॥ अथ बौधायनधर्मसूत्रम् ॥ ११११। उपदिष्टो धर्मः प्रतिवेदम् ॥ १११२। तस्यानु व्याख्यास्यामः ॥ १११३। स्मार्तो द्वितीयः ॥ १११४। तृतीयः शिष्टागमः ॥ १११५। शिष्टाः खलु विगतमत्सरा निरहंकाराः कुम्भीधान्याअलोलुपा दम्भदर्पलोभमोहक्रोधविवर्जिताः ॥ १११६ धर्मेणाधिगतो येषां वेदः सपरिबृंहणः । १११६ शिष्टास्तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः ॥ इति ॥[च्f Vअ ६४३; ं १२१०९] १११७। तदभावे दशावरा परिषत् ॥ १११८। अथाप्युदाहरन्ति । १११८ चातुर्वैद्यं विकल्पी च अङ्गविद्धर्मपाठकः । १११८ आश्रमस्थास्त्रयो विप्राः पर्षदेषा दशावरा ॥ १११९ पञ्च वा स्युस्त्रयो वा स्युरेको वा स्यादनिन्दितः । १११९ प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः ॥ ११११० यथा दारुमयो हस्ती यथा चर्ममयो मृगः । ११११० ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ १११११ यद्वदन्ति तमस्मूढा मूर्खा धर्ममजानतः । १११११ तत्पापं शतधा भूत्वा वक्तॄन् समधिगच्छति ॥ ११११२ बहुद्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः । ११११२ तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशये ॥ ११११३ धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः । ११११३ क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ॥ ११११४ यथाश्मनि स्थितं तोयं मारुतार्कौ प्रणाशयेत् । ११११४ तद्वत्कर्तरि यत्पापं जलवत्संप्रलीयते ॥ ११११५ शरीरं बलमायुश्च वयः कालं च कर्म च । ११११५ समीक्ष्य धर्मविद्बुद्ध्या प्रायश्चित्तानि निर्दिशेत् ॥ ११११६ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । ११११६ सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ इति ॥ ११२१। पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः ॥ ११२२। यानि दक्षिणतस्तानि व्याख्यास्यामः ॥ ११२३। यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनंपर्युषितभोजनं मातुलपितृस्वसृदुहितृगमनमिति ॥ ११२४। अथोत्तरत ऊर्णाविक्रयः सीधुपानमुभयतस्दद्भिर्व्यवहार आयुधीयकं समुद्रसंयानमिति ॥ ११२५। इतरदितरस्मिन् कुर्वन् दुष्यतीतरदितरस्मिन् ॥ ११२६। तत्र तत्र देशप्रामाण्यमेव स्यात् ॥ ११२७। मिथ्यैतदिति गौतमः ॥ ११२८। उभयं चैव । नाद्रियेत शिष्टस्मृतिविरोधदर्शनात् ॥ ११२९। प्रागादर्शात्प्रत्यक्कनखलाद्[Kashi Sanskrit Series: कालकवनाद्] दक्षिणेनहिमवन्तमुदक्पारियात्रमेतदार्यावर्तम् । तस्मिन् य आचारः सप्रमाणम् ॥ ११२१०। गङ्गायमुनयोरन्तरमित्येके ॥ ११२११। अथाप्यत्र भाल्लविनो गाथामुदाहरन्ति ॥ ११२१२ पश्चात्सिन्धुर्विधरणी सूर्यस्योदयनं पुरः । ११२१२ यावत्कृष्णा विधावन्ति तावद्धि ब्रह्मवर्चसम् ॥ इति ॥ ११२१३ अवन्तयसङ्गमगधाः सुराष्ट्रा दक्षिणापथाः । ११२१३ उपावृत्सिन्धुसौवीरा एते संकीर्णयोनयः ॥ ११२१४। आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान्प्रानूनानिति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा ॥ ११२१५-१। अथाप्युदाहरन्ति । ११२१५-२ पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते । ११२१५-२ ऋषयो निष्कृतिं तस्य प्राहुर्वैश्वानरं हविः ॥ ११२१६ बहूनामपि दोषाणां कृतानां दोषनिर्णये । ११२१६ पवित्रेष्टिं प्रशंसन्ति सा [! दिसग्रेएमेन्त्] हि पावनमुत्तमम् ॥ इति ॥ ११२१७-१। अथाप्युदाहरन्ति । ११२१७-२ वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च । ११२१७-२ ऋतवृतौ प्रयुञ्जानः पापेभ्यो विप्रमुच्यते ॥ पापेभ्योविप्रमुच्यत इति ॥ १२३१। अष्टाचत्वारिंशद्वर्षाणि पौराणं वेदब्रह्मचर्यम् ॥ १२३२। चतुर्विंशतिं द्वादश वा प्रतिवेदम् ॥ १२३३। संवत्सरावमं वा प्रतिकाण्डम् ॥ १२३४। ग्रहणान्तं वा जीवितस्यास्थिरत्वात् ॥ १२३५। कृष्णकेशसग्नीनादधीतेति श्रुतिः ॥ १२३६ नास्य कर्म नियच्छन्ति किंचिदा मौञ्जिबन्धनात् । १२३६ वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते ॥िति ॥ १२३७। गर्भादिः संख्या वर्षाणाम् । तदष्टमेषु ब्राह्मणमुपनयीत ॥ १२३८। त्र्यधिकेषु राजन्यम् ॥ १२३९। तस्मादेकाधिकेषु वैश्यम् ॥ १२३१०। वसन्तो ग्रीष्मः शरदित्यृतवो वर्णानुपूर्व्येण ॥ १२३११। गायत्रीत्रिष्टुब्जगतीभिर्यथाक्रमम् ॥ १२३१२। आ षोडशादा द्वाविंशादा चतुर्विंशादनात्यय एषां क्रमेण ॥ १२३१३। मौञ्जी धनुर्ज्या शाणीति मेखलाः ॥ १२३१४। कृष्णरुरुबस्ताजिनान्यजिनानि ॥ १२३१५। मूर्धललाटनासाग्रप्रमाणा याज्ञिकस्य वृक्षस्य दण्डाः ॥ १२३१६। भवत्पूर्वां भिक्षामध्यां याच्ञान्तां भिक्षां चरेत्सप्ताक्षरां क्षां च हिं च न वर्धयेत् ॥ १२३१७। भवत्पूर्वां ब्राह्मणो भिक्षेत भवन्मध्यां राजन्योभवदन्तां वैश्यः सर्वेषु वर्णेषु ॥ १२३१८। ते ब्राह्मणाद्याः स्वकर्मस्थाः ॥ १२३१९। सदारण्यात्समिध आहृत्यादध्यात् ॥ १२३२०। सत्यवादी ह्रीमाननहंकारः ॥ १२३२१। पूर्वोत्थायी जघन्यसंवेशी ॥ १२३२२। सर्वत्राप्रतिहतगुरुवाक्यसन्यत्र पातकात् ॥ १२३२३। यावदर्थसंभाषी स्त्रीभिः ॥ १२३२४।नृत्तगीतवादित्रगन्धमाल्योपानच्छत्त्रधारणाञ्जनाभ्यञ्जनवर्जी ॥ १२३२५। दक्षिणं दक्षिणेन सव्यं सव्येन चोपसंगृह्णीयात् ॥ १२३२६। दीर्घमायुः स्वर्गं चेप्सन् काममन्यस्मै साधुवृत्तायगुरुणानुज्ञातः ॥ १२३२७। असावहं भो इति श्रोत्रे संस्पृश्य मनःसमाधानार्थम् ॥ १२३२८। अधस्ताज्जान्वोरा पद्भ्याम् ॥ १२३२९। नासीनो नासीनाय न शयानो न शयानाय नाप्रयतोनाप्रयताय ॥ १२३३०। शक्तिविषये मुहूर्तमपि नाप्रयतः स्यात् ॥ १२३३१। समिद्धार्युदकुम्भपुष्पान्नहस्तो नाभिवादयेद्यच्चान्यदप्येवंयुक्तम् ॥ १२३३२। न समवायेभिवादयेदत्यन्तशः ॥ १२३३३। भ्रातृपत्नीनां युवतीनां च गुरुप्त्नीनां जातवीर्यः ॥ १२३३४। नौशिलाफलककुञ्जरप्रासादकटेषु चक्रवत्सु चादोषम्सहासनम् ॥ १२३३५। प्रसाधनोत्सादन[Kashi Sanskrit Series:उच्छादन]स्नापनोच्छिष्टबोजनानीति गुरोः ॥ १२३३६। उच्छिष्टवर्जनं[Kashi Sanskrit Series: वर्जं] तत्पुत्रेनूचाने वा ॥ १२३३७। प्रसाधनोत्सादन[Kashi Sanskrit Series: उच्छादन]स्नापनवर्जनं[Kashi Sanskrit Series:वर्जं] च तत्पत्न्याम् ॥ १२३३८। धावन्तमनुधावेद्गच्छन्तमनुगच्छेत्तिष्ठन्तमनुतिष्ठेत् ॥ १२३३९। नाप्सु श्लाघमानः [Kashi Sanskrit Series: श्लघमानः] स्नायात् ॥ १२३४०। दण्ड इव प्लवेत् ॥ १२३४१। अब्राह्मणादध्ययनमापदि ॥ १२३४२। शुश्रूषानुव्रज्या च यावदध्ययनम् ॥ १२३४३। तयोस्तदेव पावनम् ॥ १२३४४। भ्रातृपुत्रशिष्येषु चैवम् ॥ १२३४५। ऋत्विज्श्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थायाभिभाषणम् ॥ १२३४६। प्रत्यभिवाद इति कात्यः ॥ १२३४७। शिशावाङ्गिरसे दर्शनात् ॥ १२४१ धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । १२४१ विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥ [च्f ं २११२] १२४२ अग्निरिव कक्षं दहति ब्रह्म पृष्टमनादृतम् । १२४२ तस्माद्वै शक्यं न ब्रूयाद्ब्रह्म मानमकुर्वताम् ॥ इति ॥ १२४३। एवास्मै [Kashi Sanskrit Series: अत्रैवास्मै] वचो वेदयन्ते ॥ १२४४। ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् । तस्मै ब्रह्मचारिणमेव न प्रायच्छत् । ससब्रवीदस्तु मह्यमप्येतस्मिन् भाग इति ।यामेव रात्रिं समिधं नाहरातईति ॥ १२४५। तस्माद्ब्रह्मचारी यां रात्रिं समिधं नाहरत्यायुषएव तामवदाय वसति । तस्माद्ब्रह्मचारी समिधमाहरेन्नेदायुषसवदाय वसानीति ॥ १२४६। दीर्गसत्त्रं वयेष उपैति यो ब्रह्मचर्यमुपैति । स यामुपयन् समिधमादधाति सा प्रायणीयाथ यां स्नास्यन्सोदयनीयाथ या अन्तरेण सत्त्र्या एवास्य ताः ॥ १२४७-१। ब्राह्मणो वै ब्रह्मचर्यमुपयन्चतुर्धा भूतानिप्रविशत्यग्निं पदा मृत्युं पदाचार्यं पदात्मन्येवास्यचतुर्थः पादः परिशिष्यते । १२४७-२। स यदग्नौ समिधमादधाति य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनमाविशति । १२४७-३। अथ यदात्मानं दरिद्रीक्रित्याह्रीर्भूत्वा भिक्षतेब्रह्मचर्यं चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणातितं संस्कृत्यात्मन् धत्ते स एनमाविशति । १२४७-४। अथ यदाचार्यवचः करोति य एवास्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनमाविशति । १२४७-५ अथ यत्स्वाध्यायमधीते य एवास्यात्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनमाविशति । १२४७-६। न ह वै स्नात्वा भिक्षेत । अपि ह वै स्नात्वा भिक्षांचरत्यपि ज्ञातीनामशनायापि पितॄणामन्याभ्यः क्रियाभ्यः । १२४७-७। स यदन्यां भिक्षितव्यां न विन्देतापि स्वामेवाचार्यजायां भिक्षेताथो स्वां मातरम् । १२४७-८। नैनं सप्तम्यभिक्षितातीयात् । १२४७-९ भैक्षस्याचरणे दोषः पावकस्यासमिन्धने । १२४७-९ सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत् ॥ १२४७-१०। तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति ॥ १२४८। यथा ह वा अग्निः समिद्धो रोचते एवं ह वयेष स्नात्वारोचते य एवं विद्वान् ब्रह्मचर्यं चरतीति ब्राह्मणम् । इतिब्राह्मणम् ॥ १३५१। अथ स्नातकस्य ॥ १३५२। अन्तर्वास उत्तरीयम् ॥ १३५३। वैणवं दण्डं धारयेत् ॥ १३५४। सोदकं च कमण्डलुम् ॥ १३५५। द्वियज्ञोपवीती ॥ १३५६। उष्णीषमजिनमुत्तरीयमुपानहौ छत्त्रं चोपासनंदर्शपूर्णमासौ ॥ १३५७। पर्वसु च केशश्मश्रुलोमनखवापनम् ॥ १३५८। तस्य वृत्तिः ॥ १३५९। ब्राह्मणराजन्यवैश्यरथकारेष्वामं लिप्सेत ॥ १३५१०। भैक्षं वा ॥ १३५११। वाग्यतस्तिष्ठेत् ॥ १३५१२। सर्वाणि चास्य देवपितृसंयुक्तानि पाकयज्ञसंस्थानिभूतिकर्मानि कुर्वीतेति ॥ १३५१३। एतेन विधिना प्रजापतेः परमेष्ठिनः परमर्षयः परमांकाष्ठां गच्छन्तीति बौधायनः ॥ १४६१। अथ कमण्डलुचर्यामुपदिशन्ति ॥ १४६२-१ छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे । १४६२-१ अप्सु चैव कुशस्तम्बे पावकः परिपठ्यते ॥ १४६२-२। तस्मात्शौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणं हितत् । उद्दीप्यस्व जातवेद इति पुनर्दाहाद्विशिष्यते ॥ १४६३। तत्रापि किंचित्संस्पृष्टं मनसि मन्येत [Kashi Sanskrit Series: मन्यते] कुशैर्वा तृणैर्वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥ १४६४। अत ऊर्ध्वं श्ववायसप्रभृत्युपहतानामग्निवर्ण इत्युपदिशन्ति ॥ १४६५। मूत्रपुरीषलोहित[Kashi Sanskrit Series: रोहित]रेतःप्रभृत्युपहतानामुत्सर्गः ॥ १४६६। भग्ने कमण्डलौ व्याहृतिभिः शतं जुहुयाज्जपेद्वा ॥ १४६७-१। भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्मपुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ॥ [= आस्ष्ष्३१४१२, आप्ष्ष्३०२०९, आप्ंড়् २१५१७; च्f षद्व्१६२०, Kashi Sanskrit Seriesऔस्ष्ष्३०२०९, Kashi Sanskrit Seriesऔस्ष्१३६२] १४६७-२। कपालानि संहृत्याप्सु प्रक्षिप्य सावित्रीं दशावरांकृत्वा पुनरेवान्यं गृह्णीयात् ॥ १४६८। वरुणमाश्रित्य । एतत्ते वरुण पुनरेव मामोमिति ।क्षरं ध्यायेत् ॥ १४६९ शूद्राद्गृह्य शतं कुर्याद्वैश्यादर्धशतं स्मृतम् । १४६९ क्षत्रियात्पञ्चविंशत्तु ब्राह्मणाद्दश कीर्तिताः ॥ १४६१०। अस्तमित आदित्य उदकं गृह्णीयान्न गृह्णीयादितिमीमांसन्ते ब्रह्मवादिनः ॥ १४६११। गृह्णीयादित्येतदपरम् ॥ १४६१२। यावदुदकं गृह्णीयात्तावत्प्राणम् [Kashi Sanskrit Series: प्राणान्] आयच्छेत् ॥ १४६१३। अग्निर्ह वै ह्युदकं गृह्णाति ॥ १४६१४। कमण्डलूदकेनाभिषिक्तपाणिपादो यावदार्द्रं तावदशुचिः परेषाम् । आत्मानमेव पूतं करोति । नान्यत्कर्मकुर्वीतेति विज्ञायते ॥ १४६१५। अपि वा प्रतिशौचमा मणिबन्धात्शुचिरिति बौधायनः ॥ १४६१६। अथाप्युदाहरन्ति ॥ १४७१-१ कमण्डलुर्द्विजातीनां शौचार्थं विहितः पुरा । १४७१-१ ब्रह्मणा मुनिमुख्यैश्च तस्मात्तं धारयेत्सदा ॥ १४७१-२ ततः शौचं ततः पानं संध्योपासनमेव च । १४७१-२ निर्विशङ्केन कर्तव्यं यदीच्छेत्श्रेय आत्मनः ॥ १४७२। कुर्यात्शुद्धेन मनसा न चित्तं दूषयेद्बुधः । सहकमण्डलुनोत्पन्नः स्वयंभूस्तस्मात्कमण्डलुना चरेत्[आचरेत्]॥ १४७३। मूत्रपुरीषे कुर्वन् दक्षिणे हस्ते गृह्णाति सव्य आचमनीयम्। एतत्सिध्यति साधूनाम् ॥ १४७४ यथा हि सोमसंयोगाच्चमसो मेध्य उच्यते । १४७४ अपां तथैव संयोगान्नित्यो मेध्यः कमण्डलुः ॥ १४७५। पितृदेवाग्निकार्येषु तस्मात्तं परिवर्जयेत् ॥ १४७६। तस्माद्विना कमण्डलुना नाध्वानं व्रजेन्न सीमन्तं नगृहाद्गृहम् ॥ १४७७। पदमपि न गच्छेदिषुमात्रादित्येके ॥ १४७८। यदिच्छेद्धर्मसंततिमिति बौधायनः ॥ १४७९। ऋग्विधेनेति वाग्वदति । ऋग्विधेनेति वाग्वदति ॥ [Kashi Sanskrit Series:ऋग्विधमृग्विधानं वाग्वदति ऋग्विधमृग्विधानं वाग्वदति ॥] १५८१। अथातः शौचाधिष्ठानम् ॥ १५८२ अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति । १५८२ अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥ १५८३। मनःशुद्धिरन्तःशौचम् ॥ १५८४। बहिःशौचं व्याख्यास्यामः ॥ १५८५। कौशं सौत्रं वा त्रिस्त्रिवृद्यज्ञोपवीतम् ॥ १५८६। आ नाभेः ॥ १५८७। दक्षिणं बाहुमुद्धृत्य सव्यमवधाय शिरसवदध्यात् ॥ १५८८। विपरीतं पितृभ्यः ॥ १५८९। कण्ठेवसक्तं निवीतम् ॥ १५८१०। अधसवसक्तमधोवीतम् ॥ १५८११। प्राङ्मुख उदङ्मुखो वासीनः शौचमारभेत शुचौ देशेदक्षिणं बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चामणिबन्धात् ॥ १५८१२। पादप्रक्षालनोच्छेषणेन नाचामेत् ॥ १५८१३। यद्याचामेद्भूमौ स्रावयित्वाचामेत् ॥ १५८१४। ब्राह्मेण तीर्थेनाचामेत् ॥ १५८१५। अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥ १५८१६। अङ्गुष्ठाग्रं पित्र्यमङ्गुल्यग्रं दैवमङ्गुलिमूलमार्षम् ॥ १५८१७। नाङ्गुलीभिर्न सबुद्बुदाभिर्न सफेनाभिर्नोष्णाभिर्न क्षाराभिर्न लवणाभिर्न कलुषाभिर्न विवर्णाभिर्नदुर्गन्धरसाभिः ॥ १५८१८। न हसन्न जल्पन्न तिष्ठन्न विलोकयन्न प्रह्वो न प्रणतोन मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणोनायज्ञोपवीती न प्रसारितपादो न बद्धकक्ष्यो न बहिर्जानुःशब्दमकुर्वन् ॥ १५८१९। त्रिरपो हृदयंगमाः पिबेत् ॥ १५८२०। त्रिः परिमृजेत् ॥ १५८२१। द्विरित्येके ॥ १५८२२। सकृदुभयं शूद्रस्य स्त्रियाश्च ॥ १५८२३-१। अथाप्युदाहरन्ति । १५८२३-२ गताभिर्हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः । १५८२३-२ वैश्यसद्भिः प्राशिताभिः स्यात्स्त्रीशूद्रौ स्पृश्यचान्ततः ॥ इति ॥ १५८२४ दन्तवद्दन्तसक्तेषु दन्तवत्तेषु धारणात् । १५८२४ स्रस्तेषु तेषु नाचामेत्तेषां संस्राववत्शुचिः ॥ इति ॥ १५८२५-१। अथाप्युदाहरन्ति । १५८२५-२ दन्तवद्दन्तलग्नेषु यच्चाप्यन्तर्मुखे भवेत् । १५८२५-२ आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तत्शुचिः ॥ इति ॥ १५८२६। खान्यद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्ततः ॥ १५८२७। तैजसं चेदादायोच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥ १५८२८। अथ चेदन्नेनोच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥ १५८२९। अथ चेदद्भिरुच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥ १५८३०। एतदेव विपरीतममत्रे ॥ १५८३१। वानस्पत्ये विकल्पः ॥ १५८३२। तैजसानामुच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥ १५८३३। ताम्ररजतसुवर्णानामम्लैः ॥ १५८३४। अमत्राणां दहनम् ॥ १५८३५। दारवाणां तक्षणम् ॥ १५८३६। वैणवानां गोमयेन ॥ १५८३७। फलमयानां गोवालरज्ज्वा ॥ १५८३८। कृष्णाजिनानां बिल्वतण्डुलैः ॥ १५८३९। कुतपानामरिष्टैः ॥ १५८४०। और्णानामादित्येन ॥ १५८४१। क्षौमाणां गौरसर्षपकल्केन ॥ १५८४२। मृदा चेलानाम् ॥ १५८४३। चेलवच्चर्मणाम् ॥ १५८४४। तैजसवदुपलमणीनाम् ॥ १५८४५। दारुवदस्थ्नाम् ॥ १५८४६। क्षौमवत्शङ्खशृङ्गशुक्तिदन्तानाम् ॥ १५८४७। पयसा वा ॥ १५८४८। चक्षुर्घ्राणानुकूल्याद्वामूत्रपुरीषासृज्शुक्रकुणपस्पृष्टानां पूर्वोक्तानामन्यतमेनत्रिःसप्तकृत्वः परिमार्जनम् ॥ १५८४९। अतैजसानामेवंभूतानामुत्सर्गः ॥ १५८५०। वचनाद्यज्ञे चमसपात्रानाम् ॥ १५८५१। न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥ १५८५२ कालसग्निर्मनसः शुद्धिरुदकाद्युपलेपनम् । १५८५२ अविज्ञातं च भूताणां षड्विधं शौचमुच्यते ॥ इति ॥ १५८५३-१। अथाप्युदाहरन्ति । १५८५३-२। कालं देशं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।ुपपत्तिमवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुःसमाचरेत् ॥ १५९१ नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । १५९१ ब्रह्मचारिगतं भैक्षं नित्यं मेध्यमिति श्रुतिः ॥ १५९२ वत्सः प्रस्नवने मेध्यः शकुनिः फलशातने । १५९२ स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ १५९३ आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् । १५९३ अदूष्याः संतता धारा वातोद्भूताश्च रेणवः ॥ १५९४ अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः । १५९४ तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च ॥ १५९५ चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् । १५९५ एतानि ब्राह्मणः स्पृष्ट्वा सचेलो जलमाविशेत् ॥ १५९६ आत्मशय्यासनं वस्त्रं जायापत्यं कमण्डलुः । १५९६ शुचीन्यात्मन एतानि परेषामशुचीनि तु ॥ १५९७ आसनं शयनं यानं नावः पथि तृणानि च । १५९७ चण्डालपतितस्पृष्टं मारुतेनैव शुध्यति ॥ १५९८ खलक्षेत्रेषु यद्धान्यं कूपवापीषु यज्जलम् । १५९८ अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥ १५९९ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । १५९९ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ १५९१० आपः पवित्रं भूमिगता गोतृप्तिर्यासु जायते । १५९१० अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ १५९११। भूमेस्तु संमार्जनप्रोक्षणोपलेपनावस्तरणोल्लेखनैर्यथास्थानं दोषविशेषात्प्रायत्यम् ॥ १५९१२। अथाप्युदाहरन्ति ॥ १५१०१ गोचर्ममात्रमब्बिन्दुर्भूमेः शुध्यति पातितः । १५१०१ समूढमसमूढं वा यत्रामेध्यं न लक्ष्यते ॥ इति ॥ १५१०२। परोक्षमधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् ॥ १५१०३। तथापणेयानां च भक्षाणाम् ॥ १५१०४। बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्त इति ॥ १५१०५-१ शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः । १५१०५-१ मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ १५१०५-२ प्रजापतिस्तु तानाह न समं विषमं हि तत् । १५१०५-२ हतमश्रद्दधानस्य श्रद्धापूतं विशिष्यते ॥ इति ॥ १५१०६-१। अथाप्युदाहरन्ति । १५१०६-२ अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः । १५१०६-२ तस्मादश्रद्धया दत्तं हविर्नाश्नन्ति देवताः ॥ १५१०७। इष्ट्वा दत्त्वापि वा मूर्खः स्वर्गं नहि स गच्छति ॥ १५१०८ शङ्काविहतचारित्रो यः स्वाभिप्रायमाश्रितः । १५१०८ शास्त्रातिगः स्मृतो मूर्खो धर्मतन्त्रोपरोधनात् ॥ इति ॥ १५१०९। शाकपुष्पफलमूलौषधीनां तु प्रक्षालनम् ॥ १५१०१०। शुष्कं तृणमयाज्ञिकं काष्ठं लोष्टं वातिरस्कृत्याहोरात्रयोरुदग्दक्षिणामुखः प्रवृत्य शिर उच्चरेदवमेहेद्वा ॥ १५१०११। मूत्रे मृदाद्भिः प्रक्षालनम् ॥ १५१०१२। त्रिः पाणेः ॥ १५१०१३। तद्वत्पुरीषे ॥ १५१०१४। पर्यायात्त्रिस्त्रिः पायोः पाणेश्च ॥ १५१०१५। मूत्रवद्रेतस उत्सर्गे ॥ १५१०१६। नीवीं विस्रस्य परिधायाप उपस्पृशेत् ॥ १५१०१७। आर्द्रं तृणं गोमयं भूमिं वा समुपस्पृशेत् ॥ १५१०१८। नाभेरधः स्पर्शनं कर्मयुक्तो वर्जयेत् ॥ १५१०१९। ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यमितिश्रुतिः ॥ १५१०२०। शूद्राणामार्याधिष्ठितानामर्धमासि मासि वा वपनमार्यवदाचमनकल्पः ॥ १५१०२१। वैश्यः कुसीदमुपजीवेत् ॥ १५१०२२। पञ्चविंशतिस्त्वेव पञ्चमाषिकी स्यात् ॥ १५१०२३-१। अथाप्युदाहरन्ति । १५१०२३-२ यः समर्घमृणं गृह्य महार्घं संप्रयोजयेत् । १५१०२३-२ स वै वार्द्धुषिको नाम सर्वधर्मेषु गर्हितः ॥ १५१०२३-३ वृद्धिं च भ्रूणहत्यां च तुलया समतोलयत् । १५१०२३-३ अतिष्ठद्भ्रूणहा कोट्यां वार्द्धुषिः समकम्पत ॥ इति ॥ १५१०२४ गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । १५१०२४ प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत् ॥ १५१०२५। कामं तु परिलुप्तकृत्याय कदर्याय नास्तिकाय पापीयसेपूर्वौ दद्याताम् ॥ १५१०२६ अयज्ञेनाविवाहेन वेदस्योत्सादनेन च । १५१०२६ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १५१०२७ ब्राह्मणातिक्रमो नास्ति मूर्खे मन्त्रविवर्जिते । १५१०२७ ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि हूयते ॥ १५१०२८ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया । १५१०२८ कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ १५१०२९ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । १५१०२९ कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ १५१०३० वेदः कृषिविनाशाय कृषिर्वेदविनाशिनी । १५१०३० शक्तिमानुभयं कुर्यादशक्तस्तु कृषिं त्यजेत् ॥ १५१०३१ न वै देवान् पीवरससंयतात्मा रोरूयमाणः ककुदीसमश्नुते । १५१०३१ चलत्तुन्दी रभसः कमवादी कृशास इत्यणवस्तत्रयान्ति ॥ १५१०३२ यद्यौवने चरति विभ्रमेण सद्वासद्वा यादृशं वायदा वा । १५१०३२ उत्तरे चेद्वयसि साधुवृत्तस्तदेवास्य भवतिनेतराणि ॥ १५१०३३ शोचेत मनसा नित्यं दुष्कृतान्यनुचिन्तयन् । १५१०३३ तपस्वी चाप्रमादी च ततः पापात्प्रमुच्यते ॥ १५१०३४ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । १५१०३४ न तैरुच्छिष्टभावः स्यात्तुल्यास्ते भूमिगैः सह् । इति ॥ १५१११। सपिण्डेष्वा दशाहमाशौचमिति जननमरणयोरधिकृत्यवदन्त्यृत्विग्दीक्षितब्रह्मचारिवर्जम् ॥ १५११२। सपिण्डता त्वा सप्तमात्सपिण्डेषु ॥ १५११३। आ सप्तमासादा दन्तजननाद्वोदकोपस्पर्शनम् ॥ १५११४ पिण्डोदकक्रिया प्रेते नात्रिवर्षे विधीयते । १५११४ आ दन्तजननाद्वापि दहनं च न कारयेत् ॥ १५११५। अप्रत्तासु च कन्यासु ॥ १५११६। प्रत्तास्वेके ह कुर्वते ॥ १५११७। लोकसंग्रहणार्थं हि तदमन्त्राः स्त्रियो मताः ॥ १५११८ स्त्रीणामकृतविवाहानां त्र्यहात्शुध्यन्ति बान्धवाः । १५११८ यथोक्तेनैव कल्पेन शुध्यन्ति च सनाभय इति ॥ १५११९। अपि च प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरःसवर्णायाः पुत्रः पौत्रः प्रपौत्रस्तत्पुत्रवर्जं तेषां चपुत्रपौत्रमविभक्तदायं सपिण्डानाचक्षते ॥ १५१११०। विभक्तदायानपि सकुल्यानाचक्षते ॥ १५११११। असत्स्वन्येषु तद्गामी ह्यर्थो भवति ॥ १५१११२। सपिण्डाभावे सकुल्यः ॥ १५१११३। तदभावे पिताचार्योअन्तेवास्यृत्विग्वा हरेत् ॥ १५१११४। तदभावे राजा तत्स्वं [Kashi Sanskrit Series: सत्स्वं] त्रैविद्यवृद्धेभ्यःसंप्रयच्छेत् ॥ १५१११५। न त्वेव कदा चित्स्वयं राजा ब्राह्मणस्वमाददीत ॥ १५१११६-१। अथाप्युदाहरन्ति । १५१११६-२ ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् । १५१११६-२ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ १५१११६-३। तस्माद्राजा ब्राह्मणस्वं नाददीत । परमं ह्येतद्विषं यद्ब्राह्मणस्वमिति ॥ १५१११७। जननमरणयोः संनिपाते समानो दशरात्रः ॥ १५१११८। अथ यदि दशरात्राः संनिपतेयुराद्यं दशरात्रमाशौचमा नवमाद्दिवसात् ॥ १५१११९। जनने तावन्मातापित्रोर्दशाहमाशौचम् ॥ १५११२०। मातुरित्येके तत्परिहरणात् ॥ १५११२१। पितुरित्यपरे शुक्रप्राधान्यात् ॥ १५११२२। अयोनिजा ह्यपि पुत्राः श्रूयन्ते ॥ १५११२३। मातापित्रोरेव तु संसर्गसामान्यात् ॥ १५११२४। मरणे तु यथाबालं पुरस्कृत्य यज्ञोपवीतान्यपसव्यानिकृत्वा तीर्थमवतीर्य सकृत्सकृत्त्रिर्निमज्ज्योन्मज्ज्योत्तीर्याचम्य तत्प्रत्ययमुदकमासिच्यात एवोत्तीर्याचम्य गृहद्वार्यङ्गारमुद्कमिति संस्पृश्याक्षारलवणाशिनो दशाहं कटमासीरन् ॥ १५११२५। एकादश्यां द्वादश्यां वा श्राद्धकर्म ॥ १५११२६। शेषक्रियायां लोकसनुरोद्धव्यः ॥ १५११२७। अत्राप्यसपिण्डेषु यथासन्नं त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ १५११२८। आचार्योपाध्यायतत्पुत्रेषु त्रिरात्रम् ॥ १५११२९। ऋत्विजां च ॥ १५११३०। शिष्यसतीर्थ्यसब्रह्मचारिषु त्रिरात्रमहोरात्रमेकाहमिति कुर्वीत ॥ १५११३१। गर्भस्रावे गर्भमाससंमिता रात्रयः स्त्रीणाम् ॥ १५११३२। परशवोपस्पर्शनेनभिसंधिपूर्वं सचेलसपःस्पृष्ट्वा सद्यः शुद्धो भवति ॥ १५११३३। अभिसंधिपूर्वं त्रिरात्रम् ॥ १५११३४। ऋतुमत्यां च ॥ १५११३५। यस्ततो जायते ससभिशस्त इति व्याख्यातान्यस्यैव्रतानि [Kashi Sanskrit Series: ब्रतानि] ॥ १५११३६ वेदविक्रयिणं यूपं पतितं चितिमेव च । १५११३६ स्पृष्ट्वा समाचरेत्स्नानं Zवानं चण्डालमेव च ॥ १५११३७ ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । १५११३७ कृमिरुत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ॥ १५११३८ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । १५११३८ त्र्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥ १५११३९। शुनोपहतः सचेलसवगाहेत ॥ १५११४०। प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्यपादौ चाचम्य प्रयतो भवति ॥ १५११४१-१। अथाप्युदाहरन्ति । १५११४१-२ शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् । १५११४१-२ प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ १५११४१-३ सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा । १५११४१-३ नवैश्च कलशैः स्नात्वा सद्य एव शुचिर्भवेत् ॥ इति ॥ १५१२१। अभक्ष्याः पशवो ग्राम्याः ॥ १५१५१२२। क्रव्यादाः शकुनयश्च ॥ १५१२३। तथा कुक्कुटसूकरम् ॥ १५१२४। अन्यत्राजाविभ्यः ॥ १५१२५। भक्ष्याः श्वाविद्गोधाशशशल्यककच्छपखङ्गाःखङ्गवर्जाः पञ्च पञ्चनखाः ॥ १५१२६। तथर्श्यहरिणपृषतमहिषवराहकुलुङ्गाःकुलुङ्गवर्जाः पञ्च द्विखुरिणः ॥ १५१२७। पक्षिणस्तित्तिरिकपोतकपिञ्जलवार्ध्राणसमयूरवारणावारणवर्जाः पञ्च विष्किराः ॥ १५१२८। मत्स्याः सहस्रदंष्ट्रश्चिलिचिमोवर्मिबृहच्छिरोमशकरिरोहितराजीवाः ॥ १५१२९। अनिर्दशाहसंधिनीक्षीरमपेयम् ॥ १५१२१०। विवत्सान्यवत्सयोश्च ॥ १५१२११। आविकमौष्ट्रिकमैकशफमपेयम् ॥ १५१२१२। अपेयपयःपाने कृच्छ्रोअन्यत्र गव्यात् ॥ १५१२१३। गव्ये तु त्रिरात्रमुपवासः । १५१२१४। पर्युषितंशाकयूषमांससर्पिःशृतधानागुडदधिमधुसक्तुवर्जम् ॥ १५१२१५। शुक्तानि तथाजातो गुडः ॥ १५१२१६। श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यांमाघ्यां वोत्सृजेयुः । उत्सृजेयुः ॥ १६१३१। शुचिमध्वरं देवा जुषन्ते ॥ १६१३२। शुचिकामा हि देवाः शुचयश्च ॥ १६१३३-१। तदेशाभिवदति । [ओम्] १६१३३-२ शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरंशुचिभ्यः । १६१३३-२ ऋतेन सत्यमृतसाप आयन्शुचिजन्मानः शुचयःपावकाः ॥ इति ॥ ऋग्वेद ७५६१२) १६१३४-१। अहतं वाससां शुचि । १६१३४-२। तस्माद्यत्किं चेज्यासंयुक्तं स्यात्सर्वं तदहतैर्वासोभिः कुर्यात् ॥ १६१३५। प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानावृत्विजश्च परिदधीरन् ॥ १६१३६। एवं प्रक्रमादूर्ध्वम् ॥ १६१३७। दीर्घसोमेषु सत्त्रेषु चैवम् ॥ १६१३८। यथासमाम्नातं च ॥ १६१३९। यथैतदभिचरणीयेष्विष्टिपशुसोमेषु लोहितोष्णीषालोहितवाससश्चर्त्विजः प्रचरेयुश्चित्रवाससश्चित्रासङ्गावृषाकपाविति च ॥ १६१३१०। अग्न्याधाने क्षौमाणि वासांसि तेषामलाभे कार्पासिकान्यौर्णानि वा भवन्ति ॥ १६१३११। मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां मृदाद्भिरिति प्रक्षालनम् ॥ १६१३१२। वासोवत्तार्प्यवल्कलानाम् [Kashi Sanskrit Series: वृकलानाम्] ॥ १६१३१३। वल्कलवत्कृष्णाजिनानाम् ॥ १६१३१४। न परिहितमधिरूढमप्रक्षालितं प्रावरणम् ॥ १६१३१५। नापल्पूलितं मनुष्यसंयुक्तं देवत्रा युञ्ज्यात् ॥ १६१३१६। घनाया भूमेरुपघात उपलेपनम् ॥ १६१३१७। सुषिरायाः कर्षणम् ॥ १६१३१८। क्लिन्नाया मेध्यमाहृत्य प्रच्छादनम् ॥ १६१३१९। चतुर्भिः शुध्यते भूमिर्गोभिराक्रमणात्खननाद्दहनादभिवर्षणात् ॥ १६१३२०। पञ्चमाच्चोपलेपनात्षष्ठात्कालात् ॥ १६१३२१। असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥ १६१३२२। परोक्षोपहतानामभ्युक्षणम् ॥ १६१३२३। एवं क्षुद्रसमिधाम् ॥ १६१३२४। महतां काष्ठानामुपघाते प्रक्षाल्यावशोषणम् ॥ १६१३२५। बहूनां तु प्रोक्षणम् ॥ १६१३२६। दारुमयाणां पात्राणामुच्छिष्टसमन्वारब्धानामवलेखनम् ॥ १६१३२७। उच्छिष्टलेपोपहतानामवतक्षणम् ॥। १६१३२८। मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ १६१३२९। तदेतदन्यत्र निर्देशात् ॥ १६१३३०। यथैतदग्निहोत्रे घर्मोच्छिष्टे च दधिघर्मे चकुण्डपायिनामयने चोत्सर्गिणामयने च दाक्षायणयज्ञेचेडादधेचेडादधे) [Kashi Sanskrit Series: चैडादधे] च चतुश्चक्रे च ब्रह्मौदनेषु चतेषु सर्वेषु दर्भैरद्भिः प्रक्षालनम् ॥ १६१३३१। सर्वेष्वेव सोमभक्षेष्वद्भिरेव मार्जालीये प्रक्षालनम् ॥ १६१३३२। मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ १६१४१। मृन्मयानां पात्राणामुच्छिष्टसमन्वारब्धानामवकूलनम् ॥ १६१४२। उच्छिष्टलेपोपहतानां पुनर्दहनम् ॥ १६१४३। मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ १६१४४। तैजसानां पात्राणां पूर्ववत्परिमृष्टानां प्रक्षालनम् ॥ १६१४५। परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति ॥ १६१४६। मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां पुनर्करणम् ॥ १६१४७। गोमूत्रे वा सप्तरात्रं परिशायनं महानद्यां वा [Kashi Sanskrit Series:वैवम्] ॥ १६१४८। एवमश्ममयानाम् ॥ १६१४९। अलाबुबिल्वविनाडानां गोवालैः परिमार्जनम् ॥ १६१४१०। नडवेणुशरकुशव्यूतानां गोमयेनाद्भिरिति प्रक्षालनम् ॥ १६१४११। व्रीहीणामुपघाते प्रक्षाल्यावशोषणम् ॥ १६१४१२। बहूनां तु प्रोक्षणम् ॥ १६१४१३। तण्डुलानामुत्सर्गः ॥ १६१४१४। एवं सिद्धहविषाम् ॥ १६१४१५। महतां श्ववायसप्रभृत्युपहतानां तं देशंपुरुषान्नमुद्धृत्य । पवमानः सुवर्जन इति ।ेतेनानुवाकेनाभ्युक्षणम् ॥ १६१४१६। मधूदके पयोविकारे च पात्रात्पात्रान्तरानयनेशौचम् ॥ १६१४१७। एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धेउदकेवधायोपयोजयेत् ॥ १६१४१८। अमेध्याभ्याधाने समारोप्याग्निं मथित्वा पवमानेष्टिः ॥ १६१४१९। शौचदेशमन्त्रावृदर्थद्रव्यसंस्कारकालभेदेषुपूर्वपूर्वप्राधान्यम् । पूर्वपूर्वप्राधान्यम् ॥ १७१५१। उत्तरत उपचारो विहारः ॥ १७१५२। तथापवर्गः ॥ १७१५३। विपरीतं पित्र्येषु ॥ १७१५४। पादोपहतं प्रक्षालयेत् ॥ १७१५५। अङ्गमुपस्पृश्य सिचं वाप उपस्पृशेत् ॥ १७१५६। एवंछेदनभेदनखनननिरसनपित्र्यराक्षसनैरृतरौद्राभिचरणीयेषु ॥ १७१५७। न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत् ॥ १७१५८। अभ्यन्तराणि यज्ञाङ्गानि ॥ १७१५९। बाह्या ऋत्विजः ॥ १७१५१०। पत्नीयजमानावृत्विग्भ्योअन्तरतमौ ॥ १७१५११। यज्ञान्गेभ्य आज्यमाज्याधवींषि हविर्भ्यः पशुः पशोःसोमः सोमादग्नयः ॥ १७१५१२। यथाकर्मर्त्विजो न विहारादभिपर्यावर्तेरन् ॥ १७१५१३। प्राङ्मुखश्चेद्दक्षिणमंसमभिपर्यावर्तेत ॥ १७१५१४। प्रत्यङ्मुखः सव्यम् ॥ १७१५१५। अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् ॥ १७१५१६। अचात्वाल आहवनीयोत्करौ ॥ १७१५१७। ततः कर्तारो यजमानः पत्नी च प्रपद्येरन् ॥ १७१५१८। विसंस्थिते ॥ १७१५१९। संस्थिते च संचरोअनुत्करदेशात्[Kashi Sanskrit Series:ऽनूत्करदेशात्] ॥ १७१५२०। नाप्रोक्षितमप्रपन्नं क्लिन्नं काष्ठं समिधंवाभ्यादध्यात् ॥ १७१५२१। अग्रेणाहवनीयं ब्रह्मयजमानौ प्रपद्येते ॥ १७१५२२। जघनेनाहवनीयमित्येके ॥ १७१५२३। दक्षिणेनाहवनीयं ब्रह्मायतनं तदपरेण यजमानस्य ॥ १७१५२४। उत्तरां श्रोणिमुत्तरेण होतुः ॥ १७१५२५। उत्कर आग्नीध्रस्य ॥ १७१५२६। जघनेन गार्हपत्यं पत्न्याः ॥ १७१५२७। तेषु कालेकाल [Kashi Sanskrit Series: काले काल] एव दर्भान् संस्तृणाति ॥ १७१५२८। एकैकस्य चोदकमण्डलुरुपात्तः स्यादाचमनार्थः ॥ १७१५२९। व्रतोपेतो दीक्षितः स्यात् ॥ १७१५३०। न परपापं वदेन्न क्रुध्येन्न रोदेन्मूत्रपुरीषेनावेक्षेत ॥ १७१५३१। अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुःसूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीरिति ॥ १७१५३२। अथ यद्येनमभिवर्षति । उन्दतीर्बलं धत्तौजो धत्तबलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेति ॥ [Kashi Sanskrit Series ओम्] १८१६१। चत्वारो वर्णा ब्राह्मणक्षत्रियविट्शूद्राः ॥ १८१६२। तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥ १८१६३। तिस्रो राजन्यस्य ॥ १८१६४। द्वे वैश्यस्य ॥ १८१६५। एका शूद्रस्य ॥ १८१६६। तासु पुत्राः सवर्णानन्तरासु सवर्णाः ॥ १८१६७। एकान्तरद्व्यन्तरास्वम्बष्ठऊग्रनिषादाः ॥ १८१६८। प्रतिलोमास्वायोगवमागधवैणक्षत्तृ[Kashi Sanskrit Series:क्षत्तु]पुल्कसकुक्कुटवैदेहकचण्डालः ॥ १८१६९। अम्बष्ठात्प्रथमायां श्वपाकः ॥ १८१६१०। उग्राद्द्वितीयायां वैणः ॥ १८१६११। निषादात्तृतीयायां पुल्कसः ॥ १८१६१२। विपर्यये कुक्कुटः ॥ १८१६१३। निषादेन निषाद्यामा पञ्चमाज्जातोअपहन्ति शूद्रताम् ॥ १८१६१४। तमुपनयेत्षष्ठं याजयेत् ॥ १८१६१५। सप्तमोअविकृतबीजः समबीजः सम इत्येषां संज्ञाःक्रमेण निपतन्ति ॥ [Kashi Sanskrit Series तोगेथेर्wइथ्१८१६१४: तमुपनयेत्षष्ठंयाजयेत्सप्तमोऽविकृतो भवति] १८१६१६-१ त्रिषु वर्णेषु सादृश्यादव्रतो जनयेत्तु यान् । [Kashi Sanskrit Series ओम्] १८१६१६-१ तान् सावित्रीपरिभ्रष्टान् व्रात्यानाहुर्मनीषिणः ।[Kashi Sanskrit Series ओम्] १८१६१६-२। व्रात्यानाहुर्मनीषिण इति ॥ [Kashi Sanskrit Series ओम्] १९१७१।रथकाराम्बष्ठसूतोग्रमागधायोगववैणक्षत्तृपुल्कसकुक्कुटवैदेहकचण्डालश्वपाकप्रभृतयः ॥ [Kashi Sanskrit Series ओम्] १९१७२। तत्र सवर्णासु सवर्णाः ॥ १९१७३। ब्राह्मणात्क्षत्रियायां ब्राह्मणो वैश्यायामम्बष्ठःशूद्रायां निषादः ॥ १९१७४। पारशव इत्येके ॥ १९१७५। क्षत्रियाद्वैश्यायां क्षत्रियः शूद्रायामुग्रः ॥ १९१७६। वैश्यात्शूद्रायां रथकारः ॥ १९१७७। शूद्राद्वैश्यायां मागधः क्षत्रियायां क्षत्ताब्राह्मण्यां चण्डालः ॥ १९१७८। वैश्यात्क्षत्रियायामायोगवो ब्राह्मण्यां वैदेहकः ।क्षत्रियाद्ब्राह्मण्यां सूतः ॥ १९१७९। तत्र[Kashi Sanskrit Series: अत्र]अम्बष्ठोग्रयोः संयोगे भवत्यनुलोमः ॥ १९१७१०। क्षत्तृवैदेहकयोः प्रतिलोमः ॥ १९१७११। उग्राज्जातः क्षत्त्र्यां श्वपाकः ॥ १९१७१२। वैदेहकादम्बष्ठायां वैणः ॥ १९१७१३। निषदात्शूद्रायां पुल्कसः ॥ १९१७१४। शूद्रान्निषाद्यां कुक्कुटः ॥ १९१७१५। वर्णसंकरादुत्पन्नान् व्रात्यानाहुर्मनीषिणः ।व्रात्यानाहुर्मनीषिण इति ॥ ११०१८१। षड्भागभृतो राजा रक्षेत्प्रजाः ॥ ११०१८२। ब्रह्म वै स्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहसंयुक्तं वेदानांगुप्त्यै ॥ ११०१८३। क्षत्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्यवृद्ध्यै ॥ ११०१८४। विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणांवृद्ध्यै ॥ ११०१८५। शूद्रेषु पूर्वेषां परिचर्याम् ॥ ११०१८६। पत्तो ह्यषृज्यन्तेति ॥ ११०१८७। सर्वतोधुरं पुरोहितं वृणुयात् ॥ ११०१८८। तस्य शासने वर्तेत ॥ ११०१८९। संग्रामे न निवर्तेत ॥ ११०१८१०। न कर्णिभिर्न दिग्धैः प्रहरेत् ॥ ११०१८११।भीतमत्तोन्मत्तप्रमत्तविसंनाहस्त्रीबालवृद्धब्राह्मणैर्नयुध्येत ॥ ११०१८१२। अन्यत्राततायिनः ॥ ११०१८१३-१। अथाप्युदाहरन्ति । ११०१८१३-२ अध्यापकं कुले जातं यो हन्यादाततायिनम् । ११०१८१३-२ न तेन भ्रूणहा भवति मन्युस्तन्मन्युमृच्छति ॥िति ॥ ११०१८१४। सामुद्रशुल्को वरं रूपमुद्धृत्य दशपणं शतम् ॥ ११०१८१५। अन्येषामपि सारानुरूप्येणानुपहत्य धर्म्यं प्रकल्पयेत् ॥ ११०१८१६। अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरंपरिपाल्य राजा हरेत् ॥ ११०१८१७। अवध्यो वै ब्राह्मणः सर्वापराधेषु ॥ ११०१८१८। ब्राह्मणस्यब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसिन्धभगसृगालसुराध्वजांस्तप्तेनायसा ललाटेङ्कयित्वा विषयान्निर्धमनम् ॥ ११०१८१९। क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च ॥ ११०१८२०। तेषामेव तुल्यापकृष्टवधे यथाबलमनुरूपान्दण्डान् प्रकल्पयेत् ॥ ११०१९१। क्षत्रियवधे गोसहस्रमृषभाधिकं राज्ञ उत्सृजेद्वैरनिर्यातनार्थम् [Kashi Sanskrit Series: वैरनिर्यातनाम्] ॥ ११०१९२। शतं वैश्ये दश शूद्र ऋषभश्चात्राधिकः ॥ ११०१९३। शूद्रवधेन स्त्रीवधो गोवधश्चव्याख्यातोअन्यत्रात्रेय्या वधाद्धेन्वनडुहोश्च ॥ ११०१९४। वधे धेन्वनडुहोरन्ते चान्द्रायणं चरेत् ॥ ११०१९५। आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः ॥ ११०१९६।हंसभासबर्हिणचक्रवाकप्रचलाककाकोलूकमण्डूक[Kashi Sanskrit Series:कण्टक]डिड्डिक[Kashi Sanskrit Series: डिड्डिकमण्डूक]डेरिकाश्वबभ्रुनकुलादीनांवधे शूद्रवत् ॥ ११०१९७। लोकसंग्रहणार्थं यथा दृष्टं श्रुतं वा साक्षीसाक्ष्यं ब्रूयात् ॥ ११०१९८-१ पादोअधर्मस्य कर्तारं पादो गच्छति साक्षिणम् । ११०१९८-१ पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ ११०१९८-२ राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः । ११०१९८-२ एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥ ११०१९९। साक्षिणं चैवमुद्दिष्टं यत्नात्पृच्छेद्विचक्षणः ॥ ११०१९१० यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि । ११०१९१० एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् । ११०१९१० तत्सर्वं राजगामि स्यादनृतं ब्रुवतस्तव ॥ ११०१९११ त्रीनेव च पितॄन् हन्ति त्रीनेव च पितामहान् । ११०१९११ सप्त जातानजातांश्च साक्षी साक्ष्यं मृषा वदन् ॥ ११०१९१२-१ हिरण्यार्थे अनृते हन्ति त्रीनेव च पितामहान् । ११०१९१२-१ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥ ११०१९१२-२ शतमश्वानृते हन्ति सहस्रं पुरुषानृते । ११०१९१२-२ सर्वं भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा वदन् ॥ ११०१९१३। चत्वारो वर्णाः पुत्रिणः साक्षिणः स्युरन्यत्रश्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ॥ ११०१९१४। स्मृतौ प्रधानतः प्रतिपत्तिः ॥ ११०१९१५। अतोअन्यथा कर्तपत्यम् ॥ ११०१९१६। द्वादशरात्रं तप्तं पयः पिबेत्कूश्माण्डैर्वाजुहुयादिति । कूश्माण्डैर्वा जुहुयादिति ॥ १११२०१। अष्टौ विवाहाः ॥ १११२०२। श्रुतशीले विज्ञाय ब्रह्मचारिणेर्थिने दीयते स ब्राह्मः ॥ १११२०३। आच्छाद्यालंकृत्य । एषा सह धर्मश्[Kashi Sanskrit Series: धर्मं]चर्यतामिति । प्राजाप्त्यः ॥ १११२०४। पूर्वां लाजाहुतिं हुत्वा गोभ्यां सहार्षः ॥ [Kashi Sanskrit Seriesपृष्ठऊर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ] १११२०५। दक्षिणासु नीयमानास्वन्तर्वेद्यृत्विजे स दैवः ॥ १११२०६। धनेनोपतोष्यासुरः ॥ [Kashi Sanskrit Series: सकामेन सकामाया मिथस्संयोगो गान्धर्वः] १११२०७। सकामेन सकामाया मिथः संयोगो गान्धर्वः ॥ [Kashi Sanskrit Series:धनेनोपतोष्यासुरः] १११२०८। प्रसह्य हरणाद्राक्षसः ॥ १११२०९। सुप्तां मत्तां प्रमत्तां वोपगच्छेदिति पैशाचः ॥ १११२०१०। तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वःश्रेयान् ॥ १११२०११। उत्तरेषामुत्तर उत्तरः [Kashi Sanskrit Series: उत्तरोत्तरः] पापीयान् ॥ १११२०१२। अत्रापि षष्ठसप्तमौ क्षत्रधर्मानुगतौतत्प्रत्ययत्वात्क्षत्रस्य ॥ १११२०१३। पञ्चमाष्टमौ वैश्यशूद्राणाम् ॥ १११२०१४। अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति ॥ १११२०१५। कर्षणशुश्रूषाधिकृतत्वात् ॥ १११२०१६। गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वात् ॥ १११२११। यथा युक्तो विवाहस्तथा युक्ता प्रजा भवतीतिविज्ञायते ॥ १११२१२-१। अथाप्युदाहरन्ति । [Kashi Sanskrit Series अद्द्स्: साधवस्त्रिपुरुषमार्षाद्दश दैवाद्दश प्राजापत्याद्दश पूर्वान् दशापरानात्मानं चब्राह्मीपुत्र इति विज्ञायते ॥ वेदस्वीकरणशक्तिरप्येवंविधानामेव पुत्राणां भवतीति ॥] १११२१२-२ क्रीता द्रव्येण या नारी सा न पत्नी विधीयते । १११२१२-२ सा न दैवे न सा पित्र्ये दासीं तां काश्यपोअब्रवीत् ॥ १११२१३-१ शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः । १११२१३-१ आत्मविक्रयिणः पापा महाकिल्बिषकारकाः ॥ १११२१३-२ पतन्ति नरके घोरे घ्नन्ति चासप्तमं कुलम् । १११२१३-२ गमनागमनं चैव सर्वं शुल्के विधीयते ॥ १११२१४।पौर्णमस्यष्टकामावास्याग्न्युत्पातभूमिकम्पश्मशानदेशपतिश्रोत्रियैकतीर्थप्रयाणेष्वहोरात्रमनध्यायः ॥ १११२१५। वाते पूतिगन्धे नीहारे चनृत्तगीतवादित्ररुदितसामशब्देषु तावन्तं कालम् ॥ १११२१६। स्तनयित्नुवर्षविद्युत्संनिपाते त्र्यहमनध्यायोअन्यत्रवर्षाकालात् ॥ १११२१७। वर्षाकालेपि वर्षवर्जमहोरात्रयोश्च तत्कालम् ॥ १११२१८। पित्र्यप्रतिग्रहभोजनयोश्च तद्दिवसशेषम् ॥ १११२१९। भोजनेष्वा जरणम् ॥ १११२११०। पाणिमुखो हि ब्राह्मणः ॥ १११२१११-१। अथाप्युदाहरन्ति । १११२१११-२ भुक्तं प्रतिगृहीतं च निर्विशेषमिति श्रुतिः ॥ १११२११२। पितर्य्[Kashi Sanskrit Series: पितुर्य्] उपरते त्रिरात्रम् ॥ १११२११३। द्वयमु ह वै सुश्रवसोअनूचानस्य रेतोब्राह्मणस्योर्ध्वं नाभेरधस्तादन्यत् । स यदूर्ध्वं नाभेस्तेन हैतत्प्रजायते यद्ब्राह्मणानुपनयति यदध्यापयति यद्याजयति यत्साधु करोति । सर्वास्यैषा प्रजा भवति । अथ यदवाचीणं नाभेस्तेन हास्याउरसी प्रजा भवति । तस्मात्श्रोत्रियमनूचानमप्रजोअसीति न वदन्ति ॥ १११२११४। तस्माद्द्विनामा द्विमुखो विप्रो द्विरेता द्विजन्मा चेति ॥ १११२११५। शूद्रापपात्रश्रवणसंदर्शनयोश्च तावन्तं कालम् ॥ १११२११६। नक्तं शिवाविरावे नाधीयीत स्वप्नान्तम् ॥ १११२११७। अहोरात्रयोश्च संध्ययोः पर्वसु च नाधीयीत ॥ १११२११८। न मांसमश्नीयान्न स्त्रियमुपेयात् ॥ १११२११९। पर्वसु हि रक्षःपिशाचा व्यभिचारवन्तो भवन्तीतिविज्ञायते ॥ १११२१२०। अन्येषु चाद्भुतोत्पातेष्वहोरात्रमनध्यायोअन्यत्रमानसात् ॥ १११२१२१। मानसेपि जननमरणयोरनध्यायः ॥ १११२१२२-१। अथाप्युदाहरन्ति । १११२१२२-२ हन्त्यष्टमी ह्युपाध्यायं हन्ति शिष्यं चतुर्दशी । १११२१२२-२ हन्ति पञ्चदशी विद्यां तस्मात्पर्वणि वर्जयेत् । १११२१२२-३। तस्मात्पर्वणि वर्जयेदिति ॥ २१११। अथातः प्रायश्चित्तानि ॥ २११२। भ्रूणहा द्वादश समाः ॥ २११३। कपाली खट्वाङ्गी गर्दभचर्मवासा अरण्यनिकेतनःश्मशाने ध्वजं शवशिरः कृत्वा कुटीं कारयेत् । तामावसेत् ।सप्तागाराणि भैक्षं चरन् स्वकर्माचक्षाणस्तेन प्राणान्धारयेत् । अलब्ध्वोपवासः ॥ २११४। अश्वमेधेन गोसवेनाग्निष्टुता वा यजेत ॥ २११५। अश्वमेधावभृथे वात्मानं पावयेत् ॥ २११६-१। अथाप्युदाहरन्ति । २११६-२ अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः । २११६-२ ऋषयो निष्कृतिं तस्य वदन्त्यमतिपूर्वके । २११६-२ मतिपूर्वं घ्नतस्तस्य निष्कृतिर्नोपलभ्यते ॥ २११७ अपगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । २११७ कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्तने । २११७ तस्मान्नैवापगुरेत न च कुर्वीत शोणितम् ॥ इति ॥ २११८। नव समा राजन्यस्य ॥ २११९। तिस्रो वैश्यस्य ॥ २१११०। संवत्सरं शूद्रस्य ॥ २११११। स्त्रियाश्च ॥ २१११२। ब्राह्मणवदात्रेय्याः ॥ २१११३। गुरुतल्पगस्तप्ते लोहशयने शयीत ॥ २१११४। सूर्मिं वा ज्वलन्तीं श्लिष्येत् ॥ २१११५। लिङ्गं वा सवृषणं परिवास्याञ्जलावाधायदक्षिणाप्रतीच्योर्दिशोरन्तरेण गच्छेदा निपतनात् ॥ २१११६। स्तेनः प्रकीर्य केशान् सैध्रकं मुसलमादाय स्कन्धेनराजानं गच्छेदनेन मां जहीति । तेनैनं हन्यात् ॥ २१११७-१। अथाप्युदाहरन्ति । २१११७-२ स्कन्धेनादाय मुसलं स्तेनो राजानमन्वियात् । २१११७-२ अनेन शाधि मां राजन् क्षत्रधर्ममनुस्मरन् ॥ २१११७-३ शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् । २१११७-३ अशासनात्तु तद्राजा स्तेनादाप्नोति किल्बिषम् ॥ इति ॥ २१११८। सुरां पीत्वोष्णया कायं दहेत् ॥ २१११९। अमत्या पाने कृच्छ्राब्दपादं चरेत्पुनरुपनयनं च ॥ २११२०। वपनव्रतनियमलोपश्च पूर्वानुष्ठितत्वात् ॥ २११२१-१। अथाप्युदाहरन्ति । २११२१-२ अमत्या वारुणीं पीत्वा प्राश्य मूत्रपुरीषयोः । २११२१-२ ब्राह्मणः क्षत्रियो वैश्यः पुनःसंस्कारमर्हति ॥ २११२२ सुराधाने तु यो भाण्डे अपः पर्युषिताः पिबेत् । २११२२ शङ्खपुष्पीविपक्वेन षडहं क्षीरेण वर्तयेत् ॥ २११२३। गुरुप्रयुक्तश्चेन्म्रियेत गुरुस्त्रीन् कृच्छ्रांश्चरेत् ॥ २११२४। एतदेवासंस्कृते ॥ २११२५। ब्रह्मचारिणः शवकर्मणा व्रतावृत्तिरन्यत्रमातापित्रोराचार्याच्च ॥ २११२६। स चेद्व्याधीयीत कामं गुरोरुच्छिष्टं भैषज्यार्थेसर्वं प्राश्नीयात् ॥ २११२७। येनेच्छेत्तेन चिकित्सेत् ॥ २११२८। स यदा गदी स्यात्तदुत्थायादित्यमुपतिष्ठेत[Kashi Sanskrit Series:उपतिष्ठते] । हंसः शुचिषदिति । एतया ॥ २११२९। दिवा रेतः सिक्त्वा त्रिरपो हृदयंगमाः पिबेद्रेतस्याभिः ॥ २११३०। यो ब्रह्मचारी स्त्रियमुपेयात्सोअवकीर्णी ॥ २११३१। स गर्दभं पशुमालभेत ॥ २११३२। नैरृतः पशुः पुरोडाशश्च रक्षोदेवतो[Kashi Sanskrit Series: दैवतो]यमदेवतो[Kashi Sanskrit Series: दैवतो] वा ॥ २११३३। शिश्नात्प्राशित्रमप्स्ववदानैश्चरन्तीति विज्ञायते ॥ २११३४। अपि वामावास्यायां निश्यग्निमुपसमाधायदार्विहोमिकीं[Kashi Sanskrit Series: दाविंहोमिकीं] परिचेष्टां कृत्वा द्वे आज्याहुतीजुहोति । कामावकीर्णोअस्म्यवकीर्णोअस्मि काम कामाय स्वाहा ।कामाभिद्रुग्धोअस्म्यभिद्रुग्धोअस्मि काम कामाय स्वाहेति ॥ २११३५। हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङग्निमभिमन्त्रयेत[Kashi Sanskrit Series:उपतिष्ठेत] । सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । संमायमग्निः सिञ्चत्वायुषा च बलेन चायुष्मन्तं करोत मेति ॥ २११३६। अथास्य [Kashi Sanskrit Series: अथ यस्य] ज्ञातयः परिषद्युदपात्रंनिनयेयुरसावहमित्थंभूत इति । चरित्वापः पयो घृतं मधुलवणमित्यारब्धवन्तं ब्राह्मणा ब्रूयुश्चरितं त्वयेति । ओमितीतरः प्रत्याह । चरितनिर्वेशं सवनीयं कुर्युः ॥ २११३७। सगोत्रां चेदमत्योपगच्छेन्[Kashi Sanskrit Series: उपयच्छेन्] मातृवदेनांबिभृयात् ॥ २११३८। प्रजाता चेत्कृच्छ्राब्दपादं[Kashi Sanskrit Series: षादं] चरित्वा । यन्मआत्मनो मिन्दाभूत् । पुनरग्निश्चक्षुरदादिति । एताभ्यांजुहुयात् ॥ २११३९ परिवित्तः परिवेत्ता या चैनं परिविन्दति । २११३९ सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ २११४० परिवित्तः परिवेत्ता दाता यश्चापि याजकः । २११४० कृच्छ्रद्वादशरात्रेण स्त्री त्रिरात्रेण शुध्यति ॥ इति ॥ २१२१। अथ पतनीयानि ॥ २१२२। समुद्रसंयानम् ॥ २१२३। ब्रह्मस्वन्यासापहरणम् ॥ २१२४। भूम्यनृतम् ॥ २१२५। सर्वपण्यैर्व्यवहरणम् ॥ २१२६। शूद्रसेवनम् ॥ २१२७। शूद्राभिजननम् ॥ २१२८। तदपत्यत्वं च ॥ २१२९। एतेषाम् [Kashi Sanskrit Series: एषाम्] अन्यतमं [Kashi Sanskrit Series: अन्यतमत्] कृत्वा ॥ २१२१० चतुर्थकाला मितभोजिनः स्युरपोअभ्यवेयुः [Kashi Sanskrit Series ओमित्सपोऽभ्यवेयुः] सवनानुकल्पम् । २१२१० स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैस्तदपघ्नन्ति [Kashi Sanskrit Series: अपहन्ति] पापम् ॥ २१२११ यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणःसेवमानः । २१२११ चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्तिपापम् ॥ इति ॥ २१२१२। अथोपपातकानि ॥ २१२१३। अगम्यागमनं गुर्वीसखीं गुरुसखीमपपात्रां पतितांच गत्वा भेषजकरणं ग्रामयाजनं रङ्गोपजीवनंनाट्याचार्यता गोमहिषीरक्षणं यच्चान्यदप्येवंयुक्तंकन्यादूषणमिति ॥ २१२१४। तेषां तु निर्वेशः पतितवृत्तिर्द्वौ संवत्सरौ ॥ २१२१५। अथाशुचिकराणि ॥ २१२१६। द्यूतमभिचारोअनाहिताग्नेरुञ्छवृत्तिता समावृत्तस्यभैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस्तस्य चाध्यापनं नक्षत्रनिर्देशश्चेति ॥ २१२१७। तेषां तु निर्वेशो द्वादश मासान् द्वादश अर्धमासान्द्वादश द्वादशाहान् द्वादश षडहान् द्वादश त्र्यहान् द्वादशाहंषडहं त्र्यहमहोरात्रमेकाहमिति यथा कर्माभ्यासः ॥ २१२१८। अथ पतिताः समवसाय धर्मांश्चरेयुरितरेतरयाजकाइतरेतराध्यापका मिथो विवहमानाः । पुत्रान् संनिष्पाद्य ब्रूयुर्विप्रव्रजतास्मत्त एवमार्यान् संप्रतिपत्स्यथेति ॥ २१२१९। अथापि न सेन्द्रियः पतति ॥ २१२२०। तदेतेन वेदितव्यम् । अङ्गहीनोअपि [Kashi Sanskrit Series: अपि हि] साङ्गंजनयेत्[Kashi Sanskrit Series: जनयतीति] ॥ २१२२१। मिथ्यैतदिति हारीतः ॥ २१२२२। दधिधानीसधर्माः स्त्रियः स्युः । यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तत्शिष्टा धर्मकृत्येषूपयोजयन्ति॥ २१२२३। एवमशुचि शुक्रं यन्निर्वर्तते न तेन सह संप्रयोगो विद्यते ॥ २१२२४। अशुचिशुक्रोत्पन्नानां तेषामिच्छतां प्रायश्चित्तिः ॥ २१२२५। पतनीयानां तृतीयोअंशः स्त्रीणामंशस्तृतीयः ॥ २१२२६-१। अथाप्युदाहरन्ति । [Kashi Sanskrit Series ओम्] २१२२६-२ भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । २१२२६-२ श्वविष्ठायां कृमिर्[Kashi Sanskrit Series: क्रिमिर्] भूत्वा पितृभिः सहमज्जति ॥ इति ॥ २१२२७। पितॄन् वा एष विक्रीणीते यस्तिलान् विक्रीणीते । प्राणान्वा एष विक्रीणीते यस्तण्डुलान् विक्रीणीते । सुकृतांशान् वा एषविक्रीणीते यः पणमानो दुहितरं ददाति ॥ २१२२८। तृणकाष्ठम् [Kashi Sanskrit Series: तृणं काष्ठम्] अविकृतं विक्रेयम् ॥ २१२२९-१। अथाप्युदाहरन्ति [Kashi Sanskrit Series: उदारन्ति] । २१२२९-२ पशवश्चैकतोदन्ता अश्मा च लवणोद्धृतः । २१२२९-२ एतद्ब्राह्मण ते पण्यं तन्तुश्चारजनीकृतः ॥ इति ॥ २१२३०। पातकवर्जं वा बभ्रुं पिङ्गलां गां रोमशांसर्पिषावसिच्य कृष्णैस्तिलैरवकीर्यानूचानाय दद्यात् ॥ २१२३१। कूश्माण्डैर्वा द्वादशाहम् ॥ २१२३२। यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥ २१२३३। पातकाभिशंसने कृच्छ्रः ॥ २१२३४। तदब्दो[Kashi Sanskrit Series: तदशब्दो]अभिशंसितुः ॥ २१२३५। संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनादिति ॥ २१२३६। अमेध्यप्राशने प्रायश्चित्तिर्[Kashi Sanskrit Series: प्रायश्चित्तं] नैष्पुरीष्यम्। तत्सप्तरात्रेणावाप्यते ॥ २१२३७। अपः पयो घृतं पराक इति प्रतित्र्यहमुष्णानि सतप्तकृच्छ्रः ॥ २१२३८। त्र्यहं प्रातस्तथा सायम् [Kashi Sanskrit Series अद्द्स्: त्र्यहमन्यद्] अयाचितं[Kashi Sanskrit Series अद्द्स्: त्र्यहं परं तु नाश्नीयात्] पराक इति कृच्छ्रः ॥ २१२३९। प्रातः सायमयाचितं पराक इति त्रयश्चतूरात्राः स एषस्त्रीबालवृद्धानां कृच्छ्रः ॥ २१२४०। यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोअतिकृच्छ्रः ॥ २१२४१। अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २१२४२। कृच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥ २१२४३। अधःशयनम् ॥ २१२४४। एकवस्त्रता केशश्मश्रुलोमनखवापनम् ॥ २१२४५। एतदेव स्त्रियाः केशवपनवर्जम् । केशवपनवर्जम् ॥ २२३१ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायीवृषलान्नवर्जी । २२३१ ऋतौ च गच्छन् विधिवच्च जुह्वन्न ब्राह्मणश्च्यवतेब्रह्मलोकात् ॥ २२३२। मनुः पुत्रेभ्यो दायं व्यभजदिति श्रुतिः ॥ २२३३। समशः सर्वेषामविशेषात् ॥ २२३४। वरं वा रूपमुद्धरेज्ज्येष्ठः ॥ २२३५। तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः ॥ २२३६। दशानां वैकमुद्धरेज्ज्येष्ठः ॥ २२३७। सममितरे विभजेरन् ॥ २२३८। पितुरनुमत्या दायविभागः सति पितरि ॥ २२३९। चतुर्णां वर्णानां गोअश्वाजावयो ज्येष्ठांशः ॥ २२३१०। नानावर्णस्त्रीपुत्रसमवाये दायं दशांशान् कृत्वाचतुरस्त्रीन् द्वावेकमिति यथाक्रमं विभजेरन् ॥ २२३११। औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः ॥ २२३१२। सवर्णापुत्रानन्तरापुत्रयोरनन्तरापुत्रश्चेद्गुणवान्स ज्येष्ठांशं हरेत् ॥ २२३१३। गुणवान् हि शेषाणां भर्ता भवति ॥ २२३१४-१। सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रंविद्यात् । २२३१४-२। अथाप्युदाहरन्ति । [Kashi Sanskrit Series ओम्] २२३१४-३ अङ्गादङ्गात्संभवसि हृदयादधि जायसे । [Kashi Sanskrit Series ओम्] २२३१४-३ आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ इति ॥[Kashi Sanskrit Series ओम्] २२३१५। अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रमन्यं दौहित्रम् ॥ २२३१६-१। अथाप्युदाहरन्ति । २२३१६-२ आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । २२३१६-२ द्वितीये पितरं तस्यास्तृतीये च पितामहम् ॥ इति ॥ २२३१७। मृतस्य प्रसूतो यः क्लीबव्याधितयोर्वान्येनानुमते [Kashi Sanskrit Series:ऽनुमतेन] स्वे क्षेत्रे स क्षेत्रजः ॥ २२३१८। स एष द्विपिता द्विगोत्रश्च द्वयोरपि स्वधारिक्थभाग्भवति ॥ २२३१९-१। अथाप्युदाहरन्ति । २२३१९-२ द्विपितुः पिण्डदानं स्यात्पिण्डेपिण्डे च नामनी । २२३१९-२ त्रयश्च पिण्डाः षण्णां स्युरेवं कुर्वन्न मुह्यति ॥ इति ॥ २२३२०। मातापितृभ्यां दत्तोअन्यतरेण वा योअपत्यार्थेपरिगृह्यते स दत्तः ॥ २२३२१। सदृशं यं सकामं स्वयं कुर्यात्स कृत्रिमः ॥ २२३२२। गृहे गूढोत्पन्नोअन्ते ज्ञातो गूढजः [Kashi Sanskrit Series: गूढोः] ॥ २२३२३। मातापितृभ्यामुत्सृष्टोअन्यतरेण वा योअपत्यार्थेपरिगृह्यते सोअपविद्धः ॥ २२३२४। असंस्कृतामनतिसृष्टां यामुपगच्छेत्[Kashi Sanskrit Series: उपयच्छेत्]तस्यां यो जातः स कानीनः ॥ २२३२५। या गर्भिणी संस्क्रियते विज्ञाता वाविज्ञाता वा तस्यांयो जातः स सहोढः ॥ २२३२६। मातापित्रोर्हस्तात्क्रीतोअन्यतरेण वा योअपत्यार्थेपरिगृह्यते स क्रीतः ॥ २२३२७। क्लीबं त्यक्त्वा पतितं वा यान्यं पतिं विन्देत्तस्यांपुनर्भ्वां यो जातः स पौनर्भवः ॥ २२३२८। मातापितृविहीनो यः स्वयमात्मानं दद्यात्स स्वयंदत्तः ॥ २२३२९। द्विजातिप्रवरात्शूद्रायां जातो निषादः ॥ २२३३०। कामात्पारशव इति पुत्राः ॥ २२३३१-१। अथाप्युदाहरन्ति । २२३३१-२ औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ । २२३३१-२ गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ॥ २२३३२ कानीनं च सहोढं च क्रीतं पौनर्भवं तथा । २२३३२ स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥ २२३३३। तेषां प्रथम एवेत्याहाउपजङ्घनिः ॥ २२३३४-१ इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा । २२३३४-१ यतो यमस्य सदने जनयितुः पुत्रमब्रुवन् ॥ २२३३४-२ रेतोधाः पुत्रं नयति परेत्य यमसादने । २२३३४-२ तस्मात्स्वभार्यां [Kashi Sanskrit Series: तस्माद्भार्यां] रक्षन्तु [Kashi Sanskrit Series:रक्षन्ति] बिभ्यतः [Kashi Sanskrit Series: बिभ्यन्तः] पररेतसः ॥ २२३३५ अप्रमत्ता रक्षत [Kashi Sanskrit Series: रक्षथ] तन्तुमेतं मा वः क्षेत्रेपरबीजानि वाप्सुः [Kashi Sanskrit Series: वप्सुः] । २२३३५ जनयितुः पुत्रो भवति सांपराये [Kashi Sanskrit Series: साम्षराये] मोघंवेत्ता कुरुते तन्तुमेतम् ॥ इति ॥ २२३३६। तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनिगुप्तान्निदध्युरा व्यवहारप्रापणात् ॥ २२३३७। अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः ॥ २२३३८। अन्धजडक्लीबव्यसनिव्याधितादींश्च ॥ २२३३९। अकर्मिणः ॥ २२३४०। पतिततज्जातवर्जम् ॥ २२३४१। न पतितैः संव्यवहारो विद्यते ॥ २२३४२। पतितामपि तु मातरं बिभृयादनभिभाषमाणः ॥ २२३४३। मातुरलंकारं दुहितरः सांप्रदायिकं लभेरन्नन्यद्वा ॥ २२३४४। न स्त्रियाः [Kashi Sanskrit Series: स्त्री] स्वातन्त्र्यं विद्यते [Kashi Sanskrit Series: विदन्ते] ॥ २२३४५-१। अथाप्युदाहरन्ति । २२३४५-२ पिता रक्षति कौमारे भर्ता रक्षति यौवने । २२३४५-२ पुत्रस्तु स्थविरीभावे [Kashi Sanskrit Series: स्थाविरे भावे] न स्त्रीस्वातन्त्र्यमर्हति ॥ इति ॥ २२३४६। निरिन्द्रिया ह्यदायाश्च स्त्रियो मता इति श्रुतिः ॥ २२३४७। भर्तृहिते यतमानाः स्वर्गं लोकं जयेरन् ॥ २२३४८। व्यतिक्रमे कृच्छ्रः ॥ २२३४९। शूद्रे चान्द्रायणं चरेत् ॥ २२३५०। वैश्यादिषु प्रतिलोमं कृच्छ्रातिकृच्छ्रादींश्चरेत् ॥ २२३५१। पुंसां ब्राह्मणादीनां संवत्सरं ब्रह्मचर्यम् ॥ २२३५२। शूद्रं कटाग्निना [Kashi Sanskrit Series: कटारिनना] दहेत् ॥ २२३५३। अथाप्युदाहरन्ति ॥ २२४१ अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् ॥ २२४२ सर्वेषामेव वर्णानां दारा रक्ष्यतमा धनात् ॥ २२४३ न तु चारणदारेषु न रङ्गावतरे [Kashi Sanskrit Series: रङ्गावतारे] वधः । २२४३ संसर्जयन्ति ता ह्येतान्निगुप्तांश्चालयन्त्यपि ॥ २२४४ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । २२४४ मासिमासि रजो ह्यासां दुरितान्यपकर्षति ॥ २२४५ सोमः शौचं ददौ [Kashi Sanskrit Series: ददत्] तासां गन्धर्वः शिक्षितां गिरम् । २२४५ अग्निश्च सर्वभक्षत्वं [Kashi Sanskrit Series: सर्वभक्ष्यत्वं] तस्मान्निष्कल्मषाः स्त्रियः ॥ २२४६ अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् । २२४६ मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम् ॥ २२४७। संवत्सरं प्रेतपत्नी मधुमांसमद्यलवणानि वर्जयेदधः शयीत ॥ २२४८। षण्मासानिति मौद्गल्यः ॥ २२४९। अत ऊर्ध्वं गुरुभिरनुमता देवराज्जनयेत्पुत्रमपुत्रा ॥ २२४१०-१। अथाप्युदाहरन्ति । २२४१०-२ वशा चोत्पन्नपुत्रा च नीरजस्का गतप्रजा । २२४१०-२ नाकामा संनियोज्या स्यात्फलं यस्यां न विद्यते ॥िति ॥ २२४११। मातुलपितृस्वसा भगिनी भागिनेयी स्नुषा मातुलानीसखिवधूरित्यगम्याः ॥ २२४१२। अगम्यानां गमने कृच्छ्रातिकृच्छ्रौ चान्द्रायणमितिप्रायश्चित्तिः ॥ २२४१३। एतेन चण्डालीव्यवायो व्याख्यातः ॥ २२४१४-१। अथाप्युदाहरन्ति । २२४१४-२ चण्डालीं ब्राह्मणो गत्वा भुक्त्वा च प्रतिगृह्य च । २२४१४-२ अज्ञानात्पतितो विप्रो ज्ञानात्तु समतां व्रजेत् ॥ २२४१५ पितुर्गुरोर्नरेन्द्रस्य भार्यां गत्वा प्रमादतः । २२४१५ गुरुतल्पी भवेत्तेन पूर्वोक्तस्तस्य निष्क्रयः [Kashi Sanskrit Seriesटिप्पणीइश्चयः] ॥ इति ॥ २२४१६। अध्यापनयाजनप्रतिग्रहैरशक्तः क्षत्रधर्मेण जीवेत्प्रत्यनन्तरत्वात् ॥ २२४१७। नेति गौतमः । अत्युग्रो हि क्षत्रधर्मो ब्राह्मणस्य ॥ २२४१८-१। अथाप्युदाहरन्ति । २२४१८-२ गवार्थे ब्राह्मणार्थे वा वर्णानां वापि संकरे । २२४१८-२ गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥ २२४१९। वैश्यवृत्तिरनुष्ठेया प्रत्यनन्तरत्वात् ॥ २२४२०। प्राक्प्रातराशात्कर्षी स्यात् ॥ २२४२१। अस्यूतनासिकाभ्यां समुष्काभ्यामतुदन्नारयामुहुर्मुहुरभ्युच्छन्दयन् ॥ [२२४२०-२१ = ३२३] २२४२२। भार्यादिरग्निः । तस्मिन् कर्मकरणं प्रागग्न्याधेयात् ॥ २२४२३। अग्न्याधेयप्रभृत्यथेमान्यजस्राणि भवन्ति यथैतदग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणमुदगयनदक्षिणायनयोः पशुश्चातुर्मास्यान्यृतुमुखे षड्ढोता वसन्तेज्योतिष्तोम इत्येवं क्षेमप्रापणम् ॥ २२४२४। अथाप्युदाहरन्ति । २२४२४ न दिवास्वप्नशीलेन न च सर्वान्नभोजिना । २२४२४ कामं शक्यं नभो गन्तुमारूढपतितेन वा ॥ २२४२५। दैन्यं शाठ्यं जैह्म्यं च वर्जयेत् ॥ २२४२६-१। अथाप्यत्रोशनसश्च वृषपर्वणश्च दुहित्रोः संवादेगाथामुदाहरन्ति । २२४२६-२ स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः । २२४२६-२ अथाहं स्तूयमानस्य ददतोअप्रतिगृह्णतः । २२४२६-३। ददतोअप्रतिगृह्णत इति ॥ २३५१। तपस्यमपोवगाहनम् [अपसवगाहनम्] [Kashi Sanskrit Series: तपस्यमवगाहनम्] ॥ २३५२। देवतास्तर्पयित्वा पितृतर्पणम् ॥ २३५३। अनुतीर्थमप उत्सिञ्चति [Kashi Sanskrit Series: उत्सिञ्चेद्] । ऊर्जं वहन्तीरिति ॥ २३५४-१। अथाप्युदाहरन्ति । २३५४-२ स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । २३५४-२ प्रातरुत्थाय [Kashi Sanskrit Series: प्रातरुत्थायाय] कुर्वीरन्देवर्षिपितृतर्पणम् ॥ २३५५। निरुद्धासु न कुर्वीरन्नंशभाक्तत्र सेतुकृत् ॥ २३५६। तस्मात्परकृतान् सेतून् कूपांश्च परिवर्जयेदिति ॥ २३५७-१। अथाप्युदाहरन्ति । २३५७-२ उद्धृत्य वापि त्रीन् पिण्डान् कुर्यादापत्सु नो सदा । २३५७-२ निरुद्धासु तु मृत्पिण्डान् कूपात्त्रीनब्घटांस्तथा॥ इति ॥ २३५८। बहुप्रतिग्राह्यस्याप्रतिग्राह्यस्य वा प्रतिगृह्य [Kashi Sanskrit Series: बहुप्रतिग्राह्यस्य प्रतिगृह्याप्रतिग्राह्यस्य वा]अयाज्यं वायाजयित्वानाश्यान्नस्य वान्नमशित्वा तरत्समन्दीयं जपेदिति॥ २३५९-१। अथाप्युदाहरन्ति । २३५९-२ गुरुसंकरिणश्चैव शिष्यसंकरिणश्च ये । २३५९-२ आहारमन्त्रसंकीर्णा दीर्घं तम उपासते ॥ इति ॥ २३५१०। अथ स्नातकव्रतानि ॥ २३५११। सायं प्रातर्यदशनीयं स्यात्तेनान्नेन वैश्वदेवंबलिमुपहृत्य ब्राह्मणक्षत्रियविट्शूद्रानभ्यागतान् यथाशक्तिपूजयेत् ॥ २३५१२। यदि बहूनां न शक्नुयादेकस्मै गुणवते दद्यात् ॥ २३५१३। यो वा प्रथममुपगतः [Kashi Sanskrit Series: उपागतः] स्यात् ॥ २३५१४। शूद्रश्चेदागतस्तं कर्मणि नियुञ्ज्यात् ॥ २३५१५। श्रोत्रियाय वाग्रं दद्यात् ॥ २३५१६। ये नित्या भाक्तिकाः [Kashi Sanskrit Series: नित्याभक्तिकास्] स्युस्तेषामनुपरोधेन संविभागो विहितः ॥ २३५१७। न त्वेव कदाचिददत्त्वा [Kashi Sanskrit Series: अदत्वा] भुञ्जीत ॥ २३५१८-१। अथाप्यत्रान्नगीतौ श्लोकावुदाहरन्ति । २३५१८-२ यो मामदत्त्वा [Kashi Sanskrit Series: अदत्वा] पितृदेवताभ्योभृत्यातिथीनां च सुहृज्जनस्य । २३५१८-२ संपन्नमश्नन् विषमत्ति मोहात्तमद्म्यहं तस्य चमृत्युरस्मि ॥ २३५१८-३ हुताग्निहोत्रः कृतवैश्वदेवः पूज्यातिथीन् भृत्यजनावशिष्टम् । २३५१८-३ तुष्टः शुचिः श्रद्दधदत्ति यो मां तस्यामृतं स्यांस च मां भुनक्ति [Kashi Sanskrit Series: भुनक्तीति] ॥ २३५१९। सुब्राह्मणश्रोत्रियवेदपारगेभ्योगुर्वर्थनिवेशाउषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदिभिक्षमाणेषु ॥ २३५२०। कृतान्नमितरेषु ॥ २३५२१। सुप्रक्षालितपादपाणिराचान्तः शुचौ संवृते देशेन्नमुपहृतमुपसंगृह्य कामक्रोधद्रोहलोभमोहानपहत्य सर्वाभिरङ्गुलीभिः शब्दमकुर्वन् प्राश्नीयात् ॥ २३६१। न पिण्डशेषं पात्र्यामुत्सृजेत् ॥ २३६२। मांसमत्स्यतिलसंसृष्टप्राशनेप उपस्पृश्याग्निमभिमृशेत् ॥ २३६३। अस्तमिते च स्नानम् ॥ २३६४। पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ २३६५। नोत्सङ्गेन्नं भक्षयेत् ॥ २३६६। आसन्द्यां न भुञ्जीत ॥ २३६७। वैणवं दण्डं धारयेद्रुक्मकुण्डले च ॥ २३६८। पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ २३६९। न बहिर्मालां धारयेत् ॥ २३६१०। सूर्यमुदयास्तमये न निरीक्षेत ॥ २३६११। नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ २३६१२। यदि ब्रूयान्मणिधनुरित्येव ब्रूयात् ॥ २३६१३। पुरद्वारीन्द्रकीलपरिघावन्तरेण नातीयात् ॥ २३६१४। प्लेङ्खयोर्[Kashi Sanskrit Series: प्रेङ्खयोर्] अन्तरेण न गच्छेत् ॥ २३६१५। वत्सतन्तीं च नोपरि गच्छेत् ॥ २३६१६। भस्मास्थिरोमतुषकपालापस्नानानि नाधितिष्ठेत् ॥ २३६१७। गां धयन्तीं न परस्मै प्रब्रूयात् ॥ २३६१८। नाधेनुमधेनुरिति ब्रूयात् ॥ २३६१९। यदि ब्रूयाद्धेनुं भव्येत्य्[Kashi Sanskrit Series: धेनुभव्येत्य्] एव ब्रूयात् ॥ २३६२०। शुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ॥ २३६२१। नैकोअध्वानं व्रजेत् ॥ २३६२२। न पतितैर्न स्त्रिया न शूद्रेण ॥ २३६२३। न प्रतिसायं व्रजेत् ॥ २३६२४। न नग्नः स्नायात् ॥ २३६२५। न नक्तं स्नायात् ॥ २३६२६। न नदीं बाहुकस्तरेत् ॥ २३६२७। न कूपमवेक्षेत ॥ २३६२८। न गर्तमवेक्षेत ॥ २३६२९। न तत्रोपविशेद्यत एनमन्य उत्थापयेत् ॥ २३६३० पन्था देयो ब्राह्मणाय गवे राज्ञे ह्यचक्षुषे । २३६३० वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ २३६३१। प्रभूतैधोदक[Kashi Sanskrit Seriesपृष्ठरभूतधोदक]यवससमित्कुशमाल्योपनिष्क्रमणमाढ्यजनाकुलमनलससमृद्धमार्यजनभूयिष्ठमदस्युप्रवेश्यं ग्राममावसितुं यतेत धार्मिकः ॥ २३६३२ उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः । २३६३२ उषित्वा द्वादश समाः शूद्रसाधर्म्यमृच्छति ॥ २३६३३ पुररेणुकुण्ठितशरीरस्तत्परिपुर्ण[Kashi Sanskrit Series:तत्परिपूर्ण]नेत्रवदनश्च । २३६३३ नगरे वसन् सुनियतात्मा सिद्धिमवाप्स्यतीति न तदस्ति ॥ २३६३४ रथाश्वगजधान्यानां गवां चैव रजः शुभम् । २३६३४ अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम् ॥ २३६३५। पूज्यान् पूजयेत् ॥ २३६३६ ऋषिविद्वन्नृपवरमातुलश्वशुरर्त्विजः । २३६३६ एतेर्घ्याः शास्त्रविहिताः स्मृताः कालविभागशः ॥ २३६३७ ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरर्त्विजौ । २३६३७ मातुलश्वशुरौ पूज्यौ संवत्सरगतागतौ ॥ इति ॥ २३६३८ अग्न्यगारे गवां मध्ये ब्राह्मणानां च संनिधौ । २३६३८ स्वाध्याये भोजने चैव दक्षिणं बाहुमुद्धरेत् ॥ २३६३९ उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु । २३६३९ स्वाध्यायोत्सर्गदानेषु भोजनाचामयोस्[Kashi Sanskrit Series:भोजनाचमनयोस्] तथा ॥ २३६४० हवनं भोजनं दानमुपहारः प्रतिग्रहः । २३६४० बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ २३६४१ अन्ने श्रितानि भूतानि अन्नं प्राणमिति श्रुतिः । २३६४१ तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः ॥ २३६४२-१ हुतेन शाम्यते पापं हुतमन्नेन शाम्यति । २३६४२-१ अन्नं दक्षिणया शान्तिमुपयातीति न श्रुतिः [Kashi Sanskrit Series: नश्श्रुतिरिति] । २३६४२-२। उपयातीति नः श्रुतिरिति ॥ [Kashi Sanskrit Series ओम्] २४७१। अथातः संध्योपासनविधिं व्याख्यास्यामः ॥ २४७२। तीर्थं गत्वाप्रयतोअभिषिक्तः प्रयतो वानभिषिक्तःप्रक्षालितपादपाणिरप आचम्य सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्चपवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति ॥ २४७३-१। अथाप्युदाहरन्ति । २४७३-२ अपोवगाहनमपसवगाहनं) स्नानं विहितं सार्ववर्णिकम् । २४७३-२ मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यते ॥ इति ॥ २४७४। सर्वकर्मणां चैवारम्भेषु प्राक्संध्योपासनकालाच्चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति ॥ २४७५। अथाप्युदाहरन्ति । दर्भेष्वासीनो दर्भान् धारयमाणःसोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् ॥ २४७६। प्राणायामशो वा शतकृत्वः ॥ २४७७। उभयतःप्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः ॥ २४७८। त्रिभिश्च प्राणायामैस्तान्तो ब्रह्महृदयेन ॥ २४७९। वारुणीभ्यां रात्रिमुपतिष्ठते । इमं मे वरुण । तत्त्वायामीति । द्वाभ्याम् ॥ २४७१०। एवमेव प्रातः प्राङ्मुखस्तिष्ठन् ॥ २४७११। मैत्रीभ्यामहरुपतिष्ठत् मित्रस्य चर्षणीधृतः । मित्रोजनान् यातयतीति । द्वाभ्याम् ॥ २४७१२। सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ॥ २४७१३। अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥ २४७१४। संध्ययोश्च संपत्तावहोरात्रयोश्च संतत्यै [Kashi Sanskrit Series: सन्ततिः] ॥ २४७१५-१। अपि चात्र प्रजापतिगीतौ श्लोकौ भवतः । २४७१५-२ अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् । २४७१५-२ संध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥ २४७१५-३ सायं प्रातः सदा संध्यां ये विप्रा नो उपासते । २४७१५-३ कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेद् ॥ इति ॥ २४७१६। तत्र सायमतिक्रमे रात्र्युपवासःप्रातरतिक्रमेहरुपवासः ॥ २४७१७। स्थानासनफलमवाप्नोति ॥ २४७१८-१। अथाप्युदाहरन्ति । २४७१८-२ यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । २४७१८-२ बाहुभ्यां मनसा वापि वाचा वा यत्कृतं भवेत् । २४७१८-२ सायं संध्यामुपस्थाय तेन तस्मात्प्रमुच्यते ॥ २४७१९। रात्र्या चापि संधीयते न चैनं वरुणो गृह्णाति ॥ २४७२०। एवमेव प्रातरुपस्थाय रात्रिकृतात्पापात्प्रमुच्यते ॥ २४७२१। अह्ना चापि संधीयते मित्रश्चैनं गोपायत्यादित्यश्चैनं स्वर्गं लोकमुन्नयति ॥ २४७२२। स एवमेवाहरहरहोरात्रयोः संधिषूपतिष्ठमानोब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते । ब्रह्मलोकमभिजयतीति विज्ञायते ॥ २५८१। अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च संगृह्य [Kashi Sanskrit Series:गृह्य] तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिरात्मानम् ॥ २५८२। अथ हैके ब्रुवते । श्मशानमापो देवगृहं गोष्ठं यत्र चब्राह्मणा अप्रक्षाल्य पादौ तन्न प्रवेष्टव्यमिति ॥ २५८३-१। अथापोअभिप्रपद्यते । २५८३-२ हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः । २५८३-२ यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ २५८३-३ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । २५८३-३ तन्न [Kashi Sanskrit Series: म] इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तुपुनःपुनः ॥ इति ॥ २५८४। अथाञ्जलिनाप उपहन्ति [Kashi Sanskrit Series: अथाञ्जलिना उपहन्ति] ।सुमित्रा न आप ओषधयः सन्त्विति ॥ २५८५। तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति ।दुर्मित्रास्तस्मै भूयासुर्योअस्मान् द्वेष्टि यं च वयं द्विष्म इति ॥ २५८६। अथाप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयति । यदपां [Kashi Sanskrit Series: यदर्पां] क्रुरं [Kashi Sanskrit Series: क्रूरं] यदमेध्यं यदशान्तं तदपगच्छताद्[ः: अप गच्छताद्] इति ॥ २५८७। अप्सु निमज्ज्योन्मज्ज्य ॥ २५८८। नाप्सु सतः प्रयमणं विद्यते न वासःपल्पूलनंनोपस्पर्शनम् ॥ २५८९। यद्युपरुद्धाः स्युरेतेनोपतिष्ठते । नमोअग्नयेप्सुमतेनम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोअद्भ्य इति ॥ २५८१०-१। उत्तीर्याचम्याचान्तः पुनराचामेत् । २५८१०-२। आपः पुनन्तु पृथिवीं [Kashi Sanskrit Series: पृथिवी] पृथिवी पूतापुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ॥ २५८१०-३। यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वंपुनन्तु मामापोअसतां च प्रतिग्रहं स्वाहेति ॥ २५८११। पवित्रे कृत्वाद्भिर्मार्जयति । आपो हि ष्ठा मयोभुव इतितिसृभिः । हिरण्यवर्णाः शुचयः पावका इति चतसृभिः । पवमानःसुवर्जन [Kashi Sanskrit Series: सुवर्चन] इति । एतेनानुवाकेनमार्जयित्वान्तर्जलगतोअघमर्षणेन त्रीन् प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्व् आसीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्वआवर्तयेत्शतकृत्वोअपरिमितकृत्वो वा दशावरम् ॥ २५८१२। अथादित्यमुपतिष्ठते । उद्वयं तमसस्परि । उदु त्यम् ।चित्रम् । तच्चक्षुर्देवहितम् । य उदगादिति ॥ २५८१३। अथाप्युदाहरन्ति । प्रणवो व्याहृतयः सावित्री चेत्येतेपञ्च ब्रह्मयज्ञा अहरहर्ब्राह्मणं किल्बिषात्पावयन्ति ॥ २५८१४। पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयति ॥ २५९१। ओम् [Kashi Sanskrit Series ओमित्सोम्] अग्निः प्रजापतिः सोमो रुद्रोअदितिर्बृहस्पतिःसर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ओं वसूंश्च तर्पयामि ॥ २५९२। ओं [Kashi Sanskrit Series ओमित्सों] पितरोअर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ओं रुद्रांश्चतर्पयामि ॥ २५९३। ओं [Kashi Sanskrit Series ओमित्सों] मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्माविष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणिसाहोरात्राणि समुहूर्तानि तर्पयामि । ओमादित्यांश्च तर्पयामि॥ २५९४। ओं [Kashi Sanskrit Series ओमित्सों] वसवो वरुणोअज एकपादहिर्बुध्न्यःपूषाश्विनौ यम इत्येतान्युदग्द्वाराणि दैवतानि सनक्षत्राणिसग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ओं विश्वान्देवांस्तर्पयामि । ओं साध्यांश्च तर्पयामि [Kashi Sanskrit Series: साध्यांस्तर्पयामि] ॥ २५९५। ओं [Kashi Sanskrit Series ओमित्सों] ब्रह्माणं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]प्रजापतिं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] चतुर्मुखं तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] परमेष्ठिनं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] हिरण्यगर्भंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] स्वयंभुवं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]ब्रह्मपार्षदांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] ब्रह्मपार्षदीश्चतर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] अग्निं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वायुंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वरुणं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सूर्यंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] चन्द्रमसं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]नक्षत्राणि तर्पयामि । [Kashi Sanskrit Series: ज्योतींषि तर्पयामि ।] ओं [Kashi Sanskrit Series ओमित्सों]सद्योजातं तर्पयामि । ओं भूः पुरुषं तर्पयामि । ओं भुवः पुरुषंतर्पयामि । ओं सुवः पुरुषं तर्पयामि । ओं भूर्भुवः सुवः पुरुषंतर्पयामि । ओं भूस्तर्पयामि । ओं भुवस्तर्पयामि । ओं सुवस्तर्पयामि । ओं महस्तर्पयामि । ओं जनस्तर्पयामि । ओं तपस्तर्पयामि । ओं सत्यं तर्पयामि ॥ २५९६-१। ओं भवं देवं तर्पयामि । ओं शर्वं देवं तर्पयामि । ओमीशानं देवं तर्पयामि । ओं पशुपतिं देवं तर्पयामि । ओं रुद्रंदेवं तर्पयामि । ओमुग्रं देवं तर्पयामि । ओं भीमं देवंतर्पयामि । ओं महान्तं देवं तर्पयामि । २५९६-२। ओं भवस्य देवस्य पत्नीं तर्पयामि । ओं शर्वस्य देवस्यपत्नीं तर्पयामि । ओमीशानस्य देवस्य पत्नीं तर्पयामि । ओंपशुपतेर्देवस्य पत्नीं तर्पयामि । ओं रुद्रस्य देवस्य पत्नींतर्पयामि । ओमुग्रस्य देवस्य पत्नीं तर्पयामि । ओं भीमस्य देवस्यपत्नीं तर्पयामि । ओं महतो देवस्य पत्नीं तर्पयामि । २५९६-३। ओं भवस्य देवस्य सुतं तर्पयामि । ओं शर्वस्य देवस्यसुतं तर्पयामि । ओमीशानस्य देवस्य सुतं तर्पयामि । ओं पशुपतेर्देवस्य सुतं तर्पयामि । ओं रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ओं भीमस्य देवस्य सुतं तर्पयामि। ओं महतो देवस्य सुतं तर्पयामि । ओं रुद्रांस्तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्स् ओं] रुद्रपार्षदांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] रुद्रपार्षदीश्च तर्पयामि ॥ २५९७। ओं विघ्नं तर्पयामि । ओं विनायकं [Kashi Sanskrit Series ओमित्सों] तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] वीरं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] स्थूलं [Kashi Sanskrit Series: शूरं]तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वरदं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]हस्तिमुखं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वक्रतुण्डं तर्पयामि । ओम् [Kashi Sanskrit Seriesओमित्सोम्] एकदन्तं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] लम्बोदरं तर्पयामि ।[Kashi Sanskrit Series: गणपतिं तर्पयामि ।] ओं [Kashi Sanskrit Series ओमित्सों] विघ्नपार्षदांस्तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] विघ्नपार्षदीश्च तर्पयामि ॥ २५९८। ओं सनत्कुमारं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] स्कन्दंतर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] इन्द्रं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] षष्ठींतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] षण्मुखं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]जयन्तं [Kashi Sanskrit Series: विशाखं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] विशाखं [Kashi Sanskrit Series:जयन्तं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] महासेनं तर्पयामि । ओंसुब्रह्मण्यं तर्पयामि [Kashi Sanskrit Series ओमित्स्: ओं सुब्रह्मण्यं तर्पयामि] । ओं [Kashi Sanskrit Seriesओमित्सों] स्कन्दपार्षदांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]स्कन्दपार्षदीश्च तर्पयामि ॥ २५९९। ओमादित्यं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सोमं तर्पयामि । ओम्[Kashi Sanskrit Series ओमित्सोम्] अङ्गारकं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] बुधं तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] बृहस्पतिं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] शुक्रं तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] शनैश्चरं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] राहुंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] केतुं तर्पयामि ॥ २५९१०। ओं केशवं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] नारायणं तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] माधवं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] गोविन्दंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] विष्णुं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]मधुसूदनं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] त्रिविक्रमं तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] वामनं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] श्रीधरं तर्पयामि ।ों [Kashi Sanskrit Series ओमित्स् ओं] हृषीकेशं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] पद्मनाभंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] दामोदरं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]श्रियं देवीं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सरस्वतीं देवीं तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] पुष्टिं [Kashi Sanskrit Series: पुष्टिं देवीं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]तुष्टिं [Kashi Sanskrit Series: तुष्टिं देवीं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] गरुत्मन्तं [Kashi Sanskrit Series:वैनतेयं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] विष्णुपार्षदांस्तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] विष्णुपार्षदीश्च तर्पयामि ॥ २५९११। ओं यमं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] यमराजं तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] धर्मं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] धर्मराजंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] कालं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] नीलंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] मृत्युं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]वैवस्वतं [Kashi Sanskrit Series: अन्तकं] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] चित्रं तर्पयामि ।ों [Kashi Sanskrit Series ओमित्स् ओं] चित्रगुप्तं तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] औदुम्बरंतर्पयामि । [Kashi Sanskrit Series: वैवस्वतं तर्पयामि ।] ओं [Kashi Sanskrit Series ओमित्सों]वैवस्वतपार्षदांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वैवस्वतपार्षदीश्च तर्पयामि ॥ २५९१२। ओं [Kashi Sanskrit Series ओमित्सों] भूमिदेवांस्[Kashi Sanskrit Series: भरद्वाजं] तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] काश्यपम् [क्: गौतमं] तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्]अन्तरिक्षं [Kashi Sanskrit Series: अत्रिं] तर्पयामि । [Kashi Sanskrit Series: आङ्गिरसं तर्पयामि ।] ओं [Kashi Sanskrit Seriesओमित्सों] विद्यां तर्पयामि । [Kashi Sanskrit Series: दुर्गां तर्पयामि । ज्येष्ठांतर्पयामि ।] ओं [Kashi Sanskrit Series ओमित्सों] धन्वन्तरिं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]धन्वन्तरिपार्षदांस् तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]धन्वन्तरिपार्षदीश्च तर्पयामीति [Kashi Sanskrit Series: तर्पयामि] ॥ २५९१३। अथ निवीती ॥ २५९१४-१। ओमृषींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] महर्षींस्[Kashi Sanskrit Seriesपृष्ठअरमर्षींस्] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] परमर्षींस्[Kashi Sanskrit Series: महर्षींस्]तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] ब्रह्मर्षींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]देवर्षींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] राजर्षींस्तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] श्रुतर्षींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] जनरृषींस्तर्पयामि। ओं [Kashi Sanskrit Series ओमित्स् ओं] तपरृषींस्[Kashi Sanskrit Series: तपर्षींस्] तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]सत्यर्षींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सप्तर्षींस्तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] काण्डर्षींस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] ऋषिकांस्तर्पयामि ।ोम् [Kashi Sanskrit Series ओमित्सोम्] ऋषिपत्नीस्तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] ऋषिपुत्रांस्तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] ऋषिपौत्रांस्तर्पयामि । २५९१४-२। ओं [Kashi Sanskrit Series ओमित्सों] काण्वं बौधायनं तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] आपस्तम्बं सूत्रकारं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सत्याषाढंहिरण्यकेशिनं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वाजसनेयिनं याज्ञवल्क्यम्तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] आश्वलायनं शौनकं तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] व्यासं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] वसिष्ठं तर्पयामि । २५९१४-३। ओं [Kashi Sanskrit Series ओमित्सों] प्रणवं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]व्याहृतीस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सावित्रीं तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] गायत्रीं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] छन्दांसि तर्पयामि ।ोम् [Kashi Sanskrit Series ओमित्सोम्] ऋग्वेदं तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] यजुर्वेदंतर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सामवेदं तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्]अथर्ववेदं तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] अथर्वाङ्गिरसस्[Kashi Sanskrit Series:अथर्वाङ्गिरसं] तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] इतिहासपुराणानितर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सर्ववेदांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]सर्वदेवजनांस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सर्वभूतानितर्पयामीति [Kashi Sanskrit Series: तर्पयामि] ॥ २५१०१। अथ प्राचीनावीति । ओं पितॄन् स्वधा नमस्तर्पयामि । ओं[Kashi Sanskrit Series ओमित्सों] पितामहान् स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]प्रपितामहान् स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] मातॄः स्वधानमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] पितामहीः स्वधा नमस्तर्पयामि ।ों [Kashi Sanskrit Series ओमित्सों] प्रपितामहीः स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]मातामहान् स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] मातुः पितामहान्स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] मातुः प्रपितामहान् स्वधानमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] मातामहीः स्वधा नमस्तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] मातुः पितामहीः स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Seriesओमित्सों] मातुः प्रपितामहीः स्वधा नमस्तर्पयामि ॥ २५१०२। ओमाचार्यान् स्वधा नमस्तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्]आचार्यपत्नीः स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] गुरून् स्वधानमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] गुरुपत्नीः स्वधा नमस्तर्पयामि। ओं [Kashi Sanskrit Series ओमित्सों] सखीन् स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]सखिपत्नीः स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] ज्ञातीन् स्वधानमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] ज्ञातिपत्नीः स्वधा नमस्तर्पयामि । ओम् [Kashi Sanskrit Series ओमित्सोम्] अमात्यान् स्वधा नमस्तर्पयामि । ओम् [Kashi Sanskrit Seriesओमित्सोम्] अमात्यपत्नीः स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों]सर्वान् स्वधा नमस्तर्पयामि । ओं [Kashi Sanskrit Series ओमित्सों] सर्वाः स्वधा नमस्तर्पयामीति ॥ २५१०३। अनुतीर्थमप उत्सिञ्चति ॥ २५१०४। ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् ।स्वधा स्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यतेति ॥ २५१०५। नैकवस्त्रो नार्द्रवासा दैवानि [Kashi Sanskrit Series: देवानि] कर्माण्यनुसंचरेत् ॥ २५१०६। पितृसंयुक्तानि चेत्येकेषाम् । पितृसंयुक्तानि चेत्येकेषाम् ॥ २६१११। अथेमे पञ्च महायज्ञाः । तान्येव महासत्त्राणि ।देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ॥ २६११२। अहरहः स्वाहाकुर्यादा काष्ठात् । तथैतंदेवयज्ञं समाप्नोति ॥ २६११३। अहरहः स्वधाकुर्यादोदपात्रात् । तथैतंपितृयज्ञं समाप्नोति ॥ २६११४। अहरहर्नमस्कुर्यादा पुष्पेभ्यः । तथैतम्भूतयज्ञं समाप्नोति ॥ २६११५। अहरहर्ब्राह्मणेभ्योअन्नं दद्यादा मूलफलशाकेभ्यः। तथैतं मनुष्ययज्ञं समाप्नोति ॥ २६११६। अहरहः स्वाध्यायं कुर्यादा प्रणवात् । तथैतंब्रह्मयज्ञं समाप्नोति ॥ २६११७। स्वाध्यायो वै ब्रह्मयज्ञः । तस्य ह वा एतस्यब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवःसत्यमवभृथः स्वर्गो लोक उदयनम् । यावन्तं ह वा इमां वित्तस्यपूर्णां ददत्स्वर्गं लोकं जयति तावन्तं लोकं जयति [Kashi Sanskrit Series ओमित्स्:तावन्तं लोकं जयति] भूयांसं चाक्षय्यं चाप पुनर्मृत्युं जयतिय एवं विद्वान् स्वाध्यायमधीते । तस्मात्स्वाध्यायोअध्येतव्य इतिहि ब्राह्मणम् ॥ २६११८। अथाप्युदाहरन्ति । स्वभ्यक्तः सुहितः सुखे शयनेशयानो यं यं क्रतुमधीते तेन तेनास्येष्टं भवतीति ॥ २६११९। तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदमेक आहुः ।दृष्टत्वात् । ये चत्वार इति । कर्मवादः ॥ २६१११०। ऐष्टिकपाशुकसौमिकदार्विहोमाणाम् [Kashi Sanskrit Series दार्वीहोमाणाम्] ॥ २६११११-१। तदेषाभिवदति । २६११११-२ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । २६११११-२ तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्तेह सर्वे ॥ इति ॥ २६१११२। ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥ २६१११३। ब्रह्मचारी गुरुशुश्रूष्या मरणात् ॥ २६१११४। वानप्रस्थो वैखानसशास्त्रसमुदाचारः ॥ २६१११५। वैखानसो वने मूलफलाशी तपःशीलः सवनेषूदकमुपस्पृशन्श्रामणकेनाग्निमाधायाग्राम्यभोजीदेवपितृभूतमनुष्यर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जंबैष्कमप्युपयुञ्जीत । न फालकृष्टमधितिष्ठेद्ग्रामं च नप्रविशेत् । जटिलश्चीराजिनवासा नातिसांवत्सरं भुञ्जीत ॥ २६१११६। परिव्राजकः परित्यज्य बन्धूनपरिग्रहः प्रव्रजेद्[Kashi Sanskrit Seriesपृष्ठअरिव्रजेद्] यथाविधि ॥ २६१११७। अरण्यं गत्वा ॥ २६१११८। शिखामुण्डः ॥ २६१११९। कौपीनाच्छादनः [Kashi Sanskrit Series: कौपीनाच्छादनाः] ॥ २६११२०। वर्षास्वेकस्थः ॥ २६११२१। काषायवासाः ॥ २६११२२। सन्नमुसले व्यङ्गारे निवृत्तशरावसंपाते भिक्षेत ॥ २६११२३। वाङ्मनःकर्मदण्डैर्भूतानामद्रोही ॥ २६११२४। पवित्रं बिभ्रत्[Kashi Sanskrit Series: बिभृयात्]शौचार्थम् ॥ २६११२५। उद्धृतपरिपूताभिरद्भिरप्कार्यं कुर्वाणः [Kashi Sanskrit Series: अद्भिःकार्यं कुर्यात्] ॥ २६११२६। अपविध्य वैदिकानि कर्माण्युभयतः परिच्छिन्ना मध्यमंपदं संश्लिष्यामह इति वदन्तः ॥ २६११२७। ऐकाश्रम्यं त्वाचार्या अप्रजनत्वाद्[Kashi Sanskrit Series: अप्रजननत्वाद्]इतरेषाम् ॥ २६११२८। तत्रोदाहरन्ति । प्राह्लादिर्ह वै कपिलो नामासुरआस । स एतान् भेदांश्चकार देवैः [Kashi Sanskrit Series: देवैस्सह] स्पर्धमानः ।तान्मनीषी नाद्रियेत ॥ २६११२९। अदृष्टत्वात् । ये चत्वार इति । कर्मवादऐष्टिकपाशुकसौमिकदार्विहोमाणाम् [Kashi Sanskrit Series दार्वीहोमाणाम्] ॥ २६११३०-१। तदेषाभ्यनूच्यते । २६११३०-२ एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् । २६११३०-२ तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यतेपापकेन ॥ इति ॥ च्f २१०१७७) २६११३१-१। स ब्रूयात् । २६११३१-२ येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान्योनियोनौ । २६११३१-२ नावेदविन्मनुते तं बृहन्तं सर्वानुभूम् [Kashi Sanskrit Series:सर्वानुभुम्] आत्मानं संपराये [Kashi Sanskrit Series: साम्पराये] ॥ इति ॥ २६११३२ इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो नसुतेकरासः । २६११३२ त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वतेअप्रजज्ञये ॥ इति ॥ २६११३३। प्रजाभिरग्ने अमृतत्वमश्याम् । जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजयापितृभ्य इति । एवमृणसंयोगवादिन्योअसंख्येया [Kashi Sanskrit Series: ऋणसंयोगादीन्यसंख्येयानि] भवन्ति ॥ च्f २९१६७) २६११३४-१ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपोयज्ञमनुप्रदानम् । २६११३४-१ य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वाध्वंसतेन्यत्प्रशंसन् ॥ इति । २६११३४-२। ध्वंसतेन्यत्[Kashi Sanskrit Series ओमित्स्: ध्वंसतेऽन्यत्] प्रशंसन्निति ॥ २७१२१। अथ शालीनयायावराणामात्मयाजिनां प्राणाहुतीर्व्याख्यास्यामः ॥ २७१२२। सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुखौपविश्य तद्भूतमाह्रियमाणम् । भूर्भुवः सुवरोमिति ।ुपस्थाय वाचं यच्छेत् ॥ २७१२३। न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्यसव्येन पाणिनाविमुञ्चन् । अमृतोपस्तरणमसीति । पुरस्तादपःपीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति । प्राणे निविष्टोअमृतंजुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा । अपानेनिविष्टोअमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा ।व्याने निविष्टोअमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानायस्वाहा । उदाने निविष्टोअमृतं जुहोमि । शिवो मा विशाप्रदाहाय ।ुदानाय स्वाहा । समाने निविष्टोअमृतं जुहोमि । शिवो माविशाप्रदाहाय । समानाय स्वाहेति ॥ [Kashi Sanskrit Series ओमित्स्: अपाने निविष्टो समानाय स्वाहा] २७१२४। पञ्चान्नेन प्राणाहुतीर्हुत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् । नान्तरा वाचं विसृजेत् ॥ २७१२५। यद्य्[Kashi Sanskrit Series: यद्] अन्तरा वाचं विसृजेत् । भूर्भुवः सुवरोमिति । जपित्वा पुनरेव भुञ्जीत् । २७१२६। त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याद्भिरभ्युक्ष्य भस्मावकीर्य पुनरद्भिः प्रोक्ष्य वाचाच प्रशस्तमुपयुञ्जीत ॥ २७१२७-१। अथाप्युदाहरन्ति । २७१२७-२ आसीनः प्राङ्मुखोअश्नीयाद्वाग्यतोअन्नमकुत्सयन् । २७१२७-२ अस्कन्दयंस्तन्मनाश्च भुक्त्वा चाग्निमुपस्पृशेद् ॥ इति ॥ २७१२८। सर्वभक्ष्यापूपकन्दमूलफलमांसानि [Kashi Sanskrit Seriesमांसादीनि] दन्तैर्नावद्येत् ॥ २७१२९। नातिसुहितः ॥ २७१२१०। अमृतापिधानमसीति । उपरिष्टादपः पीत्वाचान्तोहृदयदेशमभिमृशति । प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः । तेनान्नेनाप्यायस्वेति ॥ २७१२११-१। पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति । २७१२११-२ अङ्गुष्ठमात्रः पुरुषोअङ्गुष्ठं च समाश्रितः । २७१२११-३ ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ इति ॥ २७१२१२। हुतानुमन्त्रणमूर्ध्वहस्तः समाचरेत् । श्रद्धायांप्राणे निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व । श्रद्धायामपाने निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व । श्रद्धायांव्याने निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व । श्रद्धायामुदाने निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व । श्रद्धायांसमाने निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्वेति । पञ्चभिः॥ [Kashi Sanskrit Series ओमित्स्: श्रद्धायामपाने श्रद्धायां समाने अन्नेनाप्यायस्व] २७१२१३। ब्रह्मणि म आत्मामृतत्वायेति [Kashi Sanskrit Series: आत्मामृतत्वायेत्यात्मानम्] ॥ २७१२१४। अक्षरेण चात्मानं योजयेत् ॥ २७१२१५। सर्वक्रतुयाजिनामात्मयाजी विशिष्यते ॥ २७१२१६। अथाप्युदाहरन्ति ॥ २७१३१ यथा हि तूलमैषीकमग्नौ प्रोतं प्रदीप्यते । २७१३१ तद्वत्सर्वाणि पापानि दह्यन्ते ह्यात्मयाजिनः ॥ २७१३२। केवलाघो भवति केवलादी । मोघमन्नं विन्दतेअप्रचेता [Kashi Sanskrit Series ओमित्सप्रचेता] इति ॥ २७१३३। स एवमेवाहरहः सायं प्रातर्जुहुयात् ॥ २७१३४। अद्भिर्वा सायम् ॥ २७१३५-१। अथाप्युदाहरन्ति । २७१३५-२ अग्रे भोजयेदतिथीनन्तर्वत्नीरनन्तरम् । २७१३५-२ बालवृद्धांस्तथा दीनान् व्याधितांश्च विशेषतः ॥ २७१३५-३ अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथाविधि । २७१३५-३ भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥ २७१३६ पितृदैवतभृत्यानां मातापित्रोर्गुरोस्तथा । २७१३६ वाग्यतो विघसमश्नीयादेवं धर्मो विधीयते ॥ इति ॥ २७१३७-१। अथाप्युदाहरन्ति । २७१३७-२ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । २७१३७-२ द्वात्रिंशत्तु [Kashi Sanskrit Series: द्वात्रिंशतं] गृहस्थस्य अमितं [Kashi Sanskrit Series:गृहस्थस्यापरिमितं] ब्रह्मचारिणः ॥ २७१३८ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । २७१३८ अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥ इति ॥ २७१३९ गृहस्थो ब्रह्मचारी वा योअनश्नंस्तु तपश्चरेत् । २७१३९ प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥ २७१३१०। अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तदेव विधानम् ॥ २७१३११-१। अथाप्युदाहरन्ति । २७१३११-२ अन्तरा प्रातराशं च सायमाशं तथैव च । २७१३११-२ सदोपवासी भवति यो न भुङ्क्ते कदाचन [Kashi Sanskrit Series:कदाचनेति] ॥ २७१३१२ प्राणाग्निहोत्रमन्त्रांस्तु निरुद्धे भोजने जपेत् । २७१३१२ त्रेताग्निहोत्रमन्त्रांस्तु द्रव्यालाभे यथा जपेत् ॥िति ॥ २७१३१३। एवमाचरन् [Kashi Sanskrit Series: एवमेवाचरन्] ब्रह्मभूयाय कल्पते ।ब्रह्मभूयाय कल्पत इति ॥ २८१४१। पित्र्यमायुष्यं स्वर्ग्यं यशस्यं पुष्टिकर्म च ॥ २८१४२। त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निःषडङ्गवित्शीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः ॥ २८१४३। तदभावे रहस्यवित् ॥ २८१४४। ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डमप्याशयेत् ॥ २८१४५ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । २८१४५ मध्वृचोअथ पवित्राणि श्रावयेदाशयन्शनैः ॥ २८१४६। चरणवतोअनूचानान् योनिगोत्रमन्त्रासंबद्धान्[Kashi Sanskrit Seriesअसम्बन्धान्]शुचीन्मन्त्रवतस्त्र्यवरानयुजः पूर्वेद्युः प्रातरेववा निमन्त्र्य सदर्भोपकॢप्तेष्वासनेषु प्राङ्मुखानुपवेशयत्युदङ्मुखान् वा ॥ २८१४७। अथैनांस्तिलमिश्रा अपः प्रतिग्राह्य गन्धैर्माल्यैश्चालंकृत्य । अग्नौ करिष्यामीति । अनुज्ञातोग्निमुपसमाधायसंपरिस्तीर्याग्निमुखात्कृत्वान्नस्यैव [Kashi Sanskrit Series: कृत्वाज्यस्यैव]तिस्र आहुतीर्जुहोति । सोमाय पितृपीताय स्वधा नमः स्वाहा ।यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नयेकव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति ॥ २८१४८। तत्शेषेणान्नमभिघार्यान्नस्यैता एव तिस्रो [Kashi Sanskrit Series: तिस्रआहुतीर्] जुहुयात् ॥ २८१४९। वयसां पिण्डं दद्यात् ॥ २८१४१०। वयसां हि पितरः प्रतिमया चरन्तीति विज्ञायते ॥ २८१४११। अथेतरत्साङ्गुष्ठेन पाणिनाभिमृशति ॥ २८१४१२-१। पृथिवीसमन्तस्य [Kashi Sanskrit Series: पृथिवीसमं तस्य] तेग्निरुपद्रष्टर्चस्ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिंलोक इति । २८१४१२-२। अन्तरिक्षसमन्तस्य [Kashi Sanskrit Series: अन्तरिक्षस्समं तस्य] ते वायुरुपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रंद्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानांक्षेष्ठा अमुत्रामुष्मिं लोक इति । २८१४१२-३। द्युसमन्तस्य [Kashi Sanskrit Series: द्यौसमं तस्य] त आदित्योअनुख्यातासामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठाअमुत्रामुष्मिं लोक इति ॥ २८१५१। अथ वै भवति ॥ २८१५२ अग्नौ करणशेषेण तदन्नमभिघारयेत् । २८१५२ निरङ्गुष्ठं तु यद्दत्तं न तत्प्रीणाति वै पितॄन् ॥ २८१५३ उभयोः शाखयोर्मुक्तं पितृभ्योअन्नं निवेदितम् । २८१५३ तदन्तरमुपासन्ते असुरा [Kashi Sanskrit Series: उपासन्तेऽसुरा वै]दुष्टचेतसः ॥ २८१५४ यातुधानाः पिशाचाश्च प्रतिलुम्पन्ति तथविः । २८१५४ तिलदाने ह्यदायाश्च तथा क्रोधवशेसुराः ॥ २८१५५ काषायवासा यान् कुरुते जपहोमप्रतिग्रहान् । २८१५५ न तद्देवंगमं [Kashi Sanskrit Series: देवगमं] भवति हव्यकव्येषुयथविः ॥ २८१५६ यच्च दत्तमनङ्गुष्ठं यच्चैव प्रतिगृह्यते । २८१५६ आचामति च यस्तिष्ठन्न स तेन समृध्यते ॥ इति ॥ २८१५७। आद्यन्तयोरपां प्रदानं सर्वत्र ॥ २८१५८। जयप्रभृति यथाविधानम् ॥ २८१५९। शेषमुक्तमष्टकाहोमे ॥ २८१५१० द्वौ दैवे [Kashi Sanskrit Series: देवे] पितृकार्ये त्रीनेकैकमुभयत्र वा । २८१५१० भोजयेत्सुसमृद्धोअपि न प्रसज्येत [Kashi Sanskrit Series: प्रसज्जेत] विस्तरे ॥ २८१५११ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । २८१५११ पञ्चैतान् विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ २८१५१२ उरस्तः पितरस्तस्य वामतश्च पितामहाः । २८१५१२ दक्षिणतः प्रपितामहाः पृष्ठतः पिण्डतर्ककाः ॥ इति ॥ २९१६१। प्रजाकामस्योपदेशः ॥ २९१६२। प्रजनननिमित्ता समाख्येत्यश्विनावूचतुः ॥ २९१६३ आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः । २९१६३ प्रजामुत्पादयेद्युक्तः स्वेस्वे वर्णे [Kashi Sanskrit Series: वंशे]जितेन्द्रियः ॥ २९१६४ ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः । २९१६४ तानि मुच्यात्मवान् भवति विमुक्तो धर्मसंशयात् ॥ २९१६५ स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरंदरम् । २९१६५ प्रजया च पितॄन् पूर्वाननृणो दिवि मोदते ॥ २९१६६ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यम् [Kashi Sanskrit Series: पौत्रेणामृतम्]अश्नुते । २९१६६ अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति ॥ इति ॥ २९१६७। विज्ञायते च । जायमानो वै ब्राह्मणस्त्रिभिरृणवाजायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति ।ेवमृणसंयोगं वेदो दर्शयति ॥ च्f २६११३३) २९१६८। सत्पुत्रमुत्पाद्यात्मानं तारयति ॥ २९१६९। सप्तावरान् सप्त पूर्वान् षडन्यानात्मसप्तमान् । सत्पुत्रमधिगच्छानस्तारयत्येनसो भयात् ॥ २९१६१०। तस्मात्प्रजासंतानमुत्पाद्य फलमवाप्नोति [Kashi Sanskrit Series: फलं प्राप्नोति] ॥ २९१६११। तस्माद्यत्नवान् प्रजामुत्पादयेत् ॥ २९१६१२। औषधमन्त्रसंयोगेन ॥ २९१६१३। तस्योपदेशः श्रुतिसामान्येनोपदिश्यते ॥ २९१६१४। सर्ववर्णेभ्यः फलवत्त्वाद्[Kashi Sanskrit Series: फलत्त्वाद्] इति ।फलवत्त्वाद्[Kashi Sanskrit Series: फलत्त्वाद्] इति ॥ २१०१७१। अथातः संन्यासविधिं व्याख्यास्यामः ॥ २१०१७२। सोअत एव ब्रह्मचर्यवान् प्रव्रजतीत्येकेषाम् ॥ २१०१७३। अथ शालीनयायावराणामनपत्यानाम् ॥ २१०१७४। विधुरो वा प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥ २१०१७५। सप्तत्या ऊर्ध्वं संन्यासमुपदिशन्ति ॥ २१०१७६। वानप्रस्थस्य वा कर्मविरामे ॥ २१०१७७ एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् । २१०१७७ तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यतेपापकेन ॥ इति ॥ च्f २६११३०) २१०१७८। अपुनर्भवं नयतीति नित्यः ॥ २१०१७९। महदेनं गमयतीति महिमा ॥ २१०१७१०। केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥ २१०१७११। यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रमिति ॥ २१०१७१२। एतत्समादाय ग्रामान्ते ग्रामसीमान्तेग्न्यगारेवाज्यं पयो दधीति त्रिवृत्प्राश्योपवसेत् ॥ २१०१७१३। अपो वा ॥ २१०१७१४। ओं भूः सावित्रीं प्रविशामि तत्सवितुर्वरेण्यम् । ओंभुवः सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओं सुवः सावित्रींप्रविशामि धियो यो नः प्रचोदयादिति । पच्छोपद्शस्)अर्धर्चशस्ततः समस्तया च व्यस्तया च ॥ २१०१७१५। आत्मानमात्मन [Kashi Sanskrit Series ओमित्स्: आत्मानमात्मन] आश्रमादाश्रममुपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥ २१०१७१६-१। अथाप्युदाहरन्ति । २१०१७१६-२ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । २१०१७१६-२ भिक्षाबलिपरिश्रान्तः पश्चाद्भवति भिक्षुकः ॥ इति ॥ २१०१७१७। स एष भिक्षुरानन्त्याय ॥ २१०१७१८। पुरादित्यस्यास्तमयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धृत्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतंगृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति । ओं स्वाहेति ॥ २१०१७१९। एतद्ब्रह्मान्वाधानमिति विज्ञायते ॥ २१०१७२०। अथ सायं हुतेग्निहोत्र उत्तरेण गार्हपत्यं तृणानिसंस्तीर्य तेषु द्वंद्वं न्यञ्चि पात्राणि सादयित्वादक्षिणेनाहवनीयं ब्रह्मायतने दर्भान् संस्तीर्य तेषुकृष्णाजिनं चान्तर्धायैतां रात्रिं जागर्ति ॥ २१०१७२१। य एवं विद्वान् ब्रह्मरात्रिमुपोष्य ब्राह्मणोअग्नीन् [Kashi Sanskrit Series:उपोष्याग्नीन्] समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरतिब्रह्महत्याम् ॥ २१०१७२२। अथ ब्राह्मे मुहूर्त उत्थाय काल एव प्रातरग्निहोत्रंजुहोति ॥ २१०१७२३। अथ पृष्ठ्यां स्तीर्त्वापः प्रणीय वैश्वानरंद्वादशकपालं निर्वपति । सा प्रसिद्धेष्टिः संतिष्ठते ॥ २१०१७२४। आहवनीयेग्निहोत्रपात्राणि प्रक्षिपत्यमृन्मयान्यनश्ममयानि [Kashi Sanskrit Series: प्रक्षिपेदमृण्मयान्यनायसानि] ॥ २१०१७२५। गार्हपत्येरणी । भवतं नः समनसाविति ॥ २१०१७२६। आत्मन्य्[Kashi Sanskrit Series: अथात्मन्य्] अग्नीन् समारोपयते । या ते अग्नेयज्ञिया तनूरिति त्रिस्त्रिरेकैकं समाजिघ्रति ॥ २१०१७२७। अथान्तर्वेदि तिष्ठन् । ओं भूर्भुवः सुवः संन्यस्तंमया संन्यस्तं मया संन्यस्तं मयेति । त्रिरुपांशूक्त्वा त्रिरुच्चैः ॥ २१०१७२८। त्रिषत्या हि देवा इति विज्ञायते ॥ २१०१७२९। अभयं सर्वभूतेभ्यो मत्त इति चापां पूर्णमञ्जलिंनिनयति ॥ २१०१७३०-१। अथाप्युदाहरन्ति । २१०१७३०-२ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । २१०१७३०-२ न तस्य सर्वभूतेभ्यो भयं चापीह [Kashi Sanskrit Series: चापि ह]जायते ॥ इति ॥ २१०१७३१। स वाचंयमो भवति ॥ २१०१७३२। सखा मा [Kashi Sanskrit Series: मे] गोपायेति दण्डमादत्ते ॥ २१०१७३३। यदस्य पारे रजस इति शिक्यं गृह्णाति ॥ २१०१७३४। येन देवाः पवित्रेणेति जलपवित्रं गृह्णाति ॥ २१०१७३५। येन देवा ज्योतिषोर्ध्वा उदायन्निति कमण्डलुं गृह्णाति ॥ २१०१७३६। सप्तव्याहृतिभिः पात्रं गृह्णाति ॥ २१०१७३७। यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतत्समादाय यत्रापस्तत्र [Kashi Sanskrit Series: तद्] गत्वा स्नात्वाप आचम्यसुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतोअघमर्षणेन षोडश प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वान्यत्प्रयतं वासःपरिधायाप आचम्य । ओं भूर् भुवः सुवरिति । जलपवित्रमादाय तर्पयति । ओं भूस्तर्पयामि । ओं भुवस्तर्पयामि । ओंसुवस्तर्पयामि । ओं महस्तर्पयामि । ओं जनस्तर्पयामि । ओं तपस्तर्पयामि । ओं सत्यं तर्पयामीति ॥ २१०१७३८। देववत्[Kashi Sanskrit Series ओमित्स्देववत्] पितृभ्योअञ्जलिमादाय [Kashi Sanskrit Series:उपादाय] । ओं भूः स्वधा । ओं भुवः स्वधा । ओं सुवः स्वधा । ओंभूर्भुवः सुवर्महर्नम इति ॥ २१०१७३९। अथ । उदु त्यम् । चित्रमिति । द्वाभ्यामादित्यमुपतिष्ठते ॥ २१०१७४०। ओमिति ब्रह्म ब्रह्म वा एष ज्योतिर्य एष तपत्येष वेदो[Kashi Sanskrit Series: ओम् एष ज्योतिः य एष ज्योतिः य एष तर्पत्यैष वेदा] य एषतपति [Kashi Sanskrit Series: य एव तर्पयति] वेद्यमेवैतद्य एष तपति [Kashi Sanskrit Series: तर्पयति]। एवमेवैष आत्मानं तर्पयति । आत्मने नमस्करोति । आत्माब्रह्मात्मा ज्योतिः ॥ २१०१७४१। सावित्रीं सहस्रकृत्व आवर्तयेत्शतकृत्वोअपरिमितकृत्वो वा ॥ २१०१७४२। ओं भूर्भुवः सुवरिति जलपवित्रम् [Kashi Sanskrit Series: पवित्रम्]आदायापो गृह्णाति ॥ २१०१७४३। नात [Kashi Sanskrit Series: न चात] ऊर्ध्वमनुद्धृताभिरद्भिरपरिस्रुताभिरपरिपूताभिर्वाचामेत् ॥ २१०१७४४। न चात ऊर्ध्वं शुक्लं वासो धारयेत् ॥ २१०१८१। एकदण्डी त्रिदण्डी वा ॥ २१०१८२। अथेमानि व्रतानि भवन्ति । अहिंसा सत्यमस्तैन्यंमैथुनस्य च वर्जनम् । त्याग इत्येव ॥ २१०१८३। पञ्चैवोपव्रतानि भवन्ति । अक्रोधोगुरुशुश्रूषाप्रमादः शौचमाहारशुद्धिश्चेति ॥ २१०१८४। अथ भैक्षचर्या । ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे भिक्षां लिप्सेत ॥ २१०१८५। भवत्पूर्वां प्रचोदयेत्[Kashi Sanskrit Series: प्रचोदयात्] ॥ २१०१८६। गोदोहमात्रम् [Kashi Sanskrit Series: गोदोहनमात्रम्] आकाङ्क्षेत् ॥ २१०१८७। अथ भैक्षचर्यादुपावृत्य [Kashi Sanskrit Series: उपावृत्तः] शुचौ देशेन्यस्य हस्तपादान् प्रक्षाल्यादित्यस्याग्रं [Kashi Sanskrit Series: अग्रे] निवेदयेत् ।ुदु त्यम् । चित्रमिति । ब्रह्मणे निवेदयते । ब्रह्म जज्ञानमिति ॥ २१०१८८। विज्ञायते । आधानप्रभृति यजमान एवाग्नयो भवन्ति। तस्य प्राणो गार्हपत्योअपानोअन्वाहार्यपचनो व्यान आहवनीयौदानसमानौ सभ्यावसथ्यौ । पञ्च वा एतेग्नय आत्मस्थाः ।ात्मन्येव जुहोति ॥ २१०१८९। स एष आत्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानंक्षेमं नयतीति विज्ञायते ॥ २१०१८१०। भूतेभ्यो दयापूर्वं संविभज्य शेषमद्भिःसंस्पृश्याउषधवत्प्राश्नीयात् ॥ २१०१८११। प्राश्याप आचम्य ज्योतिष्मत्यादित्यमुपतिष्ठते । उद्वयं तमसस्परीति । वाङ्म आसन्नसोः प्राण इति जपित्वा ॥ [Kashi Sanskrit Seriesपृष्ठराश्याप आचम्य वाङ्म आसन्नसोः प्राण इति जपित्वाज्योतिष्मत्यादित्यमुपतिष्ठते उद्वयं तमसस्परीति ] २१०१८१२ अयाचितमसंकॢप्तमुपपन्नं यदृच्छया । २१०१८१२ आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकम् ॥ इति ॥ २१०१८१३-१। अथाप्युदाहरन्ति । २१०१८१३-२ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । २१०१८१३-२ द्वात्रिंशत्तु [Kashi Sanskrit Series: द्वात्रिंशतं] गृहस्थस्य अमितंब्रह्मचारिणः ॥ २१०१८१४ भैक्षं वा सर्ववर्णेभ्य एकान्नं वा द्विजातिषु । २१०१८१४ अपि वा सर्ववर्णेभ्यो न चैकान्नं द्विजातिषु ॥ इति ॥ २१०१८१५-१। अथ यत्रोपनिषदमाचार्या ब्रुवते तत्रोदाहरन्ति । २१०१८१५-२।स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य कणपिण्याकयावकदधिपयोव्रतत्वं चेति ॥ २१०१८१६। तत्र मौने युक्तस्त्रैविद्यवृद्धैराचार्यैर्मुनिभिरन्यैर्वाश्रमिभिर्बहुश्रुतैर्दन्तैर्[Kashi Sanskrit Series ओमित्स्दन्तैर्] दन्तान्संधायान्तर्मुख एव यावदर्थसंभाषी [Kashi Sanskrit Series: यावदर्थंसम्भाषीत] न स्त्रीभिर्[Kashi Sanskrit Series ओमित्स्: न स्त्रीभिर्] न यत्र लोपोभवतीति विज्ञायते ॥ २१०१८१७। स्थानमौनवीरासनानामन्यतमेन संप्रयोगः । नत्रयं संनिपातयेत् ॥ २१०१८१८। यत्र गतश्च यावन्मात्रमनुव्रतयेदापत्सु न यत्रलोपो भवतीति विज्ञायते ॥ २१०१८१९। स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य । अष्टौ तान्यव्रतघ्नानि [Kashi Sanskrit Series: अव्रतध्वनि]आपो मूलं घृतं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधमिति ॥ २१०१८२०। सायंप्रातरग्निहोत्रमन्त्राञ्जपेत् ॥ २१०१८२१। वारुणीभिः [Kashi Sanskrit Series: वारुणोभिस्] सायं संध्यामुपस्थाय [Kashi Sanskrit Series:उपतिष्ठते] मैत्रीभिः प्रातः ॥ २१०१८२२ अनग्निरनिकेतः स्यादशर्माशरणो मुनिः । २१०१८२२ भैक्षार्थी ग्राममन्विच्छेत्स्वाध्याये वाचमुत्सृजेद् ॥ इति ॥ २१०१८२३। विज्ञायते च । परिमिता वा ऋचः परिमितानि सामानिपरिमितानि यजूंषि । अथैतस्यैवान्तो नास्ति यद्ब्रह्म । तत्प्रतिगृणत आचक्षीत । स प्रतिगर इति ॥ २१०१८२४। एवमेवैष आ शरीरविमोक्षणाद्वृक्षमूलिकोवेदसंन्यासी ॥ २१०१८२५। वेदो वृक्षः । तस्य मूलं प्रणवः । प्रणवात्मको वेदः ॥ २१०१८२६। प्रणवं ध्यायन् सप्रणवो [Kashi Sanskrit Series: प्रणवो ब्रह्म प्रणवंध्यायेत्प्रणवो] ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥ २१०१८२७। सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति ।प्रक्षालयेदिति ॥ ३११। अथ शालीनयायावरचक्रचरधर्मकाङ्क्षिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥ ३१२। तेषां तद्वर्तनाद्वृत्तिरित्युच्यते ॥ ३१३। शालाश्रयत्वात्शालीनत्वम् ॥ ३१४। वृत्त्या वरया यातीति यायावरत्वम् ॥ ३१५। अनुक्रमेण चरणाच्[Kashi Sanskrit Series: अनुक्रमचरणाच्] चक्रचरत्वम् ॥ ३१६। ता अनुव्याख्यास्यामः ॥ ३१७। षण्णिवर्तनी कौद्दाली [Kashi Sanskrit Series: कोद्दाली] ध्रुवा संप्रक्षालनीसमूहा फालनी [Kashi Sanskrit Series: पालिनी] शिलोञ्छा [Kashi Sanskrit Series: सिलोञ्छा] कापोतासिद्धेच्छेति नवैताः ॥ ३१८। तासामेव वान्यापि दशमी वृत्तिर्[Kashi Sanskrit Series: वृद्धिर्] भवति ॥ ३१९। आ नववृत्तेः ॥ ३११०। केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥ ३१११। कृष्णाजिनं कमण्डलुं यष्टिं वीवधं कुतपहारम् [Kashi Sanskrit Series:कुथहारिम्] इति ॥ ३११२। त्रैधातवीयेनेष्ट्वा प्रस्थास्यति वैश्वानर्या वा ॥ ३११३। अथ [Kashi Sanskrit Series ओमित्सथ] प्रातरुदित आदित्ये यथासूत्रमग्नीन्प्रज्वाल्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्यसंमृज्य स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पतीयंजुहोति ॥ ३११४। वास्तोष्पते प्रति जानीह्यस्मानिति पुरोनुवाक्यामनूच्य ।वास्तोष्पते शग्मया संसदा त इति याज्यया जुहोति ॥ ३११५। सर्व एवाहिताग्निरित्येके ॥ ३११६। यायावर इत्येके ॥ ३११७। निर्गत्य ग्रामान्ते ग्रामसीमान्ते वावतिष्ठते । तत्रकुटीं मठं वा करोति कृतं वा प्रविशति ॥ ३११८। कृष्णाजिनादीनामुपकॢप्तानां यस्मिन्न् [Kashi Sanskrit Series: यस्मिन् यस्मिन्न्]अर्थे येन येन यत्प्रयोजनं तेन तेन तत्कुर्यात् ॥ ३११९। प्रसिद्धमग्नीनां परिचरणम् । प्रसिद्धंदर्शपूर्णमासाभ्यां यजनम् । प्रसिद्धः पञ्चानां महतां यज्ञानामनुप्रयोगः । उत्पन्नानामोषधीनां निर्वापणं दृष्टं भवति ॥ ३१२०। विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति वा तूष्णीं वा ताःसंस्कृत्य साधयति ॥ ३१२१। तस्याध्यापनयाजनप्रतिग्रहा निवर्तन्तेन्ये चयज्ञक्रतव इति ॥ ३१२२। हविष्यं च व्रतोपायनीयं दृष्टं भवति ॥ ३१२३। तद्यथा [Kashi Sanskrit Series ओमित्स्: तद्यथा] सर्पिर्मिश्रं दधिमिश्रमक्षारलवणमपिशितमपर्युषितम् ॥ ३१२४। ब्रह्मचर्यमृतौ वा गच्छति ॥ ३१२५। पर्वणिपर्वणि केशश्मश्रुलोमनखवापनं शौचविधिश्च ॥ ३१२६-१। अथाप्युदाहरन्ति । ३१२६-२ श्रूयते द्विविधं शौचं यत्शिष्टैः पर्युपासितम् । ३१२६-२ बाह्यं निर्लेपनिर्गन्धमन्तःशौचमहिंसकम् [Kashi Sanskrit Series: अहिंसनम्] ॥ ३१२७ अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति [Kashi Sanskrit Series:शुद्ध्यतीति] । ३१२७ अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥ ३२१। यथो एतत्षण्णिवर्तनीति ॥ ३२२। षडेव निवर्तनानि निरुपहतानि करोति । स्वामिने भागमुत्सृजत्यनुज्ञातं वा गृह्णाति ॥ ३२३। प्राक्प्रातराशात्कर्षी स्यादस्यूतनासिकाभ्यांसमुष्काभ्यामतुदन्नारया मुहुर्मुहुरभ्युच्छन्दयन् ॥ [= २२४२०-२१] ३२४। एतेन विधिना षण्निवर्तनानि [Kashi Sanskrit Series: षण्णिवर्तनानि] करोतीतिषण्णिवर्तनी ॥ ३२५। कौद्दालीति । जलाभ्याशे कुद्दालेन वा फालेन वा तीक्ष्णकाष्ठेन वा खनति बीजान्यावपति कन्दमूलफलशाकौषधीर्निष्पादयति ॥ ३२६। कुद्दालेन करोतीति कौद्दाली ॥ ३२७। ध्रुवया वर्तमानः शुक्लेन वाससा शिरो वेष्टयति । भूत्यैत्वा शिरो वेष्टयामीति । ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वेतिकृष्णाजिनमादत्तेब्लिङ्गाभिः पवित्रम् । बलमसि बलाय [ः:वलाय] त्वेति कमण्डलुम् । धान्यमसि पुष्ट्यै त्वेति वीवधम् ।सखा मा गोपायेति दण्डम् ॥ ३२८-१। अथोपनिष्क्रम्य व्याहृतीर्जपित्वा दिशामनुमन्त्रणं जपति । ३२८-२ पृथिवी चान्तरिक्षं च द्यौर्नक्षत्राणि या दिशः । ३२८-२ अग्निर्वायुश्च सूर्यश्च पान्तु मां पथि देवताः ॥ इति ॥ ३२९। मानस्तोकीयं जपित्वा ग्रामं प्रविश्य गृहद्वारेगृहद्वारआत्मानं वीवधेन सह दर्शनात्संदर्शनीत्याचक्षते ॥ ३२१०। वृत्तेर्वृत्तेरवार्त्तायां तयैव तस्य ध्रुवं वर्तनाद्ध्रुवेति परिकीर्तिता ॥ ३२११। संप्रक्षालनीति । उत्पन्नानामोषधीनां प्रक्षेपणम् ।निक्षेपणं नास्ति निचयो वा । भाजनानि संप्रक्षाल्य न्युब्जतीतिसंप्रक्षालनी ॥ ३२१२। समूहेति । अवारितस्थानेषु पथिषु वा क्षेत्रेषुवाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्रसमूहन्या समुह्य ताभिर्वर्तयतीति समूहा ॥ ३२१३। फालनीत्य्[Kashi Sanskrit Series: पालनीत्य्] अहिंसिकेत्येवेदमुक्तंभवति । तुषविहीनांस्तण्डुलानिच्छति सज्जनेभ्यो बीजानि वा ।फालयतीति फालनी [Kashi Sanskrit Series: पालयतीति पालनी] ॥ ३२१४। शिलोञ्छेति [Kashi Sanskrit Series: सिलोञ्छेति] । अवारितस्थानेषु पथिषु वाक्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्रतत्रैकैकं कणिशमुञ्छयित्वा कालेकाले शिलैर्वर्तयतीतिशिलोञ्छा [Kashi Sanskrit Series: सिलोञ्छा] ॥ ३२१५। कापोतेति । अवारितस्थानेषु पथिषु वा [Kashi Sanskrit Series ओमित्स्वा]क्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्रतत्राङ्गुलीभ्यामेकैकामोषधिमुञ्छयित्वा संदंशनात्[Kashi Sanskrit Series:सन्दर्शनात्] कपोतवदिति कापोता ॥ ३२१६। सिद्धेच्छेति । वृत्तिभिः श्रान्तो वृद्धत्वाद्धातुक्षयाद्वासज्जनेभ्यः सिद्धमन्नमिच्छतीति सिद्धेच्छा ॥ ३२१७। तस्यात्मनि समारोपणं [Kashi Sanskrit Series: तस्यात्मसमारोपणं] विद्यतेसंन्यासिवदुपचारः पवित्रकाषायवासोवर्जम् ॥ ३२१८। वान्यापि वृक्षलतावल्ल्योषधीनां च तृणौषधीनां चश्यामाकजर्तिलादीनाम् । वन्याभिर्[Kashi Sanskrit Series: वान्याभिर्] वर्तयतीतिवान्या ॥ ३२१९-१। अथाप्युदाहरन्ति । ३२१९-२ मृगैः सह परिस्पन्दः संवासस्तेभिर्[!] एव च । ३२१९-२ तैरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥ ३२१९-३। प्रत्यक्षं स्वर्गलक्षणमिति ॥ [३२१९ = ३३२२] ३३१। अथ वानप्रस्थद्वैविध्यम् [Kashi Sanskrit Series: वानप्रस्थस्य द्वैविध्यम्] ॥ ३३२। पचमानका अपचमानकाश्चेति ॥ ३३३। तत्र पचमानकाः पञ्चविधाः सर्वारण्यका वैतुषिकाःकन्दमूलभक्षाः फलभक्षाः शाकभक्षाश्चेति ॥ ३३४। तत्र सर्वारण्यका नाम द्विविधा द्विविधमारण्यमाश्रयन्त इन्द्रावसिक्ता रेतोवसिक्ताश्[रेतसवसिक्ताश्] चेति ॥ ३३५। तत्रेन्द्रावसिक्ता नाम वल्लीगुल्मलतावृक्षाणामानयित्वा श्रपयित्वा सायंप्रातरग्निहोत्रं हुत्वायत्यतिथिव्रतिभ्यश्च दत्त्वाथेतरत्शेषभक्षाः ॥ ३३६। रेतोवसिक्ता [रेतसवसिक्ता] नाम मांसंव्याघ्रवृकश्येनादिभिरन्यतमेन वा हतमानयित्वा श्रपयित्वासायंप्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्चदत्त्वाथेतरत्शेषभक्षाः ॥ ३३७। वैतुषिकास्तुषधान्यवर्जं तण्डुलानानयित्वा श्रपयित्वासायंप्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्चदत्त्वाथेतरत्शेषभक्षाः ॥ ३३८। कन्दमूलफलशाकभक्षाणामप्येवमेव ॥ ३३९। पञ्चैवापचमानका उन्मज्जकाः प्रवृत्ताशिनो मुखेनादायिनस्तोयाहारा वायुभक्षाश्चेति ॥ ३३१०। तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् ॥ ३३११। हस्तेनादाय प्रवृत्ताशिनः ॥ ३३१२। मुखेनादायिनो मुखेनाददते ॥ ३३१३। तोयाहाराः केवलं तोयाहाराः ॥ ३३१४। वायुभक्षा निराहाराश्च ॥ ३३१५। इति [Kashi Sanskrit Series ओमित्सिति] वैखानसानां विहिता दश दीक्षाः ॥ ३३१६। यः स्वशास्त्रम् [Kashi Sanskrit Series: शास्त्रम्] अभ्युपेत्य दण्डं च मौनं चाप्रमादं च ॥ ३३१७। वैखानसाः शुध्यन्ति निराहाराश्चेति ॥ ३३१८। शास्त्रपरिग्रहः सर्वेषां ब्रह्मवैखानसानाम् ॥ ३३१९ न द्रुह्येद्दंशमशकान् हिमवांस्तापसो भवेत् । ३३१९ वनप्रतिष्ठः संतुष्टश्चीरचर्मजलप्रियः ॥ ३३२० अतिथीन् पूजयेत्पूर्वं काले त्वाश्रममागतान् । ३३२० देवविप्राग्निहोत्रे च युक्तस्तपसि तापसः ॥ ३३२१-१ कृच्छ्रां वृत्तिमसंहार्यां सामान्यां मृगपक्षिभिः । ३३२१-१ तदहर्जनसंभारां कषायकटुकाश्रयाम् ॥ ३३२१-२ परिगृह्य शुभां वृत्तिमेतां दुर्जनवर्जिताम् । ३३२१-२ वनवासमुपाश्रित्य ब्राह्मणो नावसीदति ॥ ३३२२-१ मृगैः सह परिस्पन्दः संवासस्तेभिर्[!] एव च । ३३२२-१ तैरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥ ३३२२-२। प्रत्यक्षं स्वर्गलक्षणमिति ॥ [३३२२ = ३२१९] ३४१। अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्मांसं वाश्नीयात्स्त्रियं वोपेयात्सर्वास्वेवार्तिषु ॥ ३४२। अन्तरागारेग्निमुपसमाधाय संपरिस्तीर्याग्निमुखात्कृत्वा[च्f २८१४७]अथाज्याहुतीरुपजुहोति । कामेन कृतंकामः करोति कामायैवेदं सर्वं यो मा कारयति तस्मै स्वाहा ।मनसा कृतं मनः करोति मनस एवेदं सर्वं यो मा कारयति तस्मैस्वाहा । रजसा कृतं रजः करोति रजस एवेदं सर्वं यो माकारयति तस्मै स्वाहा । तमसा कृतं तमः करोति तमस एवेदंसर्वं यो मा कारयति तस्मै स्वाहा । पाप्मना कृतं पाप्मा करोतिपाप्मन एवेदं सर्वं यो मा कारयति तस्मै स्वाहा । मन्युना कृतंमन्युः करोति मन्यव एवेदं सर्वं यो मा कारयति तस्मै स्वाहेति॥ ३४३। जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ ३४४। अपरेणाग्निं कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्नाप्रावृत्य वसति ॥ ३४५। व्युष्टायां [Kashi Sanskrit Series: अथ व्युष्टायां] जघनार्धादात्मानमपकृष्य तीर्थं गत्वा प्रसिद्धंस्नात्वान्तर्जलगतोअघमर्षणेन षोडश प्राणायामान्धारयित्वा प्रसिद्धमादित्योपस्थानात्कृत्वाचार्यस्य गृहानेति ॥ ३४६। यथाश्वमेधावभृथ एवम् [क्: यथाश्वमेधावभृथम्]एवैतद्विजानीयादिति ॥ ३५१। अथातः पवित्रातिपवित्रस्याघमर्षणस्य कल्पंव्याख्यास्यामः ॥ ३५२। तीर्थं गत्वा स्नातः शुचिवासा उदकान्ते स्थण्डिलमुद्धृत्य सकृत्क्लिन्नेन वाससा सकृत्पूर्णेनपाणिनादित्याभिमुखोअघमर्षणं स्वाध्यायमधीयीत ॥ ३५३। प्रातः शतं मध्याह्ने शतमपराह्णे शतमपरिमितं वा ॥ ३५४। उदितेषु नक्षत्रेषु प्रसृतियावकं [Kashi Sanskrit Series: प्रसृतयावकं]प्राश्नीयात् ॥ ३५५। ज्ञानकृतेभ्योअज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्राद्भ्रूणहननं गुरुतल्पगमनंसुवर्णस्तैन्यं सुरापानमिति च वर्जयित्वा ॥ ३५६। एकविंशतिरात्रात्तान्यपि तरति तान्यपि जयति ॥ ३५७। सर्वं तरति सर्वं जयति सर्वक्रतुफलमवाप्नोति सर्वेषुतीर्थेषु स्नातो भवति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वैर्देवैर्ज्ञातो भवत्या चक्षुषः पङ्क्तिं पुनाति कर्माणि चास्यसिध्यन्तीति बौधायनः ॥ ३६१। अथ कर्मभिरात्मकृतैर्गुरुमिवात्मानंमन्येतात्मार्थे प्रसृतियावकं [Kashi Sanskrit Series: प्रसृतयावकं] श्रपयेदुदितेषु नक्षत्रेषु ॥ ३६२। न ततोअग्नौ जुहुयात् ॥ ३६३। न चात्र बलिकर्म ॥ ३६४। अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत ॥ ३६५-१ यवोअसि धान्यराजोअसि वारुणो मधुसंयुतः । ३६५-१ निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥ ३६५-२ घृतं यवा मधु यवा आपो वा [Kashi Sanskrit Series: यवा] अमृतं यवाः । ३६५-२ सर्वं पुनीत [Kashi Sanskrit Series: पुनथ] मे पापं यन्मया दुष्कृतं कृतम् ॥ ३६५-३ वाचा कृतं कर्म कृतं मनसा दुर्विचिन्तितम् । ३६५-३ अलक्ष्मीं कालकर्णीं [Kashi Sanskrit Series: कालरात्रीं] च सर्वं पुनीत[Kashi Sanskrit Series: पुनथ] मे यवाः ॥ ३६५-४ श्वसूकरावधूतं च [Kashi Sanskrit Series: यत्] काकोच्छिष्टहतं [Kashi Sanskrit Series:काकोच्छिष्टोपहतं] च यत् । ३६५-४ मातापित्रोरशुश्रूषां सर्वं पुनीत [Kashi Sanskrit Series: पुनथ] मे यवाः ॥ ३६५-५ महापातकसंयुक्तं दारुणं राजकिल्बिषम् । ३६५-५ बालवृद्धम् [Kashi Sanskrit Series: बालवृत्तम्] अधर्मं च सर्वं पुनीत [Kashi Sanskrit Seriesपृष्ठौनथ] मे यवाः ॥ ३६५-६ सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् । ३६५-६ ब्राह्मणानां परीवादं सर्वं पुनीत [Kashi Sanskrit Series: पुनथ] मे यवाः ॥ ३६५-७ गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् । ३६५-७ चोरस्यान्नं नवश्राद्धं सर्वं पुनीत [Kashi Sanskrit Series: पुनथ] मेयवाः ॥ इति ॥ ३६६। श्रप्यमाणे रक्षां कुर्यात् । नमो रुद्राय भूताधिपतये ।द्यौः शान्ता । कृणुष्व पाजः प्रसितिं न पृथ्वीमित्येतेनानुवाकेन[Kashi Sanskrit Series ओमित्स्: इत्येतेनानुवाकेन] । ये देवाः पुरःसदोअग्निनेत्राः +रक्षोहण इति पञ्चभिः पर्यायैः । मा नस्तोके । ब्रह्मा देवानामितिद्वाभ्याम् ॥ ३६७। शृतं च लघ्वश्नीयात्प्रयतः पात्रे निषिच्य ॥ ३६८। ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नःपान्तु ते नोअवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति । आत्मनि जुहुयात् ॥ ३६९। त्रिरात्रं मेधार्थी ॥ ३६१०। षड्रात्रं पीत्वा पापकृत्शुद्धो भवति ॥ ३६११। सप्तरात्रं पीत्वा भ्रूणहननं गुरुतल्पगमनंसुवर्णस्तैन्यं सुरापानमिति च पुनाति ॥ ३६१२। एकादशरात्रं पीत्वा पूर्वपुरुषकृतमपि पापं निर्णुदति ॥ ३६१३। अपि वा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वागणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिंपश्यतीत्याह भगवान् बौधायनः ॥ ३७१। कूश्माण्डैर्[Kashi Sanskrit Series: अथ कूष्माण्डैर्] जुहुयाद्योअपूत इव मन्येत ॥ ३७२। यथा स्तेनो यथा भ्रूणहैवमेष भवति योअयोनौ रेतःसिञ्चति ॥ ३७३। यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥ ३७४। अयोनौ रेतः सिक्त्वान्यत्र स्वप्नादरेपा वा पवित्रकामः[Kashi Sanskrit Series: पवित्रकामो वा] ॥ ३७५। अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानिवापयित्वा ब्रह्मचारिकल्पेन व्रतमुपैति ॥ ३७६। संवत्सरं मासं चतुर्विंशत्यहं [Kashi Sanskrit Series: चतुर्विंशत्यहो] द्वादशरात्रीः षट्तिस्रो वा ॥ ३७७। न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीतजुगुप्सेतानृतात् ॥ ३७८। पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानःकृच्छ्रद्वादशरात्रं चरेद्भिक्षेद्वा ॥ ३७९। तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥ ३७१०। पूर्वाह्णे पाकयज्ञिकधर्मेणाग्निमुपसमाधायसंपरिस्तीर्याग्निमुखात्कृत्वाथाज्याहुतीरुपजुहोति [Kashi Sanskrit Seriesओमित्स्: अथाज्याहुतीरुपजुहोति] । यद्देवा देवहेडनम् [Kashi Sanskrit Series: देवहेलनम्]। यददीव्यन्नृणमहं बभूव । आयुष्टे विश्वतो दधदिति । एतैस्त्रिभिर्[Kashi Sanskrit Series: एतैस्त्रिदित्य्] अनुवाकैः ॥ ३७११। प्रत्यृचमाज्यस्य जुहुयात्[Kashi Sanskrit Series: हुत्वा] ॥ ३७१२। सिंहे व्याघ्र उत या पृदाकाविति चतस्रः स्रुवाहुतीः ।ग्नेभ्यावर्तिन् । अग्ने अङ्गिरः । पुनरूर्जा । सह रय्येतिचतस्रोअभ्यावर्तिनीर्हुत्वा समित्पाणिर्यजमानलोकेवस्थाय ।वैश्वानराय प्रति वेदयाम इति द्वादशर्चेन सूक्तेनोपतिष्ठते [Kashi Sanskrit Series:सूक्तेनोपस्थाय] ॥ ३७१३। यन्मया [Kashi Sanskrit Series: मे] मनसा वाचा कृतमेनः कदाचन । सर्वस्मात्तस्मान् [Kashi Sanskrit Series: सर्वस्मान्] मेडितो [Kashi Sanskrit Series: मेॡइतो] मोग्धि त्वं हि वेत्थयथातथं स्वाहेति । समिधमाधाय वरं ददाति ॥ ३७१४। जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ ३७१५। एक एवाग्नौ परिचारी [Kashi Sanskrit Series: परिचर्यायाम्] ॥ ३७१६। अथाग्न्याधेये [Kashi Sanskrit Series: अग्न्याधेये] । यद्देवा देवहेडनम् [Kashi Sanskrit Series:देवोदेवमहेलनम्] । यददीव्यन्नृणमहं बभूव । आयुष्टे विश्वतोदधदिति । पूर्णाहुतीः [Kashi Sanskrit Series: पूर्णाहुतिम्] ॥ ३७१७। हुत्वाग्निहोत्रमारप्स्यमानो दशहोत्रा । हुत्वादर्शपूर्णमासावारप्स्यमानश्चतुर्होत्रा । हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा । हुत्वा पशुबन्धे षड्ढोत्रा । हुत्वा [Kashi Sanskrit Seriesओमित्स्हुत्वा] सोमे सप्तहोत्रा ॥ ३७१८। विज्ञायते च [Kashi Sanskrit Series: ओमित्स्च] । कर्मादिष्वेतैर्जुहुयात् ।पूतो देवलोकान् समश्नुत इति हि ब्राह्मणम् । इति हि ब्राह्मणम् ॥ ३८१। अथातश्चान्द्रायणस्य कल्पं [Kashi Sanskrit Series: चान्द्रायणकल्पं]व्याख्यास्यामः ॥ ३८२। शुक्लचतुर्दशीमुपवसेत् ॥ ३८३। केशश्मश्रुलोमनखानि वापयित्वापि वा श्मश्रूण्येवाहतंवासो वसानः सत्यं ब्रुवन्नावसथमभ्युपेयात् ॥ ३८४। तस्मिन्नस्य सकृत्प्रणीतोअग्निररण्योर्निर्मन्थ्यो वा ॥ ३८५। ब्रह्मचारी सुहृत्प्रैषायोपकल्पी स्यात् ॥ ३८६। हविष्यं च व्रतोपायनीयम् [Kashi Sanskrit Series: व्रतोपायनम्] ॥ ३८७। अग्निमुपसमाधाय संपरिस्तीर्याग्निमुखात्कृत्वापक्वाज्जुहोति ॥ ३८८। अग्नये या तिथिः स्यान्नक्षत्राय सदैवताय । अत्राह गोरमन्वतेति चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रीमष्टमीं सौरीं नवमीं वारुणींदशमीमैन्द्रीमेकादशीं वैश्वदेवीं द्वादशीमिति ॥ ३८९। अथापराः समामनन्ति दिग्भ्यश्च सदैवताभ्य उरोरन्तरिक्षाय सदैवताय ॥ ३८१०। नवोनवो भवति जायमान इति सौविष्टकृतींहुत्वाथैतधविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्यहविष्यैर्व्यञ्जनैरुपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति॥ ३८११। प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् ।व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानायत्वेति पञ्चमम् । यदा चत्वारो द्वाभ्यां पूर्वम् । यदा त्रयोद्वाभ्यां द्वाभ्यां पूर्वौ । यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् । एकं सर्वैः ॥ ३८१२। निग्राभ्या स्थेति । अपः पीत्वाथाज्याहुतीरुपजुहोति । प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा । वाङ्मनः । शिरःपाणि ।त्वक्चर्ममांस [Kashi Sanskrit Series: त्वक्चर्म] । शब्दस्पर्शरूप [Kashi Sanskrit Series: शब्दस्पर्श] ।पृथिव्यप्तेजो [Kashi Sanskrit Series: पृथिवी] ।न्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तांज्योतिर् अहं विरजा विपाप्मा भूयासं स्वाहेति [Kashi Sanskrit Series:अन्नमयप्राणमय इत्येतैस्] सप्तभिरनुवाकैः ॥ ३८१३। जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ ३८१४। सौरीभिरादित्यमुपतिष्ठते चान्द्रमसीभिश्चन्द्रमसम् ॥ ३८१५। अग्ने त्वं सु जागृहीति संविशञ्जपति ॥ ३८१६। त्वमग्ने व्रतपा असीति प्रबुद्धः ॥ ३८१७। स्त्रीशूद्रैर्नाभिभाषेत मूत्रपुरीषे नावेक्षेत ॥ ३८१८। अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्योज्योतिषां श्रेष्ठो दीक्षे मा मा हासीरिति ॥ [Kashi Sanskrit Series अद्द्स्: अथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तेति] ३८१९। प्रथमायामपरपक्षस्य चतुर्दश ग्रासान् ॥ ३८२०। एवमेकापचयेनामावास्यायाः ॥ ३८२१। अमावास्यायां ग्रासो न विद्यते ॥ ३८२२। अथ [Kashi Sanskrit Series ओमित्सथ] प्रथमायां पूर्वपक्षस्यैकः । द्वौद्वितीयायाम् [Kashi Sanskrit Series: द्वितीयस्याम्] ॥ ३८२३। एवमेकोपचयेना पौर्णमास्याः ॥ ३८२४। पौर्णमास्यां स्थालीपाकस्य जुहोत्यग्नये या तिथिः स्यान्नक्षत्रेभ्यश्च सदैवतेभ्यः ॥ ३८२५। पुरस्तात्श्रोणाया अभिजितः सदैवतस्य हुत्वा गांब्राह्मणेभ्यो दद्यात् ॥ ३८२६। तदेतच्चान्द्रायणं पिपीलिकामध्यम् । विपरीतं यवमध्यम् ॥ ३८२७। अतोअन्यतरच्चरित्वा सर्वेभ्यः पातकेभ्यः पापकृत्शुद्धोभवति ॥ ३८२८। कामाय कामायैतदाहार्यमित्याचक्षते ॥ ३८२९। यं कामं कामयते तमेतेनाप्नोति ॥ ३८३०। एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्यसाधयन्। तदेतद्धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यमायुष्यं स्वर्ग्यंयशस्यं सार्वकामिकम् ॥ ३८३१। नक्षत्राणां द्युतिं सूर्याचन्द्रमसोरेव [Kashi Sanskrit Series ओमित्सेव]सायुज्यं सलोकतामाप्नोति य उ चैनदधीते । य उ चैनदधीत् । ३९१। अथातोअनश्नत्पारायणविधिं व्याख्यास्यामः ॥ ३९२। शुचिवासाः स्याच्चीरवासा वा ॥ ३९३। हविष्यमन्नमिच्छेदपः फलानि वा ॥ ३९४। ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य गोमयेनगोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्य अद्भिरभ्युक्ष्य अग्निमुपसमाधाय संपरिस्तीर्यैताभ्योदेवताभ्यो जुहुयात् । अग्नये स्वाहा । प्रजापतये स्वाहा । सोमायस्वाहा [Kashi Sanskrit Series: सोमाय स्वाहा प्रजापतये स्वाहा] विश्वेभ्यो देवेभ्यःस्वयंभुव ऋग्भ्यो यजुर्भ्यः सामभ्योअथर्वभ्यः श्रद्धायै प्रज्ञायैमेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतयेनुमतये च [Kashi Sanskrit Seriesअद्द्स्: व्याहरेन्न चान्तरा विरमेत्] ॥ ३९५। हुत्वा वेदादिमारभेत संततमधीयीत ॥ [Kashi Sanskrit Series ओमित्स्] ३९६। नान्तरा व्याहरेन्न चान्तरा विरमेत् ॥ [Kashi Sanskrit Series ओमित्स्] ३९७। अथान्तरा व्याहरेदथान्तरा विरमेत्त्रिः [Kashi Sanskrit Series: त्रीन्]प्राणानायम्य वृत्तान्तादेवारभेत ॥ ३९८। अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यदा जानीयाद्[Kashi Sanskrit Series: यज्जानीयात्] ऋक्तो यजुष्टः सामतैति ॥ ३९९। तद्ब्राह्मणं तच्छान्दसं तद्दैवतमधीयीत ॥ ३९१०। द्वादश वेदसंहिता अधीयीत । यदनेनानध्यायेधीयीत यद्गुरवः कोपिता यान्यकार्याणि भवन्तिताभिः पुनीते । शुद्धमस्य पूतं ब्रह्म भवति ॥ ३९११। अत ऊर्ध्वं संचयः ॥ ३९१२। अपरा द्वादश वेदसंहिता अधीत्य ताभिरुशनसो लोकमवाप्नोति ॥ ३९१३। अपरा द्वादश वेदसंहिता अधीत्य ताभिर्बृहस्पतेर्लोकमवाप्नोति ॥ ३९१४। अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोति ॥ ३९१५। अनश्नन् संहिता सहस्रमधीयीत । ब्रह्मभूतो विरजो [Kashi Sanskrit Series:विराजो] ब्रह्म भवति ॥ ३९१६। संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर्लभते ॥ ३९१७। षण्मासान् यावकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौमासौ फलभक्षो मासमब्भक्षो द्वादशरात्रं वाप्राश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन् पुनाति सप्तावरान् सप्त पूर्वानात्मानंपञ्चदशं पङ्क्तिं च पुनाति ॥ ३९१८। तामेतां देवनिश्रयणीत्य्[Kashi Sanskrit Series: देवनिश्श्रयणीत्य्] आचक्षते ॥ ३९१९। एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वम् ॥ ३९२०। तस्य ह वा एतस्य यज्ञस्य त्रिविध एवारम्भकालःप्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे ॥ ३९२१। तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयोमहाजज्ञवे महाजज्ञुर्ब्राह्मणेभ्यः । ब्राह्मणेभ्यः ॥ ३१०१। उक्तो वर्णधर्मश्चाश्रमधर्मश्च ॥ ३१०२। अथ खल्वयं पुरुषो याप्येन कर्मणा मिथ्या वा चरत्ययाज्यं वा याजयत्यप्रतिग्राह्यस्य वा प्रतिगृह्णात्यनाश्यान्नस्यवान्नमश्नात्यचरणीयेन वा चरति ॥ ३१०३। तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते [Kashi Sanskrit Seriesओमित्स्मीमांसन्ते] ॥ ३१०४। नहि कर्म क्षीयत इति ॥ ३१०५। कुर्यादित्य्[Kashi Sanskrit Series: कुर्यात्त्व्] एव ॥ ३१०६। पुनस्तोमेनेष्ट्वा [Kashi Sanskrit Series: पुनस्तोमेन यजेत] पुनः सवनमायान्तीति [Kashi Sanskrit Series: आयन्तीति] विज्ञायते ॥ ३१०७। अथाप्युदाहरन्ति । सर्वं पाप्मानं तरति तरतिब्रह्महत्यां योअश्वमेधेन यजत इति ॥ ३१०८। अग्निष्टुता वाभिशंस्यमानो [Kashi Sanskrit Series: वाभिशस्यमानो] यजेतेति च ॥ ३१०९। तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ३१०१०। उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनीबृहद्रथंतरे पुरुषगतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नामन्यतमं बहिष्पवमानः [Kashi Sanskrit Series: बहिष्पवमानं]कूश्माण्ड्यः पावमान्यः सावित्री चेति पावनानि ॥ ३१०११। उपसन्न्यायेन पयोव्रतता शाकभक्षता फलभक्षतामूलभक्षता प्रसृतियावको हिरण्यप्राशनं घृतप्राशनंसोमपानमिति मेध्यानि ॥ ३१०१२। सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः सरितः पुण्या ह्रदास्तीर्थान्यृषिनिकेतनानि गोष्ठक्षेत्रपरिष्कन्दा इति देशाः ॥ ३१०१३। अहिंसा सत्यमस्तैन्यं सवनेषूदकोपस्पर्शनंगुरुशुश्रूषा ब्रह्मचर्यमधःशयनमेकवस्त्रतानाशक इतितपांसि ॥ ३१०१४। हिरण्यं गौर्वासोअश्वो भूमिस्तिला घृतमन्नमिति देयानि ॥ ३१०१५। संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोअहोरात्र एकाह इतिकालाः ॥ ३१०१६। एतान्यनादेशे क्रियेरन् ॥ ३१०१७। एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ ३१०१८। कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिः ।सर्वप्रायश्चित्तिः ॥ ४११ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् । ४११ तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥ ४१२ यद्यत्र हि भवेद्युक्तं तधि तत्रैव निर्दिशेत् । ४१२ भूयोभूयो गरीयःसु लघुष्वल्पीयसस्तथा ॥ ४१३ विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् । ४१३ यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । ४१३ बाहुभ्यां मनसा वाचा श्रोत्रत्वग्घ्राणचक्षुषा ॥ ४१४। अपि वा [Kashi Sanskrit Series: अथ वाचा]चक्षुःश्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैःशुध्यति ॥ ४१५। शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक्सप्ताहं सप्तसप्त प्राणायामान् धारयेत् ॥ ४१६। अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथापण्यविक्रयेषुमधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच्चान्यदप्येवंयुक्तं द्वादशाहं द्वादशद्वादश प्राणायामान् धारयेत् ॥ ४१७। पातकपतनीयोपपातकवर्जेषु यच्चान्यदप्येवंयुक्तमर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् ॥ ४१८। पातकपतनीयवर्जेषु यच्चान्यदप्येवंयुक्तं द्वादशद्वादशाहान् द्वादशद्वादश प्राणायामान् धारयेत् ॥ ४१९। पातकवर्जेषु यच्चान्यदप्येवंयुक्तं द्वादशार्धमासान्द्वादशद्वादश प्राणायामान् धारयेत् ॥ ४११०। अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान्धारयेत् ॥ ४१११ दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । ४१११ अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥ ४११२ त्रीणि वर्षाण्यृतुमतीं यः कन्यां न प्रयच्छति । ४११२ स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥ ४११३ न याचते चेदेवं स्याद्याचते चेत्पृथक्पृथक् । ४११३ एकैकस्मिन्नृतौ दोषं पातकं मनुरब्रवीत् ॥ ४११४ त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम् । ४११४ ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् । ४११४ अविद्यमाने सदृशे गुणहीनमपि श्रयेत् ॥ ४११५ बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता । ४११५ अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ४११६ निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः । ४११६ सा चेदक्षतयोनिः स्याद्गतप्रत्यागता सती । ४११६ पौनर्भवेन विधिना पुनःसंस्कारमर्हति ॥ ४११७ त्रीणि वर्षाण्यृतुमतीं यो भार्यां नाधिगच्छति । ४११७ स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥ ४११८ ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति । ४११८ पितरस्तस्य तं मासं तस्मिन् रजसि शेरते ॥ ४११९ ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति । ४११९ तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति ॥ ४१२० भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम् । ४१२० तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं [ः: भ्रुण-]निर्धमेद्गृहात् ॥ ४१२१ ऋतुस्नातां न चेद्गच्छेन्नियतां धर्मचारिणीम् । ४१२१ नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥ ४१२२ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा । ४१२२ पवित्रपाणिरासीनो ब्रह्म नैत्यकमभ्यसेत् ॥ ४१२३ आवर्तयेत्सदा युक्तः प्राणायामान् पुनःपुनः । ४१२३ आ केशान्तान्नखाग्राच्च तपस्तप्यत उत्तमम् ॥ ४१२४ निरोधाज्जायते वायुर्वायोरग्निश्च जायते । ४१२४ तापेनापोअधिजायन्ते ततोअन्तः शुध्यते त्रिभिः ॥ ४१२५ योगेनावाप्यते ज्ञानं योगो धर्मस्य लक्षणम् । ४१२५ योगमूला गुणाः सर्वे तस्माद्युक्तः सदा भवेत् ॥ ४१२६ प्रणवाद्यास्त्रयो वेदाः प्रणवे पर्यवस्थिताः । ४१२६ प्रणवो व्याहृतयश्चैव नित्यं ब्रह्म सनातनम् ॥ ४१२७ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । ४१२७ त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥ ४१२८ सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह । ४१२८ त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ४१२९ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । ४१२९ अपि भ्रूणहनं मासात्पुनन्त्यहरहर्धृताः [Kashi Sanskrit Series:अहरहः कृताः] ॥ ४१३०-१ एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् । ४१३०-१ सर्वदोषोपघातार्थमेतदेव विशिष्यते ॥ ४१३०-२। एतदेव विशिष्यत इति ॥ ४२१ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् । ४२१ तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥ ४२२ यद्यत्र हि भवेद्युक्तं तधि तत्रैव निर्दिशेत् । ४२२ भूयोभूयो गरीयःसु लघुष्वल्पीयसस्तथा ॥ ४२३ विधिना शास्त्रदृष्टेन प्रायश्चित्तानि निर्दिशेत् ॥ ४२४ प्रतिग्रहीष्यमाणस्तु प्रतिगृह्य तथैव च । ४२४ ऋचस्तरत्समन्द्यस्तु चतस्रः परिवर्तयेत् ॥ ४२५ अभोज्यानां तु सर्वेषामभोज्यान्नस्य भोजने । ४२५ ऋग्भिस्तरत्समन्दीभिर्[Kashi Sanskrit Series: तरत्समन्दीयैर्] मार्जनंपापशोधनम् ॥ ४२६ भ्रूणहत्याविधिस्त्वन्यस्तं तु वक्ष्याम्यतः परम् । ४२६ विधिना येन मुच्यन्ते पातकेभ्योअपि सर्वशः ॥ ४२७ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा । ४२७ जपेदघमर्षणं सूक्तं [Kashi Sanskrit Series: युक्तः] पयसा द्वादश क्षपाः ॥ ४२८ त्रिरात्रं वायुभक्षो वा क्लिन्नवासाः प्लुतः [Kashi Sanskrit Series:क्लिन्नवासाप्लुतश्] शुचिः ॥ ४२९ प्रतिषिद्धांस्तथाचारानभ्यस्यापि पुनःपुनः । ४२९ वारुणीभिरुपस्थाय सर्वपापैः प्रमुच्यते ॥ इति ॥ ४२१०। अथावकीर्ण्यमावास्यायां निश्यग्निमुपसमाधायदार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति । कामअवकीर्णोअस्म्यवकीर्णोअस्मि काम कामाय स्वाहा । कामअभिद्रुग्धोअस्म्यभिद्रुग्धोअस्मि काम कामाय स्वाहेति ॥ [च्f २११३४] ४२११। हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङग्निमुपतिष्ठेत । सं मासिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं मायमग्निः सिञ्चत्वायुषा च बलेन चायुष्मन्तं करोत [Kashi Sanskrit Series: करोतु] मेति [= २११३५]। प्रति हास्मै मरुतः प्राणान् दधति प्रति इन्द्रो बलं प्रतिबृहस्पतिर्ब्रह्मवर्चसं प्रत्यग्निरितरत्सर्वम् । सर्वतनुर्भूत्वासर्वम् आयुरेति । त्रिरभिमन्त्रयेत । त्रिषत्या हि देवा इतिविज्ञायते ॥ ४२१२ योअपूत इव मन्येत आत्मानमुपपातकैः । ४२१२ स हुत्वैतेन विधिना सर्वस्मात्पापात्प्रमुच्यते ॥ ४२१३। अपि वानाद्यापेयप्रतिषिद्धभोजनेषु दोषवच्च कर्मकृत्वाभिसंधिपूर्वमनभिसंधिपूर्वं वा शूद्रायां च रेतःसिक्त्वायोनौ वाब्लिङ्गाभिर्वारुणीभिश्चोपस्पृश्य प्रयतोभवति ॥ ४२१४-१। अथाप्युदाहरन्ति । ४२१४-२ अनाद्यापेयप्रतिषिद्धभोजने विरुद्धधर्माचरिते [Kashi Sanskrit Series:अनाद्यप्राशनापेयप्रतिषिद्धभोजनेविशुद्धधर्माचरिते] च कर्मणि । ४२१४-२ मतिप्रवृत्तेपि च पातकोपमैर्विशुध्यतेथापि चसर्वपातकैः ॥ ४२१५ त्रिरात्रं वाप्युपवसंस्त्रिरह्नोअभ्युपयन्न् [Kashi Sanskrit Series:अह्नोभ्युपेयाद्] अपः । ४२१५ प्राणानात्मनि संयम्य त्रिः पठेदघमर्षणम् । ४२१५ यथाश्वमेधावभृथ एवं तन्मनुरब्रवीत् ॥ ४२१६-१। विज्ञायते च । ४२१६-२ चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । ४२१६-२ तेन पवित्रेण शुद्धेन पूता अति पाप्मानमरातिं तरेम् । इति ॥ ४३१ प्रायश्चित्तानि वक्ष्यामोअविख्यातानि विशेषतः । ४३१ समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥ ४३२। ओंपूर्वाभिर्व्याहृतिभिः सर्वाभिः सर्वपातकेष्वाचामेत् ॥ ४३३। यत्प्रथममाचामति तेनर्ग्वेदं प्रीणाति यद्द्वितीयं तेनयजुर्वेदं यत्तृतीयं तेन सामवेदम् ॥ ४३४। यत्प्रथमं परिमार्ष्टि तेनाथर्ववेदं यद्द्वितीयंतेनेतिहासपुराणम् ॥ ४३५। यत्सव्यं पाणिं प्रोक्षति पादौ शिरो हृदयं नासिके चक्षुषीश्रोत्रे नाभिं चोपस्पृशति तेनौषधिवनस्पतयः सर्वाश्च देवताःप्रीणाति । तस्मादाचमनादेव सर्वस्मात्पापात्प्रमुच्यते ॥ ४३६। अष्टौ वा समिध आदध्यात् । देवकृतस्यैनसोअवयजनमसिस्वाहा । मनुष्यकृतस्यैनसोअवयजनमसि स्वाहा ।पितृकृतस्यैनसोअवयजनमसि स्वाहा । आत्मकृतस्यैनसोअवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसिस्वाहा । यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसिस्वाहा । यद्विद्वांसश् चाविद्वांसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोअवयजनमसि स्वाहेति ॥ ४३७। एतैरष्टाभिर्हुत्वा सर्वस्मात्पापात्प्रमुच्यते ॥ ४३८-१। अथाप्युदाहरन्ति । ४३८-२ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । ४३८-२ कूश्माण्ड्यः पावमान्यश्च विरजा मृत्युलाङ्गलम् । ४३८-२ दुर्गा व्याहृतयो रुद्रा महादोषविनाशनाः ॥ ४३८-३। महादोषविनाशना इति ॥ ४४१ प्रायश्चित्तानि वक्ष्यामोअविख्यातानि विशेषतः । ४४१ समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥ ४४२। ऋतं च सत्यं चेति । एतदघमर्षणं त्रिरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥ ४४३। आयं गौः पृश्निरक्रमीदिति । एतामृचं त्रिरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥ ४४४। द्रुपदादिवेन् [इवेद्] मुमुचान इति । एतामृचं त्रिरन्तर्जलेपठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ४४५। हंसः शुचिषदिति । एतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ४४६। अपि वा सावित्रीं [Kashi Sanskrit Series: सावित्रीं गायत्रीं] पच्छोअर्धर्चशस्ततः समस्तां [Kashi Sanskrit Series अद्द्स्: इत्येतामृचं] त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ४४७। अपि वा व्याहृतीर्व्यस्ताः समस्ताश्चेति त्रिरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥ ४४८। अपि वा प्रणवमेव त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते ॥ ४४९। तदेतद्धर्मशास्त्रं नापुत्राय [Kashi Sanskrit Series: नाभक्ताय नापुत्राय]नाशिष्याय नासंवत्सरोषिताय दद्यात् ॥ ४४१०। सहस्रं दक्षिण [Kashi Sanskrit Series: दक्षिणा] ऋषभैकादशं गुरुप्रसादो वा। गुरुप्रसादो वा ॥ ४५१ अथातः संप्रवक्ष्यामि सामर्ग्यजुरथर्वणाम् । ४५१ कर्मभिर्यैरवाप्नोति क्षिप्रं कामान्मनोगतान् ॥ ४५२ जपहोमेष्टियन्त्राद्यैः शोधयित्वा स्वविग्रहम् । ४५२ साधयेत्सर्वकर्माणि नान्यथा सिद्धिमश्नुते ॥ ४५३ जपहोमेष्टियन्त्राणि करिष्यन्नादितो द्विजः । ४५३ शुक्लपुण्यदिनर्क्षेषु केशश्मश्रूणि वापयेत् ॥ ४५४ स्नायात्त्रिषवणं [त्रिसवनम्] पायादात्मानंक्रोधतोअनृतात् । ४५४ स्त्रीशूद्रैर्नाभिभाषेत ब्रह्मचारी हविर्व्रतः ॥ ४५५ गोविप्रपितृदेवेभ्यो नमस्कुर्याद्[Kashi Sanskrit Series: नमस्कुर्वन्] दिवास्वपन् । ४५५ जपहोमेष्टियन्त्रस्थो दिवास्थानो निशासनः ॥ ४५६ प्राजापत्यो भवेत्कृच्छ्रो दिवा रात्रावयाचितम् । ४५६ क्रमशो वायुभक्षश्च द्वादशाहं त्र्यहंत्र्यहम् ॥ ४५७ अहरेकं तथा नक्तमज्ञातं वायुभक्षणम् । ४५७ त्रिवृदेष परावृत्तो बालानां कृच्छ्र उच्यते ॥ ४५८ एकैकं ग्रासमश्नीयात्पूर्वोक्तेन त्र्यहंत्र्यहम् । ४५८ वायुभक्षस्त्र्यहं चान्यदतिकृच्छ्रः स उच्यते ॥ ४५९ अम्बुभक्षस्त्र्यहानेतान् वायुभक्षस्ततः परम् । ४५९ कृच्छ्रातिकृच्छ्रस्तृतीयो विज्ञेयः सोअतिपावनः ॥ ४५१० त्र्यहंत्र्यहं पिबेदुष्णं पयः सर्पिः कुशोदकम् । ४५१० वायुभक्षस्त्र्यहं चान्यत्तप्तकृच्छ्रः स उच्यते ॥ ४५११ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । ४५११ एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः ॥ ४५१२ गायत्र्यादाय [Kashi Sanskrit Series: गायत्र्या गृह्य] गोमूत्रंगन्धद्वारेति गोमयम् । ४५१२ आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । ४५१२ शुक्रमसि ज्योतिरित्य्[Kashi Sanskrit Series: ज्योतिरसीत्य्] आज्यं देवस्यत्वेति कुशोदकम् [Kashi Sanskrit Series: कुशोदकमिति] ॥ ४५१३ गोमूत्रभागस्तस्यार्धं शकृत्क्षीरस्य तु त्रयम् [Kashi Sanskrit Series:क्षीरस्य तयम्] । ४५१३ द्वयं दध्नो घृतस्यैक एकश्च कुशवारिणः । ४५१३ एवं सांतपनः कृच्छ्रः श्वपाकमपि शोधयेत् ॥ ४५१४ गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा [Kashi Sanskrit Series:गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्] । ४५१४ पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥ ४५१५ यतात्मनोअप्रमत्तस्य द्वादशाहमभोजनम् । ४५१५ पराको नाम कृच्छ्रोअयं सर्वपापप्रणाशनः ॥ ४५१६ गोमूत्रादिभिरभ्यस्तमेकैकं तं त्रिसप्तकम् । ४५१६ महासांतपनं कृच्छ्रं वदन्ति ब्रह्मवादिनः ॥ ४५१७ एकवृद्ध्या सिते पिण्डान् [Kashi Sanskrit Series: पिण्डे] एकहान्यासिते ततः । ४५१७ पक्षयोरुपवासौ द्वौ तधि चान्द्रायणं स्मृतम् ॥ ४५१८ चतुरः प्रातरश्नीयात्पिण्डान् विप्रः समाहितः । ४५१८ चतुरोअस्तमिते सूर्ये शिशुचान्द्रायणं चरेत्[Kashi Sanskrit Series: स्मृतम्] ॥ ४५१९ अष्टावष्टौ मासमेकं पिण्डान्मध्यंदिने स्थिते । ४५१९ नियतात्मा हविष्यस्य यतिचान्द्रायणं [ः: -चान्दायणं]चरेत् ॥ ४५२० यथा कथंचित्पिण्डानां द्विजस्तिस्रस्त्वशीतयः । ४५२० मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ४५२१ यथोद्यंश्चन्द्रमा हन्ति जगतस्तमसो भयम् । ४५२१ एवं [Kashi Sanskrit Series: तथा] पापाद्भयं हन्ति द्विजश्चान्द्रायणं चरन् ॥ ४५२२ कणपिण्याकतक्राणि यवाचामो[Kashi Sanskrit Series: तथा चापो]अनिलाशनः । ४५२२ एकत्रिपञ्चसप्तेति पापघ्नोअयं तुलापुमान् ॥ ४५२३ यावकः सप्तरात्रेण वृजिनं हन्ति देहिनाम् । ४५२३ सप्तरात्रोपवासो वा दृष्टमेतन्मनीषिभिः ॥ ४५२४ पौषभाद्रपदज्येष्ठास्व्[Kashi Sanskrit Series: पौषभाद्रपदज्येष्ठा]आर्द्राकाशातपाश्रयात् । ४५२४ त्रीन्शुक्लान्मुच्यते पापात्पतनीयादृते द्विजः ॥ ४५२५ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । ४५२५ यवाचामेन संयुक्तो ब्रह्मकूर्चोअतिपावनः ॥ ४५२६ अमावास्यां निराहारः पौर्णमास्यां तिलाशनः । ४५२६ शुक्लकृष्णकृतात्पापान्मुच्यते अब्दस्य पर्वभिः ॥ ४५२७ भैक्षाहारोअग्निहोत्रिभ्यो मासेनैकेन शुध्यति । ४५२७ यायावरवनस्थेभ्यो दशभिः पञ्चभिर्दिनैः ॥ ४५२८ एकाहधनिनोअन्नेन दिनेनैकेन शुध्यति । ४५२८ कापोतवृत्तिनिष्ठस्य पीत्वापः शुध्यते त्रिभिः ॥ ४५२९ ऋग्यजुःसामवेदानां वेदस्यान्यतमस्य वा । ४५२९ पारायणं त्रिरभ्यस्येदनश्नन् सोअतिपावनः ॥ ४५३० अथ चेत्त्वरते कर्तुं दिवसं [Kashi Sanskrit Series: दिवसे] मारुताशनः । ४५३० रात्रौ जलस्थितो [Kashi Sanskrit Series: जले स्थितो] व्युष्टः प्राजापत्येन तत्समम् ॥ ४५३१ गायत्र्याष्टसहस्रं तु जपं कृत्वोत्थिते रवौ । ४५३१ मुच्यते सर्वपापेभ्यो यदि न भ्रूणहा भवेत् ॥ ४५३२ योअन्नदः सत्यवादी च भूतेषु कृपया स्थितः । ४५३२ पूर्वोक्तयन्त्रशुद्धेभ्यः सर्वेभ्यः सोअतिरिच्यते ॥ ४६१ समाधुच्छन्दसा रुद्रा गायत्री प्रणवान्विता । ४६१ सप्त व्याहृतयश्चैव जप्याः [Kashi Sanskrit Series: जाप्याः] पापविनाशनाः ॥ ४६२ मृगारेष्टिः पवित्रेष्टिस्त्रिहविः पावमान्यपि । ४६२ इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः ॥ ४६३ इदं चैवापरं गुह्यमुच्यमानं निबोधत । ४६३ मुच्यते सर्वपापेभ्यो महतः पातकादृते ॥ ४६४ पवित्रैर्मार्जनं कुर्वन् रुद्रैकादशिनीं [Kashi Sanskrit Series:रुद्रैकार्देशिकां] जपन् । ४६४ पवित्राणि घृतैर्जुह्वत्प्रयच्छन् हेमगोतिलान् ॥ ४६५ योअश्नीयाद्यावकं पक्वं गोमूत्रे सशकृद्रसे । ४६५ सदधिक्षीरसर्पिष्के मुच्यते सोअंहसः क्षणात् ॥ ४६६ प्रसूतो यश्च शूद्रायां येनागम्या च लङ्घिता । ४६६ सप्तरात्रात्प्रमुच्येते विधिनैतेन तावुभौ ॥ ४६७ रेतोमूत्रपुरीषाणां प्राशनेभोज्यभोजने । ४६७ पर्याधानेज्ययोरेतत्परिवित्ते च भेषजम् ॥ ४६८ अपातकानि कर्माणि कृत्वैव सुबहून्यपि । ४६८ मुच्यते सर्वपापेभ्य इत्येतद्वचनं सताम् ॥ ४६९ मन्त्रमार्गप्रमाणं तु विधानं [Kashi Sanskrit Series: विधाने] समुदीरितम् । ४६९ भरद्वाजादयो येन ब्रह्मणः सात्मतां [Kashi Sanskrit Series: समतां] गताः ॥ ४६१०-१ प्रसन्नहृदयो विप्रः प्रयोगादस्य कर्मणः । ४६१०-१ कामांस्तांस्तानवाप्नोति ये ये कामा हृदि स्थिताः ॥ ४६१०-२। ये ये कामा हृदि स्थिता इति ॥ ४७१ निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु । ४७१ यो विप्रस्तस्य सिध्यन्ति विना यन्त्रैरपि क्रियाः ॥ ४७२ ब्राह्मणा ऋजवस्तस्माद्यद्यदिच्छन्ति चेतसा । ४७२ तत्तदासादयन्त्याशु संशुद्धा ऋजुकर्मभिः ॥ ४७३ एवमेतानि यन्त्राणि तावत्कार्याणि धीमता । ४७३ कालेन यावतोपैति विग्रहः [Kashi Sanskrit Series: विग्रहं] शुद्धिमात्मनः ॥ ४७४ एभिर्यन्त्रैर्विशुद्धात्मा त्रिरात्रोपोषितस्ततः । ४७४ तदारभेत येनर्द्धिं कर्मणा प्राप्तुमिच्छति ॥ ४७५ क्ष्मापवित्रः [Kashi Sanskrit Series: क्षापवित्रं] सहस्राक्षो मृगारोअंहोमुचौ गणौ । ४७५ पावमान्यश्च कूश्माण्ड्यो वैश्वानर्य ऋचश्च याः ॥ ४७६ घृतौदनेन ता जुह्वत्सप्ताहं सवनत्रयम् । ४७६ मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥ ४७७ सिंहे म इत्यपां पूर्णे पात्रेवेक्ष्य चतुष्पथे । ४७७ मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥ ४७८ वृद्धत्वे यौवने बाल्ये यः कृतः पापसंचयः । ४७८ पूर्वजन्मसु चाज्ञानात्[Kashi Sanskrit Series: वाज्ञानात्] तस्मादपि विमुच्यते ॥ ४७९ भोजयित्वा द्विजानन्ते पायसेन ससर्पिषा [Kashi Sanskrit Series: सुसर्पिषा] । ४७९ गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदाय च ॥ ४७१० विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः । ४७१० काम्यानां कर्मणां योग्यस्[Kashi Sanskrit Series: योज्यः]तथाधानादिकर्मणाम् ॥ ४८१ अतिलोभात्प्रमादाद्वा यः करोति क्रियामिमाम् । ४८१ अन्यस्य सोअंहसाविष्टो गरगीरिव सीदति ॥ ४८२ आचार्यस्य पितुर्मातुरात्मनश्च क्रियामिमाम् । ४८२ कुर्वन् भात्यर्कवद्विप्रः सा कार्यैषामतः क्रिया ॥ ४८३ क एतेन सहस्राक्षं पवित्रेणाकरोत्शुचिम् । ४८३ अग्निं वायुं रविं सोमं यमादींश्च सुरेश्वरान् ॥ ४८४ यत्किंचित्पुण्यनामेह त्रिषु लोकेषु विश्रुतम् । ४८४ विप्रादि तत्कृतं केन पवित्रक्रिययानया ॥ ४८५ प्राजापत्यम् [Kashi Sanskrit Series: प्रजापत्यम्] इदं गुह्यं पापघ्नंप्रथमोद्भवम् । ४८५ समुत्पन्नान्यतः पश्चात्पवित्राणि सहस्रशः ॥ ४८६ योअब्दायनर्तुपक्षाहान्जुहोत्यष्टौ गणानिमान् । ४८६ पुनाति चात्मनो वंश्यान् दश पूर्वान् दशावरान् [Kashi Sanskrit Series:दशापरान्] ॥ ४८७ ज्ञायते चामरैर्द्युस्थैः पुण्यकर्मेति भूस्थितः । ४८७ देववत्मोदते भूयः स्वर्गलोकेपि पुण्यकृत् ॥ [Kashi Sanskrit Series पुत्स्थिस्वेर्से अfतेर्४८१२] ४८८ एतानष्टौ गणान् होतुं न शक्नोति यदि द्विजः । ४८८ एकोअपि तेन होतव्यो रजस्तेनास्य नश्यति ॥ ४८९ सूनवो यस्य शिष्या वा जुह्वत्यष्टौ गणानिमान् । ४८९ अध्यापनपरिक्रीतैरंहसः सोअपि मुच्यते ॥ ४८१० धनेनापि परिक्रीतैरात्मपापजिघांसया । ४८१० हावनीया ह्यशक्तेन नावसाद्यः शरीरधृक् ॥ ४८११ धनस्य क्रियते त्यागः कर्मणां सुकृतामपि । ४८११ पुंसोअनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥ ४८१२ विमुक्तो [Kashi Sanskrit Series: मुक्तो यो] विधिनैतेन सर्वपापार्णसागरात् । ४८१२ आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥ ४८१३ सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः । ४८१३ अयत्नेनैव ताः सिद्धिं यान्ति शुद्धशरीरिणः ॥ ४८१४ प्राजापत्यम् [Kashi Sanskrit Series: प्रजापत्यम्] इदं पुण्यमृषिणा [Kashi Sanskrit Series: ऋषीणां]समुदीरितम् । ४८१४ इदमध्यापयेन्नित्यं धारयेत्शृणुतेपि वा । ४८१४ मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥ ४८१५ यान् सिषाधयिषुर्मन्त्रान् द्वादशाहानि ताञ्जपेत् । ४८१५ घृतेन पयसा दध्ना प्राश्य निश्योदनं सकृत् ॥[Kashi Sanskrit Series बेfओरे ४८१६-१ ऋग्यजुस्सामवेदानामथर्वाङ्गिरसामपि ।] ४८१६-१ दशवारं तथा होमः सर्पिषा सवनत्रयम् । ४८१६-१ पूर्वसेवा भवेदेषां [Kashi Sanskrit Series: एषा] मन्त्राणां कर्मसाधने ॥ ४८१६-२। मन्त्राणां कर्मसाधन इति ॥तिलोभात्प्रमादाद्वा । निवृत्तः पापकर्मभ्यः ॥ समाधुश्छन्दसारुद्राः ॥ अथातः संप्रवक्ष्यामि ॥ प्रायश्चित्तानि वक्ष्यामः ॥प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानिवक्ष्यामः ॥ इति चतुर्थः प्रश्नः ॥४ ॥ इति बौधायनधर्मसूत्रंसमाप्तम् ॥