१,व्यवहारकाण्डम् १,१ धर्मप्रधानाः पुरुषाः पूर्वमासन्नहिंसकाः । लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ॥ १,१.१ ॥ प्रयच्छेच्चेद्भृतिं स्वामी भृत्यानां कर्म कुर्वताम् । न कुर्वन्ति च भृत्याश्चेत्तत्र वादः प्रवर्तते ॥ १,१.२ ॥ हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति । द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ॥ १,१.३ ॥ यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते । तन्मूल्यमुत्तमर्णेन व्यवहार इति स्मृतः ॥ १,१.४ ॥ [१,१.१ राजगुणाः] गुणधर्मानतो राज्ञः कथयाम्यनुपूर्वशः । धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ॥ १,१.५ ॥ विचारयति यः सम्यक्तस्योत्पत्तिं निबोधत । सोमाग्न्यर्कानिलेन्द्राणां वित्तापत्त्योर्यमस्य च ॥ १,१.६ ॥ तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर्हि निर्मिता । तस्य सवाणि भूतानि चराणि स्थावराणि च ॥ १,१.७ ॥ भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च । नाराजके कृषिवणिक्- कुसीदपरिपालनम् ॥ १,१.८ ॥ तस्माद्वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा । [१,१.२ व्यवहारपदानि] द्विपदो व्यवहारः स्यात्धनहिंसासमुद्भवः ॥ १,१.९ ॥ द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः । पारुष्ये द्वे वधश्चैव परस्त्रीसंग्रहस्तथा ॥ १,१.१० ॥ कुसीदनिधिदेयाद्यं संभूयोत्थानमेव च । भृत्यदानमशुश्रूषा भूवादोऽस्वामिविक्रियः ॥ १,१.११ ॥ क्रयविक्रयानुशयः समयातिक्रमस्तथा । स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ॥ १,१.१२ ॥ एतान्यर्थसमुत्थानि पदानि तु चतुर्दश । पुनरेवं प्रभिन्नानि क्रियाभेदादनेकदहा ॥ १,१.१३ ॥ पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा । हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ॥ १,१.१४ ॥ हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् । विशेष एषां निर्दिष्टश्चतुर्णामप्य् अनुक्रमात् ॥ १,१.१५ ॥ पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु । मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ॥ १,१.१६ ॥ पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा । क्रियापादस्तथा वाच्यश्चतुर्थो निर्णयस्तथा ॥ १,१.१७ ॥ [१,१.३ धर्मादिचतुष्टयबलाबलम्] धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया । चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥ १,१.१८ ॥ शास्त्रं केवलमाश्रित्य क्रियते यत्र निर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनापि वर्धते ॥ १,१.१९ ॥ देशस्थित्यानुमानेन नैगमानुमतेन च । क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते ॥ १,१.२० ॥ विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः । निर्णयं सा तु राजाज्ञा चरितं बाध्यते तया ॥ १,१.२१ ॥ धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः । व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च । क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः ॥ १,१.२२ ॥ [१,१.४ धर्माधिकरणम्] सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् । चतुर्दशकमेवेदं मण्डलं परिचक्षते ॥ १,१.२३ ॥ चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् । अमात्यादिभिरेते च जगत्यक्षरसंहिताः ॥ १,१.२४ ॥ प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः । गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ॥ १,१.२५ ॥ यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरैः । अभिनन्द्य च गुर्वादीन् सुमुखः प्रविशेत्सभाम् ॥ १,१.२६ ॥ राजा कार्याणि संपश्येत्सद्भिरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ १,१.२७ ॥ [१,१.५ दुर्गलक्षणम्] आत्मदारार्थलोकानां संचितानां तु गुप्तये । नृपतिः कारयेद्दुर्गं प्राकारद्वयसंयुतम् ॥ १,१.२८ ॥ भूपानामिन्धनरसैर्वेत्रशष्पान्नवाहनैः । यन्त्रायुधैश्च विविधैः स्निग्धैः शूरैर्नरैर्युतम् ॥ १,१.२९ ॥ वेदविद्याविदो विप्रान् क्षत्रियानग्निहोत्रिणः । आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥ १,१.३० ॥ अनाच्छेद्याः करास्तेभ्यः प्रदेया गृहभूमयः । मुक्ता भाव्याश्च नृपतेर्लेखयित्वा स्वशासने ॥ १,१.३१ ॥ नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । पौराणां कर्म कुर्युस्ते संदिग्धविनयं तथा ॥ १,१.३२ ॥ समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा । शालाट्टपरिखाद्याश्च कर्तव्याश्च तथाविधाः ॥ १,१.३३ ॥ समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः । द्विजवैश्यवणिच्छिल्पि- कारुका रक्षकास्तथा ॥ १,१.३४ ॥ स्हलावस्थाननिष्काश- भ्रमश्वभ्रचतुष्पथान् । समाजविक्रयस्थान- गोव्रजांश्चैव कल्पयेत् ॥ १,१.३५ ॥ गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि । कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥ १,१.३६ ॥ तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् । अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ॥ १,१.३७ ॥ [१,१.६ प्रजापालनलक्षणम्][प्.७] सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद्बलमुत्तमम् ॥ १,१.३८ ॥ तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः । परचक्राच्चौरभयाद्बलिनोऽन्यायवर्तिनः ॥ १,१.३९ ॥ परानीकस्तेनभयमुपायैः शमयेन्नृपः । बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥ १,१.४० ॥ यदधीते यद्यजते यज्जुहोति यदर्चति । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ १,१.४१ ॥ रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ १,१.४२ ॥ दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् । खिलाद्वर्षावसन्ताच्च कृष्यमाणाद्यथाक्रमम् ॥ १,१.४३ ॥ देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् । एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥ १,१.४४ ॥ [१,१.७ सभानिवेशनप्रकारः] औदकं पार्वतं वार्क्ष्यमैरणं धान्वनं तथा । दुर्गमध्ये गृहं कुर्याज्जलवृक्षावृतं पृथक् ॥ १,१.४५ ॥ प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् । माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ॥ १,१.४६ ॥ प्रतिमालेख्यदेवैश्च युक्तामग्न्यम्बुना तथा । लक्षण्यां वास्तुशास्त्रोक्त- लक्षणेन तु लक्षिताम् ॥ १,१.४७ ॥ भद्रासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ १,१.४८ ॥ विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः । सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥ १,१.४९ ॥ यशो वित्तं फलरसो भोगोपग्रहपूजनम् । अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ॥ १,१.५० ॥ वोदोत्वैतान्न्यायरसान् समो भूत्वा विवादनम् । त्यक्तलोभादिकं राजा धर्मं कुर्याद्विनिर्णयम् ॥ १,१.५१ ॥ राजा वृत्तिविवादानां स्वयमेव प्रदर्शनम् । शास्त्रदृष्टेन मार्गेण स विद्वद्भिः प्रसेव्यते ॥ १,१.५२ ॥ तस्मान्न्यायेन राजा तु सम्यग्यत्नेन पालयेत् । तस्मादर्थं च राज्यं च [यशश्च] विपुलं लभेत् ॥ १,१.५३ ॥ सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ १,१.५४ ॥ पश्वाज्य्यर्त्विगादीनां संयोगाज्जायतेऽध्वरः । यथा संबध्यते तेन व्यवहारस्तथोच्यते ॥ १,१.५५ ॥ प्राड्विवाकसदस्यानामुपजीव्य मतानि तु । तद्युक्तियोगाद्योऽर्थेषु निर्णये न स दण्डभाक् ॥ १,१.५६ ॥ [१,१.८ सभाप्रभेदाः] प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा । चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधाः ॥ १,१.५७ ॥ प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता । मुद्रिता अध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥ १,१.५८ ॥ न्यायान् पश्येत्कृतमतिः सा सभाध्वरसंमिता । [१,१.९ सभ्याः] लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥ १,१.५९ ॥ कुर्यादलग्नकौ रक्षेदर्थिप्रथ्यर्थिनौ सदा । एतद्दशाङ्गं करणं यस्यामध्यास्त पार्थिवः ॥ १,१.६० ॥ द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥ १,१.६१ ॥ साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः । अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ॥ १,१.६२ ॥ सप्त पञ्च त्रयो वा सभासदो भवन्ति ॥ १,१.६३ ॥ देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः । उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥ १,१.६४ ॥ राजा कार्याणि संपश्येत्प्राड्विवाकोऽथ वा द्विजः । न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥ १,१.६५ ॥ बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः । दीप्यमानः स्ववपुषा तेन राजाभिधीयते ॥ १,१.६६ ॥ एकस्त्वनेकधा प्रोक्तो व्यवहारो मनीषिभिः । तस्य निर्णयकृद्राजा ब्राह्मणश्च बहुश्रुतः ॥ १,१.६७ ॥ व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति श्रुतिः । विवदेत्तत्र यस्तस्मिन् प्राड्विवाकस्तु स स्मृतः ॥ १,१.६८ ॥ विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥ १,१.६९ ॥ सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ १,१.७० ॥ सर्वशास्त्रार्थवेत्तारमलुब्धं न्यायभाषिणम् । विप्रं प्राज्ञं क्रमायातममात्यं स्थापयेद्द्विजम् ॥ १,१.७१ ॥ द्विजान् विहाय यः पश्येत्कार्याणि वृषलैः सह । तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ॥ १,१.७२ ॥ ये चारण्यचरास्तेषामरण्ये करणं भवेत् । सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ॥ १,१.७३ ॥ कीनाशाः कारुका मल्लाः कुसीदश्रेणिवर्तकाः । लिङ्गिनस्तस्कराश्चैव स्वेन धर्मेण निर्णयः ॥ १,१.७४ ॥ कुलानि श्रेणयश्चैव गणास्त्वधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ १,१.७५ ॥ तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् ॥ १,१.७६ ॥ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ १,१.७७ ॥ अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुरोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १,१.७८ ॥ यत्र विप्रो न विद्वान् स्यात्क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ १,१.७९ ॥ धर्मकर्मविहीनस्तु ब्राह्मैर्लिङ्गैर्विवर्जितः । ब्रवीति ब्राह्मणोऽस्मीति तमाहुर्ब्राह्मणब्रुवम् ॥ १,१.८० ॥ शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची । नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥ १,१.८१ ॥ अकारणे रक्षणे च साक्ष्यर्थिप्रवादिनाम् । सभ्याधीनः सत्यवादी कर्तव्यस्तु स पूरुषः ॥ १,१.८२ ॥ एतद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः । न्य्हायं पश्येत्कृतमतिः सा सभाध्वरसंमिता ॥ १,१.८३ ॥ एषां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ॥ १,१.८४ ॥ हेमाग्न्यम्बुदृशौ हृच्च पादौ स्वपुरुषस्तथा ॥ १,१.८५ ॥ हिरण्यमग्निमुदकं धर्मशास्त्राणि चैव हि । तन्मध्ये स्थापयेद्राजा पुण्यानि च हितानि च ॥ १,१.८६ ॥ आदित्यचन्द्रदेवादि दिक्पालान् तत्र कल्पयेत् । हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥ १,१.८७ ॥ दशानामपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् । वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ॥ १,१.८८ ॥ स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा । शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ॥ १,१.८९ ॥ गणको गणयेदर्थं लिखेन्न्यायं च लेखकः । पर्त्यर्थिसभ्यानयनं साक्षिणं च स्वपूरुषः ॥ १,१.९० ॥ वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ । अर्थदण्डवधावुक्तौ राजायतावुभावपि ॥ १,१.९१ ॥ राज्ञा ये विदिताः सम्यक्कुलश्रेणिगणादयः । साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥ १,१.९२ ॥ कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः । विचार्य श्रेणिभिः कार्यं कुलैर्यन्न विचारितम् ॥ १,१.९३ ॥ गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः । कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षः स्मृतोऽधिकः ॥ १,१.९४ ॥ सर्वेषामधिको राजा धर्मं यत्नेन निश्चितम् । उत्तमाधममध्यानां विवादानां विचारणात् ॥ १,१.९५ ॥ उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः । अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ॥ १,१.९६ ॥ निरामयान् यः कुरुते शास्त्राञ्जनशलाकया । इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ॥ १,१.९७ ॥ लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् । शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥ १,१.९८ ॥ अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः । उपेक्षमाणास्ते भूपा नरकं यान्त्यधोमुखाः ॥ १,१.९९ ॥ न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः । वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः ॥ १,१.१०० ॥ सभ्येन तावद्वक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ॥ १,१.१०१ ॥ अनिर्णीतेषु यद्येवं संभाषेत रहोऽर्थिना । प्राड्विवाकोऽपि दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ॥ १,१.१०२ ॥ स्नेताच्चाज्ञानतो वापि मोहाद्वा लोभतोऽपि वा । यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ॥ १,१.१०३ ॥ लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः । प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ॥ १,१.१०४ ॥ निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः । तेषां नृपः प्रमाणं स्यात्स सर्वस्य प्रभुर्यतः ॥ १,१.१०५ ॥ व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ १,१.१०६ ॥ अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । विश्वस्ते वञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥ १,१.१०७ ॥ नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । यत्तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ॥ १,१.१०८ ॥ पूर्वामुखस्तूपविशेद्राजा सभ्या उदङ्मुखाः । गणकः पश्चिमा यस्तु लेखको दक्षिणामुखः ॥ १,१.१०९ ॥ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ १,१.११० ॥ धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः । समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ १,१.१११ ॥ न्यायशास्त्रमतिक्रम्य सभ्यैरत्र तु निश्चितम् । तत्र धर्मो हतो हन्ति सर्वानेव न संशयः ॥ १,१.११२ ॥ धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन । द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥ १,१.११३ ॥ केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥ १,१.११४ ॥ पूर्वाह्णे तामधिष्ठाय वृद्धामात्यानुजीविभिः । पश्येत्पुराणधर्मार्थ- शास्त्राणि शृणुयात्तथा ॥ १,१.११५ ॥ चौरोऽचौरः साध्वसाधु जायते व्यवहारतः । युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ॥ १,१.११६ ॥ असत्याः सत्यसदृशाः सत्याश्चासत्यसंनिभाः । दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ॥ १,१.११७ ॥ यज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः । जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ॥ १,१.११८ ॥ पूर्वपक्षोत्तरावाद्यं प्रतिज्ञा च हविः स्मृतः । त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ॥ १,१.११९ ॥ तथा चैवोपदृष्टारौ ज्ञेयौ गणकलेखकौ । एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ॥ १,१.१२० ॥ स्मृत्याचारव्यपेतेन मार्गेनाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ १,१.१२१ ॥ पतितादिकृतश्चैव यश्च न प्रकृतिं गतः । अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ॥ १,१.१२२ ॥ मत्तोन्मत्तार्तव्यसनि- बालवृद्धप्रयोजितः । असंबन्धकृतश्चैव व्यवहारो न सिध्यति ॥ १,१.१२३ ॥ गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ । एतेषां समवेतानां व्यवहारो न सिध्यति ॥ १,१.१२४ ॥ एवं परीक्षितं सभ्यैः पूर्व्पक्षं तु लेखयेत् । अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥ १,१.१२५ ॥ [१,१.१० देशजातिधर्मास्तथैव पालनीयाः] प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् । देशजातिकुलादीनां ये धर्मास्तत्प्रवर्तिताः ॥ १,१.१२६ ॥ तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा । जनापरक्तिर्भवति बलं कोशश्च नश्यति ॥ १,१.१२७ ॥ उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥ १,१.१२८ ॥ मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥ १,१.१२९ ॥ सहजाताः प्रगृह्णन्ति भ्रातृभार्यामभर्तृकाम् । अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥ १,१.१३० ॥ विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् । भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥ १,१.१३१ ॥ [प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम्] । शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ॥ १,१.१३२ ॥ तां दृष्ट्वा निर्णयं कुर्यात्प्राङ्निविष्टव्यवस्थया । सभा शुल्कोचितदमे मासषाण्मासिके करे ॥ १,१.१३३ ॥ मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा । अर्थिनश्च वचः कार्यं वचः प्रत्यर्थिनस्तथा । परीक्ष्य पदमादद्यादन्यथा नरकं व्रजेत् ॥ १,१.१३४ ॥ एकस्य बहुभिः सर्धं स्त्रीभिः प्रेक्षकरैस्तथा । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥ १,१.१३५ ॥ [१,१.११ अनासेध्याः] सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः । मत्तो वृद्धोऽनुयुक्तश्च नृपकार्योद्यतो व्रती ॥ १,१.१३६ ॥ आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे । विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥ १,१.१३७ ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥ १,१.१३८ ॥ वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवलः । सत्रोद्यताश्चैव तथा दापनीयाः कृतक्रियाः ॥ १,१.१३९ ॥ मतिर्नोत्सहते यत्र विवादं कर्तुमिच्छते । दातव्यस्तस्य कालः स्यादर्थिप्रत्यर्थिनोरपि ॥ १,१.१४० ॥ यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा । तमेवानाययेद्राजा सुद्रया पुरुषेण वा ॥ १,१.१४१ ॥ अप्रगल्भजडोन्मात- वृद्धस्त्रीबालरोगिणाम् । पूर्वोत्तरं वदेद्बन्धुर्नियुक्तोऽन्योऽथ वा नरः ॥ १,१.१४२ ॥ ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तिनौ । यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ॥ १,१.१४३ ॥ [१,१.१२ आह्वानम्][प्.२४] आहूतो यस्तु नागच्छेद्दर्पाद्बन्धुबलान्वितः । अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥ १,१.१४४ ॥ काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥ १,१.१४५ ॥ एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैः ब्राह्मणैः सह । विमृश्य कार्यं न्याय्यं चेदाह्वानार्थमतः परम् ॥ १,१.१४६ ॥ मुद्रां दद्याद्यथा पत्रं पुरुषं वा समादिशेत् । आहूतस्त्व् अवमन्येत यः शक्तो राजशासनम् । अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥ १,१.१४७ ॥ अकल्पबालस्थविर- विषमस्थक्रियाकुलान् । हीने कर्मणि पञ्चाशन्मध्यमेषु शतावरः । गुरुकार्येषु दण्ड्यः स्यात्न्नित्यं पञ्चशतावरः ॥ १,१.१४८ ॥ परानीकहते देशे दुर्भिक्षे व्याधिपीडिते । कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ॥ १,१.१४९ ॥ कार्यातिपातिव्यसनि- नृपकार्योत्सवाकुलान् ॥ १,१.१५० ॥ द्जर्मोद्यतानभ्युदये पराधीनशठाकृतीन् । मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ॥ १,१.१५१ ॥ न च भ्राता न च पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥ १,१.१५२ ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ॥ १,१.१५३ ॥ कालं देशञ्च [?] विज्ञाय कार्याणां च बलावलम् । अकल्पादीनपि शनैर्यानैराह्वापयेन्नृपः ॥ १,१.१५४ ॥ तदधीनकुटुम्बिव्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतितास्तासामाह्वानमिष्यते ॥ १,१.१५५ ॥ उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ १,१.१५६ ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वापयेत्राजा गुरुकार्येष्वकोपयन् ॥ १,१.१५७ ॥ वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ १,१.१५८ ॥ स्थानासेधः काल्कृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधः आसिद्धस्तं न लङ्घयेत् ॥ १,१.१५९ ॥ क्षेत्रारामगृहादीनि धनधान्यादिकं तथा । अन्यायवादिनां त्वेतान्यासेधव्यानि वादिनाम् ॥ १,१.१६० ॥ आसेद्धा तु स्वमासेधं स्वयमेवोत्सृजेद्यदि । न तस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् ॥ १,१.१६१ ॥ राज्ञे निवेदनादूर्ध्वमासेद्धा नोत्सृजेद्स्वयम् । उत्सृजेच्चेद्दमो दाप्य आसिद्धश्च न लङ्घयेत् ॥ १,१.१६२ ॥ नदीसंतारकान्तार- दुर्देशोपप्लवादिषु । आसिद्धस्तु परासेधमुत्क्रामन्नापराध्नुयात् ॥ १,१.१६३ ॥ निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥ १,१.१६४ ॥ गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः । शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥ १,१.१६५ ॥ वृक्षं पर्वतमारूढा हस्त्यश्वरथनौस्थिताः । विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ॥ १,१.१६६ ॥ यस्त्विन्द्रियनिरोधेनाप्याहारोच्छ्वसनादिभिः । आसेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमी ॥ १,१.१६७ ॥ आसेधयोग्य आसेधमुत्क्रामन् दण्डमर्हति । आसेधयंस्तु नासेध्यं राज्ञा शास्य इति स्थितिः ॥ १,१.१६८ ॥ आगतानां विवदतामसकृद्वादिनां नृपः । वादान् पश्येन्नात्मकृतान्न चाध्यक्षनिवेदितान् ॥ १,१.१६९ ॥ [१,१.१३ वादिप्रतिवादिनोरुक्तिक्रमः][प्.२७] पीडितः स्वयमायातः शस्त्रेणार्थी यदा भवेत् । प्राड्विवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ॥ १,१.१७० ॥ योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते । वचन्ं तस्य न ग्राह्यं लिखितप्रेषितादृते ॥ १,१.१७१ ॥ अहं पूर्विकया यातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य वा ॥ १,१.१७२ ॥ उन्मत्तमत्तनिर्धूता महापातकदूषिताः । जडातिवृद्धबालश्च विज्ञेयास्तु निरुत्तराः ॥ १,१.१७३ ॥ पक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा । यादृग्वादी यश्च पक्षो ग्राह्यस्तत्कथयाम्यहम् ॥ १,१.१७४ ॥ पीडातिशयमाश्रित्य यद्ब्रवीति विवक्षितम् । स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥ १,१.१७५ ॥ [१,२. चतुष्पाद्व्यवहारोपक्रमः][प्.२९] [१,२.] भाषापादोत्तरपदौ क्रियापादस्तथैव च । प्रत्याकलितपादश्च व्यवहारश्चतुष्पदः ॥ १,२.१ ॥ मिथ्यासंप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्राङ्न्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः ॥ १,२.२ ॥ मिथ्यायां च चतुष्पादः प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥ १,२.३ ॥ उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दण्दमर्हति ॥ १,२.४ ॥ [१,२.१ पक्षलक्षणम्] उपस्थिते ततस्तस्मिन् वादी पक्षं प्रकल्पयेत् । निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ॥ १,२.५ ॥ देशस्थानसमामास- पक्षाहोनामजातिभिः । द्रव्यसंख्योदयं पीडां क्षामलिङ्गं च लेखयेत् ॥ १,२.६ ॥ यं च अर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् । न च पक्षान्तरं गच्छेत्गच्छन् पूर्वात्स हीयते ॥ १,२.७ ॥ [१,२.२ पक्षदोषाः] अप्रसिद्धं सदोषं च निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥ १,२.८ ॥ न केनचित्कृतो यस्तु सोऽप्रसिद्ध उदाहृतः । अन्यार्थः स्वार्थहीनश्च सदोषः परिकीर्तितः ॥ १,२.९ ॥ स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः । कार्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः ॥ १,२.१० ॥ कुसीदाद्यैः पदैर्हीनो व्यवहारो निरर्थकः । वाक्पार्ष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः ॥ १,२.११ ॥ ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः । असंभाव्यमसाध्यं तं पक्षमाहुर्मनीषिणः ॥ १,२.१२ ॥ यस्मिन्नावेदिते पक्षे प्राड्विवाके च राजनि । पुरे राष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते ॥ १,२.१३ ॥ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितं । विश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ १,२.१४ ॥ स्वल्पाक्षरप्रभूतार्था निस्संदिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ॥ १,२.१५ ॥ वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता । असंकरेण वक्तव्ये व्यवहारेषु वादिभिः ॥ १,२.१६ ॥ मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना । उत्तरान्तर्गतं वापि तद्ग्राह्यमुभयोरपि ॥ १,२.१७ ॥ एवमादिगुणान् सम्यगालोच्य च सुनिश्चितः । पक्षः कृतः समादेयः पक्षाभासस्ततोऽन्यथा ॥ १,२.१८ ॥ देशकालविहीनश्च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥ १,२.१९ ॥ मृषायुक्ति क्रियाहीनमसाध्याद्यर्थमाकुलम् । पूर्वं पक्षं लेख्यतो वादहानिः प्रजायते ॥ १,२.२० ॥ अपदिश्याभियोगं यस्तमतीत्यापरं वदेत् । क्रियामुक्त्वान्यथा [?] ब्रूयात्स वादी हानिमाप्नुयात् ॥ १,२.२१ ॥ ऊनाधिकं पूर्वप्क्षे तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत्प्रत्यर्थी सभ्यसंनिधौ ॥ १,२.२२ ॥ ब्रह्महत्यासुरापान- स्तेयगुर्वङ्गनागमे । अन्येष्वसभ्यवादेषु प्रतिवादी न दीयते ॥ १,२.२३ ॥ मनुष्यमारणे स्तेये परदाराभिमर्शने । अभक्ष्यभक्षणे चैव कन्याहरणदूषने ॥ १,२.२४ ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च [प्.३३] । प्रणिवादी न दाप्यः स्यात्कर्ता तु विवदेत्स्वयम् ॥ १,२.२५ ॥ अष्टादशपदो वादो विचार्यो विनिवेदितः । सन्त्यन्यानि पदान्यत्र तानि राजा विशेत्स्वयम् ॥ १,२.२६ ॥ षड्भागहरणं शुद्धं समयाविक्रमो निधिः । वधः संहरणं स्तेयमासेधाज्ञाव्यतिक्रमः ॥ १,२.२७ ॥ स्वयं नोत्पादयेत्कार्यं राजा वा सास्य पूरुषः । अधिकाच्छातयेदर्थान्न्यूनांश्च परिपूरयेत् ॥ १,२.२८ ॥ भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः । श्रुतं च लिखितं चैव शोधितं च विचारितम् ॥ १,२.२९ ॥ पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् । पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ॥ १,२.३० ॥ आवेद्य तु गृहीतेऽर्थे प्रशमं यान्ति ये मिथः । अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् ॥ १,२.३१ ॥ अन्ये वा ये पुरग्राम- महाराजनविरोधकाः । अनदेयास्तु ते सर्वे व्यवहाराः प्रकीर्त्तिताः ॥ १,२.३२ ॥ पाण्डुलेखेन फलके भूम्यां वा प्रथमण्लिखेत् । न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ॥ १,२.३३ ॥ अभियोक्ताप्रगल्भत्वाद्वक्तुं नोत्सहते यदा । तस्य कालः प्रदातव्यः कालशक्त्यनुरूपतः ॥ १,२.३४ ॥ यदि नोत्सहते यत्र विवादं कर्तुमिच्छतोः । दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ॥ १,२.३५ ॥ चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च । चतुर्धा निर्णयः प्रोक्तः कश्चिदष्टविधः स्मृतः ॥ १,२.३६ ॥ देशः कालस्तथा स्थानं संनिवेशस्तथैव च । ज्ञातृसंज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ॥ १,२.३७ ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ १,२.३८ ॥ श्वोलेखनं वा लभते त्र्यहं सप्ताहमेव वा । मतिरुत्पद्यते यावत्विवादे वक्तुमिच्छतः ॥ १,२.३९ ॥ बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितं [प्.३५] । कामं तदपि गृह्णीयाद्राजा तत्त्वबृभुत्सया ॥ १,२.४० ॥ शङ्काभियोगस्तथ्यं च लक्ष्येऽर्थेऽभ्यर्थनं तथा । वृत्ते वादे पुनर्न्यायः पक्षो ज्ञेयश्चतुर्विधः ॥ १,२.४१ ॥ भ्रान्तिः शङ्का समुद्दिष्टा वश्यं नष्टार्थदर्शनम् । लब्धेऽर्थेऽभ्यर्थनं मोहस्तथा वृत्ते पुनः क्रियाः ॥ १,२.४२ ॥ राज्ञापवर्जितो यस्तु यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ १,२.४३ ॥ न्यायं व नेच्छते कर्तुमन्यायं वा करोति यः । न लेखयति यस्त्वेवं तस्य पक्षी न सिध्यति ॥ १,२.४४ ॥ विरुद्धं चाविरुद्धं च द्वावप्यर्थौ निवेशितौ । एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ॥ १,२.४५ ॥ [१,३. उत्तरम्] [१,३.] यदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना । दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥ १,३.१ ॥ विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते । प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥ १,३.२ ॥ [१,३.१ प्रार्थयमानाय कालो देयः] शालीनत्वाद्भयात्तद्वत्प्रत्यर्थी स्मृतिविभ्रमात् । कालं प्रार्थयते यत्र तत्रेमं लब्धुमर्हति ॥ १,३.३ ॥ एकाहत्र्यहपञ्चाह- सप्ताहं पक्षमेव वा । मासं चतुस्त्रयं वर्षं लभते शक्त्यपेक्षया ॥ १,३.४ ॥ पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् [प्.३७] । अव्याख्यानगम्यमेतदुत्तरं तद्विदो विदुः ॥ १,३.५ ॥ उत्तरं चतुर्विधं संप्रति [षत्मु?]रं, । मिथ्योत्तरं प्राङ्न्याय- उत्तरं कारणोत्तरं चेति ॥ १,३.६ ॥ पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं तु यः । प्रत्यक्षी दापनीयः स्यात्सामादिभिरुपक्रमैः ॥ १,३.७ ॥ प्रियपूर्वं वचः साम भेदस्तु भयदर्शनम् । अर्थापकर्षणं दण्डस्ताडनं बन्धनं तथा ॥ १,३.८ ॥ साहसस्तेयपारुष्य- गोऽभिशापे तथात्यये । भूमौ विवादयेत्क्षिप्रमकालेऽपि बृहस्पतिः ॥ १,३.९ ॥ अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहुतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥ १,३.१० ॥ कन्याया दूषणे स्तेये कलहे साहसेषु च । उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥ १,३.११ ॥ धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ १,३.१२ ॥ प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न संभवेत् ॥ १,३.१३ ॥ अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते । प्रतिपत्तिस्तु सा ज्ञेया कारणं तूत्तरं पृथक् ॥ १,३.१४ ॥ सर्वालापं तु यः कृत्वा मिथोऽल्पमपि संवदेत् । सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥ १,३.१५ ॥ वाक्पारुष्ये च भूम्यौ च दिव्यं तु परिवर्जयेत् । विक्रयादानसंबन्धे क्रियादानमनिच्छति ॥ १,३.१६ ॥ [१,३.२ चतुर्विधमुत्तरम्] अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥ १,३.१७ ॥ श्रुत्वाभियोगं प्रत्यर्थी यदि तत्प्रतिपद्यते । सा तु संप्रतिपत्तिस्तु शास्त्रविद्भिरुदाहृता ॥ १,३.१८ ॥ अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं हि तत् ॥ १,३.१९ ॥ योऽर्थिनार्थः प्रभाष्येत प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयादाधर्यं मनुरब्रवीत् ॥ १,३.२० ॥ आचारेणावसन्नोऽपि पुनर्लेखयते यदि । स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥ १,३.२१ ॥ तथ्ये तथ्यं प्रयुञ्जीत मिथ्यायां चापि लेखयेत् । कारणं कारणोपेते प्राग्जये तु जयं तथा ॥ १,३.२२ ॥ भयदृष्टोद्भवा मिथ्या गर्हिता शास्त्रवेदिभिः । सत्या संप्रतिपत्तिस्तु धर्म्या सा परिकीर्तिता ॥ १,३.२३ ॥ प्राङ्न्यायकरणे तथ्यं श्लाघ्यं सद्भिरुदाहृतम् । विपरीतमधर्म्यं स्यात्प्रत्यर्थी हानिमाप्नुयात् ॥ १,३.२४ ॥ अहंपूउर्विकया यातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य च ॥ १,३.२५ ॥ एककाले समानीते प्रत्यर्थी सभ्यसंनिधौ । पूर्वपक्षाक्षरसमं लेखयेदुत्तरं ततः ॥ १,३.२६ ॥ प्रत्यर्थविधिराख्यातः संगतार्थप्रपादने । चतुर्विधस्याप्यधुना यत्तद्ग्राह्यं तदुच्यते ॥ १,३.२७ ॥ प्रस्तुतादन्यन्मध्यस्थं न्यूनाधिकमसंगतम् । अवाच्यसारं संदिग्धं प्रतिपक्षं न लक्षयेत् ॥ १,३.२८ ॥ भयं करोति भेदं वा भीषणं वा निरोधनम् । एतानि वादिनोऽर्थस्य व्यवहारे स हीयते ॥ १,३.२९ ॥ ऋत्विगादिर्नियुक्तस्तु समौ संपरिकीर्तितौ । यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयं ॥ १,३.३० ॥ पूर्वोत्तरेऽभिलिखिते यत्र वादी प्रमीयते । प्रत्यर्थी वा सुतस्ताभ्यां व्यवहारं विशोधयेत् ॥ १,३.३१ ॥ अनिर्णीते विवादे तु विप्रलब्धो भवेन्नृपः [प्.४१] । जयदानं समं न स्यात्तस्मात्कार्याणि निर्णयेत् ॥ १,३.३२ ॥ साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत् । त्रिंसद्रात्रात्त्रिपक्षाद्वा तस्य हानिः प्रजायते ॥ १,३.३३ ॥ आहूतप्रपलायी च मौनी साक्षिपराजितः । स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः ॥ १,३.३४ ॥ प्रपलायी त्रिपक्षेण मौनी वा सप्तभिर्दिनैः । साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते ॥ १,३.३५ ॥ निवेदितस्य अकथनमनुपस्थानमेव च । पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् ॥ १,३.३६ ॥ महापापोपपापाभ्यां पातकेनाथ संसदि । योऽभिशस्तस्तत्क्षमते संयुक्तं तं विदुर्जनाः ॥ १,३.३७ ॥ तस्माद्यत्नेन कर्तव्यं बुधेनात्मविशोधनम् । यद्यद्गुरुतरं कार्यं तत्तत्पूर्वं विशोधयेत् ॥ १,३.३८ ॥ महापापाभिशस्तो यः पातकात्तर्तुमिच्छति । पूर्वमङ्गीकृतं तेन जितोऽसौ दण्डमर्हति ॥ १,३.३९ ॥ आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् । नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥ १,३.४० ॥ दैवराजकृतो दोषस्तत्काले तु यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥ १,३.४१ ॥ पुर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते । प्रशमं ये मिथो यान्ति दाप्यस्ते द्विगुणं दमम् ॥ १,३.४२ ॥ पूर्वोत्तरार्थे लिखिते प्रक्रान्ते कार्यनिर्णये । द्वयोः संतप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥ १,३.४३ ॥ [१,३.३ सन्धिविचारः] साक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि [प्.४३] । दोलायमानयोः सन्धिः प्रकुर्यातां विचक्षणैः ॥ १,३.४४ ॥ प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः । तत्र राजामया सन्धिरुभयोरपि शस्यते ॥ १,३.४५ ॥ यत्र सांशायिको धर्मो व्यवहारश्च पार्थिवे । सन्धिस्तत्र तु कर्तव्योऽयसोः संतप्तयोर्यथा ॥ १,३.४६ ॥ समः सन्धिस्तदा कार्यो विषमस्तु निवर्तते । धर्मार्थोपग्रहः कीर्तिः भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या ऐरं च विनिवर्तते ॥ १,३.४७ ॥ निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशोऽयशः । विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च ॥ १,३.४८ ॥ तस्मात्कुलगणाध्यक्षा धर्मज्ञाः समदृष्टयः । अद्वेषलोभा यद्ब्रूयुस्तत्कर्तव्यं विजानता ॥ १,३.४९ ॥ [१,४. क्रियापादः] [१,४.] शोधिते लिखिते सम्यगिति निर्दोष उत्तरे । प्रत्यर्थिनोऽर्थिनो वापि क्रिया कारणमिष्यते ॥ १,४.१ ॥ ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना । कथयित्वोत्तरं सम्यग्दातव्यैकस्य वादिनः ॥ १,४.२ ॥ [१,४.१ प्रमाणानां बलाबलम्] प्रतिज्ञां भावयेद्वादी प्रत्यर्थी कारणं तथा । प्राग्वृत्तवादी विजयं जयपत्त्रेण भावयेत् ॥ १,४.३ ॥ पूर्वपादे विलिखितं यथाक्षरमशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ १,४.४ ॥ श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना । विभावयेत्प्रतिज्ञातं सोऽखिलं लिखितादिना ॥ १,४.५ ॥ द्विप्रकारा क्रिया प्रोक्ता मानुषीइ दैविकी तथा । एकैकानेकधा भिन्ना ऋषिभिस्तत्त्ववेदिभिः ॥ १,४.६ ॥ साक्षिणो लिखितं भुक्तिर्मानुषं त्रिविधं स्मृतम् । धटाद्या धर्मजान्ता तु दैवी नवविधा क्रिया ॥ १,४.७ ॥ साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया । साक्षी द्वादश भेदस्तु लिखितं त्वष्टधा स्मृतम् ॥ १,४.८ ॥ अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया । प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ॥ १,४.९ ॥ उत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् । ऋणादिकेषु कार्येषु कल्पयेन्मानुषीं क्रियाम् ॥ १,४.१० ॥ प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत्स्वयम् । उत्तरार्थं प्रतिज्ञार्थमर्थी मिथ्योत्तरे पुनः ॥ १,४.११ ॥ क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु [प्.४७] । लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः ॥ १,४.१२ ॥ वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया । प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्वपि ॥ १,४.१३ ॥ नृपद्रोहे साहसे च कल्पयेद्दैविकीं क्रियाम् ॥ १,४.१४ ॥ मणिमुक्ताप्रवालानां कूटहृत्पाशहारकः । हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥ १,४.१५ ॥ महापापाभिशापेषु निक्षेपे हरणे तथा । दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ॥ १,४.१६ ॥ लिखिते साक्षिवादे च संदिग्धिर्जायते यदि । अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ॥ १,४.१७ ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेखकम् ॥ १,४.१८ ॥ यथालाभोपपन्नैस्तैर्निर्णयं कारयेन्नृपः । प्रकान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यमेव च ॥ १,४.१९ ॥ ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा । दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ १,४.२० ॥ चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु । प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् ॥ १,४.२१ ॥ [१,५. साक्षिणः] [१,५.] नव सप्त च पञ्च स्युश्चत्वारस्त्रय एव वा । उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत्कदा चन ॥ १,५.१ ॥ द्यूतकः शटिकाग्राही कार्यमध्यगतस्तथा । एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च ॥ १,५.२ ॥ स्तेनाः साहसिकाः षण्डाः कितवाः सूचकास्तथा । न साक्षिणस्ते दुष्टात्वात्तेषु साक्षियं न विद्यते ॥ १,५.३ ॥ [१,५.१ साक्षिभेदाः] लिखितो लिखितो गूढः स्मारितः कुल्यदूतकौ । यदृच्छश्चोत्तरश्चैव कार्यमध्यगतोऽपरः ॥ १,५.४ ॥ नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृतः । प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः ॥ १,५.५ ॥ जातिनामादिलिखितं येन स्वं पित्र्यमेव च । निवासश्च विज्ञेयः साक्षी लिखितसंज्ञकः ॥ १,५.६ ॥ अर्थिना च क्रिया भेदैस्तस्य कृत्वा ऋणादिकम् । प्रत्यक्षं लिख्यते यस्तु लेखितः स उदाहृतः ॥ १,५.७ ॥ कुड्यव्यवहितो यस्तु श्राव्यते ऋणभाषितम् । विनिह्नुतो यथाभूतं गूढः साक्षी स उच्यते ॥ १,५.८ ॥ आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके [प्.५१] । स्मार्यते च मुहुर्यश्च स्मारितः स उदाहृतः ॥ १,५.९ ॥ विभागदाने विपणे ज्ञातिर्यश्चोपयुज्यते । द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥ १,५.१० ॥ अर्थिप्रत्यर्थिवचनं शृणुयात्प्रेषितस्तु यः । उभयोः संमतः साधुः दूतकः स उदाहृतः ॥ १,५.११ ॥ क्रियमाणे तु कर्तव्ये यः कश्चित्स्वयमागतः । अत्र साक्षी त्वमस्माकमुक्तो यादृच्छिकस्तु सः ॥ १,५.१२ ॥ यत्र साक्षी दिशं गच्छेन्मुमूर्षुर्वा यथाक्रमम् । अन्यं संश्रावयेत्तं तु विद्यादुत्तरसाक्षिणम् ॥ १,५.१३ ॥ साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषताम् । श्रवणाच्छ्रवणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥ १,५.१४ ॥ उभाभ्यां यस्य विश्वस्तं कार्यं चापि निवेदितम् । गूढधारी स विज्ञेयः कार्यमध्यागतस्तथा ॥ १,५.१५ ॥ अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतं भूभृता स्वयम् । स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥ १,५.१६ ॥ निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत् । अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा ॥ १,५.१७ ॥ व्युषितं छादितं यत्र सीमायां च समन्ततः [प्.५३] । स कृत्तोऽपि भवेत्साक्षी ग्रामस्तत्र न संशयः ॥ १,५.१८ ॥ लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः । यदृच्छ स्मारिताः कुल्यास्तथा चोत्तरसाक्षिणः ॥ १,५.१९ ॥ दूतकः स्वटिकाग्राही- कार्यमध्यगतस्तथा । एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च ॥ १,५.२० ॥ [१,५.२ साक्षिदोषकथनं दुष्टानां दण्डश्च] साक्षिणोऽर्थसमुद्दिष्टान् यस्तु दोषेण दूषयेत् । अदुष्टं दूषयन् वादी तत्समं दण्डमर्हति ॥ १,५.२१ ॥ लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ॥ १,५.२२ ॥ साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना । पत्रे विलिख्य तान् सर्वान् वाच्यं प्रत्युत्तरं ततः ॥ १,५.२३ ॥ प्रतिपत्तौ न साक्षित्वमर्हन्ति तु कदा चन । अतोऽन्यथा भावनीयाः क्रियायां प्रतिवादिना ॥ १,५.२४ ॥ अभावयन् दमं दाप्यः प्रत्यर्थी साक्षिणा स्फुटम् । भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥ १,५.२५ ॥ प्रत्यर्थिनोऽर्थिनो वापि साक्षिदूषणसाधने । प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥ १,५.२६ ॥ जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षी सत्ये व्यवस्थितः ॥ १,५.२७ ॥ उक्तेऽर्थे साक्षिणो यस्तु दूषयन् प्रागदूषितान् । न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥ १,५.२८ ॥ लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः । तस्य कार्यं न शोध्यं तु यावत्तन्न विशोधयेत् ॥ १,५.२९ ॥ साक्षिभिर्गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः । पुनर्विवादं कुरुते राजा तत्र विचारयेत् ॥ १,५.३० ॥ साक्षिसंदूषणे कार्यं पूर्वं साक्षिविशोधनम् [प्.५५] । शुद्धेषु साक्षिषु ततः पश्चात्कार्यं विशोधयेत् ॥ १,५.३१ ॥ सत्यप्रशंसावचनैरनृतस्यापवर्जनैः । सभ्यैः संबोधनीयास्तु धर्मशास्त्रार्थवेदिभिः ॥ १,५.३२ ॥ आ जन्मनश्चा मरणात्सुकृतं यत्त्वयार्जितम् । तत्सर्वं नाशमायाति वितथस्याभिशंसनात् ॥ १,५.३३ ॥ कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः । भ्रूणहा मित्रहा चैषां नाधिकः समुदाहृतः ॥ १,५.३४ ॥ एवं विदित्वा यः साक्षी स यथार्थं वदेत्ततः । तेनेह कीर्तिमाप्नोति परत्र च शुभां गतिम् ॥ १,५.३५ ॥ पुरुषाः सन्ति लोभाद्ये कार्यं प्रब्रूयुरन्यथा । सन्ति चान्ये दुरात्मान्ः कूटलेख्यकृतो नराः ॥ १,५.३६ ॥ प्रष्टव्याः साक्षिणो ये तु वर्ज्याश्चैव नराधमाः । तानहं कथयिष्यामि सांप्रतं शास्त्रचोतितान् ॥ १,५.३७ ॥ श्रौतस्मार्तक्रियायुक्ताः लोभद्वेषविवर्जिताः । कुलीनाः साक्षिणोऽनिन्द्यास्तपोदानदयान्विताः ॥ १,५.३८ ॥ [१,५.३ असाक्षिणः] मातुः पिता पितृव्यश्च भार्याया भ्रातृमातरौ । भ्राता सखा च जामाता सर्ववादेष्वसाक्षिणः ॥ १,५.३९ ॥ परस्त्रीपानसक्ताश्च कितवाः पूर्वदूषिताः । उन्मत्तार्ताः साहसिका नास्तिकाश्च न साक्षिणः ॥ १,५.४० ॥ सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः । पुत्रे तु श्राविता ये स्युः स्वयमासन्नमृत्युना ॥ १,५.४१ ॥ विहायोपानदुष्णीषं दक्षिणं पाणिमुद्धरेत् । हिरण्यं गोशकृद्दर्भान् समादाय ऋतं वदेत् ॥ १,५.४२ ॥ उपस्थिताः परीक्ष्याः स्युः स्वर्वर्णेङ्गितादिभिः । सकृत्प्रमादापराधि- विप्रं व्यापदि पीडितम् । भटादिभिर्वध्यमानं रक्षेदुक्त्वानृतान्यपि ॥ १,५.४३ ॥ यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः [प्.५७] । स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥ १,५.४४ ॥ आहूतो यत्र नागच्छेत्साक्षी रोगविवर्जितः । ऋणं दमं च दाप्यः स्यात्त्रिपक्षात्परतस्तु सः ॥ १,५.४५ ॥ [१,५.४ साक्ष्युक्तिबलाब्लविचारः] साक्षिद्वैधे प्रभूताः स्युर्ग्राह्याः साम्ये गुणान्विताः । गुणिद्वैधे क्रियायुक्तास्तत्साम्ये शुचिमत्तराः ॥ १,५.४६ ॥ अपृष्टाः सत्यवचने प्रश्नस्याकथने तथा । साक्षिणः सन्निरोद्ध्व्या गर्ह्या दण्ड्याश्च धर्मतः ॥ १,५.४७ ॥ देशकालवयोद्रव्य- संज्ञाजातिप्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥ १,५.४८ ॥ देशकालवयोद्रव्य- प्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात्साक्ष्यं तदपि नान्यथा ॥ १,५.४९ ॥ निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । न ब्रूयादक्षस्रसमं न तन्निगदितं भवेत् ॥ १,५.५० ॥ पूर्वपक्षे प्रतिज्ञातमशेषं प्रतिभावयेत् । ऊनाधिकं तु यत्रोक्तं न तन्निगदितं भवेत् ॥ १,५.५१ ॥ ऊनमभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः । तदर्थानुक्तविज्ञेयमेष साक्षिविधिः स्मृतः ॥ १,५.५२ ॥ साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्प्यते ॥ १,५.५३ ॥ ऊनाधिकं तु यत्र स्यात्साक्ष्यं तत्र विवर्जयेत् । साक्षी तत्र न दण्ड्यः स्यादब्रुवन् दण्डमर्हति ॥ १,५.५४ ॥ [१,६. लिखितम्] [१,६.] साक्षिणामेष निर्दिष्टः संख्यालक्षणनिश्चयः । लिखितस्याधुना वच्मि विधानमनुपूर्वशः ॥ १,६.१ ॥ ऋणादिकेऽपि समये भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ १,६.२ ॥ [१,६.१ लेख्यलक्षणम्] देशाचारहुतं वर्ष- मासपक्षादिवृद्धिमत् । ऋणिसाक्षिलेखकानं हस्ताङ्कं लेख्यमुच्यते ॥ १,६.३ ॥ [१,६.२ लेख्यभेदाः] राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा । लेख्यं तत्त्रिविधं प्रोक्तं भिन्नं तद्बहुधा पुनः ॥ १,६.४ ॥ भागदानक्रयाधिनां संविद्दासऋणादिभिः । सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥ १,६.५ ॥ विभागपत्रमित्येतद्भागानां निर्णये कृतम् । सीमाविवादे निर्णीते सीमापत्रमिति स्मृतम् ॥ १,६.६ ॥ दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च । क्रयलेख्यं दासलेख्यमाधिलेख्यं ततः परम् ॥ १,६.७ ॥ संविदुद्दाम्लेख्यं च जयपत्रकमेव च । सन्धिपत्रं तथैवैतत्क्रियाभेदादनेकधा ॥ १,६.८ ॥ आध्यर्थमाधिलेख्यं स्याद्दासार्थं दासपत्रकम् ॥ १,६.९ ॥ समीहितार्थसिद्ध्यर्थं ग्रामश्रेणिगणादिभिः । शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्रकम् ॥ १,६.१० ॥ भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥ १,६.११ ॥ भूमिं दत्त्वा यस्तु पत्रं कुर्याच्चन्द्रार्ककालिकम् [प्.६१] । अनाच्छेदामनाहार्यं दानलेख्यं तु तद्विधुः ॥ १,६.१२ ॥ गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥ १,६.१३ ॥ जङ्गमं स्थावरं बन्धं दत्त्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तमाधिलेख्यं तु तत्स्मृतम् ॥ १,६.१४ ॥ ग्रामो देशश्च यत्कुर्यान्मत्तलेख्यं परस्परम् । राजाविरोधि धर्मार्थे संवित्पत्रं वदन्ति तत् ॥ १,६.१५ ॥ वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् । कर्माहं ते करिष्यामि दासपत्रं तदिष्यते ॥ १,६.१६ ॥ धनं वृध्या गृहीत्वा तु स्वयं कुर्याच्च कारयेत् । उद्धारपत्रं तत्प्रोक्तमृणलेख्यं मनीषिभिः ॥ १,६.१७ ॥ पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ १,६.१८ ॥ पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् । स्थितिपत्रं तु तत्प्रोक्तं मन्वादिस्मृतिवेदिभिः ॥ १,६.१९ ॥ [१,६.३ राज्ञो दानशासनम्] दत्त्वा भ्य्य्म्यादिकं राजा ताम्रपत्रे पटेऽथ वा । शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् ॥ १,६.२० ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ॥ १,६.२१ ॥ अनाच्छेद्यमनाहार्यं सर्वं भाव्यविवर्जितम् [प्.६३] । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥ १,६.२२ ॥ दातुः पालयितुः स्वर्गं हर्तुर्नरकमेव च । षष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् ॥ १,६.२३ ॥ समुद्रावर्षमासादि धनाध्यक्षाक्षरान्वितम् । ज्ञातं मयेति लिखितं सन्धिविग्रहलेखकैः ॥ १,६.२४ ॥ एवंविधं राजकृतं शासनं तदुदाहृतम् । [१,६.४ प्रसादलिखितम्] देशादिकं यस्य राजा लिखितं तु प्रयच्छति ॥ १,६.२५ ॥ सेवाशौर्यादिना तुष्टः प्रसादलिखितं हि तत् । [१,६.५ जयपत्रम्] पूर्वोत्तरक्रियावाद- निर्णयान्ते यदा नृपः । प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ॥ १,६.२६ ॥ यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् । क्रियावदधारणोपेतं जयपत्रोऽखिलं लिखेत् ॥ १,६.२७ ॥ साधयेत्साध्यमर्थं तु चतुष्पादन्वितं जये । राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥ १,६.२८ ॥ अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते । वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥ १,६.२९ ॥ [१,६.६ लेख्यदूषणानि] मुमूरुषुहीनलुप्तार्थैरुन्मातव्यसनातुरैः । विषोपधिबलात्कार- कृतं लेख्यं न सिध्यति ॥ १,६.३० ॥ दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः [प्.६५] । कूटलेख्यं तु तत्प्राह लेखको वापि तादृशः ॥ १,६.३१ ॥ यदुज्वलं चिरकृतं मलिनं स्वल्पकालिकम् । भग्नं म्लिष्ताक्षरयुतं लेख्यं कूटत्वमाप्नुयात् ॥ १,६.३२ ॥ दर्पणस्थं यथा बिम्बमसत्सदिव दृश्यते । तथा लेख्यसबिम्बानि कुर्वन्ति कुशला जनाः ॥ १,६.३३ ॥ तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् । एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ॥ १,६.३४ ॥ विमृश्य ब्राह्मणैः सार्धं वक्तृदोषं निरूपयेत् ॥ १,६.३५ ॥ येन ते कूटतां यान्ति साक्षिलेखककारकाः । तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ॥ १,६.३६ ॥ दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते । पत्रस्थैः साक्षिभिर्वाचा लेखकस्य मतेन च ॥ १,६.३७ ॥ स्थानभ्रष्टास्त्वकान्तिस्थाः संदिग्धा लक्षणच्युताः । यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ॥ १,६.३८ ॥ उद्धरेल्लेख्यमाहर्ता तत्पुत्रो भुक्तिमेव तु । अभियुक्तः प्रमीतश्चेत्तत्पुत्रस्तत्समुद्धरेत् ॥ १,६.३९ ॥ ज्ञात्वा कार्यं देशकाल- कुशलाः कूटकारकाः । कुर्वन्तिसदृशं लेख्यं तद्यत्नेन विचारयेत् ॥ १,६.४० ॥ लेख्यमालेख्यवत्केचिल्लिखन्ति कुशला जनाः । तस्मान्न लेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता ॥ १,६.४१ ॥ स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः । लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ॥ १,६.४२ ॥ त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा । ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत्ततः ॥ १,६.४३ ॥ उद्याममुदयादानादाधानं फलसंग्रहात्[प्.६७] । प्रतियोगिधनाढ्यत्वाज्ज्ञेयं यत्रोपधिः कृतः ॥ १,६.४४ ॥ दर्शितं प्रतिकालं यच्छ्रावितं स्मारितं च यत् । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥ १,६.४५ ॥ वाचकैर्यत्र सामर्थ्यमक्षराणां विहन्यते । क्रियाणां सर्वनाशः स्यादनवस्था च जायते ॥ १,६.४६ ॥ लेख्यं त्रिंशत्समातीतमदृष्टाश्रावितं च यत् । न तत्सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥ १,६.४७ ॥ प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । न याचते च ऋणिकं तत्संदेहमवाप्नुयात् ॥ १,६.४८ ॥ कुलश्रेणिगणादीनां यथाकालं प्रदर्शितम् । श्रावयेत्स्मारयेच्चैव तथा स्याद्बलवत्तरम् ॥ १,६.४९ ॥ यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा तथा भवेत् । प्रमाणमेव लिखितं मृता यद्यपि साक्षिणः ॥ १,६.५० ॥ आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् । शुद्धर्णाशङ्कया तत्र लेख्यं दुर्बलतामियात् ॥ १,६.५१ ॥ उन्मत्तजडबलानां राजभीतप्रवासिनाम् । अप्रगल्भभयार्तानां न लेख्यं हानिमाप्नुयात् ॥ १,६.५२ ॥ अथ पञ्चत्वमापन्नो लेखकः साक्षिभिः सह । तत्स्वहस्तादिभिस्तेषां विशुध्यते न संशयः ॥ १,६.५३ ॥ ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिऋणयः ॥ १,६.५४ ॥ लेख्ये संशयमापन्ने साक्षिलेखककर्तृभिः । दुष्टेषु तेषु तद्धस्त- कृतपूर्वाक्षरादिभिः ॥ १,६.५५ ॥ न जातु हीयते लेख्यं साक्षिभिः शपथेन वा । अदर्शनाश्राविताभ्यां हानिं प्राप्नोत्युपेक्षया ॥ १,६.५६ ॥ अतः परीक्ष्यमुभयमेतद्राज्ञा विशेषतः । एकमेव भवेल्लेख्यमेकस्यार्थस्य सिद्धये ॥ १,६.५७ ॥ अनेकेषु तु लेख्येषु दोषमुत्पादयेदपि । देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् । कृतमस्वामिना यच्च साध्यहीनं च दुष्यति ॥ १,६.५८ ॥ [१,७. भुक्तिः] [१,७.] धनमूलाः क्रियाः सर्वा यत्नास्तत्साधने मताः । वर्धनं रक्षणं भोग इति तस्य विधिक्रमः ॥ १,७.१ ॥ [१,७.१ धनप्रभेदाः] तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबळमेव च । कृष्णं च तत्र विज्ञेयः प्रभेदः सप्तधा पुनः ॥ १,७.२ ॥ श्रुतशौर्यतपः कन्या- शिष्ययाज्यान्वयागतम् । धनं सप्तविधं शुल्कमुभयो ह्यस्य तद्विधः ॥ १,७.३ ॥ कुसीदकृषिवाणिज्य- शुल्कशिल्पानुवृत्तिभिः । कृतोपकारादाप्तं च शबळं समुदाहृतम् ॥ १,७.४ ॥ पाशकद्यूतदूतार्थ- प्रतिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ १,७.५ ॥ तेन क्रयो विक्रयश्च दानं ग्रहणमेव च । विविधाश्च प्रयुज्यन्ते क्रियासंभोगमेव च ॥ १,७.६ ॥ यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः । तथाविधमवाप्नोति तत्फलं प्रेत्य चेह च ॥ १,७.७ ॥ तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् । साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् ॥ १,७.८ ॥ क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया । अविशेषेण सर्वेषां वर्णानां त्रिविधं स्मृतम् ॥ १,७.९ ॥ वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् [प्.७१] । प्रतिग्रहणलब्धं यद्याज्यं तच्छिष्यतस्तथा ॥ १,७.१० ॥ त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । युद्धोपलब्धं करतो दण्डाच्च व्यवहारतः ॥ १,७.११ ॥ वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । कृषिगोरक्षवाणिज्यं शूद्रस्यैषामनुग्रहात् ॥ १,७.१२ ॥ सर्वेषामेव वर्णानामेवं धर्म्यो धनागमः । विपर्ययादधर्मः स्यान्न चेदापद्गरीयसी ॥ १,७.१३ ॥ आपत्स्वनन्तरावृत्तिर्ब्राह्मणस्य विधीयते । वैश्यवृत्तिश्च तस्योक्ता न जघन्या कथं चन ॥ १,७.१४ ॥ कथं चन न कुर्वीत ब्राह्मणः कर्म वार्षलम् । वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ १,७.१५ ॥ उत्कृष्टं चापकृष्टं तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणी हि ते ॥ १,७.१६ ॥ आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या भृते जने । उत्सृजेत्क्षेत्रवृत्तिं तां कृत्वा पावनमात्मनः ॥ १,७.१७ ॥ तस्यामेव तु यो भुक्तौ ब्राह्मणो रमते रसात् । काण्डपृष्ठश्च्युतो मार्गादङ्कितोऽयं प्रकीर्तितः ॥ १,७.१८ ॥ स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥ १,७.१९ ॥ दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च । संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥ १,७.२० ॥ द्वारमार्गक्रियाभोग- जलवाहादिके तथा । भुक्तिरेव तु गुर्वो स्यान्न लेख्यं न च साक्षिणः ॥ १,७.२१ ॥ एतद्विधानमाख्यातं साक्षिणां लिखितस्य च । संप्रति स्थावरप्राप्तेर्भुक्तेश्च विधिरुच्यते ॥ १,७.२२ ॥ विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् । सपिण्डस्याप्रजस्यांशं स्थावरं स्पतधाप्यते ॥ १,७.२३ ॥ [१,७.२ भोगाः सप्तविधः] पित्र्ये लभ्दक्रयाधाने रिक्थशौर्यप्रवेदनात् । प्राप्ते सप्तविधे भोगः सागमः सिद्धिमाप्नुयात् ॥ १,७.२४ ॥ क्रमागतः शासनिकः क्रयाधानसमन्वितः । एवंविधस्तु यो भोगः स तु सिद्धिमवाप्नुयात् ॥ १,७.२५ ॥ संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः [प्.७३] । स्थावरं सिद्धिमाप्नोति भुक्त्वा हानिमुपेक्षया ॥ १,७.२६ ॥ प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् । तस्य तत्सिद्धिमाप्नोति हानिं चोपेक्षया यथा ॥ १,७.२७ ॥ अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी । त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत् ॥ १,७.२८ ॥ न स्त्रीणामुपभोगः स्याद्विना लेख्यं कथं चन । राजश्रोत्रियवित्ते च जडबालधनेन च ॥ १,७.२९ ॥ भुक्त्या केवलया नैव भुक्तिः सिद्धिमवाप्नुयात् । आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥ १,७.३० ॥ बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् । नोपभोगे बलं कार्यमाहर्त्रा तत्सुतेन वा ॥ १,७.३१ ॥ पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः । यद्येकशासने ग्राम- क्षेत्रारामाश्च लेखिताः ॥ १,७.३२ ॥ एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते । आगमोऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ १,७.३३ ॥ अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥ १,७.३४ ॥ अनुमानं वसत्यत्र साक्षी चामरणाद्भवेत् । अव्याहतं लेखभोगं प्रमाणं तु त्रिपौरुषम् ॥ १,७.३५ ॥ पितापितामहो यस्य जीवेच्च प्रपितामहः । त्रिंशत्समा तु या भुक्ता भूमिरव्याहता परैः ॥ १,७.३६ ॥ भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपुरुषी । त्रिपूरुषी च त्रिगुणा परतः स्याच्चिरन्तना ॥ १,७.३७ ॥ यत्राहर्ताभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । तदभावे तु पुत्राणां भुक्तिरेका गरीयसी ॥ १,७.३८ ॥ आहर्ता शोधयेद्भुक्तिमागमं वापि संसदि [प्.७५] । तत्पुत्रो भुक्तिमेवैकां पौत्रादिस्तु न किंचन ॥ १,७.३९ ॥ रिक्थभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते । अन्यस्य भुञ्जतः पश्चान्न स तल्लब्धुमर्हति ॥ १,७.४० ॥ पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत् । सतापि लेख्येन भुवं न पुनर्तामवाप्नुयात् ॥ १,७.४१ ॥ ऋक्थिभिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः ॥ १,७.४२ ॥ भुक्तिस्त्रिपुरुषी सिध्येत्परेषां नात्र संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥ १,७.४३ ॥ अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥ १,७.४४ ॥ धर्मोऽक्षयः श्रोत्रियस्य अभयं राजपूरुषे । स्नेहः सुहृद्बान्धवेषु भुक्तमेतैर्न हीयते ॥ १,७.४५ ॥ वैवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च । सुदीर्घेनापि कालेन तेषां सिध्यति तन्न तु ॥ १,७.४६ ॥ अशक्तालसरोगार्त- बालभीतप्रवासिनाम् । शासनारूढमन्येन भुक्तं भुक्त्या न हीयते ॥ १,७.४७ ॥ छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते । लेख्येन भोगविद्भिर्वा साक्षिभिः शुद्धिमाहरेत् ॥ १,७.४८ ॥ नामघाटागमं संख्यां कालं दिग्भागमेव च । भोगच्छेदनिमित्तं च ये विदुस्तत्र साक्षिणः ॥ १,७.४९ ॥ उत्पन्नाश्चात्यासन्ना ये ये च देशान्तरस्थिताः । मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥ १,७.५० ॥ अदुष्टास्ते तु यद्ब्रूयुः संदिग्धे समदृष्टयः । तत्प्रमाणं प्रकर्तव्यमेवं धर्मो न हीयते [प्.७७] ॥ १,७.५१ ॥ स्थावरेषु तदाख्यातं लाभभोगप्रसाधनम् । प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ॥ १,७.५२ ॥ राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनापि यत् । ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदा चन ॥ १,७.५३ ॥ भुक्तिस्त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता । तद्भोगः स्थिरतां याति न पृच्छेदागमां क्व चित् ॥ १,७.५४ ॥ अनिषिद्धेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु । तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी ॥ १,७.५५ ॥ स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषी च या । स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये ॥ १,७.५६ ॥ यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता । एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥ १,७.५७ ॥ यस्य त्रिपुरुषा भुक्तिः पारंपर्यक्रमागता । न सा चालयितुं शक्या पूर्वकाच्छासनादृते ॥ १,७.५८ ॥ त्रिपुरुषं भुज्यते येन समक्षं भूरवारिता । तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥ १,७.५९ ॥ भुक्तिर्बलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी । विच्छिन्नापि हि स ज्ञेया या तु पूर्वं प्रसाधिता ॥ १,७.६० ॥ पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन् प्रेतेऽपि तत्प्राप्तं भुक्त्या प्राप्तं तु तस्य तत् ॥ १,७.६१ ॥ त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । लेख्याभावे तु तां तत्र चतुर्थः समवाप्नुयात् ॥ १,७.६२ ॥ सनाभिभिर्बान्धवैश्च भुक्तं यत्स्वजनैस्तथा । भोगात्तत्र न सिद्धिः स्याद्भोगमन्येषु कल्पयेत् ॥ १,७.६३ ॥ सागमो दीर्घकालश्च निच्छिद्रोपरवो धनम् । प्रत्यर्थिसंनिधानं च परिभोगोऽपि पञ्चधा ॥ १,७.६४ ॥ चतुष्पाद्धनधान्यादि वर्षाद्धानिमवाप्नुयात् ॥ १,७.६५ ॥ भूमेरभुक्तिर्लेख्यस्य यथाकालमदर्शनम् । साक्ष्यस्यास्मरणं चैव स्वार्थहानिकराणि तु ॥ १,७.६६ ॥ तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् । तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥ १,७.६७ ॥ असाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः । शपथैर्वानुयुञ्जीत उपधां वा प्रयोजयेत् ॥ १,७.६८ ॥ देशनाप्रतिघातं च युक्तिलेशस्तथैव च ॥ १,७.६९ ॥ चोरापहृतं तु सर्वेभ्योऽन्विष्य अर्पणीयं । अलाभे स्वकोशाद्वा अददच्चोरकिल्बिषी स्यात् ॥ १,७.७० ॥ [१,८. दिव्यानि ] [१,८.] स्थावरस्य तथाख्यातं लाभभोगप्रसाधनम् । प्रमाणहीने वादे तु निर्दोषा दैविकी क्रिया ॥ १,८.१ ॥ प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् । धटाद्या धर्मजान्ता च दैवी नवविधा स्मृता ॥ १,८.२ ॥ धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमम् । षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकः ॥ १,८.३ ॥ अष्टमं कालमित्युक्तं नवमं धर्मकं तथा । दिव्येनायाति सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥ १,८.४ ॥ [१,८.१ दिव्यव्यवस्था] यस्माद्देवैः प्रयुक्तानि दुष्करार्थे महात्मभिः । अहमुद्देशतां वच्मि संदिग्धार्थविशुद्धये । देशकालार्थसंख्याभिः प्रयुक्तान्यनुपूर्वशः ॥ १,८.५ ॥ अपराधानुपूर्व्येण साध्वसाधुविवक्षया । शास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥ १,८.६ ॥ ऋणादिकेषु कार्येषु विसंवादे परस्परम् । द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥ १,८.७ ॥ लोके संव्यवहारार्थं संज्ञेयं कथिता भुवि । ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥ १,८.८ ॥ निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः । ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥ १,८.९ ॥ स एव चान्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः । ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु ॥ १,८.१० ॥ कार्षापणसहस्रं तु दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ १,८.११ ॥ ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥ १,८.१२ ॥ साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ॥ १,८.१३ ॥ स्नेहात्क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः । विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥ १,८.१४ ॥ यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः । अयथोक्तं प्रदत्तं चेन्न दत्तं साध्यसाधने ॥ १,८.१५ ॥ अदेशकालदत्तानि बहिर्वादिकृतानि च । व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥ १,८.१६ ॥ अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः । रुच्या चान्यतरः कुर्यादितरो वर्तयेच्छिरः ॥ १,८.१७ ॥ विनापि शीर्षकं कुर्यान्नृपद्रोहे च पातके । दिव्यप्रदानमुदितमन्यत्र नृपशासनात् । न कश्चिदभियोक्तारं दिव्येष्वेवं नियोजयेत् ॥ १,८.१८ ॥ [१,८.२ दिव्यदेवताः] प्.८३ धरोद्ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ १,८.१९ ॥ देवेशेशानयोर्मध्य आदित्यानां तथायनम् । धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥ १,८.२० ॥ इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ १,८.२१ ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः । वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः ॥ १,८.२२ ॥ अजेकपाद्[अजैकपाद्?] अहिर्बुध्न्या पिनाकी चाप्राजितः ॥ १,८.२३ ॥ भुवनाधिश्वराश्चैव कपाली च विशांपतिः । स्थाणुर्भगश्च भगवान् रुद्राश्चैकादश स्मृताः ॥ १,८.२४ ॥ प्रेतेशरक्शसोर्मध्ये मातृस्थानं प्रकल्पयेत् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १,८.२५ ॥ वाराही चैव माहेन्द्री चामुण्डा गणसंयुता । निरृतेरुत्तरे भागे गणेशायतनं विदुः ॥ १,८.२६ ॥ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते । श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥ १,८.२७ ॥ [१,८.३ द्रव्यसंख्यया दिव्यानि] संख्या रश्मिरजोमूला मनुना समुदाहृता । कार्षापणान्ता सा दिव्ये नियोज्या विनयेत्तथा ॥ १,८.२८ ॥ विषं सहस्रेऽपहृते पादोने च हुताशनः । त्रिपादोने च सलिलमर्धे देयो धटः सदा ॥ १,८.२९ ॥ चतुःशताभियोगे च दातव्यस्तप्तमाषकः । त्रिशते तण्डुला देयाः कोशश्चैव तदर्धके ॥ १,८.३० ॥ शते हृतेऽपहृते च दातव्यं धर्मशोधनम् । गोचौरस्य प्रदातव्यं सभ्यैः फालः प्रयत्नतः ॥ १,८.३१ ॥ यवार्धिकस्य वा नाशे तदर्धस्य च तण्डुलाः [प्.८५] । ततोऽर्धार्धार्धनाशे च लौकिकी च क्रिया मता ॥ १,८.३२ ॥ [१,८.४ शपथविधिः] सतां वाहनशस्त्राणि गोबीजकनकानि च । देवब्राह्मणपादाश्च पुत्रदारशिरांसि च ॥ १,८.३३ ॥ एते च शपथाः प्रोक्ताः अल्पार्थे सुकराः सदा । साहसेष्वभिशापेषु दिव्यान्याहुर्विशोधनम् ॥ १,८.३४ ॥ ब्रूहीति ब्राह्मणं ब्रूयात्सत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैश्च पातकैः ॥ १,८.३५ ॥ सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोरक्षकान् वाणिजकांस्तथाकारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्राञ्शूद्रवदाचरेत् ॥ १,८.३६ ॥ येऽप्यपेताः स्वधर्मेभ्यः परपिण्डोपजीविनः । द्विजत्वमभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥ १,८.३७ ॥ वर्णानुरूपैः शपथैः शपनीयं पृथक्पृथक् ॥ १,८.३८ ॥ कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने । ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातक्ः ॥ १,८.३९ ॥ सभान्तर्स्थैर्वक्तव्यं साक्स्यं नान्यत्र साक्षिभिः । सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु च ॥ १,८.४० ॥ वधे चेत्प्राणिनां साक्स्यं वादयेच्छवसंनिधौ । तदभावे तु चिह्नस्य नान्यथैव विवादयेत् ॥ १,८.४१ ॥ नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः । वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥ १,८.४२ ॥ स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न पृष्टव्याः पुनः पुनः ॥ १,८.४३ ॥ साक्षिसभ्यावसन्नानां नैव पौनर्भावो विधिः ॥ १,८.४४ ॥ सप्तर्षयस्तथेन्द्राद्याः पुष्करर्थे तपोधनाः । शेपुः शपथमव्यग्राः परस्परविशुद्धये ॥ १,८.४५ ॥ सप्ताहे वा द्विसप्ताहे न विपद्राजदैविकी । बान्ध्ववेषु सपिण्डेषु धनेषु शपथैः शुचिः ॥ १,८.४६ ॥ अशेषमानुषाभावे दिव्येनैव विनिर्णयः । संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥ १,८.४७ ॥ एवं संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता । चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥ १,८.४८ ॥ [१,८.५ घटविधिः] [प्.८७] धटेऽभियुक्तस्तुलितो हीनश्चेद्धानि आप्नुयात् । तत्समस्तु पुनस्तुल्यो वर्धितो विजयी भवेत् ॥ १,८.४९ ॥ शिक्यच्छेदेऽक्षभङ्गे वा दयाच्छिक्यं पुनर्नृपः । साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ॥ १,८.५० ॥ ज्ञातिनः शुचयो लुब्धाः नियोक्तव्या नृपेण तु । तेषां वचनतो गम्यः शुध्यशुद्धिविनिर्णयः ॥ १,८.५१ ॥ कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिमाप्नुयात् ॥ १,८.५२ ॥ [१,८.६ अग्निविधिः] अग्नेर्विधिं प्रवक्ष्यामि यथावद्विधिचोदितम् । कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमे तथा ॥ १,८.५३ ॥ आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् । तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥ १,८.५४ ॥ पञ्चमं त्विन्द्रदैवत्यं षष्ठं कौबेरमुच्यते । सप्तमं सोमदैवत्यमस्टमं सर्व[सूर्य?]दैवतम् ॥ १,८.५५ ॥ पुरस्तान्नवमं यत्तु तन्महत्पार्थिवं विदुः । गोमयेन कृतानि स्युरद्भिः पर्युषितानि च ॥ १,८.५६ ॥ द्वात्रिंशदङ्गुलान्याहुर्मण्डलान्मण्डलान्तरम् । कर्तुः समपदं कार्यं मण्डलं तु प्रमाणतः ॥ १,८.५७ ॥ [१,८.७ तोयविधिः] शरप्रक्षेपणस्थानाद्युवा जवसमन्वितः । गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः ॥ १,८.५८ ॥ मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः । प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥ १,८.५९ ॥ आगन्तस्तु शरग्राही न पश्यति यदा जले । अन्तर्जलगतं सम्यक्तदा शुद्धिं विनिर्दिशेत् ॥ १,८.६० ॥ आनीते मध्यमे बाणे मग्नाङ्गः शुचितामियात् । अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् । स्थानाद्वान्यत्र गमनाद्यस्मिन् पूर्वं निवेशयेत् ॥ १,८.६१ ॥ अप्सु प्रवेश्य पुरुसं प्रेषयेत्सायकत्रयम् । इषूउन्न निक्षिपेद्विद्वान्मारुते वाति वै भृशम् ॥ १,८.६२ ॥ विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले [प्.८९] । तृणगुल्मलतावल्ली- पङ्कपाषाणसंयुते ॥ १,८.६३ ॥ विधिदत्तं विषं येन जीर्णं मन्त्रौषधं विना । स शुद्धः स्यादन्यथा तु दण्ड्यो दाप्यश्च तद्धनम् ॥ १,८.६४ ॥ सप्ताहाद्वा द्विसप्ताहाद्यस्य हानिर्न जायते । पुत्रदारधनानां च स शुद्धः स्यान्न संशयः ॥ १,८.६५ ॥ [१,८.८ कोशविधिः] यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम् । प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ॥ १,८.६६ ॥ त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्थितम् । निरुद्धं चारयेत्तत्र कुहकाशङ्कया नृपः ॥ १,८.६७ ॥ महाभियोगे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । नास्तिके दृष्टदोषे च कोशपानं विसर्जयेत् ॥ १,८.६८ ॥ दिव्यानि वर्जयेन्नित्यमार्तानां तु गदैर्नृणाम् । [१,८.९ तण्डुलविधिः] तण्डुलैर्नाभियुञ्जीत प्रजानां मुखरोगिणाम् ॥ १,८.६९ ॥ सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच्छुचिः । शुद्धः स्याच्छुक्लनिष्ट्ःीवे विपरीते तु दोषभाक् ॥ १,८.७० ॥ शोणितं दृश्यते यत्र हनुस्तालु च शीर्यतः । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥ १,८.७१ ॥ [१,८.१० तप्तमाषविधिः] समुद्धरेत्तैल्घृतात्सुतप्तात्तप्तमाषकम् । अङ्गुष्ठाङ्गुलियोगेन सत्यमामन्त्र्य वीतभीः ॥ १,८.७२ ॥ सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा । गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥ १,८.७३ ॥ सौवर्णीं राज्तीं ताम्रीमायसीं वा सुशोभनाम् । सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥ १,८.७४ ॥ भ्रमद्वीरीतरङ्गाढ्ये ह्यनखस्पर्शगोचरे । परीक्षेदार्द्रपर्णेन चरुकारं सघोषकम् ॥ १,८.७५ ॥ १,८.७६ ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत्[प्.९१] परं पवित्रममृतं घृत त्वं यज्ञकर्मसु ॥ १,८.७६ ॥ दह पावक पापं त्वं हिमशी[तो?]तः शुचौ भव । उपोषितं ततः स्नातमार्द्रवाससमागतम् । ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ १,८.७७ ॥ प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः । कराग्रं यो नु धुनुयात्विस्फोटो वा न जायते । शुद्धो भवति धर्मेण पितामहवचो यथा ॥ १,८.७८ ॥ [१,८.११ फालविधिः] आयसं द्वादशपलं घटितं फालमुच्यते । अदग्धश्चेच्छुद्धिमियादन्यथा त्वपहीयते ॥ १,८.७९ ॥ अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तृतम् । अग्निवर्णं तु तच्चोरो जिह्वया लेलिहेत्सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥ १,८.८० ॥ गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः । महाभियोगेष्वेतानि शीर्सकस्थेऽभियोक्तरि ॥ १,८.८१ ॥ [१,८.१२ धर्मकविधिः] पत्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ । जीवदानादिभिर्मन्त्रैः गायत्र्याद्यैश्च सामभिः ॥ १,८.८२ ॥ आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः । अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥ १,८.८३ ॥ समौ कृत्वा तु तौ कुम्भे स्थाप्यौ चानुपलक्षितौ । ततः कुम्भात्पिण्डमेकं प्रगृह्णीताविलम्बितः ॥ १,८.८४ ॥ धर्मे गृहीते शुद्धः स्यात्स पूज्यश्च परीक्षकैः । अधर्मे संगृहीते तु दण्ड्यो निर्वास्य एव वा [प्.९३] ॥ १,८.८५ ॥ लिखेद्भूर्जपटे वापि धर्माधर्मौ सितासितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ १,८.८६ ॥ सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृत् । एवं विधायोपलिप्य पिण्डयोस्तानि धापयेत् ॥ १,८.८७ ॥ गोमयेन मृदा वापि पिण्डौ कार्यौ समौ ततः । मृद्भाणकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ १,८.८८ ॥ उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ । समर्चयेत्ततो देवान् लोकपालांश्च पूर्ववत् ॥ १,८.८९ ॥ धर्मावाहनपूर्वं तु प्रतिज्ञापत्त्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्मश्चायातु मे करे ॥ १,८.९० ॥ अभिशस्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः । धर्मे गृहीते शुद्धिः स्यादधर्मे तु स हीयते ॥ १,८.९१ ॥ एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ १,८.९२ ॥ [१,९. निर्णयप्रकारः] [१,९.] धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया । चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥ १,९.१ ॥ एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥ १,९.२ ॥ सम्यग्विचार्य कार्यं तु युक्त्या संपरिकल्प्तम् । परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ॥ १,९.३ ॥ प्रतिवादी प्रपद्येद्यत्र धर्मः स निर्णयः । दिव्यैर्विशोधितः सम्यङ्- निर्णयः समुदाहृतः ॥ १,९.४ ॥ प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥ १,९.५ ॥ अनुमानेन निर्णीतं चारित्रमिति कथ्यते । देशस्थित्या तृतीयस्तु शास्त्रविद्भिरुदाहृतः ॥ १,९.६ ॥ प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः [प्.९५] । शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ॥ १,९.७ ॥ धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ॥ १,९.८ ॥ वधादृते ब्राह्मणस्य दण्डो भवति कर्हि चित् । अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी स्मृतिः ॥ १,९.९ ॥ महापातकयुक्तोऽपि न विप्रो वधमर्हति । निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान्नराधिपः ॥ १,९.१० ॥ महापराधयुक्तांश्च वधदण्डेन शासयेत् ॥ १,९.११ ॥ स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे । मध्योत्तमेऽर्धदण्डस्तु राजद्रोहे च बन्धनम् ॥ १,९.१२ ॥ निर्वासनं वधो वापि कार्यमात्महितैषिणा । व्यस्ताः समस्ता एकस्य महापातककारिणे ॥ १,९.१३ ॥ मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनाम् । विवादिनो नरांश्चापि द्वेषिणोऽर्थेन दण्डयेत् ॥ १,९.१४ ॥ पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १,९.१५ ॥ ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः । धर्माद्विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ॥ १,९.१६ ॥ गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् । विवादिनो नरांश्चान्यान् धिग्धनाभ्यां च दण्डयेत् ॥ १,९.१७ ॥ प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः । ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्व चित् ॥ १,९.१८ ॥ वधार्हकः स्वर्णशतं दमं दाप्यस्तु पूरुषः । अङ्गच्छेदार्हकस्त्वर्धं सदंशशश्तदर्धकम् ॥ १,९.१९ ॥ ताडनं बन्धनं चैव तथैव च विडन्नकम् [प्.९७] । एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ॥ १,९.२० ॥ प्रतिज्ञा भावनाद्वादी प्राड्विवाकादिपूजनात् । जयपत्त्रस्य चादनाज्जयी लोके निगद्यते ॥ १,९.२१ ॥ पलायनादनुत्तरादन्यपक्षाश्रयेण च । हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥ १,९.२२ ॥ कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः । विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥ १,९.२३ ॥ निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः । दण्डयेज्जयिना साकं पूर्वसभ्यांस्तु दोषिणः ॥ १,९.२४ ॥ अपराधानुरूपश्च दण्डोऽत्र परिकल्पितः । साक्षिलेख्यानुमानेन सम्यग्दिव्येन वा जितः ॥ १,९.२५ ॥ यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् ॥ १,९.२६ ॥ ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते । महापातकयुक्तोऽपि न विप्रो वधमर्हति । निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान्नराधिपः ॥ १,९.२७ ॥ प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् । स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ॥ १,९.२८ ॥ यः स्वामिना नियुक्तस्तु धनायस्यापलापने । कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥ १,९.२९ ॥ राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् । त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते ॥ १,९.३० ॥ जेताप्नोति धनं पूजां जितो विनयनिग्रहम् । जयं दानं दमं राजा सभ्याः पुण्यमवाप्नुयुः ॥ १,९.३१ ॥ एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥ १,९.३२ ॥ साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥ १,९.३३ ॥ यत्रैवं वेत्ति नृपतिः निर्णयं तु बताध्वरम् । सोऽस्मिन् लोके यशः प्राप्य याति शक्रसलोकताम् ॥ १,९.३४ ॥ [१,१० ऋणादानम्] [१,१०.][प्.१०९] पदांशसहितस्त्वेष व्यवहारः प्रकीर्तितः । विवादकारणान्यस्य पदानि शृणुताधुना ॥ १,१०.१ ॥ ऋणादानप्रधानानि द्यूताह्वानान्तिकानि च । क्रमशः संप्रवक्ष्यामि क्रियाभेदांश्च तत्त्वतः ॥ १,१०.२ ॥ ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्मौ च ऋणादानमिति स्मृतम् ॥ १,१०.३ ॥ [१,१०.१ वृद्धिविचारः] अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रि- चतुःपञ्चकमन्यथा ॥ १,१०.४ ॥ परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् । लेख्यारूढं साक्षिमद्वा ऋणं दद्याद्धनी सदा ॥ १,१०.५ ॥ कुत्सितात्सीदतश्चैव निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमतः स्मृतम् ॥ १,१०.६ ॥ पुराणे पणम् ... .... .... ॥ १,१०.७ ॥ [१,१०.२ वृद्धिप्रभेदाः] वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता । षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत ॥ १,१०.८ ॥ कायिका कालिका चैव चक्रवृद्धिरतोऽपरा । कारिता च शिखावृद्धिर्भोगलाभस्तथैव च ॥ १,१०.९ ॥ कायिका कर्मसंयुक्ता मासाद्ग्राह्या च कालिका । वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता ॥ १,१०.१० ॥ प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता । शिखेव वर्धते नित्यं शिरश्च्छेदान्निवर्तते ॥ १,१०.११ ॥ ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता । आपत्कालकृता नित्यं दातव्या सा तु कारिता । अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चन ॥ १,१०.१२ ॥ शिखेव वर्धते नित्यं शिरश्च्छेदान्निवर्तते । मूले दत्ते तथैवैषा शिखावृद्धिस्ततः स्मृता ॥ १,१०.१३ ॥ गृही स्तोमः शदः क्षेत्राद्भोगलाभः प्रकीर्तितः ॥ १,१०.१४ ॥ कायिका भोगवृद्धिं च कारितां च शिखात्मिकाम् । चतुष्टयीं वृद्धिमाहुश्चक्रवृध्या तु पञ्चमीम् ॥ १,१०.१५ ॥ शिखा वृद्धिं कायिकां च भोगलाभं तथैव च । धनी तावत्समादद्याद्यावन्मूलं न शोधितम् ॥ १,१०.१६ ॥ [१,१०.३ हिरण्यधान्यादीनां वृद्धिः] हिरण्ये द्विगुणा वृद्धिस्त्रिगुणा वस्त्रकुप्यके । धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥ १,१०.१७ ॥ उक्तपञ्चगुणा शाके बीजेऽक्षौ षड्गुणा स्मृता । लवणस्वेदमद्येषु वृद्धिरष्टगुणा मता । गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥ १,१०.१८ ॥ तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् । वृद्धिरष्टगुणा प्रोक्ता गुडस्य लवणस्य च ॥ १,१०.१९ ॥ स्यात्कोशानां पञ्चगुणा कार्पासस्य चतुर्गुणा । काष्ठानां चन्दनादीनां वृद्धिरष्टगुणा भवेत् ॥ १,१०.२० ॥ भागो यद्द्विगुणादूर्ध्वं चक्रवृद्धिश्च गृह्यते । पूर्णे च सोदयं पश्चाद्वार्द्धुष्यं तद्विगर्हितम् ॥ १,१०.२१ ॥ अशीतिभागो वर्धेत लाभे द्विगुणतामियात् । प्रयुक्तं सप्तभिर्वर्षैस्त्रिभागोअनैर्न संशयः ॥ १,१०.२२ ॥ तृणकाष्ठेष्टकासूत्र- किण्वचर्मास्थिवर्मणाम् । हेतिपुष्पफलानां च वृद्धिस्तु न निवर्तते ॥ १,१०.२३ ॥ हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा । घृतस्याष्टगुणा वृद्धिस्ताम्रादीनां चतुर्गुणा ॥ १,१०.२४ ॥ शिखावृद्धिं कायिकां च भोगे लाभं तथैव च । धनी तावत्समादद्याद्यावन्मूलं न शोधितम् ॥ १,१०.२५ ॥ पादोपचयात्क्रमेणेतरेषाम् ॥ १,१०.२६ ॥ सर्वेष्वर्थविवादेषु वाक्च्छले नावसीदति । परस्त्रीभूमिर्णादाने शास्योऽप्यर्थान्न हीयते । समवृद्धिः सदा कुर्याद्विषमस्तु निवर्तते ॥ १,१०.२७ ॥ [१,१०.४ धनवृद्धिः] वसिष्ठवचनप्रोक्तां वृद्धिं वार्द्धुषिके शृणु । पञ्च माषास्तु विंशत्या एवं धर्मो न हीयते ॥ १,१०.२८ ॥ माषो विंशतिभागस्तु पलस्य परिकीर्तितः ॥ १,१०.२९ ॥ तत्र त्विदमुपेक्षां वा यः कश्चित्कुरुते नरः । चतुःसुवर्णं षण्णिष्कास्तस्य दण्डो विधीयते ॥ १,१०.३० ॥ समूहकार्यसिध्यर्थं राजादीनां च दर्शने । ततो लभेत यत्किंचित्सर्वेषामेव तत्समम् ॥ १,१०.३१ ॥ सान्तानिकादिषु तथा धर्म एषां सनातनः । यत्नैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ॥ १,१०.३२ ॥ [१,१०.५ अकृतवृद्धिः] स्वदेशस्थोऽपि वा यस्तु न दद्याद्याचितोऽसकृत् । स तत्र कारितां वृद्धिमनिच्छन्नपि चाहरेत्[?] ॥ १,१०.३३ ॥ षाण्मास्यं मासिकं वापि विभक्तव्यं यथांशतः । देयं वा निःस्ववृद्धार्त- स्त्रीबालातुररोगिषु ॥ १,१०.३४ ॥ ऋतुत्रयस्योपरिष्टाद्धनं वृद्धिमवाप्नुयात् । एवमादिष्वशीति भागवृद्धिर्विवक्षिता ॥ १,१०.३५ ॥ न निःस्रवति यत्तत्स्याद्धनिको मूलभाग्भवेत् । द्विगुणादपि चोत्कर्षे कालिका यस्य चादिनाम् । विवादन्यायतत्त्वज्ञैस्तदा राजा विनिर्णयेत् ॥ १,१०.३६ ॥ [१,१०.६ आधिः] आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ १,१०.३७ ॥ आधिर्बन्धः समाख्यातः स च प्रोक्तश्चतुर्विधः । जङ्गमः स्थावरश्चैव गोप्यो भोग्यस्तथैव च ॥ १,१०.३८ ॥ यादृच्छिकः सावधिश्च लेख्यारुढोऽथ साक्षिमान् । अशान्तलाभे च ऋणे तथा पूर्णेऽवधौ धनी ॥ १,१०.३९ ॥ यो भुङ्क्ते बन्धकं लोभान्न स लाभो भवेत्पुनः । न्यासवत्परिपाल्योऽसौ वृद्धिर्नश्यते हापिते ॥ १,१०.४० ॥ दैवराजोपघाते च यथाधिर्नाशमाप्नुयात् । तत्राधिं दापयेद्दद्यात्सोदयं धनमन्यथा ॥ १,१०.४१ ॥ बन्धहस्तस्य यद्देयं चित्रेण चरितेन वा । अदत्तेऽर्थेऽखिलं बन्धं नाकामो दाप्यते क्वचित् ॥ १,१०.४२ ॥ भुक्ते चासारतां प्राप्ते मूलहानिः प्रजायते । बहुमूल्यं तत्र नष्टमृणिकं तत्र तोषयेत् ॥ १,१०.४३ ॥ क्षेत्रमेकं द्वयोर्बन्धे दत्तं यत्समकालिकम् । येन भुक्तं भवेत्पूर्वं तस्य सिद्धिमवाप्नुयात् ॥ १,१०.४४ ॥ तुल्यकालोपस्थितयोर्द्वयोरपि समं भवेत् । प्रदाने विक्रये चैव विधिः स परिकीर्तितः ॥ १,१०.४५ ॥ आधानं विक्रयो दानं साक्षिलेख्यकृतं यदा । एकक्रियानिबन्धेन लेख्यं तत्रापहारकम् ॥ १,१०.४६ ॥ अनिर्दिष्टं च निर्दिष्टमेकत्र च विशेषितम् । विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ॥ १,१०.४७ ॥ हिरण्यं द्विगुणीभूते पूर्णे काले धृतावधौ । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥ १,१०.४८ ॥ तदन्तरा धनं दत्त्वा ऋणी बन्धमवाप्नुयात् । पूर्णे विधौ सान्तलाभे बन्धस्वामी ततो भवेत् । अनिर्गते दशाहे तु ऋणी मोक्षितुमर्हति ॥ १,१०.४९ ॥ गोप्याधिर्द्विगुणादूर्ध्वं कृतकालो यथाविधि । श्रावयित्वा ऋणिकुले भोक्तव्यः समनन्तरम् ॥ १,१०.५० ॥ हिरण्ये द्विगुणीभूते नष्टे चैवाधमर्णके । द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥ १,१०.५१ ॥ रक्षेद्वा कृतमूल्यं तु दशाहं जनसंसदि । ऋणानुरूपां परतो गृहीत्वान्यं तु वर्जयेत् ॥ १,१०.५२ ॥ न भुङ्क्ते यः स्वमाधानं नादद्यान्न निवेदयेत् । प्रमीतसाक्षी ऋणिकः तस्य लेख्यमपार्थकम् ॥ १,१०.५३ ॥ गृहवार्यापणं धान्यं पशुस्त्रीवाहनानि च । उपेक्षया विनश्यन्ति यान्ति चासारतां तथा ॥ १,१०.५४ ॥ स्वधनं च स्थिरीकृत्य गणनाकुशलैर्नृभिः । तद्बन्धुज्ञातिविदितं प्रगृह्णन्नापराध्नुयात् ॥ १,१०.५५ ॥ विवादोऽष्टादशोपेतः पूर्वोत्तरविशेषितः । व्याख्यातस्त्वधुना सम्यक्- क्रियाभेदान्निबोधत ॥ १,१०.५६ ॥ पूर्वं कृता क्रिया या तु पालनीया तथैव सा । अन्यथा क्रियते यत्र क्रियाभेदस्तदा भवेत् ॥ १,१०.५७ ॥ विहाय करणं पूर्वं धनिको वाधमर्णिकः । कुर्यान्न्यूनाधिकं तुल्यं क्रियाभेदः स उच्यते ॥ १,१०.५८ ॥ द्विकेनार्थं समादाय प्रपन्नः पञ्चकं तु यः । लाभं तत्र प्रमाणं स्यात्पश्चिमं यद्धि निश्चितं ॥ १,१०.५९ ॥ अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथास्थितिः ॥ १,१०.६० ॥ उत्तरोत्तरबन्धेन प्राग्बन्धः शिथिलो भवेत् । यः पश्चिमः क्रियाकारः स पूर्वाद्बलवत्तरः ॥ १,१०.६१ ॥ न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति यः । विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥ १,१०.६२ ॥ कृतं चेदेकदिवसे विक्रयाधिप्रतिग्रहम् । त्रयाणामपि संदिग्धे कथं तत्र विचारणा ॥ १,१०.६३ ॥ त्रीण्येवात्र प्रमाणानि विभजेयुर्यथांशतः । उभौ चार्थानुसारेण त्रिभागेन प्रतिग्रही ॥ १,१०.६४ ॥ सामकं कर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद्बन्धं परस्परमतं विना ॥ १,१०.६५ ॥ धनं मूलीकृतं दत्त्वा यदाधिं प्रार्थयेदृणी । तदैव तस्य मोक्तव्यस्त्वन्यथा दोषभाग्धनी ॥ १,१०.६६ ॥ क्षेत्रादिकं यदा भुक्तमुत्पन्नमधिकं ततः । मूलोदयं प्रविष्टं चेत्तदाधिं प्राप्नुयादृणी ॥ १,१०.६७ ॥ प्रयोजकेऽसति धनं मूले न्यस्याधिमाप्नुयात् । परिभाष्य यदा क्षेत्रं दद्यात्तु धनिने ऋणी । तदा तच्छान्तलाभेऽर्थे मोक्तव्यमिति निश्चयः ॥ १,१०.६८ ॥ आधिस्तु सोदये द्रव्ये प्रदातव्यं त्वया मम । कुसीदाधिविधिस्त्वेष धर्म्यः संपरिकीर्तितः ॥ १,१०.६९ ॥ यत्राधिकं गृहक्षेत्रं भोगेन प्रकर्षान्वितम् । तत्र र्णी चाप्नुयाद्बन्धं धनी चैव ऋणं तथा ॥ १,१०.७० ॥ पूर्णे प्रकर्षे तत्साम्यमुभयोः परिकीर्तितम् । अपूर्णे तु प्रकुर्यातां प्रस्परमतेन तौ ॥ १,१०.७१ ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी न लभते बन्धं परस्परमतं विना ॥ १,१०.७२ ॥ [१,१०.७. प्रतिभूः] दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा । चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥ १,१०.७३ ॥ आहैको दर्शयामीति साधुरेषोऽपरोऽब्रवीत् । दाताहमेतद्द्रविणमर्पताम्यपरो वदेत् ॥ १,१०.७४ ॥ दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् । निबन्धं वावहेत्तत्र दैवराजकृतादृते ॥ १,१०.७५ ॥ नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनी । देशाध्वरूपतः पक्षं मासं सार्धमथापि वा ॥ १,१०.७६ ॥ यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । अदर्शयं स तं तस्मै प्रयच्छेत्स्वधनादृणम् ॥ १,१०.७७ ॥ आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥ १,१०.७८ ॥ स्वामीरिपुनिरुद्धाधिकृतदण्डितसंशयाः । रिक्थिमात्र[मित्र]अन्तावसायि[अन्तेवासि]राजवृत्तवीतराग व्रतिदरिद्रबालवृद्धस्त्रीरुग्णा न प्रतिभुवः ॥ १,१०.७९ ॥ उपस्थाप्यविपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥ १,१०.८० ॥ पुत्रेणापि समं देयमृणं सर्वं तु पैतृकम् ॥ १,१०.८१ ॥ प्रतिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः । त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुमर्हति ॥ १,१०.८२ ॥ साधुत्वाच्चेन्मन्दधिय ऋणं दद्युरभाविताः । यदर्थं दापितास्तस्मान्न लभेरन् कथञ्चन ॥ १,१०.८३ ॥ नात्यन्तं पीडनीयाः स्युरृणं दाप्याः शनैः शनैः । स्वसाक्ष्येण[ए न] नियोज्याः स्युर्विधिः प्रतिभुवामयम् ॥ १,१०.८४ ॥ नष्टे मृते वा ऋणिके धनी पत्रं प्रदर्शयेत् । तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ॥ १,१०.८५ ॥ प्रतिभुवा तु यद्दत्तमपृष्टमृणिके धनम् । द्विगुणं न प्रतिभुवे प्रदेयमृणिकेन तु ॥ १,१०.८६ ॥ धर्मोपधिबलात्कारैर्गृहसंरोधनेन च । प्रतिपन्नमृणं दाप्यः सामादिभिरुपक्रमैः । धर्मोपधिबलात्कारैर्गृहसंरोधनेन च ॥ १,१०.८७ ॥ सुहृत्संबन्धिसंदिष्टैः सामोक्त्यानुगमेन च । प्रायेण धनिने दाप्यो धर्म एष उदाहृतः ॥ १,१०.८८ ॥ ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ १,१०.८९ ॥ छद्मना याचितं चार्थमानीय ऋणिकाद्धनी । अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ॥ १,१०.९० ॥ यदा स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥ १,१०.९१ ॥ कर्मणापि समं कुर्याद्धनिकं वाधमर्णिकः । समोऽपकृष्टजातिश्च दद्याच्छेयांस्तु तच्छनैः ॥ १,१०.९२ ॥ हीनजातिं परिक्षीणमृणार्थे कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ १,१०.९३ ॥ दारपुत्रपशून् बध्वा कृत्वा द्वारोपवेशनम् । यत्रर्णी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते ॥ १,१०.९४ ॥ प्रतिपन्नस्य धर्मोऽयं व्यपलापी तु संसदि । लेख्येन साक्षिभिर्वापि भावयित्वा प्रदाप्यते ॥ १,१०.९५ ॥ प्रदातव्यं यद्भवति न्यायतस्तद्ददाम्यहम् । एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥ १,१०.९६ ॥ न रोद्धव्यः क्रियावादी संदिग्धेऽर्थे कथञ्चन । आसेधयंस्त्वनासेध्यं दण्ड्यो भवति धर्मतः ॥ १,१०.९७ ॥ रूपसंख्यादिलाभेषु यत्र भ्रान्तिर्द्वयोर्भवेत् । देयानादेययोर्वापि संदिग्धोऽर्थः स कीर्तितः ॥ १,१०.९८ ॥ पूर्णावधौ शान्तलाभे ऋणामुद्ग्राहयेद्धनी । धारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया ॥ १,१०.९९ ॥ द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते । भोगलाभस्तदा तत्र मूलं स्यात्सोदयं नृणाम् ॥ १,१०.१०० ॥ अनावेद्य तु राज्ञे यः संदिग्धेऽर्थे प्रवर्तते । प्रसह्य स विनेयः स्यात्स चाप्यर्थो न सिध्यति ॥ १,१०.१०१ ॥ परहस्ताद्गृहीतं यत्कुषीदविधिना ऋणम् । येन यत्र यथा देयमदेयं चोच्यतेऽधुना ॥ १,१०.१०२ ॥ याचमानाय दातव्यमल्पकालमृणं कृतम् । पूर्णेऽवधौ शान्तलाभमभावे च पितुः सुतैः ॥ १,१०.१०३ ॥ तपस्वी चाग्निहोत्री च ऋणवान्म्रियते यदि । तपस्या चाग्निहोत्रं च सर्वं तद्धनिनो भवेत् ॥ १,१०.१०४ ॥ निर्धनमृणिनं कर्म गृहमानीय कारयेत् । शौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैः ॥ १,१०.१०५ ॥ धनस्त्रीहारिपुत्राणां पूर्वीभावे यथोत्तरमाधमर्ण्यं ॥ १,१०.१०६ ॥ तदभावे क्रमशोऽन्येषां रिक्थभाजाम् ॥ १,१०.१०७ ॥ [१,१०.८. देयानि ऋणानि] ऋणं धर्मादितो ग्राह्यं यस्तूपरि न लेखयेत् । न चैवोपगतं दद्यात्तस्य तद्वृद्धिमाप्नुयात् ॥ १,१०.१०८ ॥ व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । ऋणमेवंविधं पुत्रान् जीवतामपि दापयेत् ॥ १,१०.१०९ ॥ सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् । जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥ १,१०.११० ॥ एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषितस्य सुतः सर्वं पित्र्यमंशं मृतस्य तु ॥ १,१०.१११ ॥ एकच्छायाकृतं सर्वं दद्यात्तु प्रेषिते सुतः । मृते पितरि पितृअंशं परर्णं न कदाचन ॥ १,१०.११२ ॥ पित्र्यमेवाग्रतो देयं पश्चादात्मीयमेव च । तयोः पैतामहं पूर्वं देयमेवमृणं सदा ॥ १,१०.११३ ॥ ऋणमात्मीयवत्पित्र्यं पुत्रैर्देयं विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु ॥ १,१०.११४ ॥ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं समाचरेत् । स्वदेशे वा विदेशे वा तं विद्वान्न विचालयेत् ॥ १,१०.११५ ॥ अतः पुत्रेन जातेन स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा न नरकं व्रजेत् ॥ १,१०.११६ ॥ पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः । विभक्ता अविभक्ता वा यो वा तामुद्वहेद्धुरम् ॥ १,१०.११७ ॥ सौराक्षिकं वृथा दानं कामक्रोधप्रतिश्रुतम् । प्रातिभाव्यं दण्डशुल्क- शेषं पुत्रं न दापयेत् ॥ १,१०.११८ ॥ शौण्डिकव्याधरजक- गोपनापित[नाविक]योषिताम् । अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ॥ १,१०.११९ ॥ ऋणभाग्द्रव्यहारी च यदि सोपद्रवः सुतः । स्त्रीहारी तु तथैव स्यादभावे धनहारिणः ॥ १,१०.१२० ॥ पितृव्य भ्रातृपुत्रस्त्री- दासशिष्यानुजीविभिः । यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥ १,१०.१२१ ॥ यः स्वामिना नियुक्तस्तु धनायव्ययपालने । कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥ १,१०.१२२ ॥ उज्जामादिकमादाय स्वामिने न ददाति यः । स तस्य दासः पुत्रः स्त्री पशुवी जायते गृहे ॥ १,१०.१२३ ॥ ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् । सुतस्नेहेन वा दद्यान्नान्यथा दातुमर्हति ॥ १,१०.१२४ ॥ .... .... ऋणी बन्धमवाप्नुयात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥ १,१०.१२५ ॥ यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न लभेत्बन्धं परस्परमतं विना ॥ १,१०.१२६ ॥ अधमर्णोऽर्थसिध्यर्थमुत्तमर्णेन वादितः । दापयेद्धनिकस्यार्थमधमर्णविभावितम् ॥ १,१०.१२७ ॥ अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थं दण्डकेशं च शक्तितः ॥ १,१०.१२८ ॥ यो यावन्निह्नुवीतार्थं मिथ्या यावति वादयेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ १,१०.१२९ ॥ धर्म्यादिनोद्ग्राह्य धनं यस्तूपरि न लेखयेत् । न चैवोपगतं दद्यात्तस्य तद्वृद्धिमाप्नुयात् ॥ १,१०.१३० ॥ [१,११ निक्षेपः] [१,११.]प्.१२०) ऋणादानं प्रयोगादि- दापनान्तं प्रकीर्तितम् । निक्षेपस्याधुना सम्यग्- विधानं श्रूयतामिति ॥ १,११.१ ॥ [१,११.१ औपनिधिकम्]प्.१२०) अनाख्यातं व्यवहितमसंख्यातमदर्शितम् । मुद्राङ्कितं च यद्दत्तं तदोपनिधिकं स्मृतम् ॥ १,११.२ ॥ [१,११.२ न्यासस्वरूपम्] राजचौरारातिभयाद्दायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥ १,११.३ ॥ [१,११.३ स्थापनप्रकारः] स्थानं गृहं स्थलं चैव तदृणं विविधान् गुणान् । सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन्निधिम् ॥ १,११.४ ॥ [१,११.४ तस्य द्वैविध्यम्] स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा । प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ॥ १,११.५ ॥ समाक्षिकं रहोदत्तं द्विविधं तदुदाहृतम् । पुत्रवत्परिपाल्यं तु विनश्यत्यनवेक्षया ॥ १,११.६ ॥ [१,११.५ निक्षेपादिरक्षणं यत्नेन कर्तव्यम्] ददतो यद्भवेत्पुण्यं हेमकुप्याम्बरादिकम् । तत्स्यात्पालयतो न्यासं तथा च शरणागतम् ॥ १,११.७ ॥ भर्तुर्द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे । दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥ १,११.८ ॥ न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशःकरः । गृहीतं पालयेद्यत्नात्सकृद्याचितमर्पयेत् ॥ १,११.९ ॥ स्थापितं येन विधिना येन यच्च विभावितम् । तथैव तस्य दातव्यमदेयं प्रत्यनन्तरम् ॥ १,११.१० ॥ [१,११.६ निक्षेपनाशे व्यवस्था] देवराजोपघातेन यदि तन्नाशमाप्नुयात् । ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥ १,११.११ ॥ भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् । याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥ १,११.१२ ॥ [१,११.७ तस्य भोगदण्डः] न्यासद्रव्येण यः कश्चित्साधयेत्कार्यमात्मनः । दण्ड्यः स राज्ञो भवति दाप्यस्तच्चापि सोदयम् ॥ १,११.१३ ॥ [१,११.८ अपह्नवे निर्णयः] गृहीत्वापह्नुते यश्च साक्षिभिः शपथेन वा । विभाव्य दापयेन्न्यासं तत्समं विनयं तथा ॥ १,११.१४ ॥ रहो दत्ते निधौ यत्र विसंवादः प्रजायते । विभावकं तत्र दिव्यमुभयोरपि च स्मृतम् ॥ १,११.१५ ॥ मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ १,११.१६ ॥ समुद्रे नाप्नुयात्किंचिद्यदि तस्मान्न संहरेत् ॥ १,११.१७ ॥ अन्वाहिते याचितके शिल्पिन्यासे सबन्धके । एष एवोदितो धर्मस्तथा च शरणागते ॥ १,११.१८ ॥ यस्तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः । तदूर्ध्व स्थापयञ्शिल्पी दाप्यो दैवहतोऽपि तत् ॥ १,११.१९ ॥ याचितं स्वाम्यनुज्ञातं प्रददन्नापराध्नुयात् ॥ १,११.२० ॥ [१,१२ अस्वामिविक्रयः] [१,१२.]प्.१२५) निक्षेपानन्तरं प्रोक्तो भृगुणास्वामिविक्रयः । श्रूयतां तं प्रयत्नेन सविशेषं ब्रवीम्यहम् ॥ १,१२.१ ॥ [१,१२.१ अस्वामिलक्षणम्] निक्षेपान्वाहितन्यास- हृतयाचितबन्धकम् । उपांशुजनविक्रीतमस्वामी सोऽभिधीयते ॥ १,१२.२ ॥ [१,१२.२ अध्यक्षनिवेदितक्रयेण दोषः] येन क्रीतं तु मूल्येन प्रागध्यक्षनिवेदितम् । न विद्यते तत्र दोषः स्तेन स्यादुपधिक्रयात् ॥ १,१२.३ ॥ [१,१२.३ उपविक्रयलक्षणम्] अन्तर्गृहे बहिर्ग्रामान्निशायामसतो जनात् । हीनमूल्यं च यत्क्रीतं ज्ञेयोऽसावुपविक्रयः ॥ १,१२.४ ॥ [१,१२.४ तत्र क्रेतृशुद्धिनिर्णयः] पूर्वस्वामी तु तद्द्रव्यं यदागत्य विचारयेत् । तत्र मूल्यं दर्शनीयं क्रेतुः शुद्धिस्ततो भवेत् ॥ १,१२.५ ॥ मूले समाहृते क्रेता नाभियोज्यः कथंचन । मूलेन सह वादस्तु नाष्टकस्य विहीयते ॥ १,१२.६ ॥ विक्रेता दर्शितो यत्र हीयते व्यवहारतः । क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात्स्वामिने धनम् ॥ १,१२.७ ॥ परद्रव्येऽभिलषति योऽस्वामी लोभसंयुतः । अभावयंस्ततः पश्चाद्दाप्यः स्याद्द्विगुणं दमम् ॥ १,१२.८ ॥ प्रमाणहीने वादे तु पुरुषापेक्षया नृपः । समन्यूनाधिकत्वेन स्वयं कुर्याद्विनिर्णयम् ॥ १,१२.९ ॥ वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ॥ १,१२.१० ॥ स्वामी दत्त्वार्धमूल्यं तु प्रकृह्णीत स्वकं धनम् । अर्धं द्वयोरपि हृतं तत्र स्याद्व्यवहारतः ॥ १,१२.११ ॥ अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥ १,१२.१२ ॥ वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः । दिवा गृहीतं सत्क्रेता समृद्धो लभते धनम् ॥ १,१२.१३ ॥ विक्रीयोर्वीं तु यत्क्रेतुर्भुक्तिं यो न [च] साधयेत् । स तस्मै तद्धनं दद्यादन्यथा चोरदण्डभाक् ॥ १,१२.१४ ॥ एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः । अविज्ञातविशेषत्वाद्यत्र मूल्यं न लभ्यते ॥ १,१२.१५ ॥ हानिस्तत्र समा कल्प्या क्रेतृनास्तिकयोर्द्वयोः ॥ १,१२.१६ ॥ [१,१३ संभूयसमुत्थानम्] [१,१३.१ संभूयकरणेऽधिकारिणः]प्.१२९) कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः । आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात्सह क्रियाः ॥ १,१३.१ ॥ समोऽतिरिक्तो जीनो वा यत्रांशो यस्य यादृशः । क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ॥ १,१३.२ ॥ [१,१३.२ अनधिकारिणः] अशक्तालसरोगार्त- मन्दभाग्यनिराश्रयैः । वणिज्याद्याः सहैतैस्तु न कर्तव्या बुधैः क्रियाः ॥ १,१३.३ ॥ [१,१३.३ द्रव्यानुगुण्येन लाभः] प्रयोगं कुर्वते ये तु हेमधान्यरसादिना । समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥ १,१३.४ ॥ समो न्यूनोऽधिको वांशो येन क्षिप्तस्तथैव सः । व्ययं दद्यात्कर्म कुर्याल्लाभं गृह्णीत चैव हि ॥ १,१३.५ ॥ [१,१३.४ तेषु वादे निर्णयः] परीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम् । संदिग्धेऽर्थेऽवञ्चनायां न चेद्द्विद्वेषसंयुताः ॥ १,१३.६ ॥ यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये । शपथैः स विशोध्यः स्यात्सर्ववादे त्वयं विधिः ॥ १,१३.७ ॥ [१,१३.५ द्रव्यहानौ निर्णयः] क्षयहानिर्यदा तत्र दैवराजकृताद्भवेत् । सर्वेषामेव सा प्रोक्ता कल्पनीया तथांशतः ॥ १,१३.८ ॥ अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् । तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ॥ १,१३.९ ॥ राज्ञे दत्त्वा तु षड्भागं लभेरंस्ते यतांशतः ॥ १,१३.१० ॥ [१,१३.६ रक्षितुः दशमांशम्] दैवराजभयादस्तु स्वशक्त्या परिपालयेत् । तस्य अंशं दशमं दत्त्वा गृह्नीयुस्तेऽंशतोऽपरम् ॥ १,१३.११ ॥ [१,१३.७ शुल्कम्] शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोचितम् । न तद्व्यभिचरेत्राज्ञां बलिरेष प्रकीर्तितः ॥ १,१३.१२ ॥ नैवं तस्करराजाग्नि- व्यसने समुपस्थिते । यस्तु स्वशक्त्या रक्षेत्तु तस्यांशो दशमः स्मृतः ॥ १,१३.१३ ॥ [१,१३.८ संभूयकर्मकुर्वतामेकस्य हानौ निर्णयः] यदा तत्र वणिक्कश्चित्प्रमीयेत प्रमादतः । तस्य भाण्डं दर्शनीयं नियुक्तैः राजपुरुषैः ॥ १,१३.१४ ॥ यदा कश्चित्समागच्छेत्तदा रिक्थहरो नरः । स्वाम्यं विभावयेदन्यैः स तदा लब्धुमर्हति ॥ १,१३.१५ ॥ राजाददीत षड्भागं नवमं दशमं तथा । शूद्रविष्क्षत्रजातीनां विप्राद्गृह्णीत विंशकम् ॥ १,१३.१६ ॥ त्र्यब्दादूर्ध्वं तु नागच्छेद्यत्र स्वामी कथंचन । तदा गृह्णीत तद्राजा ब्रह्मस्वं ब्राह्मणाञ्श्रयेत् ॥ १,१३.१७ ॥ एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते । तद्बन्धुना क्रिया कार्या सर्वेषां सहकारिभिः ॥ १,१३.१८ ॥ [१,१३.९ ऋत्विजः] रथं हरेद्यथाध्वर्युर्ब्रह्माधाने च वाजिनम् । होता निविद्वरं चाश्वमुद्गाता चाप्यनः क्रये ॥ १,१३.१९ ॥ सर्वेषामर्धिनो मुख्यास्तदर्धेनाधिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ १,१३.२० ॥ आगन्तुकाः क्रमायातास्तथा चैव स्वयंकृताः । त्रिविधास्ते समाख्याता वर्तितव्यं तथैव तैः ॥ १,१३.२१ ॥ [१,१३.१० संभूयकर्मप्रकारः] बहूनां संमतो यस्तु दद्यादेको धनं नरः । करणं कारयेद्वापि सर्वैरेव कृतं भवेत् ॥ १,१३.२२ ॥ ज्ञातिसंबन्धिसुहृदामृणं देयं सबन्धकम् । अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥ १,१३.२३ ॥ स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि । देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ॥ १,१३.२४ ॥ समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् । न याचते च यः कश्चिल्लाभात्स परिहीयते ॥ १,१३.२५ ॥ [१,१३.११ संभूय कृषिकर्म] श्रूयतां कर्षकादीनां विधानमिदमुच्यते ॥ १,१३.२६ ॥ वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च । ये समाः स्युस्तु तैः सार्धं कृषिः कार्या विजानता ॥ १,१३.२७ ॥ बाह्यबीजात्ययाद्यत्र क्षेत्रहानिः प्रजायते । तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥ १,१३.२८ ॥ पर्वते नगराभ्यासे तथा राजपथस्य च । उषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥ १,१३.२९ ॥ गर्तानूपं सुसेकं च समन्तात्क्षेत्रसंयुतम् । प्रकृष्टं च कृतं काले वापयन् फलमश्नुते ॥ १,१३.३० ॥ कृशातिवृद्धं क्षूद्रं च रोगिणं प्रपलायिनम् । काणं खञ्जं विनादद्यात्बाह्यं प्राज्ञः कृषीवलः ॥ १,१३.३१ ॥ एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥ १,१३.३२ ॥ [१,१३.१२ शिल्पिनः] हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् । संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥ १,१३.३३ ॥ हेमकारादयो यत्र शिल्पं संभूय कुर्वते । कर्मानुरूपं निर्वेश लभेरंस्ते यथांशतः ॥ १,१३.३४ ॥ शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् लभेयुस्ते यथोत्तरम् ॥ १,१३.३५ ॥ हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च । संभूय कुर्वतां चैषां प्रमुखो द्व्यंशमर्हति ॥ १,१३.३६ ॥ नर्तकानामेष एव धर्मः सद्भिरुदाहृतः । तालज्ञो लभतेऽध्यर्धं गायनास्तु समांशिनः ॥ १,१३.३७ ॥ [१,१३.१३ चोराणां लाभविभागः] स्वाम्याज्ञया तु यश्चौरैः परदेशात्समाहृतम् । राज्ञे दत्त्वा तु षड्भागं भजेयुस्ते यथांशतः ॥ १,१३.३८ ॥ चतुरोऽंशांस्ततो मुख्यः शूरस्त्र्यंशं समाप्नुयात् । समर्थस्तु हरेद्द्व्यंशं शेषाः सर्वे समांशिनः ॥ १,१३.३९ ॥ [१,१४ अदेयदेयदत्तानि] एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः । अदेयदेयदत्तानामदत्तस्य च कथ्यते ॥ १,१४.१ ॥ सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् । प्रतिश्रुतं तथान्यस्य न देयं त्वष्टधा स्मृतम् ॥ १,१४.२ ॥ कुटुम्बभक्तवसनाद्देयं यदतिरिच्यते । मध्वास्वादो विषं पश्चाद्दातुर्धमोऽन्यथा भवेत् ॥ १,१४.३ ॥ सप्तारामाद्गृहक्षेत्राद्यद्यत्क्षेत्रं प्रचीयते । पित्रा वाथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम् ॥ १,१४.४ ॥ स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् । वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥ १,१४.५ ॥ सौदायिकक्रमायातं शौर्यप्राप्तं च यद्भवेत् । स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात् ॥ १,१४.६ ॥ सर्वस्वगृहवर्जं तु कुटुम्बभरणादिकम् । यद्द्रव्यं तत्स्वकं देयमदेयं स्यादतोऽन्यथा ॥ १,१४.७ ॥ विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानादापनविक्रये ॥ १,१४.८ ॥ भृतिस्तुष्ट्या पण्यमूलं स्त्रीशुल्कमुपकारिणे । श्रद्धानुग्रहसंप्रीत्या दत्तमष्टविधं स्मृतम् ॥ १,१४.९ ॥ शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् । क्षत्रिये त्रिगुणं दानं ब्राह्मणे षड्गुणं स्मृतम् ॥ १,१४.१० ॥ श्रोत्रिये चैव साहस्रमुपाध्याये तु तद्द्वयम् । आचार्ये त्रिगुणं ज्ञेयमाहिताग्निषु तद्द्वयम् ॥ १,१४.११ ॥ आत्मिके ज्ञातसाहस्रमनन्तं त्वग्निहोत्रिणि । सोमपे शतसाहस्रमनन्तं ब्रह्मवादिनि ॥ १,१४.१२ ॥ स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्च्छेत्तं तु वर्जयेत् । कुल्याभावे तु बन्धुभ्यः तदभावे द्विजातिषु ॥ १,१४.१३ ॥ मदूर्ध्वमिति यद्दत्तं न तत्सत्त्वावहं भवेत् । तेनेदानीमदत्तत्वान्मृते रिक्थिनमापतेत् ॥ १,१४.१४ ॥ क्रुद्धहृष्टप्रमत्तार्त- बालोन्मत्तभयातुरैः । मत्तातिवृद्धनिर्धूतैः संूढैः शोकवेगिभिः ॥ १,१४.१५ ॥ नन्ददत्तं तथैतैर्यत्तददत्तं प्रकीर्तितम् ॥ १,१४.१६ ॥ प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया । कार्ये वाधर्मसंयुक्ते स्वामी तत्पुनराप्नुयात् ॥ १,१४.१७ ॥ अदत्तभोक्ता दण्ड्यः स्यात्तथादेयप्रदायकः ॥ १,१४.१८ ॥ [१,१५ अभ्युपेत्याशुश्रूषा] [१,१५. ] अदेयादिकमाख्यातं भृतानामुच्यते विधिः । शुश्रूषामभ्यूपेत्यैतत्पदमादौ निगद्यते ॥ १,१५.१ ॥ अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥ १,१५.२ ॥ वेतनस्यानपाकर्म तदर्थं स्वामिपालयोः । क्रमशः कल्प्यते वादो भृतभेदत्रयं त्विदम् ॥ १,१५.३ ॥ अनेकधा त्वभिहिता जातिकर्मानुरूपतः । विद्याविज्ञानकामार्थ- निमित्तेन चतुर्विधा ॥ १,१५.४ ॥ एकैकः पुनरेतेषां क्रियाभेदात्प्रभिद्यते ॥ १,१५.५ ॥ विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा । तदर्थं गुरुशुश्रूषां प्रकुर्याच्च प्रचोदिताम् ॥ १,१५.६ ॥ विज्ञानमुच्यते शिल्पं हेमरूप्यादिसंस्कृतिः । नृत्यादिकं च तत्प्राप्तं कुर्यात्कर्म गुरोर्गृहे ॥ १,१५.७ ॥ यो भुङ्क्ते परदासीं तु स ज्ञेयो वडबाभृतः । कर्म तत्स्वामिनः कुर्याद्यथान्नेन भृतो नरः ॥ १,१५.८ ॥ बहुधार्थभृतः प्रोक्तस्तथा भागभृतोऽपरः । हीनमध्योत्तमत्वं च सर्वेषामेव चोदितम् ॥ १,१५.९ ॥ दिनमासार्धषण्मास- त्रिमासाब्दभृतस्तथा । कर्म कुर्यात्प्रतिज्ञातं लभते परिभाषितम् ॥ १,१५.१० ॥ भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्त्यनुरूपैः स्यादेषां कर्माश्रया भृतिः ॥ १,१५.११ ॥ उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाहः स्यादित्येष त्रिविधो भृतः ॥ १,१५.१२ ॥ आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीवलः । भारवाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृत् ॥ १,१५.१३ ॥ द्विप्रकारो भोगभृतः कृषिगोजीविनां स्मृतः । जातसस्यात्तथा क्षीरात्स लभेत न संशयः ॥ १,१५.१४ ॥ शुभकर्मकरा ह्येते चत्वारः समुदाहृताः । [चत्वारः शिष्योऽन्तेवासी भृतकः कर्मकरश्च] । जधन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥ १,१५.१५ ॥ कर्मापि द्विविधं प्रोक्तमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ॥ १,१५.१६ ॥ गृहद्वाराशुचिस्थान- रथ्यावस्करशोधनम् । गृह्याङ्गस्पर्शनोच्छिष्ट- विण्मूत्रग्रहणोज्झनम् ॥ १,१५.१७ ॥ गच्छतः स्वामिनः स्वाङ्गैरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥ १,१५.१८ ॥ ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः । भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ॥ १,१५.१९ ॥ आविद्याग्रहणाच्शिष्यः शुश्रूषेत्प्रयतो गुरुम् । तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥ १,१५.२० ॥ समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् । प्रतियाति गृहानेषा शिष्यवृत्तिरुदाहृतः ॥ १,१५.२१ ॥ अत्र पुर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते । प्रसादात्स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ॥ १,१५.२२ ॥ विक्रीणीते स्वतन्त्रो यः समात्मानं नराधमः । स जघन्यतमस्त्वेषां सोऽपि दास्यान्न मुच्यते ॥ १,१५.२३ ॥ दासेनोढा त्व[स्व]दासी या सोऽपि दासीत्वमाप्नुयात् । यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनप्रभुर्यतः ॥ १,१५.२४ ॥ दासीसुताश्च ये जाताः तस्याः पत्या परेण वा । उत्पादको यदि स्वामी न दासीं कारयेत्प्रभुः ॥ १,१५.२५ ॥ [१,१६ वेतनस्यानपाकर्म] [१,१६.] त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः । भक्ताच्छादभृतः सीराद्भागं गृणीत पञ्चमम् ॥ १,१६.१ ॥ जातसस्यात्त्रिभागं तु प्रगृह्णीयादथाभृतः ॥ १,१६.२ ॥ भृतकस्तु न कुर्वीत स्वामिनः शाठ्यमण्वपि । भृतिहानिमवाप्नोति ततो वादः प्रवर्तते ॥ १,१६.३ ॥ [१,१६.१ भृतस्य कर्माकरणनिर्णयः] भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथेरितम् । स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥ १,१६.४ ॥ [१,१६.२ गृहीतवेतनस्य दण्डः] गृहीतवेतनः कर्म न करोति यदा भृतः । समर्थश्चेद्दमं दाप्यो द्विगुणं तच्च वेतनम् ॥ १,१६.५ ॥ गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् । [१,१६.३ अगृहीतवेतनस्य दण्डः] अगृहीते समं दाप्यो भृतै रक्ष्य उपस्करः ॥ १,१६.६ ॥ [१,१६.४ प्रतिश्रुत्यकरणे दण्डः] प्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्बलादपि । स चेन्न कुर्यात्तत्कर्म प्राप्नुयाद्विंशतिं दमम् ॥ १,१६.७ ॥ स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ १,१६.८ ॥ [१,१६.५ भृत्यदोषाभावः] प्रभुणा विनियुक्तः सन् भृतको विदधाति यत् । तदर्थमशुभं कर्म स्वामी तत्रापराध्नुयात् ॥ १,१६.९ ॥ [१,१६.६ पालस्य दोषाभावसमयाः] दैवराज्ञोस्तथा न्याये तथा राष्ट्रस्य विभ्रमे । यत्प्रणष्टं भृतं वा स्यान्न पालस्तत्र किल्बिषी ॥ १,१६.१० ॥ [१,१६.७ स्वामिनो दण्डसमयः] कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृतेः । राज्ञा दापयितव्यः स्याद्विनयं चानुरूपतः ॥ १,१६.११ ॥ [१,१६.८ पालदोषदण्डः] पालदोषाद्विनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिने द्रव्यमेव च ॥ १,१६.१२ ॥ व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता च नागच्छेतवाच्या बडबा स्मृता ॥ १,१६.१३ ॥ [१,१६.९ स्वामिपालधर्माः] तथा धेनुभृतः क्षीरं लभेतास्याष्टमेऽखिलम् । सायं समर्पयेत्सर्वं .... .... ॥ १,१६.१४ ॥ अव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । वोढुमर्हति गोपस्तां विनयं चैव राजनि ॥ १,१६.१५ ॥ कृमिचोरव्याघ्रभयाद्दरीश्वभ्राच्च पालयेत् । आयच्छेच्छक्तितः क्रोशोत्- स्वामिने वा निवेदयेत् ॥ १,१६.१६ ॥ सस्यान्निवारयेद्गास्तु चीर्णे दोषद्वयं भवेत् । स्वामी शतदमं दाप्यः पालस्ताडनमर्हति । शदश्च सदमं चीर्णे समूले कार्षभक्षिते ॥ १,१६.१७ ॥ [१,१७ संविद्व्यतिक्रमः] [१,१७. ] एषा हि स्वामिभृत्यानां वै क्रिया परिकीर्तिता । संविद्विधानमधुना समासेन निबोधत ॥ १,१७.१ ॥ [१,१७.१ सद्ब्राह्मणस्थापनं कृत्यं च] वेदविद्याविदो विप्राञ्श्रोत्रियानग्निहोत्रिणः । आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥ १,१७.२ ॥ अनाच्छेद्यकरास्तेषां प्रदद्याद्गृहभूमिकाः । मुक्ता भाव्याश्च नृपतिर्लेखयित्वा स्वशासनैः ॥ १,१७.३ ॥ नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । पौराणां कर्म कुर्युस्ते संदिग्धे निर्णयं तथा ॥ १,१७.४ ॥ [१,१७.२ संभूय धर्मकार्यकरणम्] ग्रामश्रेणिगणार्थं तु संकेतसमयक्रिया । बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥ १,१७.५ ॥ चाटचोरभयं बाधा सर्वसाधारणा स्मृता । तत्रोपशमनं कार्यं सर्वैर्नैकेन केन चित् ॥ १,१७.६ ॥ [१,१७.३ विश्वासोत्पादनम्] कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् । विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्यनन्तरम् ॥ १,१७.७ ॥ विद्वेषिणो व्यसनिनः शालीनालसभीरवः । [१,१७.४ नियोज्यानियोज्याः] लुब्धातिवृद्धबालाश्च न कार्याः कार्यचिन्तकाः ॥ १,१७.८ ॥ शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः । सर्वकार्यप्रवीणाश्च कर्तव्यास्तु महत्तमाः ॥ १,१७.९ ॥ द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः । कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥ १,१७.१० ॥ [१,१७.५ समयक्रिया] सभाप्रपादेवगृह- तडाकारामसंस्कृतिः । तथानाथदरिद्राणां संस्कारो योजनक्रिया ॥ १,१७.११ ॥ कुलायनं निरोधश्च कार्यमस्माभिरंशतः । यत्त्वेवं लिखितं पत्रं धर्म्या सा समयक्रिया ॥ १,१७.१२ ॥ पालनीयाः समर्थैस्तु यः समर्थो विसंवदेत् । सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ॥ १,१७.१३ ॥ तत्र भेदमुपेक्षां वा यः कश्चित्कुरुते नरः । चतुःसुवर्णाः षण्णिष्कास्तस्य दण्डो विधीयते ॥ १,१७.१४ ॥ यस्तु साधारणं हिंस्यात्क्षिपेत्त्रैविद्यमेव वा । संवित्क्रियां विहन्याच्च स निर्वास्यः पुरात्ततः ॥ १,१७.१५ ॥ अरुन्तुदः सूचकश्च भेदकृत्साहसी तथा । श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥ १,१७.१६ ॥ कुलश्रेणिगनाध्यक्षाः पुरदुर्गनिवासिनः । वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ॥ १,१७.१७ ॥ तैः कृतं च स्वधर्मेण निग्रहानुग्रहं नृणाम् । तद्राज्ञोऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥ १,१७.१८ ॥ बाधां कुर्युर्यदेकस्य संभूता द्वेषसंयुताः ॥ १,१७.१९ ॥ मुख्यैः सह समूहानां विसंवादो यदा भवेत् । तदा विचारयेत्राजा स्वमार्गे स्थापयेच्च तान् ॥ १,१७.२० ॥ .... .... यः समर्थो विसंवदेत् । सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ॥ १,१७.२१ ॥ संभूयैकतमं कृत्वा राजभाव्यं हरन्ति ये । ते तदष्टगुणं दाप्या वणिजश्च पलायिनः ॥ १,१७.२२ ॥ ततो लभेत यत्किंचित्सर्वेषामेव तत्समम् । षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥ १,१७.२३ ॥ देयं वा निःस्ववृद्दान्ध- स्त्रीबालातुररोगिषु । सान्तानिकादिषु तथा धर्म एष सनातनः ॥ १,१७.२४ ॥ यत्नैः प्राप्तं रक्षितं वा गणार्थे वा पणं कृतम् । राजप्रसादलब्धं वा सर्वेषामेव तत्समम् ॥ १,१७.२५ ॥ [१,१८ क्रयविक्रयानुशयः] [१,१८.] समासेनोदितस्त्वेष समयाचारनिश्चयः । क्रयविक्रयसंजातो विवादः श्रूयतामयम् ॥ १,१८.१ ॥ [१,१८.१ पण्यम्] जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते । क्रयकाले पण्यशब्द उभयोरपि च स्मृतः ॥ १,१८.२ ॥ [१,१८.२ सदोषपण्यक्रये दण्डः] ज्ञात्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः । तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ॥ १,१८.३ ॥ [१,१८.३ त्याज्यानि] मत्तोन्मत्तेन विक्रीयं हीनमूल्यं भयेन वा । अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर्भवेत् ॥ १,१८.४ ॥ योऽन्यहस्ते तु विक्रीय अन्यस्मै तत्प्रयच्छति । सोऽपि तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥ १,१८.५ ॥ [१,१८.४ परीक्षणकालाः] दशैकपञ्चसप्ताह- मासत्र्यहार्धमासिकम् [=य्व्_२.१७७ ] । बीजायोवाह्यरत्नस्त्री- दोह्यपुंसां परीक्षणम् [=य्व्_२.१७७ ] ॥ १,१८.६ ॥ अतोऽर्वाक्पुण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यमवाप्नुयात् ॥ १,१८.७ ॥ अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा न तु ॥ १,१८.८ ॥ परीक्षेत स्वयं पण्यमन्येषां च प्रदर्शयेत् । परीक्सितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥ १,१८.९ ॥ अश्वरूप्यहिरण्यानां धान्यलोहाजवाससाम् । चर्मकाष्ठविकाराणामेकाहं स्यात्परीक्षणम् ॥ १,१८.१० ॥ मर्णीभाश्वाश्वतरिणामागमैर्मूल्यकल्पना । नृपाज्ञयापणस्थानां गोभूम्योरुभयेच्छया ॥ १,१८.११ ॥ संविभागे विनिमये क्षेत्रयोरुभयोरपि । अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ॥ १,१८.१२ ॥ प्रष्टव्याः संनिधिस्थाश्चेत्क्रेत्रा ज्ञात्यादयः स्मृताः । अन्यथा चेत्कृतं कर्म ज्ञातीच्छां दर्शयेत्ततः ॥ १,१८.१३ ॥ ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते । अन्यथा चेत्क्रयो यः स्यादन्यग्रामे त्रिपक्षकम् ॥ १,१८.१४ ॥ सोदराश्च सपिण्डाश्च सोदकाश्च सगोत्रिणः । सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ॥ १,१८.१५ ॥ मूल्यं दत्त्वाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् । क्रयसिद्धेस्तु नैव स्याद्वत्सराणां शतैरपि ॥ १,१८.१६ ॥ [१,१८.५ क्षेत्रक्रये विशेषः] विक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् । जलमार्गादि यत्किंचिदन्यैश्चैव बृहस्पतिः ॥ १,१८.१७ ॥ क्षेत्राद्युपेतं परिपक्वसस्यं वृक्षं फलं वाप्युपभोगयोग्यम् । कूपं तडाकं गृहमुन्नतं च क्रेत्रे च विक्रेतुरिदं वदन्ति ॥ १,१८.१८ ॥ मत्तमूढानभिज्ञार्त- मूढैर्विनिमयः कृतः । यच्चानुचितमूल्यं स्यात्तत्सर्वं विनिवर्तयेत् ॥ १,१८.१९ ॥ ज्ञातिसामन्तधनिकाः क्रये ग्रामात्बहिर्गताः । नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रमात् ॥ १,१८.२० ॥ त्रिपक्षादथ वा मासात्त्रितयात्तु तदाप्नुयात् ॥ १,१८.२१ ॥ [१,१९ सीमावादः] [१,१९.] क्रयविक्रयानुशये विधिरेष प्रदर्शितः । ग्रामक्षेत्रगृहादीनां सीमावादं निबोधत ॥ १,१९.१ ॥ [१,१९.१ सीमासन्धिषु वृक्षादयः स्थाप्याः] सीमावृक्षांश्च कुर्वीरन्न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीशालता[डां? लां]श्च क्षीरिणश्चैव पादपान् ॥ १,१९.२ ॥ गुल्मान् वेणूंश्च विविधाञ्शमीवल्लीस्थलानि च । शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ १,१९.३ ॥ तडागान्युदपानानि ..त्प्रस्रवणानि च । सीमासन्धिषु कार्याणि देवतायतनानि च ॥ १,१९.४ ॥ राजा क्षेत्रं दत्त्वा चातुर्वैद्यवणिग्वारिकसर्वग्रामीण तन्महत्तरस्वामिपुरुषाधिष्ठितं परिच्छिन्द्यात् ॥ १,१९.५ ॥ यदि शूद्रो नेता स्यात्तं क्लैब्येनालंकारेण अलंकृत्य शवभस्मना मुखं विलिप्याग्रेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायामन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमालोष्टं मूर्ध्नि धारयेत् ॥ १,१९.६ ॥ निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः । प्रकाशोपांशुचिह्नैश्च लक्षितः संशयापहः ॥ १,१९.७ ॥ अनश्वराणि द्रव्याणि प्रकृत्यैवाविरोधतः । वापीकूपतडागानि चैत्यारामसुरालयाः ॥ १,१९.८ ॥ स्थलनिम्ननदीस्रोतः शरगुल्मनगादयः । प्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा ॥ १,१९.९ ॥ [१,१९.३ सीमावादे साक्षिणः] यदि संशय एव स्याल्लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्याद्विवादे सीमनिश्चयः ॥ १,१९.१० ॥ साक्ष्यभावे च चत्वारो ग्रामसीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ १,१९.११ ॥ सामन्तानामभावे तु मौलानां सीमसाक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥ १,१९.१२ ॥ व्याधाञ्शाकुनिकान् गोपान् कैवर्तान्मूलखानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥ १,१९.१३ ॥ ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् । तत्तथा स्थापयेत्राजा धर्मेण ग्रामयोर्द्वयोः ॥ १,१९.१४ ॥ शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैः ब्रूयुस्ते तु समंजसम् ॥ १,१९.१५ ॥ निबध्नीयात्तथा सीमां सवींस्तांश्चैव नामतः । प्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा ॥ १,१९.१६ ॥ [१,१९.४ अप्रकाशचिह्नानि] निहितानि तथान्यानि यानि भूमिर्न भक्षयेत् । उपच्छत्रानि चान्यानि सीमालिङ्गानि कारयेत् ॥ १,१९.१७ ॥ सीमाज्ञाने तृनं वीक्ष्य लोके नित्यविपर्ययम् । श्मशानोऽस्थीनि गोबालास्तथा भस्मकपालिकाः ॥ १,१९.१८ ॥ करीषमिष्टकाङ्गार- शर्करा बालुकांस्तथा । तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ॥ १,१९.१९ ॥ करीषास्थितुषाङ्गार- शर्कराश्मकपालिकाः । सिकतेष्टकगोबाल- कार्पासास्थीनि भस्म च ॥ १,१९.२० ॥ प्रक्षिप्य कुम्भेष्वेतानि सीमान्तेषु निधापयेत् । [१,१९.५ प्रयत्नदर्शितव्यचिह्नानि] ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ॥ १,१९.२१ ॥ वार्धके च शिशूनां ते दर्शयेयुस्तथैव च । एवं परंपराज्ञाने सीमाभ्रान्तिर्न जायते ॥ १,१९.२२ ॥ कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम् । एकत्र कूलपातं तु भूमेरन्यत्र संस्थितिः ॥ १,१९.२३ ॥ नदीतीरं प्रकुरुते तस्यैतां न विचालयेत् । क्षेत्रं ससस्यमुल्लङ्घ्य भूमिश्च्छिन्ना यदा भवेत् ॥ १,१९.२४ ॥ नदीस्रोतःप्रवाहेण क्षेत्रस्वामी लभेत ताम् । या राज्ञा क्रोधलोभेन बलान्न्यायेन वा हृता ॥ १,१९.२५ ॥ [१,१९.६ गृहक्षेत्रविवादसाक्षिनिर्णयः] गृहक्षेत्रविवादेषु सामन्तेभ्यो विनिर्णयः । नगरग्रामगणिनो ये च वृद्धतमा नराः ॥ १,१९.२६ ॥ कीनाशशिल्पिभृतका गोपव्याधोञ्छजीविनः । मूलखानककैवर्त- कुल्या भेदकबाधकाः ॥ १,१९.२७ ॥ आगमं च प्रमाणं च भोगं कामं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥ १,१९.२८ ॥ प्रदत्तान्यस्य तुष्टेन न सा सिद्धिमवाप्नुयात् । [या राज्ञा क्रोधलोभेन छलान्न्यायेन वा हृता] ॥ १,१९.२९ ॥ प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता । गुणाधिकस्य दत्ता वा तस्य तां नैव चालयेत् ॥ १,१९.३० ॥ शापथैः शापिताः स्वैः स्वैः ब्रूयुः सीम्नि विनिश्चयम् । दर्शयेयुर्निधानानि तत्प्रमाणमिति स्थितिः ॥ १,१९.३१ ॥ सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः [=म्न्_८.११३ ] ॥ १,१९.३२ ॥ ज्ञातृचिह्नैर्विना साधुरेकोऽप्युभयसंमतः । रक्तमाल्याम्बरधरो मृदमादाय मूर्धनि ॥ १,१९.३३ ॥ सत्यव्रतः सोपवासः सीमान्तं दर्शयेन्नरः ॥ १,१९.३४ ॥ [सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम्] । [सर्वे च ते पृथग्दण्ड्या राज्ञा मध्यमसाहसम्] ॥ १,१९.३५ ॥ [यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः] । [विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्] ॥ १,१९.३६ ॥ सर्वस्मिन् स्थावरे वादे विधिरेष प्रकीर्तितः ॥ १,१९.३७ ॥ तदुत्पन्नाश्च सामन्ता येऽन्यदेशे व्यवस्थिताः । मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥ १,१९.३८ ॥ अदुष्टास्ते तु यद्ब्रूयुः संदिग्धौ समवृत्तयः । तत्प्रमाणं तु कर्तव्यमेवं धर्मो न हीयते ॥ १,१९.३९ ॥ अन्यग्रामात्समाहृत्य दत्तान्यस्य यदा मही । अन्यथा तु भवेल्लाभो नराणां राजदैविकः ॥ १,१९.४० ॥ महानद्याथवा राज्ञा कथं तत्र विचारणा । नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही । अन्यथा तु भवेल्लाभो नराणां राजदैविकः ॥ १,१९.४१ ॥ क्षयोदयौ जीवनं च दैवराजवशान्नृणाम् । तस्मात्सर्वेषु कालेषु तत्कृतं न विचालयेत् ॥ १,१९.४२ ॥ ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदी । कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम् । क्षयोदयेन चाल्पा च चालयन् दण्डमर्हति ॥ १,१९.४३ ॥ दशग्रामशतग्राम- सहस्रग्रामलक्षणाम् । विषमां नृपतिः कुर्याच्चिह्नैः सीमां विनिश्चिताम् ॥ १,१९.४४ ॥ निवेशकालादारभ्य गृहवर्यापणादिकम् । येन यावद्यथा भुक्तं तस्य तन्न विचालयेत् ॥ १,१९.४५ ॥ वातायनप्रणालीस्तु तथा निर्यूहवेदिकाः । चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥ १,१९.४६ ॥ मेखलाभ्रमनिष्कास- गवाक्षान्नोपरोधयेत् । प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग्भवेत् ॥ १,१९.४७ ॥ निवेशसमयादूर्ध्वं नैते योज्याः कथंचन । [१,१९.७ गृहनिर्माणेऽकार्याणि] दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्मनि ॥ १,१९.४८ ॥ वर्चस्थानं वह्निमयं गर्तोच्छिष्टाम्बुसेचनम् । अत्यारात्परकुड्यस्य न कर्तव्यं कदाचन ॥ १,१९.४९ ॥ विण्मूत्रोदकवप्रांश्च वह्निश्वभ्रनिवेशनम् । अरत्निद्वयमुत्सृज्य परकुड्यां निवेशयेत् ॥ १,१९.५० ॥ यान्त्यायान्ति जना येन पशवश्चानिवारिताः । तदुच्यते संसरणं न रोद्धव्यं तु केनचित् ॥ १,१९.५१ ॥ यस्तत्र संकरं श्वभ्रं वृक्षारोपणमेव च । कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ॥ १,१९.५२ ॥ गृहीत्वा वाहयेत्काले वापगोपनसंग्रहान् । अकुर्वन् स्वामिने दाप्यो मध्यं कृष्टशदं तु सः ॥ १,१९.५३ ॥ क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्यान्न च कारयेत् । स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम् ॥ १,१९.५४ ॥ चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् । सुसंस्कृते तु षष्ठं स्यात्परिकल्प्य यथाविधि ॥ १,१९.५५ ॥ [१,२० वाक्पारुष्यम्] [१,२०.] अप्रियोक्तिस्ताडनं च पारुष्यं द्विविधं स्मृतम् । एकैकं तु त्रिधा भिन्नं दमश्चोक्तस्त्रिलक्षणः ॥ १,२०.१ ॥ [१,२०.१ वाक्पारुष्ये त्रैविधम्] देशधर्मकुलादीनां क्षेपः पापेन योजनम् । द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते ॥ १,२०.२ ॥ भगिनीभ्रातृसंबद्धमुपपातकशंसनम् । पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥ १,२०.३ ॥ अभक्ष्यापेयकथनं महापातकदूषणम् । पारुष्यमुत्तमं प्रोक्तं तीव्रमर्माभिपातनम् ॥ १,२०.४ ॥ [१,२०.२ दण्डः] समजातिगुणानां तु वाक्पारुष्ये परस्परम् । विनयोऽभिहितः शास्त्रे पणस्त्वर्धत्रयोदशः ॥ १,२०.५ ॥ दण्डः काणखञ्जादीनां तथाविधानपि कार्षापणद्वयम् ॥ १,२०.६ ॥ सवर्णाक्रोशने सार्धद्वादशपणो दण्डः । हीनवर्णे काकिण्यधिकषट्पणो दण्डः ॥ १,२०.७ ॥ [काणखञ्जादीनां तथा] समानयोः समो दण्डो न्यूनस्य द्विगुणस्तु सः । उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥ १,२०.८ ॥ क्षिपन् स्वस्रादिकं दद्यात्पञ्चाशत्पणिकं दमम् । गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥ १,२०.९ ॥ पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात्तुल्यदोषः स्यात्.... .... ॥ १,२०.१० ॥ [१,२०.३ वर्णभेदेन दण्डभेदः] धर्मोपदेशं धर्मेण विप्राणामस्य कुर्वतः । तप्तमासिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ १,२०.११ ॥ विप्रे शतार्धं दण्डस्तु क्षत्रियस्याभिशंसने । विशस्तथार्धपञ्चाशच्- छूद्रस्यार्धत्रयोदश ॥ १,२०.१२ ॥ सच्छूद्रस्यायमुद्दिष्टो विनयोऽनपराधिनः । गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥ १,२०.१३ ॥ वैश्यस्य क्षत्रियाक्रोशे दण्डनीयः प्रदो भवेत् । तदर्धं क्षत्रियो वैश्यं क्षिपन् विनयमर्हति ॥ १,२०.१४ ॥ शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः । बृहत्वे द्विगुणं तत्र शास्त्रविद्भिरुदाहृतम् ॥ १,२०.१५ ॥ वैश्यमाक्षारयञ्शूद्रो दाप्यः स्यात्प्रथमं दमम् । क्षत्रियं मध्यमं चैव विप्रमुत्तमसाहसम् ॥ १,२०.१६ ॥ देशादिकं क्षिपन् दाप्यः पणानर्धत्रयोदश । पापेन योजयन् दर्पाद्दाप्यः प्रथमसाहसम् ॥ १,२०.१७ ॥ धर्मोपदेशकर्ता च वेदोदाहरणान्वितः । आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ॥ १,२०.१८ ॥ एष दण्डः समाख्यातः पुरुषापेक्षया मया । समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः ॥ १,२०.१९ ॥ [१,२१ दण्डपारुष्यम्] [१,२१.] हस्तपाषाणलगुडैर्भस्मकर्दमपांसुभिः । आयुधैश्च प्रहरणैर्दण्डपारुष्यमुच्यते ॥ १,२१.१ ॥ वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते । तस्यैव द्विगुणं दण्डं कारयेन्मरणादृते ॥ १,२१.२ ॥ द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः । आरम्भकोऽनुबन्धी च दाप्यः स्यादधिकं दमम् ॥ १,२१.३ ॥ पूर्वाक्रुष्टः समाक्रोशंस्ताडितः प्रतिताडयन् । हत्वाततायिनं चैव नापराधी भवेन्नरः ॥ १,२१.४ ॥ वाक्पारुष्यादिना नीचो यः सन्तमभिलङ्घयेत् । स एव ताडयंस्तस्य नान्वेष्टव्यो महीभुजा ॥ १,२१.५ ॥ [१,२१.१ प्रथमं दण्डपारुष्यम्] भस्मादीनां प्रक्षिपणं ताडनं च करादिना । प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषिकः ॥ १,२१.६ ॥ एष दण्डः समेषूक्तः परस्त्रीष्वधिकेषु च । द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुद्धैः ॥ १,२१.७ ॥ उद्यतेऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः । परस्परं हस्तपादे दशविंशतिकस्तथा ॥ १,२१.८ ॥ [१,२१.२ मध्यमम्] मध्यमः शस्त्रसंधाने संयोज्यः क्षुब्धयोर्द्वयोः । कार्यः कृतानुरूपस्तु लग्ने घाते दमो बुधैः ॥ १,२१.९ ॥ इष्टकोपलकाष्ठैश्च ताडने तु द्विमाषिकः । द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥ १,२१.१० ॥ त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः । [१,२१.३ उत्तमम्] उत्तमस्त्वस्थिभेदे स्याद्धातेन तु प्रमापणम् ॥ १,२१.११ ॥ कर्णनासाकरच्छेदे दन्तभङ्गेऽस्थिभेदने । कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु तु ॥ १,२१.१२ ॥ कर्णौष्ठघ्राणपादाक्षि- जिह्वाशिश्नकरस्य च । छेदने चोत्तमो दण्डो भेदने मध्यमो गुरुः ॥ १,२१.१३ ॥ दण्डस्त्वभिहितायैव दण्डपारुष्यकल्पितः । हृते तद्द्विगुणं चान्यद्- राजदण्डस्ततोऽधिकः ॥ १,२१.१४ ॥ अङ्गावभेदने चैव पीडने छेदने तथा । समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥ १,२१.१५ ॥ विविक्ते ताडितो यस्तु हतो दृश्येत वा भवेत् । हन्ता तदनुमानेन विज्ञेयः शपथेन वा ॥ १,२१.१६ ॥ अन्तर्वेश्मन्यरण्ये वा निशायां यत्र ताडितः । शोणितं तत्र दृश्येत न पृच्छेत्तत्र साक्षिणः ॥ १,२१.१७ ॥ कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परमभिद्रवेत् । हेत्वर्थमतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् ॥ १,२१.१८ ॥ आक्रुष्टस्तु समाक्रोशंस्ताडितः प्रतिताडयन् । हत्वापराधिनं चैव नापराधी भवेन्नरः ॥ १,२१.१९ ॥ प्रातिलोम्यास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः । ब्राह्मणातिक्रमे वध्या न दातव्या धनं क्वचित् ॥ १,२१.२० ॥ श्रान्तान् क्षुधार्तान् तृषितानकाले वाहयेत्तु यः । स गोघ्नो निष्कृतिं कार्यो दाप्यो वाप्यथवा दमम् ॥ १,२१.२१ ॥ समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् । येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुषा । छेत्तव्यं तद्भवेत्तस्य मनुना समुदाहृतम् ॥ १,२१.२२ ॥ [१,२२ स्तेयम्] [१,२२.] प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधा स्मृताः । प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा ॥ १,२२.१ ॥ [१,२२.१ प्रकाशाप्रकाशतस्कराः] नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः । दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥ १,२२.२ ॥ अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः । प्रकाशतस्करा ह्येते तथा कुहकजीविनः ॥ १,२२.३ ॥ सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः । उत्क्षेपकाः सस्यहराः ज्ञेयाः प्रच्छन्नतस्कराः ॥ १,२२.४ ॥ [१,२२.२ तेषां दण्डः] संसर्गचिह्नरूपैश्च विज्ञाता राजपूरुषैः । प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ॥ १,२२.५ ॥ उत्क्षेपकस्तु संदंशैर्भेत्तव्यो राजपूरुषैः । धान्यहर्ता दशगुणं दाप्यः स्याद्द्विगुणं दमम् ॥ १,२२.६ ॥ एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ॥ १,२२.७ ॥ तथा पान्थमुषो वृक्षे गले बध्वावलम्बयेत् ॥ १,२२.८ ॥ अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ १,२२.९ ॥ अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् ॥ १,२२.१० ॥ ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ॥ १,२२.११ ॥ कूटाक्षदेविनः क्षुद्रा राजभार्याहराश्च ये । गणका वञ्चकाश्चैव दण्ड्यास्ते कितवा स्मृताः ॥ १,२२.१२ ॥ प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी । पण्ये तद्द्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ॥ १,२२.१३ ॥ अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥ १,२२.१४ ॥ ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् । श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥ १,२२.१५ ॥ दण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये । हिंसन्तश्च्छद्मना नृणां वध्यास्ते राजपूरुषैः ॥ १,२२.१६ ॥ अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् । स्त्रीबालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुरूपतः ॥ १,२२.१७ ॥ हेममुक्ताप्रबालाद्यं कृत्रिमं कुर्वते तु ये । क्रेत्रे मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दमम् ॥ १,२२.१८ ॥ मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा । साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणं दमम् ॥ १,२२.१९ ॥ मन्त्रौषधिबलात्किंचित्संभ्रान्तिं दर्शयन्ति ये । मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा ॥ १,२२.२० ॥ सन्धिच्छेदो हृतं त्याज्याः शूलमारोपयेत्ततः । तथा पान्थमुषो वृक्षे गले बद्ध्वावलम्बयेत् ॥ १,२२.२१ ॥ मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटाग्निना । गोहर्तुर्नासिकां छिन्द्यात्बध्वा वाम्भसि मज्जयेत् ॥ १,२२.२२ ॥ धान्यं दशभ्यः कुम्भेभ्यो हरणेऽभ्यधिकं वधः । शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ १,२२.२३ ॥ धान्यहारी दशगुणं दाप्यस्तद्द्विगुणं दमम् ॥ १,२२.२४ ॥ तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छ्य तु गृह्णानो हस्तच्छेदनमर्हति ॥ १,२२.२५ ॥ वृत्तस्वाध्यायवान् स्तेयी बन्धने क्लेश्यते चिरम् । स्वामिने तद्धनं दाप्यः प्रायश्चित्तं न कार्यते ॥ १,२२.२६ ॥ [१,२३ साहसम्] [१,२३. साहसम्] स्तेनानामेतदाख्यातं सर्वेषां दण्डनिग्रहम् । साहसस्याधुना सम्यक्श्रूयतां वधशासनम् ॥ १,२३.१ ॥ मनुष्यमारणं चौर्यं परदाराभिमर्शनम् । पारुष्यमुभयं चैव साहसं तु चतुर्विधम् ॥ १,२३.२ ॥ हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् । द्रव्यापेक्षया दमास्तत्र प्रथमोत्तममध्यमाः ॥ १,२३.३ ॥ आततायिद्विजाग्याणां धर्मयुद्धेन हिंसनम् । इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः ॥ १,२३.४ ॥ क्षेत्रोपकरणं सेतुं मूलपुष्पफलानि च । विनाशयन् हरन् दण्ड्यः शतोद्यमनुरूपतः ॥ १,२३.५ ॥ पशुवस्त्रान्नपानानि गृहोपकरणं तथा । हिंसयंश्चौरवद्दाप्यो द्विशतोद्यं दमं तथा ॥ १,२३.६ ॥ स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा । कौशेयं चोत्तमद्रव्यमेषां मूल्यसमो दमः ॥ १,२३.७ ॥ द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः । हन्ता वा घातनीयः स्यात्प्रसंगविनिवृत्तये ॥ १,२३.८ ॥ साहसं पञ्चधा प्रोक्तं वधस्तत्राधिकः स्मृतः । तत्कारिणो नार्थदमैः शास्या वध्याः प्रयत्नतः ॥ १,२३.९ ॥ प्रकाशघातका ये तु तथा चोपांशुघातकाः । ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्याः विविधैर्वधैः ॥ १,२३.१० ॥ [१,२३.१ साहसिकाः दण्ड्याः] मित्रप्राप्त्यर्थलाभे वा राज्ञा लोकहितैषिणा । न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ॥ १,२३.११ ॥ लोभाद्भयाद्वा यो राजा न हन्त्यन्यायकारिणः । तस्य प्रक्षुभ्यते राष्ट्रं राज्याच्च परिहीयते ॥ १,२३.१२ ॥ बन्धाग्निविषशस्त्रेण परान् यस्तु प्रमापयेत् । क्रोधादिना निमित्तेन नरः साहसिकस्तु सः ॥ १,२३.१३ ॥ [१,२३.२ संभूयप्रहरणनिर्णयः] एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः । मर्मप्रहारदो यस्तु घातकः स उदाहृतः ॥ १,२३.१४ ॥ मर्मघाती तु यस्तेषां यथोक्तं दापयेद्दमम् । आरम्भकृत्सहायश्च तथा मार्गानुदेशकः । आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥ १,२३.१५ ॥ युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः । उपेक्षी कार्ययुक्तश्च दोषवक्तानुमोदकः ॥ १,२३.१६ ॥ [१,२३.३ आततायिवधः] नाततायिवधे हन्ता किल्विषं प्राप्नुयात्क्वचित् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥ १,२३.१७ ॥ आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥ १,२३.१८ ॥ स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ॥ १,२३.१९ ॥ सांप्रतं साहसं स्तेयं श्रूयतां क्रोधलोभजम् । [१,२३.४ घातकादर्शने निर्णयः] क्षतस्याल्पमहत्वं च मर्मस्थानं च यत्नतः । सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसादयेत् ॥ १,२३.२० ॥ हतस्तु दृश्यते यत्र घातकश्च न दृश्यते । पूर्ववैरानुसारेण ज्ञातव्यः स महीभुजा ॥ १,२३.२१ ॥ समघाती तु यस्तेषां यथोक्तं दापयेद्दमम् । आरम्भकृत्सहायश्च दोषभाजस्तदर्धतः ॥ १,२३.२२ ॥ प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपुरुषैः सामादिभिरुपक्रमैः ॥ १,२३.२३ ॥ विज्ञेयोऽसाधुसंसर्गाच्चिह्नहोढेन वा नरैः । एषोदिता घातकानां तस्कराणां च भावना ॥ १,२३.२४ ॥ गृहीतः शङ्कया यस्तु न तत्कार्यं प्रपद्यते । शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः ॥ १,२३.२५ ॥ दिव्यैर्विशुद्धो मेध्यः स्यादशुद्धो वधमर्हति । निग्रहानुग्रहैर्राज्ञः कीर्तिर्धर्मश्च वर्धते ॥ १,२३.२६ ॥ [१,२४ स्त्रीसंग्रहणम्] [१,२४.] पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् । पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥ १,२४.१ ॥ बलोपाधिकृते द्वे तु तृतीयमनुरागजम् । तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥ १,२४.२ ॥ अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया । प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥ १,२४.३ ॥ छद्मना गृहमानीय दत्त्वा वा मद्यकार्मणम् । संयोगः क्रियते यस्यास्तदुपाधिकृतं विदुः ॥ १,२४.४ ॥ अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च । कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥ १,२४.५ ॥ तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् । अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा । स्पर्शो भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥ १,२४.६ ॥ प्रेषणं गन्धमाल्यानां धूपमध्वन्नवाससाम् । संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥ १,२४.७ ॥ एकशाय्यासनं क्रीडा चुम्बनालिङ्गनं तथा । एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः ॥ १,२४.८ ॥ प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ॥ १,२४.९ ॥ प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् । संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥ १,२४.१० ॥ त्रयाणामपि चैतेषां प्रथमो मध्य उत्तमः । विनयः कल्पनीयः स्यादधिको द्रविणाधिके ॥ १,२४.११ ॥ परपत्न्या तु पुरुषः संभाषां योजयन् रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ १,२४.१२ ॥ सहमायः कामयते धनं तस्याखिलं हरेत् । उत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु ॥ १,२४.१३ ॥ छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः । अङ्कयित्वा भगाङ्गेन पुरान्निर्वासयेत्ततः ॥ १,२४.१४ ॥ दमो नेयः सभायां यो हीनायामधिकस्ततः । पुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ॥ १,२४.१५ ॥ गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना । कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥ १,२४.१६ ॥ छिन्ननासौष्ठकर्णानां परिभ्राम्याप्सु मज्जयेत् । खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ॥ १,२४.१७ ॥ अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे । मलिनाङ्गीमधः शय्यां पिण्डमात्रोपजीविनीम् ॥ १,२४.१८ ॥ कारयेन्निष्कृतिं कृच्छ्रं पराकं वा समे गताम् । हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥ १,२४.१९ ॥ [१,२५ स्त्रीपुंसवर्तनोपायः] [१,२५.] एतत्संग्रहणस्योक्तं विधानं संग्रहस्तथा । स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ॥ १,२५.१ ॥ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः । श्वश्र्वादिभिर्गुरुस्त्रीभिः पालनीया दिवानिशम् ॥ १,२५.२ ॥ स्वकामे वर्तमाना तु या स्नेहान्न निवारिता । अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षिता ॥ १,२५.३ ॥ [१,२५.१ पितृपतिपुत्राणां धर्माः] अप्रयच्छन् पिता काले पतिश्चानुपयन्नृतौ । पुत्रश्चाभक्तदो मातुः गार्ह्यो दण्ड्यश्च धर्मतः ॥ १,२५.४ ॥ यत्र स्त्रियोऽभिपूज्यन्ते रमन्ते तत्र देवताः । संपदश्च प्रजाः शुद्धाः क्रिया च सफला भवेत् ॥ १,२५.५ ॥ आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे । शौचेऽग्निकार्ये संयोज्याः स्त्रीणां शुद्धिरियं स्मृता ॥ १,२५.६ ॥ भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभोजनैः । उत्सवे तु पितृभ्रातृ- श्वशुराद्यैश्च बन्धुभिः ॥ १,२५.७ ॥ पतिं या नातिचरति मनोवाक्कायसंयुता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ १,२५.८ ॥ [१,२५.२ स्त्रीदूषणानि] भर्त्रा पित्रा सुतैर्न स्त्री वियुक्तान्यगृहे वसेत् । असत्सङ्गे विशेषेण गर्ह्यतामेति सा ध्रुवम् ॥ १,२५.९ ॥ पूर्वोत्थानं गुरुष्वर्वाग्भोजनव्यञ्जनक्रिया । जघन्यासनशायित्वं कर्म स्त्रीणामुदाहृतम् ॥ १,२५.१० ॥ पानाटनदिवास्वप्नमक्रिया दूषणं स्त्रियाः ॥ १,२५.११ ॥ आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । म्र्ते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ १,२५.१२ ॥ प्रसाधनं नृत्तगीत- समाजोत्सवदर्शनम् । मांसमद्याभियोगं च न कुर्यात्प्रोषिते प्रभौ ॥ १,२५.१३ ॥ शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा । अन्वारूढा जीवती[न्ती] च साध्वी भर्तुर्हित्तय सा ॥ १,२५.१४ ॥ व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । धर्मदानपरा नित्यमपुत्रापि दिवं व्रजेत् ॥ १,२५.१५ ॥ [१,२५.३ नियोगनिसेधः] उक्त्वा नियोगो मनुना निषिद्धः स्वयमेव तु । युगह्रासादशक्योऽयं कर्तुं सर्वैर्विधानतः ॥ १,२५.१६ ॥ तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः । द्वापरे च कलौ नृणां शक्तिहानिर्विनिर्मिता ॥ १,२५.१७ ॥ [१,२६ दायभागः] [१,२६.] ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् । तद्दायं ..... .... .... ॥ १,२६.१ ॥ एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे । बह्व्यः समांशतो देया दासानामप्ययं विधिः ॥ १,२६.२ ॥ उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते । तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ॥ १,२६.३ ॥ युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥ १,२६.४ ॥ [१,२६.१ विभक्तलक्षणम्] एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्द्विभक्तानां तदेव स्याद्गृहे गृहे ॥ १,२६.५ ॥ साक्सित्वं प्रतिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥ १,२६.६ ॥ येषामेताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु । विभक्तानवगच्छेयुः लेख्यमप्यन्तरेण तान् ॥ १,२६.७ ॥ कुलानुबन्धव्याघात- होधं साहससाधकम् । स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ॥ १,२६.८ ॥ [१,२६.२ विभागकालः] पित्रोरभावे भ्रातृणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि प्रत्तसु भगिनीषु च ॥ १,२६.९ ॥ [१,२६.३ विभागक्रमः] क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः । पैतृके न विभागार्हाः सुताः पितुरनिच्छया ॥ १,२६.१० ॥ समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥ १,२६.११ ॥ वयोविद्यातपोभिश्च द्व्यंशं हि लभते धनम् । यथा यथा विभागाप्तं धनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥ १,२६.१२ ॥ तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥ १,२६.१३ ॥ द्रव्ये पितामहोपात्ते स्थावरे जङ्गमेऽपि वा । सममंशित्वमाख्यातं पितुः पुत्रस्य चैव हि ॥ १,२६.१४ ॥ समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः । तथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥ १,२६.१५ ॥ जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ॥ १,२६.१६ ॥ द्विप्रकारो विभागस्तु दायादानां प्रकीर्तितः । वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ॥ १,२६.१७ ॥ समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः । तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥ १,२६.१८ ॥ पितृरिक्थहराः पुत्राः सर्व एव समांशिनः । विद्याकर्मरतस्तेषामधिकं लब्धुमर्हति ॥ १,२६.१९ ॥ विद्याविज्ञानशौर्यार्थे ज्ञानदानक्रियासु च । यस्येह प्रथिता कीर्तितः पितरस्तेन पुत्रिणः ॥ १,२६.२० ॥ जन्मविद्यागुणैर्ज्येष्ठो द्व्यंशं दायादवाप्नुयात् । समांशभागिनस्त्वन्ये तेषां पितृसमस्तु सः ॥ १,२६.२१ ॥ तदभावे तु जननी तनयांशसमांशिनी । समांशा मातरस्तेषां तुरीयांशा च कन्यका ॥ १,२६.२२ ॥ कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते । पुत्राणां च त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ॥ १,२६.२३ ॥ यद्येकजाता बहवः समाना जातिसंख्यया । स्वधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः ॥ १,२६.२४ ॥ सवर्णा भिन्नसंख्या ये पुंभागस्तेषु शस्यते । पितामह्यस्तु सर्वास्ता मातृतुल्याः प्रकीर्तिताः ॥ १,२६.२५ ॥ असंस्कृतास्तु यास्तत्र पैतृकादेव ता धनात् । संस्कार्या भ्रातृभिर्ज्येष्ठः कन्यकाश्च यथाविधि ॥ १,२६.२६ ॥ असंस्कृता भ्रातरस्तु ये स्युस्तत्र यवीयसः । संस्कार्याः पूर्वजैस्ते वै पैतृकान्मध्यगाद्धनात् ॥ १,२६.२७ ॥ दद्याद्धनं च पर्याप्तं क्षेत्रांशं वा यदिच्छति ॥ १,२६.२८ ॥ ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥ १,२६.२९ ॥ सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्रमिष्यते । यस्मात्तदानृशंस्यार्थं तैर्दत्तमुपजीवनम् ॥ १,२६.३० ॥ विक्रये चैव दाने च यथेष्तं स्थावरेष्वपि । स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् ॥ १,२६.३१ ॥ मातुः स्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥ १,२६.३२ ॥ यदासामौरसो न स्यात्पुत्रो दौहित्र एव वा । तत्सुतो वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ॥ १,२६.३३ ॥ [१,२६.४ पुत्रलक्षणम्] सवर्णजोऽप्यगुणवान्नार्हः स्यात्पैतृके धने । तत्पिण्डदाः श्रोत्रिया ये तेषां तत्तु विधीयते ॥ १,२६.३४ ॥ उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः । अतस्तु विपरीतेन तेन नास्ति प्रयोजनम् ॥ १,२६.३५ ॥ तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ १,२६.३६ ॥ शास्त्रशौर्यार्थरहितस्तपोविज्ञानवर्जितः । आचारहीनः पुत्रस्तु मूत्रोच्चारसमः स्मृतः ॥ १,२६.३७ ॥ [१,२६.५ पुत्रविभागः] स्थावरद्विपदं चैव यद्यपि स्वयमार्हितम् । असम्भूय सुतान् सर्वान्न दानं न च विक्रयः ॥ १,२६.३८ ॥ जाता जनिष्यद्गर्भस्थाः पितृस्था ये च मानवाः । सर्वे कांक्षन्ति तां वृत्तिमनाच्छेद्यास्ततस्तु सा ॥ १,२६.३९ ॥ गृहोपस्करवाह्यादि भोज्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते गूढे केशो विधीयते ॥ १,२६.४० ॥ क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ॥ १,२६.४१ ॥ ब्रह्मक्सत्रियविष्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् । चतुस्त्रिद्व्येकभागेन भवेयुस्ते यथाक्रमम् ॥ १,२६.४२ ॥ शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागमर्हति । द्विजातिराप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥ १,२६.४३ ॥ तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः । हीनास्तमुपजीवेयुर्ग्रासाच्छादनसंभृताः ॥ १,२६.४४ ॥ सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥ १,२६.४५ ॥ पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् । तस्य तन्नापहर्तव्यं शौर्यभार्याधनं तथा ॥ १,२६.४६ ॥ वस्त्रादयोऽविभाज्या यैरुक्तं तैर्न विचारितम् । धनं भवेत्समृद्धानां वस्त्रालंकारसंश्रितम् ॥ १,२६.४७ ॥ ऋणमुद्वाह्य लेखितम् .... .... ॥ १,२६.४८ ॥ उक्तप्रकारो विज्ञेयः पत्रारूढऋणे खलु । उक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥ १,२६.४९ ॥ मध्यस्थितमनाजीव्यं दातुं नैकस्य शक्यते । युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥ १,२६.५० ॥ विक्रीय वस्त्राभरणं धनमुद्ग्राह्य लेखितम् । कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥ १,२६.५१ ॥ योगक्षेमवतो लाभः समत्वेन विभज्यते । प्रचारश्च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥ १,२६.५२ ॥ ब्रह्मदायं गतां भूमिं हरेद्यो ब्राह्मणीसुतः । गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥ १,२६.५३ ॥ [१,२६.६ पित्रा सह विभक्तानां व्यवस्था] पित्रा सह विभक्ता ये सापत्ना वा सहोदराः । जघन्याश्चैव ये तेषां पितृभागहरास्तु ते ॥ १,२६.५४ ॥ अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥ १,२६.५५ ॥ पुत्रैः सह विभक्तेन पित्रा यत्स्वयमार्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥ १,२६.५६ ॥ यथा धने तथा र्णे च दानादानक्रयेषु च । परस्परमनीशास्ते मुक्त्वाशौचोदकक्रियाम् ॥ १,२६.५७ ॥ पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्जितम् । विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥ १,२६.५८ ॥ प्रदानं स्वेच्छया कुर्यात्भोगं चैव ततो धनात् । तदभावेऽपि तनयाः समांशाः परिकीर्तिताः ॥ १,२६.५९ ॥ वस्त्रालंकारशय्याइ पितुर्यद्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत् ॥ १,२६.६० ॥ पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन् दायादाः भजमानाः पतन्ति ते ॥ १,२६.६१ ॥ पितृप्रसादात्भुज्यन्ते वस्त्राण्याभरणानि च ॥ १,२६.६२ ॥ कृतेऽकृते वा विभागे रिक्थी यत्र प्रवर्तते । सामान्यं चेद्भावयति तत्र भागहरस्तु सः ॥ १,२६.६३ ॥ ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् । चिरकालप्रोषितोऽपि भागभागागतस्तु सः ॥ १,२६.६४ ॥ गोत्रसाधारणं त्यक्त्वा योऽन्यं देशं समाश्रितः । अर्धतस्त्वागतस्यांशः प्रदातव्यो न संशयः ॥ १,२६.६५ ॥ तृतीयः पञ्चमश्चैव सप्तमो योऽपि वा भवेत् । जन्मनामपरिज्ञाने लभेतांशं क्रमागते ॥ १,२६.६६ ॥ यं परंपरया मौलाः समस्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥ १,२६.६७ ॥ अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥ १,२६.६८ ॥ [१,२६.७ पुत्रभेदाः] अनेकधा कृताः पुत्रा ऋषिभिश्च पुरातनैः । न शक्यन्तेऽधुना कर्तुं शक्तिहीनैश्चिरन्तनैः ॥ १,२६.६९ ॥ एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः । तत्तुल्यः पुत्रिकपुत्रो भर्तव्यास्त्वपरे स्मृताः ॥ १,२६.७० ॥ क्षेत्रजाद्याः सुतास्त्वन्ये पञ्चषट्सप्तभागिनः ॥ १,२६.७१ ॥ दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैव च । जातिशुद्धा मध्यमास्ते सर्वे रिक्थसुताः स्मृताः ॥ १,२६.७२ ॥ क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः । कानीनश्च सहोढश्च गूढजः पुत्रिकासुतः ॥ १,२६.७३ ॥ शूद्रापुत्रः स्वयंदत्तो ये चैते क्रीतकाः स्मृताः । सर्वे ते मैत्रिणः प्रोक्ता काण्डपृष्ठा न संशयः ॥ १,२६.७४ ॥ स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥ १,२६.७५ ॥ अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमोऽवदत् । अन्ये त्वाहुरपुत्रस्य चिन्तिता पुत्रिका भवेत् ॥ १,२६.७६ ॥ पुत्रास्त्रयोदश प्रोक्ता मनुना येन पूर्वशः । संतानकारणं तेषामौरसः पुत्रिका तथा ॥ १,२६.७७ ॥ आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् । तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना ॥ १,२६.७८ ॥ यद्येकजाता बहवो भ्रातरस्तु सहोदराः । एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥ १,२६.७९ ॥ बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः । एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ १,२६.८० ॥ पुन्नाम्नो नरकात्पुत्रः पितरं त्रायते यतः । मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ॥ १,२६.८१ ॥ पौत्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ । रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥ १,२६.८२ ॥ कामतश्च शूद्रावरोधजस्य भ्रातुरंशं । संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश्चेत्(?) ॥ १,२६.८३ ॥ अन्नार्थं तण्डुलप्रस्थमपराह्ने तु सेन्धनम् । वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ॥ १,२६.८४ ॥ [१,२६.८ विधवाभागः] एतावदेव साध्वीनां चोदितं विधवाधनम् ॥ १,२६.८५ ॥ वसनस्याशनस्यैव तथैव रजकस्य च । धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ॥ १,२६.८६ ॥ अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥ १,२६.८७ ॥ अपुत्रेण सुतः कार्यो यादृक्तादृक्प्रयत्नतः । पिण्डोदकक्रियाहेतोर्धर्मसंकीर्तनस्य च ॥ १,२६.८८ ॥ काङ्क्षण्ति पितरः पुत्रान्नरकापतभीरवः । गयां यास्यति यः कश्चित्सोऽस्मान् संतारयिष्यति ॥ १,२६.८९ ॥ यथा जलं कुप्लवेन तरन्मज्जति मानवः । तद्वत्पिता कुपुत्रेण तमस्यन्धे निमज्जति ॥ १,२६.९० ॥ करिष्यति वृषोत्सर्गमिष्टापूर्तं तथैव च । पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥ १,२६.९१ ॥ [१,२६.९ भार्याभागः] आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः । शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥ १,२६.९२ ॥ यस्य नोपरता भार्या देहार्धं तस्य जीवति । जीवत्यर्धशरीरेऽर्थं कथमन्यः समाप्नुयात् ॥ १,२६.९३ ॥ सकुल्यैर्विद्यमानस्तु पितृभ्रातृसनाभिभिः । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥ १,२६.९४ ॥ पूर्वप्रमीताग्निहोत्रं मृतं भर्तरि तद्धनम् । विन्देत्पतिव्रता नारी धर्म एष सनातनः ॥ १,२६.९५ ॥ मूर्वं म्र्ता हरेदग्निमन्वारूढा हरेदघम् । पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः । तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥ १,२६.९६ ॥ जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् । आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥ १,२६.९७ ॥ पितृव्यगुरुदौहित्रान् स्वसृभर्त्रीयमातुलान् । पूजयेत्कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥ १,२६.९८ ॥ यद्विभक्ते धने किंचिदाध्यादिविधिसंस्मृतम् । तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ॥ १,२६.९९ ॥ वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरमर्हति । विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥ १,२६.१०० ॥ मृते भर्तरि भर्तृअंशं लभेत कुलपालिका । यावज्जीवं हीनस्वाम्यं दानाधमनविक्रये ॥ १,२६.१०१ ॥ क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना । गृहीता वान्यदीया वा सैव स्त्री परिकीर्त्यते ॥ १,२६.१०२ ॥ प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ॥ १,२६.१०३ ॥ स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु । न तच्छक्यमपाहर्तुमितरैः श्वशुरे म्र्ते ॥ १,२६.१०४ ॥ सपिण्डा बान्धवा ये तु तस्याः स्युः परिपन्थिनः । हिंस्युर्धनानि तान् राजा चौरदण्डेण घातयेत् ॥ १,२६.१०५ ॥ [१,२६.१० संसृष्टिविभागः] संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ । विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः । पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ १,२६.१०६ ॥ कदाचिद्वा प्रमीयेत प्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ १,२६.१०७ ॥ या तस्य भगिनी सा तु ततोऽंशं लब्धुमर्हति । अनपत्यस्य धर्मोऽयमभार्यपितृकस्य च ॥ १,२६.१०८ ॥ सा च दत्ता त्वदत्ता वा सोदरे तु मृते सति । तस्यांशं तु हरेत्सैव द्वयोर्व्यक्तं हि कारणम् ॥ १,२६.१०९ ॥ अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ॥ १,२६.११० ॥ मृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातृकः । सर्वे सपिण्डास्तद्दायं विभजेरन् यथांशतः ॥ १,२६.१११ ॥ संसृष्टानां तु यः कश्चिद्विद्या शौर्यादिना धनम् । प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥ १,२६.११२ ॥ विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते ॥ १,२६.११३ ॥ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ १,२६.११४ ॥ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ १,२६.११५ ॥ .... .... सोदरस्य तु सोदरः । दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ॥ १,२६.११६ ॥ अन्योदर्यस्तु संसृष्टी नान्योदर्याद्धनं हरेत् । असंसृष्ट्यपि चादद्यात्सोदर्यो नान्यमातृजः ॥ १,२६.११७ ॥ प्रमीतपितृकाणां तु पितृतो भागकल्पना ॥ १,२६.११८ ॥ येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः । तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ॥ १,२६.११९ ॥ [१,२६.११ पुत्राणां वर्णानुरूपेण विशेषः] विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः । भवेत्समांशः क्षत्रेण वैश्याजातस्तथैव च ॥ १,२६.१२० ॥ न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥ १,२६.१२१ ॥ शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागमर्हति । सजातावाप्नुयात्सर्वमिति धर्मो व्यवस्थितः ॥ १,२६.१२२ ॥ निषाद एकपुत्रस्तु विप्रस्य स तृतीयभाक् । द्वौ सकुल्याः सपिण्डा वा स्वधादाताथ संहरेत् ॥ १,२६.१२३ ॥ कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा । सर्वास्वापत्सु तान् वर्णांस्तथैव प्रतिपादयेत् ॥ १,२६.१२४ ॥ अनपत्यस्य शुश्रूषुर्गुणवाञ्शूद्रयोनिजः । लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥ १,२६.१२५ ॥ [१,२६.१२ दुहितुः दायार्हत्वम्] भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता ॥ १,२६.१२६ ॥ अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् । तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥ १,२६.१२७ ॥ तदभावे तु दुहिता यद्यनूढा भवेत्तदा । अपुत्रपौत्रसंताने दौहित्रा धनमाप्नुयुः ॥ १,२६.१२८ ॥ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्ति कथमन्यो धनं हरेत् ॥ १,२६.१२९ ॥ पौत्रदौहित्रयोर्लोके विशेषो नास्ति धर्मतः । अनेनैव विधानेन सुतं चक्रेऽथ पुत्रिकाम् ॥ १,२६.१३० ॥ पुमान् पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ॥ १,२६.१३१ ॥ सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता । कृताकृता वा पुत्रस्य पितुर्धनहरी तु सा ॥ १,२६.१३२ ॥ यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु । तथैव तत्सुतोऽपीष्टे मातृमातामहे धने ॥ १,२६.१३३ ॥ तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः । सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः ॥ १,२६.१३४ ॥ [१,२६.१३ अपुत्रस्य धनविभागः] अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । भार्यासुतविहीनस्य तनयस्य मृतस्य तु । माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥ १,२६.१३५ ॥ पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः । तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥ १,२६.१३६ ॥ समुत्पन्नाद्धनादर्धं तदर्थं स्थापयेत्प्र्थक् । मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ॥ १,२६.१३७ ॥ बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥ १,२६.१३८ ॥ भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । सह पिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥ १,२६.१३९ ॥ स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् । स राज्ञांशे स्वके स्थाप्यः शासनीयोऽनुबन्धकृत् ॥ १,२६.१४० ॥ साधारणऋणन्यास- निह्नवे छद्मना क्रियाम् । पार्श्वहानिकारीं कृत्वा बलान्नैव प्रदापयेत् ॥ १,२६.१४१ ॥ मायाविनो धृतधनाः क्रूरा लुब्धाश्च ये नराः । संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा ॥ १,२६.१४२ ॥ साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् । अनुमानेन विज्ञेयं न स्युर्यत्र च साक्षिणः ॥ १,२६.१४३ ॥ [१,२६.१४ विभक्तक्रिया] तेषामेताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु । विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान् ॥ १,२६.१४४ ॥ अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ॥ १,२६.१४५ ॥ बलानुबन्धव्याघात- होढं साहसभावकम् । स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ॥ १,२६.१४६ ॥ पृथगायव्ययधनाः कुसीदं च परस्परम् । वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ॥ १,२६.१४७ ॥ कार्यमुच्छ्रावणालेख्यं विभक्तैर्भ्रातृभिर्मिथः । साक्षिणो वा विरोधार्थं विभजद्भिरनिन्दिताः ॥ १,२६.१४८ ॥ येनांशो यादृशो भुक्तस्तस्य तं न विचालयेत् ॥ १,२६.१४९ ॥ [१,२७ द्यूतम्] [१,२७.] द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् । तत्प्रवर्तितमन्यैस्तु राजभागसमन्वितम् ॥ १,२७.१ ॥ सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना । एष एव विधिर्ज्ञेयः प्राणिद्यूतसमाह्वये ॥ १,२७.२ ॥ [१,२७.१ सभिकवृत्तिः] सभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय च । राजवृद्धिः सकितवात्सभिकाद्दशकं शतम् ॥ १,२७.३ ॥ यथासमयं वा स्यात्. .... .... ॥ १,२७.४ ॥ [१,२७.२ स्वामिनोर्जयपराजयः] द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् । तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ॥ १,२७.५ ॥ रहोजितोऽनभिज्ञश्च कूटाक्षैः कपटेन वा । मोच्योऽभिज्ञोऽपि सर्वस्वं जितं सर्वं न दाप्यते ॥ १,२७.६ ॥ [१,२७.३ कूटद्यूतदण्डः] कूटाक्षदेविनः पापा राजभागहराश्च ये । गणनावञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ १,२७.७ ॥ ग्रहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः । व्यापादने तु तत्कारी वधं चित्रमवाप्नुयात् ॥ १,२७.८ ॥ [१,२७.४ संदिग्धजयपराजयनिर्णयः] स एव साक्षी संदिग्धौ सभ्यैश्चान्यैस्त्रिभिर्वृतः । उभयोरपि संदिग्धं कितवास्तु परीक्षकाः ॥ १,२७.९ ॥ यदा विद्वेषिणस्ते तु तदा राजा विचारयेत् ॥ १,२७.१० ॥ एवं वादिकृतान् वादान् प्रपश्येत्प्रत्यहं नृपः । नृपाश्रयास्तथा चान्ये विद्वद्भिर्ब्राह्मणैः सह ॥ १,२७.११ ॥ [१,२८ समाह्वयः] [१,२८.] अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः । प्रहरन्ते कृतपणास्तं वदन्ति समाह्वयम् ॥ १,२८.१ ॥ द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् । तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ॥ १,२८.२ ॥ [१,२९ प्रकीर्णकम्] [१,२९.] एष वादिकृतः प्रोक्तो व्यवहारः समासतः । नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥ १,२९.१ ॥ वाग्धिग्दण्डं वधं चैव चतुर्धा कल्पितं दमम् । पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ॥ १,२९.२ ॥ सुवर्णशतमेकं तु वधार्हो दण्डमर्हति । अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥ १,२९.३ ॥ हस्ताङ्घ्रिलिङ्गनयनं जिह्वाकर्णौ च नासिका । जिह्वा पादार्धसंदंश- ललाटौष्ठगुदं कटिः ॥ १,२९.४ ॥ स्थानान्येतानि दण्डस्य निर्दिष्टानि चतुर्दश । ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ॥ १,२९.५ ॥ अधार्मिकांस्त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन भयेन च ॥ १,२९.६ ॥ वेधेनापि यदा त्वेतान्निगृहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ १,२९.७ ॥ वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ १,२९.८ ॥ बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्यन्ते विकृताः पापकारिणः ॥ १,२९.९ ॥ दशमांशं हरेदर्थं पञ्चमं सर्वमेव वा । मृतस्य वित्तादादद्यादज्ञातिः शवदहकः ॥ १,२९.१० ॥ बहुरक्षस्य दशममल्परक्षस्य पञ्चमम् । अपुत्रपितृभार्यस्य सर्वमेवेति शौनकः ॥ १,२९.११ ॥ षड्भागस्तरशुल्कं च गते देयस्तथैव च । संग्रामचौरभेदी च सस्यघातनकृत्तथा ॥ १,२९.१२ ॥ निष्कृतीनामकरणमाज्ञासेधव्यतिक्रमः । वर्णाश्रमाणां लोपश्च वर्णसंकरलोपनम् ॥ १,२९.१३ ॥ निधिर्निष्कुलवित्तं च दरिद्रस्य धनागमः । अनाम्नातानि कार्याणि क्रियावादाश्च वादिनाम् ॥ १,२९.१४ ॥ प्रकृतीनां प्रकोपश्च संकेतश्च परस्परम् । अशास्त्रविहितं यच्च प्रजायां संप्रकीर्त्यते ॥ १,२९.१५ ॥ साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः । स्ववाचैव जितानां तु नोक्तः पौनर्भावो विधिः ॥ १,२९.१६ ॥ [१,एन्दोf ब्प्१] वेदार्थोपनिबद्धत्वात्प्राधान्यं तु मनोः स्मृतम् । मन्वर्थविपरीता या स्मृतिः सा न प्रशस्यते ॥ १,एन्द् ॥ [एन्दोf बृहस्पतिस्मृति, व्यवहारकाण्ड]