आचारकाण्डम् चातुर्वर्ण्याचारम् अथातो हिमशैलाग्रे देवदारुवनालये । व्यासमेकाग्रमासीनमपृच्छन्नृषयः पुरा (ई,१, प्. ३७) ॥ १.१ ॥ मानुषाणां हितं धर्मं वर्तमाने कलौ युगे । शौचाचारं यथावच्च वद सत्यवतीसुत ॥ १.२ ॥ तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसंनिभः । प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः (ई,१, प्. ६५) ॥ १.३ ॥ न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहं । अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽब्रवीत् ॥ १.४ ॥ ततस्त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः । ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमम् (ई,१, प्. ६८) ॥ १.५ ॥ नानापुष्पलताकीर्णं फलवृष्कैरलंकृतम् । नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं (ई,१, प्. ७०) ॥ १.६ ॥ मृगपक्षिनिनादाढ्यं देवतायतनावृतम् । यक्षगन्धर्वसिद्धैश्च नृत्यगीतैरलंकृतम् ॥ १.७ ॥ तस्मिन्नृषिसभामध्ये शक्तिपुत्रं पराशरम् । सुखासीनं महातेजा मुनिमुख्यगणावृतम् (ई,१, प्. ७३) ॥ १.८ ॥ कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह । प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ॥ १.९ ॥ ततः संतुष्टहृदयः पराशरमहामुनिः । आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः (ई,१, प्. ७५) ॥ १.१० ॥ कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम् । यदि जानासि भक्तिं मे स्नेहाद्वा भक्तवत्सल (ई,१, प्. ७७) ॥ १.११ ॥ धर्मं कथय मे तात अनुग्राह्यो ह्यहं तव । श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास्तथा (ई,१, प्. ७८) ॥ १.१२ ॥ गर्गेया गौतमीयाश्च तथा चोशनसा स्मृताः । अत्रेर्विष्णोश्च संवर्ताद्दक्षादङ्गिरसस्तथा ॥ १.१३ ॥ शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च । आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च ॥ १.१४ ॥ कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः । श्रुता ह्येते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः (ई,१, प्. ७९) ॥ १.१५ ॥ अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे । सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे (ई,१, प्. ८०) ॥ १.१६ ॥ चातुर्वर्ण्यसमाचारं किंचित्साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः (ई,१, प्. ८७) ॥ १.१७ ॥ ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् । व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः (ई,१, प्. ९२) ॥ १.१८ ॥ धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् । शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा (ई,१, प्. ९३) ॥ १.१९ ॥ कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः । श्रुतिस्मृतिसदाचार- निर्णेतारश्च सर्वदा ॥ १.२० ॥ न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः । तथैव धर्मान् स्मरति मनुः कल्पान्तरेऽन्तरे (ई,१, प्. ११२) ॥ १.२१ ॥ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे । अन्ये कलियुगे नॄणां युगरूपानुसारतः (ई,१, प्. ११७) ॥ १.२२ ॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुः दानमेव कलौ युगे (ई,१, प्. ११९) ॥ १.२३ ॥ कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः (ई,१, प्. १२२) ॥ १.२४ ॥ त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥ १.२५ ॥ कृते संभाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे त्वन्नमादाय कलौ पतति कर्मणा (ई,१, प्. १२३) ॥ १.२६ ॥ कृते तात्कालिकः शापस्त्रेतायां दशभिर्दिनैः । द्वापरे चैकमासेन कलौ संवत्सरेण तु ॥ १.२७ ॥ अभिगम्य कृते दानं त्रेतास्वाहूय दीयते । द्वापरे याचमानाय सेवया दीयते कलौ ॥ १.२८ ॥ अभिगम्योत्तमं दानमाहूयैव तु मध्यमम् । अधमं याचमानाय सेवादानं तु निष्फलम् (ई,१, प्. १२४) ॥ १.२९ ॥ जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च । जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ॥ १.३० ॥ सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते अस्मिन् कलियुगे सदा (ई,१, प्. १२५) ॥ १.३१ ॥ कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमाश्रिताः । द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः (ई,१, प्. १२६) ॥ १.३२ ॥ युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः (ई,१, प्. १२८) ॥ १.३३ ॥ युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् । पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते (ई,१, प्. १३१) ॥ १.३४ ॥ अहमद्यैव तत्सर्वमनुस्मृत्य ब्रवीमि वः । चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः (ई,१, प्. १४०) ॥ १.३५ ॥ पराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च (ई,१, प्. १४१) ॥ १.३६ ॥ चतुर्णामपि वर्णानामाचारो धर्मपालकः । आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः (ई,१, प्. १४३) ॥ १.३७ ॥ षट्कर्माभिरतो नित्यं देवतातिथिपूजकः । हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति (ई,१, प्. १४५) ॥ १.३८ ॥ संध्यास्नानं जपो होमो देवतातिथिपूजनम् । आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने (ई,१, प्. २१८) ॥ १.३९ ॥ इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा । संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंग्रमः (ई,१, प्. ३९५) ॥ १.४० ॥ दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः (ई,१, प्. ३९६) ॥ १.४१ ॥ नैकग्रामीणमतिथिं संगृह्णीत कदाचन । अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते (ई,१, प्. ३९८) ॥ १.४२ ॥ अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना । अर्घ्यासनप्रदानेन पादप्रक्षालनेन च (ई,१, प्. ३९९) ॥ १.४३ ॥ श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छन्तं चानुयानेन प्रीतिमुत्पादयेद्गृही (ई,१, प्. ४००) ॥ १.४४ ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च (ई,१, प्. ४०१) ॥ १.४५ ॥ काष्ठभारसहस्रेण घृतकुम्भशतेन च । अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः (ई,१, प्. ४०२) ॥ १.४६ ॥ सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् । सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति (ई,१, प्. ४०३) ॥ १.४७ ॥ न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा । हृदये कल्पयेद्देवं सर्वदेवमयो हि सः (ई,१, प्. ४०४) ॥ १.४८ ॥ अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातितिहिर्यथा । वेदाभ्यासरतो नित्यं तावपूर्वौ दिने दिने (ई,१, प्. ४०६) ॥ १.४९ ॥ वैश्वदेवे तु संप्राप्ते भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत्(ई,१, प्. ४०८) ॥ १.५० ॥ यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ १.५१ ॥ दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् । इच्छया च ततो दद्याद्विभवे सत्यवारितम् (ई,१, प्. ४०९) ॥ १.५२ ॥ यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् । तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ १.५३ ॥ यस्य छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् । ऐन्द्रं स्थानमुपासीत तस्मात्तं न विचारयेत्(ई,१, प्. ४१०) ॥ १.५४ ॥ वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम् । न हि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति (ई,१, प्. ४११) ॥ १.५५ ॥ अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः । सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ (ई,१, प्. ४१२) ॥ १.५६ ॥ वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः । सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ॥ १.५७ ॥ पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः । वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ॥ १.५८ ॥ यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः । वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते (ई,१, प्. ४१३) ॥ १.५९ ॥ अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः (ई,१, प्. ४४५) ॥ १.६० ॥ क्षत्रियो हि प्रजा रक्षञ्शस्त्रपाणिः प्रदण्डवान् । निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥ १.६१ ॥ पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ १.६२ ॥ लाभकर्म तथा रत्नं गवां च परिपालनम् । कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता (ई,१, प्. ४७६) ॥ १.६३ ॥ शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते । अन्यथा कुरुते किंचित्तद्भवेत्तस्य निष्फलम् (ई,१, प्. ४८०) ॥ १.६४ ॥ लवणं मधुतैलं च दधितक्रं घृतं पयः । न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयम् (ई,१, प्. ४८४) ॥ १.६५ ॥ विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम् । कुर्वन्नगम्या गमनं शूद्रः पतति तत्क्षणात्(ई,१, प्. ४८६) ॥ १.६६ ॥ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥ १.६७ ॥ [Vओल्. ई, ড়र्त्२:] अतः परं गृहस्थस्य कर्माचारं कलौ युगे । धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतम् (ई,२, प्. १) ॥ २.१ ॥ तं प्रवक्ष्याम्यहं पूर्वं पराशरवचो यथा । षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत्(ई,२, प्. ३) ॥ २.२ ॥ क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् । हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत्(ई,२, प्. ६) ॥ २.३ ॥ स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् । वाहयेद्दिवसस्यार्धं पश्चात्स्नानं समाचरेत् ॥ २.४ ॥ जप्यं देवार्चनं होमं स्वाध्यायं चैवमभ्यसेत् । एकद्वित्रिचतुर्विप्रान् भोजयेत्स्नातकान् द्विजः (ई,२, प्. ८) ॥ २.५ ॥ स्वयंकृष्टे तथा क्षेत्रे धान्यैश्च स्वयमर्जितैः । निर्वपेत्पञ्च यज्ञांश्च क्रतुदीक्षां च कारयेत्(ई,२, प्. ९) ॥ २.६ ॥ तिला रसा न विक्रेया विक्रेया धान्यतत्समाः । विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ॥ २.७ ॥ ब्राह्मणश्चेत्कृषिं कुर्यात्तन्महादोषमाप्नुयात् । संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात्(ई,२, प्. १३) ॥ २.८ ॥ अयोमुखेन काष्ठेन तदेकाहेन लाङ्गली । पाशको मत्स्यघाती च व्याधः शाकुनिकस्तथा ॥ २.९ ॥ अदाता कर्षकश्चैव सर्वे ते समभागिनः । वृक्षं छित्त्वा महीं भित्त्वा हत्वा च कृमिकीटकान् ॥ २.१० ॥ कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते । यो न दद्याद्द्विजातिभ्यो राशिमूलमुपागतः (ई,२, प्. १४) ॥ २.११ ॥ स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् । राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकम् (ई,२, प्. १५) ॥ २.१२ ॥ विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते । क्षत्रियोऽपि कृषिं कृत्वा देवान् विप्रांश्च पूजयेत् ॥ २.१३ ॥ वैश्यः शूद्रस्तथा कुर्यात्कृषिवाणिज्यशिल्पकम् । विकर्म कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः (ई,२, प्. १६) ॥ २.१४ ॥ भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयं । चतुर्णामपि वर्णानामेष धर्मः सनातनः ॥ २.१५ ॥ अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा । दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके (ई,२, प्. २०४) ॥ ३.१ ॥ क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः । शूद्रः शुध्यति मासेन पराशरवचो यथा ॥ ३.२ ॥ उपासने तु विप्राणामङ्गशुद्धिश्च जायते । ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते (ई,२, प्. २१२) ॥ ३.३ ॥ जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति (ई,२, प्. २१३) ॥ ३.४ ॥ एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः (ई,२, प्. २१५) ॥ ३.५ ॥ जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः । नामधारकविप्रस्तु दशाहं सूतकी भवेत्(ई,२, प्. २१७) ॥ ३.६ ॥ एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः । जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत्(ई,२, प्. २१९) ॥ ३.७ ॥ तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु । दायाद्विच्छेदमाप्नोति पञ्चमो वात्मवंशजः (ई,२, प्. २२१) ॥ ३.८ ॥ चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात्(ई,२, प्. २२२) ॥ ३.९ ॥ भृग्वग्निमरणे चैव देशान्तरमृते तथा । बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते (ई,२, प्. २२३) ॥ ३.१० ॥ देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि । न त्रिरात्रमहोरात्रं सद्यः स्नात्वा शुचिर्भवेत्(ई,२, प्. २३२) ॥ ३.११ ॥ देशान्तरगतो विप्रः प्रयासात्कालकारितात् । देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि (ई,२, प्. २३६) ॥ ३.१२ ॥ कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या । उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥ ३.१३ ॥ अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया (ई,२, प्. २३७) ॥ ३.१४ ॥ यदि गर्भो विपद्येत स्रवते वापि योषितः । यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम् (ई,२, प्. २३८) ॥ ३.१५ ॥ आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत्(ई,२, प्. २४०) ॥ ३.१६ ॥ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अग्निसंस्करणे तेषां त्रिरात्रमशुचिर्भवेत्(ई,२, प्. २४१) ॥ ३.१६।१ ॥ आ दन्तजन्मनः सद्य आ चूडान्नैषिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् (ई,२, प्. २४३) ॥ ३.१७ ॥ ब्रह्मचारी गृहे येषां हूयते च हुताशनः । संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत्(ई,२, प्. २५३) ॥ ३.१८ ॥ संपर्काद्दुष्यते विप्रो जनने मरणे तथा । संपर्काच्च निवृत्तस्य न प्रेतं नैव सूतकम् (ई,२, प्. २५४) ॥ ३.१९ ॥ शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः । राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥ ३.२० ॥ सव्रतः सत्रपूतश्च आहिताग्निश्च यो द्विजः । राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः (ई,२, प्. २५५) ॥ ३.२१ ॥ उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः । तदैव ऋषिभिर्दृष्टं यथा कालेन शुध्यति ॥ ३.२२ ॥ प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि । दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः (ई,२, प्. २५९) ॥ ३.२३ ॥ सर्वेषां शावमाशौचं माता पित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ३.२४ ॥ यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः । सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित्(ई,२, प्. २६०) ॥ ३.२५ ॥ संपर्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे । तस्मात्सर्वप्रयत्नेन संपर्कं वर्जयेद्बुधः (ई,२, प्. २६१) ॥ ३.२६ ॥ विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति (ई,२, प्. २६२) ॥ ३.२७ ॥ अन्तरा दशाहस्य पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् (ई,२, प्. २६३) ॥ ३.२८ ॥ ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा । आहवेषु विपन्नानामेकरात्रमशौचकम् (ई,२, प्. २६८) ॥ ३.२९ ॥ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ ३.३० ॥ यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयांल्लभते लोकान् यदि क्लीबं न भाषते (ई,२, प्. २६९) ॥ ३.३१ ॥ संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः । एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति (ई,२, प्. २७०) ॥ ३.३२ ॥ यस्तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः । परित्राता यदा गच्छेत्स च क्रतुफलं लभेत्(ई,२, प्. २७१) ॥ ३.३३ ॥ यस्य च्छेदक्षतं गात्रं शरमुद्गरयष्टिभिः । देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च ॥ ३.३४ ॥ देवाङ्गनासहस्राणि शूरमायोधने हतम् । त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च (ई,२, प्. २७२) ॥ ३.३५ ॥ यं यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणो वात्र यथा यान्ति । क्षणेन यान्त्येव हि तत्र वीराः प्राणान् सुयुद्धेन परित्यजन्तः ॥ ३.३६ ॥ जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः । क्षणध्वंसिनि कायेऽस्मिन् का चिन्ता मरणे रणे (ई,२, प्. २७३) ॥ ३.३७ ॥ ललाटदेशे रुधिरं स्रवच्च यस्याहवे तु प्रविशेच्च वक्त्रम् । तत्सोमपानेन किलास्य तुल्यं संग्रामयज्ञे विधिवच्च दृष्टम् ॥ ३.३८ ॥ अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पदे यज्ञफलमानुपूर्व्यांल्लभन्ति ते (ई,२, प्. २७४) ॥ ३.३९ ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलावगाहनात्तेषां सद्यःशौचं विधीयते ॥ ३.४० ॥ असगोत्रमबन्धुं च प्रेतीभूतं द्विजोत्तमम् । वहित्वा च दहित्वा च प्राणायामेन शुध्यति (ई,२, प्. २७५) ॥ ३.४१ ॥ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा । स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति (ई,२, प्. २८०) ॥ ३.४२ ॥ क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति । एकाहमशुचिर्भूत्वा पञ्चगव्येन शुध्यति (ई,२, प्. २८१) ॥ ३.४३ ॥ शवं च वैश्यमज्ञानाद्ब्राह्मणो योऽनुगच्छति । कृत्वाशौचं द्विरात्रं च प्राणायामान् षडाचरेत्(ई,२, प्. २८२) ॥ ३.४४ ॥ प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ ३.४५ ॥ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.४६ ॥ विनिर्वर्त्य यदा शूद्रा उदकान्तमुपस्थिताः । द्विजैस्तदानुगन्तव्या एष धर्मः सनातनः (ई,२, प्. २८३) ॥ ३.४७ ॥ [Vओल्. ईई, ড়र्त्१:] ড়्रायश्चित्तकाण्डम् अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् । उद्बध्नीयात्स्त्री पुमान् वा गतिरेषा विधीयते (ईई,१, प्. १८) ॥ ४.१ ॥ पूयशोणितसंपूर्णे त्वन्धे तमसि मज्जति । षष्ठीर्वर्षसहस्राणि नरकं प्रतिपद्यते (ईई,१, प्. १९) ॥ ४.२ ॥ नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् । वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा (ईई,१, प्. २३) ॥ ४.३ ॥ तप्तकृच्छ्रेण शुध्यन्तीत्येवमाह प्रजापतिः । गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् (ईई,१, प्. २५) ॥ ४.४ ॥ संस्पृशन्ति तु ये विप्रा वोढारश्चाग्निदाश्च ये । अन्ये ये वानुगन्तारः पाशच्छेदकराश्च ये ॥ ४.५ ॥ तप्तकृच्छ्रेण शुद्धास्ते कुर्युर्ब्राह्मणभोजनम् । अनडुत्सहितां गां च दद्युर्विप्राय दक्षिणाम् ॥ ४.६ ॥ त्र्यहमुष्णं पिबेद्वारि त्र्यहमुष्णं पयः पिबेत् । त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् (ईई,१, प्. २६) ॥ ४.७ ॥ षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते ॥ ४.८ ॥ यो वै समाचरेद्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा (ईई,१, प्. २७) ॥ ४.९ ॥ मासार्धं मासमेकं वा मासद्वयमथापि वा । अब्दार्धमब्दमेकं वा तदूर्ध्वं चैव तत्समः ॥ ४.१० ॥ त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छ्रं सांतपनं चरेत्(ईई,१, प्. २९) ॥ ४.११ ॥ चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे मतः । कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम् ॥ ४.१२ ॥ शुद्ध्यर्थमष्टमे चैव षण्मासान् कृच्छ्रमाचरेत् । पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा (ईई,१, प्. ३०) ॥ ४.१३ ॥ ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति । सा मृता नरकं याति विधवा च पुनः पुनः (ईई,१, प्. ३३) ॥ ४.१४ ॥ ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ ४.१५ ॥ दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते । सा शुनी जायते मृत्वा सूकरी च पुनः पुनः ॥ ४.१६ ॥ पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ ४.१७ ॥ अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम् । सर्वं तद्राक्षसान् गच्छेदित्येवं मनुरब्रवीत्(ईई,१, प्. ३४) ॥ ४.१८ ॥ बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या । गर्भपातं च या कुर्यान्न तां संभाषयेत्क्वचित् ॥ ४.१९ ॥ यत्पापं ब्रह्महत्यायां द्विगुणं गर्भपातने । प्रायश्चित्तं न तस्याः स्यात्तस्यास्त्यागो विधीयते ॥ ४.२० ॥ न कार्यमावसथ्येन नाग्निहोत्रेण वा पुनः । स भवेत्कर्मचाण्डालो यस्तु धर्मपराङ्मुखः ॥ ४.२१ ॥ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । स क्षेत्री लभते बीजं न बीजी भागमर्हति (ईई,१, प्. ४२) ॥ ४.२२ ॥ तद्वत्परस्त्रियाः पुत्रौ द्वौ स्मृतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यात्मृते भर्तरि गोलकः ॥ ४.२३ ॥ औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः । दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत्(ईई,१, प्. ४८) ॥ ४.२४ ॥ परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ४.२५ ॥ द्वौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्र एव च । कृच्छ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् ॥ ४.२६ ॥ कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने (ईई,१, प्. ५१) ॥ ४.२७ ॥ पितृव्यपुत्रः सापत्नः परनारीसुतस्तथा । दाराग्निहोत्रसम्योगे न दोषः परिवेदने (ईई,१, प्. ५२) ॥ ४.२८ ॥ ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ ४.२९ ॥ नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते (ईई,१, प्. ५३) ॥ ४.३० ॥ मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता । सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ ४.३१ ॥ तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति (ईई,१, प्. ५४) ॥ ४.३२ ॥ व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् । एवं स्त्री पतिमुद्धृत्य तेनैव सह मोदते (ईई,१, प्. ५७) ॥ ४.३३ ॥ वृकश्वानसृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः । स्नात्वा जपेत्स गायत्रीं पवित्रां वेदमातरम् (ईई,१, प्. ६१) ॥ ५.१ ॥ गवां शृङ्गोदकैः स्नानं महानद्योस्तु संगमे । समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ॥ ५.२ ॥ वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि । स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति (ईई,१, प्. ६२) ॥ ५.३ ॥ सव्रतस्तु शुना दष्टो यस्त्रिरात्रमुपावसेत् । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥ ५.४ ॥ अव्रतः सव्रतो वापि शुना दष्टो भवेद्द्विजः । प्रणिपत्य भवेत्पूतो विप्रैश्चक्षुर्निरीक्षितः ॥ ५.५ ॥ शुना घ्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचूलनम् ॥ ५.६ ॥ शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥ ५.७ ॥ कृष्णपक्षे यदा सोमो न दृश्येत कदाचन । यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत् ॥ ५.८ ॥ असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः । वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर्भवेत् ॥ ५.९ ॥ चण्डालेन श्वपाकेन गोभिर्विप्रैर्हतो यदि । आहिताग्निर्मृतो विप्रो विषेणात्महतो यदि (ईई,१, प्. ६९) ॥ ५.१० ॥ दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् । स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ॥ ५.११ ॥ प्राजापत्यं चरेत्पश्चाद्विप्राणामनुशासनात् । दग्धास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्द्विजः (ईई,१, प्. ७०) ॥ ५.१२ ॥ पुनर्दहेत्स्वाग्निना तु स्वतन्त्रेण पृथक्पृथक् । आहिताग्निर्द्विजः कश्चित्प्रवसन् कालचोदितः (ईई,१, प्. ७१) ॥ ५.१३ ॥ देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे । प्रेताग्निहोत्रसंस्कारः श्रूयतामृषिपुङ्गवाः ॥ ५.१४ ॥ कृष्णाजिनं समास्तीर्य कुशैस्तु पुरुषाकृतिम् । षट्शतानि शतं चैव पलाशानां च वृन्ततः ॥ ५.१५ ॥ चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत् । बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैव तु (ईई,१, प्. ७२) ॥ ५.१६ ॥ शतं तु जघने दद्याद्द्विशतं तूदरे तथा । दद्यादष्टौ वृषणयोः पञ्च मेध्रे तु विन्यसेत् ॥ ५.१७ ॥ एकविंशतिमूरुभ्यां द्विशतं जानुजङ्घयोः । पादाङ्गुलीषु षड्दद्याद्यज्ञपात्रं ततो न्यसेत् ॥ ५.१८ ॥ शम्यं शिश्ने विनिःक्षिप्य अरणीं मुष्कयोरपि । जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ॥ ५.१९ ॥ कर्णे चोलूखलं दद्यात्पृष्ठे च मुसलं न्यसेत् । उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ॥ ५.२० ॥ श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थलीं तु चक्षुषोः । कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥ ५.२१ ॥ अग्निहोत्रोपकरणमशेषं तत्र निक्षिपेत् । असौ स्वर्गाय लोकाय स्वाहेत्येकाहुतिं सकृत्(ईई,१, प्. ७३) ॥ ५.२२ ॥ दद्यात्पुत्रोऽथवा भ्राताप्यन्यो वापि च बान्धवः । यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः ॥ ५.२३ ॥ ईदृशं तु विधिं कुर्याद्ब्रह्मलोकगतिः स्मृता । दहन्ति ये द्विजास्तं तु ते यान्ति परमां गतिम् (ईई,१, प्. ७४) ॥ ५.२४ ॥ अन्यथा कुर्वते कर्म त्वात्मबुद्ध्या प्रचोदिताः । भवन्त्यल्पायुषस्ते वै पतन्ति नरकेऽशुचौ ॥ ५.२५ ॥ अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृताम् (ईई,१, प्. ७७) ॥ ६.१ ॥ क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् । जालपादं च शरभमहोरात्रेण शुध्यति (ईई,१, प्. ७८) ॥ ६.२ ॥ बलाकाटिट्टिभौ वापि शुकपारावतावपि । अहिनक्रविघाती च शुध्यते नक्तभोजनात्(ईई,१, प्. ७९) ॥ ६.३ ॥ वृककाककपोतानां शारितित्तिरिघातकः । अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति (ईई,१, प्. ८०) ॥ ६.४ ॥ गृध्रश्येनशशादानामुलूकस्य च घातकः । अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः (ईई,१, प्. ८१) ॥ ६.५ ॥ वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके । लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात्(ईई,१, प्. ८२) ॥ ६.६ ॥ कारण्डवचकोराणां पिङ्गलाकुररस्य च । भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति (ईई,१, प्. ८३) ॥ ६.७ ॥ भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ । पक्षिणां चैव सर्वेषामहोरात्रमभोजनम् ॥ ६.८ ॥ हत्वा मूषकमार्जार- सर्पाजगरडुण्डुभान् । कृसरं भोजयेद्विप्रान् लोहदण्डश्च दक्षिणा (ईई,१, प्. ८५) ॥ ६.९ ॥ शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् । वृन्ताकफलभक्षी चाप्यहोरात्रेण शुध्यति (ईई,१, प्. ८७) ॥ ६.१० ॥ वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः । तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयम् (ईई,१, प्. ८९) ॥ ६.११ ॥ गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । प्रायश्चित्तमहोरात्रं त्रिसंध्यमवगाहनम् (ईई,१, प्. ९०) ॥ ६.१२ ॥ कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् । शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च (ईई,१, प्. ९१) ॥ ६.१३ ॥ मृगरोहिद्वराहाणामवेर्बस्तस्य घातकः । अफालकृष्टमश्नीयादहोरात्रमुपोष्य सः (ईई,१, प्. ९२) ॥ ६.१४ ॥ एवं चतुष्पदानां च सर्वेषां वनचारिणाम् । अहोरात्रोषितस्तिष्ठेज्जपेद्वै जातवेदसम् (ईई,१, प्. ९३) ॥ ६.१५ ॥ शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् । प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा (ईई,१, प्. ९४) ॥ ६.१६ ॥ वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत् । सोऽपि कृच्छ्रद्वयं कुर्याद्गोविंशद्दक्षिणां ददेत्(ईई,१, प्. ९५) ॥ ६.१७ ॥ वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् । हत्वा चान्द्रायणं तस्य त्रिंशद्गोश्चैव दक्षिणाम् (ईई,१, प्. १०५) ॥ ६.१८ ॥ चण्डालं हतवान् कश्चिद्ब्राह्मणे यदि कंचन । प्राजापत्यं चरेत्कृच्छ्रं गोद्वयं दक्षिणां ददत्(ईई,१, प्. १०६) ॥ ६.१९ ॥ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति ॥ ६.२० ॥ चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति (ईई,१, प्. १०७) ॥ ६.२१ ॥ श्वपाकं वापि चण्डालं विप्रः संभाषते यदि । दिव्जसंभाषणं कुर्यात्सावित्रीं तु सकृज्जपेत्(ईई,१, प्. १०८) ॥ ६.२२ ॥ चण्डालैः सह सुप्तं तु त्रिरात्रमुपवासयेत् । चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ॥ ६.२३ ॥ चण्डालदर्शने सद्य आदित्यमवलोकयेत् । चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत्(ईई,१, प्. १०९) ॥ ६.२४ ॥ चण्डालखातवापीषु पीत्वा सलिलमग्रजः । अज्ञानाच्चैकभक्तेन त्वहोरात्रेण शुध्यति (ईई,१, प्. १११) ॥ ६.२५ ॥ चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात्(ईई,१, प्. ११२) ॥ ६.२६ ॥ चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः । तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥ ६.२७ ॥ यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ॥ ६.२८ ॥ चरेत्सांतपनं विप्रः प्राजापत्यमनन्तरः । तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत्(ईई,१, प्. ११३) ॥ ६.२९ ॥ भाण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः (ईई,१, प्. ११४) ॥ ६.३० ॥ ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः । शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ ६.३१ ॥ भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन । गोमूत्रयावकाहारो दशरात्रेण शुध्यति (ईई,१, प्. ११५) ॥ ६.३२ ॥ एकैकं ग्रासमश्नीयाद्गोमूत्रयावकस्य च । दशाहं नियमस्थस्य व्रतं तत्तु विनिर्दिशेत्(ईई,१, प्. ११६) ॥ ६.३३ ॥ अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति । विज्ञाते तु७ असन्नस्य द्विजाः कुर्वन्त्यनुग्रहम् (ईई,१, प्. ११८) ॥ ६.३४ ॥ मुनिवक्त्रोद्गतान् धर्मान् गायन्तो वेदपारगाः । पतन्तमुद्धरेयुस्तं धर्मज्ञाः पापसंकरात् ॥ ६.३५ ॥ दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् । भुञ्जीत सह सर्वैश्च त्रिसंध्यमवगाहनम् (ईई,१, प्. ११९) ॥ ६.३६ ॥ त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा । त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥ ६.३७ ॥ भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । दधिक्षीरस्य त्रिपलं पलमेकं घृतस्य तु (ईई,१, प्. १२०) ॥ ६.३८ ॥ भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः । जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥ ६.३९ ॥ कुसुम्भगुडकार्पास- लवणं तैलसर्पिषी । द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् ॥ ६.४० ॥ एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम् । त्रिंशतं गोवृषं चैकं दद्याद्विप्रेषु दक्षिणाम् (ईई,१, प्. १२१) ॥ ६.४१ ॥ पुनर्लेपनखातेन होमजप्येन शुध्यति । आधारेण च विप्राणां भूमिदोषो न विद्यते ॥ ६.४२ ॥ चण्डालैः सह संपर्कं मासं मासार्धमेव वा । गोमूत्रयावकाहारो मासार्धेन विशुध्यति (ईई,१, प्. १२२) ॥ ६.४३ ॥ रजकी चर्मकारी च लुब्धकी वेणुजीविनी । चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति (ईई,१, प्. १२३) ॥ ६.४४ ॥ ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धमेव च । गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत्(ईई,१, प्. १२४) ॥ ६.४५ ॥ गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् । तमगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥ ६.४६ ॥ रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन । गोमयेन तु संमिश्रैर्जलैः प्रोक्षेद्गृहं तथा ॥ ६.४७ ॥ ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत्(ईई,१, प्. १२६) ॥ ६.४८ ॥ गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा । त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर्भवेत् ॥ ६.४९ ॥ क्षत्रियोऽपि सुवर्णस्य पञ्चमाषान् प्रदाय तु । गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत् ॥ ६.५० ॥ शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः (ईई,१, प्. १२७) ॥ ६.५१ ॥ प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत् । जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि (ईई,१, प्. १२८) ॥ ६.५२ ॥ सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् । व्याधिव्यसनिनि.श्रान्ते दुर्भिक्षे डामरे तथा ॥ ६.५३ ॥ उपवासो व्रतं होमो द्विजसंपादितानि वै । अथवा ब्राह्मणास्तुष्टाः सर्वं कुर्वन्त्यनुग्रहम् (ईई,१, प्. १२९) ॥ ६.५४ ॥ सर्वान् कामानवाप्नोति द्विजसंपादितैरिह । दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः (ईई,१, प्. १३०) ॥ ६.५५ ॥ अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः । स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा (ईई,१, प्. १३१) ॥ ६.५६ ॥ कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति । शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये (ईई,१, प्. १३२) ॥ ६.५७ ॥ महत्कार्योपरोधेन न स्वस्थस्य कदाचन । स्वस्थस्य मूढाः कुर्वन्ति वदन्त्यनियमं तु ये (ईई,१, प्. १३३) ॥ ६.५८ ॥ ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ । स्वयमेव व्रतं कृत्वा ब्राह्मणं योऽवमन्यते ॥ ६.५९ ॥ वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते । स एव नियमो ग्राह्यो यद्येकोऽपि वदेद्द्विजः (ईई,१, प्. १३४) ॥ ६.६० ॥ कुर्याद्वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् । ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ॥ ६.६१ ॥ तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः । ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः (ईई,१, प्. १३५) ॥ ६.६२ ॥ सर्वदेवमयो विप्रो न तद्वचनमन्यथा । उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः (ईई,१, प्. १३६) ॥ ६.६३ ॥ विप्रसंपादितं यस्य संपूर्णं तस्य तत्फलम् । अन्नाद्ये कीटसम्युक्ते मक्षिकाकेशदूषिते ॥ ६.६४ ॥ तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् । भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ ६.६५ ॥ स्वमुच्छिष्टमसौ भुङ्क्ते पाणिना मुक्तभाजने । पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितोऽपि वा (ईई,१, प्. १३८) ॥ ६.६६ ॥ श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् । यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च ॥ ६.६७ ॥ यथा पराशरेणोक्तं तथैवाहं वदामि वः । शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम् (ईई,१, प्. १३९) ॥ ६.६८ ॥ केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् । काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत्(ईई,१, प्. १४०) ॥ ६.६९ ॥ वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः । प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो द्विप्रस्थ आढकः ॥ ६.७० ॥ ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः । काकश्वानावलीढं तु गवाघ्रातं खरेण वा (ईई,१, प्. १४१) ॥ ६.७१ ॥ स्वल्पमन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत् । अन्नस्योद्धृत्य तन्.मात्रं यच्च लालाहतं भवेत्(ईई,१, प्. १४२) ॥ ६.७२ ॥ सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत् । हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥ ६.७३ ॥ विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत्(ईई,१, प्. १४४) ॥ ६.७४ ॥ अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च । अनलज्वालया शुद्धिर्गोरसस्य विधीयते ॥ ६.७५ ॥ =द्रव्यशुद्धिह्= अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा । दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते (ईई,१, प्. १४७) ॥ ७.१ ॥ भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति । रजसा शुध्यते नारी विकलं या न गच्छति (ईई,१, प्. १५०) ॥ ७.२ ॥ नदी वेगेन शुध्येत लोपो यदि न दृश्यते । वापीकूपतडागेषु दूषितेषु कथंचन (ईई,१, प्. १५३) ॥ ७.३ ॥ उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति । अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी (ईई,१, प्. १५६) ॥ ७.४ ॥ दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला । प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति (ईई,१, प्. १५७) ॥ ७.५ ॥ मासि मासि रजस्तस्याः पिबन्ति पितरः स्वयम् । माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च (ईई,१, प्. १५८) ॥ ७.६ ॥ त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् । यस्तां समुद्वहेत्कन्यां ब्राह्मणो मदमोहितः ॥ ७.७ ॥ असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः । यः करोत्येकरात्रेण वृषलीसेवनं द्विजः (ईई,१, प्. १५९) ॥ ७.८ ॥ स भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति । अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् ॥ ७.९ ॥ सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते । जातवेदः सुवर्णं च सोममार्गं विलोक्य च ॥ ७.१० ॥ ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा (ईई,१, प्. १६०) ॥ ७.११ ॥ तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ॥ ७.१२ ॥ अर्धकृच्छ्रं चरेत्पूर्वा पादमेकमनन्तरा । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा ॥ ७.१३ ॥ पादहीनं चरेत्पूर्वा पादमेकमनन्तरा । स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ॥ ७.१४ ॥ कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति । स्नाता रजस्वला या तु चतुर्थेऽहनि शुध्यति (ईई,१, प्. १६४) ॥ ७.१५ ॥ कुर्याद्रजो निवृत्तौ तु दैवपित्र्यादि कर्म च । रोगेण यद्रजः स्त्रीणामन्वहं तु प्रवर्तते (ईई,१, प्. १६५) ॥ ७.१६ ॥ नाशुचिः सा ततस्तेन तत्स्याद्वैकालिकं मतम् । साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते (ईई,१, प्. १६८) ॥ ७.१७ ॥ रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि । प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥ ७.१८ ॥ तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । आतुरे स्नानोत्पन्ने दशकृत्वो ह्यनातुरः (ईई,१, प्. १६९) ॥ ७.१९ ॥ स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्स आतुरः । उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः (ईई,१, प्. १७०) ॥ ७.२० ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति । अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते (ईई,१, प्. १७१) ॥ ७.२१ ॥ तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् । भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते (ईई,१, प्. १७२) ॥ ७.२२ ॥ सुरामात्रेण संस्पृष्टं शुध्यतेऽग्न्युपलेखनैः । गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च (ईई,१, प्. १७२) ॥ ७.२३ ॥ शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च । गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ ७.२४ ॥ षण्मासान् भुवि निःक्षिप्य उद्धृत्य पुनराहरेत् । आयसेष्वायसानां च सीसस्याग्नौ विशोधनम् (ईई,१, प्. १७३) ॥ ७.२५ ॥ दन्तमस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् । मणिपाषाणपात्राणीत्येतान् प्रक्षालयेज्जलैः (ईई,१, प्. १७४) ॥ ७.२६ ॥ पाषाणे तु पुनर्घर्षः शुद्धिरेवमुदाहृता । मृण्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि (ईई,१, प्. १७६) ॥ ७.२७ ॥ वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् । और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते (ईई,१, प्. १७९) ॥ ७.२८ ॥ मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् । तृणकाष्ठस्य रज्जूणामुदकाभ्युक्षणं मतम् (ईई,१, प्. १८१) ॥ ७.२९ ॥ तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च । शोषयित्वातपेनैव प्रोक्षणाच्छुद्धितामियुः (ईई,१, प्. १८४) ॥ ७.३० ॥ मार्जारमक्षिकाकीट- पतङ्गकृमिदर्दुराः । मेध्यामेध्यं स्पृशन्तोऽपि नोच्छिष्टं मनुरब्रवीत्(ईई,१, प्. १८५) ॥ ७.३१ ॥ महीं स्पृष्ट्वागतं तोयं याश्चाप्यन्योन्यविप्रुषः । भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुरब्रवीत्(ईई,१, प्. १८६) ॥ ७.३२ ॥ ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने । मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ॥ ७.३३ ॥ रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥ ७.३४ ॥ अदुष्टा संतता धारा वातोद्धूताश्च रेणवः । स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन (ईई,१, प्. १८८) ॥ ७.३५ ॥ देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि । रक्षेदेव स्वदेहादि- पश्चाद्धर्मं समाचरेत्(ईई,१, प्. १९६) ॥ ७.३६ ॥ येन केन च धर्मेण मृदुना दारुणेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्(ईई,१, प्. १९७) ॥ ७.३७ ॥ आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् । शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ॥ ७.३८ ॥ गवां बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः । अकामकृतपापस्य प्रायश्चित्तं कथं भवेत्(ईई,१, प्. १९९) ॥ ८.१ ॥ वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत्(ईई,१, प्. २०५) ॥ ८.२ ॥ सावित्र्याश्चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः । अज्ञानात्कृषिकर्तारो ब्राह्मणा नामधारकाः (ईई,१, प्. २०७) ॥ ८.३ ॥ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते (ईई,१, प्. २०९) ॥ ८.४ ॥ यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति (ईई,१, प्. २१०) ॥ ८.५ ॥ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदि व्रजेत् ॥ ८.६ ॥ चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः । स धर्मेति विज्ञेयो नेतरैस्तु सहस्रशः (ईई,१, प्. २१२) ॥ ८.७ ॥ प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै । तेषामुद्विजते पापं सद्भूतगुणवादिनाम् ॥ ८.८ ॥ यथाश्मनि स्थितं तोयं मारुतार्केण शुध्यति । एवं परिषदादेशान्नाशयेत्तस्य दुष्कृतम् (ईई,१, प्. २१३) ॥ ८.९ ॥ नैव गच्छति कर्तारं नैव गच्छति पर्षदम् । मारुतार्कादिसम्योगात्पापं नश्यति तोयवत्(ईई,१, प्. २१४) ॥ ८.१० ॥ चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः । ब्राह्मणानां समर्था ये परिषत्साभिधीयते (ईई,१, प्. २१५) ॥ ८.११ ॥ अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः । पञ्च त्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता ॥ ८.१२ ॥ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदव्रतेषु स्नातानामेकोऽपि परिषद्भवेत् ॥ ८.१३ ॥ पञ्च पूर्वं मया प्रोक्तास्तेषां चासंभवे त्रयः । स्ववृत्तिपरितुष्टो ये परिषत्सा प्रकीर्तिता ॥ ८.१४ ॥ अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि (ईई,१, प्. २१८) ॥ ८.१५ ॥ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणस्त्वनधीयानस्त्रयस्ते नामधारकाः ॥ ८.१६ ॥ ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः । यथा हुतमनग्नौ च अमन्त्रो ब्राह्मणस्तथा (ईई,१, प्. २१९) ॥ ८.१७ ॥ यथा षण्ढोऽफलः स्त्रीषु यथा गौरूषराफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः (ईई,१, प्. २२०) ॥ ८.१८ ॥ चित्रकर्म यथानेकैरङ्गैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वद्धि संस्कारैर्मन्त्रपुर्वकैः (ईई,१, प्. २२१) ॥ ८.१९ ॥ प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः । ते द्विजा पापकर्माणः समेता नरकं ययुः ॥ ८.२० ॥ ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये । त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरता अपि (ईई,१, प्. २२२) ॥ ८.२१ ॥ संप्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः । एवं च वेदविद्विप्रः सर्वभक्षोऽपि दैवतम् (ईई,१, प्. २२४) ॥ ८.२२ ॥ अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके । तथैव किल्बिषं सर्वं प्रक्षिपेच्च द्विजानले (ईई,१, प्. २२७) ॥ ८.२३ ॥ गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् । गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैर्द्विजाः ॥ ८.२४ ॥ दुःशीलोऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः । कः परित्यज्य गां दुष्टां दुहेच्छीलवतीं खरीम् (ईई,१, प्. २२८) ॥ ८.२५ ॥ धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः (ईई,१, प्. २२९) ॥ ८.२६ ॥ चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपाठकः । त्रयश्च आश्रमो मुख्याः पर्षदेषा दशावरा (ईई,१, प्. २३०) ॥ ८.२७ ॥ राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् । स्वयमेव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः (ईई,१, प्. २३२) ॥ ८.२८ ॥ ब्राह्मणांस्तानतिक्रम्य राजा कर्तुं यदिच्छति । तत्पापं शतधा भूत्वा राजानमनुगच्छति (ईई,१, प्. २३३) ॥ ८.२९ ॥ प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः । आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ॥ ८.३० ॥ सशिखं वपनं कृत्वा त्रिसंध्यमवगाहनम् । गवां मध्ये वसेद्रात्रौ दिवा गाश्चाप्यनुव्रजेत्(ईई,१, प्. २३७) ॥ ८.३१ ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः (ईई,१, प्. २३८) ॥ ८.३२ ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रे खलेऽथ वा । भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ॥ ८.३३ ॥ पिबन्तीषु पिबेत्तोयं संविशन्तीषु संविशेत् । पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत्(ईई,१, प्. २३९) ॥ ८.३४ ॥ ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ ८.३५ ॥ गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । प्राजापत्यं ततः कृच्छ्रं विभजेत्तच्चतुर्विधम् (ईई,१, प्. २४०) ॥ ८.३६ ॥ एकाहमेकभक्ताशी एकाहं नक्तभोजनः । अयाचिताश्येकमहरेकाहं मारुताशनः ॥ ८.३७ ॥ दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः । दिनद्वयमयाची स्याद्द्विदिनं मारुताशनः ॥ ८.३८ ॥ त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः । दिनत्रयमयाची स्यात्त्रिदिनं मारुताशनः ॥ ८.३९ ॥ चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः । चतुर्दिनमयाची स्याच्चतुरहं मारुताशनः (ईई,१, प्. २४१) ॥ ८.४० ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् । विप्राणां दक्षिणां दद्यात्पवित्राणि जपेद्द्विजः ॥ ८.४१ ॥ ब्राह्मणान् भोजयित्वा तु गोघ्नः शुद्धो न संशयः ॥ ८.४१।१ ॥ गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तद्वधं तु न तं विद्यात्कामाकामकृतं तथा (ईई,१, प्. २५५) ॥ ९.१ ॥ दण्डादूर्ध्वं यदन्येन प्रहाराद्यदि पातयेत् । प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत्(ईई,१, प्. २५६) ॥ ९.२ ॥ रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम् । एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत्(ईई,१, प्. २५७) ॥ ९.३ ॥ योक्त्रेषु पादहीनं स्याच्चरेत्सर्वं निपातने । गोवाटे वा गृहे वापि दुर्गे वाप्यसमस्थले (ईई,१, प्. २५८) ॥ ९.४ ॥ नदीष्वथ समुद्रेषु त्वन्येषु न नदीमुखे । दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते (प्. २५९) (ईई,१, प्. २५९) ॥ ९.५ ॥ योक्त्रदामकदोरैश्च कण्ठाभरणभूषणैः । गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि ॥ ९.६ ॥ तदेव बन्धनं विद्यात्कामाकामकृतं च यत् । हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः (ईई,१, प्. २६०) ॥ ९.७ ॥ गोपतिर्मृत्युमाप्नोति योक्त्रो भवति तद्वधः । मत्तः प्रमत्त उन्मत्तश्चेतनो वाप्यचेतनः (ईई,१, प्. २६१) ॥ ९.८ ॥ कामाकामकृतक्रोधो दण्डैर्हन्यादथोपलैः । प्रहृता वा मृता वापि तद्धि हेतुर्निपातने ॥ ९.९ ॥ अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रः प्रमाणतः । आद्रस्तु सपलाशश्च दण्ड इत्यभिधीयते (ईई,१, प्. २६२) ॥ ९.१० ॥ मूर्छितः पतितो वापि दण्डेनाभिहितः स तु । उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशैव वा ॥ ९.११ ॥ ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि । पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते (ईई,१, प्. २६३) ॥ ९.१२ ॥ पिण्डस्थे पादमेकं तु द्वौ पादौ गर्भसंमिते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ ९.१३ ॥ पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखा वर्जं सशिखं तु निपातने (ईई,१, प्. २६४) ॥ ९.१४ ॥ पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् । त्रिपादे गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम् ॥ ९.१५ ॥ निष्पन्नसर्वगात्रस्तु दृश्यते वा सचेतनः । अङ्गप्रत्यङ्गसंपूर्णो द्विगुणं गोव्रतं चरेत्(ईई,१, प्. २६५) ॥ ९.१६ ॥ पाषाणेनाथ दण्डेन गावो येनाभिघातिताः । शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने (ईई,१, प्. २६६) ॥ ९.१७ ॥ लाङ्गूले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने । त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने (ईई,१, प्. २६७) ॥ ९.१८ ॥ शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्त्तं न विद्यते (ईई,१, प्. २६८) ॥ ९.१९ ॥ व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस्तु पाणिना । यवसश्चोपहर्तव्यो यावद्दृढबलो भवेत् ॥ ९.२० ॥ यावत्संपूर्णसर्वाङ्गस्तावत्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत्(ईई,१, प्. २६९) ॥ ९.२१ ॥ यद्यसंपूर्णसर्गाङ्गो हीनदेहो भवेत्तदा । गोघातकस्य तस्यार्थं प्रायश्चित्तं विनिर्दिशेत् ॥ ९.२२ ॥ काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् । व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत्(ईई,१, प्. २७०) ॥ ९.२३ ॥ चरेत्सांतपनं काष्ठे प्राजापत्यं तु लोष्टके । तप्तकृच्छ्रं तु पाषाणे सस्त्रे चैवातिकृच्छ्रकम् ॥ ९.२४ ॥ पञ्च संतपने गावः प्राजापत्ये तथा त्रयः । तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश ॥ ९.२५ ॥ प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ ९.२६ ॥ अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा । सायं संगोपनार्थं च न दुष्येद्रोधबन्धयोः (ईई,१, प्. २७१) ॥ ९.२७ ॥ अतिदाहेऽतिवाहे च नासिकाभेदने तथा । नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत्(ईई,१, प्. २७२) ॥ ९.२८ ॥ अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत् । नासिक्ये पदहीनं तु चरेत्सर्वं निपातने ॥ ९.२९ ॥ दहानात्तु विपद्यते अनड्वान् योक्त्रयन्त्रितः । उक्तं पराशरेणैव ह्येकपादं यथाविधि (ईई,१, प्. २७३) ॥ ९.३० ॥ रोधनं बन्धनं चैव भारः प्रहरणं तथा । दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट् ॥ ९.३१ ॥ बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः । भवने तस्य पापी स्यात्प्रायश्चित्तार्धमर्हति (ईई,१, प्. २७४) ॥ ९.३२ ॥ न नारिकेलैर्न च शाणवालैः न वापि मौञ्जैर्न च वल्कशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत्परशुं गृहीत्वा (ईई,१, प्. २७५) ॥ ९.३३ ॥ कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम् । पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते (ईई,१, प्. २७६) ॥ ९.३४ ॥ यदि तत्र भवेत्काष्ठं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ॥ ९.३५ ॥ प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोवधम् (ईई,१, प्. २७७) ॥ ९.३६ ॥ आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत् । श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे ॥ ९.३७ ॥ कूपादुत्क्रमणे चैव भग्नो वा ग्रीवपादयोः । स एव म्रियते तत्र त्रीन् पादांस्तु समाचरेत् ॥ ९.३८ ॥ कूपखाटे तटाबन्धे नदीबन्धे प्रपासु च । पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥ ९.३९ ॥ कूपखाते तटाखाते दीर्घखाते तथैव च । अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते (ईई,१, प्. २७९) ॥ ९.४० ॥ वेश्मद्वारे निवासेषु यो नरः खातमिच्छति । स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत् ॥ ९.४१ ॥ निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च । अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते (ईई,१, प्. २८०) ॥ ९.४२ ॥ ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते (ईई,१, प्. २८१) ॥ ९.४३ ॥ संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च । दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्याते (ईई,१, प्. २८२) ॥ ९.४४ ॥ यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने । यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ ९.४५ ॥ व्यापन्नानां बहूनां च बन्धने रोधनेऽपि वा । भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत्(ईई,१, प्. २८४) ॥ ९.४६ ॥ गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः । अनिवारयतां तेषां सर्वेषां पातकं भवेत्(ईई,१, प्. २८५) ॥ ९.४७ ॥ एको हतो यैर्बहुभिः समेतैर्न ज्ञायते यस्य हतोऽभिघातात् । दिव्येन तेषामुपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः (ईई,१, प्. २८६) ॥ ९.४८ ॥ एका चेद्बहुभिः काचिद्दैवाद्व्यापादिता यदि । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ ९.४९ ॥ हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् । लाला भवति दष्टेषु एवमन्वेषणं भवेत् ॥ ९.५० ॥ ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति । मनुना चैवमेकेन सर्वशास्त्राणि जानता (ईई,१, प्. २८८) ॥ ९.५१ ॥ प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत् । केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत्(ईई,१, प्. २९०) ॥ ९.५२ ॥ द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत् । राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥ ९.५३ ॥ अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् । सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलद्वयम् (ईई,१, प्. २९१) ॥ ९.५४ ॥ एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् । न स्त्रियाः केशवपनं न दूरे शयनाशनम् (ईई,१, प्. २९२) ॥ ९.५५ ॥ न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुव्रजेत् । नदीषु संगमे चैव अरण्येषु विशेषतः ॥ ९.५६ ॥ न स्त्रीणामजिनं वासो व्रतमेव समाचरेत् । त्रिसंध्यं स्नानमित्युक्तं सुराणामर्चनं तथा (ईई,१, प्. २९३) ॥ ९.५७ ॥ बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । गृहेषु सततं तिष्ठेच्छुचिर्नियममाचरेत् ॥ ९.५८ ॥ इह यो गोवधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् (ईई,१, प्. २९४) ॥ ९.५९ ॥ विमुक्तो नरकात्तस्मान्मर्त्यलोके प्रजायते । क्लीबो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ॥ ९.६० ॥ तस्मात्प्रकाशयेत्पापं स्वधर्मं सततं चरेत् । स्त्रीबालभृत्यगोविप्रेष्वतिकोपं विवर्जयेत् ॥ ९.६१ ॥ चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत्(ईई,१, प्. २९७) ॥ १०.१ ॥ एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत् । अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः (ईई,१, प्. २९८) ॥ १०.२ ॥ कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् । अन्याथा भावदोषेण न धर्मो न च शुध्यति (ईई,१, प्. ३०४) ॥ १०.३ ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्रह्मणभोजनम् । गोद्वयं वस्त्रयुग्मं च दद्याद्विप्रेषु दक्षिणाम् (ईई,१, प्. ३०५) ॥ १०.४ ॥ चण्डालीं वा श्वपाकीं वा ह्यभिगच्छति यो द्विजः । त्रिरात्रमुपवासित्वा विप्राणामनुशासनम् ॥ १०.५ ॥ सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत् । गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत्(ईई,१, प्. ३०६) ॥ १०.६ ॥ क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि । प्राजापत्यद्वयं कुर्याद्दद्याद्गोमिथुनद्वयम् (ईई,१, प्. ३०७) ॥ १०.७ ॥ श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति । प्राजापत्यं चरेत्कृच्छ्रं चतुर्गोमिथुनं ददेत् ॥ १०.८ ॥ मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा । एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत्(ईई,१, प्. ३११) ॥ १०.९ ॥ चान्द्रायणत्रयं कुर्याच्छिश्नच्छेदेन शुध्यति । मातृष्वसृगमे चैवमात्ममेढ्रनिकर्तनम् (ईई,१, प्. ३१६) ॥ १०.१० ॥ अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयम् । दश गोमिथुनं दद्याच्छुद्धिं पारशरोऽब्रवीत्(ईई,१, प्. ३१७) ॥ १०.११ ॥ पितृदारान् समारुह्य मातुराप्तां तु भ्रातृजाम् । गुरुपात्नीं स्नुषां चैव भ्रातृभार्यां तथैव च (ईई,१, प्. ३१९) ॥ १०.१२ ॥ मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् । गोद्वयं दक्षिणां दद्याच्छुध्यते नात्र संशयः ॥ १०.१३ ॥ पशुवेष्यादिगमने महिष्युष्ट्रीकपीस्तथा । खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत्(ईई,१, प्. ३३९) ॥ १०.१४ ॥ गोगामी च त्रिरात्रेण गामेकां ब्राह्मणे ददन् । महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुध्यति (ईई,१, प्. ३४२) ॥ १०.१५ ॥ डामरे समरे वापि दुर्भिक्षे वा जनक्षये । बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत् ॥ १०.१६ ॥ चण्डालैः सह संपर्कं या नारी कुरुते ततः । विप्रान् दश वरान् कृत्वा स्वकं दोषं प्रकाशयेत्(ईई,१, प्. ३४३) ॥ १०.१७ ॥ आकण्ठसंमिते कूपे गोमयोदककर्दमे । तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥ १०.१८ ॥ सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम् । त्रिरात्रमुपवासित्वा त्वेकरात्रं जले वसेत् ॥ १०.१९ ॥ शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम् । सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम् ॥ १०.२० ॥ एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । व्रतं चरति तद्यावत्तावत्संवसते बहिः (ईई,१, प्. ३४४) ॥ १०.२१ ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्यच्छुद्धिं पाराशरोऽब्रवीत्(ईई,१, प्. ३४५) ॥ १०.२२ ॥ चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत्(ईई,१, प्. ३४६) ॥ १०.२३ ॥ बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद्भयात् । कृत्वा सांतपनं कृच्छ्रं शुध्येत्पाराशरोऽब्रवीत्(ईई,१, प्. ३४७) ॥ १०.२४ ॥ सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ॥ १०.२५ ॥ पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्धशरीरस्य निष्कृतिर्न विधीयते (ईई,१, प्. ३४९) ॥ १०.२६ ॥ गायत्रीं जपमानस्तु कृच्छ्रं सांतपनं चरेत् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् (ईई,१, प्. ३५१) ॥ १०.२७ ॥ एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् । जारेण जनयेद्गर्भं मृतेऽव्यक्ते गते पतौ (ईई,१, प्. ३५२) ॥ १०.२८ ॥ तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् । ब्राह्मणी तु यदा गच्छेत्परपुंसा समन्विता (ईई,१, प्. ३५४) ॥ १०.२९ ॥ सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः । कामान्मोहात्तु या गच्छेत्त्यक्त्वा बन्धून् सुतान् पतिम् (ईई,१, प्. ३५६) ॥ १०.३० ॥ सा तु नष्टा परे लोके मानुषेषु विशेषतः । मदमोहगता नारी क्रोधाद्दण्डादिताडिता ॥ १०.३१ ॥ अद्वितीया गता चैव पुनरागमनं भवेत् । दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते (ईई,१, प्. ३५८) ॥ १०.३२ ॥ दशाहं न त्यजेन्नारीं त्यजेन्नष्टश्रुतां तथा । भर्ता चैव चरेत्कृच्छ्रं कृच्छार्धं चैव बान्धवाः ॥ १०.३३ ॥ तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति । ब्राह्मणी तु यदा गच्छेत्परपुंसा विवर्जिता (ईई,१, प्. ३५९) ॥ १०.३४ ॥ गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोत्रिणः । पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत्(ईई,१, प्. ३६०) ॥ १०.३५ ॥ पतिमातृगृहं यच्च जारस्यैव तु तद्गृहम् । उल्लिख्य तद्गृहं पश्चात्पञ्चगव्येन सेचयेत् ॥ १०.३६ ॥ त्यजेच्च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् । संभारान् शोधयेत्सर्वान् गोबालैश्च फलोद्भवान् ॥ १०.३७ ॥ ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः । प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादितम् ॥ १०.३८ ॥ गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत् । इतरेषामहोरात्रं पञ्चगव्यं च शोधनम् ॥ १०.३९ ॥ उपवासैर्व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः । जपहोमदयादानैः शुध्यन्ते ब्राह्मणादयः (ईई,१, प्. ३६१) ॥ १०.४० ॥ आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम् । न प्रदुष्यन्ति दर्भाश्च यज्ञेषु चमसा यथा ॥ १०.४१ ॥ अमेध्यरेतो गोमांसं चण्डालान्नमथापि वा । यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत्(ईई,१, प्. ३६४) ॥ ११.१ ॥ तथैव क्षत्रियो वैश्योऽप्यर्धं चान्द्रायणं चरेत् । शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत्(ईई,१, प्. ३७४) ॥ ११.२ ॥ पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः । एकद्वित्रिचतुर्गा वा दद्याद्विप्राद्यनुक्रमात् ॥ ११.३ ॥ शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नमेव च । शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च (ईई,१, प्. ३७५) ॥ ११.४ ॥ यदि भुक्तं तु विप्रेण अज्ञानादापदापि वा । ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥ ११.५ ॥ बालैर्नकुलमार्जारैरन्नमुच्छिष्टितं यदा । तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः (ईई,१, प्. ३९०) ॥ ११.६ ॥ एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने । यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत्(ईई,१, प्. ३९८) ॥ ११.७ ॥ मोहाद्भुञ्जीत यस्तत्र पङ्क्तावुच्छिष्टभोजने । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सांतपनं तथा ॥ ११.८ ॥ पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने । पलाण्डुवृक्षनिर्यास- देवस्वकवकानि च (ईई,१, प्. ३९९) ॥ ११.९ ॥ उष्ट्रीक्षीरमविक्षीरमज्ञानाद्भुञ्जते द्विजः । त्रिरात्रमुपवासेन पञ्चगव्येन शुध्यति ॥ ११.१० ॥ मण्डूकं भक्षयित्वा तु मूषिकामांसमेव च । ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुध्यति (ईई,१, प्. ४०५) ॥ ११.११ ॥ क्षत्रियश्चापि वैश्यश्च क्रियावन्तौ शुचिव्रतौ । तद्गृहे तु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः (ईई,१, प्. ४१०) ॥ ११.१२ ॥ घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् । गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनम् (ईई,१, प्. ४११) ॥ ११.१३ ॥ मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् । तं शूद्रं वर्जयेद्विप्रः श्वपाकमिव दूरतः (ईई,१, प्. ४१६) ॥ ११.१४ ॥ द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् । स्वकर्मणि रतान्नित्यं न तान् शूद्रान् त्यजेद्द्विजः ॥ ११.१५ ॥ अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपि वा । प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत्(ईई,१, प्. ४१७) ॥ ११.१६ ॥ गायत्र्यष्टसहस्रेण शुद्धिः स्याच्छूद्रसूतके । वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये ॥ ११.१७ ॥ ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत् । अथवा वामदैव्येन साम्नैवैकेन शुध्यति ॥ ११.१८ ॥ शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् । पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत्(ईई,१, प्. ४२७) ॥ ११.१९ ॥ आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत द्रुपदां वा जपेच्छतम् ॥ ११.२० ॥ दासनापितगोपाल- कुलमित्रार्धसीलिणः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्(ईई,१, प्. ४२९) ॥ ११.२१ ॥ शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः ॥ ११.२२ ॥ क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः । स गोपाल इति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥ ११.२३ ॥ वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । स ह्यार्धिक इति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥ ११.२४ ॥ भाण्डस्थितमभोज्येषु जलं दधि घृतं पयः । अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत्(ईई,१, प्. ४३२) ॥ ११.२५ ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति । ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः ॥ ११.२६ ॥ शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत् ॥ ११.२७ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम् (ईई,१, प्. ४३३) ॥ ११.२८ ॥ गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम् । पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥ ११.२९ ॥ कपिलाया घृतं ग्राह्यं सर्वं कापिलमेव वा । मूत्रमेकपलं दद्यादङ्गुष्ठार्धं तु गोमयम् (ईई,१, प्. ४३४) ॥ ११.३० ॥ क्षीरं सप्तपलं दद्याद्दधि त्रिपलमुच्यते । घृतमेकपलं दद्यात्पलमेकं कुशोदकम् ॥ ११.३१ ॥ गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णस्तथा दधि (ईई,१, प्. ४३५) ॥ ११.३२ ॥ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमृचा पूतं स्थापयेदग्निसंनिधौ ॥ ११.३३ ॥ आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् । सप्तावरास्तु ये दर्भा अछिन्नाग्राः शुकत्विषः (ईई,१, प्. ४३६) ॥ ११.३४ ॥ एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इरावती इदं विष्णुर्मानस्तोकेति शंवती (ईई,१, प्. ४३७) ॥ ११.३५ ॥ एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः । आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु (ईई,१, प्. ४३८) ॥ ११.३६ ॥ उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु । यत्त्वस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥ ११.३७ ॥ ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्ताग्निरिवेन्धनम् । पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम् (ईई,१, प्. ४३९) ॥ ११.३८ ॥ वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः । दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥ ११.३९ ॥ पिबतः पतितं तोयं भाजने मुखनिःसृतम् । अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत्(ईई,१, प्. ४४०) ॥ ११.४० ॥ कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम् । अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः ॥ ११.४१ ॥ नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम् । गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ॥ ११.४२ ॥ वैयाघ्रमार्क्षं सैंहं वा कूपे यदि निमज्जति । तटाकस्याथ दुष्टस्य पीतं स्यादुदकं यदि (ईई,१, प्. ४४१) ॥ ११.४३ ॥ प्रायश्चित्तं भवेत्पुंसः क्रमेणैतेन सर्वशः । विप्रः शुध्येत्त्रिरात्रेण क्षत्रियस्तु दिनद्वयात् ॥ ११.४४ ॥ एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुध्यति । परपाकनिवृत्तस्य परपाकरतस्य च (ईई,१, प्. ४४६) ॥ ११.४५ ॥ अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् । अपचस्य च यद्दानं दातुश्चास्य कुतः फलम् ॥ ११.४६ ॥ दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ । गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत्(ईई,१, प्. ४४७) ॥ ११.४७ ॥ परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः । पञ्चयज्ञान् स्वयं कृत्वा परान्नेनोपजीवति ॥ ११.४८ ॥ सततं प्रातरुत्थाय परपाकरतस्तु सः । गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ॥ ११.४९ ॥ ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः । युगे युगे तु ये धर्मास्तेषु तेषु च ये द्विजाः (ईई,१, प्. ४५१) ॥ ११.५० ॥ तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः । हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ॥ ११.५१ ॥ स्नात्वा तिष्ठन्नहः शेषमभिवाद्य प्रसादयेत् । ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ॥ ११.५२ ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । अवगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने (ईई,१, प्. ४५५) ॥ ११.५३ ॥ अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते । नवाहमतिकृच्छ्री स्यात्पाणिपूरान्नभोजनः (ईई,१, प्. ४५९) ॥ ११.५४ ॥ त्रिरात्रमुपवासी स्यादतिकृच्छ्रः स उच्यते । सर्वेषामेव पापानां संकरे समुपस्थिते (ईई,१, प्. ४६०) ॥ ११.५५ ॥ दशसाहस्रमभ्यस्ता गायत्री शोधनं परं ॥ ११.५६ ॥ दुःस्वप्नं यदि पश्येत्तु वान्ते तु क्षुरकर्मणि । मैथुने प्रेतधूमे च स्नानमेव विधीयते (ईई,२, प्. १) ॥ १२.१ ॥ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः (ईई,२, प्. ५) ॥ १२.२ ॥ अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ १२.३ ॥ विण्मूत्रभोजी शुध्यर्थं प्राजापत्यं समाचरेत् । पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर्भवेत्(ईई,२, प्. ६) ॥ १२.४ ॥ जलाग्निपतने चैव प्रव्रज्यानाशकेषु च । प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते (ईई,२, प्. ७) ॥ १२.५ ॥ प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च । वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥ १२.६ ॥ ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे । सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥ १२.७ ॥ गोद्वयं दक्षिणां दद्याच्छुद्धिं स्वायंभुवोऽब्रवीत् । मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ॥ १२.८ ॥ स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः । आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च (ईई,२, प्. १३) ॥ १२.९ ॥ आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ १२.१० ॥ यत्तु सातपवर्षेण तत्स्नानं दिव्यमुच्यते । तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥ १२.११ ॥ स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह । वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः (ईई,२, प्. १७) ॥ १२.१२ ॥ निराशास्ते निवर्तन्ते वस्त्रनिष्पीडने कृते । तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम् ॥ १२.१३ ॥ रोमकूपेष्ववस्थाप्य यस्तिलैर्तर्पयेत्पितॄन् । पितरस्तर्पितास्तेन रुधिरेण मलेन च (ईई,२, प्. १८) ॥ १२.१४ ॥ अवधूनोति यः केशान् स्नात्वा यस्तूत्सृजेन्मलम् । आचामेद्वा जलस्थेऽपि स बाह्यः पितृदैवतैः ॥ १२.१५ ॥ शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत्(ईई,२, प्. १९) ॥ १२.१६ ॥ जले स्थलस्थो नाचामेज्जलस्थश्च बहिःस्थले । उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर्भवेत् ॥ १२.१७ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च (ईई,२, प्. २०) ॥ १२.१८ ॥ क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ १२.१९ ॥ प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । विप्रस्य दक्षिणे कर्णे सन्तीति मनुरब्रवीत्(ईई,२, प्. २०; नोतिन् Bई) ॥ १२.२० ॥ अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा । सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥ १२.२१(२०) ॥ भास्करस्य करैः पूतं दिवा स्नानं प्रशस्याते । अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्(ईई,२, प्. २१) ॥ १२.२२(२१) ॥ स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने । अन्यदा त्वशुची रात्रिस्तस्मात्तां परिवर्जयेत् ॥ १२.२३(२२) ॥ मरुतो वसवो रुद्रा आदित्याश्चैव देवताः । सर्वे सोमे प्रलीयन्ते तस्माद्दानं तु तद्ग्रहे (ईई,२, प्. २२) ॥ १२.२४(२३) ॥ खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा । शर्वर्यां दानमस्त्येव नान्यत्रैव विधीयते ॥ १२.२५(२४) ॥ पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि । राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि ॥ १२.२६(२५) ॥ महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् । प्रदोषपश्चिमौ यामौ दिनवत्स्नानमाचरेत् ॥ १२.२७(२६) ॥ चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी । एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत्(ईई,२, प्. २४) ॥ १२.२८(२७) ॥ अस्थिसंचयनात्पूर्वं रुदित्वा स्नानमाचरेत् । अन्तर्दशाहे विप्रस्य ह्यूर्ध्वमाचमनं भवेत् ॥ १२.२९(२८) ॥ सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु (ईई,२, प्. २५) ॥ १२.३०(२९) ॥ कुशैः पूतं तु यत्स्नानं कुशेनोपस्पृशेद्द्विजः । कुशेन चोद्धृतं तोयं सोमपानसमं भवेत्(ईई,२, प्. २६) ॥ १२.३१(३०) ॥ अग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः । वेदं चऐवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥ १२.३२(३१) ॥ तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः । अध्येतव्योऽप्येकदेशो यदि सर्वं न शक्यते (ईई,२, प्. २७) ॥ १२.३३(३२) ॥ शूद्रान्नरसपुष्टस्याप्यधीयानस्य नित्यशः । जपतो जुह्वतो वापि गतिरूर्ध्वा न विद्यते ॥ १२.३४(३३) ॥ शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम् । शूद्राज्ज्ञानागमश्चैव ज्वलन्तमपि पातयेत्(ईई,२, प्. २८) ॥ १२.३५(३४) ॥ यः शूद्र्या पाचयेन्नित्यं शूद्री च गृहमेधिनी । वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः (ईई,२, प्. २९) ॥ १२.३६(३५) ॥ मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः । अहं तन्न विजानामि कां कां योनिं गमिष्यति ॥ १२.३७(३६) ॥ गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः । श्वयोनौ सप्तजन्मा स्यादित्येवं मनुरब्रवीत्(ईई,२, प्. ३०) ॥ १२.३८(३७) ॥ दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्धविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥ १२.३९(३८) ॥ मौनव्रतं समाश्रित्य आसीनो न वदेद्द्विजः । भुञ्जानो हि वदेद्यस्तु तदन्नं परिवर्जयेत्(ईई,२, प्. ३१) ॥ १२.४०(३९) ॥ अर्धे भुक्ते तु यो विप्रस्तस्मिन् पात्रे जलं पिबेत् । हतं दैवं च पित्र्यं च आत्मानं चोपघातयेत् ॥ १२.४१(४०) ॥ भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं विमुञ्चति । स मूढः स च पापिष्ठो ब्रह्मघ्नः स खलूच्यते (ईई,२, प्. ३२) ॥ १२.४२(४१) ॥ भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः । न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ॥ १२.४३(४२) ॥ अस्नात्वा नैव भुञ्जीता अजप्त्वाग्निमहूय च । पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा ॥ १२.४४(४३) ॥ गृहस्थस्तु दयायुक्तो धर्ममेवानुचिन्तयेत् । पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान् (ईई,२, प्. ३३) ॥ १२.४५(४४) ॥ न्यायोपार्जितवित्तेन कर्तव्यं ह्यात्मरक्षणम् । अन्यायेन तु यो जीवेत्सर्वकर्मबहिष्कृतः ॥ १२.४६(४५) ॥ अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः (ईई,२, प्. ३४) ॥ १२.४७(४६) ॥ अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् । तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत्(ईई,२, प्. ३५) ॥ १२.४८(४७) ॥ गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् । तत्क्षेत्रं दशगणितं गोचर्मपरिकीर्तितम् ॥ १२.४९(४८) ॥ ब्रह्महत्यादिभिर्मर्त्यो मनोवाक्कायकर्मजैः । एतद्गोचर्मदानेन मुच्यते सर्वकिल्बिषैः (ईई,२, प्. ३६) ॥ १२.५०(४९) ॥ कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यद्दानं दीयते तस्मै तद्दानं शुभकारकम् (ईई,२, प्. ३७) ॥ १२.५१(५०) ॥ वापीकूपतडागाद्यैर्वाजपेयशतैर्मुखैः । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ १२.५२(५१) ॥ अष्टादशदिनादर्वाक्स्नानमेव रजस्वला । अत ऊर्ध्वं त्रिरात्रं स्यादुशना मुनिरब्रवीत्(ईई,२, प्. ३८) ॥ १२.५३(५२) ॥ युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् । चाण्डालसूतिकोदक्या- पतितानामधः क्रमात् ॥ १२.५४(५३) ॥ ततः संनिधिमात्रेण सचैलं स्नानमाचरेत् । स्नात्वावलोकयेत्सूर्यमज्ञानात्स्पृशते यदि (ईई,२, प्. ३९) ॥ १२.५५(५४) ॥ विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः । तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम् ॥ १२.५६(५५) ॥ यस्तु क्रुद्धः पुमान् ब्रूयाज्जायायास्तु अगम्यताम् । पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत्(ईई,२, प्. ४०) ॥ १२.५७(५६) ॥ श्रान्तः क्रुद्धस्तमोऽन्धो वा क्षुत्पिपासाभयार्दितः । दानं पुण्यमकृत्वा तु प्रायश्चित्तं दिनत्रयम् ॥ १२.५८(५७) ॥ उपस्पृशेत्त्रिषवणं महानद्युपसंगमे । चीर्णान्ते चैव गां दद्याद्ब्राह्मणान् भोजयेद्दश ॥ १२.५९(५८) ॥ दुराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम् (ईई,२, प्. ४५) ॥ १२.६०(५९) ॥ सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । भुक्त्वान्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥ १२.६१(६०) ॥ ऊर्ध्वोच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा । कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा (ईई,२, प्. ४६) ॥ १२.६२(६१) ॥ कृच्छ्रं देव्ययुतं चैव प्राणायामशतद्वयम् । पुण्यतीर्थेऽनार्द्रशिरः स्नानं द्वादशसंख्यया ॥ १२.६३(६२) ॥ द्वियोजने तीर्थयात्रा कृच्छ्रमेकं प्रकल्पितम् । गृहस्थः कामतः कुर्याद्रेतसः स्खलनं भुवि (ईई,२, प्. ४८) ॥ १२.६४(६३) ॥ सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सह । चतुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके (ईई,२, प्. ५०) ॥ १२.६५(६४) ॥ समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात्समाचरेत् ॥ १२.६६(६५) ॥ वर्जयित्वा विकर्मस्थांश्छत्रोपानद्विवर्जितः । अहं दुष्कृतकर्मा वै महापातककारकः (ईई,२, प्. ५१) ॥ १२.६७(६६) ॥ गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु वा ॥ १२.६८(६७) ॥ तपो वनेषु तीर्थेषु नदीप्रस्रवणेषु वा । एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् (ईई,२, प्. ५२) ॥ १२.६९(६८) ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् । रामचन्द्रसमादिष्ट- नलसंचयसंचितम् ॥ १२.७०(६९) ॥ सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥ १२.७१(७०) ॥ यजेत वाश्वमेधेन राजा तु पृथिवीपतिः । पुनः प्रत्यागते वेश्म वासार्थमुपसर्पति (ईई,२, प्. ५४) ॥ १२.७२(७१) ॥ सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम् । गाश्चैवैकशतं दद्याच्चतुर्विध्येषु दक्षिणाम् ॥ १२.७३(७२) ॥ ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते । सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत्(ईई,२, प्. ७६) ॥ १२.७४(७३) ॥ मद्यपश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम् । चान्द्रायणे ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् (ईई,२, प्. ७७) ॥ १२.७५(७४) ॥ अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम् । सुरापानं सकृत्कृत्वा अग्निवर्णं सुरां पिबेत्(ईई,२, प्. ८०) ॥ १२.७६(७५) ॥ स पावयेदथात्मानमिहलोके परत्र च । अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् (ईई,२, प्. ८४) ॥ १२.७७(७६) ॥ गच्छेन्मुसलमादाय राजाभ्याशं वधाय तु । ततः शुद्धिमवाप्नोति राज्ञासौ मुक्त एव च ॥ १२.७८(७७) ॥ कामतस्तु कृतं यत्स्यान्नान्यथा वधमर्हति । आसनाच्छयनाद्यानात्संभाषात्सह भोजनात्(ईई,२, प्. ९०) ॥ १२.७९(७८) ॥ संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि । चान्द्रायणं यावकं तु तुलापुरुष एव च (ईई,२, प्. ९१) ॥ १२.८०(७९) ॥ गवां चैवानुगमनं सर्वपापप्रणाशनम् । एतत्पाराशरं शास्त्रं श्लोकानां शतपञ्चकं । द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः (ईई,२, प्. २८७; Bई: ५३४) ॥ १२.[८१(८०)] ॥ यथाध्ययनकर्माणि धर्मशास्त्रमिदं तथा । अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना (ईई,२, प्. २८८) ॥ १२.[८२](८१) ॥ **************************Fईणीष्****************************** ण्O ंूळा ट्EXट्FOऋ ंाड्ःाVआऽस्टीKashi Sanskrit Seriesआ ओन् Vय़ाVआःाऋआKashi Sanskrit Seriesआण्डा (Vओल्. ३, ড়र्त्स् १ । २)