(अथ प्रथमः अध्यायः) [अनुबन्धचतुष्टयप्रकरणम्] १.१.१ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः {पदार्थोद्देशसूत्रम्} १.१.२ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा पायातपवर्गः {पदार्थोद्देशसूत्रम्} [प्रमाणप्रकरणम्] १.१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि {प्रमाणौद्देशसूत्रम्} १.१.४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् {प्रत्यक्षलक्षणम्} १.१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च {अनुमानलक्षणम्} १.१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् {उपमानलक्षणम्} १.१.७ आप्तोपदेशः शब्दः {शब्दलक्षणम्} १.१.८ सः द्विविधः दृष्टादृष्टार्थत्वात् {शब्दभेदः} [प्रमेयप्रकरणम्] १.१.९ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् {प्रमेयौद्देशसूत्रम्} १.१.१० इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गमिति {आत्मलक्षणम्} १.१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम् {शरीरलक्षणम्} १.१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः {इन्द्रियलक्षणम्} १.१.१३ पृथिवी आपः तेजः वायुः आकाशमिति भूतानि {भूतलक्षणम्} १.१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः {अर्थ(विषय)लक्षणम्} १.१.१५ बुद्धिः उपलब्धिः ज्ञानमिति अनर्थान्तरम् {बुद्धिलक्षणम्} १.१.१६ युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् {मनोलक्षणम्} १.१.१७ प्रवृत्तिः वाग्बुद्धिशरीरारम्भः {प्रवृत्तिलक्षणम्} १.१.१८ प्रवर्त्तनालक्षणाः दोषाः {दोषलक्षणम्} १.१.१९ पुनरुत्पत्तिः प्रेत्यभावः {प्रेत्यभावलक्षणम्} १.१.२० प्रवृत्तिदोषजनितः अर्थः फलम् {फललक्षणम्} १.१.२१ बाधनालक्षणं दुःखम् {दुःखलक्षणम्} १.१.२२ तदत्यन्तविमोक्षः अपवर्गः {अपवर्गलक्षणम्} [न्यायपूर्वाङ्गलक्षणप्रकरणम्] १.१.२३ समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः {संशयलक्षणम्} १.१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् {प्रयोजनलक्षणम्} १.१.२५ लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः {दृष्टान्तलक्षणम्} [न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्] १.१.२६ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} १.१.२७ सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् {तन्त्रभेदौद्देशसूत्रम्} १.१.२८ सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः {सर्वतन्त्रसिद्धान्तलक्षणम्} १.१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः {प्रतितन्त्रसिद्धान्तलक्षणम्} १.१.३० यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः {अधिकरणसिद्धान्तलक्षणम्} १.१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः {अभ्युपगमसिद्धान्तलक्षणम्} [न्यायप्रकरणम्] १.१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः {अवयवौद्देशसूत्रम्} १.१.३३ साध्यनिर्देशः प्रतिज्ञा {प्रतिज्ञालक्षणम्} १.१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः {हेतुलक्षणम्} १.१.३५ तथा वैधर्म्यात् {हेतुलक्षणम्} १.१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् {उदाहरणलक्षणम्} १.१.३७ तद्विपर्ययात्वा विपरीतम् {उदाहरणलक्षणम्} १.१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः {उपनयलक्षणम्} १.१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् {निगमनलक्षणम्} [न्यायोत्तराङ्गप्रकरणम्] १.१.४० अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमुहः तर्कः {तर्कलक्षणम्} १.१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः {निर्णयलक्षणम्} (इति न्यायसूत्रे प्रथमाध्यायस्य प्रथममाह्निकम्) (अथ द्वितीयमाह्निकम्) [कथालक्षणप्रकरणम्] १.२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः {वादलक्षणम्} १.२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः {जल्पलक्षणम्} १.२.३ सः प्रतिपक्षस्थापनाहीनः वितण्डा {वितण्डालक्षणम्} [हेत्वाभासप्रकरणम्] १.२.४ सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः {हेत्वाभासौद्देशसूत्रम्} १.२.५ अनैकान्तिकः सव्यभिचारः {सव्यभिचारलक्षणम्} १.२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः {विरुद्धलक्षणम्} १.२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः {प्रकरणसमलक्षणम्} १.२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः {साध्यसमलक्षणम्} १.२.९ कालात्ययापदिष्टः कालातीतः {कालातीतलक्षणम्} [छलप्रकरणम्] १.२.१० वचनविघातः अर्थविकल्पोपपत्त्या छलम् {छललक्षणम्} १.२.११ तत्त्रिविधम् वाक्छलं सामान्यच्छलमुपचारच्छलं च इति {छलभेदौद्देशसूत्रम्} १.२.१२ अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् {वाक्छललक्षणम्} १.२.१३ सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् {सामान्यच्छललक्षणम्} १.२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् {उपचारच्छललक्षणम्} १.२.१५ वाक्छलमेव उपचारच्छलं ततविशेषात् {उपचारच्छलपूर्वपक्षलक्षणम्} १.२.१६ न ततर्थान्तरभावात् {उपचारच्छललक्षणम्} १.२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः {उपचारच्छललक्षणम्} [लिङ्गदोषसामान्यप्रकरणम्] १.२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः {जातिलक्षणम्} १.२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् {निग्रहस्थानलक्षणम्} १.२.२० तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् {निग्रहस्थानबहुत्वसूत्रम्} (इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम्) (समाप्तः च अयं प्रथमः अध्यायः) (अथ द्वितीयः अध्यायः) (प्रथममाह्निकम्) [संशयपरीक्षाप्रकरणम्] २.१.१ समानानेकधर्माध्यवसायातन्यतरधर्माध्यवसायात्वा न संशयः {संशय} २.१.२ विप्रत्तिपत्त्यव्यवस्थाध्यवसायात्च {संशय} २.१.३ विप्रत्तिपत्तौ च संप्रत्तिपत्तेः {संशय} २.१.४ अव्यवस्था आत्मनि व्यवस्थितत्वात्च अव्यवस्थायाः {संशय} २.१.५ तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः {संशय} २.१.६ यथोक्ताध्यवसायातेव तद्विशेषापेक्षात्संशये न असंशयः न अत्यन्तसंशयः वा {संशय} २.१.७ यत्र संशयः तत्र एवमुत्तरोत्तरप्रसङ्गः {संशय} [प्रमाणसामान्यपरीक्षाप्रकरणम्] २.१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः {पूर्वपक्षसूत्रम्} २.१.९ पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः {पूर्वपक्षसूत्रम्} २.१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावः बुद्धीनाम् {पूर्वपक्षसूत्रम्} २.१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१३ सर्वप्रमाणप्रतिषेधात्च प्रतिषेधानुपपत्तिः {पूर्वपक्षसूत्रम्} २.१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः {पूर्वपक्षसूत्रम्} २.१.१५ त्रैकाल्याप्रतिषेधः च शब्दातातोद्यसिद्धिवत्तत्सिद्धेः {पूर्वपक्षसूत्रम्} २.१.१६ प्रमेया च तुलाप्रामाण्यवत् {पूर्वपक्षसूत्रम्} २.१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः {पूर्वपक्षसूत्रम्} २.१.१८ तद्विनिवृत्तेः वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः {पूर्वपक्षसूत्रम्} २.१.१९ न, प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः {सिद्धान्तलक्षणम्} २.१.२० क्वचित्निवृत्तिदर्शनातनिवृत्तिदर्शनात्च क्वचितनेकान्तः {सिद्धान्तलक्षणम्} [प्रत्यक्षपरीक्षाप्रकरणाम्] २.१.२१ प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् {प्रत्यक्षलक्षण} {प्रत्यक्षलक्षणपरीक्षा} २.१.२२ न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) २.१.२३ दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) २.१.२४ ज्ञानलिङ्गत्वातात्मनः न अनवरोधः {प्रत्यक्षलक्षणसिद्धान्तसूत्रम्} २.१.२५ तदयौगपद्यलिङ्गत्वात्च न मनसः {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२६ प्रत्यक्षनिमित्तत्वात्च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२७ सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२८ तैः च अपदेशः ज्ञानविशेषाणाम् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.२९ व्याहतत्वातहेतुः {प्रत्यक्षलक्षणसिद्धान्तसूत्र} २.१.३० न अर्थविशेषप्राबल्यात् {प्रत्यक्षलक्षणसिद्धान्तसूत्र} [विषयपरीक्षाप्रकरणाम्] २.१.३१ प्रत्यक्षमनुमानमेकदेशग्रहणातुपलब्धेः {पूर्वपक्षसूत्र} २.१.३२ न, प्रत्यक्षेण यावत्तावतपि उपलम्भात् {सिद्धान्तसूत्र} २.१.३३ न चैकदेशोपलब्धिरवयविसद्भावात् {सिद्धान्तसूत्र} [प्रसङ्गोपात्ता अवयविपरीक्षा] २.१.३४ साध्यत्वातवयविनि सन्देहः {पूर्वपक्षसूत्र} २.१.३५ सर्वाग्रहणमवयव्यसिद्धेः {सिद्धान्तसूत्र} २.१.३६ धारणाकर्षणोपपत्तेः च {सिद्धान्तसूत्र} २.१.३७ सेनावनवत्ग्रहणमिति चेत्न अतीन्द्रियत्वातणूनाम् {सिद्धान्तसूत्र} [अनुमानपरीक्षाप्रकरणम्] २.१.३८ रोधोपघातसादृश्येभ्यः व्यभिचारातनुमानमप्रमाणम् {पूर्वपक्षसूत्र} २.१.३९ न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् {सिद्धान्तसूत्र} {वर्तमानकालपरीक्षा} २.१.४० वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः {पूर्वपक्षसूत्र} २.१.४१ तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् {सिद्धान्तसूत्र} २.१.४२ न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः {सिद्धान्तसूत्र} २.१.४३ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः {सिद्धान्तसूत्र} २.१.४४ कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम् {सिद्धान्तसूत्र} [उपमानपरीक्षाप्रकरणम्] २.१.४५ अत्यन्तप्रायैकदेशसाधर्म्यातुपमानासिद्धिः {सिद्धान्तसूत्र} २.१.४६ प्रसिद्धसाधर्म्यातुपमानसिद्धेः यथोक्तदोषानुपपत्तिः {पूर्वपक्षसूत्र} २.१.४७ प्रत्यक्षेण अप्रत्यक्षसिद्धेः {सिद्धान्तसूत्र} २.१.४८ न अप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः {सिद्धान्तसूत्र} २.१.४९ तथा इति उपसंहारातुपमानसिद्धेः न अविशेषः {सिद्धान्तसूत्र} [शब्दसामान्यपरीक्षाप्रकरणम्] २.१.५० शब्दः अनुमानमर्थस्य अनुपलब्धेः अनुमेयत्वात् {पूर्वपक्षसूत्र} २.१.५१ उपलब्धेः अद्विप्रवृत्तित्वात् {पूर्वपक्षसूत्र} २.१.५२ सम्बन्धात्च {पूर्वपक्षसूत्र} २.१.५३ आप्तोपदेशसामर्थ्यात्शब्दातर्थसम्प्रत्ययः {सिद्धान्तसूत्र} २.१.५४ पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः {सिद्धान्तसूत्र} २.१.५५ शब्दार्थव्यवस्थानातप्रतिषेधः {सिद्धान्तसूत्र} २.१.५६ न, सामयिकत्वात्शब्दार्थसम्प्रत्ययस्य {सिद्धान्तसूत्र} २.१.५७ जातिविशेषे च अनियमात् {सिद्धान्तसूत्र} [शब्दविशेषपरीक्षाप्रकरणम्] २.१.५८ तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः {सिद्धान्तसूत्र} २.१.५९ न, कर्मकर्तृसाधनवैगुण्यात् {सिद्धान्तसूत्र} २.१.६० अभ्युपेत्य कालभेदे दोषवचनात् {सिद्धान्तसूत्र} २.१.६१ अनुवादोपपत्तेः च {सिद्धान्तसूत्र} २.१.६२ वाक्यविभागस्य च अर्थग्रहणात् {सिद्धान्तसूत्र} २.१.६३ विध्यर्थवादानुवादवचनविनियोगात् {सिद्धान्तसूत्र} २.१.६४ विधिः विधायकः {सिद्धान्तसूत्र} २.१.६५ स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः {सिद्धान्तसूत्र} {अर्थवादभेदः} २.१.६६ विधिविहितस्य अनुवचनमनुवादः {अर्थवाद} २.१.६७ न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः {सिद्धान्तसूत्र} २.१.६८ शीघ्रतरगमनोपदेशवतभ्यासात्न अविशेषः {सिद्धान्तसूत्र} २.१.६९ मन्त्रायुर्वेदप्रामाण्यवत्च तत्प्रामाण्यम्, आप्तप्रामाण्यात् {सिद्धान्तसूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथममाह्निकम्) (द्वितीयमाह्निकम्) [प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्] २.२.१ न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् {पूर्वपक्षसूत्र} २.२.२ शब्दे ऐतिह्यानर्थान्तरभावातनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात्च अप्रतिषेधः {सिद्धान्तसूत्र} २.२.३ अर्थापत्तिः अप्रमाणमनैकान्तिकत्वात् {अर्थापत्तिप्रामाण्यपरीक्षा} २.२.४ अनर्थापत्तौ अर्थापत्त्यभिमानात् {नानैकान्तिकत्वमर्थापत्तेः} २.२.५ प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् () २.२.६ तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् {सिद्धान्तसूत्र} [अभावप्रामाण्यसिद्धिः अवान्तरप्रकरणम्] २.२.७ न अभावप्रामाण्यं प्रमेयासिद्धेः {पूर्वपक्षसूत्र} २.२.८ लक्षितेष्वलक्षणलक्षितत्वातलक्षितानां तत्प्रमेयसिद्धेः {उदाहरण सूत्र} २.२.९ असति अर्थे न अभावः इति चेत्न, अन्यलक्षणोपपत्तेः {सिद्धान्तसूत्र} २.२.१० तत्सिद्धेः अलक्षितेषु अहेतुः {पूर्वपक्षसूत्र} २.२.११ न, लक्षणावस्थितापेक्षसिद्धेः {सिद्धान्तसूत्र} २.२.१२ प्राकुत्पत्तेः अभावोपपत्तेः च {सिद्धान्तसूत्र} [शब्दानित्यत्वपरीक्षाप्रकरणम्(१३३९)] २.२.१३ आदिमत्वातैन्द्रियकत्वात्कृतकवतुपचारात्च {शब्दानित्यत्वप्रतिपादनसूत्र} २.२.१४ न, घटाभावसामान्यनित्यत्वात्नित्येषु अपि अनित्यवतुपचारात्च {सिद्धान्तसूत्र} २.२.१५ तत्त्वभाक्तयोः नानात्वविभागातव्यभिचारः {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} २.२.१६ सन्तानानुमानविशेषणात् {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} २.२.१७ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} २.२.१८ प्राकुच्चारणातनुपलब्धेः आवरणाद्यनुपलब्धेः च {शब्दानित्यत्वप्रतिपादनसूत्र} २.२.१९ तदनुपलब्धेः अनुपलम्भातावरणोपपत्तिः {शब्दानित्यत्वप्रतिपादनसूत्र} २.२.२० अनुपलम्भातनुपलब्धिसद्भावात्न आवरणानुपपत्तिः अनुपलम्भात् {सिद्धान्तसूत्र} २.२.२१ अनुपलम्भात्मकत्वातनुपलब्धेः अहेतुः {सिद्धान्तसूत्र} २.२.२२ अस्पर्शत्वात् {सिद्धान्तसूत्र} २.२.२३ न, कर्मानित्यत्वात् {सिद्धान्तसूत्र} २.२.२४ न, अणुनित्यत्वात् {सिद्धान्तसूत्र} २.२.२५ सम्प्रदानात् {सिद्धान्तसूत्र} २.२.२६ तदन्तरालानुपलब्धेः अहेतुः {सिद्धान्तसूत्र} २.२.२७ अध्यापनातप्रतिषेधः {सिद्धान्तसूत्र} २.२.२८ उभयोः पक्षयोः अन्यतरस्य अध्यापनातप्रतिषेधः {सिद्धान्तसूत्र} २.२.२९ अभ्यासात् {सिद्धान्तसूत्र} २.२.३० न अन्यत्वे अपि अभ्यासस्य उपचारात् {सिद्धान्तसूत्र} २.२.३१ अन्यतन्यस्मातनन्यत्वातनन्यतिति अन्यताभावः {सिद्धान्तसूत्र} २.२.३२ तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः {सिद्धान्तसूत्र} २.२.३३ विनाशकारणानुपलब्धेः {सिद्धान्तसूत्र} २.२.३४ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः {सिद्धान्तसूत्र} २.२.३५ उपलभ्यमाने च अनुपलब्धेः असत्त्वातनपदेशः {सिद्धान्तसूत्र} २.२.३६ पाणिनिमित्तप्रश्लेषात्शब्दाभावे न अनुपलब्धिः {सिद्धान्तसूत्र} २.२.३७ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {सिद्धान्तसूत्र} २.२.३८ अस्पर्शत्वातप्रतिषेधः {सिद्धान्तसूत्र} २.२.३९ विभक्त्यन्तरोपपत्तेः च समासे {सिद्धान्तसूत्र} [शब्दपरिणामपरीक्षाप्रकरणम्(४०५६)] २.२.४० विकारादेशोपदेशात्संशयः {पूर्वपक्षसूत्र} २.२.४१ प्रकृतिविवृद्धौ विकारविवृद्धेः {सिद्धान्तसूत्र} २.२.४२ न्यूनसमाधिकोपलब्धेः विकाराणामहेतुः {सिद्धान्तसूत्र} २.२.४३ द्विविधस्य अपि हेतोः अभावातसाधनं दृष्टान्तः {उदाहरणसूत्र} २.२.४४ न, अतुल्यप्रकृतीनां विकारविकल्पात् {सिद्धान्तसूत्र} २.२.४५ द्रव्यविकारवैषम्यवत्वर्णविकारविकलः {पूर्वपक्षसूत्र} २.२.४६ न, विकारधर्मानुपपत्तेः {सिद्धान्तसूत्र} २.२.४७ विकारप्राप्तानामपुनरापत्तेः {सिद्धान्तसूत्र} २.२.४८ सुवर्णादीनां पुनरापत्तेः अहेतुः {पूर्वपक्षसूत्र} २.२.४९ न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् {सिद्धान्तसूत्र} २.२.५० वर्णत्वाव्यतिरेकात्वर्णविकाराणामप्रतिषेधः {सिद्धान्तसूत्र} २.२.५१ सामान्यवतो धर्मयोगो न सामान्यस्य {सिद्धान्तसूत्र} २.२.५२ नित्यत्वे अविकारातनित्यत्वे च अनवस्थानात् {सिद्धान्तसूत्र} २.२.५३ नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पात्च वर्णविकाराणामप्रतिषेधः {पूर्वपक्षसूत्र} २.२.५४ अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः {पूर्वपक्षसूत्र} २.२.५५ विकारधर्मित्वे नित्यत्वाभावात्कालान्तरे विकारोपपत्तेः च अप्रतिषेधः {सिद्धान्तसूत्र} २.२.५६ प्रकृत्यनियमात् {सिद्धान्तसूत्र} २.२.५७ अनियमे नियमात्न अनियमः {पूर्वपक्षसूत्र} २.२.५८ नियमानियमविरोधातनियमे नियमात्च अप्रतिषेधः {सिद्धान्तसूत्र} २.२.५९ गुणान्तरापत्त्युपमर्दह्रासवृद्धिश्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः {सिद्धान्तसूत्र} [शब्दशक्तिपरीक्षाप्रकरणम्] २.२.६० ते विभक्त्यन्ताः पदम् {पदलक्षणसूत्रम्} २.२.६१ व्यक्त्याकृतिजातिसन्निधौ उपचारात्संशयः {पूर्वपक्षसूत्र} [व्यक्तिवादअवान्तरप्रकरणम्] २.२.६२ याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तौ उपचारात्व्यक्तिः {पूर्वपक्षसूत्र} २.२.६३ न, ततनवस्थानात् {सिद्धान्तसूत्र} २.२.६४ सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यः ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावे अपि तदुपचारः {सिद्धान्तसूत्र} [आकृतिवादअवान्तरप्रकरणम्] २.२.६५ आकृतिः, तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः {पूर्वपक्षसूत्र} [जातिवादअवान्तरप्रकरणम्] २.२.६६ व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात्प्रोक्षणादिनां मृद्गवके जातिः {पूर्वपक्षसूत्र} २.२.६७ न, आकृतिव्यक्त्यपेक्षत्वात्जात्यभिव्यक्तेः {सिद्धान्तसूत्र} [सिद्धान्तवादअवान्तरप्रकरणम्] २.२.६८ व्यक्त्याकृतिजातयः तु पदार्थः {सिद्धान्तसूत्र} २.२.६९ व्यक्तिः गुणविशेषाश्रयः मूर्तिः {सिद्धान्तसूत्र} २.२.७० आकृतिः जातिलिङ्गाख्या {सिद्धान्तसूत्र} २.२.७१ समानप्रसवात्मिका जातिः {सिद्धान्तसूत्र} (इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयमाह्निकम्) समाप्तः च अयं द्वितीयाध्यायः (अथ तृतीयः अध्यायः) (प्रथममाह्निकम्) [इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(१३)] ३.१.१ दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् {पूर्वपक्षसूत्र} ३.१.२ न, विषयव्यवस्थानात् {पूर्वपक्षसूत्र} ३.१.३ तद्व्यवस्थानातेव आत्मसद्भावातप्रतिषेधः {सिद्धान्तसूत्र} [शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्] ३.१.४ शरीरदाहे पातकाभावात् {सिद्धान्तसूत्र} ३.१.५ तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात् {पूर्वपक्षसूत्र} ३.१.६ न, कार्याश्रयकर्तृवधात् {सिद्धान्तसूत्र} [प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(७१४)] ३.१.७ सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात् {सिद्धान्तसूत्र} ३.१.८ न एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् {पूर्वपक्षसूत्र} ३.१.९ एकविनाशे द्वितीयाविनाशात्न एकत्वम् {सिद्धान्तसूत्र} ३.१.१० अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः {पूर्वपक्षसूत्र} ३.१.११ दृष्टान्तविरोधातप्रतिषेधः {सिद्धान्तसूत्र} ३.१.१२ इन्द्रियान्तरविकारात् {सिद्धान्तसूत्र} ३.१.१३ न, स्मृतेः स्मर्त्तव्यविषयत्वात् {पूर्वपक्षसूत्र} ३.१.१४ तदात्मगुणसद्भावातप्रतिषेधः {सिद्धान्तसूत्र} [आत्ममनोभेदपरीक्षाप्रकरणम्(१५१७)] ३.१.१५ न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् {पूर्वपक्षसूत्र} ३.१.१६ ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् {सिद्धान्तसूत्र} ३.१.१७ नियमः च निरनुमानः {सिद्धान्तसूत्र} [आत्मनित्यत्वपरीक्षाप्रकरणम्(१८२६)] ३.१.१८ पूर्वाभ्यस्तस्मृत्यनुबन्धात्जातस्य हर्षभयशोकसम्प्रतिपत्तेः {सिद्धान्तसूत्र} ३.१.१९ पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः {पूर्वपक्षसूत्र} ३.१.२० न, उष्णशीतवर्षाकालनिमित्तत्वात्पञ्चात्मकविकाराणाम् {सिद्धान्तसूत्र} ३.१.२१ प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् {सिद्धान्तसूत्र} ३.१.२२ अयसः अयस्कान्ताभिगमनवत्तदुपसर्पणम् {पूर्वपक्षसूत्र} ३.१.२३ न, अन्यत्र प्रवृत्त्यभावात् {सिद्धान्तसूत्र} ३.१.२४ वीतरागजन्मादर्शनात् {सिद्धान्तसूत्र} ३.१.२५ सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः {पूर्वपक्षसूत्र} ३.१.२६ न, सङ्कल्पनिमित्तत्वात्रागादीनाम् {सिद्धान्तसूत्र} [शरीरपरीक्षाप्रकरणम्(२७३१)] ३.१.२७ पार्थिवं गुणान्तरोपलब्धेः {सिद्धान्तसूत्र} ३.१.२८ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः {सिद्धान्तसूत्र} ३.१.२९ निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम् {पूर्वपक्षसूत्र} ३.१.३० गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् {पूर्वपक्षसूत्र} ३.१.३१ श्रुतिप्रामाण्यात्च {सिद्धान्तसूत्र} [इन्द्रियपरीक्षाप्रकरणम्(३२५१)] ३.१.३२ कृष्णसारे सति उपलम्भात्व्यतिरिच्य च उपलम्भात्संशयः {सिद्धान्तसूत्र} ३.१.३३ महदणुग्रहणात् {साङ्ख्यमतखण्डनम्} ३.१.३४ रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् {सिद्धान्तसूत्र} ३.१.३५ तदनुपलब्धेः अहेतुः {सिद्धान्तसूत्र} ३.१.३६ न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः {सिद्धान्तसूत्र} ३.१.३७ द्रव्यगुणधर्मभेदात्च उपलब्धिनियमः {सिद्धान्तसूत्र} ३.१.३८ अनेकद्रव्यसमवायात्रूपविशेषात्च रूपोपलब्धिः {सिद्धान्तसूत्र} ३.१.३९ कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः {सिद्धान्तसूत्र} ३.१.४० मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः {सिद्धान्तसूत्र} ३.१.४१ न, रात्रौ अपि अनुपलब्धेः {सिद्धान्तसूत्र} ३.१.४२ बाह्यप्रकाशानुग्रहात्विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः {सिद्धान्तसूत्र} ३.१.४३ अभिव्यक्तौ च अभिभवात् {सिद्धान्तसूत्र} ३.१.४४ नक्तञ्चरनयनरश्मिदर्शनात्च {सिद्धान्तसूत्र} ३.१.४५ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः {पूर्वपक्षसूत्र} ३.१.४६ कुड्यान्तरितानुपलब्धेः अप्रतिषेधः {सिद्धान्तसूत्र} ३.१.४७ अप्रतीघातात्सन्निकर्षोपपत्तिः {सिद्धान्तसूत्र} ३.१.४८ आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात् {सिद्धान्तसूत्र} ३.१.४९ न इतरेतरधर्मप्रसङ्गात् {पूर्वपक्षसूत्र} ३.१.५० आदर्शोदकयोः प्रसादस्वाभाव्यात्रूपोपलब्धिः {सिद्धान्तसूत्र} ३.१.५१ दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः {सिद्धान्तसूत्र} [इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२६२)] ३.१.५२ स्थानान्यत्वे नानात्वातवयविनानास्थानत्वात्च संशयः {सिद्धान्तसूत्र} ३.१.५३ त्वकव्यतिरेकात् {पूर्वपक्षसूत्र} ३.१.५४ न युगपतर्थानुपलब्धेः {सिद्धान्तसूत्र} ३.१.५५ विप्रतिषेधात्च न त्वकेका {सिद्धान्तसूत्र} ३.१.५६ इन्द्रियार्थपञ्चत्वात् {सिद्धान्तसूत्र} ३.१.५७ न, तदर्थबहुत्वात् {पूर्वपक्षसूत्र} ३.१.५८ गन्धत्वाद्यव्यतिरेकात्गन्धादीनामप्रतिषेधः {सिद्धान्तसूत्र} ३.१.५९ विषयत्वाव्यतिरेकातेकत्वम् {सिद्धान्तसूत्र} ३.१.६० न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः {सिद्धान्तसूत्र} ३.१.६१ भूतगुणविशेषोपलब्धेः तादात्म्यम् {सिद्धान्तसूत्र} [अर्थपरीक्षाप्रकरणम्(६२७४)] ३.१.६२ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः {सिद्धान्तसूत्र} ३.१.६३ अप्तेजोवायूनां पूर्वं पूर्वमपोह्य आकाशस्य उत्तरः {पूर्वपक्षसूत्र} ३.१.६४ न, सर्वगुणानुपलब्धेः {सिद्धान्तसूत्र} ३.१.६५ एकैकश्येन उत्तरगुणासद्भावातुत्तरोत्तराणां तदनुपलब्धिः {पूर्वपक्षसूत्र} ३.१.६६ विष्टं हि अपरं परेण {पूर्वपक्षसूत्र} ३.१.६७ न, पार्थिवाप्ययोः प्रत्यक्षत्वात् {सिद्धान्तसूत्र} ३.१.६८ पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् {सिद्धान्तसूत्र} ३.१.६९ तद्ध्यवस्थानं तु भूयस्त्वात् {सिद्धान्तसूत्र} ३.१.७० सगुणानामिन्द्रियभावात् {सिद्धान्तसूत्र} ३.१.७१ तेन एव तस्य अग्रहणात्च {सिद्धान्तसूत्र} ३.१.७२ न, शब्दगुणोपलब्धेः {पूर्वपक्षसूत्र} ३.१.७३ तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात् {सिद्धान्तसूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य प्रथममाह्निकम्) (द्वितीयमाह्निकम्) [बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१९)] ३.२.१ कर्माकाशसाधर्म्यात्संशयः {सिद्धान्तसूत्र} ३.२.२ विषयप्रत्यभिज्ञानात् {सिद्धान्तसूत्र} ३.२.३ साध्यसमत्वातहेतुः {सिद्धान्तसूत्र} ३.२.४ न, युगपतग्रहणात् {सिद्धान्तसूत्र} ३.२.५ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः {सिद्धान्तसूत्र} ३.२.६ क्रमवृत्तित्वातयुगपत्ग्रहणम् {सिद्धान्तसूत्र} ३.२.७ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् {सिद्धान्तसूत्र} ३.२.८ न, गत्यभावात् {सिद्धान्तसूत्र} ३.२.९ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः {सिद्धान्तसूत्र} [क्षणभङ्गपरीक्षाप्रकरणम्(१०१७)] ३.२.१० स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात्व्यक्तीनामहेतुः {सिद्धान्तसूत्र} ३.२.११ नियमहेत्वभावात्यथादर्शनमभ्यनुज्ञा {सिद्धान्तसूत्र} ३.२.१२ न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्तसूत्र} ३.२.१३ क्षीरविनाशे कारणानुपलब्धिवत्दध्युत्पत्तिवत्च तदुत्पत्तिः {पूर्वपक्षसूत्र} ३.२.१४ लिङ्गतः ग्रहणात्न अनुपलब्धिः {सिद्धान्तसूत्र} ३.२.१५ न पयसः परिणामगुणान्तरप्रादुर्भावात् {सिद्धान्तसूत्र} ३.२.१६ व्यूहान्तरात्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम् {सिद्धान्तसूत्र} ३.२.१७ क्वचित्विनाशकारणानुपलब्धेः क्वचित्च उपलब्धेः अनेकान्तः {सिद्धान्तसूत्र} [बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(१८४१)] ३.२.१८ न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात् {सिद्धान्तसूत्र} ३.२.१९ युगपत्ज्ञानानुपलब्धेः च न मनसः {सिद्धान्तसूत्र} ३.२.२० ततात्मगुणत्वे अपि तुल्यम् {पूर्वपक्षसूत्र} ३.२.२१ इन्द्रियैः मनसः सन्निकर्षाभावात्तदनुत्पत्तिः {पूर्वपक्षसूत्र} ३.२.२२ न, उत्पत्तिकारणानपदेशात् {सिद्धान्तसूत्र} ३.२.२३ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः {पूर्वपक्षसूत्र} ३.२.२४ अनित्यत्वग्रहात्बुद्धेः बुद्ध्यन्तरात्विनाशः शब्दवत् {सिद्धान्तसूत्र} ३.२.२५ ज्ञानसमवेतात्मप्रदेशसन्निकर्षात्मनसः स्मृत्युत्पत्तेः न युगपतुत्पत्तिः {पूर्वपक्षसूत्र} ३.२.२६ न, अन्तःशरीरवृत्तित्वात्मनसः {सिद्धान्तसूत्र} ३.२.२७ साध्यत्वातहेतुः {पूर्वपक्षसूत्र} ३.२.२८ स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः {सिद्धान्तसूत्र} ३.२.२९ न, तदाशुगतित्वान्मनसः {पूर्वपक्षसूत्र} ३.२.३० न, स्मरणकालानियमात् {सिद्धान्तसूत्र} ३.२.३१ आत्मप्रेरणयदृच्छाज्ञताभिः च न संयोगविशेषः {पूर्वपक्षसूत्र} ३.२.३२ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् {सिद्धान्तसूत्र} ३.२.३३ प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावातयुगपत्स्मरणम् {सिद्धान्तसूत्र} ३.२.३४ ज्ञस्य इच्छाद्वेषनिमित्तत्वातारम्भनिवृत्त्योः {सिद्धान्तसूत्र} ३.२.३५ तल्लिङ्गत्वातिच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः {पूर्वपक्षसूत्र} ३.२.३६ परश्वादिषु आरम्भनिवृत्तिदर्शनात् {सिद्धान्तसूत्र} ३.२.३७ नियमानियमौ तु तद्विशेषकौ {सिद्धान्तसूत्र} ३.२.३८ यथोक्तहेतुत्वात्पारतन्त्र्यातकृताभ्यागमात्च न मनसः {सिद्धान्तसूत्र} ३.२.३९ परिशेषात्यथोक्तहेतूपपत्तेः च {सिद्धान्तसूत्र} ३.२.४० स्मरणं तु आत्मनः ज्ञस्वाभाव्यात् {सिद्धान्तसूत्र} ३.२.४१ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छा द्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः {सिद्धान्तसूत्र} [बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(४२४५)] ३.२.४२ कर्मानवस्थायिग्रहणात् {सिद्धान्तसूत्र} ३.२.४३ अव्यक्तग्रहणमनवस्थायित्वात्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् {सिद्धान्तसूत्र} ३.२.४४ हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा {सिद्धान्तसूत्र} ३.२.४५ न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्तद्ग्रहणम् {सिद्धान्तसूत्र} [बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(४६५५)] ३.२.४६ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः {सिद्धान्तसूत्र} ३.२.४७ यावच्छरीरभावित्वात्रूपादीनाम् {सिद्धान्तसूत्र} ३.२.४८ न, पाकजगुणान्तरोत्पत्तेः {सिद्धान्तसूत्र} ३.२.४९ प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः {सिद्धान्तसूत्र} ३.२.५० शरीरव्यापित्वात् {सिद्धान्तसूत्र} ३.२.५१ न, केशनखादिषु अनुपलब्धेः {पूर्वपक्षसूत्र} ३.२.५२ त्वक्पर्यन्तत्वात्शरीरस्य केशनखादिषु अप्रसङ्गः {सिद्धान्तसूत्र} ३.२.५३ शरीरगुणवैधर्म्यात् {सिद्धान्तसूत्र} ३.२.५४ न, रूपादीनामितरेतरवैधर्म्यात् {पूर्वपक्षसूत्र} ३.२.५५ ऐन्द्रियकत्वात्रूपादीनामप्रतिषेधः {सिद्धान्तसूत्र} [मनःपरीक्षाप्रकरणम्(५६५९)] ३.२.५६ ज्ञानायौगपद्यातेकं मनः {सिद्धान्तसूत्र} ३.२.५७ न, युगपतनेकक्रियोपलब्धेः {पूर्वपक्षसूत्र} ३.२.५८ अलातचक्रदर्शनवत्तदुपलब्धिः आशुसञ्चारात् {सिद्धान्तसूत्र} ३.२.५९ यथोक्तहेतुत्वात्च अणु {सिद्धान्तसूत्र} [अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(६०७२)] ३.२.६० पूर्वकृतफलानुबन्धात्तदुत्पत्तिः {सिद्धान्तसूत्र} ३.२.६१ भूतेभ्यः मूर्त्युपादानवत्तदुपादानम् {पूर्वपक्षसूत्र} ३.२.६२ न, साध्यसमत्वात् {सिद्धान्तसूत्र} ३.२.६३ न, उत्पत्तिनिमित्तत्वात्मातापित्रोः {सिद्धान्तसूत्र} ३.२.६४ तथा आहारस्य {सिद्धान्तसूत्र} ३.२.६५ प्राप्तौ च अनियमात् {सिद्धान्तसूत्र} ३.२.६६ शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म {सिद्धान्तसूत्र} ३.२.६७ एतेन अनियमः प्रत्युक्तः {सिद्धान्तसूत्र} ३.२.६८ ततदृष्टकारितमिति चेत्पुनः तत्प्रसङ्गः अपवर्गे {सिद्धान्तसूत्र} ३.२.६९ मनःकर्मनिमित्तत्वात्च संयोगाव्युच्छेदः {सिद्धान्तसूत्र} ३.२.७० नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः {सिद्धान्तसूत्र} ३.२.७१ अणुश्यामतानित्यत्ववतेतत्स्यात् {पूर्वपक्षसूत्र} ३.२.७२ न, अकृताभ्यागमप्रसङ्गात् {सिद्धान्तसूत्र} (इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयमाह्निकम्) (समाप्तः च अयं तृतीयः अध्यायः) (अथ चतुर्थः अध्यायः) (प्रथममाह्निकम्) [प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१२)] ४.१.१ प्रवृत्तिर्यथोक्ता {सिद्धान्तसूत्र} ४.१.२ तथा दोषाः {सिद्धान्तसूत्र} [दोषत्रैराश्यपरीक्षाप्रकरणम्(३८)] ४.१.३ त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात् {सिद्धान्तसूत्र} ४.१.४ न, एकप्रत्यनीकभावात् {पूर्वपक्षसूत्र} ४.१.५ व्यभिचारादहेतुः {सिद्धान्तसूत्र} ४.१.६ तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः {सिद्धान्तसूत्र} ४.१.७ निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः {पूर्वपक्षसूत्र} ४.१.८ न दोषलक्षणावरोधान्मोहस्य {सिद्धान्तसूत्र} ४.१.९ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः {सिद्धान्तसूत्र} [प्रेत्यभावपरीक्षाप्रकरणम्(१०१३)] ४.१.१० आत्मनित्यत्वे प्रेत्यभावसिद्धिः {सिद्धान्तसूत्र} ४.१.११ व्यक्ताद्व्यक्तानाम्, प्रत्यक्षप्रामाण्यात् {सिद्धान्तसूत्र} ४.१.१२ न, घटाद्घटनिष्पत्तेः {पूर्वपक्षसूत्र} ४.१.१३ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः {सिद्धान्तसूत्र} [शून्यतोपादाननिराकरणप्रकरणम्(१४१८)] ४.१.१४ अभावाद्भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात् {पूर्वपक्षसूत्र} ४.१.१५ व्याघातादप्रयोगः {सिद्धान्तसूत्र} ४.१.१६ न, अतीतानागतयोः कारकशब्दप्रयोगात् {पूर्वपक्षसूत्र} ४.१.१७ न, विनष्टेभ्योऽनिष्पत्तेः {सिद्धान्तसूत्र} ४.१.१८ क्रमनिर्देशादप्रतिषेधः {सिद्धान्तसूत्र} [ईश्वरोपादानाताप्रकरणम्(१९२१)] ४.१.१९ ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात् {सिद्धान्तसूत्र} ४.१.२० न, पुरुषकर्माभावे फ्लानिष्पत्तेः {पूर्वपक्षसूत्र} ४.१.२१ तत्कारितत्वादहेतुः {सिद्धान्तसूत्र} [आकस्मिकत्वनिराकरणप्रकरणम्(२२२४)] ४.१.२२ अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् {पूर्वपक्षसूत्र} ४.१.२३ अनिमित्तनिमित्तत्वान्ननिमित्ततः {सिद्धान्तसूत्र} ४.१.२४ निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः {सिद्धान्तसूत्र} [सर्वानित्यत्वनिराकरणप्रकरणम्(२५२८)] ४.१.२५ सर्वमनित्यम्, उत्पत्तिविनाशधर्मकत्वात् {पूर्वपक्षसूत्र} ४.१.२६ न, अनित्यतानित्यत्वात् {सिद्धान्तसूत्र} ४.१.२७ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् {सिद्धान्तसूत्र} ४.१.२८ नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात् {सिद्धान्तसूत्र} [सर्वनित्यत्वनिराकरणम्(२९३३)] ४.१.२९ सर्वं नित्यम्, पञ्चभूतनित्यत्वात् {पूर्वपक्षसूत्र} ४.१.३० न, उत्पत्तिविनाशकारणोपलब्धेः {सिद्धान्तसूत्र} ४.१.३१ तल्लक्षणावरोधादप्रतिषेधः {पूर्वपक्षसूत्र} ४.१.३२ न, उत्पत्तितत्कारणोपलब्धेः {सिद्धान्तसूत्र} ४.१.३३ न, व्यवस्थानुपपत्तेः {सिद्धान्तसूत्र} [सर्वपृथक्त्वनिराकरणप्रकरणम्(३४३६)] ४.१.३४ सर्वं पृथग्, भावलक्षणपृथक्त्वात् {पूर्वपक्षसूत्र} ४.१.३५ न, अनेकलक्षणैरेकभावनिष्पत्तेः {सिद्धान्तसूत्र} ४.१.३६ लक्षणव्यवस्थानादेवाप्रतिषेधः {सिद्धान्तसूत्र} [सर्वशून्यतानिराकरणप्रकरणम्(३७४०)] ४.१.३७ सर्वमभावो भावेष्वितरेतराभावसिद्धेः {पूर्वपक्षसूत्र} ४.१.३८ न, स्वभावसिद्धेर्भावानाम् {सिद्धान्तसूत्र} ४.१.३९ न स्वभावसिद्धिः, आपेक्षिकत्वात् {पूर्वपक्षसूत्र} ४.१.४० व्याहतत्वादयुक्तम् {सिद्धान्तसूत्र} [संख्यैकान्तवादप्रकरणम्(४१४३)] ४.१.४१ संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्तसूत्र} ४.१.४२ न, कारणवयवाभावात् {पूर्वपक्षसूत्र} ४.१.४३ निरवयवत्वादहेतुः {सिद्धान्तसूत्र} [फलपरीक्षाप्रकरणम्(४४५४)] ४.१.४४ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः {सिद्धान्तसूत्र} ४.१.४५ न सद्यः, कालान्तरोपभोग्यत्वात् {सिद्धान्तसूत्र} ४.१.४६ कालान्तरेणानिष्पत्तिहेतुर्विनाशात् {पूर्वपक्षसूत्र} ४.१.४७ प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात् {सिद्धान्तसूत्र} ४.१.४८ नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात् {पूर्वपक्षसूत्र} ४.१.४९ उत्पादव्ययदर्शनात् {सिद्धान्तसूत्र} ४.१.५० बुद्धिसिद्धं तु तदसत् {सिद्धान्तसूत्र} ४.१.५१ आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः {पूर्वपक्षसूत्र} ४.१.५२ प्रीतेरात्माश्रयत्वादप्रतिषेधः {सिद्धान्तसूत्र} ४.१.५३ न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात् {पूर्वपक्षसूत्र} ४.१.५४ तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः {सिद्धान्तसूत्र} [दुःखपरीक्षाप्रकरणम्(५५५८)] ४.१.५५ विविधवाधनायोगाद्दुःखमेव जन्मोत्पत्तिः {सिद्धान्तसूत्र} ४.१.५६ न, सुखस्याप्यन्तरालनिष्पत्तेः {सिद्धान्तसूत्र} ४.१.५७ भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः {सिद्धान्तसूत्र} ४.१.५८ दुःखविकल्पे सुखाभिमानाच्च {सिद्धान्तसूत्र} [अपवर्गपरीक्षाप्रकरणम्(५९६८)] ४.१.५९ ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः {पूर्वपक्षसूत्र} ४.१.६० प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः {सिद्धान्तसूत्र} ४.१.६१ समारोपणादात्मन्यप्रतिषेधः {सिद्धान्तसूत्र} ४.१.६२ पात्रचयान्तानुपपत्तेश्च फलाभावः {सिद्धान्तसूत्र} ४.१.६३ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः {सिद्धान्तसूत्र} ४.१.६४ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य {सिद्धान्तसूत्र} ४.१.६५ न, क्लेशसन्ततेः स्वाभाविकत्वात् {पूर्वपक्षसूत्र} ४.१.६६ प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम् {सिद्धान्तसूत्र} ४.१.६७ अणुश्यामतानित्यत्ववद्वा {सिद्धान्तसूत्र} ४.१.६८ न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् {सिद्धान्तसूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथममाह्निकम्) (द्वितीयमाह्निकम्) [तत्त्वज्ञानोत्पत्तिप्रकरणम्(१३)] ४.२.१ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः {सिद्धान्तसूत्र} ४.२.२ दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः {सिद्धान्तसूत्र} ४.२.३ तन्निमित्तं त्ववयव्यभिमानः {सिद्धान्तसूत्र} [प्रासङ्गिकमवयविप्रकरणम्(४१७)] ४.२.४ विद्याविद्याद्वैविध्यात्संशयः {पूर्वपक्षसूत्र} ४.२.५ तदसंशयः, पूर्वहेतुप्रसिद्धत्वात् {सिद्धान्तसूत्र} ४.२.६ वृत्त्यनुपपत्तेरपि तर्हि न संशयः {पूर्वपक्षसूत्र} ४.२.७ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः {पूर्वपक्षसूत्र} ४.२.८ तेषु चावृत्तेरवयव्यभावः {पूर्वपक्षसूत्र} ४.२.९ पृथक्चावयवेभ्योऽवृत्तेः {सिद्धान्तसूत्र} ४.२.१० न चावयव्यवयवाः {पूर्वपक्षसूत्र} ४.२.११ एकस्मिन् भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः {सिद्धान्तसूत्र} ४.२.१२ अवयवान्तरभावेऽप्यवृत्तेरहेतुः {सिद्धान्तसूत्र} ४.२.१३ केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः {पूर्वपक्षसूत्र} ४.२.१४ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः {सिद्धान्तसूत्र} ४.२.१५ अवयवावयविप्रसङ्गश्चैवमाप्रलयात् {सिद्धान्तसूत्र} ४.२.१६ न प्रलयोऽणुसद्भावात् {सिद्धान्तसूत्र} ४.२.१७ परं वा त्रुटेः {सिद्धान्तसूत्र} [औपोद्घातिकं निरवयवप्रकरणम्(१८२५)] ४.२.१८ आकाशव्यतिभेदात्तदनुपपत्तिः {सिद्धान्तसूत्र} ४.२.१९ आकाशासर्वगतत्वं वा {पूर्वपक्षसूत्र} ४.२.२० अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः {सिद्धान्तसूत्र} ४.२.२१ शब्दसंयोगविभावाच्च सर्वगतम् {सिद्धान्तसूत्र} ४.२.२२ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः {सिद्धान्तसूत्र} ४.२.२३ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः {पूर्वपक्षसूत्र} ४.२.२४ संयोगोपपत्तेश्च {पूर्वपक्षसूत्र} ४.२.२५ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः {सिद्धान्तसूत्र} [बाह्यार्थभङ्गनिराकरणप्रकरणम्(२६३७)] ४.२.२६ बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः {पूर्वपक्षसूत्र} ४.२.२७ व्याहतत्वादहेतुः {सिद्धान्तसूत्र} ४.२.२८ तदाश्रयत्वादपृथग्ग्रहणम् {सिद्धान्तसूत्र} ४.२.२९ प्रमाणतश्चार्थप्रतिपत्तेः {सिद्धान्तसूत्र} ४.२.३० प्रमाणानुपपत्त्युपपत्तिभ्याम् {सिद्धान्तसूत्र} ४.२.३१ स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः {पूर्वपक्षसूत्र} ४.२.३२ मायागन्धर्वनगरमृगतृष्णिकावद्वा {पूर्वपक्षसूत्र} ४.२.३३ हेत्वभावादसिद्धिः {सिद्धान्तसूत्र} ४.२.३४ स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः {सिद्धान्तसूत्र} ४.२.३५ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत्प्रतिबोधे {सिद्धान्तसूत्र} ४.२.३६ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् {सिद्धान्तसूत्र} ४.२.३७ तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः {सिद्धान्तसूत्र} [तत्त्वज्ञानविवृद्धिप्रकरणम्(३८४९)] ४.२.३८ समाधिविशेषाभ्यासात् {सिद्धान्तसूत्र} ४.२.३९ न, अर्थविशेषप्रावल्यात् {पूर्वपक्षसूत्र} ४.२.४० क्षुदादिभिः प्रवर्तनाच्च {पूर्वपक्षसूत्र} ४.२.४१ पूर्वकृतफलानुबन्धात्तदुत्पत्तिः {सिद्धान्तसूत्र} ४.२.४२ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः {सिद्धान्तसूत्र} ४.२.४३ अपवर्गेऽप्येवं प्रसङ्गः {पूर्वपक्षसूत्र} ४.२.४४ न, निष्पन्नावश्यम्भावित्वात् {सिद्धान्तसूत्र} ४.२.४५ तदभावश्चापवर्गे {सिद्धान्तसूत्र} ४.२.४६ तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः {सिद्धान्तसूत्र} ४.२.४७ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः {सिद्धान्तसूत्र} ४.२.४८ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् {सिद्धान्तसूत्र} ४.२.४९ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे [तत्त्वज्ञानपरिपालनप्रकरणम्(५०५१)] ४.२.५० तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत् {सिद्धान्तसूत्र} ४.२.५१ ताभ्यां विगृह्यकथनम् {सिद्धान्तसूत्र} (इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयमाह्निकम्) (समाप्तश्च चतुर्थः अध्यायः) (अथ पञ्चमः अध्यायः) (प्रथममाह्निकम्) [सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१३)] ५.१.१ साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः {सिद्धान्तसूत्र} ५.१.२ साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ {सिद्धान्तसूत्र} ५.१.३ गोत्वाद्गोसिद्धिवत्तत्सिद्धिः {सिद्धान्तसूत्र} उत्कर्षसमादिजातिषट्कप्रकरणम्(४६)ट ५.१.४ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः {सिद्धान्तसूत्र} ५.१.५ किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः {सिद्धान्तसूत्र} ५.१.६ साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः {सिद्धान्तसूत्र} [प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७८)] ५.१.७ प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ {सिद्धान्तसूत्र} ५.१.८ घटादिनिष्पत्तिदर्शनात्पीडने चाभिचारादप्रतिषेधः {सिद्धान्तसूत्र} [प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९११)] ५.१.९ दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ {सिद्धान्तसूत्र} ५.१.१० प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः {सिद्धान्तसूत्र} ५.१.११ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः {सिद्धान्तसूत्र} [अनुत्पत्तिसमप्रकरणम्(१२१३)] ५.१.१२ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः {सिद्धान्तसूत्र} ५.१.१३ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः {सिद्धान्तसूत्र} [संशयसमप्रकरणम्(१४१५)] ५.१.१४ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमः {सिद्धान्तसूत्र} ५.१.१५ साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः {सिद्धान्तसूत्र} [प्रकरणसमप्रकरणम्(१६१७)] ५.१.१६ उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः {सिद्धान्तसूत्र} ५.१.१७ प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः {सिद्धान्तसूत्र} [अहेतुसमप्रकरणम्(१८२०)] ५.१.१८ त्रैकाल्यासिद्धेर्हेतोरहेतुसमः {सिद्धान्तसूत्र} ५.१.१९ न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः {सिद्धान्तसूत्र} ५.१.२० प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः {सिद्धान्तसूत्र} [अर्थापत्तिसमप्रकरणम्(२१२२)] ५.१.२१ अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः {सिद्धान्तसूत्र} ५.१.२२ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः {सिद्धान्तसूत्र} [अविशेषसमप्रकरणम्(२३२४)] ५.१.२३ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर् अविशेषसमः {सिद्धान्तसूत्र} ५.१.२४ क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः {सिद्धान्तसूत्र} [उअपपत्तिसमप्रकरणम्(२५२६)] ५.१.२५ उभयोकारणोपपत्तेरुपपत्तिसमः {सिद्धान्तसूत्र} ५.१.२६ उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः {सिद्धान्तसूत्र} [उपलब्धिसमप्रकरणम्(२७२८)] ५.१.२७ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः {सिद्धान्तसूत्र} ५.१.२८ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः {सिद्धान्तसूत्र} [अनुपलब्धिसमप्रकरणम्(२९३१)] ५.१.२९ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः {सिद्धान्तसूत्र} ५.१.३० अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः {सिद्धान्तसूत्र} ५.१.३१ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् {सिद्धान्तसूत्र} [अनित्यसमप्रकरणम्(३२३४) ५.१.३२ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः {सिद्धान्तसूत्र} ५.१.३३ साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च {सिद्धान्तसूत्र} ५.१.३४ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः {सिद्धान्तसूत्र} [अनित्यसमप्रकरणम्(३५३६)] ५.१.३५ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः {सिद्धान्तसूत्र} ५.१.३६ प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः {सिद्धान्तसूत्र} [कार्यसमप्रकरणम्(३७३८)] ५.१.३७ प्रयत्नकार्यानेकत्वात्कार्यसमः {सिद्धान्तसूत्र} ५.१.३८ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः {सिद्धान्तसूत्र} [षट्पक्षीप्रकरणम्(३९४०)] ५.१.३९ प्रतिषेधेऽपि समानदोषः {सिद्धान्तसूत्र} ५.१.४० सर्वत्रैवम् {सिद्धान्तसूत्र} ५.१.४१ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः {सिद्धान्तसूत्र} ५.१.४२ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा {सिद्धान्तसूत्र} ५.१.४३ स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात्समानो दोष इति {सिद्धान्तसूत्र} (इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथममाह्निकम्) (द्वितीयमाह्निकम्) ५.२.१ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्त कालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि {निग्रहस्थानौद्देशसूत्रम्} [निग्रहस्थानपञ्चकप्रकरणम्(२६)] ५.२.२ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः {प्रतिज्ञाहानिः लक्षणसूत्रम्} ५.२.३ प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तर. {प्रतिज्ञान्तरलक्षणसूत्रम्} ५.२.४ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः {प्रतिज्ञाविरोधः लक्षणसूत्रम्} ५.२.५ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः {प्रतिज्ञासन्न्यासः लक्षणसूत्रम्} ५.२.६ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् {हेत्वन्तरं लक्षणसूत्रम्} [निग्रहस्थानचतुष्कप्रकरणम्(७१०)] ५.२.७ प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम् {अर्थान्तरं लक्षणसूत्रम्} ५.२.८ वर्णक्रमनिर्देशवन्निरर्थकम् {निरर्थकं लक्षणसूत्रम्} ५.२.९ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् {अविज्ञातार्थं लक्षणसूत्रम्} ५.२.१० पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् {अपार्थकं लक्षणसूत्रम्} [निग्रहस्थानत्रिकप्रकरणम्(१११३)] ५.२.११ अवयवविपर्यासवचनमप्राप्तकालम् {अप्राप्तकालं लक्षणसूत्रम्} ५.२.१२ हीनमन्यतमेनाप्यवयवेन न्यूनम् {न्यूनं लक्षणसूत्रम्} ५.२.१३ हेतूदाहरणाधिकमधिकम् {अधिकं लक्षणसूत्रम्} [पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४१६)] ५.२.१४ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्र अनुवादात् {पुनरुक्तं लक्षणसूत्रम्} ५.२.१५ अनुवादे तु अपुनरुक्तं शब्दाभ्यासातर्थविशेषोपपत्तेः {पुनरुक्तं लक्षणापवादसूत्रम्} ५.२.१६ अर्थातापन्नस्य स्वशब्देन पुनर्वचनम् {पुनरुक्तं लक्षणापवादसूत्रम्} [उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७२०)] ५.२.१७ विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणमननुभाषणम् {अननुभाषणं लक्षणसूत्रम्} ५.२.१८ अविज्ञातं च अज्ञानम् {अज्ञानं लक्षणसूत्रम्} ५.२.१९ उत्तरस्य अप्रतिपत्तिः अप्रतिभा {अप्रतिभा लक्षणसूत्रम्} ५.२.२० कार्यव्यासङ्गात्कथाविच्छेदः विक्षेपः {विक्षेपः लक्षणसूत्रम्} [मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१२३)] ५.२.२१ स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गः मतानुज्ञा {मतानुज्ञा लक्षणसूत्रम्} ५.२.२२ निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम् {पर्यनुयोज्योपेक्षणं लक्षणसूत्रम्} ५.२.२३ अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः {निरनुयोज्यानुयोग लक्षणसूत्रम्} [कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(२४२५)] ५.२.२४ सिद्धान्तमभ्युपेत्य अनियमात्कथाप्रसङ्गः अपसिद्धान्तः {अपसिद्धान्त लक्षणसूत्रम्} ५.२.२५ हेत्वाभासाः च यथोक्ताः {हेत्वाभास निरूपणम्} (इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयमाह्निकम्) (समाप्तश्चायं पञ्चमाध्यायः) न्यायदर्शनं समाप्तम्