस्वामी दद्यात् ॥ ०४१३०९। ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात् ॥ ०४१३१०। अविवीतानां चोररज्जुकः ॥ ०४१३११। तथाप्यगुप्तानां सीमावरोधेन विचयं दद्युः ॥ ०४१३१२। असीमावरोधे पञ्चग्रामी दशग्रामी वा ॥ ०४१३१३। दुर्बलं वेश्म शकटमनुत्तब्धमूर्धस्तंभं शस्त्रमनपाश्रयमप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात् ॥ ०४१३१४। वृक्षच्छेदने दंयरश्मिहरणे चतुष्पदानामदान्तसेवने वाहने वा काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ॥ ०४१३१५। हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुंभं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात् ॥ ०४१३१६। अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम् ॥ ०४१३१७। उदासीनवधे यातुरुत्तमो दण्डः ॥ ०४१३१८। शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानममोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः ॥ ०४१३१९। शृङ्गिदंष्ट्रिभ्यामन्योन्यं घातयतस्तच्च तावच्च दण्डः ॥ ०४१३२०। देवपशुमृषभमुक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयत उत्तमः ॥ ०४१३२१। लोमदोहवाहनप्रजननोपकारिणां क्षुद्रपशूनामदाने तच्च तावच्च दण्डः, प्रवासने च, अन्यत्र देवपितृकार्येभ्यः ॥ ०४१३२२। छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद्वा चक्रयुक्तं याता पशुमनुष्यसंबाधे वा हिंसायामदण्ड्यः ॥ ०४१३२३। अन्यथा यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्यावहेत् ॥ ०४१३२४। अमानुषप्राणिवधे प्राणिदानं च ॥ ०४१३२५। बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता ॥ ०४१३२६। बालाधिष्ठितमपुरुषं वा यानं राजा हरेत् ॥ ०४१३२७। कृत्याभिचाराभ्यां यत्परमापादयेत्तदापादयितव्यः ॥ ०४१३२८। कामं भार्यायामनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम् ॥ ०४१३२९। अन्यथाहिंसायां मध्यमः साहसदण्डः ॥ ०४१३३०। मातापित्रोर्भगिनीं मातुलानीमाचार्याणीं स्नुषां दुहितरं भगिनीं वाधिचरतस्त्रिलिङ्गच्छेदनं वधश्च ॥ ०४१३३१। सकामा तदेव लभेत, दासपरिचारकाहितकभुक्ता च ॥ ०४१३३२। ब्राह्मण्यामगुप्तायां क्षत्रियस्योत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत ॥ ०४१३३३। सर्वत्र राजभार्यागमने कुंभीपाकः ॥ ०४१३३४। श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः ॥ ०४१३३५। श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम् ॥ ०४१३३६। प्रव्रजितागमने चतुर्विंशतिपणो दण्डः ॥ ०४१३३७। सकामा तदेव लभेत ॥ ०४१३३८। रूपाजीवायाः प्रसह्योपभोगे द्वादशपणो दण्डः ॥ ०४१३३९। बहूनामेकामधिचरतां पृथक्चतुर्विंशतिपणो दण्डः ॥ ०४१३४०। स्त्रियमयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषमधिमेहतश्च ॥ ०४१३४१ मैथुने द्वादशपणस्तिर्यग्योनिष्वनात्मनः । ०४१३४१ दैवतप्रतिमानां च गमने द्विगुणः स्मृतः ॥ ०४१३४२ अदण्ड्यदण्डने राज्ञो दण्डस्त्रिंशद्गुणोअंभसि । ०४१३४२ वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥ ०४१३४३ तेन तत्पूयते पापं राज्ञो दण्डापचारजम् । ०४१३४३ शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥E (ईन्fलिच्तिओनोf सेच्रेत्पुनिस्ह्मेन्त्) ०५१०१। दुर्गराष्ट्रयोः कण्टकशोधनमुक्तम् ॥ ०५१०२। राजराज्ययोर्वक्ष्यामः ॥ ०५१०३। राजानमवगृह्योपजीविनः शत्रुसाधारणा वा ये मुख्यास्तेषु गूढपुरुषप्रणिधिः कृत्यपक्षोपग्रहो वा सिद्धिः यथोक्तं पुरस्ताद्, उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥ ०५१०४। राज्योपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशमशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्मरुचिरुपांशुदण्डं प्रयुञ्जीत ॥ ०५१०५। दूष्यमहामात्रभ्रातरमसत्कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥ ०५१०६। तं राजा दूष्यद्रव्योपभोगातिसर्गेण दूष्ये विक्रमयेत् ॥ ०५१०७। शस्त्रेण रसेन वा विक्रान्तं तत्रैव घातयेद्"भ्रातृघातकोअयम्" इति ॥ ०५१०८। तेन पारशवः परिचारिकापुत्रश्च व्याख्यातौ ॥ ०५१०९। दूष्यंमहामात्रं वा सत्त्रिप्रोत्साहितो भ्राता दायं याचेत ॥ ०५११०। तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दायकामुकः" इति ॥ ०५१११। ततो हतपक्षमुपगृह्येतरं निगृह्णीयात् ॥ ०५११२। दूष्यसमीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥ ०५११३। तं रात्रौ इति समानम् ॥ ०५११४। दूष्यमहामात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति, भ्राता वा भ्रातुः, तयोः कापटिकमुखः कलहः पूर्वेण व्याख्यातः ॥ ०५११५। दूष्यमहामात्रपुत्रमात्मसंभावितं वा सत्त्री "राजपुत्रस्त्वम्, शत्रुभयादिह न्यस्तोअसि" इत्युपजपेत् ॥ ०५११६। प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषिञ्चामि" इति ॥ ०५११७। तं सत्त्री महामात्रवधे योजयेत् ॥ ०५११८। विक्रान्तं तत्रैव घातयेत्"पितृघातकोअयम्" इति ॥ ०५११९। भिक्षुकी वा दूष्यभार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ॥ ०५१२०। इत्याप्यप्रयोगः ॥ ०५१२१। दूष्यमहामात्रमटवीं परग्रामं वा हन्तुं कान्तारव्यवहिते वा देशे राष्ट्रपालमन्तपालं वा स्थापयितुं नागरस्थानं वा कुपितमवग्राहितुं सार्थातिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयमादातुं फल्गुबलं तीक्ष्णयुक्तं प्रेषयेत् ॥ ०५१२२। रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधकव्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥ ०५१२३। यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत् ॥ ०५१२४। ते गूढशस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यमकक्ष्यायामात्मविचयमन्तःप्रवेशनार्थं दद्युः ॥ ०५१२५। ततो दौवारिकाभिगृहीतास्तीक्ष्णाः "दूष्यप्रयुक्ताः स्म" इति ब्रूयुः ॥ ०५१२६। ते तदभिविख्याप्य दूष्यान् हन्युः ॥ ०५१२७। तीक्ष्णस्थाने चान्ये वध्याः ॥ ०५१२८। बहिर्विहारगतो वा दूष्यानासन्नावासान् पूजयेत् ॥ ०५१२९। तेषां देवीव्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतेति समानं पूर्वेण ॥ ०५१३०। दूष्यमहामात्रं वा "सूदो भक्षकारो वा ते शोभनः" इति स्तवेन भक्ष्यभोज्यं याचेत, बहिर्वा क्वचिदध्वगतः पानीयम् ॥ ०५१३१। तदुभयं रसेन योजयित्वा प्रतिस्वादने तावेवोपयोजयेत् ॥ ०५१३२। तदभिविख्याप्य "रसदौ" इति घातयेत् ॥ ०५१३३। अभिचारशीलं वा सिद्धव्यञ्जनो "गोधाकूर्मकर्कटककूटानां लक्षण्यानामन्यतमप्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ॥ ०५१३४। प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयेत्"कर्मव्यापदा हतः" इति ॥ ०५१३५। चिकित्सकव्यञ्जनो वा दौरात्मिकमसाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसंदध्यात् ॥ ०५१३६। सूदारालिकव्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ॥ ०५१३७। इत्युपनिषत्प्रतिषेधः ॥ ०५१३८। उभयदूष्यप्रतिषेधस्तु ॥ ०५१३९। यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यमेव फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यमुत्थापय हिरण्यं वा, वल्लभाद्वा हिरण्यमाहारय, वल्लभकन्यां वा प्रसह्यानय, दुर्गसेतुवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मणामन्यतमद्वा कारय राष्ट्रपाल्यमन्तपाल्यं वा यश्च त्वा प्रतिषेधयेन् न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ॥ ०५१४०। तथैवेतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ॥ ०५१४१। तमेतेषु कलहस्थानेषु कर्मप्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥ ०५१४२। तेन दोषेणेतरे नियन्तव्याः ॥ ०५१४३। पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रखलवेश्ममर्यादासु द्रव्योपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्योत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येमुना कलहायन्ते: इति ॥ ०५१४४। तेन दोषेणेतरे नियन्तव्याः ॥ ०५१४५। येषां वा दूष्याणां जातमूलाः कलहास्तेषां क्षेत्रखलवेश्मान्यादीपयित्वा बन्धुसंबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥ ०४४४६। तेन दोषेणेतरे नियन्तव्याः ॥ ०५१४७। दुर्गराष्ट्रदूष्यान् वा सत्त्रिणः परस्परस्यावेशनिकान् कारयेयुः ॥ ०५१४८। तत्र रसदा रसं दद्युः ॥ ०५१४९। तेन दोषेणेतरे नियन्तव्याः ॥ ०५१५०। भिक्षुकी वा दूष्यराष्ट्रमुख्यं "दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ॥ ०५१५१। प्रतिपन्नस्याभरणमादाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवनोत्सिक्तो भार्यां स्नुषां दुहितरं वाभिमन्यते" इति ॥ ०५१५२। तयोः कलहो रात्रौ इति समानम् ॥ ०५१५३। दूष्यदण्डोपनतेषु तु - युवराजः सेनापतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ॥ ०५१५४। ततो राजा दूष्यदण्डोपनतानेव प्रेषयेत्फल्गुबलतीक्ष्णयुक्तानिति समानाः सर्व एव योगाः ॥ ०५१५५। तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृदायं लभेत ॥ ०५१५६। एवमस्य पुत्रपौत्राननुवर्तते राज्यमपास्तपुरुषदोषम् ॥ ०५१५७ स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ०५१५७ आयत्यां च तदात्वे च क्षमावानविशङ्कितः ॥E (ऋएप्लेनिस्ह्मेन्तोf थे त्रेअसुर्य्) ०५२०१। कोशमकोशः प्रत्युत्पन्नार्थकृच्छ्रः संगृह्णीयात् ॥ ०५२०२। जनपदं महान्तमल्पप्रमाणं वादेवमातृकं प्रभूतधान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत, यथासारं मध्यमवरं वा ॥ ०५२०३। दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मोपकारिणं प्रत्यन्तमल्पप्रमाणं वा न याचेत ॥ ०५२०४। धान्यपशुहिरण्यादि निविशमानाय दद्यात् ॥ ०५२०५। चतुर्थमंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात् ॥ ०५२०६। अरण्यजातं श्रोत्रियस्वं च परिहरेत् ॥ ०५२०७। तदप्यनुग्रहेण क्रीणीयात् ॥ ०५२०८। तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणामुद्वापं कारयेयुः ॥ ०५२०९। प्रमादावस्कन्नस्यात्ययं द्विगुणमुदाहरन्तो बीजकाले बीजलेख्यं कुर्युः ॥ ०५२१०। निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा ॥ ०५२११। भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः ॥ ०५२१२। स्वसस्यापहारिणः प्रतिपातोअष्टगुणः ॥ ०५२१३। परसस्यापहारिणः पञ्चाशद्गुणः सीतात्ययः, स्ववर्गस्य, बाह्यस्य तु वधः ॥ ०५२१४। चतुर्थमंशं धान्यानां षष्ठं वन्यानां तूललाक्षाक्षौमवल्ककार्पासरौमकौशेयकौषधगन्धपुष्पफलशाकपण्यानां काष्ठवेणुमांसवल्लूराणां च गृह्णीयुः, दन्ताजिनस्यार्धम् ॥ ०५२१५। तदनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः ॥ ०५२१६। इति कर्षकेषु प्रणयः ॥ ०५२१७। सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः ॥ ०५२१८। सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः ॥ ०५२१९। धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः ॥ ०५२२०। काचव्यवहारिणो महाकारवश्च विंशतिकराः ॥ ०५२२१। क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः ॥ ०५२२२। काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः ॥ ०५२२३। कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः ॥ ०५२२४। हिरण्यकरं कर्मण्यानाहारयेयुः, न चैषां कंचिदपराधं परिहरेयुः ॥ ०५२२५। ते ह्यपरिगृहीतमभिनीय विक्रीणीरन् ॥ ०५२२६। इति व्यवहारिषु प्रणयः ॥०५२२७। कुक्कुटसूकरमर्धं दद्यात्, क्षुद्रपशवः षड्भागम्, गोमहिषाश्वतरखरोष्ट्राश्च दशभागम् ॥ ०५२२८। बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः ॥ ०५२२९। इति योनिपोषकेषु प्रणयः ॥ ०५२३०। सकृदेव न द्विः प्रयोज्यः ॥ ०५२३१। तस्याकरणे वा समाहर्ता कार्यमपदिश्य पौरजानपदान् भिक्षेत ॥ ०५२३२। योगपुरुषाश्चात्र पूर्वमतिमात्रं दद्युः ॥ ०५२३३। एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत ॥ ०५२३४। कापटिकाश्चैनानल्पं प्रयच्छतः कुत्सयेयुः ॥ ०५२३५। सारतो वा हिरण्यमाढ्यान् याचेत, यथोपकारं वा, स्ववशा वा यदुपहरेयुः ॥ ०५२३६। स्थानच्छत्रवेष्टनविभूषाश्चैषां हिरण्येन प्रयच्छेत् ॥ ०५२३७। पाषण्डसंघद्रव्यमश्रोत्रियोपभोग्यं देवद्रव्यं वा कृत्यकराः प्रेतस्य दग्धगृहस्य वा हस्ते न्यस्तमित्युपहरेयुः ॥ ०५२३८। देवताध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वमेकस्थं कोशं कुर्यात्, तथैव चोपहरेत् ॥ ०५२३९। दैवतचैत्यं सिद्धपुण्यस्थानमौपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यामाजीवेत् ॥ ०५२४०। चैत्योपवनवृक्षेण वा देवताभिगमनमनार्तवपुष्पफलयुक्तेन ख्यापयेत् ॥ ०५२४१। मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः ॥ ०५२४२। सुरुङ्गायुक्ते वा कूपे नागमनियतशिरस्कं हिरण्योपहारेण दर्शयेत् ॥ ०५२४३। नागप्रतिमायामन्तश्छन्नायां चैत्यच्छिद्रे वल्मीकच्छिद्रे वा सर्पदर्शनमाहारेण प्रतिबद्धसंज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥ ०५२४४। अश्रद्दधानानामाचमनप्रोक्षणेषु रसमुपचार्य देवताभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा ॥ ०५२४५। योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात् ॥ ०५२४६। वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत ॥ ०५२४७। स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात्तदैनं रात्रौ मोषयेत् ॥ ०५२४८। एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ ॥ ०५२४९। वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रहवणनिमित्तं याचितकमवक्रीतकं वा रूप्यसुवर्णभाण्डमनेकं गृह्णीयात् ॥ ०५२५०। समाजे वा सर्वपण्यसंदोहेन प्रभूतं हिरण्यसुवर्णमृणं गृह्णीयात्, प्रतिभाण्डमूल्यं च ॥ ०५२५१। तदुभयं रात्रौ मोषयेत् ॥ ०५२५२। साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासामेव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः ॥ ०५२५३। दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥ ०५२५४। तेन दोषेणेतरे पर्यादातव्याः ॥ ०५२५५। दूष्यमभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपमृणप्रयोगं दायं वा याचेत ॥ ०५२५६। दासशब्देन वा दूष्यमालम्बेत, भार्यामस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा ॥ ०५२५७। तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयमर्थकामुकः" इति ॥ ०५२५८। तेन दोषेणेतरे पर्यादातव्याः ॥ ०५२५९। सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षयहिरण्यं राजद्वारिकं स्त्रीहृदयमरिव्याधिकरमायुष्यं पुत्रीयं वा कर्म जानामि" इति ॥ ०५२६०। प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धमुपहारं कारयेत् ॥ ०५२६१। एकरूपं चात्र हिरण्यं पूर्वनिखातं प्रेताङ्गं प्रेतशिशुर्वा यत्र निहितः स्यात्, ततो हिरण्यमस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ॥ ०५२६२। "प्रभूतहिरण्यहेतोः पुनरुपहारः कर्तव्य इति स्वयमेवैतेन हिरण्येन श्वोभूते प्रभूतमौपहारिकं क्रीणीहि" इति ॥ ०५२६३। स तेन हिरण्येनाउपहारिकक्रये गृह्येत ॥ ०५२६४। मातृव्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ॥ ०५२६५। संसिद्धमेवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तमतिनयेयुः ॥ ०५२६६। दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत् ॥ ०५२६७। कर्मकरव्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेनकूटरूपकारकोपकरणमुपनिदध्यात्, चिकित्सकव्यञ्जनो वा गरमगदापदेशेन ॥ ०५२६८। प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितमभिषेकभाण्डममित्रशासनं च कापटिकमुखेनाचक्षीत, कारणं च ब्रूयात् ॥ ०५२६९। एवं दूष्येष्वधार्मिकेषु च वर्तेत, नेतरेषु ॥ ०५२७० पक्वं पक्वमिवारामात्फलं राज्यादवाप्नुयात् । ०५२७० आत्मच्छेदभयादामं वर्जयेत्कोपकारकम् ॥E (षलरिएसोf स्तते सेर्वन्त्स्) ०५३०१। दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन ॥ ०५३०२। शरीरमवेक्षेत, न धर्मार्थौ पीडयेत् ॥ ०५३०३। ऋत्विगाचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योअष्टचत्वारिंशत्साहस्राः ॥ ०५३०४। एतावता भरणेनानास्पद्यत्वमकोपकं चैषां भवति ॥ ०५३०५। दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसंनिधातारश्चतुर्विंशतिसाहस्राः ॥ ०५३०६। एतावता कर्मण्या भवन्ति ॥ ०५३०७। कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः ॥ ०५३०८। स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति ॥ ०५३०९। श्रेणीमुख्या हस्त्यश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः ॥ ०५३१०। स्ववर्गानुकर्षिणो ह्येतावता भवन्ति ॥ ०५३११। पत्त्यश्वरथहस्त्यध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः ॥ ०५३१२। रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः ॥ ०५३१३। कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः ॥ ०५३१४। शिल्पवन्तः पादाताः संख्यायकलेखकादिवर्गश्च पञ्चशताः ॥ ०५३१५। कुशीलवास्त्वर्धतृतीयशताः, द्विगुणवेतनाश्चैषां तूर्यकराः ॥ ०५३१६। कारुशिल्पिनो विंशतिशतिकाः ॥ ०५३१७। चतुष्पदद्विपदपरिचारकपारिकर्मिकाउपस्थायिकपालकविष्टिबन्धकाः षष्टिवेतनाः, आर्ययुक्तारोहकमाणवकशैलखनकाः सर्वोपस्थायिनश्च ॥ ०५३१८। आचार्या विद्यावन्तश्च पूजावेतनानि यथार्हं लभेरन् पञ्चशतावरं सहस्रपरम् ॥ ०५३१९। दशपणिको योजने दूतो मध्यमः, दशोत्तरे द्विगुणवेतन आयोजनशतादिति ॥ ०५३२०। समानविद्येभ्यस्त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु ॥ ०५३२१। राज्ञः सारथिः साहस्रः ॥ ०५३२२। कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः ॥ ०५३२३। ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः ॥ ०५३२४। चारसंचारिणोअर्धतृतीयशताः, प्रयासवृद्धवेतना वा ॥ ०५३२५। शतवर्गसहस्रवर्गाणामध्यक्षा भक्तवेतनलाभमादेशं विक्षेपं च कुर्युः ॥ ०५३२६। अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च ॥ ०५३२७। नित्यमुख्याः स्युरनेकमुख्याश्च ॥ ०५३२८। कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन् ॥ ०५३२९। बालवृद्धव्याधिताश्चैषामनुग्राह्याः ॥ ०५३३०। प्रेतव्याधितसूतिकाकृत्येषु चैषामर्थमानकर्म कुर्यात् ॥ ०५३३१। अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम् ॥ ०५३३२। शून्यं वा निवेशयितुमभ्युत्थितो हिरण्यमेव दद्यात्, न ग्रामं ग्रामसंजातव्यवहारस्थापनार्थम् ॥ ०५३३३। एतेन भृतानामभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात् ॥ ०५३३४। षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात् ॥ ०५३३५। पत्त्यश्वरथद्विपाः सूर्योदये बहिः संधिदिवसवर्जं शिल्पयोग्याः कुर्युः ॥ ०५३३६। तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं चैषां शिल्पदर्शनं कुर्यात् ॥ ०५३३७। कृतनरेन्द्राङ्कं शस्त्रावरणमायुधागारं प्रवेशयेत् ॥ ०५३३८। अशस्त्राश्चरेयुः, अन्यत्र मुद्रानुज्ञातात् ॥ ०५३३९। नष्टंविनष्टं वा द्विगुणं दद्यात् ॥ ०५३४०। विध्वस्तगणनां च कुर्यात् ॥ ०५३४१। सार्थिकानां शस्त्रावरणमन्तपाला गृह्णीयुः, समुद्रमवचारयेयुर्वा ॥ ०५३४२। यात्रामभ्युत्थितो वा सेनामुद्योजयेत् ॥ ०५३४३। ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः ॥ ०५३४४। एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति ॥ ०५३४५। एवमवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति ॥ ०५३४६। इति भक्तवेतनविकल्पः ॥ ०५३४७ सत्त्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः । ०५३४७ दण्डवृद्धाश्च जानीयुः शौचाशौचमतन्द्रिताः ॥E (ড়्रोपेर्चोन्दुच्त्fओर देपेन्दन्त्) ०५४०१। लोकयात्राविद्राजानमात्मद्रव्यप्रकृतिसंपन्नं प्रियहितद्वारेणाश्रयेत ॥ ०५४०२। यं वा मन्येत "यथाहमाश्रयेप्सुरेवमसौ विनयेप्सुराभिगामिकगुणयुक्तः" इति, द्रव्यप्रकृतिहीनमप्येनमाश्रयेत, न त्वेवानात्मसंपन्नम् ॥ ०५४०३। अनात्मवा हि नीतिशास्त्रद्वेषादनर्थ्यसंयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ॥ ०५४०४। आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात् ॥ ०५४०५। अविसंवादाद्धि स्थानस्थैर्यमवाप्नोति ॥ ०५४०६। मतिकर्मसु पृष्ठस्तदात्वे चायत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवदपरिषद्भीरुः कथयेत् ॥ ०५४०७। ईप्सितः पणेत "धर्मार्थानुयोगमविशिष्टेषु बलवत्संयुक्तेषु दण्डधारणं मत्संयोगे तदात्वे च दण्डधारणमिति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे नोपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम्" इति ॥ ०५४०८। आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत्, उपविशेच्च पार्श्वतः संनिकृष्टविप्रकृष्टः परासनम् ॥ ०५४०९। विगृह्य कथनमसभ्यमप्रत्यक्षमश्रद्धेयमनृतं च वाक्यमुच्चैरनर्मणि हासं वातष्ठीवने च शब्दवती न कुर्यात् ॥ ०५४१०। मिथः कथनमन्येन, जनवादे द्वन्द्वकथनम्, राज्ञो वेषमुद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनम्, एकाक्ष्योष्ठनिर्भोगं भ्रुकुटीकर्म वाक्यावक्षेपणं च ब्रुवति, बलवत्संयुक्तविरोधम्, स्त्रीभिः स्त्रीदर्शिभिः सामन्तदूतैर्द्वेष्यपक्षावक्षिप्तानर्थ्यैश्च प्रतिसंसर्गमेकार्थचर्यां संघातं च वर्जयेत् ॥ ०५४११ अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह । ०५४११ परार्थं देशकाले च ब्रूयाद्धर्मार्थसंहितम् ॥ ०५४१२ पृष्टः प्रियहितं ब्रूयान्न ब्रूयादहितं प्रियम् । ०५४१२ अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ॥ ०५४१३ तूष्णीं वा प्रतिवाक्ये स्याद्वेष्यादींश्च न वर्णयेत् । ०५४१३ अप्रिया अपि दक्षाः स्युस्तद्भावाद्ये बहिष्कृताः ॥ ०५४१४ अनर्थ्याश्च प्रिया दृष्टाश्चित्तज्ञानानुवर्तिनः । ०५४१४ अभिहास्येष्वभिहसेद्घोरहासांश्च वर्जयेत् ॥E ०५४१५ परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ०५४१५ तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः ॥ ०५४१६ आत्मरक्षा हि सततं पूर्वं कार्या विजानता । ०५४१६ अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनाम् ॥ ०५४१७ एकदेशं दहेदग्निः शरीरं वा परं गतः । ०५४१७ स-पुत्रदारं राजा तु घातयेदर्धयेत वा ॥E (ড়्रोपेर्बेहविओउर्fओर चोउर्तिएर्) ०५५०१। नियुक्तः कर्मसु व्ययविशुद्धमुदयं दर्शयेत् ॥ ०५५०२। आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यमात्ययिकमुपेक्षितव्यं वा कार्यं "इदमेवम्" इति विशेषयेच्च ॥ ०५५०३। मृगयाद्यूतमद्यस्त्रीषु प्रसक्तं नैनमनुवर्तेत प्रशंसाभिः ॥ ०५५०४। आसन्नश्चास्य व्यसनोपघाते प्रयतेत, परोपजापातिसंधानोपधिभ्यश्च रक्षेत् ॥ ०५५०५। इङ्गिताकारौ चास्य लक्षयेत् ॥ ०५५०६। कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासमिङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थमाचरति प्राज्ञः ॥ ०५५०७। दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्कास्थाने नातिशङ्कते, कथायां रमते, परिज्ञाप्येष्ववेक्षते, पथ्यमुक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये नोपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसनेभ्युपपद्यते, तद्भक्तीन् पूजयति, गुह्यमाचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्टज्ञानम् ॥ ०५५०८। एतदेव विपरीतमतुष्टस्य, भूयश्च वक्ष्यामः ॥ ०५५०९। संदर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानम्, वर्णस्वरभेदः, एकाक्षिभ्रुकुट्योष्ठनिर्भोगः, स्वेदश्वासस्मितानामस्थानोत्पत्तिः, परमन्त्रणम्, अकस्माद्व्रजनम्, वर्धनमन्यस्य, भूमिगात्रविलेखनम्, अन्यस्योपतोदनम्, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानवेक्षणम्, दुष्कृतानुकीर्तनम्, पृष्ठावधानम्, अतित्यागः, मिथ्याभिभाषणम्, राजदर्शिनां च तद्वृत्तान्यत्वम् ॥ ०५५१०। वृत्तिविकारं चावेक्षेताप्यमानुषाणाम् ॥ ०५५११। "अयमुच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज, "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः, "तृणम्" इति दीर्घश्चारायणः, "शीता शाटी" इति घोटमुखः, "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः, "रथाश्वं प्राशंसीत्" इति पिशुनः, प्रतिरवणे शुनः पिशुनपुत्रः ॥ ०५५१२। अर्थमानावक्षेपे च परित्यागः ॥ ०५५१३। स्वामिशीलमात्मनश्च किल्बिषमुपलभ्य वा प्रतिकुर्वीत ॥ ०५५१४। मित्रमुपकृष्टं वास्य गच्छेत् ॥ ०५५१५ तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् । ०५५१५ ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ॥E (Cओन्तिनुअन्चे ओf थे किन्ग्दोम्) (Cओन्तिनुओउस्सोवेरेइग्न्त्य्) ०५६०१। राजव्यसनमेवममात्यः प्रतिकुर्वीत ॥ ०५६०२। प्रागेव मरणाबाधभयाद्राज्ञः प्रियहितोपग्रहेण मासद्विमासान्तरं दर्शनं स्थापयेद्"देशपीडापहममित्रापहमायुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ॥ ०५६०३। राजव्यञ्जनमरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च ॥ ०५६०४। तैश्च यथोचितां संभाषाममात्यमुखो गच्छेत् ॥ ०५६०५। दौवारिकान्तर्वंशिकमुखश्च यथोक्तं राजप्रणिधिमनुवर्तयेत् ॥ ०५६०६। अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादमेवोपकारिषु ॥ ०५६०७। आप्तपुरुषाधिष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत्, कुल्यकुमारमुख्यांश्चान्यापदेशेन ॥ ०५६०८। यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तमुपग्राहयेत् ॥ ०५६०९। बह्वाबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा ॥ ०५६१०। यस्माच्च सामन्तादाबाधं पश्येत्तमुत्सवविवाहहस्तिबन्धनाश्वपण्यभूमिप्रदानापदेशेनावग्राहयेत्, स्वमित्रेण वा ॥ ०५६११। ततः संधिमदूष्यं कारयेत् ॥ ०५६१२। आटविकामित्रैर्वा वैरं ग्राहयेत् ॥ ०५६१३। तत्कुलीनमपरुद्धं वा भूंयेकदेशेनोपग्राहयेत् ॥ ०५६१४। कुल्यकुमारमुख्योपग्रहं कृत्वा वा कुमारमभिषिक्तमेव दर्शयेत् ॥ ०५६१५। दाण्डकर्मिकवद्वा राज्यकण्टकानुद्धृत्य राज्यं कारयेत् ॥ ०५६१६। यदि वा कश्चिन्मुख्यः सामन्तादीनामन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ॥ ०५६१७। आपत्प्रतीकारेण वा साधयेत् ॥ ०५६१८। युवराजे वा क्रमेण राज्यभारमारोप्य राजव्यसनं ख्यापयेत् ॥ ०५६१९। परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः संधिमवस्थाप्यापगच्छेत् ॥ ०५६२०। सामन्तादीनामन्यतमं वास्य दुर्गे स्थापयित्वापगच्छेत् ॥ ०५६२१। कुमारमभिषिच्य वा प्रतिव्यूहेत ॥ ०५६२२। परेणाभियुक्तो वा यथोक्तमापत्प्रतीकारं कुर्यात् ॥ ०५६२३। एवमेकाइश्वर्यममात्यः कारयेदिति कौटिल्यः ॥ ०५६२४। "नैवम्" इति भारद्वाजः ॥ ०५६२५। "प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥ ०५६२६। विक्रान्तं प्रकृतिकोपेन घातयेत् ॥ ०५६२७। कुल्यकुमारमुख्यानुपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥ ०५६२८। राज्यकारणाद्धि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य ॥ ०५६२९। तत्स्वयमुपस्थितं नावमन्येत ॥ ०५६३०। "स्वयमारूढा हि स्त्री त्यज्यमानाभिशपति" इति लोकप्रवादः ॥ ०५६३१ कालश्च सकृदभ्येति यं नरं कालकाङ्क्षिणम् । ०५६३१ दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ॥ ०५६३२। प्रकृतिकोपकमधर्मिष्ठमनैकान्तिकं चैतदिति कौटिल्यः ॥ ०५६३३। राजपुत्रमात्मसंपन्नं राज्ये स्थापयेत् ॥ ०५६३४। संपन्नाभावेव्यसनिनं कुमारं राजकन्यां गर्भिणीं देवीं वा पुरस्कृत्य महामात्रान् संनिपात्य ब्रूयात्"अयं वो निक्षेपः, पितरमस्यावेक्षध्वं सत्त्वाभिजनमात्मनश्च, ध्वजमात्रोअयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥ ०५६३५। तथा ब्रुवाणं योगपुरुषा ब्रूयुः "कोअन्यो भवत्पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यमर्हति पालयितुम्" इति ॥ ०५६३६। "तथा" इत्यमात्यः कुमारं राजकन्यां गर्भिणीं देवीं वाधिकुर्वीत, बन्धुसंबन्धिनां मित्रामित्रदूतानां च दर्शयेत् ॥ ०५६३७। भक्तवेतनविशेषममात्यानामायुधीयानां च कारयेत्, "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ॥ ०५६३८। एवं दुर्गराष्ट्रमुख्यानाभाषेत, यथार्हं च मित्रामित्रपक्षम् ॥ ०५६३९। विनयकर्मणि च कुमारस्य प्रयतेत ॥ ०५६४०। कन्यायां समानजातीयादपत्यमुत्पाद्य वाभिषिञ्चेत् ॥ ०५६४१। मातुश्चित्तक्षोभभयात्कुल्यमल्पसत्त्वं छात्रं च लक्षण्यमुपनिदध्यात् ॥ ०५६४२। ऋतौ चैनां रक्षेत् ॥ ०५६४३। न चात्मार्थं कंचिदुत्कृष्टमुपभोगं कारयेत् ॥ ०५६४४। राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत् ॥ ०५६४५ यौवनस्थं च याचेत विश्रमं चित्तकारणात् । ०५६४५ परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ॥ ०५६४६ निवेद्य पुत्ररक्षार्थं गूढसारपरिग्रहान् । ०५६४६ अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः ॥ ०५६४७ मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः । ०५६४७ इतिहासपुराणाभ्यां बोधयेदर्थशास्त्रवित् ॥ ०५६४८ सिद्धव्यञ्जनरूपो वा योगमास्थाय पार्थिवम् । ०५६४८ लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकमाचरेत् ॥E ((मण्डलयोनिः षष्ठमधिकरणम्)) (षण्णवतितमं प्रकरणं - प्रकृतिसम्पदह्) ०६१०१। स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः ॥ ०६१०२। तत्र स्वामिसम्पत् ॥ ०६१०३। महाकुलीनो दैवबुद्धिसत्त्वसम्पन्नो वृद्धदर्शी धार्मिकः सत्यवागविसंवादकः कृतज्ञः स्थूललक्षो महोत्साहोअदीर्घसूत्रः शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणाः ॥ ०६१०४। शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः ॥ ०६१०५। शौर्यममर्षः शीघ्रता दाक्ष्यं चोत्साहगुणाः ॥ ०६१०६। वाग्मी प्रगल्भः स्मृतिमतिबलवानुदग्रः स्ववग्रहः कृतशिल्पोअव्यसनो दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारी ह्रीमानापत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानः संधिविक्रमत्यागसम्यमपणपरच्छिद्रविभागी संवृतोअदीनाभिहास्यजिह्मभ्रुकुटीक्षणः कामक्रोधलोभस्तम्भचापलोपतापपैशुन्यहीनः शक्लः स्मितोदग्राभिभाषी वृद्धोपदेशाचार इत्यात्मसम्पत् ॥ ०६१०७। अमात्यसम्पदुक्ता पुरस्तात् ॥ ०६१०८। मध्ये चान्ते च स्थानवानात्मधारणः परधारणश्चापदि स्वारक्षः स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पङ्कपाषाणोषरविषमकण्टकश्रेणीव्यालमृगाटवीहीनः कान्तः सीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमानदेवमातृको वारिस्थलपथाभ्यामुपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षकोअबालिशस्वाम्यवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसम्पत् ॥ ०६१०९। दुर्गसम्पदुक्ता पुरस्तात् ॥ ०६११०। धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यप्रायश्चित्रस्थूलरत्नहिरण्यो दीर्घामप्यापदमनायतिं सहेतेति कोशसम्पत् ॥ ०६१११। पितृपैतामहो नित्यो वश्यस्तुष्टभृतपुत्रदारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःखसहो बहुयुद्धः सर्वयुद्धप्रहरणविद्याविशारदः सहवृद्धिक्षयिकत्वादद्वैध्यः क्षत्रप्राय इति दण्डसम्पत् ॥ ०६११२। पितृपैतामहं नित्यं वश्यमद्वैध्यं महल्लघुसमुत्थमिति मित्रसम्पत् ॥ ०६११३। अराजबीजी लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किंचनकार्यगतिरननुबन्धः क्लीबो नित्यापकारी चेत्यमित्रसम्पत् ॥ ०६११४। एवंभूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ॥ ०६११५ अरिवर्जाः प्रकृतयः सप्तैताः स्वगुणोदयाः । ०६११५ उक्ताः प्रत्यङ्गभूतास्ताः प्रकृता राजसम्पदः ॥ ०६११६ सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ०६११६ विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ॥ ०६११७ ततः स दुष्टप्रकृतिश्चातुरन्तोअप्यनात्मवान् । ०६११७ हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम् ॥ ०६११८ आत्मवांस्त्वल्पदेशोअपि युक्तः प्रकृतिसम्पदा । ०६११८ नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥E (शमव्यायामिकम्) ०६२०१। शमव्यायामौ योगक्षेमयोर्योनिः ॥ ०६२०२। कर्मारम्भाणां योगाराधनो व्यायामः ॥ ०६२०३। कर्मफलोपभोगानां क्षेमाराधनः शमः ॥ ०६२०४। शमव्यायामयोर्योनिः षाड्गुण्यम् ॥ ०६२०५। क्षयः स्थानं वृद्धिरित्युदयास्तस्य ॥ ०६२०६। मानुषं नयापनयौ, दैवमयानयौ ॥ ०६२०७। दैवमानुषं हि कर्म लोकं यापयति ॥ ०६२०८। अदृष्टकारितं दैवम् ॥ ०६२०९। तस्मिन्निष्टेन फलेन योगोअयः, अनिष्टेनानयः ॥ ०६२१०। दृष्टकारितं मानुषम् ॥ ०६२११। तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः ॥ ०६२१२। तच्चिन्त्यम्, अचिन्त्यं दैवम् ॥ ०६२१३। राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः ॥ ०६२१४। तस्य समन्ततो मण्डलीभूता भूम्यनन्तरा अरिप्रकृतिः ॥ ०६२१५। तथैव भूम्येकान्तरा मित्रप्रकृतिः ॥ ०६२१६। अरिसम्पद्युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वोच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा ॥ ०६२१७। इत्यरिविशेषाः ॥ ०६२१८। तस्मान्मित्रमरिमित्रं मित्रमित्रमरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात्पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासारः ॥ ०६२१९। भूम्यनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः ॥ ०६२२०। भूम्येकान्तरं प्रकृतिमित्रम्, मातापितृसम्बद्धं सहजम्, धनजीवितहेतोराश्रितं कृत्रिमम् ॥ ०६२२१। अरिविजिगीष्वोर्भूम्यनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः ॥ ०६२२२। अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानामरिविजिगीषुमध्यमानामनुग्रहसमर्थो निग्रहे चासंहतानामुदासीनः ॥ ०६२२३। इति प्रकृतयः ॥ ०६२२४। विजिगीषुर्मित्रं मित्रमित्रं वास्य प्रकृतयस्तिस्रः ॥ ०६२२५। ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेकैकशः सम्युक्ता मण्डलमष्टादशकं भवति ॥ ०६२२६। अनेन मण्डलपृथक्त्वं व्याख्यातमरिमध्यमोदासीनानाम् ॥ ०६२२७। एवं चतुर्मण्डलसंक्षेपः ॥ ०६२२८। द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, संक्षेपेण द्विसप्ततिः ॥ ०६२२९। तासां यथास्वं सम्पदः ॥ ०६२३०। शक्तिः सिद्धिश्च ॥ ०६२३१। बलं शक्तिः ॥ ०६२३२। सुखं सिद्धिः ॥ ०६२३३। शक्तिस्त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलमुत्साहशक्तिः ॥ ०६२३४। एवं सिद्धिस्त्रिविधैव - मन्त्रशक्तिसाध्या मन्त्रसिद्धिः, प्रभुशक्तिसाध्या प्रभुसिद्धिः, उत्साहशक्तिसाध्या उत्साहसिद्धिः ॥ ०६२३५। ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः ॥ ०६२३६। तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुम्, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा ॥ ०६२३७। दूष्यामित्राभ्यां वापक्रष्टुं यतेत ॥ ०६२३८। यदि वा पश्येत्"अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति, सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभिः प्रमादं गमिष्यति, स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रहाभियुक्तो वा सर्वसंदोहेनैकस्थोअदुर्गस्थो वा स्थास्यति, स संहतसैन्यो मित्रदुर्गवियुक्तः साध्यो मे भविष्यति, "बलवान् वा राजा परतः शत्रुमुच्छेत्तुकामः तमुच्छिद्य मामुच्छिन्द्याद्" इति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति", मध्यमलिप्सायां च, इत्येवंादिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चेच्छेत् ॥ ०६२३९ नेमिमेकान्तरान् राज्ञः कृत्वा चानन्तरानरान् । ०६२३९ नाभिमात्मानमायच्छेन्नेता प्रकृतिमण्डले ॥ ०६२४० मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चोभयोः । ०६२४० उच्छेद्यः पीडनीयो वा बलवानपि जायते ॥E (षाड्गुण्यसमुद्देशः - क्षयस्थानवृद्धिनिश्चयह्) ०७१०१। षाड्गुण्यस्य प्रकृतिमण्डलं योनिः ॥ ०७१०२। "संधिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम्" इत्याचार्याः ॥ ०७१०३। "द्वैगुण्यम्" इति वातव्याधिः ॥ ०७१०४। "संधिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ॥ ०७१०५। षाड्गुण्यमेवैतदवस्थाभेदादिति कौटिल्यः ॥ ०७१०६। तत्र पणबन्धः संधिः ॥ ०७१०७। अपकारो विग्रहः ॥ ०७१०८। उपेक्षणमासनम् ॥ ०७१०९। अभ्युच्चयो यानम् ॥ ०७११०। परार्पणं संश्रयः ॥ ०७१११। संधिविग्रहोपादानं द्वैधीभावः ॥ ०७११२। इति षड्गुणाः ॥ ०७११३। परस्माद्धीयमानः संदधीत ॥ ०७११४। अभ्युच्चीयमानो विगृह्णीयात् ॥ ०७११५। "न मां परो नाहं परमुपहन्तुं शक्तः" इत्यासीत ॥ ०७११६। गुणातिशययुक्तो यायात् ॥ ०७११७। शक्तिहीनः संश्रयेत ॥ ०७११८। सहायसाध्ये कार्ये द्वैधीभावं गच्छेत् ॥ ०७११९। इति गुणावस्थापनम् ॥ ०७१२०। तेषां यस्मिन् वा गुणे स्थितः पश्येत्"इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुम्, परस्य चैतानि कर्माण्युपहन्तुम्" इति तमातिष्ठेत् ॥ ०७१२१। सा वृद्धिः ॥ ०७१२२। "आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्युदयतरा वा भविष्यति, विपरीता परस्य" इति ज्ञात्वा परवृद्धिमुपेक्षेत ॥ ०७१२३। तुल्यकालफलोदयायां वा वृद्धौ संधिमुपेयात् ॥ ०७१२४। यस्मिन् वा गुणे स्थितः स्वकर्मणामुपघातं पश्येन्नेतरस्य तस्मिन्न तिष्ठेत् ॥ ०७१२५। एष क्षयः ॥ ०७१२६। "चिरतरेणाल्पतरं वृद्ध्युदयतरं वा क्षेष्ये, विपरीतं परः" इति ज्ञात्वा क्षयमुपेक्षेत ॥ ०७१२७। तुल्यकालफलोदये वा क्षये संधिमुपेयात् ॥ ०७१२८। यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येदेतत्स्थानम् ॥ ०७१२९। "ह्रस्वतरं वृद्ध्युदयतरं वा स्थास्यामि, विपरीतं परः" इति ज्ञात्वा स्थानमुपेक्षेत ॥ ०७१३०। "तुल्यकालफलोदये वा स्थाने संधिमुपेयाद्" इत्याचार्याः ॥ ०७१३१। नैतद्विभाषितमिति कौटिल्यः ॥ ०७१३२ यदि वा पश्येत्"सन्धौ स्थितो महाफलैः स्वकर्मभिः परकर्माण्युपहनिष्यामि, महाफलानि वा स्वकर्माण्युपभोक्ष्ये, परकर्माणि वा, संधिविश्वासेन वा योगोपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि, सुखं वा सानुग्रहपरिहारसौकर्यं फललाभभूयस्त्वेन स्वकर्मणां परकर्मयोगावहं जनमास्रावयिष्यामि - ॥ ०७१३२ बलिनातिमात्रेण वा संहितः परः स्वकर्मोपघातं प्राप्स्यति, येन वा विगृहीतो मयासंधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्द्वेषिणो जनपदं पीडयिष्यति - ॥ ०७१३२ परोपहतो वास्य जनपदो मामागमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्नकर्मारम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - ॥ ०७१३२ परतः प्रवृत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि - ॥ ०७१३२ भिन्नमवाप्स्यामि, दण्डानुग्रहेण वा शत्रुमुपगृह्य मण्डललिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेनैव घातयिष्यामि" इति संधिना वृद्धिमातिष्ठेत् ॥ ०७१३३ यदि वा पश्येत्"आयुधीयप्रायः श्रेणीप्रायो वा मे जनपदः शैलवननदीदुर्गैकद्वारारक्षो वा शक्ष्यति पराभियोगं प्रतिहन्तुम्, विषयान्ते दुर्गमविषह्यमपाश्रितो वा शक्ष्यामि परकर्माण्युपहन्तुं - ॥ ०७१३३ व्यसनपीडोपहतोत्साहो वा परः सम्प्राप्तकर्मोपघातकालः, विगृहीतस्यान्यतो वा शक्ष्यामि जनपदमपवाहयितुम्" इति विग्रहे स्थितो वृद्धिमातिष्ठेत् ॥ ०७१३४। यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्मोपघाती वा, व्यसनमस्य, श्ववराहयोरिव कलहे वा, स्वकर्मानुष्ठानपरो वा वर्धिष्ये" इत्यासनेन वृद्धिमातिष्ठेत् ॥ ०७१३५। यदि वा मन्येत "यानसाध्यः कर्मोपघातः शत्रोः, प्रतिविहितस्वकर्मारक्षश्चास्मि" इति यानेन वृद्धिमातिष्ठेत् ॥ ०७१३६। यदि वा मन्येत "नास्मि शक्तः परकर्माण्युपहन्तुम्, स्वकर्मोपघातं वा त्रातुम्" इति, बलवन्तमाश्रितः स्वकर्मानुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चाकाङ्क्षेत ॥ ०७१३७। यदि वा मन्येत "संधिनैकतः स्वकर्माणि प्रवर्तयिष्यामि, विग्रहेणैकतः परकर्माण्युपहनिष्यामि" इति द्वैधीभावेन वृद्धिमातिष्ठेत् ॥ ०७१३८ एवं षड्भिर्गुणैरेतैः स्थितः प्रकृतिमण्डले । ०७१३८ पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ॥E (संश्रयवृत्ति) ०७२०१। संधिविग्रहयोस्तुल्यायां वृद्धौ संधिमुपेयात् ॥ ०७२०२। विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति ॥ ०७२०३। तेनासनयानयोरासनं व्याख्यातम् ॥ ०७२०४। द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत् ॥ ०७२०५। द्वैधीभूतो हि स्वकर्मप्रधान आत्मन एवोपकरोति, संश्रितस्तु परस्योपकरोति, नात्मनः ॥ ०७२०६। यद्बलः सामन्तस्तद्विशिष्टबलमाश्रयेत् ॥ ०७२०७। तद्विशिष्टबलाभावे तमेवाश्रितः कोशदण्डभूमीनामन्यतमेनास्योपकर्तुमदृष्टः प्रयतेत ॥ ०७२०८। महादोषो हि विशिष्टबलसमागमो राज्ञाम्, अन्यत्रारिविगृहीतात् ॥ ०७२०९। अशक्ये दण्डोपनतवद्वर्तेत ॥ ०७२१०। यदा चास्य प्राणहरं व्याधिमन्तःकोपं शत्रुवृद्धिं मित्रव्यसनमुपस्थितं वा तन्निमित्तामात्मनश्च वृद्धिं पश्येत्तदा सम्भाव्यव्याधिधर्मकार्यापदेशेनापयायात् ॥ ०७२११। स्वविषयस्थो वा नोपगच्छेत् ॥ ०७२१२। आसन्नो वास्य च्छिद्रेषु प्रहरेत् ॥ ०७२१३। बलीयसोर्वा मध्यगतस्त्राणसमर्थमाश्रयेत, यस्य वान्तर्धिः स्यात्, उभौ वा ॥ ०७२१४। कपालसंश्रयस्तिष्ठेत्, मूलहरमितरस्येतरमपदिशन् ॥ ०७२१५। भेदमुभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम् ॥ ०७२१६। पार्श्वस्थो वा बलस्थयोरासन्नभयात्प्रतिकुर्वीत ॥ ०७२१७। दुर्गापाश्रयो वा द्वैधीभूतस्तिष्ठेत् ॥ ०७२१८। संधिविग्रहक्रमहेतुभिर्वा चेष्टेत ॥ ०७२१९। दूष्यामित्राटविकानुभयोरुपगृह्णीयात् ॥ ०७२२०। एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ॥ ०७२२१। द्वाभ्यामुपहतो वा मण्डलापाश्रयस्तिष्ठेत्, मध्यममुदासीनं वा संश्रयेत ॥ ०७२२२। तेन सहैकमुपगृह्येतरमुच्छिन्द्याद्, उभौ वा ॥ ०७२२३। द्वाभ्यामुच्छिन्नो वा मध्यमोदासीनयोस्तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिमाश्रयेत ॥ ०७२२४। तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम्, यत्रस्थो वा शक्नुयादात्मानमुद्धर्तुम्, यत्र वा पूर्वपुरुषोचिता गतिरासन्नः सम्बन्धो वा, मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ॥ ०७२२५ प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ०७२२५ प्रियो यस्य स तं गच्छेदित्याश्रयगतिः परा ॥E (समहीनज्यायसां गुणाभिनिवेशः - हीनसंधयह्) ०७३०१। विजिगीषुः शक्त्यपेक्षः षाड्गुण्यमुपयुञ्जीत ॥ ०७३०२। समज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥ ०७३०३। विगृहीतो हि ज्यायसा हस्तिना पादयुद्धमिवाभ्युपैति ॥ ०७३०४। समेन चामं पात्रमामेनाहतमिवोभयतः क्षयं करोति ॥ ०७३०५। कुम्भेनेवाश्मा हीनेनैकान्तसिद्धिमवाप्नोति ॥ ०७३०६। ज्यायांश्चेन्न संधिमिच्छेद्दण्डोपनतवृत्तमाबलीयसं वा योगमातिष्ठेत् ॥ ०७३०७। समश्चेन्न संधिमिच्छेद्यावन्मात्रमपकुर्यात्तावन्मात्रमस्य प्रत्यपकुर्यात् ॥ ०७३०८। तेजो हि संधानकारणम् ॥ ०७३०९। नातप्तं लोहं लोहेन संधत्त इति ॥ ०७३१०। हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिमुपेयात् ॥ ०७३११। आरण्योअग्निरिव हि दुःखामर्षजं तेजो विक्रमयति ॥ ०७३१२। मण्डलस्य चानुग्राह्यो भवति ॥ ०७३१३। संहितश्चेत्"परप्रकृतयो लुब्धक्षीणापचरिताः प्रत्यादानभयाद्वा नोपगच्छन्ति" इति पश्येद्धीनोअपि विगृह्णीयात् ॥ ०७३१४। विगृहीतश्चेत्"परप्रकृतयो लुब्धक्षीणापचरिता विग्रहोद्विग्ना वा मां नोपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत, विग्रहोद्वेगं वा शमयेत् ॥ ०७३१५। व्यसनयौगपद्येपि "गुरुव्यसनोअस्मि, लघुव्यसनः परः सुखेन प्रतिकृत्य व्यसनमात्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ॥ ०७३१६। संधिविग्रहयोश्चेत्परकर्शनमात्मोपचयं वा नाभिपश्येज्ज्यायानप्यासीत ॥ ०७३१७। परव्यसनमप्रतिकार्यं चेत्पश्येद्धीनोअप्यभियायात् ॥ ०७३१८। अप्रतिकार्यासन्नव्यसनो वा ज्यायानपि संश्रयेत ॥ ०७३१९। संधिनैकतो विग्रहेणैकतश्चेत्कार्यसिद्धिं पश्येज्ज्यायानपि द्वैधीभूतस्तिष्ठेत् ॥ ०७३२०। एवं समस्य षाड्गुण्योपयोगः ॥ ०७३२१। तत्र तु प्रतिविशेषः ॥ ०७३२२ प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताबलः । ०७३२२ संधिनोपनमेत्तूर्णं कोशदण्डात्मभूमिभिः ॥ ०७३२३ स्वयं संख्यातदण्डेन दण्डस्य विभवेन वा । ०७३२३ उपस्थातव्यमित्येष संधिरात्मामिषो मतः ॥ ०७३२४ सेनापतिकुमाराभ्यामुपस्थातव्यमित्ययम् । ०७३२४ पुरुषान्तरसंधिः स्यान्नात्मनेत्यात्मरक्षणः ॥ ०७३२५ एकेनान्यत्र यातव्यं स्वयं दण्डेन वेत्ययम् । ०७३२५ अदृष्टपुरुषः संधिर्दण्डमुख्यात्मरक्षणः ॥ ०७३२६ मुख्यस्त्रीबन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिम् । ०७३२६ साधयेद्गूढमित्येते दण्डोपनतसंधयः ॥ ०७३२७ कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् । ०७३२७ परिक्रयो भवेत्संधिः स एव च यथासुखम् ॥ ०७३२८ स्कन्धोपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ०७३२८ निरुद्धो देशकालाभ्यामत्ययः स्यादुपग्रहः ॥ ०७३२९ विषह्यदानादायत्यां क्षमः स्त्रीबन्धनादपि । ०७३२९ सुवर्णसंधिर्विश्वासादेकीभावगतो भवेत् ॥ ०७३३० विपरीतः कपालः स्यादत्यादानाभिभाषितः । ०७३३० पूर्वयोः प्रणयेत्कुप्यं हस्त्यश्वं वा गरान्वितम् ॥ ०७३३१ तृतीये प्रणयेदर्थं कथयन् कर्मणां क्षयम् । ०७३३१ तिष्ठेच्चतुर्थ इत्येते कोशोपनतसंधयः ॥ ०७३३२ भूम्येकदेशत्यागेन शेषप्रकृतिरक्षणम् । ०७३३२ आदिष्टसंधिस्तत्रेष्टो गूढस्तेनोपघातिनः ॥ ०७३३३ भूमीनामात्तसाराणां मूलवर्जं प्रणामनम् । ०७३३३ उच्छिन्नसंधिस्तत्रेष्टः परव्यसनकाङ्क्षिणः ॥ ०७३३४ फलदानेन भूमीनां मोक्षणं स्यादवक्रयः । ०७३३४ फलातिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥ ०७३३५ कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् । ०७३३५ आदाय फलमित्येते देशोपनतसंधयः ॥ ०७३३६ स्वकार्याणां वशेनैते देशे काले च भाषिताः । ०७३३६ आबलीयसिकाः कार्यास्त्रिविधा हीनसंधयः ॥E (विगृह्यासनं - संधायासनं - विगृह्ययानं - संधाययानं - सम्भूयप्रयाणम्) ०७४०१। संधिविग्रहयोरासनं यानं च व्याख्यातम् ॥ ०७४०२। स्थानमासनमुपेक्षणं चेत्यासनपर्यायाः ॥ ०७४०३। विशेषस्तु - गुणैकदेशे स्थानम्, स्ववृद्धिप्राप्त्यर्थमासनम्, उपायानामप्रयोग उपेक्षणम् ॥ ०७४०४। अतिसंधानकामयोररिविजिगीष्वोरुपहन्तुमशक्तयोर्विगृह्यासनं संधाय वा ॥ ०७४०५। यदा वा पश्येत्"स्वदण्डैर्मित्राटवीदण्डैर्वा समं ज्यायांसं वा कर्शयितुमुत्सहे" इति तदा कृतबाह्याभ्यन्तरकृत्यो विगृह्यासीत ॥ ०७४०६। यदा वा पश्येत्"उत्साहयुक्ता मे प्रकृतयः संहता विवृद्धाः स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यासीत ॥ ०७४०७ यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवीव्यथिता वा प्रकृतयः स्वयमुपजापेन वा मामेष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्षोपहता मामेष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, - ॥ ०७४०७ तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि, स्वपण्योपघातीनि वा परपण्यानि निवर्तयिष्यामि, - ॥ ०७४०७ परवणिक्पथाद्वा सरवन्ति मामेष्यन्ति विगृहीते, नेतरम्, दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति, तैरेव वा विग्रहं प्राप्स्यति, - ॥ ०७४०७ मित्रं मे मित्रभाव्यभिप्रयातो बह्वल्पकालं तनुक्षयव्ययमर्थं प्राप्स्यति, गुणवतीमादेयां वा भूमिम्, - ॥ ०७४०७ सर्वसंदोहेन वा मामनादृत्य प्रयातुकामः कथं न यायाद्" इति परवृद्धिप्रतिघातार्थं प्रतापार्थं च विगृह्यासीत ॥ ०७४०८। "तमेव हि प्रत्यावृत्तो ग्रसते" इत्याचार्याः ॥ ०७४०९। नेति कौटिल्यः ॥ ०७४१०। कर्शनमात्रमस्य कुर्यादव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम् ॥ ०७४११। एवं परस्य यातव्योअस्मै साहाय्यमविनष्टः प्रयच्छेत् ॥ ०७४१२। तस्मात्सर्वसंदोहप्रकृतं विगृह्यासीत ॥ ०७४१३। विगृह्यासनहेतुप्रातिलोम्ये संधायासीत ॥ ०७४१४। विगृह्यासनहेतुभिरभ्युच्चितः सर्वसंदोहवर्जं विगृह्य यायात् ॥ ०७४१५। यदा वा पश्येत्"व्यसनी परः, प्रकृतिव्यसनं वास्य शेएषप्रकृतिभिरप्रतिकार्यम्, स्वचक्रपीडिता विरक्ता वास्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम्, अग्न्युदकव्याधिमरकदुर्भिक्षनिमित्तं क्षीणयुग्यपुरुषनिचयरक्षाविधानः परः" इति तदा विगृह्य यायात् ॥ ०७४१६। यदा वा पश्येत्"मित्रमाक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृतिः, विपरीतप्रकृतिः परः पार्ष्णिग्राहश्चासारश्च, शक्ष्यामि मित्रेणासारमाक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ॥ ०७४१७। यदा वा फलमेकहार्यमल्पकालं पश्येत्तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात् ॥ ०७४१८। विपर्यये संधाय यायात् ॥ ०७४१९। यदा वा पश्येत्"न शक्यमेकेन यातुमवश्यं च यातव्यम्" इति तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेनांशेन, अनेकत्रानिर्दिष्टेनांशेन ॥ ०७४२०। तेषामसमवाये दण्डमन्यतमस्मान्निविष्टांशेन याचेत ॥ ०७४२१। सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन ॥ ०७४२२ अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः । ०७४२२ विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥E (यातव्यामित्रयोरभिग्रहचिन्ताः - क्षयलोभविरागहेतवः प्रकृतीनां - सामवायिकविपरिमर्शह्) ०७५०१। तुल्यसामन्तव्यसने यातव्यममित्रं वेत्यमित्रमभियायात्, तत्सिद्धौ यातव्यम् ॥ ०७५०२। अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ ॥ ०७५०३। गुरुव्यसनं यातव्यं लघुव्यसनममित्रं वेति "गुरुव्यसनं सौकर्यतो यायाद्" इत्याचार्याः ॥ ०७५०४। नेति कौटिल्यः ॥ ०७५०५। लघुव्यसनममित्रं यायात् ॥ ०७५०६। लघ्वपि हि व्यसनमभियुक्तस्य कृच्छ्रं भवति ॥ ०७५०७। सत्यं गुर्वपि गुरुतरं भवति ॥ ०७५०८। अनभियुक्तस्तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यमभिसरेत्, पार्ष्णिं वा गृह्णीयात् ॥ ०७५०९। यातव्ययौगपद्ये गुरुव्यसनं न्यायवृत्तिं लघुव्यसनमन्यायवृत्तिं विरक्तप्रकृतिं वेति विरक्तप्रकृतिं यायात् ॥ ०७५१०। गुरुव्यसनं न्यायवृत्तिमभियुक्तं प्रकृतयोअनुगृह्णन्ति, लघुव्यसनमन्यायवृत्तिमुपेक्षन्ते, विरक्ता बलवन्तमप्युच्छिन्दन्ति ॥ ०७५११। तस्माद्विरक्तप्रकृतिमेव यायात् ॥ ०७५१२। क्षीणलुब्धप्रकृतिमपचरितप्रकृतिं वेति क्षीणलुब्धप्रकृतिं यायात्, क्षीणलुब्धा हि प्रकृतयः सुखेनोपजापं पीडां वोपगच्छन्ति, नापचरिताः प्रधानावग्रहसाध्याः" इत्याचार्याः ॥ ०७५१३। नेति कौटिल्यः ॥ ०७५१४। क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यमिति ॥ ०७५१५। तस्मादपचरितप्रकृतिमेव यायात् ॥ ०७५१६। बलवन्तमन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिमिति बलवन्तमन्यायवृत्तिं यायात् ॥ ०७५१७। बलवन्तमन्यायवृत्तिमभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वास्य भजन्ते ॥ ०७५१८। दुर्बलं तु न्यायवृत्तिमभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा ॥ ०७५१९ अवक्षेपेण हि सतामसतां प्रग्रहेण च । ०७५१९ अभूतानां च हिंसानामधर्म्याणां प्रवर्तनैः ॥ ०७५२० उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ०७५२० अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ॥ ०७५२१ अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ०७५२१ अप्रदानैश्च देयानामदेयानां च साधनैः ॥ ०७५२२ अदण्डनैश्च दण्ड्यानामदण्ड्यानां च दण्डनैः । ०७५२२ अग्राह्याणामुपग्राहैर्ग्राह्याणां चानभिग्रहैः ॥ ०७५२३ अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ०७५२३ अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ॥ ०७५२४ पातैः पुरुषकाराणां कर्मणां गुणदूषणैः । ०७५२४ उपघातैः प्रधानानां मान्यानां चावमाननैः ॥ ०७५२५ विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ०७५२५ कृतस्याप्रतिकारेण स्थितस्याकरणेन च ॥ ०७५२६ राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा । ०७५२६ प्रकृतीनां क्षयो लोभो वैराग्यं चोपजायते ॥ ०७५२७ क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । ०७५२७ विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ॥ ०७५२८। तस्मात्प्रकृतीनां क्षयलोभविरागकारणानि नोत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत ॥ ०७५२९। क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ॥ ०७५३०। क्षीणाः पीडनोच्छेदनभयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ॥ ०७५३१। लुब्धा लोभेनासंतुष्टाः परोपजापं लिप्सन्ते ॥ ०७५३२। विरक्ताः पराभियोगमभ्युत्तिष्ठन्ते ॥ ०७५३३। तासां हिरण्यधान्यक्षयः सर्वोपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः ॥ ०७५३४। लोभ ऐकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुमादातुं वा ॥ ०७५३५। विरागः प्रधानावग्रहसाध्यः ॥ ०७५३६। निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम्, अनापत्सहास्तु ॥ ०७५३७। प्रकृतिमुख्यप्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च ॥ ०७५३८। सामवायिकानामपि संधिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात् ॥ ०७५३९। शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारीति ॥ ०७५४०। तेषां ज्यायसैकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यमिति द्वाभ्यां समाभ्यां श्रेयः ॥ ०७५४१। ज्यायसा ह्यवगृहीतश्चरति, समाभ्यामतिसंधानाधिक्ये वा ॥ ०७५४२। तौ हि सुखौ भेदयितुम्, दुष्टश्चैको द्वाभ्यां नियन्तुं भेदोपग्रहं चोपगन्तुमिति ॥ ०७५४३। समेनैकेन द्वाभ्यां हीनाभ्यां वेति द्वाभ्यां हीनाभ्यां श्रेयः ॥ ०७५४४। तौ हि द्विकार्यसाधकौ वश्यौ च भवतः ॥ ०७५४५ कार्यसिद्धौ तु - कृतार्थाज्ज्यायसो गूढः सापदेशमपस्रवेत् । ०७५४५ अशुचेः शुचिवृत्तात्तु प्रतीक्षेता विसर्जनात् ॥ ०७५४६ सत्त्रादपसरेद्यत्तः कलत्रमपनीय वा । ०७५४६ समादपि हि लब्धार्थाद्विश्वस्तस्य भयं भवेत् ॥ ०७५४७ ज्यायस्त्वे चापि लब्धार्थः समोअपि परिकल्पते । ०७५४७ अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी ॥ ०७५४८ विशिष्टादल्पमप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् । ०७५४८ अनंशो वा ततोअस्याङ्के प्रहृत्य द्विगुणं हरेत् ॥ ०७५४९ कृतार्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ०७५४९ अपि जीयेत न जयेन्मण्डलेष्टस्तथा भवेत् ॥E (संहितप्रयाणिकं - परिपणितापरिपणितापसृताः संधयह्) ०७६०१। विजिगीषुर्द्वितीयां प्रकृतिमेवमतिसंदध्यात् ॥ ०७६०२। सामन्तं संहितप्रयाणे योजयेत्"त्वमितो याहि, अहमितो यास्यामि, समानो लाभः" इति ॥ ०७६०३। लाभसाम्ये संधिः, वैषम्ये विक्रमः ॥ ०७६०४। संधिः परिपणितश्चापरिपणितश्च ॥ ०७६०५। "त्वमेतं देशं याहि, अहमिमं देशं यास्यामि" इति परिपणितदेशः ॥ ०७६०६। "त्वमेतावन्तं कालं चेष्टस्व, अहमेतावन्तं कालं चेष्टिष्ये" इति परिपणितकालः ॥ ०७६०७। "त्वमेतावत्कार्यं साधय, अहमिदं कार्यं साधयिष्यामि" इति परिपणितार्थः ॥ ०७६०८। यदि वा मन्येत "शैलवननदीदुर्गमटवीव्यवहितं छिन्नधान्यपुरुषवीवधासारमयवसेन्धनोदकमविज्ञातं प्रकृष्टमन्यभावदेशीयं वा सैन्यव्यायामानामलब्धभौमं वा देशं परो यास्यति, विपरीतमहम्" इत्येतस्मिन् विशेषे परिपणितदेशं संधिमुपेयात् ॥ ०७६०९। यदि वा मन्येत "प्रवर्षोष्णशीतमतिव्याधिप्रायमुपक्षीणाहारोपभोगं सैन्यव्यायामानां चाउपरोधिकं कार्यसाधनानामूनमतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरीतमहम्" इत्येतस्मिन् विशेषे परिपणितकालं संधिमुपेयात् ॥ ०७६१०। यदि वा मन्येत "प्रत्यादेयं प्रकृतिकोपकं दीर्घकालं महाक्षयव्ययमल्पमनर्थानुबन्धमकल्यमधर्म्यं मध्यमोदासीनविरुद्धं मित्रोपघातकं वा कार्यं परः साधयिष्यति, विपरीतमहम्" इत्येतस्मिन् विशेषे परिपणितार्थं संधिमुपेयात् ॥ ०७६११। एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात्सप्तविधः परिपणितः ॥ ०७६१२। तस्मिन् प्रागेवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत ॥ ०७६१३। व्यसनत्वरावमानालस्ययुक्तमज्ञं वा शत्रुमतिसंधातुकामो देशकालकार्याणामनवस्थापनात्"संहितौ स्वः" इति संधिविश्वासेन परच्छिद्रमासाद्य प्रहरेदित्यपरिपणितः ॥ ०७६१४। तत्रैतद्भवति ॥ ०७६१५ सामन्तेनैव सामन्तं विद्वानायोज्य विग्रहे । ०७६१५ ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ॥ ०७६१६। संधेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणमवशीर्णक्रिया च ॥ ०७६१७। विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम् ॥ ०७६१८। इति संधिविक्रमौ ॥ ०७६१९। अपूर्वस्य संधेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलमवस्थापनमकृतचिकीर्षा ॥ ०७६२०। कृतस्य प्रियहिताभ्यामुभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृतश्लेषणम् ॥ ०७६२१। परस्यापसंधेयतां दूष्यातिसंधानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम् ॥ ०७६२२। भृत्येन मित्रेण वा दोषापसृतेन प्रतिसंधानमवशीर्णक्रिया ॥ ०७६२३। तस्यां गतागतश्चतुर्विधः - कारणाद्गतागतो, विपरीतः, कारणाद्गतोअकारणादागतो, विपरीतश्चेति ॥ ०७६२४। स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद्गतागतः संधेयः ॥ ०७६२५। स्वदोषेण गतागतो गुणमुभयोः परित्यज्य अकारणाद्गतागतः चलबुद्धिरसंधेयः ॥ ०७६२६। स्वामिनो दोषेण गतः परस्मात्स्वदोषेणागत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "परप्रयुक्तः स्वेन वा दोषेणापकर्तुकामः, परस्योच्छेत्तारममित्रं मे ज्ञात्वा प्रतिघातभयादागतः, परं वा मामुच्छेत्तुकामं परित्यज्यानृशंस्यादागतः" इति ॥ ०७६२७। ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिमपकृष्टं वासयेत् ॥ ०७६२८। स्वदोषेण गतः परदोषेणागत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति, उचितोअयमस्य वासः, परत्रास्य जनो न रमते, मित्रैर्मे संहितः, शत्रुभिर्विगृहीतः, लुब्धक्रूरादाविग्नः शत्रुसंहिताद्वा परस्मात्" इति ॥ ०७६२९। ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः ॥ ०७६३०। "कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वमाशानिर्वेदो देशलौल्यमविश्वासो बलवद्विग्रहो वा परित्यागस्थानम्" इत्याचार्याः ॥ ०७६३१। भयमवृत्तिरमर्ष इति कौटिल्यः ॥ ०७६३२। इहापकारी त्याज्यः, परापकारी संधेयः, उभयापकारी तर्कयितव्य इति समानम् ॥ ०७६३३। असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ॥ ०७६३४ सोपकारं व्यवहितं गुप्तमायुःक्षयादिति । ०७६३४ वासयेदरिपक्षीयमवशीर्णक्रियाविधौ ॥ ०७६३५ विक्रमयेद्भर्तरि वा सिद्धं वा दण्डचारिणम् ॥ ०७६३५ कुर्यादमित्राटवीषु प्रत्यन्ते वान्यतः क्षिपेत् ॥ ०७६३६ पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतम् ॥ ०७६३६ तस्यैव दोषेणादूष्य परसंधेयकारणात् ॥ ०७६३७ अथ वा शमयेदेनमायत्यर्थमुपांशुना ॥ ०७६३७ आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद्गतागतम् ॥ ०७६३८ अरितोअभ्यागतो दोषः शत्रुसंवासकारितः ॥ ०७६३८ सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ॥ ०७६३९ जायते प्लक्षबीजाशात्कपोतादिव शाल्मलेः ॥ ०७६३९ उद्वेगजननो नित्यं पश्चादपि भयावहः ॥ ०७६४० प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः ॥ ०७६४० विभीषणमवस्कन्दः प्रमादव्यसनार्दनम् ॥ ०७६४१ एकत्र त्यागघातौ च कूटयुद्धस्य मातृका ॥ ०७६४१ योगगूढोपजापार्थं तूष्णींयुद्धस्य लक्षणम् ॥E (द्वैधीभाविकाः संधिविक्रमाह्) ०७७०१। विजिगीषुर्द्वितीयां प्रकृतिमेवमुपगृह्णीयात् ॥ ०७७०२। सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णिग्राहं वारयिष्यति, यातव्यं नाभिसरिष्यति, बलद्वैगुण्यं मे भविष्यति, वीवधासारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्वाबाधे मे पथि कण्टकान्मर्दयिष्यति, दुर्गाटव्यपसारेषु दण्डेन चरिष्यति, यातव्यमविषह्ये दोषे संधौ वा स्थापयिष्यति, लब्धलाभांशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ॥ ०७७०३। द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानामन्यतमाल्लिप्सेत ॥ ०७७०४। तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्धीनेनेति समसंधिः ॥ ०७७०५। विपर्यये विषमसंधिः ॥ ०७७०६। तयोर्विशेषलाभादतिसंधिः ॥ ०७७०७। व्यसनिनमपायस्थाने सक्तमनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत ॥ ०७७०८। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७०९। एवंभूतो वा हीनशक्तिप्रतापपूरणार्थं सम्भाव्यार्थाभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं हीनो बलसमाद्विशिष्टेन लाभेन पणेत ॥ ०७७१०। पणितः कल्याणबुद्धिमनुगृह्णीयात्, अन्यथा विक्रमेत ॥ ०७७११। जातव्यसनप्रकृतिरन्ध्रमुपस्थितानर्थं वा ज्यायांसं हीनो दुर्गमित्रप्रतिष्टब्धो वा ह्रस्वमध्वानं यातुकामः शत्रुमयुद्धमेकान्तसिद्धिं वा लाभमादातुकामो बलसमाद्धीनेन लाभेन पणेत ॥ ०७७१२। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७१३। अरन्ध्रव्यसनो वा ज्यायान् दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्डमावाहयितुकामो वा पीडनीयमुच्छेदनीयं वा हीनेन व्यथयितुकामः संधिप्रधानो वा कल्याणबुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ॥ ०७७१४। कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत ॥ ०७७१५। एवं समः सममतिसंदध्यादनुगृह्णीयाद्वा ॥ ०७७१६। परानीकस्य प्रत्यनीकं मित्राटवीनां वा, शत्रोर्विभूमीनां देशिकं मूलपार्ष्णित्राणार्थं वा समो बलसमेन लाभेन पणेत ॥ ०७७१७। पणितः कल्याणबुद्धिमनुगृह्णीयात्, अन्यथा विक्रमेत ॥ ०७७१८। जातव्यसनप्रकृतिरन्ध्रमनेकविरुद्धमन्यतो लभमानो वा समो बलसमाद्धीनेन लाभेन पणेत ॥ ०७७१९। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७२०। एवंभूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद्विशिष्टेन लाभेन पणेत ॥ ०७७२१। पणितः कल्याणबुद्धिमनुगृह्णीयातन्यथा विक्रमेत ॥ ०७७२२। जातव्यसनप्रकृतिरन्ध्रमभिहन्तुकामः स्वारब्धमेकान्तसिद्धिं वास्य कर्मोपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्याद्भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ॥ ०७७२३। भूयो वा याचितः स्वबलरक्षार्थं दुर्धर्षमन्यदुर्गमासारमटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेध्वनि काले वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृद्धस्तमेवोच्छेत्तुकामः परदण्डमादातुकामो वा भूयो दद्यात् ॥ ०७७२४। ज्यायान् वा हीनं यातव्यापदेशेन हस्ते कर्तुकामः परमुच्छिद्य वा तमेवोच्छेत्तुकामः, त्यागं वा कृत्वा प्रत्यादातुकामो बलसमाद्विशिष्टेन लाभेन पणेत ॥ ०७७२५। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७२६। यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वास्मै दद्यात् ॥ ०७७२७। जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत ॥ ०७७२८। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७२९। एवंभूतं हीनं ज्यायान् बलसमाद्धीनेन लाभेन पणेत ॥ ०७७३०। पणितस्तस्यापकारसमर्थो विक्रमेत, अन्यथा संदध्यात् ॥ ०७७३१ आदौ बुध्येत पणितः पणमानश्च कारणम् ॥ ०७७३१ ततो वितर्क्योभयतो यतः श्रेयश्ततो व्रजेत् ॥E (यातव्यवृत्तिः - अनुग्राह्यमित्रविशेषाह्) ०७८०१। यातव्योअभियास्यमानः संधिकारणमादातुकामो विहन्तुकामो वा सामवायिकानामन्यतमं लाभद्वैगुण्येन पणेत ॥ ०७८०२। पणमानः क्षयव्ययप्रवासप्रत्यवायपरोपकारशरीराबाधांश्चास्य वर्णयेत् ॥ ०७८०३। प्रतिपन्नमर्थेन योजयेत् ॥ ०७८०४। वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ॥ ०७८०५। दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामः स्वारब्धां वा यात्रासिद्धिं विघातयितुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभमल्पमिच्छेत्, आयत्यां प्रभूतम् ॥ ०७८०६। मित्रोपकारममित्रोपघातमर्थानुबन्धमवेक्षमाणः पूर्वोपकारकं कारयितुकामो भूयस्तदात्वे महान्तं लाभमुत्सृज्यायत्यामल्पमिच्छेत् ॥ ०७८०७। दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामस्तथाविधमुपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात् ॥ ०७८०८। कृतसंधिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसंधिविश्लेषणं वा कर्तुकामः पराभियोगात्शङ्कमानो लाभमप्राप्तमधिकं वा याचेत ॥ ०७८०९। तमितरस्तदात्वे चायत्यां च क्रममवेक्षेत ॥ ०७८१०। तेन पूर्वे व्याख्याताः ॥ ०७८११। अरिविजिगीष्वोस्तु स्वं स्वं मित्रमनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः ॥ ०७८१२। शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषम्, भव्यारम्भी कल्याणोदयम् ॥ ०७८१३। स्थिरकर्मा नासमाप्य कर्मोपरमते ॥ ०७८१४। अनुरक्तप्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ॥ ०७८१५। त एते कृतार्थाः सुखेन प्रभूतं चोपकुर्वन्ति ॥ ०७८१६। अतः प्रतिलोमा नानुग्राह्याः ॥ ०७८१७। तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वानुगृह्णाति सोअतिसंधत्ते ॥ ०७८१८। मित्रादात्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोपकारानितरः ॥ ०७८१९। कृतार्थश्च शत्रुर्वैगुण्यमेति ॥ ०७८२०। मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वानुगृह्णाति सोअतिसंधत्ते ॥ ०७८२१। मित्रादात्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोपकारानितरः ॥ ०७८२२। मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ॥ ०७८२३। कृतप्रयासं हि मध्यमामित्रमपसृतमेकार्थोपगतं प्राप्नोति ॥ ०७८२४। तेनोदासीनानुग्रहो व्याख्यातः ॥ ०७८२५। मध्यमोदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहमनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ॥ ०७८२६। विपरीतोअतिसंधत्ते ॥ ०७८२७। यत्र तु दण्डः प्रहितस्तं वा चार्थमन्यांश्च साधयति तत्र मौलभृतश्रेणीमित्राटवीबलानामन्यतममुपलब्धदेशकालं दण्डं दद्यात्, अमित्राटवीबलं वा व्यवहितदेशकालम् ॥ ०७८२८। यं तु मन्येत "कृतार्थो मे दण्डं गृह्णीयाद्, अमित्राटव्यभूम्यनृतुषु वा वासयेद्, अफलं वा कुर्याद्" इति, दण्डव्यासङ्गापदेशेन नैनमनुगृह्णीयात् ॥ ०७८२९। एवमवश्यं त्वनुग्रहीतव्ये तत्कालसहमस्मै दण्डं दद्यात् ॥ ०७८३०। आसमाप्तेश्चैनं वासयेद्योधयेच्च बलव्यसनेभ्यश्च रक्षेत् ॥ ०७८३१। कृतार्थाच्च सापदेशमपस्रावयेत् ॥ ०७८३२। दूष्यामित्राटवीदण्डं वास्मै दद्यात् ॥ ०७८३३। यातव्येन वा संधायैनमतिसंदध्यात् ॥ ०७८३४ समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ॥ ०७८३४ समहीनविशिष्टानामित्युक्ताः संधिविक्रमाः ॥E (मित्रहिरण्यभूमिकर्मसंधयः, तत्र मित्रसंधिः हिरण्यसंधिश्च) ०७९०१। संहितप्रयाणे मित्रहिरण्यभूमिलाभानामुत्तरोत्तरो लाभः श्रेयान् ॥ ०७९०२। मित्रहिरण्ये हि भूमिलाभाद्भवतः, मित्रं हिरण्यलाभात् ॥ ०७९०३। यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ॥ ०७९०४। "त्वं चाहं च मित्रं लभावहे" इत्येवंादिध्समसंधिः ॥ ०७९०५। "त्वं मित्रम्" इत्येवंादिर्विषमसंधिः ॥ ०७९०६। तयोर्विशेषलाभादतिसंधिः ॥ ०७९०७। समसंधौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रमवाप्नोति सोअतिसंधत्ते ॥ ०७९०८। आपद्धि सौहृदस्थैर्यमुत्पादयति ॥ ०७९०९। मित्रकृच्छ्रेपि नित्यमवश्यमनित्यं वश्यं वेति "नित्यमवश्यं श्रेयः, तद्धि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ॥ ०७९१०। नेति कौटिल्यः ॥ ०७९११। वश्यमनित्यं श्रेयः ॥ ०७९१२। यावदुपकरोति तावन्मित्रं भवति, उपकारलक्षणं मित्रमिति ॥ ०७९१३। वश्ययोरपि महाभोगमनित्यमल्पभोगं वा नित्यमिति ॥ महाभोगमनित्यं श्रेयः, महाभोगमनित्यमल्पकालेन महदुपकुर्वन्महान्ति व्ययस्थानानि प्रतिकरोति" इत्याचार्याः ॥ ०७९१४। नेति कौटिल्यः ॥ ०७९१५। नित्यमल्पभोगं श्रेयः ॥ ०७९१६। महाभोगमनित्यमुपकारभयादपक्रामति, उपकृत्य वा प्रत्यादातुमीहते ॥ ०७९१७। नित्यमल्पभोगं सातत्यादल्पमुपकुर्वन्महता कालेन महदुपकरोति ॥ ०७९१८। गुरुसमुत्थं महन्मित्रं लघुसमुत्थमल्पं वेति "गुरुसमुत्थं महन्मित्रं प्रतापकरं भवति, यदा चोत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७९१९। नेति कौटिल्यः ॥ ०७९२०। लघुसमुत्थमल्पं श्रेयः ॥ ०७९२१। लगुसमुत्थमल्पं मित्रं कार्यकालं नातिपातयति दौर्बल्याच्च यथेष्टभोग्यं भवति, नेतरत्प्रकृष्टभौमम् ॥ ०७९२२। विक्षिप्तसैन्यमवश्यसैन्यं वेति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ॥ ०७९२३। नेति कौटिल्यः ॥ ०७९२४। अवश्यसैन्यं श्रेयः ॥ ०७९२५। अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुम्, नेतरत्कार्यव्यासक्तं प्रतिसंहर्तुम् ॥ ०७९२६। पुरुषभोगं हिरण्यभोगं वा मित्रमिति "पुरुषभोगं मित्रं श्रेयः, प्रुषभोगं मित्रं प्रतापकरं भवति, यदा चोत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ॥ ०७९२७। नेति कौटिल्यः ॥ ०७९२८। हिरण्यभोगं मित्रं श्रेयः ॥ ०७९२९। नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ॥ ०७९३०। दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ॥ ०७९३१। हिरण्यभोगं भूमिभोगं वा मित्रमिति "हिरण्यभोगं गतिमत्त्वात्सर्वव्ययप्रतीकारकरम्" इत्याचार्याः ॥ ०७९३२। नेति कौटिल्यः ॥ ०७९३३। मित्रहिरण्ये हि भूमिलाभाद्भवत इत्युक्तं पुरस्ताद् ॥ ०७९३४। तस्माद्भूमिभोगं मित्रं श्रेय इति ॥ ०७९३५। तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वमनुरागः सर्वबललाभो वा मित्रकुलाद्विशेषः ॥ ०७९३६। तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यमल्पप्रयसता सातत्यं च विशेषः ॥ ०७९३७। तत्रैतद्भवति ॥ ०७९३८ नित्यं वश्यं लघूत्थानं पितृपैतामहं महत् । ०७९३८ अद्वैध्यं चेति सम्पन्नं मित्रं षड्गुणमुच्यते ॥ ०७९३९ ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ०७९३९ पूर्वोपचितसम्बन्धं तन्मित्रं नित्यमुच्यते ॥ ०७९४० सर्वचित्रमहाभोगं त्रिविधं वश्यमुच्यते । ०७९४० एकतोभोग्युभयतः सर्वतोभोगि चापरम् ॥ ०७९४१ आदातृ वा दात्रपि वा जीवत्यरिषु हिंसया । ०७९४१ मित्रं नित्यमवश्यं तद्दुर्गाटव्यपसारि च ॥ ०७९४२ अन्यतो विगृहीतं यल्लघुव्यसनमेव वा । ०७९४२ संधत्ते चोपकाराय तन्मित्रं वश्यमध्रुवम् ॥ ०७९४३ एकार्थेनाथ सम्बद्धमुपकार्यविकारि च । ०७९४३ मित्रभावि भवत्येतन्मित्रमद्वैध्यमापदि ॥ ०७९४४ मित्रभावाद्ध्रुवं मित्रं शत्रुसाधारणाच्चलम् । ०७९४४ न कस्यचिदुदासीनं द्वयोरुभयभावि तत् ॥ ०७९४५ विजिगीषोरमित्रं यन्मित्रमन्तर्धितां गतम् । ०७९४५ उपकारेनिविष्टं वाशक्तं वानुपकारि तत् ॥ ०७९४६ प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धमेव वा । ०७९४६ अनुगृह्णाति यन्मित्रं शत्रुसाधारणं हि तत् ॥ ०७९४७ प्रकृष्टभौमं संतुष्टं बलवच्चालसं च यत् । ०७९४७ उदासीनं भवत्येतद्व्यसनादवमानितम् ॥ ०७९४८ अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ०७९४८ उभयस्याप्यविद्विष्टं विद्यादुभयभावि तत् ॥ ०७९४९ कारणाकारणध्वस्तं कारणाकारणागतम् । ०७९४९ यो मित्रं समुपेक्षेत स मृत्युमुपगूहति ॥ ०७९५०। क्षिप्रमल्पो लाभश्चिरान्महानिति वा "क्षिप्रमल्पो लाभः कार्यदेशकालसंवादकः श्रेयान्" इत्याचार्याः ॥ ०७९५१। नेति कौटिल्यः ॥ ०७९५२। चिरादविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः ॥ ०७९५३ एवं दृष्ट्वा ध्रुवे लाभे लाभांशे च गुणोदयम् । ०७९५३ स्वार्थसिद्धिपरो यायात्संहितः सामवायिकैः ॥E (मित्रहिरण्यभूमिकर्मसंधयः, तत्र भूमिसंधिह्) ०७१००१। "त्वं चाहं च भूमिं लभावहे" इति भूमिसंधिः ॥ ०७१००२। तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिमवाप्नोति सोअतिसंधत्ते ॥ ०७१००३। तुल्ये सम्पन्नालाभे यो बलवन्तमाक्रम्य भूमिमवाप्नोति सोअतिसंधत्ते ॥ ०७१००४। भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति ॥ ०७१००५। दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति ॥ ०७१००६। दुर्बल एव च भूमिलाभः, तत्सामन्तश्च मित्रममित्रभावं गच्छति ॥ ०७१००७। तुल्ये बलीयस्त्वे यः स्थितशत्रुमुत्पाट्य भूमिमवाप्नोति सोअतिसंधत्ते ॥ ०७१००८। दुर्गावाप्तिर्हि स्वभूमिरक्षणममित्राटवीप्रतिषेधं च करोति ॥ ०७१००९। चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः ॥ ०७१०१०। दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति ॥ ०७१०११। विपरीता बलवत्सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति ॥ ०७१०१२। सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरनित्यामित्रेति "सम्पन्ना नित्यामित्रा श्रेयसी भूमिः सम्पन्ना हि कोशदण्डौ सम्पादयति, तौ चामित्रप्रतिघातकौ इत्याचार्याः ॥ ०७१०१३। नेति कौटिल्यः ॥ ०७१०१४। नित्यामित्रालाभे भूयान् शत्रुलाभो भवति ॥ ०७१०१५। नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ॥ ०७१०१६। यस्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेच्छाटवीभिर्वा नित्याविरहिताः प्रत्यन्ताः सा नित्यामित्रा, विपर्यये त्वनित्यामित्रा ॥ ०७१०१७। अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ॥ ०७१०१८। सुखा हि प्राप्तुं पालयितुमभिसारयितुं च भवति ॥ ०७१०१९। विपरीता व्यवहिता ॥ ०७१०२०। व्यवहितयोरपि दण्डधारणात्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी ॥ ०७१०२१। सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते ॥ ०७१०२२। विपरीता दण्डधारणा दण्डस्थानम् ॥ ०७१०२३। बालिशात्प्राज्ञाद्वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान् ॥ ०७१०२४। सुप्राप्यानुपाल्या हि भवति, अप्रत्यादेया च ॥ ०७१०२५। विपरीता प्राज्ञादनुरक्ता ॥ ०७१०२६। पीडनीयोच्छेदनीययोरुच्छेदनीयाद्भूमिलाभः श्रेयान् ॥ ०७१०२७। उच्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाभियुक्तः कोशदण्डावादायापसर्तुकामः प्रकृतिभिस्त्यज्यते, न पीडनीयो दुर्गमित्रप्रतिष्टब्धः ॥ ०७१०२८। दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद्भूमिलाभः श्रेयान् ॥ ०७१०२९। स्थालेयं हि सुरोधावमर्दावस्कन्दमनिह्श्राविशत्रु च ॥ ०७१०३०। नदीदुर्गं तु द्विगुणक्लेशकरम्, उदकं च पातव्यं वृत्तिकरं चामित्रस्य ॥ ०७१०३१। नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद्ब्भूमिलाभः श्रेयान् ॥ ०७१०३२। नदीदुर्गं हि हस्तिस्तम्भसंक्रमसेतुबन्धनौभिः साध्यमनित्यगाम्भीर्यमवस्राव्युदकं च ॥ ०७१०३३। पार्वतं तु स्वारक्षं दुरुपरोधि कृच्छ्रारोहणम्, भग्ने चैकस्मिन्न सर्ववधः, शिलावृक्षप्रमोक्षश्च महापकारिणाम् ॥ ०७१०३४। निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान् ॥ ०७१०३५। निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनस्तु सर्वदेशकालयोधिनः ॥ ०७१०३६। खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान् ॥ ०७१०३७। खनका हि खातेन शस्त्रेण चोभयथा युध्यन्ते, शस्त्रेणैवाकाशयोधिनः ॥ ०७१०३८ एवंविध्येभ्यः पृथिवीं लभमानोअर्थशास्त्रवित् । ०७१०३८ संहितेभ्यः परेभ्यश्च विशेषमधिगच्छति ॥E (मित्रहिरण्यभूमिकर्मसम्धयह्- तत्र अनवसितसम्धिह्) ०७११०१। "त्वं चाहं च शून्यं निवेशयावहे" इत्यनवसितसंधिः ॥ ०७११०२। तयोर्यः प्रत्युपस्थितार्थो यथोक्तगुणां भूमिं निवेशयति सोअतिसंधत्ते ॥ ०७११०३। तत्रापि स्थलमौदकं वेति महतः स्थलादल्पमौदकं श्रेयः, सातत्यादवस्थितत्वाच्च फलानाम् ॥ ०७११०४। स्थलयोरपि प्रभूतपूर्वापरसस्यमल्पवर्षपाकमसक्तारम्भं श्रेयः ॥ ०७११०५। औदकयोरपि धान्यवापमधान्यवापात्श्रेयः ॥ ०७११०६। तयोरल्पबहुत्वे धान्यकान्तादल्पान्महदधान्यकान्तं श्रेयः ॥ ०७११०७। महत्यवकाशे हि स्थाल्याश्चानूप्याश्चौषधयो भवन्ति ॥ ०७११०८। दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥ ०७११०९। कृत्रिमा हि भूमिगुणाः ॥ ०७१११०। खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः ॥ ०७११११। धान्यमूला हि दुर्गादीनां कर्मणामारम्भाः ॥ ०७१११२। महाविषयविक्रयो वा खनिभोगः श्रेयान् ॥ ०७१११३। "द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः प्रभूतनिधानक्षमश्च, विपरीतो हस्तिवनभोगः" इत्याचार्याः ॥ ०७१११४। नेति कौटिल्यः ॥ ०७१११५। शक्यं द्रव्यवनमनेकमनेकस्यां भूमौ वापयितुम्, न हस्तिवनम् ॥ ०७१११६। हस्तिप्रधानो हि परानीकवध इति ॥ ०७१११७। वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः ॥ ०७१११८। भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी ॥ ०७१११९। भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषाम्, अनापत्सहा तु ॥ ०७११२०। विपरीता श्रेणीमनुष्या, कोपे महादोषा ॥ ०७११२१। तस्यां चातुर्वर्ण्यनिवेशे सर्वभोगसहत्वादवरवर्णप्राया श्रेयसी, बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती, कृष्याश्चान्येषां चारम्भाणां प्रयोजकत्वात्गोरक्षकवती, पण्यनिचयर्णानुग्रहादाढ्यवणिग्वती ॥ ०७११२२। भूमिगुणानामपाश्रयः श्रेयान् ॥ ०७११२३। दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी ॥ ०७११२४। पुरुषवद्धि राज्यम् ॥ ०७११२५। अपुरुषा गौर्वन्ध्येव किं दुहीत ॥ ०७११२६। महाक्षयव्ययनिवेशां तु भूमिमवाप्तुकामः पूर्वमेव क्रेतारं पणेत दुर्बलमराजबीजिनं निरुत्साहमपक्षमन्यायवृत्तिं व्यसनिनं दैवप्रमाणं यत्किंचनकारिणं वा ॥ ०७११२७। महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति ॥ ०७११२८। बलवानराजबीजी क्षयव्ययभयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ॥ ०७११२९। निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते ॥ ०७११३०। कोशवानप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित्प्राप्नोति ॥ ०७११३१। अन्यायवृत्तिर्निविष्टमप्युत्थापयेत् ॥ ०७११३२। स कथमनिविष्टं निवेशयेत् ॥ ०७११३३। तेन व्यसनी व्याख्यातः ॥ ०७११३४। दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वावसीदति ॥ ०७११३५। यत्किंचनकारी न किंचिदासादयति ॥ ०७११३६। स चैषां पापिष्ठतमो भवति ॥ ०७११३७। "यत्किंचिदारभमाणो हि विजिगीषोः कदाचिच्छिद्रमासादयेद्" इत्याचार्याः ॥ ०७११३८। यथा छिद्रं तथा विनाशमप्यासादयेदिति कौटिल्यः ॥ ०७११३९। तेषामलाभे यथा पार्ष्णिग्राहोपग्रहे वक्ष्यामस्तथा भूमिमवस्थापयेत् ॥ ०७११४०। इत्यभिहितसंधिः ॥ ०७११४१। गुणवतीमादेयां वा भूमिं बलवता क्रयेण याचितः संधिमवस्थाप्य दद्यात् ॥ ०७११४२। इत्यनिभृतसंधिः ॥ ०७११४३। समेन वा याचितः कारणमवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिविक्रयाद्वा मित्रहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति" इति ॥ ०७११४४। तेन हीनः क्रेता व्याख्यातः ॥ ०७११४५ एवं मित्रं हिरण्यं च सजनामजनां च गाम् । ०७११४५ लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ॥E (मित्रहिरण्यभूमिकर्मसम्धयह्, तत्र कर्मसम्धिह्) ०७१२०१। "त्वं चाहं च दुर्गं कारयावहे" इति कर्मसंधिः ॥ ०७१२०२। तयोर्यो दैवकृतमविषह्यमल्पव्ययारम्भं दुर्गं कारयति सोअतिसंधत्ते ॥ ०७१२०३। तत्रापि स्थलनदीपर्वतदुर्गाणामुत्तरोत्तरं श्रेयः ॥ ०७१२०४। सेतुबन्धयोरप्याहार्योदकात्सहोदकः श्रेयान् ॥ ०७१२०५। सहोदकयोरपि प्रभूतवापस्थानः श्रेयान् ॥ ०७१२०६। द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोअतिसंधत्ते ॥ ०७१२०७। नदीमातृकं हि स्वाजीवमपाश्रयश्चापदि भवति ॥ ०७१२०८। हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोअतिसंधत्ते ॥ ०७१२०९। तत्रापि "बहुकुण्ठाल्पशूरयोः अल्पशूरं श्रेयः, शूरेषु हि युद्धम्, अल्पाः शूरा बहूनशूरान् भञ्जन्ति, ते भग्नाः स्वसैन्यावघातिनो भवन्ति" इत्याचार्याः ॥ ०७१२१०। नेति कौटिल्यः ॥ ०७१२११। कुण्ठा बहवः श्रेयांसः, स्कन्धविनियोगादनेकं कर्म कुर्वाणाः स्वेषामपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश्च ॥ ०७१२१२। बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यमाधातुम्, न त्वेवाल्पेषु शूरेषु बहुत्वमिति ॥ ०७१२१३। खन्योरपि यः प्रभूतसारामदुर्गमार्गामल्पव्ययारम्भां खनिं खानयति, सोअतिसंधत्ते ॥ ०७१२१४। तत्रापि महासारमल्पमल्पसारं वा प्रभूतमिति "महासारमल्पं श्रेयः, वज्रमणिमुक्ताप्रवालहेमरूप्यधातुर्हि प्रभूतमल्पसारमत्यर्घेण ग्रसते" इत्याचार्याः ॥ ०७१२१५। नेति कौटिल्यः ॥ ०७१२१६। चिरादल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्यादल्पसारस्य ॥ ०७१२१७। एतेन वणिक्पथो व्याख्यातः ॥ ०७१२१८। तत्रापि "वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्योदयश्च" इत्याचार्याः ॥ ०७१२१९। नेति कौटिल्यः ॥ ०७१२२०। सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः ॥ ०७१२२१। वारिपथे तु कूलसम्यानपथयोः कूलपथः पण्यपत्तनबाहुल्यात्श्रेयान्, नदीपथो वा, सातत्याद्विषह्याबाधत्वाच्च ॥ ०७१२२२। स्थलपथेपि "हैमवतो दक्षिणापथात्श्रेयान्, हस्त्यश्वगन्धदन्ताजिनरूप्यसुवर्णपण्याः सारवत्तराः" इत्याचार्याः" ॥ ०७१२२३। नेति कौटिल्यः ॥ ०७१२२४। कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे ॥ ०७१२२५। दक्षिणापथेपि बहुखनिः सारपण्यः प्रसिद्धगतिरल्पव्ययव्यायामो वा वणिक्पथः श्रेयान्, प्रभूतविषयो वा फल्गुपुण्यः ॥ ०७१२२६। तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः ॥ ०७१२२७। तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खरोष्ट्रपथः ॥ ०७१२२८। आभ्यामंसपथो व्याख्यातः ॥ ०७१२२९। परकर्मोदयो नेतुः क्षयो वृद्धिर्विपर्यये ॥ ०७१२३०। तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥ ०७१२३१। अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये ॥ ०७१२३२। समायव्ययता स्थानं कर्मसु ज्ञेयमात्मनः ॥ ०७१२३३। तस्मादल्पव्ययारम्भं दुर्गादिषु महोदयम् ॥ ०७१२३४। कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्मसंधयः ॥E (पार्ष्णिग्राह्चिन्ता) ०७१३०१। संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३०२। शक्तिसम्पन्नो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः ॥ ०७१३०३। शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३०४। विपुलारम्भो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः ॥ ०७१३०५। आरम्भसाम्ये यः सर्वसंदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३०६। शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः ॥ ०७१३०७। बलोपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३०८। चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहमुच्छिन्द्यात्, न स्थितामित्रं प्रयातः ॥ ०७१३०९। असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ॥ ०७१३१०। तेन पूर्वे व्याख्याताः ॥ ०७१३११। शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३१२। धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः ॥ ०७१३१३। तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम् ॥ ०७१३१४। मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः ॥ ०७१३१५। मित्रममित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३१६। मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहमुच्छिन्द्यात् ॥ ०७१३१७। सुकरो हि मित्रेण संधिर्नामित्रेण ॥ ०७१३१८। मित्रममित्रं चोद्धरतोर्योअमित्रोद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ॥ ०७१३१९। वृद्धमित्रो ह्यमित्रोद्धारी पार्ष्णिग्राहमुच्छिन्द्यात्, नेतरः स्वपक्षोपघाती ॥ ०७१३२०। तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद्वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोअतिसंधत्ते ॥ ०७१३२१। लब्धलाभापगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णिग्राहोअतिसंधत्ते, यस्य वा यातव्यः शत्रोर्विग्रहापकारसमर्थः स्यात् ॥ ०७१३२२। पार्ष्णिग्राहयोरपि यः शक्यारम्भबलोपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोअतिसंधत्ते ॥ ०७१३२३। पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधक एव पश्चात्स्थायी ॥ ०७१३२४ पार्ष्णिग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टानिरोधकाः । ०७१३२४ सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥ ०७१३२५ अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ०७१३२५ प्रतिघातो बलवतो दुर्गाटव्यपसारवान् ॥ ०७१३२६। मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्धलाभापगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रमाप्नोति सोअतिसंधत्ते ॥ ०७१३२७। संधेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावादुत्क्रान्तम् ॥ ०७१३२८। तेनोदासीनलिप्सा व्याख्याता ॥ ०७१३२९। "पार्ष्णिग्रहणाभियानयोस्तु मन्त्रयुद्धादभ्युच्चयः ॥ Kअश्०७१३३०। व्यायामयुद्धे हि क्षयव्ययाभ्यामुभयोरवृद्धिः ॥ ०७१३३१। जित्वापि हि क्षिणदण्डकोशः पराजितो भवति" इत्याचार्याः ॥ ०७१३३२। नेति कौटिल्यः ॥ ०७१३३३। सुमहतापि क्षयव्ययेन शत्रुविनाशोअभ्युपगन्तव्यः ॥ ०७१३३४। तुल्ये क्षयव्यये यः पुरस्ताद्दूष्यबलं घातयित्वा निह्शल्यः पश्चाद्वश्यबलो युध्येत सोअतिसंधत्ते ॥ ०७१३३५। द्वयोरपि पुरस्ताद्दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरमत्यन्तदूष्यं च घातयेत्सोअतिसंधत्ते ॥ ०७१३३६। तेनामित्राटवीबलघातो व्याख्यातः ॥ ०७१३३७ पार्ष्णिग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ०७१३३७ विजिगीषुस्तदा तत्र नेत्रमेतत्समाचरेत् ॥ ०७१३३८ पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः । ०७१३३८ विग्राह्य पूर्वमाक्रन्दं पार्ष्णिग्राहाभिसारिणा ॥ ०७१३३९ आक्रन्देनाभियुञ्जानः पार्ष्णिग्राहं निवारयेत् । ०७१३३९ तथाक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम् ॥ ०७१३४० अरिमित्रेण मित्रं च पुरस्तादवघट्टयेत् । ०७१३४० मित्रमित्रमरेश्चापि मित्रमित्रेण वारयेत् ॥ ०७१३४१ मित्रेण ग्राहयेत्पार्ष्णिमभियुक्तोअभियोगिनः । ०७१३४१ मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत् ॥ ०७१३४२ एवं मण्डलमात्मार्थं विजिगीषुर्निवेशयेत् । ०७१३४२ पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा ॥ ०७१३४३ कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् । ०७१३४३ मित्रभूतः सपत्नानां हत्वा हत्वा च संवृतः ॥ ०७१३४४ असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ०७१३४४ निह्संशयं विपद्यन्ते भिन्नप्लव इवोदधौ ॥E (हीनशक्तिपूरणम्) ०७१४०१। सामवायिकैरेवमभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः, इदं हिरण्यम्, अहं च मित्रम्, द्विगुणा ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखानमित्रान् वर्धयितुम्, एते हि वृद्धास्त्वामेव परिभविष्यन्ति" इति ॥ ०७१४०२। भेदं वा ब्रूयात्"अनपकारो यथाहमेतैः सम्भूयाभियुक्तस्तथा त्वामप्येते संहितबलाः स्वस्था व्यसने वाभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तदेषां विघातय" इति ॥ ०७१४०३। भिन्नेषु प्रधानमुपगृह्य हीनेषु विक्रमयेत्, हीनाननुग्राह्य वा प्रधाने, यथा वा श्रेयोअभिमन्येत तथा ॥ ०७१४०४। वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ॥ ०७१४०५। फलभूयस्त्वेन वा प्रधानमुपजाप्य संधिं कारयेत् ॥ ०७१४०६। अथोभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् "अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ॥ ०७१४०७। दुष्टेषु संधिं दूषयेत् ॥ ०७१४०८। अथोभयवेतना भूयो भेदमेषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ॥ ०७१४०९। भिन्नेष्वन्यतमोपग्रहेण चेष्टेत ॥ ०७१४१०। प्रधानाभावे सामवायिकानामुत्साहयितारं स्थिरकर्माणमनुरक्तप्रकृक्तिं लोभाद्भयाद्वा संघातमुपागतं विजिगीषोर्भीतं राज्यप्रतिसम्बद्धं मित्रं चलामित्रं वा पूर्वानुत्तराभावे साधयेत्- उत्साहयितारमात्मनिसर्गेण, स्थिरकर्माणं सान्त्वप्रणिपातेन, अनुरक्तप्रकृतिं कन्यादानयापनाभ्याम्, लुब्धमंशद्वैगुण्येन, भीतमेभ्यः कोशदण्डानुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभूप्रदानेन, राज्यप्रतिसम्बद्धमेकीभावोपगमनेन, मित्रमुभयतः प्रियहिताभ्याम्, उपकारत्यागेन वा, चलामित्रमवधृतमनपकारोपकाराभ्याम् ॥ ०७१४११। यो वा यथायोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथापत्सु व्याख्यास्यामः ॥ ०७१४१२। व्यसनोपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वावधृतं संधिमुपेयात् ॥ ०७१४१३। कृतसंधिर्हीनमात्मानं प्रतिकुर्वीत ॥ ०७१४१४। पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गमविषह्यं वा ॥ ०७१४१५। दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥ ०७१४१६। मन्त्रशक्तिहीनः प्राज्ञपुरुषोपचयं विद्यावृद्धसम्योगं वा कुर्वीत ॥ ०७१४१७। तथा हि सद्यः श्रेयः प्राप्नोति ॥ ०७१४१८। प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत ॥ ०७१४१९। जनपदः सर्वकर्मणां योनिः, ततः प्रभावः ॥ ०७१४२०। तस्य स्थानमात्मनश्चापदि दुर्गम् ॥ ०७१४२१। सेतुबन्धः सस्यानां योनिः ॥ ०७१४२२। नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु ॥ ०७१४२३। वणिक्पथः परातिसंधानस्य योनिः ॥ ०७१४२४। वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च ॥ ०७१४२५। खनिः संग्रामोपकरणानां योनिः, द्रव्यवनं दुर्गकर्मणां यानरथयोश्च, हस्तिवनं हस्तिनाम्, गवाश्वखरोष्ट्राणां च व्रजः ॥ ०७१४२६। तेषामलाभे बन्धुमित्रकुलेभ्यः समार्जनम् ॥ ०७१४२७। उत्साहहीनः श्रेणीप्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातीनां परापकारिणां गूढपुरुषाणां च यथालाब्भमुपचयं कुर्वीत ॥ ०७१४२८। परमिश्राप्रतीकारमाबलीयसं वा परेषु प्रयुञ्जीत ॥ ०७१४२९ एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ०७१४२९ सम्पन्नः प्रतिनिर्गच्छेत्परावग्रहमात्मनः ॥E (विगृह्योपरोधहेतवह्- दण्डोपनतवृत्तम्) ०७१५०१। दुर्बलो राजा बलवताभियुक्तस्तद्विशिष्टबलमाश्रयेत यमितरो मन्त्रशक्त्या नातिसंदध्यात् ॥ ०७१५०२। तुल्यमन्त्रशक्तीनामायत्तसम्पदो वृद्धसम्योगाद्वा विशेषः ॥ ०७१५०३। विशिष्टबलाभावे समबलैस्तुल्यबलसंघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्रप्रभावशक्तिभ्यामतिसंदध्यात् ॥ ०७१५०४। तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः ॥ ०७१५०५। समबलाभावे हीनबलैः शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्रप्रभावोत्साहशक्तिभिरतिसंदध्यात् ॥ ०७१५०६। तुल्योत्साहशक्तीनां स्वयुद्धभूमिलाभाद्विशेषः ॥ ०७१५०७। तुल्यभूमीनां स्वयुद्धकाललाभाद्विशेषः ॥ ०७१५०८। तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः ॥ ०७१५०९। सहायाभावे दुर्गमाश्रयेत यत्रामित्रः प्रभूतसैन्योअपि भक्तयवसेन्धनोदकोपरोधं न कुर्यात्स्वयं च क्षयव्ययाभ्यां युज्येत ॥ ०७१५१०। तुल्यदुर्गाणां निचयापसारतो विशेषः ॥ ०७१५११। निचयापसारसम्पन्नं हि मनुष्यदुर्गमिच्छेदिति कौटिल्यः ॥०७१५१२ तदेभिः कार्णैराश्रयेत - "पार्ष्णिग्राहमासारं मध्यममुदासीनं वा प्रतिपादयिष्यामि, सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा - ॥ ०७१५१२ कृत्यपक्षोपग्रहेण वास्य दुर्गे राष्ट्रे स्कन्धावारे वा कोपं समुत्थापयिष्यामि, शस्त्राग्निरसप्रणिधानैरौपनिषदिकैर्वा यथेष्टमासन्नं हनिष्यामि - ॥ ०७१५१२ स्वयंधिष्ठितेन वा योगप्रणिधानेन क्षयव्ययमेनमुपनेष्यामि, क्षयव्ययप्रवासोपतप्ते वास्य मित्रवर्गे सैन्ये वा क्रमेणोपजापं प्राप्स्यामि - ॥ ०७१५१२ वीवधासारप्रसारवधेन वास्य स्कन्धावारावग्रहं करिष्यामि, दण्डोपनयेन वास्य रन्ध्रमुत्थाप्य सर्वसंदोहेन प्रहरिष्यामि, प्रतिहतोत्साहेन वा यथेष्टं संधिमवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति - ॥ ०७१५१२ निरासारं वास्य मूलं मित्राटवीदण्डैरुद्धातयिष्यामि, महतो वा देशस्य योगक्षेममिहस्थः पालयिष्यामि, स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्यमिहस्थस्यैकस्थमविषह्यं भविष्यति, निम्नखातरात्रियुद्धविशारदं वा मे सैन्यं पथ्याबाधमुक्तमासन्ने कर्म करिष्यति - ॥ ०७१५१२ विरुद्धदेशकालमिहागतो वा स्वयमेव क्षयव्ययाभ्यां न भविष्यति, महाक्षयव्ययाभिगम्योअयं देशो दुर्गाटव्यपसारबाहुल्यात्- ॥ ०७१५१२ । परेषां व्याधिप्रायः सैन्यव्यायामानामलब्धभौमश्च, तमापद्गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति" इति ॥ ०७१५१३। "कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गमुन्मुच्यापगच्छेत् ॥ ०७१५१४। अग्निपतङ्गवदमित्रे वा प्रविशेत् ॥ ०७१५१५। अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति" इत्याचार्याः ॥ ०७१५१६। नेति कौटिल्यः ॥ ०७१५१७। संधेयतामात्मनः परस्य चोपलभ्य संदधीत ॥ ०७१५१८। विपर्यये विक्रमेण संधिमपसारं वा लिप्सेत ॥ ०७१५१९। संधेयस्य वा दूतं प्रेषयेत् ॥ ०७१५२०। तेन वा प्रेषितमर्थमानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्यागारम्, इदं देवीकुमाराणाम्, देवीकुमारवचनात्, इदं राज्यमहं च त्वदर्पणः" इति ॥ ०७१५२१। लब्धसंश्रयः समयाचारिकवद्भर्तरि वर्तेत ॥ ०७१५२२। दुर्गादीनि च कर्माणि आवाहविवाहपुत्राभिषेकाश्वपण्यहस्तिग्रहणसत्त्रयात्राविहारगमनानि चानुज्ञातः कुर्वीत ॥ ०७१५२३। स्वभूम्यवस्थितप्रकृतिसंधिमुपघातमपसृतेषु वा सर्वमनुज्ञातः कुर्वीत ॥ ०७१५२४। दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत ॥ ०७१५२५। दुष्यवदुपांशुदण्डेन वा प्रतिकुर्वीत ॥ ०७१५२६। उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ॥ ०७१५२७। मन्त्रिपुरोहितसेनापतियुवराजानामन्यतममदृश्यमाने भर्तरि पश्येत्, यथाशक्ति चोपकुर्यात् ॥ ०७१५२८। दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत् ॥ ०७१५२९। सर्वत्रात्मनिसर्गं गुणं ब्रूयात् ॥ ०७१५३० सम्युक्तबलवत्सेवी विरुद्धः शङ्कितादिभिः । ०७१५३० वर्तेत दण्डोपनतो भर्तर्येवमवस्थितः ॥E (दण्डोपनायिवृत्तम्) ०७१६०१। अनुज्ञातसंधिपणोद्वेगकरं बलवान् विजिगीषमाणो यतः स्वभूमिः स्वर्तुवृत्तिश्च स्वसैन्यानाम्, अदुर्गापसारः शत्रुरपार्ष्णिरनासारश्च, ततो यायात् ॥ ०७१६०२। विपर्यये कृतप्रतीकारो यायात् ॥ ०७१६०३। सामदानाभ्यां दुर्बलानुपनमयेत्, भेददण्डाभ्यां बलवतः ॥ ०७१६०४। नियोगविकल्पसमुच्चयैश्चोपायानामनन्तरैकान्तराः प्रकृतीः साधयेत् ॥ ०७१६०५। ग्रामारण्योपजीविव्रजवणिक्पथानुपालनमुज्झितापसृतापकारिणां चार्पणमिति सान्त्वमाचरेत् ॥ ०७१६०६। भूमिद्रव्यकन्यादानमभयस्य चेति दानमाचरेत् ॥ ०७१६०७। सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमोपग्रहेण कोशदण्डभूमिदाययाचनमिति भेदमाचरेत् ॥ ०७१६०८। प्रकाशकूटतूष्णींयुद्धदुर्गलम्भोपायैरमित्रप्रग्रहणमिति दण्डमाचरेत् ॥ ०७१६०९। एवमुत्साहवतो दण्डोपकारिणः स्थापयेत्, स्वप्रभाववतः कोशोपकारिणः, प्रज्ञावतो भूम्युपकारिणः ॥ ०७१६१०। तेषां पण्यपत्तनग्रामखनिसंजातेन रत्नसारफल्गुकुप्येन द्रव्यहस्तिवनव्रजसमुत्थेन यानवाहनेन वा यद्बहुश उपकरोति तच्चित्रभोगम् ॥ ०७१६११। यद्दण्डेन कोशेन वा महदुपकरोति तन्महाभोगम् ॥ ०७१६१२। यद्दण्डकोशभूमीभिरुपकरोति तत्सर्वभोगम् ॥ ०७१६१३। यदमित्रमेकतः प्रतिकरोति तदेकतोभोगि ॥ ०७१६१४। यदमित्रमासारं चोभयतः प्रतिकरोति तदुभयतोभोगि ॥ ०७१६१५। यदमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत्सर्वतोभोगि ॥ ०७१६१६ पार्ष्णिग्राहश्चाटविकः शत्रुमुख्यः शत्रुर्वा भूमिदानसाध्यः कश्चिदासाद्येत, निर्गुणया भूम्यैनमुपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थम्, निरुपजीव्ययाटविकं - ॥ ०७१६१६ प्रत्यादेयया तत्कुलीनं शत्रोः, अपच्छिन्नया शत्रोरपरुद्धं नित्यामित्रया श्रेणीबलम्, बलवत्सामन्तया संहतबलम्, उभाभ्यां युद्धे प्रतिलोमम्, - ॥ ०७१६१६ अलब्धव्यायामयोत्साहिनम्, शूययारिपक्षीयम्, कर्शितयापवाहितम्, महाक्षयव्ययनिवेशया गतप्रत्यागतम्, अनपाश्रयया प्रत्यपसृतम्, परेणानधिवास्यया स्वयमेव भर्तारमुपग्राहयेत् ॥ ०७१६१७। तेषां महोपकारं निर्विकारं चानुवर्तयेत् ॥ ०७१६१८। प्रतिलोममुपांशुना साधयेत् ॥ ०७१६१९। उपकारिणमुपकारशक्त्या तोषयेत् ॥ ०७१६२०। प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम् ॥ ०७१६२१। स्वयंागतानां यथेष्टदर्शनं प्रतिविधानं च कुर्यात् ॥ ०७१६२२। परिभवोपघातकुत्सातिवादांश्चैषु न प्रयुञ्जीत ॥ ०७१६२३। दत्त्वा चाभयं पितेवानुगृह्णीयात् ॥ ०७१६२४। यश्चास्यापकुर्यात्तद्दोषमभिविख्याप्य प्रकाशमेनं घातयेत् ॥ ०७१६२५। परोद्वेगकारणाद्वा दाण्डकर्मिकवच्चेष्टेत ॥ ०७१६२६। न च हतस्य भूमिद्रव्यपुत्रदारानभिमन्येत ॥ ०७१६२७। कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ॥ ०७१६२८। कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ॥ ०७१६२९। एवमस्य दण्डोपनताः पुत्रपौत्राननुवर्तन्ते ॥ ०७१६३०। यस्तूपनतान् हत्वा बद्ध्वा वा भूमिद्रव्यपुत्रदारानभिमन्येत तस्योद्विग्नं मण्डलमभावायोत्तिष्ठते ॥ ०७१६३१। ये चास्यामात्याः स्वभूमिष्वायत्तास्ते चास्योद्विग्ना मण्डलमाश्रयन्ते ॥ ०७१६३२। स्वयं वा राज्यं प्राणान् वास्याभिमन्यन्ते ॥ ०७१६३३ स्वभूमिषु च राजानस्तस्मात्साम्नानुपालिताः । ०७१६३३ भवन्त्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः ॥E (सम्धिकर्म -समाधिमोक्षह्) ०७१७०१। शमः संधिः समाधिरित्येकोअर्थः ॥ ०७१७०२। राज्ञां विश्वासोपगमः शमः संधिः समाधिरिति ॥ ०७१७०३। "सत्यं शपथो वा चलः संधिः, प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्याचार्याः ॥ ०७१७०४। नेति कौटिल्यः ॥ ०७१७०५। सत्यं शपथो वा परत्रेह च स्थावरः संधिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः ॥ ०७१७०६। "संहिताः स्मः" इति सत्यसंधाः पूर्वे राजानः सत्येन संदधिरे ॥ ०७१७०७। तस्यातिक्रमे शपथेन अग्न्युदकसीताप्राकारलोष्टहस्तिस्कन्धाश्वपृष्टरथोपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चैनं यः शपथमतिक्रामेत्" इति ॥ ०७१७०८। शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः ॥ ०७१७०९। तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोअतिसंधत्ते ॥ ०७१७१०। विपरीतोअतिसंधीयते ॥ ०७१७११। बन्धुमुख्यप्रग्रहः प्रतिग्रहः ॥ ०७१७१२। तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोअतिसंधत्ते ॥ ०७१७१३। विपरीतोअतिसंधीयते ०७१७१४। प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ॥ ०७१७१५। अपत्यसमाधौ तु कन्यापुत्रदाने ददत्तु कन्यामतिसंधत्ते ॥ ०७१७१६। कन्या ह्यदायादा परेषामेवार्थायाक्लेश्या(?) च ॥ ०७१७१७। विपरीतः पुत्रः ॥ ०७१७१८। पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रमेकपुत्रं वा ददाति सोअतिसंधीयते ॥ ०७१७१९। विपरीतोअतिसंधत्ते ॥ ०७१७२०। जात्यादजात्यो हि लुप्तदायादसंतानत्वादाधातुं श्रेयान्, प्राज्ञादप्राज्ञो मन्त्रशक्तिलोपात्, शूरादशूर उत्साहशक्तिलोपात्, कृतास्त्रादकृतास्त्रः प्रहर्तव्यसम्पल्लोपात्, एकपुत्रादनेकपुत्रो निरपेक्षत्वात् ॥ ०७१७२१। जात्यप्राज्ञयोर्जात्यमप्राज्ञमैश्वर्यप्रकृतिरनुवर्तते, प्राज्ञमजात्यं मन्त्राधिकारः ॥ ०७१७२२। मन्त्राधिकारेपि वृद्धसम्योगाज्जात्यः प्राज्ञमतिसंधत्ते ॥ ०७१७२३। प्राज्ञशूरयोः प्राज्ञमशूरं मतिकर्मणां योगोअनुवर्तते, शूरमप्राज्ञं विक्रमाधिकारः ॥ ०७१७२४। विक्रमाधिकारेपि हस्तिनमिव लुब्धकः प्राज्ञः शूरमतिसंधत्तेश् ॥ ०७१७२५। शूरकृतास्त्रयोः शूरमकृतास्त्रं विक्रमव्यवसायोअनुवर्तते, कृतास्त्रमशूरं लक्ष्यलम्भाधिकारः ॥ ०७१७२६। लक्ष्यलम्भाधिकारेपि स्थैर्यप्रतिपत्त्यसम्मोषैः शूरः कृतास्त्रमतिसंधत्ते ॥ ०७१७२७। बह्वेकपुत्रयोर्बहुपुत्र एकं दत्त्वा शेषप्रतिष्टब्धः संधिमतिक्रामति, नेतरः ॥ ०७१७२८। पुत्रसर्वस्वदाने संधिश्चेत्पुत्रफलतो विशेषः ॥ ०७१७२९। समफलयोः शक्तप्रजननतो विशेषः ॥ ०७१७३०। शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः ॥ ०७१७३१। शक्तिमत्येकपुत्रे तु लुप्तपुत्रोत्पत्तिरात्मानमादध्यात्, न चैकपुत्रमिति ॥ ०७१७३२। अभ्युच्चीयमानः समाधिमोक्षं कारयेत् ॥ ०७१७३३। कुमारासन्नाः सत्त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारमपहरेयुः ॥ ०७१७३४। नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परमुपतिष्ठेरन् ॥ ०७१७३५। ते कुमारं परंपरयोपतिष्ठेरन् ॥ ०७१७३६। तेषामनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत् ॥ ०७१७३७। ततस्तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७१७३८। तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः ॥ ०७१७३९। तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत् ॥ ०७१७४०। सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारकैर्वा द्रव्यवस्त्रभाण्डफेलाशयनासनसम्भोगैर्निर्ह्रियेत ॥ ०७१७४१। परिचारकच्छद्मना वा किंचिदरूपवेलायामादाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशोपहारेण ॥ ०७१७४२। तोयाशये वा वारुणं योगमातिष्ठेत् ॥ ०७१७४३। वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसमुपचारयेयुः ॥ ०७१७४४। दैवतोपहारश्राद्धप्रहवणनिमित्तमारक्षिषु मदनयोगयुक्तमन्नपानं रसं वा प्रयुज्यापगच्छेत्, आरक्षकप्रोत्साहनेन वा ॥ ०७१७४५। नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा ॥ ०७१७४६। वैदेहकव्यञ्जना वा पण्यसंस्थामादीपयेयुः ॥ ०७१७४७। अन्यद्वा शरीरं निक्षिप्य स्वगृहमादीपयेदनुपातभयात् ॥ ०७१७४८। ततः संधिच्छेदखातसुरुङ्गाभिरपगच्छेत् ॥ ०७१७४९। काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत ॥ ०७१७५०। मुण्डजटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्व्यञ्जनः प्रतिष्ठेत, विरूपव्याधिकरणारण्यचरच्छद्मनामन्यतमेन वा ॥०७१७५१। प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत ॥ ०७१७५२। प्रेतं वा स्त्रीवेषेणानुगच्छेत् ॥ ०७१७५३। वनचरव्यञ्जनाश्चैनमन्यतो यान्तमन्यतोअपदिशेयुः ॥ ०७१७५४। ततोअन्यतो गच्छेत् ॥ ०७१७५५। चक्रचराणां वा शकटवाटैरपगच्छेत् ॥ ०७१७५६। आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ॥ ०७१७५७। सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातमुभयतःपन्थानमुत्सृजेत् ॥ ०७१७५८। ततोअन्यतोअपगच्छेत् ॥ ०७१७५९। गृहीतो वा सामादिभिरनुपातमतिसंदध्यात्, रसविद्धेन वा पथ्यदनेन ॥ ०७१७६०। वारुणयोगाग्निदाहेषु वा शरीरमन्यदाधाय शत्रुमभियुञ्जीत "पुत्रो मे त्वया हतः" इति ॥ ०७१७६१ उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु ॥ ०७१७६१ शीघ्रपातैरपसरेद्गूढप्रणिहितैः सह ॥E (मध्यमचरितम् - उदासीनचरितम् - मण्डलचरितम्) ०७१८०१। मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥ ०७१८०२। द्वितीया चतुर्थी षष्ठी च विकृतयः ॥ ०७१८०३। तच्चेदुभयं मध्यमोअनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात् ॥ ०७१८०४। न चेदनुगृह्णीयात्, प्रकृत्यनुलोमः स्यात् ॥ ०७१८०५। मद्यमश्चेद्विजिगीषोर्मित्रं मित्रभावि लिप्सेत, मित्रस्यात्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ॥ ०७१८०६। मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः, सम्भूयास्य यात्रां विहनाम" इति ॥ ०७१८०७। तच्चेन्मण्डलमनुगृह्णीयात्, मध्यमावग्रहेणात्मानमुपबृंहयेत् ॥ ०७१८०८। न चेदनुगृह्णीयात्, कोशदण्डाभ्यां मित्रमनुगृह्य ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवस्तिष्ठेयुः, एकसिद्धौ वा बहवः सिध्येयुः, परस्पराद्वा शङ्किता नोत्तिष्ठेरन्, तेषां प्रधानमेकमासन्नं वा सामदानाभ्यां लभेत ॥ ०७१८०९। द्विगुणो द्वितीयं त्रिगुनस्तृतीयम् ॥ ०७१८१०। एवमभ्युच्चितो मध्यममवगृह्णीयात् ॥ ०७१८११। देशकालातिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसंधिम् ॥ ०७१८१२। कर्शनीयं वास्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥ ०७१८१३। कर्शितमेनं त्रायेत ॥ ०७१८१४। उच्छेदनीयं वास्य मित्रं मध्यमो लिप्सेत, कर्शितमेनं त्रायेत मध्यमवृद्धिभयात् ॥ ०७१८१५। उच्छिन्नं वा भूम्यनुग्रहेण हस्ते कुर्यादन्यत्रापसारभयात् ॥ ०७१८१६। कर्शनीयोच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण संधीयेत ॥ ०७१८१७। विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, संधिमुपेयात् ॥ ०७१८१८। अमित्रं वास्य मध्यमो लिप्सेत, संधिमुपेयात् ॥ ०७१८१९। एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च ॥ ०७१८२०। मध्यमश्चेत्स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण संदध्यात् ॥ ०७१८२१। सापेक्षं वा "नार्हसि मित्रमुच्छेत्तुम्" इति वारयेत् ॥ ०७१८२२। उपेक्षेत वा "मण्डलमस्य कुप्यतु स्वपक्षवधात्" इति ॥ ०७१८२३। अमित्रमात्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यामेनमदृश्यमानोअनुगृह्णीयात् ॥ ०७१८२४। उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ॥ ०७१८२५। मध्यमोदासीनयोर्यो मण्डलस्याभिप्रेतस्तमाश्रयेत ॥ ०७१८२६। मध्यमचरितेनोदासीनचरितं व्याख्यातम् ॥ ०७१८२७। उदासीनश्चेन्मध्यमं लिप्सेत, यतः शत्रुमतिसंदध्यान्मित्रस्योपकारं कुर्यादुदासीनं वा दण्डोपकारिणं लभेत ततः परिणमेत ॥ ०७१८२८। एवमुपबृह्यात्मानमरिप्रकृतिं कर्शयेन्मित्रप्रकृतिं चोपगृह्णीयात् ॥ ०७१८२९ सत्यप्यमित्रभावे तस्यानात्मवान्नित्यापकारी शत्रुः शत्रुसंहितः पार्ष्णिग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरिभाविनः, एकार्थाभिप्रयातः पृथगर्थाभिप्रयातः सम्भूययात्रिकः संहितप्रयाणिकः स्वार्थाभिप्रयातः सामुत्थायिकः कोशदण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविक इति मित्रभाविनः, - ॥ ०७१८२९ सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णिग्राहो वा स्वयमुपनतः प्रतापोपनतो वा दण्डोपनत इति भृत्यभाविनः सामन्ताः ॥ ०७१८३०। तैर्भूम्येकान्तरा व्याख्याताः ॥ ०७१८३१ तेषां शत्रुविरोधे यन्मित्रमेकार्थतां व्रजेत् । ०७१८३१ शक्त्या तदनुगृह्णीयाद्विषहेत यया परम् ॥ ०७१८३२ प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यताम् । ०७१८३२ सामन्तैकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत् ॥ ०७१८३३ तत्कुलीनापरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ०७१८३३ यथा वानुग्रहापेक्षं वश्यं तिष्ठेत्तथा चरेत् ॥ ०७१८३४ नोपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितम् । ०७१८३४ तदहीनमवृद्धं च स्थापयेन्मित्रमर्थवित् ॥ ०७१८३५ अर्थयुक्त्या चलं मित्रं संधिं यदुपगच्छति । ०७१८३५ तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ॥ ०७१८३६ अरिसाधारणं यद्वा तिष्ठेत्तदरितः शठम् । ०७१८३६ भेदयेद्भिन्नमुच्छिन्द्यात्ततः शत्रुमनन्तरम् ॥ ०७१८३७ उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ०७१८३७ ततो विग्रहसंतप्तमुपकारे निवेशयेत् ॥ ०७१८३८ अमित्रं विजिगीषुं च यत्संचरति दुर्बलम् । ०७१८३८ तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्मुखम् ॥ ०७१८३९ अपनीय ततोअन्यस्यां भूमौ वा सन्निवेशयेत् । ०७१८३९ निवेश्य पूर्वं तत्रान्यद्दण्डानुग्रहहेतुना ॥ ०७१८४० अपकुर्यात्समर्थं वा नोपकुर्याद्यदापदि । ०७१८४० उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ॥ ०७१८४१ मित्रव्यसनतो वारिरुत्तिष्ठेद्योअनवग्रहः । ०७१८४१ मित्रेणैव भवेत्साध्यश्छादितव्यसनेन सः ॥ ०७१८४१ अमित्रव्यसनान्मित्रमुत्थितं यद्विरज्यति । ०७१८४१ अरिव्यसनसिद्ध्या तत्शत्रुणैव प्रसिध्यति ॥ ०७१८४२ वृद्धिं क्षयं च स्थानं च कर्शनोच्छेदनं तथा ॥ ०७१८४२ सर्वोपायान् समादध्यादेतान् यश्चार्थशास्त्रवित् । ०७१८४३ एवमन्योन्यसंचारं षाड्गुण्यं योअनुपश्यति ॥ ०७१८४३ स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥E (प्रकृतिव्यसनवर्गह्) ०८१०१। व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वेति व्यसनचिन्ता ॥ ०८१०२। दैवं मानुषं वा प्रकृतिव्यसनमनयापनयाभ्यां सम्भवति ॥ ०८१०३। गुणप्रातिलोम्यमभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् ॥ ०८१०४। व्यस्यत्येनं श्रेयस इति व्यसनम् ॥ ०८१०५। "स्वाम्यमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः" इत्याचार्याः ॥ ०८१०६। नेति भरद्वाजः ॥ ०८१०७। "स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः ॥ ०८१०८। मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानमायव्ययकर्म दण्डप्रणयनममित्राटवीप्रतिषेधो राज्यरक्षणं व्यसनप्रतीकारः कुमाररक्षणमभिषेकश्च कुमाराणामायत्तममात्येषु ॥ ०८१०९। तेषामभावे तदभावः, छिन्नपक्षस्येव राज्ञश्चेष्टानाशश्च ॥ ०८११०। व्यसनेषु चासन्नः परोपजापः ॥ ०८१११। वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद्राज्ञः" इति ॥ ०८११२। नेति कौटिल्यः ॥ ०८११३। मन्त्रिपुरोहितादिभृत्यवर्गमध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारमेधनं च राजैव करोति ॥ ०८११४। व्यसनिषु वामात्येष्वन्यानव्यसनिनः करोति ॥ ०८११५। पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तस्तिष्ठति ॥ ०८११६। स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति ॥ ०८११७। स यत्शीलस्तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तदायत्तत्वात् ॥ ०८११८। तत्कूटस्थानीयो हि स्वामीति ॥ ०८११९। "अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः" इति विशालाक्षः ॥ ०८१२०। "कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदादुत्तिष्ठन्ते ॥ ०८१२१। तेषामभावो जनपदाभावे, स्वाम्यमात्ययोश्चानन्तरः" इति ॥ ०८१२२। नेति कौटिल्यः ॥ ०८१२३। अमात्यमूलाः सर्वारम्भाः - जनपदस्य कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः शून्यनिवेशोपचयौ दण्डकरानुग्रहश्चेति ॥ ०८१२४। "जनपददुर्गव्यसनयोर्दुर्गव्यसनम्" इति पाराशराः ॥ ०८१२५। "दुर्गे हि कोशदण्डोत्पत्तिरापदि स्थानं च जनपदस्य ॥ ०८१२६। शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः ॥ ०८१२७। जानपदास्त्वमित्रसाधारणाः" इति ॥ ०८१२८। नेति कौटिल्यः ॥ ०८१२९। जनपदमूला दुर्गकोशदण्डसेतुवार्त्तारम्भाः ॥ ०८१३०। शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ॥ ०८१३१। पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात् ॥ ०८१३२। कर्षकप्राये तु दुर्गव्यसनम्, आयुधीयप्राये तु जनपदे जनपदव्यसनमिति ॥ ०८१३३। "दुर्गकोशव्यसनयोः कोशव्यसनम्" इति पिशुनः ॥ ०८१३४। "कोशमूलो हि दुर्गसंस्कारो दुर्गरक्षणं जनपदमित्रामित्रनिग्रहो देशान्तरितानामुत्साहनं दण्डबलव्यवहारश्च ॥ ०८१३५। दुर्गः कोशादुपजाप्यः परेषाम् ॥ ०८१३६। कोशमादाय च व्यसने शक्यमपयातुम्, न दुर्गम्" इति ॥ ०८१३७। नेति कौटिल्यः ॥ ०८१३८। दुर्गार्पणः कोशो दण्डस्तूष्णींयुद्धं स्वपक्षनिग्रहो दण्डबलव्यवहार आसारप्रतिग्रहः परचक्राटवीप्रतिषेधश्च ॥ ०८१३९। दुर्गाभावे च कोशः परेषाम् ॥ ०८१४०। दृश्यते हि दुर्गवतामनुच्छित्तिरिति ॥ ०८१४१। "कोशदण्डव्यसनयोर्दण्डव्यसनम्" इति कौणपदन्तः ॥ ०८१४२। "दण्डमूलो हि मित्रामित्रनिग्रहः परदण्डोत्साहनं स्वदण्डप्रतिग्रहश्च ॥ ०८१४३। दण्डाभावे च ध्रुवः कोशविनाशः ॥ ०८१४४। कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयंग्राहेण वा दण्डः पिण्डयितुम्, दण्डवता च कोशः ॥ ०८१४५। स्वामिनश्चासन्नवृत्तित्वादमात्यसधर्मा दण्डः" इति ॥ ०८१४६। नेति कौटिल्यः ॥ ०८१४७। कोशमूलो हि दण्डः ॥ ०८१४८। कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति ॥ ०८१४९। सर्वाभियोगकरश्च कोशो धर्मकामहेतुः ॥ ०८१५०। देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति ॥ ०८१५१। लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति ॥ ०८१५२। सर्वद्रव्यप्रयोजकत्वात्कोशव्यसनं गरीय इति ॥ ०८१५३। "दण्डमित्रव्यसनयोर्मित्रव्यसनम्" इति वातव्याधिः ॥ ०८१५४। "मित्रमभृतं व्यवहितं च कर्म करोति, पार्ष्णिग्राहमासारममित्रमाटविकं च प्रतिकरोति, कोशदण्डभूमिभिश्चोपकरोति व्यसनावस्थायोगम्" इति ॥ ०८१५५। नेति कौटिल्यः ॥ ०८१५६। दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे ॥ ०८१५७। दण्डमित्रयोस्तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद्विशेषः ॥ ०८१५८। शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते ॥ ०८१५९। व्यसनयौगपद्ये परवृद्धौ च मित्रमर्थयुक्तौ तिष्ठति ॥ ०८१६०। इति प्रकृतिव्यसनसम्प्रधारणमुक्तम् ॥ ०८१६१ प्रकृत्यवयवानां तु व्यसनस्य विशेषतः । ०८१६१ बहुभावोअनुरागो वा सारो वा कार्यसाधकः ॥ ०८१६२ द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ०८१६२ शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम् ॥ ०८१६३ शेषप्रकृतिनाशस्तु यत्रैकव्यसनाद्भवेत् । ०८१६३ व्यसनं तद्गरीयः स्यात्प्रधानस्येतरस्य वा ॥E (राजराज्ययोर्व्यसनचिन्ता) ०८२०१। राजा राज्यमिति प्रकृतिसंक्षेपः ॥ ०८२०२। राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ॥ ०८२०३। अहिभयादभ्यन्तरः कोपो बाह्यकोपात्पापीयान्, अन्तरमात्यकोपश्चान्तःकोपात् ॥ ०८२०४। तस्मात्कोशदण्डशक्तिमात्मसंस्थां कुर्वीत ॥ ०८२०५। "द्वैराज्यवैराज्ययोर्द्वैराज्यमन्योन्यपक्षद्वेषानुरागाभ्यां परस्परसंघर्षेण वा विनश्यति, वैराज्यं तु प्रकृतिचित्तग्रहणापेक्षि यथास्थितमन्यैर्भुज्यते" इत्याचार्याः ॥ ०८२०६। नेति कौटिल्यः ॥ ०८२०७। पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमममात्यावग्रहं वर्तयति ॥ ०८२०८। वैराज्यं तु जीवतः परस्याच्छिद्य "नैतन्मम" इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्यापगच्छतीति ॥ ०८२०९। अन्धश्चलितशास्त्रो वा राजेति "अशास्त्रचक्षुरन्धो यत्किंचनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यमन्यायेनोपहन्ति, चलितशास्त्रस्तु यत्र शास्त्राच्चलितमतिर्भवति शक्यानुनयो भवति" इत्याचार्याः ॥ ०८२१०। नेति कौटिल्यः ॥ ०८२११। अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम् ॥ ०८२१२। चलितशास्त्रस्तु शास्त्रादन्यथाभिनिविष्टबुद्धिरन्यायेन राज्यमात्मानं चोपहन्तीति ॥ ०८२१३। व्याधितो नवो वा राजेति "व्याधितो राजा राज्योपघातममात्यमूलं प्राणाबाधं वा राज्यमूलमवाप्नोति, नवस्तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जनोपकारैश्चरति" इत्याचार्याः ॥ ०८२१४। नेति कौटिल्यः ॥ ०८२१५। व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिमनुवर्तयति ॥ ०८२१६। नवस्तु राजा बलावर्जितं "ममेदं राज्यम्" इति यथेष्टमनवग्रहश्चरति ॥ ०८२१७। सामुत्थायिकैरवगृहीतो वा राज्योपघातं मर्षयति ॥ ०८२१८। प्रकृतिष्वरूढः सुखमुच्छेत्तुं भवतीति ॥ ०८२१९। व्याधिते विशेषः पापरोग्यपापरोगी च ॥ ०८२२०। नवेप्यभिजातोअनभिजात इति ॥ ०८२२१। दुर्बलोअभिजातो बलवाननभिजातो राजेति "दुर्बलस्याभिजातस्योपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेणोपगच्छन्ति, बलवतश्चानभिजातस्य बलापेक्षाः सुखेन" इत्याचार्याः ॥ ०८२२२। नेति कौटिल्यः ॥ ०८२२३। दुर्बलमभिजातं प्रकृतयः स्वयमुपनमन्ति, जात्यमैश्वर्यप्रकृतिरनुवर्तत इति ॥ ०८२२४। बलवतश्चानभिजातस्योपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यमिति ॥ ०८२२५। प्रयासवधात्सस्यवधो मुष्टिवधात्पापीयान्, निराजीवत्वादवृष्टिरतिवृष्टितः ॥ ०८२२६ द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् । ०८२२६ पारम्पर्यक्रमेणोक्तं याने स्थाने च कारणम् ॥E (पुरुषव्यसनवर्गह्) ०८३०१। अविद्याविनयः पुरुषव्यसनहेतुः ॥ ०८३०२। अविनीतो हि व्यसनदोषान्न पश्यति ॥ ०८३०३। तानुपदेक्ष्यामः ॥ ०८३०४। कोपजस्त्रिवर्गः, कामजश्चतुर्वर्गः ॥ ०८३०५। तयोः कोपो गरीयान् ॥ ०८३०६। सर्वत्र हि कोपश्चरति ॥ ०८३०७। प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तमरिव्याधिभिरिति ॥ ०८३०८। नेति भारद्वाजः ॥ ०८३०९। "सत्पुरुषाचारः कोपो वैरयातनमवज्ञावधो भीतमनुष्यता च ॥ ०८३१०। नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः ॥ ०८३११। कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च ॥ ०८३१२। नित्यश्च कामेन सम्बन्धः कृतकर्मणः फलोपभोगार्थः" इति ॥ ०८३१३। नेति कौटिल्यः ॥ ०८३१४। द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः ॥ ०८३१५। परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः सम्योगः कामः ॥ ०८३१६। तयोः परिभवाद्द्वेष्यता गरीयसी ॥ ०८३१७। परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति ॥०८३१८। द्रव्यनाशात्शत्रुवेदनं गरीयः ॥ ०८३१९। द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकमिति ॥ ०८३२०। अनर्थ्यसम्योगाद्दुःखसम्योगो गरीयान् ॥ ०८३२१। अनर्थ्यसम्योगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानामासङ्ग इति ॥ ०८३२२। तस्मात्कोपो गरीयान् ॥ ०८३२३। वाक्पारुष्यमर्थदूषणं दण्डपारुष्यमिति ॥ ०८३२४। "वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः" इति विशालाक्षः ॥ ०८३२५। "परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ॥ ०८३२६। दुरुक्तशल्यं हृदि निखातं तेजःसंदीपनमिन्द्रियोपतापि च" इति ॥ ०८३२७। नेति कौटिल्यः ॥ ०८३२८। अर्थपूजा वाक्शल्यमपहन्ति, वृत्तिविलोपस्त्वर्थदूषणम् ॥ ०८३२९। अदानमादानं विनाशः परित्यागो वार्थस्येत्यर्थदूषणम् ॥ ०८३३०। "अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः" इति पाराशराः ॥ ०८३३१। "अर्थमूलौ धर्मकामौ ॥ ०८३३२। अर्थप्रतिबद्धश्च लोको वर्तते ॥ ०८३३३। तस्योपघातो गरीयान्" इति ॥ ०८३३४। नेति कौटिल्यः ॥ ०८३३५। सुमहताप्यर्थेन न कश्चन शरीरविनाशमिच्छेत् ॥ ०८३३६। दण्डपारुष्याच्च तमेव दोषमन्येभ्यः प्राप्नोति ॥ ०८३३७। इति कोपजस्त्रिवर्गः ॥ ०८३३८। कामजस्तु मृगया द्यूतं स्त्रियः पानमिति चतुर्वर्गः ॥ ०८३३९। तस्य "मृगयाद्यूतयोर्मृगया गरीयसी" इति पिशुनः ॥ ०८३४०। "स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधस्तस्याम् ॥ ०८३४१। द्यूते तु जितमेवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम्" इति ॥ ०८३४२। नेत्य्कौटिल्यः ॥ ०८३४३। तयोरप्यन्यतरपराजयोअस्तीति नलयुधिष्ठिराभ्यां व्याख्यातम् ॥ ०८३४४। तदेव विजितद्रव्यमामिषं वैरानुबन्धश्च ॥ ०८३४५। सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनमप्रतिभुक्तनाशो मूत्रपुरीषधारणबुभुक्षादिभिश्च व्याधिलाभ इति द्यूतदोषाः ॥ ०८३४६। मृगयायां तु व्यायामः श्लेष्मपित्तमेदःस्वेदनाशश्चले स्थिते च काये लक्षपरिचयः कोपभयस्थानेषु च मृगाणां चित्तज्ञानमनित्ययानं चेति ॥ ०८३४७। "द्यूतस्त्रीव्यसनयोः कैतवव्यसनम्" इति कौणपदन्तः ॥ ०८३४८। "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ॥ ०८३४९। कृच्छ्रे च प्रतिपृष्टः कुप्यति ॥ ०८३५०। स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः ॥ ०८३५१। शक्या च स्त्री राजहितेनियोक्तुम्, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुमवस्रावयितुं वा" इति ॥ ०८३५२। नेति कौटिल्यः ॥ ०८३५३। सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम् ॥ ०८३५४। अदर्शनं कार्यनिर्वेदः कालातिपातनादनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्चेति ॥ ०८३५५। "स्त्रीपानव्यसनयोः स्त्रीव्यसनम्" इति वातव्याधिः ॥ ०८३५६। "स्त्रीषु हि बालिश्यमनेकविधं निशान्तप्रणिधौ व्याख्यातम् ॥ ०८३५७। पाने तु शब्दादीनामिन्द्रियार्थानामुपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च" इति ॥ ०८३५८। नेति कौटिल्यः ॥ ०८३५९। स्त्रीव्यसने भवत्यपत्योत्पत्तिरात्मरक्षणं चान्तर्दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्वोच्छित्तिः ॥ ०८३६०। तदुभयं पानव्यसने ॥ ०८३६१। पानसम्पत्- संज्ञानाशोअनुन्मत्तस्योन्मत्तत्वमप्रेतस्य प्रेतत्वं कौपीनदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्रहानिः सद्भिर्वियोगोअनर्थ्यसम्योगस्तन्त्रीगीतनैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ॥ ०८३६२। द्यूतमद्ययोर्द्यूतम् ॥ ०८३६३। एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति ॥ ०८३६४। विशेषतश्च संघानां संघधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदस्तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यादिति ॥ ०८३६५ असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् । ०८३६५ व्यसनं दोषबाहुल्यादत्यन्तमुभयं मतम् ॥ ०८३६६ तस्मात्कोपं च कामं च व्यसनारम्भमात्मवान् । ०८३६६ परित्यजेन्मूलहरं वृद्धसेवी जितेन्द्रियः ॥E (पीडनवर्गह्- स्तम्भवर्गह्- कोशसन्गवर्गह्) ०८४०१। दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ॥ ०८४०२। "अग्न्युदकयोरग्निपीडनमप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधमुदकपीडनम्" इत्याचार्याः ॥ ०८४०३। नेत्कौटिल्यः ॥ ०८४०४। अग्निर्ग्राममर्धग्रामं वा दहति, उदकवेगस्तु ग्रामशतप्रवाहीति ॥ ०८४०५। "व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधितोपसृष्टपरिचारकव्यायामोपरोधेन कर्माण्युपहन्ति, दुर्भिक्षं पुनरकर्मोपघाति हिरण्यपशुकरदायि च" इत्याचार्याः ॥ ०८४०६। नेति कौटिल्यः ॥ ०८४०७। एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनामजीवनायेति ॥ ०८४०८। तेन मरको व्याख्यातः ॥ ०८४०९। "क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मणामयोगक्षेमं करोति, मुख्यक्षयः कर्मानुष्ठानोपरोधधर्मा" इत्याचार्याः ॥ ०८४१०। नेति कौटिल्यः ॥ ०८४११। शक्यः क्षुद्रकक्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम्, न मुख्यक्षयः ॥ ०८४१२। सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाधिक्यात्तदाश्रयत्वात्क्षुद्रकाणामिति ॥ ०८४१३। "स्वचक्रपरचक्रयोः स्वचक्रमतिमात्राभ्यां दण्डकराभ्यां पीडयत्यशक्यं च वारयितुम्, परचक्रं तु शक्यं प्रैयोद्धुमुपसारेण संधिना वा मोक्षयितुम्" इत्याचार्याः ॥ ०८४१४। नेति कौटिल्यः ॥ ०८४१५। स्वचक्रपीडनं प्रकृतिपुरुषमुख्योपग्रहविघाताभ्यां शक्यते वारयितुमेकदेशं वा पीडयति, सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनापवाहनैः पीडयतीति ॥ ०८४१६। "प्रकृतिराजविवादयोः प्रकृइतिविवादः प्रकृतीनां भेदकः पराभियोगानावहति, राजविवादस्तु प्रकृतीनां द्विगुणभक्तवेतनपरिहारकरो भवति" इत्याचार्याः ॥ ०८४१७। नेति कौटिल्यः ॥ ०८४१८। शक्यः प्रकृतिविवादः प्रकृतिमुख्योपग्रहेण कलहस्थानापनयनेन वा वारयितुम् ॥ ०८४१९। विवदमानास्तु प्रकृतयः परस्परसंघर्षेणोपकुर्वन्ति ॥ ०८४२०। राजविवादस्तु पीडनोच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति ॥ ०८४२१। "देशराजविहारयोर्देशविहारस्त्रैकाल्येन कर्मफलोपघातं करोति, राजविहारस्तु कारुशिल्पिकुशीलववाग्जीवनरूपाजीवावैदेहकोपकारं करोति" इत्याचार्याः ॥ ०८४२२। नेति कौटिल्यः ॥ ०८४२३। देशविहारः कर्मश्रममवधार्थमल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राजविहारस्तु स्वयं वल्लभैश्च स्वयंग्राहप्रणयपण्यागारकार्योपग्रहैः पीडयतीति ॥ ०८४२४। "सुभगाकुमारयोः कुमारः स्वयं वल्लभैश्च स्वयंग्राहप्रणयपण्यागारकार्योपग्रहैः पीडयति, सुभगा विलासोपभोगेन" इत्याचार्याः ॥ ०८४२५। नेति कौटिल्यः ॥ ०८४२६। शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुम्, न सुभगा बालिश्यादनर्थ्यजनसम्योगाच्चेति ॥ ०८४२७। "श्रेणीमुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेयसाहसाभ्यां पीडयति, मुख्यः कार्यानुग्रहविघाताभ्याम्" इत्याचार्याः ॥ ०८४२८। नेति कौटिल्यः ॥ ०८४२९। सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्यैकदेशोपग्रहेण वा ॥ ०८४३०। स्तम्भयुक्तो मुख्यः परप्राणद्रव्योपघाताभ्यां पीडयतीति ॥ ०८४३१। "सन्निधातृसमाहर्त्रोः सन्निधाता कृतविदूषणात्ययाभ्यां पीडयति, समाहर्ता करणाधिष्ठितः प्रदिष्टफलोपभोगी भवति" इत्याचार्याः ॥ ०८४३२। नेति कौटिल्यः ॥ ०८४३३। सन्निधाता कृतावस्थमन्यैः कोशप्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वमर्थमात्मनः कृत्वा पश्चाद्राजार्थं करोति प्रणाशयति वा, परस्वादाने च स्वप्रत्ययश्चरतीति ॥ ०८४३४। "अन्तपालवैदेहकयोरन्तपालश्चोरप्रसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति, वैदेहकास्तु पण्यप्रतिपण्यानुग्रहैः प्रसाधयन्ति" इत्याचार्याः ॥ ०८४३५। नेति कौटिल्यः ॥ ०८४३६। अन्तपालः पण्यसम्पातानुग्रहेण वर्तयति, वैदेहकास्तु सम्भूय पण्यानामुत्कर्षापकर्षं कुर्वाणाः पणे पणशतं कुम्भे कुम्भशतमित्याजीवन्ति ॥ ०८४३७। अभिजातोपरुद्धा भूमिः पशुव्रजोपरुद्धा वेति "अभिजातोपरुद्धा भूमिः महाफलाप्यायुधीयोपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रजोपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम् ॥ ०८४३८। विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ॥ ०८४३९। नेति कौटिल्यः ॥ ०८४४०। अभिजातोपरुद्धा भूमिरत्यन्तमहोपकारापि क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रजोपरुद्धा तु कोशवाहनोपकारिणी न क्षमा मोक्षयितुम्, अन्यत्र सस्यवापोपरोधादिति ॥ ०८४४१। "प्रतिरोधकाटविकयोः प्रतिरोधका रात्रिसत्त्रचराः शरीराक्रमिणो नित्याः शतसहस्राहपारिणः प्रधानकोपकाश्च व्यवहिताः प्रत्यन्तरारण्यचराश्चाटविकाः प्रकाशा दृस्याश्चरन्ति, एकदेशघातकाश्च" इत्याचार्याः ॥ ०८४४२। नेति कौटिल्यः ॥ ०८४४३। प्रतिरोधकाः प्रमत्तस्यापरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्वदेशस्थाः प्रभूता विक्रान्ताश्चाटविकाः प्रकाशयोदिनोअपहर्तारो हन्तारश्च देशानां राजसधर्माण इति ॥ ०८४४४। मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्मोपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च ॥ ०८४४५। विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशायेति ॥ ०८४४६। स्वपरस्थानीयोपकारयोः स्वस्थानीयोपकारो धान्यपशुहिरण्यकुप्योपकारो जानपदानामापद्यात्मधारणः ॥ ०८४४७। विपरीतः परस्थानीयोपकारः ॥ ०८४४८। इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योअमित्राटवीस्तम्भः ॥ [इति स्तम्भवर्गह्] ०८४४९। ताभ्यां पीडनैर्यथोक्तैश्च पीडितः, सक्तो मुख्येषु, परिहारोपहतः, प्रकीर्णो, मिथ्यासंहृतः, सामन्ताटवीहृत इति कोशसङ्गवर्गः ॥ ०८४५० पीडनानामनुत्पत्तावुत्पन्नानां च वारणे । ०८४५० यतेत देशवृद्ध्यर्थं नाशे च स्तम्भसङ्गयोः ॥E (बलव्यसनवर्गह्- मित्रव्यसनवर्गह्) ०८५०१। बलव्यसनानि - अमानितम्, विमानितम्, अभृतम्, व्याधितम्, नवागतम्, दूरायातम्, परिश्रान्तम्, परिक्षीणम्, प्रतिहतम्, हताग्रवेगम्, अनृतुप्राप्तम्, अभूमिप्राप्तम्, आशानिर्वेदि, परिसृप्तम्, कलत्रगर्भि, अन्तःशल्यम्, कुपितमूलम्, भिन्नगर्भम्, अपसृतम्, अतिक्षिप्तम्, उपनिविष्टम्, समाप्तम्, उपरुद्धम्, परिक्षिप्तम्, छिन्नधान्यपुरुषवीवधम्, स्वविक्षिप्तम्, मित्रविक्षिप्तम्, दूष्ययुक्तम्, दुष्टपार्ष्णिग्राहम्, शून्यमूलम्, अस्वामिसंहतम्, भिन्नकूटम्, अन्धमिति ॥ ०८५०२। तेषाममानितविमानितानियतयोरमानितं कृतार्थमानं युध्येत, न विमानितमन्तःकोपम् ॥ ०८५०३। अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधितमकर्मण्यम् ॥ ०८५०४। नवागतदूरायातयोर्नवागतमन्यत उपलब्धदेशमनवमिश्रं युध्येत, न दूरायतमायतगतपरिक्लेशम् ॥ ०८५०५। परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्नानभोजनस्वप्नलब्धविश्रामं युध्येत, न परिक्षीणमन्यत्राहवे क्षीणयुग्यपुरुषम् ॥ ०८५०६। प्रतिहतहताग्रवेगयोः प्रतिहतमग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगमग्रपातहतवीरम् ॥ ०८५०७। अनृत्वभूमिप्राप्तयोरनृतुप्राप्तं यथर्तुयुग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तमवरुद्धप्रसारव्यायामम् ॥ ०८५०८। आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तमपसृतमुख्यम् ॥ ०८५०९। कलत्रगर्भ्यन्तःशल्ययोः कलत्रगर्भि उन्मुच्य कलत्रं युध्येत, नान्तःशल्यमन्तरमित्रम् ॥ ०८५१०। कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्युध्येत, न भिन्नगर्भमन्योन्यस्माद्भिन्नम् ॥ ०८५११। अपसृतातिक्षिप्तयोरपसृतमेकराज्यातिक्रान्तं मन्त्रव्यायामाभ्यां सत्त्रमित्रापाश्रयं युध्येत, नातिक्षिप्तमनेकराज्यातिक्रान्तं बह्वाबाधत्वात् ॥ ०८५१२। उपनिविष्टसमाप्तयोरुपनिविष्टं पृथग्यानस्थानमतिसंधायारिं युध्येत, न समाप्तमरिणैकस्थानयानम् ॥ ०८५१३। उपरुद्धपरिक्षिप्तयोरुपरुद्धमन्यतो निष्क्रम्योपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् ॥ ०८५१४। छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यमन्यतो धान्यमानीय जङ्गमस्थावराहारं वा युध्येत, न छिन्नपुरुषवीवधमनभिसारम् ॥ ०८५१५। स्वविक्षिप्तमित्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यमापदि शक्यमावाहयितुम्, न मित्रविक्षिप्तं विप्रकृष्टदेशकालत्वात् ॥ ०८५१६। दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तमाप्तपुरुषाधिष्ठितमसंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम् ॥ ०८५१७। शून्यमूलास्वामिसंहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्वसंदोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम् ॥ ०८५१८। भिन्नकूटान्धयोर्भिन्नकूटमन्याधिष्ठितं युध्येत, नान्धमदेशिकं - इति ॥ ०८५१९ दोषशुद्धिर्बलावापः सत्त्रस्थानातिसंहितम् । ०८५१९ संधिश्चोत्तरपक्षस्य बलव्यसनसाधनम् ॥ ०८५२० रक्षेत्स्वदण्डं व्यसने शत्रुभ्यो नित्यमुत्थितः । ०८५२० प्रहरेद्दण्डरन्ध्रेषु शत्रूणां नित्यमुत्थितः ॥ ०८५२१ यतो निमित्तं व्यसनं प्रकृतीनामवाप्नुयात् । ०८५२१ प्रागेव प्रतिकुर्वीत तन्निमित्तमतन्द्रितः । ०८५२२ अभियातं स्वयं मित्रं सम्भूयान्यवशेन वा ॥ ०८५२२ परित्यक्तमशक्त्या वा लोभेन प्रणयेन वा । ०८५२३ विक्रीतमभियुञ्जाने संग्रामे वापवर्तिना ॥ ०८५२३ द्वैधीभावेन वामित्रं यास्यता वान्यमन्यतः । ०८५२४ पृथग्वा सहयाने वा विश्वासेनातिसंहितम् ॥ ०८५२४ भयावमानालस्यैर्वा व्यसनान्न प्रमोक्षितम् । ०८५२५ अवरुद्धं स्वभूमिभ्यः समीपाद्वा भयाद्गतम् ॥ ०८५२५ आच्छेदनाददानाद्वा दत्त्वा वाप्यवमानितम् । ०८५२६ अत्याहारितमर्थं वा स्वयं परमुखेन वा ॥ ०८५२६ अतिभारे नियुक्तं वा भङ्क्त्वा परमुपस्थितम् । ०८५२७ उपेक्षितमशक्त्या वा प्रार्थयित्वा विरोधितम् ॥ ०८५२७ कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति । ०८५२८ कृतप्रयासं मान्यं वा मोहान्मित्रममानितम् । ०८५२८ मानितं वा न सदृशं शक्तितो वा निवारितम् ॥ ०८५२९ मित्रोपघातत्रस्तं वा शङ्कितं वारिसंहितात् । ०८५२९ दूष्यैर्वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ॥ ०८५३० तस्मान्नोत्पादयेदेनान् दोषान्मित्रोपघातकान् । ०८५३० उत्पन्नान् वा प्रशमयेद्गुणैर्दोषोपघातिभिः ॥E (शक्तिदेशकालबलाबलज्नानम् - यात्राकालाह्) ०९१०१। विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालयात्राकालबलसमुद्दानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात्, अन्यथासीत ॥ ०९१०२। "उत्साहप्रभावयोरुत्साहः श्रेयान् ॥ ०९१०३। स्वयं हि राजा शूरो बलवानरोगः कृतास्त्रो दण्डद्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुम् ॥ ०९१०४। अल्पोअपि चास्य दण्डस्तेजसा कृत्यकरो भवति ॥ ०९१०५। निरुत्साहस्तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति" इत्याचार्याः ॥ ०९१०६। नेति कौटिल्यः ॥ ०९१०७। प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्विशिष्टमन्यं राजानमावाह्य भृत्वा क्रीत्वा प्रवीरपुरुषान् ॥ ०९१०८। प्रभूतप्रभावहयहस्तिरथोपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ॥ ०९१०९। उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ॥ ०९११०। "प्रभावमन्त्रयोः प्रभावः श्रेयान् ॥ ०९१११। मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति ॥ ०९११२। मन्त्रकर्म चास्य निश्चितमप्रभावो गर्भधान्यमवृष्टिरिवोपहन्ति" इत्याचार्याः ॥ ०९११३। नेति कौटिल्यः ॥ ०९११४। मन्त्रशक्तिः श्रेयसी ॥ ०९११५। प्रज्ञाशास्त्रचक्षुर्हि राजाल्पेनापि प्रयत्नेन मन्त्रमाधातुं शक्तः परानुत्साहप्रभाववतश्च सामादिभिर्योगोपनिषद्भ्यां चातिसंधातुम् ॥ ०९११६। एवमुत्साहप्रभावमन्त्रशक्तीनामुत्तरोत्तराधिकोअतिसंधत्ते ॥ ०९११७। देशः पृथिवी ॥ ०९११८। तस्यां हिमवत्समुद्रान्तरमुदीचीनं योजनसहस्रपरिमाणं तिर्यक्चक्रवर्तिक्षेत्रम् ॥ ०९११९। तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥ ०९१२०। तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत ॥ ०९१२१। यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतोअधमः, साधारणो मध्यमः ॥ ०९१२२। कालः शीतोष्णवर्षात्मा ॥ ०९१२३। तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषाः ॥ ०९१२४। तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत ॥ ०९१२५। यत्रात्मनः सैन्यव्यायामानामृतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतोअधमः, साधारणो मध्यमः ॥ ०९१२६। "शक्तिदेशकालानां तु शक्तिः श्रेयसी" इत्याचार्याः ॥ ०९१२७। शक्तिमान् हि निम्नस्थलवतो देशस्य शीतोष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ॥ ०९१२८। "देशः श्रेयान्" इत्येके ॥ ०९१२९। "स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम्" इति ॥ ०९१३०। "कालः श्रेयान्" इत्येके ॥ ०९१३१। "दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम्" इति ॥ ०९१३२। नेति कौटिल्यः ॥ ०९१३३। परस्परसाधका हि शक्तिदेशकालाः ॥ ०९१३४। तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्तमगृहीतनवभक्तमसंस्कृतदुर्गममित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिमुपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥ ०९१३५। हैमानं चास्य सस्यं वासन्तिकं च मुष्टिमुपहन्तुं चैत्रीं यात्रां यायात् ॥ ०९१३६। क्षीणकृणकाष्ठोदकमसंस्कृतदुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिमुपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥ ०९१३७। अत्युष्णमल्पयवसेन्धनोदकं वा देशं हेमन्ते यायात् ॥ ०९१३८। तुषारदुर्दिनमगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात् ॥ ०९१३९। स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात् ॥ ०९१४०। मार्गशीर्षीं तैषीं चान्तरेण दीर्घकालां यात्रां यायात्, चैत्रीं वैशाखीं चान्तरेण मध्यमकालाम्, ज्येष्ठामूलीयामाषाढीं चान्तरेण ह्रस्वकालाम्, उपोषिष्यन् व्यसने चतुर्थीम् ॥ ०९१४१। व्यसनाभियानं विगृह्ययाने व्याख्यातम् ॥ ०९१४२। प्रायशश्चाचार्याः "परव्यसने यातव्यम्" इत्युपदिशन्ति ॥ ०९१४३। शक्त्युदये यातव्यमनैकान्न्तिकत्वाद्व्यसनानामिति कौटिल्यः ॥ ०९१४४। यदा वा प्रयातः कर्शयितुमुच्छेतुं वा शक्नुयादमित्रं तदा यायात् ॥ ०९१४५। अत्युष्णोपक्षीणे काले हस्तिबलप्रायो यायात् ॥ ०९१४६। हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति ॥ ०९१४७। अनवगाहमानास्तोयमपिबन्तश्चान्तरवक्षाराच्चान्धीभवन्ति ॥ ०९१४८। तस्मात्प्रभूतोदके देशे वर्षति च हस्तिबलप्रायो यायात् ॥ ०९१४९। विपर्यये खरोष्ट्राश्वबलप्रायो देशमल्पवर्षपङ्कम् ॥ ०९१५०। वर्षति मरुप्रायं चतुरङ्गबलो यायात् ॥ ०९१५१। समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाध्वनो यात्रां विभजेत् ॥ ०९१५२ सर्वा वा ह्रस्वकालाः स्युर्यातव्याः कार्यलाघवात् । ०९१५२ दीर्घाः कार्यगुरुत्वाद्वा वर्षावासः परत्र च ॥E (बलोपादानकालाह्-सन्नाहगुणाह्-प्रतिबलकर्म) ०९२०१। मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः ॥ ०९२०२। मूलरक्षणादतिरिक्तं मौलबलम्, अत्यावापयुक्ता वा मौला मूले विकुर्वीरन्, बहुलानुरक्तमौलबलः सारबलो वा प्रतियोद्धा, व्यायामेन योद्धव्यम्, प्रकृष्टेध्वनि काले वा क्षयव्ययसहत्वान्मौलानाम्, बहुलानुरक्तसम्पाते च यातव्यस्योपजापभयादन्यसैन्यानां भृतादीनामविश्वासे, बलक्षये वा सर्वसैन्यानां - इति मौलबलकालः ॥ ०९२०३। "प्रभूतं मे भृतबलमल्पं च मौलबलम्ण्" "परस्याल्पं विरक्तं वा मौलबलम्, फल्गुप्रायमसारं वा भृतसैन्यम्ण्" "मन्त्रेण योद्धव्यमल्पव्यायामेनण्" "ह्रस्वो देशः कालो वा तनुक्षयव्ययह्ण्" "अल्पावापं शान्तोपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" - इति भृतबलकालः ॥ ०९२०४। "प्रभूतं मे श्रेणीबलम्, शक्यं मूले यात्रायां चाधातुम्ण्" ह्रस्वः प्रवासः, श्रेणीबलप्रायः प्रतियोद्धा मन्त्रव्यायामाभ्यां प्रतियोद्धुकामः, दण्डबलव्यवहारः - इति श्रेणीबलकालः ॥ ०९२०५। "प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुम्ण्" "अल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्ण्" "मित्रबलेन वा पूर्वमटवीं नगरस्थानमासारं वा योधयित्वा पश्चात्स्वबलेन योद्धयिष्यामिण्" "मित्रसाधारणं वा मे कार्यम्ण्" "मित्रायत्ता वा मे कार्यसिद्धिह्ण्" "आसन्नमनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वास्य सादयिष्यामि" - इति मित्रबलकालः ॥ ०९२०६। "प्रभूतं मे शत्रुबलम्, शत्रुबलेन योधयिष्यामि नगरस्थानमटवीं वा, तत्र मे श्ववराहयोः कलहे चण्डालस्येवान्यतरसिद्धिर्भविष्यतिण्" "आसाराणामटवीनां वा कण्टकमर्दनमेतत्करिष्यामिण्" - अत्युपचितं वा कोपभयान्नित्यमासन्नमरिबलं वासयेद्, अन्यत्राभ्यन्तरकोपशङ्कायाः - शत्रुयुद्धावरयुद्धकालश्च - इत्यमित्रबलकालः ॥ ०९२०७। तेनाटवीबलकालो व्याख्यातः ॥ ०९२०८। मार्गादेशिकम्, परभूमियोग्यम्, अरियुद्धप्रतिलोमम्, अटवीबलप्रायः शत्रुर्वा, "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः - इत्यटवीबलकालः ॥ ०९२०९। सैन्यमनेकमनेकस्थमुक्तमनुक्तं वा विलोपार्थं यदुत्तिष्ठति तदौत्साहिकं - अभक्तवेतनं विलोपविष्टिप्रतापकरं भेद्यं परेषाम्, अभेद्यं तुल्यदेशजातिशिल्पप्रायं संहतं महत् ॥ [इति बलोपादानकालाह्] ०९२१०। तेषां कुप्यभृतममित्राटवीबलं विलोपभृतं वा कुर्यात् ॥ ०९२११। अमित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुबलमवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वातिक्रान्ते विसृजेत् ॥ ०९२१२। परस्य चैतद्बलसमुद्दानं विघातयेत्, आत्मनः सम्पादयेत् ॥ ०९२१३। पूर्वं पूर्वं चैषां श्रेयः सन्नाहयितुम् ॥ ०९२१४। तद्भावभावित्वान्नित्यसत्कारानुगमाच्च मौलबलं भृतबलात्श्रेयः ॥ ०९२१५। नित्यानन्तरं क्षिप्रोत्थायि वश्यं व भृतबलं श्रेणीबलात्श्रेयः ॥ ०९२१६। जानपदमेकार्थोपगतं तुल्यसंघर्षामर्षसिद्धिलाभं च श्रेणीबलं मित्रबलात्श्रेयः ॥ ०९२१७। अपरिमितदेशकालमेकार्थोपगमाच्च मित्रबलममित्रबलात्श्रेयः ॥ ०९२१८। आर्याधिष्ठितममित्रबलमटवीबलात्श्रेयः ॥ ०९२१९। तदुभयं विलोपार्थम् ॥ ०९२२०। अविलोपे व्यसने च ताभ्यामहिभयं स्यात् ॥ ०९२२१। "ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात्पूर्वं पूर्वं श्रेयः सन्नाहयितुम्" इत्याचार्याः ॥ ०९२२२। नेति कौटिल्यः ॥ ०९२२३। प्रणिपातेन ब्राह्मणबलं परोअभिहारयेत् ॥ ०९२२४। प्रहरणविद्याविनीतं तु क्षत्रियबलं श्रेयः, बहुलसारं वा वैश्यशूद्रबलमिति ॥ ०९२२५। तस्मादेवंबलः परः, तस्यैतत्प्रतिबलमिति बलसमुद्दानं कुर्यात् ॥ ०९२२६। हस्तियन्त्रशकटगर्भकुन्तप्रासहाटकवेणुशल्यवधस्तिबलस्य प्रतिबलम् ॥ ०९२२७। तदेव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रतिबलम् ॥ ०९२२८। तदेवाश्वानां प्रतिबलम्, वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ॥ ०९२२९। कवचिनो रथा आवरणिनः पत्तयश्च चतुरङ्गबलस्य प्रतिबलम् ॥ ०९२३० एवं बलसमुद्दानं परसैन्यनिवारणम् । ०९२३० विभवेन स्वसैन्यानां कुर्यादङ्गविकल्पशः ॥E (पश्चात्कोपचिन्ता - बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारह्) ०९३०१। अल्पः पश्चात्कोपो महान् पुरस्ताल्लाभ इति अल्पः पश्चात्कोपो गरीयान् ॥ ०९३०२। अल्पं पश्चात्कोपं प्रयातस्स्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति, प्रकृतिकोपो वा ॥ ०९३०३। लब्धमपि च महान्तं पुरस्ताल्लाहमेवंभूते भृत्यमित्रक्षयव्यया ग्रसन्ते ॥ ०९३०४। तस्मात्सहस्रैकीयः पुरस्ताल्लाभस्यायोगः शतैकीयो वा पश्चात्कोप इति न यायात् ॥ ०९३०५। सूचीमुखा ह्यनर्था इति लोकप्रवादः ॥ ०९३०६। पश्चात्कोपे सामदानभेददण्डान् प्रयुञ्जीत ॥ ०९३०७। पुरस्ताल्लाभे सेनापतिं कुमारं वा दण्डचारिणं कुर्वीत ॥ ०९३०८। बलवान् वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमादातुं यायात् ॥ ०९३०९। अभ्यन्तरकोपशङ्कायां शङ्कितानादाय यायात्, बाह्यकोपशङ्कायां वा पुत्रदारमेषाम् ॥ ०९३१०। अभ्यन्तरावग्रहं कृत्वा शून्यपालमनेकबलवर्गमनेकमुख्यं च स्थापयित्वा यायात्, न वा यायात् ॥ ०९३११। अभ्यन्तरकोपो बाह्यकोपात्पापीयानित्युक्तं पुरस्तात् ॥ ०९३१२। मन्त्रपुरोहितसेनापतियुवराजानामन्यतमकोपोअभ्यन्तरकोपः ॥ ०९३१३। तमात्मदोषत्यागेन परशक्त्यपराधवशेन वा साधयेत् ॥ ०९३१४। महापराधेपि पुरोहिते सम्रोधनमवस्रावणं वा सिद्धिः, युवराजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन् सति पुत्रे ॥ ०९३१५। पुत्रं भ्रातरमन्यं वा कुल्यं राजग्राहिणमुत्साहेन साधयेत्, उत्साहाब्भावे गृहीतानुवर्तनसंधिकर्मभ्यामरिसंधानभयात् ॥ ०९३१६। अन्येभ्यस्तद्विधेभ्यो वा भूमिदानैर्विश्वासयेदेनम् ॥ ०९३१७। तद्विशिष्टं स्वयंग्राहं दण्डं वा प्रेषयेत्, सामन्ताटविकान् वा, तैर्विगृहीतमतिसंदध्यात् ॥ ०९३१८। अपरुद्धादानं पारग्रामिकं वा योगमातिष्ठेत् ॥ ०९३१९। एतेन मन्त्रसेनापती व्याख्यातौ ॥ ०९३२०। मन्त्र्यादिवर्जानामन्तरमात्यानामन्यतमकोपोअन्तरमात्यकोपः ॥ ०९३२१। तत्रापि यथार्हमुपायान् प्रयुञ्जीत ॥ ०९३२२। राष्ट्रमुख्यान्तपालाटविकदण्डोपनतानामन्यतमकोपो बाह्यकोपः ॥ ०९३२३। तमन्योन्येनावग्राहयेत् ॥ ०९३२४। अतिदुर्गप्रतिष्टब्धं वा सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमेनावग्राहयेत् ॥ ०९३२५। मित्रेणोपग्राहयेद्वा यथा नामित्रं गच्छेत् ॥ ०९३२६। अमित्राद्वा सत्त्री भेदयेदेनं - "अयं त्वा योगपुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति, अवाप्तार्थो दण्डचारिणममित्राटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्रदारमन्ते वा वासयिष्यति ॥ ०९३२७। प्रतिहतविक्रमं त्वां भर्तर्य्पण्यं करिष्यति, त्वया वा संधिं कृत्वा भर्तारमेव प्रसादयिष्यति ॥ ०९३२८। मित्रमुपकृष्टं वास्य गच्छ" इति ॥ ०९३२९। प्रतिपन्नमिष्टाभिप्रायैः पूजयेत् ॥ ०९३३०। अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योगपुरुषः प्रणिहितः" इति ॥ ०९३३१। सत्त्री चैनमभित्यक्तशासनैर्घातयेत्, गूढपुरुषैर्वा ॥ ०९३३२। सहप्रस्थायिनो वास्य प्रवीरपुरुषान् यथाभिप्रायकरणेनावाहयेत् ॥ ०९३३३। तेन प्रणिहितान् सत्त्री ब्रूयात् ॥ ०९३३४। इति सिद्धिः ॥ ०९३३५। परस्य चैनान् कोपानुत्थापयेत्, आत्मनश्च शमयेत् ॥ ०९३३६। यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रोपजापः कार्यः ॥ ०९३३७। यः सत्यसंधः शक्तः कर्मणि फलावाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च कल्याणबुद्धिरुताहो शठ इति ॥ ०९३३८। शठो हि बाह्योअभ्यन्तरमेवमुपजपति - "भर्तारं चेद्धत्वा मां प्रतिपादयिष्यति शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुरेनमाहनिष्यतीति हतबन्धुपक्षस्तुल्यदोषदण्डेनोद्विग्नश्च मे भूयानकृत्यपक्षो भविष्यति, तद्विधे वान्यस्मिन्नपि शङ्कितो भविष्यति, अन्यमन्यं चास्य मुख्यम् अभित्यक्तशासनेन घातयिष्यामि" इति ॥ ०९३३९। अभ्यन्तरो वा शठो बाह्यमेवमुपजपति - "कोशमस्य हरिष्यामि, दण्डं वास्य हनिष्यामि, दुष्टं वा भर्तारमनेन घातयिष्यामि, प्रतिपन्नं बाह्यममित्राटविकेषु विक्रमयिष्यामि "चक्रमस्य सज्यताम्, वैरमस्य प्रसज्यताम्, ततः स्वाधीनो मे भविष्यति, ततो भर्तारमेव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्यभूमिं भर्तृभूमिं चोभयमवाप्स्यामि, विरुद्धं वावाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वास्य मूलं हरिष्यामि" इति ॥ ०९३४०। कल्याणबुद्धिस्तु सहजीव्यर्थमुपजपति ॥ ०९३४१। कल्याणबुद्धिना संदधीत, शठं "तथा" इति प्रतिगृह्यातिसंदध्यात्- इति ॥ ०९३४२ एवमुपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ०९३४२ रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यमात्मा विपश्चिता ॥E (क्षयव्ययलाभविपरिमर्शह्) ०९४०१। युग्यपुरुषापचयः क्षयः ॥ ०९४०२। हिरण्यधान्यापचयो व्ययः ॥ ०९४०३। ताभ्यां बहुगुणविशिष्टे लाभे यायात् ॥ ०९४०४। आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्वकालस्तनुक्षयोअल्पव्ययो महान् वृद्ध्युदयः कल्यो धर्म्यः पुरोगश्चेति लाभसम्पत् ॥ ०९४०५। सुप्राप्यानुपाल्यः परेषामप्रत्यादेय इत्यादेयः ॥ ०९४०६। विपर्यये प्रत्यादेयः ॥ ०९४०७। तमाददानस्तत्रस्थो वा विनाशं प्राप्नोति ॥ ०९४०८। यदि वा पश्येत्"प्रत्यादेयमादाय कोशदण्डनिचयरक्षाविधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवणिक्पथानुद्धृतसारान् करिष्यामि, प्रकृतीरस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेनाराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वास्य पण्यमेनं करिष्यामि, मित्रमपरुद्धं वास्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडामत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि, मित्रमाश्रयं वास्य वैगुण्यं ग्राहयिष्यामि, तदमित्रविरक्तं तत्कुलीनं प्रतिपत्स्यते, सत्कृत्य वास्मै भूमिं दास्यामि इति संहितसमुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयमपि लाभमाददीत ॥ ०९४०९। इत्यादेयप्रत्यादेयौ व्याख्यातौ ॥ ०९४१०। अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥ ०९४११। विपरीतः प्रकोपक इति ॥ ०९४१२। मन्त्रिणामुपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयमस्माभिः क्षयव्ययौ ग्राहितः" इति ॥ ०९४१३। दूष्यमन्त्रिणामनादराल्लाभो लभ्यमानः कोपको भवति "सिद्धार्थोअयमस्मान् विनाशयिष्यति" इति ॥ ०९४१४। विपरीतः प्रसादकः ॥ ०९४१५। इति प्रसादककोपकौ व्याख्यातौ ०९४१६। गमनमात्रसाध्यत्वाध्रस्वकालह् ०९४१७। मन्त्रसाध्यत्वात्तनुक्षयः ॥ ०९४१८। भक्तमात्रव्ययत्वादल्पव्ययह् ०९४१९। तदात्ववैपुल्यान्महान् ॥ ०९४२०। अर्थानुबन्धकत्वाद्वृद्ध्युदयः ॥ ०९४२१। निराबाधकत्वात्कल्यः ॥ ०९४२२। प्रशस्तोपादानाद्धर्म्यः ॥ ०९४२३। सामवायिकानामनिर्बन्धगामित्वात्पुरोगः - इति ॥ ०९४२४। तुल्ये लाभे देशकालौ शक्त्युपायौ प्रियाप्रियौ जवाजवौ सामीप्यविप्रकर्षौ तदात्वानुबन्धौ सारत्वसातत्ये बाहुल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभमाददीत ॥ ०९४२५। लाभविघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीरनार्यभावो मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वमत्यागित्वं दैन्यमसूया हस्तगतावमानो दौरात्म्यमविश्वासो भयमप्रतीकारः शीतोष्णवर्षाणामाक्षम्यं मङ्गलतिथिनक्षत्रेष्टित्वमिति ॥ ०९४२६ नक्षत्रमति पृच्छन्तं बालमर्थोअतिवर्तते । ०९४२६ अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ ०९४२७ नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि । ०९४२७ अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ॥E (बाह्याभ्यन्तराश्चापदह्) ०९५०१। संध्यादीनामयथोद्देशावस्थापनमपनयः ॥ ०९५०२। तस्मादापदः सम्भवन्ति ॥ ०९५०३। बाह्योत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तरोत्पत्तिर्बाह्यप्रतिजापा, बाह्योत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तरोत्पत्तिरभ्यन्तरप्रतिजापा - इत्यापदः ॥ ०९५०४। यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्रोभययोगे प्रतिजपतः सिद्धिर्विशेषवती ॥ ०९५०५। सुव्याजा हि प्रतिजपितारो भवन्ति, नोपजपितारः ॥ ०९५०६। तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुमुपजपितारः ॥ ०९५०७। कृच्छ्रोपजापा हि बाह्यानामभ्यन्तरास्तेषामितरे वा ॥ ०९५०८। महतश्च प्रयत्नस्य वधः परेषाम्, अर्थानुबन्धश्चात्मन इति ॥ ०९५०९। अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत ॥ ०९५१०। स्थानमानकर्म सान्त्वम् ॥ ०९५११। अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम् ॥ ०९५१२। बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत ॥ ०९५१३। सत्त्रिणो मित्रव्यञ्जना वा बाह्यानां चारमेषां ब्रूयुः "अयं वो राजा दूष्यव्यञ्जनैरतिसंधातुकामः, बुध्यध्वम्" इति ॥ ०९५१४। दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः ॥ ०९५१५। दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः ॥ ०९५१६। आहूय वा बाह्यान् घातयेयुः ॥ ०९५१७। यत्र बाह्या बाह्यानुपजपन्ति, अभ्यन्तरानभ्यन्तरा वा, तत्रैकान्तयोग उपजपितुः सिद्धिर्विशेषवती ॥ ०९५१८। दोषशुद्धौ हि दूष्या न विद्यन्ते ॥ ०९५१९। दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति ॥ ०९५२०। तस्माद्बाह्येषूपजपत्सु भेददण्डौ प्रयुञ्जीत ॥ ०९५२१। सत्त्रिणो मित्रव्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयमादातुकामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥ ०९५२२। प्रतिजपितुर्वा दूतदण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः ॥ ०९५२३। ततः सत्त्रिणः प्रतिजपितारमभिशंसेयुः ॥ ०९५२४। अभ्यन्तरानभ्यन्तरेषूपजपत्सु यथार्हमुपायं प्रयुञ्जीत ॥ ०९५२५। तुष्टलिङ्गमतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ ०९५२६। शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनमिति दानम् ॥ ०९५२७। मित्रव्यञ्जनो वा ब्रूयादेतान् "चित्तज्ञानार्थमुपधास्यति वो राजा, तदस्याख्यातव्यमिति ॥ ०९५२८। परस्पराद्वा भेदयेदेनान् "असौ चासौ च वो राजन्येवमुपजपति" - इति भेदः ॥ ०९५२९। दाण्डकर्मिकवच्च दण्डः ॥ ०९५३०। एतासां चतसृणामापदामभ्यन्तरामेव पूर्वं साधयेत् ॥ ०९५३१। अहिभयादभ्यन्तरकोपो बाह्यकोपात्पापीयानित्युक्तं पुरस्ताद् ॥ ०९५३२ पूर्वां पूर्वां विजानीयाल्लघ्वीमापदमापदाम् । ०९५३२ उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥E (दूष्यशत्रुसम्युक्ताह्<आपदह्>) ०९६०१। दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ॥ ०९६०२। दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जानुपायान् प्रयुञ्जीत ॥ ०९६०३। दण्डो हि महाजने क्षेप्तुमशक्यः ॥ ०९६०४। क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थमुत्पादयेत् ॥ ०९६०५। मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत ॥ ०९६०६। शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत ॥ ०९६०७। स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्तायत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः ॥ ०९६०८। दूष्यादूष्याणामामिश्रितत्वादामिश्रा ॥ ०९६०९। आमिश्रायामदूष्यतः सिद्धिः ॥ ०९६१०। आलम्बनाभावे ह्यालम्बिता न विद्यन्ते ॥ ०९६११। मित्रामित्राणामेकीभावात्परमिश्रा ॥ ०९६१२। परमिश्रायां मित्रतः सिद्धिः ॥ ०९६१३। सुकरो हि मित्रेण संधिः, नामित्रेणेति ॥ ०९६१४। मित्रं चेन्न संधिमिच्छेदभीक्ष्णमुपजपेत् ॥ ०९६१५। ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ॥ ०९६१६। मित्रसंघस्य वा योअन्तस्थायी तं लभेत ॥ ०९६१७। अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते ॥ ०९६१८। मध्यस्थायिनं वा लभेत ॥ ०९६१९। मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते ॥ ०९६२०। यथा चैषामाश्रयभेदस्तानुपायान् प्रयुञ्जीत ॥ ०९६२१। धार्मिकं जातिकुलश्रुतवृत्तस्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्योपकारानपकाराभ्यां वा सान्त्वयेत् ॥ ०९६२२। निवृत्तोत्साहं विग्रहश्रान्तं प्रतिहतोपायं क्षयव्ययाभ्यां प्रवासेन चोपतप्तं शौचेनान्यं लिप्समानमन्यस्माद्वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत् ॥ ०९६२३। लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत् ॥ ०९६२४। तत्पञ्चविधं - देयविसर्गो गृहीतानुवर्तनमात्तप्रतिदानं स्वद्रव्यदानमपूर्वं परस्वेषु स्वयंग्राहदानं च ॥ ०९६२५। इति दानकर्म ॥ ०९६२६। परस्परद्वेषवैरभूमिहरणशङ्कितमतोअन्यतमेन भेदयेत् ॥ ०९६२७। भीरुं वा प्रतिघातेन "कृतसंधिरेष त्वयि कर्मकरिष्यति, मित्रमस्य निसृष्टम्, संधौ वा नाभ्यन्तरः" इति ॥ ०९६२८। यस्य वा स्वदेशादन्यदेशाद्वा पण्यानि पण्यागारतयागच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ॥ ०९६२९। बहुलीभूते शासनमभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्यागारं वा मया ते प्रेषितम्, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पणशेषमवाप्स्यसि" इति ॥ ०९६३०। ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरिप्रदत्तम्" इति ॥ ०९६३१। शत्रुप्रख्यातं वा पण्यमविज्ञातं विजिगीषुं गच्छेत् ॥ ०९६३२। तदस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन् ॥ ०९६३३। ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यमरिप्रदत्तम्" इति ॥ ०९६३४। महापराधानर्थमानाभ्यामुपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात् ॥ ०९६३५। अथैकममात्यं निष्पातयेत् ॥ ०९६३६। तस्य पुत्रदारमुपगृह्य रात्रौ हतमिति ख्यापयेत् ॥ ०९६३७। अथामात्यः शत्रोस्तानेकैकशः प्ररूपयेत् ॥ ०९६३८। ते चेद्यथोक्तं कुर्युर्न चैनान् ग्राहयेत् ॥ ०९६३९। अशक्तिमतो वा ग्राहयेत् ॥ ०९६४०। आप्तभावोपगतो मुख्यादस्यात्मानं रक्षणीयं कथयेत् ॥ ०९६४१। अथामित्रशासनं मुख्योपघाताय प्रेषितमुभयवेतनो ग्राहयेत् ॥ ०९६४२। उत्साहशक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण, यथास्थितो नः संधिः" इति ॥ ०९६४३। ततः सत्त्रिणः परेषु ग्राहयेयुः ॥ ०९६४४। एकस्य स्कन्धावारं वीवधमासारं वा घातयेयुः ॥ ०९६४५। इतरेषु मैत्रीं ब्रुवाणाः "त्वमेतेषां घातयितव्यः" इत्युपजपेयुः ॥ ०९६४६। यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत गूढपुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्परोपहतं ब्रूयुः ॥ ०९६४७। ततः शासनमभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पणशेएषमवाप्स्यसि" इति ॥ ०९६४८। तदुभयवेतना ग्राहयेयुः ॥ ०९६४९। भिन्नेष्वन्यतमं लभेत ॥ ०९६५०। तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः ॥ ०९६५१। सांधिकं च भेदं प्रयुञ्जीत ॥ ०९६५२। इति भेदकर्म ॥ ०९६५३। तीक्ष्णमुत्साहिनं व्यसनिनं स्थितशत्रुं वा गूढपुरुषाः शस्त्राग्निरसादिभिः साधयेयुः, सौकर्यतो वा तेषामन्यतमः ॥ ०९६५४। तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत् ॥ ०९६५५। अयं सर्वसंदोहकर्म विशिष्टं वा करोति ॥ ०९६५६। इत्युपायचतुर्वर्गः ॥ ०९६५७। पूर्वः पूर्वश्चास्य लघिष्ठः ॥ ०९६५८। सान्त्वमेकगुणम् ॥ ०९६५९। दानं द्विगुणं सान्त्वपूर्वम् ॥ ०९६६०। भेदस्त्रिगुणः सान्त्वदानपूर्वः ॥ ०९६६१। दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः ॥ ०९६६२। इत्यभियुञ्जानेषूक्तम् ॥ ०९६६३। स्वभूमिष्ठेषु तु त एवोपायाः ॥ ०९६६४। विशेषस्तु ॥ ०९६६५। स्वभूमिष्ठानामन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यानभीक्ष्णं प्रेषयेत् ॥ ०९६६६। त एनं संधौ परहिंसायां वा योजयेयुः ॥ ०९६६७। अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ॥ ०९६६८। तमितरेषामुभयवेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥ ०९६६९। यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते, पुरा त्वामतिसंधत्ते, क्षिप्रतरं संधीयस्व, निग्रहे चास्य प्रयतस्व" इति ॥ ०९६७०। आवाहविवाहाभ्यां वा कृत्वा सम्योगमसम्युक्तान् भेदयेत् ॥ ०९६७१। सामन्ताटविकतत्कुलीनापरुद्धैश्चैषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाभिसृतम् ॥ ०९६७२। परस्परापाश्रयाश्चैषां जातिसंघाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण ॥ ०९६७३ वीतंसगिलवच्चारीन् योगैराचरितैः शठः । ०९६७३ घातयेत्परमिश्रायां विश्वासेनामिषेण च ॥E (अर्थानर्थसम्शययुक्ताह्<आपदह्> - तासामुपायविकल्पजाह्सिद्धयह्) ०९७०१। कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः ॥ ०९७०२। तदुभयमासुरी वृत्तिः ॥ ०९७०३। स्वजनविकारः कोपः ॥ ०९७०४। परवृद्धिहेतुषु आपदर्थोअनर्थः संशय इति ॥ ०९७०५। योअर्थः शत्रुवृद्धिमप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्ययोदयो भवति, स भवत्यापदर्थः ॥ ०९७०६। यथा सामन्तानामामिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रार्थितो वा स्वभावाधिगम्यो लाभः, पश्चात्कोपेन पार्ष्णिग्राहेण वा विगृहीतः पुरस्ताल्लाभः, मित्रोच्छेदेन संधिव्यतिक्रमेण वा मण्डलविरुद्धो लाभः इत्यापदर्थः ॥ ०९७०७। स्वतः परतो वा भयोत्पत्तिरित्यनर्थः ॥ ०९७०८। तयोः अर्थो न वेति, अनर्थो न वेति, अर्थोअनर्थ इति, अनर्थोअर्थ इति संशयः ॥ ०९७०९। शत्रुमित्रमुत्साहयितुमर्थो न वेति संशयः ॥ ०९७१०। शत्रुबलमर्थमानाभ्यामावाहयितुमनर्थो न वेति संशयः ॥ ०९७११। बलवत्सामन्तां भूमिमादातुमर्थोअनर्थ इति संशयः ॥ ०९७१२। जायसा सम्भूययानमनर्थोअर्थ इति संशयः ॥ ०९७१३। तेषामर्थसंशयमुपगच्छेत् ॥ ०९७१४। अर्थोअर्थानुबन्धः, अर्थो निरनुबन्धः, अर्थोअनर्थानुबन्धः, अनर्थोअर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थोअनर्थानुबन्धः इत्यनुबन्धषड्वर्गः ॥ ०९७१५। शत्रुमुत्पाट्य पार्ष्णिग्राहादानमर्थोअनर्थानुबन्धः ॥ ०९७१६। उदासीनस्य दण्डानुग्रहः फलेन अर्थो निरनुबन्धः ॥ ०९७१७। परस्यान्तरुच्छेदनमर्थोअनर्थानुबन्धः ॥ ०९७१८। शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यामनर्थोअनर्थानुबन्धः ॥ ०९७१९। हीनशक्तिमुत्साह्य निवृत्तिरनर्थो निरनुबन्धः ॥ ०९७२०। ज्यायांसमुत्थाप्य निवृत्तिरनर्थोअनर्थानुबन्धः ॥ ०९७२१। तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुम् ॥ ०९७२२। इति कार्यावस्थापनम् ॥ ०९७२३। समन्ततो युगपदर्थोत्पत्तिः समन्ततोअर्थापद्भवति ॥ ०९७२४। सैव पार्ष्णिग्राहविगृहीता समन्ततोअर्थसंशयापद्भवति ॥ ०९७२५। तयोर्मित्राक्रन्दोपग्रहात्सिद्धिः ॥ ०९७२६। समन्ततः शत्रुभ्यो भयोत्पत्तिः समन्त्तोअनर्थापद्भवति ॥ ०९७२७। सैव मित्रविगृहीता समन्ततोअनर्थसंशयापद्भवति ॥ ०९७२८। तयोश्चलामित्राक्रन्दोपग्रहात्सिद्धिः, परमिश्राप्रतीकारो वा ॥ ०९७२९। इतो लाभ इतरतो लाभ इत्युभयतोअर्थापद्भवति ॥ ०९७३०। तस्यां समन्ततोअर्थायां च लाभगुणयुक्तमर्थमादातुं यायात् ॥ ०९७३१। तुल्ये लाभगुणे प्रधानमासन्नमनतिपातिनमूनो वा येन भवेत्तमादातुं यायात् ॥ ०९७३२। इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थापत् ॥ ०९७३३। तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ॥ ०९७३४। मित्राभावे प्रकृतीनां लघीयस्यैकतोअनर्थां साधयेत्, उभयतोअनर्थां ज्यायस्या, समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ॥ ०९७३५। अशक्ये सर्वमुत्सृज्यापगच्छेत् ॥ ०९७३६। दृष्टा हि जीवतः पुनरावृत्तिर्यथा सुयात्रोदयनाभ्याम् ॥ ०९७३७। इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोअर्थानर्थापद्भवति ॥ ०९७३८। तस्यामनर्थसाधको योअर्थस्तमादातुं यायात् ॥ ०९७३९। अन्यथा हि राज्याभिमर्शं वारयेत् ॥ ०९७४०। एतया समन्ततोअर्थानर्थापद्व्याख्याता ॥ ०९७४१। इतोअनर्थ इतरतोअर्थसंशय इत्युभयतोअनर्थार्थसंशया ॥ ०९७४२। तस्यां पूर्वमनर्थं साधयेत्, तत्सिद्धावर्थसंशयम् ॥ ०९७४३। एतया समन्ततोअनर्थार्थसंशया व्याख्याता ॥ ०९७४४। इतोअर्थ इतरतोअनर्थसंशय इत्युभयतोअर्थानर्थसंशयापद् ॥ ०९७४५। एतया समन्ततोअर्थानर्थसंशया व्याख्याता ॥ ०९७४६। तस्यां पूर्वां पूर्वां प्रकृतीनामनर्थसंशयान्मोक्षयितुं यतेत ॥ ०९७४७। श्रेयो हि मित्रमनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति ॥ ०९७४८। समग्रमोक्षणाभावे प्रकृतीनामवयवान्मोक्षयितुं यतेत ॥ ०९७४९। तत्र पुरुषप्रकृतीनां बहुलमनुरक्तं वा तीक्ष्णलुब्धवर्जम्, द्रव्यप्रकृतीनां सारं महोपकारं वा ॥ ०९७५०। संधिनासनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि ॥ ०९७५१। क्षयस्थानवृद्धीनां चोत्तरोत्तरं लिप्सेत ॥ ०९७५२। प्रातिलोम्येन वा क्षयादीनामायत्यां विशेषं पश्येत् ॥ ०९७५३। इति देशावस्थापनम् ॥ ०९७५४। एतेन यात्रादिमध्यान्तेष्वर्थानर्थसंशयानामुपसम्प्राप्तिर्व्याख्याता ॥ ०९७५५। निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्रादावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णिग्राहासारप्रतिघाते क्षयव्ययप्रवासप्रत्यादेये मूलरक्षणेषु च भवति ॥ ०९७५६। तथानर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति ॥ ०९७५७। एतेन यात्रामध्येर्थानर्थसंशयानामुपसम्प्राप्तिर्व्याख्याता ॥ ०९७५८। यात्रान्ते तु कर्शनीयमुच्छेदनीयं वा कर्शयित्वोच्छिद्य वार्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पराबाधभयात् ॥ ०९७५९। सामवायिकानामपुरोगस्य तु यात्रामध्यान्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुमनिर्बन्धगामित्वात् ॥ ०९७६०। अर्थो धर्मः काम इत्यर्थत्रिवर्गः ॥ ०९७६१। तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुम् ॥ ०९७६२। अनर्थोअधर्मः शोक इत्यनर्थत्रिवर्गः ॥ ०९७६३। तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥ ०९७६४। अर्थोअनर्थ इति, धर्मोअधर्म इति, कामः शोक इति संशयत्रिवर्गः ॥ ०९७६५। तस्योत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयानुपसम्प्राप्तुम् ॥ ०९७६६। इति कालावस्थापनम् ॥ ०९७६७। इत्यापदः - तासां सिद्धिः ॥ ०९७६८। पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनुरूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्याम्, सामन्ताटविकेषु भेददण्डाभ्याम् ॥ ०९७६९। एषानुलोमा, विपर्यये प्रतिलोमा ॥ ०९७७०। मित्रामित्रेषु व्यामिश्रा सिद्धिः ॥ ०९७७१। परस्परसाधका ह्युपायाः ॥ ०९७७२। शत्रोः शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोगं निवर्तयति, दूष्यामात्येषु दानम्, संघातेषु भेदः, शक्तिमत्सु दण्ड इति ॥ ०९७७३। गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति ॥ ०९७७४। "अनेनैवोपायेन नान्येन" इति नियोगः ॥ ०९७७५। "अनेन वान्येन वा" इति विकल्पः ॥ ०९७७६। "अनेनान्येन च" इति समुच्चयः ॥ ०९७७७। तेषामेकयोगाश्चत्वारस्त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः ॥ ०९७७८। इति पञ्चदशोपायाः ॥ ०९७७९। तावन्तः प्रतिलोमाः ॥ ०९७८०। तेषामेकेनोपायेन सिद्धिरेकसिद्धिः, द्वाभ्यां द्विसिद्धिः, त्रिभिस्त्रिसिद्धिः, चतुर्भिश्चतुःसिद्धिरिति ॥ ०९७८१। धर्ममूलत्वात्कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा यार्थस्य सिद्धिः सा सर्वार्थसिद्धिः ॥ <इति सिद्धयह्> ०९७८२। दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षमासुरी सृष्टिरित्यापदः ॥ ०९७८३। तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः ॥ ०९७८४ अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा यासुरी भवेत् । ०९७८४ तस्यामाथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः ॥E (स्कन्धावारनिवेशह्) १०१०१। वास्तुकप्रशस्ते वास्तुनि नायकवर्धकि मौहूर्तिकाः स्कन्धावारम्, वृत्तं दीर्घं चतुरश्रं वा भूमिवशेन वा, चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च ॥ १०१०२। मध्यमस्योत्तरे नवभागे राजवास्तुकं धनुःशतायाममर्धविस्तारम्, पश्चिमार्धे तस्यान्तःपुरम् ॥ १०१०३। अन्तर्वंशिकसैन्यं चान्ते निविशेत ॥ १०१०४। पुरस्तादुपस्थानम्, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजाउपवाह्यानां हस्त्यश्वरथानां स्थानम् ॥ १०१०५। अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः ॥ १०१०६। प्रथमे पुरस्तान्मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम् ॥ १०१०७। द्वितीये मौलभृतानां स्थानमश्वरथानां सेनापतेश्च ॥ १०१०८। तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥ १०१०९। चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम् ॥ १०११०। वणिजो रूपाजीवाश्चानुमहापथम् ॥ १०१११। बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः ॥ १०११२। शत्रूणामापाते कूपकूटावपातकण्टकिनीश्च स्थापयेत् ॥ १०११३। अष्टादशवर्गाणामारक्षविपर्यासं कारयेत् ॥ १०११४। दिवायामं च कारयेदपसर्पज्ञानार्थम् ॥ १०११५। विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च ॥ १०११६। सेनानिवृत्तमायुधीयमशासनं शून्यपालो बध्नीयात् ॥ १०११७ पुरस्तादध्वनः सम्यक्प्रशास्ता रक्षणानि च । १०११७ यायाद्वर्धकिविष्टिभ्यामुदकानि च कारयेत् ॥E (स्कन्धावारप्रयाणम् - बलव्यसनावस्कन्दकालरक्षणम्) १०२०१। ग्रामारण्यानामध्वनि निवेशान् यवसेन्धनोदकवशेन परिसंख्याय स्थानासनगमनकालं च यात्रां यायात् ॥ १०२०२। तत्प्रतीकारद्विगुणं भक्तोपकरणं वाहयेत् ॥ १०२०३। अशक्तो वा सैन्येष्वायोजयेत्, अन्तरेषु वा निचिनुयात् ॥ १०२०४। पुरस्तान्नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोरश्वा बाहूत्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, पश्चात्सेनापतिर्यायात्निविशेत ॥ १०२०५। सर्वतो वनाजीवः प्रसारः ॥ १०२०६। स्वदेशादन्वायतिर्वीवधः ॥ १०२०७। मित्रबलमासारः ॥ १०२०८। कलत्रस्थानमपसारः ॥ १०२०९। पुरस्तादध्याघाते मकरेण यायात्, पश्चात्शकटेन, पार्श्वयोर्वज्रेण, समन्ततः सर्वतोभद्रेण, एकायने सूच्या ॥ १०२१०। पथिद्वैधीभावे स्वभूमितो यायात् ॥ १०२११। अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥ १०२१२। योजनमधमा, अध्यर्धं मध्यमा, द्वियोजनमुत्तमा, सम्भाव्या वा गतिः ॥ १०२१३। आश्रयकारी सम्पन्नघाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः, संकटो मार्गः शोधयितव्यः, कोशो दण्डो मित्रामित्राटवीबलं विष्ट्यृतुर्वा प्रतीक्ष्याः, कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्चागमिष्यति, उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायं वा पूरयिष्यति, इति शनैर्यायात्, विपर्यये शीघ्रम् ॥ १०२१४। हस्तिस्तम्भसंक्रमसेतुबन्धनौकाष्ठवेणुसंघातैरलाबुचर्मकरण्डदृतिप्लवगण्डिकावेणिकाभिश्चोदकानि तारयेत् ॥ १०२१५। तीर्थाभिग्रहे हस्त्यश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ॥ १०२१६। अनुदके चक्रिचतुष्पदं चाध्वप्रमाणेन शक्त्योदकं वाहयेत् ॥ १०२१७। दीर्घकान्तारमनुदकं यवसेन्धनोदकहीनं वा कृच्छ्राध्वानमभियोगप्रस्कन्नं क्षुत्पिपासाध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदीदरीशैलानामुद्यानापयाने व्यासक्तमेकायनमार्गे शैलविषमे संकटे वा बहुलीभूतं निवेशे प्रस्थिते विसन्नाहं भोजनव्यासक्तमायतगतपरिश्रान्तमवसुप्तं व्याधिमरकदुर्भिक्षपीडितं व्याधितपत्त्यश्वद्विपमभूमिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत्, परसैन्यं चाभिहन्यात् ॥ १०२१८। एकायनमार्गप्रयातस्य सेनानिश्चारग्रासाहारशय्याप्रस्ताराग्निनिधानध्वजायुधसंख्यानेन परबलज्ञानम् ॥ १०२१९। तदात्मानो गूहयेत् ॥ १०२२० पार्वतं वनदुर्गं वा सापसारप्रतिग्रहम् । १०२२० स्वभुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ॥E (कूटयुद्धविकल्पाह्- स्वसैन्योत्साहनम् - स्वबलान्यबलव्यायोगह्) १०३०१। बलविशिष्टः कृतोपजापः प्रतिविहितर्तुः स्वभूम्यां प्रकाशयुद्धमुपेयात् ॥ १०३०२। विपर्यये कूटयुद्धम् ॥ १०३०३। बलव्यसनावस्कन्दकालेषु परमभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम् ॥ १०३०४। दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात् ॥ १०३०५। संहतानीकं हस्तिभिर्भेदयेत् ॥ १०३०६। पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नमभिन्नः प्रतिनिवृत्य हन्यात् ॥ १०३०७। पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्यश्वेनाभिहन्यात् ॥ १०३०८। पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सारबलेनाभिहन्यात् ॥ १०३०९। ताभ्यां पार्श्वाभिगातौ व्याख्यातौ ॥ १०३१०। यतो वा दूष्यफल्गुबलं ततोअभिहन्यात् ॥ १०३११। पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ॥ १०३१२। पृष्ठतो विषमायां पुरस्तादभिहन्यात् ॥ १०३१३। पार्श्वतो विषमायामितरतोअभिहन्यात् ॥ १०३१४। दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तमश्रान्तः परमभिहन्यात् ॥ १०३१५। दूष्यबलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तमविश्वस्तः सत्त्रापाश्रयोअभिहन्यात् ॥ १०३१६। सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तमप्रमत्तोअभिहन्यात् ॥ १०३१७। फल्गुबलावच्छन्नसारबलो वा परवीराननुप्रविश्य हन्यात् ॥ १०३१८। गोग्रहणेन श्वापदवधेन वा परवीरानाकृष्य सत्त्रच्छन्नोअभिहन्यात् ॥ १०३१९। रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तानवसुप्तान् वा दिवा हन्यात् ॥ १०३२०। सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ॥ १०३२१। अहःसन्नाहपरिश्रान्तानपराह्नेभिहन्यात् ॥ १०३२२। शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिषोष्ट्रयूथैर्वा त्रस्नुभिरकृतहस्त्यश्वं भिन्नमभिन्नः प्रतिनिवृत्तं हन्यात् ॥ १०३२३। प्रतिसूर्यवातं वा सर्वमभिहन्यात् ॥ १०३२४। धान्वनवनसंकटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ॥ १०३२५। पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः ॥ १०३२६। संग्रामस्तु निर्दिष्टदेशकालो धर्मिष्ठः ॥ १०३२७। संहत्य दण्डं ब्रूयात्"तुल्यवेतनोअस्मि, भवद्भिः सह भोग्यमिदं राज्यम्, मयाभिहितैः परोअभिहन्तव्यः" इति ॥ १०३२८। वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानामवभृथेषु "सा ते गतिर्या शूराणाम्" इति ॥ १०३२९। अपीह श्लोकौ भवतः ॥ १०३३० "यान् यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति । १०३३० क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥ १०३३१ "नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । १०३३१ तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृपिण्डस्य कृते न युध्येत्- इति ॥ १०३३२। मन्त्रिपुरोहिताभ्यामुत्साहयेद्योधान् व्यूहसम्पदा ॥ १०३३३। कार्तान्तिकादिश्चास्य वर्गः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् ॥ १०३३४। "श्वो युद्धम्" इति कृतोपवासः शस्त्रवाहनं चानुशयीत ॥ १०३३५। अथर्वभिश्च जुहुयात् ॥ १०३३६। विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत् ॥ १०३३७। ब्राह्मणेभ्यश्चात्मानमतिसृजेत् ॥ १०३३८। शौर्यशिल्पाभिजनानुरागयुक्तमर्थमानाभ्यामविसंवादितमनीकगर्भं कुर्वीत ॥ १०३३९। पितृपुत्रभ्रातृकाणामायुधीयानामध्वजं मुण्डानीकं राजस्थानम् ॥ १०३४०। हस्ती रथो वा राजवाहनमश्वानुबन्धः ॥ १०३४१। यत्प्रायसैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ॥ १०३४२। राजव्यञ्जनो व्यूहाधिष्ठानमायोज्यः ॥ १०३४३। सूतमागधाः शूराणां स्वर्गमस्वर्गं भीरूणां जातिसंघकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः ॥ १०३४४। पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिमसिद्धिं परेषाम् ॥ १०३४५। सेनापतिरर्थमानाभ्यामभिसंस्कृतमनीकमाभाषेत - "शतसाहस्रो राजवधः, पञ्चाशत्साहस्रः सेनापतिकुमारवधः, दशसाहस्रः प्रवीरमुख्यवधः, पञ्चसाहस्रो हस्तिरथवधः, साहस्रोअश्ववधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं भोगद्वैगुण्यं स्वयंग्राहश्च" इति ॥ १०३४६। तदेषां दशवर्गाधिपतयो विद्युः ॥ १०३४७। चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्नपानरक्षिण्यः पुरुषाणामुद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ॥ १०३४८। अदक्षिणामुखं पृष्ठतःसूर्यमनुलोमवातमनीकं स्वभूमौ व्यूहेत ॥ १०३४९। परभूमिव्यूहे चाश्वांश्चारयेयुः ॥ १०३५०। यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चोभयथा जीयेत ॥ विपर्यये जयति, उभयथा स्थाने प्रजवे च ॥ १०३५२। समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ॥ १०३५३। समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः ॥ १०३५४। विशिष्टबलं भङ्क्त्वा संधिं याचेत ॥ १०३५५। समबलेन याचितः संदधीत ॥ १०३५६। हीनमनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा ॥ १०३५७ पुनरावर्तमानस्य निराशस्य च जीविते । १०३५७ अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ॥E (युद्धभूमयह्- पत्त्यश्वरथहस्तिकर्माणि) १०४०१। स्वभूमिः पत्त्यश्वरथद्विपानामिष्टा युद्धे निवेशे च ॥ १०४०२। धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनामश्वानां च यथास्वमिष्टा युद्धभूमयः कालाश्च ॥ १०४०३। समा स्थिराभिकाशा निरुत्खातिन्यचक्रखुरानक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्यश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ॥ १०४०४। अण्वश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः ॥ १०४०५। स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः ॥ १०४०६। गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः ॥ १०४०७। अकण्टकिन्यबहुविषमा प्रत्यासारवतीति पदातीनामतिशयः ॥ १०४०८। द्विगुणप्रत्यासारा कर्दमोदकखञ्जनहीना निह्शर्करेति वाजिनामतिशयः ॥ १०४०९। पांसुकर्दमोदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्तेति हस्तिनामतिशयः ॥ १०४१०। तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्थेति रथानामतिशयः ॥ १०४११। उक्ता सर्वेषां भूमिः ॥ १०४१२। एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति ॥ १०४१३। भूमिवासवनविचयोअविषमतोयतीर्थवातरश्मिग्रहणं वीवधासारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसारवृद्धिर्बाहूत्सारः पूर्वप्रहारो व्यावेशनं व्यावेधनमाश्वासो ग्रहणं मोक्षणं मार्गानुसारविनिमयः कोशकुमाराभिहरणं जघनकोट्यभिघातो हीनानुसारणमनुयानं समाजकर्मेत्यश्वकर्माणि ॥ १०४१४। पुरोयानमकृतमार्गवासतीर्थकर्म बाहूत्सारस्तोयतरणावतरणे स्थानगमनावतरणं विषमसम्बाधप्रवेशोअग्निदानशमनमेकाङ्गविजयो भिन्नसंधानमभिन्नभेदनं व्यसने त्राणमभिघातो विभीषिका त्रासनंौदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहनापवाहनमिति हस्तिकर्माणि ॥ १०४१५। स्वबलरक्षा चतुरङ्गबलप्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्नसंधानमभिन्नभेदनं त्रासनमौदार्यं भीमघोषश्चेति रथकर्माणि ॥ १०४१६। सर्वदेशकालशस्त्रवहनं व्यायामश्चेति पदातिकर्माणि ॥ १०४१७। शिबिरमार्गसेतुकूपतीर्थशोधनकर्म यन्त्रायुधावरणोपकरणग्रासवहनमायोधनाच्च प्रहरणावरणप्रतिविद्धापनयनमिति विष्टिकर्माणि ॥ १०४१८ कुर्याद्गवाश्वव्यायोगं रथेष्वल्पहयो नृपः । १०४१८ खरोष्ट्रशकटानां वा गर्भमल्पगजस्तथा ॥E (पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागह्- सारफल्गुबलविभागह्- पत्त्यश्वरथहस्तियुद्धानि) १०५०१। पञ्चधनुःशतापकृष्टं दुर्गमवस्थाप्य युद्धमुपेयात्, भूमिवशेन वा ॥ १०५०२। विभक्तमुख्यामचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम् ॥ १०५०३। शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरमश्वम्, पञ्चशमान्तरं रथं हस्तिनं वा ॥ १०५०४। द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत ॥ १०५०५। एवं यथासुखमसम्बाधं युध्येत ॥ १०५०६। पञ्चारत्नि धनुः ॥ १०५०७। तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वम्, पञ्चधनुषि रथं हस्तिनं वा ॥ १०५०८। पञ्चधनुरनीकसंधिः पक्षकक्षोरस्यानाम् ॥ १०५०९। अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥ १०५१०। पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः ॥ १०५११। तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः ॥ १०५१२। त्रीणि त्रिकाण्यनीकं रथानामुरस्यं स्थापयेत्, तावत्कक्षं पक्षं चोभयतः ॥ १०५१३। पञ्चचत्वारिंशदेवं रथा रथव्यूहे भवन्ति, द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोधारः, तावन्तः पादगोपाः ॥ १०५१४। एष समव्यूहः ॥ १०५१५। तस्य द्विरथोत्तरा वृद्धिरैकविंशतिरथादिति ॥ १०५१६। एवमोजा दश समव्यूहप्रकृतयो भवन्ति ॥ १०५१७। पक्षकक्षोरस्यानां मिथो विषमसंख्याने विषमव्यूहः ॥ १०५१८। तस्यापि द्विरथोत्तरा वृद्धिरैकविंशतिरथादिति ॥ १०५१९। एवमोजा दश विषमव्यूहप्रकृतयो भवन्ति ॥ १०५२०। अतः सैन्यानां व्यूहशेषमावापः कार्यः ॥ १०५२१। रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषमुरस्यं स्थापयेत् ॥ १०५२२। एवं त्रिभागोनो रथानामावापः कार्यः ॥ १०५२३। तेन हस्तिनामश्वानामावापो व्याख्यातः ॥ १०५२४। यावदश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात्तावदावापः कार्यः ॥ १०५२५। दण्डबाहुल्यमावापः ॥ १०५२६। पत्तिबाहुल्यं प्रत्यापावः ॥ १०५२७। एकाङ्गबाहुल्यमन्वावापः ॥ १०५२८। दूष्यबाहुल्यमत्यावापः ॥ १०५२९। परावापात्प्रत्यावापाच्च चतुर्गुणादाष्टगुणादिति वा विभवतः सैन्यानामावापः ॥ १०५३०। रथव्यूहेन हस्तिव्यूहो व्याख्यातः ॥ १०५३१। व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ॥ १०५३२। हस्तिनामुरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी ॥ १०५३३। विपरीतोअन्तभेदी ॥ १०५३४। हस्तिनामेव तु शुद्धः - साम्नाह्यानामुरस्यमौपवाह्यानां जघनं व्यालानां कोट्याविति ॥ १०५३५। अश्वव्यूहो - वर्मिणामुरस्यं शुद्धानां कक्षपक्षाविति ॥ १०५३६। पत्तिव्यूहः - पुरस्तादावरणिनः पृष्ठतो धन्विनः ॥ १०५३७। इति शुद्धाः ॥ १०५३८। पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः ॥ १०५३९। इति द्व्यङ्गबलविभागः ॥ १०५४०। तेन त्रङ्गबलविभागो व्याख्यातः ॥ १०५४१। दण्डसम्पत्सारबलं पुंसां १०५४२। हस्त्यश्वयोर्विशेषः कुलं जातिः सत्त्वं वयःस्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यमुदग्रता विधेयत्वं सुव्यञ्जनाचारतेति ॥ १०५४३। पत्त्यश्वरथद्विपानां सारत्रिभागमुरस्यं स्थापयेत्, द्वौ त्रिभागौ कक्षं पक्षं चोभयतः, अनुलोममनुसारम्, प्रतिलोमं तृतीयसारम्, फल्गु प्रतिलोमम् ॥ १०५४४। एवं सर्वमुपयोगं गमयेत् ॥ १०५४५। फल्गुबलमन्तेष्ववधाय वेगाभिहूलिको भवति ॥ १०५४६। सारबलमग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारम्, मध्ये फल्गुबलम् ॥ १०५४७। एवमेतत्सहिष्णु भवति ॥ १०५४८। व्यूहं तु स्थापयित्वा पक्षकक्षोरस्यानामेकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥ १०५४९। यत्परस्य दुर्बलं वीतहस्त्यश्वं दूष्यामात्यं कृतोपजापं वा तत्प्रभूतसारेणाभिहन्यात् ॥ १०५५०। यद्वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात् ॥ १०५५१। यदङ्गमल्पसारमात्मनस्तद्बहुनोपचिनुयात् ॥ १०५५२। यतः परस्यापचयस्ततोअभ्याशे व्यूहेत, यतोत्वा भयं स्यात् ॥ १०५५३। अभिसृतं परिसृतमतिसृतमपसृतमुन्मथ्यावधानं वलयो गोमूत्रिका मण्डलं प्रकीर्णिका व्यावृत्तपृष्ठमनुवंशमग्रतः पार्श्वाभ्यां पृष्ठतो भग्नरक्षा भग्नानुपात इत्यश्वयुद्धानि ॥ १०५५४। प्रकीर्णिकावर्जान्येतान्येव चतुर्णामङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्षोरस्यानां च प्रभञ्जनमवस्कन्दः सौप्तिकं चेति हसित्युद्धानि ॥ १०५५५। उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानीति रथयुद्धानि ॥ १०५५६। सर्वदेशकालप्रहरणमुपांशुदण्डश्चेति पत्तियुद्धानि ॥ १०५५७ एतेन विधिना व्यूहानोजान् युग्मांश्च कारयेत् । १०५५७ विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ॥ १०५५८ द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । १०५५८ भिन्नसंघातनं तस्मान्न युध्येताप्रतिग्रहः ॥E (दण्डभोगमण्डलासम्हतव्यूहव्यूहनम् - तस्य प्रतिव्यूहस्थानम्) १०६०१। पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः ॥ १०६०२। पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः ॥ १०६०३। प्रपक्षकक्षोरस्या उभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः ॥ १०६०४। तत्र तिर्यग्वृत्तिर्दण्डः ॥ १०६०५। समस्तानामन्वावृत्तिर्भोगः ॥ १०६०६। सरतां सर्वतोवृत्तिर्मण्डलः ॥ १०६०७। स्थितानां पृथगनीकवृत्तिरसंहतः ॥ १०६०८। पक्षकक्षोरस्यैः समं वर्तमानो दण्डः ॥ १०६०९। स कक्षातिक्रान्तः प्रदरः ॥ १०६१०। स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः ॥ १०६११। स एवातिक्रान्तः पक्षाभ्यामसह्यः ॥ १०६१२। पक्षाववस्थाप्योरस्यातिक्रान्तः श्येनः ॥ १०६१३। विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ॥ १०६१४। चापपक्षः संजयः ॥ १०६१५। स एवोरस्यातिक्रान्तो विजयः ॥ १०६१६। स्थूलकर्णपक्षः स्थूणाकर्णः ॥ १०६१७। द्विगुणपक्षस्थूणो विशालविजयः ॥ १०६१८। त्र्यभिक्रान्तपक्षश्चमूमुखः ॥ १०६१९। विपर्यये झषास्यः ॥ १०६२०। ऊर्ध्वराजिर्दण्डः सूची ॥ १०६२१। द्वौ दण्डौ वलयः ॥ १०६२२। चत्वारो दुर्जयः ॥ १०६२३। इति दण्डव्यूहाः ॥ १०६२४। पक्षकक्षोरस्यैर्विषमं वर्तमानो भोगः ॥ १०६२५। स सर्पसारी गोमूत्रिका वा ॥ १०६२६। स युग्मोरस्यो दण्डपक्षः शकटः ॥ १०६२७। विपर्यये मकरः ॥ १०६२८। हस्त्यश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ॥ १०६२९। इति भोगव्यूहाः ॥ १०६३०। पक्षकक्षोरस्यानामेकीभावे मण्डलः ॥ १०६३१। स सर्वतोमुखः सर्वतोभद्रः ॥ १०६३२। अष्टानीको दुर्जयः ॥ १०६३३। इति मण्डलव्यूहाः ॥ १०६३४। पक्षकक्षोरस्यानामसंहतादसंहतः ॥ १०६३५। स पञ्चानीकानामाकृतिस्थापनाद्वज्रो गोधा वा ॥ १०६३६। चतुर्णामुद्धानकः काकपदी वा ॥ १०६३७। त्रयाणामर्धचन्द्रकः कर्कटकशृङ्गी वा ॥ १०६३८। इत्यसंहतव्यूहाः ॥ १०६३९। रथोरस्यो हस्तिकक्षोअश्वपृष्ठोअरिष्टः ॥ १०६४०। पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठमचलः ॥ १०६४१। हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठमप्रतिहतः ॥ १०६४२। तेषां प्रदरं दृढकेन घातयेत्, दृढकमसह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण ॥ १०६४३। दुर्जयेन सर्वान् प्रतिव्यूहेत ॥ १०६४४। पत्त्यश्वरथद्विपानां पूर्वं पूर्वमुत्तरेण घातयेत्, हीनाङ्गमधिकाङ्गेन चेति ॥ १०६४५। अङ्गदशकस्यैकः पतिः पतिकः, पतिकदशकस्यैकः सेनापतिः, तद्दशकस्यैको नायक इति ॥ १०६४६। स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां संज्ञाः स्थापयेदङ्गविभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥ १०६४७। समे व्यूहे देशकालसारयोगात्सिद्धिः ॥ १०६४८ यन्त्रैरुपनिषद्योगैस्तीक्ष्णैर्व्यासक्तघातिभिः । १०६४८ मायाभिर्देवसम्योगैः शकटैर्हस्तिभीषणैः ॥ १०६४९ दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः । १०६४९ कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः ॥ १०६५० "दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । १०६५० शत्रुराटविको वा" इति परस्योद्वेगमाचरेत् ॥ १०६५१ एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । १०६५१ प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥E (भेदोपादानानि - उपाम्शुदण्डाह्) १११०१। संघलाभो दण्डमित्रलाभानामुत्तमः ॥ १११०२। संघा हि संहतत्वादधृष्याः परेषाम् ॥ १११०३। ताननुगुणान् भुञ्जीत सामदानाभ्याम्, विगुणान् भेददण्डाभ्याम् ॥ १११०४। काम्बोजसुराष्ट्रक्षत्रियश्रेण्यादयो वार्त्तशस्त्रोपजीविनः ॥ १११०५। लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्दोपजीविनः ॥ १११०६। सर्वेषामासन्नाः सत्त्रिणः संघानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदमुपचारयेयुः "असौ त्वा विजल्पति" इति ॥ १११०७। एवमुभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहानुत्पादयेयुः ॥ १११०८। वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः संघमुख्यमनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः, कृत्यपक्षोपग्रहेण वा ॥ १११०९। कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकानुत्साहयेयुः ॥ ११११०। विशिष्टानां चैकपात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥ १११११। हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः ॥ ११११२। अवहीनान् वा तुल्यभावोपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा ॥ ११११३। व्यवहारमवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः ॥ ११११४। विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ॥ ११११५। सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य प्रतिपक्षवधे योजयेत् ॥ ११११६। भिन्नानपवाहयेद्वा ॥ ११११७। भूमौ चैषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत् ॥ ११११८। एकस्था हि शस्त्रग्रहणसमर्थाः स्युः ॥ ११११९। समवाये चैषामत्ययं स्थापयेत् ॥ १११२०। राजशब्दिभिरवरुद्धमवक्षिप्तं वा कुल्यमभिजातं राजपुत्रत्वे स्थापयेत् ॥ १११२१। कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां संघेषु प्रकाशयेत् ॥ १११२२। संघमुख्यांश्च धर्मिष्ठानुपजपेत्"स्वधर्मममुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥ १११२३। प्रतिपन्नेषु कृत्यपक्षोपग्रहार्थमर्थं दण्डं च प्रेषयेत् ॥ १११२४। विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन "नैषेचनिकम्" इति मदनरसयुक्तान्मद्यकुम्भान्शतशः प्रयच्छेयुः ॥ १११२५। चैत्यदैवतद्वाररक्षास्थानेषु च सत्त्रिणः समयकर्मनिक्षेपं सहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः ॥ १११२६। दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ॥ १११२७। अथावस्कन्दं दद्यात् ॥ १११२८। संघानां वा वाहनहिरण्ये कालिके गृहीत्वा संघमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥ १११२९। तदेषां याचिते "दत्तममुष्मै मुख्याय" इति ब्रूयात् ॥ १११३०। एतेन स्कन्धावाराटवीभेदो व्याख्यातः ॥ १११३१। संघमुख्यपुत्रमात्मसम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम्, शत्रुभयादिह न्यस्तोअसि" इति ॥ १११३२। प्रतिपन्नं राजा कोशदण्डाभ्यामुपगृह्य संघेषु विक्रमयेत् ॥ १११३३। अवाप्तार्थस्तमपि प्रवासयेत् ॥ १११३४। बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः संघमुख्यानुन्मादयेयुः ॥ १११३५। जातकामानामन्यतमस्य प्रत्ययं कृत्वान्यत्र गमनेन प्रसभहरणेन वा कलहानुत्पादयेयुः ॥ १११३६। कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयमित्थं कामुकः" इति ॥ १११३७। विसंवादितं वा मर्षयमाणमभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जातकामां बाधते, तस्मिन्जीवति नेह स्थास्यामि" इति घातमस्य प्रयोजयेत् ॥ १११३८। प्रसह्यापहृता वा वनान्ते क्रिडागृहे वापहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन ॥ १११३९। ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ॥ १११४०। जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ॥ १११४१। तस्मिन्नपक्रान्ते सत्त्रिणः परप्रयोगमभिशंसेयुः ॥ १११४२। आढ्यविधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेपार्थं विवदमानाः संघमुख्यानुन्मादयेयुः, अदितिकौशिकस्त्रियो नर्तकीगायना वा ॥ १११४३। प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ॥ १११४४। सत्त्री वा स्त्रीलोलुपं संघमुख्यं प्ररूपयेत्"अमुष्मिन् ग्रामे दरिद्रकुल्लमपसृतम्, तस्य स्त्री राजार्हा, गृहाणैनाम्" इति ॥ १११४५। गृहीतायामर्धमासानन्तरं सिद्धव्यञ्जनो दूष्यसंघमुख्यमध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाधिचरति" इति ॥ १११४६। तं चेत्संघो निगृह्णीयात्, राजैनमुपगृह्य विगुणेषु विक्रमयेत् ॥ १११४७। अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥ १११४८। ततस्तद्व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणीजारश्च" इति ॥ १११४९। कार्तान्तिकव्यञ्जनो वा कन्यामन्येन वृतामन्यस्य प्ररूपयेत्"अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति, सर्वस्वेन प्रसह्य वैनां लभस्व" इति ॥ १११५०। अलभ्यमानायां परपक्षमुद्धर्षयेत् ॥ १११५१। लब्धायां सिद्धः कलहः ॥ १११५२। भिक्षुकी वा प्रियभार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवनोत्सिक्तो भार्यायां मां प्राहिणोत्, तस्याहं भयाल्लेख्यमाभरणं गृहीत्वागतास्मि, निर्दोषा ते भार्या, गूढमस्मिन् प्रतिकर्तव्यम्, अहमपि तावत्प्रतिपत्स्यामि" इति ॥ १११५३। एवंादिषु कलहस्थानेषु स्वयमुत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ॥ १११५४। संघेष्वेवमेकराजो वर्तेत ॥ १११५५। संघाश्चाप्येवमेकराजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ॥ १११५६ संघमुख्यश्च संघेषु न्यायवृत्तिर्हितः प्रियः । १११५६ दान्तो युक्तजनस्तिष्ठेत्सर्वचित्तानुवर्तकः ॥E (दूतकर्म) १२१०१। "बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत् ॥ १२१०२। इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥ १२१०३। "सर्वसंदोहेन बलानां युध्येत ॥ १२१०४। पराक्रमो हि व्यसनमपहन्ति ॥ १२१०५। स्वधर्मश्चैष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशालाक्षः ॥ १२१०६। नेति कौटिल्यः ॥ १२१०७। सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति ॥ १२१०८। युध्यमानश्चाल्पसैन्यः समुद्रमिवाप्लवोअवगाहमानः सीदति ॥ १२१०९। तद्विशिष्टं तु राजानमाश्रितो दुर्गमविषह्यं वा चेष्टेत ॥ १२११०। त्रयोअभियोक्तारो धर्मलोभासुरविजयिन इति ॥ १२१११। तेषामभ्यवपत्त्या धर्मविजयी तुष्यति ॥ १२११२। तमभ्यवपद्येत, परेषामपि भयात् ॥ १२११३। भूमिद्रव्यहरणेन लोभविजयी तुष्यति ॥ १२११४। तमर्थेनाभ्यवपद्येत ॥ १२११५। भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी ॥ १२११६। तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत ॥ १२११७। तेषामन्यतममुत्तिष्ठमानं संधिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत ॥ १२११८। शत्रुपक्षमस्य सामदानाभ्याम्, स्वपक्षं भेददण्डाभ्याम् ॥ १२११९। दुर्गं राष्ट्रं स्कन्धावारं वास्य गूढाः शस्त्ररसाग्निभिः साधयेयुः ॥ १२१२०। सर्वतः पार्ष्णिमस्य ग्राहयेत् ॥ १२१२१। अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत् ॥ १२१२२। अपकारान्तेषु चास्य दूटं प्रेषयेत् ॥ १२१२३। अनपकृत्य वा संधानम् ॥ १२१२४। तथाप्यभिप्रयान्तं कोशदण्डयोः पादोत्तरमहोरात्रोत्तरं वा संधिं याचेत ॥ १२१२५। स चेद्दण्डसंधिं याचेत, कुण्ठमस्मै हस्त्यश्वं दद्याद्, उत्साहितं वा गरयुक्तम् ॥ १२१२६। पुरुषसंधिं याचेत, दूष्यामित्राटवीबलमस्मै दद्याद्योगपुरुषाधिष्ठितम् ॥ १२१२७। तथा कुर्याद्यथोभयविनाशः स्यात् ॥ १२१२८। तीक्ष्णबलं वास्मै दद्याद्यदवमानितं विकुर्वीत, मौलमनुरक्तं वा यदस्य व्यसनेपकुर्यात् ॥ १२१२९। कोशसंधिं याचेत, सारमस्मै दद्याद्यस्य क्रेतारं नाधिगच्छेत्, कुप्यमयुद्धयोग्यं वा ॥ १२१३०। भूमिसंधिं याचेत, प्रत्यादेयां नित्यामित्रामनपाश्रयां महाक्षयव्ययनिवेशां वास्मै भूमिं दद्यात् ॥ १२१३१। सर्वस्वेन वा राजधानीवर्जेन संधिं याचेत बलीयसः ॥ १२१३२ यत्प्रसह्य हरेदन्यस्तत्प्रयच्चेदुपायतः । १२१३२ रक्षेत्स्वदेहं न धनं का ह्यनित्ये धने दया ॥E (मन्त्रयुद्ध) १२२०१। स चेत्संधौ नावतिष्ठेत, ब्रूयादेनं - "इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः, तेषामनात्मवतां नार्हसि मार्गमनुगन्तुम् ॥ १२२०२। धर्ममर्थं चावेक्षस्व ॥ १२२०३। मित्रमुखा ह्यमित्रास्ते ये त्वा साहसमधर्ममर्थातिक्रमं च ग्राहयन्ति ॥ १२२०४। शूरैस्त्यक्तात्मभिः सह योद्धुं साहसम्, जनक्षयमुभयतः कर्तुमधर्मः, दृष्टमर्थं मित्रमदुष्टं च त्यक्तुमर्थातिक्रमः ॥ १२२०५। मित्रवांश्च स राजा, भूयश्चैतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोअभियास्यन्ति ॥ १२२०६। न च मध्यमोदासीनयोर्मण्डलस्य वा परित्यक्तः, भवांस्तु परित्यक्तः यत्त्वा समुद्युक्तमुपप्रेक्षन्ते "भूयः क्षयव्ययाभ्यां युज्यताम्, मित्राच्च भिद्यताम्, अथैनं परित्यक्तमूलं सुखेनोच्छेत्स्यामः" इति ॥ १२२०७। स भवान्नार्हति मित्रमुखानाममित्राणां श्रोतुम्, मित्राण्युद्वेजयितुममित्रांश्च श्रेयसा योक्तुम्, प्राणसंशयमनर्थं चोपगन्तुम्" इति यच्छेत् ॥ १२२०८। तथापि प्रतिष्ठमानस्य प्रकृतिकोपमस्य कारयेद्यथा संघवृत्ते व्याख्यातं योगवामने च ॥ १२२०९। तीक्ष्णरसदप्रयोगं च ॥ १२२१०। यदुक्तमात्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत ॥ १२२११। बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यानुन्मादयेयुः ॥ १२२१२। बहूनामेकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहानुत्पादयेयुः ॥ १२२१३। कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः ॥ १२२१४। कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसंधानाय मुख्येषु रसं दापयेयुः ॥ १२२१५। वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यामासन्नां कामनिमित्तमर्थेनाभिवृष्य परित्यजेत् ॥ १२२१६। तस्यैव परिचारकव्यञ्जनोपदिष्टः सिद्धव्यञ्जनः सांवदनिकीमोषधीं दद्यात्"वैदेहकशरीरेवघातव्या" इति ॥ १२२१७। सिद्धे सुभगाया अप्येनं योगमुपदिशेत्"राजशरीरेवधातव्या" इति ॥ १२२१८। ततो रसेनातिसंदध्यात् ॥ १२२१९। कार्तान्तिकव्यञ्जनो वा महामात्रं "राजलक्षणसम्पन्नम्" क्रमाभिनीतं ब्रूयात् ॥ १२२२०। भार्यामस्य भिक्षुकी "राजपत्नी राजप्रसविनी वा भविष्यसि" इति ॥ १२२२१। भार्याव्यञ्जना वा महामात्रं ब्रूयात्"राजा किल मामवरोधयिष्यति, तवान्तिकाय पत्त्रलेख्यमाभरणं चेदं परिव्राजिकयाहृतम्" इति ॥ १२२२२। सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनमर्थं चास्य लोभनीयमभिनयेत् ॥ १२२२३। तदस्य वैदेहकव्यञ्जनः प्रतिसंदध्यात्, कार्यसिद्धिं च ब्रूयात् ॥ १२२२४। एवमेकेन द्वाभ्यां त्रिभिरित्युपायैरेकैकमस्य महामात्रं विक्रमायापगमनाय वा योजयेत्- इति ॥ १२२२५। दुर्गेषु चास्य शून्यपालासन्नाः सत्त्रिणः पौरजानपदेषु मैत्रीनिमित्तमावेदयेयुः - "शून्यपालेनोक्ता योधाश्चाधिकरणस्थाश्च "कृच्छ्रगतो राजा जीवन्नागमिष्यति, न वा, प्रसह्य वित्तमार्जयध्वम्, अमित्रांश्च हत" इति ॥ १२२२६। बहुलीभूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः, मुख्यांश्चाभिहन्युः "एवं क्रियन्ते ये शून्यपालस्य न शुश्रूषन्ते" इति ॥ १२२२७। शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः ॥ १२२२८। ततः सत्त्रिणः "शून्यपालो घातयति विलोपयति च" इत्यावेदयेयुः ॥ १२२२९। एवं जानपदान् समाहर्तुर्भेदयेयुः ॥ १२२३०। समाहर्तृपुरुषांस्तु ग्राममध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जनपदमधर्मेण बाधन्ते" इति ॥ १२२३१। समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः ॥ १२२३२। तत्कुलीनमपरुद्धं वा प्रतिपादयेयुः ॥ १२२३३ अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् । १२२३३ दहेयुस्तांश्च हन्युर्वा ब्रूयुरस्यार्तवादिनः ॥E (सेनामुख्यवधह्<द्वितीयो भागह्> - मण्डलप्रोत्साहनम्) १२३०१। राज्ञो राजवल्लभानां चासन्नाः सत्त्रिणः पत्त्यश्वरथद्विपमुख्यानां "राजा क्रुद्धः" इति सुहृद्विश्वासेन मित्रस्थानीयेषु कथयेयुः ॥ १२३०२। बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु "स्वामिवचनेनागम्यताम्" इति ब्रूयुः ॥ १२३०३। तान्निर्गच्छत एवाभिहन्युः, "स्वामिसंदेशः" इति चासन्नान् ब्रूयुः ॥ १२३०४। ये चाप्रवासितास्तान् सत्त्रिणो ब्रूयुः "एतत्तद्यदस्माभिः कथितम्, जीवितुकामेनापक्रान्तव्यम्" इति ॥ १२३०५। येभ्यश्च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्यपालो राज्ञा "अयाच्यमर्थमसौ चासौ च मा याचते, मया प्रत्याख्याताः शत्रुसंहिताः, तेषामुद्धरणे प्रयतस्व" इति ॥ १२३०६। ततः पूर्ववदाचरेत् ॥ १२३०७। येभ्यश्च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्यपालो राज्ञा "अयाच्यमर्थमसौ चासौ च मा याचते, तेभ्यो मया सोअर्थो विश्वासार्थं दत्तः, शत्रुसंहिताः, तेषामुद्धरणे प्रयतस्व" इति ॥ १२३०८। ततः पूर्ववदाचरेत् ॥ १२३०९। ये चैनं याच्यमर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्यपालो राज्ञा "याच्यमर्थमसौ चासौ च मा न याचते, किमन्यत्स्वदोषशङ्कितत्वात्, तेषामुद्धरणे प्रयतस्व" इति ॥ १२३१०। ततः पूर्ववदाचरेत् ॥ १२३११। एतेन सर्वः कृत्यपक्षो व्याख्यातः ॥ १२३१२। प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत्"असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते" इति ॥ १२३१३। प्रतिपन्ने दूष्यानस्य शासनहरान् दर्शयेत्"एतत्तत्" इति ॥ १२३१४। सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेदपवाहयेद्वा ॥ १२३१५। योअस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणोपजापयेत्"आत्मसम्पन्नतरस्त्वं पुत्रः, तथाप्यन्तर्हितः, तत्किमुपेक्षसे विक्रम्य गृहाण, पुरा त्वा युवराजो विनाशयति" इति ॥ १२३१६। तत्कुलीनमपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्"अन्तर्बलं प्रत्यन्तस्कन्धमन्तं वास्य प्रमृद्नीहि" इति ॥ १२३१७। आटविकानर्थमानाभ्यामुपगृह्य राज्यमस्य घातयेत् ॥ १२३१८। पार्ष्णिग्राहं वास्य ब्रूयात्"एष खलु राजा मामुच्छिद्य त्वामुच्छेत्स्यति, पार्ष्णिमस्य गृहाण, त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि" इति ॥ १२३१९। मित्राणि वास्य ब्रूयात्"अहं वः सेतुः, मयि विभिन्ने सर्वानेष वो राजा प्लावयिष्यति, सम्भूय वास्य यात्रां विहनाम" इति ॥ १२३२०। तत्संहतानामसंहतानां च प्रेषयेत्"एष खलु राजा मामुत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वम्, अहं वः श्रेयानभ्युपपत्तुम्" इति ॥ १२३२१ मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः । १२३२१ यथासन्नस्य मोक्षार्थं सर्वस्वेन तदर्पणम् ॥E (शस्त्राग्निरसप्रणिधयह्- वीवधासारप्र्रसारवधह्) १२४०१। ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिकव्यञ्जनाः, जनपदसंधिषु गोरक्षकतापसव्यञ्जनाः, ते सामन्ताटविकतत्कुलीनापरुद्धानां पण्यागारपूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥ १२४०२। आगतांश्चैषां दुर्गे गूढपुरुषानर्थमानाभ्यामभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः ॥ १२४०३। तेषु तैः सह प्रहरेयुः ॥ १२४०४। स्कन्धावारे वास्य शौण्डिकव्यञ्जनः पुत्रमभित्यक्तं स्थापयित्वावस्कन्दकाले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदनरसयुक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ॥ १२४०५। शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकमहः, उत्तरं रस्सिद्धं प्रयच्छेत् ॥ १२४०६। शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत् ॥ १२४०७। दण्डमुख्यव्यञ्जनो वा पुत्रमभित्यक्तमिति समानम् ॥ १२४०८। पाक्वमांसिकाउदनिकाउण्डिकापूपिकव्यञ्जना वा पण्यविशेषमवघोषयित्वा परस्परसंघर्षेण कालिकं समर्घतरमिति वा परानाहूय रसेन स्वपण्यान्यपचारयेयुः ॥ १२४०९। सुराक्षीरदधिसर्पिस्तैलानि वा तद्व्यवहर्तृहस्तेषु गृहीता स्त्रियो बालाश्च रसयुक्तेषु स्वभाजनेषु परिकिरेयुः ॥ १२४१०। "अनेनार्घेण, विशिष्टं वा भूयो दीयताम्" इति तत्रैवावाकिरेयुः ॥ १२४११। एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा ॥ १२४१२। हस्त्यश्वानां विधायवसेषु रसमासन्ना दद्युः ॥ १२४१३। कर्मकरव्यञ्जना वा रसाक्तं यवसमुदकं वा विक्रीणीरन् ॥ १२४१४। चिरसंसृष्टा वा गोवाणिजका गवामजावीनां वा यूथान्यवस्कन्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः, अश्वखरोष्ट्रमहिषादीनां दुष्टांश्च ॥ १२४१५। तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान् ॥ १२४१६। लुब्धकव्यञ्जना वा व्यालमृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्पग्राहा वा सर्पानुग्रविषान्, हस्तिजीविनो वा हस्तिनः ॥ १२४१७। अग्निजीविनो वाग्निमवसृजेयुः ॥ १२४१८। गूढपुरुषा वा विमुखान् पत्त्यश्वरथद्विपमुख्यानभिहन्युः, आदीपयेयुर्वा मुख्यावासान् ॥ १२४१९। दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातमवस्कन्दप्रतिग्रहं वा कुर्युः ॥ १२४२०। वनगूढा वा प्रत्यन्तस्कन्धमुपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा ॥ १२४२१। ससंकेतं वा रात्रियुद्धे भूरितूर्यमाहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥ १२४२२। राजावासमनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥ १२४२३। सर्वतो वा प्रयातमेन(?एव?) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः ॥ १२४२४। लुब्धकव्यञ्जना वावस्कन्दसंकुलेषु गूढयुद्धहेतुभिरभिहन्युः ॥ १२४२५। एकायने वा शैलस्तम्भवाटखञ्जनान्तरुदके वा स्वभूमिबलेनाभिहन्युः ॥ १२४२६। नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः ॥ १२४२७। धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः ॥ १२४२८। संकटगतमग्निना, धान्वनगतं धूमेन, निधानगतं रसेन, तोयावगाढं दुष्टग्राहैरुदकचरणैर्वा तीक्ष्णाः साधयेयुः, आदीप्तावासान्निष्पतन्तं वा ॥ १२४२९ योगवामनयोगाभ्यां योगेनान्यतमेन वा । १२४२९ अमित्रमतिसंदध्यात्सक्तमुक्तासु भूमिषु ॥E (योगातिसम्धानम् - दण्डातिसम्धानम् - एकविजयह्) १२५०१। दैवतेज्यायाम्(देवतेज्यायाम्?) यात्रायाममित्रस्य बहूनि पूजागमस्थानानि भक्तितः ॥ १२५०२। तत्रास्य योगमुब्जयेत् ॥ १२५०३। देवतागृहप्रविष्टस्योपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत् ॥ १२५०४। शिलाशस्त्रवर्षमुत्तमागारात्, कपाटमवपातितं वा, भित्तिप्रणिहितमेकदेशबद्धं वा परिघं मोक्षयेत् ॥ १२५०५। देवतादेहध्वजप्रहरणानि वास्योपरिष्टात्पातयेत् ॥ १२५०६। स्थानासनगमनभूमिषु वास्य गोमयप्रदेहेन गन्धोदकप्रसेकेन वा रसमतिचारयेत्, पुष्पचूर्णोपहारेण वा ॥ १२५०७। गन्धप्रतिच्छन्नं वास्य तीक्ष्णं धूममतिनयेत् ॥ १२५०८। शूलकूपमवपातनं वा शयनासनस्याधस्ताद्यन्त्रबद्धतलमेनं कीलमोक्षणेन प्रवेशयेत् ॥ १२५०९। प्रत्यासन्ने वामित्रे जनपदाज्जनमवरोधक्षममतिनयेत् ॥ १२५१०। दुर्गाच्चानवरोधक्षममपनयेत्, प्रत्यादेयमरिविषयं वा प्रेषयेत् ॥ १२५११। जनपदं चैकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत् ॥ १२५१२। उपरोधहेतवो दण्डोपनतवृत्ते व्याख्याताः ॥ १२५१३। तृणकाष्ठमायोजनाद्दाहयेत् ॥ १२५१४। उदकानि च दूषयेत्, अवस्रावयेच्च ॥ १२५१५। कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत् ॥ १२५१६। सुरुङ्गाममित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यानभिहारयेत्, अमित्रं वा ॥ १२५१७। परप्रयुक्तायां वा सुरुङ्गायां परिखामुदकान्तिकीं खानयेत्, कूपशालामनुसालं वा ॥ १२५१८। तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत्खाताभिज्ञानार्थम् ॥ १२५१९। ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत् ॥ १२५२०। मध्ये भित्त्वा धूममुदकं वा प्रयच्छेत् ॥ १२५२१। प्रतिविहितदुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमामस्य दिशं गच्छेत्, यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोअस्य मित्रैर्वियोगं कुर्यात्पार्ष्णिं वा गृह्णीयात्राज्यं वास्य हारयेत्वीवधासारप्रसारान् वा वारयेत्, यतो वा शक्नुयादाक्षिकवदपक्षेपेणास्य प्रहर्तुम्, यतो वा स्वं राज्यं त्रायेत मूलस्योपचयं वा कुर्यात् ॥ १२५२२। यतः संधिमभिप्रेतं लभेत ततो वा गच्छेत् ॥ १२५२३। सहप्रस्थायिनो वास्य प्रेषयेयुः "अयं ते शत्रुरस्माकं हस्तगतः, पण्यं विप्रकारं वापदिश्य हिरण्यमन्तःसारबलं च प्रेषय यस्यैनमर्पयेम बद्धं प्रवासितं वा" इति ॥ १२५२४। प्रतिपन्ने हिरण्यं सारबलं चाददीत ॥ १२५२५। अन्तपालो वा दुर्गसम्प्रदाने बलैकदेशमतिनीय विश्वस्तं घातयेत् ॥ १२५२६। जनपदमेकस्थं वा घातयितुममित्रानीकमावाहयेत् ॥ १२५२७। तदवरुद्धदेशमतिनीय विश्वस्तं घातयेत् ॥ १२५२८। मित्रव्यञ्जनो वा बाह्यस्य प्रेषयेत्"क्षीणमस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तदमुष्मिन् देशे काले च प्रवेक्ष्यति, तदुपगृहाण" इति ॥ १२५२९। ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाभित्यक्ताः ॥ १२५३०। तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम् ॥ १२५३१। संधिं वा कृत्वा हिरण्यैकदेशमस्मै दद्यात्, विलम्बमानः शेषम् ॥ १२५३२। ततो रक्षाविधानान्यवस्रावयेत् ॥ १२५३३। अग्निरसशस्त्रैर्वा प्रहरेत् ॥ १२५३४। हिरण्यप्रतिग्राहिणो वास्य वल्लभाननुगृह्णीयात् ॥ १२५३५। परिक्षीणो वास्मै दुर्गं दत्त्वा निर्गच्छेत् ॥ १२५३६। सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत् ॥ १२५३७। रात्राववस्कन्दं दत्त्वा सिद्धस्तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत् ॥ १२५३८। पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत् ॥ १२५३९। प्रेतव्यञ्जनो वा गूढैर्निह्रियेत ॥ १२५४०। स्त्रीवेषधारी वा प्रेतमनुगच्छेत् ॥ १२५४१। दैवतोपहारश्राद्धप्रहवणेषु वा रसविद्धमन्नपानमवसृज्य ॥ १२५४२। कृतोपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योअभिहन्यात् ॥ १२५४३। एवं गृहीतदुर्गो वा प्राश्यप्राशं चैत्यमुपस्थाप्य दैवतप्रतिमाच्छिद्रं प्रविश्यासीत, गूढभित्तिं वा, दैवतप्रतिमायुक्तं वा भूमिगृहम् ॥ १२५४४। विस्मृते सुरुङ्गया रात्रौ राजावासमनुप्रविश्य सुप्तममित्रं हन्यात् ॥ १२५४५। यन्त्रविश्लेषणं वा विश्लेष्याधस्तादवपातयेत् ॥ १२५४६। रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाधिशयानममित्रमादीपयेत् ॥ १२५४७। प्रमदवनविहाराणामन्यतमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरुङ्गागूढभित्तिप्रविष्टास्तीक्ष्णा हन्युः, गूढप्रणिहिता वा रसेन ॥ १२५४८। स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमानुपरि मुञ्चेयुः ॥ १२५४९। प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेन्तःपुरगते गूढसंचारः प्रयुञ्जीत ॥ १२५५०। ततो गूढमेवापगच्छेत्, स्वजनसंज्ञां च प्ररूपयेत् ॥ १२४५१ द्वाह्स्थान् वर्षधरांश्चान्यान्निगूढोपहितान् परे । १२४५१ तूर्यसंज्ञाभिराहूय द्विषत्शेषाणि घातयेत् ॥E (उपजापह्) १३१०१। विजिगीषुः परग्राममवाप्तुकामः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् ॥ १३१०२। सर्वज्ञख्यापनं तु - गृहगुह्यप्रवृत्तिज्ञानेन प्रत्यादेशो मुख्यानाम्, कण्टकशोधनापसर्पावगमेन प्रकाशनं राजद्विष्टकारिणाम्, विज्ञाप्योपायनख्यापनमदृष्टसंसर्गविद्यासंज्ञादिभिः, विदेशप्रवृत्तिज्ञानं तदहरेव गृहकपोतेन मुद्रासम्युक्तेन ॥ १३१०३। दैवतसम्योगख्यापनं तु - सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छिद्राननुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैः सम्भाषणं पूजनं च, उदकादुत्थितैर्वा नागवरुणव्यञ्जनैः सम्भाषणं पूजनं च, रात्रावन्तरुदके समुद्रवालुकाकोशं प्रणिधायाग्निमालादर्शनम्, शिलाशिक्यावगृहीते प्लवके स्थानम्, उदकबस्तिना जरायुणा वा शिरोअवगूढनासः पृषतान्त्रकुलीरनक्रशिंशुमारोद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः ॥ १३१०४। तेन रात्रिगणश्चरति ॥ १३१०५। इत्युदकचरणानि ॥ १३१०६। तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखादग्निधूमोत्सर्गः ॥ १३१०७। तदस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकेक्षणिकगूढपुरुषाः साचिव्यकरास्तद्दर्शिनश्च प्रकाशयेयुः ॥ १३१०८। परस्य विषये दैवतदर्शनं दिव्यकोशदण्डोत्पत्तिं चास्य ब्रूयुः ॥ १३१०९। दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतममित्रस्य ॥ १३११०। सदुन्दुभिमुल्कां च परस्य नक्षत्रे दर्शयेयुः ॥ १३१११। परस्य मुख्यान्मित्रत्वेनोपदिशन्तो दूतव्यञ्जनाः स्वामिसत्कारं ब्रूयुः, स्वपक्षबलाधानं परपक्षप्रतिघातं च ॥ १३११२। तुल्ययोगक्षेमममात्यानामायुधीयानां च कथयेयुः ॥ १३११३। तेषु व्यसनाभ्युदयावेक्षणमपत्यपूजनं च प्रयुञ्जीत ॥ १३११४। तेन परपक्षमुत्साहयेद्यथोक्तं पुरस्तात् ॥ १३११५। भूयश्च वक्ष्यामः ॥ १३११६। साधारणगर्दभेन दक्षान्, लकुटशाखाहननाभ्यां दण्डचारिणः, कुलैडकेन चोद्विग्नान्, अशनिवर्षेण विमानितान्, विदुलेनावकेशिना वायसपिण्डेन कैतवजमेघेनेति विहताशान् दुर्भगालंकारेण द्वेषिणेति पूजाफलान्, व्याघ्रचर्मणा मृत्युकूटेन चोपहितान्, पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराभिमन्थनेनेति ध्रुवोपकारिण इति ॥ १३११७। प्रतिपन्नानर्थमानाभ्यां योजयेत् १३११८। द्रव्यभक्तच्छिद्रेषु चैनान् द्रव्यभक्तदानैरनुगृह्णीयात् ॥ १३११९। अप्रतिगृह्णतां स्त्रीकुमारालंकारानभिहरेयुः ॥ १३१२०। दुर्भिक्षस्तेनाटव्युपघातेषु च पौरजानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानमनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ॥ १३१२१ तथेति प्रतिपन्नेषु द्रव्यधान्यान्यपरिग्रहैः । १३१२१ साचिव्यं कार्यमित्येतदुपजापाद्भूतं महत् ॥E (योगवामनम्) १३२०१। मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत् ॥ १३२०२। शिष्याश्चास्य मूलफलोपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः ॥ १३२०३। समागताश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्, "शते शते च वर्षाणां पूर्णेहमग्निं प्रविश्य पुनर्बालो भवामि, तदिह भवत्समीपे चतुर्थमग्निं प्रवेक्ष्यामि, अवश्यं मे भवान्मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व)" इति ॥ १३२०४। प्रतिपन्नं ब्रूयात्"सप्तरात्रमिह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम्" इति ॥ १३२०५। वसन्तमवस्कन्देत ॥ १३२०६। मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी वस्तशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विकानुसरणार्थम्, स्वर्णनालिकां वा ॥ १३२०७। ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥ १३२०८। स राज्ञा पृष्ठः "तथा" इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यमन्तराधाय ॥ १३२०९। ब्रूयाच्चैनं "नागरक्षितोअयं निधिः प्रणिपातसाध्यः" इति ॥ १३२१०। प्रतिपन्नं ब्रूयात्"सप्तरात्रम्" इति समानम् ॥ १३२११। स्थानिकव्यञ्जनं वा रात्रौ तेजनाग्नियुक्तमेकान्ते तिष्ठन्तं सत्त्रिणः क्रमाभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥ १३२१२। तं राजा यमर्थं याचेत तमस्य करिष्यमाणः "सप्तरात्रम्" इति समानम् ॥ १३२१३। सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत् ॥ १३२१४। तं राजेति समानम् ॥ १३२१५। सिद्धव्यञ्जनो वा देशदेवतामभ्यर्हितामाश्रित्य प्रहवणैरभीक्ष्णं प्रकृतिमुख्यानभिसंवास्य क्रमेण राजानमतिसंदध्यात् ॥ १३२१६। जटिलव्यञ्जनमन्तरुदकवासिनं वा सर्वश्वेतं तटसुरुङ्गाभूमिगृहापसरणं वरुणं नागराजं वा सत्त्रिणः क्रमाभिनीतं राज्ञः कथयेयुः ॥ १३२१७। तं राजेति समानम् ॥ १३२१८। जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत् ॥ १३२१९। प्रतिपन्नं बिम्बं कृत्वा शत्रुमावाहयित्वा निरुद्धे देशे घातयेत् ॥ १३२२०। अश्वपण्योपयाता वैदेहकव्यञ्जनाः पण्योपायननिमित्तमाहूय राजानं पण्यपरीक्षायामासक्तमश्वव्यतिकीर्णं वा हन्युः, अश्वैश्च प्रहरेयुः ॥ १३२२१। नगराभ्याशे वा चैत्यमारुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ॥ १३२२२। तदेषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः ॥ १३२२३। मङ्गल्ये वा ह्रदे तटाकमध्ये वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ॥ १३२२४। ऋक्षचर्मकञ्चुकिनो वाग्निधूमोत्सर्गयुक्ता रक्षोरूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्वसृगालवाशितान्तरेषु तथैव ब्रूयुः ॥ १३२२५। चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥ १३२२६। तदन्ये ख्यापयेयुः ॥ १३२२७। दैवतप्रतिमानामभ्यर्हितानां वा शोणितेन प्रस्रावमतिमात्रं कुर्युः ॥ १३२२८। तदन्ये देवरुधिरसंस्रावे संग्रामे पराजयं ब्रूयुः ॥ १३२२९। संधिरात्रिषु श्मशानप्रमुखे वा चैत्यमूर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः ॥ १३२३०। ततो रक्षोरूपी मनुष्यकं याचेत ॥ १३२३१। यश्चात्र शूरवादिकोअन्यतमो वा द्रष्टुमागच्छेत्तमन्ये लोहमुसलैर्हन्युः, यथा रक्षोभिर्हत इति ज्ञायेत ॥ १३२३२। तदद्भुतं राज्ञस्तद्दर्शिनः सत्त्रिणश्च कथयेयुः ॥ १३२३३। ततो नैमितित्कमौहूर्तिकव्यञ्जनाः शान्तिं प्रायश्चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ॥ १३२३४। प्रतिपन्नं "एतेषु सप्तरात्रमेकैकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥ १३२३५। ततः समानम् ॥ १३२३६। एतान् वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषामुपदेशार्थम् ॥ १३२३७। ततः प्रयोजयेद्योगान् ॥ १३२३८। योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात् ॥ १३२३९। हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥ १३२४०। प्रतिपन्नं गहनमेकायनं वातिनीय घातयेयुः, बद्ध्वा वापहरेयुः ॥ १३२४१। तेन मृगयाकामो व्याख्यातः ॥ १३२४२। द्रव्यस्त्रीलोलुपमाढ्यविधवाभिर्वा परमरूपयौवनाभिः स्त्रीभिर्दायनिक्षेपार्थमुपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥ १३२४३। प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः ॥ १३२४४। सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानामभीक्ष्णाभिगमनेषु वा भूमिगृहसुरुङ्गारूढभित्तिप्रविष्टास्तीक्ष्णाः परमभिहन्युः ॥ १३२४५ येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । KआK१३२४५ यात्राविहारे रमते यत्र क्रीडति वाम्भसि ॥ १३२४६ धिगुक्त्यादिषु सर्वेषु यज्ञप्रहवणेषु वा । १३२४६ सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा । १३२४७ प्रमादं याति यस्मिन् वा विश्वासात्स्वजनोत्सवे ॥ १३२४७ यत्रास्यारक्षिसंचारो दुर्दिने संकुलेषु वा । १३२४८ विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेपि वा । १३२४८ वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः ॥ १३२४९ मद्यभोजनफेलाभिस्तूर्यैर्वाभिगताः सह । १३२४९ प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह ॥E १३२५० यथैव प्रविशेयुश्च द्विषतः सत्त्रहेतुभिः । १३२५० तथैव चापगच्छेयुरित्युक्तं योगवामनम् ॥ (अपसर्पप्रणिधिह्) १३३०१। श्रेणीमुख्यमाप्तं निष्पातयेत् ॥ १३३०२। स परमाश्र्त्य पक्षापदेशेन स्वविषयात्साचिव्यकरसहायोपादानं कुर्वीत ॥ १३३०३। कृतापसर्पोपचयो वा परमनुमान्य स्वामिनो दूष्यग्रामं वीतहस्त्यश्वं दूष्यामात्यं दण्डमाक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥ १३३०४। जनपदैकदेशं श्रेणीमटवीं वा सहायोपादानार्थं संश्रयेत ॥ १३३०५। विश्वासमुपगतः स्वामिनः प्रेषयेत् ॥ १३३०६। ततः स्वामी हस्तिबन्धनमटवीघातं वापदिश्य गूढमेव प्रहरेत् ॥ १३३०७। एतेनामात्याटविका व्याख्याताः ॥ १३३०८। शत्रुणा मैत्रीं कृत्वामात्यानवक्षिपेत् ॥ १३३०९। ते तत्शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥ १३३१०। स यं दूतं प्रेषयेत्, तमुपालभेत "भर्ता ते माममात्यैर्भेदयति, न च पुनरिहागन्तव्यम्" इति ॥ १३३११। अथैकममात्यं निष्पातयेत् ॥ १३३१२। स परमाश्रित्य योगापसर्पापरक्तदूष्यानशक्तिमतः स्तेनाटविकानुभयोपघातकान् वा परस्योपहरेत् ॥ १३३१३। आप्तभावोपगतः प्रवीरपुरुषोपघातमस्योपहरेदन्तपालमाटविकं दण्डचारिणं वा "दृढमसौ चासौ च ते शत्रुणा संधत्ते" इति ॥ १३३१४। अथ पश्चादभित्यक्तशासनैरेनान् घातयेत् ॥ १३३१५। दण्डबलव्यवहारेण वा शत्रुमुद्योज्य घातयेत् ॥ १३३१६। कृत्यपक्षोपग्रहेण वा परस्यामित्रं राजानमात्मन्यपकारयित्वाभियुञ्जीत ॥ १३३१७। ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति, तमेहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः" इति ॥ १३३१८। प्रतिपन्नमभिसत्कृत्यागतमवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥ १३३१९। अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षापदेशेन वा ग्राहयेत् ॥ १३३२०। अविषह्यमुपांशुदण्डेन वा घातयेत् ॥ १३३२१। स चेद्दण्डं दद्यान्न स्वयमागच्छेत्तमस्य वैरिणा घातयेत् ॥ १३३२२। दण्डेन वा प्रयातुमिच्छेन्न विजिगीषुणा तथाप्येनमुभयतःसम्पीडनेन घातयेत् ॥ १३३२३। अविश्वस्तो वा प्रत्येकशो यातुमिच्छेद्राज्यैकदेशं वा यातव्यस्यादातुकामः, तथाप्येनं वैरिणा सर्वसंदोहेन वा घातयेत् ॥ १३३२४। वैरिणा वा सक्तस्य दण्डोपनयेन मूलमन्यतो हारयेत् ॥ १३३२५। शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम् ॥ १३३२६। ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः ॥ १३३२७। शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ॥ १३३२८। ततो मित्रगतमतिसंदध्यात् ॥ १३३२९। कृतप्रतिविधानो वा व्यसनमात्मनो दर्शयित्वा मित्रेणामित्रमुत्साहयित्वात्मानमभियोजयेत् ॥ १३३३०। ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत् ॥ १३३३१। मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुमिच्छेत्सामन्तादिभिर्मूलमस्य हारयेत् ॥ १३३३२। दण्डेन वा त्रातुमिछेत्तमस्य घातयेत् ॥ १३३३३। तौ चेन्न भिद्येयातां प्रकाशमेवान्योन्यभूम्या पणेत ॥ १३३३४। ततः परस्परं मित्रव्यञ्जना वा उभयवेतना वा दूतान् प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रुसंहितः" इति ॥ १३३३५। तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत ॥ १३३३६। दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत् ॥ १३३३७। ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुमतिसंदध्युः ॥ १३३३८। भेदं वास्य स्ववर्गेभ्यः कुर्युः ॥ १३३३९। अभित्यक्तशासनैः प्रतिसमानयेयुः ॥ १३३४०। लुब्धकव्यञ्जना वा मांसविक्रयेण द्वाह्स्था दौवारिकापाश्रयाश्चोराभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्रामवधेवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोरगणः, महांश्चाक्रन्दः, प्रभूतं सैन्यमागच्छतु" इति ॥ १३३४१। तदर्पयित्वा ग्रामघातदण्डस्य सैन्यमितरदादाय रात्रौ दुर्गद्वारेषु ब्रूयुः "हतश्चोरगणः, सिद्धयात्रमिदं सैन्यमागतम्, द्वारमपाव्रियताम्" इति ॥ १३३४२। पूर्वप्रणिहिता वा द्वाराणि दद्युः ॥ १३३४३। तैः सह प्रहरेयुः ॥ १३३४४। कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनानायुधीयान् व्वा परदुर्गे प्रणिदध्यात् ॥ १३३४५। तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा ॥ १३३४६। ततस्तद्व्यञ्जनाः प्रमत्तवधमवस्कन्दप्रतिग्रहमभिप्रहरणं पृष्ठतः शङ्खदुन्दुभिशब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ॥ १३३४७। प्राकारद्वाराट्टालकदानमनीकभेदं घातं वा कुर्युः ॥ १३३४८। सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहारिभिरुपकरणहारकैर्धान्यक्रेतृविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्दूतैश्च दणडतिनयनम्, संधिकर्मविश्वासनार्थम् ॥ १३३४९। इति राजापसर्पाः ॥ १३३५०। एत एवाटवीनामपसर्पाः कण्टकशोधनोक्ताश्च ॥ १३३५१। व्रजमटव्यासन्नमपसर्पाः सार्थं वा चोरैर्घातयेयुः ॥ १३३५२। कृतसंकेतमन्नपानं चात्र मदनरसविद्धं वा कृत्वापगच्छेयुः ॥ १३३५३। गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान्मदनरसविकारकालेवस्कन्दयेयुः ॥ १३३५४। संकर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसंदध्यात् ॥ १३३५५। अथावस्कन्दं दद्यात् ॥ १३३५६। शौण्डिकव्यञ्जनो वा दैवतप्रेतकार्योत्सवसमाजेष्वाटविकान् सुराविक्रयोपायननिमित्तं मदनरसयोगेनातिसंदध्यात् ॥ १३३५७। अथावस्कन्दं दद्यात् ॥ १३३५८ ग्रामघातप्रविष्टां वा विक्षिप्य बहुधाटवीम् । १३३५८ घातयेदिति चोराणामपसर्पाः प्रकीर्तिताः ॥E (पर्युपासनकर्म - अवमर्दह्) १३४०१। कर्शनपूर्वं पर्युपासनकर्म ॥ १३४०२। जनपदं यथानिविष्टमभये स्थापयेत् ॥ १३४०३। उत्थितमनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः ॥ १३४०४। संग्रामादन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत् ॥ १३४०५। न ह्यजनो जनपदो राज्यमजनपदं वा भवतीति कौटिल्यः ॥ १३४०६। विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च ॥ १३४०७ प्रसारवीवधच्छेदान्मुष्टिसस्यवधादपि । १३४०७ वमनाद्गूढघाताच्च जायते प्रकृतिक्षयः ॥ १३४०८। "प्रभूतगुणबद्ध(वद्ध)अन्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सैन्यम्, ऋतुश्च पुरस्तात्, अपर्तुः परस्य, व्याधिदुर्भिक्षनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च" इति पर्युपासीत ॥ १३४०९। कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च, परिक्षिप्य दुर्गं खातसालाभ्याम्, दूषयित्वोदकम्, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गाबलकुटिकाभ्यां वप्रप्राकारौ हारयेत्, दारं च गुडेन ॥ १३४१०। निम्नं वा पांसुमालयाच्छादयेत् ॥ १३४११। बहुलारक्षं यन्त्रैर्घातयेत् ॥ १३४१२। निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ॥ १३४१३। विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्चोपायानां सिद्धिं लिप्सेत ॥ १३४१४। दुर्गवासिनः श्येनकाकनप्तृभासशुकसारिकोलूककपोतान् ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विसृजेत् ॥ १३४१५। अपकृष्टस्कन्धावारादुच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गमादीपयेत् ॥ १३४१६। गूढपुर्षाश्चान्तर्दुर्गपालका नकुलवानरबिडालशुनां पुच्छेष्वग्नियोगमाधाय काण्डनिचयरक्षाविधानवेश्मसु विसृजेयुः ॥ १३४१७। शुष्कमत्स्यानामुदरेष्वग्निमाधाय वल्लूरे वा वायसोपहारेण वयोभिर्हारयेयुः ॥ १३४१८। सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खरोष्ट्राजावीनां लेण्डं चाग्निधारणम् ॥ १३४१९। प्रियालचूर्णमवल्गुजमषीमधूच्छिष्टमश्वखरोष्ट्रगोलेण्डमित्येष क्षेप्योअग्नियोगः ॥ १३४२०। सर्वलोहचूर्णमग्निवर्णं वा कुम्भीसीसत्रपुचूर्णं वा पारिभद्रकपलाशपुष्पकेशमषीतैलमधूच्छिष्टकश्रीवेष्टकयुक्तोअग्नियोगो विश्वासघाती वा ॥ १३४२१। तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः ॥ १३४२२। न त्वेव विद्यमाने पराक्रमेग्निमवसृजेत् ॥ १३४२३। अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसंख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः ॥ १३४२४। क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवति ॥ (इति पर्युपासनकर्म) १३४२५। "सर्वारम्भोपकरणविष्टिसम्पन्नोअस्मि, व्याधितः पर उपधाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा, निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्यवमर्दकालः ॥ १३४२६। स्वयमग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षानीकदर्शनसङ्गसौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धप्रेतपुरुषे जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे वावमृद्नीयात् ॥ १३४२७। स्कन्धावारमुत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत् ॥ १३४२८। मित्रासारमुख्यव्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतमभित्यक्तं प्रेषयेत्- "इदं ते छिद्रम्, इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम्, अयं ते कृत्यपक्षः" इति ॥ १३४२९। तं प्रतिदूतमादाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषमभिविख्याप्य प्रवास्य अपगच्छेत् ॥ १३४३०। ततो मित्रासारव्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुमुपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि" इति ॥ १३४३१। प्रतिपन्नमुभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत् ॥ १३४३२। नगरं वास्य प्रमृद्नीयात् ॥ १३४३३। सारबलं वास्य वमयित्वाभिहन्यात् ॥ १३४३४। तेन दण्डोपनताटविका व्याख्याताः ॥ १३४३५। दण्डोपनताटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत्- "अयं सम्रोद्धा व्याधितः, पार्ष्णिग्राहेणाभियुक्तः, छिद्रमन्यदुत्थितम्, अन्यस्यां भूमावपयातुकामः" इति ॥ १३४३६। प्रतिपन्ने सम्रोद्धा स्कन्धावारमादीप्यापयायात् ॥ १३४३७। ततः पूर्ववदाचरेत् ॥ १३४३८। पण्यसम्पातं वा कृत्वा पण्येनैनं रसविद्धेनातिसंदध्यात् ॥ १३४३९। आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत्- "मया बाह्यमभिहतमुपनिर्गच्छाभिहन्तुम्" इति ॥ १३४४०। प्रतिपन्नं पूर्ववदाचरेत् ॥ १३४४१। मित्रं बन्धुं वापदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥ १३४४२। आसारव्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत्- "अमुष्मिन् देशे काले च स्कन्धावारमभिहनिष्यामि, युष्माभिरपि योद्धव्यम्" इति ॥ १३४४३। प्रतिपन्नं यथोक्तमभ्याघातसंकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ॥ १३४४४। यद्वा मित्रमावाहयेदाटव्विकं वा, तमुत्साहयेत्"विक्रम्य सम्रुद्धे भूमिमस्य प्रतिपद्यस्व" इति ॥ १३४४५। विक्रान्तं प्रकृतिभिर्दूष्यमुख्योपग्रहेण वा घातयेत्, स्वयं वा रसेन "मित्रघातकोअयम्" इत्यवाप्तार्थः ॥ १३४४६। विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत् ॥ १३४४७। आप्तभावोपगतः प्रवीरपुरुषानस्योपघातयेत् ॥ १३४४८। संधिं वा कृत्वा जनपदमेनं निवेशयेत् ॥ १३४४९। निविष्टमस्य जनपदमविज्ञातो हन्यात् ॥ १३४५०। अपकारयित्वा दूष्याटविकेषु वा बलैकदेशमतिनीय दुर्गमवस्कन्देन हारयेत् ॥ १३४५१। दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसंज्ञाचिह्नाः परदुर्गमवस्कन्देयुः ॥ १३४५२। परदुर्गमवस्कन्द्य स्कन्धावारं वा पतितपरान्मुखाभिपन्नमुक्तकेशशस्त्रभयविरूपेभ्यश्चाभयमयुध्यमानेभ्यश्च दद्युः ॥ १३४५३। परदुर्गमवाप्य विशुद्धशत्रुपक्षं कृतोपांशुदण्डप्रतीकारमन्तर्बहिश्च प्रविशेत् ॥ १३४५४। एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम् ॥ १३४५५। एष प्रथमो मार्गः पृथिवीं जेतुम् ॥ १३४५६। मध्यमोदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः ॥ १३४५७। एष द्वितीयो मार्गः ॥ १३४५८। मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुमुभयतःसम्पीडनेन साधयेत् ॥ १३४५९। एषतृतीयो मार्गः ॥ १३४६०। शक्यमेकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयम्, त्रिगुणस्तृतीयम् ॥ १३४६१। एष चतुर्थो मार्गः पृथिवीं जेतुम् ॥ १३४६२। जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत ॥ १३४६३ उपजापोअपसर्पश्च वामनं पर्युपासनम् । १३४६३ अवमर्दश्च पञ्चैते दुर्गलम्भस्य हेतवः ॥E (लब्धप्रशमनम्) १३५०१। द्विविधं विजिगीषोः समुत्थानं - अटव्यादिकमेकग्रामादिकं च ॥ १३५०२। त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति ॥ १३५०३। नवमवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन ॥ १३५०४। स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत ॥ १३५०५। यथासम्भाषितं च कृत्यपक्षमुपग्राहयेत्, भूयश्च कृतप्रयासम् ॥ १३५०६। अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च ॥ १३५०७। तस्मात्समानशीलवेषभाषाचारतामुपगछेत् ॥ १३५०८। देशदैवतस्माजोत्सवविहारेषु च भक्तिमनुवर्तेत ॥ १३५०९। देशग्रामजातिसंघमुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामिसत्कारं च विद्यमानम् ॥ १३५१०। उचितैश्चैनान् भोगपरिहाररक्षावेक्षणैर्भुञ्जीत ॥ १३५११। सर्वदेवताश्रमपूजनं च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कारयेत्, सर्वबन्धनमोक्षणमनुग्रहं दीनानाथव्याधितानां च ॥ १३५१२। चातुर्मास्येष्वर्धमासिकमघातम्, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम् ॥ १३५१३। योनिबालवधं पुंस्त्वोपघातं च प्रतिषेधयेत् ॥ १३५१४। यच्च कोशदण्डोपघातकमधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्यव्यवहारं स्थापयेत् ॥ १३५१५। चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासमनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च ॥ १३५१६। परोपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ॥ १३५१७। अपकारसमर्थाननुक्षियतो वा भर्तृविनाशमुपांशुदण्डेन प्रशमयेत् ॥ १३५१८। स्वदेशीयान् वा परेण वापरुद्धानपवाहितस्थानेषु स्थापयेत् ॥ १३५१९। यश्च तत्कुलीनः प्रत्यादेयमादातुं शक्तः, प्रत्यन्ताटवीस्थो वा प्रबाधितुमभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश्चतुर्भागं वा कोशदण्डदानमवस्थाप्य, यदुपकुर्वाणः पौरजानपदान् कोपयेत् ॥ १३५२०। कुपितैस्तैरेनं घातयेत् ॥ १३५२१। प्रकृतिभिरुपक्रुष्टमपनयेत्, औपघातिके वा देशे निवेशयेत्- इति ॥ १३५२२। भूतपूर्वे येन दोषेणापवृत्तस्तं प्रकृतिदोषं छादयेत्, येन च गुणेनोपावृत्तस्तं तीव्रीकुर्यात्- इति ॥ १३५२३। पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत्- इति ॥ १३५२४ चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । १३५२४ प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ॥E परबलघातप्रयोगह्) १४१०१। चातुर्वर्ण्यरक्षार्थमौपनिषदिकमधर्मिष्ठेषु प्रयुञ्जीत ॥ १४१०२। कालकूटादिर्विषवर्गः श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशैः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिर्म्लेच्छजातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च परशरीरोपभोगेष्ववधातव्यः ॥ १४१०३। राजक्रीडाभाण्डनिधानद्रव्योपब्भोगेषु गूढाः शस्त्रनिधानं कुर्युः, सत्त्राजीविनश्च रात्रिचारिणोअग्निजीविनश्चाग्निनिधानम् ॥ १४१०४। चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णमुच्चिदिण्गकम्बलीशतकन्द(कर्दम?)इध्मकृकलासचूर्णं गृहगोलिकान्धाहिकक्रकण्टकपूतिकीटगोमारिकाचूर्णं भल्लातकावल्गुजरसम्युक्तं सद्यःप्राणहरम्, एतेषां वा धूमः ॥ १४१०५ कीटो वान्यतमस्तप्तः कृष्णसर्पप्रियङ्गुभिः । १४१०५ शोषयेदेष सम्योगः सद्यःप्राणहरो मतः ॥ १४१०६। धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तमार्धमासिकः ॥ १४१०७। व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः ॥ १४१०८। कलामात्रं पुरुषाणाम्, द्विगुणं खराश्वानाम्, चतुर्गुणं हस्त्युष्ट्राणाम् ॥ १४१०९। शतकर्दमोच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्चरति तावन्मारयति ॥ १४११०। पूकिकीटमस्त्यकटुतुम्बीशतकर्दमेध्मेन्द्रगोपचूर्णं पूतिकीटक्षुद्रारालाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तमन्धीकरो धूमः ॥ १४१११। पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टमन्धीकरो धूमः ॥ १४११२। सर्पनिर्मोकं गोअश्वपुरीषमन्धाहिकशिरश्चान्धीकरो धूमः ॥ १४११३। पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं कासीसहिङ्गुयवतुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बीजानि गोमूत्रिकाभाण्डीमूलं निम्बशिग्रुफणिर्जकाक्षीवपीलुकभङ्गः सर्पशफरीचर्म हस्तिनखशृङ्गचूर्णमित्येष धूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशो यावच्चरति तावन्मारयति ॥ १४११४। कालीकुष्ठनडशतावलीमूलं सर्पप्रचलाककृकणपञ्चकुष्ठचूर्णं वा धूमः पूर्वकल्पेनार्द्रशुष्कपलालेन वा प्रणीतः संग्रामावतरणावस्कन्दनसंकुलेषु कृतनेजनोदकाक्षिप्रतीकारैः प्रणीतः सर्वप्राणिनां नेत्रघ्नः ॥ १४११५। शारिकाकपोतबकबलाकालेण्डमर्काक्षिपीलुकस्नुहिक्षीरपिष्टमन्धीकरणमञ्जनमुदकदूषणं च ॥ १४११६। यवकशालिमूलमदनफलजातीपत्त्रनरमूत्रयोगः प्लक्षविदारीमूलयुक्तो मूकोदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः ॥ १४११७। शृङ्गिगौतमवृककण्टकारमयूरपदीयोगो गुञ्जालाङ्गलीविषमूलिकेङ्गुदीयोगः करवीराक्षिपीलुकार्कमृगमारणीयोगो मद्नकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः ॥ १४११८। समस्ता वा यवसेन्धनोदकदूषणाः ॥ १४११९। कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधमुन्मादं च करोति ॥ १४१२०। कृकलासगृहगोलिकायोगः कुष्ठकरः ॥ १४१२१। स एव चित्रमेकान्त्रमधुयुक्तः प्रमेहमापादयति, मनुष्यलोहितयुक्तः शोषम् ॥ १४१२२। दूषीविषं मदनकोद्रवचूर्णमपजिह्विकायोगः ॥ १४१२३। मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः ॥ १४१२४। पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः ॥ १४१२५। भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिरकरो मासार्धमासिकः ॥ १४१२६। कलामात्रं पुरुषाणामित्समानं पूर्वेण ॥ १४१२७। भङ्गक्वाथोपनयनमौषधानाम्, चूर्णं प्राणभृताम्, सर्वेषां वा क्वाथोपनयनम्, एवं वीर्यवत्तरं भव्ति ॥ १४१२८। इति योगसम्पत् ॥ १४१२९। शाल्मली विदारीधान्यसिद्धो मूलवत्सनाभसम्युक्तश्चुच्छुन्दरीशोणितप्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान् दशपुरुषान् दशति, ते दष्टा दशान्यान् दशन्ति पुरुषान् ॥ १४१३०। बल्लातकयातुधानावानुधामार्गवबाणानां पुष्पैरेलकाक्षिगुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः ॥ १४१३१। ततोअर्धधरणिको योगः सक्तुपिण्याकाभ्यामुदके प्रणीतो धनुःशतायाममुदकाशयं दूषयति ॥ १४१३२। मत्स्यपरम्परा ह्येतेन दष्टाभिमृष्टा वा विषीभवति, यश्चैतदुदकं पिबति स्पृशति वा ॥ १४१३३। रक्तश्वेतसर्षपैर्गोधा त्रिपक्षमुष्ट्रिकायां भूमौ निखातायां निहिता वध्येनोद्धृता यावत्पश्यति तावन्मारयति, कृष्णसर्पो वा ॥ १४१३४। विद्युत्प्रदग्धोअङ्गारो ज्वालो वा विद्युत्प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ॥ १४१३५ कर्मारादग्निमाहृत्य क्षौद्रेण जुहुयात्पृथक् । १४१३५ सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ॥ १४१३६ माल्येन चैकपत्न्यग्निं पुंश्चल्यग्निं च सर्षपैः । १४१३६ दध्ना च सूतिकास्वग्निमाहिताग्निं च तण्डुलैः ॥ १४१३७ चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च ॥ १४१३७ समस्तान् बस्तवसया मानुषेण ध्रुवेण च ॥ १४१३८ जुहुयादग्निमन्त्रेण राजवृक्षस्य दारुभिः । १४१३८ एष निष्प्रतिकारोअग्निर्द्विषतां नेत्रमोहनः ॥ १४१३९। अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते ॥ १४१४०। अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा ॥E (प्रलम्भनम्, तत्र अद्भुतोत्पादनम्) १४२०१। शिरीषोदुम्बरशमीचूर्णं सर्पिषा संहृत्यार्धमासिकः क्षुद्योगः ॥ १४२०२। कशेरुकोत्पलकन्देक्षुमूलबिसदूर्वाक्षीरघृतमण्डसिद्धो मासिकः ॥ १४२०३। माषयवकुलत्थदर्भमूलचूर्णं वा क्षीरघृताभ्याम्, वल्लीक्षीरघृतं वा समसिद्धम्, सालपृश्निपर्णीमूलकल्कं पयसा पीत्वा, पयो वा तत्सिद्धं मधुघृताभ्यामशित्वा मासमुपवसति ॥ १४२०४। श्वेतबस्तमूत्रे सप्तरात्रोषितैः सिद्धार्थकैः सिद्धं तैलं कटुकालाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम् ॥ १४२०५। तक्रयवभक्षस्य सप्तरात्रादूर्ध्वं श्वेतगर्दभस्य लेण्डयवैः सिद्धं गौरसर्षपतैलं विरूपकरणम् ॥ १४२०६। एतयोरन्यतरस्य मूत्रलेण्दरससिद्धं सिद्धार्थकतैलमर्कतूलपतङ्गचूर्णप्रतीवापं श्वेतीकरणम् ॥ १४२०७। श्वेतकुक्कुटाजगरलेण्डयोगः श्वेतीकरणम् ॥ १४२०८। श्वेतबस्तमूत्रे श्वेतसर्षपाः सप्तरात्रोषितास्तक्र(?)मर्कक्षीरलवणं धान्यं च पक्षस्थितो योगः श्वेतीकरणम् ॥ १४२०९। कटुकालाबौ वलीगते गतंर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां श्वेतीकरणम् ॥ १४२१० अलोजुनेति यः कीटः श्वेता च गृहगोलिका । १४२१० एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्खपाण्डराः ॥ १४२११। गोमयेन तिन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसानुलिप्तस्य मासिकः कुष्ठयोगः ॥ १४२१२। कृष्णसर्पमुखे गृहगोलिकामुखे वा सप्तरात्रोषिता गुज्जाः कुष्ठयोगः ॥ १४२१३। शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः ॥ १४२१४। कुष्ठस्यप्रियालकल्ककषायः प्रतीकारः ॥ १४२१५। कुक्कुटकोशातकी(?)शतावरीमूलयुक्तमाहारयमाणो मासेन गौरो भवति ॥ १४२१६। वटकषायस्नातः सहचरकल्कदिग्धः कृष्णो भवति ॥ १४२१७। शकुनकण्गुतैलयुक्ता हरितालमनःशिलाः श्यामीकरणम् ॥ १४२१८। खद्योतचूर्णं सर्षपतैलयुक्तं रात्रौ ज्वलति ॥ १४२१९। खद्योतगण्डूपदचूर्णं समुद्रजन्तूनां भृङ्गकपालानां खदिरकर्णिकाराणां पुष्पचूर्णं वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम् ॥ १४२२०। पारिभद्रकत्वन्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनमग्निना ॥ १४२२१। परिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरमग्निना ज्वलति ॥ १४२२२। पीलुत्वन्मषीमयः पिण्डो हस्ते ज्वलति ॥ १४२२३। मण्डूकवसादिग्धोअग्निना ज्वलति ॥ १४२२४। तेन प्रदिग्धमङ्गं कुशाम्रफलतैलसिक्तं समुद्रमण्डूकीफेनकसर्जरसचूर्णयुक्तं वा ज्वलति ॥ १४२२५। मण्डूककुलीरादीनां वसया समभागं तैलं सिद्धमभ्यङ्गं गात्राणामग्निप्रज्वालनम् ॥ १४२२६। वेणुमूलशैवललिप्तमङ्गं मण्डूकवसादिग्धमग्निना ज्वलति ॥ १४२२७। पारिभद्रकप्पतिबलावञ्जुलवज्रकदलीमूलकल्केन मण्डूकवसासिद्धेन तैलेनाभ्यक्तपादोअङ्गारेषु गच्छति ॥ १४२२८ उपोदका प्रतिबला वञ्जुलः पारिभद्रकः । १४२२८ एतेषां मूलकल्केन मण्डूकवसया सह ॥ १४२२९ साधयेत्तैलमेतेन पादावभ्यज्य निर्मलौ । १४२२९ अङ्गारराशौ विचरेद्यथा कुसुमसंचये ॥ १४२३०। हंसक्रौञ्चमयूराणामन्येषां वा महाशकुनीनामुदकप्लवानां पुच्छेषु बद्धा नलदीपिका रात्रावुल्कादर्शनम् ॥ १४२३१। वैद्युतं भस्माङ्गिशमनम् ॥ १४२३२। स्त्रीपुष्पपायिता माषा व्रजकुलीमूलं मण्डूकवसामिश्रं चुल्लुयां दीप्तायामपाचनम् ॥ १४२३३। चुल्लीशोधनं प्रतीकारः ॥ १४२३४। पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिर्वा पिचुपरिवेष्टितो मुख्यादग्निधूमोत्सर्गः ॥E १४२३५। कुशाम्रफलतैलसिक्तोअग्निर्वर्षप्रवातेषु ज्वलति ॥ १४२३६। समुद्रफेनकस्तैलयुक्तोअम्भसि प्लवमानो ज्वलति ॥ १४२३७। प्लवमानानामस्थिषु कल्माषवेणुना निर्मथितोअग्निर्नोदकेन शाम्यति, उदकेन ज्वलति ॥ १४२३८। शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपर्शुकास्थिषु कल्माषवेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वास्थिषु मनुष्यपर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ॥ १४२३९ चुच्चुन्दरी खञ्जरीटः खारकीटश्च पिष्यते । १४२३९ अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम् ॥ १४२४०। अयस्कान्तो वा पाषाणः कुलीरदर्दुरखारकीटवसाप्रदेहेन द्विगुणः ॥ १४२४१। नारकगर्भः कङ्कभासपार्श्वोत्पलोदकपिष्टश्चतुष्पदद्विपदानां पादलेपः ॥ १४२४२। उलूकगृध्रवसाभ्यामुष्ट्रचर्मोपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति ॥ १४२४३। श्येनकङ्ककाकगृध्रहंसक्रौञ्चवीचीरल्लानां मज्जानो रेतांसि वा योजनशताय, सिंहव्याघ्रद्वीपकाकोलूकानां मज्जानो रेतांसि वा ॥ १४२४४। सार्ववर्णिकानि गर्भपतनान्युष्ट्रिकायामभिषूय श्मशाने प्रेतशिशून् वा तत्समुत्थितं मेदो योजनशताय ॥ १४२४५ अनिष्टैरद्भुतोत्पातैः परस्योद्वेगमाचरेत् । १४२४५ आराज्यायेति निर्वादः समानः कोप उच्यते ॥E (प्रलम्भनम्, तत्र भैषज्यमन्त्रयोगह्) १४३०१। मार्जारोष्ट्रवृकवराहश्वाविद्वागुलीनप्तृकाकोलूकानामन्येषां वा निशाचराणां सत्त्वानामेकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥ १४३०२। ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥ १४३०३ एकाम्लकं वराहाक्षि खद्योतः कालशारिवा । १४३०३ एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति ॥ १४३०४।त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ॥ १४३०५। ततो यवविरूढमालामाबध्य नष्टच्छायारूपश्चरति ॥ १४३०६। त्रिरत्रोपोषितः पुष्येण श्वमार्जारोलूकवागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ॥ १४३०७। ततो यथास्वमभ्यक्ताक्षो नष्टच्छायारूपश्चरति ॥ १४३०८। त्रिरात्रोपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकामञ्जनीं च कारयेत् ॥ १४३०९। ततो अन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति ॥ १४३१०। त्रिरात्रोपोषितः पुष्येण कालायसीमञ्जनीं शलाकां च कारयेत् ॥ १४३११। ततो निशाचराणां सत्त्वानामन्यतमस्य शिरःकपालमञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥ १४३१२। तदञ्जनं पुष्येणोद्धृत्य तस्यामञ्जन्यां निदध्यात् ॥ १४३१३। तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति ॥ १४३१४। यत्र ब्राह्मणमाहिताग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रिरात्रोपोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभस्मना पूरयित्वा तमाबध्य नष्टच्छायारूपश्चरति ॥ १४३१५। ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाहिभस्त्रा पशूनामन्तर्धानम् ॥ १४३१६। सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणामन्तर्धानम् ॥ १४३१७। उलूकवागुलीपुच्छपुरीषजान्वस्थिचूर्णपूर्णाहिभस्त्रा पक्षिणामन्तर्धानम् ॥ १४३१८। इत्यष्टावन्तर्धानयोगः ॥ १४३१९ "बलिं वैरोचनं वन्दे शतमायं च शम्बरम् । १४३१९ भण्डीरपाकं नरकं निकुम्भं कुम्भमेव च ॥ १४३२० देवलं नारदं वन्दे वन्दे सावर्णिगालवम् । १४३२० एतेषामनुयोगेन कृतं ते स्वापनं महत् ॥ १४३२१ यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः । १४३२१ तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥ १४३२२ भण्डकानां सहस्रेण रथनेमिशतेन च । १४३२२ इमं गृहं प्रवेक्ष्यामि तूष्णीमासन्तु भाण्डकाः ॥ १४३२३ नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः । १४३२३ ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः ॥ १४३२४ अध्ययनपारगाः सिद्धा ये च कौलास तापसाः । १४३२४ एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत् ॥ १४३२५। अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ॥ १४३२६। अलिते, वलिते, मनवे स्वाहा ॥ १४३२७। एतस्य प्रयोगः ॥ १४३२८। त्रिरात्रोपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद्विलखावलेखनं क्रीणीयात् ॥ १४३२९। तन्माषैः सह कण्डोलिकायां कृत्वासंकीर्ण आदहने निखानयेत् ॥ १४३३०। द्वितीयस्यां चतुर्दश्यामुद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥ १४३३१। तत एकां गुलिकामभिमन्त्रयित्वा यत्रैतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४३३२। एतेनैव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतमसंकीर्ण आदहने निखानयेत् ॥ १४३३३। द्वितीयस्यां चतुर्दश्यामुद्धृत्यादहनभस्मना सह यत्रैतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४३३४ "सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् । १४३३४ सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ॥ १४३३५ वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः । १४३३५ वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ॥ १४३३६। स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा ॥ १४३३७ सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । १४३३७ श्वाविधः शल्यकं चैतत्त्रिश्वेतं ब्रह्मनिर्मितम् ॥ १४३३८ प्रसुप्ताः सर्वसिद्धा हि एतत्ते स्वापनं कृतम् । १४३३८ यावद्ग्रामस्य सीमान्तः सूर्यस्योद्गमनादिति ॥ १४३३९। स्वाहा" ॥ १४३४०। एतस्य प्रयोगः ॥ १४३४१। श्वाविधः शल्यकानि त्रिश्वेतानि, सप्तरात्रोपोषितः कृष्णचतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निमेतेन मन्त्रेणाष्टशतसम्पातं कृत्वा मधुघृताभ्यामभिजुहुयात् ॥ १४३४२। तत एकमेतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ॥ १४३४३ "बलिं वैरोचनं वन्दे शतमायं च शम्बरम् । १४३४३ निकुम्भं नरकं कुम्भं तन्तुकच्छं महासुरम् ॥ १४३४४ अर्मालवं प्रमीलं च मण्डोलूकं घटोबलम् । १४३४४ कृष्णकंसोपचारं च पौलोमीं च यशस्विनीम् ॥ १४३४५ अभिमन्त्रयित्वा गृह्णामि सिद्ध्यर्थं शवशारिकाम् । १४३४५ जयतु जयति च नमः शलकभूतेभ्यः स्वाहा ॥ १४३४६ सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । १४३४६ सुखं स्वपन्तु सिद्धार्था यमर्थं मार्गयामहे । १४३४६ यावदस्तमयादुदयो यावदर्थं फलं मम ॥ १४३४७। इति स्वाहा ॥ १४३४८। एतस्य प्रयोगः ॥ १४३४९। चतुर्भक्तोपवासी कृष्णचतुर्दश्यामसंकीर्ण आदहने बलिं कृत्वैतेन मन्त्रेण शवशारिकां गृहीत्वा पौत्रीपोट्टलिकं बध्नीयात् ॥ १४३५०। तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्रैतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ॥ १४३५१ "उपैमि शरणं चाग्निं दैवतानि दिशो दश । १४३५१ अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥ १४३५२। स्वाहा" ॥ १४३५३। एतस्य प्रयोगः ॥ १४३५४। त्रिरात्रोपोस्षितः पुष्येण शर्करा एकविंशतिसम्पातं कृत्वा मधुघृताभ्यामभिजुहुयात् ॥ १४३५५। ततो गन्धमाल्येन पूजयित्वा निखानयेत् ॥ १४३५६। द्वितीयेन पुष्येणोद्धृत्यैकां शर्करामभिमन्त्रयित्वा कपाटमाहन्यात् ॥ १४३५७। अभ्यन्तर्ं चतसृणां शर्कराणां द्वारमपाव्रियते ॥ १४३५८। चतुर्भक्तोपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्चैतेन ॥ १४३५९। द्विगोयुक्तं गोयानमाहृतं भवति ॥ १४३६०। ततः परमाकाशे विरामति ॥ १४३६१। रविसगन्धः परिघमति सर्वं पृणाति ॥ १४३६२। "चण्डालीकुम्भीतुम्बकटुकसारौघः सनारीभगोअसि - स्वाहा ॥ १४३६३। तालोद्घाटनं प्रस्वापनं च ॥ १४३६४। त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां तुवरीरावास्योदकेन सेचयेत् ॥(?) १४३६५। जातानां पुष्येणैव गृहीत्वा रज्जुकां वर्तयेत् ॥ १४३६६। ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति ॥ १४३६७। उदकाहिभस्त्रामुच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च ॥ १४३६८। वराहभस्त्रामुच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनावबध्नीयात्, आनाहकारणम् ॥ १४३६९। कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृक्षमयीममित्रप्रतिमामञ्ज्यात्, अन्धीकरणम् ॥ १४३७०। चतुर्भक्तोपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत् ॥ १४३७१। एतेषामेकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदेस्यासने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति ॥ १४३७२। एतेनैव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥ १४३७३ पुनर्नवमवाचीनं निम्बः काममधुश्च यः । १४३७३ कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा ॥ १४३७४ निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । १४३७४ सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते ॥ १४३७५ पुनर्नवमवाचीनं निम्बः काममधुश्च यः । १४३७५ स्वयंगुप्ता मनुष्यास्थि पदे यस्य निखन्यते ॥ १४३७६ द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । १४३७६ सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते ॥ १४३७७ अजमर्कटरोमाणि मार्जारनकुलस्य च । १४३७७ ब्राह्मणानां श्वपाकानां काकोलूकस्य चाहरेत् । १४३७७ एतेन विष्ठावक्षुण्णा सद्य उत्सादकारिका ॥ १४३७८ प्रेतनिर्मालिका किण्वं रोमाणि नकुलस्य च । १४३७८ वृश्चिकाल्य्(?)अहिकृत्तिश्च पदे यस्य निखन्यते । १४३७८ भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ॥ १४३७९। त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां गुञ्जा आवास्योदकेन सेचयेत् ॥ १४३८०। जातानाममावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ॥ १४३८१। तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते ॥ १४३८२। रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनानुत्कृत्य दाहयेत् ॥ १४३८३। दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भमन्तर्लेपयेत् ॥ १४३८४। तं ग्राममपसव्यं परिणीय यत्तत्र न्यस्तं नवनीतमेषां तत्सर्वमागच्छति ॥ १४३८५। कृष्णचतुर्दश्यां पुष्ययोगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥ १४३८५। तां स्वयं पतितां गृह्णीयात् ॥ १४३८७। तया वृक्षफलान्याकारितान्यागच्छन्ति ॥ १४३८८ मन्त्रभैषज्यसम्युक्ता योगा मायाकृताश्च ये । १४३८८ उपहन्यादमित्रांस्तैः स्वजनं चाभिपालयेत् ॥E (स्वबलोपघातप्रतीकारह्) १४४०१। स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः ॥ १४४०२। श्लेष्मातककपित्थदन्तिदन्तशठगोजिशिरीषपाटलीबलास्योनागपुनर्नवाश्वेतवारणक्वाथयुक्तम्(?) चन्दनसालावृकीलोहितयुक्तं नेजनोदकं राजोपभोग्यानां गुह्यप्रक्षालनं स्त्रीणाम्, सेनायाश्च विषप्रतीकारः ॥ १४४०३। पृषतनकुलनीलकण्ठगोधापित्तयुक्तं महीराजीचूर्णं सिन्दुवारितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोषहरः ॥ १४४०४। सृगालविन्नामदनसिन्दुवारितवरणवारणवलीमूलकषायाणामन्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम् ॥ १४४०५। कैडर्यपूतितिलतैलमुन्मादहरं नस्तःकर्म ॥ १४४०६। प्रियङ्गुनक्तमालयोगः कुष्ठहरः ॥ १४४०७। कुष्ठलोध्रयोगः पाकशोषघ्नः ॥ १४४०८। कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम् ॥ १४४०९। प्रियङ्गुमञ्जिष्ठातगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जूदकविषप्रहारपतननिह्संज्ञानां पुनःप्रत्यानयनाय ॥ १४४१०। मनुष्याणामक्षमात्रम्, गवाश्वानां द्विगुणम्, चतुर्गुणं हस्त्युष्ट्राणाम् ॥ १४४११। रुक्मगर्भश्चैषां मणिः सर्वविषहरः ॥ १४४१२। जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानामक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः ॥ १४४१३ तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः । १४४१३ लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥ १४४१४ एतैः कृत्वा प्रतीकारं स्वसैन्यानामथात्मनः । १४४१४ अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् ॥E (तन्त्रयुक्तयह्) १५१०१। मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः ॥ १५१०२। तस्याः पृथिव्या लाभपालनोपायः शास्त्रमर्थशास्त्रमिति ॥ १५१०३। तद्द्वात्रिंशद्युक्तियुक्तं - अधिकरणम्, विधानम्, योगः, पदार्थः, हेत्वर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्यशेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्षः, एकान्तः, अनागतावेक्षणम्, अतिक्रान्तावेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यमिति ॥ १५१०४। यमर्थमधिकृत्योच्यते तदधिकरणम् ॥ १५१०५। "पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यैकमिदमर्थशास्त्रं कृतम्" इति ॥ १५१०६। शास्त्रस्य प्रकरणानुपूर्वी विधानम् ॥ १५१०७। "विद्यासमुद्देशः, वृद्धसम्योगः, इन्द्रियजयः, अमात्योत्पत्तिः" इत्येवंादिकमिति ॥ १५१०८। वाक्ययोजना योगः ॥ १५१०९। "चतुर्वर्णाश्रमो लोकः" इति ॥ १५११०। पदावधिकः पदार्थः ॥ १५१११। मूलहर इति पदम् ॥ १५११२। "यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः" इत्यर्थः ॥ १५११३। हेतुरर्थसाधको हेत्वर्थः ॥ १५११४। "अर्थमूलौ हि धर्मकामौ" इति ॥ १५११५। समासवाक्यमुद्देशः ॥ १५११६। "विद्याविनयहेतुरिन्द्रियजयः" इति ॥ १५११७। व्यासवाक्यं निर्देशः ॥ १५११८। "कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः"इति ॥ १५११९। एवं वर्तितव्यमित्युपदेशः ॥ १५१२०। "धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात्" इति ॥ १५१२१। एवमसावाहेत्यपदेशः ॥ १५१२२। "मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीतेति मानवाः - षोडशेति बार्हस्पत्याः - विंशतिमित्यौशनसाः - यथासामर्थ्यमिति कौटिल्यः" इति ॥ १५१२३। उक्तेन साधनमतिदेशः ॥ १५१२४। "दत्तस्याप्रदानमृणादानेन व्याख्यातम्" इति ॥ १५१२५। वक्तव्येन साधनं प्रदेशः ॥ १५१२६। "सामदानभेददण्डैर्वा, यथापत्सु व्याख्यास्यामः" इति ॥ १५१२७। दृष्टेनादृष्टस्य साधनमुपमानम् ॥ १५१२८। "निवृत्तपरिहारान् पितेवानुगृह्णीयात्" इति ॥ १५१२९। यदनुक्तमर्थादापद्यते सार्थापत्तिः ॥ १५१३०। "लोकयात्राविद्राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत" १५१३१। "नाप्रियहितद्वारेणाश्रयेत" इत्यर्थादापन्नं भवतीति ॥ १५१३२। उभयतोहेतुमानर्थः संशयः ॥ १५१३३। "क्षीणलुब्धप्रकृतिमपचरितप्रकृतिं वा" इति ॥ १५१३४। प्रकरणान्तरेण समानोअर्थः प्रसङ्गः ॥ १५१३५। "कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण" इति ॥ १५१३६। प्रतिलोमेन साधनं विपर्ययः ॥ १५१३७। "विपरीतमतुष्टस्य" इति ॥ १५१३८। येन वाक्यं समाप्यते स वाक्यशेषः ॥ १५१३९। "छिन्नपक्षस्येव राज्ञश्चेष्टानाशश्च" इति ॥ १५१४०। तत्र "शकुनेः" इति वाक्यशेषः ॥ १५१४१। परवाक्यमप्रतिषिद्धमनुमतम् ॥ १५१४२। "पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः" इति ॥ १५१४३। अतिशयवर्णना व्याख्यानम् ॥ १५१४४। "विशेषतश्च संघानां संघधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदस्तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात्" इति ॥ १५१४५। गुणतः शब्दनिष्पत्तिर्निर्वचनम् ॥ १५१४६। "व्यस्यत्येनं श्रेयस इति व्यसनम्" इति ॥ १५१४७। दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम् ॥ १५१४८। "विगृहीतो हि ज्यायसा हस्तिना पादयुद्धमिवाभ्युपैति" इति ॥ १५१४९। अभिप्लुतव्यपकर्षणमपवर्गः ॥ १५१५०। "नित्यमासन्नमरिबलं वासयेदन्यत्राभ्यन्तरकोपशङ्कायाः" इति ॥ १५१५१। परैरसमितः शब्दः स्वसंज्ञा ॥ १५१५२। "प्रथमा प्रकृतिः, तस्य भूम्यनन्तरा द्वितीया, भूम्येकान्तरा तृतीया" इति ॥ १५१५३। प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः ॥ १५१५४। "स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः" इति ॥ १५१५५। तस्य निर्णयनवाक्यमुत्तरपक्षः ॥ १५१५६। "तदायत्तत्वात्, तत्कूटस्थानीयो हि स्वामी" इति ॥ १५१५७। सर्वत्रायत्तमेकान्तः ॥ १५१५८। "तस्मादुत्थानमात्मनः कुर्वीत" इति ॥ १५१५९। पश्चादेवं विहितमित्यनागतावेक्षणम् ॥ १५१६०। "तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः" इति ॥ १५१६१। पुरस्तादेवं विहितमित्यतिक्रान्तावेष्कणम् ॥ १५१६२। "अमात्यसम्पदुक्ता पुरस्तात्" इति ॥ १५१६३। एवं नान्यथेति नियोगः ॥ १५१६४। "तस्माद्धर्म्यमर्थ्यं चास्योपदिशेत्, नाधर्म्यमनर्थय्ं च" इति ॥ १५१६५। अनेन वानेन वेति विकल्पः ॥ १५१६६। "दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः" इति ॥ १५१६७। अनेन चानेन चेति समुच्चयः ॥ १५१६८। "स्वयंजातः पितुर्बन्धूनां च दायादः" इति ॥ १५१६९। अनुक्तकरणमूह्यम् ॥ १५१७०। "यथा च दाता प्रतिग्रहीता च नोपहतौ स्यातां तथानुशयं कुशलाः कल्पयेयुः" इति १५१७१ एवं शास्त्रमिदं युक्तमेताभिस्तन्त्रयुक्तिभिः । १५१७१ अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥ १५१७२ धर्ममर्थं च कामं च प्रवर्तयति पाति च । १५१७२ अधर्मानर्थविद्वेषानिदं शास्त्रं निहन्ति च ॥ १५१७३ येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः । १५१७३ अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम् ॥ EEE =Eन्दोf थे आर्थशास्त्र=