१ ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे । विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् ॥ १.१ ॥ जलक्रीडारुचि शुभं कल्पाधिषु यथा पुरा । वाराहमास्थितो रूपमुज्जहार वसुंधराम् ॥ १.२ ॥ वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ १.३ ॥ अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः । आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ १.४ ॥ धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः । प्रायश्चित्तमहाघोणः पशुजानुर्महाकृतिः ॥ १.५ ॥ उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः । वेद्यन्तरात्मा मन्त्रस्फिग्- विकृतः सोमशोणितः ॥ १.६ ॥ वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् । प्राग्वंषकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ १.७ ॥ दक्षिणाहृदयो योग महामन्त्रमयो महान् । उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥ १.८ ॥ नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥ १.९ ॥ महीं सागरपर्यन्तां सशैलवनकाननां । एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ १.१० ॥ दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया । आदिदेवो महायोगी चकार जगतीं पुनः ॥ १.११ ॥ एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । उद्धृता पृथिवी देवी रसातलगता पुरा ॥ १.१२ ॥ उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके । यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥ १.१३ ॥ सामुद्र्यश्च समुद्रेषु नादेयीश्च नदीषु च । पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥ १.१४ ॥ पातालसप्तकं चक्रे लोकानां सप्तकं तथा । द्वीपानामुदधीनां च स्थानानि विविधानि च ॥ १.१५ ॥ स्थानपालान् लोकपालान्नदीः शैलवनस्पतीन् । ऋषींश्च सप्त धर्मज्ञान् वेदान् सान्ङान् सुरासुरान् ॥ १.१६ ॥ पिशाचोरगगन्धर्व यक्षराक्षसमानुषान् । पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम् । मेघेन्द्रचापशम्पाद्यान् यज्ञांश्च विविधांस्तथा ॥ १.१७ ॥ एवं वराहो भगवान् कृत्वेदं सचराचरम् । जगज्जगाम लोकानामविज्ञातां तदा गतिम् ॥ १.१८ ॥ अविज्ञातां गतिं याते देवदेवे जनार्दने । वसुधा चिन्तयामास का धृतिर्मे भविष्यति ॥ १.१९ ॥ पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् । मदीयां वहते चिन्तां नित्यमेव महामुनिः ॥ १.२० ॥ एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी । जगाम कश्यपं द्रष्टुं दृष्टवांस्तां च कश्यपः ॥ १.२१ ॥ नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् । अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥ १.२२ ॥ सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम् । कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् ॥ १.२३ ॥ विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ । शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥ १.२४ ॥ मृणालकोमलौ बाहू करौ किसलयोपमौ । रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी ॥ १.२५ ॥ जङ्घे विरोमे सुसमे पादावतिमनोरमौ । जघनं च घनं मध्यं यथा केसरिणः शिशोः ॥ १.२६ ॥ प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् । कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः ॥ १.२७ ॥ कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः । सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषितां ॥ १.२८ ॥ पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीं । रूपयौवनसंपन्नां विनीतवदुपस्थिताम् ॥ १.२९ ॥ समीपमागतां दृष्ट्वा पूजयित्वाथ कश्यपः । उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥ १.३० ॥ धरे तव विशालाक्षि गच्छ देवि जनार्दनम् । स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ॥ १.३१ ॥ क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने । ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥ १.३२ ॥ इत्येवमुक्ता संपूज्य कश्यपं वसुधा ततः । प्रययौ केशवं द्रष्टुं क्षीरोदमथ सागरम् ॥ १.३३ ॥ सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् । पवनक्षोभसंजात- वीचीशतसमाकुलम् ॥ १.३४ ॥ हिमवच्छतसंकाशं भूमण्डलमिवापरम् । वीचीहस्तैः प्रचलितैराह्वयानमिव क्षितिम् ॥ १.३५ ॥ तैरेव शुक्लतां चन्द्रे विदधानमिवानिशम् । अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥ १.३६ ॥ यस्मात्तस्माद्धारयन्तं सुशुक्लां तनुमूर्जिताम् । पाण्डुरं खगमागम्यमधोभुवनवर्तिनम् ॥ १.३७ ॥ इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम् । फलावलीसमुद्भूत- वनसंघमिवाचितम् ॥ १.३८ ॥ निर्मोकमिव शेषाहेर्विस्तीर्णान्तमतीव हि । तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् ॥ १.३९ ॥ अनिर्देश्यपरीमाणमनिर्देश्यर्द्धिसंयुतम् । शेषपर्यङ्कगं तस्मिन् ददर्श मधुसूदनम् ॥ १.४० ॥ शेषाहिफणरत्नांशु दुर्विभाव्यमुखाम्बुजम् । शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ॥ १.४१ ॥ पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् [सवरत्न] । मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥ १.४२ ॥ संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः । शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ १.४३ ॥ तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् । जानुभ्यामवनिं गत्वा विज्ञापयति चाप्यथ ॥ १.४४ ॥ उद्धृताहं त्वया देव रसातलतलं गता । स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥ १.४५ ॥ तत्राधुना हि देवेश का धृतिर्मे भविष्यति । एवमुक्तस्तया देव्या देवो वचनमब्रवीत् ॥ १.४६ ॥ वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः । त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥ १.४७ ॥ एवमुक्ता वसुमती देवदेवमभाषत । वर्णानामाश्रमाणां च धर्मान् वद सनातन ॥ १.४८ ॥ त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः । नमस्ते देवदेवेश देवारिबलसूदन ॥ १.४९ ॥ नारायण जगन्नाथ शङ्खचक्रगदाधर । पद्मनाभ हृषीकेश महाबलपराक्रम ॥ १.५० ॥ अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर । वराह भीम गोविन्द पुराण पुरुषोत्तम ॥ १.५१ ॥ हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन । क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक ॥ १.५२ ॥ मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह । जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ॥ १.५३ ॥ धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद । विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥ १.५४ ॥ बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद । वरेण्यानघ जीमूत जगन्निर्माणकारक ॥ १.५५ ॥ आप्यायन अपां स्थान चैतन्याधार निष्क्रिय । सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम ॥ १.५६ ॥ ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन । त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ॥ १.५७ ॥ तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम । प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥ १.५८ ॥ सुब्रह्मण्यमनाधृष्यं वसुषेणं वसुप्रदम् । महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥ १.५९ ॥ वासुदेवं महात्मानं पुण्डरीकाक्षमच्युतम् । सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥ १.६० ॥ एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् । ब्रूहि मे भगवन् धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ॥ १.६१ ॥ आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् । एवमुक्तस्तु देवेशः क्षोण्या क्षोणीमभाषत ॥ १.६२ ॥ शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् । आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ॥ १.६३ ॥ ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् । निषण्णा भव वामोरु काञ्चनेऽस्मिन् वरासने ॥ १.६४ ॥ सुखासीना निबोध त्वं धर्मान्निगदतो मम । शुश्रुवे वैष्णवान् धर्मान् सुखासीना धरा तदा ॥ १.६५ ॥ २ ओम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः ॥ २.१ ॥ तेषामाद्या द्विजातयस्त्रयः ॥ २.२ ॥ तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः ॥ २.३ ॥ तेषां च धर्माः ॥ २.४ ॥ ब्राह्मणस्याध्यापनम् ॥ २.५ ॥ क्षत्रियस्य शस्त्रनित्यता ॥ २.६ ॥ वैश्यस्य पशुपालनम् ॥ २.७ ॥ शूद्रस्य द्विजातिशुश्रूषा ॥ २.८ ॥ द्विजानां यजनाध्ययने ॥ २.९ ॥ अथैतेषां वृत्तयः ॥ २.१० ॥ ब्राह्मणस्य याजनप्रतिग्रहौ ॥ २.११ ॥ क्षत्रियस्य क्षितित्राणम् ॥ २.१२ ॥ कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य ॥ २.१३ ॥ शूद्रस्य सर्वशिल्पानि ॥ २.१४ ॥ आपद्यनन्तरा वृत्तिः ॥ २.१५ ॥ क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ २.१६ ॥ आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् । अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥ २.१७ ॥ ३ अथ राजधर्माः ॥ ३.१ ॥ प्रजापरिपालनम् ॥ ३.२ ॥ वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ ३.३ ॥ राजा च जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् ॥ ३.४ ॥ वैश्यशूद्रप्रायं च ॥ ३.५ ॥ तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं दुर्गमाश्रयेत् ॥ ३.६ ॥ तत्रस्थश्च स्वस्वग्रामाधिपान् कुर्यात् ॥ ३.७ ॥ दशाध्यक्षान् ॥ ३.८ ॥ शताध्यक्षान् ॥ ३.९ ॥ देशाध्यक्षांश्च ॥ ३.१० ॥ ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् ॥ ३.११ ॥ अशक्तो दशग्रामाध्यक्षाय निवेदयेत् ॥ ३.१२ ॥ सोऽप्यशक्तः शताध्यक्षाय ॥ ३.१३ ॥ सोऽप्यशक्तो देशाध्यक्षाय ॥ ३.१४ ॥ देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् ॥ ३.१५ ॥ आकरशुल्कतरनागवनेश्वाप्तान्नियुञ्जीत ॥ ३.१६ ॥ धर्मिष्ठान् धर्मकार्येषु ॥ ३.१७ ॥ निपुणानर्थकार्येषु ॥ ३.१८ ॥ शूरान् संग्रामकर्मसु ॥ ३.१९ ॥ उग्रानुग्रेषु ॥ ३.२० ॥ षण्ढान् स्त्रीषु ॥ ३.२१ ॥ प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् ॥ ३.२२ ॥ सर्वसस्येभ्यश्च ॥ ३.२३ ॥ द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ॥ ३.२४ ॥ मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षाष्ठभागं राजा ॥ ३.२५ ॥ ब्राह्मणेभ्यः करादानं न कुर्यात् ॥ ३.२६ ॥ ते हि राज्ञो धर्मकराः ॥ ३.२७ ॥ राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् ॥ ३.२८ ॥ स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् ॥ ३.२९ ॥ परदेशपण्याच्च विंशतितमम् ॥ ३.३० ॥ शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् ॥ ३.३१ ॥ शिल्पिनः कर्मजीविनश्च मासेनैकं राज्ञः कर्म कुर्युः ॥ ३.३२ ॥ स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः ॥ ३.३३ ॥ तद्दूषकांश्च हन्यात् ॥ ३.३४ ॥ स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् ॥ ३.३५ ॥ साधूनां पूजनं कुर्यात् ॥ ३.३६ ॥ दुष्टांश्च हन्यात् ॥ ३.३७ ॥ शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान् यथार्हं यथाकालं प्रयुञ्जीत ॥ ३.३८ ॥ संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् ॥ ३.३९ ॥ चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥ ३.४० ॥ परस्य व्यसने वा ॥ ३.४१ ॥ परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ॥ ३.४२ ॥ परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् ॥ ३.४३ ॥ नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः ॥ ३.४४ ॥ गोब्राह्मणनृपमित्रधनदारजीवितरक्षणात्ये हतास्ते स्वर्गलोकभाजः ॥ ३.४५ ॥ वर्णसंकररक्षणार्थं च ॥ ३.४६ ॥ राजा परपुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत् ॥ ३.४७ ॥ न राजकुलमुच्छिन्द्यात् ॥ ३.४८ ॥ अन्यत्राकुलीनराजकुलात् ॥ ३.४९ ॥ मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् ॥ ३.५० ॥ वाक्पारुष्यदण्डपारुष्ये च ॥ ३.५१ ॥ नार्थदूषणं कुर्यात् ॥ ३.५२ ॥ आद्यद्वाराणि नोच्छिन्द्यात् ॥ ३.५३ ॥ नापात्रवर्षी स्यात् ॥ ३.५४ ॥ आकरेभ्यः सर्वमादद्यात् ॥ ३.५५ ॥ निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् ॥ ३.५६ ॥ द्वितीय्मर्धं कोशे प्रवेशयेत् ॥ ३.५७ ॥ निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात् ॥ ३.५८ ॥ क्षत्रियश्चतुर्थमंशं राज्ञे दद्यात्, चतुर्थमंशं ब्राह्मणेभ्यः, अर्धमादद्यात् ॥ ३.५९ ॥ वैष्यस्तु चतुर्थमंशं राज्ञे दद्यात्, ब्राह्मणेभ्योऽर्धं, चतुर्थमंशमादद्यात् ॥ ३.६० ॥ शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे दद्यात्, पञ्चांशान् ब्राह्मणेभ्यः, अंशद्वयमादद्यात् ॥ ३.६१ ॥ अनिवेदितविज्ञातस्य सर्वमपहरेत् ॥ ३.६२ ॥ स्वनिहिताद्राज्ञे ब्राह्मणवर्जं द्वादशमंशं दद्युः ॥ ३.६३ ॥ परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ॥ ३.६४ ॥ बालानाथस्त्रीधनानि राजा परिपालयेत् ॥ ३.६५ ॥ चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् ॥ ३.६६ ॥ अनवाप्य च स्वकोशादेव दद्यात् ॥ ३.६७ ॥ शान्तिस्वस्त्ययनोपायैर्दैवोपघातान् प्रशमयेत् ॥ ३.६८ ॥ परचक्रोपघातांश्च शस्त्रनित्यतया ॥ ३.६९ ॥ वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥ ३.७० ॥ शुचीनलुब्धानवहितान् शक्तिसंपन्नान् सर्वार्थेषु च सहायान् ॥ ३.७१ ॥ स्वयमेव व्यवहारान् पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धम् ॥ ३.७२ ॥ व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥ ३.७३ ॥ जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्याः, रिपौ मित्रे च ये समाः, कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः ॥ ३.७४ ॥ राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् ॥ ३.७५ ॥ देवब्राह्मणान् सततमेव पूजयेत् ॥ ३.७६ ॥ वृद्धसेवी भवेत् ॥ ३.७७ ॥ यज्ञयाजी च ॥ ३.७८ ॥ न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् ॥ ३.७९ ॥ न चान्योऽपि सत्कर्मनिरतः ॥ ३.८० ॥ ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ॥ ३.८१ ॥ येषां च प्रतिपादयेत्तेषां स्ववंश्यान् भुवः परिमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिविज्ञापनार्थं दद्यात् ॥ ३.८२ ॥ परदत्तां च भुवं नापहरेत् ॥ ३.८३ ॥ ब्राह्मणेभ्यः सर्वदायान् प्रयच्छेत् ॥ ३.८४ ॥ सर्वतस्त्वात्मानं गोपायेत् ॥ ३.८५ ॥ सुदर्शनश्च स्यात् ॥ ३.८६ ॥ विषघ्नागदमन्त्रधारी च ॥ ३.८७ ॥ नापरीक्षितमुपयुञ्ज्यात् ॥ ३.८८ ॥ स्मितपूर्वाभिभाषी स्यात् ॥ ३.८९ ॥ वध्येष्वपि न भ्रुंकुटीमाचरेत् ॥ ३.९० ॥ अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् ॥ ३.९१ ॥ सम्यग्दण्डप्रणयनं कुर्यात् ॥ ३.९२ ॥ द्वितीयमपराधं न स कस्यचित्क्षमेत ॥ ३.९३ ॥ स्वधर्ममपालयन्नादण्ड्यो नामास्ति राज्ञाम् ॥ ३.९४ ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः । प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥ ३.९५ ॥ स्वराष्ट्रो न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३.९६ ॥ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ३.९७ ॥ प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः । स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥ ३.९८ ॥ ४ जालस्थार्कमरीचिगतं रजः त्रसरेणुसंज्ञकम् ॥ ४.१ ॥ तदष्टकं लिक्षा ॥ ४.२ ॥ तत्त्रयं राजसर्षपः ॥ ४.३ ॥ तत्त्रयं गौरसर्षपः ॥ ४.४ ॥ तत्षट्कं यवः ॥ ४.५ ॥ तत्त्रयं कृष्णलम् ॥ ४.६ ॥ तत्पञ्चकं माषः ॥ ४.७ ॥ तद्द्वादशकमक्षार्धम् ॥ ४.८ ॥ अक्षार्धमेव सचतुर्माषकं सुवर्णः ॥ ४.९ ॥ चतुःसुवर्णको निष्कः ॥ ४.१० ॥ द्वे कृष्णले समधृते रूप्यमाषकः ॥ ४.११ ॥ तत्षोडशकं धरणम् ॥ ४.१२ ॥ ताम्रकार्षिकः कार्षापणः ॥ ४.१३ ॥ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः ॥ ४.१४ ॥ ५ अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः ॥ ५.१ ॥ न शारीरो ब्राह्मणस्य दण्डः ॥ ५.२ ॥ स्वदेशात्ब्राह्मणं कृताङ्कं विवासयेत् ॥ ५.३ ॥ तस्य च ब्रह्महत्यायामशिरस्कं पुरुषं ललाटे कुर्यात् ॥ ५.४ ॥ सुराध्वजं सुरापाने ॥ ५.५ ॥ श्वपदं स्तेये ॥ ५.६ ॥ भगं गुरुतल्पगमने ॥ ५.७ ॥ अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ॥ ५.८ ॥ कूटशासनकर्तॄंश्च राजा हन्यात् ॥ ५.९ ॥ कूटलेख्यकारांश्च ॥ ५.१० ॥ गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च ॥ ५.११ ॥ ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः ॥ ५.१२ ॥ धरिममेयानां शतादभ्यधिकम् ॥ ५.१३ ॥ ये चाकुलीना राज्यमभिकामयेयुः ॥ ५.१४ ॥ सेतुभेदकांश्च ॥ ५.१५ ॥ प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च ॥ ५.१६ ॥ अन्यत्र राजाशक्तेः ॥ ५.१७ ॥ स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च ॥ ५.१८ ॥ हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् ॥ ५.१९ ॥ एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः ॥ ५.२० ॥ निष्ठीव्यौष्ठद्वयविहीनः कार्यः ॥ ५.२१ ॥ अवशर्धयिता च गुदहीनः ॥ ५.२२ ॥ आक्रोशयिता च विजिह्वः ॥ ५.२३ ॥ दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये ॥ ५.२४ ॥ द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः ॥ ५.२५ ॥ श्रुतदेशजातिकर्मणामन्यथावादी कार्शापणशतद्वयं दण्ड्यः ॥ ५.२६ ॥ काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयम् ॥ ५.२७ ॥ गुरूनाक्षिपन् कार्शापणशतद्वयम् ॥ ५.२८ ॥ परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् ॥ ५.२९ ॥ उपपातकयुक्ते मध्यमम् ॥ ५.३० ॥ त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ॥ ५.३१ ॥ ग्रामदेशयोश्च प्रथमसाहसम् ॥ ५.३२ ॥ न्यङ्गतायुक्ते क्षेपे कार्शापणशतम् ॥ ५.३३ ॥ मातृयुक्ते तूत्तमम् ॥ ५.३४ ॥ समवर्णाक्रोशने द्वादश पणान् दण्ड्यः ॥ ५.३५ ॥ हीनवर्णाकृओशने षट् ॥ ५.३६ ॥ यथाकालमुत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः ॥ ५.३७ ॥ त्रयो वा कार्षापणाः ॥ ५.३८ ॥ शुक्तवाक्याभिधाने त्वेवमेव ॥ ५.३९ ॥ पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः ॥ ५.४० ॥ हीनवर्णागमने मध्यमम् ॥ ५.४१ ॥ गोगमने च ॥ ५.४२ ॥ अन्त्यागमने वध्यः ॥ ५.४३ ॥ पशुगमने कार्षापणशतं दण्ड्यः ॥ ५.४४ ॥ दोषमनाख्याय कन्यां प्रयच्छंश्च ॥ ५.४५ ॥ तां च बिभृयात् ॥ ५.४६ ॥ अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् ॥ ५.४७ ॥ गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ॥ ५.४८ ॥ विमांसविक्रयी च ॥ ५.४९ ॥ ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ॥ ५.५० ॥ पशुस्वामिने तन्मूल्यं दद्यात् ॥ ५.५१ ॥ आरण्यपशुघाती पञ्चाशतं कार्षापणान् ॥ ५.५२ ॥ पक्षिघाती मत्स्यघाती च दश कार्षापणान् ॥ ५.५३ ॥ कीटोपघाती च कार्षापणम् ॥ ५.५४ ॥ फलोपगमद्रुमच्छेदी तूत्तमसाहसम् ॥ ५.५५ ॥ पुष्पोपगमद्रुमच्छेदी मध्यमम् ॥ ५.५६ ॥ वल्लीगुल्मलताच्छेदी कार्षापणशतम् ॥ ५.५७ ॥ तृणच्छेद्येकम् ॥ ५.५८ ॥ सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥ ५.५९ ॥ हस्तेनोद्गूरयिता दशकार्षापणम् ॥ ५.६० ॥ पादेन विंशतिम् ॥ ५.६१ ॥ काष्ठेन प्रथमसाहसम् ॥ ५.६२ ॥ पाषाणेन मध्यमम् ॥ ५.६३ ॥ शस्त्रेणोत्तमम् ॥ ५.६४ ॥ पादकेशांशुककरलुञ्चने दश पणान् ॥ ५.६५ ॥ शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् ॥ ५.६६ ॥ सह शोणितेन चतुःषष्टिम् ॥ ५.६७ ॥ करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् ॥ ५.६८ ॥ चेष्टाभोजनवाग्रोधे प्रहारदाने च ॥ ५.६९ ॥ नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमम् ॥ ५.७० ॥ उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् ॥ ५.७१ ॥ तादृशमेव वा कुर्यात् ॥ ५.७२ ॥ एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्द्विगुणः ॥ ५.७३ ॥ उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां च ॥ ५.७४ ॥ सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ॥ ५.७५ ॥ ग्राम्यपशुपीडाकराश्च ॥ ५.७६ ॥ गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ॥ ५.७७ ॥ अजाव्यपहार्येककरश्च ॥ ५.७८ ॥ धान्यापहार्येकादशगुणं दण्ड्यः ॥ ५.७९ ॥ सस्यापहारी च ॥ ५.८० ॥ सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन् विकरः ॥ ५.८१ ॥ तदूनमेकादशगुणं दण्ड्यः ॥ ५.८२ ॥ सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानामपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ॥ ५.८३ ॥ पक्वान्नानां च ॥ ५.८४ ॥ पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्चकृष्णलम् ॥ ५.८५ ॥ शाकमूलफलानां च ॥ ५.८६ ॥ रत्नापहार्युत्तमसाहसम् ॥ ५.८७ ॥ अनुक्तद्रव्याणामपहर्ता मूल्यसमम् ॥ ५.८८ ॥ स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ॥ ५.८९ ॥ ततस्तेषामभिहितदण्डप्रयोगः ॥ ५.९० ॥ येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ॥ ५.९१ ॥ आसनार्हस्यासनमददच्च ॥ ५.९२ ॥ पूजार्हमपूजयंश्च ॥ ५.९३ ॥ प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च ॥ ५.९४ ॥ निमन्त्रयित्वा भोजनादायिनश्च ॥ ५.९५ ॥ निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् ॥ ५.९६ ॥ निकेतयितुश्च द्विगुणमन्नम् ॥ ५.९७ ॥ अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ ५.९८ ॥ जात्यपहारिणा शतम् ॥ ५.९९ ॥ सुरया वध्यः ॥ ५.१०० ॥ क्षत्रियं दूषयितुस्तदर्धम् ॥ ५.१०१ ॥ वैश्यं दूषयितुस्तदर्धमपि ॥ ५.१०२ ॥ शूद्रं दूषयितुः प्रथमसाहसम् ॥ ५.१०३ ॥ अस्पृश्यः कामकारेण स्पृशन् स्पृश्यं त्रैवर्णिकं वध्यः ॥ ५.१०४ ॥ रजस्वलां शिफाभिस्ताडयेत् ॥ ५.१०५ ॥ पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् ॥ ५.१०६ ॥ तच्चापास्यात् ॥ ५.१०७ ॥ गृहभूकुड्याद्युपभेत्ता मध्यमसाहसम् ॥ ५.१०८ ॥ तच्च योजयेत् ॥ ५.१०९ ॥ गृहे पीडाकरं द्रव्यं प्रक्षिपन् पणशतम् ॥ ५.११० ॥ साधारणापलापी च ॥ ५.१११ ॥ प्रेषितस्याप्रदाता च ॥ ५.११२ ॥ पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च ॥ ५.११३ ॥ न च तान् जह्यात् ॥ ५.११४ ॥ शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकाश्च ॥ ५.११५ ॥ अयोग्यकर्मकारी च ॥ ५.११६ ॥ समुद्रगृहभेदकश्च ॥ ५.११७ ॥ अनियुक्तः शपथकारी ॥ ५.११८ ॥ पशूनां पुंस्त्वोपघातकारी ॥ ५.११९ ॥ पितापुत्रविरोधे साक्षिणां दशपणो दण्डः ॥ ५.१२० ॥ यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः ॥ ५.१२१ ॥ तुलामानकूटकर्तुश्च ॥ ५.१२२ ॥ तदकूटे कूटवादिनश्च ॥ ५.१२३ ॥ द्रव्याणां प्रतिरूपविक्रयिकस्य च ॥ ५.१२४ ॥ संभूय वणिजां पण्यमनर्घेणावरुन्धताम् ॥ ५.१२५ ॥ प्रत्येकं विक्रीणतां च ॥ ५.१२६ ॥ गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्, तस्यासौ सोदयं दाप्यः ॥ ५.१२७ ॥ राज्ञा च पणशतं दण्ड्यः ॥ ५.१२८ ॥ क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् ॥ ५.१२९ ॥ राजनिषिद्धं विक्रीणतस्तदपहारः ॥ ५.१३० ॥ तरिकः स्थलजं शुल्कं गृह्णन् दशपणान् दण्ड्यः ॥ ५.१३१ ॥ ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कमाददानश्च ॥ ५.१३२ ॥ तच्च तेषां दद्यात् ॥ ५.१३३ ॥ द्यूते कूटाक्षदेविनां करच्छेदः ॥ ५.१३४ ॥ उपधिदेविनां संदंशच्छेदः ॥ ५.१३५ ॥ ग्रन्थिभेदकानां च ॥ ५.१३६ ॥ उत्क्षेपकानां च करच्छेदः ॥ ५.१३७ ॥ दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ॥ ५.१३८ ॥ विनष्टपशुमूल्यं च स्वामिने दद्यात् ॥ ५.१३९ ॥ अननुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ ५.१४० ॥ महिषी चेत्सस्यनाशं कुर्यात्, तत्पालस्त्वष्टौ माषान् दण्ड्यः ॥ ५.१४१ ॥ अपालायाः स्वामी ॥ ५.१४२ ॥ अश्वस्तूष्ट्रो गर्दभो वा ॥ ५.१४३ ॥ गौश्चेत्तदर्धम् ॥ ५.१४४ ॥ तदर्धमजाविकम् ॥ ५.१४५ ॥ भक्षयित्वोपविष्टेषु द्विगुणम् ॥ ५.१४६ ॥ सर्वत्र स्वामिने विनष्टसस्यमूल्यं च ॥ ५.१४७ ॥ पथि ग्रामे विवीतान्ते न दोषः ॥ ५.१४८ ॥ अनावृते च ॥ ५.१४९ ॥ अल्पकालम् ॥ ५.१५० ॥ उत्सृष्टवृषभसूतिकानां च ॥ ५.१५१ ॥ यस्तूत्तमवर्णान् दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः ॥ ५.१५२ ॥ त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ ५.१५३ ॥ भृतकश्चापूर्णे काले भृतिं त्यजन् सकलमेव मूल्यं दद्यात् ॥ ५.१५४ ॥ जाज्ञे च पणशतं दद्यात् ॥ ५.१५५ ॥ तद्दोषेण यद्विनश्येत्तत्स्वामिने ॥ ५.१५६ ॥ अन्यत्र दैवोपघातात् ॥ ५.१५७ ॥ स्वामी चेत्भृतकमपूर्णे काले जह्यात्, तस्य सर्वमेव मूल्यं दद्यात् ॥ ५.१५८ ॥ पणशतं च राजनि ॥ ५.१५९ ॥ अन्यत्र भृतकदोशात् ॥ ५.१६० ॥ यः कन्यां पूर्वदत्तामन्यस्मै दद्यात्, स चौरवच्छास्यः ॥ ५.१६१ ॥ वरदोषं विना ॥ ५.१६२ ॥ निर्दोषां परित्यजन् ॥ ५.१६३ ॥ पत्नीं च ॥ ५.१६४ ॥ अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥ ५.१६५ ॥ स्वामी द्रव्यमाप्नुयात् ॥ ५.१६६ ॥ यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौरवच्छास्यौ ॥ ५.१६७ ॥ गणद्रव्यापहर्ता विवास्यः ॥ ५.१६८ ॥ तत्संविदं यश्च लङ्घयेत् ॥ ५.१६९ ॥ निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ॥ ५.१७० ॥ राज्ञा चौरवच्छास्यः ॥ ५.१७१ ॥ यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात् ॥ ५.१७२ ॥ सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् ॥ ५.१७३ ॥ जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ॥ ५.१७४ ॥ अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः ॥ ५.१७५ ॥ भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु ॥ ५.१७६ ॥ मध्यमेषु मध्यमम् ॥ ५.१७७ ॥ तिर्यक्षु प्रथमम् ॥ ५.१७८ ॥ प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ॥ ५.१७९ ॥ कूटसाक्षिणां सर्वस्वापहारः कार्यः ॥ ५.१८० ॥ उत्कोचोपजीविनां सभ्यानां च ॥ ५.१८१ ॥ गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः ॥ ५.१८२ ॥ ऊनां चेत्षोडश सुवर्णान् दण्ड्यः ॥ ५.१८३ ॥ एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् । गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥ ५.१८४ ॥ ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ । यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥ ५.१८५ ॥ सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् । आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् ॥ ५.१८६ ॥ पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन् प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ ५.१८७ ॥ त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ ५.१८८ ॥ नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् । हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ ५.१८९ ॥ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ५.१९० ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥ ५.१९१ ॥ उद्यतासिविषाग्निं च शापोद्यतकरं तथा । आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ ५.१९२ ॥ भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः । यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥ ५.१९३ ॥ उद्देशतस्ते कथितो धरे दण्डविधिर्मया । सर्वेषामपराधानां विस्तरादतिविस्तरः ॥ ५.१९४ ॥ अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः । दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ ५.१९५ ॥ दण्ड्यं प्रमोचयन् दण्ड्याद्द्विगुणं दण्डमावहेत् । नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ ५.१९६ ॥ यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥ ५.१९७ ॥ ६ अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ॥ ६.१ ॥ द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् ॥ ६.२ ॥ सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ॥ ६.३ ॥ अकृतामपि वत्सरातिक्रमेण यथाविहितम् ॥ ६.४ ॥ आध्युपभोगे वृद्ध्यभावः ॥ ६.५ ॥ दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णो दद्यात् ॥ ६.६ ॥ अन्तवृद्धौ प्रविष्टायामपि ॥ ६.७ ॥ न स्थावरमाधिमृते वचनात् ॥ ६.८ ॥ गृहीतधनप्रवेशार्थमेव यत्स्थावरं दत्तं तत्गृहीतधनप्रवेशे दद्यात् ॥ ६.९ ॥ दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्धते ॥ ६.१० ॥ हिरण्यस्य परा वृद्धिर्द्विगुणा ॥ ६.११ ॥ धान्यस्य त्रिगुणा ॥ ६.१२ ॥ वस्त्रस्य चतुर्गुणा ॥ ६.१३ ॥ रसस्याष्टगुणा ॥ ६.१४ ॥ संततिः स्त्रीपशूनाम् ॥ ६.१५ ॥ किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणामक्षया ॥ ६.१६ ॥ अनुक्तानां द्विगुणा ॥ ६.१७ ॥ प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् ॥ ६.१८ ॥ साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः ॥ ६.१९ ॥ उत्तमर्णश्चेद्राजानमियात्, तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् ॥ ६.२० ॥ प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् ॥ ६.२१ ॥ सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ॥ ६.२२ ॥ तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च ॥ ६.२३ ॥ ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ॥ ६.२४ ॥ लिख्तार्थे प्रविष्टे लिखितं पाटयेत् ॥ ६.२५ ॥ असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् ॥ ६.२६ ॥ धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् ॥ ६.२७ ॥ नातः परमनिच्छुभिः ॥ ६.२८ ॥ सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् ॥ ६.२९ ॥ निर्धनस्य स्त्रीग्राही ॥ ६.३० ॥ न स्त्री पतिपुत्रकृतम् ॥ ६.३१ ॥ न स्त्रीकृतं पतिपुत्रौ ॥ ६.३२ ॥ न पिता पुत्रकृतम् ॥ ६.३३ ॥ अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् ॥ ६.३४ ॥ पैतृकमृणमविभक्तानां भ्रातॄणां च ॥ ६.३५ ॥ विभक्ताश्च दायानुरूपमंशम् ॥ ६.३६ ॥ गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ॥ ६.३७ ॥ वाक्प्रतिपन्नं नादेयं कस्यचित् ॥ ६.३८ ॥ कुटुम्बार्थे कृतं च ॥ ६.३९ ॥ यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् । न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ६.४० ॥ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ६ ४१ ॥ बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् । अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ६ ४२ ॥ यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ६ ४३ ॥ ७ अथ लेख्यं त्रिविधम् ॥ ७.१ ॥ राजसाक्षिकं ससाक्षिकमसाक्षिकं च ॥ ७.२ ॥ राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ॥ ७.३ ॥ यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् ॥ ७.४ ॥ स्वहस्तलिखितमसाक्षिकम् ॥ ७.५ ॥ तत्बलात्कारितमप्रमाणम् ॥ ७.६ ॥ उपधिकृतानि सर्वाण्येव ॥ ७.७ ॥ दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि ॥ ७.८ ॥ तादृग्विधेन लेखकेन लिखितं च ॥ ७.९ ॥ स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च ॥ ७.१० ॥ देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणमलुप्तप्रक्रमाक्षरं प्रमाणम् ॥ ७.११ ॥ वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः । संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः ॥ ७.१२ ॥ यत्र+ऋणी धनिको वापि साक्षी वा लेखकोऽपि वा । म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥ ७.१३ ॥ ८ अथासाक्षिणः ॥ ८.१ ॥ न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः ॥ ८.२ ॥ रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च ॥ ८.३ ॥ अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् ॥ ८.४ ॥ एकश्चासाक्षी ॥ ८.५ ॥ स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ॥ ८.६ ॥ अथ साक्षिणः ॥ ८.७ ॥ कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च ॥ ८.८ ॥ अभिहितगुणसंपन्न उभयानुमत एकोऽपि ॥ ८.९ ॥ द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः ॥ ८.१० ॥ आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि ॥ ८.११ ॥ उद्दिष्टसाक्षिणि मृते देशान्तरगते च तदभिहितश्रोतारः प्रमाणम् ॥ ८.१२ ॥ समक्षदर्शनात्साक्षी श्रवणाद्वा ॥ ८.१३ ॥ साक्षिणश्च सत्येन पूयन्ते ॥ ८.१४ ॥ वर्णिनां यत्र वधस्तत्रानृतेन ॥ ८.१५ ॥ तत्पावनाय कूश्माण्डीभिर्द्विजोऽग्निं घृतेन जुहुयात् ॥ ८.१६ ॥ शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् ॥ ८.१७ ॥ स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् ॥ ८.१८ ॥ साक्षिणश्चाहूय आदित्योदये कृतशपथान् पृच्छेत् ॥ ८.१९ ॥ ब्रूहीति ब्राह्मणं पृच्छेत् ॥ ८.२० ॥ सत्यं ब्रूहीति राजन्यम् ॥ ८.२१ ॥ गोबीजकाञ्चनैर्वैश्यम् ॥ ८.२२ ॥ सर्वमहापातकैस्तु शूद्रम् ॥ ८.२३ ॥ साक्षिणश्च श्रावयेत् ॥ ८.२४ ॥ ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणामपि ॥ ८.२५ ॥ जननमरणान्तरे कृतसुकृतहानिश्च ॥ ८.२६ ॥ सत्येनादित्यस्तपति ॥ ८.२७ ॥ सत्येन भाति चन्द्रमाः ॥ ८.२८ ॥ सत्येन वाति पवनः ॥ ८.२९ ॥ सत्येन भूर्धारयति ॥ ८.३० ॥ सत्येनापस्तिष्ठन्ति ॥ ८.३१ ॥ सत्येनाग्निः ॥ ८.३२ ॥ खं च सत्येन ॥ ८.३३ ॥ सत्येन देवाः ॥ ८.३४ ॥ सत्येन यज्ञाः ॥ ८.३५ ॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ८.३६ ॥ जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते । ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ॥ ८.३७ ॥ एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥ ८.३८ ॥ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ८.३९ ॥ बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.४० ॥ यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.४१ ॥ ९ अथ समयक्रिया ॥ ९.१ ॥ राजद्रोहसाहसेषु यथाकामम् ॥ ९.२ ॥ निक्षेपस्तेयेष्वर्थप्रमाणम् ॥ ९.३ ॥ सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् ॥ ९.४ ॥ तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ॥ ९.५ ॥ द्विकृष्णलोने तिलकरम् ॥ ९.६ ॥ त्रिकृष्णलोने रजतकरम् ॥ ९.७ ॥ चतुःकृष्णलोने सुवर्णकरम् ॥ ९.८ ॥ पञ्चकृष्णलोने सीरोद्धृतमहीकरम् ॥ ९.९ ॥ सुवर्णार्धोने कोशो देयः शूद्रस्य ॥ ९.१० ॥ ततः परं यथार्हं धटाग्न्युदकविषाणामन्यतमम् ॥ ९.११ ॥ द्विगुणेऽर्थे यथाभिहिताः समयक्रिया वैश्यस्य ॥ ९.१२ ॥ त्रिगुणे राजन्यस्य ॥ ९.१३ ॥ कोशवर्जं चतुर्गुणे ब्राह्मणस्य ॥ ९.१४ ॥ न ब्राह्मणस्य कोशं दद्यात् ॥ ९.१५ ॥ अन्यत्रागामिकालसमयनिबन्धनक्रियातः ॥ ९.१६ ॥ कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव शापयेत् ॥ ९.१७ ॥ प्राग्दृष्टदोषे स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत् ॥ ९.१८ ॥ सत्सु विदितं सच्चरितं न महत्यर्थेऽपि ॥ ९.१९ ॥ अभियोक्ता वर्तयेच्छीर्षम् ॥ ९.२० ॥ अभियुक्तश्च दिव्यं कुर्यात् ॥ ९.२१ ॥ राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् ॥ ९.२२ ॥ स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया ॥ ९.२३ ॥ सा च न वाति वायौ ॥ ९.२४ ॥ न कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः ॥ ९.२५ ॥ शरद्ग्रीष्मयोश्च ॥ ९.२६ ॥ न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम् ॥ ९.२७ ॥ प्रावृषि च ॥ ९.२८ ॥ न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनां चोदकम् ॥ ९.२९ ॥ हेमन्तशिशिरयोश्च ॥ ९.३० ॥ न नास्तिकेभ्यः कोशो देयः ॥ ९.३१ ॥ न देशे व्याधिमरकोपसृष्टे चे ॥ ९.३२ ॥ सचैलस्नातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ ९.३३ ॥ १० अथ धटः ॥ १०.१ ॥ चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥ १०.२ ॥ तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥ १०.३ ॥ तां च सुवर्णकारकांस्यकाराणामन्यतमो बिभृयात् ॥ १०.४ ॥ तत्र चैकस्मिन् शिक्ये पुरुषं दिव्यकारिणमारोपयेत्, द्वितीये प्रतिमानं शिलादि ॥ १०.५ ॥ प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् ॥ १०.६ ॥ धटं च समयेन गृह्णीयात् ॥ १०.७ ॥ तुलाधारं च ॥ १०.८ ॥ ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ १०.९ ॥ धर्मपर्यायवचनैर्धट इत्यभिधीयसे । त्वमेव धट जानीषे न विदुर्यानि मानुषाः ॥ १०.१० ॥ व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १०.११ ॥ ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् । तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥ १०.१२ ॥ शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् । एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥ १०.१३ ॥ ११ अथाग्निः ॥ ११.१ ॥ षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् ॥ ११.२ ॥ ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्राणि करयोर्दद्यात् ॥ ११.३ ॥ तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ॥ ११.४ ॥ ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् ॥ ११.५ ॥ तमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पादन्यासं कुर्वन् व्रजेत् ॥ ११.६ ॥ ततः सप्तमं मण्डलमतीत्य भूमौ लोहपिण्डं जह्यात् ॥ ११.७ ॥ यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिषेत् । न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥ ११.८ ॥ भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते । पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ॥ ११.९ ॥ करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् । अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥ ११.१० ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेवाग्ने विजानीषे न विदुर्यानि मानवाः ॥ ११.११ ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ११.१२ ॥ १२ अथोदकम् ॥ १२.१ ॥ पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि ॥ १२.२ ॥ तत्र ...नाभिमग्नस्यारोगद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् ॥ १२.३ ॥ तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ॥ १२.४ ॥ तं चापरः पुरुषो जवेन शरमानयेत् ॥ १२.५ ॥ तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः । अन्यथा ह्यविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥ १२.६ ॥ त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेवाम्भो विजानीषे न विदुर्यानि मानुषाः ॥ १२.७ ॥ व्यवहाराभिशतोऽयं मानुषस्त्वयि मज्जति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १२.८ ॥ १३ अथ विषम् ॥ १३.१ ॥ विषान्यदेयानि सार्वाणि ॥ १३.२ ॥ ऋते हिमाचलोद्भवात्शार्ङ्गात् ॥ १३.३ ॥ तस्य च यवसप्तकं घृतप्लुतमभिशस्ताय दद्यात् ॥ १३.४ ॥ विषं वेगक्लमापेतं सुखेन यदि जीर्यते । विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ १३.५ ॥ विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् । त्वमेव विष जानीषे न विदुर्यानि मानुषाः ॥ १३.६ ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १३.७ ॥ १४ अथ कोशः ॥ १४.१ ॥ उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् ॥ १४.२ ॥ इदं मया न कृतमिति वदन् स्थापितदेवताभिमुखः ॥ १४.३ ॥ यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहादथापि वा । रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा ॥ १४.४ ॥ तमशुद्धं विजानीयात्तथा शुद्धं विपर्यये । दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ १४.५ ॥ १५ अथ द्वादश पुत्रा भवन्ति ॥ १५.१ ॥ स्वक्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः ॥ १५.२ ॥ नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः ॥ १५.३ ॥ पुत्रीकापुत्रस्तृतीयः ॥ १५.४ ॥ यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका ॥ १५.५ ॥ पुत्रिकाविधिं विनापि प्रतिपादिता भ्रातृविहीना पुत्रिकैव ॥ १५.६ ॥ पौनर्भवश्चतुर्थः ॥ १५.७ ॥ अक्षता भूयः संस्कृता पुनर्भूः ॥ १५.८ ॥ भूयस्त्वसंस्कृतापि परपूर्वा ॥ १५.९ ॥ कानीनः पञ्चमः ॥ १५.१० ॥ पितृगृहे असंस्कृतयैवोत्पादितः ॥ १५.११ ॥ स च पाणिग्राहस्य ॥ १५.१२ ॥ गृहे च गूढोत्पन्नः षष्ठः ॥ १५.१३ ॥ यस्य तल्पजस्तस्यासौ ॥ १५.१४ ॥ सहोढः सप्तमः ॥ १५.१५ ॥ या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥ १५.१६ ॥ स च पाणिग्राहस्य ॥ १५.१७ ॥ दत्तकश्चाष्टमः ॥ १५.१८ ॥ स च मातापितृभ्यां यस्य दत्तः ॥ १५.१९ ॥ क्रीतश्च नवमः ॥ १५.२० ॥ स च येन क्रीतः ॥ १५.२१ ॥ स्वयमुपगतो दशमः ॥ १५.२२ ॥ स च यस्योपगतः ॥ १५.२३ ॥ अपविद्धस्त्वेकादशः ॥ १५.२४ ॥ पित्रा मात्रा च परित्यक्तः ॥ १५.२५ ॥ स च येन गृहीतः ॥ १५.२६ ॥ यत्र क्वचनोत्पादितश्च द्वादशः ॥ १५.२७ ॥ एतेषां पूर्वः पूर्वः श्रेयान् ॥ १५.२८ ॥ स एव दायहरः ॥ १५.२९ ॥ स चान्यान् बिभृयात् ॥ १५.३० ॥ अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् ॥ १५.३१ ॥ पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः ॥ १५.३२ ॥ रिक्थग्राहिभिस्ते भर्तव्याः ॥ १५.३३ ॥ तेषां चौरसाः पुत्रा भागहारिणः ॥ १५.३४ ॥ न तु पतितस्य ॥ १५.३५ ॥ पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः ॥ १५.३६ ॥ प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः ॥ १५.३७ ॥ तत्पुत्राः पैतामहेऽप्यर्थे ॥ १५.३८ ॥ अंशग्राहिभिस्ते भरणीयाः ॥ १५.३९ ॥ यश्चार्थहरः स पिण्डदायी ॥ १५.४० ॥ एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव ॥ १५.४१ ॥ भ्रातॄणामेकजातानां च ॥ १५.४२ ॥ पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ॥ १५.४३ ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ १५.४४ ॥ ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १५.४५ ॥ पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ १५.४६ ॥ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ॥ १५.४७ ॥ १६ समानवर्णासु पुत्राः सवर्णा भवन्ति ॥ १६.१ ॥ अनुलोमासु मातृसवर्णाः ॥ १६.२ ॥ प्रतिलोमास्वार्यविगर्हिताः ॥ १६.३ ॥ तत्र वैश्यापुत्रः शूद्रेणायोगवः ॥ १६.४ ॥ पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्याम् ॥ १६.५ ॥ चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः ॥ १६.६ ॥ संकरसंकराश्चासंख्येयाः ॥ १६.७ ॥ रङ्गावतरणमायोगवानाम् ॥ १६.८ ॥ व्याधता पुल्कसानाम् ॥ १६.९ ॥ स्तुतिक्रिया मागधानाम् ॥ १६.१० ॥ वध्यघातित्वं चण्डालानाम् ॥ १६.११ ॥ स्त्रीरक्सा तज्जीवनं च वैदेहकानाम् ॥ १६.१२ ॥ अश्वसारथ्यं सूतानाम् ॥ १६.१३ ॥ चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति विशेषः ॥ १६.१४ ॥ सर्वेषां च समानजातिभिर्विवाहः ॥ १६.१५ ॥ स्वपितृवित्तानुहरणं च ॥ १६.१६ ॥ संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १६.१७ ॥ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाद्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १६.१८ ॥ १७ पिता चेत्पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपार्जितेऽर्थे ॥ १७.१ ॥ पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् ॥ १७.२ ॥ पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः ॥ १७.३ ॥ अपुत्रधनं पत्न्यभिगामि ॥ १७.४ ॥ तदभावे दुहितृगामि ॥ १७.५ ॥ तदभावे पितृगामि ॥ १७.६ ॥ तदभावे मातृगामि ॥ १७.७ ॥ तदभावे भ्रातृगामि ॥ १७.८ ॥ तदभावे भ्रातृपुत्रगामि ॥ १७.९ ॥ तदभावे बन्धुगामि ॥ १७.१० ॥ तदभावे सकुल्यगामि ॥ १७.११ ॥ तदभावे सहाध्यायिगामि ॥ १७.१२ ॥ तदभावे ब्राह्मणधनवर्जं राजगामि ॥ १७.१३ ॥ ब्राह्मणार्थो ब्राह्मणानाम् ॥ १७.१४ ॥ वानप्रस्थधनमाचार्यो गृह्णीयात् ॥ १७.१५ ॥ शिष्यो वा ॥ १७.१६ ॥ संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ १७.१७ ॥ पितृमातृसुतभ्रातृदत्तम्, अध्यग्न्युपागतम्, आधिवेदनिकं, बन्धुदत्तं, शुल्कम्, अन्वाधेयकमिति स्त्रीधनम् ॥ १७.१८ ॥ ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः ॥ १७.१९ ॥ शेषेषु च पिता हरेत् ॥ १७.२० ॥ सर्वेष्वेव प्रसूतायां यद्धनं तत्दुहितृगामि ॥ १७.२१ ॥ पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ १७.२२ ॥ अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना । यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ॥ १७.२३ ॥ १८ ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः ॥ १८.१ ॥ तत्र ब्राह्मणीपुत्रश्चतुरोऽंशानादद्यात् ॥ १८.२ ॥ क्षत्रियापुत्रस्त्रीन् ॥ १८.३ ॥ द्वावंशौ वैश्यापुत्रः ॥ १८.४ ॥ शूद्रापुत्रस्त्वेकम् ॥ १८.५ ॥ अथ चेत्शूद्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्, तदा तद्धनं नवधा विभजेयुः ॥ १८.६ ॥ वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः ॥ १८.७ ॥ वैश्यवर्जमष्टधा कृतं चतुरस्त्रीनेकं चादद्युः ॥ १८.८ ॥ क्षत्रियवर्जं सप्तधा कृतं चतुरो द्वावेकं च ॥ १८.९ ॥ ब्राह्मणवर्जं षड्धा कृतं त्रीन् द्वावेकं च ॥ १८.१० ॥ क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयमेव विभागः ॥ १८.११ ॥ अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरोऽंशानादद्यात् ॥ १८.१२ ॥ त्रीन् राजन्यः ॥ १८.१३ ॥ अथ ब्राह्मणस्य ब्राह्मणवैश्यौ, तदा षड्धा विभक्तस्य चतुरोऽंशान् ब्राह्मणस्त्वादद्यात् ॥ १८.१४ ॥ द्वावंशौ वैश्यः ॥ १८.१५ ॥ अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १८.१६ ॥ चतुरोऽंशान् ब्राह्मणस्त्वादद्यात् ॥ १८.१७ ॥ एकं शूद्रः ॥ १८.१८ ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १८.१९ ॥ त्रीनंशान् क्षत्रियस्त्वादद्यात् ॥ १८.२० ॥ द्वावंशौ वैश्यः ॥ १८.२१ ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां, तदा तद्धनं चतुर्धा विभजेयाताम् ॥ १८.२२ ॥ त्रीनंशान् क्षत्रियस्त्वादद्यात् ॥ १८.२३ ॥ एकं शूद्रः ॥ १८.२४ ॥ अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां, तदा तद्धनं त्रिधा विभजेयाताम् ॥ १८.२५ ॥ द्वावंशौ वैश्यस्त्वादद्यात् ॥ १८.२६ ॥ एकं शूद्रः ॥ १८.२७ ॥ अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः ॥ १८.२८ ॥ क्षत्रियस्य राजन्यवैश्यौ ॥ १८.२९ ॥ वैश्यस्य वैश्यः ॥ १८.३० ॥ शूद्रः शूद्रस्य ॥ १८.३१ ॥ द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः ॥ १८.३२ ॥ अपुत्ररिक्थस्य या गतिः, सात्रार्धस्य द्वितीयस्य ॥ १८.३३ ॥ मातरः पुत्रभागानुसारेण भागापहारिण्यः ॥ १८.३४ ॥ अनूढाश्च दुहितरः ॥ १८.३५ ॥ समानवर्णाः पुत्राः समानंशानादद्युः ॥ १८.३६ ॥ ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः ॥ १८.३७ ॥ यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रः, तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातामेकं शूद्रापुत्रः ॥ १८.३८ ॥ अथ शूद्रापुत्रावुभौ स्यातामेको ब्राह्मणीपुत्रः, तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशान् ब्राह्मणस्त्वादद्यात्, द्वावंशौ शूद्रापुत्रौ ॥ १८.३९ ॥ अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ॥ १८.४० ॥ विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ १८.४१ ॥ अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ १८.४२ ॥ पैतृकं तु यदा द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ १८.४३ ॥ वस्त्रं पत्रमलंकारः कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ॥ १८.४४ ॥ १९ मृतं द्विजं न शूद्रेण निर्हारयेत् ॥ १९.१ ॥ न शूद्रं द्विजेन ॥ १९.२ ॥ पितरं मातरं च पुत्रा निर्हरेयुः ॥ १९.३ ॥ न द्विजं पितरमपि शूद्राः ॥ १९.४ ॥ ब्राह्मणमनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ॥ १९.५ ॥ निर्हृत्य च बान्धवं प्रेतं संष्कृत्याप्रदक्षिणेन चितामभिगम्याप्सु सवाससो निमज्जनं कुर्युः ॥ १९.६ ॥ प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ॥ १९.७ ॥ प्रिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः ॥ १९.८ ॥ अक्षतांश्चाग्नौ क्षिपेयुः ॥ १९.९ ॥ चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः ॥ १९.१० ॥ तेषां गङ्गाम्भसि प्रक्षेपः ॥ १९.११ ॥ यावत्संख्यमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति, तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति ॥ १९.१२ ॥ यावदाशौचं तावत्प्रेतस्योदकं पिण्डमेकं च दद्युः ॥ १९.१३ ॥ क्रीतलब्धाशनाश्च भवेयुः ॥ १९.१४ ॥ अमांसाशनाश्च ॥ १९.१५ ॥ स्थण्डिलशायिनः ॥ १९.१६ ॥ पृथक्शायिनश्च ॥ १९.१७ ॥ ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः ॥ १९.१८ ॥ तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥ १९.१९ ॥ देवाः परोक्षदेवाः, प्रत्यक्षदेवा ब्राह्माणाः ॥ १९.२० ॥ ब्राह्मणैर्लोका धार्यन्ते ॥ १९.२१ ॥ ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः । ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥ १९.२२ ॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ १९.२३ ॥ दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः । वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे ॥ १९.२४ ॥ २० यदुत्तरायणं तदहर्देवानाम् ॥ २०.१ ॥ दक्षिणायनं रात्रिः ॥ २०.२ ॥ संवत्सरोऽहोरात्रः ॥ २०.३ ॥ तत्त्रिंशता मासाः ॥ २०.४ ॥ मासा द्वादश वर्षम् ॥ २०.५ ॥ द्वादश वर्षशतानि दिव्यानि कलियुगम् ॥ २०.६ ॥ द्विगुणानि द्वापरम् ॥ २०.७ ॥ त्रिगुणानि त्रेता ॥ २०.८ ॥ चतुर्गुणानि कृतयुगम् ॥ २०.९ ॥ द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम् ॥ २०.१० ॥ चतुर्युगाणामेकसप्ततिर्मन्वन्तरम् ॥ २०.११ ॥ चतुर्युगसहस्रं च कल्पः ॥ २०.१२ ॥ स च पितामहस्याहः ॥ २०.१३ ॥ तावती चास्य रात्रिः ॥ २०.१४ ॥ एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतमायुः ॥ २०.१५ ॥ ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः ॥ २०.१६ ॥ तस्यान्ते महाकल्पः ॥ २०.१७ ॥ तावत्येवास्य निशा ॥ २०.१८ ॥ पौरूषेयाणामहोरात्राणामतीतानां संख्यैव नास्ति ॥ २०.१९ ॥ न च भविष्याणाम् ॥ २०.२० ॥ अनाद्यन्तत्वात्कालस्य ॥ २०.२१ ॥ एवमस्मिन्निरालम्बे काले सततयायिनि । न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २०.२२ ॥ गङ्गायाः सिकता धारास्तथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ २०.२३ ॥ चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः । सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ २०.२४ ॥ बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च । विनष्तानीह कालेन मनुजेष्वथ का कथा ॥ २०.२५ ॥ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ २०.२६ ॥ ये समर्था जगत्यस्मिन् सृष्टिसंहारकारणे । तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः ॥ २०.२७ ॥ आक्रम्य सर्वः कालेन परलोकं च नीयते । कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥ २०.२८ ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥ २०.२९ ॥ शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः ॥ २०.३० ॥ सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः । बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ॥ २०.३१ ॥ बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति । अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ २०.३२ ॥ अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः । प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ २०.३३ ॥ पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम् । पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ २०.३४ ॥ देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च । मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ २०.३५ ॥ प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् । तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ २०.३६ ॥ एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः । नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव च ॥ २०.३७ ॥ दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् । धर्ममेकं सहायार्थं वरयध्वं सदा नराः ॥ २०.३८ ॥ मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् । जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥ २०.३९ ॥ धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम् । नन्वसारे नृलोकेऽस्मिन् धर्मं कुरुत मा चिरम् ॥ २०.४० ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥ २०.४१ ॥ क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ २०.४२ ॥ न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते । आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ २०.४३ ॥ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति ॥ २०.४४ ॥ नौशधानि न मन्त्राश्च न होमा न पुनर्जपाः । त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥ २०.४५ ॥ आगामिनमनर्थं हि प्रविधानशतैरपि । न निवारयितुं शक्तस्तत्र का परिदेवना ॥ २०.४६ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥ २०.४७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २०.४८ ॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तह्ता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २०.४९ ॥ गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः । गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ॥ २०.५० ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २०.५१ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २०.५२ ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ॥ २०.५३ ॥ २१ अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधानेव ब्राह्मणान् यथाशक्ति उदङ्मुखान् गन्धमाल्यवस्त्रालंकारादिभिः पूजितान् भोजयेत् ॥ २१.१ ॥ एकवन्मन्त्रानूहेदेकोद्दिष्टे ॥ २१.२ ॥ उच्छिष्टसंनिधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् ॥ २१.३ ॥ भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकः चतुरङ्गुलपृथ्वीः तावदन्तराः तावदधःखाताः वितस्त्यायताः तिस्रः कर्षूः कुर्यात् ॥ २१.४ ॥ कर्षूसमीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य तत्रैकैकस्मिनाहुतित्रयं जुहुयात् ॥ २१.५ ॥ सोमाय पितृमते स्वधा नमः ॥ २१.६ ॥ अग्नये कव्यवाहनाय स्वथा नमः ॥ २१.७ ॥ यमायाङ्गिरसे स्वधा नमः ॥ २१.८ ॥ स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् ॥ २१.९ ॥ अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वा एतत्त इति जपेत् ॥ २१.१० ॥ एवं मृताहे प्रतिमासं कुर्यात् ॥ २१.११ ॥ संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान् देवपूर्वान् भोजयेत् ॥ २१.१२ ॥ अत्राग्नौकरणमावाहनं पाद्यं च कुर्यात् ॥ २१.१३ ॥ संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् ॥ २१.१४ ॥ उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् ॥ २१.१५ ॥ ब्राह्मणांश्च स्वाचान्तान् दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् ॥ २१.१६ ॥ ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् ॥ २१.१७ ॥ कर्षूत्रयसंनिक्र्षेऽप्येवमेव ॥ २१.१८ ॥ सपिण्डीकरणं मासिकार्थवत्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् ॥ २१.१९ ॥ मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि ॥ २१.२० ॥ संवत्सराभ्यन्तरे यद्यधिमासो भवेत्, तदा मासिकार्थे दिनमेकं वर्धयेत् ॥ २१.२१ ॥ सपिण्डीकरणं स्त्रीणां कार्यमेवं तथा भवेत् । यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥ २१.२२ ॥ अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतं । तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने ॥ २१.२३ ॥ २२ ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमाशौचम् ॥ २२.१ ॥ द्वादशाहं राजन्यस्य ॥ २२.२ ॥ पञ्चदशाहं वैश्यस्य ॥ २२.३ ॥ मासं शूद्रस्य ॥ २२.४ ॥ सपिण्डता च पुरुषे सप्तमे विनिवर्तते ॥ २२.५ ॥ आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते ॥ २२.६ ॥ नाशौचे कस्यचिदन्नमश्नीयात् ॥ २२.७ ॥ ब्राह्मणादीनामशौचे यः सकृदेवान्नमत्ति तस्य तावदाशौचं यावत्तेषाम् ॥ २२.८ ॥ आशौशापगमे प्रायश्चित्तं कुर्यात् ॥ २२.९ ॥ सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ २२.१० ॥ क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुध्यति ॥ २२.११ ॥ वैश्याशौचे राजन्यश्च ॥ २२.१२ ॥ वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च ॥ २२.१३ ॥ ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीमासाद्य गायत्रीशतपञ्चकं जपेत् ॥ २२.१४ ॥ वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् ॥ २२.१५ ॥ शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥ २२.१६ ॥ शूद्रश्च द्विजाशौचे स्नानमाचरेत् ॥ २२.१७ ॥ शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत् ॥ २२.१८ ॥ पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमाशौचम् ॥ २२.१९ ॥ मृते स्वामिन्यात्मीयम् ॥ २२.२० ॥ हीनवर्णानामधिकवर्णेषु सपिण्डेषु तदशौचव्यपगमे शुद्धिः ॥ २२.२१ ॥ ब्राह्मणस्य क्षत्रिविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः ॥ २२.२२ ॥ क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् ॥ २२.२३ ॥ वैश्यस्य शूद्रेषु षड्रात्रेण ॥ २२.२४ ॥ मासतुल्यैरहोरात्रैर्गर्भस्रावे ॥ २२.२५ ॥ जातमृते मृतजाते वा कुलस्य सद्यः शौचम् ॥ २२.२६ ॥ अदन्तजाते बाले प्रेते सद्य एव ॥ २२.२७ ॥ नास्याग्निसंस्कारो नोदकक्रिया ॥ २२.२८ ॥ दन्तजाते त्वकृतचूडे त्वहोरात्रेण ॥ २२.२९ ॥ कृतचूडे त्वसंस्कृते त्रिरात्रेण ॥ २२.३० ॥ ततः परं यथोक्तकालेन ॥ २२.३१ ॥ स्त्रीणां विवाहः संस्कारः ॥ २२.३२ ॥ संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे ॥ २२.३३ ॥ तत्प्रसवमरणे चेत्पितृगृहे स्यातां , तदा एकरात्रं त्रिरात्रं च ॥ २२.३४ ॥ जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्, तदा पूर्वाशौचव्यपगमे शुद्धिः ॥ २२.३५ ॥ रात्रिशेषे दिनद्वयेन ॥ २२.३६ ॥ प्रभाते दिनत्रयेण ॥ २२.३७ ॥ मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम् ॥ २२.३८ ॥ श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् ॥ २२.३९ ॥ व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण ॥ २२.४० ॥ ततः परं स्नानेन ॥ २२.४१ ॥ आचार्ये मातामहे च व्यतीते त्रिरात्रेण ॥ २२.४२ ॥ अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ २२.४३ ॥ आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण ॥ २२.४४ ॥ स्वदेशराजनि च ॥ २२.४५ ॥ असपिण्डे स्ववेश्मनि मृते च ॥ २२.४६ ॥ भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् ॥ २२.४७ ॥ न राज्ञां रजकर्मणि ॥ २२.४८ ॥ न व्रतिनां व्रते ॥ २२.४९ ॥ न सत्रिणां सत्रे ॥ २२.५० ॥ न कारूणां कारुकर्मणि ॥ २२.५१ ॥ न राजाज्ञाकारिणां तदिच्छया ॥ २२.५२ ॥ न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ॥ २२.५३ ॥ न देशविभ्रमे ॥ २२.५४ ॥ आपद्यपि च कष्टायाम् ॥ २२.५५ ॥ आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ॥ २२.५६ ॥ पतितस्य दासी मृतेऽह्नि पदा अपां घटमपवर्जयेत् ॥ २२.५७ ॥ उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति ॥ २२.५८ ॥ आत्मत्यागिनां संस्कर्ता च ॥ २२.५९ ॥ तदश्रुपातकारी च ॥ २२.६० ॥ सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन ॥ २२.६१ ॥ अकृतेऽस्थिसंचये सचैलस्नानेन ॥ २२.६२ ॥ द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नः त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ २२.६३ ॥ द्विजप्रेतस्याष्टशतम् ॥ २२.६४ ॥ शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् ॥ २२.६५ ॥ चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः ॥ २२.६६ ॥ मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च ॥ २२.६७ ॥ श्मश्रुकर्मणि कृते च ॥ २२.६८ ॥ शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च ॥ २२.६९ ॥ भक्ष्यवर्जं पञ्चनखशवं तदस्थिस्नेहं च ॥ २२.७० ॥ सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् ॥ २२.७१ ॥ रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ॥ २२.७२ ॥ रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयात्यावन्न शुद्धा ॥ २२.७३ ॥ सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥ २२.७४ ॥ क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा चाचमेत् ॥ २२.७५ ॥ चण्डालम्लेच्छसंभाषणे च ॥ २२.७६ ॥ नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् ॥ २२.७७ ॥ अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन ॥ २२.७८ ॥ वक्त्रोपहतस्त्वुपोष्य स्नात्वा पञ्चगव्येन ॥ २२.७९ ॥ दशनच्छदोपहतश्च ॥ २२.८० ॥ वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः । श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ २२.८१ ॥ गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥ २२.८२ ॥ माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे । मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥ २२.८३ ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च । राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥ २२.८४ ॥ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ २२.८५ ॥ आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ २२.८६ ॥ आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ २२.८७ ॥ ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥ २२.८८ ॥ सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् । योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥ २२.८९ ॥ क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ २२.९० ॥ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ २२.९१ ॥ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ २२.९२ ॥ एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः । नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् ॥ २२.९३ ॥ २३ शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम् ॥ २३.१ ॥ अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं शुध्येत् ॥ २३.२ ॥ मणिमयमश्ममयमब्जं च सप्तरात्रं महीनिखननेन ॥ २३.३ ॥ शृङ्गदन्तास्थिमयं तक्षणेन ॥ २३.४ ॥ दारवं मृन्मयं च जह्यात् ॥ २३.५ ॥ अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥ २३.६ ॥ सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः ॥ २३.७ ॥ अश्ममयानां चमसानां ग्रहाणां च ॥ २३.८ ॥ चरुस्रुक्स्रुवाणामुष्णेनाम्भसा ॥ २३.९ ॥ यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥ २३.१० ॥ स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥ २३.११ ॥ शयनयानासनानां च ॥ २३.१२ ॥ बहूनां च ॥ २३.१३ ॥ धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥ २३.१४ ॥ शाकमूलफलपुष्पाणां च ॥ २३.१५ ॥ तृणकाष्ठशुष्कपलाशानां च ॥ २३.१६ ॥ एतेषां प्रक्षालनेन ॥ २३.१७ ॥ अल्पानां च ॥ २३.१८ ॥ ऊषैः कौशेयाविकयोः ॥ २३.१९ ॥ अरिष्टकैः कुतपानाम् ॥ २३.२० ॥ श्रीफलैरंशुपट्टानाम् ॥ २३.२१ ॥ गौरसर्षपैः क्षौमाणाम् ॥ २३.२२ ॥ शृङ्गास्थिदन्तमयानां च ॥ २३.२३ ॥ पद्माक्षैर्मृगलोमिकानाम् ॥ २३.२४ ॥ ताम्ररीतित्रपुसीसमयानामम्लोदकेन ॥ २३.२५ ॥ भस्मना कांस्यलोहयोः ॥ २३.२६ ॥ तक्षणेन दारवाणाम् ॥ २३.२७ ॥ गोवालैः फलसंभवानाम् ॥ २३.२८ ॥ प्रोक्षणेन संहतानाम् ॥ २३.२९ ॥ उत्पवनेन द्रवाणाम् ॥ २३.३० ॥ गुडादीनामिक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥ २३.३१ ॥ सर्वलवणानां च ॥ २३.३२ ॥ पुनः पाकेन मृन्मयानाम् ॥ २३.३३ ॥ द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ॥ २३.३४ ॥ असिद्धस्यान्नस्य यन्मात्रमुपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥ २३.३५ ॥ द्रोणाभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति ॥ २३.३६ ॥ तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च ॥ २३.३७ ॥ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् । दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ २३.३८ ॥ यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः । तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ २३.३९ ॥ अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः । पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ २३.४० ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ २३.४१ ॥ प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । अत्यन्तोपहतानां च शौचं नित्यमतन्द्रितम् ॥ २३.४२ ॥ भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् । अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥ २३.४३ ॥ मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा । अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥ २३.४४ ॥ वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते । पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥ २३.४५ ॥ जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे । कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥ २३.४६ ॥ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ २३.४७ ॥ नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्राहमणान्तरितं भैक्ष्यमाकराः सर्व एव च ॥ २३.४८ ॥ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ २३.४९ ॥ श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ २३.५० ॥ ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् । यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ २३.५१ ॥ मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः । रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥ २३.५२ ॥ नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ २३.५३ ॥ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ २३.५४ ॥ उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ २३.५५ ॥ मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् । संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥ २३.५६ ॥ दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् । गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥ २३.५७ ॥ गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः । गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥ २३.५८ ॥ षडङ्गमेतत्परमं मङ्गल्यं परमं गवाम् । शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥ २३.५९ ॥ गवां कण्डूयनं चैव सर्वकल्मषनाशनम् । गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥ २३.६० ॥ गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा । लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ २३.६१ ॥ २४ अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति ॥ २४.१ ॥ तिस्रः क्षत्रियस्य ॥ २४.२ ॥ द्वे वैश्यस्य ॥ २४.३ ॥ एका शूद्रस्य ॥ २४.४ ॥ तासां सवर्णावेदने पाणिर्ग्राह्यः ॥ २४.५ ॥ असवर्णावेदने शरः क्षत्रियकन्यया ॥ २४.६ ॥ प्रतोदो वैश्यकन्यया ॥ २४.७ ॥ वसनदशान्तः शूद्रकन्यया ॥ २४.८ ॥ न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत ॥ २४.९ ॥ मातृतस्त्वा पञ्चमात्पुरुषात्*पितृतश्चा सप्तमात्[पितृताश्] ॥ २४.१० ॥ नाकुलीनाम् ॥ २४.११ ॥ न च व्याधिताम् ॥ २४.१२ ॥ नाधिकाङ्गीम् ॥ २४.१३ ॥ न हीनाङ्गीम् ॥ २४.१४ ॥ नातिकपिलाम् ॥ २४.१५ ॥ न वाचाटाम् ॥ २४.१६ ॥ अथाष्टौ विवाहा भवन्ति ॥ २४.१७ ॥ ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति ॥ २४.१८ ॥ आहूय गुणवते कन्यादानं ब्राह्मः ॥ २४.१९ ॥ यज्ञस्थर्त्विजे दैवः ॥ २४.२० ॥ गोमिथुनग्रहणेनार्षः ॥ २४.२१ ॥ प्रार्थितप्रदानेन प्राजापत्यः ॥ २४.२२ ॥ द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ॥ २४.२३ ॥ क्रयेणासुरः ॥ २४.२४ ॥ युद्धहरणेन राक्षसः ॥ २४.२५ ॥ सुप्तप्रमत्ताभिगमनात्*पैशाचः [पैशचः] ॥ २४.२६ ॥ एतेष्वाद्याश्चत्वारो धर्म्याः ॥ २४.२७ ॥ गान्धर्वोऽपि राजन्यानाम् ॥ २४.२८ ॥ ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते ॥ २४.२९ ॥ दैवीपुत्रश्चतुर्दश ॥ २४.३० ॥ आर्षीपुत्रश्च सप्त ॥ २४.३१ ॥ प्राजापत्यश्चतुरः ॥ २४.३२ ॥ ब्राह्मेण विवाहेन कन्यां ददत्ब्रह्मलोकं गमयति ॥ २४.३३ ॥ दैवेन स्वर्गम् ॥ २४.३४ ॥ आर्षेण वैष्णवम् ॥ २४.३५ ॥ प्राजापत्येन देवलोकम् ॥ २४.३६ ॥ गान्धर्वेण गन्धर्वलोकं गच्छति ॥ २४.३७ ॥ पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः ॥ २४.३८ ॥ पूर्वाभावे प्रकृतिस्थः परः पर इति ॥ २४.३९ ॥ ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ २४.४० ॥ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ २४.४१ ॥ २५ अथ स्त्रीणां धर्माः ॥ २५.१ ॥ भर्तुः समानव्रतचारित्वम् ॥ २५.२ ॥ श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् ॥ २५.३ ॥ सुसंस्कृतोपस्करता ॥ २५.४ ॥ अमुक्तहस्तता ॥ २५.५ ॥ सुगुप्तभाण्डता ॥ २५.६ ॥ मूलक्रियास्वनभिरतिः ॥ २५.७ ॥ मङ्गलाचारतत्परता ॥ २५.८ ॥ भर्तरि प्रवसितेऽप्रतिकर्मक्रिया ॥ २५.९ ॥ परगृहेष्वनभिगमनम् ॥ २५.१० ॥ द्वारदेशगवाक्षेष्वनवस्थानम् ॥ २५.११ ॥ सर्वकर्मस्वस्वतन्त्रता ॥ २५.१२ ॥ बाल्ययौवनवार्धकेष्वपि पितृभर्तृपुत्राधीनता ॥ २५.१३ ॥ मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा ॥ २५.१४ ॥ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ २५.१५ ॥ पत्यौ जीवति या योषिदुपवासव्रतं चरेत् । आयुः सा हरते भर्तुर्नरकं चैव गच्छति ॥ २५.१६ ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ २५.१७ ॥ २६ सवर्णासु बहुभार्यासु विद्यमानासु *ज्येष्ठया सह धर्मकार्यं कुर्यात्[ज्येष्टया] ॥ २६.१ ॥ मिश्रासु च कनिष्ठयापि समानवर्णया ॥ २६.२ ॥ समानवर्णाया अभावे त्वनन्तरयैवाप्दि च ॥ २६.३ ॥ न त्वेव द्विजः शूद्रया ॥ २६.४ ॥ द्विजस्य भार्या शूद्रा तु धर्मार्थं न क्वचिद्भवेत् । रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ २६.५ ॥ हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससंतानानि शूद्रतां ॥ २६.६ ॥ दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु । नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥ २६.७ ॥ २७ गर्भस्य स्पष्टताज्ञाने निषेककर्म ॥ २७.१ ॥ स्पन्दनात्पुरा पुंसवनम् ॥ २७.२ ॥ *षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् [पष्ठे] ॥ २७.३ ॥ जाते च दारके जातकर्म ॥ २७.४ ॥ आशौचव्यपगमे नामधेयम् ॥ २७.५ ॥ मङ्गल्यं ब्राहमणस्य ॥ २७.६ ॥ बलवत्क्षत्रियस्य ॥ २७.७ ॥ धनोपेतं वैश्यस्य ॥ २७.८ ॥ जुगुप्सितं शूद्रस्य ॥ २७.९ ॥ चतुर्थे मास्यादित्यदर्शनम् ॥ २७.१० ॥ षष्ठेऽन्नप्राशनम् ॥ २७.११ ॥ तृतीयेऽब्दे चूडाकरणम् ॥ २७.१२ ॥ एता एव क्रियाः स्त्रीणाममन्त्रकाः ॥ २७.१३ ॥ तासां समन्त्रको विवाहः ॥ २७.१४ ॥ गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् ॥ २७.१५ ॥ गर्भैकादशे राज्ञः ॥ २७.१६ ॥ गर्भद्वादशे विशः ॥ २७.१७ ॥ तेषां मुञ्जज्याबल्बजमय्यो मौञ्ज्यः ॥ २७.१८ ॥ कार्पासशाणाविकान्युपवीतानि वासांसि च ॥ २७.१९ ॥ मार्गवैयाघ्रबास्तानि चर्माणि ॥ २७.२० ॥ पालाशखादिरौदुम्बरा दण्डाः ॥ २७.२१ ॥ केशान्तललाटनासादेशतुल्याः ॥ २७.२२ ॥ सर्व एव वा ॥ २७.२३ ॥ अकुटिलाः सत्वचश्च ॥ २७.२४ ॥ भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरनम् ॥ २७.२५ ॥ आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २७.२६ ॥ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २७.२७ ॥ यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ २७.२८ ॥ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २७.२९ ॥ २८ अथ ब्रह्मचरिणां गुरुकुलवासः ॥ २८.१ ॥ संध्याद्वयोपासनम् ॥ २८.२ ॥ पूर्वां संध्यां जपेत्तिष्ठन् पश्चिमामासीनः ॥ २८.३ ॥ कालद्वयमभिषेकाग्निकर्मकरणम् ॥ २८.४ ॥ अप्सु दण्डवन्मज्जनम् ॥ २८.५ ॥ आहूताध्ययनम् ॥ २८.६ ॥ गुरोः प्रियहिताचरणम् ॥ २८.७ ॥ मेखलादण्डाजिनोपवीतधारणम् ॥ २८.८ ॥ गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणम् ॥ २८.९ ॥ गुर्वनुज्ञातं भैक्ष्याभ्यवहरणम् ॥ २८.१० ॥ श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनम् ॥ २८.११ ॥ अधः शय्या ॥ २८.१२ ॥ गुरोः पूर्वोत्थानं चरमं संवेशनम् ॥ २८.१३ ॥ कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् ॥ २८.१४ ॥ तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् ॥ २८.१५ ॥ दक्षिणं दक्षिणेनेतरमितरेण ॥ २८.१६ ॥ स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् ॥ २८.१७ ॥ तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् ॥ २८.१८ ॥ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः ॥ २८.१९ ॥ पराङ्मुखस्याभिमुखः ॥ २८.२० ॥ दूरस्थस्यान्तिकमुपेत्य ॥ २८.२१ ॥ शयानस्य प्रणम्य ॥ २८.२२ ॥ तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ॥ २८.२३ ॥ न चास्य केवलं नाम ब्रूयात् ॥ २८.२४ ॥ गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् ॥ २८.२५ ॥ यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् ॥ २८.२६ ॥ नास्यैकासनो भवेत् ॥ २८.२७ ॥ ऋते शिलाफलकनौयानेभ्यः ॥ २८.२८ ॥ गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत ॥ २८.२९ ॥ अनिर्दिष्टश्च गुरुणा स्वान् गुरुन्नाभिवादयेत् ॥ २८.३० ॥ बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत ॥ २८.३१ ॥ नास्य पादौ प्रक्षालयेत् ॥ २८.३२ ॥ नोच्छिष्टमश्नीयात् ॥ २८.३३ ॥ एवं वेदं वेदौ वेदान् वा स्वीकुर्यात् ॥ २८.३४ ॥ ततो वेदाङ्गानि ॥ २८.३५ ॥ यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वमेति ॥ २८.३६ ॥ मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम् ॥ २८.३७ ॥ तत्रास्य माता सावित्री भवति पिता त्व्*आचार्यः [आचार्थः] ॥ २८.३८ ॥ एतेनैव तेषां द्विजत्वम् ॥ २८.३९ ॥ प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति ॥ २८.४० ॥ ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ २८.४१ ॥ वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् ॥ २८.४२ ॥ ततो गुरुकुल एव वा जन्मनः शेषं नयेत् ॥ २८.४३ ॥ तत्राचार्ये प्रेते गुरुवत्गुरुपुत्रे वर्तेत ॥ २८.४४ ॥ गुरुदारेषु सवर्णेषु वा ॥ २८.४५ ॥ तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ॥ २८.४६ ॥ एवं चरति यो विप्रो ब्रह्मचर्यमतन्द्रितः । स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ॥ २८.४७ ॥ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः ॥ २८.४८ ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ २८.४९ ॥ तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥ २८.५० ॥ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २८.५१ ॥ अकृत्वा भैक्षचरणमसमिद्ध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २८.५२ ॥ तं चेदभ्युदियात्सूर्यः शयानं कामकारतः । निम्लोचेद्वाप्य्+अविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २८.५३ ॥ २९ यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं विद्यात् ॥ २९.१ ॥ यस्त्वेनं मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं वा ॥ २९.२ ॥ यो यस्य यज्ञ्नकर्माणि कुर्यात्तमृत्विजं विद्यात् ॥ २९.३ ॥ नापरीक्षितं योजयेत् ॥ २९.४ ॥ नाध्यापयेत् ॥ २९.५ ॥ नोपनयेत् ॥ २९.६ ॥ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २९.७ ॥ धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥ २९.८ ॥ विद्या ह वै ब्रह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्ति । असूयकायानृजवेऽयताय न मां ब्रूया अवीर्यवती तथा स्याम् ॥ २९.९ ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्ते न द्रुह्येत्कतमच्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ २९.१० ॥ ३० श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत ॥ ३०.१ ॥ ततस्तेषामुत्सर्गं बहिः कुर्यात् ॥ ३०.२ ॥ उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् ॥ ३०.३ ॥ नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च ॥ ३०.४ ॥ न+ऋत्वन्तरग्रहसूतके ॥ ३०.५ ॥ नेन्द्रप्रयाणे ॥ ३०.६ ॥ न वाति चण्डपवने ॥ ३०.७ ॥ नाकालवर्षविद्युत्स्तनितेषु ॥ ३०.८ ॥ न भूकंपोल्कापातदिग्दाहेषु ॥ ३०.९ ॥ नान्तःशवे ग्रामे ॥ ३०.१० ॥ न शास्त्रसंपाते ॥ ३०.११ ॥ न श्वसृगालगर्दभनिर्ह्रादेषु ॥ ३०.१२ ॥ न वादित्रशब्दे ॥ ३०.१३ ॥ न शूद्रपतितयोः समीपे ॥ ३०.१४ ॥ न देवतायतनश्मशानचतुष्पथरथ्यासु ॥ ३०.१५ ॥ नोदकान्तः ॥ ३०.१६ ॥ न पीठोपहितपादः ॥ ३०.१७ ॥ न हस्त्यश्वोष्ट्रनौगोयानेषु ॥ ३०.१८ ॥ न वान्तः ॥ ३०.१९ ॥ न विरिक्तः ॥ ३०.२० ॥ नाजीर्णी ॥ ३०.२१ ॥ न पञ्चनखान्तरागमने ॥ ३०.२२ ॥ न राजश्रोत्रियगोब्राह्मणव्यसने ॥ ३०.२३ ॥ नोपाकर्मणि ॥ ३०.२४ ॥ नोत्सर्गे ॥ ३०.२५ ॥ न सामध्वनावृग्यजुषी ॥ ३०.२६ ॥ नापररात्रमधीत्य शयीत ॥ ३०.२७ ॥ अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् ॥ ३०.२८ ॥ यस्मादनध्यायाधीतं नेहामुत्र फलप्रदम् ॥ ३०.२९ ॥ तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च ॥ ३०.३० ॥ तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सत्शिष्यक्षेत्रेषु वप्तव्या ॥ ३०.३१ ॥ शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् ॥ ३०.३२ ॥ प्रणवश्च व्याहर्तव्यः ॥ ३०.३३ ॥ तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति ॥ ३०.३४ ॥ यद्यजूंषि तेन मधुना ॥ ३०.३५ ॥ यत्सामानि तेन पयसा ॥ ३०.३६ ॥ यदाथर्वणं तेन मांसेन ॥ ३०.३७ ॥ यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन ॥ ३०.३८ ॥ यश्च विद्यामासाद्यास्मिन् लोके तया जीवेत्, न सा तस्य परलोके फलप्रदा भवेत् ॥ ३०.३९ ॥ यश्च विद्यया यशः परेषां हन्ति ॥ ३०.४० ॥ अननुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् ॥ ३०.४१ ॥ तदादानमस्य ब्रह्मस्तेयं नरकाय भवति ॥ ३०.४२ ॥ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥ ३०.४३ ॥ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ३०.४४ ॥ कामान्माता पिता चैनं यदुत्पादयतो मिथः । संभूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥ ३०.४५ ॥ आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ ३०.४६ ॥ य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ३०.४७ ॥ ३१ त्रयः पुरुषस्यातिगुरवो भवन्ति ॥ ३१.१ ॥ माता पिता आचार्यश्च ॥ ३१.२ ॥ तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ॥ ३१.३ ॥ यत्ते ब्रूयुस्तत्कुर्यात् ॥ ३१.४ ॥ तेषां प्रियहितमाचरेत् ॥ ३१.५ ॥ न तैरननुज्ञातः किंचिदपि कुर्यात् ॥ ३१.६ ॥ एत एव त्रयो वेदा एत एव त्रयः सुराः । एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ३१.७ ॥ पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः ॥ ३१.८ ॥ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ३१.९ ॥ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते ॥ ३१.१० ॥ ३२ राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् ॥ ३२.१ ॥ पत्न्य एतेषां सवर्णाः ॥ ३२.२ ॥ मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥ ३२.३ ॥ श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम् ॥ ३२.४ ॥ हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनम् ॥ ३२.५ ॥ गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ॥ ३२.६ ॥ असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ॥ ३२.७ ॥ न च गुरूणां त्वमिति ब्रूयात् ॥ ३२.८ ॥ तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ॥ ३२.९ ॥ न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥ ३२.१० ॥ न चैवास्य परीवादम् ॥ ३२.११ ॥ न चानभिप्रेतम् ॥ ३२.१२ ॥ गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ ३२.१३ ॥ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ ३२.१४ ॥ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ ३२.१५ ॥ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ ३२.१६ ॥ ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ ३२.१७ ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ३२.१८ ॥ [Eन्दोf ড়र्त्१] ३३ अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ॥ ३३.१ ॥ परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः ॥ ३३.२ ॥ तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते ॥ ३३.३ ॥ जातिभ्रंशकरेषु संकरीकरणेष्V अपात्रीकरणेषु ॥ ३३.४ ॥ मलावहेषु प्रकीर्णकेषु च ॥ ३३.५ ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् ॥ ३३.६ ॥ ३४ मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि ॥ ३४.१ ॥ अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् । न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन ॥ ३४.२ ॥ ३५ ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि ॥ ३५.१ ॥ तत्संयोगश्च ॥ ३५.२ ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ ३५.३ ॥ एकयानभोजनाशनशयनैः ॥ ३५.४ ॥ यौनस्रौवमुख्यैः संबन्धैस्तु सद्य एव ॥ ३५.५ ॥ अश्वमेधेन शुद्ध्येयुर्महापातकिनस्त्विमे । पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ३५.६ ॥ ३६ यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानीति ॥ ३६.१ ॥ कौटसाक्ष्यं सुहृद्वध इत्येतौ सुरापानसमौ ॥ ३६.२ ॥ ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् ॥ ३६.३ ॥ पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् ॥ ३६.४ ॥ पितृष्वसृमातृष्वसृस्वसृगमनं च ॥ ३६.५ ॥ श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च ॥ ३६.६ ॥ स्वसुः सख्याः सगोत्राय उत्तमवर्णायाः कुमार्या अन्त्यजाया रजस्वलायाः शरणागतायाः *प्रव्रजिताया निक्षिप्तायाश्च [प्रव्रजितायाः नि] ॥ ३६.७ ॥ अनुपातकिनस्त्वेते महापातकिनो यथा । अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा ॥ ३६.८ ॥ ३७ अनृतवचनमुत्कर्षे ॥ ३७.१ ॥ राजगामि पैशुन्यम् ॥ ३७.२ ॥ गुरोश्चालीकनिर्बन्धः ॥ ३७.३ ॥ वेदनिन्दा ॥ ३७.४ ॥ अधीतस्य च त्यागः ॥ ३७.५ ॥ अग्निपितृमातृसुतदाराणां च ॥ ३७.६ ॥ अभोज्यान्नाभक्ष्यभक्षणम् ॥ ३७.७ ॥ परस्वापहरणम् ॥ ३७.८ ॥ परदाराभिगमनम् ॥ ३७.९ ॥ अयाज्ययाजनम् ॥ ३७.१० ॥ विकर्मजीवनम् ॥ ३७.११ ॥ असत्प्रतिग्रहश्च ॥ ३७.१२ ॥ क्षत्रविट्शूद्रगोवधः ॥ ३७.१३ ॥ अविक्रेयविक्रयः ॥ ३७.१४ ॥ परिवित्तितानुजेन ज्येष्ठस्य ॥ ३७.१५ ॥ परिवेदनम् ॥ ३७.१६ ॥ तस्य च कन्यादानम् ॥ ३७.१७ ॥ याजनं च ॥ ३७.१८ ॥ व्रात्यता ॥ ३७.१९ ॥ भृतकाध्यापनम् ॥ ३७.२० ॥ भृतकाच्चाध्ययनादानम् ॥ ३७.२१ ॥ सर्वाकरेष्वधीकारः ॥ ३७.२२ ॥ महायन्त्रप्रवर्तनम् ॥ ३७.२३ ॥ द्रुमगुल्मवल्लीलतौषधीनां हिंसा ॥ ३७.२४ ॥ स्त्र्या जीवनम् ॥ ३७.२५ ॥ अभिचारबलकर्मसु च प्रवृत्तिः ॥ ३७.२६ ॥ आत्मार्थे क्रियारम्भः ॥ ३७.२७ ॥ अनाहिताग्निता ॥ ३७.२८ ॥ देवर्षिपितृऋणानामनपक्रिया ॥ ३७.२९ ॥ असत्शास्त्राभिगमनम् ॥ ३७.३० ॥ नास्तिकता ॥ ३७.३१ ॥ कुशीलवता ॥ ३७.३२ ॥ मद्यपस्त्रीनिषेवणम् ॥ ३७.३३ ॥ इत्युपपातकानि ॥ ३७.३४ ॥ उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः । पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा ॥ ३७.३६ ॥ ३८ ब्राह्मणस्य रुजः करणम् ॥ ३८.१ ॥ अघ्रेयमद्ययोर्घ्रातिः ॥ ३८.२ ॥ जैह्म्यम् ॥ ३८.३ ॥ पशुषु मैथुनाचरणम् ॥ ३८.४ ॥ पुंसि च ॥ ३८.५ ॥ इति जातिभ्रंशकराणि ॥ ३८.६ ॥ जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ३८.७ ॥ ३९ ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् ॥ ३९.१ ॥ संकरीकरणं कृत्वा मासमश्नीत यावकम् । कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं तु कारयेत् ॥ ३९.२ ॥ ४० निन्दितेभ्यो घनादानं वाणिज्यं कुसीदजीवनमसत्यभाषणं शूद्रसेवनमित्यपात्रीकरणम् ॥ ४०.१ ॥ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति । शीतकृच्छ्रेण वा भूयो महासांतपनेन वा ॥ ४०.२ ॥ ४१ पक्षिणां जलचराणां जलजानां च घातनम् ॥ ४१.१ ॥ क्रिमिकीटानां च ॥ ४१.२ ॥ मध्यानुगतभोजनम् ॥ ४१.३ ॥ इति मलावहानि ॥ ४१.४ ॥ मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विशोधनम् ॥ ४१.५ ॥ ४२ यदनुक्तं तत्प्रकीर्णकम् ॥ ४२.१ ॥ प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतो यथा ॥ ४२.२ ॥ ४३ अथ नरकाः ॥ ४३.१ ॥ तामिस्रम् ॥ ४३.२ ॥ अन्धतामिस्रम् ॥ ४३.३ ॥ रौरवम् ॥ ४३.४ ॥ महारौरवम् ॥ ४३.५ ॥ कालसूत्रम् ॥ ४३.६ ॥ महानरकम् ॥ ४३.७ ॥ संजीवनम् ॥ ४३.८ ॥ अवीचि ॥ ४३.९ ॥ तपनम् ॥ ४३.१० ॥ संप्रतापनम् ॥ ४३.११ ॥ संघातकम् ॥ ४३.१२ ॥ काकोलम् ॥ ४३.१३ ॥ कुड्मलम् ॥ ४३.१४ ॥ पूतिमृत्तिकम् ॥ ४३.१५ ॥ लोहशङ्कुः ॥ ४३.१६ ॥ ऋबीसम् ॥ ४३.१७ ॥ विषमपन्थाः ॥ ४३.१८ ॥ कण्टकशाल्मलिः ॥ ४३.१९ ॥ दीपनदी ॥ ४३.२० ॥ असिपत्रवनम् ॥ ४३.२१ ॥ लोहचारकमिति ॥ ४३.२२ ॥ एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ ४३.२३ ॥ महापातकिनो मन्वन्तरम् ॥ ४३.२४ ॥ अनुपातकिनश्च ॥ ४३.२५ ॥ उपपातकिनश्चतुर्युगम् ॥ ४३.२६ ॥ कृतसंकरीकरणाश्च संवत्सरसहस्रम् ॥ ४३.२७ ॥ कृतजातिभ्रंशकरणाश्च ॥ ४३.२८ ॥ कृतापात्रीकरणाश्च ॥ ४३.२९ ॥ कृतमलिनीकरणाश्च ॥ ४३.३० ॥ प्रकीर्णपातकिनश्च बहून् वर्षपूगान् ॥ ४३.३१ ॥ कृतपातकिनः पापाः प्राणत्यागादनन्तरम् । याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥ ४३.३२ ॥ यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः । सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥ ४३.३३ ॥ श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः । अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ॥ ४३.३४ ॥ अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः । क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ ४३.३५ ॥ क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा । पूयशोणितगन्धेन मूर्छमानाः पदे पदे ॥ ४३.३६ ॥ परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः । काककङ्कबकादीनां भीमानां सदृशाननैः ॥ ४३.३७ ॥ क्वचित्तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित् । आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥ ४३.३८ ॥ क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित् । क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥ ४३.३९ ॥ अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् । क्रिमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः सुदारुणैः ॥ ४३.४० ॥ क्वचिच्छीतेन बाध्यन्ते क्वचित्चामेध्यमध्यगाः । परस्परमथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ॥ ४३.४१ ॥ क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् । क्वचित्क्षिप्यन्ति बानौघैरुत्कृत्यन्ते तथा क्वचित् ॥ ४३.४२ ॥ कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः । पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ ४३.४३ ॥ भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः । कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥ ४३.४४ ॥ एवं पातकिनः पापमनुभूय सुदुःखिताः । तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥ ४३.४५ ॥ ४४ अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति ॥ ४४.१ ॥ अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ॥ ४४.२ ॥ महापातकिनां च क्रिमियोनयः ॥ ४४.३ ॥ अनुपातकिनां पक्षियोनयः ॥ ४४.४ ॥ उपपातकिनां जलजयोनयः ॥ ४४.५ ॥ कृतजातिभ्रंशकराणां जलचरयोनयः ॥ ४४.६ ॥ कृतसंकरीकरणकर्मणां मृगयोनयः ॥ ४४.७ ॥ कृतापात्रीकरणकर्मणां पशुयोनयः ॥ ४४.८ ॥ कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ॥ ४४.९ ॥ प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति ॥ ४४.१० ॥ अभोज्यान्नाभक्ष्याशी क्रिमिः ॥ ४४.११ ॥ स्तेनः श्येनः ॥ ४४.१२ ॥ प्रकृष्टवर्त्मापहारी बिलेशयः ॥ ४४.१३ ॥ आखुर्धान्यहारी ॥ ४४.१४ ॥ हंसः कांस्यापहारी ॥ ४४.१५ ॥ जलहृज्जलाभिप्लवः ॥ ४४.१६ ॥ मधु दंशः ॥ ४४.१७ ॥ पयः काकः ॥ ४४.१८ ॥ रसं श्वा ॥ ४४.१९ ॥ घृतं नकुलः ॥ ४४.२० ॥ मांसं गृध्रः ॥ ४४.२१ ॥ वसां मद्गुः ॥ ४४.२२ ॥ तैलं तैलपायिकः ॥ ४४.२३ ॥ लवणं चीविवाक् ॥ ४४.२४ ॥ दधि बलाका ॥ ४४.२५ ॥ कौशेयं हृत्वा भवति तित्तिरिः ॥ ४४.२६ ॥ क्षौमं दर्दुरः ॥ ४४.२७ ॥ कार्पासतान्तवं क्रौञ्चः ॥ ४४.२८ ॥ गोधा गाम् ॥ ४४.२९ ॥ वाल्गुदो गुडम् ॥ ४४.३० ॥ छुछुन्दरिर्गन्धान् ॥ ४४.३१ ॥ पत्रशाकं बर्ही ॥ ४४.३२ ॥ कृतान्नं सेधा ॥ ४४.३३ ॥ अकृतान्नं शल्यकः ॥ ४४.३४ ॥ अग्निं बकः ॥ ४४.३५ ॥ गृहकार्युपस्करम् ॥ ४४.३६ ॥ रक्तवासांसि जीवजीवकः ॥ ४४.३७ ॥ गजं कूर्मः ॥ ४४.३८ ॥ अश्वं व्याघ्रः ॥ ४४.३९ ॥ फलं पुष्पं वा मर्कटः ॥ ४४.४० ॥ ऋक्षः स्त्रियम् ॥ ४४.४१ ॥ यानमुष्ट्रः ॥ ४४.४२ ॥ पशून् गृध्रः ॥ ४४.४३ ॥ यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४.४४ ॥ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४४.४५ ॥ ४५ नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ ४५.१ ॥ कुष्ठ्यतिपातकी ॥ ४५.२ ॥ ब्रह्महा यक्ष्मी ॥ ४५.३ ॥ सुरापः श्यावदन्तकः ॥ ४५.४ ॥ सुवर्णहारी कुनखी ॥ ४५.५ ॥ गुरुतर्ल्पगो दुश्चर्मा ॥ ४५.६ ॥ पूतिनासः पिशुनः ॥ ४५.७ ॥ पूतिवक्त्रः सूचकः ॥ ४५.८ ॥ धान्यचोरोऽङ्गहीनः ॥ ४५.९ ॥ मिश्रचोरोऽतिरिक्ताङ्गः ॥ ४५.१० ॥ अन्नापहारकस्त्वामयावी ॥ ४५.११ ॥ वागपहारको मूकः ॥ ४५.१२ ॥ वस्त्रापहारकः श्वित्री ॥ ४५.१३ ॥ अश्वापहारकः पङ्गुः ॥ ४५.१४ ॥ देवब्राह्मणाक्रोशको मूकः ॥ ४५.१५ ॥ लोलजिह्वो गरदः ॥ ४५.१६ ॥ उन्मत्तोऽग्निदः ॥ ४५.१७ ॥ गुरोः प्रतिकूलोऽपस्मारी ॥ ४५.१८ ॥ गोघ्नस्त्वन्धः ॥ ४५.१९ ॥ दीपापहारकश्च ॥ ४५.२० ॥ काणश्च दीपनिर्वापकः ॥ ४५.२१ ॥ त्रपुचामरसीसकविक्रयी रजकः ॥ ४५.२२ ॥ एकशफविक्रयी मृगव्याधः ॥ ४५.२३ ॥ कुण्डाशी भगास्यः ॥ ४५.२४ ॥ घाण्टिकः स्तेनः ॥ ४५.२५ ॥ वार्धुषिको भ्रामरी ॥ ४५.२६ ॥ मृष्टाश्येकाकी वातगुल्मी ॥ ४५.२७ ॥ समयभेत्ता खल्वाटः ॥ ४५.२८ ॥ श्लीपद्यवकीर्णी ॥ ४५.२९ ॥ परवृत्तिघ्नो दरिद्रः ॥ ४५.३० ॥ परपीडाकरो दीर्घरोगी ॥ ४५.३१ ॥ एवं कर्मविशेषेण जायन्ते लक्षणान्विताः । रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः ॥ ४५.३२ ॥ वामना बधिरा मूका दुर्बलाश्च तथापरे । तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ४५.३३ ॥ ४६ अथ कृच्छ्राणि भवन्ति ॥ ४६.१ ॥ त्र्यहं नाश्नीयात् ॥ ४६.२ ॥ प्रत्यहं च त्रिषवणं स्नानमाचरेत् ॥ ४६.३ ॥ त्रिः प्रतिस्नानमप्सु मज्जनम् ॥ ४६.४ ॥ मग्नस्त्रिरघमर्षणं जपेत् ॥ ४६.५ ॥ दिवा स्थितस्तिष्ठेत् ॥ ४६.६ ॥ रात्रावासीनः ॥ ४६.७ ॥ कर्मणोऽन्ते पयस्विनीं दद्यात् ॥ ४६.८ ॥ इत्यघ्मर्षणम् ॥ ४६.९ ॥ त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयात् । एष प्राजापत्यः ॥ ४६.१० ॥ त्र्यहमुष्णाः पिबेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः ॥ ४६.११ ॥ एतैरेव शीतैः शीतकृच्छ्रः ॥ ४६.१२ ॥ कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणम् ॥ ४६.१३ ॥ उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः ॥ ४६.१४ ॥ बिसाभ्यवहारेण मूलकृच्छ्रः ॥ ४६.१५ ॥ बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः ॥ ४६.१६ ॥ पद्माक्षैर्वा ॥ ४६.१७ ॥ निराहारस्य द्वादशाहेन पराकः ॥ ४६.१८ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्येकदिवसमश्नीयात् । द्वितीयमुपवसेत् । एतत्सांतपनम् ॥ ४६.१९ ॥ गोमूत्रादिभिः प्रत्यहमभ्यस्तैर्महासांतपनम् ॥ ४६.२० ॥ त्र्यहाभ्यस्तैश्चातिसांतपनम् ॥ ४६.२१ ॥ पिण्याकाचामतक्रोदकसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुलापुरुषः ॥ ४६.२२ ॥ कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥ ४६.२३ ॥ कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः । नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ ४६.२४ ॥ स्त्रीशूद्रपतितानां च वर्जयेच्चातिभाषणम् । पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ॥ ४६.२५ ॥ ४७ अथ चान्द्रायणम् ॥ ४७.१ ॥ ग्रासानविकारानश्नीयात् ॥ ४७.२ ॥ तांश्चन्द्रकलाभिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां नाश्नीयात् । एष चान्द्रायणो यवमध्यः ॥ ४७.३ ॥ पिपीलिकामध्यो वा ॥ ४७.४ ॥ यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः ॥ ४७.५ ॥ यस्य पौर्णमासी स यवमध्यः ॥ ४७.६ ॥ अष्टौ ग्रासान् प्रतिदिवसं मासमश्नीयात्स यतिचान्द्रायणः ॥ ४७.७ ॥ सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः ॥ ४७.८ ॥ यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रायणः ॥ ४७.९ ॥ व्रतमेतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः । प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥ ४७.१० ॥ ४८ अथ कर्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् ॥ ४८.१ ॥ न ततोऽग्नौ जुहुयात् ॥ ४८.२ ॥ न चात्र बलिकर्म ॥ ४८.३ ॥ अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् ॥ ४८.४ ॥ श्रप्यमाणे रक्षां कुर्यात् ॥ ४८.५ ॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥ ४८.६ ॥ इति दर्भान् बध्नाति ॥ ४८.६ ॥ शृतं च तमश्नीयात्पात्रे निषिच्य ॥ ४८.७ ॥ ये देवा मनोजाता मोनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् ॥ ४८.८ ॥ अथाचान्तो नाभिमालभेत ॥ ४८.९ ॥ स्नाताः पीता भवत यूयमापोऽस्माकमुदरे यवाः, ता अस्मभ्यमनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृतामृतावृध इति ॥ ४८.१० ॥ त्रिरात्रं मेधार्थी ॥ ४८.११ ॥ षड्रात्रं पापकृत् ॥ ४८.१२ ॥ सप्तरात्रं पीत्वा महापातकिनामन्यतमं पुनाति ॥ ४८.१३ ॥ द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति ॥ ४८.१४ ॥ मासं पीत्वा सर्वपापानि ॥ ४८.१५ ॥ गोनिहारमुक्तानां यवानामेकविंशतिरात्रं च ॥ ४८.१६ ॥ यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिर्धृतम् ॥ ४८.१७ ॥ घृतं यवा मधु यवा आपो वा अमृतं यवाः । सर्वे पुनीत मे पापं यन्मे किंचन दुष्कृतम् ॥ ४८.१८ ॥ वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् । अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥ ४८.१९ ॥ श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् । मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम ॥ ४८.२० ॥ गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् । चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥ ४८.२१ ॥ बालधूर्तमधर्मं च राजद्वारकृतं च यत् । सुवर्णस्तैन्यमव्रात्यमयाज्यस्य च याजनम् । ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥ ४८.२२ ॥ ४९ मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं श्रीवासुदेवमर्चयेत् ॥ ४९.१ ॥ पुष्पधूपानुलेपनदीपनैवेद्यैः वह्निब्राह्मणतर्पणैश्च ॥ ४९.२ ॥ व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥ ४९.३ ॥ यावज्जीवं कृत्वा श्वेतद्वीपमाप्नोति ॥ ४९.४ ॥ उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकमाप्नोति ॥ ४९.५ ॥ यावज्जीवं कृत्वा विष्णुलोकम् ॥ ४९.६ ॥ एवमेव पञ्चदशीष्वपि ॥ ४९.७ ॥ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च । योगभूतं परिचरन् केशवं महदाप्नुयात् ॥ ४९.८ ॥ दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती । पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥ ४९.९ ॥ तस्यां दानोपवासाद्यमक्षयं परिकीर्तितम् । तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता ॥ ४९.१० ॥ ५० वने पर्णकुटीं कृत्वा वसेत् ॥ ५०.१ ॥ त्रिषवणं स्नायात् ॥ ५०.२ ॥ स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् ॥ ५०.३ ॥ तृणशायी च स्यात् ॥ ५०.४ ॥ एतन्महाव्रतम् ॥ ५०.५ ॥ ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् ॥ ५०.६ ॥ यागस्थं क्षत्रियं वैश्यं वा ॥ ५०.७ ॥ गुर्विणीं रजस्वलां वा ॥ ५०.८ ॥ अत्रिगोत्रां वा नारीम् ॥ ५०.९ ॥ मित्रं वा ॥ ५०.१० ॥ नृपतिवधे महाव्रतमेव द्विगुणं कुर्यात् ॥ ५०.११ ॥ पादोनं क्षत्रियवधे ॥ ५०.१२ ॥ अर्धं वैश्यवधे ॥ ५०.१३ ॥ तदर्धं शूद्रवधे ॥ ५०.१४ ॥ सर्वेषु शवशिरोध्वजी स्यात् ॥ ५०.१५ ॥ मासमेकं कृतवापनो गवामनुगमनं कुर्यात् ॥ ५०.१६ ॥ तास्वासीनास्वासीत ॥ ५०.१७ ॥ स्थितासु स्थितश्च स्यात् ॥ ५०.१८ ॥ सन्नां चोद्धरेत् ॥ ५०.१९ ॥ भयेभ्यश्च रक्षेत् ॥ ५०.२० ॥ तासां शीतादित्राणमकृत्वा नात्मनः कुर्यात् ॥ ५०.२१ ॥ गोमूत्रेण स्नायात् ॥ ५०.२२ ॥ गोरसैश्च वर्तेत ॥ ५०.२३ ॥ एतद्गोव्रतं गोवधे कुर्यात् ॥ ५०.२४ ॥ गजं हत्वा पञ्च नीलवृषभान् दद्यात् ॥ ५०.२५ ॥ तुरगं वासः ॥ ५०.२६ ॥ एकहायनमनड्वाहं खरवधे ॥ ५०.२७ ॥ मेषाजवधे च ॥ ५०.२८ ॥ सुवर्णकृष्णलमुष्ट्रवधे ॥ ५०.२९ ॥ श्वानं हत्वा त्रिरात्रमुपवसेत् ॥ ५०.३० ॥ हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ॥ ५०.३१ ॥ गोधोलूककाकझषवधे त्रिरात्रमुपवसेत् ॥ ५०.३२ ॥ हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानामन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ ५०.३३ ॥ सर्पं हत्वाभ्रीं कार्ष्णायसीं दद्यात् ॥ ५०.३४ ॥ षण्ढं हत्वा पलालभारकम् ॥ ५०.३५ ॥ वराहं हत्वा घृतकुम्भम् ॥ ५०.३६ ॥ तित्तिरिं तिलद्रोणम् ॥ ५०.३७ ॥ शुकं द्विहायनवत्सम् ॥ ५०.३८ ॥ क्रौञ्चं त्रिहायनम् ॥ ५०.३९ ॥ क्रव्यादमृगवधे पयस्विनीं गां दद्यात् ॥ ५०.४० ॥ अक्रव्यादमृगवधे वत्सतरीम् ॥ ५०.४१ ॥ अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत ॥ ५०.४२ ॥ पक्षिवधे नक्ताशी स्यात् ॥ ५०.४३ ॥ रूप्यमाषं वा दद्यात् ॥ ५०.४४ ॥ हत्वा जलचरमुपवसेत् ॥ ५०.४५ ॥ अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ५०.४६ ॥ किंचिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्ह्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ५०.४७ ॥ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ५०.४८ ॥ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ५०.४९ ॥ कृष्टजानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः ॥ ५०.५० ॥ ५१ सुरापः सर्वकर्मवर्जितः कणान् वर्षमश्नीयात् ॥ ५१.१ ॥ मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥ ५१.२ ॥ लशुनपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च ॥ ५१.३ ॥ सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् ॥ ५१.४ ॥ वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि ॥ ५१.५ ॥ शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रमुपवसेत् ॥ ५१.६ ॥ गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ॥ ५१.७ ॥ तक्षकान्नं चर्मकर्तुश्च ॥ ५१.८ ॥ वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां च ॥ ५१.९ ॥ पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च ॥ ५१.१० ॥ अवीरस्त्री सुवर्णकारसपत्नपतितानां च ॥ ५१.११ ॥ पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणां च ॥ ५१.१२ ॥ शैलूषतन्तुवायकृतघ्नरजकानां च ॥ ५१.१३ ॥ कर्मकारनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां च ॥ ५१.१४ ॥ श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च ॥ ५१.१५ ॥ रजस्वलासहोपपतिवेश्मानां च ॥ ५१.१६ ॥ भ्रूणघ्नावेक्षितमुदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च ॥ ५१.१७ ॥ कामतः पदा स्पृष्टमवक्षुतम् ॥ ५१.१८ ॥ मत्तक्रुद्धातुराणां च ॥ ५१.१९ ॥ अनर्चितं वृथा मांसं च ॥ ५१.२० ॥ पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् ॥ ५१.२१ ॥ सर्वजलजमांसाशने च ॥ ५१.२२ ॥ आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् ॥ ५१.२३ ॥ मद्यभाण्डस्थाश्च पञ्चरात्रम् ॥ ५१.२४ ॥ सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनमाचरेत् ॥ ५१.२५ ॥ खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्यात् ॥ ५१.२६ ॥ प्राश्याज्ञातं सूनास्थं शुष्कमांसं च ॥ ५१.२७ ॥ क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् ॥ ५१.२८ ॥ कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाबकबलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत् ॥ ५१.२९ ॥ एकशफोभयदन्ताशने च ॥ ५१.३० ॥ तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रम् ॥ ५१.३१ ॥ कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ॥ ५१.३२ ॥ शुनां मांसाशने च ॥ ५१.३३ ॥ छत्राककवकाशने सांतपनम् ॥ ५१.३४ ॥ यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवं च वर्जयित्वा यत्पर्युषितं तत्प्राश्योपवसेत् ॥ ५१.३५ ॥ व्रश्चनामेध्यप्रभवान् लोहितांश्च वृक्षनिर्यासान् ॥ ५१.३६ ॥ शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ॥ ५१.३७ ॥ गोअजामहिषीवर्जं सर्वपयांसि च ॥ ५१.३८ ॥ अनिर्दशाहानि तान्यपि ॥ ५१.३९ ॥ स्यन्दिनीसन्धिनीविवत्साक्षीरं च ॥ ५१.४० ॥ अमेध्यभुजश्च ॥ ५१.४१ ॥ दधिवर्जं केवलानि च शुक्तानि ॥ ५१.४२ ॥ ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् ॥ ५१.४३ ॥ दिनमेकं चोदके वसेत् ॥ ५१.४४ ॥ मधुमांसाशने प्राजापत्यम् ॥ ५१.४५ ॥ बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् ॥ ५१.४६ ॥ श्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिबेत् ॥ ५१.४७ ॥ पञ्चनखविण्मूत्राशने सप्तरात्रम् ॥ ५१.४८ ॥ आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ॥ ५१.४९ ॥ ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रम् ॥ ५१.५० ॥ वैश्योच्छिष्टाशने पञ्चरात्रम् ॥ ५१.५१ ॥ राजन्योच्छिष्टाशने त्रिरात्रम् ॥ ५१.५२ ॥ ब्राह्मणोच्छिष्टाशने त्वेकाहम् ॥ ५१.५३ ॥ राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम् ॥ ५१.५४ ॥ वैश्योच्छिष्टाशी त्रिरात्रम् ॥ ५१.५५ ॥ वैश्यः शूद्रोच्छिष्टाशी च ॥ ५१.५६ ॥ चण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् ॥ ५१.५७ ॥ सिद्धं भुक्त्वा पराकः ॥ ५१.५८ ॥ असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५१.५९ ॥ यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ५१.६० ॥ यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ५१.६१ ॥ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथा मांसानि खादतः ॥ ५१.६२ ॥ ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ ५१.६३ ॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ॥ ५१.६४ ॥ यज्ञार्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः । आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥ ५१.६५ ॥ गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ५१.६६ ॥ या वेदविहिता हिंसा नियतास्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ५१.६७ ॥ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ ५१.६८ ॥ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ५१.६९ ॥ यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च । तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥ ५१.७० ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५१.७१ ॥ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५१.७२ ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५१.७३ ॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ५१.७४ ॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितॄन् देवान्न ततोऽन्योऽस्त्यपुण्यकृत् ॥ ५१.७५ ॥ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५१.७६ ॥ फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५१.७७ ॥ मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५१.७८ ॥ ५२ सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलमर्पयेत् ॥ ५२.१ ॥ वधात्त्यागाद्वा प्रयतो भवति ॥ ५२.२ ॥ महाव्रतं द्वादशाब्दानि वा कुर्यात् ॥ ५२.३ ॥ निक्षेपापहारी च ॥ ५२.४ ॥ धान्यधनापहारी च कृच्छ्रमब्दम् ॥ ५२.५ ॥ मनुष्यस्त्रीकूपक्षेत्रवापीनामपहारे चान्द्रायणम् ॥ ५२.६ ॥ द्रव्याणामल्पसाराणां सांतपनम् ॥ ५२.७ ॥ भक्ष्यभोज्ययानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानम् ॥ ५२.८ ॥ तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रमुपवसेत् ॥ ५२.९ ॥ मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् ॥ ५२.१० ॥ कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत ॥ ५२.११ ॥ द्विशफैकशफापहरणे द्विरात्रमुपवसेत् ॥ ५२.१२ ॥ पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत् ॥ ५२.१३ ॥ दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः । प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये ॥ ५२.१४ ॥ यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः । तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ॥ ५२.१५ ॥ जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ । तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥ ५२.१६ ॥ प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा । महद्दुःखमवाप्नोति धनहिंसापरस्तयोः ॥ ५२.१७ ॥ ५३ अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् ॥ ५३.१ ॥ परदारगमने च ॥ ५३.२ ॥ गोव्रतं गोगमने च ॥ ५३.३ ॥ पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत् ॥ ५३.४ ॥ चण्डालीगमने तत्साम्यमाप्नुयात् ॥ ५३.५ ॥ अज्ञानतश्चान्द्रायणद्वयं कुर्यात् ॥ ५३.६ ॥ पशुवेश्यागमने च प्राजापत्यम् ॥ ५३.७ ॥ सकृद्दुष्टा च स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् ॥ ५३.८ ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः । तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ५३.९ ॥ ५४ यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् ॥ ५४.१ ॥ मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रमुपवसेत् ॥ ५४.२ ॥ द्व्यहं राजन्यः ॥ ५४.३ ॥ एकाहं वैश्यः ॥ ५४.४ ॥ शूद्रो नक्तम् ॥ ५४.५ ॥ सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः ॥ ५४.६ ॥ पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् । उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥ ५४.७ ॥ पर्वानारोग्यवर्जमृताववगच्छन् पत्नीं त्रिरात्रमुपवसेत् ॥ ५४.८ ॥ कूटसाक्षी ब्रह्महत्याव्रतं चरेत् ॥ ५४.९ ॥ अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च ॥ ५४.१० ॥ सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतमावर्तयेत् ॥ ५४.११ ॥ श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीमासाद्य षोडश प्राणायामान् कुर्यात् ॥ ५४.१२ ॥ वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्ष्येण वर्तेत ॥ ५४.१३ ॥ समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत ॥ ५४.१४ ॥ नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्ष्येण वर्तेरन् ॥ ५४.१५ ॥ परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात् ॥ ५४.१६ ॥ प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् ॥ ५४.१७ ॥ आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् ॥ ५४.१८ ॥ श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौदुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् ॥ ५४.१९ ॥ रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रमुपवसेत् ॥ ५४.२० ॥ मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् ॥ ५४.२१ ॥ तं च भूयश्चोपनयेत् ॥ ५४.२२ ॥ उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं कुर्यात् ॥ ५४.२३ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ ५४.२४ ॥ अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ५४.२५ ॥ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ५४.२६ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ५४.२७ ॥ यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥ ५४.२८ ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ५४.२९ ॥ अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । *कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् [कुच्छ्र] ॥ ५४.३० ॥ एनस्विभिर्निर्णिक्तैर्नार्थं किंचित्समाचरेत् । कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥ ५४.३१ ॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ५४.३२ ॥ अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ५४.३३ ॥ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ॥ ५४.३४ ॥ ५५ अथ रहस्यप्रायश्चित्तानि भवन्ति ॥ ५५.१ ॥ स्रवन्तीमासाद्य स्नातः प्रत्यहं षोडश प्राणायामान् सलक्षणान् कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति ॥ ५५.२ ॥ कर्मणोऽन्ते पयस्विनीं गां दद्यात् ॥ ५५.३ ॥ व्रतेनाघमर्षणेन च सुरापः पूतो भवति ॥ ५५.४ ॥ गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् ॥ ५५.५ ॥ त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ॥ ५५.६ ॥ यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः । तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥ ५५.७ ॥ प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये । दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥ ५५.८ ॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ५५.९ ॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ ५५.१० ॥ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ ५५.११ ॥ एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् । संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ ५५.१२ ॥ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ ५५.१३ ॥ एतत्त्रयविसंयुक्तः काले च क्रियया स्वया । विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु ॥ ५५.१४ ॥ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् ॥ ५५.१५ ॥ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ५५.१६ ॥ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते ॥ ५५.१७ ॥ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥ ५५.१८ ॥ विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ ५५.१९ ॥ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ ५५.२० ॥ जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ५५.२१ ॥ ५६ अथाथः सर्ववेदपवित्राणि भवन्ति ॥ ५६.१ ॥ येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते ॥ ५६.२ ॥ अघमर्षणम् ॥ ५६.३ ॥ देवकृतम् ॥ ५६.४ ॥ शुद्धवत्यः ॥ ५६.५ ॥ तरत्समन्दीयम् ॥ ५६.६ ॥ कूश्माण्ड्यः ॥ ५६.७ ॥ पावमान्यः ॥ ५६.८ ॥ दुर्गासावित्री ॥ ५६.९ ॥ अतीषङ्गाः ॥ ५६.१० ॥ पदस्तोमाः ॥ ५६.११ ॥ समानि व्याहृतयः ॥ ५६.१२ ॥ भारुण्डाणि ॥ ५६.१३ ॥ चन्द्रसाम ॥ ५६.१४ ॥ पुरुषव्रते सामनी ॥ ५६.१५ ॥ अब्लिङ्गम् ॥ ५६.१६ ॥ बार्हस्पत्यम् ॥ ५६.१७ ॥ गोसूक्तम् ॥ ५६.१८ ॥ अश्वसूक्तम् ॥ ५६.१९ ॥ सामनी चन्द्रसूक्ते च ॥ ५६.२० ॥ शतरुद्रियम् ॥ ५६.२१ ॥ अथर्वशिरः ॥ ५६.२२ ॥ त्रिसुपर्णम् ॥ ५६.२३ ॥ महाव्रतम् ॥ ५६.२४ ॥ नारायणीयम् ॥ ५६.२५ ॥ पुरुषसूक्तं च ॥ ५६.२६ ॥ त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च । एतानि गीतानि पुनाति जन्तून् जातिस्मरत्वं लभते यदीच्छेत् ॥ ५६.२७ ॥ ५७ अथ त्याज्याः ॥ ५७.१ ॥ व्रात्याः ॥ ५७.२ ॥ पतिताः ॥ ५७.३ ॥ त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः ॥ ५७.४ ॥ सर्व एवाभोज्याश्चाप्रतिग्राह्याः ॥ ५७.५ ॥ अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ॥ ५७.६ ॥ प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ॥ ५७.७ ॥ द्रव्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति ॥ ५७.८ ॥ प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकमवाप्नोति ॥ ५७.९ ॥ एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकंश्चाभ्युद्यतान्न निर्णुदेत् ॥ ५७.१० ॥ आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् । ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ॥ ५७.११ ॥ नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ ५७.१२ ॥ गुरून् भृत्यानुज्जिहीर्षुरर्चिष्यन् पितृदेवताः । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ ५७.१३ ॥ एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे । नादद्यात्कुलटाषण्ढ- पतितेभ्यस्तथा द्विषः ॥ ५७.१४ ॥ गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥ ५७.१५ ॥ अर्धिकः कुलमित्रं च दासगोपालनापिताः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ ५७.१६ ॥ ५८ अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति ॥ ५८.१ ॥ शुक्लः शबलोऽसितश्च ॥ ५८.२ ॥ शुक्लेनार्थेन यद्+और्ध्वदेहिकं करोति तेनास्य देवत्वमासादयति ॥ ५८.३ ॥ यच्छबलेन तन्मानुष्यम् ॥ ५८.४ ॥ यत्कृष्णेन तत्तिर्यक्त्वम् ॥ ५८.५ ॥ स्ववृत्त्युपार्जितं सर्वेषां शुक्लम् ॥ ५८.६ ॥ अनन्तरवृत्त्युपात्तं शबलम् ॥ ५८.७ ॥ एकान्तरितवृत्त्युपात्तं च कृष्णम् ॥ ५८.८ ॥ क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया । अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ ५८.९ ॥ उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रयैः । कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ ५८.१० ॥ पार्श्विकद्यूतचौर्याप्त प्रतिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ ५८.११ ॥ यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ ५८.१२ ॥ ५९ गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान् कुर्यात् ॥ ५९.१ ॥ सायं प्रातश्चाग्निहोत्रम् ॥ ५९.२ ॥ *देवताभ्यो जुहुयात्[देवाताभ्यो] ॥ ५९.३ ॥ चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत ॥ ५९.४ ॥ प्रत्ययनं पशुना ॥ ५९.५ ॥ शरद्ग्रीष्मयोश्च आग्रयणेन ॥ ५९.६ ॥ व्रीहियवयोर्वा पाके ॥ ५९.७ ॥ त्रैवार्षिकाभ्यधिकान्नः ॥ ५९.८ ॥ प्रत्यब्दं सोमेन ॥ ५९.९ ॥ वित्ताभावे इष्ट्या वैश्वानर्या ॥ ५९.१० ॥ यज्ञार्थं भिक्षितमवाप्तमर्थं सकलमेव वितरेत् ॥ ५९.११ ॥ सायं प्रातर्वैश्वदेवं जुहुयात् ॥ ५९.१२ ॥ भिक्षां च भिक्षवे दद्यात् ॥ ५९.१३ ॥ अर्चितभिक्षादानेन गोदानफलमाप्नोति ॥ ५९.१४ ॥ भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् ॥ ५९.१५ ॥ वह्नौ वा प्रक्षिपेत् ॥ ५९.१६ ॥ भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥ ५९.१७ ॥ कण्डनी पेषणी चुल्ली उदकुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य ॥ ५९.१८ ॥ तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान् कुर्यात् ॥ ५९.१९ ॥ स्वाध्यायो ब्रह्मयज्ञः ॥ ५९.२० ॥ होमो दैवः ॥ ५९.२१ ॥ पितृतर्पणं पित्र्यः ॥ ५९.२२ ॥ बलिर्भौतः ॥ ५९.२३ ॥ नृयज्ञश्चातिथिपूजनम् ॥ ५९.२४ ॥ देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ५९.२५ ॥ ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । तस्मादभ्यागतानेतान् गृहस्थो नावमानयेत् ॥ ५९.२६ ॥ गृहस्थ एव यजते गृहस्थस्तप्यते तपः । प्रददाति गृहस्थश्च तस्माच्छ्रेष्ठो गृहाश्रमी ॥ ५९.२७ ॥ ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी ॥ ५९.२८ ॥ त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च । स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति ॥ ५९.२९ ॥ ६० ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥ ६०.१ ॥ दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥ ६०.२ ॥ नाप्रच्छादितायां भूमौ ॥ ६०.३ ॥ न फालकृष्टायाम् ॥ ६०.४ ॥ न छायायाम् ॥ ६०.५ ॥ न चोषरे ॥ ६०.६ ॥ न शाद्वले ॥ ६०.७ ॥ न ससत्त्वे ॥ ६०.८ ॥ न गर्ते ॥ ६०.९ ॥ न वल्मीके ॥ ६०.१० ॥ न पथि ॥ ६०.११ ॥ न रथ्यायाम् ॥ ६०.१२ ॥ न पराशुचौ ॥ ६०.१३ ॥ नोद्याने ॥ ६०.१४ ॥ नोद्यानोद्कसमीपयोः ॥ ६०.१५ ॥ न भस्मनि ॥ ६०.१६ ॥ नाङ्गारे ॥ ६०.१७ ॥ न गोमये ॥ ६०.१८ ॥ न गोव्रजे ॥ ६०.१९ ॥ नाकाशे ॥ ६०.२० ॥ नोदके ॥ ६०.२१ ॥ न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम् ॥ ६०.२२ ॥ नैवानवगुण्ठितशिराः ॥ ६०.२३ ॥ लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥ ६०.२४ ॥ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥ ६०.२५ ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ ६०.२६ ॥ ६१ अथ पालाशं दन्तधावनं नाद्यात् ॥ ६१.१ ॥ नैव श्लेष्मातकारिष्टविभीतकधवधन्वनजम् ॥ ६१.२ ॥ न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् ॥ ६१.३ ॥ न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् ॥ ६१.४ ॥ न पारिभद्रकाम्लिकामोचकशाल्मलीशणजम् ॥ ६१.५ ॥ न मधुरम् ॥ ६१.६ ॥ नाम्लम् ॥ ६१.७ ॥ नोर्ध्वशुष्कम् ॥ ६१.८ ॥ न सुषिरम् ॥ ६१.९ ॥ न पूतिगन्धि ॥ ६१.१० ॥ न पिच्छिलम् ॥ ६१.११ ॥ न दक्षिणापराभिमुखः ॥ ६१.१२ ॥ अद्याच्चोदङ्मुखः प्राङ्मुखो वा ॥ ६१.१३ ॥ वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानामन्यतमम् ॥ ६१.१४ ॥ कषायं तिक्तं कटुकं च ॥ ६१.१५ ॥ कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् । प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥ ६१.१६ ॥ प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः । अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन ॥ ६१.१७ ॥ ६२ अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम् ॥ ६२.१ ॥ अङ्गुष्ठमूले ब्राह्मम् ॥ ६२.२ ॥ अङ्गुल्यग्रे दैवम् ॥ ६२.३ ॥ तर्जनीमूले पित्र्यम् ॥ ६२.४ ॥ अनग्न्युष्णाभिरफेनिलाभिः अशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् ॥ ६२.५ ॥ ब्राह्मेण तीर्थेन त्रिराचामेत् ॥ ६२.६ ॥ द्विः प्रमृज्यात् ॥ ६२.७ ॥ खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् ॥ ६२.८ ॥ हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः । शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ ६२.९ ॥ ६३ अथ योगक्षेमार्थमीश्वरमभिगच्छेत् ॥ ६३.१ ॥ नैकोऽध्वानं प्रपद्येत ॥ ६३.२ ॥ नाधार्मिकैः सार्धम् ॥ ६३.३ ॥ न वृषलैः ॥ ६३.४ ॥ न द्विषद्भिः ॥ ६३.५ ॥ नातिप्रत्यूषसि ॥ ६३.६ ॥ नातिसायम् ॥ ६३.७ ॥ न संध्ययोः ॥ ६३.८ ॥ न मध्याह्ने ॥ ६३.९ ॥ न संनिहितपानीयम् ॥ ६३.१० ॥ नातितूर्णम् ॥ ६३.११ ॥ न सततं बालव्याधितार्तैर्वाहनैः ॥ ६३.१२ ॥ न हीनाङ्गैः ॥ ६३.१३ ॥ न दीनैः ॥ ६३.१४ ॥ न गोभिः ॥ ६३.१५ ॥ नादान्तैः ॥ ६३.१६ ॥ यवसोदके वाहनानामदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात् ॥ ६३.१७ ॥ न चतुष्पथमधितिष्ठेत् ॥ ६३.१८ ॥ न रात्रौ वृक्षमूले ॥ ६३.१९ ॥ न शून्यालयम् ॥ ६३.२० ॥ न तृणम् ॥ ६३.२१ ॥ न पशूनां बन्धनागारम् ॥ ६३.२२ ॥ न केशतुषकपालास्थिभस्माङ्गारान् ॥ ६३.२३ ॥ न कार्पासास्थि ॥ ६३.२४ ॥ चतुष्पथं प्रकक्षिणीकुर्यात् ॥ ६३.२५ ॥ देवतार्चां च ॥ ६३.२६ ॥ प्रज्ञातांश्च वनस्प्तीन् ॥ ६३.२७ ॥ अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च ॥ ६३.२८ ॥ तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च ॥ ६३.२९ ॥ वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च ॥ ६३.३० ॥ उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च ॥ ६३.३१ ॥ भृङ्गारोद्धृतोर्वराबद्धैकपशुकुमारीमीनांश्च दृष्ट्वा प्रयायादिति ॥ ६३.३२ ॥ अथ मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्तेत ॥ ६३.३३ ॥ वान्तविरिक्तमुण्डजटिलवामनांश्च ॥ ६३.३४ ॥ काषायिप्रव्रजितमलिनांश्च ॥ ६३.३५ ॥ तैलगुडशुष्कगोमयेन्धनतृणपलाशभस्माङ्गारांश्च ॥ ६३.३६ ॥ लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च ॥ ६३.३७ ॥ वीनाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकाले अभिनन्दयेदिति ॥ ६३.३८ ॥ देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् ॥ ६३.३९ ॥ निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानोदकानि च ॥ ६३.४० ॥ न वत्सतन्त्रीं लङ्घयेत् ॥ ६३.४१ ॥ प्रवर्षति न धावेत् ॥ ६३.४२ ॥ न वृथा नदीं तरेत् ॥ ६३.४३ ॥ न देवताभ्यः पितृभ्यश्चोदकमप्रदाय ॥ ६३.४४ ॥ न बाहुभ्याम् ॥ ६३.४५ ॥ न भिन्नया नावा ॥ ६३.४६ ॥ न कूलमधितिष्ठेत् ॥ ६३.४७ ॥ न कूपमवलोकयेत् ॥ ६३.४८ ॥ न लङ्घयेत् ॥ ६३.४९ ॥ वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् । पन्था देया नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ॥ ६३.५० ॥ ६४ परनिपानेषु न स्नानमाचरेत् ॥ ६४.१ ॥ आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि ॥ ६४.२ ॥ नाजीर्णे ॥ ६४.३ ॥ न चातुरः ॥ ६४.४ ॥ न नग्नः ॥ ६४.५ ॥ न रात्रौ ॥ ६४.६ ॥ राहुदर्शनवर्जम् ॥ ६४.७ ॥ न संध्ययोः ॥ ६४.८ ॥ प्रातःस्नानशीलोऽरुणताम्रां प्राचीमालोक्य स्नायात् ॥ ६४.९ ॥ स्नातः शिरो नावधुनेत् ॥ ६४.१० ॥ नाङ्गेभ्यस्तोयमुद्धरेत् ॥ ६४.११ ॥ न तैलवत्संस्पृशेत् ॥ ६४.१२ ॥ नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् ॥ ६४.१३ ॥ स्नात एव सोष्णीषे धौते वाससी बिभृयात् ॥ ६४.१४ ॥ न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् ॥ ६४.१५ ॥ स्नायात्प्रस्रवणदेवखातसरोवरेषु ॥ ६४.१६ ॥ उद्धृतात्भूमिष्ठमुदकं पुण्यं, स्थावरात्प्रस्रवत्, तस्मान्नादेयं, तस्मादपि साधुपरिगृहीतं, सर्वत एव गाङ्गम् ॥ ६४.१७ ॥ मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदमापः प्रवहतेति च तीर्थमभिमन्त्रयेत् ॥ ६४.१८ ॥ ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् ॥ ६४.१९ ॥ तद्विष्णोः परमं पदमिति वा ॥ ६४.२० ॥ द्रुपदां सावित्रीं च ॥ ६४.२१ ॥ युञ्जते मन इत्यनुवाकं वा ॥ ६४.२२ ॥ पुरुषसूक्तं वा ॥ ६४.२३ ॥ स्नातश्चार्द्रवासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् ॥ ६४.२४ ॥ परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य ॥ ६४.२५ ॥ अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् ॥ ६४.२६ ॥ स्नात्वाचम्य विधिवदुपस्पृशेत् ॥ ६४.२७ ॥ पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥ ६४.२८ ॥ उदकाञ्जलींश्च ॥ ६४.२९ ॥ आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ॥ ६४.३० ॥ तदनन्तरं पित्र्येण पितॄणाम् ॥ ६४.३१ ॥ तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् ॥ ६४.३२ ॥ ततः संबन्धिबान्धवानाम् ॥ ६४.३३ ॥ ततः सुहृदाम् ॥ ६४.३४ ॥ एवं नित्यस्नायी स्यात् ॥ ६४.३५ ॥ स्नातश्च पवित्राणि यथाशक्ति जपेत् ॥ ६४.३६ ॥ विशेषतः सावित्रीम् ॥ ६४.३७ ॥ पुरुषसूक्तं च ॥ ६४.३८ ॥ नैताभ्यामधिकमस्ति ॥ ६४.३९ ॥ स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिबोधिते ॥ ६४.४० ॥ अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् । अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ॥ ६४.४१ ॥ याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति । नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥ ६४.४२ ॥ ६५ अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्चयेत् ॥ ६५.१ ॥ अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ ६५.२ ॥ आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् ॥ ६५.३ ॥ हिरण्यवर्णा इति चतसृभिः पाद्यम् ॥ ६५.४ ॥ शं न आपो धन्वन्या इत्याचमनीयम् ॥ ६५.५ ॥ इदमापः प्रवहतेति स्नानीयम् ॥ ६५.६ ॥ रथे अक्षेषु व्र्षभस्य वाजे इत्यनुलेपनालंकारौ ॥ ६५.७ ॥ युवा सुवासा इति वासः ॥ ६५.८ ॥ पुष्पावतीरिति पुष्पम् ॥ ६५.९ ॥ धूरसि धूर्वेति धूपम् ॥ ६५.१० ॥ तेजोऽसि शुक्रमिति दीपम् ॥ ६५.११ ॥ दधिक्राव्ण इति मधुपर्कम् ॥ ६५.१२ ॥ हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यम् ॥ ६५.१३ ॥ चामरं व्यजनं मात्रां छत्रं यानासने तथा । सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥ ६५.१४ ॥ एवमभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः । तेनैव चाज्यं जुहुयाद्यदीच्छेच्छाश्वतं पदम् ॥ ६५.१५ ॥ ६६ न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् ॥ ६६.१ ॥ चदनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात् ॥ ६६.२ ॥ न वासो नीलीरक्तम् ॥ ६६.३ ॥ न मणिसुवर्णयोः प्रतिरूपमलंकरणम् ॥ ६६.४ ॥ नोग्रघन्धि ॥ ६६.५ ॥ नागन्धि ॥ ६६.६ ॥ न कण्टकिजम् ॥ ६६.७ ॥ कण्टकिजमपि शुक्लं सुगन्धिकं तु दद्यात् ॥ ६६.८ ॥ रक्तमपि कुङ्कुमं जलजं च दद्यात् ॥ ६६.९ ॥ न धूपार्थे जीवजातम् ॥ ६६.१० ॥ न घृततैलं विना किंचन दीपार्थे ॥ ६६.११ ॥ नाभक्ष्यं नैवेद्यार्थे ॥ ६६.१२ ॥ न भक्ष्ये अप्यजामहिषीक्षीरे ॥ ६६.१३ ॥ पञ्चनखमत्स्यवराहमांसानि च ॥ ६६.१४ ॥ प्रयतश्च शुचिर्भूत्वा सर्वमेव निवेदयेत् । तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥ ६६.१६ ॥ ६७ अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात् ॥ ६७.१ ॥ वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय ॥ ६७.२ ॥ अथाग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥ ६७.३ ॥ ततोऽन्नशेषेण बलिमुपहरेत् ॥ ६७.४ ॥ भक्षोपभक्षाभ्याम् ॥ ६७.५ ॥ अभितः पूर्वेणाग्निम् ॥ ६७.६ ॥ अम्बा नामासीति, दुला नामासीति, नितन्ती नामासीति, चुपुणीका नामासीति सर्वासाम् ॥ ६७.७ ॥ नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति स्वश्रिष्वभिप्रदक्षिणम् ॥ ६७.८ ॥ स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च ॥ ६७.९ ॥ धर्माधर्मयोर्द्वारे मृत्यवे च ॥ ६७.१० ॥ उदधाने वरुणाय ॥ ६७.११ ॥ विष्णव इत्युलूखले ॥ ६७.१२ ॥ मरुद्भ्य इति दृषदि ॥ ६७.१३ ॥ उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च ॥ ६७.१४ ॥ इन्द्रायेन्द्रपुरुषेभ्यश्चेति पूर्वार्धे ॥ ६७.१५ ॥ यमाय यमपुरुषेभ्य इति दक्षिनार्धे ॥ ६७.१६ ॥ वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे ॥ ६७.१७ ॥ सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे ॥ ६७.१८ ॥ ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ ६७.१९ ॥ ऊर्ध्वमाकाशाय ॥ ६७.२० ॥ स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा ॥ ६७.२१ ॥ नक्तंचरेभ्य इति नक्तम् ॥ ६७.२२ ॥ ततो *दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नामगोत्राभ्यां च पिण्डनिर्वापणं कुर्यात्[दक्षिणग्रेषु] ॥ ६७.२३ ॥ पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् ॥ ६७.२४ ॥ उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत् ॥ ६७.२५ ॥ श्वकाकश्वपचानां भुवि निर्वपेत् ॥ ६७.२६ ॥ भिक्षां च दद्यात् ॥ ६७.२७ ॥ अतिथिपूजने च परं यत्नमातिष्ठेत ॥ ६७.२८ ॥ सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् ॥ ६७.२९ ॥ अनाशितमतिथिं गृहे न वासयेत् ॥ ६७.३० ॥ यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः ॥ ६७.३१ ॥ तत्पूजया स्वर्गमाप्नोति ॥ ६७.३२ ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । तस्मात्सुकृतमादाय दुष्कृतं तु प्रयच्छति ॥ ६७.३३ ॥ एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ६७.३४ ॥ नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा । उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा ॥ ६७.३५ ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः । भुक्तवत्सु च विप्रेसु कामं तमपि भोजयेत् ॥ ६७.३६ ॥ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ६७.३७ ॥ इतरानपि सख्यादीन् संप्रीत्या गृहमागतान् । प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ६७.३८ ॥ स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ ६७.३९ ॥ अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । भुञ्जानो न स जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ६७.४० ॥ भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ॥ ६७.४१ ॥ देवान् पितॄन्मनुष्यांश्च भृत्यान् गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ६७.४२ ॥ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ६७.४३ ॥ स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा । न चाप्नोति गृही लोकान् यथा त्वतिथिपूजनात् ॥ ६७.४४ ॥ सायं प्रातस्त्वतिथये प्रदद्यादासनोदके । अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥ ६७.४५ ॥ प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् । प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥ ६७.४६ ॥ ६८ चन्द्रार्कोपरागे नाश्नीयात् ॥ ६८.१ ॥ स्नात्वा मुक्तयोरश्नीयात् ॥ ६८.२ ॥ अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ॥ ६८.३ ॥ न गोब्राह्मणोपरागेऽश्नीयात् ॥ ६८.४ ॥ न राज्ञो व्यसने ॥ ६८.५ ॥ प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् ॥ ६८.६ ॥ यदा कृतं मन्येत वैश्वदेवमपि ॥ ६८.७ ॥ पर्वणि च यदा कृतं मन्येत पर्व ॥ ६८.८ ॥ नाश्नीयाच्चाजीर्णे ॥ ६८.९ ॥ नार्धरात्रे ॥ ६८.१० ॥ न मद्याह्ने ॥ ६८.११ ॥ न संध्ययोः ॥ ६८.१२ ॥ नार्द्रवासाः ॥ ६८.१३ ॥ नैकवासाः ॥ ६८.१४ ॥ न नग्नः ॥ ६८.१५ ॥ नोदके ॥ ६८.१६ ॥ नोत्कुटकः ॥ ६८.१७ ॥ न भिन्नासनगतः ॥ ६८.१८ ॥ न च शयनगतः ॥ ६८.१९ ॥ न भिन्नभोजने ॥ ६८.२० ॥ नोत्सङ्गे ॥ ६८.२१ ॥ न भुवि ॥ ६८.२२ ॥ न पाणौ ॥ ६८.२३ ॥ लवणं च यत्र दद्यात्तन्नाश्नीयात् ॥ ६८.२४ ॥ न बालकान्निर्भत्सेयन् ॥ ६८.२५ ॥ नैको मृष्टम् ॥ ६८.२६ ॥ नोद्धृतस्नेहम् ॥ ६८.२७ ॥ न दिवा धानाः ॥ ६८.२८ ॥ न रात्रौ तिलसंबन्धम् ॥ ६८.२९ ॥ न दधिसक्तून् ॥ ६८.३० ॥ न कोविदारवटपिप्पलशाणशाकम् ॥ ६८.३१ ॥ नादत्त्वा ॥ ६८.३२ ॥ नाहुत्वा ॥ ६८.३३ ॥ नानार्द्रपादः ॥ ६८.३४ ॥ नानार्द्रकरमुखश्च ॥ ६८.३५ ॥ नोच्छिष्टश्च घृतमादद्यात् ॥ ६८.३६ ॥ न चन्द्रार्कतारका निरीक्षेत ॥ ६८.३७ ॥ न मूर्धानं स्पृशेत् ॥ ६८.३८ ॥ न ब्रह्म कीर्तयेत् ॥ ६८.३९ ॥ प्राङ्मुखोऽश्नीयात् ॥ ६८.४० ॥ दक्षिणामुखो वा ॥ ६८.४१ ॥ अभिपूज्यान्नम् ॥ ६८.४२ ॥ सुमनाः स्रग्व्यनुलिप्तश्च ॥ ६८.४३ ॥ न निःशेषकृत्स्यात् ॥ ६८.४४ ॥ अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ॥ ६८.४५ ॥ नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः । बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस्तथा ॥ ६८.४६ ॥ शून्यालये वह्निगृहे देवागारे कथंचन । पिबेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ ६८.४७ ॥ न तृतीयमथाश्नीत न चापथ्यं कथंचन । नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ६८.४८ ॥ न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते । शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ६८.४९ ॥ ६९ नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् ॥ ६९.१ ॥ न श्राद्धं भुक्त्वा ॥ ६९.२ ॥ न दत्त्वा ॥ ६९.३ ॥ नोपनिमन्त्रितः श्राद्धे ॥ ६९.४ ॥ न व्रती ॥ ६९.५ ॥ न दीक्षितः ॥ ६९.६ ॥ न देवायतनश्मशानशून्यालयेषु ॥ ६९.७ ॥ न वृक्षमूलेषु ॥ ६९.८ ॥ न दिवा ॥ ६९.९ ॥ न संध्ययोः ॥ ६९.१० ॥ न मलिनाम् ॥ ६९.११ ॥ न मलिनः ॥ ६९.१२ ॥ नाभ्यक्ताम् ॥ ६९.१३ ॥ नाभ्यक्तः ॥ ६९.१४ ॥ न रोगार्ताम् ॥ ६९.१५ ॥ न रोगार्तः ॥ ६९.१६ ॥ न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् । नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः ॥ ६९.१७ ॥ ७० नार्द्रपादः सुप्यात् ॥ ७०.१ ॥ नोत्तरापरशिराः ॥ ७०.२ ॥ न नग्नः ॥ ७०.३ ॥ नानुवंशम् ॥ ७०.४ ॥ नाकाशे ॥ ७०.५ ॥ न पालाशे शयने ॥ ७०.६ ॥ न पञ्चदारुकृते ॥ ७०.७ ॥ न गजभग्नकृते ॥ ७०.८ ॥ न विद्युद्दग्धकृते ॥ ७०.९ ॥ न भिन्ने ॥ ७०.१० ॥ नाग्निपृष्ठे ॥ ७०.११ ॥ न घटासिक्तद्रुमजे ॥ ७०.१२ ॥ न श्मशानशून्यालयदेवतायतनेषु ॥ ७०.१३ ॥ न चपलमध्ये ॥ ७०.१४ ॥ न नारीमध्ये ॥ ७०.१५ ॥ न धान्यगोगुरुहुताशनसुराणामुपरि ॥ ७०.१६ ॥ नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि । देशे न च अशुचौ नार्द्रे न च पर्वतमस्तके ॥ ७०.१७ ॥ ७१ अथ न कंचनावमन्येत ॥ ७१.१ ॥ न च हीनाधिकाङ्गान्मूर्खान् धनहीनानवहसेत् ॥ ७१.२ ॥ न हीनान् सेवेत ॥ ७१.३ ॥ स्वाध्यायविरोधि कर्म नाचरेत् ॥ ७१.४ ॥ वयोऽनुरूपं वेषं कुर्यात् ॥ ७१.५ ॥ श्रुतस्याभिजनस्य धनस्य देशस्य च ॥ ७१.६ ॥ नोद्धतः ॥ ७१.७ ॥ नित्यं शास्त्राद्यवेक्षी स्यात् ॥ ७१.८ ॥ सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ७१.९ ॥ न नास्तीत्यभिभाषेत ॥ ७१.१० ॥ न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ॥ ७१.११ ॥ बिभृयाज्जलजं रक्तमपि ॥ ७१.१२ ॥ यष्टिं च वैणवीम् ॥ ७१.१३ ॥ कमण्डलुं च सोदकम् ॥ ७१.१४ ॥ कार्पासमुपवीतम् ॥ ७१.१५ ॥ रौक्मे च कुण्डले ॥ ७१.१६ ॥ नादित्यमुद्यन्तमीक्षेत ॥ ७१.१७ ॥ नास्तं यान्तम् ॥ ७१.१८ ॥ न वाससा तिरोहितम् ॥ ७१.१९ ॥ न चादर्शजलमध्यस्थम् ॥ ७१.२० ॥ न मध्याह्ने ॥ ७१.२१ ॥ न क्रुद्धस्य गुरोर्मुखम् ॥ ७१.२२ ॥ न तैलोदकयोः स्वां छायाम् ॥ ७१.२३ ॥ न मलवत्यादर्शे ॥ ७१.२४ ॥ न पत्नीं भोजनसमये ॥ ७१.२५ ॥ न स्त्रियं नग्नाम् ॥ ७१.२६ ॥ न कंचन मेहमानम् ॥ ७१.२७ ॥ न चालानभ्रष्टं कुञ्जरम् ॥ ७१.२८ ॥ न च विषमस्थो वृषादियुद्धम् ॥ ७१.२९ ॥ नोन्मत्तम् ॥ ७१.३० ॥ न मत्तम् ॥ ७१.३१ ॥ नामेध्यमग्नौ प्रक्षिपेत् ॥ ७१.३२ ॥ नासृक् ॥ ७१.३३ ॥ न विषम् ॥ ७१.३४ ॥ अम्भस्यापि ॥ ७१.३५ ॥ नाग्निं लङ्घयेत् ॥ ७१.३६ ॥ न पादौ प्रतापयेत् ॥ ७१.३७ ॥ न कुशेषु परिमृज्यात् ॥ ७१.३८ ॥ न कांस्यभाजने धावयेत् ॥ ७१.३९ ॥ न पादं पादेन ॥ ७१.४० ॥ न भुवमालिखेत् ॥ ७१.४१ ॥ न लोष्टमर्दी स्यात् ॥ ७१.४२ ॥ न तृणच्छेदी स्यात् ॥ ७१.४३ ॥ न दन्तैर्नखलोमानि छिन्द्यात् ॥ ७१.४४ ॥ द्यूतं च वर्जयेत् ॥ ७१.४५ ॥ बालातपसेवां व ॥ ७१.४६ ॥ वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ॥ ७१.४७ ॥ न शूद्राय मतिं दद्यात् ॥ ७१.४८ ॥ नोच्छिष्टहविषी ॥ ७१.४९ ॥ न तिलान् ॥ ७१.५० ॥ न चास्योपदिशेद्धर्मम् ॥ ७१.५१ ॥ न व्रतम् ॥ ७१.५२ ॥ न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ ७१.५३ ॥ न दधिसुमनसी प्रत्याचक्षीत ॥ ७१.५४ ॥ नात्मनः स्रजमपकर्षेत् ॥ ७१.५५ ॥ सुप्तं न प्रबोधयेत् ॥ ७१.५६ ॥ न रक्तं विरागयेत् ॥ ७१.५७ ॥ नोदक्यामभिभाषेत ॥ ७१.५८ ॥ न म्लेच्छान्त्यजान् ॥ ७१.५९ ॥ अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत् ॥ ७१.६० ॥ न परक्षेत्रे चरन्तीं गामाचक्षीत ॥ ७१.६१ ॥ न पिबन्तं वत्सकम् ॥ ७१.६२ ॥ नोद्धतान् प्रहर्षयेत् ॥ ७१.६३ ॥ न शूद्रराज्ये निवसेत् ॥ ७१.६४ ॥ नाधार्मिकजनाकीर्णे ॥ ७१.६५ ॥ न संवसेद्वैद्यहीने ॥ ७१.६६ ॥ नोपसृष्टे ॥ ७१.६७ ॥ न चिरं पर्वते ॥ ७१.६८ ॥ न वृथाचेष्टां कुर्यात् ॥ ७१.६९ ॥ न नृत्यगीते ॥ ७१.७० ॥ नास्फोटनम् ॥ ७१.७१ ॥ नाश्लीलं कीर्तयेत् ॥ ७१.७२ ॥ नानृतम् ॥ ७१.७३ ॥ नाप्रियम् ॥ ७१.७४ ॥ न कंचिन्मर्मणि स्पृशेत् ॥ ७१.७५ ॥ नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ॥ ७१.७६ ॥ चिरं संध्योपासनं कुर्यात् ॥ ७१.७७ ॥ न सर्पशस्त्रैः कृईडेत् ॥ ७१.७८ ॥ अनिमित्ततः खानि न स्पृशेत् ॥ ७१.७९ ॥ परस्य दण्डं नोद्यच्छेत् ॥ ७१.८० ॥ शास्यं शासनार्थं ताडयेत् ॥ ७१.८१ ॥ तं वेणुदलेन रज्ज्वा वा पृष्ठे ॥ ७१.८२ ॥ देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ॥ ७१.८३ ॥ धर्मविरुद्धौ चार्थकामौ ॥ ७१.८४ ॥ लोकविद्विष्टं च धर्ममपि ॥ ७१.८५ ॥ पर्वसु च शान्तिहोमान् कुर्यात् ॥ ७१.८६ ॥ न तृणमपि छिन्द्यात् ॥ ७१.८७ ॥ अलंकृतश्च तिष्ठेत् ॥ ७१.८८ ॥ एवमाचारसेवी स्यात् ॥ ७१.८९ ॥ श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् । तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ७१.९० ॥ आचाराल्लभते चायुराचारादीप्सितां गतिम् । आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ७१.९१ ॥ सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः । श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ७१.९३ ॥ ७२ दमयमेन तिष्ठेत् ॥ ७२.१ ॥ दमश्चेन्द्रियाणां प्रकीर्तितः ॥ ७२.२ ॥ दान्तस्यायं लोकः परश्च ॥ ७२.३ ॥ नादान्तस्य क्रिया काचित्समृध्यति ॥ ७२.४ ॥ दमः पवित्रं परमं मङ्गल्यं परमं दमः । दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ७२.५ ॥ दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना । तं चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ॥ ७२.६ ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७२.७ ॥ ७३ अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् ॥ ७३.१ ॥ द्वितीयेऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान् सुस्नातान् स्वाचान्तान् यथाभूयो वयःक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् ॥ ७३.२ ॥ द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् ॥ ७३.३ ॥ एकैकमुभयत्र वेति ॥ ७३.४ ॥ आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा ॥ ७३.५ ॥ पशुश्राद्धेषु मध्यमपञ्चकेन ॥ ७३.६ ॥ अमावास्यासूत्तमपञ्चकेन ॥ ७३.७ ॥ आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः ॥ ७३.८ ॥ अन्वष्टकासु च ॥ ७३.९ ॥ ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् ॥ ७३.१० ॥ अपयन्त्वसुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ॥ ७३.११ ॥ एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा, कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान् समभ्यर्च्य घृतप्लुतमन्नमादाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् ॥ ७३.१२ ॥ ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् ॥ ७३.१३ ॥ पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु ॥ ७३.१४ ॥ तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् ॥ ७३.१५ ॥ इतिहासपुराणधर्मशास्त्राणि चेति ॥ ७३.१६ ॥ उच्छिष्टसंनिधौ दक्षिनाग्रेषु कुशेषु पृथिवी दर्विरक्षिता इत्येकं पिण्डं पित्रे निदध्यात् ॥ ७३.१७ ॥ अन्तरिक्षं दर्विरक्षिता इत्य्द्वितीयं पिण्डं पितामहाय ॥ ७३.१८ ॥ द्यौर्दर्विरक्षिता इति तृतीयं प्रपितामहाय ॥ ७३.१९ ॥ ये अत्र पितरः प्रेता इति वासो देयम् ॥ ७३.२० ॥ वीरान्नः पितरो धत्त इत्यन्नम् ॥ ७३.२१ ॥ अत्र पितरो मादयध्वं यथाभागमिति दर्भमूले करावघर्षणम् ॥ ७३.२२ ॥ ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ॥ ७३.२३ ॥ उदकपात्रं मधुघृततिलैः संयुक्तं च ॥ ७३.२४ ॥ भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु, मा मे क्षेष्थेत्यन्नं सतृणमभ्युक्ष्यान्नविकिरमुच्छिष्टाग्रतः कृत्वा, तृप्ता भवन्तः संपन्नमिति च पृष्ट्वा उदङ्मुखेष्वाचमनमादौ दत्त्वा, ततः प्राङ्मुखेषु दत्त्वा, ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य, दर्भपाणिः सर्वं कुर्यात् ॥ ७३.२५ ॥ ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथाशक्तिदक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्युक्त्वा, तैरुक्तेऽभिरताः स्म इति, देवाश्च पितरश्चेत्यभिजपेत् ॥ ७३.२६ ॥ अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत ॥ ७३.२७ ॥ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ ७३.२८ ॥ तथास्त्विति ब्रूयुः ॥ ७३.२९ ॥ अन्नं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥ ७३.३० ॥ इत्येताभ्यामाशिषः प्रतिगृह्य ॥ ७३.३१ ॥ वाजे वाज इत्य्च ततो ब्राह्मणांश्च विसर्जयेत् । पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ ७३.३२ ॥ ७४ अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वान्वष्टकास्वष्टकावद्वह्नौ हुत्वा दैवपूर्वमेव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्ब्राह्मणान् भोजयित्वा दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य विसर्जयेत् ॥ ७४.१ ॥ ततः कर्षूः कुर्यात् ॥ ७४.२ ॥ तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् ॥ ७४.३ ॥ कर्षूत्रयमूले पुरुषाणां कर्षूत्रयमूले स्त्रीणाम् ॥ ७४.४ ॥ पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् ॥ ७४.५ ॥ स्त्रीकर्षूत्रयं सान्नेन पयसा ॥ ७४.६ ॥ दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयम् ॥ ७४.७ ॥ पूरयित्वा जपेदेतद्भवद्भ्यो भवतीब्योऽस्तु चाक्षयम् ॥ ७४.८ ॥ ७५ पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् ॥ ७५.१ ॥ पितरि पितामहे च जीवति येषां पितामहः ॥ ७५.२ ॥ पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् ॥ ७५.३ ॥ यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् ॥ ७५.४ ॥ यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् ॥ ७५.५ ॥ यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ॥ ७५.६ ॥ मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ७५.७ ॥ ७६ अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति ॥ ७६.१ ॥ एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ ७६.२ ॥ ७७ आदित्यसंक्रमणम् ॥ ७७.१ ॥ विषुवद्द्वयम् ॥ ७७.२ ॥ विशेषेणायनद्वयम् ॥ ७७.३ ॥ व्यतीपातः ॥ ७७.४ ॥ जन्मर्क्षम् ॥ ७७.५ ॥ अभ्युदयश्च ॥ ७७.६ ॥ एतांस्तु श्राद्धकालान् वै काम्यानाह प्रजापतिः । श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥ ७७.७ ॥ संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ ७७.८ ॥ राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् । गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ॥ ७७.९ ॥ ७८ सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति ॥ ७८.१ ॥ सौभाग्यं चान्द्रे ॥ ७८.२ ॥ समरविजयं कौजे ॥ ७८.३ ॥ सर्वान् कामान् बौधे ॥ ७८.४ ॥ विद्यामभीष्टां जैवे ॥ ७८.५ ॥ धनं शौक्रे ॥ ७८.६ ॥ जीवितं शनैश्चरे ॥ ७८.७ ॥ स्वर्गं कृत्तिकासु ॥ ७८.८ ॥ अपत्यं रोहिणीषु ॥ ७८.९ ॥ ब्रह्मवर्चस्यं सौम्ये ॥ ७८.१० ॥ कर्मसिद्धिं रौद्रे ॥ ७८.११ ॥ भुवं पुनर्वसौ ॥ ७८.१२ ॥ पुष्टिं पुष्ये ॥ ७८.१३ ॥ श्रियं सार्पे ॥ ७८.१४ ॥ सर्वान् कामान् पैत्र्ये ॥ ७८.१५ ॥ सौभाग्यं भाग्ये ॥ ७८.१६ ॥ धनमायमणे ॥ ७८.१७ ॥ ज्ञातिश्रैष्ठ्यं हस्ते ॥ ७८.१८ ॥ रूपवतः सुतांस्त्वाष्ट्रे ॥ ७८.१९ ॥ वाणिज्यसिद्धिं स्वातौ ॥ ७८.२० ॥ कनकं विशाखासु ॥ ७८.२१ ॥ मित्राणि मैत्रे ॥ ७८.२२ ॥ राज्यं शाक्रे ॥ ७८.२३ ॥ कृषिं मूले ॥ ७८.२४ ॥ समुद्रयानसिद्धिमाप्ये ॥ ७८.२५ ॥ सर्वान् कामान् वैश्वदेवे ॥ ७८.२६ ॥ श्रैष्ठ्यमभिजिति ॥ ७८.२७ ॥ सर्वान् कामान् श्रवणे ॥ ७८.२८ ॥ लवणं वासवे ॥ ७८.२९ ॥ आरोग्यं वारुणे ॥ ७८.३० ॥ कुप्यद्रव्यमाजे ॥ ७८.३१ ॥ गृहमाहिर्बुध्न्ये ॥ ७८.३२ ॥ गाः पौष्णे ॥ ७८.३३ ॥ तुरङ्गमानाश्विने ॥ ७८.३४ ॥ जीवितं याम्ये ॥ ७८.३५ ॥ गृहं सुरूपाः स्त्रियः प्रतिपदि ॥ ७८.३६ ॥ कन्यां वरदां द्वितीयायाम् ॥ ७८.३७ ॥ सर्वान् कामांस्तृतीयायाम् ॥ ७८.३८ ॥ पशूंश्चतुर्थ्याम् ॥ ७८.३९ ॥ सुरूपान् सुतान् पञ्चम्याम् ॥ ७८.४० ॥ द्यूतविजयं षष्ठ्याम् ॥ ७८.४१ ॥ कृषिं सप्तम्याम् ॥ ७८.४२ ॥ वाणिज्यमष्टम्याम् ॥ ७८.४३ ॥ पशून्नवम्याम् ॥ ७८.४४ ॥ वाजिनो दशम्याम् ॥ ७८.४५ ॥ पुत्रान् ब्रह्मवर्चस्विन एकादश्याम् ॥ ७८.४६ ॥ कनकरजतं द्वादश्याम् ॥ ७८.४७ ॥ साउभाग्यं त्रयोदश्याम् ॥ ७८.४८ ॥ सर्वान् कामान् पञ्चदश्याम् ॥ ७८.४९ ॥ शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥ ७८.५० ॥ अपि पितृगीते गाथे भवतः ॥ ७८.५१ ॥ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ७८.५२ ॥ मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ ७८.५३ ॥ ७९ अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् ॥ ७९.१ ॥ कुशाभावे कुशस्थाने काशान् दूर्वां वा दद्यात् ॥ ७९.२ ॥ वासोऽर्थे कार्पासोत्थं सूत्रम् ॥ ७९.३ ॥ दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात् ॥ ७९.४ ॥ उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि ॥ ७९.५ ॥ शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ॥ ७९.६ ॥ वसां मेदं च दीपार्थे न दद्यात् ॥ ७९.७ ॥ घृतं तैलं वा दद्यात् ॥ ७९.८ ॥ जीवजं सर्वं धूपार्थे न दद्यात् ॥ ७९.९ ॥ मधुघृतसंयुक्तं गुग्गुलुं दद्यात् ॥ ७९.१० ॥ चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे ॥ ७९.११ ॥ न प्रत्यक्षलवणं दद्यात् ॥ ७९.१२ ॥ हस्तेन च घृतव्यञ्जनादि ॥ ७९.१३ ॥ तैजसानि पात्राणि दद्यात् ॥ ७९.१४ ॥ विशेषतो राजतानि ॥ ७९.१५ ॥ खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् ॥ ७९.१६ ॥ पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् ॥ ७९.१७ ॥ राजमाषमसूरपर्युषितकृतलवणानि च ॥ ७९.१८ ॥ कोपं परिहरेत् ॥ ७९.१९ ॥ नाश्रु पातयेत् ॥ ७९.२० ॥ न त्वरां कुर्यात् ॥ ७९.२१ ॥ घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि ॥ ७९.२२ ॥ अत्र च श्लोको भवति ॥ ७९.२३ ॥ सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा । दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ ७९.२४ ॥ ८० तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते ॥ ८०.१ ॥ द्वौ मासौ मत्स्यमांसेन ॥ ८०.२ ॥ त्रीन् हारिणेन ॥ ८०.३ ॥ चतुरश्चौरभ्रेण ॥ ८०.४ ॥ पञ्च शाकुनेन ॥ ८०.५ ॥ षट्छागेन ॥ ८०.६ ॥ सप्त रौरवेण ॥ ८०.७ ॥ अष्टौ पार्षतेन ॥ ८०.८ ॥ नव गावयेन ॥ ८०.९ ॥ दश माहिषेण ॥ ८०.१० ॥ एकादश तूपरेणाजेन ॥ ८०.११ ॥ संवत्सरं गव्येन पयसा तद्विकारैर्वा ॥ ८०.१२ ॥ अत्र पितृगीता गाथा भवति ॥ ८०.१३ ॥ कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च । विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे ॥ ८०.१४ ॥ ८१ नान्नमासनमारोपयेत् ॥ ८१.१ ॥ न पदा स्पृशेत् ॥ ८१.२ ॥ नावक्षुतं कुर्यात् ॥ ८१.३ ॥ तिलैः सर्षपैर्वा यातुधानान् विसर्जयेत् ॥ ८१.४ ॥ संवृते च श्राद्धं कुर्यात् ॥ ८१.५ ॥ न रजस्वलां पश्येत् ॥ ८१.६ ॥ न श्वानम् ॥ ८१.७ ॥ न विड्वराहम् ॥ ८१.८ ॥ न ग्रामकुक्कुटम् ॥ ८१.९ ॥ प्रयत्नात्श्राद्धमजस्य दर्शयेत् ॥ ८१.१० ॥ अश्नीयुर्ब्राह्मणाश्च वाग्यताः ॥ ८१.११ ॥ न वेष्टितशिरसः ॥ ८१.१२ ॥ न सोपानत्काः ॥ ८१.१३ ॥ न पीठोपहितपादाः ॥ ८१.१४ ॥ न हीनाङ्गा अधिकाङ्गाः श्राद्धं पश्येयुः ॥ ८१.१५ ॥ न शूद्राः ॥ ८१.१६ ॥ न पतिताः ॥ ८१.१७ ॥ न महारोगिणः ॥ ८१.१८ ॥ तत्कालं ब्राह्मणं ब्राह्मणानुमतेन भिक्षुकं वा पूजयेत् ॥ ८१.१९ ॥ हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः ॥ ८१.२० ॥ यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः । तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ ८१.२१ ॥ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि ॥ ८१.२२ ॥ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ ८१.२३ ॥ उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ ८१.२४ ॥ ८२ दैवे कर्मणि ब्राह्मणं न परीक्षेत ॥ ८२.१ ॥ प्रयत्नात्पित्र्ये परीक्षेत ॥ ८२.२ ॥ हीनाधिकाङ्गान् विवर्जयेत् ॥ ८२.३ ॥ विकर्मस्थांश्च ॥ ८२.४ ॥ बैडालव्रतिकान् ॥ ८२.५ ॥ वृथालिङ्गिनः ॥ ८२.६ ॥ नक्षत्रजीविनः ॥ ८२.७ ॥ देवलकांश्च ॥ ८२.८ ॥ चिकित्सकान् ॥ ८२.९ ॥ अनूढापुत्रान् ॥ ८२.१० ॥ तत्पुत्रान् ॥ ८२.११ ॥ बहुयाजिनः ॥ ८२.१२ ॥ ग्रामयाजिनः ॥ ८२.१३ ॥ शूद्रयाजिनः ॥ ८२.१४ ॥ अयाज्ययाजिनः ॥ ८२.१५ ॥ व्रात्यान् ॥ ८२.१६ ॥ तद्याजिनः ॥ ८२.१७ ॥ पर्वकारान् ॥ ८२.१८ ॥ सूचकान् ॥ ८२.१९ ॥ भृतकाध्यापकान् ॥ ८२.२० ॥ भृतकाध्यापितान् ॥ ८२.२१ ॥ शूद्रान्नपुष्टान् ॥ ८२.२२ ॥ पतितसंसर्गान् ॥ ८२.२३ ॥ अनधीयानान् ॥ ८२.२४ ॥ संध्योपासनभ्रष्टान् ॥ ८२.२५ ॥ राजसेवकान् ॥ ८२.२६ ॥ नग्नान् ॥ ८२.२७ ॥ पित्रा विवदमानान् ॥ ८२.२८ ॥ पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्च ॥ ८२.२९ ॥ ब्राह्मणापशदा ह्येते कथिताः पङ्क्तिदूषकाः । एतान् विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ॥ ८२.३० ॥ ८३ अथ पङ्क्तिपावनाः ॥ ८३.१ ॥ त्रिणाचिकेतः ॥ ८३.२ ॥ पञ्चाग्निः ॥ ८३.३ ॥ ज्येष्ठसामगः ॥ ८३.४ ॥ वेदपारगः ॥ ८३.५ ॥ वेदाङ्गस्याप्येकस्य पारगः ॥ ८३.६ ॥ पुराणेतिहासव्याकरणपारगः ॥ ८३.७ ॥ धर्मशास्त्रस्याप्येकस्य पारगः ॥ ८३.८ ॥ तीर्थपूतः ॥ ८३.९ ॥ यज्ञपूतः ॥ ८३.१० ॥ तपःपूतः ॥ ८३.११ ॥ सत्यपूतः ॥ ८३.१२ ॥ मन्त्रपूतः ॥ ८३.१३ ॥ गायत्रीजपनिरतः ॥ ८३.१४ ॥ ब्रह्मदेयानुसंतानः ॥ ८३.१५ ॥ त्रिसुपर्णः ॥ ८३.१६ ॥ जामाता ॥ ८३.१७ ॥ दौहित्रश्चेति पात्रम् ॥ ८३.१८ ॥ विशेषेण च योगिनः ॥ ८३.१९ ॥ अत्र पितृगीता गाथा भवति ॥ ८३.२० ॥ अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् । विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ ८३.२१ ॥ ८४ न म्लेच्छविषये श्राद्धं कुर्यात् ॥ ८४.१ ॥ न गच्छेन्म्लेच्छविषयम् ॥ ८४.२ ॥ परनिपानेष्वपः पीत्वा तत्साम्यमुपगच्छतीति ॥ ८४.३ ॥ चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । स म्लेच्छदेशो जिज्ञेय आर्यावर्तस्ततः परः ॥ ८४.४ ॥ ८५ अथ पुष्करेष्वक्षयं श्राद्धम् ॥ ८५.१ ॥ जप्यहोमतपांसि च ॥ ८५.२ ॥ पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ॥ ८५.३ ॥ एवमेव गयाशीर्षे ॥ ८५.४ ॥ वटे ॥ ८५.५ ॥ अमरकण्टकपर्वते ॥ ८५.६ ॥ वराहपर्वते ॥ ८५.७ ॥ यत्र क्वचन नर्मदातीरे ॥ ८५.८ ॥ यमुनातीरे ॥ ८५.९ ॥ गङ्गायां विशेषतः ॥ ८५.१० ॥ कुशावर्ते ॥ ८५.११ ॥ बिन्दुके ॥ ८५.१२ ॥ नीलपर्वते ॥ ८५.१३ ॥ कनखले ॥ ८५.१४ ॥ कुब्जाम्रे ॥ ८५.१५ ॥ भृगुतुङ्गे ॥ ८५.१६ ॥ केदारे ॥ ८५.१७ ॥ महालये ॥ ८५.१८ ॥ नडन्तिकायाम् ॥ ८५.१९ ॥ सुगन्धायाम् ॥ ८५.२० ॥ शाकंभर्याम् ॥ ८५.२१ ॥ फल्गुतीर्थे ॥ ८५.२२ ॥ महागङ्गायाम् ॥ ८५.२३ ॥ त्रिहलिकाग्रामे ॥ ८५.२४ ॥ कुमारधारायाम् ॥ ८५.२५ ॥ प्रभासे ॥ ८५.२६ ॥ यत्र क्वचन सरस्वत्यां विशेषतः ॥ ८५.२७ ॥ गङ्गाद्वारे ॥ ८५.२८ ॥ प्रयागे च ॥ ८५.२९ ॥ गङ्गासागरसंगमे ॥ ८५.३० ॥ सततं नैमिषारण्ये ॥ ८५.३१ ॥ वाराणस्यां विशेषतः ॥ ८५.३२ ॥ अगस्त्याश्रमे ॥ ८५.३३ ॥ कण्Vआश्रमे ॥ ८५.३४ ॥ कौशिक्याम् ॥ ८५.३५ ॥ सरयूतीरे ॥ ८५.३६ ॥ शोणस्य ज्योतिषायाश्च संगमे ॥ ८५.३७ ॥ श्रीपर्वते ॥ ८५.३८ ॥ कालोदके ॥ ८५.३९ ॥ उत्तरमानसे ॥ ८५.४० ॥ बडबायाम् ॥ ८५.४१ ॥ मतङ्गवाप्याम् ॥ ८५.४२ ॥ सप्तार्षे ॥ ८५.४३ ॥ विष्णुपदे ॥ ८५.४४ ॥ स्वर्गमार्गपदे ॥ ८५.४५ ॥ गोदावर्याम् ॥ ८५.४६ ॥ गोमत्याम् ॥ ८५.४७ ॥ वेत्रवत्याम् ॥ ८५.४८ ॥ विपाशायाम् ॥ ८५.४९ ॥ वितस्तायाम् ॥ ८५.५० ॥ शतद्रूतीरे ॥ ८५.५१ ॥ चन्द्रभागायाम् ॥ ८५.५२ ॥ इरावत्याम् ॥ ८५.५३ ॥ सिन्धोस्तीरे ॥ ८५.५४ ॥ दक्षिणे पञ्चनदे ॥ ८५.५५ ॥ औसजे ॥ ८५.५६ ॥ एवमादिष्वथान्येषु तीर्थेषु ॥ ८५.५७ ॥ सरिद्वरासु ॥ ८५.५८ ॥ सर्वेष्वपि स्वभावेषु ॥ ८५.५९ ॥ पुलिनेषु ॥ ८५.६० ॥ प्रस्रवणेषु ॥ ८५.६१ ॥ पर्वतेषु ॥ ८५.६२ ॥ निकुञ्जेषु ॥ ८५.६३ ॥ वनेषु ॥ ८५.६४ ॥ उपवनेषु ॥ ८५.६५ ॥ गोमयेनोपलिप्तेषु गृहेषु ॥ ८५.६६ ॥ मनोज्ञेषु ॥ ८५.६७ ॥ अत्र च पितृगीता गाथा भवन्ति ॥ ८५.६८ ॥ कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् । नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ८५.६९ ॥ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ८५.७० ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८५.७१ ॥ ८६ अथ वृषोत्सर्गः ॥ ८६.१ ॥ कार्त्तिक्यामाश्वयुज्यां वा ॥ ८६.२ ॥ तत्रादावेव वृषभं परीक्षेत ॥ ८६.३ ॥ जीवद्वत्सायाः पयस्विन्याः पुत्रम् ॥ ८६.४ ॥ सर्वलक्षणोपेतम् ॥ ८६.५ ॥ नीलम् ॥ ८६.६ ॥ लोहितं वा मुखपुच्छपादशृङ्गशुक्लम् ॥ ८६.७ ॥ यूथस्याच्छादकम् ॥ ८६.८ ॥ ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् ॥ ८६.९ ॥ एकस्मिन् पार्श्वे चक्रेणापरस्मिन् पार्श्वे शूलेन ॥ ८६.१० ॥ अङ्कितं च हिरण्यवर्णेति चतसृभिः शं नो देवीरिति च स्नापयेत् ॥ ८६.११ ॥ स्नातमलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धमानीय रुद्रान् पुरुषसूक्तं कूश्माण्डीश्च जपेत् ॥ ८६.१२ ॥ पिता वत्सानामिति वृषभस्य दक्षिणे कर्णे पठेत् ॥ ८६.१३ ॥ इमं च ॥ ८६.१४ ॥ वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥ ८६.१५ ॥ एतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरत प्रियेण । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ ८६.१६ ॥ वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि । होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यमेव च ॥ ८६.१७ ॥ अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् । भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ ८६.१८ ॥ उत्सृष्टो वृषभो यस्मिन् पिबत्यथ जलाशये । जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति ॥ ८६.१९ ॥ शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः । पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति ॥ ८६.२० ॥ ८७ अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सशृङ्गं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वाविके च वस्त्रे प्रसारयेत् ॥ ८७.१ ॥ ततस्तिलैः प्रच्छादयेत् ॥ ८७.२ ॥ सुवर्णनाभिं च कुर्यात् ॥ ८७.३ ॥ अहतेन वासोयुगेन प्रच्छादयेत् ॥ ८७.४ ॥ सर्वगन्धरत्नैश्चालंकृतं कुर्यात् ॥ ८७.५ ॥ चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निध्यायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् ॥ ८७.६ ॥ अत्र च गाथा भवन्ति ॥ ८७.७ ॥ यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् । तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥ ८७.८ ॥ ससमुद्रगुहा तेन सशैलवनकानना । चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ ८७.९ ॥ कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ ८७.१० ॥ ८८ अथ प्रसूयमाना गौः पृथिवी भवति ॥ ८८.१ ॥ तामलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति ॥ ८८.२ ॥ अत्र गाथा भवति ॥ ८८.३ ॥ सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् । दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ॥ ८८.४ ॥ ८९ मासः कार्त्तिकोऽग्निदैवत्यः ॥ ८९.१ ॥ अग्निश्च सर्वदेवानां मुखम् ॥ ८९.२ ॥ तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापात्पूतो भवति ॥ ८९.३ ॥ कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः । जपन् हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते ॥ ८९.४ ॥ ९० मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ॥ ९०.१ ॥ अनेन कर्मणा रूपसौभाग्यवानभिजायते ॥ ९०.२ ॥ पौषी चेत्पुष्ययुक्ता स्यात्, तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत् ॥ ९०.३ ॥ वासोयुगं कर्त्रे दद्यात् ॥ ९०.४ ॥ अनेन कर्मणा पुष्यते ॥ ९०.५ ॥ माघी मघायुता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥ ९०.६ ॥ फाल्गुनी फल्गुनीयुता चेत्, तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति ॥ ९०.७ ॥ नार्यपि भर्तारम् ॥ ९०.८ ॥ चैत्री चित्रायुता चेत्, तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति ॥ ९०.९ ॥ वैशाखी विशाखायुता चेत्, तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥ ९०.१० ॥ ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्, तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति ॥ ९०.११ ॥ आषाढ्यामाषाढायुक्तायामन्नपानदानेन तदेवाक्षय्यमाप्नोति ॥ ९०.१२ ॥ श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति ॥ ९०.१३ ॥ प्रौष्ठपद्यां प्रोष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति ॥ ९०.१४ ॥ आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ॥ ९०.१५ ॥ कार्त्तिकी कृत्तिकायुता चेत्स्यात्, तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोद्ये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति ॥ ९०.१६ ॥ वैशाखशुक्लतृतीयायामुपोषितोऽक्षतैः श्रीवासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति ॥ ९०.१७ ॥ यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतामाप्नोति ॥ ९०.१८ ॥ पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोककं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥ ९०.१९ ॥ माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य श्रीवासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् ॥ ९०.२० ॥ दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलामष्टाधिकां दत्त्वा ॥ ९०.२१ ॥ वामपार्श्वे तिलतैलयुतां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥ ९०.२२ ॥ एतत्कृत्वा यस्मिन् राष्ट्रेऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रोज्ज्वलो भवति ॥ ९०.२३ ॥ आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति ॥ ९०.२४ ॥ तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान् भोजयित्वा राज्यभाग्भवति ॥ ९०.२५ ॥ प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं पायसं रेवतीप्रीत्यै परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥ ९०.२६ ॥ माघे मास्यग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वा दीप्ताग्निर्भवति ॥ ९०.२७ ॥ सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति ॥ ९०.२८ ॥ यदीच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपगान् । प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥ ९०.२९ ॥ ९१ अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति ॥ ९१.१ ॥ तडागकृन्नित्यतृप्तो वारुणं लोकमश्नुते ॥ ९१.२ ॥ जलप्रदः सदा तृप्तो भवति ॥ ९१.३ ॥ वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति ॥ ९१.४ ॥ वृक्षप्रदो वृक्षप्रसूनैर्देवान् प्रीणयति ॥ ९१.५ ॥ फलैश्चातिथीन् ॥ ९१.६ ॥ छायया चाभ्यागतान् ॥ ९१.७ ॥ देवे वर्षत्युदकेन पितॄन् ॥ ९१.८ ॥ सेतुकृत्स्वर्गमाप्नोति ॥ ९१.९ ॥ देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकमाप्नोति ॥ ९१.१० ॥ सुधासिक्तं कृत्वा यशसा विराजते ॥ ९१.११ ॥ विचित्रं कृत्वा गन्धर्वलोकमाप्नोति ॥ ९१.१२ ॥ पुष्पप्रदानेन श्रीमान् भवति ॥ ९१.१३ ॥ अनुलेपनप्रदानेन कीर्तिमान् ॥ ९१.१४ ॥ दीपप्रदानेन चक्षुष्मान् सर्वत्रोज्ज्वलश्च ॥ ९१.१५ ॥ अन्नप्रदानेन बलवान् ॥ ९१.१६ ॥ देवनिर्माल्यापनयनात्गोदानफलमाप्नोति ॥ ९१.१७ ॥ देवगृहमार्जनात्तदुपलेपनात्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च ॥ ९१.१८ ॥ कूपारामतडागेषु देवतायतनेषु च । पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥ ९१.१९ ॥ ९२ सर्वदानाधिकमभयप्रदानम् ॥ ९२.१ ॥ तत्प्रदानेनाभीप्सितं लोकमाप्नोति ॥ ९२.२ ॥ भूमिदानेन च ॥ ९२.३ ॥ गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति ॥ ९२.४ ॥ गोप्रदानेन स्वर्गलोकमाप्नोति ॥ ९२.५ ॥ दशधेनुप्रदो गोलोकान् ॥ ९२.६ ॥ शतधेनुप्रदो ब्रहमलोकान् ॥ ९२.७ ॥ सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ॥ ९२.८ ॥ विशेषतः कपिलाम् ॥ ९२.९ ॥ दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति ॥ ९२.१० ॥ अश्वदः सूर्यसालोक्यमाप्नोति ॥ ९२.११ ॥ वासोदश्चन्द्रसालोक्यम् ॥ ९२.१२ ॥ सुवर्णदानेनाग्निसालोक्यम् ॥ ९२.१३ ॥ रूप्यदानेन रूपम् ॥ ९२.१४ ॥ तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानाम् ॥ ९२.१५ ॥ घृतमधुतैलप्रदानेनारोग्यम् ॥ ९२.१६ ॥ औषधप्रदानेन ॥ ९२.१७ ॥ लवणदानेन च लावण्यम् ॥ ९२.१८ ॥ धान्यप्रदानेन तृप्तिम् ॥ ९२.१९ ॥ सस्यप्रदानेन च ॥ ९२.२० ॥ अन्नदः सर्वम् ॥ ९२.२१ ॥ धान्यप्रदानेन सौभाग्यम् ॥ ९२.२२ ॥ तिलप्रदः प्रजामिष्टाम् ॥ ९२.२३ ॥ इन्धनप्रदानेन दीप्ताग्निर्भवति ॥ ९२.२४ ॥ संग्रामे च सर्वजयमाप्नोति ॥ ९२.२५ ॥ आसनप्रदानेन स्थानम् ॥ ९२.२६ ॥ शय्याप्रदानेन भार्याम् ॥ ९२.२७ ॥ उपानत्प्रदानेनाश्वतरीयुक्तं रथम् ॥ ९२.२८ ॥ छत्रप्रदानेन स्वर्गम् ॥ ९२.२९ ॥ तालवृन्तचामरप्रदानेनाध्वसुखित्वम् ॥ ९२.३० ॥ वास्तुप्रदानेन नगराधिपत्यम् ॥ ९२.३१ ॥ यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ९२.३२ ॥ ९३ अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् ॥ ९३.१ ॥ द्विगुणं ब्राह्मणब्रुवे ॥ ९३.२ ॥ सहस्रगुणं प्राधीते ॥ ९३.३ ॥ अनन्तं वेदपारगे ॥ ९३.४ ॥ पुरोहितस्त्वात्मन एव पात्रम् ॥ ९३.५ ॥ स्वसा दुहितृजामातरश्च ॥ ९३.६ ॥ न वार्यपि प्रयच्छेत बैडालव्रतिके द्विजे । न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ९३.७ ॥ धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ ९३.८ ॥ अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः ॥ ९३.९ ॥ ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ ९३.१० ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ९३.११ ॥ प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ ९३.१२ ॥ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥ ९३.१३ ॥ न दानं यशसे दद्यान्न भयान्नोपकारिणे । न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ ९३.१४ ॥ ९४ गृही वलीपलितदर्शने वनाश्रयो भवेत् ॥ ९४.१ ॥ अपत्यस्य चापत्यदर्शने वा ॥ ९४.२ ॥ पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा ॥ ९४.३ ॥ तत्राप्यग्नीनुपचरेत् ॥ ९४.४ ॥ अफालकृष्टेन पञ्च यज्ञान्न हापयेत् ॥ ९४.५ ॥ स्वाध्यायं च न जह्यात् ॥ ९४.६ ॥ ब्रह्मचर्यं पालयेत् ॥ ९४.७ ॥ चर्मचीरवासाः स्यात् ॥ ९४.८ ॥ जटाश्मश्रुलोमनखांश्च बिभृयात् ॥ ९४.९ ॥ त्रिषवणस्नायी स्यात् ॥ ९४.१० ॥ कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा ॥ ९४.११ ॥ संवत्सरनिचयी पूर्वनिचितमाश्वयुज्यां जह्यात् ॥ ९४.१२ ॥ ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । पुटेनैव पलाशेन पाणिना शकलेन वा ॥ ९४.१३ ॥ ९५ वानप्रस्थस्तपसा शरीरं शोषयेत् ॥ ९५.१ ॥ ग्रीष्मे पञ्चतपाः स्यात् ॥ ९५.२ ॥ आकाशशायी प्रावृषि ॥ ९५.३ ॥ आर्द्रवासा हेमन्ते ॥ ९५.४ ॥ नक्ताशी स्यात् ॥ ९५.५ ॥ एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् ॥ ९५.६ ॥ पुष्पाशी ॥ ९५.७ ॥ फलाशी ॥ ९५.८ ॥ शाकाशी ॥ ९५.९ ॥ पर्णाशी वा ॥ ९५.१० ॥ यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् ॥ ९५.११ ॥ चान्द्रायणैर्वा वर्तेत ॥ ९५.१२ ॥ अश्मकुट्टः ॥ ९५.१३ ॥ दन्तोलूखलिको वा ॥ ९५.१४ ॥ तपोमूलमिदं सर्वं देवमानुषिकं जगत् । तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् ॥ ९५.१५ ॥ यद्दुष्चरं यद्दुरापं यद्दूरं यच्च दुष्करम् । सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ९५.१६ ॥ ९६ अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् ॥ ९६.१ ॥ आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् ॥ ९६.२ ॥ सप्तागारिकं भैक्षमाचरेत् ॥ ९६.३ ॥ अलाभे न व्यथेत ॥ ९६.४ ॥ न भिक्षुकं भिक्षेत ॥ ९६.५ ॥ भुक्तवति जने अतीते पात्रसंपाते भैक्षमादद्यात् ॥ ९६.६ ॥ मृन्मये दारुपात्रेऽलाबुपात्रे वा ॥ ९६.७ ॥ तेषां च तस्याद्भिः शुद्धिः स्यात् ॥ ९६.८ ॥ अभिपूजितलाभादुद्विजेत ॥ ९६.९ ॥ शून्यागारनिकेतनः स्यात् ॥ ९६.१० ॥ वृक्षमूलनिकेतनो वा ॥ ९६.११ ॥ न ग्रामे द्वितीयां रात्रिमावसेत् ॥ ९६.१२ ॥ कौपीनाच्छादनमात्रमेव वसनमादद्यात् ॥ ९६.१३ ॥ दृष्टिपूतं न्यसेत्पादम् ॥ ९६.१४ ॥ वस्त्रपूतं जलमादद्यात् ॥ ९६.१५ ॥ सत्यपूतं वदेत् ॥ ९६.१६ ॥ मनःपूतमाचरेत् ॥ ९६.१७ ॥ मरणं नाभिकामयेत जीवितं च ॥ ९६.१८ ॥ अतिवादांस्तितिक्षेत ॥ ९६.१९ ॥ न कंचनावमन्येत ॥ ९६.२० ॥ निराशीः स्यात् ॥ ९६.२१ ॥ निर्नमस्कारः ॥ ९६.२२ ॥ वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ ९६.२३ ॥ प्राणायामधारणाध्याननित्यः स्यात् ॥ ९६.२४ ॥ संसारस्यानित्यतां पश्येत् ॥ ९६.२५ ॥ शरीरस्याशुचिभावम् ॥ ९६.२६ ॥ जरया रूपविपर्ययम् ॥ ९६.२७ ॥ शारीरमानसागन्तुकव्याधिभिश्चोपतापम् ॥ ९६.२८ ॥ सहजैश्च ॥ ९६.२९ ॥ नित्यान्धकारे गर्भे वसतिम् ॥ ९६.३० ॥ मूत्रपुरीषमध्ये च ॥ ९६.३१ ॥ तत्र च शीतोष्णदुःखानुभवनम् ॥ ९६.३२ ॥ जन्मसमये योनिसंकटनिर्गमनात्महद्दुःखानुभवनम् ॥ ९६.३३ ॥ बाल्ये मोहं गुरुपरवश्यताम् ॥ ९६.३४ ॥ अध्ययनादनेकक्लेशम् ॥ ९६.३५ ॥ यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम् ॥ ९६.३६ ॥ अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् ॥ ९६.३७ ॥ नरके च सुमहद्दुःखम् ॥ ९६.३८ ॥ संसारसंसृतौ तिर्यग्योनिषु च ॥ ९६.३९ ॥ एवमस्मिन् सततयायिनि संसारे न किंचित्सुखम् ॥ ९६.४० ॥ यदपि किंचित्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यम् ॥ ९६.४१ ॥ तत्सेवाशक्तावलाभे वा महद्दुःखम् ॥ ९६.४२ ॥ शरीरं चेदं सप्तधातुकं पश्येत् ॥ ९६.४३ ॥ वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकम् ॥ ९६.४४ ॥ चर्मावनद्धम् ॥ ९६.४५ ॥ दुर्गन्धि च ॥ ९६.४६ ॥ मलायतनम् ॥ ९६.४७ ॥ सुखशतैरपि वृतं विकारि ॥ ९६.४८ ॥ प्रयत्नाद्धृतमपि विनाशि ॥ ९६.४९ ॥ कामक्रोधलोभमोहमदमात्सर्यस्थानम् ॥ ९६.५० ॥ पृथिव्यप्तेजोवाय्वाकाशात्मकम् ॥ ९६.५१ ॥ अस्थिसिराधमनीस्नायुयुतम् ॥ ९६.५२ ॥ रजस्वलम् ॥ ९६.५३ ॥ षट्त्वचम् ॥ ९६.५४ ॥ अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणम् ॥ ९६.५५ ॥ तेषां विभागः ॥ ९६.५६ ॥ सूक्ष्मैः सह चतुःषष्टिर्दशनाः ॥ ९६.५७ ॥ विंशतिर्नखाः ॥ ९६.५८ ॥ पाणिपादशलाकाश्च ॥ ९६.५९ ॥ षष्टिरङ्गुलीनां पर्वाणि ॥ ९६.६० ॥ द्वे पार्ष्ण्योः ॥ ९६.६१ ॥ चतुष्टयं गुल्फेषु ॥ ९६.६२ ॥ चत्वार्यरत्न्योः ॥ ९६.६३ ॥ चत्वारि जङ्घयोः ॥ ९६.६४ ॥ द्वे द्वे जानुकपोलयोः ॥ ९६.६५ ॥ ऊर्वंसयोह् ॥ ९६.६६ ॥ अक्षतालूषकश्रोणिफलकेषु ॥ ९६.६७ ॥ भगास्थ्येकम् ॥ ९६.६८ ॥ पृष्ठास्थि पञ्चचत्वारिंशद्भागम् ॥ ९६.६९ ॥ पञ्चदशास्थीनि ग्रीवा ॥ ९६.७० ॥ जत्र्वेकम् ॥ ९६.७१ ॥ तथा हनुः ॥ ९६.७२ ॥ तन्मूले च द्वे ॥ ९६.७३ ॥ द्वे ललाटाक्षिगण्डे ॥ ९६.७४ ॥ नासा घनास्थिका ॥ ९६.७५ ॥ अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ॥ ९६.७६ ॥ उरः सप्तदश ॥ ९६.७७ ॥ द्वौ शङ्खकौ ॥ ९६.७८ ॥ चत्वारि कपालानि शिरसश्चेति ॥ ९६.७९ ॥ शरीरेऽस्मिन् सप्त सिराशतानि ॥ ९६.८० ॥ नव स्नायुशतानि ॥ ९६.८१ ॥ धमनीशते द्वे ॥ ९६.८२ ॥ पञ्च पेशीशतानि ॥ ९६.८३ ॥ क्षुद्रधमनीनामेकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ॥ ९६.८४ ॥ लक्षत्रयं श्मश्रुकेशकूपानाम् ॥ ९६.८५ ॥ सप्तोत्तरं मर्मशतम् ॥ ९६.८६ ॥ संधिशते द्वे ॥ ९६.८७ ॥ चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि ॥ ९६.८८ ॥ नाभिराजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ॥ ९६.८९ ॥ बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि ॥ ९६.९० ॥ वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमामाशयः हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम् ॥ ९६.९१ ॥ कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन् शरीरे स्थानानि ॥ ९६.९२ ॥ शब्दस्पर्शरूपरसगन्धाश्च विषयाः ॥ ९६.९३ ॥ नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धीन्द्रियाणि ॥ ९६.९४ ॥ हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि ॥ ९६.९५ ॥ मनो बुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः ॥ ९६.९६ ॥ इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९६.९७ ॥ क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भाविनि । क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९६.९८ ॥ ९७ ऊरुस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन् स्वं नासिकाग्रं पश्यन् दिशश्चानवलोकयन् विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् ॥ ९७.१ ॥ नित्यमतीन्द्रियमगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञमतिस्थूलम् ॥ ९७.२ ॥ सर्वगमतिसूक्ष्मम् ॥ ९७.३ ॥ सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिम् ॥ ९७.४ ॥ एवं ध्यायेत् ॥ ९७.५ ॥ ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ॥ ९७.६ ॥ अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति, तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत्परित्यज्यापरमपरं ध्यायेत् ॥ ९७.७ ॥ एवं पुरुषध्यानमारभेत ॥ ९७.८ ॥ तत्राप्यसमर्थः स्वहृदयपद्मस्य अवाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् ॥ ९७.९ ॥ तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् ॥ ९७.१० ॥ यद्ध्यायति तदाप्नोतीति ध्यानगुह्यम् ॥ ९७.११ ॥ तस्मात्सर्वमेव क्षरं त्यक्त्वा अक्षरमेव ध्यायेत् ॥ ९७.१२ ॥ न च पुरुषं विना किंचिदप्यक्षरमस्ति ॥ ९७.१३ ॥ तं प्राप्य मुक्तो भवति ॥ ९७.१४ ॥ पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ॥ ९७.१५ ॥ प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रितः । ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥ ९७.१६ ॥ तत्त्वात्मानमगम्यं च सर्वतत्त्वविवर्जितम् । अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ९७.१७ ॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ ९७.१८ ॥ अविभक्तं च भूतेन विभक्तमिव च स्थितम् । भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ ९७.१९ ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ ९७.२० ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ ९७.२१ ॥ ९८ इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं कृत्वोवाच ॥ ९८.१ ॥ भगवन्, त्वत्समीपे सततमेवं चत्वारि भूतानि कृतालयानि आकाशः शङ्खरूपी, वायुश्चक्ररूपी, तेजश्च गदारूपि, अम्भोऽम्भोरुहरूपि । अहमप्यनेनैव रूपेण भगवत्पादमध्ये परिवर्तिनी भवितुमिच्छामि ॥ ९८.२ ॥ इत्येवमुक्तो भगवांस्तथेत्युवाच ॥ ९८.३ ॥ वसुधापि लब्धकामा तथा चक्रे ॥ ९८.४ ॥ देवदेवं च तुष्टाव ॥ ९८.५ ॥ ओं नमस्ते ॥ ९८.६ ॥ देवदेव ॥ ९८.७ ॥ वासुदेव ॥ ९८.८ ॥ आदिदेव ॥ ९८.९ ॥ कामदेव ॥ ९८.१० ॥ कामपाल ॥ ९८.११ ॥ महीपाल ॥ ९८.१२ ॥ अनादिमध्यनिधन ॥ ९८.१३ ॥ प्रजापते ॥ ९८.१४ ॥ सुप्रजापते ॥ ९८.१५ ॥ महाप्रजापते ॥ ९८.१६ ॥ ऊर्जस्पते ॥ ९८.१७ ॥ वाचस्पते ॥ ९८.१८ ॥ जगत्पते ॥ ९८.१९ ॥ दिवस्पते ॥ ९८.२० ॥ वनस्पते ॥ ९८.२१ ॥ पयस्पते ॥ ९८.२२ ॥ पृथिवीपते ॥ ९८.२३ ॥ सलिलपते ॥ ९८.२४ ॥ दिक्पते ॥ ९८.२५ ॥ महत्पते ॥ ९८.२६ ॥ मरुत्पते ॥ ९८.२७ ॥ लक्ष्मीपते ॥ ९८.२८ ॥ ब्रह्मरूप ॥ ९८.२९ ॥ ब्राह्मणप्रिय ॥ ९८.३० ॥ सर्वग ॥ ९८.३१ ॥ अचिन्त्य ॥ ९८.३२ ॥ ज्ञानगम्य ॥ ९८.३३ ॥ पुरुहूत ॥ ९८.३४ ॥ पुरुष्टुत ॥ ९८.३५ ॥ ब्रह्मण्य ॥ ९८.३६ ॥ ब्रह्मप्रिय ॥ ९८.३७ ॥ ब्रह्मकायिक ॥ ९८.३८ ॥ महाकायिक ॥ ९८.३९ ॥ महाराजिक ॥ ९८.४० ॥ चतुर्महाराजिक ॥ ९८.४१ ॥ भास्वर ॥ ९८.४२ ॥ महाभास्वर ॥ ९८.४३ ॥ सप्त ॥ ९८.४४ ॥ महाभाग ॥ ९८.४५ ॥ स्वर ॥ ९८.४६ ॥ तुषित ॥ ९८.४७ ॥ महातुषित ॥ ९८.४८ ॥ प्रतर्दन ॥ ९८.४९ ॥ परिनिर्मित ॥ ९८.५० ॥ अपरिनिर्मित ॥ ९८.५१ ॥ वशवर्तिन् ॥ ९८.५२ ॥ यज्ञ ॥ ९८.५३ ॥ महायज्ञ ॥ ९८.५४ ॥ यज्ञयोग ॥ ९८.५५ ॥ यज्ञगम्य ॥ ९८.५६ ॥ यज्ञनिधन ॥ ९८.५७ ॥ अजित ॥ ९८.५८ ॥ वैकुण्ठ ॥ ९८.५९ ॥ अपार ॥ ९८.६० ॥ पर ॥ ९८.६१ ॥ पुराण ॥ ९८.६२ ॥ लेख्य ॥ ९८.६३ ॥ प्रजाधर ॥ ९८.६४ ॥ चित्रशिखण्डधर ॥ ९८.६५ ॥ यज्ञभागहर ॥ ९८.६६ ॥ पुरोडाशहर ॥ ९८.६७ ॥ विश्वेश्वर ॥ ९८.६८ ॥ विश्वधर ॥ ९८.६९ ॥ शुचिश्रवः ॥ ९८.७० ॥ अच्युतार्चन ॥ ९८.७१ ॥ घृतार्चिः ॥ ९८.७२ ॥ खण्डपरशो ॥ ९८.७३ ॥ पद्मनाभ ॥ ९८.७४ ॥ पद्मधर ॥ ९८.७५ ॥ पद्मधाराधर ॥ ९८.७६ ॥ हृषीकेश (हृषीकेश ओर्हृषीकेश ) ॥ ९८.७७ ॥ एकशृङ्ग ॥ ९८.७८ ॥ महावराह ॥ ९८.७९ ॥ द्रुहिण ॥ ९८.८० ॥ अच्युत ॥ ९८.८१ ॥ अनन्त ॥ ९८.८२ ॥ पुरुष ॥ ९८.८३ ॥ महापुरुष ॥ ९८.८४ ॥ कपिल ॥ ९८.८५ ॥ सांख्याचार्य ॥ ९८.८६ ॥ विष्वक्सेन ॥ ९८.८७ ॥ धर्म ॥ ९८.८८ ॥ धर्मद ॥ ९८.८९ ॥ धर्माङ्ग ॥ ९८.९० ॥ धर्मवसुप्रद ॥ ९८.९१ ॥ वरप्रद ॥ ९८.९२ ॥ विष्णो ॥ ९८.९३ ॥ जिष्णो ॥ ९८.९४ ॥ सहिष्णो ॥ ९८.९५ ॥ कृष्ण ॥ ९८.९६ ॥ पुण्डरीकाक्ष ॥ ९८.९७ ॥ नारायण ॥ ९८.९८ ॥ परायण ॥ ९८.९९ ॥ जगत्परायन ॥ ९८.१०० ॥ नमोनम इति ॥ ९८.१०१ ॥ स्तुत्वा त्वेवं प्रसन्नेन मनसा पृथिवी तदा । उवाच संमुखं देवीं लब्धकामा वसुंधरा ॥ ९८.१०२ ॥ ९९ दृष्ट्वा श्रियं देवदेवस्य विष्णोर्गृहीतपादां तपसा ज्वलन्तीम् । सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा ॥ ९९.१ ॥ उन्निद्रकोकनदचारुकरे वरेण्ये उन्निद्रकोकनदनाभिगृहीतपादे । उन्निद्रकोकनदसद्मसदास्थितीते उन्निद्रकोकनदमध्यसमानवर्णे ॥ ९९.२ ॥ नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि । चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ॥ ९९.३ ॥ त्वमेव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च । कान्तिः प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च ॥ ९९.४ ॥ स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः । ख्यातिर्विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥ ९९.५ ॥ आक्रम्य सर्वं तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि । तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहं ते वसतिं विभूतेः ॥ ९९.६ ॥ इत्येवमुक्ता वसुधां बभाषे लक्ष्मीस्तदा देववराग्रतःस्था । सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥ ९९.७ ॥ अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः । संस्मारणे चाप्यथ यत्र चाहं स्थिता सदा तच्छृणु लोकधात्रि ॥ ९९.८ ॥ वसाम्यथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे । मेघे तथा लम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ॥ ९९.९ ॥ तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु भूमे । प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥ ९९.१० ॥ सद्यः कृते चाप्यथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे । वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ॥ ९९.११ ॥ सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे । दीप्ते हुताशे विमले च ख्ड्ग आदर्शबिम्बे च तथा स्थिताहम् ॥ ९९.१२ ॥ पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु । भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् ॥ ९९.१३ ॥ क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे । देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञहुतां च देहे ॥ ९९.१४ ॥ शरे च संग्रामविनिर्गते च स्थिता मृते स्वर्गसदःप्रयाते । वेदध्वनौ चाप्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्दे ॥ ९९.१५ ॥ राज्याभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि । पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥ ९९.१६ ॥ सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे । वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥ ९९.१७ ॥ आचारसेविन्यथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे । सुशुद्धदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च ॥ ९९.१८ ॥ स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विमुक्ते । सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥ ९९.१९ ॥ सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च । स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते ॥ ९९.२० ॥ नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु । अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥ ९९.२१ ॥ संमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतास्वविलोलुपासु । धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च ॥ ९९.२२ ॥ निमेषमात्रं च विना कृताहं न जातु तिष्ठे पुरुषोत्तमेन ॥ ९९.२३ ॥ १०० धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम् । ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥ १००.१ ॥ इदं पवित्रं मङ्गल्यं स्वर्ग्यमायुष्यमेव च । ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥ १००.२ ॥ अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च । श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ॥ १००.३ ॥ य इदं पठते नित्यं भूतिकामो नरः सदा । इदं रहस्यं परमं कथितं च धरे तव ॥ १००.४ ॥ मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत्परमं यशस्यम् । दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् ॥ १००.५ ॥ [Eन्दोf ড়र्त्२ = एन्दोf Vइष्णु.]