०१०१११२१। अथ वर्णाश्रमधर्मं ०१०१११२१-२। ब्राह्मणक्षत्रियवैश्यशूद्रामुखबाहूरुपादेषु जाताश्चत्वारो वर्णा ०१०१११२२-३। यस्माद्ब्राह्मणो अस्य मुखमासीदिति श्रुतिः ०१०१११२३-४। पूर्वेषां त्रयाणां निषेकाद्याः संस्काराविधीयन्ते ०१०१११२४। तेषां द्विजन्मनां वेदाधिकारस् ०१०१११२४-५। तस्माद्ब्राह्मणस्याध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाणि षट्कर्माणि भवन्ति ०१०१११२६। क्षत्त्रियवैश्ययोर्यजनाध्ययनदानानि ०१०१११२६-७। क्षत्रियस्य प्रजापालयदुष्टनिग्रहयुद्धाः ०१०१११२७। वैश्यस्य पाशुपाल्यकुसीदवाणिज्यानि ०१०१११२८। शूद्रस्य द्विजमनां शुश्रूषा कृषिश्चैव ०१०१११२८-९। ब्राह्मणस्याश्रमाश्चत्वारः क्षत्रियस्याद्यास्त्रयो वैश्यस्य द्वावेव ०१०१११२९-१०। तदाश्रमिणश् चत्वारो ब्रह्मचारी गृहस्थोवानप्रस्थो भिक्षुरिति ०१०२११२११-१३। उपनीतो ब्रह्मचारीमेखलोपवीताजिनदण्डधारी स्नात्वा तर्पणं ब्रह्मयज्ञं सायंप्रातः सन्ध्योपासनसमिद्धोमौ चकुर्वन् गुरोः पादावुपसंगृह्य नित्याभिवन्दी व्रतेनाध्ययनं करोति ०१०२११२१३-१५ स्थिते गुरौ स्थेयादुत्थिते पूर्वमुत्थायव्रजन्तमनुगच्छेदासीने शयाने च नियुक्तो नीचैरन्वासनशयने कुर्याद् ०१०२११२१५-१६ नुक्तो यत्किञ्चित्कर्म न-आचरति ०१०२११२१६। अनुक्तो-अपि स्वाध्यायनित्यकर्माण्याचरेद् ०१०२११२१६-११३३ उष्णाम्बुस्नानदन्तधावनाञ्जनानुलेपनगन्धपुष्पोपानट्छत्रदिवास्वापरेतःस्कन्दस्त्रीदर्शनस्पर्शनमैथुनानिकामक्रोधलोभमोहमदमात्सर्यहिंसादीनि वर्जयित्वा सदाशुश्रूषुर्गुरोः प्रियहितकर्माणि कुर्वीत ०१०२११३३। अद्वेषी वाक्चित्तानुकूलः प्रियं सत्यं वदत्य् ०१०२११३३-४। आर्तो-अप्यसत्याप्रियं निन्दं न-आचक्षीत ०१०२११३४-५ मधुमांसमत्स्यरसशुक्ताद्यभोज्यभोजनवर्जी भैक्षाचरणं कृत्वा गुरुणानुज्ञातो भैक्षान्नमश्नीयाद् ०१०२११३५-६। गुरुवृद्धदीक्षितानामाख्यां न ब्रूयाद् ०१०२११३६-७ गुर्वभावे तत्पुत्रे च गुरुवत्कर्म-आचरति ०१०३११३८-९ ब्रह्मचारिणश्चतुर्विधा गायत्रो ब्राह्मःप्राजापत्यो नैष्ठिकेति ०१०३११३९-१०। गायत्रोपनयनादूर्ध्वं त्रिरात्रमक्षारलवणाशी गायत्रीमधीत्या सावित्रव्रतसमाप्तेरत्र व्रतचारी ०१०३११३१०-१४ ब्राह्मः सावित्रव्रतादूर्ध्वमनभिशस्तापतितानां गृहस्थानां गृहेषु भैक्षाचरणं वेदव्रतचरणं च कृत्वाद्वादश समा विंशति समा वा गुरुकुले स्थित्वा वेदान् वेदौ वेदं वा सूत्रसहितमध्ययनं कृत्वा गार्हस्थ्यानुसरणं कुर्यात् ०१०३११३१४-१५। प्राजापत्यः स्नात्वा नित्यकर्मब्रह्मचर्यशीलो नारायणपरायणो वेदवेदाङ्गार्थान् विचार्य दारसंग्रहणं करोति ०१०३११३१५-१६। प्राजापत्ये त्रिसंवत्सरादूर्ध्वं न तिष्ठेदित्यृषयो वदन्ति ०१०३११३१६-११४३। नैष्ठिकः काषायं धातुवस्त्रमजिनंवल्कलं वा परिधाय जटी शिखी वा मेखली दण्डी सूत्राजिनधारीब्रह्मचारी शुचिरक्षारलवणाशी यावदात्मनो विप्रयोगस्तावद्गुरुकुले स्थित्वानिवेदितभैक्षभोजी भवति ०१०४११४४-७। दारान् संगृह्य गृहस्थो-अपिस्नानादिनियमाचारो नित्यमौपासनं कृत्वा पाकयज्ञयाजी वैश्वदेवहोमान्ते गृहागतं गुरुंस्नातकं च प्रत्युत्थाय-अभिवन्द्यासनपाद्याचमनानि प्रदायघृतदधिक्षीरमिश्रं मधुपर्कं च दत्त्वान्नाद्यैर्यथाशक्ति भोजयति ०१०४११४७-१०। भिक्षून् ब्रह्मचारिणो-अतिथीन् वेदविदः श्रोत्रियान् पितृव्याचार्यर्त्विज्मातुलश्वशुरादीनभ्यागतान् बालवृद्धाननाथार्ताध्वश्रान्तांश्च यथार्थं पूजयत्य् ०१०४११४१०। अशक्तो-अप्य्-अग्रं भिक्षां वा सोदकं दत्त्वाशेषं भुञ्जीत ०१०४११४११-१३ दयासत्यशौचाचारयुतःस्वाध्यायतर्पणाभ्यामृषीन् यज्ञ्नबलिहोमजलपुष्पाद्यैर्देवान् श्राद्धैः पुत्रैश्च पितृऋन्बलिना भूतानन्नाद्यैर्मनुष्यांश्च नित्यमर्चयेद् ०१०४११४१३। ऋणत्रयेण मुक्तो-अनृणो भवतिVKashi Sanskrit Seriesःङ्ष्०८०५११४१४। गृहस्थाश्चतुर्विधा वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोराचारिकश्चेतिVKashi Sanskrit Seriesःङ्ष्०८०५११४१४। वार्तावृत्तिः कृषिगोरक्ष्यवाणिज्योपजीवीVKashi Sanskrit Seriesःङ्ष्०८०५११४१४-१५ शालीनवृत्तिर्नियमैर्युतः पाकयज्ञैर्ष्ट्वाग्नीनधाय पक्षे पक्षे दर्शपूर्णमासयाजी चतुर्षु चतुर्षु मासेषु चातुर्मास्ययाजीषट्सु षट्सु मासेषु पशुबन्धयाजी प्रतिसंवत्सरं सोमयाजी चVKashi Sanskrit Seriesःड्ष्०१०५११५१-३। यायावरो हविर्यज्ञैः सोमयज्ञैश्च यजतेयाजयत्यधीते-अध्यापयति ददाति प्रतिगृह्णाति षट्कर्मनिरतो नित्यमग्निपरिचरणमतिथिभ्यो-अभ्यागतेभ्यो-अन्नाद्यं च कुरुतेVKashi Sanskrit Seriesःड्ष्०१०५११५३-७। घोराचारिको नियमैर्युक्तो यजते नयाजयत्य् अधीते न-अध्यापयति ददाति न प्रतिगृह्णात्य् उञ्च्छवृत्तिमुपजीवतिनारायणपरायणः सायंप्रातरग्निहोत्रं हुत्वा मार्गशीर्षज्येष्ठमासयोरसिधाराव्रतंवनौषधिभिरग्निपरिचरणं करोति ०१०६११५८-११। गृहस्थः सपत्नीकः पञ्चाग्निभिस्त्रेताग्निभिर्वा गृहाद्वनाश्रमं यास्यन्नाहिताग्निरनाहिताग्निश्चाउपासनमरण्यामारोप्य गृहे मथित्वा श्रामणकीयविधानेन-आधायाघारं हुत्वाश्रामणकाग्निमादाय तृतीयमाश्रमं गच्छेत् ०१०६११५११-१२। पूर्ववदग्न्यालयप्रोक्षणोल्लेखनादिकर्म कुर्यात् ०१०६११५१२-१४ तृतीयामपि वेदिं परिमृज्य षडङ्गुलाग्नेर्दर्भैर्ग्रथितेधस्त्रिधाकृतं रज्जुवत्- मूले बद्धं षट्त्रिंशदङ्गुलप्रमाणंपरिस्तरणकूर्चं कृत्वा मध्यवेद्यां परिस्तृणाति श्रामणकं ०१०६११५१५-१७। श्रामणकयज्ञं यज्ञदैवविश्वान् देवानित्य्-अन्तमावाह्याज्यं निरूप्य श्रामनकाय स्वाहा श्रामणकयज्ञाय स्वाहायज्ञदैवतविश्वेभ्यो देवेभ्यः स्वाहेत्यन्तं हुत्वा चरुं जुहुयादित्याधारविशेषः ०१०६११५१८-११६१ श्रामणकाग्नेश्चोर्ध्ववेदिर्द्वात्रिंशदङ्गुल्यायता चतुरङ्गुलिविस्तारोन्नता ०१०६११६१-२। मध्यमा तत्परिगता पञ्चाङ्गुलिविस्ताराचतुरङ्गुलोत्सेधा ०१०६११६२। अधस्तादूर्ध्ववेदिविस्तारोन्नता तृतीया वेदिर् ०१०६११६२-५। द्वादशाङ्गुलं मध्ये निम्नं त्रिवेदिसहितंकुण्डं कृत्वा-आधाय वनस्थो नित्यमौपासनवत्सायंप्रातराहुतीर्हुत्वा महाव्याहृतिभिः श्रामणकाग्निं जुहुयाद् ०१०६११६५। पत्नीको दारैरग्निभिर्विना वनं गच्छेत् ०१०७११६६। वानप्रस्थाः सपत्नीकापत्नीकाश्चेति ०१०७११६६-७। सपत्नीकाश्चतुर्विधा ०१०७११६७। औदुम्बरो वैरिञ्चो वालखिल्यः फेनपश्चेति ०१०७११६७-११ औदुम्बरो-अकृष्टफलावाप्यौषधिभोजी मूलफलाशी वाअणहिङ्गुलशुनमधुमत्स्यमांसपूत्यन्नधान्याम्लपरस्पर्शनपरपाकवर्जी देवर्षिपितृमनुष्यपूजी वनचरो ग्रामबहिष्कृतःसायंप्रातरग्निहोत्रं हुत्वा श्रामणकाग्निहोमं वैश्वदेवहोमं कुर्वंस्तपः समाचरति ०१०७११६१२। श्रामणकाग्निमेकमेवाधाय जुहोतीत्येके ०१०७११६१२-१५। वैरिञ्चः प्रात्र्यां दिशं प्रेक्षते तां दिशंगत्वा तत्र प्रियङ्गुयवश्यामाकनीवारादिभिर्लब्धैः स्वकीयानतिथींश्चपोषयित्वाग्निहोत्रश्रामणकवैश्वदेवहोमी नारायणपरायणस्तपःशीलोभवति ०१०७११६१५-१७ वालखिल्यो जटाधरश्चीरवल्कलवसनो-अर्काग्निः कार्त्तिक्यां पौर्णमास्यां पुष्कलं भुक्तमुत्सृज्यान्यथा शेषान्मासानुपजीव्यतपः कुर्यात् ०१०७११६१८। अस्य सूर्यैवाग्निर्भवतीत्यामनन्ति ०१०७११६१८-११७२। फेनप उद्दण्डक उन्मत्तको निरोधकः शीर्णपतितपत्त्राहारी चान्द्रायणव्रतं चरन् पृथिवीशायीनारायणं ध्यायन्मोक्षमेव प्रार्थयते ०१०८११७३। अपत्नीका बहुविधाः ०१०८११७३-११ कालाशिका उद्दण्डसंवृत्ता अश्मकुट्टा उदग्रफलिनो दन्तोलूखलिका उञ्छवृत्तिकाः संदर्शनवृत्तिकाः कपोतवृत्तिकामृगचारिका हस्तादायिनः शैलफलकादिनो-अर्कदग्धाशिनो बैल्वाशिनःकुसुमाशिनः पाण्डुपत्त्राशिनः कालान्तरभोजिन एककालिकाश्चतुष्कालिकाःकण्टकशायिनो वीरासनशायिनः पञ्चाग्निमध्यशायिनो धूमाशिनःपाषाणशायिनो-अभ्यवगाहिन उदकुम्भवासिनो मौनिनश्चावाक्शिरसः सूर्यप्रतिमुखा ऊर्ध्वबाहुका एकपादस्थिताश्चेति विविधाचारा भवन्तीति विज्ञायते ०१०९११७१२-१३। अथ भिक्षुका मोक्षार्थिनः कुटीचकाबहूदका हंसाः परमहंसाश्चेति चतुर्विधा भवन्ति ०१०९११७१३-१५ अत्र कुटीचका गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनामाश्रमेष्वष्टौ ग्रासांष्चरन्तो योगमार्गतत्त्वज्ञा मोक्षमेवप्रार्थयन्ते ०१०९११७१५-११८१ बहूदकास्त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं वर्जयन्तः सप्तागारेषुभैक्षं कृत्वा मोक्षमेव प्रार्थयन्ते ०१०९११८१-४। हंसा नाम ग्रामे चैकरात्रं नगरेपञ्चरात्रं वसन्तस्तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा मासोप्वासिनो वानित्यचान्द्रायणव्रतिनो नित्यमुत्थानमेव प्रार्थयन्ते ०१०९११८४-५ परमहंसा नाम वृक्षैकमूले शून्यागारेश्मशाने आ वासिनः साम्बरा दिगम्बरा वा ०१०९११८५-६। न तेषां धर्माधर्मौ सत्यानृतेशुद्ध्यशुद्ध्यादि द्वैतं ०१०९११८६-७। सर्वसमाः सर्वात्मनः समलोष्टकाञ्चनाःसर्ववर्णेषु भैक्षाचरणं कुर्वन्ति ०१०९११८७-८। ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणांत्रयाश्रम्यं वैश्यानां द्व्याश्रम्यं विहितं ०१०९११८८-९। तत्फलं हि सकामं निष्कामं चेति द्विविधंभवति ०१०९११८९-११ सकामं नामेह संसारेभिवृद्धिं ज्ञात्वा पुत्रलाभाद्यभिकाङ्क्षणमन्यत्स्वर्गादिफलकाङ्क्षणं वा ०१०९११८११-१२। निष्कामं नाम किञ्चिदनभिकाङ्क्ष्य यथाविहितानुष्ठानमिति ०१०९११८१२-१३। तत्र निष्कामं द्विविधं भवति प्रवृत्तिर्निवृत्तिश्चेति ०१०९११८१३-१५। प्रवृत्तिर्नाम संसारमनादृत्यसङ्ख्यज्ञानं समाश्रित्य प्राणायामासनप्रत्याहारधारणायुक्तो वायुजयं कृत्वाणिमाद्यैश्वर्यप्रापणं ०१०९११८१५-११९१ तत्पुनरपि तपःक्षयाज्जन्मप्रापकत्वाद्व्याधिबाहुल्याच्च न-आद्रियन्ते परमर्षयो ०१०९११९१-६। निवृत्तिर्नाम लोकानामनित्यत्वं ज्ञात्वा परमात्मनो-अन्यन्न किञ्चिदस्तीति संसारमनादृत्य च्छित्वा भार्यामयं पाशंजितेन्द्रियो भूत्वा शरीरं विहाय क्षेत्रज्ञपरमात्मनोर्योगं कृत्वातीन्द्रियंसर्वजगद्बीजम् अशेषविशेषं नित्यानन्दममृतरसपानवत्सर्वदा तृप्त्करं परं ज्योतिःप्रवेशकमिति विज्ञायते ०११०११९७-८ निवृत्त्याचारभेदाद्द्-हि योगिनस्त्रिविधाभवन्ति सारङ्गा एकार्थ्या विसरगाश्चेति ०११०११९८-९। अनिरोधका निरोधका मार्गगा विमार्गगाश्चेति चतुर्विधा सारङ्गा ०११०११९९-१०। दूरगा अदूरगा भ्रूमध्यगा असंभक्ताःसंभक्ताश्चेत्येकार्थ्याः पञ्चधा भवन्ति ०११०११९१०-११। न सङ्ख्यावन्तो विसरगास् ०११०११९११-१३। तत्र सारङ्गाः सारं क्षेत्रज्ञस्तंगच्छन्तीति सारङ्गास्तेष्वनिरोधका अहं विष्णुरिति ध्यात्वा ये चरन्ति तेषांप्राणायामादयो न सन्ति ०११०११९१३-१४। ये तु निरोधकास्तेषां प्राणायामप्रत्याहारधारणादयः षोडश कलाः सन्ति ०११०११९१४-१५। ये मार्गगास्तेषां षडेव प्राणायामादयो ०११०११९१५-१७ ये विमार्गास्तेषां यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयश्चेत्यष्टाङ्गान् कल्पयन्तो ध्येयमप्यन्यथा कुर्वन्ति ०११११२०१। अथैकार्ष्या ०११११२०१। एक एवर्षिर्येषां ते एकार्ष्यास् ०११११२०१-२। तेषु ये दूरगास्तेषामयं मार्गः ०११११२०२-५। पिङ्गलया नाडिकयादित्यमण्डलमनुप्रविश्यतत्रस्थेन पुरुषेण संयुज्य ततश्चन्द्रमण्डलं तत्रस्थेन पुरुषेण ततोविद्युतं तत्रस्थेन पुरुषेण पुनः क्रमेण वैकुण्ठसायुज्यं यन्ति ०११११२०५। येदूरगास्तेषामयं धर्मः ०११११२०५-७ क्षेत्रज्ञपरमात्मनोर्योगं क्षेत्रज्ञद्वारेणकारयित्वा तत्रैव समस्तविनाशं ध्यात्वाकाशवत्सत्तामात्रो-अहमिति ध्यायन्ति ०११११२०७-१०। भ्रूमध्यगाः क्षेत्रज्ञपरमात्मनोर्योगे सत्त्वरूपाग्निद्वारेण भ्रूमध्यं नीत्वा पञ्चभ्यो-अङ्ग्ष्टादिभ्यःस्थानेभ्याकर्षणं पुनः पिङ्गलाद्वारेण निष्क्रमणं प्रलयान्तंक्षेत्रज्ञयोगान्तं वा कुर्वन्ति ०११११२०१०-११। असंभक्ता नाम मनसा ध्यानं कुर्वन्ति ०११११२०११। तत्प्रतिपादनागमं श्रोत्रेण शृण्वन्ति ०११११२०११-१२। चक्षुषा देवताकारं पश्यन्ति ०११११२०१२। घ्राणेन गन्धमनुभवन्ति ०११११२०१२-१३। पाणिना देवतां नमस्कुर्वन्ति ०११११२०१३-१४। संभक्ता नाम ब्राह्मणः सर्वव्यापकत्वाद्युक्तमयुक्तं यो-असौ परमात्मा तत्स व्याप्याकाशवत्तिष्ठति ०११११२०१५ तस्माद्ब्रह्मणो-अन्यन्न कुत्रचिदात्मानंप्रतिपद्यतेसौ ०११११२०१६। भ्रूमध्यगतस्यापि संशयान्निष्प्रमाणमेवेत्युक्तं ०११११२०१६-१२११। तस्माद्ब्रह्मव्यतिरिक्तमन्यन्न-उपपद्यते ०११११२११-२। विविधसरणाद्विविधदर्शनात्कुपथगामित्वाद्विसरगाः ०११११२१२-३। पुरा प्रजापतिरुपदेशगूहनार्थंविसरगपक्षं दृष्टवान् ०११११२१३। तं दृष्ट्वा मुनयो-अपि मोहं जग्मुः किं पुनर्मनुष्याः ०११११२१४ विसरगपशूनामहंकारयुक्तानां जन्मान्तरेषुमुक्तिर्नास्मिञ्जन्मनि ०११११२१५। तस्माद्विसरगपक्षो नानुष्ठेयो ०११११२१५-८। केचिद्विसर्गाः कायक्लेशात्केचिन्मन्त्रजपात्केचिद्येन केनचिद्ध्यानेन केचिद्येन केनचिदक्षरेण केचिद्वायुजयादन्ये परमात्मनाक्षेत्रजं संयोज्य ध्यायन्त्येते परमात्मसंयोगमेव न-इच्छन्ति ०११११२१८-९। हृदिस्थैव पुरुषेति वदन्ति ०११११२१९-१०। केचिन्न किञ्चिद्ध्यानमितियथोक्तानुष्ठानं योगमिति ज्ञात्वा मुक्तिमिच्छन्ति ०११११२११०-११। तेषां विसरगपशूनांन्तरेषु मुक्तिर्नास्मिञ्जन्मनि ०११११२१११-१२। तस्मिन्नेव जन्मनि मोक्षकाङ्क्षिणाविसरगपक्षो नानुष्ठेयः ०११११२११२-१५। सगुणे ब्रह्मणि बुद्धिं निवेश्यपश्चात्-निर्गुणं ब्रह्माश्रित्य यत्नं कुर्यादिति विज्ञायते ०२०११२२१। अथ वनस्थस्य श्रामणकविधानं ०२०११२२१-३। गृहस्थः सोमयाजी पुत्रं पौत्रं च दृष्ट्वातत्पुत्रादीन् गृहे संस्थाप्य मौण्ड्यं कृत्वा प्राजापत्यं कृच्छ्रं चरेत् ०२०११२२३-४ वसन्ते शुक्लपक्षे पुण्यक्षेत्रे पत्न्या सार्धंवनाश्रमं याति ०२०११२२४-५। पूर्वस्मिन् दिवसे कृतस्नानः संकल्प्यकुशोदकं पीत्वोपवासं कुर्याद् ०२०११२२५-६ औपासनहोमं हुत्वाग्निमयं ते योनिरित्यरण्यामारोपयेद् ०२०११२२६-८। दर्शपूर्णमासविधानेन दर्भादीन् संगृह्यपूर्ववत्परिस्तरणकूर्चान् परिधीन् समिधोवेणुदण्डोपवीतकमण्डलुवल्कलादीन् संभरति ०२०११२२८। पूर्वोक्तविधिनाग्निकुण्डं कुर्याद् ०२०११२२८-१० अपरस्मिन् दिवसे वैश्वानरसूक्तेनाग्निंमथित्वा प्रज्वाल्याग्न-आयाह्य् । उपावरोहेत्यग्निं निधाय पूर्ववत्- श्रामणकाग्न्याघारं जुहोति ०२०११२२१०-१३। प्रणम्याग्निं परिषिच्याग्ने प्रायश्चित्ते त्वमिति पञ्चप्रायश्चित्तं हुत्वापोहिरण्यावमानैरात्मानं प्रोक्ष्यब्रह्मदैवत्यं वैष्णवं पञ्चवारुणं च प्रधानान् व्याहृत्यन्तं यजेत् ०२०२१२२१४-१७। अग्नेः प्रतीच्यां द्वौ कुशौ पूर्वाग्रौन्यस्योर्ध्वेश्मानं निधाय तत्सवितुर्वरेण्यमिति दक्षिणपादाङ्गुष्ठाग्रेणाश्मानमधितिष्ठेत्तेजोवत्सव इतिओन् थे रेअदिन्गोf थे मन्त्र, च्f Cअल्प्१२२ ४ वल्कलमजिनं चीरंवा परिधाय पूर्ववन्मेखलादींस्त्रीण्युपवीतान्युत्तरीयं कृष्णाजिनं च-आददात्य् ०२०२१२२१७-१२३१ आचम्य स्वस्ति देवेति- अग्निं प्रदक्षिणंप्रणामं च कृत्वा-आसीत ०२०२१२३१-३। शं नो वेदीरिति स्वमूर्ध्नि प्रोक्ष्य जयानभ्यातानान् राष्ट्रभृतो व्याहृतीश्च हुत्वाज्यशेषं प्राणायामेन प्राश्नीयाद् ०२०२१२३३-५। योगे योग इति द्विराचम्य शतमिन्नु शरदेतिप्रणाममागन्त्रा समगन्महीति प्रदक्षिणं चादित्यस्य कुर्वीत ०२०२१२३५-६। राष्ट्रभृद्-असीति- ऊर्ध्वाग्रं कूर्चं गृह्णीयात् ०२०२१२३६-१०। ओं भूस्तत्सवितुरों भुवो भर्गो देवस्योंसुवर्धियो यो न इति पच्छो व्यस्तामों भूर्भुवस्तत्सवितुरों सुवर्धियो यो न इत्यर्धर्चामों भूर्भुवः सुवस्तत्सवितुरिति समस्तां चसावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यव्रतं संकल्पयेत् ०२०३१२३-११। तत्पत्नी च तथा ब्रह्मचारिणी स्यात् ०२०३१२३११-१४ स्वयमेवाग्निं प्रदक्षिणीकृत्याज्येन प्राजापत्यं धातादीन्मिन्दाहुती विच्छिन्नमैन्द्रं वैश्वदेवं वैश्णवं बाह्यं विष्णोर्नुकादीन् प्राजापत्यसूक्तं तद्व्रतबन्धं च पुनः प्रधानान् हुत्वाप्राजापत्यव्रतं बध्नाति ०२०३१२३१४-१६। स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्चसप्तनवान्यतमैः पर्वभिर्युक्तं केशान्तायतंवाप्य्-अवक्रं वैष्णवं द्विदण्डमाददाति ०२०३१२३१६-१७। येन देवा इति कमण्डलुमृद्ग्रहिण्यौ पूर्ववदुपानट्छत्रे च गृह्णात्य् ०२०३१२३१७-२०। अग्नीन् गार्हपत्यादीन्-चोज्ज्वाल्याग्निहोत्रंहुत्वाहवनीये प्राजापत्यं विष्णुसूक्तं च सर्वत्राग्नये स्वाहा सोमाय विष्णवेस्वाहेति हुत्वाग्नीनरण्यामारोपयति ०२०३१२३२०-१२४१ वनेद्रौ विविक्ते नदीतीरे वनाश्रमंप्रक्ल्प्य यथोक्तमग्निकुण्डानि कुर्यात् ०२०३१२४१-२। पत्न्या सहाग्नीनादायपात्रादिसंभारयुक्तो वनाश्रमं समाश्रयत्यVKashi Sanskrit Seriesःड्ःष्०२०४१२४३-४। अग्न्यायतने प्रोक्ष्य खनित्वा लेखाः षडुल्लिख्यसुवर्णशकलं व्रीहींश्च निधाय श्रामणकाग्निं निदध्यात् ०२०४१२४४-७ वन्यानेव पार्थिवान् वानस्पत्यान्कुलीरोद्घाताञ्छणान् पुराणान् कुशदर्भानूर्णास्तुकां प्लक्षाग्रं सुगन्धितेजनं गुग्गुलुं हिरण्यशकलान् सूर्यकान्तं च संभरति ०२०४१२४७-९। वानप्रस्थानृत्विजो वृत्वाग्निं मथित्वागार्हपत्यादींस्त्रेताग्नीन् पञ्चाग्नीन् वाग्न्याधेयक्रमेणाधायाहुती द्वे द्वेहुत्वा नित्यं द्विकालं वन्यैरेव जुहोति ०२०४१२४९-१२। वनाश्रमी मुनिः स्नानशौचस्वाध्यायतपोदानेज्योपवासोपस्थनिग्रहव्रतमौनानीति नियमान् दशैतान्सत्यानृशंस्यार्जवक्षमादमप्रीतिप्रसादमार्दवाहिंसामाधुर्याणीति यमान्दशामूंश्च समाचरति ०२०४१२४१२-१५। भक्त्या विष्णुंध्यायन्न्-अग्निहोत्रश्रामणकाग्निहोमौ द्विकालं नोत्सृजन् ग्राम्याशनं त्यक्त्वा वन्यौषधीः फलं मूलंशाकं वा नित्याशनं संकल्प्य तिरोधा भूरित्य्-आहृत्य- अपराह्णे स्वयं पत्नीवा हविष्यमास्रावितं पचति ०२०४१२४१६। वैश्वदेवान्तेथितीनभ्यागतान् प्राशयित्वामितं प्राश्नाति ०२०५१२५१। रात्रौ न-अश्नीयाद् ०२०५१२५१-२। अधस्ताद्दर्भांस्तृणानि पर्णानि वास्तीर्यसुव्रतः सुव्रतां पत्नीं विनैकः शयीत ०२०५१२५२-३। सास्य शुश्रूषां करोत्येनां न-उपगच्छेत् ०२०५१२५३। मातृवन्निष्कामः प्रेक्षेतोर्ध्वरेता जितेन्द्रियो ०२०५१२५४-५। दर्शपूर्णमासौ चातुर्मास्यं नक्षत्रेष्टिमाग्रयणेष्टिं च वन्यौषधीभिः पूर्ववद्यजेदनुक्रमान् ०२०५१२५५-७। मूलैः फलैः पत्त्रैः पुष्पैर्वातत्तत्कालेन पक्वैः स्वयमेव संशीर्णैः प्राणं प्रवर्तयन्नुत्तरोत्तरेप्यधिकं तपःसंयोगंफलादिविशिष्तमाचरेद् ०२०५१२५७-१०। अथ वाहिताग्निः सर्वानग्नीनरण्यामारोप्य सर्वैः संवापमन्त्रैः पार्थिवान् वानस्पत्यांश्च सर्वान् समूह्यनिर्मन्थ्यैतेन विधिनाग्निमग्न्याधेयविधानेन च मन्त्रैः सर्वैः सभ्याग्न्यायतनेश्रामणकाग्निमाधाय-आहरेत् ०२०५१२५१०। सभ्यस्य भेदः श्रामणकाग्निरित्याहुः ०२०५१२५१०-१३। अपत्नीकश्च भिक्षुवदग्नौ होमंहुत्वारण्यादिपात्राणि च प्रक्षिप्य पुत्रे भार्यां निधाय तथाग्नीनात्मन्यारोप्यवल्कलोपवीतादीन् भिक्षापात्रं च संगृह्य- अनग्निरदारो गत्वा वने निवसेत् ०२०५१२५१३-१५। तपसां श्रमणमेतन्मूलं तस्मादेतद्विधानमेनमग्निं च श्रामणकमित्याह विखनाः ०२०६१२५१६-१७। संन्यासक्रमं सप्तत्यूर्ध्वंवृद्धो-अनपत्यो विधुरो वा जन्ममृत्युजरादीन् विचिन्त्य योगार्थी यदा स्यात्तद् ०२०६१२५१७-१८। अथ वा पुत्रे भार्यां निक्षिप्य परमात्मनिबुद्धिं निवेश्य वनात्संन्यासं कुर्यात् ०२०६१२५१९-१२६४। मुण्डितो विधिना स्नात्वा ग्रामाद्बाह्येप्राजापत्यं चरित्वा पूर्वाह्णे त्रिदण्डं शिक्यं काषायं कमण्डलुमप्पवित्रं मृद्ग्रहणीं भिक्षापात्रं च संभृत्य त्रिवृतं प्राश्य- उपवासंकृत्वा दिनेपरे प्रातः स्नात्वाग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादशकपालं निर्वपेत् ०२०६१२६४-६। गार्हपत्याग्नावाज्यं संस्कृत्याहवनीयेपूर्णाहुती पुरुषसूक्तं च हुत्वाग्नये सोमाय ध्रुवाय ध्रुवकरणाय परमात्मने नारायणाय स्वाहेति जुहोति ०२०७१२६७-८। स्रुचि स्रुवेण चतुर्गृहीतं गृहीत्वा सर्वाग्निष्वों स्वाहेति जुहुयाद् ०२०७१२६८-९। अग्निहोत्रहवणीमाहवनीये मृत्शिलामयेभ्यो-अन्यानि पात्राणी गार्हपत्ये प्रक्षिपति ०२०७१२६९-१०। गृहस्थो-अनाहिताग्निरौपासने वनस्थश्चश्रामणकाग्नौ होमं हुत्वा पात्राणि प्रक्षिपेत् ०२०७१२६१०-१२। पच्छो-अर्धर्चशो व्यस्तां समस्तां चसावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामीति तं प्रविशति ०२०७१२६१२-१४ अन्तर्वेद्यां स्थित्वा गार्हपत्यादीन् या तेअग्ने यज्ञियेति प्रत्येकं त्रिराघ्राय भवतं नः समनसावित्यात्मन्यारोपयेत् ०२०७१२६१४-१६। भूर्भुवः सुवः संन्यस्तं मयेति त्रिरुपांशूच्चैश्च प्रैषमुक्त्वा दक्षिणहस्तेन सकृत्-जलं पीत्वाचम्य तथैवोक्त्वा त्रिर्जलाञ्जलिं विसृजेन् ०२०७१६-१७। मेखलां चत्वार्युपवीतान्येकं वोपवीतंकृष्णाजिनमुत्तरीयं च पूर्ववद्ददाति ०२०८१२६१८-२०। देवस्य त्वा यो मे दण्डः सखा मे गोपायेतित्रिभिस्त्रिदण्डं यदस्य पारे रजस इति शिक्यं येन देवाः पवित्रेण- इत्यप्पवित्रं येनदेवा ज्योतिषेति कमण्डलुमृद्ग्रहण्यावाददीत ०२०८१२७१। स्नात्वाघमर्षणसूक्तेनाघमर्षणं कुर्यात् ०२०८१२७१-३। आचम्य षोडच प्राणायामान् कृत्वा सहस्रं शतं वा सावित्रीं जप्त्वा तथा भिक्षापात्रमलाबु दारवं मृन्मयं वागृह्णाति ०२०८१२७३-५ प्रणवाद्यादिभिःच्fCअल्प्१२७ २ पृथक्पृथक्सप्तव्याहृतिभिस्तर्पयामि- इति देवेभ्यो जलेद्भिस्तर्पयित्वाद्याभिश्चतसृभिःस्वधेति पितृभ्यस्तर्पयेत् ०२०८१२७५-६। उद्वयं तमस इत्यादित्यमुपतिष्ठेत ०२०८१२७६-७। जलाञ्जलिं विसृज्याभयं सर्वभूतेभ्यो दद्याद् ०२०८१२७७-८। अध्यात्मरतो यतिर्भिक्षाशी नियमयमांश्चसमाचरन् संयतेन्द्रियो ध्यानयोगेन परमात्मानमीक्षते ०२०९१२७९। धर्म्यं सदाचारं ०२०९१२७९-११ निवीती दक्षिणे कर्णे यज्ञोपवीतंकृत्वोत्कटिकमासीनो- अहन्युदङ्मुखो रात्रौ दक्षिणामुखस्तृणैरन्तरिते मूत्रपुरीषे विसृजेन्- ०२०९१२७११-१२। नद्यां गोष्ठे पथि छायायां भस्मन्यप्सुकुशे दर्भे वा न- आचरेत् ०२०९१२७१२-१३ गोविप्रोदकाग्निवाय्वर्कतारेन्दून्नपश्यन् कुर्यात् ०२०९१२७१३-१६ वामहस्तेन लिङ्गं संगृह्योत्थायोदकस्यपार्श्वे तथा- आसीनो ब्रह्मचारी गृहस्थो-अपि शिश्ने द्विर्हस्तयोश्च द्विर्द्विर्गुदेषट्कृत्वस्- मृदं दत्त्वोद्धृतैरेव जलैः शौचं कुर्यात् ०२०९१२७१६-१७। करं वामं दश कृत्वः करावुभौ च तथामृदाद्भिः प्रक्षालयेत् ०२०९१२७१७। वनस्थस्य भिक्षोश्चैतद्द्विगुणं भवति ०२०९१२७१७-१८। रात्रौ यथोक्तार्धं वा ०२०९१२७१८-१२८१। रेतोविसर्गे मूत्रवत्-शौचं कर्तव्यंरेतसस्त्रिरित्येके ०२०९१२८१-३। सोपवीती प्राङ्मुख उदङ्मुखोवान्यत्रासित्वा मृदाम्बुना पूर्ववत्पादौ पाणी च प्रक्षाल्याचम्य मन्त्रेण- आचमति ०२१०१२८४-५ ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर्वैश्यस्तालुगाभिरद्भिराचामेत ०२१०१२८५-६। आत्मानं प्रोक्ष्य प्रत्यर्कमपो विसृज्यार्कं पर्येत्य् ०२१०१२८६-८। उदकस्याग्नेर्वामपार्श्वं प्राणानायम्यप्रत्येकमोंकारादिसप्तव्याहृतिपूर्वां गायत्रीमन्ते सशिरस्कां त्रिर्जपेत्स प्राणायामस्त्रीनेकं वा प्राणायामं कृत्वा पूतः ०२१०१२८८-१० शतं दश अष्टौ वा सावित्रीं सायंप्रातः सन्ध्यामुपास्य नैशिकमाह्निकं चैनो-अपमृज्यते ०२१०१२८१०। द्विजातिः सन्ध्योपासनहीनः शूद्रसमो भवति ०२१०१२८११। ब्रह्मचारी स्वनाम संकीर्त्याभिवादयेदहंभो इति ०२१०१२८११-१३। श्रोत्रे च संस्पृश्य गुरोः पादं दक्षिणंदक्षिणेन पाणिना वामं वामेन व्यत्यस्यरापादम्गृह्णन्नानतशीर्षो-अभिवादयत्य् ०२१०१२८१४। आयुष्मान् भव सौम्येत्येनं शंसेद् ०२१०१२८१४। अनाशीर्वादी नाभिवन्द्यो ०२१०१२८१४-१५। माता पिता गुरुर्विद्वांसश्च प्रत्यहमभिवादनीयाः ०२१११२८१६। अन्ये बान्धवा विप्रोष्य प्रत्यागत्याभिवन्द्याः ०२१११२८१६-१८। ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश्च पितृवत् पितृष्वसा मातृष्वसा ज्येष्ठभ्हर्या भगिनी ज्येष्ठा च मातृवत्पूजितव्याः ०२१११२८१८-१९। सर्वेषां माता श्रेयसी गुरुश्च श्रेयान् ०२१११२८१९-१२९१। परस्त्रियं युवतिमस्पृशन् भूमावभिवादयेद् ०२१११२९१। वन्द्यानां वन्दनादायुर्ज्ञानबलारोग्यशुभानि भवन्ति ०२१११२९२। यज्ञोपवीतमेखलाजिनदण्डान् परेण धृतान्न धारयेत् ०२१११२९२-४ पाकृत्यानालस्यः शुचिः प्रणवाद्यं वेदमधीयानो-अमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोरष्टम्योश्च नाधीयीत ०२१११२९४-५। नित्यजपे होमे चानध्यायो नास्ति ०२१११२९५-८।मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्वादिष्वन्तरागतेष्वहोरात्रं सूतकप्रेतकयोराशौचे तावत्कालं तिस्रो-अष्टकासु गुरौ प्रेते च त्रिरात्रमनध्यायः स्यात् ०२१२१२९९-१०। तद्भार्यापुत्रयोः स्वशिष्यस्य चोपरमेमनुष्ययज्ञे श्राद्धभोजने चैकाहमनध्यायः स्यातापदार्त्योरप्रायत्ये ०२१२१२९१०-१४। वृक्षनौयानशयनेष्वारूढः प्रसारितपादो मूत्रपुरीषरेतोविसर्गे ग्रामेन्तःशवे सत्यभक्ष्यान्नभोजने छर्दने श्मषानदेशे सन्ध्यास्तनिते भूकम्पे दिग्दाहेशन्युल्कानिपाते रुधिरोपलपांसुवर्षे सूर्येन्दुराहुग्रहणे च तत्तत्काले न-अधीयीत ०२१२१२९१४-१५। परत्रेह श्रेयस्करो वेदस्तदध्येतव्यो ०२१२१२९१५। अन्ते विसृज्य प्रणवं ब्रवीति ०२१२१२९१५-१६ लौकिकाग्नौ समिधौ हुत्वा भिक्षान्नंमेधाप्रदं शुद्धं मौनी भुञ्जीत ०२१२१२९१६-१३०३। पौषे माघे वा म्सासे ग्रामाद्बहिर्जलान्ते पूर्ववद्व्रतविसर्गहोमं हुत्वा स्वाध्यायमुत्सृज्य पक्षे शुक्ले वेदं कृष्णेवेदाङ्गं च यावदन्तं समधीत्य गुरोर्दक्षिणां दत्त्वा समावर्तीस्यात् ०२१३१३०४-५। मध्याह्ने शुद्धे जले मृदद्भिः पादौ हस्तौ चधावयित्वाचम्याङ्गानि संशोध्यापः पुनन्त्विति जले निमज्जेद् ०२१३१३०५-७। आचान्तो वैष्णवैर्मन्त्रैर्विष्णुं हिरण्यशृङ्गमिति वरुणं च प्रणम्याघमऋषणसूक्तेनाघमऋषणं कृत्वेदमापः शिवाइतिस्नायाद्VKashi Sanskrit Seriesःड्ःष्०२१३१३०७-९ आश्रमिणश्चत्वारः स्नानं नित्यमेवंपूर्वोक्तेन विधिना काम्यं नैमित्तिकं च कुर्वन्ति ०२१३१३०९-१०। धौतवस्त्रेणाछाद्य पूर्ववदाचम्यप्रोक्ष्यासीनस्तिष्ठन् वा कृतप्राणायामः सावित्रीं जप्त्वादित्यमुपतिष्ठेत ०२१३१३०१०-१४। दक्षिणपाणिना तीर्थेन ब्राह्मेणभूपत्यादीन् दैवेन नारायणादीन् कूप्यादींश्चार्षेण विश्वामित्रादीन् पैतृकेणपित्रादीनद्भिस्तर्पयित्वा ब्रह्मयज्ञं करिष्यन्नित्यमिषे त्वोर्जे त्वेति यथाकामंयजुःसंहितामाद्यां स्त्रीननुवाकान् स्वाध्यायं कुर्वीत ०२१३१३०१४-१५। नैमित्तिकमृतं च सत्यं चेत्यादिसूक्तानिचतुर्वेदादिमन्त्रान् वाप्यधीयीत ०२१३१३०१५-१६। सर्वयज्ञानामादिर्ब्रह्मयज्ञः ०२१३१३०१६। तस्मादुपनयनप्रभृत्य्-एव द्विजैः कर्तव्यो ०२१३१३०१७-१८। नद्यां तीर्थे देवखाते सरसि तटाके वासामान्ये स्नानं कुर्यात् ०२१४१३११। परस्योदके मृत्पिण्डान् पञ्चोद्धृत्य स्नायात् ०२१४१३११-२। कूपे तत्तीरे त्रिः कुम्भेन-अभिषिञ्चेद् ०२१४१३१२। उच्छिष्टो नग्नो वा न स्नायात्तथा न शयीत ०२१४१३१३। आतुरो-अप्सु न-अवगाहेत ०२१४१३१३-५। आतुरस्य स्नाने नैमित्तिके दश कृत्वो द्वादशकृत्वो वा तमनातुरो जले -अवगाह्याचम्य स्पृशेत्ततः स पूतो भवति ०२१४१३१५-७। द्विकालं होमान्ते पादौप्रक्षाल्याचम्यासने प्राङ्मुखः प्रत्यङ्मुखः वा स्थित्वा चतुरश्रोपलिप्ते मण्डले शुद्धं पात्रं न्यसेत् ०२१४१३१७। तत्रान्नं प्रक्षिप्य तत्पूजयति ०२१४१३१७-९। द्वौ पादावेकं वा भूमौ निधाय प्रसन्नऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्वर्तेनपरिषिञ्चामीति प्रातर् ०२१४१३१९-११। अमृतोपस्तरणमसीत्याधावं पीत्वाविधिना प्राणाहुतीर्हुत्वान्नमनिन्दन्नश्नाति ०२१४१३१११ भुक्त्वामृतापिधानमसीत्यपःपीत्वाचम्य-आचामेद् ०२१४१३१११-१२। एकवासाः शयानस्तिष्ठन्नस्नानजपहोमीशुष्कपाद उदङ्मुखो वा न-अश्नाति ०२१४१३११३। भिन्नपात्रेन्नं पर्युषितंशयनासनोत्सङ्गस्थं वा न भुञ्जीत ०२१४१३११३-१४। अञ्जलिनापो न पिबेद् ०२१४१३११४-१५। उच्छिष्टाशुच्याशौचिपतिततैः स्पृष्ठंसूतकप्रेतके चान्नं न-अश्नीयात् ०२१५१३२१। तिलसक्तुदधिलाजं च रात्रावभक्ष्यम् ०२१५१३११-२। अन्नं पर्युषितमाज्येन दध्ना वा युक्तं भोज्यं ०२१५१३१२-३। क्रिमिकेशकीटयुतं गवाघ्रातं पक्षिजग्धं च भस्माद्भिः प्रोक्षितं शुद्धं ०२१५१३१३-५ श्वकाकाद्युपहते बह्वन्ने तस्मिन् पुरुषाशमनमात्रं तत्रैवोद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्मजलैः प्रोक्ष्य दर्भोल्कया स्पर्शयित्वा गृह्णीयात् ०२१५१३२६-७। प्रसूतेन्तर्दशाहे गोक्षीरंसदैकशफोष्ट्रस्त्रीणां पयश्च पलाण्डुकवकलशुनगृञ्चनविड्जमनुक्तंरेअदिन्गुन्चेर्तैन् Cअल्प्१३२ १। मत्स्यमांसं च वर्जनीयं ०२१५१३२८। यज्ञशिष्टं मांसं भक्षणीयम् ०२१५१३२८-९। उदक्यास्पृष्टं शूद्रानुलोमैः स्पृष्टं तेषामन्नं च वर्जयेत् ०२१५१३२९-१०। स्वधर्मानुवर्तिनां शूद्रानुलोमानामामंक्षुधितस्य संग्राह्यं ०२१५१३२१०-११। सर्वेषां प्रतिलोमान्तरालव्रात्यानामामंपक्वं च क्षुधितो-अपि यत्नान्न गृह्णीयात् ०२१५१३२११-१२। तैः स्पृष्टिसंमिश्रं परपक्वं च संत्यजति ०२१५१३२१२-१३ नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन्मनोवाक्कायकर्मभिः शनैर्धर्मं समाचरति ०३०११३३१-२। गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवंदण्डं कमण्डलुं च धारयेत् ०३०११३२२-३। स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणिश्रौताग्निषु श्रौतानि कुर्यात् ०३०११३३३-४। सायं च होमान्तेतिथीनभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या शयीत ०३०११३३४-५। आर्द्रपादः प्रत्यगुत्तरशिराश्न स्वपित्य्- ०३०११३३५। ऋतुरात्रिषु स्वभार्यामुपगच्छेद् ०३०११३३५-६ आदौ त्रिरात्रमृतुमतीगमनसहासनशयनानि वर्जयेत् ०३०११३३६-७। परदारान्न संगच्छेत् ०३०११३३७। परदारगमनादायुः श्रीर्ब्रह्मवर्चसंविनश्यति ०३०११३३७-८। भार्यया सह न-अश्नात्य् ०३०११३३८। अश्नन्तीं तां जृम्भमाणां नग्नां च न-अवलोकयेत् ०३०११३३९। असत्यवादं वर्जयत्य् ०३०११३३९। असत्यात्परं पापं सत्यात्परो धर्मश्च न-अस्ति ०३०११३३१०-११ सर्वप्राणिहितो-अद्रोहेणैवजीवेच्-शुद्धार्थवान् कुसूलधान्यः कुम्भीधान्यो-अश्वस्तनिको वा स्यात् ०३०११३३११-१२। द्विजातिः पतितान्त्यजातान्न स्पृशेद् ०३०११३३१२। उदयेस्तमये च सूर्यं न-ईक्षेत ०३०११३३१२-१३ देवगुरुविप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन्प्रदक्षिणं गच्छेत् ०३०२१३३१४।स्नातकराजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयोCअल्रेअद्स्ज्येष्ठ इन्स्तोf श्रेष्ठ, ट्र्प्२१४ १ ०३०२१३३१५। वातार्करश्मिभिः पन्थानः शुध्यन्ति ०३०२१३३१५-१६। परस्यासनशयनान्यदत्तानि न-उपयुञ्जीत ०३०२१३३१६। अदत्तेषूपयुक्तेषु स्वपुण्यचतुर्थांशो जहाति ०३०२१३३१७ न्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणिनैव धारयेद् ०३०२१३३१७-१९। अग्नौ पादं न तापयेन्। नैनं मुखेनधमेन्नपादेन स्पृशे अधः पादतो न कुर्याद् ०३०२१३३१९-१३४१। अग्नावग्निं वा देवालयेग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्लेष्मोच्छिष्टाङ्गनिष्पेषान्न प्रक्षिपेत् ०३०२१३४१-२। नग्नां परस्त्रियं विण्मूत्रे च न पश्येद् ०३०२१३४२-३। उच्छिष्टो देवार्कचन्द्रग्रहर्क्षतारा न-ईक्षेत ०३०२१३४३-४। देवगुरुस्नातकदीक्षितराजगोश्रेष्ठानांछायां न- आक्रमति ०३०२१३४४। इन्द्रधनुः परस्मै न दर्शयेन्न वदेत् ०३०२१३४४-५। स्वपन्तं न-अवबोधयेद् ०३०२१३४५। एको-अध्वानं न गच्छेत् ०३०२१३४५-६। परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च नवारयेन्। न- एव-आचक्षीत ०३०२१३४६। जीर्णमलवासा न स्यात् ०३०३१३४७। अक्षैः क्रीडां प्रेतधूमं बालातापं चवर्जयेत् ०३०३१३४७-९। केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणितरेतःश्लेष्मोच्छिष्टान्न-अधितिष्ठेत् ०३०३१३४९-१० अमेध्यलिप्तेङ्गे यावत्तत्लेपगन्धमनःशङ्का न स्यात् । तावन्मृत्तोयैः शोधयेत् ०३०३१३४१०-११ पतितान्त्यजमूर्खाधार्मिकवैरिभिःसार्धं न वसेद् ०३०३१३४११। उच्छिष्टो-अशुचिर्वा देवगोविप्राग्नीन्न स्पृशेत् ०३०३१३४११-१२। देवान् वेदान् राजगुरुमातापितृऋन्विद्वद्ब्राह्मणान्न- अवमन्येत् न निन्देद् ०३०३१३४१२-१३। अवमन्ता निन्दकश्च विनश्यति ०३०३१३४१३-१४। सर्वभूतकुत्सां ताडनं च न कुर्वीत ०३०३१३४१४-१५ गुरुणा मातापितृभ्यां तत्पित्राद्यैर्भ्रातृपितृभ्रातृमातुलाचार्यर्त्विजाद्यैर्विवादं न-आचरेत् ०३०३१३४१५-१६। सर्वशुद्धिषु पुरुषस्यार्थशुद्धिःस्त्रीशुद्धिरन्नशुद्धिश्च श्रेष्ठतमा स्यात् ०३०३१३४१६-१३५१ द्रव्येषु रत्नसौवर्णरजतमयान्यद्भिःशोधयत्य् । अग्नौ वा स्पर्शयति ०३०३१३५१-३। ताम्रत्रपुसीसायसाद्यान्यम्लवारिभिर्दारुदन्तजातानि तक्षणाद्धावनाद्वा यज्ञपात्राणि दक्षिणपाणिना मार्जनात्क्षालनाद्वा संशोध्यानि ०३०४१३५४-५ चर्ममयसंहतानि वस्त्राणि शाकमूलफलानिच प्रोक्षये अल्पानि क्षालयेत् ०३०४१३५५-६। घृतादीनि द्रव्याण्युत्पूयोल्कया दर्शयेत् ०३०४१३५६-९। कौशेयाविकान्यूषैरंशुतट्टानिCअल्रेअद्संशुपट्ट- इन् हिस्त्र्प्२१६। श्रीफलैः शङ्खशुक्तिगोशृङ्गाणि सर्षपैः सवारिभिर्मृत्मयानि पुनर्दाहेन गृहं मार्जनोपलेपनाप्सेकैर्भूमिं खननादन्यमृत्पूरणगोवासकाद्यैर्मार्जनाद्यैश्च शोधयेद् ०३०४१३५९। गोतृप्तिकरं भूगतं तोयं दोषविहीनं सुपूतं ०३०४१३५९-१०। वाक्शस्तं वारिनिर्णिक्तमदृष्टं ०३०४१३५१०-११ योषिदास्यं कारुहस्तः प्रसारितपण्यं चसर्वदा शुद्धं ०३०४१३५११। शकुन्युच्छिष्टं फलमनिन्द्यं ०३०४१३५११-१२। मशकमक्षिकानिलीनं तद्विप्रुषश्च न दूष्याणि ०३०४१३५१२-१३। वाय्वग्निसूर्यरश्मिभिः स्पृष्टं च मेध्यम् ०३०४१३५१३-१४। आतुरे बाले पचनालये च शौचं नविचारणीयं यथाशक्ति स्याद् ०३०४१३५१४। विण्मूत्राभ्यां बह्वापो न दूष्याः ०३०४१३५१४-१५ परस्याचामतस्तोयबिन्दुभिर्भूमौनिपत्योद्गतैः पादस्पृष्तैराचामयन्नाशुचिः स्यात् ०३०५१३६१-२। वानप्रस्थो नित्यस्वाध्यायी कुशेध्मादीनग्न्यर्थं शाकमूलफलान्यशनार्थं च शुचौ जातान्याहरेद् ०३०५१३६२-३। अन्याधीनमन्योत्सृष्टमशुचौ जातं गोरसंच वर्जयेत् ०३०५१३६३। धान्यधनसंचयं न कुर्वीत ०३०५१३६४। वस्त्रं न-आछादयेत् ०३०५१३६४। मधूक्ते तोयं मांसोक्ते पैष्टिकं गृह्णाति ०३०५१३६५-९। सर्वभूतेषु दयालुः समः क्षान्तः शुचिर्निरसूयकः सुखे निःस्पृहो मङ्गल्यवाणीर्ष्याकार्पण्यवर्जी मत्स्यादीन् दंशकान्सीरकृष्टजातानि कन्दमूलफलशाकादीनि च त्यजन्-जटाश्मश्रुरोमनखानि धारयंस्त्रिकालस्नायी धरा आशयो वन्यैरेव चरुपुरोडशान्निर्वपेत् ०३०५१३६९-११। पलाण्ड्वादीन्निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं चित्रकं शिग्रुं भूस्तृणं कोविदारं मूलकं चवर्जयति ०३०५१३६११-१२। मुनेः सर्वं मांसं गोमांसतुल्यं धान्याम्लं सुरासमं भवति ०३०५१३६१२। पूर्वसंचिताशनं पूर्वाणि वसनान्याश्वयुजेमासि त्यजति ०३०५१३६१३। वेदवेदान्तेन ध्यानयोगी तपः समाचरति ०३०५१३६१३-१३७२। अपत्नीको-अनग्निरदारो-अनिकेतनोवृक्षमूले वसन् वनस्थाश्रमेषु गृहस्थानां गृहेषु वा भिक्षांभिक्षित्वाम्बुपार्श्वे शुद्धे पर्णे प्राणयात्रामात्रमन्नं भिक्षुवदश्नाति ०३०५१३७२। शरीरं शोषयन्नुत्तरमुत्तरं तीव्रं तपः कुर्यात् ०३०६१३७४। भिक्षुः स्नात्वा नित्यं प्रणवेनात्मानं तर्पयेत् ०३०६१३७४-५। तेनैव नमस्कुर्यात् ०३०६१३७५-६। षडवरान् प्राणायामान् कृत्वा शतावरांसावित्रीं जप्त्वा सन्ध्यामुपासीत ०३०६१३७६। अप्पवित्रेणोत्पूताभिरद्भिराचामेत् ०३०६१३७६-७। काषायधारणं सर्वत्यागं मैथुनवर्जनमस्तैन्यादीनप्य्-आचरेत् ०३०६१३७७-१०। असहायो-अनग्निरनिकेतनो निःसंशयीसंमानावमानसमो विवादक्रोधलोभमोहानृतवर्जी ग्रामाद्बहिर्विविक्ते मठेदेवालये वृक्षमूले वा निवसेत् ०३०६१३७१०। चातुर्मासादन्यत्रैकाहादूर्ध्वमेकस्मिन् देशे न वसेद् ०३०६१३७१०-११। वर्षाः शरच्चातुर्मास्यमेकत्रैव वसेत् ०३०६१३७११-१३। त्रिदण्डे काषायाप्पवित्रादीन् योजयित्वा कण्ठे वामहस्तेन धारयन् दक्षिणेन भिक्षापात्रं गृहीत्वैककाले विप्राणांशुद्धानां गृहेषु वैश्वदेवान्ते भिक्षां चरेत् ०३०६१३७१४। भूमौ वीक्ष्य जन्तून् परिहरन् पादं न्यसेद् ०३०६१३७१४-१५। अधोमुखस्तिष्ठन् भिक्षामालिप्सते ०३०७१३७१६। गोदोहनकालमात्रं तदर्धं वा स्थित्वा व्रजेद् ०३०७१३७१६-१७। अलाभेप्य्-अवमानेप्य्-अविषादी लब्धेसंमानेप्यसंतोषी स्यात् ०३०७१३७१७-१८। द्रुतं विलम्बितं वा न गच्छेत् ०३०७१३७१८। भिक्षाकालादन्यत्र परवेश्म न गन्तव्यं ०३०७१३७१९। भिक्षितुं क्रोशादूर्ध्वं न गच्छेत् ०३०७१३७१९-१३८३। भिक्षां चरित्वा तोयपार्श्वेप्रक्षालितपाणिपाद- आचम्योदु त्यमित्य्-आदित्यायातो देवा इति विष्णवे ब्रह्म जज्ञामिति ब्रह्मणे च भिक्षाग्रं दत्त्वा सर्वभूतेभ्येति बलिं प्रक्षिपेत् ०३०७१३८३-४। पाणिनाग्निहोत्रविधानेनात्मयज्ञं संकल्प्य प्राणयात्रामात्रमष्टौ ग्रासान् वा-अश्नीयात्कामं न-अश्नाति ०३०७१३८५। वस्त्रपूतं जलं पीत्वाचम्य-आचामति ०३०७१३८५। निन्दाक्रोशौ न कुर्वीत ०३०७१३८६। बन्धूञ्ज्ञातींस्त्यजेद् ०३०७१३८६। वंशचारित्रं तपः श्रुतं न वदेत् ०३०७१३८६-८ सङ्गं त्यक्त्वा नियमयमी प्रियं सत्यं वदन्सर्वभूतस्याविरोधी समः सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्मपश्यन् धारणां धारयेद् ०३०७१३८८-९। अक्षरं ब्रह्म-आप्नोति ०३०७१३८९। नारायणः परं ब्रह्मेति श्रुतिः ०३०८१३८१०-१३। संन्यासिनो-अनाहिताग्नेर्देहं मृतं पुत्रो-अन्योवा तृणैरन्तरीकृत्य शुद्धैर्ब्राह्मणैर्यन्त्रेण वा संनिधाय समुद्रगाम्यांनद्यां तीरे वा सैकते देशे सृगालादिभिरस्पृश्यं यथा तथावटं खनति ०३०८१३८१३-१३९१। गायत्र्या स्नापयित्वा तथातत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर्मन्त्रैस्त्रिदण्डं संन्यस्य सव्ये यदस्य पारेरजस इति शिक्यमप्पवित्रमुदरे सावित्र्या भिक्षापात्रं गुह्यप्रदेशे भूमिर्भूमिमिति काषायं मृद्ग्रहणीं कमण्डलुं च संन्यस्य पिदध्यात् ०३०८१३९१-२ तस्मिन् सृगालादिभिः स्पृष्टे तत्कर्ता पापीयान्भवति ०३०८१३९२-६। आहिताग्नेरग्नीनात्मन्यारोप्य संन्यसिनो मृतंदेहं गायत्र्या स्नापयित्वा पूर्ववद्वाहयित्वा शुद्धे देशे निधाय लौकिकाग्नौ तदग्निमुपावरोहेत्यवरोप्य पवित्रं तेति घृतक्षीरमास्ये प्रक्षिप्य पूर्ववत्त्रिदण्डादीन् विन्यस्य ब्रह्ममेधेन पितृमेधेन वाहिताग्निमन्त्रैस्तदग्निभिर्दहनमाचरति ०३०८१३९७ तयोराशौचोदकबलिपिण्डदानैकोद्दिष्टादीन्नैव कुर्यात् ०३०८१३९८। नारायणबलिं करोति ०३०८१३९८-९। तद्वहनं खनित्वा पिधानं दहनंनारायणबलिं वा यः कुर्यात् । सो-अश्वमेधफलं समाप्नुयात् ०३०९१३९१०-१४ नारायणबलिं नारायणादेवसर्वार्थसिद्धिरिति ब्रह्मणाद्यैर्नरैर्हतस्यात्मघातिनोरज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः सर्वपापमृतस्यादाह्यानामन्येषां भिक्षोश्चैकादशदिनादूर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सरादूर्ध्वंसपिण्डीकरणस्थाने मृतकार्थमपरपक्षे द्वादश्यां श्रवणे वा करोति ०३०९१३९१४-१५। पूर्वेहनि द्वादश ब्राह्मणान्निमन्त्रयेद् ०३०९१३९१५-१६। अपरेहनि विष्णोरालयपार्श्वे नदीतीरेगृहे वाग्न्यायतनं कृत्वाघारं जुहुयाद् ०३०९१३९१६-१५०२। अग्निं परिस्तीर्याग्नेर्वायव्यां विष्टरेदर्भेषु तद्रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्यायन्नों भूः पुरुषमित्य्-आद्यैःप्राङ्मुखं देवं नारायणमावाह्यासनपाद्याचमनानि दद्यात् ०३०९१४०२-४। पुरुषसूक्तेन स्नापयित्वा नारायणायविद्महेत्यष्टाक्षरमन्त्रेण वा वस्त्रोत्तरीयाभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षताचमनैरर्चयति ०३१०१४०५। केशवाद्यैर्द्वादशनामभिरद्भिस्तर्पयेत् ०३१०१४०५-६। परिषिच्य सहस्रशीर्षाद्यैर्विष्णोर्नुकाद्यैर्द्वादशनामभिश्चाज्यं चरुं जुहुयात् ०३१०१४०७-८। गुडाज्यफलयुक्तं पायसं हविर्विष्णुगायत्र्या देवेशाय निवेद्य पाद्याचमनमुखवासं दद्यात् ०३१०१४०८-१३ अग्नेर्दक्षिणे दर्भेषूतराग्रेषु दक्षिणाद्यर्चयित्वा। नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादायपरमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणे- अव्यक्ताय सर्वकारणाय यज्ञेश्वराययज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्येत्यन्तैः पायसं बलिंदत्त्वा- आज्यमेभिर्जुहोति ०३१०१४०१३-१६ ब्राह्मणान् पादौ प्रक्षाल्य नवानिवस्त्रोत्तरीयाभरणानि दत्त्वा पुष्पाद्यैः पूजयित्वा द्वादशमूर्तिं ध्यायन्नुपदंशघृतगुडदधिफलयुक्तं श्वेतमन्नं भोजयित्वायथाशक्ति सुवर्णं दक्षिणां ददाति ०३१०१४०१६-१४११। सहस्रशीर्षाद्यैः स्तुत्वाद्वादशनामभिः प्रणमेदन्तहोमं जुहोत्य् ०३१०१४११-२। अभीष्टां परां गतिं स गत्वा विष्णोर्लोकेमहीयते ०३१११४१३-४। चातुर्वर्ण्यसंकरेणोत्पन्नानामनुलोमप्रतिलोमान्तरालव्रात्यानामुत्पत्तिं नाम वृत्तिं च- ०३१११४१४-५। ऊर्ध्वजातादधोजातायां जातो-अनुलोमो- ०३१११४१५। अधरोत्पन्नादूर्ध्वजातायां जातः प्रतिलोमस् ०३१११४१५-६। ततो-अनुलोमादनुलोम्यां जातो-अन्तरालः ०३१११४१६-७। प्रतिलोमात्प्रतिलोम्यां जातो व्रात्यो भवति ०३१११४१७-८। ब्रह्मणो मुखादुद्भूता ब्राह्मणा ब्राह्मण्यश्च ब्रह्मर्षयः पत्न्यो बभूवुस् ०३१११४१८-९। तेषां गात्रोत्पन्नाद्ब्राह्मण्यामसगोत्रायांविधिना समन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो भवेत् ०३१११४११०-११ विधिहीनमन्यपूर्वायां गोलकोहर्तृकायां कुण्डश्च विप्रौ द्वौ निन्दितौ स्यातां ०३१११४१११-१२। तस्मादधो बाहुभ्यामात्क्षत्रियात्क्षत्रियायां विधिवत्-जातः क्षत्रियः शुद्धस् ०३१११४११२-१४। तयोरविधिकं गूढोत्पन्नो-अशुद्धोभोजाख्यो नैव-अभिषेच्यः पट्टबन्धो राज्ञः सैनापत्यं करोति ०३१११४११४-१५। शुद्धाभावेपट्टबन्धो नृऋन् पायात् ०३१११४११५। तद्वृत्तं राजवत्स्यात् ०३१११४११५-१४२१। अधस्तादूरुभ्यामाद्वैश्याद्वैश्यायां तथा वैश्यः शुद्धो ०३१११४२१-२। विधिवर्जं मणिकारो-अशुद्धो मणिमुक्तादिवेधः शङ्खवलयकारी स्यात् ०३१२१४२३। अथ पद्भ्यामुत्पन्नात्-शूद्रात्-शुद्रायां न्यायेनशूद्रः शुद्धः ०३१२१४२४-५। जारान्मालवको निन्दितःशूद्रो-अश्वपालो-अश्वतृणहारी च- ०३१२१४२५। इत्येते चातुर्वर्णिकास् ०३१२१४२५-६। तेषामेव संस्करेणोत्पन्नाः सर्वेनुलोमाद्याः ०३१२१४२६-७। ब्राह्मणात्क्षत्रियकन्यायां जातः सवर्णो-अनुलोमेषु मुख्यो ०३१२१४२७-८ अस्य वृत्तिराथर्वणंकर्माश्वहस्तिरथसंवाहनमारोहणं रज्ञः सैनापत्यं चायुर्वेदकृत्यं ०३१२१४२८। गूढोत्पन्नो-अभिनिषक्ताख्यो- ०३१२१४२९। अभिषिक्तश्चेत्-नृपो भूयादष्टाङ्गमायुर्वेदंभूततन्त्रं वा संपटेत् ०३१२१४२९-११ तदुक्ताचारो दयायुक्तः सत्यवादीतद्विधानेन सर्वप्राणिहितं कुर्यात् ०३१२१४२११। ज्योतिर्गणनादिकाधिकवृत्तिर्वा ०३१२१४२११-१२। विप्राद्वैश्यायामम्बष्ठःकक्ष्याजीव्याग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी ०३१२१४२१३। जरात्कुम्भकारः कुलालवृत्तिर्नापितो नाभेरूर्ध्ववप्ता च ०३१२१४२१४-१५। क्षत्रियाद्वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महानर्माख्यश्च वैश्यवृत्तिः क्षात्रं कर्म न-आचरति ०३१२१४२१५। गूढादाश्विको-अश्वक्रयविक्रयी स्यात् ०३१३१४३१-२। विप्रात्-शूद्रायां पारशवो भद्रकालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिर् ०३१३१४३२-३। जारोत्पन्नो निषादो व्याडादिमृगहिंसाकारी ०३१३१४३३। राजन्यतः शूद्रायामुग्रः सुदण्ड्यदण्डनकृत्यो ०३१३१४३३-४। जारात्-शूलिकः शूलारोहणादियातनाकृत्यो ०३१३१४३४-५। वैश्यतः शूद्रायां चूचुकः क्रमुकताम्बूलशर्करादिक्रयविक्रयी ०३१३१४३५-६। गूढात्कटकारः कटकारी चेति ०३१३१४३६-७। ततो-अनुलोमादनुलोमायां जातश्चानुलोमःपितुर्मातुर्वा जातं वृत्तिं भजेत ०३१३१४३७-९। क्षत्रियाद्विप्रकन्यायां मन्त्रवत्- जातः सूतःप्रतिलोमेषु मुख्यो-अयं मन्त्रहीनोपनीतो द्विजधर्महीनो ०३१३१४३९। अस्य वृत्तिर्धर्मानुबोधनं राज्ञो-अन्नसंस्कारश्च ०३१३१४३१०-११। जारेण मन्त्रहीनजो रथकारोद्विजत्वविहीनः शूद्रकृत्यो- अश्वानां पोषणदमनादिपरिचर्याजीवी ०३१३१४३११-१३। वैश्याद्ब्राह्मण्यां मागधः शूद्रैरप्यभोज्यान्नो- अस्पृश्यः सर्ववन्दी प्रशंसाकीर्तनगानप्रेषणवृत्तिर् ०३१३१४३१३। गूढाच्चक्री लवणतैलविक्रेता स्यात् ०३१४१४३१४-१५। वैश्यान्नृपायामायोगवस्तन्तुवायः पटकर्ता वस्त्रकांस्योअप्जीवी ०३१४१४३१५। गूढाचारात्पुलिन्दो-अरण्यवृत्तिर्दुष्टमृगसत्त्वघाती ०३१४१४३१६-१७। शूद्रात्क्षत्रियायां पुल्कसः कृतकां वाआर्क्षां वा सुरां हुत्वा पाचको विक्रीनीत ०३१४१४३१७। चोरवृत्ताद्वेलवो जन्भननर्तनगानकृत्यः ०३१४१४४१-२। शूद्राद्वैश्यायां वैदेहकः शूद्रास्पृश्यस्तैरप्यभोज्यान्नो वन्यवृत्तिरजमहिषगोपालस्तद्रसान् विक्रयी ०३१४१४४२-३। चौर्याच्चक्रिको लवणतैलपिण्याकजीवी ०३१४१४४३-६। शूद्राद्ब्राह्मण्यां चण्डालःसीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षेरीयुक्तो यतस्ततश्चरन् सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ वीथ्यामन्यत्रापि मलान्यपकृष्य बहिरपोहयति ०३१४१४४६। ग्रामाद्बहिर्दूरे स्वजातीयैर्निवसेत् ०३१४१४४६-७। मध्याह्नात्परं ग्रामे न विशत्य् । अयं ०३१४१४४७। विशेच्चेद्राज्ञा वध्यो ०३१४१४४७-८। अन्यथा भ्रूणहत्यामवाप्नोत्य् ०३१४१४४८। अन्तराल्व्रत्याश्च ०३१४१४४८-१०। चूचुकाद्विप्रायां तक्षको-अस्पृश्योझल्लरीहस्तो दारुकारः सुवर्णकारो-अयस्कारः कांस्यकारो वा ०३१४१४४१०। क्षत्रियायां मत्स्यबन्धुर्मत्स्यबन्धी ०३१४१४४१०-११ ऐश्यायां सामुद्रः समुद्रपण्यजीवीमत्स्यघाती च स्यात् ०३१५१४४१२-१३। अम्बष्ठाद्विप्रायां नाविकःसमुद्रपण्यमत्स्यजीवी समुद्रलङ्घनां नावं प्लावयति ०३१५१४४१३-१४। क्षत्रियायामधोनापितो नाभेरधो रोमवप्ता ०३१५१४४१४। मद्गोर्विप्रायां वेणुको वेणुवीणावादी ०३१५१४४१४-१५। क्षत्रियायां कर्मकरः कर्मकारी ०३१५१४४१५। वैदेहकाद्विप्रायां चर्मकारश्चर्मजीवी ०३१५१४४१६। नृपायां सूचिकः सूचीवेधनकृत्यवान् ०३१५१४४१६-१७। आयोगवाद्विप्रायां ताम्रस्ताम्रजीवी ०३१५१४४१७। नृपायां खनकः खननजीवी ०३१५१४४१७-१८ खननान्नृपायामुद्बन्धकः शूद्रास्पृश्यो वस्त्रनिर्णेजकः ०३१५१४४१८-१९। पुल्कसाद्विप्रायां रजको वस्त्राणांरजोनिर्णेजकश् ०३१५१४४१९-१४५२। चण्डालाद्विप्रायां श्वपचः चण्डालवच्चिह्नयुक्तो नित्यनिन्द्यः सर्वकर्मबहिष्कार्यो नगर्यादौ मलापोहकः श्मशाने वसन् हेयपात्रग्राही प्रेतमबन्धुकं विसृजेत ०३१५१४५३-४। वध्यान् हत्वा तद्वस्त्रादिग्राहीपराधीनाहारो भिन्नपात्रभोजी श्वमांसभक्षी चर्मवारवाणवाणिज्यकारी स्यात् ०३१५१४५४-५। तस्मान्निकृष्टे सुते समुत्पन्ने पतितो नष्टोघोरान्नरकान् व्रजति ०३१५१४५५-६। सत्पुत्रो नरकेभ्यस्त्रायकः पितृऋन्पावयित्वा। शुभांल्लोकान्नयति ०३१५१४५६-८। तस्माद्ब्राह्मणाद्याः सवर्णायां विधिवत्पुत्रमुत्पादयेयुर्-इति विखनाः Eन्दोf थे तेxत्