मातृका १ [व्यवहारः] धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः ॥ १.१ ॥ नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते । द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ १.२ ॥ लिखितं साक्षिणश्चात्र द्वौ विधी संप्रकीर्तितौ । संदिग्धार्थविशुद्ध्यर्थं द्वयोर्विवदमानयोः ॥ १.३ ॥ सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः । सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥ १.४ ॥ विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते । स पणं स्वकृतं दाप्यो विनयं च पराजये ॥ १.५ ॥ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥ १.६ ॥ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ १.७ ॥ स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च । चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥ १.८ ॥ अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च । त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ॥ १.९ ॥ धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः ॥ १.१० ॥ तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ १.११ ॥ सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते । चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः ॥ १.१२ ॥ कर्तॄनथो साक्षिणश्च सभ्यान् राजानमेव च । व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ॥ १.१३ ॥ धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च । चतुर्णां करणादेषां चतुष्कारी प्रकीर्तितः ॥ १.१४ ॥ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमग्निरुदकमष्टाङ्गः स उदाहृतः ॥ १.१५ ॥ ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च । दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥ १.१६ ॥ वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥ १.१७ ॥ समयस्यानपाकर्म विवादः क्षेत्रजस्तथा । स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ॥ १.१८ ॥ वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च । द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥ १.१९ ॥ एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥ १.२० ॥ कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते । त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ॥ १.२१ ॥ द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात् ॥ १.२२ ॥ पक्षद्वयाभिसंबन्धाद्द्विद्वारः समुदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरम् ॥ १.२३ ॥ भूतच्छलानुसारित्वाद्द्विगतिः स उदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ १.२४ ॥ तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ १.२५ ॥ धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः । संभवन्ति गुणाः सप्त सप्त वह्नेरिवार्चिषः ॥ १.२६ ॥ धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः । प्रजाभ्यो बहुमानश्च स्वर्गे स्थानं च शाश्वतम् ॥ १.२७ ॥ तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । समः स्यात्सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् ॥ १.२८ ॥ धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ॥ १.२९ ॥ आगमः प्रथमं कार्यो व्यवहारपदं ततः । विवित्सा निर्णयश्चैव दर्शनं स्याच्चतुर्विधम् ॥ १.३० ॥ धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन मार्गतः । समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ १.३१ ॥ यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ १.३२ ॥ यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचारेत् ॥ १.३३ ॥ धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः । व्यवहारो हि बलवान् धर्मस्तेनावहीयते ॥ १.३४ ॥ सूक्ष्मो हि भगवान् धर्मः परोक्षो दुर्विचारणः । अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥ १.३५ ॥ यात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् । अचौरश्चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ १.३६ ॥ स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु । व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ॥ १.३७ ॥ गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ॥ १.३८ ॥ गोभूहिरण्यस्त्रीस्तेय- पारुष्यात्ययिकेषु च । साहसेष्वभिशापे च सद्य एव विवादयेत् ॥ १.३९ ॥ अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते । प्रसह्य स विनेयः स्यात्स चास्यार्थो न सिध्यति ॥ १.४० ॥ वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ १.४१ ॥ स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥ १.४२ ॥ नदीसंतारकान्तार- दुर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् ॥ १.४३ ॥ आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् । स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ १.४४ ॥ निर्वेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥ १.४५ ॥ गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः । शिल्पिनः चापि तत्कालमायुधीयाश्च विग्रहे ॥ १.४६ ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थश्च नासेध्यो न चैनानाह्वयेन्नृपः ॥ १.४७ ॥ नाभियुक्तोऽभियुञ्जीत तमतीर्त्वार्थमन्यतः । न चाभियुक्तमन्येन न विद्धं वेद्धुमर्हति ॥ १.४८ ॥ यमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । नान्यत्पक्षान्तरं गच्छेद्गच्छन् पूर्वात्स हीयते ॥ १.४९ ॥ न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ॥ १.५० ॥ सापदेशं हरन् कालमब्रुवंश्चापि संसदि । उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ॥ १.५१ ॥ पलायते य आहूतः प्राप्तश्च विवदेन्न यः । विनेयः स भवेद्राज्ञा हीन एव स वादतः ॥ १.५२ ॥ निर्णिक्तव्यवहारेषु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥ १.५३ ॥ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥ १.५४ ॥ अभूतमप्यभिहितं प्राप्तकालं परीक्ष्यते । यत्तु प्रमादान्नोच्येत तद्भूतमपि हीयते ॥ १.५५ ॥ तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥ १.५६ ॥ दुर्दृष्टे व्यवहारे तु सभ्यास्तं दण्डमाप्नुयुः । न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ॥ १.५७ ॥ रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेयस्तं राजा विनयेद्भृशम् ॥ १.५८ ॥ किंतु राज्ञा विशेषेण स्वधर्ममनुरक्षता । मनुष्यचित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ॥ १.५९ ॥ पुरुषाः सन्ति ये लोभात्प्रब्रूयुः साक्ष्यमन्यथा । सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥ १.६० ॥ अतः परीक्ष्यमुभयमेतद्राज्ञा विशेषतः । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ १.६१ ॥ असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ १.६२ ॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥ १.६३ ॥ तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् । परीक्ष्य ज्ञापयनर्थान्न धर्मात्परिहीयते ॥ १.६४ ॥ एवं पश्यन् सदा राजा व्यवहारान् समाहितः । वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥ १.६५ ॥ मातृका २ ( मातृका २ इस्fओउन्दोन्ल्यिन्म्स्प्. ) [थे सेचोन्दध्याय ओf थे मातृका इन्च्लुदेदिन् जोल्ल्य्ऽसेदितिओनन्द्त्रन्स्लतिओन् इस्नोत्तो बे पर्तोf थे ओरिगिनल्नारदस्मृति (सेए थे इन्त्रोदुच्तिओन् तो थे तेxत्). इत्स्त्रन्स्लतिओनिस्गिवेनिन् थे अप्पेन्दिx.] [भाषा] सुनिश्चितबलाधानस्त्वर्थी स्वार्थप्रचोदितः । लेखयेत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥ २.१ ॥ पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ॥ २.२ ॥ श्वो लेखनं वा स लभेत्त्र्यहं सप्ताहमेव वा । अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ॥ २.३ ॥ मिथ्या संप्रतिपत्तिर्वा प्रत्यवस्कन्दमेव वा । प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच्चतुर्विधम् ॥ २.४ ॥ मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधा ॥ २.५ ॥ मिथ्या च विपरीतं च पुनः शब्दसमागमम् । पूर्वपक्षार्थसंबन्धमुत्तरं स्याच्चतुर्विधम् ॥ २.६ ॥ भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् । अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् ॥ २.७ ॥ अन्यार्थमर्थहीनं च प्रमाणागमवर्जितम् । लेख्यं हीनाधिकं भ्रष्टं भाषादोषास्तूदाहृताः ॥ २.८ ॥ लब्धव्यं येन यद्यस्मात्स तत्तस्मादवाप्नुयात् । न त्वन्योऽन्यदथान्यस्मादित्यन्यार्थमिदं त्रिधा ॥ २.९ ॥ मनसाहमपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् । अतोऽन्यथा महाक्षान्त्या त्वमिहावेदितो मया ॥ २.१० ॥ द्रव्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् । प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ॥ २.११ ॥ आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् । एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥ २.१२ ॥ बिन्दुमात्रापदवर्णेष्वेकाविधिष्टया (?) । हीनाधिका भवेद्व्यर्था तां यत्नेन विवर्जयेत् ॥ २.१३ ॥ भ्रष्टं तु दुःस्थितं यत्स्याज्जलतैलादिभिर्हतम् । भाषायां तदपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥ २.१४ ॥ सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता । बहिश्चेद्भ्रश्यते धर्मान्नियताद्व्यवहारिकात् ॥ २.१५ ॥ गन्धमादनसंस्थस्य मयास्यासीत्तदर्पितम् । व्यवहारिकधर्मस्य बाह्यमेतन्न सिध्यति ॥ २.१६ ॥ अन्याक्षरनिवेशेन अन्यार्थगमनेन च । आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥ २.१७ ॥ रागादीनां यदेकेन कोपितः करणे वदेत् । तदादौ तु लिखेत्सर्वं वादिनः फलकादिषु ॥ २.१८ ॥ निराकुलावबोधाय धर्मस्थैः सुविचारितम् । तस्मादन्यद्व्यपोह्यं स्याद्वादिनः फलकादिषु ॥ २.१९ ॥ वादिभ्यामभ्यनुज्ञातं शेषं च फलके स्थितम् । ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ॥ २.२० ॥ वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् । तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥ २.२१ ॥ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥ २.२२ ॥ यो न भ्राता न च पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेऽपि विब्रुवन् ॥ २.२३ ॥ पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥ २.२४ ॥ सर्वेष्वपि विवादेषु वाक्छले नापहीयते । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥ २.२५ ॥ अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । अभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत् ॥ २.२६ ॥ पूर्वपादे हि लिखितं यथाक्षरमशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ २.२७ ॥ क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा । मानुषी लेख्यसाक्षिभ्यां धटादिर्दैविकी स्मृता ॥ २.२८ ॥ दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा । संभवे साक्षिणां चैव दिव्या न भवति क्रिया ॥ २.२९ ॥ अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥ २.३० ॥ कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते । अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥ २.३१ ॥ पलायते य आहूतो मौनी साक्षिपराजितः । स्वयमभ्युपपन्नश्च अवसन्नश्चतुर्विधः ॥ २.३२ ॥ अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ २.३३ ॥ मणयः पद्मरागाद्या दीनारादि हिरण्मयम् । मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ॥ २.३४ ॥ गन्धमाल्यमदत्तं तु भूषणं वास एव वा । पादुकेति राजोक्तं तदाक्रामन् वधमर्हति ॥ २.३५ ॥ पण्यमूल्यं भृतिर्न्यासो दण्डो यच्चावहारकम् । वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ २.३६ ॥ मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः । तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ॥ २.३७ ॥ आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा । राज्ञे कुर्यात्पूर्वमावेदनं यस्तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ॥ २.३८ ॥ साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् । शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ॥ २.३९ ॥ साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥ २.४० ॥ स्वयमभ्युपपन्नोऽपि स्वचर्यावसितोऽपि सन् । क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥ २.४१ ॥ पक्षानुत्सार्य कार्यस्तु सभ्यैः कार्यविनिश्चयः । अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ॥ २.४२ ॥ सभैरेव जितः पश्चाद्राज्ञा शास्यः स्वशास्त्रतः । जयिने चापि देयं स्याद्यथावज्जयपत्रकम् ॥ २.४३ ॥ व्यवहारमुखं चैतत्पूर्वमुक्तं स्वयंभुवा । मुखशुद्धौ हि शुद्धिः स्याद्व्यवहारस्य नान्यथा ॥ २.४४ ॥ मातृका ३ [सभा] नियुक्तेन तु वक्तव्यमपक्षपतितं वचः ॥ ३.१ ॥ युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद्द्वेषकिल्बिषे । ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात् ॥ ३.२ ॥ राजा तु धार्मिकान् सभ्यान्नियुञ्ज्यात्सुपरीक्षितान् । व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ॥ ३.३ ॥ धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ३.४ ॥ तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश्च पार्थिवः । सह सद्भिरतो राजा व्यवहारान् विशोधयेत् ॥ ३.५ ॥ शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः । शुद्धिश्च तेषां धर्माद्धि धर्ममेव वदेत्ततः ॥ ३.६ ॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ३.७ ॥ विद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते । न चेद्विशल्यः क्रियते विद्धास्तत्र सभासदः ॥ ३.८ ॥ सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ३.९ ॥ ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसते । यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ॥ ३.१० ॥ पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ ३.११ ॥ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ३.१२ ॥ अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् । परोक्षमर्थवैकल्याद्भाषते यः सभां गतः ॥ ३.१३ ॥ तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः । वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ॥ ३.१४ ॥ यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तितः । प्राड्विवाकस्तथा शल्यमुद्धरेद्व्यवहारतः ॥ ३.१५ ॥ यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ॥ ३.१६ ॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ३.१७ ॥ व्यवहारपदानि १. ऋणादानम् ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माच्च ऋणादानमिति स्मृतम् ॥ नर्_१.०१ ॥ पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः । विभक्ता ह्यविभक्ता वा यस्तामुद्वहते धुरम् ॥ नर्_१.०२ ॥ पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् । मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्रिक्थिनोऽखिलम् ॥ नर्_१.०३ ॥ क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥ नर्_१.०४ ॥ इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर्यतस्ततः । उत्तमर्णाधमर्णेभ्यो मामयं मोचयिष्यति ॥ नर्_१.०५ ॥ अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । पिता मोक्षितव्य ऋणाद्यथा न नरकं पतेत् ॥ नर्_१.०६ ॥ तपस्वी चाग्निहोत्री च ऋणवान्म्रियते यदि । तपश्चैवाग्निहोत्रं च सर्वं तद्धनिनां धनम् ॥ नर्_१.०७ ॥ न पुत्रर्णं पिता दद्याद्दद्यात्पुत्रस्तु पैतृकम् । कामक्रोधसुराद्यूत- प्रातिभाव्यकृतं विना ॥ नर्_१.०८ ॥ पितुरेव नियोगाद्यत्कुटुम्बभरणाय च । कृतं वा यदृणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता ॥ नर्_१.०९ ॥ शिष्यान्तेवासिदासस्त्री- वैयावृत्त्यकरैश्च यत् । कुटुम्बहेतोरुत्क्षिप्तं वोढव्यं तत्कुटुम्बिना ॥ नर्_१.१० ॥ नार्वाग्विंशतिमाद्वर्षात्पितरि प्रोषिते सुतः । ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥ नर्_१.११ ॥ दाप्यः परर्णमेकोऽपि जीवत्स्वधिकृतैः कृतम् । प्रेतेषु तु न तत्पुत्रः परर्णं दातुमर्हति ॥ नर्_१.१२ ॥ न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा । अभ्युपेतादृते यद्वा सह पत्या कृतं भवेत् ॥ नर्_१.१३ ॥ दद्यादपुत्रा विधवा नियुक्ता या मुमूर्षुणा । यो वा तद्रिक्थमादद्याद्यतो रिक्थमृणं ततः ॥ नर्_१.१४ ॥ न च भार्याकृतमृणं कथंचित्पत्युराभवेत् । आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः ॥ नर्_१.१५ ॥ अन्यत्र रजकव्याध- गोपशौण्डिकयोषिताम् । तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥ नर्_१.१६ ॥ पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यमाश्रयेत् । ऋक्थं तस्या हरेत्सर्वं निःस्वायाः पुत्र एव तु ॥ नर्_१.१७ ॥ या तु सप्रधनैव स्त्री सापत्या चान्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ॥ नर्_१.१८ ॥ अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढुः स भजते तदेवास्य धनं स्मृतम् ॥ नर्_१.१९ ॥ धनस्त्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ नर्_१.२० ॥ उत्तमा स्वैरिणी या स्यादुत्तमा च पुनर्भुवाम् । ऋणं तयोः पतिकृतं दद्याद्यस्तामुपाश्नुते ॥ नर्_१.२१ ॥ स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि । विशेषतो गृहक्षेत्र- दानाधमनविक्रयाः ॥ नर्_१.२२ ॥ एतान्यपि प्रमाणानि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥ नर्_१.२३ ॥ भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥ नर्_१.२४ ॥ तथा दासकृतं कार्यमकृतं परिचक्षते । अन्यत्र स्वामिसंदेशान्न दासः प्रभुरात्मनः ॥ नर्_१.२५ ॥ पुत्रेण च कृतं कार्यं यत्स्यात्पितुरनिच्छतः । तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ ॥ नर्_१.२६ ॥ अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि न र्णभाक् । स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ नर्_१.२७ ॥ त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च । प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही ॥ नर्_१.२८ ॥ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥ नर्_१.२९ ॥ अस्वतन्त्राः स्त्रियः पुत्रा दासाश्च सपरिग्रहाः । स्वतन्त्रस्तत्र तु गृही यस्य यत्स्यात्क्रमागतम् ॥ नर्_१.३० ॥ गर्भस्थैः सदृशो ज्ञेय आ वर्षादष्टमाच्छिषुः । बाल आ षोडशाज्ज्ञेयः पोगण्डश्चापि शब्द्यते ॥ नर्_१.३१ ॥ परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना । जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः ॥ नर्_१.३२ ॥ तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् । अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ नर्_१.३३ ॥ स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा । अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ नर्_१.३४ ॥ यद्बालः कुरुते कार्यमस्वतन्त्रस्तथैव च । अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ नर्_१.३५ ॥ स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः । तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः ॥ नर्_१.३६ ॥ कामक्रोधाभियुक्तार्त- भयव्यसनपीडिताः । रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥ नर्_१.३७ ॥ कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् । तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ नर्_१.३८ ॥ धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः । रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् ॥ नर्_१.३९ ॥ तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलमेव च । कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् ॥ नर्_१.४० ॥ श्रुतशौर्यतपःकन्या- शिष्ययाज्यान्वयागतम् । धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः ॥ नर्_१.४१ ॥ कुसीदकृषिवाणिज्य- शुल्कशिल्पानुवृत्तिभिः । कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ नर्_१.४२ ॥ पार्श्विकद्यूतदौत्यार्ति- प्रतिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ नर्_१.४३ ॥ तेन क्रयो विक्रयश्च दानं ग्रहणमेव च । विविधाश्च प्रवर्तन्ते क्रियाः संभोग एव च ॥ नर्_१.४४ ॥ यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ नर्_१.४५ ॥ तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयात्स्मृतम् । साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् ॥ नर्_१.४६ ॥ क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् ॥ नर्_१.४७ ॥ वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् । प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा ॥ नर्_१.४८ ॥ त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । युद्धोपलब्धं कारश्च दण्डश्च व्यवहारतः ॥ नर्_१.४९ ॥ वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस्त्वनुग्रहात् ॥ नर्_१.५० ॥ सर्वेषामेव वर्णानामेष धर्म्यो धनागमः । विपर्ययादधर्म्यः स्यान्न चेदापद्गरीयसी ॥ नर्_१.५१ ॥ आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते । वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथंचन ॥ नर्_१.५२ ॥ न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् । वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ नर्_१.५३ ॥ उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ नर्_१.५४ ॥ आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या हृतैर्धनैः । उत्सृजेत्क्षत्रवृत्तिं तां कृत्वा पावनमात्मनः ॥ नर्_१.५५ ॥ तस्यामेव तु यो वृत्तौ ब्राह्मणो रमते रसात् । काण्डपृष्ठश्च्युतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः ॥ नर्_१.५६ ॥ वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि । घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥ नर्_१.५७ ॥ मांसौदनतिलक्षौम- सोमपुष्पफलपलाः । मनुष्यविषशस्त्राम्बु- लवणापूपवीरुधः ॥ नर्_१.५८ ॥ नीलीकौषेयचर्मास्थि- कुतपैकशफा मृदः । उदश्वित्केशपिण्याक- शाकाद्यौषधयस्तथा ॥ नर्_१.५९ ॥ ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च । गन्धद्रव्यैरकावेत्र- तूलमूलतुशादृते ॥ नर्_१.६० ॥ स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे । रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥ नर्_१.६१ ॥ अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्सामाः ॥ नर्_१.६२ ॥ अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । मार्गे पुनरवस्थाप्य राज्ञा दण्डेन भूयसा ॥ नर्_१.६३ ॥ प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः ॥ नर्_१.६४ ॥ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतं । धनस्वीकरणे येन धनी धनमुपाश्नुते ॥ नर्_१.६५ ॥ लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः । कालातिहरणाद्भुक्तिरिति शास्त्रेषु निश्चयः ॥ नर्_१.६६ ॥ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिरेभ्यो गरीयसी ॥ नर्_१.६७ ॥ विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम् ॥ नर्_१.६८ ॥ भुज्यमानान् परैरर्थान् यः स्वान्मौर्ख्यादुपेक्षते । समक्षं जीवतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥ नर्_१.६९ ॥ यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ नर्_१.७० ॥ उपेक्षां कुर्वतस्तस्य तूष्णीं भूतस्य तिष्ठतः । कालेऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ नर्_१.७१ ॥ अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भुक्तं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥ नर्_१.७२ ॥ आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः । राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते ॥ नर्_१.७३ ॥ प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः । आध्यादीन्यपि जीर्यन्ते स्त्रीनरेन्द्रधनादृते ॥ नर्_१.७४ ॥ स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते । अनागमं भुज्यमानं वत्सराणां शतैरपि ॥ नर्_१.७५ ॥ निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न भोगस्तत्र कारणम् ॥ नर्_१.७६ ॥ अनागमं भुज्यते यन्न तद्भोगोऽतिवर्तते । प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ नर्_१.७७ ॥ आहर्तैवाभियुक्तः सन्नर्थानामुद्धरेत्पदम् । भुक्तिरेव विशुद्धिः स्यात्प्राप्तानां पितृतः क्रमात् ॥ नर्_१.७८ ॥ अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् । अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना ॥ नर्_१.७९ ॥ तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगोऽतिवर्तते ॥ नर्_१.८० ॥ यद्विनागममप्यूर्ध्वं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषागतम् ॥ नर्_१.८१ ॥ सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः । अन्यत्र श्रावितं यत्स्यात्स्वयमासन्नमृत्युना ॥ नर्_१.८२ ॥ न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः । साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्चये ॥ नर्_१.८३ ॥ श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात्षट्सु चान्वाहितादिषु ॥ नर्_१.८४ ॥ क्रिय र्णादिषु सर्वेषु बलवत्युत्तरोत्तरा । प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥ नर्_१.८५ ॥ स्थानलाभनिमित्तं हि दानग्रहणमिष्यते । तत्कुसीदमिति प्रोक्तं तेन वृत्तिः कुसीदिनाम् ॥ नर्_१.८६ ॥ कायिका कालिका चैव कारिता च तथा स्मृता । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥ नर्_१.८७ ॥ कायाविरोधिनी शश्वत्पणपाद्या तु कायिका । प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता ॥ नर्_१.८८ ॥ वृद्धिः सा कारिता नाम य र्णिकेन स्वयंकृता । वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥ नर्_१.८९ ॥ ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः । देशाचारविधिस्त्वन्यो यत्र र्णमवतिष्ठति ॥ नर्_१.९० ॥ द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम् । तथाष्टगुणमन्यस्मिन् देशे देशेऽवतिष्ठते ॥ नर्_१.९१ ॥ हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा । घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः ॥ नर्_१.९२ ॥ सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च । आयुधानां च सर्वेषां चर्मणस्ताम्रलोहयोः ॥ नर्_१.९३ ॥ अन्येषां चैव सर्वेषामिष्टकानां तथैव च । अक्षय्या वृद्धिरेतेषां मनुराह प्रजापतिः ॥ नर्_१.९४ ॥ तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् । वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ नर्_१.९५ ॥ न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अनाकारितमप्यूर्ध्वं वत्सरार्धाद्विवर्धते ॥ नर्_१.९६ ॥ एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः । वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् ॥ नर्_१.९७ ॥ आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा । आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् ॥ नर्_१.९८ ॥ ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः । स्वकुल्यस्यास्य निवपेत्तदभावेऽस्य बन्धुषु ॥ नर्_१.९९ ॥ यदा तु न स्वकुल्याः स्युर्न च संबन्धिबान्धवाः । तदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् ॥ नर्_१.१०० ॥ गृहीत्वोपगतं दद्यादृणिकायोदयं धनी । अददद्याच्यमानस्तु शेषहानिमवाप्नुयात् ॥ नर्_१.१०१ ॥ लेख्यं दद्यादृणे शुद्धे तदभावे प्रतिश्रवम् । धनिकर्णिकयोरेवं विशुद्धिः स्यात्परस्परम् ॥ नर्_१.१०२ ॥ विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च । लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारके ॥ नर्_१.१०३ ॥ उपस्थानाय दानाय प्रत्ययाय तथैव च । त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः ॥ नर्_१.१०४ ॥ ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते । प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा ॥ नर्_१.१०५ ॥ बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् । अर्थेऽविशेषिते ह्येषु धनिनश्छन्दतः क्रिया ॥ नर्_१.१०६ ॥ यं चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ नर्_१.१०७ ॥ अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥ नर्_१.१०८ ॥ स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च । प्रतिदानं तथैवास्य लाभहानिर्विपर्यये ॥ नर्_१.१०९ ॥ प्रमादाद्धनिनस्तद्वदाधौ विकृतिमागते । विनष्टे मूलनाशः स्याद्दैवराजकृतादृते ॥ नर्_१.११० ॥ रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् । आधिरन्योऽधिकर्तव्यो देयं वा धनिने धनम् ॥ नर्_१.१११ ॥ अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् । शक्यप्रेक्षमृणं दाप्यः काले काले यथोदयम् ॥ नर्_१.११२ ॥ शक्तो वा यदि दौरात्म्यान्न दद्याद्धनिने धनम् । राज्ञा दापयितव्यः स्याद्गृहीत्वांशं तु विंशकम् ॥ नर्_१.११३ ॥ नश्येदृणपरीमाणं कालेनेह र्णिकस्य चेत् । जातिसंज्ञाधिवासानामागमो लेख्यतः स्मृतः ॥ नर्_१.११४ ॥ लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥ नर्_१.११५ ॥ देशाचाराविरुद्धं यद्व्यक्ताधिकृतलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥ नर्_१.११६ ॥ मत्ताभियुक्तस्त्रीबाल- बलात्कारकृतं च यत् । तदप्रमाणकरणं भीतोपधिकृतं तथा ॥ नर्_१.११७ ॥ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं लिखितमृते त्वाधेः स्थिराश्रयात् ॥ नर्_१.११८ ॥ आधिर्यो द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरत्रोभयस्यास्य भोगो यद्यस्ति नान्यथा ॥ नर्_१.११९ ॥ दर्शितं प्रतिकालं यच्छ्रावितं श्रावितं च यत् । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥ नर्_१.१२० ॥ अश्रुतार्थमदृष्टार्थं व्यवहारार्थमेव च । न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु ॥ नर्_१.१२१ ॥ लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥ नर्_१.१२२ ॥ यस्मिन् स्यात्संशयो लेख्ये भूताभूतकृते क्वचित् । तत्स्वहस्तक्रियाचिह्न- प्राप्तियुक्तिभिरुद्धरेत् ॥ नर्_१.१२३ ॥ लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः ॥ नर्_१.१२४ ॥ लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः ॥ नर्_१.१२४*१ ॥ लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् । साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ नर्_१.१२५ ॥ छिन्नभिन्नहृतोन्मृष्ट- नष्टदुर्लिखितेषु च । कर्तव्यमन्यल्लेख्यं स्यादेष लेख्यविधिः स्मृतः ॥ नर्_१.१२६ ॥ संदिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् ॥ नर्_१.१२७ ॥ समक्षदर्शनात्साक्षी विज्ञेयः श्रोत्रचक्षुषोः । श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् ॥ नर्_१.१२८ ॥ एकादशविधः साक्षी स तु दृष्टो मनीषिभिः । कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते ॥ नर्_१.१२९ ॥ लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ नर्_१.१३० ॥ अकृतः षड्विधश्चापि सूरिभिः परिकीर्तितः । ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥ नर्_१.१३१ ॥ कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः । कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ नर्_१.१३२ ॥ कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः । त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥ नर्_१.१३३ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः । प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः ॥ नर्_१.१३४ ॥ श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । बहिर्वासिषु बाह्याश्च स्त्रियः स्त्रिषु च साक्षिणः ॥ नर्_१.१३५ ॥ श्रेण्यादिषु तु वर्गेषु कश्चिच्चेद्द्वेष्यतामियात् । तेभ्य एव न साक्षी स्याद्द्वेष्टारः सर्व एव ते ॥ नर्_१.१३६ ॥ असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तेर्मृतान्तरः ॥ नर्_१.१३७ ॥ श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणः ॥ नर्_१.१३८ ॥ स्वयमुक्तेरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते ॥ नर्_१.१३९ ॥ श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता नराः । असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः ॥ नर्_१.१४० ॥ स्तेनाः साहसिकाश्चण्डाः कितवा वधकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥ नर्_१.१४१ ॥ राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये । वचनं यत्र भिद्यते ते स्युर्भेदादसाक्षिणः ॥ नर्_१.१४२ ॥ अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥ नर्_१.१४३ ॥ योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क्व तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः ॥ नर्_१.१४४ ॥ योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क्व तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः ॥ नर्_१.१४४*१ ॥ द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥ नर्_१.१४५ ॥ आधर्यं पूर्वपक्षस्य यस्मिन्नर्थे वशाद्भवेत् । प्रष्टव्याः साक्षिणस्तत्र विवादे प्रतिवादिनः ॥ नर्_१.१४६ ॥ न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेत्तं न चान्येन हीयेतैवं समाचरन् ॥ नर्_१.१४७ ॥ साक्ष्युद्दिष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम् । तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया ॥ नर्_१.१४८ ॥ सुदीर्घेणापि कालेन लिखितं सिद्धिमाप्नुयात् । जानता चात्मना लेख्यमजानानस्तु लेखयेत् ॥ नर्_१.१४९ ॥ सिद्धिरुक्ताष्टमाद्वर्षात्स्मारितस्येह साक्षिणः । आ पञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य तु ॥ नर्_१.१५० ॥ आ तृतीयात्तथा वर्षात्सिद्धिर्गूढस्य साक्षिणः । आ वै संवत्सरात्सिद्धिं वदन्त्युत्तरसाक्षिणः ॥ नर्_१.१५१ ॥ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः ॥ नर्_१.१५२ ॥ यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः । सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति ॥ नर्_१.१५३ ॥ असाक्षिप्रत्ययास्त्वन्ये षड्विवादाः प्रकीर्तिताः । लक्षणान्येव साक्षित्वमेषामाहुर्मनीषिणः ॥ नर्_१.१५४ ॥ उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिस्तु घातकः । केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ नर्_१.१५५ ॥ कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारपाणिश्च वनछेत्ता प्रकीर्तितः ॥ नर्_१.१५६ ॥ अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥ नर्_१.१५७ ॥ कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परमुपद्रवेत् । हेत्वर्थगतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् ॥ नर्_१.१५८ ॥ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः प्रष्टव्याश्न व्याध्यार्ता न दूषिताः ॥ नर्_१.१५९ ॥ दासनैकृतिकाश्रद्ध- वृद्धस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तार्त- कितवग्रामयाजकाः ॥ नर्_१.१६० ॥ महापथिकसामुद्र- वणिक्प्रव्रजितातुराः । लुब्धकश्रोत्रियाचार- हीनक्लीबकुशीलवाः ॥ नर्_१.१६१ ॥ नास्तिकव्रात्यदाराग्नि- त्यागिनोऽयाज्ययाजकाः । एकस्थालीसहायारि- चरज्ञातिसनाभयः ॥ नर्_१.१६२ ॥ प्राग्दृष्टदोषशैलूष विषजीव्यहितुण्डिकाः । गरदाग्निदकीनाश- शूद्रापुत्रोपपातिकाः ॥ नर्_१.१६३ ॥ क्लान्तसाहसिकश्रान्त- निर्धनान्त्यावसायिनः । भिन्नवृत्तासमावृत्त- जडतैलिकमूलिकाः ॥ नर्_१.१६४ ॥ भूताविष्टनृपद्विष्ट वर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतृ- हीनाङ्गभगवृत्तयः ॥ नर्_१.१६५ ॥ कुनखी श्यावदन् श्वित्रि- मित्रध्रुक्शठशौण्डिकाः । ऐन्द्रजालिकलुब्धोग्र श्रेणीगणविरोधिनः ॥ नर्_१.१६६ ॥ वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः । कुहकः प्रत्यवसितस्तस्करो राजपूरुषः ॥ नर्_१.१६७ ॥ मनुष्यविषशस्त्राम्बु- लवणापूपवीरुधाम् । विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः ॥ नर्_१.१६८ ॥ च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेवकः । पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः ॥ नर्_१.१६९ ॥ असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः ॥ नर्_१.१७० ॥ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । पारुष्ययोश्चाप्युभयोर्न परीक्षेत साक्षिणः ॥ नर्_१.१७१ ॥ तेषामपि न बालः स्यान्नैको न स्त्री न कूटकृत् । न बान्धवो न चारातिर्ब्रूयुस्ते साक्ष्यमन्यथा ॥ नर्_१.१७२ ॥ बालोऽज्ञानादसत्यात्स्त्री पापाभ्यासाच्च कूटकृत् । विब्रूयाद्बान्धवः स्नेहाद्वैरनिर्यातनादरिः ॥ नर्_१.१७३ ॥ अथवानुमतो यः स्याद्द्वयोर्विवदमानयोः । असाक्ष्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्स संसदि ॥ नर्_१.१७४ ॥ यस्त्वात्मदोषभिन्नत्वादस्वस्थ इव लक्ष्यते । स्थानात्स्थानान्तरं गच्छेदेकैकं चोपधावति ॥ नर्_१.१७५ ॥ कासतेऽनिभृतोऽकस्मादभीक्ष्णं निश्वसत्यपि । भूमिं लिखति पादाभ्यां बाहु वासो धुनोति च ॥ नर्_१.१७६ ॥ भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा । शोषमागच्छतश्चोष्ठावूर्ध्वं तिर्यक्च वीक्षते ॥ नर्_१.१७७ ॥ त्वरमाण इवाबद्धमपृष्टो बहु भाषते । कूटसाक्षी स विज्ञेयस्तं पापं विनयेन्नृपः ॥ नर्_१.१७८ ॥ श्रावयित्वा च योऽन्येभ्यः साक्षित्वं तद्विनिह्नुते । स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ नर्_१.१७९ ॥ आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥ नर्_१.१८० ॥ सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ नर्_१.१८१ ॥ पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्त्रास्य साक्षिणः ॥ नर्_१.१८२ ॥ नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । दीनः शत्रुगृहं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ नर्_१.१८३ ॥ नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः । अमित्रान् भूयशः पश्येद्यः साक्ष्यमनृतं वदेत् ॥ नर्_१.१८४ ॥ यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥ नर्_१.१८५ ॥ साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् । सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति ॥ नर्_१.१८६ ॥ तस्य वर्षशते पूर्णे पाशमेकं प्रमुच्यते । एवं स बन्धनात्तस्मान्मुच्यते नियुताः समाः ॥ नर्_१.१८७ ॥ यावतो बान्धवांस्यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ नर्_१.१८८ ॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ नर्_१.१८९ ॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ नर्_१.१९० ॥ एकमेवाद्वितीयं तत्प्राहुः पावनमात्मनः । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ नर्_१.१९१ ॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ नर्_१.१९२ ॥ वरं कूपशताद्वापि वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ नर्_१.१९३ ॥ भूर्धारयति सत्येन सत्येनोदेति भास्करः । सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ नर्_१.१९४ ॥ सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मो लोकानामिति नः श्रुतम् ॥ नर्_१.१९५ ॥ सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ नर्_१.१९६ ॥ सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते ॥ नर्_१.१९७ ॥ निरयेषु च ते शश्वज्जिह्वामुत्कृत्य दारुणाः । असिभिः शातयिष्यन्ति बलिनो यमकिंकराः ॥ नर्_१.१९८ ॥ शूलैर्भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तमपरायणम् । अवाक्शिरसमुत्क्षिप्य क्षेप्स्यन्त्यग्निह्रदेषु च ॥ नर्_१.१९९ ॥ अनुभूय च दुःखास्ताश्चिरं नरकवेदनाः । इह यास्यस्यभव्यासु गृध्रकाकादियोनिषु ॥ नर्_१.२०० ॥ ज्ञात्वैताननृते दोषाञ्ज्ञात्वा सत्ये च सद्गुणान् । सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि ॥ नर्_१.२०१ ॥ न बान्धवा न सुहृदो न धनानि महान्त्यपि । अलं तारयितुं शक्तास्तमस्युग्रे निमज्जतः ॥ नर्_१.२०२ ॥ पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते । तारयिष्यति किंवास्मानात्मानं पातयिष्यति ॥ नर्_१.२०३ ॥ सत्यमात्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् । सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥ नर्_१.२०४ ॥ यां च रात्रिमजनिष्ठा यां रात्रिं च मरिष्यसि । वृथा तदन्तरं ते स्यात्कुर्याश्चेत्सत्यमन्यथा ॥ नर्_१.२०५ ॥ नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साक्षिधर्मे विशेषेण सत्यमेव वदेत्ततः ॥ नर्_१.२०६ ॥ यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः । आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः ॥ नर्_१.२०७ ॥ अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः । यो ह्येतां स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ नर्_१.२०८ ॥ साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः ॥ नर्_१.२०९ ॥ स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । सूक्ष्मत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः ॥ नर्_१.२१० ॥ निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्यमागतः । न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ॥ नर्_१.२११ ॥ देशकालवयोद्रव्य- प्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात्साक्ष्यं तदसदुच्यते ॥ नर्_१.२१२ ॥ ऊनमभ्यधिकं चार्थं प्रब्रूयुर्यत्र साक्षिणः । तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः ॥ नर्_१.२१३ ॥ प्रमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थं चापह्नुयाद्वादी तत्रोक्तस्त्रिविधो विधिः ॥ नर्_१.२१४ ॥ चोदना प्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथश्चोक्तस्तैरेवं साधयेत्क्रमात् ॥ नर्_१.२१५ ॥ अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तद्वचः । त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥ नर्_१.२१६ ॥ चोदनाप्रतिघाते तु युक्तिलेशैस्तमन्वियात् । देशकालार्थसंबन्ध- परिमाणक्रियादिभिः ॥ नर्_१.२१७ ॥ युक्तिष्वप्यसमर्थासु शपथैरेनमर्दयेत् । अर्थकालबलापेक्षमग्न्यम्बुसुकृतादिभिः ॥ नर्_१.२१८ ॥ दीप्ताग्निर्यं न दहति यमन्तर्धारयन्त्यापः । स तरत्यभिशापं तं किल्बिषी स्याद्विपर्यये ॥ नर्_१.२१९ ॥ स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोरपि । एष एव विधिर्दृष्टः सर्वार्थापह्नवेषु च ॥ नर्_१.२२० ॥ शपथा ह्यपि देवानामृषीणामपि च स्मृताः । वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः ॥ नर्_१.२२१ ॥ सप्तर्षयस्तथेन्द्राय पुष्करार्थे समागताः । शेपुः शपथमव्यग्राः परस्परविशुद्धये ॥ नर्_१.२२२ ॥ अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः । ब्रूयात्स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥ नर्_१.२२३ ॥ गूहमानस्तु दौरात्म्याद्यदि पापं स जीयते । सभ्याश्चात्र न तुष्यन्ति तीव्रो दण्डश्च पात्यते ॥ नर्_१.२२४ ॥ २.निक्षिपः स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥ नर्_२.०१ ॥ अन्यद्रव्यव्यवहितं द्रव्यमव्याकृतं च यत् । निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् ॥ नर्_२.०२ ॥ स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा । प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ॥ नर्_२.०३ ॥ याच्यमानस्तु यो दात्रा निक्षेपं न प्रयच्छति । दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् ॥ नर्_२.०४ ॥ यश्चार्थं साधयेत्तेन निक्षेप्तुरननुज्ञया । तत्रापि दण्ड्यः स भवेत्तच्च सोदयमावहेत् ॥ नर्_२.०५ ॥ ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितम् ॥ नर्_२.०६ ॥ एष एव विधिर्दृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ नर्_२.०७ ॥ प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः । तस्याप्येष भवेद्धर्मः षडेते विधयः समाः ॥ नर्_२.०८ ॥ ३.संभूयसमुत्थानम् वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते । तत्संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥ नर्_३.०१ ॥ फलहेतोरुपायेन कर्म संभूय कुर्वताम् । आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः ॥ नर्_३.०२ ॥ समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः । क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधाः ॥ नर्_३.०३ ॥ भाण्डपिण्डव्ययोद्धार- भारसारान्ववेक्षणम् । कुर्युस्तेऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥ नर्_३.०४ ॥ प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् । असंदिष्टश्च यत्कुर्यात्सर्वैः संभूयकारिभिः ॥ नर्_३.०५ ॥ दैवतस्करराजोत्थे व्यसने समुपस्थिते । यस्तत्स्वशक्त्या संरक्षेत्तस्यांशो दशमः स्मृतः ॥ नर्_३.०६ ॥ एकस्य चेत्स्याद्व्यसनं दायादोऽस्य तदाप्नुयात् । अन्यो वासति दायादे शक्ताश्चेत्सर्व एव वा ॥ नर्_३.०७ ॥ ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत् । लभेत दक्षिणाभागं स तस्मात्संप्रकल्पितम् ॥ नर्_३.०८ ॥ ऋत्विग्याज्यमदुष्टं यस्त्यजेदनपकारिणम् । अदुष्टं व र्त्विजं याज्यो विनेयौ तावुभावपि ॥ नर्_३.०९ ॥ ऋत्विक्तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः । यदृच्छया च यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम् ॥ नर्_३.१० ॥ क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम् । यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् ॥ नर्_३.११ ॥ शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोपगम् । न तद्व्यतिहरेद्राज्ञां बलिरेष प्रकल्पितः ॥ नर्_३.१२ ॥ शुल्कस्थानं परिहरन्न काले क्रयविक्रयी । मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणमत्ययम् ॥ नर्_३.१३ ॥ कश्चिच्चेत्संचरन् देशात्प्रेयादभ्यागतो वणिक् । राजास्य भाण्डं तद्रक्षेत्यावद्दायाददर्शनम् ॥ नर्_३.१४ ॥ दायादेऽसति बन्धुभ्यो ज्ञातिभ्यो वा तदर्पयेत् । तदभावे सुगुप्तं तद्धारयेद्दशतीः समाः ॥ नर्_३.१५ ॥ अस्वामिकमदायादं दशवर्षस्थितं ततः । राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥ नर्_३.१६ ॥ ४.दत्ताप्रदानिकम् दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥ नर्_४.०१ ॥ अदेयमथ देयं च दत्तं चादत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥ नर्_४.०२ ॥ तत्र ह्यष्टावदेयानि देयमेकविधं स्मृतम् । दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् ॥ नर्_४.०३ ॥ अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ नर्_४.०४ ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥ नर्_४.०५ ॥ कुटुम्बभरणाद्द्रव्यं यत्किंचिदतिरिच्यते । तद्देयमुपहृत्यान्यद्ददद्दोषमवाप्नुयात् ॥ नर्_४.०६ ॥ पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ नर्_४.०७ ॥ अदत्तं तु भयक्रोध- शोकवेगरुजान्वितैः । तथोत्कोचपरीहास- व्यत्यासच्छलयोगतः ॥ नर्_४.०८ ॥ बालमूढास्वतन्त्रार्त- मत्तोन्मत्तापवर्जितम् । कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥ नर्_४.०९ ॥ अपात्रे पात्रमित्युक्ते कार्ये चाधर्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् ॥ नर्_४.१० ॥ गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति । अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥ नर्_४.११ ॥ ५.अभ्युपेत्याशुश्रूषा अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥ नर्_५.०१ ॥ शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः ॥ नर्_५.०२ ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥ नर्_५.०३ ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ नर्_५.०४ ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ नर्_५.०५ ॥ गृहद्वाराशुचिस्थान- रथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्ट- विण्मूत्रग्रहणोज्झनम् ॥ नर्_५.०६ ॥ इष्टतः स्वामिनश्चाङ्गैरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥ नर्_५.०७ ॥ आ विद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् । तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥ नर्_५.०८ ॥ ब्रह्मचारी चरेद्भैक्षमधःशाय्यनलङ्कृतः । जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर्गृहे ॥ नर्_५.०९ ॥ नासंदिष्टः प्रतिष्ठेत तिष्ठेद्वापि गुरुं क्वचित् । संदिष्टः कर्म कुर्वीत शक्तश्चेदविचारयन् ॥ नर्_५.१० ॥ यथाकालमधीयीत यावन्न विमना गुरुः । आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः ॥ नर्_५.११ ॥ अनुशास्यश्च गुरुणा न चेदनुविधीयते । अवधेनाथवा हन्यात्रज्ज्वा वेणुदलेन वा ॥ नर्_५.१२ ॥ भृशं न ताडयेदेनं नोत्तमाङ्गे न वक्षसि । अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥ नर्_५.१३ ॥ समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् । प्रतीयात्स्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥ नर्_५.१४ ॥ स्वशिल्पमिच्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥ नर्_५.१५ ॥ आचार्यः शिक्षयेदेनं स्वगृहाद्दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥ नर्_५.१६ ॥ शिक्षयन्तमदुष्टं च यस्त्वाचार्यं परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥ नर्_५.१७ ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ नर्_५.१८ ॥ गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् । शक्तितश्चानुमान्यैनमन्तेवासी निवर्तयेत् ॥ नर्_५.१९ ॥ भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः ॥ नर्_५.२० ॥ उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥ नर्_५.२१ ॥ अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि । सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ नर्_५.२२ ॥ शुभकर्मकरास्त्वेते चत्वारः समुदाहृताः । जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥ नर्_५.२३ ॥ गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाधत्तः स्वामिना च यः ॥ नर्_५.२४ ॥ मोक्षितो महतश्चर्णात्प्राप्तो युद्धात्पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ नर्_५.२५ ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाभृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥ नर्_५.२६ ॥ तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते । प्रसादाद्स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ॥ नर्_५.२७ ॥ यश्चैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥ नर्_५.२८ ॥ अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यद्दुर्भिक्षे न तच्छुध्येत कर्मणा ॥ नर्_५.२९ ॥ आधत्तोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् । अथोपगमयेदेनं स विक्रीतादनन्तरः ॥ नर्_५.३० ॥ दत्त्वा तु सोदयमृणमृणी दास्यात्प्रमुच्यते । कृतकालाभ्युपगमात्कृतकोऽपि विमुच्यते ॥ नर्_५.३१ ॥ तवाहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥ नर्_५.३२ ॥ राज्ञ एव तु दासः स्यात्प्रव्रज्यावसितो नरः । न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन ॥ नर्_५.३३ ॥ भक्तस्योपेक्षणात्सद्यो भक्तदासः प्रमुच्यते । निग्रहाद्वडवायाश्च मुच्यते वडवाभृतः ॥ नर्_५.३४ ॥ विक्रीणीते य आत्मानं स्वतन्त्रः सन्नराधमः । स जघन्यतरस्तेषां नैव दास्यात्प्रमुच्यते ॥ नर्_५.३५ ॥ चौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥ नर्_५.३६ ॥ वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥ नर्_५.३७ ॥ तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति । न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥ नर्_५.३८ ॥ अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ नर्_५.३९ ॥ स्वदासमिच्छेद्यः कर्तुमदासं प्रीतमानसः । स्कन्धादादाय तस्यापि भिन्द्यात्कुम्भं सहाम्भसा ॥ नर्_५.४० ॥ अक्षताभिः सपुष्पाभिर्मूर्धन्येनमवाकिरेत् । अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथोत्सृजेत् ॥ नर्_५.४१ ॥ ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः । भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः ॥ नर्_५.४२ ॥ ६.वेतनस्यानपाकर्म भृतानां वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ नर्_६.१ ॥ भृताय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥ नर्_६.२ ॥ भृतावनिश्चितायां तु दशभागं समाप्नुयुः । लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः ॥ नर्_६.३ ॥ कर्मोपकरणं चैषां क्रियां प्रति यदाहृतम् । आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् ॥ नर्_६.४ ॥ कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् । भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिमावहेत् ॥ नर्_६.५ ॥ कालेऽपूर्णे त्यजेत्कर्म भृतिनाशोऽस्य चार्हति । स्वामिदोषादपाक्रामन् यावत्कृतमवाप्नुयात् ॥ नर्_६.६ ॥ भृतिषड्भागमाभाष्य पथि युग्यकृतं त्यजन् । अददत्कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥ नर्_६.७ ॥ अनयन् भाटयित्वा तु भाण्डवान् यानवाहने । दाप्यो भृतिचतुर्भागं सममर्धपथे त्यजन् ॥ नर्_६.८ ॥ अनयन् वाहकोऽप्येवं भृतिहानिमवाप्नुयात् । द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन् ॥ नर्_६.९ ॥ भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नष्टं स्याद्दैवराजकृतादृते ॥ नर्_६.१० ॥ गवां शताद्वत्सतरी धेनुः स्याद्द्विशताद्भृतिः । प्रति सम्वत्सरं गोपे सदोहश्चाष्टमेऽहनि ॥ नर्_६.११ ॥ उपानयेत्गा गोपाय प्रत्यहं रजनीक्षये । चीऋणाः पीताश्च ता गोपः सायाह्ने प्रत्युपानयेत् ॥ नर्_६.१२ ॥ स्याच्चेद्गोव्यसनं गोपो व्यायच्छेत्तत्र शक्तितः । अशक्तस्तूर्णमागम्य स्वामिने तन्निवेदयेत् ॥ नर्_६.१३ ॥ अव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । वोढुमर्हति गोपस्तां विनयं चापि राजनि ॥ नर्_६.१४ ॥ नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण गोपायैव निपातयेत् ॥ नर्_६.१५ ॥ अजाविके तथारुद्धे वृकैः पाले त्वनायति । यत्प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ नर्_६.१६ ॥ तासां चैवानिरुद्धानां चरन्तीनां मिथो वने । यामुत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ नर्_६.१७ ॥ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ नर्_६.१८ ॥ एतेन सर्वपालानां विवादः समुदाहृतः । मृतेषु च विशुद्धिः स्यात्पालस्याङ्कादिदर्शनात् ॥ नर्_६.१९ ॥ शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदावहेत् । अप्रयच्छंस्तदा शुल्कमनुभूय पुमान् स्त्रियम् ॥ नर्_६.२० ॥ अयोनौ क्रमते यस्तु बहुभिर्वापि वासयेत् । शुल्कमष्टगुणं दाप्यो विनयस्तावदेव च ॥ नर्_६.२१ ॥ पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत्तु यः । स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥ नर्_६.२२ ॥ स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् । ग्रहीतुराभवेद्भग्नं नष्टं चान्यत्र संप्लवात् ॥ नर्_६.२३ ॥ ७.अस्वामिविक्रयः निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः ॥ नर्_७.१ ॥ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् । प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥ नर्_७.२ ॥ अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः । हीनमूल्यमवेलायां क्रीणंस्तद्दोषभाग्भवेत् ॥ नर्_७.३ ॥ न गूहेतागमं क्रेता शुद्धिस्तस्य तदागमात् । विपर्यये तुल्यदोषः स्तेयदण्डं च सोऽर्हति ॥ नर्_७.४ ॥ विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् । दद्याद्दण्डं तथा राज्ञे विधिरस्वामिविक्रये ॥ नर्_७.५ ॥ परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् । राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते ॥ नर्_७.६ ॥ ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । तेन दत्तं च भूञ्जीत स्तेनः स्यादनिवेदयन् ॥ नर्_७.७ ॥ स्वमप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । गृह्णीयात्तत्र तं शुद्धमशुद्धं स्यात्ततोऽन्यथा ॥ नर्_७.८ ॥ ८.क्रीतानुशयः विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । विक्रीयासंप्रदानं तद्विवादपदमुच्यते ॥ नर्_८.१ ॥ लोकेऽस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा । क्रयविक्रयधर्मेषु सर्वं तत्पण्यमुच्यते ॥ नर्_८.२ ॥ षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ नर्_८.३ ॥ विक्रीय पण्यं मूल्येन क्रेतुर्यो न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ नर्_८.४ ॥ अर्घश्चेदपहीयेत सोदयं पण्यमावहेत् । स्थायिनामेष नियमो दिग्लाभो दिग्विचारिणाम् ॥ नर्_८.५ ॥ उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः ॥ नर्_८.६ ॥ निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥ नर्_८.७ ॥ तथान्यहस्ते विक्रीय योऽन्यस्मै संप्रयच्छति । सोऽपि तद्द्विगुणं दाप्यो विनेयस्तावदेव च ॥ नर्_८.८ ॥ दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी । विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ॥ नर्_८.९ ॥ दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अदत्तेऽन्यत्र समयान्न विक्रेतुरतिक्रमः ॥ नर्_८.१० ॥ लाभार्थे वणिजां सर्व- पण्येषु क्रयविक्रयः । स च लाभोऽर्घमासाद्य महान् भवति वा न वा ॥ नर्_८.११ ॥ तस्माद्देशे च काले च वणिगर्घं पराक्रमेत् । न जिह्मेन प्रवर्तेत श्रेयानेवं वणिक्पथः ॥ नर्_८.१२ ॥ ९.विक्रीयासंप्रदानम् क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीत्वानुशय इत्येतद्विवादपदमुच्यते ॥ नर्_९.१ ॥ क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतम् ॥ नर्_९.२ ॥ द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशमावहेत् । द्विगुणं तत्तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ नर्_९.३ ॥ क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥ नर्_९.४ ॥ त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वाह्यमेव तु । मुक्तावज्रप्रवालानां सप्ताहं स्यात्परीक्षणम् ॥ नर्_९.५ ॥ द्विपदामर्धमासं स्यात्पुंसां तद्द्विगुणं स्त्रियाः । दशाहं सर्वबीजानामेकाहं लोहवाससाम् ॥ नर्_९.६ ॥ परिभुक्तं च यद्वासः क्लिष्टरूपं मलीमसम् । सदोषमपि विक्रीतं विक्रेतुर्न भवेत्पुनः ॥ नर्_९.७ ॥ मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः । द्विः पादस्त्रिस्त्रिभागस्तु चतुःकृत्वोऽर्धमेव च ॥ नर्_९.८ ॥ अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । यावत्क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये ॥ नर्_९.९ ॥ लोहानामपि सर्वेषां हेतुरग्निक्रियाविधौ । क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसंगमात् ॥ नर्_९.१० ॥ सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । शतमष्टपलं ज्ञेयं क्षयस्स्यात्त्रपुसीसयोः ॥ नर्_९.११ ॥ ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः । तद्धातूनामनेकत्वादयसोऽनियमः क्षये ॥ नर्_९.१२ ॥ तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । सूत्रकार्पासिकोर्णानां वृद्धिर्दशपलं शतम् ॥ नर्_९.१३ ॥ स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् । त्रिपलं तु सुसूक्ष्माणामन्तःक्षय उदाहृतः ॥ नर्_९.१४ ॥ त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु । कौषेयवल्कलानां तु नैव वृद्धिर्न च क्षयः ॥ नर्_९.१५ ॥ क्रीत्वा नानुशयं कुर्याद्वणिक्पण्यविचक्षणः । वृद्धिक्षयौ तु जानीयात्पण्यानामागमं तथा ॥ नर्_९.१६ ॥ १०.समयस्यानपाकर्म पाषण्डनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ नर्_१०.१ ॥ पाषण्डनैगमश्रेणी- पूगव्रातगणादिषु । संरक्षेत्समयं राजा दुर्गे जनपदे तथा ॥ नर्_१०.२ ॥ यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः । यच्चैषां वृत्त्युपादानमनुमन्येत तत्तथा ॥ नर्_१०.३ ॥ प्रतिकूलं च यद्राज्ञः प्रकृत्यवमतं च यत् । बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् ॥ नर्_१०.४ ॥ मिथः संघातकरणमहितं शस्त्रधारणम् । परस्परोपघातं च तेषां राजा न मर्षयेत् ॥ नर्_१०.५ ॥ पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः । आवहेयुर्भयं घोरं व्याधिवत्ते ह्युपेक्षिताः ॥ नर्_१०.६ ॥ दोषवत्करणं यत्स्यादनाम्नायप्रकल्पितम् । प्रवृत्तमपि तद्राजा श्रेयस्कामो निवर्तयेत् ॥ नर्_१०.७ ॥ ११.क्षेत्रजविवादः सेतुकेदारमर्यादा- विकृष्टाकृष्टनिश्चयाः । क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥ नर्_११.१ ॥ क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः । नगरग्रामगणिनो ये च वृद्धतमा नराः ॥ नर्_११.२ ॥ ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः । गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥ नर्_११.३ ॥ समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् । तुषाङ्गारकपालैश्च कुम्भैरायतनैर्द्रुमैः ॥ नर्_११.४ ॥ अभिज्ञातैश्च वल्मीक- स्थलनिम्नोन्नतादिभिः । केदाराराममार्गैश्च पुराणैः सेतुभिस्तथा ॥ नर्_११.५ ॥ निम्नगापहृतोत्सृष्ट- नष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणैर्भोगदर्शनैः ॥ नर्_११.६ ॥ अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिश्चये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ नर्_११.७ ॥ गणवृद्धादयस्त्वन्ये दण्डं दाप्याः पृथक्पृथक् । विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥ नर्_११.८ ॥ नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्थिता ॥ नर्_११.९ ॥ एकश्चेदुन्नयेत्सीमां सोपवासः समाहितः । रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि ॥ नर्_११.१० ॥ यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् । तदा राजा द्वयोः सीमामुद्धरेदिष्टतः स्वयम् ॥ नर्_११.११ ॥ एतेनैव गृहोद्यान- निपानायतनादिषु । विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥ नर्_११.१२ ॥ अवस्करस्थलश्वभ्र- भ्रमस्यन्दनिकादिभिः । चतुष्पथसुरस्थान- रथ्यामार्गान्न रोधयेत् ॥ नर्_११.१३ ॥ परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते । महागुणोऽल्पबाधश्च वृद्धिरिष्टा क्षये सति ॥ नर्_११.१४ ॥ सेतुस्तु द्विदिधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्तनान् खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥ नर्_११.१५ ॥ नान्तरेणोदकं सस्यं नश्येदभ्युदकेन तु । य एवानुदके दोषः स एवाभ्युदके स्मृतः ॥ नर्_११.१६ ॥ पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ नर्_११.१७ ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे । राजानमामन्त्र्य ततः प्रकुर्यात्सेतुकर्म तत् ॥ नर्_११.१८ ॥ अतोऽन्यथा क्लेशभाक्स्यान्मृगव्याधानुदर्शनात् । इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥ नर्_११.१९ ॥ अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ॥ नर्_११.२० ॥ विकृष्यमाणे क्षेत्रे चेत्क्षेत्रिकः पुनराव्रजेत् । खिलोपचारं तत्सर्वं दत्त्वा स्वक्षेत्रमाप्नुयात् ॥ नर्_११.२१ ॥ तदष्टभागापचयाद्यावत्सप्त गताः समाः । संप्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥ नर्_११.२२ ॥ संवत्सरेणार्धखिलं खिलं तद्वत्सरैस्त्रिभिः । पञ्चवर्षावसन्नं तु स्यात्क्षेत्रमटवीसमम् ॥ नर्_११.२३ ॥ क्षेत्रं त्रिपुरुषं यत्स्याद्गृहं वा स्यात्क्रमागतम् । राजप्रसादादन्यत्र न तद्भोगः परं नयेत् ॥ नर्_११.२४ ॥ उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः । पालः शास्यो भवेत्तत्र न चेच्छक्त्या निवारयेत् ॥ नर्_११.२५ ॥ समूलसस्यनाशे तु तत्स्वामी सममाप्नुयात् । वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥ नर्_११.२६ ॥ गौः प्रसूता दशाहात्च महोक्षाजाविकुञ्जराः । निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥ नर्_११.२७ ॥ माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । अजाविके सवत्से तु दण्डः स्यादर्धमाषकः ॥ नर्_११.२८ ॥ अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः । अदण्ड्या गर्भिणी गौश्च सूतिका चाभिसारिणी ॥ नर्_११.२९ ॥ प्रोक्तस्तु द्विर्निषण्णानां वसन्त्यां तु चतुर्गुणम् । प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस्तथा ॥ नर्_११.३० ॥ या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः । न तत्र गोमिनो दण्डः पालस्तं दण्डमर्हति ॥ नर्_११.३१ ॥ राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा । अथ सर्पेण दष्टो वा गिर्यग्रात्पतितोऽपि वा ॥ नर्_११.३२ ॥ सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः । न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् ॥ नर्_११.३३ ॥ गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति । सामन्तस्य शदो देयो धान्यं यत्तत्र वापितम् । गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु ॥ नर्_११.३४ ॥ ग्रामोपान्ते च यत्क्षेत्रं विवीतान्ते महापथे । अनावृते चेत्तन्नाशे न पालस्य व्यतिक्रमः ॥ नर्_११.३५ ॥