स्फुटार्था अभिधर्मकोशव्याख्या इ (धातुनिर्देशो नाम प्रथमं कोशस्थानम्) [तिब् । १ ] नमो मारबलप्रमथनाय । महाबलो ज्ञानसमाधिदन्तो यः पञ्जरं जन्ममयं विदार्य । विवेश निर्वृत्यटवीं प्रशान्तां तं शास्तृनागं शिरसा नमामि । ॥ परमार्थशास्त्रकृत्या कुर्वाणं शास्तृकृत्यमिव लोके । यं बुद्धिमतामग्र्यं द्वितीयमिव बुद्धमित्याहुः । ॥ तेन वसुबंधुनाम्ना भविष्यपरमार्थबन्धुना जगतः । अभिधर्मप्रत्यासः कृतोऽयमभिधर्मकोशाख्यः । ॥ अभिधर्मभाष्यसागरसमुद्धृतस्यास्य शास्त्ररत्नस्य । व्याख्या मया कृतेयं यथार्थनामा स्फुटार्थेति । ॥ गुणमतिवसुमित्राद्यैर्व्याख्याकारैः पदार्थविवृतिर्या । सुकृता [तिब् । २ ] साभिमता मे लिखिता च तथायमर्थ इति । ॥ सिद्धान्तार्थापसृता क्वचित्क्वचिद्या तु तैः कृता व्याख्या । तामुद्भाव्य यथावद्विहितेह मयान्यथा व्याख्या । ॥ अभिधर्मविभाषायां कृतश्रमा येऽभिधर्मकोशे च । प्रविचार्यतामियं तैर्व्याख्या युक्ता न वा युक्ता । ॥ युक्ता चेद्ग्राह्येयं न एएदपोह्यान्यथा विधातव्या । न हि विषमेऽर्थे स्खलितुं न संभवेन्मादृशां बुद्धिः । ॥ यः सर्वथा सर्वहतान्धकारः संसारपंकाज्जगदुज्जहार तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् । इत्यस्य श्लोकस्यार्थं विवृण्वान आचार्य आह । शात्रं प्रणेतुकामः स्वस्य (अभिधर्मकोषव्याख्या २) शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभत इति । शास्त्रमभिधर्मकोशं प्रणेतुकामः कर्तुकामः स्वस्य षास्तुरात्मीयस्य शास्तुः । स हि भगवानाचार्यस्यात्मीयः शास्ता । तच्छासनप्रतिपन्नत्वात् । [तिब् । २ ] तेन वा शास्त्रा महाकरुणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहीतः । तस्मादाचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान् स्वः शास्ता भवति । माहात्म्यज्ञापनार्थमिति । महात्मत्वं माहात्म्यं स्वपरार्थप्रतिपत्तिसम्पत्तज्ज्ञापनार्थं तदवबोधार्थम् । गुणाख्यानपूर्वकं गुणकथनपूर्वकं तस्मै नमस्कारमारभते तस्मै प्रणामं करोतीत्यर्थः । अतीतकालत्वादारब्धवानिति वक्तव्ये वर्तमानकाले पदप्रयोगोऽद्यापि नमस्कारारम्भाभिप्रायात् । शिष्यपरंपरया वा नमस्कारारंभाविरामात् । शब्दशास्त्रेऽपीदृश एव शब्दप्रयोगो दृश्यते । अथ शब्दानुशासनम् । अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यत इति । गुणाख्यानमात्रेण माहात्म्यावबोधो न नमस्कारेणेति चेत् । न । तस्य तत्सूचकत्वात् । नमस्कारेण हि माहात्म्यं सूच्यते । अथ वा गुणाख्यानेनैव माहात्म्यं ज्ञाप्यते न नमस्कारेण । नमस्कारारम्भस्तु स्वपुण्यप्रसवार्थम् । सदाचारनुवृत्तिप्रदर्शनार्थं वा । कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः क्रियामारभन्त इति सतामाचारात् । तत्र माहात्म्यज्ञापनं किमर्थमित्याचक्ष्महे । तद्गौरवोत्पादनार्थम् । गौरवोत्पादनं पुनस्तत्प्रवचनसत्कृत्यश्रवणार्थम् । सत्कृत्यश्रवणं क्रमेण श्रुतचिन्ताभावनामयप्रज्ञोत्पादनार्थम् । तदुत्पाद् अनं क्लेशप्रहाणार्थम् । तत्पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थम् [तिब् । ३ ] इति प्रयोजननिष्ठा । माहात्म्यज्ञापनं त्वेकमाचार्येण प्रयोजनमुक्तं साक्षात्प्रयोजनत्वात् । तदितराणि त्वभ्यूहितुं शक्यानीति नोक्तानि । य इति बुद्धं भगवंतमधिकृत्याहेति । सामान्यशब्दोऽपि यच्छब्दो विहितविशेषणत्वात्विशेषवृत्तिर्भवति । तद्यथा य एषां ब्राह्मणानां गौरः शुक्रवासाः स एवशर्मेति । तद्वदिहापि । यः सर्वथा सर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार तस्मै नमस्कृत्येति बुद्ध एव भगवति यच्छब्दो वर्तते । न हि बुद्धादन्य एवं गुणविशिष्टः संभवतीति अतो व्याचष्टे । य इति बुद्धं भगवन्तमधिकृत्याहेति । बुद्ध इति कर्तरि क्तविधानं । बुद्धेर्विकसनाद्बुद्धः । विबुद्ध इत्यर्थः । विबुद्धं पद्ममिति यथा । अथ याविद्यानिद्राद्वयापगमाद्बुद्धः प्रबुद्ध इत्यर्थः । प्रबुद्धपुरुष इति यथा । कर्मकर्तरि क्तविधानम् (अभिधर्मकोषव्याख्या ३) इत्यपरे । स्वयं बुध्यत इति बुद्ध इत्यर्थः । कर्मण्यपि क्तविधानमप्यदोषं पश्यामः । सर्वगुणसंपत्संपन्नतया सर्वदोषविनिर्मुक्ततया च बुद्धैरन्यैर्वा बुद्धो ज्ञात इत्यर्थः । भगवन्तमिति द्वितीयपदोपादानमनादरसंभावनानिवृत्त्यर्थं । निरुपपदानामभिधानानां हि लोके अनादरो दृश्यते । एवदत्त इति । विनयविभाषाकारास्तु चतुष्कोटिकां कुर्वन्ति । अस्ति बुद्धो न भगवान् । प्रत्येकबुद्धः स्वयंभुत्वाद्बुद्ध इति शक्यते वक्तुम् । न तु भगवान् । अपरिपूर्णदानादिसंभारत्वात् । यो हि माहात्म्यवान् स भगवानुच्यते । अस्ति भगवान्न बुद्धः । चरमभविको बोधिसत्त्वः परिपूर्णदानादिपारमितत्वात्[तिब् । ३ ] अनभिसंबुद्धत्वाच्च । अस्त्युभयथा बुद्धो भगवान् । अस्ति नोभयथा एतानाकारान् स्थापयित्वेति । अतो बुद्धं भगवन्तमित्युभयविशेषणम् । हतमस्यान्धकारमनेन वेति हतान्धकारः । षष्ठीबहुव्रीहौ मार्गेण हतमिति कर्तृभूतो मार्गो अध्याहार्यः । तृतीयाबहुव्रीहौ तु मार्गेणेति करणमध्याहार्यम् । अपर आह । विग्रहद्वयप्रदर्शनं हन हिंसागत्योरिति हन्त्यर्थद्वयपरिग्रहार्थम् । यदा हतमस्यान्धकारमिति विग्रहम् । तदा गत्यर्थो हन्तिर्गृह्यते । गतमस्यान्धकारमित्यर्थः । यदा पुनस्तृतीयाबहुव्रीहिः । तदा हिंसार्थो हन्तिर्गृह्यते । हिंसितमनेनान्धकारमित्यर्थः । एवमुत्तरयोः पदयोरैकपद्यं कृत्वा पश्चात्सप्तमीतत्पुरुषं करोति । सर्वस्मिन् हतान्धकारः सर्वहतान्धकार इति । तथा च सति हतशब्दोऽत्र न पूर्वं निपतति । सप्तमीसमासस्त्विह केन लक्षणेन भवतीति चिन्त्यम् । सप्तमी शौण्डैरिति समासः । हतान्धकारशब्दः शौण्दादिषु पठ्यते । शौण्डादीनामाकृतीकृतत्वात्तत्रास्यानुप्रवेशोऽवगन्तव्यः । सप्तमीति योगविभागाद्वा । उत्सर्गेण वा समासः । सह सुपेति सुबिति वर्तमाने सुबन्तं सुबन्तेन सह समस्यते । यत्रेष्टमिति अकृतलक्षणो वा तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य इत्यनेन वा कथमुपसर्जनीभूतमन्धकारं सर्वस्मिन्नित्यनेनभिसंबध्यते । सत्यं नान्धकारमनेनभिसंबध्यते । अन्धकारघातस्त्वनेनाभिसंबध्यते । येन ह्यन्धकारघातेन योगाद्भगवान् हतान्धकारः । स तस्यान्धकारघातः सर्वाधारोऽवगन्तव्यः । यथा अक्षेषु धूर्त इति । येन धौर्त्यलक्षणेन गुणेन योगात् । असौ धूर्तः सोऽक्षाधारः । एवमिहाप्यवगन्तव्यम् । अन्यथापि चेह संभवन्तं समासं पश्यामः । सर्वस्मिन् हतं सर्वहतम् । सर्वेण प्रकारेण सर्वहतं सर्वथा सर्वहतम् । सर्वथा सर्वहतमस्यान्धकारमनेन वेति सर्वथा सर्वहतान्धकारः । एवं हतशब्दस्यान्धकारेण सामानाधिकरण्यम् (अभिधर्मकोषव्याख्या ४) । न च पूर्वनिपात इति । सर्वेण प्रकारेणेति क्लिष्टाक्लिष्टान्धकारविगमतः । सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे । सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानीति सूत्रे वचनात् । किमत्र शार्वरं तमोऽन्धकारशब्देनोच्यते । नेत्याह । अज्ञानं हि भूतार्थदर्शनप्रतिबन्धादन्धकारमित्यवगन्तव्यम् । अन्धकारशब्दो हि नैशे तमसि प्रसिद्धः । अन्धमिव जनं करोतीति अन्धकारः । सद्भूतघटपटादिरूपदर्शनप्रतिबन्धात् । तत्साधर्म्यातज्ञानम् [तिब् । ४ ] अप्यन्धकाराख्यं लभते । भूतार्थदुःखादिसत्यदर्शनप्रतिबन्धात् । तच्चेति तदज्ञानम् । प्रतिपक्शलाभेनेति आर्यमार्गलाभेन । विपक्षः क्लेशः विपक्षप्रतिघाताय पक्षः प्रतिपक्ष इति कृत्वा । अथ वा ज्ञानमनास्रवमज्ञानप्रतिपक्षः तस्य लाभेन । अत्यन्तं सर्वथा सर्वत्र ज्ञेये पुणरनुत्पत्तिधमत्वाथतमसमुदाचारप्रहाणीकृतमित्यर्थः । अतोऽसाविति भगवान् । प्रत्येकबुद्धश्रावका अप्यभ्यर्हितवात्प्रत्येकबुद्धशब्दः पूर्वनिपातः । काममित्यनुज्ञायाम् । न तु सर्वथेति । अक्लिष्टसंमोहानत्यन्तविगमात् । ननु च सर्वं सास्रववस्तु श्रावकप्रत्येकबुद्धानामपि बुद्धवत्प्रहीणम् । किमिदमुएयते । क्लिष्टसंमोहस्य तेषामत्यन्तविगम इति । तथा ह्युक्तम् । नाहमेकधर्ममप्यनभिज्ञाय अपरिज्ञाय दुःखस्यान्तक्रियां वदामीति । तथा नाहमेकधर्ममप्यपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति । तस्माच्छ्रावकप्रत्येकबुद्धानामपि तदक्लिष्टमज्ञानं चक्षुरादिवच्छन्दरागप्रहाणात्प्रहीणमेव । अन्यथा हि श्रावकप्रत्येकबुद्धानां दुःखान्तक्रिया न भवेत् । सतमस्त्येतदेवम् । प्रहीणमेव तेषां क्लिष्टवदक्लिष्टमप्यज्ञानं । तत्तु तेषां चक्षुरादिवत्प्रहीणमपि समुदाचरति । बुद्धस्य तु प्रहीणं सन्न समुदाचरति । अत एव च विशेषितं पुनरनुत्पत्तिधर्मत्वाथतम् [तिब् । ४ ] इति । अन्यथा तत्सर्वथा सर्वत्र ज्ञेये प्रहीणमित्येवावक्ष्यत् । ये तु व्याचक्षते श्रावकप्रत्येकबुद्धानां क्लिष्टसंमोहमात्रविगमात्संक्लेशविनिवृत्तिरिति । तदपव्याख्यानमेषां यथोक्तमिति प्रत्याचक्ष्यते । तथा ह्येषामिति विस्तरः । तथा हीति यस्मादित्यर्थः । अथ वा तथेति यथा न सर्वथा तथेति । हिशब्दो हेतौ । एषामिति श्रावकप्रत्येकबुद्धानां । बुद्धधर्मेष्वावेणिकादिषु । अतिविप्रकृष्टदेशकालेषु चार्थेषु अतिविप्रकृष्टदेशेषु अतिविप्रकृष्टकालेषु च । अनन्तप्रभेदेषु चाबुद्धधर्मस्वभावेष्वपि रूपादिष्वर्थेषु । भवत्येवाक्लिष्टमज्ञानं समुदाचरत्येव तदित्यर्थः । तत्र ये बुद्धधर्मा आवेणिकादयः । तेषु स्वभावपरमसूक्ष्मगम्भीरत्वाद्बुद्धादन्येषामज्ञानम् । यथोक्तं । जानीषे (अभिधर्मकोषव्याख्या ५) त्वं शारिपुत्र तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धमिति भगवता पृष्टेन स्थविरशारद्वतीपुत्रेणोक्तम् । नो हीदं भगवन्निति । ये त्वन्येऽर्था रूपिणः परमाणुसंचिताः । ते अतिविप्रकृष्टदेशा यदि भवन्ति । येऽप्यविज्ञप्त्यरूपिणः । तेऽपि यद्यतिविप्रकृष्टदेशाधारत्वाततिविप्रकृष्टदेशा भवन्ति । तेष्वपि तेषामज्ञानमनेकलोकधात्वन्तरितदेशत्वात् । श्रूयते हि स्थविरमौद्गल्यायनस्य अतिविप्रकृष्टदेशमारीचीलोकधातुजातस्वमातृदेशपरिज्ञानम् । अतिविप्रकृष्तकालेष्वप्यतीतेषु अनागतेषु वा तेष्वर्थेष्वतिबहुकल्पान्तरान्तरितविनाशप्रादुर्भावत्वात्[तिब् । ५ ] तेषां भवत्येवाज्ञानम् । श्रूयते हि स्थविरशारिपुत्रेण मोक्षभागीयकुशलमूलादर्शनात्प्रव्रज्यापेक्षपुरुषप्रत्याख्यानम् । भगवता तु तस्य मोक्षभागीयं दृष्टमुक्तं च मोक्षबीजमहं ह्यस्य सुसूक्ष्ममुपलक्षये धातुपाषाणविवरे निलीनमिव कांचनम् इति । स च पुरुषः प्रव्राजित इति । अनन्तप्रभेदेष्विति । धातुगतियोन्युपपत्त्यादिप्रभेदे दुर्बोधेष्वर्थेषु । तेषामज्ञानं भवत्येव । तथा ह्याह । सर्वाकारं कारणमेकस्य मयूरचन्द्रकस्यापि नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानम् इति । तान्येतानि चत्वार्यज्ञानकारणानि भवन्ति । तेषां क्वचिदेकं क्वचिद्द्वे क्वचित्त्रीणि क्वचित्चत्वास्रीति संभवतो योज्यानि । इत्यात्महितप्रतिपत्तिसम्पदिति विस्तरः । आत्महिताय प्रतिपत्तिः आत्महितप्रतिपत्तिः । आत्महितप्रतिपत्तेः सम्पतात्महितप्रतिपत्तिसम्पत्फलनिष्पत्तिरित्यर्थः । सा चेयं संपत्ज्ञानप्रहाणसंपत्स्वभावा वेदितव्या । परहितप्रतिपत्तिसंपदपि तथैव चर्चनीया । अपरे व्याचक्षते । आत्महितप्रतिपत्तिरात्महितप्रतिपादनम् । आत्महितोपग्रह इत्यर्थः । तस्याः सम्पतात्महितप्रतिपत्तिसम्पत् । एवं परहितप्रतिपत्तिसंपदपि व्याख्येया । सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा । संसारपङ्काज्जगदुज्जहारेति वचनात् । संसरणं संसार [तिब् । ५ ] आजवंजवीभावः जन्ममरणपरंपरेत्यर्थः । अथ वा संसरन्त्यस्मिन् सत्त्वा इति संसारस्त्रैधातुकम् । संसारः पङ्क इव संसारपङ्कः पंकसाधर्म्यात् । अत आह । संसारो हि जगदासङ्गस्थानत्वाद्दुरुत्तरत्वाच्च पङ्कभूत इति । पङ्को हि लोके अवसादात्मकत्वातासङ्गस्य स्थानम् । अत एव च दुरुत्तरः । चंचलत्वाद्वा पराश्रयोत्तरणीयत्वाद्(अभिधर्मकोषव्याख्या ६) वा दुरुत्तरः । संसारोऽपि हि तृष्णाभिष्यन्दितत्वादासङ्गस्थानम् । दुरुत्तरश्च तस्मादेव दृष्टिविचिकित्साविस्पन्दितेन । बुद्धापाश्रयोत्तरणीयत्वेन वा दुरुत्तरः । तत्रावमग्नं तादात्म्यनुप्रवेशतः समुदायावयवरूपतो वा । जगत्सत्त्वलोकमत्राणमनाक्रन्दमनुकम्पमानः करुणायमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैः । सद्धर्मदेशना एव हस्ताः । तेषां प्रदानानि । उत्तारणीयबहुत्वाद्बहुवचनं । तैर्यथाभव्यमभ्युद्धृतवान् । यथाभव्यमिति अनुच्यमानमपि गम्यते लोके तथा दृष्टत्वात् । तद्यथा ब्राह्मणानानीय भोजयामासेत्युक्ते । ये तत्र भोजयितुं शक्ता ग्रामे नगरे वा संनिहिताह् । तानेव भोजयामासेति गम्यते । सर्वलोकब्राह्मणानां भोजयितुमशक्यत्वात् । एवमिहापि यो जनो भव्योऽभ्युद्धर्तुम् । तमेवभ्युद्धृतवानिति । अतो यथाभव्यमिति व्याचष्टे । तस्मै नमस्कृत्येति शिरसा प्रणिपत्य क्रियास्पदीभूतत्वान्नमःशब्दस्य प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति । प्रणिपातश्च लोके शिरसा प्रतीत इति शिरसेत्याह । वाङ्मनोनमस्कारोऽपि अत्रनुक्तसिद्धो गुणाख्यानपूर्वकत्वात्मनस्कर्मपूर्वकत्वाच्च कायकर्मणः । तस्मै इति किंलक्षणेयं चतुर्थी । अत्र बहवो व्याख्यानकारा मुह्यन्ति । आचार्यगुणमतिस्तच्छिष्यश्चाचार्यवसुमित्र आहतुः । नमःशब्दयोगे चतुर्थी । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्चेति । तदेतदयुक्तम् । स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति । अस्वतन्त्रश्चायं नमःशब्दः क्रियास्पदीभूतत्वात् । अत एव चानेनैवाचार्येण व्याख्यायुक्तौ नमस्कृत्य मुनिं मूर्ध्नेति कर्मलक्षणा द्वितीया प्रयुक्ता । तस्मान्न नमःशब्दयोगे चतुर्थीति । द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्यपरे । तदिदमेषामिच्छामात्रम् । न हि लक्षणमस्यास्तीति । केन तर्हीयं चतुर्थी । संप्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे । कथं संप्रदानसंज्ञा । कर्मणा यमभिप्रैति । स संप्रदानमिति । चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते । पारिभाषिकं कर्म लौकिकं चेति । तत्र यदा कर्तुरीप्सिततमं कर्मेति पारिभाषिकं कर्माश्रीयते । तदा कर्तुरीप्सिततमेन यमभिप्रैति । स संप्रदानसंज्ञो भवति । ब्राह्मणाय गां प्रयच्छतीति । एतत्सिद्धं भवति । यदा तु कर्म क्रियेति लौकिकं कर्माश्रीयते । तदा क्रियया यमभिप्रैति । स संप्रदानसंज्ञो भवतीति । तदेतत्सिद्धं भवति । युद्धाय संनह्यति । पत्ये शेत इति । संनहनक्रियया युद्धमभिप्रैति कर्ता । शयनक्रियया पतिमिति । (अभिधर्मकोषव्याख्या ७) युद्धादीनां सम्प्रदानसंज्ञा सिद्धा भवति । तथेहपि नमस्कारक्रियया शास्तारमभिप्रैति आचार्यः । तस्माच्छास्तरि संप्रदानसंज्ञा । संप्रदानसंज्ञायां सत्यां संप्रदाने चतुर्थीऽति चतुर्थी भवति । एवं च कृत्वा पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे । । प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिन । । इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति । यदि तर्हि संप्रदानसंज्ञैवेष्यते । नमस्कृत्य मुनिं मूर्ध्नेति । अत्र द्वितीया न प्राप्नोति । नैष दोषः । विवक्षातः कारकाणि भवन्ति । यदा कर्मविवक्षा । तदा द्वितीया । यदा संप्रदानविवक्षा । तदा चतुर्थीऽति उभयमपि सिद्धं भवति । [तिब् । ५ ] यथार्थशास्त्र इति । शास्त्रिति औणादिकः शब्दः । तृन्तृचौ शंसिक्षादिभ्यः संज्ञायां चानिटाविति तृन्प्रत्ययान्तोऽनिट्शास्तेति भवति । ननु च संज्ञायां शास्तेति भवति । न चेयं संज्ञा । संज्ञैवेयम् । द्विविधा हि संज्ञा विशेषसंज्ञा सामान्यसंज्ञा च । विशेषसन्ज्ञा एवदत्तो यज्ञदत्त इति । सामान्यसंज्ञा मातापितेत्येवमादिका । मात्रादयोऽपि हि तत्र संज्ञायामेव निपात्यन्ते । नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ इति । तेन यथा सर्वासां मातॄणामियं संज्ञा मातेति । सर्वेषां च पितॄणां पितेति । एवं सर्वेषां च शास्तॄणामियं संज्ञा शास्तेति । स तु शास्ता द्विविधो भवति । अयथार्थो यथार्थश्च । [तिब् । ६ ] अयथार्थश्च पूरणादिः । यथार्थश्च तथागत इति । अतो विशिनष्टि यथार्थमविपरीतं शास्तीति यथार्थशास्ता । एतच्च विशेषणं परहितप्रतिपत्त्युपायसूचनार्थम् । अत एवाह । परहितप्रतिपत्त्युपायमस्याविष्करोतीत्येवमादि । न त्वृद्धिवरप्रदानप्रभावेनेति प्रभावशब्दः प्रत्येकमभिसंबध्यते । ऋद्धिप्रभावेन वरप्रदानप्रभावेनेति । ऋद्धिप्रभावस्तद्यथा विष्णोर्विश्वरूपसंदर्शनम् । वरप्रदानप्रभावस्तद्यथा महेश्वरो वरं प्रयच्छतीति प्रवादः । अथ वा त्रिपदो द्वंद्वः । ऋद्धिश्च वरप्रदानं च प्रभावश्चेति । प्रभावः शक्तिविशेषः । ननु च बुद्धा अपि कदाचितृद्धिप्रातिहार्यं विनेयानामुपदर्शयन्ति । अस्त्येतदेवम् । अपि त्वावर्जनमात्रं तु तेषां । अनुशासनीप्रातिहार्येण तु रागादिप्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति । किं करिष्यतीति प्रश्नः । नमस्कृत्येति । (अभिधर्मकोषव्याख्या ८) क्त्वाविधेः क्रियान्तरपेक्षत्वात् । समानकर्तृकयोर्हि पूर्वकाले क्त्वाविधिर्भवति । शास्त्रं प्रवक्ष्यामीति । अर्थविशेषाभिद्योतको नामसमूहः शास्त्रं । क्षणिकत्वात्समुहानुपपत्तिरिति चेत् । न । तद्ग्राहकबुद्धिरूपसमूहकल्पनात् । शिष्यशासनाच्छास्त्रमिति । [तिब् । ६ ] किं शास्त्रमिति किं नामधेयमित्यभिप्रायः । (इ ।२ ब्) अभिधर्मकोशम् इत्यस्य निर्वचनं वक्ष्यते । आस्तां तावदेतत् । अवयवार्थावबोधपूर्वकः समुदायार्थावबोधः इत्यवयवार्थं तावत् पृच्छति । कोऽयमभिधर्मो नामेति । १ । प्रज्ञामला सानुचराभिधर्म इति । धर्मप्रविचयकाले प्रज्ञा प्रधानमिति मुख्यवृत्त्या प्रज्ञाग्रहणम् । अमलेत्य् अनास्रवा । मलानामास्रवपर्यायत्वात् । सानुचरेति सपरिवारा । राज्ञा समं चरन्नपि भृत्यो राजानुचर इत्युच्यते । तदनुवृत्तिकारित्वात् । तथेहापि समकालं चरन्तोऽपि तत्सहभुवो धर्मा अनुचरा एवोच्यन्ते । के पुनस्ते । चित्तचैत्ताः अनास्रवसंवरो जात्यादयश्च चित्तविप्रयुक्ता इति । ननु च चित्तं चैत्तेभ्यः प्रधानम् । तथा हि चित्तस्य इमे चित्ते वा भवाश्चैत्ता इति । तेन प्रज्ञैव चित्तस्य परिवारोऽर्हति । न तु चित्तं प्रज्ञायाः चैतसिकत्वातस्त्येतत् । अपि तु धर्मप्रविचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य कलापस्य राजायते । क्वचित्कश्चिद्धर्मः प्राधान्यमास्कन्दति । तद्यथा अभिसंप्रत्ययकाले श्रद्धेत्येवमादि । अनास्रवः पञ्चस्कन्धक इति । अनास्रवसंवरस्तस्मिन् कलापे रूपस्कन्धः । या वेदना । स वेदनास्कन्धः । या संज्ञा । स संज्ञास्कन्धः । चेतनादिजात्यादयः संस्कारस्कन्धः । [तिब् । ७ ] विज्ञानं चात्र विज्ञानस्कन्धः । एष तावदिति । तावच्छब्दः क्रमार्थः । पारमार्थिक इति । परमार्थ एव पारमार्थिकः । परमार्थे वा भवः पारमार्थिकः । परमार्थेन वा दीव्यति चरतीति वा पारमार्थिकः । सांकेतिकस्तु सांव्यवहारिकः । तद्प्राप्तये यापि चेति प्रज्ञा सानुचरा सोऽभिधर्म इति चात्राधिकृतम् । तस्या अनास्रवायाः प्रज्ञायाः प्राप्त्यर्थं साक्षात्पारंपर्येण वा या श्रुतमयी चिन्तामयी च भावनामयी च प्रज्ञा सास्रवा या चोपपत्तिप्रतिलम्भिका सानुचरा । सापि सांकेतिकोऽभिधर्मः । तत्र श्रुतप्रयोगजा श्रुतमयी । युक्तिनिध्यानप्रयोगजा चिन्तामयी । (अभिधर्मकोषव्याख्या ९) भावनाप्रयोगजा भावनामयी । उपपत्तिप्रतिलम्भजा उपपत्तिप्रतिलम्भिका । उपपत्तिप्रतिलम्भोऽस्यास्तीति । अत इनिठनाविति ठन्विधानान्न वृद्धिः । श्रुतचिन्तामय्युपपत्तिप्रतिलम्भिका भावनामयी चारूप्यावचरी चतुःस्कन्धकोऽभिधर्मः अनुपरिवर्तकरूपभावात् । रूपावचरी तु ध्यानसंवरसद्भावात्पंचस्कन्धकोऽभिधर्मः । यच्च शास्त्रम् इति अभिधर्मशास्त्रमभिप्रेतं । तत्तु सानुचरं न सानुचरमिति व्याख्याभेदः । केचित्तावतचित्तचैतसिककलापरूपत्वात् । सानुचरम् । इति नानुवर्तयन्ति । जात्यादिसंभवात्केचिदनुवर्तयन्ति । एकस्कन्धको ह्यसावभिधर्मः । द्विस्कन्धको वा । तस्य च जात्यादयः सन्तीति । अन्ये तु व्याचक्षते शास्त्रमिति [तिब् । ७ ] ज्ञानप्रस्थानं । तस्य शरीरभूतस्य षट्पादाः । प्रकरणपादः विज्ञानकायः हर्मस्कन्धः प्रज्ञप्तिशास्त्रं हातुकायः संगीतिपर्याय इत्यतस्तदपि शास्त्रं सानुचरमेव पारंपर्येण पारमार्थिकाभिधर्मप्राप्तये सांकेतिकोऽभिधर्म इत्युच्यते । उपपत्तिप्रतिलम्भिका हि प्रज्ञा शास्त्रश्रवणात्तदर्थमनुसरति । तस्याः श्रुतमयी श्रुतमय्याश्चिन्तामयी चिन्तामय्याः सास्रवा भावनामयी तस्या अनास्रवा प्रज्ञा जायत इति अनुक्रमः । तदयमिति । तदिति वाक्योपन्यासे । अयमिति स्वलक्षणधारणत्वेन निरुक्तः पारमार्थिकः सांकेतिकोऽभिधर्मः । प्ररमार्थधर्ममिति । परमस्य ज्ञानस्यार्थः परमार्थः । परमो वार्थः परमार्थः सर्वधर्माग्रत्वात्परमार्थः । परमार्थश्चासौ धर्मश्च परमार्थधर्मः । धर्मलक्षणं वेति । स्वसामान्यलक्षणं खक्खटलक्षणः पृथिवीधातुरनित्यं दुःखमित्येवमादि । तत्प्रत्यभिमुखः प्रतिलम्भाय प्रतिवेधाय अवबोधाय वा अभिमुखो धर्मः अभिधर्मः । कुगतिप्रादय इति तत्पुरुषसमासः । ननु च लक्षणेनाभिप्रती आभिमुख्य इति अव्ययीभावः प्राप्नोति । यदा ह्यभिर्लक्षणेन सह समस्यते । तदाव्ययीभावः । तद्यथा अभ्यग्नि शलभाः पतन्ति । शलभपतनमग्निना लक्ष्यते । सोऽग्निरस्य लक्षणं । न त्वयं धर्मोऽन्यस्य लक्षणम् । किं तर्हि । लक्ष्यः । स्वयमेवाभिमुख्यात् । शास्त्राख्योऽपि सांकेतिकोऽभिधर्मः प्रापणायाभिद्योतनाय वा निर्वाणं धर्मलक्षणं वा प्रत्युपनिषद्भावेनाभिमुखः । किमंग पारमार्थिक इत्यतस्तत्पुरुषसमासेनाभिधर्म इति सिद्धं भवति । (इ ।२ द्) उक्तोऽभिधर्म इति । स्वभावप्रभेदनिर्वचनतो अवयवार्थोऽवबुद्धः । (अभिधर्मकोषव्याख्या १०) समुदायार्थस्तु न तावदित्यतः समुदायार्थं पृच्छति । इदं तु शास्त्रं कथमभिधर्मकोशमिति । तस्यार्थतोऽस्मिन्न् । इति । तस्याभिधर्मसंज्ञकस्य शास्त्रस्यानन्तरोक्तत्वात्ग्रहणं । अर्थत इति न व्यञ्जनत इति । अर्थतोऽयम् अनुप्रवेशो [तिब् । ८ ] न साकल्येन । तस्माद्यथाप्रधानमित्यव्ययीभावः । अन्तर्भूतः प्रविष्ट इति । एतच्छास्त्रं मदीयं तस्यार्थस्य कोशस्थानीयं भवति । कोशसदृशं । एतस्मिन्नर्थे षष्ठीतत्पुरुषसमासः । अभिधर्मस्य कोशोऽभिधर्मकोश इति । यत्र ह्यसिः प्रविशति । स तस्य कोशः । अथ वा सोऽभिधर्मो ज्ञानप्रस्थानादिरेतस्य मदीयस्य शास्त्रस्याश्रयभूतः । ततो ह्यार्षादभिधर्मादेतन्मदीयं शास्त्रं निराकृष्टम् । अर्थत इत्यधिकृतम् । अतः स एवास्याभिधर्मः कोश इति । एतस्मिन्नर्थे बहुव्रीहिसमासः । अभिधर्मः कोशोऽस्येति अभिदर्मकोशः । यतो ह्यसिर्निराकृष्यते । स तस्य कोश इति । एतच्छास्त्रमभिधर्मकोशमिति । समुदायार्थोऽप्यस्यावगमित इति सूचयति । (इ ।३) किमर्थं पुनरभिधर्मोपदेशः किं प्रयोजनमित्यर्थः । सप्रयोजनस्य हि शास्त्रस्य प्रत्यासः साधुर्भवेत् । न निःप्रयोजनस्य । केन चायं प्रथमत उपदिष्टः । केन चायमभिधर्म आदितो देशितः । आप्तोपदिष्टस्य हि शास्त्रस्य प्रत्यासोऽर्हरूपः स्यादित्यभिप्रायः । प्रथमत इति विशेषणम् । भदन्तकात्यायनीपुत्रादीनां पिण्डीकरणेन पश्चादुपदेशस्य सिद्धत्वात् । प्रथमत उपदेशे हि विवादः । यत इति विस्तरः । यतः कारणात् । आचार्यः शास्त्रकारः । अभिधर्मकोशं प्रत्यासशास्त्रं वक्तुं प्रणेतुमाद्रियते । आदरं करोतीत्यर्थः । एवं कृते प्रश्नद्वये अभिधर्मशास्त्रस्य सप्रयोजनतामाप्तोपदेशतां च प्रदर्शयन्नाह । २ । धर्माणां प्रविचय इति विस्तरः । [तिब् । ८ ] यतो विना धर्मप्रविचयेन रूपं वेदना अनित्यं दुःखमित्येवमाकारेण । नास्ति क्लेशोपशमाभ्युपायः । अन्य इति वाक्यशेषः । स एव तु क्लेशोपशमाभ्युपाय इति अर्थादापन्नं भवति । तद्यथा नाहारेण विना प्राणसंधारणोपाय इत्युक्ते स एवाहारः प्राणसंधारणोपाय इत्यर्थादापन्नं भवति । तद्वदेतत् । यदि क्लेशोपशमो (अभिधर्मकोषव्याख्या ११) न स्यात्किं स्यादिति । अत आह । क्लेशैश्च भ्रमति भवर्णवेऽत्र लोक इति । अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति । भवः संसार इत्येकार्थः । भव एवार्णवो भवार्णवः । मज्जनस्थानसाधर्म्यात्समुद्रकल्पो भवः । एतस्मिन् भवार्णवे अत्र । प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्यतिरिक्तभवप्रतिषेधार्थमत्रग्रहणम् । अत्र लोको भ्रमति तादात्म्यावस्थानात् । तादात्म्यवस्थानतोऽपि हि अधिकरणनिर्देशो दृश्यते । तद्यथा अन्यपादपानुपयोगेन पलाशेष्वारामः स्थित इति । वृत्तौ तु हेत्वर्थतां तृतीयायाः सूचयता हेतुमण्णिचा हेत्वर्थ उक्तः । क्लेशाश्च लोकं भ्रमयन्तीति । अत इत्युद्दिष्टहेतुप्रत्याम्नायः । यत एवम् । अत उद्दिष्टोऽभिधर्म इत्यर्थः । धर्मप्रविचयः क्लेशोपशमोपायो नान्यो धर्म इत्यभिधर्मोपदेशकः संबन्ध इत्यत उक्तं तद्धेतोर् इति । स एव हेतुस्तद्धेतुः । तस्य तस्माद्वा तद्धेतोर् इति । तस्य धर्मप्रविचयस्यार्थेऽभिधर्मोपदेशहेतुको धर्मप्रविचयः । कथं नामे धर्मप्रविचयः स्यादित्यभिधर्म उपदिष्टः शास्त्रा बुद्धेन । [तिब् । ९ ] अत एव । न हि विनाभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचयितुमिति । उदित इति वदेर्निष्ठायां कृतसंप्रसारणस्यैतद्रूपम् । न तु इण उत्पूर्वस्यार्थायोगात् । उदित इत्युक्तः उपदिष्ट इत्येकार्थः । किलेति । किलशब्दः पराभिप्रायं द्योतयति । आभिधार्मिकाणामेतन्मतं । न त्वस्माकं सौत्रान्तिकानामिति भावः । श्रूयन्ते ह्यभिधर्मशास्त्राणां कर्तारः । तद्यथा ज्ञानप्रस्थानस्य आर्यकात्यायनीपुत्रः कर्ता । प्रकरणपादस्य स्थविरवसुमित्रः । विज्ञानकायस्य स्थविरदेवशर्मा । हर्मस्कन्धस्य आर्यशारिपुत्रः । प्रज्ञप्तिशास्त्रस्य आर्यमौद्गल्यायनः । हातुकायस्य पूर्णः । संगीतिपर्यायस्य महाकौष्ठिलः । कः सौत्रान्तिकार्थः । ये सूत्रप्रामाणिका न शास्त्रप्रामाणिकाः । ते सौत्रान्तिकाः । यदि न शास्त्रप्रामाणिकाः कथं तेषां पिटकत्रयव्यवस्था । सूत्रपिटको विनयपिटकोऽभिधर्मपिटक इति । सूत्रेऽपि ह्यभिधर्मपिटकः पठ्यते । त्रैपिटको भिक्षुरिति नैष दोषः । सूत्रविशेषा एव ह्यर्थविनिश्चयादयोऽभिधर्मसंज्ञाः (अभिधर्मकोषव्याख्या १२) येषु धर्मलक्षणं वर्ण्यते । एतदाशङ्कानिवृत्त्यर्थमाहुः । स तु प्रकीर्ण उक्तो भगवतेति विस्तरः । यथा स्थविरहर्मत्रातेन उदाना अनित्या बत संस्कारा इत्येवमादिका विनेयवशात्तत्रतत्र सूत्र उक्ता वर्गीकृता एकस्थीकृताः । एवमभिधर्मोऽपि धर्मलक्षणोपदेशस्वरूपो विनेयवशात्तत्रतत्र भगवतोक्तः [तिब् । ९ ] स्थविरकात्यायनीपुत्रप्रभृतिभिर्ज्ञानप्रस्थानादिषु पिण्डीकृत्य स्थापित इति आहुर्वैभाषिकाः । विभाषया दीव्यन्ति चरन्ति वा वैभाषिकाः । विभाषां वा विदन्ति वैभाषिकाः । उक्थादिप्रक्षेपाट्ठक् । ३ । (इ ।४-६) सास्रवानास्रवा धर्मा इति । सह आस्रवैः सास्रवाः । न सन्त्यास्रवा एष्विति अनास्रवाः । सास्रवाश्चानास्रवाश्चेति समासः । स्वसामान्यलक्षणधारणाद्धर्मः । एष सर्वधर्माणां समासनिर्देश इति । एतावन्तो धर्मा यदुत सास्रवाश्चानास्रवाश्च । नैतद्व्यतिरिक्ता धर्माः सन्ति । तस्मादाह सर्वधर्माणामिति । समासनिर्देश इति संक्षेपनिर्देशः । विस्तरनिर्देशस्तु पश्चादा शास्त्रपरिसमाप्तेर्भविष्यति अन्येऽपि समासनिर्देशाः सन्ति । संस्कृता असंस्कृता रूप्यरूपिणः सनिदर्शनानिदर्शना इत्येवमादयः । किमर्थमयमेव समासनिर्देश उक्तः । कस्मिन्नुक्ते न पर्यनुयोगः । अथ वा सांक्लेशिकव्यावदानिकपक्षप्रदर्शनार्थं तदर्थत्वाच्छास्त्रस्य । तत्पक्षद्वयावबोधो हि संक्लेशपक्षमपहाय व्यवदानपक्षासेवनान्निःश्रेयसावाप्तिर्भवेत् । संस्कृता मार्गवर्जिताः सास्रवा इति संस्कृता एव नासंस्कृताः । हेतुप्रत्ययजनिता रूपादयः संस्कृताः । किं सर्वे । नेत्याह । मार्गवर्जिताः मार्गसत्येन वर्जिताः । मार्गसत्यस्य संस्कृतत्वात्प्रसङ्ग इत्यत एवं विशिनष्टि । एतदुक्तं ब्व्हवति । मार्गसत्यं वर्जयित्वा सर्वे संस्कृताः [तिब् । १० ] सास्रवा इति । कथं पुनस्ते सास्रवाः । यद्यास्रवसंप्रयोगात्क्लिष्टा एव चित्तचैत्ताः सास्रवाः स्युः । नान्ये । अथास्रवसहोत्पादादेकस्यां संततौ समुदाचरत्क्लेशस्य सत्त्वस्य यथासंभवं पञ्चोपादानस्कन्धाः सास्रवाः स्युः । नासमुदाचरत्क्लेशस्य । नापि बाह्या धर्माः । अथास्रवाणां ये आश्रयाः । ते सास्रवा इति । षडेवायतनानि आध्यात्मिकानि सास्रवाणि स्युः । अथास्रवाणामालम्बनानि सास्रवाणि । निरोधमार्गसत्यमपि सास्रवं प्राप्नोति । ऊर्ध्वा च भूमिरूर्ध्वभूम्यालम्बनैरास्रवैः सास्रवा स्यादित्यत आह । (अभिधर्मकोषव्याख्या १३) आस्रवास्तेषु यस्मात्समनुशेरत इति । तस्मात्सास्रवा इति पूर्वमेवाध्याहार्यस्तस्माच्छब्दः । अनुशेरत इति पुष्टिं लभन्त इत्यर्थः । प्रतिष्ठां लभन्त इत्यर्थो वा । पुष्टिलाभे प्रतिष्ठालाभे वा ते रागादयः संतायन्ते । अपरे व्याचक्षते । यथानुशेते ममायमाहार इति पथ्योऽनुगुणीभवतीत्यर्थः । तथा रागादयोऽपि तेषु धर्मेषु अनुशेरते । अनुगुणीभवन्तीत्यर्थः । रागाद्यभिष्यन्दितकर्मनिर्वर्तिता हि सास्रवा धर्माः । कर्मजं लोकवैचित्र्यम् इति वचनात् । प्रत्ययानुगुण्येनानुशेरते पुष्टिं लभन्त इत्यनुशयाः । अनुशेरते अनुगुणा वर्तन्ते प्रत्यया एष्विति वा [तिब् । १० ] अनुशयाः । अनुशयनं चैषामालम्बनतः संप्रयोगतो वा द्रष्टव्यं । गुणमतिस्त्वाचार्य इह व्याचष्टे । किं कारणं यत्सर्वधर्मेष्वास्रवाणामालम्बनीभवत्सु संस्कृता एव मार्गवर्जिताः सास्रवा उच्यन्ते इति । सर्वधर्माः सास्रवाणामालम्बनमित्यनभिधार्मिकीयमेतत् । आकाशप्रतिसंख्यानिरोधयोरास्रवानालम्बनत्वात् । षडेव ह्यनुशया अनास्रवालम्बनाः पठ्यन्ते । ते च निरोधमार्गालम्बना एवा । मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला निरोधमार्गदृग्घेयाः षडनास्रवगोचरा इति वचनात् । तस्मान्न सुलिखितमेतदिति पश्यामः । काममिति यद्यपीत्यर्थः । अथ वा काममिति निपातोऽभ्युपगमार्थः । अभ्युपगम्यत एव निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्त इत्यर्थः । तत्र निरोधमार्गसत्ययोः । अनुशयनिर्देश एव ज्ञापयिष्याम इति । नानास्रवोर्ध्वविषया अस्वीकाराद्विपक्षत इत्यत्र । यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति । तत्रान्येऽप्यनुशया अनुशयितुमुत्सहन्ते । आर्द्र इव पटे रजांसि संस्थातुं । न चैवमनास्रवम् । नाप्यूर्ध्वा भूमिः । अतो न तदालम्बनास्तेष्वनुशेरते । विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानाम् । ऊर्ध्वा च भूमिरधराणाम् । अतोऽपि न तेषु प्रतिष्ठां लभन्ते । तप्त इवोपले तलानि पादानामिति । ४ । [तिब् । ११ ] अनास्रवा मार्गसत्यं त्रिविधं चप्यसंस्कृतम् इत्यर्थापत्तिसिद्धत्वात्न सूत्रयितव्यमेतदिति एवं चोद्ये आचार्यगुणमतिस्तावदाह । वक्तव्यमेवेदं । किं कारणं । द्विविधो हि मार्गो लौकिको लोकोत्तरश्च । अतो विशेषार्थं पुनरभिधीयते । अत एव चात्र मार्गसत्यग्रहणम् । (अभिधर्मकोषव्याख्या १४) प्रसिद्धं चार्थापत्त्या गम्यते नाप्रसिद्धं । अप्रसिद्धं चासंस्कृतमिति । अपरे व्याचक्षते । तृतीयराश्याशंकानिवृत्त्यर्थमर्थापत्तिसिद्धमप्येतत्पुनरुच्यते । यथा हि तिस्रो वेदना भवन्ति । सुखा दुःखा अदुःखासुखा चेति । एवं धर्मा अपि संभाव्येरन् । सास्रवा अनास्रवाः सास्रवानास्रवाश्चेति । अथ वा नैव सास्रवा नानास्रवश्चेति । तेन येऽर्थापत्त्या निरस्ताः । किं तेऽनास्रवा एव उताहो सास्रवानास्रवा एव । आहोस्विन्नोभयथेति संदिह्येत । अस्ति हि सास्रवानास्रवत्वविकल्पावकाशः । कथमिति । वैभाषिकप्रक्रिया तावद् द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैर् इति वचनात् । ये चक्षुरादयो बाह्या वा रूपादयोऽक्लिष्टाः । तेऽनुशयानैरेवास्रवैः सास्रवा नाननुशयानैः । प्रहीणैस्तैरननुशयानैरास्रवैर्न सास्रवाः । अप्रहीणैस्त्वन्ततः परसंतानगतैरपि सास्रवा [तिब् । ११ ] एवेति । दार्ष्टान्तिकप्रक्रिययापि च चक्षुरादयो अर्हत्संतानगता बाह्याश्च रूपादयो अनास्रवाः । आस्रवाणामनाश्रयत्वात् । सास्रवाश्च ते आस्रवाणामप्रतिपक्षत्वादिति । पार्यायिकं सास्रवानास्रवत्वं चक्षुरादीनां कल्प्यत इति संदेहः । तत्संदेहविनिवृत्त्यर्थमिदमुच्यते । अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् इति । निष्पर्यायमनास्रवा एवामी न सास्रवा यथोक्तमिति पुनर्वचनम् । ते तर्ह्यर्हच्चक्षुरादयो वैभाषिकैः क्व पक्षे निक्षेप्तव्याः । किं सास्रवपक्षे अथानास्रवपक्षे इति । सास्रवपक्ष इति त आहुः कथं प्रहीणैरास्रवैस्ते सास्रवा व्यवस्थाप्यन्ते । येष्वास्रवा अनुशेरते अनुशयितवन्तो अनुशयिष्यन्ते वा । ते सास्रवाः । त्रैकालिकार्थविवक्षयापि हि लोके वर्तमानाकाले प्रयोगो दृश्यते । यः प्रजा रक्षति । स राजेति । योऽपि रक्षितवान् योऽपि रक्षिष्यति । स चापि राजेति गम्यत एवेति । अत एवं व्याख्यायते । अथ वा यद्यपि ते प्रहीणैरास्रवैर्न सास्रवाः । अप्रहीणैस्तु अपरिमितैरास्रवैरन्ततः परसंतानगतैरपि सास्रवा एव भवन्ति । ननु च समासनिर्देशादेव सास्रवानास्रवा धर्मा इति तृतीयराश्यप्रसंगः । [तिब् । १२ ] न । तत्रैकशेषनिर्देशसंभवात् । सास्रवाश्चानास्रवाश्च सास्रवानास्रवाश्चेति । सास्रवानास्रवा इति एकशेषः । असरूपाणामप्येकशेष इष्यते । गुणो यङ्लुकोरिति यथा । अपरे पुनराहुः । अर्थापत्त्या सिद्धमेवैतत् । स्पष्टीकरणार्थं तु प्रपंच उच्यते । तद्यथा विशेषणं विशेष्येण बहुलमित्यनेनैव सर्वसिद्धम् । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेत्येवमादिप्रपंच उच्यते । तद्वद्(अभिधर्मकोषव्याख्या १५) एतत् । कतमं त्रिविधमसंस्कृतमित्यप्रतीतत्वात्पृच्छति । त्रिविधग्रहणमियत्तावधारणार्थम् । सन्ति हि केचिदेकमेवासंस्कृतं निर्वाणमित्याहुर्यथा वात्सीपुत्रीयाः । परमाण्वादयो बहवो असंस्कृता इति वैशेसिकाः । तन्मतप्रतिषेधार्थमियत्तावधारणम् । कतमौ द्वाविति । प्रतिसंख्याप्रतिसंख्यानिरोधावेव पृच्छति । नाकाशम् । आकाशस्य लोके प्रसिद्धत्वात् । तत्राकाशमनावृतिर् इति तत्रेति निर्धारणे । वाक्योपन्यासे वा । अवकाशं ददातीति आकाशमिति निर्वचनम् । भृशमस्यान्तः काशन्ते भावा इत्याकाशमित्यपरे । अनावृतिर् अनावरणम् । कर्तृसाधनं कर्मसाधनं वा । यो धर्मोऽन्यान् धर्मान्नावृणोति अन्यैर्वा नाव्रियते । तदनावरणस्वभावमाकाशम् । तदप्रत्यक्षविषयत्वातन्यधर्मानावृत्या अनुमीयते । न त्वावरणाभावमात्रम् । अत एव च व्याख्यायते । यत्र रूपस्य गतिरिति । यदि यन्नावृणोति नाव्रियते वा । तदाकाशम् । अप्रतिघा अपि चित्तादयः संस्कारास्तथैवेति [तिब् । १२ ] आकाशं प्राप्नुवन्ति । न प्राप्नुवन्ति । परेषामावरणभावात् । ऋद्धिमन्तो हि चित्तचैत्तबलेन परेषां गतिं चित्तादीनां विबध्नन्ति । प्रतिसंख्याप्रतिसंख्यानिरोधौ तर्हि अविबन्धकत्वादाकाशं प्राप्नुतः । न । तयोः संयोगद्रव्यानुत्पत्तिधर्माणां संयोगप्राप्तिनियतरोधभूतत्वेन उत्पत्तिविघ्नरोधभूतत्वेन चावरणभूतत्वात् । अथ वा यस्यानावरणमेव लक्षणं नान्यल्लक्षणं । तदाकाशं । तयोश्चान्यलक्षणमस्तीति न तौ निरोधावाकाशं प्राप्नुतः । असर्वगतं तर्ह्याकाशमनित्यं वा प्राप्नोति । आवरणाभावे भावात् । तद्भावे चाभावात् । कुड्यादिषु ह्यन्यस्य रूपस्यावरणं भवतीति । अत्राकाशलक्षणाभावाताकाशभावप्रसंगः । कुड्याद्यपगमे च पुनस्तद्भवतीति अनित्यं प्राप्नोति । नानित्यं प्राप्नोति । तत्रापि कुड्याद्यवकाशदानादाकाशमस्त्येव । यदि हि तत्राकाशं न स्यात्तस्यैव कुड्यादेरनवकाशत्वादवस्थानं न स्यात् । यत्तु तत्र रूपान्तरस्यानवस्थानम् । तत्कुड्याद्यावरणान्नाकाशाभावात् । उक्तं हि भगवता । पृथिवी भो गौतम कुत्र प्रतिष्ठिता । पृथिवी ब्राह्मण अप्मण्डले प्रतिष्ठिता । अप्मण्डलं भो गौतम क्व प्रतिष्ठितं । वायौ प्रतिष्ठितम् । वायुर्भो गौतम क्व प्रतिष्ठितः । आकाशे प्रतिष्ठितः । आकाशं भो गौतम कुत्र प्रतिष्ठितम् । अतिसरसि महाब्राह्मणातिसरसि महाब्राह्मण । आकाशं ब्राह्मणाप्रतिष्ठितमनालम्बनमिति विस्तरः । तस्मादस्त्याकाशमिति वैभाषिकाः । ५ । (अभिधर्मकोषव्याख्या १६) [तिब् । १३ ] यो विसंयोग इति विशेषेणानित्यतानिरोधोऽप्रतिसंख्यानिरोधश्च व्युदस्तौ भवतः । न हि विसंयोगलक्षणौ तौ निरोधौ । विसंयुक्तिर्विसंयोगः क्लेशविसंयुक्तिलक्षणः । संयोगप्राप्तिनियतरोधभूतो वा यो धर्मः । स प्रतिसंख्यानिरोधः । दुःक्ःादीनामार्यसत्यानामिति विशेषणपरिसत्याद्याकारा । किं तर्हि । उत्तराधरभूमिशान्ताद्युदाराद्याकारा । प्रज्ञाविशेष इति । विशेषग्रहणं क्लेशप्रहाणानन्तर्यमार्गप्रज्ञाग्रहणार्थम् । तेन प्रज्ञाविशेषेण प्राप्यो निरोध इति प्रतिसंख्यानिरोधः । मध्यपदलोपं कृत्वेति । शाकपार्थिवादीनामुपसंख्यानम् । शाकप्रियाः पार्थिवाः शाकपार्थिवा इतीष्ट्या मध्यपदलोपः । यदि प्रतिसंख्या अनास्रवैव प्रज्ञा गृह्येत लौकिकमार्गप्राप्यो निरोधो न गृहीत इत्यव्यापिलक्षणं प्राप्नोति । नाव्यापि । सर्वो हि त्रैधातुकसास्रववस्तुनिरोधोऽनास्रवया प्राप्यते । न स निरोधोऽस्ति । यो लौकिक्यैव प्रज्ञया प्राप्यते नानास्रवयेति । किं लौकिक्या प्रज्ञया प्रयोजनम् । यो हि लौकिकेन मार्गेण कश्चिन्निरोधः प्राप्यते । स एव पुनर्लोकोत्तरेण प्राप्यत एवेति । लोकोत्तरैव प्रज्ञा तत्र न लौकिकी । द्रव्यसन् प्रतिसंख्यानिरोधः सत्यचतुष्टयनिर्देशनिर्दिष्टत्वान् [तिब् । १३ ] मार्गसत्यवदिति वैभाषिकाः । पृथक्पृथग् इति नानेत्यर्थः । यावन्ति हि संयोगद्रव्याणीति । संयुक्तिः संयोगः । संयोगाय द्रव्याणि संयोगद्रव्याणि । संप्रयुज्यन्ते तेष्विति वा संयोगाः । संयोगाश्च ते द्रव्याणि चेति संयोगद्रव्याणि । सास्रवद्रव्याणीति यावदुक्तं भवति । सास्रवं हि द्रव्यं स्तम्भस्थानीयं संप्रयोजनं रज्जुस्थानीयं पुद्गलस्तु बलीवर्दस्थानीय इति भगवतोक्तम् । अन्यथेति यद्येक इत्यर्थः । सर्वक्लेशनिरोधसाक्षात्क्रियेति । समुदयादिदर्शनभावनाहेयक्लेशनिरोधप्राप्तिरित्यर्थः । शेषप्रतिपक्षभावना वैयर्थ्यमिति । शेषक्लेशसमुदयादिदर्शनभावनाप्रहातव्यात्मकप्रतिपक्षमार्गोत्पादनं निष्प्रयोजनमित्यर्थः । यत्तर्ह्युक्तमसभागो निरोध इति । क्वोक्तं । सूत्रे । पूर्वभर्त्रा विशाखेन गृहपतिना पृष्टया हर्मदिन्नया भिक्षुण्योक्तं । किं सभाग आर्ये निरोधः । असभाग आयुष्मन् विशाखेति । अप्रतिसदृशो निरोध इत्यर्थमभिसमीक्ष्य पृच्छति । अस्य कोऽर्थ इति । बहुत्वे हि सति प्रतिसदृशोऽन्यो भवेदिति परस्यभिप्रायः । नास्य कश्चित्सभागहेतुरिति । सभागहेतुः सभाग इत्येकोऽर्थो हेतुशब्दलोपात् । दृश्यन्ते हि पदेषु पदैकदेशान् प्रयुंजाना वाक्येषु च वाक्यैकदेशान् । तद्यथा सत्यभामा (अभिधर्मकोषव्याख्या १७) भामा एवदत्तो अत्तः प्रविश पिण्डीं प्रविश तर्पणम् [तिब् । १४ ] इति । नित्यः खलु प्रतिसंख्यानिरोधः । तस्य किं सभागहेतुना प्रयोजनमिति । असभागहेतुरसभागः । नास्ति सभागोऽस्येति असभागो बहुव्रीहिसमासः । नासौ कस्यचिदिति । नासौ प्रतिसंख्यानिरोधः कस्यचिदन्यस्य धर्मस्य सभागहेतुरिति अधिकृतम् । किं कारणम् । संस्कृत एवेति सभागहेतुरिष्यते । तत्र न सभागो असभाग इति तत्पुरुषः । न तु नास्य कश्चिद्सभागोऽस्तीति । न त्वस्य निरोधस्य कश्चिदन्यो निरोधः सदृशो न भवतीत्यर्थः । उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया । अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नः अत्यन्तविघ्नः अत्यन्तनियतरोधः । अन्य इति अप्रतिसंख्यानिरोधः । स हि प्रतिसंख्यानिरोधातनन्तरोक्तातन्यः । ऽप्रतिसंख्ययेति प्रसज्यप्रतिषेधे अयमकारः । न प्रतिसंख्यया प्राप्य इत्यर्थः । अथ वा पर्युदासे । प्रतिसंख्याया यदन्यत्प्रत्ययवैकल्यम् । साप्रतिसंख्या । तया प्राप्यो निरोधोऽप्रतिसंख्यानिरोधः । मध्यपदलोपात् । अयुक्तमेतत् । प्रत्ययवैकल्यं ह्यभावः । कथमभावेन स निरोधः प्राप्यत इति । औपचारिकत्वाददोषः । अथ वाप्रतिसंख्यानिरोध इति न प्रतिसंख्यानिरोधः । अप्रतिसंख्यानिरोधः प्रतिसंख्यानिरोधादन्यत्वमात्रमेवोच्यते । न तु प्रत्ययवैकल्यस्य व्यापार इति । उत्पादग्रहणमनित्यतानिरोधव्युदासार्थं । [तिब् । १४ ] अनित्यतानिरोधो धर्मस्थितेरत्यन्तविघ्नो न धर्मोत्पादस्य । अत्यन्तग्रहणमसंज्ञिनिरोधसमापत्त्यासंज्ञिकव्युदासार्थं । तानि ह्यनागतानां चित्तचैत्तानामुत्पादविघ्नः । न त्वत्यन्तं तावत्कालिकत्वात्तद्विघ्नभावस्य । यथैकरूपव्यासक्तचक्षुर्मनस इति विस्तरः यथेत्युदाहरणकथनं । यथैकस्मिन्नीलरूपे व्यासक्तं चक्षुर्मनश्च यस्य । स एकरूपव्यासक्तचक्षुर्मनाः । तस्य । यानि रूपान्तराणि गृह्यमाणात्नीलादन्यानि नीलान्तरपीतलोहितावदातादीनि वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्ययन्ते प्रत्युत्पन्नमध्वानमतिक्रामन्ति । अतीतमध्वानं प्रतिपद्यन्त इत्यर्थः । तदालम्बनैरिति । तानि नीलन्तरादीनि अनन्तरोक्तानि आलम्बनानि एषां । ते तदालम्बनाह् । के । पंच विज्ञानकायाः । तैः । न षक्यमुत्पत्तुमिति भावसाधनमेतत् । न हि ते समर्था इति विस्तरः । न हि ते पंच विज्ञानकाया अतीतं विषयं स्वालम्बनमपि शक्ता ग्रहीतुं । वर्तमानालम्बनत्वात्पंचानां विज्ञानकायानां । अथान्यदिदानीं नीलन्तरादिकं वर्तमानम् (अभिधर्मकोषव्याख्या १८) आलम्ब्य कस्मान्नोत्पद्यन्ते । न शक्यमेवं भवितुं । सर्वधर्माणां चतुष्के नियतत्वात् । हेतौ फल आश्रय आलम्बने चेति । यस्य विज्ञानस्य यदालम्बनं । तदेव [तिब् । १५ ] तस्यालम्बनं भवेत् । भवेन्नान्यदिति । आल्म्बनप्रत्ययवैकल्यात्ते पंच विज्ञानकाया न पुनरुत्पद्यन्ते । अत आह । स तेषामप्रतिसंख्यानिरोध इति विस्तरः । तेषां पंचानां विज्ञानकायानां प्रत्ययवैकल्यात्प्राप्यते आलम्बनप्रत्ययवैकल्यात् । चतुर्भिरेव हि प्रत्ययैर्हेतुसमनन्तरालम्बनाधिपतिप्रत्ययैश्चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते । तेषामन्यतरवैकल्येऽपि अनुत्पत्तिः । समनन्तरप्रत्ययवैकल्यादित्यपरे । समनन्तरप्रत्ययो हि तदानीं चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञानस्य उत्पत्ताववकाशं ददाति । नेतरेषां नीलन्तरादिविज्ञानानां । युगपद्विज्ञानोत्पत्त्यसम्भवात् । उदाहरणमात्रं चैतत् । एवं क्षान्तिलाभ्यादीनां पंचानामपि आपायिकानामनागतानां स्कन्धानां तदुत्पत्तिविरुद्धप्रत्ययसंमुखीभावेन प्रत्ययवैकल्यातप्रतिसंख्यानिरोधः प्राप्यते इत्युदाहार्यं । अप्रतिसंख्यानिरोधमेव चाभिसंधाय स्रोतआपन्नं पुद्गलमधिकृत्योक्तं भगवता निरुद्धा अस्य नरकास्तिर्यंचः प्रेता इति । तदेवंजातीयकानामनागतानां धर्माणां प्रत्ययवैकल्यात् । प्रतिसंख्यामन्तरेण उत्पादस्य नियतरोधभूतो यो धर्मः । सोऽप्रतिसंख्यानिरोध इत्युच्यते । न हि प्रत्ययवैकल्यमात्रादत्यन्तं तदनुत्पत्तिरुपपद्यते । पुनस्तज्जातीयप्रत्ययसांनिध्ये तदुत्पत्तिप्रसंगात् । को हि तदा तदुत्पत्तौ विबन्धः स्यादिति वैभाषिकाः । [तिब् । १५ ] चतुष्कोटिकं चात्रेति विस्तरः । अत्र प्रतिसंख्याप्रतिसंख्यानिरोधलक्षणनिर्देशे चतुष्कोटिकं चतुष्प्रकारं प्रश्नविसर्जनं । किमर्थं । व्युत्पादनार्थं । तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणामिति । सास्रवत्वात्प्रतिसंख्यानिरोध एव लभ्यते । अतीतप्रत्युत्पन्नानामुत्पादस्य कृतत्वात् । उत्पत्तिधर्माणां चावश्यंभावात् । नाप्रतिसंख्यानिरोधो लभ्यते । उत्पादात्यन्तविघ्नलक्षणो ह्यप्रतिसंख्यानिरोधः । तद्यथानुत्पत्तिधर्माणामनास्रवसंस्कृतानामिति । अत्यन्तविघ्नितोत्पादत्वादेषामनुत्पत्तिधर्मत्वं । अतश्च तेषामप्रतिसंख्यानिरोधो लभ्यते । तद्यथा षड्भूमिकानामनागम्यध्यानान्तरध्यानभूमिकानां श्रद्धानुसारिमार्गाणामेकस्मिं संमुखीभूते शेषाणां पंचानामप्रतिसंख्यानिरोधो लभ्यते । न तु प्रतिसंख्यानिरोधोऽनास्रवत्वात् । न हि निर्दोषं प्रहाणार्हं भवति । अनुत्पत्तिधर्मग्रहणमतीतप्रत्युत्पन्नोत्पत्तिधर्मनिरासार्थं । अनास्रवग्रहणं सास्रवनिरासार्थं । संस्कृतग्रहणमसंस्कृतनिरासार्थं । असंस्कृतमपि हि स्वभावतो [तिब् । १६ ]ऽनुत्पत्तिधर्मकं । अतस्तत्प्रसंगो मा भूदिति तद्विशेषणं । केषांचिद्(अभिधर्मकोषव्याख्या १९) एवं पाठः । तद्यथा अनुत्पत्तिधर्माणामनास्रवाणामिति । तेषां कथमसंस्कृतानां ग्रहणप्रसंगो न भवति । येषां धर्माणां प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च संभवति । तेषामधिकारः । न चासंस्कृतानां तौ निरोधौ संभवतः । उत्पादात्यन्तविघ्नो ह्यप्रतिसंख्यानिरोधो न चासंस्कृतानामुत्पादोऽस्ति । किं चनुत्पत्तिधर्माणामिति पर्युदासेन नञ्समासः । उत्पत्तिधर्मेभ्यो येऽन्ये तत्सदृशा धर्माः । तेऽनुत्पत्तिधर्माणः । के च तत्सदृशाः । संस्कृता एव नासंस्कृता इति । अप्रसंगोऽसंस्कृतानामिति ब्रुवते । सन्ति येषामुभयमिति प्रतिसंख्यानिरोधश्च अप्रतिसंख्यानिरोधश्च । तद्यथा सास्रवाणामिति विस्तरः । सास्रवत्वादेषः प्रतिसंख्यानिरोधः प्राप्यते । अनुत्पत्तिधर्मत्वादप्रतिसंख्यानिरोधोऽपि प्राप्यते । यदा तदानयोः प्राप्तिरभिप्रीयते नावश्यमनयोर्युगपत्प्राप्तिर्भवति । केषांचिद्धि पूर्वं प्रतिसंख्यानिरोधः प्राप्यते । पश्चादप्रतिसंख्यानिरोधः । तद्यथार्हत एकरूपव्यासक्तचक्षुर्मनसस्तदन्यरूपाद्यालम्बनानां पंचानां विज्ञानकायानां । केषांचित्पूर्वमप्रतिसंख्यानिरोधः प्राप्यते । पश्चात्प्रतिसंख्यानिरोधः । तद्यथा क्षान्तिलाभिनोऽपायगतीनां । [तिब् । १६ ] केषांचिद्युगपत् । तद्यथा दृष्टिप्राप्तस्याधिमात्राधिमात्रक्लेषप्रतिपक्षोदये तेषामधिमात्राणामनागतानां क्लेशानां प्रतिसंख्यानिरोधश्चाप्रतिसंख्यानिरोधश्च युगपत्प्राप्यते । एवमन्येषामपि संभवतो योज्यं । तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्मणामनास्रवाणामिति । अतीतादीनामेषामुत्पादस्य विघ्नयितुमशक्यत्वातप्रतिसंख्यानिरोधो न लभ्यते । अनास्रवत्वाच्चैषां प्रतिसंख्यानिरोधोऽपि न लभ्यते । असंस्कृतानां तूत्पादाभावात्नाप्रतिसंख्यानिरोधोऽस्ति । उत्पादात्यन्तविघ्नो हि अप्रतिसंख्यानिरोध इत्युक्तं प्राक् । अनास्रवत्वाच्च प्रतिसंख्यानिरोधोऽपि नास्ति । ६ । (इ ।७) एवमसंस्कृतस्याल्पवक्तव्यत्वात्पुरस्तात्तत्प्रश्नान् परिसमापय्य संस्कृतान्निर्देष्टुकाम उपोद्घातमुत्थापयति । यदुक्तं संस्कृता मार्गवर्जिताः सास्रवा इति । कतमे ते संस्कृता इति । ते पुनः संस्कृता धर्माः । पुनःशब्दः प्रभेदान्तरप्रदर्शनार्थ उक्तः पूर्वप्रभेदः सास्रवानास्रवा इति । अयं तु पुनःप्रभेद इति ।असंस्कृतनिर्देशेन व्यवहितत्वात् । पुनः संस्कृतग्रहणमसंस्कृतनिरासार्थं । (अभिधर्मकोषव्याख्या २०) त इति । तच्छब्दः पूर्वप्रकृतापेक्षः । के च पूर्वप्रकृताः । अवर्जिताश्च ये सास्रवाः । वर्जिताश्च ये मार्गसत्यस्वभावाः । उभयेऽप्यपेक्षिताः । कथं गम्यते । ये सास्रवा उपादानस्कन्धास्त इति अनास्रवेभ्यः सास्रवनिष्कर्षवचनात् । यद् [तिब् । १७ ] रूपादिस्कन्धपंचकं वक्ष्यमाणलक्षणं । तेऽमी संस्कृता द्रष्टव्याः । अन्योन्यमेषां संग्रहः । रूपादिग्रहणं शीलादिस्कन्धनिरासार्थं । अन्येऽपि हि पंच स्कन्धास्सन्ति । शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धः विमुक्तिज्ञानदर्शनस्कन्धश्चेति । स्कन्धग्रहणं रूपादिविषयनिरासार्थं । समेत्य संभूयेति पर्यायावेतौ । अथ वा समेत्य समागम्यान्योन्यमपेक्ष्येत्यर्थः । संभूय संजन्येत्येवं संशब्दस्यार्थं दर्शयति । न ह्येकप्रत्ययजनितमिति । सर्वाल्पप्रत्ययत्वेऽपि अवश्यं द्वौ प्रत्ययौ स्तः । चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः द्वाभ्यामन्ये तु जायन्त इति वचनात् । दुग्धवदिति । संस्कृतशब्दस्य निष्ट्ःान्तत्वात्निष्ठान्तशब्देनैव दृष्टान्तं दर्शयति । दुग्धवदिति दुग्धं नाम क्षीरं । यत्स्तनान्निष्कासितं तद्दुग्धमिति न्याय्यं । यत्तु निष्कासिष्यते । यच्च नैव निष्कासिष्यते धेनुस्थमेव वर्तते । तद्दुग्धमिति न प्राप्तं । उच्यते च लोके दुग्धमिति । एवमिहापि ये संस्करिष्यन्ते उत्पत्तिधर्माणोऽनागता येऽपि न संस्करिष्यन्ते अनुत्पत्तिधर्माणः । तेऽपि संस्कृता इत्युच्यन्ते । तज्जातीयत्वात्स्वलक्षणसादृश्यत्वात् । त एवाध्वेति विस्तरः । सर्वाभिधर्मः सूत्रार्थः सूत्रनिकषः [तिब् । १७ ] सूत्रव्याख्यानमिति सूत्रोक्तानामपि अध्वादीनां स्कन्धपर्यायरूपाणामिह वचनं गतगच्छद्गमिष्यद्भावादिति । लोकप्रसिद्धमध्वानमपेक्ष्यायमध्वा व्याख्यातः । तथा हि लोके कथ्यते । अयमध्वा ग्रामं गतोऽयमध्वा गच्छति अयमध्वा गमिष्यतीति । एवमिहापि गतोऽध्वा योऽतीतः गच्छति यो वर्तमानः गमिष्यति योऽनागत इति । अद्यन्तेऽनित्यतयेति वाध्वान इत्यधिकृतं । नैरुक्तं विधानमपेक्ष्यायमर्थो दर्शितः । अद्यन्ते (अभिधर्मकोषव्याख्या २१) अनित्यतया भक्ष्यन्त इति अध्वान इति संस्कृता एवाध्वशब्देन भगवता देशिताः । कथावस्तु शब्देनापि त एव संस्कृता भगवता देशिताः । त्रीणीमानि भिक्षवः कथावस्तूनि अचतुर्थान्यपंचमानि यान्याश्रित्यार्याः कथां कथयन्तः कथयन्ति । कतमानि त्रीणि । अतीतं कथावस्तु अनागतं कथावस्तु प्रत्युत्पन्नमिति । कथा वाक्यमिति विस्तरः । कथा वाक्यं वर्णात्मकः शब्द इत्यर्थः । तस्या वस्तु नामविषय इत्यर्थः । नाम्ना पुनरर्थोऽभिधेयः । तथा हि वक्ष्यति । वाण्नाम्नि प्रवर्तते । नामार्थं द्योतयतीति । यदि नामैव कथावस्तु नाम च संस्कारस्कन्धैकदेश एवेति कथं कृत्वा कथावस्तुशब्देन संस्कृता एवोक्ता इत्यत आह । सार्थकवस्तुग्रहणात्तु संस्कृतं कथावस्तूच्यते इति । अन्यथा हीति विस्तरः । यदि सार्थकं वस्तु न गृह्येत प्रकरणग्रन्थो विरुध्यते । कथावस्तून्य्[तिब् । १८ ] अष्टादशभिर्धातुभिः संगृहीतानीति । कया पुनर्युक्त्या सार्थकं वस्तु गृह्यते । द्विविधः कथाया विषयः । साक्षात्पारम्पर्येण च । साक्षाद्विषयो नाम । पारम्पर्येणार्थः । स हि स्वविषयभूतस्य नाम्नो विषय इति । अतस्तस्यापि विषयो व्यवस्थाप्यते । असंस्कृतं कस्मान्न कथावस्तुत्वेनोक्तं । अध्वपतितस्य नाम्नोऽनध्वपतितेन सहार्थायोगात् । विषयो हेतुरिति वा अर्थद्वयवाचकवस्तुशब्दपरिग्रहाद्वा । यद्धि कथाया विषयो हेतुप्रत्ययश्च भवति । तत्कथावस्तु । असंस्कृतं तु न हेतुप्रत्ययः कथाया इति न कथावस्तु । अथ वा अतीतादीनां संस्कृतानामतिबहुरूपत्वेनाख्यानकरणयोग्यत्वात् । एवं चैवं च ईपंकरस्तथागतोऽभूत् । एवं चैवं च मैत्रेयस्तथागतो भविष्यति । एवं चैवं च राजा कप्फिणो भवतीत्यतः संस्कृता एव कथावस्तुत्वेनोक्ता नासंस्कृताः । सर्वस्य संस्कृतस्य निर्वाणमिति निरुपधिशेषनिर्वाणं । यद्येवं सास्रवस्य तदस्तीति भवति सास्रवस्य सनिस्सारत्वयोगः । मार्गसत्यस्य तु कथं । कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा अपि प्रहातव्याः प्रागेवाधर्मा इति मार्गसत्यस्यापि निःसरणं कल्पत एवेति । सर्व एव संस्कृताः सनिःसारा भवन्ति । सवस्तुका इति । वसन्त्यस्मिन् प्राक्कार्याणि पश्चात्तत उत्पत्तिरिति । वस्तु हेतुरित्यर्थः । स एषामस्तीति सवस्तुकाः । प्रवचने हि वस्तुशब्दः पंचस्वर्थेषु दृश्यते । स्वभावे [तिब् । १८ ] आलम्बने संयोजनीये हेतौ परिग्रहे च । स्वभावे तावत् । यद्वस्तु प्रतिलब्धं । समन्वागतः स तेन वस्तुनेति तेन स्वभावेनेति गम्यते (अभिधर्मकोषव्याख्या २२) । आलम्बने । ज्ञेया धर्माः कतमे । आह । सर्वधर्मा ज्ञानेन ज्ञेया यथावस्तु यथालम्बनमित्यर्थः । संयोजनीये । यस्मिं वस्तुनि अनुनयसंयोजनेन संयुक्तः । प्रतिघसंयोजनेनापि तस्मिन्निति । हेतौ । सवस्तुका धर्माः कतमे । सर्वसंस्कृता धर्मा इति । परिग्रहे । क्षेत्रवस्तुगृहवस्त्वापणवस्तुधनवस्तुपरिग्रहं प्रहाय ततः प्रतिविरतो भवतीति । इह हेतौ वस्तुशब्दो वेदितव्यः हेतुवचनः । किलेति । किलशब्दः परमतं दर्शयति । स्वमतं त्वस्य लक्ष्यते । सवस्तुकाः सस्वभावाः संस्कृताः । असंस्कृतास्त्ववस्तुकाः प्रज्ञप्तिसत्त्वादिति । (इ ।८) त एव पुनः संस्कृता इति । ये सास्रवा अनास्रवाः पूर्वमुक्ता इति दर्शयति । ये सास्रवा उपादानस्कन्धास्त इति । तेषामित्यत्राहार्यं । किं सिद्धमिति । यदर्थापन्नं । तद्विचारयति । उपादानस्कन्धादयः सूत्रेषूक्ताः । तेनेह ते व्याख्यायन्ते । सर्वोऽभिधर्मः सूत्रार्थ इति विस्तरेण उक्तमेतत् । तत्संभूततुआदुपादानस्कन्धा इति । उपादानसंभूताः स्कन्धा उपादानस्कन्धाः । मध्यपदलोपात् । यथा तृणसंभूतोऽग्निस्तृणाग्निः । [तिब् । १९ ] तुषसंभूतोऽग्निस्तुषाग्निरिति । उपादानानां स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनैव मध्यपदलोपमकृत्वा अन्ये साधयन्ति । एवं च निदर्शयन्ति । यथा तृणानामग्निस्तृणाग्निरिति युक्तं । ये सत्त्वसंख्याताः । ते उपादानस्कन्धाः क्लेशाभिष्यन्दितकर्महेतुकत्वात् । बाह्यास्तु भावाः कथमुपादानस्कन्धाः । तेऽप्युपादाननिर्वृत्ताः । कर्मजं लोकवैचित्र्यम् इति सिद्धान्तात् । तद्विधेयत्वाद्वा राजपुरुषवदिति । यथा राज्ञो विधेयः पुरुषो राजपुरुषः । एवमुपादानां विधेयाः स्कन्धाः । तद्वशेनालम्बनगत्यन्तरप्रवृत्तेः । उपादानानि वा तेभ्यः संभवन्तीति । अर्थकथनमात्रमेतत् । पदानि त्वेवं वक्तव्यानि । उपादानां संभवा हेतवो वा स्कन्धा उपादानस्कन्धाः पुष्पफलवृक्षवत् । यथा पुष्पाणां फलानां वा संभवो हेतुर्वा वृक्षः । पुष्पवृक्षः फलवृक्ष इति वा । तद्वत् । अर्हत्स्कन्धा अपि पारसांतानिकोपादानविधेया विक्रियोत्पादनात् । तेभ्योऽपि पारसांतानिकानि उपादानानि संभवन्तीति अविरुद्धमेषामुपादानस्कन्धत्वं । रणा हि क्लेशाः आत्मपरव्याबाधनादिति । ये ह्यात्मानं परांश्च व्याबाधन्ते । ते रणा युद्धानीत्यर्थः । तथैव च क्लेशा [तिब् । १९ ] इति रणा उच्यन्ते । तदनुशयितत्वादिति । तैरनुशयिता उपसेविता इत्यर्थः । अथ वा (अभिधर्मकोषव्याख्या २३)ऽनुशयिनः कृताः तैरनुशयिताः । तद्भावस्तदनुशयितत्वं । तस्मात् । तदनुशयितत्वात् । अथ वा तेषामनुशयितत्वं । तस्मात् । सरणाः सास्रववत् । सास्रवत्वे यद्व्याख्यानं । तदेवास्य वक्तव्यं । आर्याणां प्रतिकूलत्वात्दुःखमिति । संस्कारदुःखतया आर्याणां तत्प्रतिकूलं । समुदेत्यस्माद्दुःखमिति समुदय इति । हेतुभूताः स्कन्धाः समुदयः । फलभूताः स्कन्धा दुःखमिति वर्णयन्ति । लुज्यत इति लोक इति । अस्मिन्नेव रोहिताश्व व्याममात्रे कलेवरे लोकं प्रज्ञपयामि लोकसमुदयं चेति सूत्रं । लुज्यते प्रलुज्यते तस्माल्लोक इति च भगवतैवोक्तं । लुज्यते विनश्यतीत्यर्थः । लुजिरिह गृहीतो न लोकः । नैरुक्तेन तु विधानेन गकारस्य स्थाने ककारः कृतः । तस्माल्लोक इति भवति । दृष्टिरस्मिंस्तिष्ठतीति । ये केचिद्भिक्षव आत्मत आत्मीयतश्च समनुपश्यन्ति । त इमानेव पंचोपादानस्कन्धानात्मत आत्मीयतश्च समनुपश्यन्तीति वचनादुपादानस्कन्धा दृष्टिस्थानं भवतीति । भव इति सास्रवा एव धर्माः भवशब्देनोक्ताः । भवः कतमः । पंचोपादानस्कन्धा इति वचनाद् । एते च दुःखादयः शब्दा मार्गसत्येऽपि प्रसज्यन्ते । मार्गसत्यमपि हि संस्कारदुःखतया दुःखं । [तिब् । २० ] समनन्तरप्रत्ययादिभावेन चास्मात्सास्रवं वस्तु समुदेति । लुज्यते च । दृष्टिश्च तदालम्बते । भवति च तदुत्पद्यते इत्यर्थः । नैष दोषः । रूढिं ह्यपेक्षते शब्दप्रवृत्तिः । ये धर्माः संस्कारदुःखतया आर्यानां प्रतिकूला दुःखा विरोधिनः तदुत्पादकाः प्रसिद्धाः दृष्टिपुष्टिजनकः । अनादिमति च संसारे विनश्यन्ति भवन्ति । तेष्वेवामी दुःखादय आर्यैः संकेतिता न मार्गसत्ये । तस्मात्सास्रवा एव धर्मा दुःखशब्दाद्यभिधेया भवन्ति नानास्रवाः । न हि गच्छतीति गौरित्युक्ते सर्वो गन्ता गौरित्युच्यते । तस्मात्सूक्तं दुःखं समुदय इत्येवमादि । ८ । (इ ।९ ब्) रूपम् इति रूपस्कन्धः । पंचेति मनैन्द्रियव्युदासार्थं । अर्था विषयाः अर्यन्ते ज्ञायन्त इत्यर्थः । पुनः पंचेति ग्रहणं धर्मायतनविषयनिरासार्थं । (इ ।९ द्) तद्विज्ञानाश्रया इति । तच्छब्दोऽर्थानपेक्षते । तेष्वर्थेषु तेषां वा विज्ञानानि तद्विज्ञानानि । (अभिधर्मकोषव्याख्या २४) तेषामाश्रयास्तद्विज्ञानाश्रयाः । रूपप्रसादा इति । रूपाणि च तानि प्रसादाश्च त इति रूपप्रसादाः । अनेन विशेषणेन मनैन्द्रियं निरस्तं भवति । मनोऽपि हि तद्विज्ञानाश्रयः । पंचानां सहजाश्च तैर् इति सिद्धान्तात् । [अनुशयितास्ते ।] न तु मनो रूपस्वभावमित्यतो निरस्तं । रूपग्रहणं [तिब् । २० ] त्विह श्रद्धाप्रसादनिरासार्थं । तद्विज्ञानाश्रया इत्यनेन विशेषणेन श्रद्धाया अप्रसंग इति चेत् । न । बहुव्रीहिकल्पनायां तत्प्रसंगसंभवात् । रूपग्रहणे तु बहुव्रीहिकल्पना निवर्तते । न हि रूपमयोऽस्ति प्रसादो यस्य तद्विज्ञानान्याश्रयत्वेन कल्पेरन् । प्रसादग्रहणं पुनरिन्द्रियग्राह्यवस्तुव्यतिरिक्तरूपप्रसादविशेषज्ञापनार्थं । वैभाषिका हि ब्रुवते । भूतविकारविशेषा एवेन्द्रियाणीति । प्रवचने तु नैवं । किं तर्हि । रूपादिविषयव्यतिरिक्तानि अच्छानि अतीन्द्रियाणि स्वविज्ञानानुमेयानि इन्द्रियाणि येषां चक्षुरादीनि अधिष्ठानानि दृश्यन्ते । तद्विज्ञानाश्रया इति च विशेषणमन्योन्यलक्षणसांकर्यनिवृत्त्यर्थं । यदि हि रूपप्रसादाश्चक्षुरादय इत्येतावदवक्ष्यत् । चक्षुरपि श्रोत्रादि वा चक्षुः । यतस्त्वेवं विशेष्यते । रूपविज्ञानाश्रयो यो रूपप्रसादः । तच्चक्षुरिति । अतो लक्षणसांकर्यं न भवति । न हि श्रोत्रमन्यद्वा इन्द्रियं रूपविज्ञानस्याश्रयः । एवं यावत्स्प्रष्टव्यविज्ञानाश्रयो यो रूपप्रसादः । तत्कायेन्द्रियमिति वक्तव्यं । यथोक्तं भगवतेति । एतद्व्याख्यानं सूत्रानुगतमित्यभिप्रायः । कथमिति । आध्यात्मिकमिति विज्ञानाश्रय इत्यर्थः । आत्मशब्दो हि चित्तमात्मेत्युपचर्यत इति वक्ष्यते । आत्मनि अधि अध्यात्मम् । अध्यात्ममेव आध्यात्मिकं । [तिब् । २१ ] आत्मनि चित्तलक्षणे कर्तव्ये हेतुरित्ययमर्थ आध्यात्मिकशब्देनोच्यते । विज्ञानाश्रय इति यावदुक्तं भवति । अथ वा यानीति विस्तरः । अथ वा तच्- छब्देन इन्द्रियाण्यभिसंबध्यन्ते । चक्षुर्विज्ञानं श्रोत्रविज्ञानमित्येवमादि प्रवचनप्रसिद्धमेतत् । न तु रूपविज्ञानं शब्दविज्ञानमिति । लोके तु कदाचिदेवं भवेत् । तस्मादिदं व्याख्यानान्तरमाश्रीयते । तस्मादाह । एवं च कृत्वा प्रकरणग्रन्थोऽप्यनुवृत्त इति विस्तरः । कथमिहासिद्धमसिद्धेन साध्यते । चक्षुरेव ह्यसिद्धं । तदसिद्धौ चक्षुर्विज्ञानमप्यसिद्धं । कथं तत्तेन तदाश्रयतया साध्यते । सिद्धा (अभिधर्मकोषव्याख्या २५) एवैते पंच विज्ञानविशेषाः । परस्परविशेषोपलक्षणार्थं तु वयमेतैश्चक्षुरादिभिस्तान् विशेषयन्तो दर्शयामः । एतदुक्तं भवति । एतस्य प्रथमस्यैकस्य स्वसंवेद्यस्य व्ज्ञानविशेषस्य य आश्रयो रूपप्रसादः । तच्चक्षुरिन्द्रियं । एवं यावदेतस्य पंचमस्य स्वसंवेद्यस्य विज्ञानविशेषस्य य आश्रयो रूपप्रसादः । तत्कायेन्द्रियमिति । नासिद्धेनासिद्धस्य साधनं । (इ ।१०) रूपं द्विविधेति । चक्षुषोऽर्थो वर्णसंस्थानभेदाद्द्विःप्रकारः । लोकप्रतीतत्वात्तस्य स्वलक्षणमनुक्त्वा प्रभेद एव कथ्यते । वर्णश्चतुर्विधो नीलादिरिति । नीललोहितपीतावदाता वर्णाः । तद्भेदा अन्य इति अभ्रादयः । अपरे व्याचक्षते । तद्भेदा अन्य इति नीलादिवर्णचतुष्टयसंपर्कविशेषात्[तिब् । २१ ] काकाण्डवर्णादयोऽपि जायन्ते । न केवलमभ्राद्य इति । संस्थानमाकृतिविशेषः । पुनस्तदेवान्तर्गणिकेन भेदेन भिद्यते । विंशतिधेति । तद्यथा नीलपीतादि । संस्थानमष्टविधं दीर्घादिविसातान्तं । शेषो द्वादशविधो वर्ण इति विंशतिधा । नभश्चैकवर्णमिति । यद्दूरतो वैडूर्यभित्त्याकारं दृश्यते । वृत्तं वर्तुलं । परिमण्डलं चक्रलं । उन्नतं स्थूलादिरूपं । अवनतं निम्नरूपं । यत्र रूपाणां दर्शनमिति वचनं छायान्धकारयोर्नानाकरणप्रदर्शनार्थं । न विपंचितं न विभक्तमित्यर्थः । इदमिह विचार्यते । यदि नीलादिवर्णचतुष्टयभेदा एव अभ्रादयो न तद्व्यतिरिक्ता भवन्ति । यथेह काकाण्डादिवर्णा नोक्ताः । तथाभ्रादयोऽपि न वक्तव्या इति । नैतद्व्याख्यानकारैर्विचारितं । शक्यं त्वेवं भणितुं । मायारूपसदृशत्वात्नीलादिभेदभूता अपि ते अभ्रादयः पृथगुक्ताः । तथा हि ते दूरतो भित्तय इव लक्ष्यन्ते अभ्यासगमने तु न दृश्यन्ते । मा कस्यचिदेवं भूत् । नैतत्किंचिदस्ति । विमतिर्वा । किमस्त्येतत् । उत भ्रान्तिमात्रमिति । तद्विपर्याससंशयनिवृत्त्यर्थमिमे अभ्रादय उक्ताः । संत्येवामी रूपायतनस्वभावा इति । दीर्घादीनां प्रदेश इति । दीर्घादिविसातान्त [तिब् । २२ ] प्रदेश इत्यर्थः । कतरोऽसौ प्रदेश इत्याह । कायविज्ञप्तिस्वभाव इति । कायविज्ञप्तिर्हि कदाचिद्दीर्घा कदाचिद्ध्रस्वा कदाचिद्यावद्विसातेति । कीदृशी पुनः सावगन्तव्या । तदालम्बनचित्तसमुत्थापितं यत्कायकर्म । अकायकर्मस्वभावं तु दीर्घादिविसातान्तं निरस्तं बोद्धव्यं । अस्त्युभयथा । परिशिष्टमिति । यन्निरस्तं दीर्घादि । अभ्रधूमरजोमहिकाश्च । (अभिधर्मकोषव्याख्या २६) दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति । नीलपीतलोहितावदातच्छायान्धकाराणां दीर्घादिसंस्थानग्रहणं । तस्मादेषामपि तृतीयायां कोट्यामन्तर्भाव इत्यभिप्रायः । कथं पुनरेकं द्रव्यमुभयथा विद्यत इति । कथमेकं द्रव्यं वर्णसंस्थानात्मकं भवति । वर्णरूपाद्धि संस्थानरूपं द्रव्यान्तरमिति वः सिद्धान्तः । उभयस्य तत्र प्रज्ञानात् । वर्णसंस्थानस्य तत्र ग्रहणात् । ज्ञानार्थो ह्येष विदिर्न सत्तार्थ इति । विद ज्ञान इत्येतस्य धातोर्लुग्विकरणस्य एतद्रूपं विद्यत इति । न तु विद सत्तायामित्येतस्य धातोः श्यन्विकरणस्यैतद्रूपमित्यर्थः । ज्ञानं तत्रोभयाकारं प्रवर्तते । न द्रव्यमेकमुभयलक्षणमिति वैभाषिकपरिहारः । कायविज्ञप्तावपि तर्हि प्रसंग इत्याचार्यः । न हि कायविज्ञप्तौ गृह्यमानायां वर्णग्रहणं न प्रवर्तते । वैभाषिकाणामयमभिप्रायः । नीलादिग्रहणमातपालोकग्रहणं वा संस्थाननिरपेक्षं प्रवर्तते । कायविज्ञप्तिग्रहणं तु वर्णनिरपेक्षं । परिशिष्टरूपायतनग्रहणं [तिब् । २२ ] तु वर्णसंस्थानापेक्षं प्रवर्तत इति । सौत्रान्तिकपाक्षिकस्तु अयमाचार्यो नैनमर्थं प्रयच्छति । न हि चाक्षुषमेतत्संस्थानग्रहणं । मानसं त्वेतत्परिकल्पितं । वर्णसंनिवेशविशेष एव हि संस्थानं । न संस्थानं नाम द्रव्यं किंचिदस्ति । वर्णाग्रहणे संस्थानग्रहणाभावात् । एतच्च कर्मकोशस्थाने परीक्षिष्यते । सत्त्वासत्त्वाख्यश्चेति । वाग्विज्ञप्तिशब्दस्तद्व्यतिरिक्तश्चेत्यर्थः । सत्त्वासत्त्वसंख्यातश्चेति केचित्पठन्ति । अयमेव च इहार्थोऽभिप्रेतः । यदि हि सत्त्वासत्त्वसंतानज इति अयमर्थोऽभिप्रेतो भवेत् । सत्त्वाख्यो वाग्विज्ञप्तिशब्दोऽसत्त्वाख्योऽन्य इति एवं वक्ष्यमाणकं विवरणं निःप्रयोजनमेव । तस्मात्सत्त्वासत्त्वाख्यश्चेति पाठः स्फुटः पठितव्यः । उपात्तमहाभूतहेतुक इति । प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि भूतान्युपात्तानि । अन्यानि अनुपात्तानि । उपात्तानि महाभूतानि हेतुरस्येति उपात्तमहाभूतहेतुकः । यथा हस्तवाच्छब्द इति । यदि सत्त्वसंतानज इत्यभिप्रेतः । बाह्योऽपि हि निर्मितो मानुषाकारो हस्तवाच्छब्दं कुर्यात् । स चानुपात्तमहाभूतहेतुकस्वभावोऽवगन्तव्य इन्द्रियविनिर्भागवर्तित्वात् । स च मानुषीमपि वाचं निर्मातृवशाद्भाषेत् । वक्ष्यति ह्य् एकस्य भाषमाणस्य भाषन्ते सर्वनिर्मिताः । एकस्य तूष्णींभूतस्य सर्वे तूष्णींभवन्ति ते । तस्य च बाह्यनिर्मितशब्दस्य अनुपात्तमहाभूतहेतुक इत्यत्र ग्रहणं । यथा वायुवनस्पतिनदीशब्द [तिब् । २३ ] इति । यथाशब्दस्योदाहरणार्थत्वात् । (अभिधर्मकोषव्याख्या २७) सत्त्वाख्यो वाग्विज्ञप्तिसब्दोऽसत्त्वाख्योऽन्य इति । सत्त्वमाचष्टे सत्त्वाख्यः । वाग्विज्ञप्तिशब्देन हि सत्त्वोऽयमिति विज्ञायते । तं वाग्विज्ञप्तिशब्दं वर्जयित्वा अन्यः शब्दो हस्तशब्दोऽपि यावदसत्त्वाख्य एव । किमंग असत्त्वसंतानज इति व्याख्यातं भवति । तदेवमुपात्तमहाभूतहेतुकः सत्त्वाख्यश्चासत्त्वाख्यश्च भवति । अनुपात्तमहाभूतहेतुकोऽपि निर्मितशब्दो वाग्विज्ञप्तिस्वभावः सत्त्वाख्यः । तस्यैव हस्तशब्दो वायुवनस्पत्यादिशब्दश्चासत्त्वाख्य इति । चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात्पुनरष्टविधो भवति । यथैको वर्णपरमाणुरिति । न भूतचतुष्कद्वयमुपादाय वर्तते शद्बः । उपादायरूपत्वात् । वर्णपरमाणुवदिति भावः । रसः षोढेति । षण्मूलजातिमधिकृत्यैवमुक्तं । रसषट्कस्य अन्योन्यसम्पर्कविशेषात्त्वतिबहुप्रकारा रसाः संभवन्ति । एककद्विकत्रिकचतुष्कपंचकषट्कसम्पर्कयोगाद्धि चरके त्रिषष्टी रसा उपदिष्टाः । सुगन्धदुर्गन्धयोः समविषमगन्धत्वादिति । अनुत्कटोत्कटगन्धत्वादित्यर्थः । अस्मिन् पक्षे द्विविधो गन्ध इष्टः । त्रिविधस्तु शास्त्र इति । समगंधोऽन्यस्तृतीय इत्यर्थः । [तिब् । २३ ] अपरे पुनर्व्याचक्षते । समगन्ध इति तयोरेवैकदेश इति स एवार्थो भवति । शब्दमात्रं तु भिद्यते । शीतमुष्माभिलाषकृदिति । संभवं प्रत्येवमुच्यते । यो धर्म उष्माभिलाषं कुर्यात् । तच्छीतं नामोपादायरूपं । ग्रीष्मे यद्यपि तन्न कुर्यात्तज्जातीयत्वात्तु शीतमेव तदवगन्तव्यं । कारणे कार्योपचारादिति । अत्तुमिच्छा जिघत्सा चैतसिको धर्मः । तस्य कारणं । अन्तरुदरे कायेन्द्रियेण यः स्पृश्यते । सा जिघत्सा नामोपादायरूपं । यथा बुद्धानां सुखमुत्पाद इत्यादि अभ्युदयनिःश्रेयससुखकारणत्वात्बुद्धोत्पादस्य स सुखमित्युच्यते । तद्वत् । एवं पिपासापि वक्तव्या । संचितानि पुनस्तुल्यन्त इति सूक्ष्मगुरुत्वसद्भावादित्यभिप्रायः । अत्रानुमानं । सगुरुत्वं रूपावचरं वस्त्रादि । आधाराधेयभावात् । कुण्डबदरवदिति । अनुग्राहकं किलास्तीति । किलशब्दो वैभाषिकमतद्योतनार्थं । स्वमतं तु समाधिरेवात्रानुग्राहकः । किमत्र शीतेन परिकल्पितेनेति । यदा तत्प्रकारव्यवच्छेद इति । यदा नीलादिप्रकारनिमित्ताभोगः । एवं श्रोत्रादिविज्ञानमिति । य एष बहुविधः शब्द उक्तः । तत्र कदाचिदेकेन द्रव्येण श्रोत्रविज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति । कदाचिद्बहुभिर्यदा न व्यवच्छेदः । तद्यथा [तिब् । २४ ] तूर्यशब्दसमूहमनेकाकारतारमन्द्रतादिशब्दरूपं शृण्वतः । एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये । कायविज्ञानं तु (अभिधर्मकोषव्याख्या २८) परं पंचभिरिति । कथं । कदाचिदेकेन द्रव्येणोत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति । कदाचिद्द्वाभ्यां यावत्पंचभिर्यदा न व्यवच्छेदः । एकेन च श्लक्ष्णत्वादिनेति । किमत्र कारणं । कर्कशत्वादीनामन्यभूतचतुष्काश्रितत्वात् । ननु चैवमिति विस्तरः । यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्बनान्यभिसमस्य मनोविज्ञानं गृह्णातीति कृत्वा सामान्यलक्षणविषयं तद्व्यवस्थाप्यते । तथा नीलपीतलोहितावदातालम्बनानां चतुर्णां चक्षुर्विज्ञानानां तानि चत्वारि बहुतराणि चालम्बनान्यभिसमस्य चक्षुर्विज्ञानमेकं गृह्णातीति सामान्यलक्षणविषयं तत्प्राप्नोति । रूपायतनसामान्यलक्षणमस्यालम्बनमिति कृत्वा । तथा श्रोत्रघ्राणजिह्वाकायविज्ञानान्यपि स्वविषयेषु योज्यानि । आयतनस्वलक्षणं प्रतीति । स्वं लक्षणं स्वलक्षणं । आयतनानां स्वलक्षणमायतनस्वलक्षणं । चक्षुर्विज्ञानविज्ञेयत्वादि । रूपायतनत्वादि वा । तत्प्रत्येते पंच विज्ञानकायाः स्वलक्षणविषया इष्यन्ते प्रवचने । न द्रव्यस्वलक्षणं प्रति स्वलक्षणविषया इष्यन्ते इति प्रकृतं । द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादिविज्ञेयत्वं । [तिब् । २४ ] नीलाकारादि वा । न तत्प्रत्येते पंच विज्ञानकायाः स्वलक्षणविषया इष्यंते इत्यदोषः । युगपद्विषयसंप्राप्ताविति । कायजिह्वेन्द्रिययोर्युगपद्विषयसंप्राप्तिः संभवति । द्वयोश्च विज्ञानयोर्युगपत्प्रवृत्तिर्न संभवति । अतः पृच्छति । कतरद्विज्ञानं पूर्वमुत्पद्यत इति । यस्य विषयः पटीयान् । यदि कायेन्द्रियस्य विषयः पटुतरः कायविज्ञानं पूर्वमुत्पद्यते । अथ जिह्वेन्द्रियस्य विषयः पटीयान् जिह्वाविज्ञानं पूर्वमुत्पद्यते । समप्राप्ते तु विषये तुल्य इत्यर्थः । जिह्वाविज्ञानं पूर्वमुत्पद्यते । कस्मात् । भोक्तुकामतावर्जितत्वात्संततेः । भोजनेच्छाप्रवणत्वातात्मभावस्येत्यर्थः । पूर्वं जिह्वाविज्ञानमुत्पद्यत इति वचनात्पश्चात्कायविज्ञानमुत्पत्स्यत इत्यर्थादुक्तं भवति । तेनात्र विचार्यते । किं योऽसौ जिह्वाविषयक्षणेन सह प्राप्तः कायविषयक्सण आसीत् । तत्र तत्कायविज्ञानमुत्पद्यते । आहोस्विद् अन्यस्मिन् कायविज्ञानविषयक्षण इति । अन्यस्मिन्नित्याह । कथमालम्बननियमो न भिद्यते । नैष दोषः । यत्तद्विषयालंबनं विज्ञानं । तदप्रतिसंख्यानिरोधनिरुद्धं । अन्यत्तु तत्सदृशं कायविज्ञानमुत्पद्यत इति । अतः पश्चात्तदुत्पद्यते इत्युच्यते जातिसामान्येनैकत्वोपचारात् । (इ ।११) अनेककथाप्रपंचव्यवहितत्वात्नष्ट इवाविज्ञप्तेरुद्देशधिकार इति । अत इदमुपन्यस्यति । उक्ताः पंचेन्द्रियार्था यथा च तेषां ग्रहणमिति । कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यत इत्येवमादिना । [तिब् । २५ ] तेषां तु ग्रहणमिति कर्मणि षष्ठी । अविज्ञप्तिरिदानीं वक्तव्येति । (अभिधर्मकोषव्याख्या २९) रूपं पंचेन्द्रियाण्यर्थाः पंचाविज्ञप्तिरेव चेत्य् अविज्ञप्तिरेवावशिष्यते । तस्या लक्षणनिर्देशावसर इति वक्तव्या । विक्षिप्ताचित्तकस्येति । केचिदेवं वृत्तिं पठन्ति । अस्मिं पाठे एवं सूत्रविग्रहः । विक्षिप्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । अथ वा विक्षिप्तं चित्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । एकस्य चित्तशब्दस्य लोपः । केचिदेवं पठन्ति । विक्षिप्तस्येति । अस्मिन् पाठे उत्तरपदद्वयस्य बहुव्रीहिं कृत्वा पश्चादेवं विग्रहः । विक्षिप्तश्चाचित्तकश्च विक्षिप्ताचित्तकः । विक्षिप्तः पुद्गलः विक्षिप्तचित्त इत्यर्थः । विक्षिप्तचित्तस्येति तदन्यचित्तस्यापीति अविक्षिप्तचित्तादन्यचित्तस्येत्यर्थः । तद्यथा कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलं । तदन्यचित्तोऽकुशलाव्याकृतचित्तः । स इह विक्षिप्तचित्तोऽभिप्रेतः । अकुशलायास्त्वविज्ञप्तेरकुशलं चित्तं समुत्थापकं । तदन्यचित्तः कुशलाव्याकृतचित्तः । स चापि विक्षिप्तचित्तो वेदितव्यः । तस्य । तदन्यचित्तस्यापि । अचित्तकस्यापीति असंज्ञिनिरोधसमापत्तिसमापन्नस्यापि । अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत [तिब् । २५ ] इति । एतत्पुद्गलद्वयव्यतिरिक्तस्य तृतीयस्याप्यर्थः । योऽनुबन्ध इति प्रवाह इति । यो धर्मो नित्यप्रवाहयुक्त इत्यर्थः । प्रवाहेन प्रवाही निर्दिश्यते प्रवाहोपलक्ष्यत्वात् । अथ वा अनुबध्नातीति अनुबन्धः । प्रवाह इति च व्याख्यापदं कृतबहुव्रीहिकं । प्रवृत्तः प्रकृष्टो वा वाहोऽस्येति प्रवाहो धर्मः । स एव निर्दिश्यते । न तत्स्रोतः । कुशलाकुशल इति । कुशलाकुषल एवेत्यवधारणं । अव्याकृतो नस्तीत्यर्थः । एतेन चक्षुरादयो व्यदस्ता वेदितव्याः । प्राप्तिप्रवाहोऽप्यस्ति ईदृश इति । तत्प्राप्तिरपि विक्षिप्ताविक्षिप्तचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेषणार्थमुच्यते । महाभूतान्युपादायेति । महाभूतहेतुक इत्यर्थः । यथेन्धनमुपादायाग्निर्भवतीत्युक्ते । इन्धनहेतुकोऽग्निरिति गम्यते । जननादिहेतुभावादिति । जननान्निश्रयात्स्थानादुपस्तम्भोपबृंहणात् । जननहेतुस्तेभ्य उत्पत्तेः । निश्रयहेतुर्जातस्य भूतानुविधायित्वादाचार्यादिनिश्रयवत् । प्रतिष्ठाहेतुराधारभावात्चित्रकुड्यवत् । उपस्तम्भहेतुरनुच्छेदहेतुत्वात् । उपबृंहणहेतुर्वृद्धिहेतुत्वात् । कतमान्य्महाभूतान्युपादाय । किमाश्रयमहाभूतानि । उताहो निश्रयमहाभूतानि । आश्रयमहाभूतानीत्याहुः । तन्नामकरणज्ञापनार्थ इति । यस्माद्रूपक्रियास्वभावापि सती [तिब् । २६ ] विज्ञप्तिवत्परं न विज्ञापयति । तस्मादविज्ञप्तिर्(अभिधर्मकोषव्याख्या ३०) इत्यर्थः । रूपक्रियास्वभावापीत्युभयविशाषणं । किमर्थं । यद्धि वस्तु रूपस्वभावमेव न कृइयास्वभावं । तन्न परं गमयति । तद्यथा चक्षुरादयः । यदपि क्रियास्वभावमेव न रूपस्वभावं । तदपि परं न गमयति । तद्यथा चेतना । यत्तूभयस्वभावं । तत्परं गमयति । तद्यथा विज्ञप्तिः । विज्ञप्तिर्हि स्वसमुत्थापकं चित्तं कुशलाकुशलाव्याकृतं सौम्यं क्रूरमनुभयमिति वा परं विज्ञापयति । तेन विज्ञप्तिवदिति विपरीतदृष्टान्तप्रयोगः । समासतस्त्विति विस्तरः । शिष्यसुखावबोधार्थं संक्षेपतो वाक्येन तदविज्ञप्तिरूपं दर्शयत्याचार्यः । विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिरिति । यथासंभवमेतत्योज्यं । कायवाक्विज्ञप्तिसंभूतं कुशलं प्रातिमोक्षसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च । अकुशलं पुनरसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च । समाधिसंभूतं तु कुशलमेव । तद्द्विविधं । सास्रवसमाधिसंभूतं ध्यानसंवरस्वभावं । अनास्रवसमाधिसंभूतमनास्रवसंवरस्वभावं । उपादायरूपस्वभावं च । न चित्तचैतसिकादिस्वभावम् [तिब् । २६ ] इत्यवगन्तव्यं । ननु चैवं विज्ञप्तिरपि अविज्ञप्तिः प्राप्नोति । सापि उत्तरा सभागहेतुभूतपूर्वविज्ञप्तिसंभूता । कुशलाकुशलमेवेत्यवधारणात्विज्ञप्तावप्रसंगः । विज्ञप्तिर्ह्यव्याक्र्तापि संभवति । अत एव दिव्यं चक्षुः श्रोत्रं च समाधिसंभूतमपि सत्विज्ञप्तिजं च विपाकरूपं नाविज्ञप्तिः प्रसजतीति । अत्राचार्यसंघभद्र इदमविज्ञप्तिलक्षणसूत्रं दूषयति । न्यूनं शास्त्रापेतं हानिरतस्याः प्रसज्यते तत्त्वं अपिशब्दाधिकवचनं विशेष्यमविशेषितं चात्र । अनुबन्धो हि प्रवाहस्तेनैव व्याखातः । न चाद्यः क्षणः प्रवाहो मा भूदतिप्रसंगः । तस्मात्तस्यात्र लक्षणेनास्त्यवरोध इति न्यूनं प्रवाहस्य चाद्रव्यत्वातद्रव्यमविज्ञप्तिरिति शास्त्रापेतं । समाहितायाश्च नास्ति विक्षिप्तचित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर्न प्रसज्यत इति हानिः । अविक्षिप्तचित्तकस्य तदनुबन्धान्नैष दोष इति चेत् । शुभाशुभाया विज्ञप्तेरविज्ञप्तिलक्षणप्रसंग इत्यतस्याः प्रसज्यते तत्त्वं । अचित्तकस्यापीति चापिशब्दवैयर्थ्यं पूर्वेणैव कृतत्वात् । विक्षिप्तचित्तकस्यापीति अनेन हि सर्वसचित्तकावस्थाग्रहणं । का पुनरन्या अवस्था । या द्वितीयेनापिशब्देन संगृह्येतेति अपिशब्दाधिकवचनं । अचित्तकं चाधिकृत्य शुभो [तिब् । २७ ]ऽविज्ञप्त्यनुबन्धो विशेषणीयः । न च व्याख्यानेऽपि विशेषित इति विशेष्यमविशेषितम् । (अभिधर्मकोषव्याख्या ३१) इदं चापरं विशेष्यमविशेषितमप्रतिघं रूपमिति । एवमनेकदोषदुष्तत्वात्न संबद्धमेतल्लक्सणमिति । अत्र ब्रूमः । यत्तावदुक्तं न्यूनं प्रवाहस्याविज्ञप्त्युपदेशादाद्यः क्षणो नाविज्ञप्तिः स्यादिति । इदं तावदसौ प्रष्टव्यः । कोऽयं प्रवाहो नाम । बहुषु क्षणेषु प्रवाह इत्याख्या । यद्येवमाद्योऽपि क्षणः प्रवाहः सिध्यति । प्रथमक्षणप्रभृतिबहुषु क्षणेषु प्रवाह इति कृत्वा । तथा ह्युत्सात्तडागाद्वा निर्गच्छतामुदकानामाद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति । नास्त्यव्यापिता लक्षणस्य । यदा चानुबध्नातीति अनुबन्ध इत्यच्प्रत्ययान्तेन पदेन द्रव्यमेव निर्दिश्यते । तदा न्यूनताशंकापि नास्ति । अत एव शास्त्रापेततादोषोऽपि परिहृतो भवति । अथाप्यनुबंधनमनुबंध इति स्रोतोऽभिधीयते । तथाप्यदोषो रूपाधिकारात् । प्रवाहवर्तित्वात्तु प्रवाहशब्देन प्रदर्श्यते । समाहिताया अप्यविज्ञप्तेरग्रहणं न भवति । सापि हि यद्यपि विक्षिप्तचित्ताचित्तकसंतानं नानुबध्नातीति अविक्षिप्तकसचित्तसंतानं त्वनुबध्नात्येव । अविज्ञप्तिजातिसामान्येन तु विक्षिप्ताचित्तकस्यापि योऽनुबन्धः । साविज्ञप्तिरिति उच्यते । यत्पुनरेतदुक्तं । अविक्षिप्तचित्तकस्य तदनुबन्धान्नैष दोष इति चेदिति । यद्यविक्षिप्तचित्तस्य [तिब् । २७ ] केवलस्य योऽनुबन्धः । साप्यविज्ञप्तिरिति समाहिताया अविज्ञप्तेस्त्यागो न भवतीति ब्रवीषि । विज्ञप्तिरपि कुशलाकुशला तथैव भवतीत्यविज्ञप्तिस्ते प्राप्नोतीति । स चाप्यदोषः शुभाशुभ एवेत्यवधारणात् । विज्ञप्तिर्ह्यव्याकृतापि संभवतीति । न विज्ञप्तिरविज्ञप्तिः प्रसज्यते । अथ वा प्रकर्षगतेरेष प्रसंगो न भविष्यति । प्रकर्षेण हि योऽनुबन्धः । सैवाविज्ञप्तिः । न च विज्ञप्तिरविज्ञप्तिवत्प्रकर्षेणानुबध्नातीति । अविज्ञप्त्यनिरोधेऽपि तन्निरोधदर्शनात् । यदप्युक्तम् । अपिशब्दाधिकवचनमिति । तदप्ययुक्तमुक्तं । तथा ह्येक एवेह सूत्रे पठितोऽपिशब्दः । वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः सम्बध्यत इति द्विः पुनः पठितः । तेनैकेन सूत्रपठितेनापिशब्देन विक्षिप्तविपरीतम् अविक्षिप्तमचित्तकविपरीतं च तमेव सचित्तकं तृतीयं पुद्गलमविज्ञप्त्याश्रयं ब्रुवन्नाचार्यः स्वनामोक्तं विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन् विज्ञप्तिचित्तचैत्तेभ्योऽर्थान्तरभूतामविज्ञप्तिमाचष्टे । त्रय एव हि पुद्गला भवन्ति विज्ञप्तिचित्तविसभागचित्तो विज्ञप्तिचित्तसभागचित्तो अचित्तकश्च । तत्र विज्ञप्तिचित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः । तस्य सा वाक्कायविज्ञप्तिर्[तिब् । २८ ] निरुद्धा भवति । अचित्तकस्य तु चित्तचैत्ता अपि निरुद्धा इति । तत्र विज्ञप्तेश्चित्तचैतसिककलापाच्चार्थान्तरभूतेयमविज्ञप्तिः । यत एभ्योऽनुबन्धिनीत्वेन विशिष्यते । तमेवार्थं दर्शयन्नाह । (अभिधर्मकोषव्याख्या ३२) विक्षिप्ताचित्तकस्यापीति । अविक्षिप्तचित्तस्याविज्ञप्तिर्वर्तत इति नातिशयः । विज्ञप्तिरपि हि तस्य वर्तते । विक्षिप्तचित्तस्यापि तु वर्तत इत्यतिषयः । विज्ञप्तिर्हि तस्य नास्ति । अविज्ञप्तिस्त्वनुबन्धिनीति विज्ञप्तेर्विशिष्यते । तथा विक्षिप्तचित्तकस्याविज्ञप्तिर्वर्तत इति नातिशयः । चित्तचैत्ता अपि हि तस्य वर्तन्त एव । अचित्तकस्यापि तु वर्तते इति अतिशयः । तस्य हि चित्तचैत्ता निरुद्धाः । अविज्ञप्तिस्त्वनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते । तदेवं धर्मान्तरविशेषणार्थमविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस्तेनैकेनाप्यपिशब्देनाभिधीयते । अत एव चापिशब्देनाविक्षिप्तसचित्तकस्यापीत्युक्तमाचार्येण । तृतीयभूतत्वात् । इतरथा ह्यपिशब्देनाविक्षिप्तचित्तकस्यापीत्येवावक्ष्यत्सचित्तकस्यापीति वा । तद्यथा त्रयो लोके मनुष्याः । एको धनवानितरावपि धनमात्रवन्तौ । तावभिसमीक्ष्य विष्णुमित्रस्य धनमस्तीत्येकेनोक्ते द्वितीयो वक्ता भवेत् । एवदत्तयज्ञदत्तयोर्[तिब् । २८ ] अपि धनमस्तीति । अपिशब्देन विष्णुमित्रस्याप्यस्तीति । एवदत्तयज्ञदत्तगतेन द्वैतमिवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते न त्ववसृज्यते इत्यर्थः । तेन नात्रापिशब्दोऽधिक एव । तद्वदिहापि द्रष्टव्यं । यत्पुनरेतदुक्तं । अचित्तकं चाधिकृत्य शुभोऽविज्ञप्त्यनुबन्धो विशेषणीय इति । तदपि न किंचित् । अविज्ञप्तिजातिमधिकृत्यैतल्लक्षणं प्रणीतं । सा चाविज्ञप्तिजातिरचित्तकस्य भवतीति एतावद्विवक्षितं । किमनेन विशेषितेन । त्वदीयेऽप्यविज्ञप्तिलक्षणे शुभोऽविज्ञप्त्यनुबन्धो अचित्तकमधिकृत्य न विशेषितः । कृतेऽपि विसभागेऽपि चित्ते चित्तात्यये च यत् व्याकृताप्रतिघं रूपं सा ह्यविज्ञप्तिरिष्यत इति । एषा च विज्ञप्तिसंभूता कुशलैवाविज्ञप्तिरचित्तकस्य संभवतीति चतुर्थे कोशस्थाने ज्ञापयिष्यते । यच्चाप्रतिघमिति अविशेषितमिति । तदपि पश्चाद्दर्शयिष्यामः । सप्रतिघा दश रूपिण इत्यत्र । दशैव धातवः सप्रतिघा इत्यवधारणात् । अविज्ञप्तिर्धर्मधातुपरिपठिता । सा त्वप्रतिघेति सेत्स्यति । तस्मादिदमास्माकीनमेवमदोषदुष्टमविज्ञप्तिलक्षणमिति । तदेवास्तु । (इ ।१२) भूतानि पृथिवीधातुर् इति विस्तरः । धातुग्रहणं वर्णसंस्थानात्मकपृथिव्यादिनिरासार्थं । स्वलक्षणोपादायरूपधारणाद्[तिब् । २९ ] धातव इति । काठिन्यादिस्वलक्षणं (अभिधर्मकोषव्याख्या ३३) चक्षुराद्युपादायरूपं च दधातीति धातवः । अष्टादशधातवस्तु स्वसामान्यलक्षणधारणात् । गोत्रार्थो वा धात्वर्थः धारणार्थमनपेक्स्य । षड्धाधातुदेशनायां पुनर्भवबीजार्थो वा धात्वर्थः भवं पुष्णन्तीति कृत्वा । महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वादिति । सर्वोपादायरूपाश्रयत्वेन महत्त्वादित्यर्थः । तदुद्भूतवृत्तिष्विति । तैर्महाभूतैरुद्भूता व्यक्ता वृत्तिर्धृत्यादिका येषु । त इमे तदुद्भूतवृत्तयः पृथिव्यप्तेजोवायुस्कन्धाः । तेषु । एषां महाभूतानां महासंनिवेशत्वान्महारचनत्वात्भूतं तन्वन्तीति भूतानि । धृत्यादिकर्मसंसिद्धा इति । धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमानार्थं । उपलादिके हि पृथिवीद्रव्ये संग्रहपक्तिव्यूहनदर्शनाच्छेषाणां जलतेजोवायूनामस्तित्वमनुमीयते । अप्सु नौसंधारणोष्णतेरणकर्मदर्शनात्पृथिवीतेजोवायूनामस्तित्वं । अग्निज्वालायां स्थैर्यसम्पिण्डनचलनदर्शनात्पृथिव्युदकवायूनामस्तित्वं । वायौ संधारणशीतोष्णस्पर्शदर्शनात्पृथिव्यप्तेजसामस्तित्वमिति वैभाषिकाः । व्यूहनं पुनर्वृद्धिः प्रसर्पणं वेति । वृद्धिः सम्बन्धाधिकशरीरंकुराद्यवयवोत्पत्तिः । प्रसर्पणं शरीरादीनां प्रबन्धेन देशन्तरोत्पत्तिः । उष्णतेति स्वभावाभिधानेऽपि भावप्रत्ययः । उष्ण एव उष्णतेति । [तिब् । २९ ] देशन्तरोत्पादनात्प्रदीपेरणवदिति । क्षणिकानां नास्ति देशान्तरगमनं यत्रैवोत्पत्तिः । तत्रैव विनाशः । तेनैवमुच्यते । देशान्तरोत्पादनस्वभावा भूतस्रोतस ईरणा । क्षणिकत्वात् । प्रदीपवत् । क्षणिकानि च भूतानि । रूपत्वात् । प्रदीपवत् । प्रदीपश्च क्षणिकः प्रसिद्ध इत्युदाहरणं । कर्मणास्य स्वभावोऽभिव्यक्त इति । ईरणाकर्मणा लघुत्वं विशिष्यते । यदीरणात्मकं लघुत्वं । स वायुधातुरिति । लघुसमुदीरणो वायुधातुः । लघ्वेव तु यत् । तदुपादायरूपं । (इ ।१३) प्रवचने पृथिवीधात्वादयः पृथिव्यादयश्चोक्ता इत्यतः पृच्छति । कः पुनरेषां विशेष इति । लोकसंज्ञयेति लोकसंव्यवहारेण । वात्येति वातानां समूहो वात्या । ब्राह्मणादिभ्यो यन्निति समूहार्थे यन्प्रत्ययः । स्त्रीत्वाच्चाप्प्रत्ययः । तथा ह्यर्थवर्गीयेषूक्तमिति । अर्थवर्गीयाणि सूत्राणि क्षुद्रके पठन्ते । (अभिधर्मकोषव्याख्या ३४) तेषूक्तं । तस्य चेत्कामयानस्येति विस्तरः । तस्य देहिनः कामयानस्य छन्दजातस्य यदि कामा विषया न समृध्यन्ते न सम्पद्यन्ते । शल्यविद्ध इवसौ रूप्यते । बाध्यत इत्यर्थः । बाधनार्थपरिच्छिन्नेनानेन रूप्यतेशब्देन रूप्यते रूप्यत इति भिक्षव इत्यत्र सूत्रे रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते । शल्यविद्धः कामयानश्च [तिब् । ३० ] दुःखवेदयितृत्वाद्बाध्यत इति युक्तं । रूपं तु कथं बाध्यते । अत आह । विपरिणामोत्पादनेति । विक्रियोत्पादनेत्यर्थः । तथा चेहार्थे सति शल्यविद्ध इव रूप्यते इत्यत्रापि यदि विक्रियत इत्यर्थो गृह्यते । सुतरामर्थो युज्यते । प्रतिघात इति । स्वदेशे परस्योत्पत्तिप्रतिबन्धः । परमाणुरूपं तर्हीति । द्रव्यपरमाणुरूपं न रूपं प्राप्नोति । कस्मात् । अरूपणात् । निरवयवत्वे सति अरूपणादित्यभिप्रायः । पक्षद्वयेऽप्येतच्चोद्यमुपन्यस्तं । बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर्निरवयवत्वान्न शक्यते रूपयितुमिति । न वै परमाणुरूपमेकं पृथग्भूतमस्तीति । एकमिति ग्रहणं द्रव्यपरमाणुसंदर्शनार्थं । पृथग्भूतमसंघातस्थमित्यर्थः । तदीदृग्नास्ति । संघातस्थं नित्यं भवति । कामेऽष्टद्रव्यकोऽशब्द इत्यादिवचनात्संघातस्थं तद्रूप्यत एवेति । अर्थादेतदभीष्टं भवति । तद्द्रव्यपरमाणुरूपं संघातस्थं रूप्यते बाध्यते प्रतिहन्यते च । अतीतानागतं तर्हीति विस्तरः । अतीतानागतमदेशत्वान्न रूप्यते न बाध्यते नापि प्रतिहन्यते । तदपीति विस्तरः । [तिब् । ३० ] तदपि रूपितमित्यतीतबाधनप्रतिघातनार्थेन । रूपयिष्यमाणमित्युत्पत्तिधर्मकमनागतं । तेनैवार्थद्वयेन । तज्जातीयं चेत्युत्पत्तिधर्मकजातीयमनुत्पत्तिधर्मकम् (अभिधर्मकोषव्याख्या ३५) अनागतं । इंधनवत् । यदपीद्धं यदपीन्धिष्यमाणं तज्जातीयं च । तदपीन्धनम् । तज्जातीयं पुनरिन्धनं यदिन्धनार्थे कल्पितमप्राप्यैवाग्निमंतरा नंक्ष्यति । अविज्ञप्तिस्तर्हि न रूपं प्राप्नोति । कस्मात् । अप्रतिघत्वात् । अप्रतिघत्वेन हि सा न बाध्यते नापि प्रतिहन्यते । सापि विज्ञप्तिरूपणादिति विस्तरः । विज्ञप्तिरविज्ञप्तिसमुत्थापिका । तस्याः सप्रतिघाया रूपणातविज्ञप्तिरपि रूप्यते । यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनात्छाया प्रचलति । तद्वत् । नाविकारादिति । अनेन प्रतिज्ञादोष उद्ग्राह्यते । परेण ह्येवं प्रतिज्ञातं । स्वसमुत्थापकविकारानुविधायिनी अविज्ञप्तिः । समुत्थाप्यत्वात् । वृक्षछायावदिति । सेयं पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा । अभ्युपगतो हि विज्ञप्तेर्विकारेऽपि अविज्ञप्तेरविकारः । तथा ह्यंजलिं भंक्त्वा कपोतं कुर्वतः कायविज्ञप्तिर्विक्रियत इत्यभ्युपगम्यते न त्वविज्ञप्तिः । तस्मादसाधनमेतत् । विज्ञप्तिनिवृत्तौ वाविज्ञप्तिनिवृत्तिः स्याद्[तिब् । ३१ ] इत्यनेन धर्मिविशेषविपर्ययोऽप्यस्याः प्रतिज्ञाया उद्ग्राह्यते । यदि वृक्षछायाधर्म इष्यते वृक्षनिवृत्तौ छायानिवृत्तिर्दृष्टेति । तद्वत्स्यात् । अत्र कश्चिन्नाविकारादिति न सम्यगेतदुक्तमिति दूषयति । विक्रियत एवाविज्ञप्तिर्विज्ञप्तिविकारे सति । मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर्मृदुमध्याधिमात्रता भवत्यविज्ञप्तेरिति । तदेतदयुक्तं । कस्मात् । उत्पत्तिरेवाविज्ञप्तेरेवं भवति । मृदुर्मध्याधिमात्रा वा । न तु विकारः । उत्पन्नस्य हि धर्मस्य पुनरन्यथोत्पादनं विकारः । तच्च रूपणमभिप्रेतम् । आश्रयभूतरूपणादिति अपर इति । वृद्धाचार्यवसुबन्धुः । भूतग्रहणमाश्रयभूतप्रदर्शनार्थं । अतश्चेतरः प्रसंजयति । एवं तर्हि चक्षुर्विज्ञानादीनामपीति विस्तरः । चक्षुराद्याश्रयरूपणात्तद्विज्ञानानामपि रूपत्वप्रसंगः । विषमोऽयमुपन्यास इति । वृद्धाचार्यवसुबन्धुदेशीयः कश्चित्परिहरति । अविज्ञप्तिर्हीति विस्तरः । छाया वृक्षमुपश्लिष्टाश्रित्य वर्तते । प्रभापि मणिं तथैव । उत्पत्तिनिमित्तमात्रं तानि तेषामिति । नोपश्लिष्टानीति भावः । तमितरः इतरः । प्रत्याह । इदं तावदवैभाषिकीयमिति विस्तरः । नैतद्वैभाषिकमतं । वैभाषिकमतं तु छाया वर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते [तिब् । ३१ ] न वृक्षं । तथा प्रभा वर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते न मणिं । पृथग्द्रव्यत्वात् । इत्येवमनाश्रयकारणत्वान्मणिवृक्षयोः न महाभूतविज्ञप्तिवतुपश्लिष्टे छायाप्रभे इति असामान्यं दृष्टान्तदार्ष्टान्तिकयोः । सत्यपि च तदाश्रितत्व इति विस्तरः । अथापि पारंपर्येण तदाश्रितत्वमभ्युपगम्यते । छाया स्वभूताश्रिता । तानि तु भूतानि वृक्षमाश्रितानि । प्रभापि स्वभूताश्रिता । तानि तु भूतानि मणिमाश्रितानि । तदनुविधायित्वात् । तथाप्यसामान्यं । (अभिधर्मकोषव्याख्या ३६) निरुद्धेष्वप्यविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमादिति । क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजेति सिद्धान्तात् । तस्मान्न भवत्येष परिहार इति । य उक्तोऽभूदविज्ञप्तिर्हि छायेव वृक्षमिति विस्तरेण । अन्ये पुनरत्र परिहारमाहुरिति । अयमेवाचार्यस्तन्मतं समर्थयन्नाह । आश्रयो भेदं गत इति । द्विविध इत्यर्थः । कश्चिद्रूप्यते चक्षुरादिः सप्रतिघत्वात् । कश्चिन्न रूप्यते । मनः । विपर्ययात् । तस्मादसमानः प्रसंग इति । चक्षुर्विज्ञानादीनामप्याश्रयभूतरूपणाद्रूपत्वप्रसंग इति । रूपणाद्रूपमित्याश्रयरूपणादित्यर्थः । अत्र चोदयन्ति । विज्ञप्तिसंभूताया अविज्ञप्तेरेवं परिकरेण रूपत्वं भवद्भवेत् । समाधिसंभूतायास्तु कथं रूपत्वमिति । तज्जातीयत्वात्तदपि रूपं । [तिब् । ३२ ] किं पुनस्तज्जातीयत्वं । महाभूतान्युपादायेति भावः । तेषामुपादायरूपजननादिहेतुभूतत्वादिति । (इ ।१४ ब्) इन्द्रियार्थास्त एवेति भगवतो विनेयवशात्तिस्रो देशनाः स्कन्धायतनधातुदेशनाः । तासु च ये स्कन्धेषु देशिता धर्माः । त एव आयतनधातुषु देशिताः । असंस्कृतास्त्वत्र केवलमतिरिक्ताः । सर्वश्चाभिधर्मः सूत्रव्याख्यानं । अत इदमुक्तं । इन्द्रियार्थास्त एवेति विस्तरः । लाघविकश्चायमाचार्यो वेदनादिस्कन्धलक्षणमनुक्त्वैव लाघवेन रूपस्कन्धस्वभावान् धर्मानायतनधातुषु दर्शयति । इन्द्रियाणि च इन्द्रियार्थाश्च इन्द्रियराहाः । त एवेति विशेषणमन्येन्द्रियनिरासार्थमन्यार्थनिरासार्थं च । आयतनव्यवस्थायां तु यथासंख्येन दशायतनानि चक्षुरायतनं रूपायतनं यावत्कायायतनं स्प्रष्टव्यायतनमिति । धातुव्यवस्थायां त एव दश धातवः चक्षुर्धातू रूपधातुर्यावत्कायधातुः स्प्रष्टव्यधातुरिति । (इ ।१४ द्, १५) उक्तो रूपस्कन्धस्तस्य चायतनधातुव्यवस्थानमिति । न सकलस्य रूपस्कन्धस्यायतनधातुव्यवस्थानमुक्तं । अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात् । कथमिदमुच्यते । उक्तमिति । बाहुलिको निर्देशः । बाहुल्येन रूपस्कन्धस्यायतनधातुव्यवस्थानमुक्तमित्यर्थः । कतिपयमुद्गगुलिकासम्भवेऽपि माषराशिव्यपदेशवत् । त्रिविधोऽनुभव इति । [तिब् । ३२ ] अनुभूतिरनुभव उपभोगः । कस्य । चित्तस्य पुद्गलस्य वा । स च त्रिविधः । सुखो दुःखोऽदुःखासुखश्च । (अभिधर्मकोषव्याख्या ३७) वस्तुनो ह्लादपरितापतदुभयविनिर्मुक्तस्वरूपसाक्षात्करणस्वभावः । अनुभूयते वानेन विषय इत्यनुभवः । अनुभवतीति वानुभवः । कायचित्तोपचयापचयतदुभयविनिर्मुक्तावस्थाप्रवृत्तश्चैअसिकविशेषः स्पर्शानुभव इत्यपरे । अनुर्लक्षणे स्पर्शचिह्नः । स्पर्शनिमित्तानुभव इत्यर्थः । स वेदनास्कन्धः । निमित्तोद्ग्रहणात्मिकेति । निमित्तं वस्तुनो अवस्थाविशेषो नीलत्वादि । तस्योद्ग्रहणं परिच्छेदः । तदात्मिका तत्स्वभावा । दुःखादीत्यादिशब्देन लोहितादीनां ग्रहणम् । असौ संज्ञास्कन्धः । यदि परिच्छेदात्मिका संज्ञा तत्संप्रयोगे निमित्तमुद्गृह्णन्तीति पंचापि विज्ञानकाया विकल्पकाः स्युः । न स्युः । न हि पंचविज्ञानसंप्रयोगिनी संज्ञापट्वी । मनोविज्ञानकायसंप्रयोगिनी तु पट्वीति तदेव विकल्पकमुक्तं । षट्संज्ञाकाया वेदनावदिति । यथा चक्षुःसंस्पर्शजा वेदनेति विस्तरेणोक्तं । तथा चक्षुःसंस्पर्शजा संज्ञेति विस्तरेण वक्तव्यं । चतुर्भ्योऽन्य इति । चतुर्भ्यः स्कन्धेभ्यः स्कन्धाधिकारात् । रूपस्कन्धादिभ्यस्[तिब् । ३३ ] त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच्चोद्दिष्टवक्ष्यमाणकाच्चतुर्भ्योऽन्ये संस्काराः संस्कारस्कन्धः । सूत्रे षट्चेतनाकाया इत्युक्तमिति । संस्कारस्कन्धः कतमः । षट्चेतनाकाया इति । अभिसंस्करणे प्रधानेति । एवं चैवं च स्यामित्यभिसंस्करणे प्रधाना । कर्म हेतुरुपपत्तय इति वचनात् । छन्दप्राप्त्यादयस्तु चेतनानुविधायित्वात्तदाकारहेतुभावानुविधानतः संस्कारस्कन्ध एव वेदितव्याः । तदेवं सति संस्करणे प्रवृत्तो धर्मराशिः संस्कार इत्युक्तं भवति । अपरे पुनराहुः । संस्कृताभिसंस्करणे चेतनायाः प्राधान्यमुक्तम् । अतः सूत्रे चेतनाग्रहणं । संप्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्यादयमेव स्कन्धः संस्कारस्कन्ध उक्तः । संस्कृतराशिरिति कृत्वा । संस्कृतमभिसंस्करोतीति भाविन्या संज्ञया अनागतं स्कन्धपंचकं संस्कृतमित्युक्तम् । अन्यथा हीति विस्तरः । यदि यथासूत्रनिर्देशं चेतनैव केवला संस्कारस्कन्ध इष्यते नान्ये । शेषाणां छन्दादीनां चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात् । रूपादिषु स्कन्धेषु रूपणादिलक्षणाभावेनासंग्रहात् । संस्कारस्कन्धे चैवं । सूत्रे यथारुतग्रहणेनासंग्रहात् । इति स्कन्धेष्वसंग्रहाद्दुःखसमुदयसत्यत्वं न स्यात् । इति परिज्ञाप्रहाणे न स्यातां । [तिब् । ३३ ] परिज्ञा दुःखस्य प्रहाणं समुदयस्य । अनभिज्ञाय लौकिकेन मार्गेण अपरिज्ञाय लोकोत्तरेण । अथ वानभिज्ञाय दर्शनमार्गेण अपरिज्ञाय भावनामार्गेणा । एवमप्रहायेत्युक्तमिति सूत्रान्तरं । नहमेकधर्मम् (अभिधर्मकोषव्याख्या ३८) अपि अपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति । दुःखनिरोधं वदामीत्यर्थः । ननु चाकाशाप्रतिसंख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते । अथ च दुःखस्यान्तक्रियेष्यते । संक्लेशवस्त्वभिसंधिवचनात् । सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाददोषः । न हि तौ संक्लेशवस्तू । किमनयोः परिज्ञेयत्वेन । निरोधमार्गसत्ये अपि तर्हि न संक्लेशवस्तू इति न परिज्ञेये स्यातां । दुःखसमुदयसत्यसंबन्धसद्भावात्तयोः परिज्ञेयत्वं व्यवस्थाप्यते । तथा हि योगिन एवं विचारयन्ति । अस्य सहेतुकस्य दुःखस्य को निरोधः । केन चोपायेन स निरोधः प्राप्यत इति । निरोधमार्गसत्ये अपि परिजानन्ति । न त्वाकाशाप्रतिसंख्यानिरोधयोर्दुःखेन सम्बन्ध इति न तौ परिजानन्ति । प्रयोगावस्थायां तु लौकिकेन ज्ञानेन तावपि सामान्यरुपेण सर्वधर्मा अनात्मान इति भावयन्ति । धर्मायतनधात्वाख्या इति । आयतनं च धातुश्चायतनधातू । धर्मश्चासावायतनधातुश्च धर्मायतनधातुः । तदाख्या एषां त इमे धर्मायतनधात्वाख्याः । के । वेदनासंज्ञासंस्कारस्कन्धाः । सहाविज्ञप्त्यसंस्कृतैर् इति । सहाविज्ञप्त्या सहासंस्कृतैश्चाकाशादिभिः । [तिब् । ३४ ] आयतनदेशनायां धर्मायतनमिति । धातुदेशनायां च धर्मधातुरिति । सप्त द्रव्याणीति । अविज्ञप्तिर्वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः आकाशं प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्चेति । (इ ।१६) विज्ञानं प्रतिविज्ञप्तिर् इति । विज्ञानस्कन्धः प्रतिविज्ञप्तिरित्यर्थः स्कन्धाधिकारात् । प्रतिर्वीप्सार्थः । विषयंविषयं प्रतीत्यर्थः । उपलब्धिर्वस्तुमात्रग्रहणं । वेदनादयस्तु चैतसा विशेषा विशेषग्रहणरूपाः । षड्विज्ञानकाया इति षड्विज्ञानसमूहाः । षड्विज्ञानान्यथो मन इति । षड्विज्ञानधातवो याथासंख्येन यश्चक्षुर्विज्ञानं । स चक्षुर्विज्ञानधातुः । एवं यावत्यन्मनोविज्ञानं । स मनोविज्ञानधातुः । समस्तानि त्वेतानि षट्मनोधातुरिति वेदितव्यं । (इ ।१७ ब्) षण्णामनन्तरातीतं विज्ञानं यद्धि । तन्मन इति । षण्णाम् इति निर्धारणे षष्ठी । तेषामेव मध्ये नान्यदित्यर्थः । अनन्तरग्रहणम् (अभिधर्मकोषव्याख्या ३९) अन्यविज्ञानव्यवहितनिवृत्त्यर्थं । यद्धि यस्यानन्तरमन्यविज्ञानाव्यवहितं । [तिब् । ३४ ] तत्तस्याश्रयः । व्यवहितं तु न तस्याश्रयः । अन्यस्यासावाश्रयः । यस्य तदव्यवहितं । अत एवाचित्तिकावस्थायां चिरातीतमपि समापत्तिप्रवेशचित्तं व्युत्थानचित्तस्याश्रयो भवति । विज्ञानान्तराव्यवधानात् । अतीतग्रहणं प्रत्युत्पन्ननिरासार्थं । मनोविज्ञानं हि आश्रयि तस्यामवस्थायां प्रत्युतपन्नं । अतस्तदतीतमिष्यते । तदेव चैतदुच्यते । षष्ठाश्रयप्रसिद्ध्यर्थम् इति । विज्ञानग्रहनं वेदनाद्यनन्तरातीतनिवृत्त्यर्थं । यद्धि । तन्मन इति जातिनिर्देशान्न वीप्साप्रयोगः । वृत्तौ तु द्रव्यपदार्थाभिधित्सया वीप्साप्रयोगः । यद्यत्समनन्तरनिरुद्धं विज्ञानं तत्तन्मनोधातुरिति । तद्यथा स एवेति विस्तरः । तद्यथा स एव पुत्रोऽन्यस्य पित्राख्यां लभते । तदेव फलमन्यस्य बीजाख्यां । तथेहापि स एव चक्षुरादिविज्ञानधातुरन्यस्याश्रय इति मनोधात्वाख्यां लभते । (इ ।१७ द्) सप्तदश धातवो भवन्ति द्वादश वेति । य एव षड्विज्ञानधातवः । स एव मनोधातुः । य एव च मनोधातुः । त एव च षड्विज्ञानधातव इति इतरेतरान्तर्भावे यदि षड्विज्ञानधातवो गृह्येरन्नार्थो मनोधातुनेति सप्तदश धातवो भवन्ति । यदि मनोधातुर्गृह्येत नार्थः साड्विज्ञानधातुभिरिति द्वादश धातवो भवन्ति । षष्ठाश्रयप्रसिद्ध्यर्थम् इति । पंचानां विज्ञानधातूनामाश्रयप्रसिद्धिर्नांगीक्रियते चक्षुरादिस्वाश्रयसंभवात् । मनोविज्ञानाश्रयो नास्तीति तदाश्रयप्रसिद्ध्यर्थं [तिब् । ३५ ] मनोधातुर्व्यवस्थाप्यते । आश्रयादिषट्कव्यवस्थानेनाष्टादश धातवो भवन्ति । आश्रयषट्कं चक्षुरादिमनोन्तं । आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तं । आलम्बनषट्कं रूपादिधर्मान्तमिति । योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तोऽप्यस्ति मनोधातुः । ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोराश्रयं कल्पयन्ति । तच्चारूप्यधातावपि विद्यत इति वर्णयन्ति । आरूप्यधातावपि हि तेषां रूपमभिप्रेतं । आरूप्य इति एचीषदर्थे आङापिंगलवदिति । चरमं चित्तमिति । निरुपधिशेषनिर्वाणकाले । न मनो भविष्यतीति । न मनोधातुर्भविष्यतीत्यर्थः । न हि तदस्तीति । नोत्पद्यत इत्यर्थः । न । तस्यापि मनोभावेनेति विस्तरः । नैतदेवं । कस्मात् । तस्यापि चरमचित्तस्य मनोभावेनाश्रयत्वेनावस्थितत्वात् । अन्यकारणवैकल्यादिति । पौनर्भविककर्मक्लेशकारणवैकल्यात् । नोत्तरविज्ञानसंभूतिरिति । न पुनर्भवप्रतिसंधिविज्ञानमित्यभिप्रायः । (अभिधर्मकोषव्याख्या ४०) इदमिह विचार्यते । उक्तमेतत् । आश्रयाश्रितालम्बनषट्कव्यवस्थानादष्टादश धातवो भवन्तीति । आश्रितषट्कं तावद्व्यवस्थाप्यते । चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुरिति । किमस्याश्रितषट्कस्य यथासंख्यमाश्रयषत्कं व्यवस्थाप्यते । चक्षुर्विज्ञानधातोराश्रयश्चक्षुर्धातुर्[तिब् । ३५ ] यावन्मनोविज्ञनधातोर्मनोधातुराश्रय इति । ओमित्याह । यदा तर्हि चक्षुस्तत्सभागं भवति । तत्कस्याश्रयः । न कस्यचित् । कथं तर्हीदमुक्तं । चक्षुर्विज्ञानधातोश्चक्षुर्धातुराश्रय इत्यादि । आश्रय एव चक्षुः । यस्तु किंचिदनाश्रयस्तत्सभागं चक्षुः । तदपि तज्जातीयत्वात्चक्षुर्धातुत्वेन व्यवस्थाप्यत एव । एवं यावत्कायधातुर्वक्तव्यः । मनोधातुरपि किं मनोविज्ञानधातोरेवाश्रयः । नेत्याह । चक्षुर्विज्ञानधात्वादीनामपि हि स आश्रय इष्यते । तथा हि वक्ष्यति । चरमस्याश्रयोऽतीतः । पंचानां सहजश्च तैर् इति । किं तर्हीदमुक्तं । षष्ठाश्रयप्रसिद्ध्यस्थं धातवोऽष्टादश स्मृता इति । नान्येषामाश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर्न भवति । षष्ठस्याप्ययमाश्रयो भवति संभवतः । आलम्बनषट्कमपि । चक्षुर्विज्ञानधातोरालम्बनं रूपधातुर्यावन्मनोविज्ञानधातोर्धर्मधातुरालम्बनमिति । तदिदं विचार्यते । किं यथा चक्षुर्विज्ञानधातोर्यावन्ति रूपाणि आलम्बनं । स रूपधातुः । एवं यावत्कायविज्ञानधातोर्यावन्ति स्प्रष्टव्यान्यालम्ब्नं । स स्प्रष्टव्यधातुः । एवं मनोविज्ञानधतोर्यावन्तो धर्मा आलम्बनं । स धर्मधातुरिति । अत्र स्थविर आह । सर्वधर्मस्वभावो धर्मधातुरष्टादशधातुस्वभाव इत्यर्थः । कथमस्याध्यात्मिकबाह्यधातुव्यवस्था सिध्यति । चक्षुरादयो हि द्वादशाध्यात्मिका इष्यन्ते । षड्बाह्या इति । [तिब् । ३६ ] यदि हि तेऽपि धर्मधातावन्तर्भाव्येरन् सांकर्यं प्राप्नोति । स्थविर आह । पार्यायिकमेषामाध्यात्मिकबाह्यत्वं । विज्ञानानामाश्रयास्ते चक्षुरादय इत्याध्यात्मिकाः । मनोविज्ञानविषयत्वात्तु बाह्या इति । तदेवं नेच्छन्ति वैभाषिकाः । सूत्रविरोधात् । एवं हि सूत्र उक्तं । धर्मा भिक्षो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमिति । तस्मात्सप्तद्रव्यको धर्मधातुरेष्टव्यः । अविज्ञप्तिवेदनासंज्ञासंस्कारस्कन्धाकाशप्रतिसंख्यानिरोधप्रतिषंख्यानिरोधस्वभावत्वात् । अपरिपूर्णस्तर्हि मनोविज्ञानधातोरालम्बननिर्देशः । न च चक्षुर्विज्ञानादीनामपरिपूर्ण अलम्बननिर्देश इष्यते । अस्त्येतदेवं । किं तु चक्षुरादीनां षण्णामाश्रयत्वेन निर्देशाच्चक्षुर्विज्ञानादीनां चाश्रितत्वेन रूपादीनां च पंचानां पंचविज्ञानकायालम्बननिर्देशान् (अभिधर्मकोषव्याख्या ४१) न तेशां मनोविज्ञानविषयत्वेऽपि धर्मधातौ प्रक्षेप इति वर्णयन्ति । (इ ।१८) समासतस्तु ज्ञातव्यः सर्वसंग्रह इति । आयतनादिभिरपि सर्वसंग्रहः । न तु समासतः । किं तर्हि । विस्तरतः । अयं तु देशनात्रयान्निष्कृष्य समासत उक्तः । रूपस्कन्धेन रूपस्कन्धः संगृहीतो दश चेन्द्रियार्थस्वभावान्यायतनानि धातवश्च । धर्मायतनधात्वेकदेशश्चाविज्ञप्तिः । [तिब् । ३६ ] मनआयतनेन विज्ञानस्कन्धः । तदेव च मनआयतनं सप्तचित्तधातवश्च संगृहीताः । धर्मधातुना वेदनासंज्ञासंस्कारस्कन्धाः संगृहीताः धर्मायतनं धर्मधातुश्च । अविज्ञप्तिरिह द्विः संगृहीता । तद्यथा चक्षुरिन्द्रियमिति । चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातुनिरोधसत्यमार्गसत्यस्वभावेन वियुक्तं । अत एतदुक्तं । चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतं तत्स्वभावत्वात् । नान्यैः स्कन्धादिभिस्तद्भाववियुक्तत्वादिति । महतात्राल्पकं संगृहीतं । न तु महदल्पकेन । कथमिति । रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात् । चक्षुरिन्द्रियमल्पकं रूपस्कन्धैकदेशत्वात् । रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतं । न तु चक्षुरिन्द्रियेण रूपस्कन्धः । चक्षुरिन्द्रियव्यतिरिक्तरूपस्कन्धसद्भावात् । तद्यथा हस्तिपदेन पक्षिपदं संगृहीतं । न तु पक्षिपदेन हस्तिपदं संगृहीतं । तद्वत् । समेन तु सममन्योन्यं संगृहीतं । तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन । चक्षुरायतनमपि चक्षुरिन्द्रियेणेत्ययमभिधर्मनयो वेदितव्यः । यथा संग्रहवस्तुभिः पर्षदामिति । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता च । चतस्रः पर्षदब्भिक्षुभिक्षुण्युपासकोपासिकाः । [तिप् । ३७ ] तैस्तासां संग्रहः । स तु कादाचित्कः । कदाचिद्भवः कादाचित्कः । कदाचिदासां दीयते प्रियं चोच्यते । न चे संग्रह इति । सांकेतिकः सांव्यवहारिकः । स्वभावसंग्रहस्तु पारमार्थिक इत्युक्तं । (इ ।१९ ब्) जातिगोचरविज्ञानसामान्यादेकधातुता द्वित्वेऽपि चक्षुरादीनाम् इत्यर्थादेतदुक्तं भवति । जात्यादिभेदाद्यथासंभवं धातुभेदव्यवस्थानं । न त्वधिष्ठानभेदादिति । तत्र चक्षुर्धात्वादीनामन्योन्यं जातिगोचरविज्ञानभेदो भवति । रूपधात्वादीनां जातिविज्ञानभेदः । विज्ञानधातूनां जातिगोचरभेदः । मनोविज्ञानस्यापि हि धर्मधातुरसाधारणो गोचरः । एवं श्रोत्रघ्राणयोरपि योज्यमिति । जातिसामान्यमुभयोः श्रोत्रस्वभावत्वात् । गोचरसामान्यमुभयोः शब्दविषयत्वात् । (अभिधर्मकोषव्याख्या ४२) विज्ञानसामान्यमुभयोरेकश्रोत्रविज्ञानाश्रयत्वात् । तस्मादेक एव श्रोत्रधातुः । एवं घ्राणस्यापि योज्यं । (इ ।१९ द्) कार्यान्तराभावात्तर्हि द्वयानुत्पत्तिप्रसंगः स्यादित्यत आह । शोभार्थं तु द्वयोद्भव इति । एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसंभवान्महद्वैरूप्यं स्यादित्येकस्य चक्षुःश्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य संभवान्महद्वैरूप्यं स्यात् । ननु चोष्ट्रमार्जारोलूकप्रभृतीनां चक्षुरादिद्वयोद्भवेऽपि न भवत्याश्रयशोभा । जात्यन्तरापेक्षया [तिब् । ३७ ] न तेषामाश्रयशोभा । स्वजात्यपेक्सया तु यस्य चक्षुरादिद्वयमस्ति । तस्य तस्यां स्वजातावाश्रयशोभा । यस्य नास्ति । तस्य वैरूप्यमिति । अदूष्यमेतत् । आचार्यसंघभद्रस्त्वस्य सूत्रस्यार्थं विवव्रे । शोभार्थमित्याधिपत्यार्थमित्यर्थः । आधिपत्यसंपन्नो हि लोके शोभतीत्यपदिश्यते । येषां चेन्द्रियाणाममून्यधिष्ठानानि । तेषां परिशुद्धदर्शनश्रवणघ्राणायाधिपत्यं स्यात् । न हि यथा द्वाभ्यां चक्षुर्भ्यां परिशुद्धं दर्शनं भवति तथैकेन । एवमितरयोरपि । एवं चैषामिन्द्रियत्वं हीयेत । तदर्थमेतदुक्तं स्यादिति । स्फुटोपलब्ध्यर्थमित्यर्थः । इहापि शक्यमेवं वक्तुम् । एकमेव परिस्फुटोपलब्ध्याश्रयभूतं विस्तीर्णं कर्मणोत्पाद्यतां । किमाश्रयविच्छेदेनेति । विभाषायां तु लिखितमेतत्पक्षद्वयं । शोभार्थं द्वयोद्भव इत्येको व्यक्त्यर्थमित्यपर इति । अलं प्रसंगेन । ननु च कर्मवशातिन्द्रियद्वयोत्पत्तिः । किमन्यदेवोच्यते शोभार्थं व्यक्त्यर्थं चेति । कर्मवशादेवात्रेन्द्रियद्वयोद्भव उक्तः । कथमिति । एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते । अतस्तदभिलाषपूर्वकेण स्फुटोपलब्ध्यभिलाषपूर्वकेण च कर्मणा तदिन्द्रियद्वयम् [तिब् । ३८ ] अभिनिर्वर्तमानं शोभार्थं व्यक्त्यर्थं चोद्भवतीत्युच्यते । (इ ।२० ब्) राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातव इति । यथाक्रमं राशिः आयद्वारं गोत्रं चार्थ एषां । त इमे राश्यायद्वारगोत्रार्थाः । के । स्कन्धायतनधातुशब्दाः । अथ वा राश्यायद्वारगोत्रशब्दानामर्थाः । के । स्कन्धायतनधातवः । सूत्रे वचनात् । सूत्रे राश्यर्थः स्कन्धार्थ इति । राशेर्योऽर्थः । स स्कन्धस्यार्थः । तं सूत्रेण दर्शयति । यत्किंचिद्रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः । ऐकध्यमिति । एकधैवैकध्यं । अनित्यतानिरुद्धमिति । अनित्यतया संस्कृतलक्षणेन (अभिधर्मकोषव्याख्या ४३) निरुद्धमित्यर्थः । अनित्यताग्रहणमन्यनिरोधनिरासार्थं । पंचविधो हि निरोधं । लक्षणनिरोधः समापत्तिनिरोध उपपत्तिनिरोधः प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च । तद्यद्यतीतं रूपं निरुद्धमित्येव ब्रूयात् । अविशेषितत्वात्समापत्तिनिरोधादीनामपि प्रसंगः स्यात् । न च तैरतीतार्थतेष्यते । समापत्तिनिरोधो ह्यनागतानामेव चित्तचैत्तानाम् । उपपत्तिनिरोधोऽप्येषामेव । प्रतिसंख्यानिरोधः सास्रवाणामेव । अप्रतिसंख्यानिरोधोऽप्यनुत्पत्तिधर्माणामेवानागतानां । तस्माल्[तिब् । ३८ ] लक्षणनिरोधग्रहणार्थमिदमनित्यताग्रहणं । अनागतमनुत्पन्नमिति । प्रत्युत्पन्नतामसंप्राप्तं । प्रत्युत्पन्नमुत्पन्नानिरुद्धमिति । उत्पन्नग्रहणमनागतविशेषणार्थं । अनिरुद्धग्रहणमतीतविशेषणार्थं । अनागतं यद्यप्यनिरुद्धं न तूत्पन्नम् । अतीतमपि यद्यप्युत्पन्नं न त्वनिरुद्धमिति । आध्यात्मिकं स्वासांतानिकमिति । चक्षुरादिकं रूपादिकं च । बाह्यमन्यदिति । तदेव पारसांतानिकमसत्त्वसंख्यातं च । आयतनतो वेति । आध्यात्मिकं चक्षुरादिपंचकं स्वपरसंततिपतितं । द्वादशाध्यात्मिका इति वचनात् । बाह्यमन्यद्रूपादिकं विषयपंचकं स्वपरसंततिपतितम् । असत्त्वसंख्यातं चाविज्ञप्तिश्च । बाह्यायतनस्वभावमिति कृत्वा । औदारिकं सप्रतिघमिति । परमाणुसंचयस्वभावं । सूक्ष्ममप्रतिघं । अविज्ञप्तिरूपं । आपेक्षिकं वेति । अपेक्षया वा औदारिकं सूक्ष्मं च भवति । तद्यथा लिक्षामपेक्ष्य औदारिकी यूका । यूकामपेक्ष्य सुक्ष्मा लिक्षेति । तदेवं सति सप्रतिघमेव औदारिकं च सूक्ष्मं भवति । अप्रतिघं तु सूक्ष्ममेवासंचितत्वात् । आपेक्षिकत्वादसिद्धमिति । सैव सूक्ष्मा लिक्षा वातायनरजोऽपेक्ष्य औदारिकी । सैव च औदारिकी यूकामपेक्ष्य सूक्ष्मेति अव्यवस्थितमौदारिकसूक्ष्मत्वं पारापारवत् । कथं हि नाम । औदारिकं सूक्ष्मं भवति सूक्ष्मं च औदारिकमिति । न । अपेक्षाभेदाद्[तिब् । ३९ ] इति । अपेक्षया भेदोऽपेक्षाभेदः । तस्मान्नासिद्धं । यदेवापेक्ष्य औदारिकं न जातु तदपेक्ष्य सूक्ष्मं । न कदाचित्तदेवापेक्ष्यमित्यर्थः । पितृपुत्रवदिति । तद्यथा एवदत्तस्य पुत्रो यज्ञदत्तः । यज्ञदत्तस्य पुत्रो विष्णुमित्रः । स यज्ञदत्तो विष्णुमित्रमपेक्ष्य पिता । एवदत्तमपेक्ष्य पुत्रः । न चापेक्षिकत्वादस्य पितृपुत्रभावो न सिध्यति । अपेक्षाभेदात् । न हि स यज्ञदत्तस्तमेव विष्णुमित्रमपेक्ष्य पुत्रः । नापि तमेव देवदत्तमपेक्ष्य (अभिधर्मकोषव्याख्या ४४) पितेति । तद्वत् । हीनं क्लिष्टं सद्भिस्त्यक्तमिति कृत्वा । प्रणीतमक्लिष्टं क्लेशदूषितत्वात् । दूरमतीतानागतं संतानप्रच्युतत्वात्तदसंप्राप्तत्वाच्च । अन्तिकं प्रत्युत्पन्नं संतानसंनिहितत्वात् । एवं यावद्विज्ञानमिति । या काचिद्वेदना अतीतानागतप्रत्युत्पन्ना आध्यात्मिकी वा बाह्या वा औदारिका वा सूक्ष्मा या वा दूरे या वा अन्तिके तां सर्वामैकध्यमभिसंक्षिप्य वेदनास्कन्ध इति संख्यां गच्छति । एवं यावद्विज्ञानं वक्तव्यं । यावत्सर्वमैकध्यमभिसंक्षिप्य विज्ञानस्कन्ध इति संख्यां गच्छतीति । अतीतादित्वमेषां वेदनादीनां यथा रूपस्य । अयं तु विशेषो वेदनादीनां । औदारिकं पंचेन्द्रियाश्रयं वेदनादिचतुष्कं । अमूर्तत्वातवगतमौदारिकत्वं [तिब् । ३९ ] नास्ति । सूक्षं मानसमाश्रयस्याप्यमूर्तत्वात् । भूमितो वेति । औदारिकं सूक्ष्मं च वेदनादिकं । औदारिकी कामावचरी वेदना । सूक्ष्मा प्रथमध्यानभूमिका । औदारिकी प्रथमध्यानभूमिका । सूक्ष्मा द्वितीयध्यानभूमिका । एवं यावदौदारिकी आकिंचन्यायतनभूमिका । सूक्ष्मा भवाग्रभूमिकेति । यथा वेदना । एवं यावद्विज्ञानं वक्तव्यं । भदन्त इति स्थविरः । कश्चित्सौत्रान्तिकस्तन्नामा वा । भगवद्विशेषस्त्वाह । स्थविरहर्मतातोऽसाविति । अत्र वयं ब्रूमः । यदि हर्मत्रातोऽतीतानागतास्तित्ववादी । स इति न सौत्रान्तिको न आर्ष्टान्तिक इत्यर्थः । तथा हि वक्ष्यति । भावान्यत्विको भदन्तहर्मत्रातः । स किलाह । धर्मस्याध्वसु प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यस्यान्यथात्वमिति । सौत्रान्तिकदर्शनावलंबी चायं भदन्तो विभाषायां लिखितः । भदन्त आहेत्येवमादि । भदन्तहर्मत्रातोऽपि स्वनाम्नैव विभाषायां लिखितः । भदन्तहर्मत्रात आहेत्येवमदि । तेन लक्ष्यते भदन्तहर्मत्रातादन्योऽयं सौत्रान्तिकः कश्चित्स्थविरो भिक्षुरिति । पंचेन्द्रियग्राह्यमिति रूपादिपंचकं । सूक्ष्ममन्यच्चक्षुरादिपंचकं । अविज्ञप्तिश्च । मनापमिति । मन आप्नोतीति मनआपं मनोज्ञमित्यर्थः । पुनःसंधिकरणं चात्र द्रष्टव्यं । पूर्वत्रासिद्धमिति ईषदर्थेन ञपरिग्रहात्किंचित्सिद्धमित्येकसवर्णदीर्घत्वं । दूरमदृश्यदेशमिति । आधारदेशमाश्रयाधारदेशं [तिब् । ४० ] चाधिकृत्य । द्रष्टुं शक्यो दृश्यः । दृश्यो देशोऽस्येति दृश्यदेशं दृश्याधारदेशं । दृश्याश्रयाधारदेशं वा । तद्यथा कुण्डे बदरं । चक्षुरादि वा । तदन्तिकं । अदृश्यदेशं तु तद्विपरीतं दूरं । दूरमदृश्यमिति नोक्तं । आसन्नमपि हि किंचिदतिसूक्ष्मत्वान्न दृश्यते । न च तद्दूरमिष्यते । दृश्यदेशत्वात् । किमर्थं पुनरेवं भदन्तेन व्याख्यायते । अतीतादीनां स्वशब्देनाभिहितत्वात् । अन्यथा हि पुनरुक्तदोषः स्यात् । दूरान्तिकत्वं तु तेषामाश्रयवशाद्(अभिधर्मकोषव्याख्या ४५) इति । तेषां वेदनादीनाममूर्तत्वेनादेशस्थत्वात्तस्मादेवं वक्तव्यं । दूरे अदृश्यमानाश्रया वेदनादयः । अन्तिके दृश्यमानाश्रया इति । औदारिकसूक्ष्मत्वं पूर्ववदिति । औदारिकं पंचेन्द्रियाश्रयं । सूक्ष्मं मानसमिति । चित्तचैत्तानामायमुत्पत्तिं तन्वन्तीत्यायतनानि । द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति सर्वेषामायतनत्वसिद्धिः । एकस्मिन्नाश्रये संताने वेति । आश्रये समुदायलक्षणे शरीरे । संताने वा चित्तादीनां प्रवाहलक्षणे । स्वस्या जातेः । किं । आकरा इति प्रकृतं । सभागहेतुत्वात् । पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागबेतुरित्याकरो धातुः । यतो हि सुवर्णाद्युत्पत्तिः । ते तेषामाकराः । असंस्कृतं न धातुः स्यात् । न ह्यसंस्कृतमसंस्कृतस्यान्यस्य वा सभागहेतुः । [तिब् । ४० ] चित्तचैत्तानां तर्हीति । किं । आकरा इति प्रकृतं । द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति सर्वधातवो विज्ञानस्य ससंप्रयोगस्य प्रत्ययोऽवश्यमालम्बनमधिपतिश्चेत्याकराः । राशिपुद्गलवदिति । प्रज्ञप्तिसन्तः स्कन्धाः । राशिशब्दवाच्यत्वात् । धान्यराशिवत् । पुद्गलवद्वा । स हि प्रज्ञप्तिसन् पुद्गलः रूपादिप्रज्ञप्तिकारणनिरपेक्षागृह्यमाणस्वभावत्वात्धान्यराशिवत् । कार्यभारोद्वहनार्थ इति । कार्यमेव भारः । कार्यभारः । तदुह्यते तेनेति उद्वहनं । कार्यभारस्योद्वहनं कार्यभारोद्वःनं । शरीरप्रदेशः स लोके स्कन्ध इत्युच्यते । अनेनापि कार्यभार उह्यते नामरूपप्रत्ययं षडायतनमित्यादिवचनात् । तस्मात्स्कन्ध इव स्कन्ध इत्यौपचारिकशब्दः । प्रच्छेदार्थो वा । अवध्यर्थो वेत्यर्थः । रूपप्रच्छेदो यावद्विज्ञानप्रच्छेद इति । तदेतदुत्सूत्रमिति । तदेतदुभयं कार्यभारोद्वहनार्थः प्रच्छेदार्थश्चेति । उत्क्रान्तं सूत्रादुत्सूत्रं । सूत्रं हीति विस्तरेण तत्प्रतिपादयति । प्रत्येकमिति विस्तरः । कथमित्याह । सर्वमेतदतीतादिरूपमेकशः एकैकं रूपस्कन्ध इति । समुदायेन समुदायिद्रव्यमुक्तं । तेषां ह्यतीतादीनां रूपाणां स राशिरित्यभिप्रायः । सूत्रेऽप्येवमेवोक्तं । पृथिवीधातुः [तिब् । ४१ ] कतमः । केशा रोमाणीति विस्तरः । एकैकं केशादिद्रव्यं पृथिवीधातुरिति विज्ञायते । अयं च परिहारः कार्यभारोद्वहनार्थप्रच्छेदार्थपक्षयोर्स्पि शक्यते वक्तुं । न शक्यमेवमिति विस्तरः । ऐकध्यमधिसंक्षिप्येति वचनातिरेकात् । एकैकं रूपस्कन्ध इति न शक्यते विज्ञातुं । यदि ह्येवमर्थोऽभविष्यत् । तत्सर्वं रूपस्कन्ध इत्येवावक्ष्यत् । नार्थमैकध्यमभिसंक्षिप्येति वचनेन । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्त इति स्थापनापक्ष आचार्यस्य । द्रव्यसद्रूपप्रतिपत्तिस्तु स्कन्धनिर्देशे तत्समुदायित्वादित्यवगन्तव्यं । रूपीण्यपीति विस्तरः । रूपिग्रहणमरूपिविशेषणार्थं । अरूपि हि मनआयतनमसंहतमपि कारणभावं बिभर्ति । रूपीण्यपि (अभिधर्मकोषव्याख्या ४६) चक्षुरादीनि आयतनानि समुदितान्येव चित्तचैत्तायद्वारतां गच्छन्ति नासमुदितानीति । समुदायलक्षणत्वात्स्कन्धवत्प्रज्ञाप्तिसन्ति स्युः । संचिताश्रयालम्बना हि पंचविज्ञानकाया इति । न । एकशः समग्राणां कारणभावादिति । नैतदेवं । कस्मात् । एकशः प्रत्येकं समग्राणां समुदितानां कारणत्वात् । यस्माद्बहूनामेषां चकुरादिपरमाणूनां परस्परमपेक्ष्यमाणानामेकैकशः कारणभावः । न त्वसंहतानां । तद्यथा दार्वाकर्षणे बहूनामाक्रष्टॄणां [तिब् । ४१ ] प्रत्येकमसामर्थ्यं । समुदितानां तु परस्परमपेक्ष्यमाणानां सामर्थ्यं । यथा वा केशाः पृथक्पृथगवस्थिता न समर्थास्तैमिरिकचक्षुर्विज्ञानकरणे । समुदितास्त्वसंयुक्ता अपि समर्थाः । तद्वच्चक्षुरादीन्द्रियपरमाणवो रूपादिविषयपरमाणवश्च चक्षुरादिविज्ञानोत्पादने प्रत्येकमसमर्थाः । समुदितास्तु समर्थाः । शक्तिऋ हि भावानां तादृश्यवगन्तव्या । विषयसहकारित्वाद्वेति । यदि बहूनामायद्वारभाव इति समुदायायतनत्वं स्यान्न द्रव्यायतनत्वं । इन्द्रियविषयपरमाणूनां समुदितानामायद्वारभाव इति तत्समुदायायतनत्वं स्यात् । न पृथगायतनत्वं स्यात् । इष्यते च पृथगायतनत्वं द्वादशायतनानीति सूत्रात् । साधनं चात्रोपतिष्ठते । ये सहकारिणः । न तैः सह समुदायात्मकायतनभूताश्चक्षुरायतनसमुदायद्रव्यपरमाणवः । चक्षुर्विज्ञानकारणत्वात् । चक्षुरायतनरूपायतनसमुदायद्रव्यपरमाणुवत् । यथा चक्षुरायतनसमुदायद्रव्यपरमाणवः । एवं यावत्कायायतनसमुदायद्रव्यपरमाणवो योज्याः । विभाषायां तूच्यत इति । अनेनापि प्रज्ञप्तिसन्तः स्कन्धा इति व्याचष्टे । अयं तु विशेषः । अद्रव्यसन्तोऽपि ते तत्रोपचारेण प्रदर्श्यन्त इति । विशेषार्थस्तुशब्दः । स्कन्धप्रज्ञप्तिमपेक्षते इति । स्कन्ध इति प्रज्ञप्तिमपेक्षते । राशिरिति प्रज्ञप्तिम् [तिब् । ४२ ] अपेक्षत इत्यर्थः । परमाणुरेकस्य धातोरिति । दशानां चक्षुरादीनां रूपिणां धातूनामन्यतमस्य प्रदेशः । एवमायतनानामेषामेवान्यतमस्य रूपस्कन्धस्य च प्रदेशः । कसमात् । न हि प्रज्ञप्तावपेक्षितायां प्रदेशिनि प्रवृत्तः शब्दः प्रदेशे व्यवस्थाप्यते । अथ नापेक्षते । किं । स्कन्धप्रज्ञप्तिमित्यधिकृतं । स आह । परमाणुरेको धातुरिति विस्तरः । स एकैकस्तेषामायतनधातूनां योऽन्यतम उक्तो रूपस्कन्धश्च । भवति हि प्रदेशेऽपि प्रदेशिवदुपचार इति । प्रदेशेऽपि परमाणौ अन्यतमरूपायतनधातुवद्रूपस्कन्धवच्चोपचारः । तत्र तस्येवेति वतिः । यथा पटैकदेशे दग्धे पटो दग्ध इति । यथा पटशब्दः समुदाये प्रवृत्तः । प्रदेशेऽप्युपचर्यते पटैकदेशे । तद्वत्स्कन्धशब्दो (अभिधर्मकोषव्याख्या ४७)ऽतीतादिरूपसमुदाये प्रवृत्तः । प्रदेशेऽपि परमाणावुपचर्यत इति । स्कन्धा एव प्रज्ञप्तिसन्तो नायतनधातव इति । रूपादीनां स्कन्धा इति कृत्वा । यदा तु रूपाण्येव स्कन्धा इति समासः । तदा द्रव्यसन्तः स्कन्धा इत्यभिप्रायः । इदमिह विचार्यते । किमत्र कारणं यदिन्द्रियपरमाणूनां विषयपरमाणूनां च विज्ञानोत्पत्तये तुल्येऽप्यन्योन्यसापेक्षत्वे न द्वयानामेषां केवलेन्द्रियपरमाणुवदेकायतनत्वं व्यवस्थाप्यते । यस्माच्[तिब् । ४२ ] चक्षुरिन्द्रियादिपरमाणवः सर्वे स्वविज्ञानोत्पत्तौ साधारणानि कारणानि भवन्ति । न तु तथा विषयपरमाणवः । तथा हि चक्षुरिन्द्रियपरमाणवो नीलविषयविज्ञानोत्पत्तावपि कारणं भवन्ति । पीतादिविज्ञानोत्पत्तावपि । नीलविषयपरमाणवस्तु स्वविज्ञानोत्पत्तावेव कारणं भवन्ति । न पीतादिविज्ञानोत्पत्तौ । इत्यतश्चक्षुरिन्द्रियपरमाणुभिस्तद्विषयपरमाणूनामतुल्यवर्तित्वात् । पृथक्स्थानावस्थितत्वात् । न चक्षूरूपपरमणूनामेकायतनत्वव्यवस्थानत्वं युज्यते । एवं यावत्कायेन्द्रियस्प्रष्टव्यपरमाणूनामेकायतनत्वव्यवस्थानं न युज्यत इति वक्तव्यं । (इ ।२० द्) मोहेन्द्रियरुचित्रैधाद् इति । संमोहप्रज्ञाधिमोक्षत्रैधादित्यर्थः । त्रयः प्रकारास्त्रैधमिति । त्रिधैव त्रैधमिति स्वर्थेऽण्प्रत्यय इत्येके । त्रिधाभावस्त्रैधमिति भावेऽण्प्रत्यय इत्यपरे । मोहेन्द्रियरुचीनां त्रैधं । तस्मादिति । पिण्डात्मग्रहणत इति । केचिच्चैत्तान् पिण्डतो गृहीत्वा तानेवात्मतो गृह्णन्ति । पिण्डग्राहे सत्यात्मग्राहप्रवृत्तेः । तेषां स्कन्धदेशना । तस्यां हि वेदनासंज्ञासंस्कारभेदेन त्रिधा चैत्ता देशिताः । नायमेकः पिन्डश्चैत्तविशेषा इहेत्यात्मग्राहः प्रतिपक्षितो भवति । अथ वा पिण्डरूपोऽयमात्मभावः । स चात्मा वेदयिता संज्ञाता चेतयितेति केचित्संमूढाः । तेषां स्कन्धदेशना । नायमात्मरूपः पिण्डश्चैत्ता इहेमे वेदनासंज्ञासंस्काराः [तिब् । ४३ ] प्रवर्तन्ते इत्यात्मग्राहः प्रतिपक्षितो भवति । केचिद्रूप एवेति । पिण्डात्मग्रहणतः संमूढा इत्यधिकृतं । तेषामायतनदेशना । तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं । चैत्तास्त्वैकध्यमेव धर्मायतनत्वेन चित्तं च मनआयतनत्वेनेति । केचिद्रूपचित्तयोरिति । संमूढाः पिण्डात्मग्रहणत इत्यधिकृतमेव । तेषां धातुदेशना । तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं । चित्तं चक्षुर्विज्ञानादिधातुभेदेन । न तु चैत्ता धर्मधातुत्वेनैव देशितत्वादिति । तया रूपचित्तपिण्डग्राहसंमोहः प्रतिपक्षितो भवति । इन्द्रियाण्यपीति विस्तरः । त्रिविधः पुद्गलः तीक्ष्णमध्यमृद्विन्द्रियत्वात् । अथ वा त्रिविधः पुद्गलः उद्घटितज्ञो विपंचितज्ञः पदपरम इति । (अभिधर्मकोषव्याख्या ४८) तत्र तीक्ष्णेन्द्रियाणां स्कन्धदेशना । ते हि तीक्ष्णेन्द्रियत्वात्स्कन्धभेदेनैव आयतनधातुभेदं प्रतिपत्तुं शक्नुवन्ति । यथोक्तं यद्भिक्षो न त्वं स ते धर्मः प्रहातव्य इति । आज्ञातं भगवन्नित्याह । यथा कथमस्य भिक्षो संक्षिप्तेनोक्तस्यार्थमाजानासि । रूपं भदन्त नाहं । स मे धर्मः प्रहातव्य इति विस्तरः । मध्येन्द्रियाणामायतनदेशना । ते हि मध्येन्द्रियत्वान् [तिब् । ४३ ] मध्येनैव नातिविस्तीर्णेनायतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति । न तु संक्षिप्तेन स्कन्धप्रभेदेन । मृद्विन्द्रियाणां धातुदेशना । ते हि मृद्विन्द्रियत्वात्नाविभक्तं स्वबुद्धिसामर्थ्येन प्रतिपत्तुं शक्नुवन्ति । रुचिरपि त्रिविधेति । पूर्वाभ्यासयोगाद्रुचेस्त्रैविध्यं । अथ वा शमथचरितानां संक्षिप्ता रुचिः । शमथविपश्यनाचरितानां मध्या रुचिः । विपश्यनाचरितानां विस्तीर्णा रुचिरिति । (इ ।२१) किं पुनः कारणमिति विस्तरः । ननु च कारणमुक्तं पिण्डात्मग्रहणतश्चैत्तसंमूढानां स्कन्धदेशनेति । सत्यमुक्तं । चैत्तास्तेषां विभक्ता इति । वेदनासंज्ञे एव तु संस्कारस्कन्धात्पृथक्स्कन्धीकृतः । न पुनरन्य इति किमत्र कारणं । कामाध्यवसानमिति विस्तरः । कामेषु च दृष्टिषु चाभिष्वंगः । तयोर्विवादमूलयोरध्यवसानयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतुरिति । प्रधानग्रहणादविद्यादयोऽप्रधानहेतव इत्यर्थत उक्तं भवति । वेदनास्वादवशाद्धि कामानभिष्वजन्ते गृहिणः । विपरीतसंज्ञावशाच्च दृष्टीः । किम् । अभिष्वजन्त इत्यधिकृतं । अधर्मे धर्मसंज्ञिनो धर्मे चाधर्मसंज्ञिनोऽनात्मादिषु चात्मसंज्ञिनस्तास्तादृशीः शीलव्रतपरामर्शादीरभिष्वजन्ते । के ते । प्रायेण प्रव्रजिताः । वेदनागृद्धो हीति [तिब् । ४४ ] विस्तरः । वेदनासक्तश्चतुर्भिर्विपर्यासैर्विपर्यस्तः संसारे जन्मपरंपरां करोति क्रमकारणादिति । चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यंते । यथौदारिकसंक्लेशभाजनाद्यर्थधातुत इति । रूपं हि सप्रतिघत्वात्सर्वौदारिकं । अरूपिणां वेदना प्रचारौदारिकतया । तथा हि व्यपदिशन्ति । हस्ते मे वेदना पादे मे वेदनेति । द्वाभ्यामौदारिकतरा संज्ञा । विज्ञानात्संस्कारा इत्यतो यथौदारिकं तत्पूर्वमुक्तमित्य्प्रथमं कारणं । अथ वानादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामाः । ते च वेदनास्वादगर्धात् । तद्गर्धः संज्ञाविपर्यासात् । तद्विपर्यासः क्लेशैः । चित्तं च तत्संक्लिष्टमिति यथासंक्लेशं क्रम इति द्वितीयं । भाजनाद्यर्थेन वा भाजनभोजनव्यंजनपक्तृभोक्तृभूता हि (अभिधर्मकोषव्याख्या ४९) रूपादयः स्कन्धा इति तृतीयं । धातुतो वा कामरूपप्रभावितो हि कामधातुः । वेदनाप्रभावितानि ध्यानानि । संज्ञाप्रभावितास्त्रय आरूप्याः । संस्कारमात्रप्रभावितं भवाग्रम् । एता विज्ञानस्थितयस्तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबीजसंदर्शानार्थः स्कन्धानुक्रम इति चतुर्थं कारणम् । अथ एव च क्रमकारणात्वेदनासंज्ञे [तिब् । ४४ ] पृथक्स्कन्धीकृते । यत एते औदारिकतरे संक्लेशानुक्रमहेतू भोजनव्यंजनभूते तत्प्रभावितं च धातुद्वयमिति । (इ ।२२ ब्) न तावदेष्वेवान्तर्नेतुं शक्यते अर्थायोगादिति । रूपणादेरर्थस्यायोगादसंभवात् । रूपस्वभावं यावद्विज्ञानस्वभावमिति वा न शक्यमेष्वेव पंचस्कन्धेष्वन्तर्नेतुम् । अतत्स्वाभाव्यात् । न चापि षष्ठः स्कन्धो वक्तुं शक्यते । कुतः । अर्थायोगात् । अतीताद्यर्थयोगादित्यर्थः । ननु च बहुत्वादसंस्कृतानामसंस्कृतस्कन्धोऽन्यो योक्ष्यते । किमतीताद्यर्थेनेति । एतच्चायुक्तमसंस्कृतानां देशसंनिकर्षाभावेनाभिसंक्षेपायोगात् । संक्लेशवस्तुज्ञापनार्थमिति विस्तरः । न संक्लेशवस्त्वनास्रवत्वात् । न व्यवदानवस्त्वसंस्कृतत्वात् । व्यवदानहेतुर्हि व्यवदानवस्त्वित्यभिप्रायः । अथ वा रूपस्कन्ध इत्युक्ते यावद्विज्ञानस्कन्ध इत्युक्ते संक्लेशवस्तु व्यवदानवस्तु च रूपस्कन्धो यावद्विज्ञानस्कन्ध इति विज्ञायते । न त्वसंस्कृतस्कन्ध इत्युक्ते संक्लेशव्यवदानवस्तु विज्ञायत इति न संभवति असंस्कृतस्कन्ध इति । तेषां धात्वायतनेष्वप्येष प्रसंग इति । तेषामेवंवादिनां यथा घटोपरमो न घटः । एवं धातूपरमो न धातुः । आयतनोपरमो नायतनमिति धर्मधात्वायतनयोरप्यसंस्कृतं न व्यवस्थापितं स्यात् । सर्वधर्मसंग्रहश्च धात्वायतनेष्वभिप्रेत इत्ययुक्तमेतत् । (इ ।२२ द्) उक्तः स्कन्धानाम् [तिब् । ४५ ] अन्यः प्रकारः । क्रमः पुनर् इत्यन्यप्रकारवचनापेक्षाः पुनःशब्दोपन्यास इति दर्शयति । सर्वौदारिकमिति । सर्वेभ्यो वेदनादिभ्य औदारिकं रूपं । सनिदर्शनसप्रतिघत्वादियोगात् । अरूपिणां वेदनादीनां । निर्धारणे षष्ठी । वेदना औदारिकी प्रचारौदारिकतया समुदाचारौदारिकतयेत्यर्थः । द्वाभ्यां संस्कारविज्ञानाभ्यां । औदारिकी संज्ञा । निमित्तपरिच्छेदेन सुज्ञातत्वात् । विज्ञानात्संस्कार औदारिकः सुखी स्यां न दुःखी स्यामित्यभिसंस्कारलक्षणत्वात् । विज्ञानं तु सर्वसूक्ष्ममुपलब्धिमात्रलक्षणत्वात् । यथौदारिकं च विनेयानामर्थप्रतिपादनं न्याय्यमिति एवं स्कन्धानुक्रमः । ते च वेदनास्वादगर्धात् । ते च स्त्रीपुरुषा वेदनास्वादसक्तेरन्योन्यं रूपाभिरामा भवन्ति । तद्गर्ध इति । वेदनागर्धः । संज्ञाविपर्यासादिति । नित्यादिकान्निमित्तोद्ग्रहणात् । (अभिधर्मकोषव्याख्या ५०) सुखापि हि वेदना संस्कारविपरिणामदुःखतया दुःखा । भाजनभोजनमिति विस्तरः । रूपं भाजनभूतं वेदनाश्रयत्वात् । वेदना भोजनभूता आस्वाद्यत्वात् । संज्ञा व्यंजनभूता वेदनां तन्निमित्तोद्ग्रहणेन व्यंजयतीति कृत्वा । संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यंजनभूता सम्ज्ञा । चेतना पक्तृभूता विपाकवेदनामभिसंस्कृत्य उपनयनात् । [तिब् । ४५ ] विज्ञानं भोक्तृभूतं तदनुग्रहादिति । भाजनाद्यर्थेन वानुक्रमः । धातुतो वेति विस्तरः । कामगुणा एव रूपाणि । तैः प्रभावितः प्रकर्षितः कामधातुः । वेदनाप्रभावितानि ध्यानानि । सौमनस्यसुखेन्द्रियप्रभावितं प्रथमं ध्यानं । सौमनस्येन्द्रियप्रभावितं द्वितीयं । सुखेन्द्रियप्रभावितं तृतीयं । उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानं । संज्ञाप्रभावितास्त्रय आरूप्याः । आकाशसंज्ञाप्रभावितमाकाशानंत्यायतनं । विज्ञानसंज्ञाप्रभावितं विज्ञानानंत्यायतनं । आकिंचन्यसंज्ञाप्रभावितमाकिंचन्यायतनं । संस्कारमात्रप्रभावितं भवाग्रं । तत्र हि चेतना अशीतिं कल्पसहस्राण्यायुराक्षिपति । विज्ञानं कस्मात्सर्वेषां पश्चादुक्तमित्यत आह एता विज्ञानस्थितय इति विस्तरः । चतस्रो विज्ञानस्थितयः । रूपोपगा विज्ञानस्थितिः कामधातुः । वेदनोपगा चत्वारि ध्यानानि । संज्ञोपगा त्रय आरूप्याः । संस्कारोपगा भवाग्रं । तासु चतसृषु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानं तदाश्रितत्वात्सर्वपश्चादुक्तं । इत्येवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम उक्तो भवति । अत एव च पंच स्कन्धा नाल्पीयांसो न भूयांस इति । यथौदारिकादिभिः कारणैर्नाल्पीयांसो न भूयांस इत्यर्थः । (इ ।२३) पंच वर्तमानविषयत्वात्पूर्वमुक्तानीति । यानि [तिब् । ४६ ] वर्तमानविषयानि । तानि परिस्फुटविषयाणि । परिस्फुटविषयाणि च सुगमानीति पूर्वमुक्तानि । वर्तमानविषयाणि च पूर्ववृत्तीनि भवन्त्येवं च पूर्वमुक्तानि । मनस्त्वनियतविषयमित्याकुलविषयित्वातसुगमं । पश्चाद्वृत्ति च प्रायेण । कथमित्याह । किंचिद्वर्तमानविषयं किंचिद्यावत्त्र्यध्वानध्वविषयमिति । यावच्छब्देन किंचिदतीतविषयं किंचिदनागतविषयं किंचित्त्र्यध्वविषयं । सर्वधर्मा अनात्मान इति यथा । किंचिदनध्वविषयमसंस्कृतविषयमित्यर्थः । एवमनियतविषयं मनः । तथा च न तत्सुगममिति पश्चादुक्तं । सुगमं हि लोके पूर्वमुपदिश्यमानं दृश्यते । भौतिकार्थाच्चतुष्टयम् इति चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयं । तस्मात् । तत्कायात्पूर्वमुक्तं । कायस्य त्वनियतो विषयः । कदाचिद्भूतानि कदाचिद्भौतिकं (अभिधर्मकोषव्याख्या ५१) यदि व्यवच्छेदग्रहणं । कदाचिदुभयं यद्यव्यवच्छेदग्रहणं । शेषं पुनरितरस्माद्यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तमिति । शेषं चक्षुरादि । तदितरस्मात्संभवतो दूराशुतरवृत्त्या दूरवृत्त्या दूरतरवृत्त्या आशुतरवृत्त्येति विभज्य द्वयं द्वयात् । एकं चैकस्मात्पुनरेकं चैकस्मादिति योज्यमित्यर्थः । कथमित्याह । चक्षुःश्रोत्रं हि दूरविषयं तत्पूर्वमुक्तं द्वयात्घ्राणजिह्वातः । तयोरपि चक्षुःश्रोत्रयोः [तिब् । ४६ ] चक्षुषो दूरतरे वृत्तिः । पश्यतोऽपि दूरान्नदीं तच्छब्दाश्रवणात् । अतस्तत्पूर्वमुक्तमिति वर्तते । चक्षुः श्रोत्रात्पूर्वमुक्तं । तयोराशुतरवृत्तित्वादिति । तयोर्घ्राणजिह्वयोर्घ्राणं पूर्वमुक्तं जिह्वायाः । कथमित्याह । अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणादिति । इदमिह विचार्यते । घ्राणजिह्वे प्राप्तविषयग्राहिण्यौ । कथं । भोज्यस्थो गन्धः तेन घ्राणेन गृहते । न त्वभोज्यस्थो गृह्यते । वायोस्तु गन्धान्तरमुद्भवति भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते । निरुछ्वासस्य गन्धाग्रहणात् । न तर्हीदं वक्तव्यं । अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणादिति । यत्तत्पिण्डरूपं भोज्यं । तज्जिह्वामप्राप्तमित्यभिसंधायवचणाददोषः । एवं ह्याशुतरवृत्ति घ्राणं यद्भोज्यावयवसहागतमपि गन्धं जिघ्रति । जिह्वा तु भोज्यावयवसहागतं रसं नास्वादयति । पिण्डभोज्यसहागतमेव तु रसमास्वादयतीति न साशुतरवृत्तिरित्यवगन्तव्यं । (इ ।२४) कथं विशेषणार्थमिति प्रतिपादयन्नाह । यथा गम्येत प्रत्येकमिति विस्तरः । यथा विज्ञायेत एकैकश एषां दशानामायतनत्वं चक्षुरादीनां पंचानां विषयित्वेन । रूपादीनां च पंचानां विषयत्वेन व्यवस्थानात् । न समस्तानामायतनत्वं रूपायतनमित्येकमेवेति । तथा च परस्परतो विशेषणं न स्यात् । यदि विशेषणार्थं नामन्तराण्युच्यन्ते नवानां चक्षुरायतनस्य यावत्कायायतनस्य शब्दायतनस्य यावत्स्प्रष्टव्यायतनस्येति । रूपायतनस्यापि कस्मान्नामन्तरं नोच्यते । [तिब् । ४७ ] अत आह । चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुर्संज्ञकं रूपं च । तद्रूपायतनं ज्ञास्यत इत्यस्य नामान्तरं नोच्यते । तद्यथा सर्वासु गोष्वंकितासु या गौर्नांकिता । तस्या अनंकनमेवांकनं भवति । तद्वत् । प्राधान्यादिति त्रिभिः कारणै रूपायतनस्य प्राधान्यं । पान्यादिसंस्पर्शैर्बाधनालक्षणाद्रूपणात् । इदमिहामुत्रेति देशनिदर्शनरूपणात् । इदमेव रूपमिति लोकप्रतीतत्वाच्च । विशेषणार्थमेवैकं धर्मायतनमुक्तमिति । कथं विशेषणार्थं । यथा गम्येत प्रत्येकमेषां द्वादशानामायतनत्वं विषयिविषयत्वेन व्यवस्थानात्(अभिधर्मकोषव्याख्या ५२) न समस्तानामिति । चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं धर्मश्च । तद्धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते । वेदनादीनामित्यादिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृतानां ग्रहणं । विंशतिप्रकारत्वेनेति । रूपं द्विधा विंशतिधेति वचनात् । चक्षुस्त्रयगोचरत्वाच्च । मांसचक्षुरस्मदादीनां । दिव्यं चक्षुर्देवानां । आर्यं प्रज्ञाचक्षुरार्याणामनास्रवं ज्ञानं सत्यचतुष्टयालम्बनं । अतो रूपमेव चक्षुस्त्रयगोचरं । न चक्षुरादयः । तस्मात् । तदेव रूपायतनमुक्तं नान्यानि । (इ ।२५) येषां वाक्स्वभावं बुद्धवचनमिति । येषां सौत्रान्तिकानां [तिब् । ४७ ] वाग्विज्ञप्तिस्वभावं । तेषां तानि रूपस्कन्धसंगृहीतानि । शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात् । येषां नामस्वभावमिति । येषां निकायान्तरीयाणां चित्तविप्रयुक्तं नामास्ति । तेषां संस्कारस्कन्धेन संगृहीतानि । संस्कारस्कन्धसंगृहीतत्वान्नाम्नः । आभिधार्मिकाणां तूभयस्वभावं बुद्धवचनमिष्टं । तथा हि ज्ञानप्रस्थान उक्तं । कतमद्बुद्धवचनं । तथागतस्य या वाग्वचनं व्याहारो गीर्निरुक्तिर्वाक्पथो वाग्घोशो वाक्कर्म वाग्विज्ञप्तिः । बुद्धवचनं कुशलं वक्तव्यं । अव्याकृतं वक्तव्यं । स्यात्कुशलं । स्यादव्याकृतं । कतरत्कुशलं । कुशलचित्तस्य तथागतस्य वाचं भाषमाणस्य या वाग्यावद्वाग्विज्ञप्तिः । कतरदव्याकृतं । अव्याकृतचित्तस्य तथागतस्येति पूर्ववत् । पुनस्तत्रैवानन्तरमुक्तं बुद्धवचनं नाम क एष धर्मः । नामकायपदकायव्यंजनकायानां या अनुपूर्वरचना अनुपूर्वस्थापना अनुपूर्वसमायोग इति । तेषामाभिधार्मिकाणां रूपस्कन्धेन संस्कारस्कन्धेन च तान्यशीतिधर्मस्कन्धसहस्राणि संगृहीतानि । सातिरेकाणि मे अशीतिधर्मस्कन्धसहस्राणि भगवतोऽन्तिकात्संमुखमुद्गृहीतानीति सूत्रवचनं । चतुरशीतिधर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः । (इ ।२६) शास्त्रप्रमाण इत्येक इति । शास्त्रस्य प्रमाणं शास्त्रप्रमाणं । शास्त्रप्रमाणं [तिब् । ४८ ] प्रमाणमस्य । सोऽयं धर्मस्कन्धः । शास्त्रप्रमाण इत्येके तावदाहुः । तच्च षट्सहस्राणीति । तच्च शास्त्रं हर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति । तानि त्वशीतिधर्मस्कन्धसहस्राण्यन्तर्हितानि । एकं त्वेतदवशिष्यत इति कथयन्ति । स्कन्धादीनां कथैकशः । (अभिधर्मकोषव्याख्या ५३) अपर आहुरिति वाक्याध्याहारः । स्कन्धादीनामेकैका कथा धर्मस्कन्धः । ते च धर्मस्कन्धा अशीतिसहस्रसंख्या व्याख्यायंते । प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते । प्रणिधिज्ञानारणादीनामित्यादिग्रहणेन संग्रहवस्तुकर्मपथाशुभानपानस्मृत्यादीनि गृह्यन्ते । चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णित इति तुशब्दः पूर्वोक्तपक्षनिराकरणर्थोऽवधारणार्थो वा । रागद्वेषमोहमानादिचरितभेदेनेति । आदिशब्देन दृष्टिविचिकित्सादीनां ग्रहणं । केचित्सत्त्वा रागचरिताः । केचिद्द्वेषचरिताः । केचिन्मोहचरिताः । केचिन्मानचरिताः । केचिद्दृष्टिचरिताः । केचिद्विचिकित्साचरिताः । केचिद्रागद्वेषचरिताः । केचिद्रागद्वेषमोहचरिताः । केचिद्रागाशया द्वेषप्रयोगाः । केचिद्द्वेशाशया रागप्रयोगाः । केचित्कृत्रिमरागा निगृह्यद्वेषाः । केचित्कृत्रिमद्वेषा निगृह्यरागा इति । तेषां प्रतिपक्षेण भगवता तान्युक्तानीति । (इ ।२७) येऽप्यन्ये स्कन्धायतनधातव इति विस्तरः । [तिब् । ४८ ] येऽपि स्कन्धायतनधातवः । तेऽप्येष्वेव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्याः । स्वंस्वं स्वभावमेषां यथा व्यवस्थापितमस्मिन् शास्त्रे विमृष्य स्कन्धाः स्कन्धेषु प्रतिपादयितव्या आयतनान्यायतनेषु धातवो धातुषु । शीलस्कन्धो रूपस्कन्धसंगृहीत इति । कायवाग्विरतिरूपस्वभावत्वात्शीलस्कन्धस्य । शेषाः संस्कारस्कन्धेनेति । समाध्यादीनां चैतसिकत्वात् । विमुक्तिरिहाधिमोक्षोऽभिप्रेतः । विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति । अष्टावलोभस्वभावत्वात्धर्मायतनेनेति । कतमान्यष्टौ । पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि । तानि च अलोभस्वभावानि अपदेक्ष्यन्ते अलोभोऽष्टाव् इति । अलोभश्च धर्मायतनेऽन्तर्भवति । तेन तत्संग्रहः । सपरिवाराणि तु पंचस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्यां । किं । संगृहीतानि । तस्यालोभस्य परिवारोऽनुपरिवर्तिरूपं रूपस्कन्धो वेदनासंज्ञे वेदनासंज्ञास्कन्धौ चेतनादयः संप्रयुक्ता जात्यादयश्च विप्रयुक्ताः संस्कारस्कन्धः । विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पंचस्कन्धस्वभावानि तानि भवन्ति । नवमदशमे त्वाकाशानंत्यायतनविज्ञानानन्त्यायतनकृत्स्ने पश्चाद्वक्ष्येते । [तिब् । ४९ ] तथाभिभ्वायतनानीति तान्यलोभस्वभावत्वात्धर्मायतनेन । सपरिवाराणि तु पंचस्वभावत्वान्मनोधर्मायतनेन पूर्ववत्व्याख्यातव्यानि । आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि । आकाशविज्ञानाकिंचन्यनैवसंज्ञानासंज्ञायतनानि चतुःस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्यां संगृहीतानि । न हि तत्र रूपस्कन्धोऽस्ति । पंच विमुक्त्यायतनानीति विस्तरः । (अभिधर्मकोषव्याख्या ५४) सूत्र उक्तं । पंचेमानि विमुक्त्यायतनानि । कतमानि इह भिक्षो शास्ता धर्मं देशयति । अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी । यथायथास्य शास्ता अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति । तथातथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवति धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश्चोत्पद्यते प्रामोद्यं । प्रमुदितस्य प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखितस्य चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति । यथाभूतं प्रजानन् यथाभूतं पश्यन्निर्विद्यते । निर्विण्णो विरज्यते । विरक्तो विमुच्यते । [तिब् । ४९ ] इदं प्रथमं विमुक्त्यायतनं । यत्र स्थितस्य भिक्षोर्वा भिक्षुण्या वा अनुपस्थिता स्मृतिरुपतिष्ठते । असमाहितं चित्तं समाधीयते । अपरिक्षीणाश्चास्रवाः परिक्षीयन्ते । अननुप्राप्तं चानुत्तरं योगक्षेमं निर्वाणमनुप्राप्नोति । पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयत्यन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी । अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति । यथायथा तान् यथाश्रुतान् यथोपदिष्टान् यथापर्यवाप्तां विस्तरेण स्वरेण स्वाध्यायं करोति । तथातथा तेषु अर्थप्रतिसंवेदी भवति पूर्ववत् । इदं द्वितीयं विमुक्त्यायतनं । यत्र स्थितस्येति पूर्ववत् । पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी । नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वाध्यायं करोति । अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति । यथायथा यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति । तथातथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवतीति पूर्ववत् । इदं तृतीयं विमुक्त्यायतनं । यत्र स्थितस्येति पूर्ववत् । पुनरपरं न हैव भिक्षो शास्ता पूर्ववत् । नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति । अपि तु यथाश्रुतान् यावद्यथापर्यवाप्तान् चिन्तयति तुलयति उपपरीक्षते । [तिब् । ५० ] यथायथा यथाश्रुतान् यावद्यथापर्यवाप्तान् चिन्तयति यावदुपपरीक्षते । तथातथा तेषु धर्मेष्वर्थप्रतिसंवेदी पूर्ववत् । इदं चतुर्थं विमुक्त्यायतनं । यत्र स्थितस्येति पूर्ववत् । पुनरपरं न हैव भिक्षो शास्तेति पूर्ववत् । नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति नापि चिन्तयति । अपि त्वनेनान्यतमं भद्रकं समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं सुप्रतिविद्धं । तद्यथा विनीलकं (अभिधर्मकोषव्याख्या ५५) वा विपूयकं वा व्याध्मातकं वा विपटुमकं वा विलोहितकं वा विखादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा । यथायथा खल्वनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववत्यावत्सुप्रतिविद्धम् । तथातथा तेषु धर्मेष्वर्थप्रतिवेदी भवति पूर्ववत् । इदं पंचमं विमुक्त्यायतनं । यत्र स्थितस्येति पूर्ववत् । विमुक्तेरायद्वारं प्रज्ञाविशेषः । प्रज्ञा च धर्मायतनेन संगृहीता । सपरिवाराणि शब्दमनोधर्मायतनैः । देशनास्वाध्यायपरसंप्रकाशनेषु शब्दग्रहणाच्छब्दायतनमस्ति । मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे इति त्रिभिः संग्रहः । द्वयोरायतनयोरिति । सूत्र उक्तं । रूपिणः सन्ति सत्त्वा [तिब् । ५० ] असंज्ञिनः अप्रतिसंज्ञिनः । तद्यथा देवा असंज्ञिसत्त्वाः । इदं प्रथममायतनं । अरूपिणः सन्ति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरन्ति । तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः । इदं द्वितीयमायतनमिति । अनयोर्द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैः संगृहीताः । गन्धरसायतनयोरेव तत्राभावात् । भवति हि च्युत्युपपत्तिकालयोस्तेषां मनआयतनमिति । नैवसंज्ञानसंज्ञायतनोपगा मनोधर्मायतनाभ्यां संगृहीता इत्यधिकृतं । तेषामरूपित्वात् । बहुधातुकेऽपि द्वाषष्टिर्धातव इति । सूत्र उक्तं । आयुष्मानानन्दो भगवन्तमेतदवोचत् । कियता भदन्त पण्डितो धातुकुशलो भवति । भगवानाह । पण्डित आनन्द अष्टादश धातूञ्जानाति पश्यति यथाभूतं । चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुं । एवं यावन्मनोधातुं धर्मधातुं मनोविज्ञानधातुमिति । इतीमानानन्दाष्टादश धातूञ्जानाति पश्यति यथाभूतं । षडपि धातूं जानाति पश्यति यथाभूतं । पृथिवीधातुमब्धातुं तेजोधातुं वायुधातुमाकाशधातुं विज्ञानधातुमिति । अपरानपि षड्धातूं जानाति पश्यति यथाभूतं । कामधातुं व्यापादधातुं [तिब् । ५१ ] विहिंसाधातुं नैष्क्रम्यधातुमव्यापादधातुमविहिंसाधातुमिति । अपरानपि षड्धातूञ्जानाति पश्यति यथाभूतं । सुखधातुं दुःखधातुं सौमनस्यधातुं दौर्मनस्यधातुमुपेक्षाधातुमविद्याधातुमिति । चतुरोऽपि धातूञ्जानाति पश्यति यथाभूतं । वेदनाधातुं संज्ञाधातुं संस्कारधातुं विज्ञानधातुमिति । त्रीण्यपि धातूं जानाति पश्यति यथाभूतं । कामधातुं रूपधातुमारूप्यधातुमिति । अपरानपि त्रीन् धातूं जानाति पश्यति यथाभूतं । रूपधातुमारूप्यधातुं निरोधधातुमिति । अपरानपि त्रीन् धातूं जानाति पश्यति यथाभूतं । अतीतं (अभिधर्मकोषव्याख्या ५६) धातुमनागतं धातुं प्रत्युत्पन्नं धातुं । अपरानपि त्रीन् धातूं जानाति पश्यति यथाभूतं । हीनं धातुं मध्यमं धातुं प्रणीतं धातुमिति । अपरानपि त्रीन् धातूं जानाति पश्यति यथाभूतं । कुशलं धातुमकुशलमव्याकृतं धातुमिति । अपरानपि त्रीन् धातूं जानाति पश्यति यथाभूतं । शैक्षं धातुमशैक्षं धातुं नैवशैक्षंनाशैक्षं धातुमिति । द्वावपि धातू जानाति पश्यति यथाभूतं । सास्रवं [तिब् । ५१ ] धातुमनास्रवं धातुमिति । अपरावपि द्वौ धातू जानाति पश्यति यथाभूतं संस्कृतं धातुमसंस्कृतं धातुमिति । इमौ द्वौ धातू जानाति पश्यति यथाभूतं । इयता चानन्द पण्डितो धातुकुशलो भवतीति । इतीमान्यत्राभिसंबन्धीनि वाक्यानि प्रत्येकं मध्येऽपि पठितव्यानि । विस्तरभयात्तु मया न लिखितानीति बोधव्यं । यथायोगं संग्रहो वेदितव्य इति । अष्टादश तावद्धातवस्त एव त इति । एभिस्ते संगृहीता एवाष्टादशसु धातुषु । यत्र पृथिवीधात्वादयः षट् । तेषामाद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रहः । आकाशधातो रूपधातावालोकतमस्स्वभावत्वात् । विज्ञानधातोः सप्तसु चित्तधातुषु संग्रहः । कामधात्वादीनां तु षण्णां कामधातुः कामराग इहाभिप्रेतः । स च चैतसिकः । व्यापादधात्वादयोऽपि चैतसिका एवेति । तेषां धर्मधातुसंग्रहः । सुखधात्वादीनामपि षण्णां तस्मिन्नेव संग्रहः । वेदनाधात्वादीनां चतुर्णां त्रयाणां धर्मधातौ । विज्ञानधातोः सप्तसु विज्ञानधातुषु । कामधात्वादीनां त्रयाणां कामधातोः अष्टादशसु धातुषु । रूपधातोश्चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः । आरूप्यधातोर्मनोधर्ममनोविज्ञानधातुषु । रूपधात्वादीनां तु त्रयाणां द्वयोरुक्तः संग्रहः । निरोधधातोर्धर्मधातौ [तिब् । ५२ ] । अतीतधात्वादीनां त्रयाणां प्रत्येकमष्टादशसु धातुषु संग्रहः । हीनादयस्त्रयो धातवः कामधात्वादय एवेति एषामुक्तः संग्रहः । कुशलादीनां त्रयाणां कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्तधातुषु । अव्याकृतधातोरष्टादशसु धातुषु । शैक्षाशैक्षधात्वादीनां त्रयाणां द्वयोर्मनोधर्ममनोविज्ञानधातुषु । तृतीयस्याष्टादशधातुषु । सास्रवानास्रवधात्वोः आद्यस्याष्टादशसु धातुषु । द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु । संस्कृतासंस्कृतधात्वोराद्यस्याष्टादशसु धातुषु । द्वितीयस्य धर्मधातौ संग्रहः । त एते द्वाषष्टिर्धातवः । (इ ।२८) य इमे तत्रेति बहुधातुके । एतेषां द्वयोर्लक्षणमनुक्तमिति । (अभिधर्मकोषव्याख्या ५७) पृथिवीधात्वादीनामुक्तं लक्षणममी धृत्यादिकर्मसंसिद्धाः । खरस्नेहोष्णतेरणा इति । ननु च विज्ञानधातोरप्युक्तं लक्षणं । विज्ञानं प्रतिविज्ञप्तिर् इति वचनात् । सत्यमुक्तं सर्वेषां विज्ञानानां लक्षणं । विज्ञानधातुस्तु किमिह किंचिदेव विज्ञानमित्यभिप्रेतं । उताहो सर्वमिति न विवेचितम् । असंस्कृतं चाकाशमुक्तलक्षणं । न त्वाकाशधातुः । अवश्यं ह्ययम् [तिब् । ५२ ] अन्य आकाशात् । तथा हि षड्धातुरयं भिक्षो पुरुष इति सूत्रान्तरमुक्तम् । इत्यनया बुद्ध्याभिहितं द्वयोर्लक्षणमनुक्तमिति । अत एवाह । तत्किमाकाशमेवाकाशधातुर्वेदितव्यः । सर्वं च विज्ञानं विज्ञानधातुरिति । मुखनासिकादिष्वित्यादिशब्देन श्रोत्रादीनां ग्रहणं । आलोकतमसी किलेति । किलशब्दः परमतद्योतनार्थः । स्वमतं तु सप्रतिघद्रव्याभावमात्रमाकाशमिति अभिप्रायो लक्ष्यते । रात्रिंदिवस्वभाव इति । रात्रिवर्तिनस्तमसो भास्करातपलक्ष्यस्य चालोकस्याभिप्रेतत्वात् । बाहुलिको वायं निर्देशः । अघं किल चितस्थं रूपमिति । चितस्थं संघातस्थं । अत्यर्थं हन्ति हन्यते चेति अघं नैरुक्तेन विधिना । अत्यर्थशब्दस्य अकारादेशः कृतो हन्तेश्च घादेशः । तस्य तट्सामन्तकमिति । तस्याघस्य कुड्यादिकस्य सामन्तकं समीपस्थं । तदपेक्ष्य व्यवस्थापितमित्यर्थः । अत्रापि व्याख्याने किलशब्दो वैभाषिकव्याख्यानप्रदर्शानार्थः । स्वमतं तु यत्तत्पश्चादुच्यते । तदाह । अघं च तत् । अन्यस्य रूपस्य तत्राप्रतिघातान्न प्रतिहन्यतेऽन्यद्रूपमस्मिन्निति कृत्वा । सामन्तकं चान्यस्य रूपस्येति चितस्थस्य । अस्मिन् पक्षे कर्मधारयः समासः । अघं च तत्सामन्तकं च तदिति अघसामन्तकं । विज्ञानं सास्रवम् [तिब् । ५३ ] इति । जन्मनो हेतोर्विज्ञानस्याभिप्रेतत्वात् । कुत इति चेत् । अत आह । यस्मादिमे षड्धातव इष्टा । जन्मनिश्रयाः । षड्धातुरयं भिक्षो पुरुष इति । षट्खलु धातून् प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिरिति वचनात् । एते हि जन्मन इति विस्तरः । एते हि जन्मनो जनकपोषकसंवर्धकत्वादाधारभूताः । जनको ह्यत्र विज्ञानधातुः प्रतिसंधिबीजत्वात् । पोषकानि भूतानि तत्संनिश्रयभावात् । संवर्धक (अभिधर्मकोषव्याख्या ५८) आकाशधातुरवकाशदानात् । अत एवैषां धातुत्ववचनं । प्रतिसंधिं दधत इति धातवः । अनास्रवास्तु धर्मा नैवमिति । न जन्मनिश्रया जन्मनिरोधित्वात् । (इ ।२९) सनिदर्शन एकोऽत्र रूपम् इति । किमिदं निदर्शनं नाम । येन विशेषेण योगात्तद्वस्तु तथा निदर्शयितुं शक्यते । स विशेषो निदर्शनमित्युच्यते । वचनेन परस्य चक्षुर्विज्ञानामुत्पन्नं वा निदर्शनं । तेन सह वर्तते सनिदर्शन एको रूपधातुरत्राष्टादशसु धातुषु । रूपधातुरेवैकः सनिदर्शन इत्यवधारणादुक्तं भवति । अनिदर्शनाः शेषा इति । अनेन चास्य सनिदर्शनत्वेन प्राधान्यमुक्तमिति । न पुनरुक्तदोषप्रसंग इति तत्सिद्धेः । एते च सनिदर्शनत्वादयः प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते । [तिब् । ५३ ] तथा हि सूत्र उक्तं । चक्षुर्भिक्षो आध्यात्मिकमायतनं । चत्वारि महाभूतान्युपादाय रूपप्रसादः रूप्यनिदर्शनं सप्रतिघं । यावत्कायो भिक्षो आध्यात्मिकमायतनं पूर्ववत् । मनो भिक्षो आध्यात्मिकमायतनमरूप्यनिदर्शनमप्रतिघं । रूपाणि भिक्षो बाह्यमायतनं । चत्वारि महाभूतान्युपादाय रूपि सनिदर्शनं सप्रतिघं । शब्दा हि भिक्षो बाह्यमायतनं । चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघं । यावत्स्प्रष्टव्यानि भिक्षो बाह्यमायतनं । चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघं । धर्मा भिक्षो बाह्यमायतनं । एकादशभिरायतनैरसंगृहीतमरूप्यनिदर्शनमप्रतिघमिति । एते च प्रभेदा धातूनामेव आ प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते । रूपविज्ञानविभागत्वात् । सप्रतिघा दश रूपिण इति । रूपिग्रहणमरूपिनिरासार्थं । रूपणं रूपं । तदेषामस्तीति रूपिणः । दशेति चक्षुर्धात्वादयः पंच तद्विषयधातवश्च पंच चेति । धर्मधातोर्निरासः कथं कृतः । स चापि हि रूपीति शक्यते वक्तुं । तत्राविज्ञप्तिरूपसद्भावात् । रूपिण एवेत्यवधारणात्तन्निरासः कृतो भवति । ये हि धातवो रूपिस्वभावा एव ते ग्रहीतव्याः । धर्मधातुस्तु रूप्यरूपिस्वभाव [तिब् । ५४ ] इति । स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति विस्तरः । यत्रैकं सप्रतिघं वस्तु । तत्र द्वितीयस्योत्पत्तिर्न भवति । यथा हस्तो हस्तेऽभ्याहतः प्रतिहन्यते । उपले वा । हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते । उपलोऽपि । तयोर्हस्तोपलयोः स्थाने उपलोऽपि नोत्पद्यते । जले प्रतिहन्यत इति । जले स्वविषये प्रवर्तत इत्यर्थः । प्रायेण मनुष्याणाम् (अभिधर्मकोषव्याख्या ५९) इति प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थं । अस्ति नोभयत्रेति । गर्भे नियतमृत्यूनां । एतानाकारानिति । एतां प्रकारानित्यर्थः । तितीला जतुन्यः । मार्जारादीनामित्यादिग्रहणेन चौरमनुष्यादीनां व्याघ्रादीनां च ग्रहणं । यस्मिं यस्य कारित्रं । स तस्य विषय इति । कारित्रं पुरुषकारः । चक्षुःश्रोत्रादीनां रूपशब्दादिष्वालोचनश्रवणादिकारित्रं । तच्च स्वचित्तचैत्तान् प्रत्याश्रयभावविशेषलक्षणं वेदितव्यं । यच्चित्तचैत्तैर्गृह्यते दण्डावष्टम्भनयोगेन । तदालम्बनं रूपादि । तदेवं सति चित्तचैत्तानामेवालम्बनं । विषयः पुनश्चक्षुरादीनामपि न केवलं चित्तचैत्तानां । तस्मात्परेणाप्रवृत्तेरिति । यो हि लोके यतः परेण न प्रवर्तते । स तत्र प्रतिहन्यते काष्ठे कुड्ये वा । तथा चक्षुरादि विषयात्परेण न कारित्रं करोति । विषय एव तु करोति तस्मात्तत्र प्रतिहन्यत इत्युच्यते । [तिब् । ५४ ] निपातो वात्र प्रतिघात इति विस्तरः । अत्र विषये निपतनं निपातः । या स्वविषये प्रवृत्तिः । कारित्रमित्यर्थः । तदिहावरणप्रतिघातेनेति विस्तरः । सप्रतिघा दशेत्य् अत्रावरणप्रतिघातेन ते दश धातवः सप्रतिघा अभिप्रेताः । तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानामपि सप्रतिघत्वप्रसंगात्चतुष्कोटिकः प्रश्नश्चतुष्कोणश्चतुःप्रकार इत्यर्थः । पश्चात्पादक इति । यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः । यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः । विषयप्रतिघातेनापि त इति चित्तचैत्ताः । ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः । पंचेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघान्यनालम्बनत्वात् । यत्रोत्पित्सोर्मनस इति विस्तरः । यत्राश्रये आलम्बने च उत्पत्तुकामस्य मनसः । प्रतिघातो ऽनुत्पत्तिः शक्यते परैः कर्तुम् अन्तरावरणेन । तदेव सप्रतिघं । तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात् । स्वदेशे परस्योत्पत्तिप्रतिबन्धनलक्षणेन प्रतिघातेन सप्रतिघत्वादित्यपरे । किं पुनस्तत् । पंचेन्द्रियपंचविषयधातुस्वभावं । विपर्ययातप्रतिघमिष्टं । (अभिधर्मकोषव्याख्या ६०) यत्रोत्पित्सोर्मनसः प्रतिघातो न शक्यते परैः कर्तुं यथा मनोधातोर्धर्मधातोश्च मनोविज्ञानोत्पत्तौ [तिब् । ५५ ] अन्तरावरणं न शक्यते परैः कर्तुं । अतः सप्तचित्तधातुधर्मधर्मधातुस्वभावमप्रतिघमिति सिद्धं । अव्याकृता अष्टाव् इति । अव्याकृता एवाष्टावित्यवधारणं । कुशलाकुशलभावेनाव्याकरणातव्याकृताः । ये कुशलाकुशलव्यतिरिक्ताः । त एवाव्याकृता इहाभिप्रेताः । न तु कुशलाः अकुशलाव्याकृताव्याकरणात् । नाप्यकुशलाः कुशलाव्याकृताव्याकरणात् । कुशलाकुशलानां कुशलाकुशलभावेन व्याकृतत्वात् । संकेतरूढ्यपेक्षा हि शब्दप्रवृत्तिः । त्रिधान्य इति । धातव इत्यधिकृतं । त्रैधैवान्ये नैकधा न द्विधेति अवधारणं । अलोभादिसंप्रयुक्ताः कुशला इति विस्तरः । अलोभद्वेषमोहह्र्यपत्रपासंप्रयुक्ताः सप्तचित्तधातवः कुशलाः । लोभद्वेषमोहाह्रीअनपत्राप्यसंप्रयुक्ता अकुशलाः । कुत्सिताच्छलिता गता अपक्रान्ता इति कुशलाः । प्रज्ञा वा कुश इव तीक्ष्णेति कुशः । तं लान्ति आददत इत्य्कुशलः । तद्विपरीता अकुशलाः । अन्ये त्वलोभादिलोभाद्यसंप्रयुक्ता अव्याकृताः । धर्मधातुरिति विस्तरः । अलोभादिस्वभावो [तिब् । ५५ ] योऽयमुक्तः । अलोभादिसंप्रयुक्तो वेदनादिः । अलोभादिसमुत्थो विप्रयुक्तः । प्रातिजात्यादिः । अविज्ञप्तिश्च । प्रतिसंख्यानिरोधश्चापर इति चतुर्विधः कुशलः । धर्मधातुर्लोभादिस्वभावसंप्रयुक्तसमुत्थोऽकुशलः । अन्योऽव्याकृतो यो नालोभादिस्वभावसंप्रयुक्तसमुत्थः । नापि लोभादिस्वभावसंप्रयुक्तसमुत्थः । आकाशमप्रतिसंख्यानिरोधः । तेषां च यथाशंभवं प्राप्तिजात्यादयः । एषोऽव्याकृतो धर्मधातुः । तदन्यावव्याकृताविति । ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातुभ्यामन्यौ रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञप्त्यसंगृहीतौ चाव्याकृतौ । (इ ।३०) कामधात्वाप्ताः सर्वे इति । कामधात्वाप्ताः सर्व एवेत्यवधार्यते । अष्टादशधातुत्वमात्रसंग्रहात् । न तु प्रत्येकं साकल्यतः । तत आह । रूपे चतुर्दशेति । तयोः कवडीकाराहारत्वादिति । तयोर्गन्धरसयोः । गन्धोऽपि हि कवडीकाराहारः सूक्ष्मः । तत्राभावप्रसंग इति । तत्र रूपधातौ स्प्रष्टव्यधातोरभावप्रसंगः कवडीकाराहारत्वात् । कवडीकार आहारः कामे त्र्यायतमात्मक (अभिधर्मकोषव्याख्या ६१) [तिब् । ५६] इति सिद्धान्तात् । गन्धरसयोरप्येष प्रसंग इति । यौ नाहारस्वभावौ । तौ तत्र स्यातामित्यर्थः । अस्ति तु स्प्रष्टव्यस्येति । किं । परिभोग इन्द्रियाश्रयभावेन आधारभावेन प्रावरणभावेन च । अन्ये पुनराहुरिति भदन्तश्रीलातः । प्रश्रब्धिसहगतेनेति । प्रश्रब्धिसहोत्पन्नेन कायकर्मण्यतासहगतेनेत्यर्थः । अत्राचार्यो भदन्तश्रीलातमतमनादृत्य वैभाषिकमतं सावकाशं दृष्ट्वा विनिश्चयमारभते । एवं तर्हीति विस्तरः । वैभाषिकैरर्थत एतत्प्रतिज्ञातं । न स्तो रूपधातौ गन्धरसौ । निःप्रयोजनत्वात् । स्त्रीपुरुषेन्द्रियविषयवदिति । तं पक्षमाचार्यो दूषयति । दुष्टोऽयं पक्षः । धर्मिविशेषविपर्ययापक्षालत्वात् । रूपधातुगन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहकोऽभिप्रेतः । तस्याविद्यमानस्वग्राहकत्वं प्राप्नोति । यथा हि स्त्रीपुरुषेन्द्रियविषयो निःप्रयोजनत्वेन अविद्यमानस्वग्राहको भवति । तथा गन्धरसाख्योऽपि विषयः प्राप्नोति । स्फुटमप्यनुमानमस्ति । येनैष धर्मिविशेषविपर्ययो व्यज्यते । न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनविषयत्वात् । पुरुषेन्द्रियवदिति । वैभाषिकदेशीयः कश्चित्प्रतिविधत्ते । अस्ति प्रयोजनमिति विस्तरः । ताभ्यां घ्राणजिह्वेन्द्रियाभ्यां [तिब् । ५६ ] विना शरीरशोभैव न स्यात्वाग्विज्ञप्तिश्च । अनेन दृष्टबाधेन प्रसंगं निवर्तयति । अनुमानं ह्यत्र दृष्टं बाधते । किमित्युच्यते । स्तो रूपधातौ घ्राणजिह्वेन्द्रिये । सप्रयोजनत्वात् । चक्षुरिन्द्रियवदिति । आचार्य आह । यद्येतत्प्रयोजनमिति विस्तरः । अधिष्ठानेनैवाश्रयशोभा वचनं च भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोरसिद्धतां दर्शयति । वैभाशिकदेशीय आह । नानिन्द्रियमधिष्ठानमिति विस्तरः । न रूपधातौ संभवत्यनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम् । इन्द्रियाधिष्ठानत्वात् । पुरुषेन्द्रियाधिष्ठानवदिति । एतेन सप्रयोजनत्वस्य सिद्धतां स्थापयति । आचार्य आह । युक्तस्तदसंभव इति विस्तरः । युक्तस्तत्र पुरुषेन्द्रियाधिष्ठानस्यासंभवो निःप्रयोजनत्वात् । घ्राणजिह्वेन्द्रियाधिष्ठानानं त्वाश्रयशोभाभिव्याहार प्रयोजनत्वात्सप्रयोजनं । अतोऽस्य विनापीन्द्रियेण युक्तः संभवः । साधनं तत्रोच्यते । संभवति रूपधातावनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानं । सप्रयोजनत्वात् । चक्षुरिन्द्रियाधिष्ठानवदिति । अनेन तामेव सप्रयोजनत्वस्यासिद्धतां व्यवस्थापयति । एवमत्र सप्रयोजनत्ववादिनि वैभाषिकदेशीये कस्मिंश्चिन्निषिद्धे यदेतदादावुक्तं । एवं तर्हि घ्राणजिह्वेन्द्रिययोरप्यभावप्रसंगः निःप्रयोजनत्वादिति तद्दूषणाभासतां दर्शयन्तो वैभाषिका आहुः । निःप्रयोजनापीति विस्तरः । यथा गर्भे [तिब् । ५७ ] नियतमृत्यूनां निःप्रयोजनाभिनिर्वृत्तिः । (अभिधर्मकोषव्याख्या ६२) न हि तेषां रूपदर्शनादिर्भवति । एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर्निःप्रयोजनापि भविष्यतीति । तेन न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये । निःप्रयोजनत्वात् । पुरुषेन्द्रियवदिति निःप्रयोजनत्वमनैकान्तिकं प्रदर्श्यते । आचार्य आह । स्यान्नाम निःप्रयोजनेति विस्तरः । भवेन्निःप्रयोजनेन्द्रियाभिनिर्वृत्तिः । न तु निर्हेतुका संस्कृतानां सहेतुकत्वात् । यश्च विषयाद्वितृष्णः । स नियतमिन्द्रियादपीति । अनेन हेत्वभावः प्रदर्श्यते । ततश्चैवं साधनमुच्यते । न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये । निर्हेतुकत्वात् । निर्हेतुकांकुरवत्पुरुषेन्द्रियवद्वा । पुरुषेन्द्रियमपि वा किं निर्वर्तत इत्याचार्य एव विकल्पं वाहयति । कोऽभिप्रायः । यदि निःप्रयोजना हेतुमन्तरेणापि वा घ्राणजिह्वेन्द्रिययोरुत्पत्तिः पुरुषेन्द्रियमपि वा न निर्वर्तते । वैभाषिकानां ह्ययं पक्षः । सघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतानः । रूपिप्राणित्वात् । कामावचरसत्त्वसंतानवदिति । आचार्यस्तु पुरुषेन्द्रियमपि किं न निर्वर्तत इत्यनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं दर्शयति । अविद्यमानपुरुषेन्द्रियो रूपधातुसत्त्वसंतानो धर्मी । तस्य विपर्ययो विद्यमानपुरुषेन्द्रियत्वमिति । वैभाषिकाः [तिब् । ५७ ] परिहरंत्यशोभाकरत्वादितिल् । कथमिति । न रूपधातौ पुरुषेन्द्रियमस्ति । अशोभाकरत्वात् । काणकुण्ठत्ववत् । तदनुमानबाधनान्न विपर्येत्यस्माकमेषा प्रतिज्ञा । यदि दृष्टं न बाधत इति नैयायिकसिद्धान्तादित्यभिप्रायः । आचार्य आह । कोशगतवस्तिगुह्यानां किं न शोभते । वस्तौ गुह्यं वस्तिगुह्यं । वस्तिर्येन तत्पुरुषेन्द्रियं वेष्टितं । गुह्यं पुरुषेन्द्रियं । कोशो यत्र तद्वस्तिगुह्यं तिष्ठति । कोशगतं वस्तिगुह्यं । येषां त इमे कोशगतवस्तिगुह्याः । तेषां किं न शोभते शोभत एवेत्यर्थः । अनेनाशोभाकरत्वमसिद्धं दर्शयति । न च प्रयोजनवशादुत्पत्तिरिति विस्तरः । वैभाषिकैरशोभाकरत्वादिति ब्रुवद्भिरर्थापत्त्यैतत्प्रतिज्ञातं भवति । प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियमिति । स च पक्षोऽनुमानबाधितो धर्मिस्वरूपविपर्ययापक्षालत्वात् । कथमिति । उच्यते । न प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियं । स्वकारणोत्पाद्यत्वात् । काणकुण्ठत्ववत् । वैभाषिका आहुः । सूत्रं तर्हि विरुध्यत इति विस्तरः । योऽयमविद्यमानघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतान इति पक्षः । स सापक्षालः । प्राक्पक्षविरोधात् । [तिब् । ५८ ] तथा हि भगवता रूपावचराः सत्त्वा अविकला अहीनेन्द्रिया इति उक्ताः । काणकुण्ठत्वाभावत्वात् । अहीनेन्द्रियाश्चक्षुरादिभिरहीनत्वात् । आचार्य आह । यानि तत्रेति विस्तरः । यानि तत्र रूपधातौ घ्राणेन्द्रियादिरहितानि चक्षुरादीनि तैरहीनेन्द्रिया इति सूत्रार्थपरिग्रहादविरोधः । एवं तु वर्णयन्ति वैभाषिकाः । स्त एवेति विस्तरः । भवत । एव तत्र (अभिधर्मकोषव्याख्या ६३) रूपधातौ घ्राणजिह्वेन्द्रिये न तु गन्धरसौ । आत्मभावमुखेन हि स्वसंतानमुखेन षडायतने चक्षुरादिके तृष्णासमुदाचार्ः प्राणिनां प्रवर्तते । तदभिष्यन्दितं च कर्मेति । सहेतुके रूपधातौ घ्राणजिह्वेन्द्रिये । ततश्च सहेतुकत्वात् । स्त एव ते रूपधातौ । सहेतुकांकुरादिवद् इति । अनेन च न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निर्हेतुकत्वादिति यत्साधनमुक्तं । तदसिद्धमिति प्रतिपादयन्ति । पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेन । किं । तृष्णासमुदाचार इति प्रकृतं । मैथुनस्पर्शवीतरागाश्च रूपावचराः सत्त्वाः । तस्मात्तस्मात्तत्र न तृष्णापूर्वकं कर्म भवति । तस्मादहेतुकत्वात् । तत्र पुरुषेन्द्रियं नास्ति निर्हेतुकांकुरादिवदिति सिद्धं रूपधातौ चतुर्दशैव धातव इति । आरूप्याप्ता इति विस्तरः । मनोधर्ममनोविज्ञानधातव [तिब् । ५८ ] एवारूप्याप्ता इत्यवधारणादन्ये धातवो न सन्तीत्युक्तं भवति । यस्माद्रूपवीतरागानां तत्रोपपत्तिः । अतो दश रूपस्वभावा धातवश्चक्षुरादयः पंच रूपादयश्चापि पंच न सन्ति । तदाश्रयालम्बनाश्च पंच विज्ञानधातवो न सन्तीति । ते चक्षुरादयो रूपादयश्च यथाक्रममाश्रया आलम्बनानि च येषां । त इमे तदाश्रयालम्बनाः । आश्रयाणां चक्षुरादीनामालम्बनानां च रूपादीनामभावात्तेऽपि चक्षुर्विज्ञानादिधातवस्तत्र न सन्ति । (इ ।३१ ब्) सास्रवानास्रवा एते त्रय इति । एत एव त्रयः सास्रवानास्रवा इत्यवधारणं । शेषास्तु सास्रवा इति । किमर्थमिदमुच्यते । नन्वेत एव त्रयः सास्रवानास्रवा इत्यवधारणात् । शेषाः सास्रवा इति सिद्धं । न सिद्धं । कथं । शेषां सास्रवा एवानास्रवा एव वा स्युरित्याशंकाः । तन्निवृत्त्यर्थमिदमुच्यते । शेषाः सास्रवा एवेति । (इ ।३१ द्) सवितर्कविचारा हि पंच विज्ञानधातव इति । सवितर्कसविचारा एवेति हिशब्दोऽवधारणे । अन्त्यास्त्रयस्त्रिप्रकारा इति । अन्त्या एव त्रिप्रकारा इत्यवधारणं । अन्यत्र वितर्कविचाराभ्यामिति । वितर्कविचारौ संप्रयुक्तकधर्मधातुस्वभावौ तयोरत्र ग्रहणप्रसंग इति परिवर्ज्येते । [तिब् । ५९ ] वितर्को हि द्वितीयप्रकारान्तरेऽन्तर्भविष्यति । विचारोऽपि ध्यानान्तरजस्तृतीये प्रकारेऽन्तर्भवति । तदन्यस्तु (अभिधर्मकोषव्याख्या ६४) त्रिष्वपि प्रकारेषु नान्तर्भवतीति वक्ष्यति । ते एते मनोधात्वादयः संप्रयुक्तधर्मधातुपर्यन्ताः कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः वितर्कविचारसंप्रयोगात् । अत एव ध्यानान्तरेऽवितर्का वितर्काभावात् । विचारमात्रा विचारसंप्रयोगात् । अत एव द्वितीयात्प्रभृति यावद्भवाग्रं तयोरभावादवितर्का अविचाराः । सर्वश्चासंप्रयुक्तो धर्मधातुरिति । यथासंभवं त्रैधातुकरूपचित्तविप्रयुक्ता असंस्कृताश्च ध्यानान्तरे च विचारः अवितर्को । वितर्काभावात् । अविचारो द्वितीयविचाराभावात् । विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति । कामधातुप्रथमध्यानभूमिको विचारः प्रथमे तावत्प्रकारे नान्तर्भवति । सवितर्कः सविचार इति । स हि सवितर्कः संभवति न तु सविचारो विचारसंप्रयोगात् । द्वितीयेऽपि नान्तर्भवति । अवितर्को विचारमात्र इति । वितर्कसंप्रयोगात् । द्वितीयविचाराभावाच्च । तृतीयेऽपि नान्तर्भवति । अवितर्कः अविचार इति । स हि यद्यपि अविचारो द्वितीयविचाराभावात् । न त्ववितर्को [तिब् । ५९ ] वितर्कसंप्रयोगात् । स कथं वक्तव्य इत्यत आह । अविचारो वितर्कमात्र इति । द्वितीयविचाराभावातविचारः । वितर्कसंप्रयोगात्वितर्कमात्रः । अत एवेति । यस्मात्सवितर्कसविचाराणां भूमौ विचार एव चतुर्थः प्रकारो भवति । अविचारो वितर्कमात्र इति । शेषा उभयवर्जिता इति । शेसा दश रूपिणो धातव उक्ताः । तेऽवितर्का विचारमात्रा वा अवितर्का अविचाराः स्युरिति आशंकायामवधार्य तदुभयवर्जिता एव शेषा अवितर्का अविचारा एवेत्यर्थः । (इ ।३२) कथमविकल्पका इत्युच्यन्त इति । चक्षुर्विज्ञानसमंगी नीलं विजानाति नोहति नीलमिति वचनात् । त्रिविधः किल विकल्प इति । किलशब्दः परमतद्योतनार्थः । स्वाभिप्रायस्तु चेतनाप्रज्ञाविशेष एव वितर्क इति न स्वभावविकल्पोऽन्यो धर्मोऽस्तीति । तथा ह्यनेन पंचस्कन्धक उक्तं । वितर्कः कतमः । पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता । विचारः कतमः । प्रत्यवेक्षको मनोजल्पस्तथैव या चित्तस्य सूक्ष्मता । अनभ्यूहावस्थायां चेतना अभ्यूहावस्थायां प्रज्ञेति व्यवस्थाप्यते । तदेषां स्वभावविकल्पोऽस्तीति । तदिति वाक्योपन्यासे निपातस्तस्मादर्थे वा । स्वभावेनैव [तिब् । ६० ] विकल्प औदारिकलक्षणत्वात् । स्वभावविकल्पो वितर्कः । स एषां पंचानां विज्ञानकायानां संप्रयोगतोऽस्ति तस्मात्सविकल्पा उक्ताः । नेतरावभिनिरूपणानुस्मरणविकल्पावेषां स्तः । तस्मादविकल्पका उच्यन्ते । यथा एकपादकोऽश्वः अपादक इति । पादत्रये च्छिन्ने एकस्मिन्नपि पादे सत्य्(अभिधर्मकोषव्याख्या ६५) अपादक इत्युच्यते । तद्वदेकविकल्पा अविकल्पका इति । सा ह्यभिनिरूपणाविकल्प इति । सा मानस्यसमाहिता प्रज्ञा श्रुतचिन्तामय्युपपत्तिप्रतिलंभिका च । सा हि मनसि भवा मानसी । व्यग्रा विविधाग्रा व्यग्रा विविधालम्बनेत्यर्थः । विगतप्रधाना वा मुहुर्मुहुरालम्बनान्तराश्रयणात् । व्यग्रा कस्मादभिनिरूपणाविकल्प इत्युच्यते । तत्रतत्रालम्बने नामापेक्षयाभिप्रवृत्तेः । रूपं वेदना अनित्यं दुःखमित्याद्यभिनिरूपणाच्च । समाहिता तु भावनामयी नामनपेक्ष्यालम्बने प्रवर्तत इति । नैषाभिनिरूपणाविकल्प इत्युच्यते । मानस्येव सर्वा स्मृतिरिति । समाहिता चासमाहिता च । सा किल नामानपेक्षा अनुभूतार्थमात्रालम्बना प्रवर्तते । स्मृतिः कतमा । चेतसोऽभिलाष इति लक्षणात् । पंचविज्ञानकायसंप्रयुक्ता तु नानुभूतार्थाभिलाषप्रवृत्तेति [तिब् । ६० ] नानुस्मरणविकल्प इतीष्यते । (इ ।३३) सप्त सालम्बना इत्युभयावधारणं । सप्तैव सालम्बनाः सालम्बना एव च सप्तेति । अर्धं च धर्मतः सालम्बनमिति । उक्तव्यतिरेकेणेदमुच्यते । अत्राप्युभयावधारणं । धर्मार्धमेव सालम्बनं । सालम्बनमेव च धर्मार्धमिति । यस्माच्च सप्तैव सालम्बना धर्मार्धं चैव सालम्बनमिति अवधारणमस्ति तस्माच्च्छेषा रूपिणो धातवो धर्मधातुप्रदेशश्चासंयुक्तोऽनालम्बना इति सिद्धमित्युक्तं । तथा ह्यनवधारणे ह्ययमर्थो न सिध्येत् । नवानुपात्ता इति नवानुपात्ता एवेत्यवधारणं । अष्टमस्यार्धेन सार्धमिति । सहेति यावत् । ते चाष्टाव् इति । ते च सप्त चित्तधातवो धर्मधातुश्च यस्यार्धं सालम्बनमुक्तं । अष्टग्रहणं सकलधर्मधातुग्रहणार्थं । मा धर्मधात्वर्धाग्रहणं विज्ञायीति । ते चाष्टौ शब्दश्चापर इति नवानुपात्ता इत्युक्ताः । अन्ये नव द्विधेति । चक्षुरादयः पंच शब्दवर्ज्याश्च रूपादयश्चत्वार इति नव ते द्विधैव । उपात्तानुपात्ता इत्यर्थः । न तूपात्ता एवेति । एतदर्थं च । अन्ये नव द्विधेति पुनः सूत्रितं । अनुग्रहोपघाताभ्यामन्योन्यानुविधानाद्[तिब् । ६१ ] इति । चक्षुर्धात्वादीनामनुग्रहोपघाताभ्यामंजनादिपाणिघातादिलक्षणाभ्यां (अभिधर्मकोषव्याख्या ६६) चित्तचैत्तानामनुग्रहोपघातौ भवतः । चित्तचैत्तानां चानुग्रहोपघाताभ्यां सौमनस्यदौर्मनस्यलक्षणाभ्यां चक्षुर्धात्वादीनामनुग्रहोपघातौ भवतः । अतस्ते चित्तचैत्तैरधिष्ठानभावेनोपगृहीता उच्यन्ते स्वीकृता इत्यर्थः । यल्लोके सचेतनमिति सजीवमित्यर्थः । (इ ।३४) स्प्रष्टव्यं द्विविधम् इत्युभयावधारणं । स्प्रष्टव्यमेव द्विविधं द्विविधमेव स्प्रष्टव्यमेवेति । शेषा रूपिणो नव भौतिका इत्यत्राप्युभयावधारणं । धर्मधात्वेकदेशश्च भौतिक इत्यत्राप्युभयावधारणं । यस्माच्चैते उभयावधारिताः । तस्माच्छेषाः सप्त चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धं । भूतानां चतुष्कखक्खटादिलक्षणावधारणादिति । चतुष्कावधारणात्पृथिव्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि । श्लक्ष्णत्वादयस्तत्र चक्षुरादयश्च न भूतानि । खक्खटादिलक्षणावधारणाच्च पृथिव्यप्तेजोवायुधातुष्वन्ये धर्माश्चक्षुरादयो नान्तर्भावं गच्छन्ति । कथं । चत्वारि महाभूतानि पृथिवीधातुर्[तिब् । ६१ ] अब्धातुस्तेजोधातुर्वायुधातुः । पृथिवीधातुः कतमः खक्खटत्वमिति विस्तरः । तेषां च स्प्रष्टव्यत्वादिति । तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात् । यस्मात्तानि स्प्रष्टव्यानि । वर्णादयस्तु द्रष्टव्याः श्रोतव्या घ्रातव्याः स्वादयितव्याः । कथं गम्यते स्प्रष्टव्यानि तानीति । अत आह । न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते । किं तर्हि । कायेन्द्रियेणैवेत्यतोऽवगम्यते स्प्रष्टव्यानि तानीति । स्यान्मतं तेऽपि वर्णादयः स्प्रष्टव्या इत्यत आह । नापि वर्णादयः कायेन्द्रियेण । किं । गृह्यन्त इति प्रकृतं । उक्तं च सूत्र इति विस्तरः । अपरस्मिन्नपि सूत्रे स्पष्टमादर्शितं । कथमिति विस्तरेण यावदिदमुक्तं । स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमिति । शेषं चक्षुराद्यायतनं न भूतानीति स्पष्टमादर्शितं । यत्तर्हि सूत्र उक्तमिति विस्तरः । यच्चक्षुषि मांसपिण्डे खक्खटखरगतं खरप्रकार इत्यर्थः । चक्षुरिन्द्रियं खक्खटस्वभावमिति मत्वा चोदयन्ति । तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेश इति । तेन चक्षुरिन्द्रियेणाविनिर्भागवर्तिनोऽधिष्ठानस्य एतद्वचनं । भवति हि चक्षुरधिष्ठानेऽपि चक्षुरुपचारः । अत एव मांसपिण्ड इति ग्रहणं । अन्यथा चक्षुषीत्येवावक्ष्यत्यदीन्द्रियमेवेष्यते । [तिब् । ६२ ] षड्धातुरयं (अभिधर्मकोषव्याख्या ६७) भिक्षो पुरुष इति विस्तरः । गर्भावक्रान्तिसूत्रे कललाद्यवस्थायामिति भूतमात्रोपदेशान्न भौतिकमस्तीति चोद्यमाशंक्याह । मूलसत्त्वद्रव्यसंदर्शानार्थमिति । मूलस्य सत्त्वद्रव्यस्य संदर्शनार्थमेव । पृथिवीधात्वादयश्चत्वारो मूलसत्त्वं । पंचानां चक्षुरादीनां स्पर्शायतनानां तत उत्पत्तेः । मनोधातुरपि मूलसत्त्वं मनःस्पर्शायतनस्य तत उत्पत्तेः । अथ वा चतुर्णां पृथिवीधात्वादीनामुपादायरूपाश्रयत्वात् । विज्ञानधातोश्च चैतसिकानामाश्रयत्वात्त एव मूलसत्त्वं । कथं गम्यते । पुनः षट्स्पर्शायतनवचनात् । तत्त्रैव सूत्रे पश्चादुक्तं । षट्स्पर्शायतनानीति चक्षुःस्प्रर्शायतनं यावन्मनःस्पर्शायतनमिति । अतो विज्ञायते मूलसत्त्वद्रव्यसंदर्शनार्थत्वात्षड्धातुरयं भिक्षो पुरुष इति वचनं । न तु भूतमात्रत्वादिति । ननु च यथा विज्ञानधातोरव्यतिरिक्तमपि मनःस्पर्शायतनं पुनरुच्यते । एवं चक्षुरादीन्यपि चतुर्धात्वव्यतिरिक्तानि पुनरुच्येरन्निति । अतो न पुनः षट्स्पर्शायतनवचनेन तद्व्यतिरिक्तभौतिकास्तित्वसिद्धिः । नैतदेवं । यदि हि पृथिवीधात्वादय एव स्पर्शायतनानि अभविष्यन् भूतान्येव स्पर्शायतनानीत्येवावक्ष्यत् । न त्वेवं । किं तर्हि । चक्षुःस्पर्शायतनं यावन्मनःस्पर्शायतनमिति । अतोऽवगम्यते । पृथिवीधात्वादिव्यतिरिक्तानि चक्षुरादीनीति । [तिब् । ६२ ] विज्ञानधातुस्तु चक्षुरादिस्पर्शायतनवचनानुषंगेन पुनरुच्यते । स्पर्शायतनमिति कोऽर्थः । स्पर्शस्य चैतसिकस्याश्रय इत्यर्थः । चित्तभावप्रसंगाच्चेति । यदि षड्धातुरयं भिक्षो पुरुष इति यथाभूतमेव द्रव्याणि गृह्येरन्नान्यानि तदाश्रितानि द्रव्याणि । तेनैतत्प्राप्तं । विज्ञानधातुमात्रग्रहणात् । अत्र चैतसिकानां तदाश्रितानामग्रहणप्रसंगः । इष्टत्वाददोष इति चेत् । न । सपक्षालत्वादस्य पक्षस्य । सापक्षालो ह्ययं पक्षः । चित्तविशेषा एव चैतसिका इति स्वसिद्धान्तविरोधात् । तेनाह । न च युक्तं चित्तमेव चैत्ता इत्यभ्युपगन्तुं । कस्मात् । संज्ञा वेदना च चैतसिक एष धर्मश्चित्तनिश्रित इति सूत्रवचनात् । साधनं चात्रोपतिष्ठते । चित्तादर्थान्तरभूते संज्ञावेदने । स्कन्धदेशनायां पृथग्देशितत्वात् । रूपस्कन्धवदिति । अथ वा स्वाश्रयादर्थान्तरभूते संज्ञावेदने । तदाश्रितत्वात् । यत्स्वाश्रयाश्रितं तत्स्वाश्रयादर्थान्तरभूतं । तद्यथा कुड्याश्रितं चित्रं । सरागादिचित्तवचनाच्चेति । सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति । विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति । सद्वेषं चित्तं सद्वेषं चित्तमिति यथाभूतं प्रजानातीति विस्तरः । [तिब् । ६३ ] अत्र (अभिधर्मकोषव्याख्या ६८) साधनं । सरागं चित्तमिति चित्तरागयोः परस्परतोऽर्थान्तरत्वं । सहयोगनिर्दिष्टत्वात् । सपुत्रश्चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवदिति । संचिता दशेति । परमाणुसंचयस्वभावा दशैवेत्यर्थः । अन्ये तु धातवोऽस्मादवधारणान्न संचिता इति सिद्धं । (इ ।३५) तुलयतीति कस्य धातोरेतद्रूपं । तथा हि तुल उन्मान इत्यस्य धातोस्तोलयतीति रूपं भवति । नैष दोषः । तुलां करोति तुलयतीति प्रातिपदिकधातोरेतद्रूपमिष्यते । कर्मणि च तुल्य इति रूपं भवति । बाह्यं धातुचतुष्टयम् इति रूपादिकं शब्दवर्ज्यं । परशुदार्वादिसंज्ञकमिति । परश्वादिसंज्ञकं छिनत्ति दार्वादिसंज्ञाकं छिद्यते । संभवं प्रत्येवमुच्यते । कदाचित्परश्वादिसंज्ञकं छिद्यते । दार्वादिसंज्ञकमपि च्छिनत्ति । संबन्धोत्पादिन इति विस्तरः । संबन्धेनाविभागेनोत्पत्तुं शीलमस्येति संबन्धोत्पादि । संघातस्रोतो रूपादिसंघातसंतान इत्यर्थः । तस्य विभक्तोत्पादनं विभक्तजननं यत्स छेदः । क्षणिकानां हि भावानां विनापि परश्वादिना च्छेदो भवत्येव । संताननिरोधस्तु परश्वादिनेति । परश्वादिकं छिनत्तीत्युच्यते । कारणसामग्रीविशेषवशाद्विकार्यविशेषोत्पत्तिर्भवति । तत्र धातुचतुष्टयमवच्छिनत्ति छिद्यते वेत्यवधार्यते । तथावधारणाच्चान्ये धातवो नोभयथेति सिद्धं । अत एव चाह । न कायेन्द्रियादीनि छिद्यन्त इति विस्तरः । अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात्कायेन्द्रियादीनीति वचनं । यस्मात्कायेन्द्रिये परिस्फुटश्छेदो भवति यदि भवेदित्यतः [तिब् । ६३ ] कायेन्द्रियपुरस्सराणीन्द्रियाणि कथ्यन्ते । निरवशेसांगच्छेदे सर्वांगप्रत्यंगच्छेदे । तदद्वैधीकरणात्तेषां कायेन्द्रियादीनामद्वैधीकरणात् । कथं पुनर्गम्यते तदद्वैधीकरणमिति । अतः पुनराह । न हीन्द्रियाणि द्विधा भवन्ति छिन्नस्यांगस्य कायादपगतस्य निरिन्द्रियत्वात् । इदमपि कथं गम्यते । निरिन्द्रियं तदंगं यच्छिन्नं कायादपगतमिति । यस्मात्तत्प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः । कथं तर्हि छिन्नेन पुनर्लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः । नासिकामूलसंबन्धेन पुनः कायेन्द्रियोत्पत्तेरदोषः । कथमिह गृहगोधिकादीनां पुच्छानि छिन्नानि स्पन्दन्ते यदि तत्र कायेन्द्रियं नास्ति । वायधातोरेष विकारो नैतत्कायेन्द्रियस्य कर्मेत्यवगन्तव्यं । न चापि छिन्दन्ति मणिप्रभावदच्छत्वात् । यथा मणिप्रभा न छिनत्ति अच्छत्वात् । तद्वदिन्द्रियाणि । दह्यते तुलयत्येवम् (अभिधर्मकोषव्याख्या ६९) इत्येवंशब्देन तदेव बाह्यं धातुचतुष्टयं तथात्वेन प्रदर्श्यते । काष्ठादीनामग्निकृतो विकारो दाहः । च चेन्द्रियानां न भवति मणिप्रभावदच्छत्वात् । न हि तानि काष्ठादिवच्चर्मादिवद्वा विक्रियन्ते । किं तर्हि । तत्संबन्धात्प्रवाहछेदो भवति । तुलादिभूतं च तदेव धातुचतुष्टयं तुलयति नेन्द्रियाणि तथैवाच्छत्वात् । अमूर्तानां तु धातूनाममूर्तत्वादेव छेदाद्यसंभव इति । तेषां छेदादि न चिन्त्यते । न शब्द उच्छेदित्वादिति । [तिब् । ६४ ] किं । छिनत्ति छिद्यते दह्यते तुल्यति वाप्रवाहवर्तित्वात् । विवादो दग्धृतुल्ययोर् इत्युत्तरत्रापीदमनुवर्तते न शब्द उच्छेदित्वादिति । तदेव धातुचतुष्टयं दाहकं तुल्यं चेति । अग्निक्षारादि दाहकं । समस्तस्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात् । लवणादि तुल्यं । तत्रापि समस्तस्य तुलावनतिहेतुत्वादित्येकेषामभिप्रायः । तेजोधातूरेव दग्धा गुरुत्वमेव च तुल्यमिति । तेजोधातुरेवाग्निज्वालादिगत उद्भूतवृत्तिर्दहति । पृथिवीधात्वादीनामुद्भूतस्ववृत्तित्वेऽप्यदाहकत्वदर्शनात् । गुरुत्वमेव चोपादायरूपमुद्भूतवृत्ति तुल्यते । आतपादिषु लघुद्रव्येषु रूपादीनामुद्भूतवृत्तित्वेऽप्यतुल्यत्वदर्शनात् । (इ ।३६, ३७ ब्) पंचाध्यात्मम् इति । पंचग्रहणं मनोनिवृत्त्यर्थं । अध्यात्मग्रहणं रूपादिनिवृत्त्यर्थं । विपाकजौपचयिका एव पंचाध्यात्मिका न नैष्यन्दिका इत्यवधारणं । कस्मात् । तद्व्यतिरिक्तनिष्यन्दाभावात् । विपाकजा औपचयिकाश्च यद्यपि नैष्यन्दिका भवन्ति । निष्यन्दो हेतुसदृश इति कृत्वा । ते तु विपाकजौपचयिकत्वेनैव संगृहीतत्वात् । न नैष्यन्दिका इति गृह्यन्ते । ये तु स्वहेतुसदृशा न च विपाकजा न चौपचयिकाः । त इह नैष्यन्दिका [तिब् । ६४ ] अभिप्रेताः । न चैवंविधाश्चक्षुरादयो भवन्ति । किं तर्हि विपाकजा वा औपचयिका वा भवन्तीत्यत एवमुच्यते । तद्व्यतिरिक्तनिष्यन्दाभावादिति । कथं पुनर्ज्ञायते नैष्यन्दिकास्ते न सन्तीति । मृतस्याननुवृत्तेः । न हि रूपादिवन्मृतस्य चक्षुर्धात्वादयोऽनुवर्तन्ते । विपाकहेतोर्जाता इति । विपाकस्य फलस्य हेतुर्विपाकहेतुः । विपाकहेतोर्जाता विपाकजाः । मध्यपदलोपाथेतुशब्दलोपात्गोरथवत् । यथा गोभिर्युक्तो रथो गोरथ इति । फलकालप्राप्तं वा कर्मेति । विपाकफलोत्पत्त्यनन्तरक्षणावस्थमित्यर्थः । विपच्यत इति विपाकः । कर्मकर्तरि घञ् । विपाकाज्जाता विपाकजाः । फलं तु विपक्तिरेवेति विपाक इति । भावे घञ् । भवतु वा हेतौ फलोपचार इति विस्तरः । अविपाकस्वभावोऽपि कर्मलक्षणो हेत्ं विपाक इत्य्(अभिधर्मकोषव्याख्या ७०) उच्यते । तदुत्पादकत्वात् । यथा फले हेतूपुचार इति विस्तरः । षडिमानि स्पर्शायतनानि चक्षुरादीनि पौराणं कर्म पुराणे जन्मनि भवं पुराणमेव वा पौराणं कर्म । तानि स्पर्शायतनानि अपौराणकर्मस्वभावान्यपि पौराणं कर्मेत्युच्यंते । तज्जातत्वात् । एवमिह विपर्ययोपचारो द्रष्टव्यः । आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिका इति । विशेषशब्दः प्रत्येकमभिसंबध्यते । तत्राहारस्वप्नौ लोके प्रतीतौ । संस्कारोऽभ्यंगस्नानानुवासनादिस्वभाव्ः । [तिब् । ६५ ] समाधिश्चित्तैकाग्रतालक्षणः । समीपे चय उपचयः । उपचये भवा औपचयिकाः सैनिकवत् । उपचया एव वा औपचयिकाः वैनयिकवत् । स्वार्थे तद्धितविधानात् । ब्रह्मचर्येण चेत्येके इति । ब्रह्मचारिणामुपशान्तेन्द्रियाणां शरीरोपचयदर्शनात् । अनुपघातमात्रं तु तेन स्यादिति । अब्रह्मचर्येण शरीरापचयः । ब्रह्मचर्येण तु शरीरापचयो न भवति । तस्मादाह । अनुपय्घातमात्रं तु तेन ब्रह्मचर्येण स्यात्नोपचयः । उपचयस्त्वाहारादिभिरेव । कस्मात्तर्हि प्रव्रजितानां केषांचिच्छरीरापचयो भवति । कामपरिदाहादियोगादसौ भवेत् । प्रतिप्राकार इवारक्षेति । उपचयसंतानो विपाकसंतानस्य परिवार्यावस्थानेनारक्षा । शब्द औपचयिक इत्यनुपचितकायस्य शब्दसौष्ठवादर्शनात् । इच्छातः प्रवृत्तेरिति । शब्दो मे स्यादिति इच्छया शब्दः प्रवर्तते । अनिच्छया न प्रवर्तते । विपाकजश्च धर्मोऽनिच्छतोऽपि प्रवर्तते । तस्मान्न विपाकजः शब्दः । साधनं चात्रोच्यते । न विपाकजः शब्दः । इच्छातः प्रवृत्तेः । योनिशोमनसिकारचैतसिकवत् । यत्तु विपाकजं । न तस्येच्छया प्रवृत्तिः । तद्यथा चक्षुरिन्द्रियस्येति । यत्तर्हीति विस्तरः । अनेन स्वसिद्धान्तविरुद्धतां प्रतिज्ञाया उद्ग्राहयति । तृतीयासौ परंपरेत्येक इति विस्तरः । भूतानि पारुष्यविरतेः कर्मपथस्य कण्ठे विपाकस्वभावानि [तिब् । ६५ ] निर्वर्तन्ते । तेभ्यः शब्दः । द्वितीयेऽपि पक्षे कर्मेभ्यो विपाकजानि भूतानि । तेभ्य औपचयिकानि आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि । तेभ्यो नैष्यन्दिकानि पूर्वभूतव्यतिरिक्तान्यागन्तुकानि भूतानि । तेभ्यः शब्द इति । परंपराभिनिर्वर्तनं त्वभिसंधाय पारुष्यविरतेर्ब्रह्मस्वरता निर्वर्तत इत्युक्तं । अनेन स्वसिद्धान्तविरुद्धता तस्याः प्रतिज्ञायाः परिह्रियते । यदि शब्दवद्युक्तिविरोधः स्यादिति । शब्द इच्छातः प्रवर्तत इति विपाकयुक्तिविरोधात्न विपाकज उक्तः । तद्यदि तद्वच्छारीरिक्यपि वेदना इच्छातः प्रवर्तते न विपाकजा स्यात् । न त्विच्छातः सा प्रवर्तते । किं तर्हि । अनिच्छयापि सा प्रवर्तते । चक्षुरादिवत् । तस्माद्विपाकजेति युज्यत इत्यभिप्रायः । कीदृशी पुनः सा । या सुखदुःखप्रत्ययोपसंहारमन्तरेणापि प्रवर्तते । नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति । सभागसर्वत्रगहेतुभिरेव जनिता न विपाकहेतुनेति अवधारणं । (अभिधर्मकोषव्याख्या ७१) विपाकजा विपाकहेतुजनिता इति । विपाकहेतुना जनिता एव न तु विपाकहेतुनैव जनिता इत्यवधारणं । सभागहेतुनापि जनिता विपाकजा भवन्ति । तत्र चाष्टावप्रतिघा नैष्यन्दिका विपाकजा एवेत्यवधार्यते । न हि एत्[तिब् । ६६ ] औपचयिकाः संचयाभावात् । अपरमाणुसंचयस्वभावत्वादित्यर्थः । त्रिधान्य इति । त्रिधान्य एवेत्यवधार्यते । तर्त्र विपाकजा इन्द्रियाविनिर्भागिन एव । विपाकोऽव्याकृतो धर्मः सत्त्वाख्य इति वचनात् । नैष्यन्दिकौपचयिकास्तु इन्द्रियविनिर्भागिनोऽपि । कथं पुनर्गम्यते । इन्द्रियविनिर्भागिनोऽपि नैष्यन्दिकाः सन्तीति । मृतस्यापि तदनुवृत्तिदर्शनात् । न ह्यसत्त्वसंख्याता विपाकजा इष्यन्ते । द्रव्यवानेक इति । एक एव द्रव्यवानित्यवधारणं । सारत्वाद्द्रव्यमित्यविनाशात् । क्षणमेकमनैष्यन्दिका भवन्तीति । क्षणमेकमसभागहेतुनिर्वर्तिताः । पूर्वक्षणानास्रवाभावात्क्षणिका न तु क्षणान्तरविनाशिन इत्ययमर्थोऽभिप्रेतः । अन्यथा हि पश्चिमा एव धातवः क्षणिका इत्यवधारणात्तदितरेषां धातूनामक्षणिकत्वप्रसंगः । कथं पुनर्दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर्मनोविज्ञानधातुश्च युगपद्भवतः । न हि विज्ञानद्वयसमवधानमिष्यते । नोच्यते युगपत्तौ भवत इति । किं तर्हि । एकमत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते । नामद्वयेन कथ्यते इत्यर्थः । तेन व्याचष्टे दुःखधर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्चेति । [तिब् । ६६ ] शेषास्तत्सहभुवो धर्मधातुरिति । तत्र क्षान्तिकलापे चित्तादन्ये धर्माः शेषाः । तद्सहभुवस्तया क्षान्त्या सहभुवः । तद्यथा अनास्रवसंवरो रूपं वेदनासंज्ञाचेतनादयः संप्रयुक्ताः । तेषां च प्राप्तिजात्यादयो धर्मधातुरिति । (इ ।३७ द्) समन्वागमं प्रतिलभत इति । प्राप्तिमलब्धपूर्वां लभत इत्यर्थः । चक्षुर्विज्ञानधातुनापि स इति । किं । समन्वागमं प्रतिलभत इत्यधिकृतं । पृथग्लाभ इत्यनेन प्रथमद्वितीये कोट्यौ दर्शिते । सहापि चेत्य् अनेन तृतीया कोटिर्दर्शिता । चतुर्थी तु उक्तनिर्मुक्तेति सुगमत्वान्न दर्शिता । च- शब्देन वा साप्युक्ता । अपृथगसह चेति । कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति । कामधातौ स्थितः पुद्गलः क्रमेण कललादिक्रमेण (अभिधर्मकोषव्याख्या ७२) मृत्युक्रमेण वा । चक्षुरिन्द्रियं । किंप्रतिसंयुक्तं । किं कामधातावेव । नेत्युच्यते । अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा प्रतिलभमानः । कललाद्यवस्थायां तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च काले चक्षुर्धातुना असमन्वागतः । कललाद्यवस्थायां तथा मरणावस्थायां वा तदभावात् । षडायतनोत्पत्त्यवस्थायां भवस्यान्तराले वा तेनेदानीं समन्वागमं प्रतिलभते । न तु चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते । यस्मादसौ कुशलक्लिष्टेनातीतानागतेन समन्वागत एव पूर्वमन्तराभवप्रतिसंधिकाले । विप्रकृतावस्था ह्येषाधिक्रियते न प्रतिलब्धवत्प्रतिलप्स्यमानावस्था । चक्षुर्विज्ञानधातुनेति [तिब् । ६७ ] विस्तरः । द्वितीयादिध्यानोपपन्नस्तत्र तस्य चक्षुर्विज्ञानधातोरभावात्तेन पूर्वमसमन्वागत इदानीं चक्षुर्विज्ञानं प्रथमध्यानभूमिकमनिवृताव्याकृतस्वभावं संमुखीकुर्वाणः । तेन चक्षुर्विज्ञानधातुना समन्वागमं प्रतिलभते । न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते । प्रतिलब्धवत्समन्वागतत्वात् । तत्प्रच्युतश्चाधस्तादुपपद्यमान इति । द्वितीयादिध्यानप्रच्युतोऽधस्तात्प्रथमे ध्याने कामधातौ चोपपद्यमानश्चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते । अन्तराभवप्रतिसंधाने कुशलक्लिष्टेन अतीतानागतेन । न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते । प्रतिलब्धवत्समन्वागतत्वात् । स्यादुभयेनेति विस्तरः । आरूप्यधातुच्युत उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञानधातुभ्यां पूर्वमसमन्वागतः । अन्तराभवप्रतिसंध्यवस्थायामेव चक्षुर्धातुनोत्पादाभिमुखेन चक्षुर्विज्ञानधातुना कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रतिलभते । अविकलेन्द्रिया ह्यन्तराभविकाः । नोभयेन एतानाकारान् स्थापयित्वेति । कोटीत्रयोक्तान् धर्मप्रकारान् त्यक्त्वेत्यर्थः । आरूप्यधातुच्युतस्तत्रैवोत्पद्यमानो नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते । असमन्वागतत्वं तत्रास्ति न तु समन्वागमप्रतिलम्भः । द्वितीयादिध्यानोपपन्नश्च चक्षुर्विज्ञानमसंमुखीकुर्वाणो नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते । कथं । चक्षुर्धातुना यद्यपि समन्वागमं प्रतिलभते न तु चक्षुर्धातुनासावसमन्वागतः । चक्षुर्विज्ञानधातुना यद्यप्यसौ असमन्वागतो न तु समन्वागमं [तिब् । ६७ ] प्रतिलभते तदसंमुखीकुर्वाणत्वात् । चक्षुष्मान् कामधातुस्थः सकृन्मरणातन्तराभवप्रतिसंधौ (अभिधर्मकोषव्याख्या ७३) नोभाभ्यामसमन्वागतः समन्वागमं प्रतिलभते । ताभ्यां समन्वागतत्वात् । यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनापि स इति । पृथग्लाभः सहापि चेत्य् अनेनैव सूत्रेणेदमपि चतुःकोटिकं वर्तयति । लाभो हि प्रतिलम्भः । प्राप्तिमात्रेऽपि विवक्षया कदाचिद्भवति । प्रथमे चतुःकोटिके प्रतिलम्भोऽधिकृतो द्वितीये तु प्राप्तिमात्रं । प्रथमा कोटिरिति विस्तरः । द्वितीयादिध्यानोपपन्नोऽवाश्यं चक्षुर्धातुना समन्वागत इन्द्रियैरविकलत्वात् । चक्षुर्विज्ञानधातुनात्रासमन्वागतः । तत्राभावात् । प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासंमुखीक्रियमाणत्वात् । कामधातावलब्धविहीनचक्षुरिति । अलब्धं विहीनं वा चक्षुरस्यालब्धविहीनचक्षुः । अलब्धचक्षुः कललाद्यवस्थः । विहीनचक्षुर्विनष्टचक्षुः । स कामधातौ चक्षुर्विज्ञानधातुना अन्तराभवप्रतिसंधौ प्रतिलब्धेन कुशलक्लिष्टेन समन्वागतः । न चक्षुर्धातुना तस्याभावात् । लब्धाविहीनचक्षुरिति । लब्धमविहीनं चक्षुरस्य लब्धाविहीनचक्षुः । स कामधातौ चक्षुर्धातुना चक्षुर्विज्ञानधातुना च तथा पूर्वं प्रतिलब्धेनेदानीं त्वनेन चाव्याकृतेन समन्वागतः । प्रथमध्यानोपपन्नश्च तेनोभयेन समन्वागतः । स्वभूमिकस्य तत्रावश्यमस्तित्वात्परभूमिकस्य चक्षुषः सम्भवात् । द्वितीयादिध्यानोपपन्नश्च पश्यन् । प्रथमध्यानभूमिकं [तिब् । ६८ ] चक्षुर्विज्ञानं संमुखीकुर्वाण इत्यर्थः । स चाप्यवश्यमनेनोभयेन समन्वागतः । चतुर्थ्येतानाकारान् स्थापयित्वेति । आरूप्योपपन्नः । यथायोगमभ्यूहितव्याविति । यश्चक्षुर्धातुना अस्मन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः । यो वा रूपधातुना चक्षुर्धातुनापि सः । चक्षुर्धातुरूपधात्वोः स्यात् पृथग्लाभः सहापि च । पृथक्तावत् । स्याच्चक्षुर्धातुना समन्वागतः । न रूपधातुना । कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः । स्याद्रूपधातुना न चक्षुर्धातुनेति इयं कोटिर्नास्ति । सहापि । स्यातुभयेनासमन्वागतः समन्वागमं प्रतिलभते । आरूप्यधातोश्च्युतो रूपधातौ कामधातौ चोपपद्यमानः । नोभयेन एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुसमन्वागतो रूपधातुनापि स इति पूर्वपादकः । यस्तावच्चक्षुर्धातुना समन्वागतो रूपधातुनापि सः । स्यात्रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्वलब्धचक्षुर्लब्धविहीनचक्षुश्च । (अभिधर्मकोषव्याख्या ७४) यश्चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः । यो वा रूपधातुनासमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः । तथैव तयोः स्यात् पृथग्लाभः सहापि च । पृथक्तावत् । स्याच्चक्षुर्विज्ञानधातुना न रूपधातुना । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानं संमुखीकुर्वाणः । स्याद्रूपधातुना न चक्षुर्विज्ञानधातुना । [तिब् । ६८ ] आरूप्यधातोश्च्युतो द्वितीयादिषु ध्यानेषूपपद्यमानः । सहापि । स्यादुभवेनासमन्वागतः समन्वागमं प्रतिलभते । आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभयेन । एतानाकारान् स्थापयित्वा । यश्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः । यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः । पूर्वपादकः । यस्तावच्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः । स्याद्रूपधातुना न चक्षुर्विज्ञानधातुनापि । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । यथा चेयं चक्षुर्विज्ञानरूपधातूनां प्रतिलम्भसमन्वागमचिन्ता । तथा श्रोत्रविज्ञानशब्दधात्वादीनामपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या । श्रोत्रविज्ञानधात्वोः स्यात् पृथग्लाभः सहापि चेत्य् आदि । (इ ।३८ ब्) द्वादशाध्यात्मिका इति । उभयावधारणम् । अवधारणादेव चान्ये रूपादयो बाह्या इति सिद्धं । आत्मन्यध्यध्यात्मं । अध्यात्मानमिति वा अध्यात्मं । अध्यात्ममेव आध्यात्मिकाः । अध्यात्मे वा भवाः आध्यात्मिकाः । अहंकारसंनिश्रयत्वाच्चित्तमात्मेत्युपचर्यत इत्यहंकारसंनिश्रय आत्मेत्यात्मवादिनः संकल्पयन्ति । चित्तं चाहंकारसंनिश्रय इत्यात्मेत्युपचर्यते । कथमित्याह । आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित इत्युक्तं गाथायां । कथं पुनर्गम्यते चित्तमात्मशब्देनोच्यत इति । तत आह । चित्तस्य चान्यत्र दमनमुक्तं भगवतेति । अन्यत्र गाथायामुक्तं । [तिब् । ६९ ] चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् इति । तेनायमर्थः । आत्मनि चित्तीकार्ये आत्मानं वा चित्तमधिकृत्य ये धर्माः प्रत्यासन्नभावाताश्रयभावेन वर्तन्ते । ते आध्यात्मिकाः । ये तु विषयभावेन वर्तन्ते । ते बाह्या इति । कः पुनः प्रत्यासन्नभावः । येन विज्ञानं तद्विकारमनुविधत्ते । चक्षुरादिष्वेव हि विज्ञानं लक्ष्यते न रूपादिष्व्(अभिधर्मकोषव्याख्या ७५) इति । तथा हि चित्तमिन्द्रियसम्बद्धे शरीरदेशे परिच्छिद्यते न विषयदेश इति । एवं तर्हि षड्विज्ञानधातव इति विस्तरः । इह पंच तावद्विज्ञानधातवो वर्तमाना एव गृह्यन्ते । इन्द्रियविषयसमानकालत्वात् । वर्तनानविषया हि पंच विज्ञानकायाः मनोविज्ञाधातुरपि वर्तमान एवेह व्यवस्थाप्यते । यस्मा मनोधातुरस्याश्रयोऽनन्तरातीतो व्यवस्थाप्यते । कालभेदादेव हि मनिधातुमनोविज्ञानधात्वोः पृथग्व्यवस्थानं । तस्मात्त आध्यात्मिका न प्राप्नुवन्ति । न ह्येते मनोधातुत्वमप्राप्ता अतीतत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति । यदा तदा त एव ते भवन्तीति लक्षणं नातिवर्तन्त इति । किमनेन वाक्येन साधितं । इदमनेन साधितं । वर्तमानानामप्येषामाश्रयभावो भविष्यतीति भविष्यदाश्रयभावेनाध्यात्मिकत्वं भवतीति । यदि वानागतप्रत्युत्पन्नस्येति विस्तरः । अतीतेऽध्वनि यन्मनोधातुलक्षणं । तदनागतप्रत्युत्पन्नयोरप्यध्वनोरस्त्येवेत्यभिप्रायः । न हि लक्षणस्याध्वसु [तिब् ।६९ ] व्यभिचारोऽस्ति । न हि स्वभावपरित्यागोऽस्तीत्यर्थः । (इ ।३८ द्) धर्मसंज्ञकः सभाग इति । धर्मसंज्ञकः सभाग एवेत्यवधार्यते । यो हि विषयो यस्य विज्ञानस्य नियत इति । तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयो यावन्मनोविज्ञानस्य धर्माः । यदि तत्र तच्चक्षुर्विज्ञानमुत्पन्नमुत्पत्तिधर्मि वा । यावद्यदि तत्र मनोविज्ञनमुत्पन्नमुत्पत्तिधर्मि वा । स विषयः सभाग इत्युच्यते । तस्य च स्वभावसहभूनिर्मुक्ता इति । स्वभावेन सहभूभिश्च निर्मुक्ताः स्वभावसहभूनिर्मुक्ताः । सर्वधर्मास्तस्य विज्ञानस्यालम्बनं । न स्वभावः । स्वात्मनि वृत्तिविरोधात् । न हि तदेवांगुल्यग्रं तेनैवांगुल्यग्रेण स्पृश्यते । न सैवासिधारा तयैवासिधारया छिद्यते । न सहभुवः । संप्रयुक्ता विप्रयुक्ता वा । अतिसंनिकृष्टत्वात् । न ह्यक्षिस्थमंजनं तेन गृह्यते । स पुनश्चित्तक्षणोऽन्यस्य चित्तक्षणस्य आलम्बनमिति । ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता अभूवन् । तेऽप्यालम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलंबनं भवन्ति । तस्माद्धर्मधातुर्नित्यं सभागः । धर्मधातुर्हि नियतो मनस एव । तत्सभागाश्च शेषाः । चशब्देन सभागाश्चेति । शेषा एव सभागतत्सभागा इत्यवधार्यते । ननु च धर्मधातुर्[तिब् । ७० ] एव सभाग एवेत्यवधारणे शेषा न सभागा इति सभागतत्सभागाः सेत्स्यन्ति । न सेत्स्यन्ति । यद्यपि न सभागा एवेति भवेयुः । (अभिधर्मकोषव्याख्या ७६) तत्सभागा एवेति तु संभवेयुः । तन्निवृत्त्यर्थमिदमारभ्यते । सभागतत्सभागा एव शेषाः । न तु सभागा एव नापि तत्सभागा एवेति । यो न स्वकर्मकृत् स तत्सभाग इति संबन्धनीयं तत्सभागाश्चेति । अनन्तरोक्तत्वात् । उक्तं भवति । यः स्वकर्मकृत्स सभाग इति । अस्वकर्मकृदेव तत्सभागस्तत्सभाग एव वास्वकर्मकृदित्यवधारणेऽर्थापत्त्या स्वकर्मकृत्सभाग इति । रूपाण्यपश्यदिति । अद्राक्षीदिति वक्तव्यं । एवं ह्यद्यतनातीतं ह्यस्तनातीतं च परिगृहीतं भवति । अन्यथा ह्यव्यापि लक्षणं स्यात् । अथैवमेव पाठ उदाहरणमात्रं तद्द्रष्टव्यां । अद्यतनातीतमपि वक्तव्यं । एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यमिति । स्वेन विषयपुरुषकारेण वक्तव्यं । कथमिति । येन श्रोत्रेण शब्दानशृणोत्शृणोति श्रोष्यति वा । तदुच्यते सभागं श्रोत्रमिति सर्वं । विज्ञानसमायुक्तमसमायुक्तं चेति विज्ञानसम्बद्धमसम्बद्धं चेत्यर्थः । यदेकस्य चक्षुः सभागं तद्[तिब् । ७० ] सर्वेषां किं । सभागमिति वर्तते एवं तद्सभागमपीति । यदेकस्य चक्षुस्तद्सभागं । तत्सर्वेषां तत्सभागमित्यर्थः । प्राप्तग्रहणादिति । गन्धादयः । ये एवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते । न ते यज्ञदत्तेन गृह्यन्ते । स्वघ्राणादिकप्रविष्टत्वात् । इत्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः । य एकस्य गन्धः सभागः । स सर्वेषाम् । एवं तत्सभागोऽपीति वक्तव्यं । न तु वक्तव्यं यथा रूपमेवं गन्धादय इति । अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुः । त एवान्येषामपीति । यदि ते एवदत्तघ्राणादीन्द्रियप्राप्ता भवेयुरेवदत्तस्य विज्ञानमुत्पादयेयुः । अथ यज्ञदत्तघ्राणादीन्द्रियप्राप्ता यज्ञदत्तस्य विज्ञानमुत्पादयेयुरित्यर्थः । अथ वा त एवान्येषामपीति । तत्रान्तर्गतसूक्ष्मक्रिमिप्रभृतीनामपि विज्ञानमुत्पादयेयुः । न तस्यैव एवदत्तस्य यस्य घ्राणादीन्द्रियप्राप्तास्ते गन्धादय इति । इन्द्रियविषयविज्ञानानामन्योन्यभजनमिति । आश्रयविषयाश्रयिभावेनान्योन्याभिमुख्येन प्रवृत्तिः । तथा हीन्द्रियधातवो विज्ञानधातूनाश्रयभावेन यथायोगं भजन्ते । सेवन्त इत्यर्थः । विषयधातूंश्च विषयिभावेन । तथा विषयधातवः स्वेन्द्रियधातून् विषयभावेन भजन्ते । विज्ञानधातूंस्तु विषयभावेन आलम्बनभावेन वा भजन्ते । तथा [तिब् । ७१ ] विज्ञानधातवः स्वेन्द्रियधातूनामाश्रयिभावेन भजन्ते । विषयधातूंश्च विषयिभावेनालम्बकभावेन वा भजन्त । इत्यन्योन्यभजनं भागः । भावे घञ् । कारित्रभजनं वा भागः । कारित्रं (अभिधर्मकोषव्याख्या ७७) चक्षुरादीनां दर्शनादि । विज्ञानधातूनां विज्ञातृत्वं । विषयधातूनां तद्विषयालम्बनभावः । तस्य कारित्रस्य भजनं कारित्रभजनं । स एषामस्तीत्यर्थः । प्रदर्शनमात्रमेतत् । विग्रहस्त्वेवं कर्तव्यः । सह भागेन वर्तन्ते सभागा इति । समानो वा भाग एषामेषां त इमे सभागाः । समानार्थस्य सहशब्दस्य सभाव आदिष्टः । स्पर्शसमानकार्यत्वाद्वा । किं । सभागा इति प्रकृतम् । अत्र कर्मणि घञ् । भज्यत इति भागः । विग्रहस्तु पूर्ववत् । स्पर्शश्चैतसिकः । एषामिन्द्रियविषयविज्ञानानां समानं कार्यं । चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानं । त्रयाणां संनिपातः स्पर्श इत्यादिवचनात् । ये पुनरसभागा इति विस्तरः । ये पुनरन्ये चक्षुरादय इत्थमसभागाः । तेषां सभागानामुक्तलक्षणानां सभागाः सदृशाः । ते तत्सभागाः । तेषां तैर्वा सभागास्ते तत्सभागाः । तुल्यार्थे ह्यत्र सभागशब्दो गृह्यते । (इ ।३९) दर्शनहेया इति । दर्शनं प्रथमतः सत्यदर्शनमनास्रवं पंचदशचित्तक्षणसंगृहीतं । भावना तदेव पुनःपुनर्दर्शनं । लौकिकं वा समाहितं ज्ञानं भावना । दश भावनया हेयाः पंच चेति । रूपिणो धातवो दश पंच च तद्विज्ञानधातव इति । [तिब् । ७१ ] कथं पुनरेतद्गम्यते । एत एव त इति । अन्त्यास्त्रयं त्रिधेति वचनात् । अन्त्यत्रयातन्ये पंचदश धातव एव त उच्यन्त इति । ते भावनाहेया एवेत्यवधार्यन्ते । त्रिप्रकारा इति । दर्शनहेया भावनाहेया अहेयाश्चेत्यर्थः । एत एव त्रिधा अष्टाशीत्यनुशयास्तत्सहभुव इति । धातुप्रकाराकारभिन्नाः सत्कायदृष्ट्यादयोऽनुशयास्तत्सहभुवो विज्ञानवेदनादयः संप्रयुक्ताः असंप्रयुक्तानि च तल्लक्षणानुलक्षणानि । तत्प्राप्तयश्च सानुचरा इति । तच्छब्देन अनुशयादयः संबध्यन्ते । तेषामनुशयानां तत्सहभुवां च प्राप्तयस्तत्प्राप्तयः । यद्यप्यनुशयसहभुवो भवन्ति । न तु सर्वाः । काश्चिद्धि प्राप्तयोऽनुशयादिसहभुवो भवन्ति याः सहजाः । काश्चित्तु पूर्वं पश्चाच्च तेभ्यो भवन्त्यतः पृथक्प्राप्तिग्रहणं । सानुचरा इति ग्रहणेन अनुप्राप्तयस्तल्लक्षणानि च संगृह्यन्ते । शेषाः सास्रवा भावनाहेया इति । एत एव त्रयोऽन्त्या धातवो ये शेषा दर्शनहेयेभ्योऽन्ये सास्रवाः । ते भावनाहेयाः । के पुनस्ते । दशानुशयास्तत्सहभुवस्तत्प्राप्तयश्च सानुचराः । कुशलसास्रवाः । अनिवृताव्याकृताश्च संस्काराः । अविज्ञप्तिरूपं च सास्रवं सानुचरं । [तिब् । ७२ ] अनास्रवा अहेया इति मार्गसत्यासंस्कृतस्वभावाः । ननु चान्यदपीति विस्तरः । पृथग्जनत्वमनिवृताव्याकृतसंस्कारस्वभावत्वाद्भावनाहेयमध्यगतम् । अपायसंवर्तनीयं च (अभिधर्मकोषव्याख्या ७८) कायवाक्कर्म रूपस्वभावत्वाद्भावनाहेयमुक्तम् । इत्यतश्चोदयन्ति वात्सीपुत्रीयाः । आर्यमार्गविरोधित्वादिति । पृथग्जनत्वमार्यमार्गोत्पादे न भवति । नियते चापायिके कर्मणि सति आर्यमार्गो नोत्पद्यते । आर्यमार्गोत्पादे च सत्यापायिकं कर्म नोत्पद्यते । तस्मात्सत्कायदृष्ट्यादिवत्तदुभयं दर्शनहेयमिति वर्णयन्ति । तत्प्रतिषेधार्थमुक्तमप्येतदभिसंक्षेपेण । सुखप्रतिपत्त्यर्थं पुनरुच्यते । न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजं । दृष्टिर्दर्शनम् । अक्लिष्टमनिवृतव्याकृतं कुशलं वा न दर्शनहेयं । रूपं तु क्लिष्टमपि न दर्शनहेयं । अषष्ठजं पंचेन्द्रियजं पंचविज्ञानं तदरूपं क्लिष्टमपि सन्न दर्शनहेयं । अतोऽन्यत्तु दर्शनहेयं संभवति यथोक्तम् । अक्लिष्टाव्याकृतं च पृथग्जनत्वं समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमादिति । समुच्छिन्नकुशलमूलाः कुशलैर्धर्मैरसमन्वागता इष्टाः । पृथग्जनत्वेन तु समन्वागताः । [तिब् । ७२ ] यस्मात्ते पृथग्जना इष्यन्ते । तस्मान्न कुशलं पृथग्जनत्वं । क्लिष्टमपि तन्न भवति । वीतरागानामपि तेन समन्वागमात् । क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणमिष्यते । प्राप्तिछेदः प्रहाणमित्यर्थः । तद्यदि पृथग्जनत्वं क्लिष्टं स्यात्लौकिकवीतरागाणां तस्य प्राप्तिछेद इति तेनसमन्वागमः स्यात् । इष्यते च तेषां तेन समन्वागमः । तथा हि ते लौकिकवीतरागाः पृथग्जना एवेष्यन्ते । अक्लिष्टव्याकृतत्वैकत्वेऽदोषः । छन्दरागप्रहाणमक्लिष्टस्येष्यते । तदालम्बनक्लेशप्राप्तिछेद इत्यर्थः । न तु तदात्मीयप्राप्तिछेद इष्यते । तथा ह्युक्तं भगवता यो भिक्षवो रूपे छन्दरागः । तं प्रजहीत । एवं वस्तद्रूपं प्रहीणं भवतीति विस्तरः । तस्मादक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणमपि चक्षुरादिवत्समुदाचरति । अतस्तेन समन्वागमो भवति । किं पुनः कारणं । अक्लिष्टव्याकृतत्वात्पृथग्जनत्वं न दर्शनप्रहातव्यं । रूपत्वाच्च कायवाक्कर्म इत्याह । सत्येष्वविप्रतिपत्तेः । अक्लेशदुष्टत्वात्पृथग्जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते । न विपरीतरूपेण प्रवर्तत इत्यर्थः । अनालम्बकत्वाच्च । कायवाक्कर्माप्यनालम्बकत्वादेव न विप्रतिपद्यते । तस्मात्तदुभयं न दर्शनहेयं । अयं च सत्येष्वविप्रतिपत्तेर्[तिब् । ७३ ] इति हेतुरषष्ठजेऽप्यनुवर्तयितव्यः । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्चेति । अयमुपचयहेतुः पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थमुच्यते कायवाक्कर्मणोऽनभिसंबन्धात् । दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश्छिद्यते (अभिधर्मकोषव्याख्या ७९) । न तु छिन्ना तत्प्रहेयक्लेशप्राप्तिवत् । निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् इति वचनात् । दुःखे धर्मज्ञाने तु तत्प्राप्तिश्छिन्ना । तेन तत्प्राप्तिसद्भावात्दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात् । न चासौ तस्यामवस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुमधिगतार्यमार्गत्वात् । तथा हि पृथग्जनत्वं कतमद् । आर्यधर्माणामलाभ इति पृथग्जनत्वलक्षणं । स चार्यधर्माणां लाभेनालाभो व्यावर्तते । तस्मादार्य एवासाविति । इदं तावत्भवन्तो वैभाषिकाः प्रष्टव्याः । तत्पृथ्ग्जनत्वं किं भावनामार्गप्रतिलम्भादेव प्रहीयते । नेत्युच्यते । तत्पृथग्जनत्वं नवभौमिकं कामावचरं यावत्भावाग्रिकं । तच्चाक्लिष्टं । तेन प्रतिभूमिभूमिनवमक्लेशप्रकारप्रहाणावस्थायां प्रहीयते । सर्वं ह्यक्लिष्टं सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते । यद्येवमवीतरागावस्थायामार्यः पृथग्जनः स्यात् । न । पृथग्जनत्वस्य विहीनत्वात् । [तिब् । ७३ ] दुःखे धर्मज्ञानक्षान्तेः प्रभृति हि तद्विहीनमेव । न तु प्रहीणं । कः पुनर्विहानप्रहाणयोर्विशेष इति । विहानं प्राप्तिछेदे व्यवस्थापितं । प्रहाणं तु प्रतिपक्षलाभे व्यवस्थापितं । तस्मात्प्राप्तिछेदात्तेन पृथग्जनत्वेनासमन्वागमात्तस्यामवस्थायामार्य एव भवति । न पृथग्जन इत्यदोष एषः । (इ ।४०, ४१) चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिर् इति । चक्षुरेव धर्मधातुप्रदेश एव दृष्टिरित्यवधार्यते । सत्कायदृष्ट्यादिकेति । सत्कायदृष्टिरन्तग्राहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलव्रतपरामर्शश्चेति । शैक्षस्यानास्रवेति प्रज्ञेत्यधिकृतं । अशैक्षस्याशैक्षीति । अशैक्षस्यानास्रवा प्रज्ञा अशैक्षी । क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यं । वक्ष्यति हि क्षयानुत्पादधीर्न दृग् इति । समेघामेघेति विस्तरेण यावत्क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनमिति । लोके भवा लौकिकी । क्लिष्टा चाक्ल्ष्टा च क्लिष्टाक्लिष्टे । क्लिष्टाक्लिष्टे चासौ लौकिकी च । क्लिष्टाक्लिष्टलौकिकी । क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्ष्यः । ताभिर्धर्मदर्शनं । कीदृशमित्याह । समेघामेघरात्रिंदिवरूपदर्शनवदिति । यथा [तिब् । ७४ ] समेघायां रात्रौ रूपदर्शनं । एवं क्लिष्टया लौकिक्या सत्कायदृष्ट्यादिकया दृष्ट्या धर्मदर्शनं । अव्यक्ततरमित्यर्थः । यथा तस्यामेव रात्रौ अमेघायां रूपदर्शनं । एवमक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनं । (अभिधर्मकोषव्याख्या ८०) अव्यक्तमित्यर्थः । यथा समेघे दिवसे रूपदर्शनं । एवं शैक्ष्या दृष्त्या धर्मदर्शनं । व्यक्तं न त्वत्यर्थं । यथा पुनरमेघे दिवसे रूपदर्शनं । एवमशैक्ष्या दृष्ट्या धर्मदर्षनम् । अत्यर्थं व्यक्तमित्यर्थः । अतीरणाद् इति असंतीरणात् । संतीरणं पुनर्विषयोपनिध्यानपूर्वकं निश्चयाकर्षणं । अत एव चान्यापीति विस्तरः । अत एवासंतीरणादन्यापि मानसी क्लिष्टा रागादिसंप्रयुक्ता अक्लिष्टा वा क्षयानुत्पादज्ञानानिवृताव्याकृता प्रज्ञा न दृष्टिः । रूपालोचनार्थेनेति । चक्षुर्न संतीरकत्वेन दृष्टिः । किं तर्हि । रूपालोचनार्थेन । प्रज्ञा तु संतीरकत्वेनेति दर्शितं भवति । अन्यविज्ञानसमंगिन इति । अन्यविज्ञानसंमुखीहाविनः पुद्गलस्यान्यविज्ञानव्यासक्तस्येत्यर्थः । पश्येच्चक्षुरिन्द्रियं विषयादिसांनिध्यात् । यस्य तु चक्षुर्विज्ञानं पश्यतीति पक्षः । तस्य तद्विज्ञानासंभवाददोषः । तदेव चक्षुराश्रितं विज्ञानं पश्यतीत्यस्त्विति । दर्शनस्य तद्भावे भावात्तदभावे चाभावात् । दृश्यते रूपं न किलान्तरितं यत [तिब् । ७४ ] इति किलशब्दः परमतौ । तस्याप्रतिघत्वादिति । विज्ञानममूर्तिं कुड्यादीन्यतिक्रम्यापि पश्येत् । विज्ञानवाद्याह । नैव ह्यावृते चक्षुर्विज्ञानमुत्पद्यते इत्यनाभासगतत्वात्विषयस्येत्यभिप्रायः । किं खलु नोत्पद्यत इत्यप्रतिघत्वात्कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यवहित इव विषये विज्ञानमुत्पत्स्यत इति भावः । यस्य त्विति । यस्य मम वैभाषिकस्य पक्षः चक्षुः पश्यतीति । तस्य मम चक्षुषः सप्रतिघत्वात्व्यवहिते कुड्यादिभिर्वृत्त्यभावः । तस्य चक्षुष आलोचनवृत्त्यभावः । विज्ञानं तर्हि वैभाषिकस्य व्यवहितेऽपि प्राप्नोतीति चोद्यमन्तर्नीतमाशंक्य स एव वैभाषिकः पुनराह । विज्ञानस्याप्यनुत्पत्तिरिति । यथैव चक्षुषो व्यवहिते वृत्त्यभावो युज्यते विज्ञानस्याप्यनुत्पत्तिर्विज्ञानवृत्त्यभाव आश्रयेण सहैकविषयप्रवृत्तत्वात्युज्यते । य एव हि चक्षुषो व्यवहितोऽर्थो विषयः स्यात् । स एव विज्ञानस्येति युक्ता विज्ञानस्याप्यनुत्पत्तिः । तव तु विज्ञानवादिनोऽप्रतिघत्वाद्विज्ञानस्य व्यवहिते विज्ञानमुत्पद्येत । न तूत्पद्यते । तस्माच्चक्षुः पश्यति न विज्ञानमिति सिद्धं । एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षमाचार्यो गृहीत्वाह । किं नु वै चक्षुः प्राप्तविषयमिति विस्तरः । यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं [तिब् । ७५ ] विषयं न गृह्णाति । कुड्यादिप्रतिघातात् । ततः परेण प्रवर्तितुमलहमानत्वात् । किमेवं चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत्ततः परेण गन्तुमलभमानं (अभिधर्मकोषव्याख्या ८१) तं कुड्यादिव्यवहितं विषयं न गृह्णातीति । नैतद्युज्यते । तस्मात्सप्रतिघत्वातावृतं चक्षुर्न पश्येदिति न वक्तव्यं । काचाभ्रपटलस्फटिकांबुभिश्चान्तरितं कथं दृश्यत इति । काचेनाभ्रपटलेन स्फटिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं दृश्यते । सप्रतिघत्वाद्धि कुड्यादिव्यवहितवत्काचादिव्यवहितं चक्षुर्न पश्येत्तच्च पश्यतीति सिद्धान्तः । यत्रालोकस्याप्रतिबन्ध इति । आलोके हि सति विषय आभासगतो भवतीति विज्ञानोत्पत्तिसंभवः । एवं हि विज्ञानकारणं पठ्यते । चक्षुरिन्द्रियमनुपहतं भवति । विषय आभासगतो भवति । तज्जश्च मनसारः प्रत्युपस्थितो भवतीत्यत आवृते रूपे काचादिभिस्तत्रोत्पद्यते एव चक्षुर्विज्ञानं यत्र तु प्रतिबन्धोऽकाचादिस्वभावैः कुड्यादिभिस्तमस्वद्भिः तत्रावृते नोत्पद्यते । किं । चक्षुर्विज्ञानमिति । अनुत्पन्नत्वादावृतं नेक्षत इति । यत्त्वया किं खलु नोत्पद्यत इति अनुत्पत्तौ कारणं पृष्टमिदं तत्कारणमिति ब्रूमः । यत्तर्हि सूत्र उक्तमिति विस्तरः । चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यंजनग्राहीति विष्तरः । यस्माच्चक्षुः पश्यति । तस्मात्पुद्गलश्चक्षुषा पश्यतीत्यभिप्रायः । आचार्यः प्राह । तेनाश्रयेणेति [तिब् । ७५ ] अयमत्राभिसंधिः । चक्षुरश्रित्येत्येवात्राभिसंधिः । चक्षुषा आश्रयेण विज्ञानेन दृष्ट्वेत्यर्थः । कथं ज्ञायत इत्याह । यथा मनसा धर्मान् विज्ञायेति । मनसा आश्रयेण विज्ञानेन विज्ञायेति भवति । न ह्यनन्तरातीतं मनो धर्मान् विजानाति । वर्तमानावस्थायां हि विज्ञानं कारित्रं करोति । आश्रितकर्म वा आश्रयस्योपचर्यत इति । आश्रितस्य विज्ञानस्य कर्म दर्शनमाश्रयस्य चक्षुष उपचर्यते । विज्ञाने पश्यति सति चक्षुः पश्यतीत्युपचारः । यथा मंचाः क्रोशंतीति । यथा मंचस्थेषु पुरुषेषु क्रोशत्सु मंचाः क्रोशन्तीत्युपचारः । तद्वत् । यथा च सूत्र उक्तमिति विस्तरः । वैभाषिकाणामप्ययं पक्षः । न चक्षुर्विजानाति । किं तर्हि । विज्ञानं विजानातीति । अथ चोक्तं चक्षुर्विज्ञेयानि रूपाणि कान्तानीति । तत्राश्रितकर्म आश्रयस्योपचर्यत इति अवश्यं प्रतिपत्तव्यं । द्वारं यावदेव रूपाणां दर्शनायेति । द्वारमिव द्वारं हेतुराश्रय इति अभिप्रायः । अनेनागमेन तेनाश्रयेणेति योऽर्थ उक्तः । तमेव समर्थयति । तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति । दर्शने तत्र द्वाराख्येति । चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दार्शनायेत्यत्र । न ह्येतद्युज्यते दर्शनं रूपाणां दर्शनायेति । अत्रावाचकत्वान्नैतद्युज्यत इत्य्[तिब् । ७६ ] अभिप्रायः । यदि दर्शनं करणं दृश्यतेऽनेनेति दर्शनमिति । कर्तरि वा ल्युट्पश्यतीति दर्शनमिति । दर्शनायेति च भावसाधनं । दृष्टिर्दर्शनं तस्मै दर्शनायेति । कथम् (अभिधर्मकोषव्याख्या ८२) एतद्युज्यते । यस्माच्चक्षुर्व्यतिरिक्तं दर्शनं नास्ति । आलोचनमिति चेत् । न । विज्ञानाव्यतिरिक्तत्वात्विज्ञानमेव ह्यालोचनं । नातोऽन्यत्पश्यामः । यदि तु चक्षुर्द्वारं विवरं रूपाणां दर्शनाय विज्ञानायेत्यर्थो गृह्येत तद्युज्यते । तद्यथा काचित्प्रज्ञा पश्यत्यप्युच्यत इति । पश्यतीत्यप्युच्यत इति इतिशब्दोऽत्राध्याहार्यः । अनेनोपन्यासेन दर्शनविज्ञानयोरनर्थान्तरभाव इति दर्शयति । का पुनरसौ या प्रज्ञैवमुच्यते । या दर्शनात्मिकोक्ता । तदन्योभयथार्या धीर् इति । तस्यैवं जानत एवं पश्यत इति सूत्रेऽपि वचनात् । किंचिदिति वचनान्न सर्वं विज्ञानं पश्यतीत्युक्तं भवति । चक्षुर्विज्ञानं हि पश्यतीत्युच्यते । न तु श्रोत्रादिविज्ञानमिति । कान्या दृष्टिक्रियेति । यस्योपलम्भकत्वं । तस्य दर्शनं युज्यत इत्यभिप्रायः । तदेतदचोद्यमिति विस्तरः । यदि विज्ञानं विजानाति । कर्तृभूतस्य विज्ञानस्य कान्या विज्ञानक्रियेति वक्तव्यमिति तुल्यं चोद्यमापद्यते । न च तत्र कर्तृक्रियाभेदः । न कर्तुर्विज्ञानस्य क्रियायाश्च विज्ञानलक्षणाया भेदोऽन्यत्वमस्ति । भवति च कर्तृक्रियासम्बन्धव्यपदेशः । विज्ञानं विजानातीति । [तिब् । ७६ ] तद्वदिहापि भवेत् । चक्षुः पश्यतीति अचोद्यमेतत् । चक्षुर्विज्ञानं दर्शनमित्यपरे । तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते । यथा नादस्याश्रयभावात्घण्टा नदतीत्युच्यते । [विज्ञानं तर्हि कस्याश्रयभावाद्रूपं विजानातीत्याह ।] विज्ञानस्याश्रयभावादिति । चक्षुर्विज्ञानस्याश्रयभावादित्यर्थः । तद्विज्ञानं दर्शनमिति रूढं लोके इति । दर्शनमिति लोके रूढं न तु विज्ञानमिति रूढं । कथं गम्यत इत्याह । तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातमिति । विभाषायामप्युच्यत इति । स एवर्थोऽभिधीयत इत्यभिप्रायः । चक्षुःसंप्राप्तं चक्षुराभासगतं । विज्ञानं तु सांनिध्य मात्रेणेति । नाश्रयभावयोगेनेति दर्शयति । यथा सूर्यो दिवसकर इति । यथा यथा सांनिध्यमात्रेण सूर्यो दिवसं करोतीत्युच्यते । तथा विज्ञानं विजानातीत्युच्यते । कस्मात् । लोके तथा सिद्धत्वात् । निर्व्यापारं हीदमिति विस्तरः । निर्व्यापरमिति निरीहम् । अनेन हि कर्तुरर्थान्तरभूतां वा क्रियां प्रतिषेधति । धर्ममात्रमिति । स्वतंत्रस्य कर्तुः प्रतिषेधं करोति । हेतुफलमात्रं चेति । असत्यपि कर्तरि हेतुफलयोः कार्यकारणमर्थत्वं दर्शयति । तत्र छन्दत उपचाराः क्रियन्ते यद्वस्तु व्यवहारांगं तेनेह व्यवहारार्थसंसिद्ध्यर्थमसदपि सद्रूपेण परिकल्प्य [तिब् । ७७ ] कर्तृक्रियादिव्यवस्थाणं क्रियते । चक्षुः पश्यति विज्ञानं विजानातीत्य्(अभिधर्मकोषव्याख्या ८३) एवमादि । नात्राभिनिवेष्टव्यं । भावो भवित्रपेक्षोऽन्य इत्यादि जनपदनिरुक्तिं नभिनिविशेतेति । जनपदस्तत्र नियता निश्चिता चोक्तिर्जनपदनिरुक्तिः । तां नाभिनिविशेत । तस्मादत्रेयं निरुक्तिरिति । न वा सर्वामेवार्थवतीं निरुक्तिं कल्पयेत् । संज्ञां च लोकस्य नाभिधावेदिति । आत्मा जीव इत्येवमादिकां संज्ञां लोकस्य नाध्यारोपयेत् । अभूतसमारोपेणास्त्यात्मा शरीरादिव्यतिरिक्त इति गच्छेदित्यर्थः । अथ वा संज्ञां च लोकस्य नाभिधावेन्नातिसरेत् । अर्थाबावात्संज्ञापि नास्तीति न कल्पयेदित्यर्थः । अतिसरणमतिक्रमणमित्येकोऽर्थः । (इ ।४२ ब्) उभाभ्यामपीत्य् अपिशब्दादेकेनापि नात्र नियमः । द्वयोर्विवृतयोः पर्रिशुद्धतरं दर्शनमिति । उक्तं भवति नैकतरान्यथीभावादिति । उन्मीलितार्धनिमीलितयोरक्ष्णोः एकतरस्यान्यथीभावाद्द्वयोरेकतरद्यद्यन्यथीभवति । यदि यदुन्मीलितं । तदर्धनिमीलितं क्रियेत्सर्वनिमीलितं वा । यच्चार्धनिमीलितं । यदि तत्सर्वनिमीलितं क्रियेत्सर्वोन्मीलितं वा । तदा द्विचन्द्रदर्शनं न भवति । अतोऽवगम्यते द्वयोरपि चक्षुषोरत्र विज्ञानोत्पत्तौ व्यापारोऽस्तीति । देशप्रतिष्ठितत्वात्रूपवदिति विपरीतदृष्टान्तः । यथा रूपस्य देशप्रतिष्ठितत्वाताश्रयविच्छेदाद्[तिब् । ७७ ] विच्छेदो भवति । नैवं विज्ञानस्य । न हि विज्ञानं च नाश्रयविच्छेदाद्विच्छेदो भवति । (इ ।४२ द्) तथा हि दूराद्रूपं पश्यतीति । यत्र रूपं दृश्यते । न तत्र तद्ग्राहकं चक्षुरिन्द्रियमस्ति । तत्र प्रमाणानुपलभ्यमानत्वात् । तत्राविद्यमानदेवदत्तादिवत् । यथा चक्षुः । एवं श्रोत्रमपि वक्तव्यं । इतर आह । स्वविषयदेशप्राप्ति चक्षुःश्रोत्रम् । इन्द्रियत्वात् । घ्राणेन्द्रियादिवत् । अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्वं हेतुमसिद्धं दर्शयति । आचार्य आह । सति च प्राप्तविषयत्व इति विस्तरः । यदि प्राप्तविषयं चक्षुःश्रोत्रं कल्प्येत दिव्यं चक्षुःश्रोत्रमिह मनुष्येषु ध्यायिनां नोपजायेत् । यदि हि चक्षुःश्रोत्रमपि विप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर्यथायोगं रूपं शब्दं गृह्णीयात् । एवमस्य दिव्यत्वं संभवेत् । तच्च प्राप्तविषयत्वे न स्यात् । घ्राणादिवत् । यथा घ्राणजिह्वाकायाः प्राप्तविषयत्वात्दिव्या ध्यायिनां नोपजायेरन् । तद्वत् । अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविशेषविपर्ययापक्षालत्वं दर्शयति । संभवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी । असंभवद्दिव्यत्वभावो विशेषविपर्ययः । स प्राप्नोतीति (अभिधर्मकोषव्याख्या ८४) दोषः अनेन दोषेणानुमानत्वात् । तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति । तस्मादप्राप्तविषयं चक्षुःश्रोत्रं । यद्यप्राप्तविषयं चक्षुरिति विस्तरः । आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिरिति [तिब् । ७८ ] तत्र दर्शनं प्रसंजयति । किमिदं परस्य साधनमुत दूषणमिति । यदि तावदेवं साधनमतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते । अप्राप्तत्वात् । आसन्नविषयवदिति । तदसाधनं हेतोः स्वयमनिश्चितत्वात् । पूर्वाभ्युपगमविरोधाद्वा । अथ दूषणं सर्वप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते । तददूषणमनुमानबाधनात् । कथमित्याह । कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षयतीति प्रश्नमुखेनायस्कान्तनिदर्शनमुपन्यस्य सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति । न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रं । सर्वाप्राप्तग्रहणशक्तिहीनत्वात् । अयस्कान्तवत् । अयस्कान्तो ह्यप्राप्तमयो गृह्णाति कर्षतीत्यर्थः । न च सर्वमप्राप्तं गृह्णाति । तद्वच्चक्षुःश्रोत्रं । प्राप्तविषयत्वेऽपि चैतत्समानमिति । नातिदूरतिरस्कृतो विषयश्चक्षुःश्रोत्रेण गृह्यते । ग्रहणायोग्यत्वात् । संप्राप्तांजनदशलाकावत् । अथ वा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम् । इन्द्रियस्वाभाव्यात् । घ्राणेन्द्रियादिवत् । घ्राणादीनां हि प्राप्तो विषयो न तु सर्वः । सहभूगन्धाद्यग्रहणात् । घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर्न गृह्यन्ते । शक्तिर्हीन्द्रियाणामीदृशीति । मनस्त्वरूपित्वादिति । प्राप्तत्वं मूर्तानामेव व्यवस्थाप्येत नामूर्तानामिति । मनोऽप्राप्तविषयम् [तिब् । ७८ ] इति न विचारः क्रियते । त्रयमन्यथेति । प्राप्तविषयमेव त्रयमिति इष्टावधारणार्थमारम्भः । अन्यथा हि प्राप्ताप्राप्तविषयमित्यपि संभाव्येत । निरुच्छ्वासस्य गन्धाग्रहणादिति । यदुच्छ्वासेन सर्धं सूक्ष्मं भूतचतुष्कं घ्राणमागतं । तस्य गन्धो घ्राणेन घ्रायते । वायौ गन्धान्तरमुत्पन्नमित्यपरे । मिशृईभवेयुरेकदेशीभवेयुः । अथैकदेशेन । किं । स्पृशेयुरिति वर्तते । कथं शब्दाभिनिष्पत्तिरिति । यदि न स्पृशन्ति । अनभिघाते शब्दाभिनिष्पत्तिर्न प्राप्नोतीत्यभिप्रायः । अत एवेति काश्मीराः । यदि हि स्पृशेयुः । हस्तो हस्तेऽभ्याहतः सज्जेत जतुनेव जत्वन्तरं । कथं चितं प्रत्याहतं न विशीर्यत इति । अन्योन्यमस्पृशतां परमाणूनां संघातः प्रत्याहतः पाण्यादिभिः कथं न विशीर्यते । तदेवैषां निरन्तरत्वं यन्मध्ये नास्ति किंचिदित्यालोकादि मध्ये नास्तीति निरन्तरत्वमेषां व्यवस्थाप्यते । तदेव च प्राप्तत्वं नान्यथेति । अपि (अभिधर्मकोषव्याख्या ८५) खल्विति । अपि चेत्यर्थः । संघाताः सावयवत्वात्स्पृशन्तीत्यदोषः । योऽसौ दोष उक्तो यदि सर्वात्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याण्यथैकदेशेन सावयवाः प्रसज्येरन्निति । कारणं प्रतीति । यस्य यादृशं कारणं । तस्य तत्कारणं । स्पृष्टमस्पृष्टं वा प्रतीत्याह । कदाचिदिति विस्तरः । स्पृष्टहेतुकमिति । स्पृष्टमन्योन्यं हेतुरस्य स्पृष्टहेतुकं । एवमस्पृष्टहेतुकं । [तिब् । ७९ ] यदा विशीर्यत इति । तद्यथा शुष्का मृच्चूर्णीक्रियमाणा । यदा चयं गच्छतीति । तद्यथा हिमं । तद्धि पूर्वं सूक्ष्मं पश्चान्महद्भवति । चयवतां चय इति । तद्यथा मृत्पिण्डद्वयसंनिपाते । उत्तरक्षणावस्थानं स्यादिति । उत्पद्य स्पृष्टियोगात् । निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः । भदन्तमतं चैष्टव्यमिति । वैभाषिकमतं कस्मान्नैष्टव्यं । ननु वैभाषिकैरप्येवमुक्तं । तदेवैषां निरन्तरत्वं यन्मध्ये नास्ति किंचिदिति । अस्त्येवम् । सावकाशं तु तद्वचनम् । यन्मध्ये नास्ति किंचिदिति ब्रुवाणा वैभाषिका मध्ये आलोकादि नेच्छन्ति । अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते । अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत गतिमत इति वाक्यशेषः । अयं चापरो दोषः । न च परमाणुभ्योऽन्ये संघाताः यथा वैभाषिकाः कल्पयन्ति । त एव ते संघाताः परमाणवः स्पृश्यन्ते । यथा रूप्यन्त इति । संघाता एव नैक इत्यर्थः । यदि च परमाणोरिति विस्तरः । परमाण्वपरिनिष्पत्तिं वक्तुकामः आचार्यो विचारयति । यदि परमाणोरेकस्य पूर्वादिदिग्भागभेदः कल्प्येत स्पृष्टस्यान्योन्यमस्पृष्टस्य वा सावयवत्वप्रसंगः । न चेत् । किम् । दिग्भागभेद इति वर्तते । स्पृष्टस्याप्यप्रसंगः । कस्य । सावयवत्वस्य । [तिब् । ७९ ] अत्र साधनम् । न निरवयवः परमाणुः । दिग्भागभेदवत्त्वात् । माषराशिवदिति । तदेतद्दिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिकाः । दिग्भागभेदो हि संघातरूपाणामेव कल्प्यते । एवं च वर्णयन्ति । धर्मतैवेयं यत्सप्रतिघानां भिन्नदेशत्वं । तेषां नैरन्तर्येणावस्थानातभिन्नदेशत्वं मा भूदिति सान्तराणामपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति । (इ ।४३ ब्) आशुवृत्त्या च पर्वतादीनामलातचक्रादिवदिति । आत्मपरिमाणतुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृदिव ग्रहणं लक्ष्यते न क्रमेणेत्याशंक्य युक्तिं तथा ग्रहणे कथयति । आशुवृत्त्या चेत्यादि । यथा अलातचक्रादिग्रहणं क्रमेण वर्तमानं सकृदिव लक्ष्यते । तथा पर्वतनदीशब्दादिग्रहणमाशुवृत्त्या भवतीति । आहोस्वित्तुल्यातुल्यस्येति । द्राक्षाफलादिदर्शने तुल्यस्य । वालाग्रपर्वतादिदर्शने अतुल्यस्येत्यभिप्रायः । उन्मिषितमात्रेणेति न क्रमदर्शनन्यायेन । एवं श्रोत्रेणेति (अभिधर्मकोषव्याख्या ८६) विस्तरः । कदाचिदल्पीयांसो यदा मशकशब्दं शृणोति । कदाचित्समाः यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच्छब्दं शृणोति । कदाचिद्भूयांसो यदा मेघशब्दं शृणोतीति । अजाजीपुष्पवदवस्थिताः कालजीरकपुष्पवदवस्थिताः एकतलावस्थिता इत्यर्थः । भूर्जाभ्यन्तरावस्थिता इति कर्णाभ्यन्तरे यद्भूर्जपत्त्रवर्णाकारं । तद्भूर्जमिवेति भूर्जं । तदभ्यंतरेऽवस्थिताः श्रोत्रेन्द्रियपरमाणवः । [तिब् । ८० ] घाटाभ्यन्तरे घाटा नासापुटी । मालावदवस्थितानीति । मण्डलेन समपंक्त्यावस्थितानीति । वालाग्रमात्रं किलेति । आगमसूचनार्थः किलशब्दः । अस्फुटमव्याप्तं । स किलेति कर्मसामर्थ्यादेवाविशरणं स्यादिति । किलशब्देन अरुचिं सूचयति । संचिताश्रयालम्बनत्वादिति संचिताश्रयत्वात्संचितालम्बनत्वाच्च । (इ ।४३ द्) चरमस्याश्रयोऽतीत इति । अतीत एवेत्यवधारणं । अत एवोच्यत इति । यस्मात्पंच विज्ञानकाया इन्द्रियद्वयाश्रयाः । चक्षुरादीन्द्रियाश्रया मनैन्द्रियाश्रयाश्च । तस्माच्चतुःकोटिक उत्तिष्ठते । प्रथमा कोटिश्चक्षुरिति । चक्षुर्विज्ञानस्य चक्षुराश्रयभावेन न समनन्तरप्रत्ययभावेन । न हि चक्षुश्चित्तचैत्तस्वभावं । चित्तचैत्ता अचरमा उत्पन्नाः समनन्तर इति च समनन्तरप्रत्ययलक्षणं । द्वितीया कोटिः समनन्तरातीतश्चैतसिको धर्मधातुस्तस्य समनन्तरभावेन । षडेव ह्याश्रया विज्ञानस्येष्यन्ते चक्षुरादयो मनःपर्यन्ता नान्ये । तृतीया समनन्तरातीतं मनः । उभयलक्षणयुक्तत्वात् । चतुर्थी उक्तनिर्मुक्ता धर्माः । कोटित्रयमुक्ता विप्रयुक्ता असंस्कृतादयः । [तिब् । ८० ] एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यमिति । यः श्रोत्रविज्ञानस्याश्रयभावेन । समन्तरप्रत्ययभावेनापि स । तस्येति चतुःकोटिकः । प्रथमा कोटिः श्रोत्रं । द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः । तृतीया समनन्तरातीतं मनः । चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा । इत्येवमपि वक्तव्यं । मनोविज्ञानस्य पूर्वपादक इति । यो मनोविज्ञानस्याश्रयभावेन । समनन्तरप्रत्ययभावेनापि स । तस्येति पूर्वपादकः । यस्तावदाश्रयभावेन । समनन्तरप्रत्ययभावेनापि स इति । मनस्तावदवश्यमसौ समनन्तरप्रत्ययः । स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन । समनन्तरातीतश्चैतसिको धर्मधातुरचक्षुराद्याश्रयषट्स्वभावत्वात् । (इ ।४४ ब्) तद्विकारविकारित्वाद् इति विस्तरः । तेषां चक्षुरादीनां विकारस्तद्विकारः । तद्विकारेण विकारस्तद्विकारविकारः । स एषामस्तीति तद्विकारविकारीणि विज्ञानानि । तद्भावस्(अभिधर्मकोषव्याख्या ८७) तद्विकारविकारित्वम् । तस्मात् । चक्षुरादय एवैषामाश्रया इत्यवधार्यते । अनुग्रहोपघातपटुमन्दतानुविधानादिति । चक्षुरादीनामंजनादिभिरनुग्रहं रेण्वादिभिश्चोपघातं चक्षुरादिविज्ञानान्यनुविदधते । ससुखोत्पादात्सदुःखोत्पादाच्च । यथाक्रमं पटुमन्दतां च तेषामनुविदधते । [तिब् । ८१ ] पटुमन्दतोत्पादादतोऽवगम्यते । चक्षुरादिविकारेण विज्ञानविकारो भवतीति । ननु च पटुनि रूपे पटुचक्षुर्विज्ञानमुत्पद्यमानं दृश्यते । मन्दे मंदमिति । [तेषां चक्षुरादीनां ।] यद्यपि रूपस्य पटुमंदते चक्षुर्विज्ञानमनुविदधीत । विधुरावस्थयोस्तु चक्षूरूपयोश्चक्षुरवस्थामेव चक्षुर्विज्ञानमनुविधत्ते । न रूपवस्थां । तथा हि चक्षुषि अनुगृहीते रूपे चोपहते तद्वीतरागाणां मध्यस्थानां च चक्षुर्विज्ञानमविकारमुत्पद्यते । न तु सदुःखमुत्पद्यते । रूपे पुनरनुगृहीतेऽपरित्यक्ते चक्षुषि चोपहते कामलव्याधिना तिमिरोपघातेन वा पीतदर्शनं भ्रान्तं केशोण्डुकादिदर्शनं वा प्रवर्तते । तथा पटुनि रूपे जरया मन्दे चक्षुषि मन्दं चक्षुर्विज्ञानमुत्पद्यते । एवं मन्दे रूपे चक्षुर्यद्यतिपटु भवेत्पटु चक्षुर्विज्ञानमुत्पद्यते । तथा हि जातिस्वभावेन पटुनि गृध्रचक्षुषि मन्देऽपि शवरूपे अनेकयोजनविप्रकृष्टेऽपि चक्षुर्विज्ञानमुत्पद्यते । इत्येवं श्रोत्रादीन्यपि योज्यानि । (इ ।४४ द्) अतोऽसाधारणत्वाच्चेति । अत आश्रयभावात् । असाधारणत्वाच्च । आश्रयभावो व्याख्यात इति न तं प्रत्याद्रियते । असाधारणत्वमेव तु व्याचक्षाण आह । कथमसाधारणत्वमित्यादि । अन्यचक्षुर्विज्ञानस्यापीति । अन्यसंतानविज्ञानस्यापीत्यर्थः । तैर्[तिब् । ८१ ] एव निर्दिश्यत इति । चक्षुरादिभिश्चक्षुर्विज्ञानं यावन्मनोविज्ञानं । न रूपादिभिः रूपविज्ञानं यावद्धर्मविज्ञानं । यथा भेरीशब्दो यवांकुर इति । असाधारणत्वात्ताभ्यां भेरीयवाभ्यां यथा निर्देशो लोके भेरीशब्दो यवांकुर इति न तु दण्डशब्दः क्षेत्रांकुर इति वा । दण्डो हि पटहादिशब्दस्यापि कारणीभवेत् । क्षेत्रं च शालिगोधूमांकुरस्यापीति साधारणत्वात्न ताभ्यां निर्देशः क्रियते । असाधारणाभ्यां तु भेरीयवाभ्यां निर्देशः । तद्वदिहापि द्रष्टव्यम् । अपि खलु चक्षुरिव विज्ञानमुभयोः सत्त्वसंख्यातत्वात् । रूपं त्वसत्त्वसंख्यातमपि । चक्षुषा विज्ञानं चक्षुर्विज्ञानम् । तस्य कारणभावात् । चक्षुषि विज्ञानं चक्षुर्विज्ञानं । सुखदुःखवेदनासंप्रयुक्तस्य विज्नानस्य चक्षुरनुग्रहोपघातप्रवृत्तत्वात् । चक्षुषो विज्ञानं चक्षुर्विज्ञानम् । असाधारणत्वेन ततः प्रवृत्तेः । चक्षुषो विज्ञानं चक्षुर्विज्ञानम् । सत्त्वसंख्यातस्यैव स्वामिभावात् । चक्षुषि विज्ञानं चक्षुर्विज्ञानम् । तत्संप्रयोगिन्याः सुखाया दुःखाया वा (अभिधर्मकोषव्याख्या ८८) वेदनायाश्चक्षुष्येव परिच्छिद्यमानत्वात् । एवं श्रोत्रादिषु योज्यम् । तदेवं चक्षुरादिभिरेव विज्ञाननिर्देशो युज्यते न रूपादिभिः । एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो [तिब् । ८२ ] योजयितव्यमिति । तस्यैव कामधातूपपन्नस्य योजयितव्यम् । एवं तृतीयादिध्यानचक्षुषा योज्यमिति । तस्यैव प्रथमध्यानोपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो योज्यम् । (इ ।४५, ४६) न कायस्याधरं चक्षुर् इति । अधरभूमिकमित्यर्थः । स्वभूमिकमूर्ध्वभूमिकं चाभ्यनुज्ञातं भवति । पंचभूमिकानि हि कायचक्षूरूपाणि । कायः शरीरं । एतानि कायादीनि पंचभूमिकानि । कामावचराणि प्रथमध्यानभूमिकानि यावच्चतुर्थध्यानभूमिकान्यारूप्यधातावभावात् । द्विभूमिकं चक्षुर्विज्ञानमिति । कामावचरं प्रथमध्यानभूमिकं च । तयोर्वितर्कविचारसद्भावाच्चक्षुर्विज्ञानस्य चावश्यं सवितर्कविचारत्वात् । ऊर्ध्वरूपं न चक्षुष इति । नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति । ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात् । स्वभूमिकमधरभूमिकं चाभ्यनुज्ञातं भवति । विज्ञानं च । किम् । ऊर्ध्वं न चक्षुष इति प्रकृतं । कामावचरस्य चक्षुषोऽधरभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति । स्वभूमिकमधरभूमिकं वाभ्यनुज्ञातं भवति । कामावचरस्य चक्षुषः स्वभूमिकं कामावचरमेव चक्षुर्विज्ञानं भवति । प्रथमध्यानभूमिकस्य चक्षुषः प्रथमध्यानभूमिकमेव चक्षुर्विज्ञानं भवति । कामावचरं तु चक्षुर्विज्ञानमस्य न भवति । ननु चोक्तमधरभूमिकमभ्यनुज्ञातमिति । सत्यमुक्तमेतत् । [तिब् । ८२ ] किं तु । असत्यात्मीये अधरभूमिकमिष्यते । न सतीति । द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्यसत्यात्मीये प्रथमध्यानभूमिकमेवाधरं चक्षुर्विज्ञानं भवति । न तु कामावचरं परमनिहीनत्वात् । संभवतस्त्वेवमुक्तमधरभूमिकमभ्यनुज्ञातमिति । अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्येति । चक्षुर्विज्ञानजातेः रूपं सर्वतो विषयः । संभवतस्तु योज्यम् । कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकमेव रूपम् । प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमिकमधरभूमिकं च रूपं विषयः । चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु चतुर्थध्यानभूमिकं रूपं ततश्चाधरभूमिकं सर्वं विषयः । एवं यावत्द्वितीयध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकं ततश्(अभिधर्मकोषव्याख्या ८९) चाधरभूमिकं रूपं विषयः । एवं चक्षुर्विज्ञानजातेरूर्ध्वमधः स्वभूमौ च रूपं विषयो भवति । कायस्य चोभे रूपविज्ञाने सर्वतो भवत इति । कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्वभूमिके रूपविज्ञाने भवतः । प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकमेव विज्ञानम् । रूपं तु स्वोर्ध्वाधरभूमिकम् । यथा स्वाश्रयं चक्षुः । द्वितीयादिध्यानभूमिकस्य कायस्य विज्ञानमधरभूमिकमेव प्रथमध्यानभूमिकमेवेत्यर्थः । रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकं [तिब् । ८३ ] यथा स्वाश्रयं चक्षुः । चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम् । तत ऊर्ध्वं रूपभावात् । तथा श्रोत्रम् इति । यथा चक्षुरुक्तम् । तथा श्रोत्रं व्याख्यातव्यम् । कथमित्याह । यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति । किं तानि कायश्रोत्रशब्दविज्ञानान्येकभूमिकान्येव भवन्ति । आहोस्विदन्यभूमिकान्यपि । आह । सर्वेषां भेदः । कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वां शब्दां शृण्वतः सर्वं स्वभूमिकं भवतीति विस्तरेण अनया दिशात्र ग्रन्थो वक्तव्यः । यावदयं तु नियमः । न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेर् विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वत इति विस्तरेण योज्यं । कथमिति । न कायस्याधरं श्रोत्रम् । पंचभूमिका हि कायश्रोत्रशब्दाः कामावचरा यावच्चतुर्थध्यानभूमिकाः । द्विभूमिकं ष्रोत्रविज्ञानं कामावचरं प्रथमध्यानभूमिकं च । तत्र यद्भूमिकः कायः । तद्भूमिकमूर्ध्वभूमिकं वा श्रोत्रं भवति । न त्वधरभूमिकम् । यद्भूमिकं श्रोत्रं । तद्भूमिकोऽधरभूमिको वास्य शब्दो विषयो भवति । ऊर्ध्वं शब्दो न च श्रुतेः । न हि कदाचिदूर्ध्वभूमिकः शब्दोऽधरभूमिकेन श्रोत्रेण श्रोतुं शक्यते । विज्ञानं च ऊर्ध्वं न श्रोत्रस्य शब्दवत् । अस्य शब्दस्तु कायस्योभे च सर्वतः । अस्येति अनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो विषय ऊर्ध्वमधः स्वभूमौ च । कायस्य चोभे शब्दविज्ञाने सर्वतो भवत इति । अनियतं मन (अभिधर्मकोषव्याख्या ९०) इति । यथा चक्षुः श्रोत्रं वा नियमितं न कायस्याधरं चक्षुः श्रोत्रं वेत्येवमादिना । नैवं नियमितं मनः । अत एवाह । पंचभूमिकेऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति [तिब् । ८३ ] मनोधर्ममनोविज्ञानानि सर्वभूमिकानि कामावचराणि यावद्भावाग्रिकाणि । तद्यथा कामधातूपपन्नो यदि कामावचरान्मनसोऽनन्तरं कामावचरमेव कामावचरधर्मालम्बनं मनोविज्ञानमुत्पादयति । सर्वाणि कामावचराणि । यदि प्रथमध्यानभूमिकाद्यावद्भवाग्रभूमिकादुपपत्तिकाले समापत्तिकाले वा संभवतः कामावचरं तथैव मनोविज्ञानमुत्पादयति । मनस्ततस्त्यम् । शेषानि कामावचराणि । अथ तत्रैव तद्विज्ञानमुत्पादयति । धर्मास्त्वालम्बनं प्रथमध्यानभूमिका यावद्भवाग्रभूमिकाः । धर्मास्ततस्त्याः । शेषाणि पूर्ववत् । एवं प्रथमध्यानोपपन्नो यावद्भवाग्रोपपन्नो यथायोगं वक्तव्यः । (इ ।४७) समाप्त आनुषंगिकः प्रसंग इति । चक्षुश्च धर्मधातोश्च प्रदेशो दृष्टिर् इत्येतदाधिकारिकम् । अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यतीत्येवमादिरयमानुषंगिकः प्रसंगः । दर्शनसम्बन्धादागतत्वात् । पंच बाह्या द्विविज्ञेया इति । पंचग्रहणं धर्मधातुनिराकरणार्थम् । बाह्यग्रहणं चक्षुरादिनिरासार्थम् । बाह्या एव पंच द्विविज्ञेया इत्यवधारणादन्ये त्रयोदश धातव एकविज्ञानविज्ञेया इति सिद्धम् । पंचविज्ञानकायानामविषयत्वात् । नित्या धर्मा असंस्कृता इति । असंस्कृता एव नित्या इत्यवधारणम् । अध्वसंचाराभावात्नित्याः । धर्मार्ध इन्द्रियं ये च [तिब् । ८४ ] द्वादशाध्यात्मिकाः स्मृता इति । धातव इत्यधिकारः । द्वाविंशतीन्द्रियाण्युक्तानि सूत्र इति । अथ जातिश्रोणो ब्राह्मणो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य बहगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकन्ते न्यषीदत् । एकान्तनिषण्णो जातिश्रोणो ब्राह्मणो भगवन्तमिदमवोचत् । इन्द्रियाणीन्द्रियाणीति भो गौतम उच्यन्ते । कति भो गौतम इन्द्रियाणि । कियता चेन्द्रियाणां संग्रहो भवति । द्वाविंशतिरिमानि ब्राह्मण इन्द्रियाणि । कतमानि द्वाविंशतिः । चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियमुपेक्षेन्द्रियं (अभिधर्मकोषव्याख्या ९१) श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमनाज्ञातमाज्ञास्यामीन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियम् । इतीमानि ब्राह्मण द्वाविंशतिरिन्द्रियाणि । इयता इन्द्रियाणामिन्द्रियसंग्रहो भवति । अथ जातिश्रोणो ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्त इति । धर्मार्ध इति धर्मधात्वेकदेश इत्यर्थः । धर्मार्धम् इति नपुंसकनिर्देशेन केचित्पठन्ति । तेषां पाठे अर्धधर्म इति समप्रविभागः प्राप्नोति । अर्धं नपुंसकमिति लक्षणात् । अर्धपिप्पलीति यथा । अथ नपुंसकलिंगोऽप्यर्धशब्द एकदेशार्थे वर्तते तदैवं समासः क्रियते । धर्मश्चासावर्धं च धर्मार्धम् । धर्मे वार्धं धर्मार्धमिति । आभिधार्मिकास्तु षडायतनव्यवस्थामनादृत्येति । चक्षुरायतनं यावत्कायायतनं [तिब् । ८४ ] मनआयतनमिति षडायतनमिति षडायतनव्यवस्थां युक्तरूपामनादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति । सालम्बनत्वात् । वेदनेन्द्रियादीनि हि सालम्बनानि अनन्तरं पठन्ति । जीवितेन्द्रियादीन्येकादशेति । जीवितेन्द्रियं वेदनेन्द्रियाणि पंच श्रद्धादीनि चेति । त्रयाणां च भाग इति । आज्ञास्यामीन्द्रियादीनां नवद्रव्यात्मकानां । मनैन्द्रियं मुक्त्वान्यान्यष्टौ द्रव्याणि धर्मधात्वेकदेशः । चक्षुरादयः पंच स्वनामोक्ता इति । पंच चक्षुरादयो धातवः पंचेन्द्रियाणि चक्षुरिन्द्रियं यावत्कायेन्द्रियं । स्त्रीपुरुषेन्द्रिये च कायेन्द्रियैकदेश एवेति । पंच चक्षुरादिधातवः सप्तेन्द्रियाणि भवन्ति । सप्त चित्तधातवो मनैन्द्रियमिति । एवं द्वादशाध्यात्मिका धातवोऽष्टाविन्द्रियाणि भवन्तीति । द्वादशाध्यात्मिका धातव एव धर्मार्ध एव चेन्द्रियमिति अवधारणात्पंच धातवो रूपादयस्तदन्यधर्मधातुप्रदेशो नेन्द्रियमिति सिद्धम् । आचार्ययशोमित्रकृतौ स्फुटार्थायामभिधर्मकोशव्याख्यायां धातुनिर्देशो नाम प्रथमं कोशस्थानम् । (अभिधर्मकोषव्याख्या ९२) ब्लन्क् (अभिधर्मकोषव्याख्या ९३) इइ (इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानम्) (इइ ।१) उक्तानीन्द्रियाणीति । प्रथमस्य द्वितीयस्य च कोशस्थानस्य सम्बन्धोपनिपाततां दर्शयन्नाह । उक्तानीन्द्रियाणीति । प्रथमकोशस्थानावसाने यस्माद् धर्मार्धमिन्द्रियम् इत्युक्तम् । तस्मादिदमायातमिति सम्बन्धः । [तिब् । ८५ ] कः पुनरिन्द्रियार्थ इति । वैयाकरणैरन्यथा इन्द्रियशब्दार्थव्युत्पत्तिः कृतेति । अतः प्रश्नयति । कः पुनरिन्द्रियार्थ इति । इदि परमैश्वर्ये इति पठ्यते । तस्य धातोरिन्दन्तीतीन्द्रियाणीति रूपं द्रष्टव्यम् । कथं कृत्वा । इन्दन्तीति इन्द्राणि रप्रत्यय औणादिकः । इन्द्राण्येवेन्द्रियाणीति स्वार्थे घस्तद्धितः । अथ वा इन्दन्तीतीन्द्रियम् । बहुत्वात्तु बहुवचनेन कृतो निर्देश इन्दन्तीतीन्द्रियाणीति । तस्मातिन्दन्तीत्यस्य शब्दस्य इन्द्रियमित्यादेशः । कथम् । अवर्णस्य रभावः तिशब्दस्य चेयादेशः । तेन नैरुक्तेन विधानेन इन्द्रियमिति भवति । तद्यथा कुञ्जर इति । वैयाकरणैर्हि कुञ्जोऽस्यास्तीति कुञ्जर इति मत्वर्थीयेन कुञ्जरशब्दो व्युत्पाद्यते । नैरुक्तैस्तु तदनादृत्य कुञ्जरः कुञ्जचारित्वादिति नैरुक्तेन न्यायेन साध्यते । तद्वदिहापि द्रष्टव्यम् । यदि हि वैयाकरणनयेन इन्द्रस्य लिङ्गमिन्द्रियमिति व्युत्पाद्येत । आधिपत्यार्थ इन्द्रियार्थो हीयेताधिपत्यार्थश्चेष्यते । तस्मादित्थमिन्द्रियशब्दस्य व्युत्पत्तिर्नैष्टव्येति । दृष्ट्वा श्रुत्वा च विषमपरिवर्जनादिति । दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरुतम् । श्वभ्रादिव्याघ्रादिरुतविषमपरिवर्जनात् । ससंप्रयोगयोरिति सचैतसिकयोः । रूपदर्शनशब्दश्रवणयोश्चेति । चक्षुः पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणां सिद्धान्तः । तेनालम्बनविशेषलक्षणयोर्दर्शनश्रवणयोरसाधारणकारणत्वे चक्षुःश्रोत्रयोराधिपत्यम् । (अभिधर्मकोषव्याख्या ९४) आत्मभावशोभायां पूर्ववद्[तिब् । ८५ ] इति । अघ्राणादीनां सत्त्वानामकान्तरूपत्वात् । अकान्तात्मभावत्वादित्यर्थः । तैः कवडीकाराहारपरिभोगादिति । तैर्घ्राणादिभिस्तत्परिभोगादिति । कथं गन्धस्य कवदीकाराहारत्वम् । नासिकयोर्गन्धग्रासव्यवच्छेदेन कवडीकरणात् । कथं स्प्रष्टव्यस्य कवडीकाराहारत्वम् । कायेन स्नानाभ्यङ्गादिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात् । द्वयोः किलेति । किलशब्दः परमतद्योतने । स्वमतमस्य पश्चाद्वक्ष्यते । द्वयोर् इति प्रत्येकमभिसम्बन्धः । सत्त्वभेदः स्त्रीपुरुष इति । स्त्रीत्येको निकायसभागः । पुरुष इत्यपरः । तयोर्भेदः । सत्त्वविकल्प इति स्तनादेः संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष इत्यर्थः । संक्लेशव्यवदानयोरित्यपर इति पूर्वाचार्यः । न सत्त्वभेदविकल्पयोः । अन्तरेणापि पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धेः । विकल्पकृतश्च सत्त्वभेद इत्यभिप्रायः । तद्वियुक्तविकलानामिति । वियुक्ताश्च ते विकलाश्च वियुक्तविकलाः । ताभ्यां स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकलास्तद्वियुक्तविकलाः । के । षण्ढपण्डकोभयव्यञ्जनाः । तद्वियुक्ताः षण्ढपण्डकाः । तेषां स्त्रीपुरुषेन्द्रियाभावात् । षण्ढपण्डकानां [तिब् । ८६ ] पुनः कः प्रतिविशेषः । षण्ढकाः स्वभावतो निःस्त्रीपुरुषेन्द्रियाः । पण्डका उपक्रमेणोपहतेन्द्रियाः । विनये तु पण्डका एव पंच पठ्यंते । प्रकृतिपण्डकः । ईर्ष्यापण्डकः । पक्षपण्डकः । आसेकपण्डकः । लूनपण्डकश्चेति । तत्र प्रकृतिपण्डकः षण्ढ इहाभिप्रेतः । यस्य हि प्रकृत्या व्यञ्जनं नास्ति । स प्रकृतिपण्डकः । शेषा इह पण्डका इष्यन्ते । लूनपण्डको हि तावदिन्द्रियच्छेदातिन्द्रियविकल इति स्फुट एषः । पक्षपण्डकादयस्त्विन्द्रियाकर्मण्यत्वेन तद्विकला एव । इन्द्रियकर्मण्यत्वकालेऽपि तद्विकला इति व्यवस्थाप्यन्त एव । तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात्प्रसवाजनकत्वाच्च । इन्द्रियसद्भावाशंकानिवृत्त्यर्थमेव चेह षण्ढपण्डका इति पृथक्पाठः । अन्यथा हि विनयवदिहाप्यभिधर्मे पण्डका इत्येव पठ्येरन् । उभयव्यञ्जनास्तद्विकलाः । स्थानभ्रंशवैकल्यादल्पसुखहेतुत्ववैकल्याच्च । अपरे व्याचक्षते । तद्वियुक्ताः षण्ढाः । तद्विकलाः पण्डकाः । उपक्रमवैकल्यात् । उभयव्यञ्जनाश्च तद्विकलाः । स्थानभ्रंशवैकल्यात् । अल्पसुखहेतुत्ववैकल्याच्चेति । तेषामसंवरादीनि न भवन्ति । (अभिधर्मकोषव्याख्या ९५) नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन् । आनन्तर्यं षण्ढादीनां तु नेष्यते अल्पोपकार्यलज्जित्वात् । [तिब् । ८६ ] छिनत्ति स्त्री पुमान् दृष्टिचरित इति वचनात् । स्त्रीपुरुषाणां तु तानि भवन्ति । अतः संक्लेशे आधिपत्यं स्त्रीपुरुषेन्द्रिययोः । संवरफलप्राप्तिवैराग्याणि चेति । संवरस्त्रिविधः प्रातिमोक्षसंवरो ध्यानसंवरोऽनास्रवसंवरश्च । तेषामेकोऽपि संवरो न भवति किमङ्ग सर्वः । संवरोऽप्येवम् इति वचनात् । अत एव च स्रोतआपत्त्यादिफलप्राप्तिः कामादिवैराग्यं च तेषां न संभवति । स्त्रीपुरुषाणां तु भवतीति । अतो व्यवदानेऽपि स्त्रीपुरुशेन्द्रिययोराधिपत्यमिति । निकायसभागसम्बन्धसंधारणयोरिति । जीवितेन्द्रियस्य निकायसभागोत्पत्तौ । निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते । निकायसभागसंधारणे चाधिपत्यम् । जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात् । मनैन्द्रियस्य पुनर्भवसम्बन्ध इति । क्लिष्टेन पुनर्भवसम्बन्धात् । जीवितेन्द्रियादस्य को विशेषः । जीवितेन्द्रियस्य अन्तराभव एव सम्बन्धनम् । मनैन्द्रियस्य तूपपत्तिभवेऽपि । समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति । मनैन्द्रियं तु भिन्नकालमपि पुनर्भवे तत्सम्बन्धनं करोति । वशिभावानुवर्तन इति । चित्तस्य वशिभावमनुवर्तते लोको धर्मो वा यथोक्तम् । चित्तेनायं लोको नीयत इति विस्तरः । गाथायामप्युक्तम् । चित्तेन नीयते लोकश्चित्तेन परिकृष्यते एकधर्मस्य चित्तस्य [तिब् । ८७ ] सर्वधर्मा वशानुगा इति । रागादीनां तदनुशायित्वादिति । तेषु सुक्ःादिषु अनुशायितुं शीलमेषामालम्बनतः संप्रयोगतो वा । त इमे तदनुशायिनो रागादयः । तद्भावस्तदनुशायित्वम् । तस्मादिति । यथोक्तं सुखायां वेदनायां रागोऽनुशेते । दुःखायां द्वेसः । अदुःखसुखायां मोह इति । तैर्हि व्यवदायत इति । तैर्विशुध्यतीत्यर्थः । तदेवं क्लेशविशुद्धावेशां श्रद्धादीनामाधिपत्यमुक्तं भवति । व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपर इति । न केवलं संक्लेशे सुखादीनामाधिपत्यं । किं तर्हि । व्यवदानेऽपीत्यपिशब्दस्यार्थः । आभिधार्मिकाः केचिदेवमाहुः । व्यवदानेऽपि तेषामाधिपत्यमस्तीति आगमम् (अभिधर्मकोषव्याख्या ९६) आनयन्ति । यस्मात्सुखितस्य चित्तं समाधीयत इत्युक्तं सूत्रे । दुःखोपनिषच्छ्रद्धा । दुःखमुपनिषदस्याः । सेयं श्रद्धा दुःखोपनिषत् । दुःखहेतुकेत्यर्थः । दुःखे सति कस्यचिद्धर्मे रत्नत्रये वा श्रद्धा जायते । प्रव्रज्यां वाभिलषति । षण्णैष्क्रम्याश्रिताः सौमनस्यादय इति । षण्णैष्क्रम्याश्रितानि सौमनस्यानि । षण्णैष्क्रम्याश्रितानि दौर्मनस्यानि । षण्णैष्क्रम्याश्रिता उपेक्षाः । [तिब् । ८७ ] नैष्क्रम्यं सास्रवोऽनास्रवो मार्गः । धातोः संसाराद्वा निष्क्रमणं वैराग्यमित्यपरे । यथोक्तं सूत्रे । चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितं नैष्क्रम्यालम्बनमित्यर्थः । नैष्क्रम्यानुकूलमिति वा । एवं यावन्मनः प्रतीत्य धर्मांश्च उत्पद्यते सौमनस्यं नैष्क्रम्याश्रितमिति । तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य उत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम् । एवं यावन्मनः । तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्याश्रिता । एवं यावन्मनः । नैष्क्रम्यं प्राप्स्यामीति कस्यचित्सौमनस्यम् । न नैष्क्रम्याय मया यत्नः क्रियते इति कस्यचिद्दौर्मनस्यम् । कस्यचित्प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति । (इइ ।२-४) अपरे पुनराहुरिति सौत्रान्तिकाः । विज्ञाय विषमपरिहारादिति । विज्ञानेन विषमपरिहारः क्रियते । न चक्षुःश्रोत्रेणेत्यभिप्रायः । नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वास्तीति । न रूपदर्शनशब्दश्रवणं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते । ग्रहणं च विज्ञानमेवेति नान्यद्भवति । तस्माच्चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ यदाधिपत्यमुक्तम् । तदेव तद्भवति । नान्यत्राधिपत्यमेतद्[तिब् । ८८ ] इत्यभिप्रायः । मनसः पुनः सर्वार्थोपलब्धाविति । स्वार्थोपलब्ध्याधिपत्याद् इत्येव सिद्धे मनसः सर्वार्थोपलब्धाविति वचनं धर्मधातोरसर्वधर्मस्वभावत्वात् । व्याख्यातं चैतत्पुरस्तात् । ननु चार्थानामप्यत्राधिपत्यमिति । द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति वचनात् । अधिकं हि प्रभुत्वमाधिपत्यमिति । अधिकः प्रभुरधिपतिस्तद्भाव आधिपत्यमिति । सर्वरूपोपलब्धौ सामान्यकारणत्वादिति । नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुषः करणत्वात् । न तु रूपस्यैकरूपस्य नीलपीतदिसर्वरूपोपलब्धौ कारणत्वम् । न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति । तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेरिति । यस्मादुपलब्धिश्चक्षुरादिपटुमन्दतामनुविधत्ते । तद्यथा पटुनि चक्षुषि पट्वी तदुपलब्धिः । मन्दे मन्देति । आदिशब्देन अकुशलकुशलसवेदनावेदनानुविधानं । (अभिधर्मकोषव्याख्या ९७) अकुशले मनस्यकुशलोपलब्धिः । कुशले कुशला । सवेदने सवेदना । अवेदनेऽवेदनेति । न रूपस्य पटुमन्दताद्यनुविधत्ते उपलब्धिः । तेनाह । तद्विपर्ययादिति । तस्माच्चक्षुरादीनामधिकमैश्वर्यं [तिब् । ८८ ] न रूपादीनाम् । कायात्स्त्रीपुरुषेन्द्रिये इति । अत्र साधनम् । कायेन्द्रियस्वभावं स्त्रीपुरुषेन्द्रियम् । स्प्रष्टव्यविज्ञानजनकत्वात् । अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत् । वैधर्म्येण चक्षुरिन्द्रियवत् । स्त्र्याकृतिस्वरचेष्टाभिप्राया इति । स्त्र्यभिप्रायपुरुषाभिप्राययोर्विपर्ययेण । तदेवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोराधिपत्यम् । निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यम् । न तु वैभाषिकवत्निकायसभागसम्बन्धे । तत्र मनस एवाधिपत्यात् । संक्लेशे वेदनानामिति । अत्र वैभाषिकैः सार्धमैकमत्यम् । तथा हि तैरिति विस्तरः । तथा हि तैः श्रद्धादिभिः क्लेशाश्च विष्कंभ्यन्ते लौकिकमार्गगतैर्मार्गश्चावाह्यते निर्वेधभागीयादिगतैः । तदेवं व्यवदानसंभारे श्रद्धादीनां प्रत्येकमाधिपत्यमुक्तं भवति । न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आज्ञातावीन्द्रियं क्षयज्ञानाद्यनास्रवमिन्द्रियं । तदेव च विमुक्तं क्लेशविमुक्त्या संतानविमुक्त्या च । तत्प्राप्तस्य निरुपधिशेषनिर्वाणं भवति । तस्मादाज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण आधिपत्यं व्यवस्थाप्यते । दृष्टधर्मसुखविहारं प्रतीति [तिब् ।८९ ] विस्तरः । दृष्टो धर्मो दृष्टधर्मः । दृष्टजन्मेत्यर्थः । सुखो विहारः सुखविहारः । दृष्टधर्मे सुखविहारः दृष्टधर्मसुखविहारः । तं प्रत्याज्ञातावीन्द्रियस्याधिपत्यम् । विमुक्तिप्रीतिसुखप्रतिसंवेदनादिति । विमुक्तिः क्लेशप्रहाणम् । प्रीतिः सौमनस्यम् । सुखं प्रश्रब्धिसुखम् । विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम् । तस्मादिति । तदुक्तं भवति । विमुक्तिप्रीतिसुखप्रतिसंवेदनमेव दृष्टधर्मसुखविहार इति । (इइ ।५) वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यमिति । सांख्याश्चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति । वागिन्द्रियं येन वचनं क्रियते । पाणीन्द्रियं येन किंचिद्द्रव्यमादीयते । पादेन्द्रियं येन विहरणं क्रियते । चंक्रमणमित्यर्थः । पाय्विन्द्रियं येन पुरीषोत्सर्गः क्रियते । उपस्थेन्द्रियं कायेन्द्रियैकदेशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते । न खलूपसंख्यातव्यमविद्यादीनामिन्द्रियत्वम् । येनार्थेन भगवता द्वाविंशतिरिन्द्रियाण्युक्तानि । तत्राविद्यादीनामयोगात् । कोऽसावर्थ इत्याह । (अभिधर्मकोषव्याख्या ९८) चित्ताश्रयस्तद्विकल्प इति विस्तरः । चित्तस्याश्रयस्तदाश्रयस्य विकल्पः स्थितिः संक्लेशो व्यवदान- संभारो व्यवदानं चेति । एतच्च षडायतनं मौलं सत्त्वद्रव्यम् [तिब् । ८९ ] इति । तदितरेषां तदाश्रितत्वात् । तथा हि षडिन्द्रियाधिपत्यसंभूतमिन्द्रियाधिष्ठानम् । षड्वा विषया विज्ञानकायाश्च । तदेतदपि सत्त्वद्रव्यमिष्यते न तु मौलम् । न ह्यधिष्ठानाद्याधिपत्यसंभूतं षडायतनमिति । व्यवदानसंभरणं पंचभिरिति श्रद्धादिभिः । व्यवदानं त्रिभिरिति । अनाज्ञातमाज्ञास्यामीन्द्रियादिभिः । (इइ ।६) अपरः कल्पः । प्रवृत्तेराश्रयोत्पत्तिर् इति विस्तरः । प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते । प्रवृत्तेः संसारस्याश्रय उत्पत्तिः स्थितिः उपभोगश्च । निवृत्तेरपि निर्वाणस्याश्रय उत्पत्तिः स्थितिरुपभोगश्च । एतावता च पुरुषार्थपरिसमाप्तिरिति । निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः । भवतामपि पुरुषार्थपरिसमाप्तिः पठ्यते । तस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्त इति । तत्र षडायतनं मूलसत्त्वद्रव्यभूतं संसरतीति प्रवृत्तेराश्रयः । उत्पत्तिः स्त्रीपुरुषेन्द्रिये इति । उत्पद्यतेऽस्या इत्युत्पत्तिः । कस्मादित्याह । तत उत्पत्तेः । कस्य । षडायतनस्य । मनःकायेन्द्रिययोः साक्षात्ताभ्यामुत्पत्तेः । चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः । स्थितिर्जीवितेन्द्रियेण षडायतनावस्थानात् । उपभोगो वेदनाभिः सुखादिभिः । श्रद्धादयो हि निवृत्तेराश्रय इति । श्रद्धादीनां प्रतिष्ठाभूतत्वात् । आज्ञास्यामीन्द्रियं प्रभव इत्यादिभवः प्रथमतोऽनास्रवोत्पत्तेः । [तिब् । ९० ] स्थितिराज्ञेन्द्रियं प्राबन्धिकत्वात् । उपभोग आज्ञातावीन्द्रियेणेति । तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात् । अत एतावन्त्येवेन्द्रियाणीति नाविद्यादीनामिन्द्रियत्वमिष्टमित्यर्थः । अत एव चैषामेषोऽनुक्रम इति । चक्षुरिन्द्रियं यावदाज्ञातावीन्द्रियमिति प्रवृत्तिनिवृत्त्योराश्रयादिभावात् । वाचस्तु नेन्द्रियत्वम् । वचने शिक्षाविशेषापेक्षत्वात् । जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति । न त्वेवं वचनं करोति । तस्मादिन्द्रियधर्मातिक्रान्तत्वात् । न वागिन्द्रियं भवितुमर्हति । जिह्वेन्द्रियाधिष्ठानस्यैव तु एतत्कर्म वचनम् (अभिधर्मकोषव्याख्या ९९) इति । पाणिपादस्य चादानविहरणादनन्यत्वादिति । पाणिरेव ह्यन्यथान्यत्र चोत्पन्न आदानमुच्यते । पाद एव चान्यथान्यत्र चोत्पन्नो विहरणमिति । कर्माभावात् । स्वात्मनि च वृत्तिविरोधात् । न पाणिपादस्येन्द्रियत्वम् । उरगप्रभृतीनामिति । सर्पादीनां पाणिपादं नास्ति । अथ च तेषामादानविहरणं भवति न पाणिपादस्येन्द्रियत्वम् । तेषामप्यस्ति सूक्ष्ममिति चेत् । न । साध्यत्वात् । पायोरपि नेन्द्रियत्वमुत्सर्ग इत्यशुच्युत्सर्गे । गुरुद्रव्यस्य यस्य कस्यचिदाकाशे छिद्रे सर्वत्र पायुस्थानादन्यत्रापि पतनात् । गुरुद्रव्यस्य गुरुत्वादेवं स्वयं पतनं नेन्द्रियकृतम् । वायुना च तत्प्रेरणादिति । वायुना तस्य गुरोरशुचिद्रव्यस्य प्रेरणा । [तिब् । ९० ] वायोरेव तत्कर्म स्यान्न पाय्विन्द्रियस्य । तदनुपलब्धेः । उपस्थस्यापि नेन्द्रियत्वमानन्द इति । कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वमानन्दे । कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं हि तत् । क्लिष्टं सौख्यमिति वाक्यर्थः । कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वनामपीति विस्तरः । यदि यथोक्तात्कारणातेतावन्त्येवेन्द्रियाणीति नेष्यते । कण्ठस्याभ्यवहरणे । दन्तस्य चर्वणे । अक्षिवर्त्मन उन्मेषनिमेषे । पर्वणः अस्थिसंधिसंकोचविकासक्रियायामिन्द्रियत्वं प्रसज्येत । सर्वस्य वा कारणभूतस्येति विस्तरः । सर्वस्य वा कारणभूतस्य बीजादेः स्वस्यां क्रियायां स्वकार्यक्रियायामङ्कुरादिलक्षणायामिन्द्रियत्वं प्रसज्येतेत्यधिकृतम् । यदि यस्य यत्र पुरुषकारोऽस्ति । तस्य तत्रेन्द्रियत्वमिष्यते । स च नियमहेतुः पूर्वोक्तो नेष्यते । तस्मादयुक्तं वागादीनामिन्द्रियत्वम् । (इइ ।७, ८) तत्र चक्षुरादीनामिति विस्तरः । तत्रेति वाक्योपन्यासे । कृतो निर्देश इति । तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः । कायात्स्त्रीपुरुषेन्द्रिये । विज्ञानं प्रतिविज्ञप्तिर् इति । जीवितेन्द्रियस्येति । आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि य इत्यत्र । श्रद्धादीनां चैत्तेष्विति । श्रद्धाप्रमादः प्रश्रब्धिर् इत्यत्र प्रदेशे । ननु च वेदनाया अपि कृतो निर्देशः चैत्तेषु च करिष्यते वेदनानुभव इति । (अभिधर्मकोषव्याख्या १००) वेदना चेतना संज्ञेति वचनात् । [तिब् । ९१ ] सत्यं सामान्यं रूपं वेदनाया उक्तं वक्ष्यते च । विशेषविभागरूपं त्विह विवक्षितमिति सुखादीनां कर्तव्यो निर्देश इत्याह । आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्यो यस्मान्मनसो लक्षणमुक्तम् । श्रद्धादीनां चैत्तेषु करिष्यते । सुखसौमनस्योपेक्षाणामिह क्रियते । एषामपि कर्तव्य एव । यस्मान्नवद्रव्यस्वभावत्वमेषां दर्शयितव्यम् । एतस्यां चावस्थायामेताणि नव द्रव्याण्यनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते । एतस्यामवस्थायामाज्ञेन्द्रियाख्यामेतस्यामाज्ञातावीन्द्रियाख्यां लभन्त इति । स एषामवस्थाविशेषो दर्शयितव्य इत्यतः सूक्तमेतत् । सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्तव्य इति । असाता या कायिका वेदनेति असातेति सातानिवृत्त्यर्थम् । कायिकीति मानसीनिवृत्त्यर्थम् । तत्र कायाश्चक्षुरादयः पंच परमाणुसंचयात्मकत्वात् । तत्र काये भवा कायेन वा आश्रयेण सह चरतीति कायिकी । या उपघातिका पंचेन्द्रियाश्रया वेदना । तत् दुःखेन्द्रियम् इत्यवगन्तव्यम् । सुखं सातेति । अत्रेन्द्रियमित्यनुवर्तते । कायिकीति च । सातेति ग्रहणमसातानिवृत्त्यर्थम् । तदेतदुक्तं भवति । तत्सुखेन्द्रियं । यानुग्राहिका पंचेन्द्रिया वेदनेति । ध्याने तृतीये तु [तिब् । ९१ ] चैतसी सा सुखेन्द्रियम् इति । तृतीये तु ध्याने चैतस्यपि साता वेदना सुखेन्द्रियमिति व्यवस्थाप्यते । कस्माच्चैतस्येव साता तत्र गृह्यते न कायिकीति । अत आह । न हि तत्र कायिकी वेदनास्ति । पञ्चविज्ञानकायाभावादिति । तृतीये ध्याने कस्मात्सा न सौमनस्येन्द्रियम् । अत आह । तृतीये तु ध्याने प्रीतिवीतरागत्वात् । सुखेनेन्द्रियमेव सा । न सौमनस्येन्द्रियम् । सातत्वाद्धि सुखमुच्यते । न प्रीतिरसंप्रहर्षाकारत्वात् । तथा हि सूत्र उक्तम् । प्रीतेर्विरागादुपेक्षको विहरतीति विस्तरेण यावत्स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति । सौमनस्यादन्या प्रीतिरिति चेत् । अत आह । प्रीतिर्हि सौमनस्यमिति । असाता चैतसी पुनर्दौर्मनस्यम् इति । उपघातिका चैतसिकी वेदना दौर्मनस्यम् । उपेक्षा तु मध्येति । (अभिधर्मकोषव्याख्या १०१) उपेक्षेन्द्रियं तु या मध्या वेदना । नैवसातासातेत्यर्थः । उभयीति । उभयावयवावस्या उभयी । कायिकी चैतसिकीत्यर्थः । अविकल्पनाद् इति । अभिनिरूपणाविकल्पभावादित्यर्थः । प्रायेणेति ग्रहणं समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम् । न तु कायिकमिति । न तु कायिकं सुखदुःखं विकल्पनादुत्पद्यते । किंकारणमित्याह । विषयवशादर्हतामप्युत्पत्तेरिति । प्रहीणप्रियाप्रियविकल्पानामप्यर्हतां विषयवशेनैव कायिकसुखदुःखोत्पादात् । [तिब् । ९२ ] अतस्तयोरिन्द्रियत्वेन भेद इति । तयोः कायिकचैतसिकयोः सुखयोर्दुःखयोश्च इन्द्रियत्वेन भेदः पृथक्त्वं सुखेन्द्रियं सौमनस्येन्द्रियं दुःखेन्द्रियं दौर्मनस्येन्द्रियमिति । उपेक्षा तु स्वरसेनैवानभिसंस्कारेणाविकल्पयत एवानभिनिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा । तस्मादेकमिन्द्रियं क्रियते इन्द्रियत्वेनाभेदः उपेक्षेन्द्रियमिति । अन्यथा च कायिकमिति विस्तरः । अन्येनानुभवरूपविशेषेण कायिकं सुखमनुगृह्णाति । अन्येन चैतसिकं । स्थिरं हि कायिकम् । अस्थिरं हि चैतसिकम् । एवं दुःखमन्येनानुभवरूपविशेषेण कायिकमुपहन्ति । अन्येन चैतसिकमिति । उपेक्षायां नैष विकल्प इति । एष स्वरूपविशेषलक्षणो विकल्पो नास्ति । अत उपेक्षणं प्रत्युपेक्षाक्रियां प्रति । अविकल्पनातस्वभावविशेषादभेदः । दृग्भावनाशैक्षपथ इति । दृग्दर्शनम् । दृशो भावनाया अशैक्षस्य च पन्था दृग्भावनाशैक्षपथः । तस्मिन्नेव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि । तानि दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियमशैक्षमार्गे आज्ञातावीन्द्रियमिति व्यवस्थाप्यन्ते । अन्योन्यमपेक्ष्यमाणानि तानि नव द्रव्याणि तत्तन्नाम लभन्ते । [तिब् । ९२ ] नवेति च कलापान्तरापेक्षयैवमुक्तम् । न त्वेकस्मिंश्चित्तकलापे नव द्रव्याणि भवन्ति । सुखसौमनस्योपेक्षेन्द्रियाणामेकतरस्यैव भावात् । यदि हि स मार्गोऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः । तत्रोपेक्षेन्द्रियमेव । न सुखसौमनस्येन्द्रिये । यदि प्रथमद्वितीयध्यानभूमिकः । तत्र सौमनस्येन्द्रियमेव । यदि तृतीयध्यानभूमिकः । तत्र सुखेन्द्रियमेव नान्यदिति । अनाज्ञातमाज्ञातुं प्रवृत्त इति । अनाज्ञातं सत्यचतुष्टयमाज्ञातुं (अभिधर्मकोषव्याख्या १०२) वेदितुं प्रवृत्तः आज्ञास्यामीति प्रारब्धः । तस्येन्द्रियमनाज्ञातमाज्ञास्यामीन्द्रियं । अलुक्समासः । आख्यातप्रतिरूपकश्चायमाज्ञास्यामीति शब्दः । भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव तु सत्यचतुष्टयमाजानाति शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम् । तस्याज्ञस्य पुद्गलस्येन्द्रियमाज्ञेन्द्रियम् । आज्ञमेवेन्द्रियमिति वा । अशैक्षमार्गे त्वाज्ञातमित्यवगमः आज्ञाताव इति । अर्थकथनमात्रमेतत् । शब्दविग्रहस्त्वेवं कर्तव्यः । आज्ञातमित्याव आज्ञातावः । अवतेः घञि रूपमेतदाव इति । सोऽस्यास्तीति मत्वर्थीयः आज्ञातावी । आज्ञातमवितुं शीलमस्येति वेति ताच्छीलिको णिनिः । तथाभूतस्येन्द्रियमिति । तथाभूतस्य पुद्गलस्येन्द्रियम् । आज्ञाताविन इत्यर्थः । (इइ ।९) अमलं त्रयम् इति । अमलमेव त्रयमित्यवधार्यते । ननु चायमनास्रवसास्रवप्रकारभेद उक्तो धातुनिर्देशे । [तिब् । ९३ ] अनास्रवा मार्गसत्यम् इति । तथा सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवा इत्यादिवचनात् । सत्यमुक्तोऽयमेवमादिः प्रकारभेदः । स तु सामान्यरूपेणोक्तो न भेदरूपेण । अतः शिष्यसुखप्रतिपत्त्यर्थमयमेवमादिप्रकारभेदः प्रतिपदरूपेण पुनरभिधीयत इत्येवमवगन्तव्यम् । द्विधा नवेति न सूत्रयितव्यम् । एकान्तानास्रवसास्रवनिर्धारणादेव हि द्विधा नवेति सिद्धेः । यदि ह्येतानि नवैकन्तेनानास्रवाणि स्युः । एकान्तानास्रवेष्वाज्ञास्यामीन्द्रियादिषु पठ्येरन् । तथैकान्तसास्रवाणि स्युः । एकान्तसास्रवेषु रूपीन्द्रियजीवितदुःखदौर्मनस्येषु पठ्येरन् । न चैवम् । अतो नव द्विधेति सिद्धम् । अस्त्येतदेवम् । मतान्तरनिवृत्त्यर्थं तु पुनरिदमुच्यते नव द्विधेति । द्विधैव नव । नानास्रवाणि यथैके कथयन्ति । तत्सिद्धये चागममानयन्ति । यस्येमानीति विस्तरः । सर्वेण सर्वाणि न सन्तीति । सर्वेण प्रकारेण मृदुमध्याधिमात्रभेदेन । सर्वाणीति पञ्चापि न सन्तीत्यर्थः । पृथग्जनपक्षावस्थितं वदामीति वचनात् । अर्थादुक्तं भवति । यस्येमानि सन्ति स आर्य इति । नेदं ज्ञापकम् । तेषामनास्रवत्वमधिकृत्येत्याचार्यः । तथा ह्य्[तिब् । ९३ ] आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याहेति । कथम् । (अभिधर्मकोषव्याख्या १०३) पञ्चेमानि भिक्षव इन्द्रियाणि । कतमानि पञ्च । श्रद्धेन्द्रियं यावत्प्रज्ञेन्द्रियमेषां पंचानामिन्द्रियाणां तीक्ष्णत्वात्परिपूर्णत्वादर्हन् भवति । ततस्तनुतरैर्मृदुतरैरनागामी भवति । ततस्तनुतरैर्मृदुतरैः सकृदागामी । ततस्तनुतरैर्मृदुतरैः सकृदागामी । ततस्तनुतरैर्मृदुतरैः स्रोतआपन्नः । ततोऽपि तनुतरैर्मृदुतरैर्धर्मानुसारी । ततस्तनुतरैर्मृदुतरैः श्रद्धानुसारी । इति हि भिक्षव इन्द्रियपारमितां प्रतीत्य फलपारमिता प्रज्ञायते । फलपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते । यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति । तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामीति । तदेवमार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह भगवानिति । पृथग्जनो वा द्विविध इति । आभ्यन्तरकश्च बाह्यकश्च । असमुच्छिन्नकुशलमूल आभ्यन्तरको बौद्धसंगृहीतत्वात् । समुच्छिन्नकुशलमूलस्तु बाह्यकस्तद्विपर्ययात् । अत एव च बाह्यमिति विशेषणम् । इतरथा हि पृथग्जनपक्षावस्थितं वदामीत्येवावक्ष्यत् । उक्तं च सूत्र इति । अथ भगवतोऽचिराभिसंबुद्धस्यैतदभवत् । अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दर्शो दुरवबोधोऽतर्क्योऽतर्कावचरः सूक्ष्मो [तिब् । ९४ ] निपुणः पण्डितविज्ञवेदनीयः । तं चाहं परेषामावेदयेयम् । तं च परे न विजानीयुः । स मम स्याद्विघातः । स्यात्क्लमथः । स्याच्चेतसोऽनुदयः । यन्न्वहमेकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगमनुयुक्तो विहरेयम् । अथ ब्रह्मणः सहापतेर्ब्रह्मलोके स्थितस्यैतदभवत् । नश्यति बतायं लोकः । प्रणश्यति बतायं लोकः । यत्रेदानीं कदाचित्कर्हिचित्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते । तद्यथा उदुम्बरपुष्पम् । तस्य चाद्य भगवतोऽल्पोत्सुकविहारितायां चित्तं क्रामति न धर्मदेशनायाम् । यन्न्वहं गत्वाध्येषयेयम् । अथ ब्रह्मा सहापतिः तद्यथा बलवान् पुरुषः सम्मिंजितं बाहुं प्रसारयेत् । प्रसारितं वा सम्मिंजयेत् । एवमेव ब्रह्मा सहापतिः ब्रह्मलोकेऽन्तर्हितो भगवतः पुरस्तात्प्रत्यस्थात् । अथ ब्रह्मा तस्यां वेलायां गाथामभाषत । प्रादुर्बभूव मगधेषु पूर्वं धर्मो ह्यशुद्धः समलानुबद्धः । अपावृणीष्व अमृतस्य द्वारं वदस्व धर्मं विरजं निरंगणम् । अथ भगवान् तस्यां वेलायामिमे गाथे अभाषत् । कृच्छ्रेण मे अधिगतो ब्रह्मन् खिलां प्रविदाल्य । (अभिधर्मकोषव्याख्या १०४) भवरागपरीतैश्च नायं धर्मः सुसंबुधः । प्रतिस्रोतोपमं मार्गं गभीरमतिदुर्दृशं न द्रक्ष्यन्ते रागरक्तास्तमःस्कन्धेन चावृताः । ब्रह्मावोचत् । सन्ति भदन्त [तिब् । ९४ ] सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपीत्यप्रवर्तित एव धर्मचक्र इति विस्तरः । इन्द्रियाणि श्रद्धादीनि । यैस्ते भव्या उक्ताः । यस्मादप्रवर्तितेऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया इत्याद्युक्तम् । तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनीति । सदेवकाल्लोकादिति विस्तरः । न तावदहमस्मात्सदेवकाल्लोकात्समारकात्सब्रह्मकात्सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षमिति विस्तरवचनम् । न चानास्रवाणामेष परीक्षाप्रकार इति । न ह्यनास्रवाणामास्वाद आदीनवो निःसरणं वा युज्यते । (इइ ।१०) अर्हन्निति । नानागामी । क्लेशविमुक्तसंतानत्वात् । ऋद्धिमानिति प्राप्ताभिज्ञः । चेतोवशित्वं प्राप्त इति । असमयविमुक्तः । जीवितपरिष्कारमिति । जीविताय परिष्कारस्तदनुगुणत्वात् । दत्त्वा तत्प्रणिधायेति । तदायुः प्रणिधाय चेतसि कृत्वेत्यर्थः । कथमित्याह । यन्मे भोगविपाकं कर्म । तदायुर्विपाकं भवत्विति । प्रान्तकोटिकमिति । वृद्धिनिष्ठागतम् इति लक्षणमस्य वक्ष्यते । चित्तमुत्पादयति वाचं च भाषत इति । चित्तवाचावपि तत्सिद्धये कुर्यात्नैककारणसाध्यं हि कार्यं । तदनेन [तिब् । ९५ ] विपाक एव जीवितेन्द्रियमिति दर्शयति । यन्मे भोगविपाकं कर्म । तदायुर्विपाकदायि भवत्विति । ध्यानभावनाबलं तु तस्याकर्षकमिति । विपाकोच्छेषं विपच्यत इति । अकालमरणेनापरिसमाप्तफलस्य त्यक्तस्य जन्मान्तरकर्मणो भावनाबलेन विपाकोच्छेषमाकृष्य प्रतिसंवेदयते । तेषां तादृश इति तेषां योगिनाम् । पूर्वकर्मजं स्थितिकालावेधमिति । पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म । ततो जातः पूर्वकर्मजः । स्थितिरिन्द्रियमहाभूतानां प्रवाहः । स्थितेः कालः स्थितिकालः । तस्यावेध आक्षेपः । स्थितिकालावेधः । तावत्संसारक्षणानुबन्धसामर्थमाक्षेपः । तेन ह्यसौ स्थितिकाल आविध्यते । तं पूर्वकर्मजं स्थितिकालावेधमिन्द्रियमहाभूतानां व्यावर्तयन्ति योग्नः । अपूर्वं च समाधिजमागन्तुकमाक्षिपन्ति । (अभिधर्मकोषव्याख्या १०५) प्रश्नात्प्रश्नान्तरमुपजायत इति । अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति । तज्जीवितेन्द्रियं कस्य विपाक इत्यस्मात्प्रश्नात्किमर्थमायुःसंस्कारानधितिष्ठन्तीति प्रश्नान्तरम् । परहितार्थं शासनस्थित्यर्थं चेति । परहितार्थं बुद्धा भगवन्तः । शासनस्थित्यर्थमेव श्रावकः । रोगादिभूतं चात्मभावमिति । रोगगण्डशल्यादिभूतं त्रिदुःखतायोगात् । क्व कस्य चेति । क्वेत्यस्य प्रश्नविसर्जनं मनुष्येष्वेव [तिब् । ९५ ] त्रिषु द्वीपेष्विति । कस्येत्यस्य विसर्जनं स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिध्यानलाभिन इति । तस्य हीति विस्तरः । समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिनः तीक्ष्णेन्द्रियत्वात् । क्लेशैश्चानुपस्तब्धा संततिर्निरवशेषक्लेशप्रहाणात् । दृष्टिप्राप्तस्य यद्यपि समाधौ वशित्वमस्ति । न तु तस्य क्लेशैरनुपस्तब्धा संततिः । समयविमुक्तस्य यद्यपि क्लेशैरनुपस्तब्धा संततिः । न तु समाधौ वशित्वम् । असमयविमुक्तस्य तूभयमस्ति । बहुवचनमिति । जीवितसंस्कारानिति यद्वचनं । तद्बहुवचनम् । कस्मादित्याह । बहूनामिति विस्तरः । बहूनां संतानवर्तिनां जीवितसंस्काराणामुत्सर्जनाधिष्ठानात् । न ह्येकस्य क्षणस्य उत्सर्जनेऽधिष्ठाने वा प्रोयोजनमस्ति । प्रवाहेण परकार्याभिनिष्पादनात् । एकस्य च क्षणस्यापीडाकरत्वात् । न च कालन्तरस्थावरमिति । कालान्तरस्थानशीलं कालान्तरस्थावरमक्षणिकम् । तच्चैतदायुर्द्रव्यं न भवतीति द्योतनार्थं बहुवचनमित्येके । बहुष्वेव संस्कारेष्विति सौत्रान्तिकानामयं पक्षः । एकस्मिन्नपि क्षणे बहवस्ते संस्काराः । येष्वायुरिति प्रज्ञप्तिः । नैकमायुर्नाम द्रव्यमस्ति । ते च संस्काराः पंचस्कन्धस्वभावाश्चतुःस्कन्धस्वभावा वा द्रष्टव्याः । अन्यथा हि नैव संस्कारग्रहणमकरिष्यत । एवं तु वक्तव्यमभविष्यत् । भगवान् जीवितान्यधिष्ठाय आयूंष्युत्सृष्टवानिति मरणवशित्वज्ञापनार्थमिति । मरणे [तिब् । ९६ ] वशित्वमस्तीति । त्रैमास्यमेव नोर्ध्वमिति । त्रयो मासाः समाहृतास्त्रिमासम् । त्रिमासमेव त्रैमास्यमत्र कालाध्वनोरत्यन्तसंयोगे द्वितीया भवति । नोर्ध्वं त्रैमास्याद्विनेयकार्याभावात् । सुभद्रावसानत्वात्बुद्धकार्यस्य । तस्यापि संपादनार्थमिति प्रतिज्ञातसंपादनार्थम् । अन्यथा वचनमात्रं स्यादिति । कल्पावशेषः । कल्प एकः सकलः कल्पाधिकः कल्पः सातिरेक इत्यर्थः । स्कन्धमरणमारयोर्(अभिधर्मकोषव्याख्या १०६) इति । चत्वारो माराः देवपुत्रमारः क्लेशमारः स्कन्धमारः मरणमारश्च । तत्र प्रथमे यामे देवपुत्रमारो निर्जितः । द्वितीये यामे दिव्येन चक्षुषा व्यवलोक्य तृतीये यामे क्लेशमारो निर्जितः । वैशाल्यां तु त्रैमास्यं जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृष्टवान् । स्कन्धमारनिर्जयार्थमुत्सृष्टाः स्कन्धाः । तेषूत्सृष्टेषु मर्तव्यं स्यात् । अतो मरणमारनिर्जयार्थमधिष्ठिता इति वैभाषिकाः । निष्ठितमानुषंगिकं यत्प्रश्नात्प्रश्नान्तरमुपजातं । द्वेधा द्वादशेति । द्वेधैव द्वादश एवेत्यवधार्यते । ऋतेऽन्त्यादष्टकाच् छ्रद्धादिकादाज्ञातावीन्द्रियपर्यन्तात् । दौर्मनस्याच्च । जीवितेन्द्रियादेकन्तविपाकादन्यानि द्वादशेन्द्रियाणि विपाकश्चाविपाकश्च । तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तान्यौपचयिकान्यविपाकः । [तिब् । ९६ ] मनोदुःखसुखमिति विस्तरः । यानि मनआदीनि कुशलक्लिष्टानि तान्यविपाकः । यानि च यथायोगमैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावान्यव्याकृतानि तान्यविपाकः । यथायोगमिति विशेषणम् । ऐर्यापथिकादीनां मानसत्वेन दुःखेन्द्रियसंभवात्सुखसौमनस्ययोश्च क्वचिदसंभवात् । तत्र कामधातावैर्यापथिकं मनैन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षेन्द्रिये अविपाकः । रूपधातावैर्यापथिकं मनैन्द्रियमविपाकः । वेदनेन्द्रियं च तत्संप्रयुक्तं यथाभूमि । नैर्माणिकं पञ्चभूमिकम् । तत्र चोपेक्षेन्द्रियमेवाविपाकः । ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यमुपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा । शेषाणि विपाक इति । कुशलक्लिष्टैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावेभ्यो मनैन्द्रियादिभ्योऽन्यानि मनैन्द्रियादीनि विपाकजानि विपाकः । शेषाण्यविपाक इति सिद्धमिति । जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणादेव शेषाण्यविपाक इति सिद्धम् । कतमानि पुनस्तानि । दौर्मनस्येन्द्रियं न विपाकः कुशलाकुशलत्वात् । तथा हि वक्ष्यति । तत्त्वेकं सविपाकम् इति । श्रद्धाद्य् अष्टकं कुशलम् इत्यविपाकः । [तिब् । ९७ ] विपाकोऽव्याकृतो धर्मः । सत्त्वाख्य (अभिधर्मकोषव्याख्या १०७) इति विपाकलक्षणाभावात् । यदि दौर्मनस्येन्द्रियं न विपाक इत्यनेनागमविरोधं दर्शयति । संप्रयोगवेदनीयतामधिकृत्येति । वेदनीयं वेदना । दौर्मनस्यं वेदनीयमस्मिन्निति दौर्मनस्यवेदनीयं कर्म । सौमनस्योपेक्षावेदनीये अपीति । संप्रयोगमात्रवचनाद्दौर्मनस्यवत्सौमनस्योपेक्षे अपि न विपाकः प्राप्णुत इति परस्याभिप्रायः । संप्रयोगेऽपि न दोषो विपाकेऽपीति । सौमनस्यं वेदनीयमस्मिन् सौमनस्यवेदनीयं कर्म । तथा सौमनस्यं विपाकत्वेन वेदनीयमस्य सौमनस्यवेदनीयं कर्मेति । अगत्या ह्येतदेवं गम्येतेति । यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति । तत एवमगत्याख्यायेत संप्रयोगवेदनीयतामधिकृत्योक्तमिति । तेनाह का पुनरत्र युक्तिर्दौर्मनस्यं न विपाक इति । अथ वा अगत्या ह्येतदेवं गम्येत । क्वचित्संप्रयोगवेदनीयता । क्वचिद्विपाकवेदनीयतेति । ब्रूयास्त्वं सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति । अत एतदन्तराभिप्रायमभिसमीक्ष्याह । का पुनरत्र युक्तिर्दौर्मनस्यं न विपाक इति । दौर्मनस्यं हीत्य्[तिब् । ९७ ] अनिष्टचिन्तनादिकैः परिकल्पविशेषैरुत्पाद्यते च [व्युत्पाद्यते च] व्युपशाम्यते च । सौमनस्यमप्येवमिति । परिकल्पविशेषैरिष्टचिन्तनादिभिरुत्पाद्यते च व्युपशाम्यते च । वीतरागादीनां तर्हीति । यस्माद्वीतरागादीनां दौर्मनस्यं व्यावर्तते । न हि चक्षुरादिको विपाकभूतो वीतरागादीनां व्यावर्तते । दौर्मनस्यं तु व्यावर्तते । वचनाद्दौर्मनस्येन कामवीतरागोऽसमन्वागत इति । सूत्रेऽप्युक्तं । अवीतरागस्य द्विशल्या वेदनोक्ता कायिकं दुःखं प्रतिसंवेदयते चैतसिकं च दौर्मनस्यमिति । वचनात्वीतरागस्य च एकशल्या कायिकमेव दुःखं प्रतिसंवेदयत इति । सौमनस्यमप्येषामिति विस्तरः । वीतरागाणामव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात् । समापत्तिसंगृहीतं तेषां सौमनस्यं संभवति । तच्च कुशलत्वान्न विपाकः । अतो वक्तव्यम् । कीदृशं तेषां सौमनस्यं विपाक इति । यादृशं तादृशमस्त्विति । अपरिच्छिद्यमानमपि तदस्त्येवेति दर्शयति । तस्यास्ति विपाकावकाशो न दौर्मनस्यस्य । सर्वथाप्यसमुदाचारात्समापत्त्यवस्थायामप्यसमापत्त्यवस्थायामपीत्यतो न विपाक इति सिद्धम् । मनैन्द्रियमुभयोरुभयस्येति । उभयोः सुगतिदुर्गत्योः उभयस्य कुशलाकुशलस्य । विपाक इत्यधिकारः । इदमुत्सृष्टं जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य [तिब् । ९८ ] विपाक इति । तत्र कथमुभयव्यंजनमसाधुसम्मतं कुशलस्य विपाक इत्याह । सुगतावुभयव्यंजनस्याकुशलेन तत्स्थानप्रतिलंभ इति । स्थानमस्य भ्रष्टम् । अतोऽस्याकुशलेन (अभिधर्मकोषव्याख्या १०८) प्रतिलंभो विप्रयुक्तो धर्मः । उभयं तु व्यंजनं कुशलस्यैव विपाक इत्यभिप्रायः । (इइ ।११) तत्त्वेकं सविपाकम् इति । तदेकं सविपाकमेवेत्यर्थः । तेनाह । तुशब्द एवकारार्थो भिन्नक्रमश्चेति । भिन्नस्थान इत्यर्थः । तदेकं सविपाकं त्विति हि क्रमो न भिन्नः स्यात् । श्लोकबन्धानुगुण्येन त्वेवमुक्तम् । न हि तदव्याकृतमिति । सविपाकमेवेत्यवधारणे युक्तिं दर्शयति । द्वे हि वस्तुनी अविपाके इष्येते । अव्याकृतमनास्रवं च । विकल्पविशेषोत्पाद्यत्वान्न तदव्याकृतम् । असमाहितत्वाच्च नानास्रवम् । अव्याकृतं हि पूतिबीजवन्न विपाकदानाय समर्थम् । अनास्रवं तु तृष्णानभिष्यन्दितत्वान्नालं विपाकदानायानभिष्यन्दितसारबीजवत् । पारिशेष्यादकुशलं वा तद्भवेत्कुशलसास्रवं वा । अतः सविपाकमेव नास्त्यविपाकं दौर्मनस्यम् । दश द्विधेति । दशैव द्विधा द्विधैव च दशेत्यवधारणम् । द्विधेति सविपाकाविपाकानि । [तिब् । ९८ ] मनोऽन्यवित्तिश्रद्धादीनि चेति । मनश्च अन्यवित्तयश्च श्रद्धादीनि चेति । वित्तिर्वेदना । अन्यग्रहणेन दौर्मनस्यवर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात् । श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा । गृह्यन्त इत्यधिकृतमन्यदविपाकमिति । यथोक्तदौर्मनस्याद्यवधारणात् । जीवितं रूपाणि च सप्तेन्द्रियाण्याज्ञास्यामीन्द्रियादीनि च त्रीण्यविपाकानीति सिद्धमव्याकृतत्वातनास्रवत्वाच्च यथाक्रमम् । (इइ ।१२) अष्टकं कुशलम् इति । अष्टकं कुशलमेवेत्यवधारणम् । द्विधा दौर्मनस्यम् इति । द्विधैव दौर्मनस्यं दौर्मनस्यमेव द्विधेत्यवधारणं । द्विधेति कुशलं चाकुशलं च । अन्यदपि द्वैधमस्ति । कूशलं चाव्याकृतं च अकुशलं चाव्याकृतं चेति । तत्कथमिदमवधार्यते । कुशलं चाकुशलं चेति । व्याख्यानतो विशेषप्रतिपत्तिः । अथ वा दौर्मनस्यं सविपाकमेवेति निर्धारितम् । तस्मादिदमेव द्वैधं भवति नान्यत् । अन्या च वित्तिर् इति दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात् । त्रेधेति । कुशलाकुशलाव्याकृतानि । त्रयः प्रकारास्त्रेधा । द्वित्र्योश्च धमुञ् । एधाच्चेति (अभिधर्मकोषव्याख्या १०९) त्रेधेत्येधाशब्दव्युत्पत्तिः । अलोभादिसंप्रयुक्तानि कुशलानि । लोभादिसंप्रयुक्तान्यकुशलानि । अतोऽन्यान्य्[तिब् । ९९ ] अव्याकृतानि । अन्यदेकधेति । जीविताष्टममन्यदेकधैवेत्यवधार्यते । अव्याकृतमेवेत्यर्थः । एतदर्थं च पुनरस्य करणम् । अन्यथा ह्यकुशलमेव कुशलाव्याकृतमेवाकुशलाव्याकृतमेव वा तत्संभाव्यते । तस्मादभीप्सितैकधात्वप्रसिद्ध्यर्थं पुनरुच्यते । यस्यैकधात्वं संभवति । तद्भवति । किं च संभवत्यव्याकृतत्वमिति । (इइ ।१३) कामाप्तममलं हित्वेति । अमलमेव हित्वा कामाप्तं भवति । तद्ध्यप्रतिसंयुक्तमेवेति । अधातुपतितमेवेत्यर्थः । रूपाप्तं स्त्रीपुमिन्द्रिये इति विस्तरः । स्त्री च पुमांश्च स्त्रीपुमांसौ । समासान्ते विधिरनित्य इति परिभाषया समासान्तो न भवति । तयोरिन्द्रिये स्त्रीपुमिन्द्रिये । दुःखे चेति दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्यर्थः । ते स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलां चेहानुवर्तमानं हित्वा । शेषं रूपाप्तमिन्द्रियं भवति । क्वोच्यन्त इति पृष्टे सूत्रं दर्शयति । अस्थानमनवकाश इति विस्तरः । अत्र सूत्र इत्यभिप्रायः । अन्यः पुरुषभावोऽस्ति । यः कामधातौ पुरुषाणां भवतीति । स्तनादिसंस्थानस्वराचारान्यथात्वम् । दुःखेन्द्रियं नास्तीति । आश्रयस्याच्छत्वात्तदभिघातजं नास्ति । अकुशलभावाच्च विपाकजं च नास्ति । दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसंतानत्वादिति । यस्माच्च शमथेन समाधिना [तिब् । ९९ ] प्रतिघविगमात् । रौक्ष्यं संताने नास्ति । तस्माद्दौर्मनस्येन्द्रियं नास्ति । आघातवस्त्वभावाच्चेति । आघातः कोपः । तस्य वस्तु विषयः आघातवस्तु । नव चाघातवस्तूनि । अनर्थं मे अकार्षीत्करोति करिष्यति चेत्याघातवस्तुत्रयम् । मित्रस्य मे अनर्थमकार्षीत्करोति करिष्यतीत्यपरमाघातवस्तुत्रयम् । अमित्रस्य मे अर्थमकार्षीत्करोति करिष्यति चेत्यपरमाघातवस्तुत्रयमिति । एषां नवानामाघातवस्तूनामभावात्विषयकृतमपि दौर्मनस्यं नास्ति । न केवलं हेतुकृतं नस्तीति दर्शयति । हेतुकृतं हि तद्यत्स्वसंतानप्रतिघकृतम् । प्रत्ययकृतं च तद्यन्नवाघातवस्तुकृतमिति । सुखे चापोह्य रूपि चेति । (अभिधर्मकोषव्याख्या ११०) चशब्देन पूर्वोक्तमनुकृष्यते । तेनाह । स्त्रीपुमिन्द्रिये दुःखे चामलं च हित्वेति वर्तत इति । सुखे इति । सुखवेदनास्वभावे सुखसौमनस्येन्द्रिये । रूपीन्द्रियं चक्षुरादि । (इइ ।१४) वित्तित्रयं सुखसौमनस्योपेक्षा इति । सुखेन्द्रियं यत्तृतीयध्यानभूमिकं दर्शनहेयानुशयसंप्रयुक्तं । तद्दर्शनहेयम् । तत्रैव अतोऽन्यत्सास्रवम् । पञ्चविज्ञानकायिकं च कामावचरम् । प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम् । अनास्रवं तु सुखेन्द्रियमहेयम् । [तिब् । १०० ] सौमनस्यं दर्शनहेयसंप्रयुक्तं दर्शनहेयम् । अतोऽन्यत्सास्रवं भावनाहेयम् । अनास्रवमहेयम् । उपेक्षेन्द्रियं तु सर्वगमिति सुगमम् । द्विहेया दुर्मनस्कतेति । दौर्मनस्ययोगाद्दुर्मनस्कः । तद्भावो दुर्मनस्कता । दौर्मनस्यमित्यर्थः । यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेषः । तदभिधाने त्वतलाविति लक्षणात् । तद्दर्शनहेयसंप्रयुक्तं दर्शनहेयम् । अतोऽन्यद्भावनाहेयम् । नाहेयमसमाहितत्वात् । (इइ ।१५) कामेष्वादौ विपाकौ द्वे लभ्येते इति । कामप्रधानत्वात्कामधातुः काम इति निर्दिश्यत इति वक्ष्यते । अण्डजजरायुजसंस्वेदजैस्सत्त्वैः कामधातावादौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते । कायेन्द्रियं जीवितेन्द्रियं च । कस्मात् । प्रतिसंधिकाले मनौपेक्षेन्द्रिययोरवश्यं क्लिष्टत्वात् । उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर् इति वचनात् । चक्षुरादीनां च तस्यामवस्थायामविद्यमानत्वात् । नोपपादुकैर् इति अपवादः । अविशेषितत्वाद्ध्युपपादुकैरपि तथैव द्वे एव लभ्येयातामिति प्रसंगः । तस्मादयं प्रतिषेधः । किमुपपादुकैस्ते द्वे नैव लभ्येते । लभ्येते न तु द्वे एव । तेनाह तैः षड्वेति विस्तरः । [तिब् । १०० ] यद्यव्यञ्जना भवन्ति । यद्यविद्यमानस्त्रीपुरुषेन्द्रियाः । यथा प्राथमकल्पिका इति । युगाद्युत्पन्नाः प्रागासन् रूपिवत्सत्त्वा इति वचनात् । कतमानि षट् । चक्षुरादीनि पञ्च जीवितं च षष्ठमिति । यथा देवादिष्विति । आदिशब्देन नारकादयोऽपि गृह्यन्ते । अन्तराभवोपपत्तिभवप्रतिसंध्यवस्थायां (अभिधर्मकोषव्याख्या १११) तानि प्रथमतो लभ्यन्ते । किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्तीति । निहीनोभयव्यञ्जनोत्पत्तिः । विशिष्टा चोपपादुका योनिः । कथमनयोः समायोग इति चोदनाभिप्रायः । रूपप्रधानत्वाद्रुपाणीति रूपधातुर्निर्दिश्यते । रूपप्रधानत्वादिति । रूपाणां स्वच्छत्वाद्भास्वरत्वादित्यर्थः । अथ वा न कामगुणप्रधानो रूपधातुः । किं तर्हि । रूपमात्रप्रधानः । नाप्यारूप्यधातुवदरूपप्रधान इति । सूत्रेऽप्युक्तमिति । सूत्रेऽप्येवं दृष्टम् । न मदुपज्ञमेवैतदिति दर्शयति । येऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्याः । तेऽप्यनित्या अध्रुवा अनाश्वाशिका विपरिणामधर्माण इति विस्तरः । अव्यञ्जनैरुपपादुकैरिति प्राथमकल्पिकैः । समापत्तितश्च परत्वादिति । यस्मात्पूर्वं रूपसमापत्तिः । पश्चादारूप्यसमापत्तिः । तस्माद्रूपधातोरुत्तर आरूप्यधातुः । उपपत्तितश्च प्रधानतरत्वादिति । यस्माच्चोपपत्तितः प्रधानतरः [तिब् । १०१ ] रूपधातोरारूप्यधातुः । बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपाको भवति । अतोऽप्यसावुत्तरो न तूपपत्तिदेशतः । आरूप्यधातुरस्थान इति वचनात् । (इइ ।१६) निरोधयत्युपरमन्न् इति । म्रियमाण आरूप्यधातावेतान्येव त्रीणीन्द्रियाणि निरोधयति । सापवादं चैतद्वेदितव्यम् । शुभे सर्वत्र पञ्च चेति वचनात् । रूपेऽष्टाव् इति । रूपधातावष्टावेतान्येव । सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत् । सकृत्समग्रेन्द्रियमरणात् । अत एवाह । सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते चेति । कामे दश नवाष्ट वेति । उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति । यदि समग्रपञ्चेन्द्रियो भवति । एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ । यदि तु विकलेन्द्रियोऽन्धो बधिरो वा भवति । तदा तदिन्द्रियं परिहार्यम् । सापवादं चैतत्सर्वकामधातावेव वेदितव्यम् । तदपवादमाह । क्रममृत्योस्तु चत्वारीति । न ह्येषां पृथग्निरोध इति । न ह्येषां कामधातावन्योन्यं विरहय्य निरोधोऽस्तीत्यभिप्रायः । शुभे सर्वत्र पञ्च चेति । (अभिधर्मकोषव्याख्या ११२) सर्वस्य पूर्वोक्तस्य मरणविधेर् निरोधयत्युपरमन्नारूप्ये जीवितं मन इत्येवमादेरपवादः । त्रिविधं हि मरणचित्तं संभवति । क्लिष्टमव्याकृतं कुशलं च । [तिब् । १०१ ] तत्र क्लिष्टाव्याकृतचित्तस्योत्सर्गन्यायेन मरणविधिरुक्तः । कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चाधिकाः प्रक्षेप्तव्याः । एषां हि श्रद्धादीनां कुशले चेतस्यवश्यं भावः । तेन यत्र त्रीण्युक्तानि तत्राष्टौ । यत्राष्टौ तत्र त्रयोदश । यत्र दश तत्र पञ्चदश । यत्र नव तत्र चतुर्दश । यत्र पुनरष्टौ तत्र त्रयोदश । यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयम् । रूपारूप्यधात्वोऋ नास्ति क्रममरणम् । (इइ ।१७) इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति । इन्द्रियप्रकरणे इह क्रियमाणे । सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्त इत्येके व्याचक्षते । अपरे तु व्याचक्षते । इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियधर्मा अवस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते । तेनेहापि ते विचार्यन्ते । तत्प्रत्यासत्वातस्य शास्त्रस्येत्यभिप्रायः । नवाप्तिरन्त्यफलयोर् इति । नवभिरिन्द्रियैराप्तिर् नवाप्तिः । कस्य । अन्त्यफलयोः । अन्ते भवे अन्त्ये । अन्त्ये फले अन्त्यफले । तयोः । के पुनरन्त्ये । स्रोतआपत्तिफलमर्हत्त्वफलं च । यथा दण्डस्य द्वावन्तौ भवतः । एवं पङ्क्त्यवस्थितानां चतुर्णां फलानां स्रोतआपत्तिफलमर्हत्त्वफलं चान्ते भवतः । सकृदागामिफलमनागामिफलं च मध्ये भवतः । तयोरन्त्ययोः फलयोर्नवभिरेवेन्द्रियैः प्राप्तिः । कतमैर्नवभिरित्याह । श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्[तिब् । १०२ ] मनौपेक्षेन्द्रियाभ्यां चेति । नवभिरिति । तत्रैवमभिसमयक्रमः । दुःखे धर्मज्ञानक्षान्तिः । दुःखे धर्मज्ञानं । दुःखेऽन्वयज्ञानक्षान्तिः । दुःखेऽन्वयज्ञानं । समुदये धर्मज्ञानक्षान्तिः । समुदये धर्मज्ञानं । समुदयेऽन्वयज्ञानक्षान्तिः । समुदयेऽन्वयज्ञानं । निरोधे धर्मज्ञानक्षान्तिः । निरोधे धर्मज्ञानं । निरोधेऽन्वयज्ञानक्षान्तिः । निरोधेऽन्वयज्ञानं । मार्गे धर्मज्ञानक्षान्तिः । मार्गे धर्मज्ञानं । मार्गेऽन्वयज्ञानक्षान्तिः । मार्गेऽन्वयज्ञानम् । इति षोडश क्षणा अभिसमय इत्युच्यन्ते । तत्र दुःखे धर्मज्ञानक्षान्तिर्यावन्मार्गेऽन्वयज्ञानक्षान्तिरिति पञ्चदश (अभिधर्मकोषव्याख्या ११३) क्षणा दर्शनमार्गः । अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदश क्षणा इति वचनात् । तच्चाज्ञास्यामीन्द्रियमित्युच्यते । मार्गेऽन्वयज्ञानं तु षोडशः स भावनामार्गः । ततः प्रभृत्या वज्रोपमसमाधेर्यावाननास्रवो मार्गः सर्वोऽसौ भावनामार्गः । तच्चाज्ञेन्द्रियमित्युच्यते । क्षयज्ञानात्प्रभृति सर्वोऽनास्रवो मार्गोऽशैक्षमार्गः । तच्चाज्ञातावीन्द्रियमित्युच्यते । तत्र स्रोतआपत्तिफलं मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते । श्रद्धादीनि चात्र पञ्चेन्दियाणि अवश्यं भवन्ति । तस्या अवस्थायाः कुशलत्वात् । आज्ञास्यामीन्द्रियस्वभावा चासौ मार्गेऽन्वयज्ञानक्षान्तिर्वर्तमाना । मनैन्द्रियं च तत्संप्रयुक्तं भवति । उपेक्षेन्द्रियं चावश्यमनागम्याश्रयत्वात् । [तिब् । १०२ ] अनागम्यस्य च उपेक्षेन्द्रियसंप्रयुक्तत्वात् । मार्गेऽन्वयज्ञानं तु अस्यामवस्थायामाज्ञेन्द्रियस्वभावमुत्पादाभिमुखं वर्तते । तेन श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनौपेक्षेन्द्रियाभ्यां चेति तत्फलं नवभिः प्राप्यते । उभाभ्यां हि तस्य प्राप्तिरिति । आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः । विसंयोगप्राप्तेरावाहकसंनिश्रयत्वात्यथाक्रमं । तस्या विसंयोगप्रातेरानन्तर्यमार्गस्यावाहकत्वात् । जनकत्वात् । विमुक्तिमार्गस्य च तस्याः संम्निश्रयत्वात् । आधारत्वादित्यर्थः । द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् । यथा हि द्वयोर्मनुष्ययोः एकेन चौरो निष्कास्यते । द्वितीयेनास्य कपाटं पिधीयते । तथानन्तर्यमार्गेण विसंयोगप्राप्तिरावाह्यते क्लेशप्राप्तिमादाय निरोधात् । विमुक्तिमार्गेणाधार्यते । विसंयोगप्राप्तिसहोत्पादात् । अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैरिति । वज्रोपमसमाध्यवस्थायामर्हत्त्वफलं प्राप्यते । श्रद्धादीनि मनैन्द्रियं च पूर्ववत् । वज्रोपमसमाधिकलापस्तस्यामवस्थायामानन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः । सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत् । यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते । सुखेन्द्रियं तत्र वर्तमानं । [तिब् । १०३ ] अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियं । अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनानामन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानं । क्षयज्ञानकलापस्तु अस्यामवस्थायां विमुक्तिमार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति । तेन श्रद्धादिभिः पंचभिराज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति तत्फलं नवभिः प्राप्यते । आनन्तर्यविमुक्तिमार्गाभ्यां (अभिधर्मकोषव्याख्या ११४) तत्प्राप्तिरिति पूर्ववद्व्याख्यानं । सप्ताष्टनवभिर्द्वयोः प्राप्तिरिति वाक्यशेषः । प्रत्येकमिति विस्तरः । सकृदागामिफलस्य सप्तभिरष्टाभिर्नवभिर्वा प्राप्तिः । एवमनागामिफलस्य । तत्प्रतिपादयन्नाह । सकृदागामिफलं तावद्यद्यानुपूर्वकः प्राप्णोति स च लौकिकेन मार्गेणेति । लौकिको मार्गः शान्ताद्युदाराद्याकारः । शान्ताद्युदाराद्याकारा उत्तराधरगोचरा इति वचनात् । तेनोत्तरां भूमिं शान्ततः प्रणीततः निःसरणतश्चेह योगी पश्यति । अधरामौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च पश्यति । स चायं चतुःप्रकारो वर्ण्यते । प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश्च । तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते । स पुनर्येन क्लेशान् प्रजहाति । विमुक्तिमार्गो [तिब् । १०३ ]ऽप्यानन्तर्यमार्गादनन्तरमुत्पद्यते । क्लेशप्रहाणप्राप्तेराधारकः । विशेषमार्गस्तत उच्चं विशिष्टो मार्गः । तेन मार्गेण नवप्रकाराः क्लेशाः प्रहेयाः । अधिमात्राधिमात्रोऽधिमात्रमध्योऽधिमात्रमृदुः मध्याधिमात्रो मध्यमध्यो मध्यमृदुः मृद्वधिमात्रो मृदुमध्यो मृदुमृदुश्चेति । तद्यदि पृथग्जनः प्रजहाति दर्शनभावनाहेयान् क्लेशान्मिश्रीकृत्य तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति । मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति । आर्यस्तु भावनाहेयानेव क्लेशांस्तथैव नवधा कृत्वा प्रजहाति । दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात् । लोकोत्तरस्तु भावनामार्गस्तथैव षोडशाकारः । अनित्याद्याकारभेदात् । स चापि तथैव प्रयोगादिमार्गभेदाच्चतुर्भेदः । इहापि मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति । एष लौकिकलोकोत्तरयोर्मार्गयोर्दिङ्मात्रनिर्देशः । तत्सकृदागामिफलमानुपूर्वकेण वा लभ्येत भूयोवीतरागेण वा । तत्रानुपूर्विको यः स्रोतआपत्तिफलं प्राप्य क्रमात्सकृदागामिफलं प्राप्नोति । [तिब् । १०४ ] कश्चासौ । यः सकलबन्धन एकप्रकाराद्युपलिखितो वा यदि न षष्ठप्रकारोपलिखितो नियाममवक्रामति । षोडशे चित्तक्षणे स स्रोतआपन्नो भवति । स भावनाहेयस्यैकस्य यावत्षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वात्लौकिकमपि मार्गमुत्पादयति । स षष्ठप्रकारे प्रहीणे सकृदागामिफलं प्राप्नोति । तस्य फलस्य सप्तभिरिन्द्रियैः प्राप्तिः श्रद्धादिभिः (अभिधर्मकोषव्याख्या ११५) पंचभिर्मनैन्द्रियेण उपेक्षेन्द्रियेण च सप्तमेनानागम्यनिर्श्रयत्वात् । अथ लोकोत्तरेणे मार्गेण तस्याष्टाभिरिन्द्रियैः प्राप्तिः । तैरेवाज्ञेन्द्रियेण चाष्ठमेन । तन्येव हि श्रद्धादीनि सप्तेन्द्रियाणि आज्ञेन्द्रियाख्यां लभन्ते । अनास्रवत्वात् । अथ भूयोवीतराग इति । यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिखितोऽभूत् । स भूयोवीतराग इत्युच्यते । भूयसा प्रकारेण वीतराग इति कृत्वा । स यदि सकृदागामिफलं प्राप्नोति । कथं स प्राप्नोति इति । अभिसमयक्रमेण पूर्वोक्तेन मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्नोति । तस्य नवभिर्यथैव स्रोतआपत्तिफलस्य । श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैः । मनौपेक्षेन्द्रियाभ्यां चेति पूर्ववत्व्याख्यानं । अयं हि स्रोतआपत्तिफलमप्राप्यैव षोडशे क्षणे सकृदागामी भवति । अनागामिफलं यद्यानुपूर्वकः प्राप्नोतीति । इहानुपूर्वको [तिब् । १०४ ] यः स्रोतआपत्तिफलं सकृदागामिफलं च प्राप्य अनागामिफलं प्राप्नोति । यो वा भूयोवीतरागो भूत्वा स्रोतआपत्तिफलमलब्ध्वैव सकृदागामिफलमेव च लब्ध्वानागामिफलं प्राप्नोति । स च यदि लौकिकेन मार्गेण प्राप्नोति । तस्य सप्तभिरिन्द्रियैः प्राप्तिः । यथा सकृदागामिफलस्यानुपूर्विकीयस्येत्यभिप्रेतं । श्रद्धादिभिः पंचभिर्मनौपेक्षेन्द्रियाभ्यां चेत्यर्थः । अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस्तथैवेति । यथा सकृदागामिफलस्यैवाष्टाभिरित्यर्थः । आज्ञेन्द्रियमष्टमं भवतीति । अथ वीतराग इति । कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे प्रथमादपि वा ध्यानाद्यावदाकिंचन्यादपि वा विटरागो योऽनागामिफलं प्राप्नोति । तस्य नवभिः प्राप्तिः । यथा स्रोतआपत्तिफलस्य । स्रोतआपत्तिफलस्य हि दर्शनमार्गेण प्राप्तिः । अस्य च दर्शनमार्गेणैव प्राप्तिरिति तुल्यत्वम् । अयं तु विशेषः । सखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति । निश्रयविशेषादिति । यदि तृतीयं ध्यानं निश्रित्य नियाममवक्रामति । सुखेन्द्रियं तत्र भवति । अथ प्रथमद्वितीये ध्याने निश्रित्य सौमनस्येन्द्रियं तत्र भवति । अथानागम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्य उपेक्षेन्द्रियं तत्र भवतीति । [तिब् । १०५ ] यदाप्ययमानुपूर्विक इति विस्तरः । यदाप्ययमधिगतपूर्वफल आनुपूर्विकस्तीक्ष्णेन्द्रियः । स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति । तत्र च सौमनस्येन्द्रियं । आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव । यदि न पृअविशति तत्र चोपेक्षेन्द्रियमेव नान्यथा । तस्य प्राप्तिरष्टाभिः श्रद्धादिभिः पंचभिर्मनौपेक्षासौमनस्येन्द्रियैश्चेति । उभाभ्यां च तस्य प्राप्तिरिति । आनन्तर्यविमुक्तिमार्गाभ्यां । (अभिधर्मकोषव्याख्या ११६) चौरनिष्कासनकपाटपिधानवदिति व्याख्यातमेतत् । अथ लोकोत्तरेण प्रविशतीति । स एव आनुपूर्विकस्तीक्ष्णेन्द्रियो वेदितव्योऽधिकारानुवृत्तेः । तस्य नवभिरिन्द्रियैः प्राप्तिस्तैरेवेदानीमुक्तैरिन्द्रियैः । आज्ञेन्द्रियेण च नवमेन । तान्येव हि इन्द्रियाणि अनास्रवत्वादाज्ञेन्द्रियाख्यां लभन्ते । इदमिह चोद्यते । कस्मादानुपूर्विक एवमुक्तो न पुनर्वीतरागपूर्वी । न हि वीतरागपूर्वी अनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति । तत्राधिगतेऽनादरात् । आनुपूर्विको हि मौलध्यानर्थी तस्यानधिगतपूर्वत्वात् । तस्मादस्ति संभवो यदसौ मौलमेव प्रविशति । वीतरागपूर्वी तु चतुःसत्यदर्शनं प्रति कृतादरो न ध्यानं प्रतीति [तिब् । १०५ ] न तत्र षोडशे चित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्रायः । नवाप्तिरन्त्यफालयोर् इत्युक्तं । तद्विरोधयति यत्तर्हि अभिधर्म उक्तं । ज्ञानप्रस्थाने । कतिभिरिन्द्रियैरर्हत्त्वं प्राप्नोतीति । आह । एकादशभिरिति । तत्कथं न विरुध्यत इत्यभिप्रायः । एकस्य संभवाद् इति । कस्यचिदेवैकस्य पुद्गलस्य संभवो न सर्वस्य संभवः । यो हि मृद्विन्द्रियः परिहाय परिहाय सुखसौमनस्योपेक्षाभिः निश्रयविशेषात्पार्यायिकीभिरर्हत्त्वं प्राप्नुयात् । तं प्रत्येवमुक्तं । एकादशभिरिति । न तु संभवोऽस्ति सखसौमनस्योपेक्षाणामेकस्मिं काले समवधानमित्यर्थः । चित्तचैत्तानामेकैकद्रव्योत्पत्तेः । यो हि कश्चिन्मृद्विन्द्रियः पुद्गलोऽनागम्यमन्यं वोपेक्षेन्द्रियनिश्रयं निश्रित्य अर्हत्त्वं प्राप्नुयात् । तस्य तत्प्राप्तिरुपेक्षेन्द्रियेण । ततः पुनरपि परिहीयते । ततः प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात् । तस्य तत्प्राप्तिः सौमनस्येन्द्रियेण । ततः पुनरपि परिहीयते । ततः स तृतीयं ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात् । तस्य तत्प्राप्तिः सुखेन्द्रियेण इति । प्रत्येकं तत्र फलप्राप्तौ अवश्यं नवैवेन्द्रियाणि व्याप्रियन्ते । श्रद्धादीनि पंच मनआज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमदिति । पुनःपुनः प्राप्तेस्तदेकादशभिरित्युक्तं । कथमनागामिनोऽप्येष प्रसंगो [तिब् । १०६ ] न भवतीति । कस्मात्तत्र शास्त्रेऽर्हत्वफलमेव एकादशभिः प्राप्नोतीत्युक्तं । न तूक्तमनागामिफलमपीति । न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोतीति । असावनागामी तृतीयध्यानोर्ध्वभूमिलाभात्परिहीणो भवति । ऊर्ध्वभूमेरेव परिहीणो भवति । नसाव्(अभिधर्मकोषव्याख्या ११७) अनागामिफलात्परिहीण इत्युच्यते । एवं यावत् । द्वितीयध्यानात् । यदा तु प्रथमात्परिहीणो भवति । तदानागामिफलात्परिहीण इत्युच्यते । पंचावरभागीयप्रहाणाद्धि अनागामिफलं व्यवस्थाप्यते । यदा च स कामवैराग्यात्परिहीणः । तदा तृतीयं ध्यानमस्य नास्ति । तत्कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात् । तत आह । न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोतीति । किं । सौमनस्येन्द्रियेण प्राप्नुयात् । यत एवं सुखेन्द्रियस्यैव प्रतिषेधः । प्राप्नुयात्यदि नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत् । नैतदस्ति । यो हि परिहीणो भवेत् । स मृद्विन्द्रियः । यश्च मृद्विन्द्रियः । स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुं । तीक्ष्णेन्द्रियस्तु शक्नोति । इन्द्रियसंचारस्य दुष्करत्वात् । अस्त्येतत् । किं तु यद्यसौ मृद्विन्द्रिय आनुपूर्विकोऽनागामिफलं प्राप्य ततश्च परिहीणो भूत्वा इन्द्रियसंचारं कुर्यात् । इन्द्रियसंचारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं [तिब् । १०६ ] प्रविशेत् । तस्य तदानागामिफलप्राप्तिरष्टाभिर्नवभिर्वा भवति । श्रद्धादिभिः पंचभिर्मनैन्द्रियेण उपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति । लोकोत्तरेण चेन्मौलं ध्यानं प्रविशेत् । एभिश्चाष्टाभिराज्ञेन्द्यियेण च नवमेनेत्यवगन्तव्यं । तस्मात्सूक्तं । न ह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्नोतीति । वीतरागपूर्वी तर्ह्येकादशभिस्तत्प्राप्नुयात् । कथं । यो मृद्विन्द्रियः पुद्गलस्तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियाममवक्रामेत् । स षोडशे चित्तक्षणे अनागामी भवति । सा तत्फलप्राप्तिः । सुखेन्द्रियेण श्रद्धादिभिः पंचभिर् मनआज्ञास्यामीन्द्रियाज्ञेन्द्रियैश्चेति । स ततोऽनागामिफलात्परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियमात्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन्नवमे विमुक्तिमार्गे मौलं प्रविशेत् । तस्य तत्फलप्राप्तिः पूर्ववदुपेक्षेन्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश्चापि पंचभिर्मनैन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वाताज्ञेन्द्रियेणापि नवमेनेति । एवं द्वयोः कालयोरेकादशभिरिन्द्रियैस्स पुद्गलस्तदनागामिफलं प्राप्नुयादिति । ततस्तत्प्रतिषेधार्थमिदमाह । न च वीतरागपूर्वी परिहीयते । तद्वैराग्यस्य द्विमार्यप्रापणादिति । न च कामवीतरागः केनचिन्निश्रयेण नियामम् [तिब् । १०७ ] अवक्रान्तः परिहीयते । कस्मात् । तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्रापणात् । लौकिकलोकोत्तरमार्गप्रापणात् । इह फलं द्विविधं । संस्कृतमसंस्कृतं च । संस्कृतासंस्कृतं फलम् इति वचनात् । तत्र यदसंस्कृतं विसंयोगलक्षणमनागामिफलं । तत् (अभिधर्मकोषव्याख्या ११८) पूर्वं लौकिकेन मार्गेण प्राप्तं । नियामावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस्तत्प्राप्तं । द्विविधा हि तस्य प्राप्तिः । लौकिकी लोकोत्तरा च । तस्मात्स्थिरं तद्वैराग्यं । तस्मादतो न परिहीयते । ननु च फलाद्धानिर्न पूर्वकात् । दर्शनहेयानामवस्तुकत्वादित्येतदपि कारणान्तरमस्ति । कस्मात्तदिह नोक्तमित्येतदपि वक्तव्यं । अपि खलु पर एवं ब्रूयात् । मा भूद्दर्शनहेयक्लेशवैराग्यपरिहाणिः । भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस्तु कस्मादस्य परिहीणकस्य न भवेत् । पंचावरभागीयप्रहाणाद्धि अनागामिफलं भवति । तत्र च सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च दर्शनहेयाः । कामच्छन्दो व्यापादश्च भावनाहेयौ । तयोश्च तस्य वीतरागपूर्विणोऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात्पुनरनास्रवा प्राप्तिर्भवति । अनास्रवगोत्राणां लब्धत्वात् । [तिब् । १०७ ] अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतमनगामिफलमसंस्कृतं च कामच्छन्दादिप्रहाणं तस्यामवस्थायां लभ्यते । तस्मादिदमेव कारणमुक्तं । आर्येण तद्वैराग्यस्य द्विमार्गप्रापणादिति । कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणादित्यर्थः । (इइ ।१८-२०) उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वित इति । उपेक्षया जीवितेन मनसा वा युक्तोऽन्वितोऽवश्यं त्रयेण समन्वागतः तेनैवोपेक्षाजीवितमनःस्वभावेन । न ह्येषामन्योन्येन रिना समन्वागम इति । यदैकस्य समन्वागमः । तदेतरयोरपि समन्वागमः । तेनैषां समन्वागमव्यवस्थानं क्रियते । चक्षुरादीनां तु न क्रियते । तस्मादाह । चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैरिति विस्तरः । चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैरारूप्यधातूपपन्नो न समन्वागत इत्यत्र कायेन्द्रियाग्रहणं । कामधातौ च येनाप्रतिलब्धविहीनानीत्यस्योपचयार्थस्य चक्षुरादिष्वेव संभवान्न कायेन्द्रिये । अन्यथा हि रूपिभिरिन्द्रियैरारूप्योपपन्नो न समन्वागत इत्येवोच्यते । अप्रतिलब्धानि कललाद्यवस्थायां । विहीनानि लब्धविनाशादन्धत्वाद्यवस्थायां क्रममरणे वा । पृथग्जना न समन्व्गागता इति विशेषणं । आर्यस्यावश्यं समन्वागतत्वात् । न हि तस्य भूमिसंचारेण अनास्रवसुखादित्यागः । दौर्मनस्येन कामवीतराग इति । इहस्थो धात्वन्तरस्थो वा पृथग्जनो वार्यो [तिब् । १०८ ] वा न समन्वागतः । पृथग्जनफलस्था इति । फलस्थाः स्रोतआपन्नादयोऽभिसमयान्ते विहीनत्वात् । तेनानाज्ञातमाज्ञास्यामीन्द्रियेणासमन्वागताः । आज्ञेन्द्रियेण दर्शनमार्गस्था (अभिधर्मकोषव्याख्या ११९) अप्राप्तत्वादसमन्वागताः । अशैक्षमार्गस्थाः फलप्राप्तौ विहीनत्वातसमन्वागताः । अप्रतिषिद्धास्ववस्थासु यथोक्तसमन्वागमो वेदितव्य इति । या अप्रतिषिद्धा अवस्थाश्चक्षुरादिभिरिन्द्रियैः समन्वागमं प्रति । तास्ववस्थासु यद्यदिन्द्रियमुक्तं । तैस्तैः समन्वागतो वेदितव्य इत्यर्थः । तद्यथा कामधातावप्रतिलब्धविहीनावस्थां हित्वा चक्षुराधिभिर्जिह्वान्तैः समन्वागतः । कायेन्द्रियेण कामरूपधातूपपन्नः समन्वागत इत्यादि । चतुर्भिस्सुखकायाभ्याम् इति । युक्त इति वर्तते । अवश्यमिति च । संख्यानुक्रमविवक्षायां तु तदनन्तरं तैरित्येवानन्तरं सुखादिग्रहणं । सुखेन्द्रियेण समन्वागत इति । चतुर्थध्यानारूप्यधातूपपन्नं पृथग्जनं मुक्त्वा सर्वः सुखेन्द्रियेण समन्वागतः । तस्यान्यैर्नावश्यं समन्वागतः । चक्षुरादिभिर्जिह्वेन्द्रियान्तैरारूप्यधातौ कामधातौ च अप्रतिलब्धविहीनावस्थायामसमन्वागमः । कायेन्द्रियेण च आरूप्यधातौ । स्त्रीपुरुषेन्द्रियाभ्यां रूपारूप्यधात्वोश्च । कामधातौ च अलब्धविहीनावस्थायां । दुःखेन्द्रियेण रूपारूप्यधात्वोः । सौमनस्येन्द्रियेण पृथग्जनस्तृतीयध्यानोपपन्नः । [तिब् । १०८ ] दौर्मनस्येन्द्रियेण कामवीतरागावस्थायां । श्रद्धादिभिः पंचभिः समुच्छिन्नकुशलमूलावस्थायां । आज्ञास्यामीन्द्रियेण पृथग्जनफलस्थावस्थायां । आज्ञेन्द्रियेण पृथग्जनदर्शनमार्गस्थाशैक्षावस्थायां । आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायामसमन्वागत इति । यः कायेन्द्रियेण सोऽपि चतुर्भिरिति । कामधातूपपन्नः कायेन्द्रियेण समन्वागतस्तस्य । नान्यैरवश्यं समन्वागमः । चक्षुरादिभिः कामाधातावलब्धविहीनावस्थायामसमन्वागमः । स्त्रीपुरुषेन्द्रियाभ्यामेतस्यामेवावस्थायां रूपधातौ चासमन्वागमः । दुःखेन चास्मिन्नेव । सुखेन च पृथग्जनस्य चतुर्थध्यानोपपत्तावसमन्वागमः । सौमनस्येन पृथग्जनस्तृतीयचतुर्थध्यानोपपन्नोऽसमन्वागतः । दौर्मनस्येन श्रद्धादिभिश्चान्यैः पूर्ववदसमन्वागमो वक्तव्यः । पंचभिश्चक्षुरादिमान् इति । चक्षुःश्रोत्रघ्राणजिह्वावानित्यर्थः । तेन चेति । तेन चक्षुषा । चक्षुषि सत्यवश्यं कायेन्द्रियं । न तु श्रोत्रादीनि । कामधातावलब्धविहीनत्वसंभवात् । स्त्रीपुरुषेन्द्रियादीनां पूर्ववद्व्यभिचारो वक्तव्यः । एवं श्रोत्रघ्राणजिह्वेन्द्रियैरिति । यः श्रोत्रेन्द्रियेण । सोऽवश्यं पंचभिरुपेक्षाजीवितमनःकायैस्तेन चेत्येवं सर्वं नेयं । सौमनस्यी च । (अभिधर्मकोषव्याख्या १२०) किं । पंचभिर्[तिब् । १०९ ] अवश्यं समन्वागत इत्यधिकृतं । चक्षुरादिष्वेव सौमनस्यं कस्मान्न प्रक्षिप्तं । अन्यस्थानपाठात् । तथा ह्यादिशब्देन प्रक्षेप आकुलः स्यात् । द्वितीयध्यानजस्तृतीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति । सुखेन्द्रियं कामधातौ पंचविज्ञानकायिकं । प्रथमे च ध्याने त्रिविज्ञानकायिकमस्ति । तृतीये तु ध्याने मानसं । अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागतः । तस्य भूमिसंचारेण त्यक्तत्वात् । न टृतीयध्यानभूमिकेन तस्यालाभित्वादिति मत्वा चोदयति । कतमेन सुखेन्द्रियेण समन्वागत इति । आह । क्लिष्टेन तृतीयध्यानभूमिकेनेति । सर्वे ह्यधरभूम्युपपन्नाः सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्तः । शेषेन्द्रियव्यभिचारः पूर्ववद्वक्तव्यः । दुःखी तु सप्तभिर् इति । कामधातूपपन्नो ह्येष । तस्मादवश्यं कायेन्द्रियेण चतुर्भिश्च वेदनेन्द्रियैरिति । दौर्मनस्यवर्ज्यैः । तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति । मनोजीवितेन्द्रिये च स्तः । इत्यवश्यं सप्तभिरिन्द्रियैः समन्वागतः । शेषेन्द्रियव्यभिचारस्तु पूर्ववद्वाच्यः । स्त्रीन्द्रियादिमान् अष्टादिभिर् इति । स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवानित्यर्थः । जीवितमनःसुखदुःखसौमनस्योपेक्षेन्द्रियाणामुक्तत्वात् । आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात् । [तिब् । १०९ ] एषामेवाष्टानामिन्द्रियाणां ग्रहणं भवति । यः स्त्रीन्द्रियेण समन्वागत इति । स कामधातूपपन्न एव स्त्रीन्द्रियवत्त्वात् । अतः सोऽवश्यमष्टाभिरिन्द्रियैः समन्वागतः । कतमैरित्याह । तैश्च सप्तभिः स्त्रीन्द्रियेण चेति । कायजीवितमनोभिश्चतुर्भिश्च वेदनेन्द्रियैरिति सप्तभिः स्त्रीन्द्रियेण चाष्टमेन । शेषैरनियमः । यथोक्तं चक्षुरादीनां वैकल्यसंभवादित्यादिभिः कारणैः । स्त्रीन्द्रियवत्पुरुषेन्द्रियवानपि वक्तव्यः । दौर्मनस्यवानपि कामोपपन्नः कामवीतराग इति तथैव तैः सप्तभिर्दौर्मनस्येन च । श्रद्धावानपि त्रैधातुकः सत्त्व इति तैः पंचभिः श्रद्धादिभिरविनाभाविभिरुपेक्षाजीवितमनोभिश्च समन्वागतः । शेषैरनियमः पूर्ववत् । यथा श्रद्धावानेवं यावत्प्रज्ञावान् । आज्ञाते इन्द्रियमाज्ञातेन्द्रियमिति । आज्ञात एव इन्द्रियमाज्ञातेन्द्रियं । निरवशेषाज्ञात इन्द्रियमित्यर्थः । आज्ञेन्द्रियमपि हि आज्ञात इन्द्रियं न तु निरवशेषे सावशेषत्वात्प्रहेयस्य । अथ वा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्युच्यते । तस्येन्द्रियमाज्ञातेन्द्रियमिति । य आज्ञेन्द्रियेण सोऽवश्यमेकादशभिरिति । आज्ञेन्द्रियवान् फलस्थः (अभिधर्मकोषव्याख्या १२१) शैक्षः त्रिष्वपि धातुषु भवति । स चतुर्थध्यानारूप्योपपन्नः कथं सुखसौमनस्येन्द्रियाभ्यां समन्वागतः । [तिब् । ११० ] यस्मादार्यः कामवैराग्येऽवश्यं सौमनस्येन्द्रियं प्रतिलभते । द्वितीयध्यानवैराग्ये च सुखेन्द्रियं । ते च भूमिसंचारेऽपि न त्यज्येते । तथा हि वक्ष्यति । भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं तथारूप्याप्तम् । आर्यं तु फलाप्त्युत्तप्तिहानिभिर् इति । फलप्राप्तीन्द्रियोत्तापनेऽपि यद्यपि ते प्रतिपन्नकमार्गमृद्विन्द्रियमार्गसंगृहीते त्यज्येते । तथाप्यपरे फलस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते । तस्मात्ताभ्यां सुखसौमनस्याभ्यां भूमिसंचारेऽपि अपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नोऽपि आर्यः समन्वागत एव भवति । शेषैः पूर्ववदनियमः । आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वित । इति विस्तरः । आज्ञास्यामीन्द्रियसमन्वागतः कामावचरः सत्त्वः कामधातावेवाज्ञास्यामीन्द्रियोत्पादनात् । असंवेगादिह विधा तत्र निष्ठेति वाचनाद् इति । तस्मादवश्यं कायेन्द्रियमस्यास्ति । चतस्रो वेदना दौर्मनस्यवर्ज्याः तस्य वीतरागावस्थायां व्यभिचारात् । तत्रावश्यमिति वर्तते । त्रयोदशभिरेभिरिन्द्रियैरवश्यमेव समन्वागत इत्यवधार्यते । न तु त्रयोदशभिरेवेति । शेषैरनियमः । अन्धादिष्वपि दर्शनमार्गसंभवात् । स्त्रीपुरुषेन्द्रिययोर्वैकल्ये कथं दर्शनमार्गोत्पत्तिः । स्त्रीपुरुषेन्द्रियवियुक्तविकलानां हि संवरफलप्राप्तिवैराग्याणि [तिब् । ११० ] न सन्तीति । केचित्तावदाहुः । प्रतिलब्धसंवराणां फलप्राप्तिर्भवति । द्विव्यंजनोदयाद्धि प्रातिमोक्षसम्वरत्यागो भवति । न तद्वैकल्यात् । क्रममरणाद्वा स्त्रीपुरुषेन्द्रिये निरोधेऽप्यभ्यस्तनिर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर्भवति । अपरे पुनराहुः । पुद्गलसामान्यमिहाधिक्रियते । नैकत्रैवेन्द्रियैरावश्यकसमन्वागमव्यभिचारावुच्येते । कथम् । उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वित इति यावत् । उपेक्षासमन्वागतः पुद्गलः कामधातूपपन्नो वा यावद्भवाग्रोपपन्नो वा सर्वोऽसाववश्यं त्रयेण समन्वागतः । चक्षुरादिव्यभिचारस्तु संभवतो न सर्वत्र । कश्चिदेव हि रूपिभिरिन्द्रियैरसमन्वागतो य आरूप्यधातूपपन्नः । न तु यो रूपधातूपपन्नः । विस्तरेण यावत्कश्चिदेव श्रद्धादिभिरसमन्वागतो यः समुच्छिन्नकुशलमूलः । न तु स एव आरूप्यधातूपपन्नः । तस्थेहापि यावानाज्ञास्यामीन्द्रियोपेतः सर्वोऽसावेभिर्यथोक्तैस्त्रयोदशभिरिन्द्रियैरवश्यं समन्वागतः । व्यभिचारस्तु संभवतः (अभिधर्मकोषव्याख्या १२२) कस्यचिदेव । तथा हि कस्यचिच्चक्षुरिन्द्रियेणासमन्वागमो योऽन्धः । कस्यचिच्छ्रोत्रेन्द्रियेण यो बधिरः । एवं घ्राणादिभिः । यावत्कस्यचित्स्त्रीन्द्रियेण यः पुरुषः । कस्यचित्पुरुषेन्द्रियेण या स्त्री । कस्यचिद्दौर्मनस्येन यो वीतरागः । इत्येवमेवावगन्तव्यं । (इइ ।२१) सर्वाल्पैर्निःशुभोऽष्टाभिर् इति एकः पुद्गलः । सर्वेभ्योऽल्पैर्[तिब् । १११ ] यः समन्वागतः । स कियद्भिरल्पैः समन्वागत इत्याह । निःशुभो यः समुच्छिन्नकुशलमूलः । स च कामधातावेव । च्छिनत्ति स्त्री पुमान् दृष्टिचरित इति । कामवैराग्यं चात्र न संभवति । तस्मादस्य पंचापि वेदनेन्द्रियाणि सन्ति । कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र । चक्षुरादीनि तु न सन्ति । क्रममरणावस्थायामन्धत्वाद्यवस्थायां च तेषामभावात् । व्च्दयत इति कृत्वेति कर्तरि क्विप् । वेदनं वा विदिति भावसाधन औणादिकः क्विप् । ज्ञापकं दर्शयति । यथा संपदनं संपदिति । तथारूप्य इति संख्यामात्रं तथाशब्देन संबध्यते । एकान्तकुशलत्वात्श्रद्धादीनि शुभग्रहणेन गृह्यन्त इति । शुभान्येव नाकुशलाव्याकृतानि यानि तानि शुभानीत्यर्थः । आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसंग इति । तान्यपि एकान्तकुशलानि । तस्मात्तद्ग्रहणप्रसंग इति । न । अष्टाधिकारादिति । निःशुभोऽष्टाभिर् इत्येतस्मात् । उपेक्षायुर्मनःशुभैर् अष्टाभिरित्याज्ञास्यामीन्द्रियादीनां निरासः कृतो भवति । अष्टशब्देन कृतावधित्वात् । बालाधिकाराच्चेति । बालोऽत्राधिक्रियते । बालस्तथारूप्य इति वचनात् । [तिब् । १११ ] आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति । पृथग्जनत्वं कतमत् । आर्यधर्माणामलाभ इति वचनात् । तस्मात्तेष्वनास्रवेषु अप्रसंग इति । (इइ ।२२) द्विव्यंजनो यः समग्रेन्द्रिय इति । द्विव्यंजनोऽपि हि समग्रचक्षुरादिकः । एवमेकान्नविंशत्या समन्वागतो नान्यथा । आज्ञातावीन्द्रियं द्वयोश्चान्यतरदिति । रागित्वादाज्ञातावीन्द्रियमेकान्तेन वर्जयितव्यं । आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामवश्यं पर्यायेण समन्वागमात् । यदाज्ञास्यामीन्द्रियं । न तदाज्ञेन्द्रियं । यदाज्ञेन्द्रियं । न तदाज्ञास्यामीन्द्रियं । (अभिधर्मकोषव्याख्या १२३) उक्त इन्द्रियाणां धातुप्रभेदप्रसंगेनागतानां विस्तरेण प्रभ्च्द इति । अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियमिति धातुप्रभेदप्रसंगेन । धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृता इति । इन्द्रियाणि आगतानि । तेषां प्रभेदः अमलं त्रयम् इत्येवमादिविस्तरेणोक्तः । (इइ ।२३) किमेते संस्कृता धर्मा इति । ये ते स्कन्धधात्वायतनत्वेनाभिहिताः पूर्वं । यथा भिन्नलक्षणा इति । रूप्यते इति रूपं । अनुभवो वेदना । निमित्तोद्ग्रहणं संज्ञेत्यादि । संस्कृतग्रहणमुत्पत्तिमत्त्वात् । उताहो नियतसहोत्पादा अपि । केचित्सन्तीति । सन्ति हि केचित्सहोत्पादा न तु नियतसहोत्पादाः । यथा चक्षुरादिसहोत्पादाः । तद्विज्ञानादयः चक्षुरादीनां सभागतत्सभागभावात् । तस्मादेवं पृच्छति । सर्व इमे धर्माः [तिब् । ११२ ] पंच भवंतीति । पंचवस्तुकनयेन एवं सर्वधर्मसंग्रहो व्यवस्थाप्यते । रूपादिकलापमुखेन धर्मनिर्देशः । सुखप्रतिपत्त्यर्थं । तत्रासंस्कृतं नैवोत्पद्यत इति । न तत्प्रति सहोत्पादनियमश्चिन्त्यते । सर्वसूक्ष्मो रूपसंघातः परमाणुरिति । संघातपरमाणुर्न द्रव्यपरमाणुः । यत्र हि पूर्वपरभागो नास्ति । तत्सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यते । तस्माद्विशिनष्टि संघातः परमाणुरिति । कामेऽष्टद्रव्यकोऽशब्द इति । कामधातौ यदा शब्दोऽत्र नोत्पद्यते । तदा नियतमष्टद्रव्यक एव भवति नातो न्यूनद्रव्यकः । अपरेन्द्रिय इति । अपरमिन्द्रियमस्मिन्नित्यपरेन्द्रियः । चक्षुरादिमानित्यर्थः । यत्र हि चक्षुः श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यं तत्प्रतिबद्धवृत्तित्वाच्चक्षुरादीनां । सशब्दाः पुनरेते परमाणव इत्यष्टद्रव्यकादयः संघातपरमाणवः सशब्दा उत्पद्यमाना यथाक्रमं नव दशैकादशद्रव्यका उत्पद्यन्ते । योऽष्टद्रव्यकः । स नवद्रव्यकः । यो नवद्रव्यकः । स दशद्रव्यकः । यो दशद्रव्यकः । स एकादशद्रव्यक इति । अस्ति हीन्द्रियविनिर्भागी शब्दोऽपीति । इन्द्रियाद्विनिर्भक्तुं यो न शक्यते । स इन्द्रियाविनिर्भागी शब्दः । इन्द्रियापृथग्वर्तीत्यर्थः । अविनिर्भोगीति केचिद्भुजि पठन्ति । कथमविनिर्भागे भूतानां कश्चिदेव संघातः कठिन इत्यादि । कठिनः पृथिवीधातुः । द्रवो [तिब् । ११२ ]ऽब्धातुः । उष्णस्तेजोधातुः । समुदीरणा (अभिधर्मकोषव्याख्या १२४) वायुधातुः । तुल्यभूतसद्भावात्तुल्यरूपैस्तत्संघातैर्भवितव्यमित्यभिप्रायः । यद्यत्र पटुतममिति विस्तरः । यद्द्रव्यं पृथिव्यादिलक्षणं । यत्र संघाते पटुतमं स्फुटतमं प्रभावतः शक्तितो न तु द्रव्यतः उद्भूतमुत्पन्नं । तस्य तत्रोपलब्धिः । तस्य द्रव्यस्य तत्र संघात उपलब्धिर्ग्रहणं । सूचीतूलीकुलापस्पर्शवत् । तत्र सूच्यो लोहमय्यः प्रतीता लोके । तूल्यो वीरणादिपुष्पमूलदण्डाः । याः सिंका इति प्राकृतप्रतीताः । तासां सूचीनां तूलीनां च कलापः । तस्य स्पर्शः सूचीतूलीकलापस्पर्शः । तस्य चोपलब्धिः । तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति । तत्र तस्येवेति । अनेन लक्षणेन वतिः । एतदुक्तं भवति । यथा तुल्येऽपि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वात्सूचीनामेव स्पर्शो व्यक्तमुपलभ्यते । न तूलीनामतीक्ष्णत्वात् । तथा क्वचिदेव संघाते काष्ठादिके कठिनमुपलभ्यते । क्वचिद्द्रवः पानीये । क्वचिदुष्णोऽग्नौ । क्वचित्समुदीरणा वायौ । न च तत्रतत्र संघाते चत्वारि महाभूतानि न सन्ति । सक्तुलवणचूर्णरसवच्च । सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धिः । लवणचूर्णरस एव व्यक्तमुपलभ्यते । न तु सक्तुचूर्णरसः । तद्वदिहापीति । संग्रहधृतिपक्तिव्यूहनादिति । संग्रहकर्मणाब्धातोरस्तित्वं गम्यते काष्ठादिके । अन्यथा पांसुमुष्टिवत्तद्विशीर्यते । यदि तत्राब्धातुर्न स्यात् । धृतिकर्मणाप्सु नौप्रभृतीनां [तिब् । ११३ ] पृथिवीधातोरस्तित्वं गम्यते । पक्तिकर्मणा तेजोधातोरस्तित्वं गम्यते । यदि हि तन्न स्यात्काष्ठादिकं न पूतीभवेत् । व्यूहनकर्मणा वायुधातोरस्तित्वं गम्यते । प्रसर्पणं हि तस्य न स्याद्वृद्धिर्वा यदि वायुधातुस्तत्र न स्यात् । एवमन्यत्रापि योज्यं । प्रत्ययलाभे च सतीति विस्तरः । प्रत्ययानामग्न्यादीनां लाभे सति कठिनादीनां च द्रवणादिभावात् । द्रवणघनत्वादिभावात् । तद्यथाग्निभूते सति क्कठिनस्य लोहस्य द्रवणं । तेन ज्ञायते लोहेऽब्धातुरस्तीति । तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यं । तेन ज्ञायते पृथिवीधातोरत्रास्तित्वमिति । तथा कठिनसंघर्षादौष्ण्यमुपलभ्यते । तेन तेजोधातोरत्रास्तित्वं गम्यते । इति एवं संभवतोऽन्यत्रापि योज्यं । अप्सु शैत्यातिशयादौष्ण्यं गम्यते इत्यपर इति भदन्तश्रीलातः । यस्मादापः शीताः शीततराः शीततमाश्च उपलभ्यन्ते । ततो ज्ञायते तेजसस्तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः । तेन च तत्र तेजोऽस्तीति गम्यते । अव्यतिभेदेऽपीति विस्तरः । तं मतमाचार्यो दूषयति । यथा न च (अभिधर्मकोषव्याख्या १२५) शब्दस्य द्रव्यान्तरेण व्यतिभेदो मिश्रीभावोऽस्ति अतिशयश्च भवति स्वभावभेदात्पटुः शब्दः पटुतरः पटुतम इति । एवमिहापि भवेत् । यथा च वेदनाया न केनचिद्द्रव्यान्तरेण व्यतिभेदो भवतीति [तिब् । ११३ ] स्वभावभेदात्तारतम्येनातिशयः । तथेहपीति । नानेन तेजोऽस्तित्वं गम्यते । ता एव ह्यापः काश्चिच्छीताः काश्चिच्छीततराः काश्चिच्छीततमा इति । बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपर इति सौत्रान्तिकाः । बीजतः शक्तितः सामर्थ्यत इत्यर्थः । न स्वरूपतो न द्रव्यत इत्यर्थः । शक्तिरेव हि नानाविधास्ति यया योगिभिरधिमोक्षविशेषेण सुवर्णधातू रूप्यधातुस्ताम्रधातुरित्येवमादयो धातवः क्रियन्ते । कस्मादित्याह । संत्यस्मिं दारुस्कन्धे विविधा धातव इति वचनात् । धातुशक्तयो हि तत्रैवं भगवतोक्ताः । न हि तत्रातिबहूनां सुवर्णरूप्यादीनां स्वरूपतोऽवकाशोऽस्तीति । कथं वायौ वर्णसद्भाव इति वैभाषिकानेवं चोदयन्ति । कामेऽष्टद्रव्यक इति नियमे कथं वायौ वर्णोऽस्तीति निर्धार्यते । न हि कथंचित्तत्र वर्ण उपलभ्यते । श्रद्धानीय एषोऽर्थो नानुमानीय इति वैभाषिकाः । परमाप्तैरयमुक्तोऽर्थ इति प्रत्येतव्यो नार्थोऽनुमानसाध्य इत्यभिप्रायः । संसर्गतो गन्धग्रहणाद्वेति । अस्ति वानुमानमिति दर्शयति । गन्धवता तु द्रव्येण वायोः संपर्काद्गन्ध उपलभ्यते । स च गन्धो वर्णं न व्यभिचरति । यत्र हि गन्धः । तत्र वर्णेन भवितव्यमिति । अत्र च साधनवचनं । वर्णवान् वायुर्गन्धवत्त्वाज्[तिब् । ११४ ] जातिपुष्पवदिति । रूपधातौ गन्धरसयोरभाव उक्त इति । विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर् इति वचनात् । तेन तत्रत्याः परमाणवः षट्सप्ताष्टा द्रव्यका इति । तत्रत्यास्तत्र भवाः । तत्रत्याः परमाणवः संघातपरमाणवोऽधिकृताः । य इहाष्टद्रव्यक उक्तो निरिन्द्रियोऽशब्दः । स तत्र सड्द्रव्यकः । यो नवद्रव्यकः कायेन्द्रिया । स सप्तद्रव्यकः । यो दसद्रव्यकोऽपरेन्द्रियः । सोऽष्टद्रव्यकः । सशब्दकाः पुनरेते सप्ताष्टनवद्रव्यका इत्यवगन्तव्यं । उक्तरूपत्वान्न पुनरुच्यन्त इति । उक्तकल्पत्वान्न पुनः सूत्र्यन्त इत्यर्थः । किं पुनरत्र द्रव्यमेव द्रव्यमिति विस्तरः । मुख्यवृत्त्या यद्द्रव्यं यस्य स्वलक्षणमस्ति । तद्द्रव्यं गृह्यते । आहोस्विदायतनं द्रव्यमित्यधिकृतं । आयतनमपि हि द्रव्यमिति शक्यते वक्तुं सामान्यविशेषलक्षणसद्भावात् । किं चातः । कश्चातो दोष इत्यर्थः । यदि द्रव्यमेव द्रव्यं गृह्यते । यदि रूपपर्यन्तलक्षणं पृथिव्यादिपरमाणुद्रव्यं (अभिधर्मकोषव्याख्या १२६) गृह्यते । अत्यल्पमिदमुच्यते । अष्टद्रव्यक इत्यादि । संस्थानगुरुत्वलघुत्वश्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां संभवतो द्रव्यान्तराणां क्वचित्क्वचित्सद्भावात् । तथा च सति योऽष्टद्रव्यकः । स नवद्रव्यको यावच्चतुर्दशद्रव्यक इत्यष्टद्रव्यकनियमो भिद्यते । एवं नवद्रव्यकादिषु योज्यं । एवंरूपधाताव्[तिब् । ११४ ] अपि षट्सप्ताष्टद्रव्यनियमभेदो वक्तव्यः । चतुर्द्रव्यको हि वक्तव्य इति । यस्माद्भूतान्यपि पृथिव्यादीनि स्प्रष्टव्यायतनं । स्प्रष्टव्यं द्विविधम् इति वचनात् । तस्मात्कामे चतुर्द्रव्यकोऽशब्दः । रूपं गन्धो रसः स्प्रष्टव्यमिति । सशब्दस्तु पंचद्रव्यक इति वक्तव्यं । यदाश्रयभूतमिति । पृथिव्यादीनि चत्वारि । यदाश्रयिभूतमिति । रूपं गन्धो रसः स्प्रष्ट्व्यैकदेशश्च । तदेवं संस्थानस्य रूपेऽन्तर्भावात् । गुरुत्वादीनां च स्प्रष्टव्य इति । नात्यल्पमिदमुच्यते । नाप्यतिबहु । आश्रयभूतानां स्प्रष्टव्यायतनान्निःकृष्य चतुर्धा निर्देशात् । एवमपि भूयान्सीति विस्तरः । यद्भूतचतुष्कमाश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा । न तदेवान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रयः । किं तर्हि । अन्यदेव भूतचतुष्कं तस्याश्रय इति वैभाषिकसिद्धान्तः । तत्र पुनर्जातिद्रव्यमिति । भूतचतुष्कजातिरत्र गृह्यते । या ह्येकस्य भूतचतुष्कस्य जातिः । तामन्यानि भूतचतुष्कानि नातिक्रामन्ति । एवं विकल्पेन वक्तुमिति । किंचिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं । किंचिदत्रायतनद्रव्यं गृह्यते यदाश्रयिभूतं । यच्चैतदाश्रयभूतं । तज्जात्या गृह्यत इति । छन्दतो हि वाचां प्रवृत्तिः । अर्थस्तु परीक्ष्य इति । छन्दत इच्छातः संक्षेपविस्तरविधानानुविधायिन्यो वाचः प्रवर्तन्ते । अर्थस्तु तासां परीक्ष्यः । किमेवं नियतसहोत्पादानि [तिब् । ११५ ] तानि भवन्ति । न भवन्तीति । योगाचारचित्तास्तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति । कथमिति । उच्यते । अस्ति समुदाय एकभौतिकस्तद्यथा शुष्को मृत्पिण्डः । अस्ति द्विभौतिकः स एवार्द्रः । अस्ति त्रिभौतिकः स एवोष्णः । अस्ति यावत्सर्वभौतिकः स एवार्द्र उष्णश्च मृत्पिण्डो गमनावस्थायामिति । उपादायरूपेऽपि यदुपादायरूपं यस्मिन् समुदाये उपलभ्यते । तत्तत्रास्तीति वेदितव्यं । अस्ति समुदाय एकोपादायरूपिकः । तद्यथा प्रभा । अस्ति द्व्युपादायरूपिकः । तद्यथा सशब्दगन्धो वायुः । त्र्युपादायरूपिकः । तद्यथा धूमः । तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात् । स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यं । चतुरुपादायरूपिकः । तद्यथा गुडपिण्डः । पंचोपादायरूपिकः । तद्यथा स एव सशब्दः । इत्येवमाद्यपि (अभिधर्मकोषव्याख्या १२७) वक्तव्यं । (इइ ।२४ ब्) शेषाणां वक्तव्य इति चित्तचैत्तानां विप्रयुक्तानां च । चित्तचैत्ताः सहावश्यम् इति । न चित्तं चैत्तैर्विना उत्पद्यते । नापि चैत्ता विना चित्तेनेत्यवधार्यते । न तु सर्वं चित्तं सर्वचैत्तनियतसहोत्पादं । नापि सर्वचैत्ताः सर्वचित्तनियतसहोत्पादा इति । [तिब् । ११५ ] सर्वं संस्कृतलक्षणैर् इति । संस्कृतलक्षणैर्यद्युक्तं । तत्सर्वं तैः संस्कृतलक्षणैर्जात्यादिभिरवश्यं सहोत्पद्यते । किं पुनस्तदित्याह । यत्किंचिदुत्पद्यते रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ताश्चेति । पूर्वमेव ह्यसंस्कृतं बहिष्कृतं । तत्रासंस्कृतं नैवोत्पद्यते इति वचनात् । विकल्पार्थो वाशब्द इति । किंचित्प्राप्त्या सहोत्पद्यते यत्सत्त्वसंख्यातं । किंचिन्न यदसत्त्वसंख्यातमिति विकल्पः । प्रतिसंख्याप्रतिसंख्यानिरोधयोर्यद्यपि प्राप्तिरस्ति न तु तावुत्पद्येते इति न तयोर्ग्रहणं । सहोत्पादननियमो ह्ययमारम्भ इति । असत्त्वसंख्यातस्य प्राप्तिर्नास्तीति किमत्र कारणं । सर्वसत्त्वसाधारणत्वात् । सहजयैव च प्राप्त्या प्राप्त्या प्राप्तिमान् सहोत्पद्यते । न पूर्वपश्चात्कालजयेत्यवगन्तव्यं । (इइ ।२४ द्) गतिविषय इति । उत्पत्तिविषय इत्यर्थः । महाभूमिका इति । महत्त्वं सर्वचित्तभवत्वात् । (इइ ।२५) इमे किलेति । किलशब्दः परमतद्योतने । स्वमतं तु छन्दादयः सर्वचेतसि न भवन्ति । तथा ह्यनेनैवाचार्येण पंचस्कन्धके लिखितं । छन्दः कतमः । अभिप्रेते वस्तुनि अभिलाषः । अधिमोक्षः कतमः । निश्चिते वस्तुनि तथैवावधारणमित्यादि । चेतना चित्ताभिसंस्कार इति । चित्तप्रस्पन्दः प्रस्पन्द [तिब् । ११६ ] इव प्रस्पन्द इत्यर्थः । विषयनिमित्तग्राह इति । विषयविशेषरूपग्राह इत्यर्थः । स्पर्श इन्द्रियविषयविज्ञानसंनिपातजा स्पृष्टिरिति । इन्द्रियविषयविज्ञानानां संनिपाताज्जाता स्पृष्टिः । स्पृष्टिरिव स्पृस्टिः । यद्योगादिन्द्रियविषयविषयविज्ञानान्यन्योन्यं स्पृशन्तीव स स्पर्शः । धर्मप्रविचय इति । प्रविचिनोतीति प्रविचयः । प्रविचीयन्ते वा अनेन धर्मा इति प्रविचयः । येन संकीर्णा इव धर्माः पुष्पाणीव प्रविचीयन्ते उच्चीयन्त इत्यर्थः । इमे सास्रवा इमेऽनास्रवाः । इमे रूपिणः इमेऽरूपिण इति । धर्माणां प्रविचयः धर्मप्रविचयः । प्रतीतत्वात्प्रज्ञेति वक्तव्ये श्लोकबन्धानुगुण्येन मतिरिति कारिकायामुक्तं । स्मृतिरालम्बनसंप्रमोष इति । यद्योगादालम्बनं न मनो विस्मरति । तच्चाभिलपतीव । सा स्मृतिः । मनस्कारश्(अभिधर्मकोषव्याख्या १२८) चेतस आभोग इति । आलम्बने चेतस आवर्जनम् । अवधारणमित्यर्थः । मनसः कारो मनस्कारः । मनो वा करोति आवर्जयतीति मनस्कारः । अधिमुक्तिस्तदालम्बनस्य गुणतोऽवधारणम् । रुचिरित्यन्ये । यथानिश्चयं धारणेति योगाचारचित्ताः । समाधिश्चित्तस्यैकग्रतेति । अग्रमालम्बनमित्य्[तिब् । ११६ ] एकोऽर्थः । यद्योगाच्चित्तं प्रबन्धेन एकत्रालम्बने वर्तते । स समाधिः । यदि समाधिः सर्वचेतसि भवति । किमर्थं ध्यानेषु यत्नः क्रियते । बलवत्समाधिनिष्पादनार्थं । कथमेकस्मिंश्चित्ते दशानां भिन्नलक्षणानां चैत्तानामस्तित्वं गम्यत इति अत आह । सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तरः । स एष विशेषः चित्तचैत्तानां दुर्लक्ष्यः प्रबन्धेष्वपि तावत्किं पुनः क्षणेषु कालपर्यन्तलक्षणेषु । रूपिणीनामपि ओषधीनां मूर्तानामपि कासांचिथरीतकीप्रभृतीनां बहुरसानां षड्रसानामिन्द्रियग्राह्या जिह्वेन्द्रियग्राह्याः दुरवधारा दुःपरिच्छेदा भवन्ति । किं पुनः ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्याः । तस्मादाप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्यभिप्रायः । (इइ ।२६) श्रद्धा चेतसः प्रसाद इति । क्लेशोपक्लेशकलुषितं चेतः श्रद्धायोगात्प्रसीदति । उदकप्रसादकमणियोगादिवोदकं । सत्यरत्नकर्मफलाभिसंप्रत्यय इत्यपरे इति । आकारेण श्रद्धानिर्देशः । सत्येषु चतुर्षु रत्नेषु च त्रिषु कर्मसु च शुभाशुभेषु तत्फलेषु च इष्टानिष्टेषु संत्येवैतानीत्यभिसंप्रत्ययोऽभिसंप्रतिपत्तिः श्रद्धेति । अप्रमादः कुशलानां धर्माणां भावनेति । भावना नाम कुशलानां [तिब् । ११७ ] प्रतिलम्भनिषेवणस्वभावा । प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने इति वचनात्सा कथमप्रमादो नाम चैतसिको भविष्यति । यस्मिन् सति सा प्रतिलम्भनिषेवणभावना भवति । सोऽप्रमादः तात्पर्यलक्षणः । अत आह । या तेषु अवहिततेति । तदेवं सति भावनाहेतावयं भावनोपचारः कृत इति । चेतस आरक्षेति । यः सांक्लेशिकेभ्यश्चित्तमारक्षते । सोऽप्रमाद इति । चित्तकर्मण्यतेति । यद्योगाच्चित्तं कर्मण्यं भवति । सा चित्तकर्मण्यता चित्तलाघवमित्यर्थः । ननु च सूत्रे कायप्रश्रब्धिरप्युक्तेति । कश्च पर्यायो यत्प्रश्रब्धिसंबोध्यंगद्वयं भवति । अस्ति कायप्रश्रब्धिरस्ति चित्तप्रश्रब्धिः । तत्र यापि कायप्रश्रब्धिः । तदपि प्रश्रब्धिसंबोध्यंगमभिज्ञायै संभोधये निर्वाणाय संवर्तते । यापि चित्तप्रश्रब्धिः । तदपि प्रश्रब्धिसंबोध्यंगमभिज्ञायै संबोधये निर्वाणाय संवर्तत (अभिधर्मकोषव्याख्या १२९) इति । कथमियमेकैवोच्यते । प्रश्रब्धिश्चित्तकर्मण्यतेति । सा तु यथा कायिकी वेदनेति । यथा चेतस्यपि वेदना परमाणुसंचयात्मकेन्द्रियाश्रयत्वात्कायिकीत्युच्यते तथेयमपि प्रश्रब्धिरवगन्तव्या । कथं सा बोध्यंगेषु योक्ष्यत इति असमाहितत्वात्पंचानां विज्ञानकायानां पृच्छति । तत्र तर्हीति विस्तरः । [तिब् । ११७ ] तत्र सूत्रे कायवैशारद्यमेव कायकर्मण्यता भूतविशेषलक्षणा प्रीत्यध्याकृता । प्रीतमनसः कारः प्रश्रभ्यत इति वचनात् । कथं सा बोध्यंगमिति । पृथक्कलापत्वात्सास्रवत्वाच्च न युज्यत इत्यभिप्रायः । प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यंगमिति विस्तरः । तीर्थिकाः किल भगवच्छ्रावकानेवमाहुः । श्रमणो भवन्तो गौतम एवमाह । एवं यूयं भिक्षवः पंच निवरणानि प्रहाय चेतस उपक्लेशकराणि प्रज्ञादौर्बल्यकराणि सप्त बोध्यंगानि भावयतेति । वयमप्येवं ब्रूमः । तत्रास्माकं श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनायाः । तेभ्यो भगवता एतदुपदिष्टं । पंच सन्ति दश भवन्ति । दश सन्ति पंच व्यवस्थाप्यन्ते । प्रतिघः प्रतिघनिमित्तं च नवाघातवस्तूनि व्यापादनिवरणमुक्तं भगवता । तदानुकूल्यात् । तथा सप्त सन्ति चतुर्दश भवन्ति । चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते । प्रीतिः प्रीतिनिमित्तं चेत्यनेन भेदेन । तदानुकूल्यादिति । न च संकल्पव्यायामौ प्रज्ञास्वभावाविति । तयोर्यथाक्रमं वितर्कवीर्यस्वभावत्वात् । न तौ प्रज्ञास्वभावौ । यदा च त्रिस्कन्धो मार्गः क्रियते शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्ध इति । तत्र प्रज्ञास्कन्धनिर्देश उक्तं । प्रज्ञास्कन्धः कतमः । सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायाम इति । उपेक्षा [तिब् । ११८ ] चित्तसमतेति । यद्योगाच्चित्तं सममनाभोगे वर्तते । सोपेक्षा संस्कारोपेक्षा नाम । त्रिविधा हि उपेक्षा । वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति । ननु चोक्तं दुर्ज्ञान एषां विशेष इति । सूक्ष्मो हि चित्तचैत्तानां विशेषः । स एष दुःपरिच्छेदः प्रवाहेष्वपि तावदित्यादि वचनात् । दुःखेन ज्ञायते दुर्ज्ञानः । अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते । यदविरुद्धमेकस्मिंश्चित्तक्षणे धर्मान्तरेण स्पर्शादिना । इदं तु खलु अतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति । आभोगनाभोगयोरेकस्मिंश्चित्तक्षणे अविरोधो व्यवस्थाप्यत इति वाक्यशेषः । न हि विरुद्धयोः सुखदुःखयोरेकस्मिंश्चित्तक्षणे भावो दृष्ट इति । अन्यत्राभोग इति । अन्यत्रालम्बने आभोगोऽन्यत्रानाभोग इत्यविरोधः । एवंजातीयकमत्रान्यदप्यायास्यतीति । विरोधजातीयं यथा वितर्कविचारौ । तयोर्हि लक्षणं चित्तौदारिकता वितर्कः । चित्तसूक्ष्मता विचार इति । (अभिधर्मकोषव्याख्या १३०) वितर्कविचारौदार्यसूक्ष्मते इति वचनात् । तयोस्तु एकत्र चित्ते विरोध इति वक्ष्यते । यस्तस्य नयः । सोऽस्यपीति । पर्यायेणानयोर्वृत्तिरित्यभिप्रायः । ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते इति । अह्रीरगुरुतावद्ये भयदर्शित्वमत्रपेत्य् अत्र विपर्ययग्रहणात् । स तु प्रज्ञात्मक इति । स त्वमोहः प्रज्ञास्वभावः । प्रज्ञा च [तिब् । ११८ ] महाभूमिकेति । मतिः स्मृतिर् इति वचनात् । नासौ कुशलमहाभूमिक एवोच्यते । किं तर्हि । अकुशलादिभूमिकोऽपीति । अविहेठनेति । यद्योगात्परो न विहेठ्यते । साविहिंसा विहिंसाप्रतिपक्षः चैतसिकः । चेतसोऽभ्युत्साह इति । कुशलक्रियायां यश्चेतसोऽभ्युत्साहः । तद्वीर्यं । यस्त्वकुशलादिक्रियायां चेतसोऽभ्युत्साहः । नैतद्वीर्यं । कौसीद्यमेव तत् । प्रवचने पठ्यते । सीदनात्मकत्वात् । तथा ह्युक्तं भगवता । इतो बाह्यकानां यद्वीर्यं कौसीद्यमेव तदिति । (इइ ।२७ ब्) मोहो नामाविद्येति । विद्याविपक्षो धर्मोऽन्योऽविद्येति । पश्चाद्व्याख्यायते । भावनाविपक्षो धर्म इति । भावनाया अभावमात्रप्रतिपत्तिर्मा भूदिति भावनाविपक्ष इत्याह । एवं कौशीद्यादिष्वपि व्याख्येयं । कायगुरुताचित्तगुरुतेति । प्रश्रब्धिप्रतिपक्षो धर्मः । यथा कायिकी वेदनेति । यथा वेदना रूपीन्द्रियाश्रयत्वात्चैतसिक्यपि कायिकीति व्याख्याता । तथा कायिकं स्त्यानं । पंचविज्ञानकायसंप्रयुक्तं स्त्यानं कायिकमित्युच्यते । औद्धत्यं चेतसोऽव्युपशम इति । नृत्यगीतादिशृंगारवेषालंकारकाद्यौद्धत्यसंनिश्रयदानकर्मकश्चैतसिको धर्मः । न चात्र स्त्यानं पठ्यते इत्यभिधर्मे । प्राप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञ [तिब् । ११९ ] इति । पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्येतामेव प्राप्तिं जानीते देवानां प्रियो न त्वाचार्याणामिष्टिमिच्छां जानीते । कोऽयं देवानां प्रियो नाम । र्जुकजातीयो देवानां प्रिय इत्येके व्याचक्षते । अशठो हि देवानां प्रियो भवति । मूर्खो देवानां प्रिय इत्यपरे । यो हीश्वराणामिष्टः स न ताडनेन शिक्षत इति मूर्खो भवतीति । यथैवामोह इति । यथैवमोहः कुशलमूलं प्रज्ञास्वभावत्वान्महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्यवधार्यते । ततश्च कुशलमहाभूमिकेषु न पठितः । तथा मुषितस्मृत्यादयो (अभिधर्मकोषव्याख्या १३१)ऽपि पंच महाभूमिकत्वात्न क्लेशमहाभूमिका एवेत्यवधार्यन्ते । ततश्च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते । कथमित्याह । स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता । समाधिरेव क्लिष्टो विक्षेप इत्येवमादीति । आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यं । मनस्कार एव क्लिष्टोऽयोनिशोमनस्कारः । अधिमुक्तिरेव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति । अत एवोच्यत इति विस्तरः । यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यवस्थाप्यन्ते । नैतद्व्यतिरिक्ता । अत एवोच्यते चतुष्कोटिक इति । ये महाभूमिकाः क्लेशमहाभूमिका अपि त इति काक्वापृच्छति । चतुष्कोटिकाः । स्युर्महाभूमिकाः न क्लेशमहाभूमिकाः । [तिब् । ११९ ] स्युः क्लेशमहाभूमिका न महाभूमिकाः । स्युर्महाभूमिकाश्च क्लेशमहाभूमिकाश्च । स्युर्नैव महाभूमिका न क्लेशमहाभूमिकाः । तृतीया स्मृत्यादय इति । ये मुषितस्मृत्यादयः पंच यथोक्ताः । एते हि महाभूमिकाः क्लेशमहाभूमिकाश्च । चतुर्थी एतानाकारां स्थापयित्वेति । उक्तनिर्मुक्ता धर्माः कुशलमहाभूमिकादयश्चैतसिका रूपादयश्चान्य इति । तेषामन्यथा चतुष्कोटिक इति । द्वितीयायां कोट्यां विक्षेपः प्रक्षेप्तव्यः । न तु तृतीयायाम् । अत एवं वक्तव्यं । प्रथमा कोटिः पूर्ववत् । द्वितीया आश्रद्ध्यं कौसीद्यमविद्या औद्धत्यं प्रमादो विक्षेपश्च । तृतीया स्मृत्यादयश्चत्वारः । मुषितास्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधिमोक्षा इत्यर्थः । चतुर्थी पूर्ववत् । यत्तूक्तं न चात्र स्त्यानं पठ्यत इति । तान् प्रतिब्रवीति । स्त्यानं पुनरिष्यत इति विस्तरः । तस्यापाठे कस्यापराध इति । किमस्य स्त्यानस्य अपाठे ममापराधः । किमाभिधार्मिकस्येति । अभिधर्मकारस्यायमपराधो न ममेत्यभिप्रायः । स्त्यानस्य सर्वक्लेशसंयोगित्वेनाभिमतत्वात् । एवं त्वाहुरिति । तत्र शास्त्रे स्त्यानस्यापाठे कारणमाहुराभिधार्मिकाः । क्षिप्रतरं किलेति । [तिब् । १२० ] किलशब्दोऽसंभावनायां । कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेरनुगुणो भविष्यति । लयौद्धत्ये हि समाधिपरिपंथिनी । तत्कथं परिपंथ्येवानुगुणे । न ह्येते जातु सहचरिष्णुतां जहीत इति । न ह्येते स्त्यानौद्धत्ये कदाचित्सहचरधर्मतां त्यजत इत्यर्थः । तथापि यद्यस्याधिमात्रमिति । एवमपि च स्त्यानमौद्धत्यं वा यस्य पुद्गलस्याधिमात्रं । स पुद्गलस्तच्चरितः स्त्यानचरित औद्धत्यचारितो वावगन्तव्यः । क्वचिद्धि कलापे कश्चिद्धर्म उद्भूतो भवतीति । नान्यत्रेति कुशलादिषु । (इइ ।२७ द्) अकुशले त्वाह्रीक्यमनपत्रपेति । (अभिधर्मकोषव्याख्या १३२) तुशब्दो विशेषणे अवधारणे वा । अकुशल एवेति । (इइ ।२८) परीत्तक्लेशभूमिका इति । परीत्तोऽल्पकः । कोऽसौ । अविद्यामात्रं । अविद्यैव केवलेत्यर्थः । तेनाविद्यामात्रेणेति । नान्येन रागादिना क्लेशेन । भावनाहेयेनेति । न दर्शनहेयेन । मनोभूमिकेनैवेति । न पंचविज्ञानकायिकेन । यस्मादिमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति । अतो मनःसंप्रयोगात्परीत्तक्लेशभूमिका उच्यन्ते । रागादिकलापे ह्यवश्यमविद्यया भवितव्यमिति न परीत्तो रागादिकः । तदेवं ये सर्वत्र चैतसिके । ते महाभूमिका । ये कुशल एव । ते कुशलमहाभूमिकाः । [तिब् । १२० ] ये क्लिष्टे निवृते चाकुशले च । ते क्लेशमहाभूमिकाः । यो त्वकुशल एव । तेऽकुशलमहाभूमिकाः । ये परीत्तक्लेशसंप्रयुक्ते चेतसि । ते परीत्तक्लेशभूमिकाः । एषां तु निर्देश उपक्लेशेषु करिष्यत इति । अनुशयनिर्देशे । (इइ ।२९-३१) अन्येऽपि चानियता इति । ये कदाचित्कुशले कदाचिदकुशले कदाचिदव्याकृते चेतसि भवंति । मिद्धादय इति । आदिशब्देनारतिविजृंभिकातन्द्रीभक्तेऽसमतादय उपक्लेशाः क्लेशाश्च रागादायोऽप्यनियतत्वेन गृह्यन्ते । न ह्येते रागादयः पंचानां प्रकाराणामन्यतमस्मिं नियता भवन्ति । न महाभूमिकास्सर्वत्र चेतस्यभावात् । न कुशलमहाभूमिकाः कुशलत्वयोगात् । न क्लेशमहाभूमिकाः सर्वत्र क्लिष्टे तदभावात् । न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिघः । इति एवमन्येऽपि क्लेशा वक्तव्याः । अत्राचार्यवसुमित्रः संग्रहश्लोकमाह । वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः मानश्च विचिकित्सा चेत्यष्टावनियताः स्मृता इति । तदिदमष्टनियमवचनं न बुध्यामहे । दृष्टयोऽपि कस्मान्नानियता इष्यन्ते । न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते । आवेणिकत्वेऽकुशले दृष्टियुक्ते च [तिब् । १२१ ] विंशतिः क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिर् इति वचनात् । तस्माद्यद्वा तत्वेदमुक्तमिति पश्यामः । कामावचरं तावत्पंचविधमिति । कुशलमेकं । अकुशलं द्विविधम् । आवेणिकमविद्यामात्रसंप्रयुक्तं रागाद्यन्यक्लेशसंप्रयुक्तं च । अव्याकृतमपि द्विविधं । निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसंप्रयुक्तं । अनिवृताव्याकृतं च विपाकजादीनि । कुकृतभावः कौकृत्यमिति । अर्थस्य कुकृतस्य धर्मः । स तु चैतसिक इति न संबध्यते । तस्मादाह । इह तु (अभिधर्मकोषव्याख्या १३३) पुनः कौकृत्यालम्बनो धर्म इति । किंस्वभाव इत्याह । चेतसो विप्रतिसार इति । यदि कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते । तत्संप्रयुक्ता अप्यन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति । न प्राप्नुवन्ति । तेषामप्राधान्यात् । विप्रतिसारावस्थायां हि कौकृत्य्लक्षणं चैतसिकं कौकृत्याकारमुद्भूतवृत्तिकम् । अन्ये चित्तचैत्तास्तदाकारेणानुवर्तंते । कस्यचिदेव हि धर्मस्य कस्मिंश्चिच्चित्तकलापे प्राधान्यमिति वर्णयंति । शून्यतालम्बनविमोक्षमुखं शून्यतेति । स्कन्धानामन्तर्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्युच्यते । विनीलकव्याध्मातकाद्यशुभालम्बनः अलोभः अशुभेत्युच्यते । भावनासंबद्धत्वात्स्त्रीलिंगनिर्देशः । अशुभा भावनेति । तथेहापि कौकृत्यालम्बनश्चैतसिको धर्मः कौकृत्यमिति । [तिब् । १२१ ] स्थानेन स्थानिनामतिदेशः । सर्वो ग्राम आगत इति । सभूमिकः शालासमुदायो ग्रामः । स्थानिषु मनुष्येष्वागतेषु वक्तारो भवंति सर्वो ग्राम आगत इति । एवं सर्वो देश आगत इति । स्थानभूतं च कौकृत्यं विप्रतिसारस्येति । विप्रतिसारालम्बनत्वात् । तस्माद्युक्तस्तथानिर्देशः । फले वा हेतूपचार इति । हेतुः कौकृत्यं । फलं विप्रतिसारः । तस्मिं फले हेतुरुपचर्यते । हेतुवाचकेन शब्देन फलमुच्यत इत्यर्थः । यथा षडिमानि स्पर्शायतनानि पौराणं कर्मेति । पूर्वजन्मकृतस्य पौराणस्य कर्मणश्चक्षुरादीनि षट्स्पर्शायतनानि फलानि । तेषु यथा कर्मोपचर्यते । तद्वत् । यत्तर्ह्यकृतालम्बनं तत्कथं कौकृत्यमिति । यदकृतं । तन्न कृतमिति मत्वा चोदयति । अकृतेऽपि कृताख्या भवतीति । अकृतेऽप्यर्थे कृतशब्दप्रयोगो भवति । कथमित्याह । न साधु मया कृतं यत् । तन्न कृतमिति । कृतमिव तदिति कृत्वा । यत्कुशलमकृत्वा तप्यत इति । यत्कुशलं दानादिकमकृत्वा तप्यते पश्चात्तापीभवति । तत्कुशलं । अकुशलं च कृत्वा किं । तप्यत इति अधिकृतं । यच्चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते । तदपि कुशलं । विपर्ययादकुशलं । यदकुशलमकृत्वा तप्यते कुशलं च कृत्वेति । यत्पापमकृत्वा पश्चात्तापीभवति न साधु मया कृतं यत् । [तिब् । १२२ ] तन्न कृतमिति । तदकुशलं कौकृत्यं । यच्च कुशलं दानादिकं कृत्वा पश्चात्तापीभवति न साधु मया कृतं यद्दानादिकं कृतमिति । तदप्यकुशलं । तदेतदुभयमप्युभयाधिष्ठानं भवतीति । तदेतत्कौकृत्यमुभयमपि कुशलं चाकुशलं च उभयाधिष्ठानं भवति यथोक्तेन विधानेन । आवेणिक इति । रागादिपृथग्भूत इत्यर्थः । दृष्टियुक्ते चेति । (अभिधर्मकोषव्याख्या १३४) चशब्दः अकुशल इत्यनुकर्षणार्थः । महाभूमिक एव कश्चित्प्रज्ञाविशेषो दृष्टिरिति । संतीरिका या प्रज्ञा । सा दृष्टिः । सा चेहाकुशला गृह्यते । तस्मादाह । मिथ्यादृष्टिश्चेत्यादि कौकृत्येनैकविंशतिर् इति कौकृत्येन चेति । लुप्तनिदृष्टश्चकारो द्रष्टव्यः । क्लेशैश्चतुर्भिरित्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर्वेदितव्या । न हि रागादयः परस्परेण संप्रयुज्यन्त इत्याभिधार्मिकाः । स च क्लेश आवेणिकोक्ताश्च विंशतिरिति । दश महाभूमिकाः षट्क्लेशमहाभूमिकाः द्वावकुशलमहाभूमिकौ वितर्को विचारश्चेति विंशतिः । स च क्लेशो रागः प्रतिघो मानो विचिकित्सा चेत्येकविंशतिः । एकविंशतिर्भवत्येवेति क्रियावधारणमवगन्तव्यं । क्रोधादिभिरपीति । क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सरा मायामदविहिंसाश्चेति [तिब् । १२२ ] एभिरपि संप्रयुक्ते चित्ते एकविंशतिरेव चैतसिकाः । ते चावेणिकोक्ताः पूर्ववत् । स चोपक्लेशः क्रोधो वा यावद्विहिंसा वेति । कौकृत्येन च संप्रयुक्ते ते च पूर्वोक्ताः तच्च कौकृत्यमित्येकविंशतिः । कौकृत्यमपि ह्युपक्लेशः । स्वतंत्रमिष्यते । समासत आवेणिक इत्य्विस्तरः । अविद्यामात्रसंप्रयुक्ते चेतसि अकुशले दृष्टिसंप्रयुक्ते चाकुशले विंशतिः । अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वकुशल एवैकविंशतिः । निवृताव्याकृतमिति । क्लेशाच्छादितं कुशलाकुशलत्वेन अव्याकृतं यत् । तन्निवृताव्याकृतम् । अनाच्छादितं त्वनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावं । बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्तीति । कश्मीरमण्डलाद्ये बहिर्देशस्थिताः । ते बहिर्देशकाः । त्रयोदशेति क्वचिदनिवृताव्याकृते कौकृत्यं त्रयोदशममधिकं प्रक्षिप्य । मिद्धं प्रचलायमानावस्थायां स्वप्नदर्शनावस्थायां वा कुशलाकुशलाव्याकृतत्वादिति । शास्त्रे वचनात् । कथं मिद्धं कुशलं वक्तव्यमकुशलं वक्तव्यमव्याकृतं वक्तव्यमिति । आह । कुशलं वक्तव्यमकुशलं वक्तव्यमव्याकृतं वक्तव्यमिति । यत्र [तिब् । १२३ ] द्वाविंशतिः । तत्र त्रयोविंशतिरिति विस्तरः । यत्र द्वाविंशतिश्चैतसिका इत्युक्तं । तत्र तन्मिद्धं त्रयोविंशं । त्रयोविंशतेः पूरणमित्यर्थः । यत्र त्रयोविंशतिः कौकृत्यमधिकं क्वचिदिति । तत्र तन्मिद्धं चतुर्विंशम् । एवं यावदन्यत्र द्वादशव्याकृते मता मिद्धं (अभिधर्मकोषव्याख्या १३५) त्रयोदशं वक्तव्यं । बहिर्देशकमतेन तु कौतृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यं । (इइ ।३२) अतो यथोक्तादिति । अतो यथावर्णिताच्चैत्तसहोत्पादनियमात् । कौकृत्यं मिद्धं च सर्वथा नास्तीति । न कुशलं नाप्यव्याकृतं कुत एवाकुशलमिति । सर्वथा मिद्धं कौकृत्यं च नास्ति । शाठ्यमदमाया वर्ज्या इति । माया शाठ्यं च कामाद्यध्यानयोर्ब्रह्मवञ्चनात् । स्त्यानौद्धत्यमदा धातुत्रय इति वचनात् । एतानि वर्ज्यन्ते तेषां तत्र सद्भावात् । अन्यत्सर्वं तथैवेति । कुशले चित्ते पूर्ववत्द्वाविंशतिः । आवेणिके दृष्टियुक्ते च निवृताव्याकृतेऽष्टादश कामधातुवत् । रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोपक्लेशसंप्रयुक्ते च एकान्नविंशतिः । ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविंशो भवति । अनिवृताव्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत्द्वादश । ध्यानान्तरे वितर्कश्चेति । कौकृत्यमिद्धाकुशलानि चेति चशब्दः । किं । न सन्तीत्य्[तिब् । १२३ ] अधिकृतं । शेषं तथैव वितर्कन्यूनं । यथाप्रतिसिद्धं नास्तीति । कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्यर्थः । विचारश्च मायाशाठ्यं चेत्यपिशब्दादिति । विचारश्चेति एतावति वक्तव्ये विचारश्चपीत्यपिशब्दाधिक्यादर्थाधिक्यमिति । मायाशाठ्यमपि तत्र नास्तीत्ययमपरार्थो लभ्यते । मदस्तु नापास्यते । स्त्यानौद्धत्यमदा धातुत्रय इति वचनसामर्थ्यात् । शेषं तथैवेति । कुशले वितर्कविचारनिर्मुक्ता विंशतिः । आवेणिके दृष्टियुक्ते षोडश । रागादिक्लेशसंप्रयुक्ते, मदोपक्लेशसंप्रयुक्ते च सप्तदश । दश महाभूमिकाः षट्क्लेशमहाभूमिकाः । स च क्लेशः स वोपक्लेशः । अनिवृताव्याकृते दश महाभूमिका एवेति गमनीयं । ब्रह्मणो हि यावच्छाठ्यमिति विस्तरः । तत्र शाठ्यपूर्वकत्वान्मायापि गृहीता भवति । पर्षत्सम्बन्धान्नोर्ध्वमिति । येषां पर्षदस्ति । तेषां पर्षद्ग्रहणार्थं मायाशाठ्यं प्रवर्तते । अष्टौ पर्षदः पठ्यन्ते । क्षत्रियपर्षत्ब्राह्मणपर्षत्गृहपतिपर्षत्श्रमणपर्षत्चातुर्महाराजिकपर्षत्त्रयस्त्रिंशत्पर्षत्मारपर्षत्ब्रह्मपर्षत् । तासामन्यतमोऽपि ऊर्ध्वमतो नास्तीति मायाशाठ्यभावः । ब्रह्मणस्तु पर्षदस्ति । तस्मादाह । स हि स्वस्यां पर्षदि निषण्णोऽश्वजिता भिक्षुणा ब्रह्मलोकगतेन प्रश्नं (अभिधर्मकोषव्याख्या १३६) पृष्टः । कुत्रेमानि चत्वारि महाभूतानि अपरिशेषं [तिब् । १२४ ] निरुध्यन्त इति । अप्रजानन्नारूप्यधातौ चत्वारि महाभूतानि अशेषं निरुध्यन्त इत्यनवबुध्यमानः क्षेपं कथाप्रकरणमकार्षीत् । अहमस्मि ब्रह्मेति विस्तरः । ब्रह्मेत्युक्त्वा महाब्रह्मेति वचनं ब्रह्मान्तरेभ्य आत्मनो विशिष्टत्वप्रदर्शनार्थं । ईश्वर ईशनशीलः । कर्ता निर्माता स्रष्टा सृज इति पर्याया उत्तरोत्तरव्याख्यायोगो वा । पितेव पितृभूतः । केषां । भावानां । (इइ ।३३) उक्तमेतदिति विस्तरः । या भूमिर्यच्चित्तं यावन्तश्च चैत्ताः । सा भूमिस्तच्चित्तं तावन्तश्च चैत्ता इत्युक्तमेतत् । तत्र विहितमिति शास्त्रे विहितं । तत्र विहितमिति केचित्पठंति । स एव चात्रार्थः । गुणेषु गुणवत्सु चेति । स्वपरसांतानिकेषु मैत्रीकरुणादिषु गुणेषु । गुणवत्सु च पुद्गलेषु आचारगोचरगौरवादिसंपन्नेषु । यद्योगाद्गौरवं न करोति । असावगौरवता । नास्ति गौरवमस्येत्यगौरवः । तद्भावः अगौरवता चैतसिकविशेषः । कोऽसाविति । पर्यायावाहुः । अप्रतीशता अभयवशवर्तितेति । शिष्यं प्रति इष्ट इति प्रतीशः । गुरुस्थानीयः । नास्ति प्रतीशोऽस्येति अप्रतीशः । तद्भावः अप्रतीशता । भावाभिधानेन चैत्तो गृह्यते । भयं नाम मानसश्चैत्तो धर्मः । भयेन वशे वर्तितुं शीलमस्येति भयवशवर्ती । न भयवशवर्ती [तिब् । १२४ ] अभयवशवर्ती तद्भावोऽभयवशवर्तिता । तदेव चाह्रीक्यं । नास्ति ह्रीरस्येत्यह्रीकः । तद्भाव आह्रीक्यं । स च गौरवप्रतिद्वंद्वो धर्मः । न तदभावमात्रं । अवद्ये भयादर्शित्वमत्रपेति । अवाच्यमवद्यम् । अतश्चाह । अवद्यं नाम यद्गर्हितं सद्भिरिति । तत्राभयदर्शिता अनपत्राप्यमिति । अवद्येऽनिष्टफलादर्शितेत्यर्थः । भीयतेऽस्मादित्यत्र भयशब्दोऽपादानसाधनः । तस्माद्भयशब्देन अनिष्टं फलमुच्यते । अभयस्य दर्शनमभयदर्शितेति विस्तरः । यदि तावदेवं क्रियेत न भयमभयं । अभयं द्रष्टुं शीलमस्येति अभद्यदर्शी । तद्भावोऽभयदर्शितेति । प्रज्ञा विज्ञास्यते । प्रज्ञया हि अभयं पश्यति । अथ पुनरेवं क्रियते भयं द्रष्टुं शीलमस्येति भयदर्शी । न भयदर्शी अभयदर्शी । तद्भावोऽभयदर्शिता । अभयदर्शितेति अविद्या विज्ञास्यते । तथा ह्यविद्यायोगाद्भयं न पश्यति । नैव हि दर्शनं दर्शितेति विस्तरः । न प्रज्ञा नाप्यविद्या । किं तर्हि । तयोः प्रज्ञाविद्ययोर्यो निमित्तमुपक्लेशः । (अभिधर्मकोषव्याख्या १३७) तदभयदर्शनं । तच्चानपत्राप्यम् [तिब् । १२५ ] इति । अपत्रपतेऽनेनेत्यपत्राप्यं । कृत्यल्युटो बहुलमिति करणे ण्यत्प्रत्ययः । न अपत्राप्यमनपत्राप्यमिति । हृई लज्जायां त्रपूष्लज्जायामित्येकार्थयोरनयोर्धात्वोः कथमर्थांतरे वाचकत्वमिति अपरितुष्यंतोऽन्ये पुनराहुः । आत्मापेक्षयेति विस्तरः । एवमपि द्वे अपेक्षे युगपत्कथं सेत्स्यत इति । अस्मिन्नपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश्चोदक अह । एवमपीति । अपिशब्देन अयमपि पक्षो दुष्यतीत्यभिप्रायः । आह्रीक्यमनपत्राप्यं चैकस्मिंश्चित्ते कथं भवत इति मत्वा चोदयति । द्वे अपेक्षे युगपत्कथं सेत्स्यत इति । न खलूच्यते युगपदात्मानं परं चापेक्षत इति विस्तरः । पर्यायेन वृत्तिमनयोर्दर्शयति । कस्यचिद्धि दोषैरात्मानमपेक्षमाणस्यापि न प्रवर्तते लज्जा । कस्यचित्परमपेक्षमाणस्येति । विपर्ययेण ह्रीरपत्राप्यं चेति विस्तरः । प्रथमेन तावत्कल्पेन अह्रीरगुरुतावद्ये भयादर्शित्वमत्रपेति अनेन । सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यमिति । भयदर्शितानिमित्तमपत्राप्यमित्यर्थः । द्वितीयेन कल्पेन आत्मापेक्षया दोषैरलज्जनमाह्रीक्यं परपेक्षयानपत्राप्यमिति अनेन । आत्मापेक्षया दोषैर्लज्जनं ह्रीः । परापेक्षयापत्राप्यमिति । एवमपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ । [तिब् । १२५ ] प्रेमगौरवयोरेकत्वं मन्यंते केचित् । तस्मादनयोर्नानाकरणप्रदर्शनार्थमाह । प्रें श्रद्धेति । प्रेमैव श्रद्धा न गौरवं । न तु श्रद्धैव प्रेम । तेनाह । द्विविधं हि प्रेम क्लिष्टमक्लिष्टं चेत्यादि । स्याच्छ्रद्धा न प्रेमेति चतुःकोटिकः । दुःकसमुदयसत्ययोः श्रद्धैवाभिसंप्रत्ययरूपा न प्रेम अस्पृहणीयत्वात् । स्यात्प्रेम न श्रद्धेति । प्रियतारूपा तृष्णा नाभिसंप्रत्ययरूपेति श्रद्धा न भवति । उभयं श्रद्धा च प्रेम च । अभिसंप्रत्ययरूपत्वात्स्पृहणीयत्वाच्च निरोधमार्गसत्ययोस्तदुभयात्मकं भवतीत्यर्थः । नोभयमेतानाकारान् स्थापयित्वेति । अन्ये चैतसिका वेदनादयः विप्रयुक्तादयश्च । एवं धर्मालंबनस्य प्रेम्नः श्रद्धायाश्च चतुःकोटिकं कृत्वा पुद्गलालंबनस्य चतुष्कोटिकं करोति । पुद्गलेष्विति विस्तरः । तत्र सार्धं विहरंतीति सार्धविहारिणः शिष्याः । ये प्रव्रजिताः गुरोरंते वसंतीति अंतेवासिनः । निश्रयाध्ययनसंबंधिनः । तेषु पुत्रादिषु प्रेम न गौरवं क्लिष्टमक्लिष्टं चेति संभवतः । गौरवं न प्रेम (अभिधर्मकोषव्याख्या १३८) गुरुत्वं ह्रीर् इति वक्ष्यमाणलक्षणं गौरवं न प्रेम गौरवस्थानत्वात् । उभयं प्रेम गौरवं च । तदुभयात्मकं भवतीत्यर्थः । [तिब् । १२६ ] नोभयमेतानाकारान् स्थापयित्वा योऽन्यो जनोऽसंबद्धो निर्गुणः । तत्र न प्रेम न गौरवमिति । तत्पूर्विका च प्रियता प्रेमेति । गुणसंभावनापूर्विका प्रियता तच्च प्रेम । तस्मान्न सैव श्रद्धा प्रेमेत्याचार्यः । गुरुत्वं ह्रीर् इति । यथोक्ता ह्रीः सगौरवता सप्रतीशता सभयवशवर्तितेत्युक्ता । या ह्रीः । तद्गौरवं । तदेवं प्रेम श्रद्धालक्षणं भवति । ह्रीलक्षणं तु गौरवमित्युक्तं तयोर्नानाकरणं । एवं सप्रतीशतापीति । एवं ह्रीरपि धर्मेषु च पुद्गलेषु च । ये पुद्गलालंबने श्रद्धाह्रियौ । ते तत्र न स्त इति पुद्गलालंबने श्रद्धाह्रियावधिक्रियेते ययोरैक्यं मन्यन्ते । ते आरूप्यधातौ न स्तः कामरूपधात्वोरेव भवत इत्युक्तं । (इइ ।३४) कथं पुनरनयोरेकत्र चित्ते योग इति । न हि तदेव चित्तं तद्योगादौदारिकं च सूक्ष्मं च युज्यते विप्रतिषेधात् । निष्ठ्यूतमिति । निःपूर्वस्य ष्ठीवते निष्ठायामेतद्रूपं निष्ठ्यूतं । निरस्तमित्यर्थः । नातिश्यायते नातिघनीभवति । नातिविलीयते नातिद्रवीभवति । नातिसूक्ष्मं भवति नात्यौदारिकमिति । मध्यमावस्थमित्यर्थः । एवं तर्हि निमित्तभूताविति विस्तरः । यथोदकातपौ सर्पिषः श्यानत्वविलीनत्वयोर्निमित्तभूतौ । न तु पुनस्तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ । एवं वितर्कविचारौ चित्तस्यौदारिकतासूक्ष्मतयोर्[तिब् । १२६ ] निमित्तभूतौ न तु पुनरौदारिकसूक्ष्मतास्वभावाविति । अत एवं वक्तव्यं । चित्तौदारिकताहेतुर्वितर्कः । चित्तसूक्ष्मताहेतुर्विचार इति । ब्रूयास्त्वमभ्युपगमाददोष एष इति । तत इदं दोषान्तरमाहा । आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः । भूमिप्रकारभेदात् । भूमिभेदात्प्रकारभेदाच्च । भूमिभेदात्तावत् । प्रथमध्यानमपेक्ष्य कामधातुरौदारिको महाभिसंस्कारतरत्वात् । कामधातुमपेक्ष्य प्रथमं ध्यानं सूक्ष्ममल्पाभिसंस्कारतरत्वात्प्रशान्तमिति । तदेव पुनर्द्वितीयं ध्यानमपेक्ष्य औदारिकं । एवं यावद्भवाग्रं सूक्ष्मं । प्रकारभेदादपि तस्यामेव भूमौ आपेक्षिक्यावौदारिकसूक्ष्मते । तद्यथा य एव ते त्रयः क्लेशानां मूलप्रकारा मृदुमध्याधिमात्रा गुणानां च । कामधातौ यावद्भवाग्रे तेषामधिमात्रः क्लेश औदारिकः । मृदुः सूक्ष्मः । क्लेशविपर्ययेण गुणानामिति । एवं भूमिप्रकारभेदेनापेक्षिक्याव्(अभिधर्मकोषव्याख्या १३९) औदारिकसूक्ष्मते इत्या भवाग्रादौदारिकसूक्ष्मते स्यातां । अनिष्टं चैतत् । वितर्कविचारयोः कामधातुप्रथमध्यानभूमिकत्वादिति । न चौदारिकसूक्ष्मतया जातिभेदो युक्त इति । वितर्कविचारयोर्जातिभेद इष्यते । अन्यो वितर्कोऽन्यो विचार इति । न चौदरिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर्यथाक्रमं स्वभावभेदो युक्तः । किंकारणं । जातिभिन्नयोर्हि वेदनासंज्ञयोरौदारिकसूक्ष्मता भवति । न च पुनरौदारिकसूक्ष्मतयैव तयोः [तिब् । १२७ ] स्वभावभेदः । किं तर्हि । अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः । तस्मादप्यनयोर्नास्ति लक्षणं । अन्ये पुनराहुरिति सौत्रान्तिकाः । वाक्संस्कारा इति । वाक्समुत्थापका इत्यर्थः । वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति । वितर्कविचारैरेवं चैवं च भाषिष्य इति । तत्र ये औदारिकाः । ते वितर्का वाक्संस्काराः । कर्मणा स्वभावो द्योतितो न शक्यमन्यथा स्वलक्षणं प्रदर्शयितुमिति । एवं सूक्ष्मास्ते विचाराः । एतस्यां कल्पनायां समुदायरूपा वितर्कविचाराः । पर्यायभाविनश्च भवंति । चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात् । कथं पुनरनयोरेकत्र चित्ते योग इत्युक्तं । अतो वैभाषिक आह । यदि चैकत्र चित्तेऽन्यो धर्म औदारिक इति विस्तरः । एकत्र चित्ते वितर्क औदारिकस्वभावोऽन्यो धर्मो विचारस्तु सूक्ष्मस्वभावोऽपरः । तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच्चित्तौदारिकतासूक्ष्मतेत्युच्यते । अथ वा चित्तस्यौदारिकश्चित्तौदारिकः । चित्तौदारिकभावः चित्तौदारिकता । एवं चित्तसूक्ष्मतापि वक्तव्येति कोऽत्र विरोधः । न स्याद्विरोधो यदि वितर्कविचारयोर्जातिभेदः स्याद्वेदनासंज्ञावत् । वेदना ह्यौदारिकी संज्ञा सूक्ष्मा । तयोस्तु जातिभेदोऽस्तीति औदारिकसूक्ष्मतायामप्येकत्र चित्ते न विरोधः । एकस्यां तु जातौ अनवधृतलक्षणायामैक्येन च कैश्चिद्गृहीतायां मृद्वधिमात्रता औदारिकसूक्ष्मतालक्षणा [तिब् । १२७ ] युगपन्न संभवतेत्यर्थादयुगपत्संभवतीत्युक्तं । तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुतामधिमात्रतां च भजते । नैवं व्यक्तो भवति । किं । जातिभेदः । कस्मात् । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् । वेदना ह्यौदारिकी भवति । सूक्ष्मा वापेक्षाभेदात् । कथमिति । वेदना संज्ञामपेक्ष्य औदारिकी । रूपमपेक्ष्य सूक्ष्मा । तथा संज्ञा संस्कारानपेक्ष्यौदारिकी । वेदनामपेक्ष्य सूक्ष्मा । वितर्कविचारवदेव वा । भवतोऽपि हि कामावचरौ वितर्कविचारावौदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ । ध्यानान्तरे च विचारः सूक्ष्मतर इति । तदेवं प्रत्येकं जातीनां मृद्वधिमात्रत्वात् । नैवं व्यक्तो भवति । न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्यर्थः । अत्र (अभिधर्मकोषव्याख्या १४०) संघभद्राचार्य आह । एकत्र च चित्ते औदारिकसूक्ष्मते भवतो न च विरोधः । प्रभावकालान्यत्वात् । यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर्भवति । तदा चित्तमौदारिकं भवति । यदा विचारः । तदा सूक्ष्मं । रागमोहचरितव्यपदेशवत् । रागमोहयौगपद्येऽपि हि तयोरन्यतरोद्भूतवृत्तियोगात् । रागचरितो मोहचरित इति वा व्यपदिश्यते । तद्वदिहापि द्रष्टव्यमिति । अत्र वयं ब्रूमः । भवति कस्मिंश्चित्कलापे कस्यचिद्धर्मस्य उद्भूतवृत्तित्वं । किं त्वनयोर्न लक्षणं विवेचितमिति । न किंचिदेतत् । ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वितर्कविचारावुक्तौ । [तिब् । १२८ ] सत्यमुक्तौ । प्रत्येकं तु जातीनामौदारिकसूक्ष्मते इति तावौदारिकसूक्ष्मतालक्षणौ भवितुमर्हतो यथोक्तमिति नैतदस्मानाराधयति । नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपर इत्याचार्यमतम् । अस्मिन्मते यथोक्तदोषप्रसंगो न भवति । कस्त्वनयोः पर्यायवर्तिनोर्विशेषः । अत्र पूर्वाचार्या आहुः । वितर्कः कतमः । चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमं सा च चित्तस्यौदारिकता । विचारः कतमः । चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमं सा च चित्तसूक्ष्मतेति । अस्मिन् पक्षे वितर्कविचारावेकस्वभावौ समुदायरूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाविष्येते । तत्रोदाहरणं केचिदाचक्षते । तद्यथा बहुषु घटेष्ववस्थितेषु कोऽत्र दृढः को जर्जर इति मुष्टिनाभिघ्नतो य ऊहः । स वितर्कः । इयंतो जर्जरा दृढा वेति यदन्ते ग्रहणं । स विचार इति । कथमिदानीं प्रथमं ध्यानं पंचाङ्गमिति विस्तरः । विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरतीति सूत्रे पंचांगमुक्तं । तत्कथं । भूमितस्तत्पंचाङ्गमुक्तं न क्षणत इति । प्रथमध्यानभूमिः [तिब् । १२८ ] कदाचिद्वितर्केण व्यवकीर्णा कदाचिद्विचारेण । तदेवं संतानमधिकृत्य पंचाङ्गमुक्तं न क्षणमधिकृत्येत्यदोषः । येन केनचित्परतो विशेषपरिकल्पेनेति । भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन शूरोऽर्थवानस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नतिः स मानो नाम चैतसिको धर्मः । पर्यादानं तु चेतस इति तुशब्दो विशेषणार्थो भिन्नक्रमश्चावगन्तव्यः । अत एवाह । मदस्तु स्वधर्मेष्वेव रक्तस्येति विस्तरः । चेतसः पर्यादानमिति । येन स्वधर्मेष्व्(अभिधर्मकोषव्याख्या १४१) एव रूपशौर्यादिषु रक्तं चेतः पर्यादीयते संनिरुध्यते । स रागनिष्यन्दो मदः । यः स्वधर्मेष्वेव रक्तस्य दर्पचेतसः पर्यादानात्कुशलधर्मक्रियाभ्यः प्रतिसंहारः मद इति आचार्यसंघभद्रः । संप्रहर्षविशेषो मद इति । क्लिष्टसौमनस्यमभिप्रेतं । तदेतन्नेच्छन्ति वैभाषिकाः । यस्मात्सौमनस्यमा द्वितीयाद्ध्यानात् । मदश्च त्रैधातुकः । स्त्यानौद्धत्यमदा धातुत्रय इति वचनात् । (इइ ।३५) उक्ताः सह चित्तेन चैत्ताः चैत्ताः प्रकारेण इति । चित्तं तावत्प्रकारेण उक्तं विज्ञानं प्रतिविज्ञप्तिर् इत्येवमादिना स्वलक्षणस्कन्धधात्वायतनकुशलादिप्रभेदेन । चैत्ता अपि स्वलक्षणपरस्परविशेषेण [तिब् । १२९ ] चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन । एकार्थम् इति । यच्चित्तं । तदेव मनस्तदेव विज्ञानमित्येकोऽर्थोऽस्येत्येकार्थं । निर्वचनभेदस्तूच्यते । चिनोतीति चित्तमिति । कुशलमकुशलं वा चिनोतीत्यर्थः । नैरुक्तेन विधिनैवं सिद्धं । मनुत इति मनः । मन ज्ञान इत्यस्य औणादिकप्रत्ययात्तस्यैतद्रूपं मन इति । विजानात्यालम्बनमिति विज्ञानं कर्तरि ल्युट् । चितं शुभाशुभैर्धातुभिरिति चित्तं । भावनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा । आश्रयभूतं मनः आश्रितभूतं विज्ञानमिति आश्रयभावापेक्षं मनः । षण्णामनन्तरातीतं विज्ञानं यद्धि । तन्मन इत्यर्थपरिग्रहात् । आश्रितभावापेक्षं विज्ञानं । द्वयं प्रतीत्य विज्ञानस्योत्पत्तिरिति वचनात् । चित्तचैतसाः साश्रयालम्बनाकाराः संप्रयुक्ताश्चेति । चशब्द एकानुकर्षणार्थः । य एव हि चित्तचैत्ता इत्यनेन शब्देनाभिहिताः । त एव साश्रया इत्यनेनापि शब्देनाभिधीयन्ते । एवं सालम्बनाः साकाराः संप्रयुक्ताश्च । तत्र साश्रया इन्द्रियाश्रितत्वात् । षडायतनाश्रितत्वादित्यर्थः । सालम्बना विषयग्रहणात् । न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते । [तिब् । १२९ ] साकाराः तस्यैवालम्बनस्य प्रकारेण आकारणात् । येन ते सालम्बनाः (अभिधर्मकोषव्याख्या १४२) तस्यैवालंबनस्य प्रकारेण ग्रहणात् । कथं । विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्यर्थः । तदेव तथालम्बनं वस्तु वेदनानुभवति । संज्ञा परिच्छिनत्ति । चेतनाभिसंस्करोतीत्येवमादि । अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेण उपलभ्यतारूपं गृह्णाति । विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति । संज्ञा परिच्छेद्यतारूपं गृह्णातीत्येवमादि । संप्रयुक्ताः समं प्रयुक्तत्वादिति । समा अविप्रयुक्ताश्चान्योन्यमिति संप्रयुक्ताः । आश्रयालम्बनाकारकालद्रव्यसमताभिरिति । येनाश्रयेण चित्तमुत्पद्यते । तेनैवाश्रयेण वेदनासंज्ञाचेतनादय उत्पद्यन्ते । तथा येनालम्बनेन चित्तं । तेनैव वेदनादयः । येनाकारेण चित्तं । तेनैव वेदनादयः । यदि हि नीलाकारं चित्तं नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते । यस्मिंश्च काले चित्तं तस्मिन्नेव वेदनादयः । यथा च चित्तद्रव्यमेकमेवोत्पद्यते न द्वे त्रीणि वा । तथा वेदनाद्रव्यमेकमेवोत्पद्यते न द्वे त्रीणि वा । तथा संज्ञाद्रव्यं चेतनाद्रव्यमित्येवमादि । तेनेदमेवान्त्यं दुर्गममिति व्याचष्टे । यथैव ह्येकं चित्तमेवं चैत्ता अपि एकैका इति । (इइ ।३६) विप्रयुक्तान् वक्तुकाम आचार्य उपोद्घातं करोति निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदा विप्रयुक्तास्त्व्[तिब् । १३० ] अवसरप्राप्ता इदानीमुच्यन्त इत्यभिप्रायः । सविस्तरप्रभेदा इति । विस्तरश्च प्रभेदश्च विस्तरप्रभेदौ । सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदाः । अथ वा विस्तरेण प्रभेदः विस्तरप्रभेदः । सह विस्तरप्रभेदेन सविस्तरप्रभेदाः । तत्र चित्तं तावत्सविस्तरप्रभेदं निर्दिष्टं । विज्ञानं प्रतिविज्ञप्तिर्मनआयतनं चेत्य् एवमादिना । चैत्ता अपि वेदनानुभव इत्यारभ्य यावत् पञ्चधा चैत्ता इति विस्तरेण । नामकायादयश्चेति । चशब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थः । संघभेदप्रभृतयो हि द्रव्यतश्चित्तविप्रयुक्ता इष्यन्ते इति येऽप्येवंजातीयका इति शास्त्रेऽप्युक्तत्वात् । चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थं । चित्तमिव चित्तेन च विप्रयुक्ता इत्यर्थः । किं च तेषां चित्तेन समानजातीयत्वं । (अभिधर्मकोषव्याख्या १४३) यदरूपिणोऽमी भवन्ति । रूपित्वादेव हि विप्रयुक्तत्वेऽपि रूपं न विप्रयुक्तत्वे नाम लभते । यद्वामीषां नामरूपमिति नामत्वं तत्तेषां चित्तेन समानजातीयत्वं । चैत्ता अपि चित्तेन तुल्यजातीयाः । ते तु चित्तेन सहालम्बने संप्रयुक्तास्तद्विशेषणार्थं विप्रयुक्तग्रहणमसंस्कृतमपि तत्समानजातीयमनालंबनत्वेनेति तत्परिहारार्थं संस्कारग्रहणं [तिब् । १३० ] अत एवाह । इमे संस्कारा न चित्तेन संप्रयुक्ता न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति । (इइ ।३७) तत्रेति । वाक्योपन्यासे निधारणे वा । तावच्छब्दः क्रमे । प्राप्तिर्लाभः समन्वय इति । प्राप्तिरिति सामान्यसंज्ञा । लाभः समन्वय इति विशेषसंज्ञा । लाभः प्रतिलम्भ इत्येकोऽर्थः । समन्वयः समन्वागम इत्यनर्थान्तरं । प्रतिलम्भ इत्युक्ते समन्वागमस्याग्रहणं । समन्वागम इत्युक्ते प्रतिलम्भस्याग्रहणं । प्राप्तिरित्युक्ते तूभयोद्ग्रहणं । अत एवाह । द्विविधा हि प्राप्तिः । अप्राप्तविहीनस्य च प्रतिलम्भः । प्रतिलब्धेन च समन्वागम इति । अप्राप्तं च विहीनं चाप्राप्तविहीनं । तस्याप्राप्तविहीनस्य प्रतिलम्भः । अप्राप्तस्य तद्यथा दुःखे धर्मज्ञानक्षान्तेः । विहीनस्य तद्यथा कामावचरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात्परिहाण्या वा पुनःप्रतिलम्भः । प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागमः । तस्याः समनुवर्तनात् । यश्च प्रतिलम्भः यश्च समन्वागमः । सा द्विधा प्राप्तिरिति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते । अभेदविवक्षायां तु प्राप्तिः प्रतिलम्भः समन्वागम इत्येक एवार्थः । तथा हि प्रथमे क्षणे दुःखे धर्मज्ञानक्षान्तेः प्राप्तिः प्रतिलम्भ इष्यते । सापि समन्वागम इत्युच्यते । प्रथमक्षणस्थ [तिब् । १३१ ] आर्यपुद्गलो दुःखे धर्मज्ञानक्षान्त्या समन्वागत इत्युच्यते । आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वित इत्यादिवचनात् । कथमयं लक्षणनिर्देशः । न हि भेदविवक्षायामपि पर्यायवचनेन लक्षणनिर्देशः कल्पते । प्राप्तिः कतमा । यः प्रतिलम्भो यः समन्वागम इति । पर्यायवचनमपि कदाचित्लक्षणाय कल्पते । अनलो जातवेदा अग्निरिति । सूत्रेऽप्युक्तमविद्या कतमा । पूर्वान्ते अज्ञानमपरान्त अज्ञानमिति विस्तरः । विपर्ययादेवाप्राप्तिरिति सिद्धमिति । विपर्ययादेवाप्राप्तिरिति सिद्धे नैतदर्थं सूत्रं कर्तव्यमित्यभिप्रायः । अप्राप्तिरप्रतिलम्भोऽसमन्वागम इति विपर्ययादेतत्त्रयं गम्यते । तथैव चाप्रतिलम्भासमन्वागमयोरप्राप्तिरिति सामान्यसंज्ञा । तस्मादेवं च वक्तव्यं । द्विविधा अप्राप्तिरप्राप्तपूर्वाणामप्रतिलम्भः । प्राप्तविहीनानामसमन्वागम (अभिधर्मकोषव्याख्या १४४) इति । अथ वाप्रतिलब्धस्य विहीनस्प चाद्याप्राप्तिरप्रतिलम्भः । अप्रतिलब्धेन विहीनेन च द्वितीयादिषु क्षणेष्वसमन्वागम इति । प्राप्त्यप्राप्ती स्वसंतानपतितानाम् इति । संस्कृतानां प्राप्त्यप्राप्ती स्वसंतानपतितानामेवेत्यवधार्यते । न परसंतानपतितानामिति । न परसत्त्वसंततिपतितानां धर्माणां । स्वसंततौ प्राप्त्यप्राप्ती भवत इत्यर्थः । तेनाह । न हि परकीयैः कश्चित्समन्वागत इति । नाप्यसंततिपतितानामिति नासत्त्वसंततिपतितानामित्यर्थः । तस्मादाह । न ह्यसत्त्वसंख्यातैः [तिब् । १३१ ] कश्चित्समन्वागत इति । माल्याभरणादयः काष्ठकुड्यादिगताश्च रूपादयोऽसत्त्वसंख्याताः । चक्षुरादयः सत्त्वसंख्याताः केशादयो रूपीन्द्रियसम्बद्धाः सत्त्वसंख्याता एव वेदितव्याः । तदनुग्रहोपघातपरिणामानुविधानात् । तथा हि रूपीन्द्रियोपघातात्पालित्यादिविकारः केशादीनां दृश्यते । रसायनोपयोगेन चानुग्रहात्पालित्यादिप्रत्यापत्तिरिति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर्भवतीति सिद्धंतः । निरोधयोर् इति प्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधयोरसत्त्वसंख्यातयोरपि प्राप्त्यप्राप्ती भवतः । सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथाप्रत्ययवैकल्यं समन्वागताः । सकलबन्धनादिक्षणस्थवर्ज्या इति । आदौ क्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः । तत्र स्थिता आदिक्षणस्थाः । सकलानि बन्धनान्येषामिति सकलबन्धना । अप्रहीणसर्वप्रकारक्लेशाः । सकलबन्धनाश्चादिक्षणस्थाश्च त इति सकलबन्धनादिक्षणस्थाः । ते वर्ज्या एषां तैर्वा वर्ज्याः सकलबन्धनादिक्षणस्थवर्ज्याः । के । सर्व आर्याः । ते प्रतिसंख्यानिरोधेन समन्वागताः । सकलबन्धनादिक्षणस्थास्त्वार्या न समन्वागतः । तस्यां ह्यवस्थायां क्षांतिवध्याः [तिब् । १३२ ] क्लेशाश्छिद्यन्ते न छिन्नाः । तन्निरोधोऽपि प्राप्यते न प्राप्तो निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् इति सिद्धान्तात् । एकप्रकारोपलिखितादयस्त्वार्या लौकिकमार्गप्राप्तेन निरोधेन तस्यामवस्थायां समन्वागताः । अत ऊर्ध्वं द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्गप्राप्तेनापि निरोधेन । पृथग्जनाश्च केचित्समन्वागता इत्येकप्रकारोपलिखितादयः । आकाशेन तु नास्ति कश्चित्समन्वागत इति असंबंधात् । निरोधाभ्यां त्वस्ति सम्बन्धः । तस्मादाकाशस्य प्राप्तिर्नास्ति । यस्य च नास्ति प्राप्तिस्तस्याप्राप्तिरपि नास्तीति सिद्धान्त एष वैभाषिकाणां । कुत एतदिति । रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलम्भात्पृच्छति । (अभिधर्मकोषव्याख्या १४५) सूत्रादिति । व्याख्यानमेव वैभाषिकः साधयति । दशानामशैक्षाणां धर्माणामिति विस्तरः । दशाशैक्षा धर्माः । अष्टावशैक्षाण्यार्यमार्गांगानि सम्यग्विमुक्तिः सम्यग्ज्ञानं च । तेषामुत्पादात्संमुखीभावात् । प्रतिलंभादादितः प्राप्तेः । समन्वागमात्पश्चात्प्राप्तेः । पंचाङ्गं विप्रहीणः । प्रहीणपंचाङ्ग इत्यर्थः । पंचांगानि सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एतान्यनागामिफलप्राप्तौ प्रहीणानीति न युज्यन्ते । इमानि तु प्रयुज्यमानानि पंचांगानि पश्यामो यदुतोर्ध्वभागीयानि रूपराग आरूप्यराग औद्धत्यं मानोऽविद्या चेति । प्रतिनिधिभूतायाः प्राप्तेर्योगात्प्रकृतिस्थोऽप्यर्हन्नार्य इत्युच्यते । [तिब् । १३२ ] साधनं चात्र । द्रव्यतोऽस्ति समन्वागमः सूत्रोक्तत्वादायतनद्रव्यवदिति । आचर्यस्तं प्रत्याह । तेन तर्ह्यसत्त्वाख्यैरपि चक्ररत्नादिभिः परसत्त्वैरपि स्त्रीरत्नादिभिः समन्वागमो द्रव्यसन् प्राप्नोति । सूत्रे वदनात् । कथमिति सूत्रं दर्शयति । राजा यावद्विस्तर इति । राजा भिक्षवश्चक्रवर्ती सप्तभी रत्नैः समन्वागतः । तस्येमानि सप्त रत्नानि । तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तममिति विस्तरः । एभिस्सप्तभी रत्नैस्समन्वागमः सूत्र उक्तो न च द्वव्यतोऽस्तीति अनैकान्तिकतां दर्शयति । प्रतिज्ञादोषं चायमुद्ग्राहयति । अनुमानविरोधात् । कथमित्युच्यते । न द्रव्यसन् दशाशैक्षधर्मसमन्वागमः समन्वागमस्वाभाव्याच्चक्रवर्तिसप्तरत्नसमन्वागमवदिति । अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यासयति । वशित्वं कामचार इति । इच्छानुविधायित्वं । तत्र वशित्वमिति चक्रवर्तिसूत्रे । अन्यत्र पुनर्द्रव्यान्तरमिति । अशाशैक्षसमन्वागमसूत्रे । कः पुनरेवमयोग इति । प्रवचने हि द्विविधमिष्यते द्रव्यसच्च वस्तु प्रज्ञप्तिसच्चेति कथमयुक्तिरिति वैभाषिकाः । आचार्य आह । अयमयोग इति विस्तरः । इह यद्द्रव्यसद्वस्तु तत्प्रत्यक्षग्राह्यं [तिब् । १३३ ] वा भवेदनुमानग्राह्यं वा । तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पंचेन्द्रियग्राह्यत्वात् । मनोविज्ञानग्राह्यमपि किंचित्प्रत्यक्षं । रागद्वेषादि स्वसंवेद्यत्वात् । चक्षुःश्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात् । तद्भावाभावयोस्तद्भावाभावात् । प्राप्तिः पुनर्न प्रत्यक्षग्राह्या न चानुमानग्राह्या तत्सिद्धौ निरवद्यानुमानादर्शनात् । तस्माद्द्रव्यधर्मासम्भवादयोग इति स्थितमेतत् । इदानीमाचार्यस्तत्पक्षमुत्थाप्योत्थाप्य दूषयति । उत्पत्तिहेतुरिति विस्तरः । यस्य प्राप्तिरस्ति स उत्पद्यते हेतुसद्भावात् । असंस्कृतस्य न स्यात्प्राप्तिर्यस्मादसंस्कृतमनुत्पाद्यं । ये च धर्मा अप्राप्ता दुःखे (अभिधर्मकोषव्याख्या १४६) धर्मज्ञानक्षान्त्यादयः । ये च त्यक्ताः भूमिसंचारवैराग्यतः । तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश्च वैराग्येण त्यक्ताः । तेषां धातुप्रत्यागमतः परिहाण्या वा कथमुत्पत्तिः स्यात् । न हि तेषां प्राप्तिरस्ति । अनुत्पन्ननिरुद्धत्वात् । सहजप्राप्तिहेतुका चेत् । का । तेषामुत्पत्तिरधिकृता । सहजा या प्राप्तिरिदानीमुत्पद्यते । सा तेषां जनिकेति । आह । जातिरिदानीं किंकरी जातिजातिर्वेति । किंकरणशीला किंकरी । जातिर् लक्ष्यं धर्मं जनयति । [तिब् । १३३ ] जातिजातिस्तु तल्लक्षणं जातिं जनयति । तेन यदि लक्ष्याणां धर्माणामुत्पत्तिः प्राप्तिहेतुकोच्येत तत्र जातिः किंकरी । अथ लक्षणानाम् । उत्पत्तिस्तद्धेतुकोच्येत । तत आह । जातिजातिर्वा किंकरीति विकल्पः । अथ वा यदि भवतैवं कल्प्येत । जातिर्धर्मं जनयति । प्राप्तिः पुनर्जातिं जनयतीति । तत्र उच्यते । जातिजातिर्वा किंकरीति । सकलबन्धनानां खल्वपीति विस्तरः । येषामेकोऽपि क्लेशप्रकारो न प्रहीणः । ते सकलबन्धनाः । तेषां सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो न स्यात् । कस्मात् । प्राप्त्यभेदात् । विकलबन्धनानां हि प्राप्तिवैकल्यान्मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत न तु सकलबंधनानां । प्राप्तिनां तुल्यत्वात् । यतो वा स भेद इति । यतो वा कारणादभ्यासतोऽन्यतो वा स भेदः । कस्यचित्सकलबन्धनस्याधिमात्रः । कस्यचिन्मध्यः । कस्यचिन्मृदुः । तत एव भेदकारणात्तदुत्पत्तिरस्तु । तेषां मृद्वादीनां क्लेशानामुत्पत्तिः । तस्मान्नोत्पत्तिहेतुः प्राप्तिरिति । वैभाषिक आह । कश्चैवमाहेति विस्तरः । व्यवस्थाहेतुः प्राप्तिः । असत्यां हि प्राप्तौ लौकिकमानसानामिति । लोके भवो लौकिकं । मन एव मानसं । लौकिकं मानसमेषां ते इमे लौकिकमानसाः । आर्यपृथग्जनाः । आर्याश्च पृथग्जनाश्च । लौकिकमानसग्रहणमार्यविशेषणं । [तिब् । १३४ ] पृथग्जना हि नित्यमेव लौकिकमानसाः । आसंज्ञिकासंज्ञिसमापत्त्यवस्थायां वा पृथग्जनविशेषणमपि संभवति । तेषामार्यपृथग्जनानां । तेषामिति निर्धारणे षष्ठी । सम्बन्धलक्षणा वा । तेषां न स्याद्व्यवस्थानमिति परिच्छेदः । यत्कृतं व्यवस्थानं । सा प्राप्तिः । प्रहीणाप्रहिणक्लेशताविशेषादिति । प्रहीणक्लेशा आर्याः । अप्रहीणक्लेशाः पृथग्जनाः । तद्भावाः । स एव विशेषः । इति प्रहीणाप्रहीणक्लेशतविशेषः । तस्माद् । एतद्व्यवस्थानं भवितुमर्हति । ननु च पृथग्जना अपि केचित्प्रहीणक्लेशा भवन्ति । कथमवधार्यते । आर्या एव प्रहीणक्लेशा इति । अत्यंतसमुद्घातवचनादेवमुक्तं । एतच्चैव कथमिति । एषां प्रहीणः क्लेश एषामप्रहीण इति यदेतद्व्यवस्थानं । तत्कथं भविष्यति । प्राप्तौ तु सत्यां क्लेशप्राप्त्या एतत्सिध्यति व्यवस्थानं । तद्विगमाविगमात्क्लेशप्राप्तिविगमाविगमात्छेदाच्छेदाद्(अभिधर्मकोषव्याख्या १४७) इत्यर्थः । येषां तत्प्राप्तिविगमाः । ते आर्याः । येषामविगमाः । ते पृथग्जना इति । ननु च पृथग्जनानामपि केषांचित्क्लेशप्राप्तिर्विगता । विगता । न तु लोकोत्तरेण मार्गेण । स तर्हि लोकोत्तरमार्गकृतो [तिब् । १३४ ] विशेषः कथं परिच्छिद्यते लोकोत्तरेणेयं क्लेशप्राप्तिर्विगता लौकिकेनेयमिति । सास्रवानास्रवविसंयोगप्राप्तिभेदात् । आश्र्यविशेषादेतत्सिध्यतीति । आत्मभावविशेषादेतद्व्यवस्थानमेषां प्रहीणः क्लेश एषामप्रहीणः क्लेश इति सिध्यति । तथा परावृत्त इति । तथान्यथाभूतः । तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम् । अग्निदग्धव्रीहिवदिति । यथाग्निदग्धो व्रीहिरबीजीभूतो भवति । एवं यथोक्तेन न्यायेनाबीजीभूतः आश्रयः क्लेशानां प्रहीणक्लेश इत्युच्गते । उपहतबीजभावे वा । आश्रय इत्यधिकृतं । तेन लौकिकेन मार्गेण प्रहीण इति शक्यते वक्तुं । बीजस्योपघातमात्रभावात् । विपर्ययादप्रहीण इति । अनिर्दग्धबीज आश्रयेऽनुपहतबीजभावे वा । यश्चाप्रहीण इति विस्तरः । यश्चाप्रहीणोऽनन्तरोक्तेन विधिना दर्शनप्रहातव्यः कामावचरो यावद्भावाग्रिकः भावनाप्रहातव्यो वा कामावचरो यावद्भावाग्रिकः । तेन समन्वागतः । यश्च प्रहीणस्तथैव यावद्भावाग्रिकः । तेनसमन्वागत इति प्रज्ञप्यते । प्रज्ञप्तिधर्मोऽयमिति दर्शयति । कुशला अपि द्विप्रकारा इति विस्तरः । यथा क्लिष्टा द्विप्रकारा इत्यपिशब्दार्थः । समुच्चये वा कुशलाश्चेत्यर्थः । तद्बीजभावानुपघातादिति । तेषामुत्पत्तिलाभिकानां कुशलानां बीजं तद्बीजं । तद्बीजस्य भावस्तद्बीजभावः [तिब् । १३५ ] । कस्य । आश्रयस्य । तद्बीजभावस्यानुपघातस्तद्बीजभावानुपघातः । तस्मात् । तद्बीजभावानुपघातात्समन्वागतः । कैः । अयत्नभाविभिः कुशलैः । उपघातादसमन्वागत उच्यते । कोऽसावित्याह । समुच्छिन्नकुशलमूलः । तस्य त्विति । तस्याश्रयस्य तद्बीजभावस्य उपघातो मिथ्यादृष्ट्या वेदितव्यो नान्यथा । तेनाह । न तु खलु कुशलानां धर्माणां बीजभावस्यात्यन्तं संततौ समुद्घातो यथा क्लेशानामार्यमार्गेणात्यन्तं संततौ समुद्घात इत्यभिप्रायः । ये पुनरिति विस्तरः । ये प्रायोगिकाः । तैरुत्पन्नैः । तेषामुत्पत्तिस्तदुत्पत्तिः । तदुत्पत्तौ वशित्वं सामर्थ्यविशेषः । तस्याविघातात् । कस्य । संततेः । समन्वागम उच्यते । कैः । तैर्यत्नभाविभिः कुशुलैः । यस्मादेवं । तस्माद्बीजमेव शक्तिविशेष एवात्र समन्वागमावस्थायामनपोद्धृतं क्लिष्टानां धर्माणामार्यमार्गेणानुपहतं लौकिकेन मार्गेण । अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या । परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजमिति प्रकृतं । समन्वागमाख्यां लभते । नान्यद्द्रव्यं । यद्वैभाषिकैः कल्पितं । किं पुनरिदं बीजं नामेति । (अभिधर्मकोषव्याख्या १४८) द्रव्याशंकया पृच्छति । यन्नामरूपं फलोत्पत्तौ समर्थं । यत्पंचस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थं साक्षादनन्तरं [तिब् । १३५ ] पारंपर्येण दूरतः । कोऽयं परिणामो नामेति । सांख्यानां परिणामाशंकया पृच्छति । संततेरन्यथात्वमिति । अन्यथोत्पादः । का चेयं संततिरिति । किं यथा सांख्यानामवस्थितद्रव्यस्य धर्मान्तरनिवृत्तौ धर्मांतरप्रादुर्भावः तथावस्थायिन्याः संततेरन्यथात्वमिति । नेत्युच्यते । किं तर्हि । हेतुफलभूता । हेतुश्च फलं च हेतुफलं । हेतुफलमिति नैरन्तर्येण प्रवृत्तास्त्रैयध्विकाः संस्काराः संततिरिति व्यवस्थाप्यन्ते । यत्र तूक्तमिति विस्तरः । यत्र तु सूत्र उक्तं । किमित्य् आह । लोभेन समन्वागतः अभव्यः अयोग्यश्चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुमिति । यदि बीजं प्राप्तिः । बीजं नित्यमस्तीति स्मृत्युपस्थानोत्पत्तिर्न स्यात् । भवदीयायामपि प्राप्तौ तदुत्पत्तिर्न स्यादिति तुल्यमेतत् । तस्मादुभाभ्यामपि वक्तव्यं । तत्राधिवासनं लोभस्याविनोदनं वा समन्वागम इति । अधिवासनमभ्यनुज्ञानम् । अविनोदनमव्युपशमनं । सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति । सर्वप्रकारेण यद्युत्पत्तिहेतुर्यदि व्यवस्थाहेतुर्यद्याश्रयविशेषः यद्यधिवासनमविनोदनं वा सर्वथा प्रज्ञप्तिधर्मः प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मो न द्रव्यधर्मः न द्रव्यतो धर्मः स्वभाव इत्यर्थः । अथ वा द्रव्यं च तद्धर्मश्च स द्रव्यधर्मो [तिब् । १३६ ] न रूपादिवत्विद्यमानस्वलक्षणो धर्म इत्यर्थः । तस्य च प्रतिषेधः तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधोऽसमन्वागम इति । इदमस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिरित्याचार्यसंघभद्रः । इदमस्येति ज्ञानचिह्नमित्यसिद्धमेतत् । आश्रयविशेषेण तज्ज्ञानमिति ब्रूमः । यदि च प्रतिलब्धधर्मविप्रणाशकारणं प्राप्तिरिष्यते । प्राप्तपरित्यागो नैव स्यात् । भवति च । तस्मादकारणमेतत् । स एव च शक्तिविशेषलक्षणं बीजभावमाचार्येन व्यवस्थापितं दूषयति । किमयं शक्तिविशेषश्चित्तादर्थान्तरमतोऽनर्थान्तरं । किं चातः । अर्थान्तरं चेत् । सिद्धं प्राप्तिरस्तीति । संज्ञामात्रे तु विवादः । अनर्थान्तरं चेत् । नन्वकुशलं कुशलस्य बीजमभ्युपगतं भवति । अकुशलस्य च कुशलं । को हि नाम औष्ण्यस्य तेजसोऽनर्थान्तरत्वे सत्यौष्ण्यमेव दाहकमध्यवस्येन्न तेजः । कुशलबीजं ह्यकुशले चेतस्यव्याकृते वा वर्तते । एवमकुशलबीजं कुशले चेतस्यव्याकृते वा वर्तते । तथैव चाव्याकृतबीजमपि कुशले (अभिधर्मकोषव्याख्या १४९) चाकुशले च वर्तते । सास्रवबीजं चानास्रवेऽनास्रवबीजं च सास्रवे चेतसि वर्तत इति सांकर्यदोषः प्रसज्यत इति । अत्र वयं ब्रूमः । अनर्थान्तरभावे सांकर्यदोष भवेत् । तत्तु बीजं न चित्तादर्थान्तरं वक्तव्यं । नाप्यनर्थान्तरम् । उपादायप्रज्ञप्तिरूपत्वात् । [तिब् । १३६ ] अथाप्यनर्थान्तरभावस्तथाप्यदोशः । कुशलेन हि चित्तेनोत्पन्नेन स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत । ततः कारणविशेषात्कार्यविशेष इति विशिष्टं । तेन तच्चित्तमुत्पद्येत । तद्विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थमुत्पद्येत । एवमकुशलेनापि स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत । तच्च तेन विशिष्टं चित्तमकुशलबीजकार्यक्रियायां समर्थमुत्पद्येत । एवमव्याकृतेनापि चित्तेन स्वजातीयेऽन्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत । तच्चापि तेन विशिष्टमव्याकृतबीजकार्यक्रियायां समर्थमुत्पद्येत । सास्रवेणाप्यनास्रवे चित्ते बीजमाधीयेत । अनास्रवेणापि सास्रव इत्येवमन्योन्यबीजाधायकमन्योन्यजनकं च चित्तं चित्तान्तरादुत्पद्यमाममन्योन्यवास्यवसकत्वेन प्रवर्तते । न च कुशलेनाकुशले चित्ते शक्तिविशेष आहित इति तदकुशलं कुशलतामापद्यते । कुशलं वा तदकुशलतां । शक्तिविशेषमात्रत्वात् । शक्तिर्बीजं वासनेत्येकोऽयमर्थः । एवमकुशलादिवासनापि वक्तव्या । यावत्सास्रवेणानास्रवे शक्तिविशेषाधानेऽपि । अनास्रवेणापि सास्रवे शक्तिविशेषाधाने । न तत्सास्रवमनास्रवं संपद्यते । अनास्रवं वा सास्रवमिति । भवतामपि वैभाषिकाणामिदं चिंत्यते । यदा सास्रवचित्तसमनंतरं [तिब् । १३७ ] अनास्रवमनास्रवचित्तसमनन्तरं वा सास्रवचित्तमुत्पद्यते । तदा किं पूर्वकः सास्रवकलापोऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्तावुताशक्तिमान् । किं चातः । यद्यशक्तिमान् समनन्तरप्रत्ययादिभावोऽप्यस्य हीयेत । अथ शक्तिमान् । सा शक्तिः किं सास्रवे चेतसि सास्रवा आहोस्विदनास्रवा । तच्चित्तं सास्रवस्यानास्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्यात् । तत्किं ययैव शक्त्या सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात्तयैवानास्रवस्य । यदि तयैव कथं शक्तिकार्यसांकर्यं न भवेत् । अथान्यया शक्त्या सास्रवस्यान्ययानास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् । कथमनयोरेकत्र शक्त्योस्तस्माच्चित्तादनन्ययोर्भिन्नरूपता भिन्नकार्यता च युज्यते । युज्यते चेत् । अस्माकमपि चित्तादनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश्च भविष्यति । एवमनास्रवस्यापि चित्तस्य सास्रवानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवतः तथैव शक्त्योर्भिन्नरूपता कार्यभेदश्च वक्तव्यः । तेन यदुक्तं नन्वकुशलं कुशलस्य बीजम् (अभिधर्मकोषव्याख्या १५०) अभ्युपगतं भवतीत्यादि तदयुक्तं । न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थमकुशलमकुशलबीजकार्यं करोति । [तिब् । १३७ ] किं तर्हि । कुशलबीजकार्यमेव करोति । स्वाहितेन तु शक्तिविशेषेण तदकुशलं स्वबीजकार्यं करोति । तत्कथमिदमुच्यते । कुशलस्याकुशलं बीजमिति । ब्रूयास्त्वमकुशलचित्ते तत्कुशलबीजमाहितं कथमकुशलं न भवतीति । न भवन्तो बीजार्थं जानते । कुशलेन चित्तेन निरुध्यमानेन । तथा शक्तिविशिष्टमकुशलं चित्तं जन्येत यथा तच्चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात्पारंपर्येण वेति शक्तिविशेष एव बीजं । न बीजं नाम किंचिदस्ति । प्रज्ञप्तिसत्त्वात् । अत एव प्राप्त्यप्राप्ती प्रज्ञप्तिसत्यावुच्येते । द्रव्यसत्यावेव तु वैभाषिका वर्णयन्ति । (इइ ।३८, ३९ ब्) अतीतानां धर्माणामतीतापि प्राप्तिरिति विस्तरः । अतीतानां धर्माणां तद्यथा क्लिष्टानामतीता प्राप्तिर्या उत्पन्ननिरुद्धा साग्रजापि संभवति । सहजापि । पश्चात्कालजापि । तेषामेवानागता प्राप्तिरनुत्पन्ना । प्रत्युत्पन्ना या पश्चात्कालजा उत्पन्ननिरुद्धा । अनागतानामपि प्राप्तिरतीता याग्रजोत्पन्ननिरुद्धा । अनागता यानुत्पन्ना । प्रत्युत्पन्नाग्रजोत्पन्नानिरुद्धा । तथा प्रत्युत्पन्नानामप्यतीता प्राप्तिर्याग्रजोत्पन्ननिरुद्धा । अनागता यानुत्पन्ना । प्रत्युत्पन्ना या सहजा । अतीतादिजातिसामान्यं च गृहीत्वैवमुक्तम् । न त्वेकस्यातीतस्यावश्यं त्रिविधा प्राप्तिरस्ति । न हि विपाकजस्यानागतातीता वा प्राप्तिः संभवति । अव्याकृताप्तिः सहजेति वचनात् । [तिब् । १३८ ] यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्येतदेवं भवेत् । क्लिष्टानामुत्पत्तिप्रतिलंभिकानां च कुशलानामतीतादीनामतीतादयः प्राप्तयोऽवश्यं भवन्ति । न हि पृथग्जनस्यानुत्पन्नस्य अनास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिरस्ति । सापवादश्चायमुत्सर्गोऽवगन्तव्यः । अव्याकृताप्तिः सहजेति वेचनात् । असंस्कृतानां तु प्राप्ति उत्पन्ननिरुद्धातीता ।ऽनुत्पन्नानागता । उत्पन्नानिरुद्धा प्रत्युत्पन्ना । सुगमत्वात्तु न सूत्रितमेतत् । कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रममिति । कामधातूपपन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः । तस्यैव रूपावचराणां रूपावचरी । तस्यैवारूप्यावचराणामारूप्यावचरी । रूपधातूपपन्नस्य च कामावचराणां । तद्यथा निर्माणचित्तानां कामावचरी । रूपावचराणां रूपावचरी (अभिधर्मकोषव्याख्या १५१) । आरूप्यावचराणामारूप्यावचरी । आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातुकैव प्राप्तिः । अनाप्तानां चतुर्विधेति । अधात्वाप्तानां संस्कृतासंस्कृतानामनास्रवाणां चतुर्विधा प्राप्तिः । कामरूपारूप्यावचरी चानास्रवा च । समासेन सर्वाननाप्तानभिसमस्येत्यर्थः । प्रत्येकं तु न चतुर्विधा । तत आह । तत्राप्रतिसंख्यानिरोधस्येति विस्तरः । कामधातूपपन्नस्य [तिब् । १३८ ] कामावचरादीनां यथासंभवमप्रतिसंख्यानिरोधस्य प्राप्तिः कामावचरी । रूपधातूपपन्नस्य रूपावचरादीनामप्रतिसंख्यानिरोधप्राप्ती रूपावचरी । आरूप्यधातूपपन्नस्यारूप्यावचरादीनामप्रतिसंख्यानिरोधप्राप्तिरारूप्यावचरी । सत्त्वसंतानवशेनैव हि तत्प्राप्तिर्व्यवस्थाप्यते । न तु तेषां वशेन येषामप्रतिसंख्यानिरोधः । यदि ह्येवं स्यात्मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिरनास्रवा स्यात् । प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा चेति । न कामावचरी । कामधातोरप्रतिपक्षत्वात् । रूपावचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्तिः । आरूप्यावचरेणारूप्यावचरी । अनास्रवेण मार्गेणानास्रवा । आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा चारूप्यावचरेणारूप्यावचरी चानास्रवा च । लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति वचनात् । मार्गसत्यस्यानास्रवैवेति । लौकिकीमस्य प्राप्तिं प्रतिषेधयति । सेयं समस्य चतुर्विधेति । समासेन त्रैधातुकी चानास्रवा चेति उक्तमर्थं निगमयति । शैक्षाणामिति । शैक्षा धर्माः शैक्षस्यानास्रवा धर्मा । अशैक्षा अशैक्षस्यानास्रवा । [तिब् । १३९ ] मार्गसत्यभावा एवैते द्रष्टव्याः । शैक्षाशैक्षेभ्यस्त्वन्ये नैव शैक्षा नाशैक्षाः । असंस्कृता अपि यावन्नैव शैक्षा नाशैक्षा इष्यन्ते । तेषां त्रिधा प्राप्तिः शैक्षादिभेदेन । शैक्षी अशैक्षी नैव शैक्षी नाशैक्षी चेति । अनार्येण प्राप्तस्येति । पृथग्जनेन प्राप्तस्य । तस्यैव शैक्षेणेति । तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य शैक्षी । अशैक्षेणाशैक्षी । क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य । विसंयोगप्राप्तिसंनिश्रयत्वात्क्षयज्ञानस्य । यद्यपि सा वज्रोपमेन शैक्षेण प्राप्यते तदावाहकत्वात् । तत्प्राप्तत्ववचने तु शैक्ष्याः प्राप्तेः अशैक्षी प्राप्तिर्विशेषिता स्यादिति न तेन शैक्षेण (अभिधर्मकोषव्याख्या १५२) अशैक्षीत्युक्तं । तस्यैवार्यमार्गप्राप्तस्यानास्रवेति । तस्यैव प्रतिसंख्या निरोधस्य आर्यमार्गप्राप्तस्य अनास्रवा । मार्गसत्यस्य चानास्रवा प्राप्तिरित्यधिकृतं । आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा उताहोऽनास्रवा । उभयथेत्याह । सा कस्मान्नोक्ता । सावशेषं भाष्यं । पश्चाद्दर्शयिष्यते लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति नोच्यते । या त्वसंकीर्णा प्राप्तिः सैवेहोच्यते इति वेदितव्यं । (इइ ।३९ द्, ४० ब्) दुर्बलत्वादिति । अनभिसंस्कारवत्त्वाद्दुर्बलत्वं । द्वे अभिज्ञे इति । दिव्यचक्सुरभिज्ञां [तिब् । १३९ ] दिव्यश्रोत्राभिज्ञां । निर्माणचित्तं च वर्जयित्वा । किं । अव्याकृताप्तिः सहजेति संबन्धनीयं । तेषां हि बलवत्त्वादिति विस्तरः । तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात् । किं । पूर्वंपश्चात्सहजा प्राप्तिः । प्रयोगविशेषनिष्पत्तेरिति । प्रयोगविशेषेण निष्पत्तिर्दिव्यचक्षुरभिज्ञादीनां । तस्याः । प्रयोगविशेषनिष्पत्तेर्बलवत्त्वं । बलवत्त्वात्पूर्वंपश्चात्सहजा प्राप्तिरित्यर्थसम्बन्धः । शैल्पस्थानिकस्यापि कस्यचित्तद्यथा विश्वकर्मणः । ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्वजितस्य । अत्यर्थमभ्यस्तस्य भृशमात्मसात्कृतस्येच्छन्ति वैभाषिकाः । किं । पूर्वंपश्चात्सहजा प्राप्तिरिति । निवृतस्य च रूपस्येति । चशब्दः समुच्चयार्थः । प्राप्तिः सहजेति समुच्चीयते । तच्च क्लिष्टं रूपं प्रथमध्यानभूमिकमेव विज्ञप्तिरूपं वेदितव्यं । ततोऽन्यासु भूमिषु तदुत्थापकाभावात् । अधिमात्रेणापीति विस्तरः । अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिरुत्थापिता । तदेव चाधिमात्रं विज्ञप्तिचित्तमविज्ञप्तिं नोत्थापयति । अतो दौर्बल्यसिद्धिः । तस्या दौर्बल्यसिद्धेः सहजैव प्राप्तिः । प्राप्तिभेद इति । विपाकजादीनामनिवृताव्याकृतानां सहजा प्राप्तिः । अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजा प्राप्तिरिति तद्भेदः । कामरूपस्य नाग्रजेति । [तिब् । १४० ] कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यव्ज्ञप्तिरूपस्याग्रजाप्राप्तिः सर्वथा नास्ति । यदि कुशलस्य यद्यकुशलस्य नास्त्येव सर्वथेत्यर्थः । सहजा चास्ति पश्चात्कालजा चेति संभवतः । तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्य आदौ सहजा प्राप्तिर्भवति । द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात्कालजा भवति । एवमन्येषामपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर्वेदितव्या । कामावचरस्यैव रूपस्याग्रजा (अभिधर्मकोषव्याख्या १५३) प्राप्तिप्रतिषेधाद्ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिरस्त्येवेत्युत्सृष्टा भवति । (इइ ।४० द्, ४१) अप्राप्तिरनिवृताव्याकृतैव सर्वा । कस्माद्व्यवस्थाप्यते । यद्यप्राप्तिः क्लेशानां क्लिष्टा भवेत् । प्रहीणक्लेशस्य क्लेशवदेव न स्यात् । यदि कुशला स्यात्समुच्छिन्नकुशलमूलस्य न स्यात् । अनास्रवाणां धर्माणामप्राप्तिरनास्रवा स्यात् । किं स्यात् । पृथग्जनो न स्यान्नित्यमार्यधर्मसमन्वागतत्वात् । पारिशेष्यादनिवृताव्याकृतैवाप्राप्तिरिति व्यवस्थाप्यते । प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्पन्नेति । प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर्वर्तते । तस्मादस्याप्राप्तिर्नास्ति प्रत्युत्पन्ना । तस्य प्राप्त्यप्राप्त्योः समवधानासंभवात् । अतीतानागतयोस्तु त्रैयध्विकीति । अप्राप्तानां प्राप्तविहीनानां च प्रायोगिकानां गुणानामनागतानां च चक्षुरादीनामपि च येषां [तिब् । १४० ] प्राप्तिर्नास्ति अतीताप्यस्त्यप्राप्तिरनागतापि प्रत्युत्पन्नापि । स्रोतोन्यायेन हि तेषामप्राप्तिरुत्पद्यते निरुध्यतेऽनागतवस्थानेति । कामाद्याप्तामलानां चेति । त्रिधेत्यनुकर्षणार्थश्चकारः । कामादिषु धातुषु आप्ता अवियुक्ताः कामाद्याप्ताः । कामाद्याप्तानाममलानां चाप्राप्तिस्त्रिविधा । उपपत्त्याश्रयवशेन तद्व्यवस्थापनात् । धर्मसहाव्यवस्थापिनी ह्यप्राप्तिः । न प्राप्तिवद्धर्मवशेन व्यवस्थाप्यते । तस्मात्कामधातूपपन्नस्य कामरूपारूप्यावचराणामनास्रवाणां च धर्माणामप्राप्तिः कामावचरी । रूपधातूपपन्नस्य रूपावचरी । आरूप्यधातूपपन्नस्य आरूप्यावचरी । तद्यथा कामधातूपपन्नस्य प्रायोगिकानां गुणानामुपपत्तिलाभिकानामपि कुशलसमुच्छेदावस्थायामप्राप्तिरवीतरागत्वाच्च रूपारूप्यावचराणामक्लिष्टानामप्राप्तिः पृथग्जनत्वाच्चानास्रवाणामप्राप्तिः कामावचरी । तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां च प्रायोगिकानां गुणानां पृथग्जनत्वाच्चानास्रवाणामप्राप्ती रूपावचरी । तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानामारूप्यावचराणां च प्रायोगिकाणां [तिब् । १४१ ] गुणानां पृथग्जनत्वादेव चानास्रवाणामप्राप्तिरारूप्यावचरीत्य्नेयं । पृथग्जनत्वं कतमत् । आर्यधर्माणामलाभ इत्यनेन शास्त्रपाठेनानास्रवत्वाभावमप्राप्तेर्दर्शयति । कतमेषामार्यधर्माणामलाभ इति । आर्यधर्मा दुःखे धर्मज्ञानक्षान्तिमारभ्य सर्वोऽनास्रवो मार्ग इति अत एवं पृच्छति । सर्वेषामविशेषवचनादिति । सर्वेषां दुःखे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानामलाभः । कस्मात् । अविशेष्तत्वात् । यद्य्(अभिधर्मकोषव्याख्या १५४) एवमुत्पन्नायामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्यास्तीति अनार्यः स्यात् । तस्मादिदमाह । स तु यो विना लाभेनेति । यो विना लाभेनालाभः । तत्पृथग्जनत्वमिति । अन्यथा हीति विस्तरः । यद्यार्यधर्माणां लाभेऽपि सति अन्येषामपि धर्माणामलाभः पृथग्जनत्वमिष्यते बुद्धोऽपि श्रावकप्रत्येकबुद्धसंतानिकैरार्यधर्मैरसमन्वागमातनार्यः स्यात् । केवलालाभग्रहणात्त्वप्रसंगः । एवशब्दस्तर्हि पठितव्य इति । आर्यधर्माणामलाभ एवेति । एकपदान्यपि ह्यवधारणानीति । केवलपदान्यपीत्यर्थः । अब्भक्षो वायुभक्ष इति । अब्भक्ष एव वायुभक्ष एवेति नोच्यते । एवशब्दस्य चार्थो गम्यते । तद्वदिहापीति । [तिब् । १४१ ] अथ वा अप एव यो भक्षयति सोऽब्भक्षः । यो वायुमेव भक्षयति स वायुभक्ष इति । यथात्र लुप्तनिर्दिष्टस्य एवकारस्यावधारणार्थो गम्यते । तद्वदिहाप्यलाभ एवेति । दुःखे धर्मज्ञानक्षान्तितत्सहभुवामित्यपर इति विस्तरः । दुःखे धर्मज्ञानक्षान्तेस्तत्सहभुवां च वेदनादीनां धर्माणामलाभः पृथग्जनत्वम् । अस्मिं पक्षे उत्पन्नायामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्तीत्यनार्यः स्यादिति यो दोष उक्तः । स न संभवति । यदा तर्हि फलप्राप्तिः । तदा दुःखे धर्मज्ञानक्षान्तितत्सहभुवां विहानिरिति फलप्राप्तावनार्यः स्यादिति दोषपरिहारार्थमाह । न च तत्त्यागात् । न च तेषां क्षांतिसहभुवां त्यागादनार्यत्वप्रसंगः । तदलाभस्यात्यन्तं हतत्वात् । तस्यालाभस्यात्यन्तविहीनत्वात् । कथम् । असावत्यन्तं हतस्तत्संताने पुनरनुत्पत्तेः । ते तर्हि त्रिगोत्रा इति । श्रावकप्रत्येकबुद्धबुद्धगोत्रा इति । कतमेषामलाभः । सर्वेषामिति । श्रावकादिगोत्राणाम् । एवं तर्हि स एव दोष इति । बुद्धोऽपि त्रिगोत्रालाभादनार्यः स्यादित्यर्थः । पुनः स एव परिहार इति । स तु यो विनालाभेनेति पूर्ववत्प्रपंचो यावत्तद्यथा अब्भक्षो वायुभक्ष इति । यत्नस्तर्हि व्यर्थ [तिब् । १४२ ] इति । क्षांतिपरिशिष्टार्यधर्मालाभसद्भावादनार्यः स्यादित्यस्य दोषस्य परिहाराय क्षान्तितत्सहभुवामलाभः पृथग्जनत्वमिति यो यत्नस्स व्यर्थः स्यात् । पूर्वपक्षदोषपरिहार एवायमास्थीयते । अनुत्पन्नार्यधर्मा संततिरिति । अनुत्पन्ना आर्यधर्मा अस्यामित्यनुत्पन्नार्यधर्मा संततिः पृथग्जनत्वं । अनुत्पन्नार्यमार्गा स्कन्धसंततिरित्यर्थः । अर्थादुत्पन्नार्यधर्मा संततिरार्यत्वमित्युक्तं भवति आश्रयपरावृत्तेः । अथेयमप्राप्तिरिति । सर्वधर्माप्राप्तिश्चोद्यते । नार्यधर्मप्राप्तिरेव । यथा तावदिति । उदाहरणमेतत् । तस्य लाभात्तद्विहीयत इति । तस्यार्यमार्गस्य लाभात्तत्पृथग्जनत्वमलाभलक्षणं विहीयते । (अभिधर्मकोषव्याख्या १५५) किंधातुकं तत्पृथग्जनत्वं । त्रिधातुकमित्येके । ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते । पृथग्जनत्वं चालाभस्वभावं । तस्मादस्य कामावचरस्य सत्त्वस्य कामावचरमेव पृथग्जनत्वमस्ति । न रूपारूप्यावचरम् । अतस्त्रैधातुकं विहीयत इति अयुज्यमानमेतत्पश्यामः । अथ पुनरनुत्पत्तिधर्मतां तदापन्नमिति कृत्वा त्रैधातुकं तद्विहीयत इति उपचारकल्पना । भवत्वेषा । नैषा वार्यते । कामावचरस्यैव त्वेकस्य पृथग्जनत्वस्य प्राप्तिरस्ति । तल्लौकिकाग्रभर्मावस्थायां विहीयत [तिब् । १४२ ] इति वेदयामः । तच्च कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते । रूपारूप्यधात्वोरुत्पद्यमानस्य त्वार्यस्य प्रतिभूम्यवस्थितानां पृथग्जनत्वानामार्यमार्गप्राप्तिसामर्थ्यान्नैव प्राप्तिरुत्पद्यते । प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीति अवगंतव्यं । भूमिसंचाराच्चेति । यदा च कामधातोर्वैराग्यं कृत्वा प्रथमं ध्यानं संचरति । तदा च तत्कामावचरं पृथग्जनत्वं विहीयते । न चार्यो भवति । प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात् । एवमारूप्यधातुसंचाराद्रूपावचरं पृथग्जनत्वं विहीयते । ऊर्ध्वभूमेश्चाधरां भूमिं संचरते ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत इति वक्तव्यम् । एवमन्येषामपि योज्यमिति । यथार्यमार्गस्य प्राप्त्या पृथग्जनत्वमप्राप्तिर्विहीयत इति योजितं । एवमन्येषामपि श्रुतचिन्तामयादिकानां धर्माणामप्राप्तिर्विहीयत इति योज्यं । कथं । कामावचराणां तावच्छ्रुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभादप्राप्तिर्विहीयते । उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर्विहीयते । भूमिसंचाराच्च । यदा चायं कामधातोश्च्युत्वा प्रथमं ध्यानमुपपत्त्या संचरति । तदा च तद्भूमिकानां गतिसंगृहीतानां स्कंधानामप्राप्तिर्विहीयते । अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते । अव्याकृताप्तिः [तिब् । १४३ ] सहजेति चोक्तम् । एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेरप्राप्तिर्विहीयते । भूमिसंचाराच्च । ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद्विहीयत इति । इदमेकेषां भूमि संचारव्याख्यानोदाहरणं तत्र अविविक्तं पश्यामः । ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानामप्राप्तिर्न केवलं भूमिसंचाराद्विबीयते । किं तर्हि । तत्प्राप्तितोऽपीति । इदं त्वसंकीर्णमुदाहरणं पश्यामः । तद्यथा द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य सत्त्वस्याप्राप्तिरस्ति । स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते (अभिधर्मकोषव्याख्या १५६) । सा तेषामप्राप्तिर्भूमिसंचाराद्विहीयते । प्रथमध्यानभूमिका तु तेषामप्राप्तिरुद्भवतीति । एवमन्येषामपि योज्यं । ननु चैवमनवस्थाप्रसंगः प्राप्तीनामिति । प्राप्तेरपि प्राप्तिः । अस्या अप्यन्या । तस्या अप्यन्या इत्यनवस्था । परस्परसमन्वागमादिति । प्राप्तिप्राप्तियोगात्प्राप्त्या समन्वागतः । प्राप्तियोगात्प्राप्तिप्राप्त्या समन्वागत इत्यर्थः । प्राप्त्युत्पादादिति विस्तरः । प्राप्त्युत्पादात्तेन धर्मेण चित्तेन वा समन्वागतो भवति । प्राप्तिप्राप्त्या च समन्वागत इति वर्तते । प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो भवतीति । एवं प्राप्तिरुभयत्र व्याप्रियते । प्राप्तिप्राप्तिस्त्वेकत्रेति अतो नानवस्था । कुशलस्य क्लिष्टस्य चेति । अनयोरग्रजपश्चात्कालजप्राप्तित्वाद्ग्रहणं । अव्याकृतस्य [तिब् । १४३ ] हि सहजैव प्राप्तिरिति । द्वितीये क्षण इति विस्तरः । द्वितीये क्षणे तस्य धर्मस्य तत्प्राप्तेः प्राप्तिप्राप्तेश्च प्राप्तय इति तिस्रः प्राप्तयः । प्राप्तियोगाद्धि तैः समन्वागतो भवति । ताभिस्तिसृभिः प्राप्तिभिः समन्वागमार्थं पुनस्तिस्रोऽनुप्राप्तय उद्भवन्तीति षड्भवन्ति प्राप्तयः । प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणामिति । धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरष्टादश भवन्ति । एवमुत्तरोत्तरवृद्धिप्रसंगेनेति विस्तरः । उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः । उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनां । तस्याः प्रसंगः उत्तरोत्तरवृद्धिप्रसंगः । तेन । उत्तरोत्तरवृद्धिप्रसंगेन । एताः प्राप्तयो विसर्पन्त्य इति । दिङ्मात्रं दर्शयिष्यामः । चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस्त्रिभिर्धर्मैः प्राप्त्यनुप्राप्तिमद्भिर्भवितव्यं । द्वितीयक्षणोत्पन्नाभिरपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर्भवितव्यम् । एवं तृतीयक्षणोत्पन्नाभिरष्टादशभिः प्राप्त्यनुप्राप्तिभिः पुनरपि प्राप्त्यनुप्राप्तिमतीभिर्भवितव्यमिति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः सार्धमनुप्राप्तिभिस्तावतीभिरिति चतुःपंचाशत्प्राप्तयश्चतुर्थे क्षणे भवन्ति । पंचमे तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश्चतुःपंचाशच्चतुर्थक्षणोत्पन्नप्राप्त्यनुप्राप्तयश्च द्विश्चतुःपंचाशद्भवन्ति । त्रीणि चतुःपंचाशत्कानि द्वाषष्त्युत्तरशतं प्राप्तीनां जायते । एवमुत्तरोत्तरवृद्धिप्रसंगो वक्तव्यः । अतीतानागतानामित्यत्र प्रत्युत्पन्नाग्रहणमनावश्यकत्वात् । [तिब् । १४४ ] उत्पत्तिलाभिकानां चेति । अत्र प्रायोगिकाग्रहणमनावश्यकत्वादेव । ससंप्रयोगसहभुवामिति । सवेदनादिसजात्यादीनाम् । अनाद्यन्तसंसारपर्यापन्नानामनादावनन्ते च संसारे संगृहीतानां । अनन्ता अप्रमेया एकस्य प्राणिनः । किमङ्ग बहूनां । क्षणे क्षणे उपजायंते प्राप्तय इति । अनन्तद्रव्या एव । अनन्तप्राप्तिद्रव्या इत्यर्थः । (अभिधर्मकोषव्याख्या १५७) अत्युत्सवो बतायं प्राप्तीनामिति । परिहासवचनमेतत् । केवलं न प्रतिघातिन्यः अरूपिणीत्वात्यतोऽवकाशं लभंते प्राप्तयः । (इइ ।४२ ) सभागता सत्त्वसाम्यम् इति विस्तरः । समानो भागो भजनमेषामिति सभागाः । तद्भावः सभागता । समानो वा भागो भजनं सभागः । सभाग एव सभागता । यद्योगात्सभागो भवति । तद्द्रव्यं । सत्त्वानां साम्यं सामान्यं सादृश्यमित्यर्थः । सत्त्वग्रहणमसत्त्वनिरासार्थं । सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता । असत्त्वसंख्यातानां शालियवादीनां नेष्यते । निकायसभाग इत्यस्याः शास्त्रे संज्ञेति । ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इति अनया संज्ञया अयं चित्तविप्रयुक्तो निर्दिश्यते । इह तु श्लोकबन्धानुगुण्यात्सभागतेति अनया संज्ञयेत्यभिप्रायः । सा पुनरभिन्ना भिन्ना चेति । या सर्वसत्त्ववर्तिनी । सा प्रतिसत्त्वम् [तिब् । १४४ ] अन्यान्याप्यभिन्नेत्युच्यते सादृश्यात् । न हि सा यथा वैशेषिकाणामेका नित्या चेति । भिन्ना या क्वचिद्वर्तते क्वचिन्न वर्तते । तत आह । भिन्ना पुनरिति विस्तरः । धातवस्त्रयः कामादयः । गतयः पंच नरकादयः । योनयश्चतस्रोऽण्डजादयः । जातयो ब्राह्मणादयः । आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षनाशैक्षादयः संगृह्यन्ते । स्कंधायतनधातुत इति । रूपस्कन्धसभागता यावद्धर्मधातुसभागता । अविशिष्टमिति । सामान्यरूपं । प्रज्ञप्तिश्चेति । अभिधानं चेत्यर्थः । एवं स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्या इति । यदि स्कन्धसभागताद्रव्यमविशिष्टं न स्यादन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्धः स्कन्ध इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्चेति । एवं धात्वादिबुद्धिप्रज्ञप्तयोऽपि योज्या इत्येके पठन्ति । तेषामेवं वक्तव्यं । यदि सभागतेति विस्तरेण यावदन्योन्यविशेषभिन्नेषु धातुषु कामावचरः कामावचर इति अभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्चेति । चतुःकोटिक इति । स्यात्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति । सत्त्वसभागतामिति । सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा । सत्त्वग्रहणं [तिब् । १४५ ] हि धर्मविशेषणार्थं । सत्त्वसभागता ह्यत्र चतुःकोटिके विवक्षिता न धर्मसभागतेति । न तु सत्त्वस्सत्त्व इत्याकारसभागतेहाभिप्रेता । यदि हि साभिप्रेता स्यात् । तृतीया कोटिर्न सिध्येत गतिसंचारेऽपि तस्याः सत्त्वसभागतायास्तादवस्थ्यात् । तत्रैवोपपद्यमान इति । तद्यथा मनुष्यगतेश्च्युत्वा मनुष्यगतावेवोपपद्यमानः । मनुष्यगतेश्च्यवते मरणादुपपद्यते च तस्यामेव प्रतिसंधिबन्धात् । न चासौ मनुष्यसभागतां विजहाति न च प्रतिलभते तस्या मनुष्यसभागतायास्तादवस्थ्यात् । (अभिधर्मकोषव्याख्या १५८) द्वितीया नियाममवक्रामन्निति । स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति आर्यत्वस्वभावां सभागतामपरां प्रतिलभते । तृतीया गतिसंचारादिति । तद्यथा मनुष्यगतेश्च्युत्वा देवगातावुपपद्यमानः । च्यवते तथैव मरणादुपपद्यते च प्रतिसंधिबन्धात् । सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहाति । प्रतिलभते च देवसभागतालक्षणामपरामिति । चतुर्थ्येतानाकारान् स्थापयित्वेति । पूर्वोक्तकोटिस्वभावप्रकारान् वर्जयित्वेत्यर्थः । तद्यथा जीवन् पृथग्जन आर्यो वा किंचिदलभमानः । यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन आर्यधर्मलाभस्वभावेन कल्पितेन प्रयोजनमिति वाक्यशेषः । पृथग्जनसभागतयैव पृथग्जन इति परिच्छिद्येत यथा [तिब् । १४५ ] मनुष्यसभागतयैव मनुष्य इति । न हि मनुष्य्सभागताया अन्यन्मनुष्यत्वं कल्प्यते वैभाषिकैरलाभवदन्यस्वभावं । तत्र च साधनं । न स्वसभागताया अन्यत्पृथग्जनत्वं । स्वसभागताप्रत्ययाभिधेयत्वात् । मनुष्यत्ववत् । नैव च लोकः सभागतां पश्यति अरूपिणीत्वादिति । न लोकश्चक्षुषा सभागतां पश्यत्यरूपिणीत्वादरूपवतीत्वादरूपस्वभावत्वाद्वा । यथा न पश्यति एवं न शृणोति यावन्न स्पृशतीति । अनेन प्रत्यक्षासिद्धतां दर्शयति । न चैनां प्रज्ञया परिच्छिनत्तीति । अनेनानुमानेनापि न सिध्यतीति दर्शयति । प्रतिपद्यते च सत्त्वानां जात्यभेदमिति । सत्या अपि तस्याः कथं तत्र व्यापार इति । जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिरस्ति । सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारसंभवात् । ब्रूयास्त्वं । न निर्निमित्ता सामान्यबुद्धिर्भवितुमर्हति । तेन यन्निमित्तं तस्याः सामान्यबुद्धेः । तत्सभागता नाम द्रव्यमिति । वयमपि तां सामान्यबुद्धिं सनिमित्तांं ब्रूमः । सादृश्यकृता हि सा बुद्धिः । तच्च सादृश्यं न द्रव्यान्तरमिति ब्रूमः । तेनोच्यते । अपि चासत्त्वसभागतापि किं नेष्यत इति विस्तरः । न द्रव्यान्तरसभागतानिमित्ता सत्त्वः सत्त्व इति सामान्यबुद्धिः । सामान्याकारप्रवृत्तत्वात् । शालियवमुद्गमाषादिसामान्यबुद्धिवत् । शालियवस्वजातिसादृश्यकृता [तिब् । १४६ ] ह्येषा सामान्यबुद्धिः । न च तेषां स्वजातिसादृश्यं स्वतोऽर्थान्तरं भवति । तासां च सभागतानामिति विस्तरः । अन्या सत्त्वसभागतान्या धातुसभागतान्या गतिसभागतेति अन्योन्यभिन्नाः सभागता इष्यन्ते । तासां सभागतेति प्रज्ञप्तिरियं सभागता इयं सभागतेत्यभेदेन कथं भवद्भिः क्रियते । व्यवहारः प्रत्ययश्च कथं जायते । यद्यत्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर्भवेत् । भवेत्सोऽयमपक्षः प्राक्पक्षविरोधात् । (अभिधर्मकोषव्याख्या १५९) वैशेषिकाश्चैवं द्योतिता इति । ज्वलिताः समर्थिता इत्यभिप्रायः । तेऽपि हि सामान्यपदार्थवादिनो भवन्तोऽपीति । अयं तु तेषां वैशेषिकाणां विशेषः । एकोऽप्यनेकस्मिं वर्तते स्रक्सूत्रवत् । भूतकण्ठेगुणवच्चेति । यदि द्योतिताः सामान्यपदार्थवादित्वात् । यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात् । न हि परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते । सचेदित्थंत्वमागच्छतीति । प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपप्द्यते । सचेदित्थंत्वमागच्छति मनुष्याणां सभागतां प्राप्नोति प्राणातिपातेनाल्पायुर्भवतीति विस्तरः । इदंप्रकार इत्थं । तद्भावः इत्थंत्वमिति । [तिब् । १४६ ] शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणमन्योन्याभिरभिसंबंधनिमित्तं च सभागतेति आचार्यसंघभद्रः । तदेतदेतेनैव प्रत्युक्तं । वयमपि ह्येवमिच्छामः । न तु सा सभागता द्रव्यांतरं । त एव हि संस्कारास्तथाकारणभावं प्रतिपद्यंते इति । (इइ ।४२ च्द्) आसंज्ञिकमसंज्ञिषु निरोधश्चित्तचैत्तानाम् इति विस्तरः । असंज्ञिनामिदमासंज्ञिकं । असंज्ञिषु वा भवमासंज्ञिकं । निरुध्यंतेऽनेन चित्तचैत्ताः । चित्तचैत्तान् वा निरुणद्धीति निरोधः । येनानागतेऽध्वन्यवस्थिताश्चित्तचैत्ताः कालांतरं तावत्कालं संनिरुध्यंते । नोत्पत्तुं लभंते इत्यर्थः । तदासंज्ञिकं नाम द्रव्यं । नदीतोयसंनिरोधवत् । सेतुवदित्यर्थः । ध्यानांतरिकावदिति । यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन्महाब्रह्माणः प्रदेशे भवंति ध्यानांतरिकायां । तथा बृहत्फला नाम ते देवा येषामसंज्ञिसत्त्वाः प्रदेशे भवंति । न भूम्यंतरे भवंति । उपपत्तिकाले च्युतिकाले च संज्ञिन इति संबंधनीयं । क्लिष्टेन मनसा प्रतिसंधिबंधात् । उपेक्षायां च्युतोद्भवाव् इति च नियमात् । पूर्वसमापत्तिसंस्कारपरिक्षयादिति । पूर्वसमापत्तिसंस्कारलक्षणस्य विपाकहेतोः परिक्षयात् । ततः समाप्तफलत्वादित्यर्थः । [तिब् । १४७ ] पूर्वसमापत्तिसंस्कारावेधपरिक्षयादित्यपरे व्याचक्षते । अपूर्वानुपचयाच्चेति । चित्ताभावात्कर्मानुपचयादित्यभिप्रायः । क्षिप्ता इव क्षीणवेगा इषवः पृथिवीमिति । उपपद्यंते इति प्रकृतं । पूर्वमयं पदिर्जन्यर्थः । इदानीमर्थवशाद्गत्यर्थः । संपद्यंते गच्छंतीत्यर्थः । पृथिवीं गच्छंतीति वाक्यशेष इत्य्स्परे । (इइ ।४३) असंज्ञिनां सत्त्वानां समापत्तिरसंज्ञा वा समापत्तिरिति असंज्ञिसमापत्तिः । एतावत्तथाशब्देनान्वाकृष्यत इति । विपाक इत्येवमादेरर्थविशेषस्यानभिप्रीतेः । अव्याकृतमेव हि आसंज्ञिकं । कुशलैव चेयं समापत्तिर्(अभिधर्मकोषव्याख्या १६०) इति वक्ष्यते । पंचस्कंधको विपाक इति । च्युत्युपपत्तिकाले चित्तचैत्ताणां विपाकत्वसद्भावात् । तत एव तल्लाभीति । यत एव परिहीणोऽपि पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यते तत एव तल्लाभी नियामं नावक्रामति । नियामावक्रांत्यैव ह्यार्योऽपायगत्यासंज्ञिकमहाब्रह्मकौरवोपपत्त्यष्टमभवादीनामप्रतिसंख्यानिरोधं प्रतिलभते । विनिपातस्थानमिवैनां पश्यंतीति । अपायस्थानमिवैनां पश्यंतीत्यर्थः । गिरितटादिविनिपातस्थानमिवेत्यपरे । निःसरणसंज्ञिनो हि तां समापद्यंते । पृथग्जना मोक्षसंज्ञिन इत्य्[तिब् । १४७ ] अर्थः । न चैवमार्या विपरीतसंज्ञिनः प्रतिलभंते । ध्यानवदिति । चतुर्थध्यानलाभादतीतानागतमनादिमति संसारे लब्धपूर्वं चतुर्थं ध्यानं प्रतिलभंते योगिनः । तस्मात्किं तद्वदेव अतीतानागतां तां प्रतिलभंत इति पृच्छति । अन्येऽपि तावन्न प्रतिलभंत इति । पृथग्जना अपि तावन्नातीतानागतां प्रतिलभंते येषां तावदियमात्मीया समापत्तिः । किं पुनरार्या येषामियमनात्मीयेति । उचितापि सतीति । अनादिमति संसारे लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान्महायत्नाभिनिष्पाद्यत्वादित्यर्थः । अचित्तकत्वाच्च । एकाध्विकाप्यते समानाध्विका लभ्यत इत्यर्थः । यथा प्रातिमोक्षसंवर इति । प्रातिमोक्षसंवरोऽष्टविधोऽपि यदा समादीयते । तदा स प्राप्यते । प्राप्तिश्च तस्य तस्मिन्नेव क्षणे उत्पद्यते । लब्धया तु तया समापत्त्या द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवरवदेव समन्वागतो भवति । यावन्न त्यजति तां समापत्तिं । तत्त्यागस्तु परिहाण्या भूमिसंचाराद्वा । अचैत्तिकत्वान्नानागता भाव्यते । कुशलं हि चित्तमनागतं भाव्यते । न त्वियमचित्तकेति न तद्वदनागता भाव्यते । (इइ ।४४, ४५ ब्) निरोधाख्या तथैवेति । समापत्तिरिति वर्तते । एवशब्दोऽवधारणे । यथासंज्ञिसमापत्तिनिर्देशे अथाशब्देन निरोधश्चित्तचैत्तानामिति अतिदिश्यते । तथैवेहापि [तिब् । १४८ ] निरोधसमापत्तिनिर्देशे स एवंप्रकारोऽतिदिश्यते इति । शांतविहारसंज्ञापूर्वकेण मनसिकारेणेति । विहारः कृईदाविहार इव विहारः । समाधिविशेषः । शांतो विहारः शांतविहारः । शांतविहारे संज्ञा शांतविहारसंज्ञा । सा पूर्वा अस्येति शांतविहारसंज्ञापूर्वकः मनसिकारो मनस्कार इति योऽर्थः अलुक्समासात्स मनसिकार इति भवति । संज्ञावेदितसमुदाचारपरिश्रांता हि तत्र शांतविहारसंज्ञिनस्तथाविधेन मनसिकारेण एनां निरोधसमापत्तिं समापद्यंते । तां त्वसंज्ञिसमापत्तिं निःसरणसंज्ञापूर्वकेण मोक्षसंज्ञापूर्वकेणेत्य्(अभिधर्मकोषव्याख्या १६१) अर्थः । अपरपर्यायवेदनीया चेति । अपरपर्यायस्तृतीयादिजन्म । तत्र वेदनीया । कथं । य आर्यः कामधातौ निरोधसमापत्तिमुत्पाद्य भवाग्र उत्पद्येत । तस्य सा परिपूरिकोपपद्यवेदनीया । यस्तु ततः परिहीणो रूपधातावुपपद्य कालांतरेण च पुनरपि भवाग्रं लब्ध्वा निरोधसमापत्तिमुत्पाद्यानुत्पाद्य वा भवाग्र उपपद्यते । तस्य सापरपर्यायवेदनीया भवति । यस्त्विह परिनिर्वायात् । तस्यानियतेति । उच्छेदभीरुत्वादिति । सर्वात्मभावोच्छेदभीरुत्वात् । व्यथंते ह्यपुनर्भवात्प्रपातादिव बालिशाः । असंज्ञिसमापत्तौ कस्मादुच्छेदभयं न भवति । [तिब् । १४८ ] तत्र रूपसद्भावात् । रूपे ह्यात्मसंज्ञामभिनिवेश्य तां समापद्यंते । निरोधसमापत्तौ तु आरूप्यभूमिकत्वाद्रूपमपि नास्तीति सर्वात्मभावभावं पश्यंतो न तां समापत्तुमुत्सहंते । ननु चारूप्येषु निकायसभागजीवितेन्द्रियादयश्चित्तविप्रयुक्ता सन्ति । कस्मात्तत्रात्मसंज्ञामभिनिवेश्य तां न समापद्यंते । विप्रयुक्तानामदृश्यत्वात् । आर्यमार्गबलेन चोत्पादनात् । कथं पुनर्गम्यते आर्यमार्गबलेन तदुत्पादनमिति अत आह । दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति । दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणं । तस्य । तदधिमुक्तितः । तदिति अधिमुक्तिः तदधिमुक्तिः । तेन वाधिमुक्तिस्तदधिमुक्तिः । तदधिमुक्तेस्तदधिमुक्तितः । दृष्टे जन्मनि एतन्निर्वाणमिति आर्यस्तामधिमुच्यते । केचित्पुनरेवं पठंति । दृष्टनिर्वाणस्य तदधिमुक्तित इति । एवं च व्याचक्षते । दृष्टं निर्वाणमनेनेति दृष्टनिर्वाणः । तस्यार्यस्य तस्यामधिमुक्तिस्तदधिमुक्तिः । तदधिमुक्तेस्तदधिमुक्तितः । एतदुक्तं भवति । दृष्टनिर्वाण आर्यस्तामधिमुच्यते नान्य इति । ननु च पृथग्जनोऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः । न पृथग्जनो दृष्टनिर्वाणः । प्राप्तनिर्वाणस्तु भवेत् । तदुत्तरां हि भूमिं पृथग्जनः शांततः पश्यन् वैराग्यं लभते न निर्वाणमिति अचोद्यमेतत् । प्रयोगलभ्यैवेयमिति । [तिब् । १४९ ] इयमपि समापत्तिरसंज्ञिसमापत्तिवदेव महाभिसंस्कारसाध्येति । तथैव एकाध्विकाप्यते । कथमित्याह । न चातीता लभ्यत इति । यदा परिहीणः पुनस्तामुत्पादयति । तदा प्रयोगेणापूर्वैव लभ्यते । प्रातिमोक्षसंवरवदिति विस्तरेण व्याख्येया । चित्तबलेन तद्भावनादिति । चित्तबलेनानागतभावनादित्यर्थः । बोधिलभ्या मुनेर् इति । प्रयोगलभ्यैवेयमित्युत्सर्गस्यायमपवादः । श्रावकप्रत्येकबुद्धानां स विधिरिति कृत्वा । (अभिधर्मकोषव्याख्या १६२) क्षयानुत्पादज्ञाने बोधिर् इति वक्ष्यति । तेनाह । क्षयज्ञानसमकालमिति विस्तरः । सास्रवाश्च क्षयज्ञान इति बुद्धा भगवंत एतां प्रतिलभंते । नास्ति बुद्धानां किंचित्प्रायोगिकं नामेति । योथोक्तं स्तोत्रकारेण न ते प्रायोगिकं किंचित्कुशलं कुशलान्तग इच्छामात्रावबद्धा ते यत्रकामावसायितेति । कथं पुनर्भगवानुभयतोभागविमुक्त इति । क्लेशावरणं समापत्त्यावरणं चोभयतोभागः । ततो विमुक्तः । सिध्यत्युत्पादितायामिवेति । सिध्यति उभयतोभागविमुक्तो भगवां संमुखीकृतपूर्वायामिव । तस्यां वशित्वलाभात् । तत्संमुखीकारणकारणसामर्थ्ययोगतः । प्रागेव तामिति विस्तरः । धर्मतैषा यद्बोधिसत्त्वश्चरमभविको भवाग्रलाभी भूत्वा चतुर्थध्यानसंनिश्रयेण दर्शनमार्गम् [तिब् । १४९ ] उत्पाद्य ततश्च व्युत्थाय भवाग्रं समापद्यते । ततो निरोधसमापत्तिं समापद्यते । ततो व्युत्थाय पुनश्चतुर्थध्यानसंनिश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षयज्ञानकालात्प्रभृति अनुत्तरसम्यक्संबुद्धो भवतीत्येवं शैक्षावस्थायां स तामुत्पादयतीति पाश्चात्याः कश्मीरमण्डलात्पश्चाद्भवाः पाश्चात्याः । नेत्रीपदमिति शास्त्रनाम स्थविरोपगुप्तस्य । यत्रेदं वाक्यं । निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तवय्ं तथागत इति । सत्याभिसमये षोडशभिरिति । दुःखे धर्मज्ञानक्षांतिमारभ्य यावन्मार्गेऽन्वयज्ञनमिति षोडशभिश्चित्तक्षणैः । भवाग्रवैराग्ये चाष्टादसभिरिति । नवप्रकाराणां क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानंतर्यमार्गा नव च विमुक्तिमार्गा इत्यष्टादशभिः । त एते चतुस्त्रिंशद्भवंति षोडश चष्टादश चेति । अधोभूमिका न पुनः प्रहेया भवंतीति । कामावचरादीनां क्लेशानां लौकिकेन मार्गेण पृथग्जनत्वावस्थायामेव प्रहीणत्वात् । यद्येष नियमः प्रहीणक्लेशप्रतिपक्षोत्पादनं न कर्तव्यमिति । अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रतिपक्षं धर्मज्ञानपक्षं मार्गमभिसमयकाल उत्पादयति । तन्नांतरीयकत्वादन्वयज्ञानपक्षस्य मार्गस्य । [तिब् । १५० ] न ह्यसत्यां धर्मज्ञानपक्षोत्पत्तावन्वयज्ञानपक्षसंमुखीभावः संभवति । एतद्ध्यन्वयज्ञानस्यान्वयज्ञानत्वं यदतः पश्चाद्भवतीति । पाश्चात्या आहुः । किं पुनः स्यादिति विस्तरः । को दोषः स्याद्यदि विसभागं सास्रवं चित्तमंतरा संमुखीकुर्यात्(अभिधर्मकोषव्याख्या १६३) । वैभाषिका आहुः । व्युत्थानाशयः स्यादिति विस्तरः । व्युत्थानभिप्रायः बोधिसत्त्वः स्यात् । व्युत्थानकुशलः स्यादित्यपरे । कुशलमूलार्थो ह्याशयार्थः । तदेतदुक्तं भवति । ईदृशानि कुशलमूलानि बोधिसत्त्वानां यैः संमुखीभूतैस्तावन्न व्युत्तिष्ठंते यावदेकासन एवानुत्तरा सम्यक्संबोधिः प्राप्तेति । बहिर्देशका आहुह् । सत्यमव्युत्थानाशयो न तु यथा भवंतो वर्णयंतीति । पूर्वमेव तु वर्णयंति । क्षयज्ञानसमकालमिति यः पक्षः । (इइ ।४५ द्) यद्यप्यनयोर्बहुप्रकारो विशेष इति । एका ध्यानेऽंत्ये । अपरा भवाग्रजा । एकां निःसरणसंज्ञया समापद्यतेऽपरां विहारकामतयेत्येवमादिबहुप्रकारविशेषः । साम्यं त्वनयोः । कामरूपाश्रये भूते इति । स्याद्रूपभव इति विस्तरः । यः क्वचिद्रूपभवः सर्वोऽसौ भवः पंचव्यवचार इति चतुःकोटिकः । स्याद्रूपभवो न चासौ भवः पंचव्यवचारः । [तिब् । १५० ] रूपावचराणां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भवः । स्याद्भवः पंचव्यवचारो न चासौ रूपभवः । कामावचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः । स्याद्रूपभवः स च भवः पंचव्यवचारः । रूपावचराणां संज्ञिनां देवानां सभागे चित्ते स्थितानामसंज्ञिनां च देवानामासंज्ञिकेऽप्रतिलब्धे यो भवः । स्यान्नैव रूपभवो न चासौ भवः पंचव्यवचारः । कामावचराणां सत्त्वानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानां यो भवः । आरूप्यभवश्च । तत्र प्रथमा कोटिरुदाहरणं । रूपभवो रूपावचरं स्कंधपंचकं । पंचव्यवचारः पंचस्कंधक इत्यर्थः । व्यवचार इति काश्यपस्य तथागतस्य स्कंधसंज्ञा । विशेषेणावचारो व्यवचारः । अन्यथीभावेन विसंवादनमित्यर्थः । सोऽस्यास्तीति व्यवचारः । अर्शआदिभ्योऽजित्यकारो मत्वर्थीयः । विसंवादनीत्यर्थः । फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमेत्य्- (अभिधर्मकोषव्याख्या १६४) आदिना विसंवादनात् । तत्र यदि रूपधातावसंज्ञिसमापत्तिर्नेष्यते असंज्ञिसमापत्तिं निरोधसमापत्तिं [तिब् । १५१ ] समापन्नानामिति नोच्येत । तेन रूपावचर्यसंज्ञिसमापत्तिरिति गम्यते । तत्र अपि त्वयं विशेष इति । तत्र साधर्म्येऽपि विशेषो भवति । पश्चाद्रूपधाताविति । य आर्या निरोधसमापत्तिमुत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधातावुपपद्यंते । तैः परिहीणपूर्वैः । पूर्वाभ्यासवशाद्रूपधातौ निरोधसमापत्तिरुत्पाद्येत । असंज्ञिसमापत्तिस्तु कामरूपधातौ प्रथमतोऽपि पृथग्जनैरुत्पाद्यत इत्ययं विशेषः । किमप्यस्ति परिहाणिरिति । निर्वाणसदृसीयं समापत्तिः । कथमतः परिहाणिरित्यसंभावयन् पृच्छति । उदायिसूत्रमिति । आर्यशारिपुत्रभाषितमेतत्सूत्रं । उदायी तु तत्र विबंधक इत्युदायिसूत्रमित्युच्यते । कथमिति । श्रावस्त्यां निदानं । तत्रायुष्मां छारिपुत्रो भिक्षूनामंत्रयते स्म । इहायुष्मंतो भिक्षुः शीलसंपन्नश्च भवति समाधिसम्पन्नश्च प्रज्ञासंपन्नश्च । सोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति । स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामारागयति । नापि मरणकालसमये । भेदाच्च कायस्यातिक्रम्य देवान् कवडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं [तिब् । १५१ ] समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति । तेन खलु पुनः समयेनायुष्मानुदायी तस्यामेव पर्षदि संनिषण्णोऽभुत्संनिपतितः । अथायुष्मानुदायी आयुष्मंतं शारिपुत्रमिदमवोचत् । अस्थानमेतदायुष्मं छारिपुत्रानवकाशो यद्भिक्षुरन्यतमस्मिं दिव्ये मनोमये काये उपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्त्ःते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाति । द्विरपि त्रिरपि आयुष्मामुदायी आयुष्मंतं शारिपुत्रमिदमवोचत् । अस्थानमेतदायुष्मन् । इति पूर्ववत् । अथायुष्मतः शारिपुत्रस्यैतदभवत् । यावत्त्रिरपि मे अयं भिक्षुर्भाषितं प्रतिवहति प्रतिक्रोशति । न च मे कश्चित्सब्रह्मचारी भाषितमभ्यनुमोदते । यन्न्वहं येन भगवांस्तेनोपसंक्रामेयं । अथायुष्मां छारिपुत्रो येन भगवांस्तेनोपसंक्रांतः । उपसंक्रम्य भगवतः पादौ शिरसा वंदित्वैकांते निषण्णः । एकांते निषण्णश्चायुश्मां छारिपुत्रो भिक्षूनामंत्रयते स्म । इहायुष्मंतो भिक्षुः शीलसंपन्नश्च भवति । पूर्ववत् । तेन खलु समयेनायुष्मानुदायी पूर्ववत् । एवं द्विरपि त्रिरप्यायुष्मानुदायी आयुष्मंतं शारिपुत्रमिदमवोचत् । पूर्ववत्(अभिधर्मकोषव्याख्या १६५) । अथायुष्मतः शारिपुत्रस्यैतदभवत् । शास्तुरपि मे पुरस्तादयं भिक्षुर्यावत्त्रिरपि भाषितं प्रतिवहति प्रतिक्रोशति । न च मे कश्चित्सब्रह्मचारी [तिब् । १५२ ] भाषितमभ्यनुमोदते । यन्न्वहं तूष्नीं स्यां । अथायुष्मां छारिपुत्रस्तूष्णीमभूत् । तत्र भगवानायुष्मंतमुदायिनमामंत्रयते स्म । कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे । ननु यावदेवारूपिणं संज्ञामयं । एवं भदन्त । त्वं तावन्मोहपुरुषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण भिक्षुणा सार्धमभिधर्मेऽभिविनये संलपितव्यं मन्यस इति । तत्र भगवानायुष्मंतमुदायिनं संमुखमवसाद्य आयुष्मंतमानन्दमामंत्रयते स्म । त्वमप्यानन्द स्थविरं भिक्षुं विहेठ्यमानमध्युपेक्षसे । कारुण्यमपि ते मोहपुरुष नोत्पन्नं स्थविरे भिक्षौ विहेठ्यमान इति । तत्र भगवानायुष्मंतमुदायिनमायुष्मंतं चानन्दं संमुखम् अवसाद्य भिक्षूनामंत्रयते स्म । इह भिक्षवो भिक्षुः शीलसंपन्नश्भवति । समाधिसंपन्नश्च विस्तरेण यावदस्ति चैतत्स्थानमिति यथाभूतं प्रजानातीत्युक्त्वा भगवानुत्थायासनाद्विहारं प्राविक्षत्प्रतिसंलयनायेति । अत्रायुष्मानुदायी आरूप्यावचरोऽयं मनोमयः काय उक्त इति मनसिकृत्वा प्रतिबंधमकार्षीत् । तत्र हि रूपं नास्ति । मन एव तु ससंप्रयोगमस्ति । तस्मान्मनोमयः कायः । तत्र चेयं समापत्तिर्न समापद्यते इति तस्याभिप्रायः । आर्यशारिपुत्रस्य [तिब् । १५२ ] तु रूपावचरो दिव्यो मनोमयकायोऽभिप्रेतः शुक्लशोणितमनुपाय्य प्रादुर्भावात् । अत एव चासावायुष्मानुदायी भगवता पृष्टः । कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे । ननु यावदेवारूपिणं संज्ञामयमिति । तेनाप्येवं भदंतेति प्रतिपन्नं । भगवानपि रूपावचरमेव दिव्यं मनोमयं कायमभिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तमायुष्मंतमुदायिनमवसादयति स्म । त्वं तावन्मोहपुरुषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण भिक्शुणा सार्धमभिधर्मेऽभिविनये संलपितव्यं मन्यस इति । अस्ति चैतत्स्थानमिति यदेतन्निरोधसमापत्तेः समापदनं व्युत्थानं चेत्येतत्स्थानं यथाभूतं प्रजानाति । प्रतिपद्येवेति पूर्वमेवेत्यर्थः । आज्ञामारागयतीत्यर्हत्त्वं प्रप्नोतीत्यर्थः । इयं च समापत्तिर्भावाग्रिकीति विस्तरः । निरोधसमापत्तिर्भावाग्रिकी । यश्च तल्लाभी । तस्व भवाग्र एवोपपत्तिः स्यान्न रूपधातौ । उक्तं च सूत्रे । स तत्र रूपधातावुपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते चेति । तस्मादस्त्यतः परिहाणिरिति गम्यते । युज्यत एवैतद्वैभाषिकाणां (अभिधर्मकोषव्याख्या १६६) । सौत्रांतिकानां तु कथमेतत् । आर्य एव हि निरोधसमापत्तिलाभी न चार्यमार्गादस्ति परिहाणिरिति सौत्रांतिकसिद्धांतः । [तिब् । १५३ ] तस्यार्यस्य कथमुपरिभूमिकादार्यमार्गात्परिहाणिरिति इष्यते । तेषामप्येतत्सूत्रं न विरुध्यते । कथं । यो हि कश्चिद्भवाग्रलाभी नियाममवक्रामति । सोऽनागामी सन्निरोधसमापत्तिमुत्पादयेत् । स भवाग्रान्निरोधसमापत्तेश्च परिहीयेत । न तु मार्गात् । ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिदनुत्पादितत्वात् । स परिहीणो भूत्वा ध्यानमुत्पाद्य रूपधातावुपपद्येत् । तस्मादस्त्यतः परिहाणिर्न चार्यमार्गात्परिहाणिरिति न स्वसिद्धान्तविरोधः । नवानुपूर्वसमापत्तय इति । चत्वारि ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश्च । प्राथमकल्पिकं प्रतीति । आदितः समापत्तिविधायकं प्रतीत्यर्थः । नियतोभयथावेदनीयत्वादिति । नियतवेदनीयासंज्ञिसमापत्तिरुपपद्यवेदनीयत्वात् । उभयथावेदनीया निरोधसमापत्तिर्नियतानियतवेदनीयेत्यर्थः । नियतवेदनीया अनागामिनः । अनियतवेदनीयार्हत इहैव परिनिर्वाणात् । प्रथमोत्पादनतोऽपीति । असंज्ञिसमापत्तिं कश्चित्प्रथमं मनुष्येषूत्पादयति । कश्चिद्रूपधातौ । निरोधसमापत्तिं तु मनुष्येष्वेवोत्पादयति । परिहीणस्तु रूपधातौ । [तिब् । १५३ ] अथ कस्मान्मनुष्येष्वेवैनामुत्पादयति । संज्ञावेदनाद्वारेण वितर्कविचारादिचैत्तप्रचारपरिखिन्नोऽनागामी तां तेन विहारेण सुखं विहरेयमिति निरोधसमापत्तिमुत्पादयति । रूपधातूपपन्नस्त्वनागामी रूपधातोः शांतत्वान्न तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस्तत्रोत्पादयति । परिहीणस्तु पूर्वाभ्यासतस्तामुत्पादयति । आरूप्यधातूपपन्नोऽप्यत एव शांतत्वान्नैवसंज्ञानासंज्ञायतनोपपन्नो नोत्पादयति । निरुपधिशेषनिर्वाणप्रसंगाद्वा । तत्र हि रूपं नास्ति चित्तचैत्ता यदि निरुध्येरन् परिनिर्वाणमेवास्य स्यात् । चित्तविप्रयुक्तानां केवलानामवस्थानासामर्थ्यात् । नियतवेदनीयस्य कर्मणोऽपरिसमाप्तफलस्य विघ्नभावेनावस्थानान्न परिनिर्वाणसंभवः । असंज्ञिसमापत्तिं तु मोक्षसंज्ञया निःसरणसंज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधातावपि प्रथमतः समापद्यते । कस्मात्पुनरेते इति विस्तरः । सर्वचित्तचैत्तनिरोधस्वभावत्वातुभे अप्येते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्यभिप्रायः । तत्प्रातिकूल्येन तत्समापत्तिप्रयोगादिति । संज्ञावेदनाप्रातिकूल्येन तयोः समापत्त्योः प्रयोगात् । संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः [तिब् । १५४ ] संज्ञा रोगः संज्ञा शल्यः संज्ञा गण्डः एतच्छांतमेतत्प्रणीतमिति विस्तरः । संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः । परचित्तज्ञानवचनवद्(अभिधर्मकोषव्याख्या १६७) इति । यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न ज्ञायंते कदाचित् । अथ च परस्य चित्तं ज्ञास्यामीत्येवं प्रथमतः प्रयोगात्परचित्तज्ञानमित्युच्यते । न परचित्तचैत्तज्ञानमिति । तद्वदिहाप्यनयोः समापत्त्योस्तथा वचनं । तत्राचित्तकान्येव निरोधसंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः । अपरिस्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः । आलयविज्ञानसचित्तकानीति योगाचारा इति सिद्धांतभेदः । तस्मादिदमुपन्यस्यते । कथमिदानीं बहुकालनिरुद्धादिति विस्तरः । बहुकालनिरुद्धग्रहणं समनंतरनिरुद्धनिरासार्थं । समनंतरनिरुद्धादीदानीं कथं भवति । यदि समनंतरनिरुद्धमस्तीत्यभ्युपगतं बहुकालनिरुद्धमप्यस्तीति किं नाभ्युपगम्यते इति वैभाषिकाः । न समनंतरनिरुद्धस्यास्तित्वं ब्रूमः अपि तु वर्तमानं चित्तमात्मनोऽन्यचित्तहेतुभावं व्यवस्थाप्य निरुध्यतेऽन्यच्चोत्पद्यते तुलादण्डनामोन्नामवत् । तच्च निरुद्धमपरं च चित्तम् [तिब् । १५४ ] उत्पन्नं भवतीत्यनंतरनिरुद्धाच्चित्ताच्चित्तान्तरमुत्पद्यते इत्युच्यते । वर्तमानसामीप्ये वर्तमानवदिति कृत्वा । अपरे पुनराहुरिति सौत्रांतिकाः । कथं तावदारूप्योपपन्नानामिति विस्तरः । तावच्छब्दः क्रमार्थः । इदमेव तावद्दृष्टांतार्थं वक्तव्यमित्यर्थः । रूपस्य हि समनंतरप्रत्ययो नेष्यते । तत्कथमुत्पद्यते । तस्माच्चित्तादेव तज्जायते न रूपादिति ब्रूमः । अन्योन्यबीजकं ह्येतदुभयमिति । चित्तेऽपि सेन्द्रियस्य कायस्य बीजमस्ति काये च सेन्द्रिये चित्तस्येति । परिपृच्छायामिति । परिपृच्छानामशास्त्रं कृतिः स्थविरवसुमित्रस्य । स तस्यामाह । पंचवस्तुकादीन्यपि हि तसय संति शास्त्राणि । तस्माद्विशिनष्टि । तस्यैव दोष इति । कतमः स दोषः । कथमिदानीं बहुकालनिरुद्धाच्चित्तादिति य उक्तः । त्रयाणां संनिपात इति । इंद्रियविषयविज्ञानानां । संज्ञावेदनयोरप्यत्र निरोधो न स्यादिति । भदंतवसुमित्रस्यैतन्मतं । सचित्तकत्वेऽपि तस्या निरोधसमापत्तेः संज्ञावेदनयोस्तत्र निरोध इति । तस्माद्भदंतघोषक एवं प्रसंगं करोति । अविद्यासंस्पर्शजमिति । अविद्यासंहितः स्पर्शोऽविद्यासंस्पर्शः । तस्माज्जातमविद्यासंस्पर्शजं । न तु वेदनोत्पत्ताविति । न तु वेदनोत्पत्तौ स्पर्शो विशेषित ईदृशः स्पर्शो वेदनाप्रत्यय इति । स एव भदंतघोषक उपसंहरति । तस्मादचित्तिकेति । [तिब् । १५५ ] कथमचित्तिकायाः समापत्तित्वमिति । ध्यानादिसमापत्तित्वमर्हति । समाधिना हि चित्तचैत्ताः समा आपाद्यंते एकग्रीक्रियंत इत्येवं मत्वा पृच्छति (अभिधर्मकोषव्याख्या १६८) । महाभूतसमतापादनादिति । महाभूतानि समान्यापद्यंतेऽनयेति समापत्तिः । एवमस्यां निओधसमापत्तौ ध्यानादिषु च समापत्तित्वं । का पुनरिह महाभूतानां समता । चित्तोत्पत्तिप्रातिकूल्यसमवस्थानं । समागच्छंतीति समापद्यंते । समागच्छंति तामिति समापत्तिः कर्मसाधनं । ध्यानादीन्यपि समागच्छंति योगिनः । तस्माद्ध्यानादीनामपि समापत्तित्वं भवति । द्रव्यत इति स्वलक्षणतः । चित्तोत्पत्तिप्रतिबंधनात् । यस्माच्चित्तोत्पत्तिं प्रतिबध्नीतः । न । समापत्तिचित्तेनैवेति । नैतदेवं । कस्मात् । समापत्तिचित्तेनैव तत्प्रतिबंधनात् । चित्तोत्पत्तिप्रतिबंधनादित्यर्थः । कथमिति तत्प्रतिपादयति । समापत्तिचित्तमेव हीति विस्तरः । तत्समापत्तिचित्तमेव नान्यद्द्रव्यं । चित्तांतरविरुद्धमनागतचित्तविरुद्धमुत्पद्यते । येन चित्तेन कालांतरं नात्यंतमप्रवृत्तिमात्रं भवति । मात्रशब्दो [तिब् । १५५ ] द्रव्यांतरव्यावर्तनार्थः । तद्विरुद्धाश्रयापादनात् । चित्तविरुद्धस्याश्रयस्य संतानस्यापादनात्कारणात् । यदेतदप्रवृत्तिमात्रं । सासौ समापत्तिरिति प्रज्ञप्यते । प्रज्ञप्तिधर्मोऽयं न द्रव्यधर्म इत्यर्थः । यदि न द्रव्यधर्मः कथमसौ संस्कृतमिति प्रज्ञप्यते इत्यत आह । तच्चाप्रवृत्तिमात्रं । न पूर्वमभूत्नोत्तरकालं व्युत्थितस्य योगिनो भवतीति । संस्कृतासौ समापत्तिरसंज्ञिसमापत्तिर्निरोधसमापत्तिर्वा प्रज्ञप्यते संव्यवहारतो न तु द्रव्यतः । अथ वेति विस्तरः । आश्रयस्यैव तथासमापादनं तथाव्यवस्थानम् । अवस्थाविशेषः । समापत्तिजनिताया अस्याः समापत्तिरित्यर्थः । स चावस्थाविशेषः पूर्वं नासीत्पाश्चाच्च न भवति व्युत्थितस्येति संस्कृतत्वं न विरुध्यते । अथ वा समापदनमिति पाठः । संस्कृतावस्थाविशेषत्वादस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्यर्थः । एवमासंज्ञिकमिति विस्तरः । चित्तमेवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते । तच्चाप्रवृत्तिमात्रं चित्तचैत्तानामिति वाक्यशेषः । आसंज्निकमिति प्रज्ञप्यते न तु द्रव्यतोऽस्तीत्यभिप्रायः । (इइ ।४६ ब्) य ऊष्मण इति विस्तरः । ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः । तस्माज्जीवितमूष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस्तयोरेव । नित्यानिवृत्तिप्रसंग [तिब् । १५६ ] इति । नित्यमेषां स्रोतः प्रसज्येत । निकायसभागस्य स्थितिकालावेध इति । निकायसभागो व्याख्यातः । त एव तथाभूतास्संस्कारा रूपादिस्कंधस्वभावा इति । तेषां स्थितिः प्रबंधः । तस्याः कालो यावत्तेन स्थातव्यं । त एव तावंतः संस्कारक्षणाः । तस्यावेधः (अभिधर्मकोषव्याख्या १६९) प्रतिसंधिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानं । कः पुनरसौ हेतुः । सामर्थ्यविशेषः । स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरंपरया कारणं भवति । अत एव स्थितिकालावेध उच्यते । तावत्कालं प्रवाहाक्षेपलक्षणत्वात् । तावत्सोऽवतिष्ठत इति । स निकायसभागः । सस्यानां पाककालावेधवत् । यथा सस्यानां पाककालावेधः सामर्थ्यविशेषस्वभावो बीजेनांकुर एवाधीयते यः क्षणपरंपरया आ पाककालात्सस्यसंतानहेतुर्भवति । तद्वदेतत् । क्षिप्तेषुस्थितिकालावेधवच्च । यथा क्षिप्तस्येषोः शरस्य स्थितिराकाशदेशांतरोत्पत्तिः संतानानुवृत्तिः । तस्याः कालो मर्यादा यतः परेण सा न भवति । तस्यावेधो हेतुव्यवस्थानं । कः पुनरसौ हेतुः । प्रयत्नभूतातिशयनिर्वृत्तवायुधातुजनितसामर्थ्यविशेषः । तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यांतरं तद्वदयमायुर्लक्षणमावेधो द्रष्टव्यः । यस्तु मन्यत इति वैशेषिकः । संस्कारो नाम गुणविशेष इति । पृथिव्यादीनां वैशेषिको गुणः संस्कारो नाम कर्मजः [तिब् । १५६ ] कर्महेतुश्च वेगद्वितीयनामा इषौ जायते । यद्वशाद्यस्य गुणस्य वशाद्गमनमिषोरा पतनाद्भवतीति । तं प्रत्यदृष्टान्त एषः । यथा हि संस्कारो नाम भावांतरमस्ति । एवमायुर्स्यादिति । तेन तन्मतं दूषयत्याचार्यः । तस्येति विस्तरः । तस्य वैशेषिकस्य तदेकत्वात्संस्कारैकत्वात् । प्रतिबंधाभावाच्च प्रतिबंधस्य काष्ठप्रत्याघातादिलक्षणस्याभावाच्च । किं । देशांतरैः शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः । शीघ्रा शीघ्रतरा शीघ्रतमा प्राप्तिः शीघ्रतरतमप्राप्तिः । कैः । सह देशांतरैराकाशदेशादिभिः । तस्याः कालः । तस्य भेदः । तस्यानुपपत्ति । शीघ्रा शीघ्रतरा शीघ्रतमा देशांतरैः सह प्राप्तिर्नोपपद्यते । पूर्वोक्तादस्मात्कारणद्वयात्संस्कारस्याविशिष्टत्वात्पतनानुपपत्तिश्च । पतनं च इषोर्नोपपद्यते सति संस्कारे । न ह्येतदिष्टं सति कारणे कार्यं न भवतीति । वायुना तत्प्रतिबंध इति चेत्स्यान्मतं वायुरत्र प्रतिबंधः । प्रतिबंधविशेषाच्छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद्द्रव्यसंयोगादभावः कर्मण इति वचनात् । अत्रोच्यते अर्वाक्पतनप्रसंगो ज्याविभागानंतरमेवार्वागवरत एव वायुसंयोगात्स इषु पतेत् । अथ प्रतिबध्यमानोऽपि वायुना नार्वाक्पतेत्न वा कदाचित्[तिब् । १५७ ] पतेत्न पश्चादपि पतेदित्यर्थः । किंकारणं । वायोरविशेषात् । यथा हि समीपे वायुरेवं दूरेऽपीति । चतुर्थी विषमापरिहारेणेति । अत्यशनादेर्विषमस्यापरिहारेण । क्षीण आयुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यं । तेन तृतीया कोटिर्न प्राप्नोति । तस्मादुभयक्षये सति मरणमुभयक्षयादिति । उभयक्षये सतीति योऽर्थः । (अभिधर्मकोषव्याख्या १७०) सोऽर्थ उभयक्षयादित्ययमर्थ उक्तो वेदितव्यः । आयुरक्षयादपि मरणं भवतीति कथं गम्यते । सस्यादिसाधर्म्यात् । सस्यादीनां हि बीजावेधपरिक्षये सति सत्सु प्रत्ययांतरेषु क्षेत्रोदकादिषु दृष्टा संताननिवृत्तिरप्राप्यैव फलकालं फलपाककालं वा । बीजस्य नातिसारत्वात् । सत्यपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्याभावाद्दृष्टा संताननिवृत्तिः । सारबीजाक्षेपस्थितिवृद्धिप्रत्ययाभावेऽपि दृष्टा । यदा बीजाक्षेपश्च परिसमाप्तो भवति सलिलस्य चाभावः । सत्यपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्यये च जंगमाद्युपक्रमकृता दृष्टा सस्यादीनां संताननिवृत्तिरिति । यस्याश्रयोपघातादुपघातस्तत्संतत्यधीनत्वादिति । बहिर्देशिकमतमेतत् । आश्रयसंततिप्रतिबद्धं तदायुरिति संतत्युपनिबद्धमित्युच्यते । काश्मीरमतेऽपि स एवार्थः । शब्दमात्रं तु भिद्यते । सांतरायं निरंतरायमिति । अथ वा संतत्युपनिबद्धमिति स्वसंतत्युपनिबद्धं संतानवर्त्येव तत्केवलं न तु सकृदुत्पन्नं तिष्ठतीति [तिब् । १५७ ] सांतरायमित्युच्यते । अनेनागमेन अस्त्यकालमृत्युरिति दर्शयन्नाह । सूत्रेऽप्युक्तं चत्वार आत्मभावप्रतिलंभा इति विस्तरः । आत्मसंचेतना आत्मना मारणं । परसंचेतना परेण मारणं । बुद्धानां चेति वक्तव्यं । किम् । आत्मसंचेतनैव क्रमते । स्वयंमृत्युत्वात् । अनुपक्रमणधर्माणो हि बुद्धा भगवंतो आयुरुत्सर्गवशित्वलाभिनश्च । प्रायेणेति ग्रहणं चतुर्थकोट्यभिहितनारकांतराभविकादिपरिवर्जनार्थं । राजर्षयश्चक्रवर्तिपूर्वा प्रव्रजिताः । जिनदूतो यो बुद्धेन भगवता दूतः कश्चित्संप्रेषितः तद्यथा शुकः कश्चिद्भगवता आम्रपाल्याः प्रेषितो लिच्छविभिश्च योग्यां कुर्वाणैर्दृष्टः शरजालेनापूर्यमाणोऽपि मारयितुं न शक्यते । यावद्धि स दूतकृत्यं न करोति तावन्नात्मसंचेतना क्रमते न परसंचेतना । जिनादिष्ट इयंतं कालमनेन जीवितव्यमिति य आदिष्टो भगवता । धर्मिलादयः पूर्वयोगविद्भ्य आगमितव्याः । आदिशब्देन चान्येऽपि तत एव चागमयितव्याः । तेषां नात्मसंचेतना क्रमते न परसंचेतना । चरमभविकानां च ये तस्मिन्नेव जन्ननि अर्हत्त्वं प्राप्नुवंति । बोधिसत्त्वमातुस्तत्गर्भाया बोधिसत्त्वगर्भायाः । चक्रवर्तिमातुः चक्रवर्तिगर्भाया नात्मसंचेतना [तिब् । १५८ ] न परसंचेतना । यदि तर्हि सर्वेषां रूपारूप्यावचराणां नात्मसंचेतना न परसंचेतना अथ कस्मात्सूत्रे उक्तमिति विस्तरः । तत्र चोभयं नास्तीति । तत्र नैवसंज्ञानासंज्ञायतने स्वभूमिक आर्यमार्गो नास्ति यावदेव संज्ञासमापत्तिस्तावदाज्ञाप्रतिवेध इति वचनात् । नाप्युपरिभूमिसामंतक ऊर्ध्वभूम्यभावात् । परभूमिक आर्यमार्ग इत्याकिंचन्यायतनभूमिकः । (अभिधर्मकोषव्याख्या १७१) आर्याकिंचन्यसाम्मुख्याद्भवाग्रे त्वास्रवक्षय इति वचनात् । पर्यंतग्रहणात्तर्हीति । तर्हीत्यर्थांतरविवक्षायां निपातः । तदादिसंप्रत्यय इति । तस्य पर्यंतस्य नैवसंज्ञानासंज्ञायतनस्यादिश्चत्वारि ध्यानानि त्रयश्च शेषा आरूप्याः । न तु कामधातुस्तदादिरसमाहितत्वेन विसादृश्यात् । समापत्तितो वा ध्यानारूप्या एव तदादिः । नवानुपूर्वसमापत्तय इति वचनात् । तत्र संप्रत्ययस्तदादिसंप्रत्ययः । अस्ति क्वचिदन्यत्राप्येवं दृष्टमिति अस्तीत्याह । क्वचिदादिना पर्यंत इत्यादि ।तद्यथा देवा ब्रह्मकायिका इति । देवा ब्रह्मकायिकाः तत्पर्यंतग्रहणाच्च ब्रह्मपुरोहिता महाब्रह्माणश्च प्रथमा सुखोपपत्तिः । तद्यथा देवा आभास्वरा इति । आभास्वरास्तदादिग्रहानाच्च परीत्ताभा अप्रमाणाभाश्च द्वितीया सुखोपपत्तिरिति । तिस्र एव हि सुखोपपत्तय [तिब् । १५८ ] इष्यंते सुखोपपत्तयस्तिस्रो नव त्रिध्यानभूमय इति वचनात् । एष हि दृष्टांतधर्म इति । एतद्दृष्तांतचरितं यदेकमपि तत्प्रकारं निर्दिशते न सर्वं शेषसंप्रत्ययश्च भवति । तद्यथा अनित्यः शब्दः । कृतकत्वात्यथा घट इति पटादीन्यपि गृह्यंते । तद्यथाशब्दस्य दृष्टांतवाचकत्वात् । अनुपसंहार एष इति । अदृष्टांत इत्यर्थः । मनुष्यास्तदेकत्याश्च देवा इति । तदेके देवाः षट्कामावचरा देवाः प्रथमाभिनिर्वृत्तवर्ज्याश्च प्रथमध्यानोपपन्ना देवा इत्येतावंत एव नानात्वकाया नानात्वसंज्ञिनः सत्त्वा नैतद्व्यतिरिक्ताः संतीति नायं तद्यथाशब्दो दृष्टांतवाचकः । तस्मादुपदर्शनार्थ एवायं द्रष्टव्यः । उपदर्शनार्थत्वे च सति तदेव स्थितमेतत् । पर्यंतग्रहणात्तदादिसंप्रत्यय इति । (इइ ।४६ द्) विपर्ययादसंस्कृत इति । यत्रैतानि न भवंति । सोऽसंस्कृत इति । ननु च स्थितिरसंस्कृतलक्षणमस्ति । नासंस्कृतस्य स्थितिर्द्रव्यांतररूपास्ति । द्रव्यांतररूपाणि चेह संस्कृतलक्षणानीष्यंत इत्यचोद्यमेतत् । ननु च त्रीणीमानीति विस्तरः । कथं । सूत्रे त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि । कतमानि त्रीणि । संस्कृतस्य भिक्षव उत्पादोऽपि प्रज्ञायते । व्ययोऽपि प्रज्ञायते । स्थित्यन्यथात्वमपीति । चतुर्थमप्यत्र वक्तव्यं स्यादिति वैभाषिकाः । किं चात्र नोक्तमिति चोदकः । स्थितिरिति वैभाषिकाः । यत्तर्हीदं स्थित्यन्यथात्वमपीति [तिब् । १५९ ] स्थितिशब्दोऽत्र श्रूयते । कथमिदमुच्यते स्थितिर्नोक्तेति चोदकाभिप्रायः । जराया एष पर्याय इति । जरेयमुक्ता स्थितेरन्यथात्वं स्थित्यन्यथात्वमिति । तद्यथा जातेरुत्पाद इति पर्यायः । अनित्यतायाश्च व्ययः । तथा जरायाः (अभिधर्मकोषव्याख्या १७२) स्थित्यन्यथात्वं पर्याय इति । कस्मात्पुनर्लक्षणचतुष्टे सति भगवता त्रीण्येवोक्तानीति । अत आह । ये हि धर्मा इति विस्तरः । उद्वेजनार्थं विनेयानां जातिजरानित्यता इति धर्माणां लक्षणान्युक्तानि । आभिप्रायिको हि सूत्रनिर्देशो न लाक्षणिको यथाभिधर्मः । जरानित्यते पुनः प्रत्युत्पन्नादतीतमिति । संचारयति इत्यधिकारोऽनुवर्तते । जरानित्यते प्रत्युत्पन्नादध्वनोऽतीतमध्वानं संचारयतः । कस्मात् । दुर्बलीकृत्य विघातात् । जरा दुर्बलीकरोति । अनित्यता निहंतीति कृत्वा । ननु चानित्यतैव धर्मं प्रत्युत्पन्नादध्वनोऽतीतमध्वानं संचारयति । न जरा । जरा हि केवलं धर्मं दुर्बलीकरोति । कस्मादेवमुच्यते । जरानित्यते प्रत्युत्पन्नादतीतं संचारयत इति । आह । दुर्बलीकरणमपि तदध्वसंचारायैव वर्तते । न ह्यदुर्बलीकृतस्याध्वसंचारोऽस्तीति जरापि तत्संचारे व्यवस्थाप्यते । असंस्कृतस्यापि च स्वलक्षणस्थितिभावादिति । स्वलक्षणे स्थितिः । स्थित्या भावः । तस्मात्स्थितिभावात् । असौ स्थितिः संस्कृतलक्षणं न व्यवस्थापिता । स्थितिर्ह्यसंस्कृतावस्थाविशेषलक्षणया स्थित्या [तिब् । १५९ ] सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसंगपरिजिहीर्षया न लक्षणमुक्तमित्यभिप्रायो भगवतो धर्मस्वामिनः । अन्ये पुनः कल्पयंतीति । सूत्रेऽपि स्थितिरुक्तेति कथयंति । स्थितिं जरां चाभिसमस्य स्थितिश्च स्थित्यन्यथात्वं च स्थित्यन्यथात्वमिति अभिसमस्य एकं लक्षणमुक्तं सूत्रे । न विभागशः । कस्मात् । त्रीणीमानि संस्कृतलक्षणानीति वचनविरोधप्रसंगात् । किमत्र प्रयोजनमित्यत आह । एषा ह्येषु संगास्पदमिति विस्तरः । एषा हि स्थितिरेषु जात्यादिषु संगास्पदं संगस्थानं धर्मोऽनया तिष्ठतीत्यभिप्रायः श्रियमिवैनां स्थितिं कालकर्णीसहितामलक्ष्ंीसहितां दर्शयामास भगवान् तस्यां स्थित्यामसंगार्थं । नास्यामासंगः कर्तव्यो यस्मादियमनिततयानुबद्धा लक्ष्मीरिवालक्ष्म्येति तदेकीयं व्याख्यानं । अपरे तु व्याचक्षते । नास्यामासंक्तव्यं यस्मादियं जरयानुबद्धा लक्ष्मीरिवालक्ष्म्येति । जरया ह्यन्यथात्वलक्षणया अस्या एकीकरणं नानित्यतयेति । अतश्चत्वार्येव संस्कृतलक्षणानीति । उभयोरपि पक्षयोरयमुपसंहारः । (इइ ।४७ ब्) अन्यैर्जात्यादिभिर्भवितव्यमिति । जातिसामर्थ्यात्कश्चित्संस्कृतो धर्मो जायते । जातिरपि संस्कृता । तस्मात्तस्या अपि अन्यया जात्या भवितव्यं स्वात्मनि वृत्तिविरोधात् । सर्वं संस्कृतलक्षणैर् इति च सिद्धंतात् । एवं जरादयो [तिब् । १६० ]ऽपि योज्याः । जातिजात्यादयस्तेषाम् (अभिधर्मकोषव्याख्या १७३) इति । जातिजात्यादयश्च तेषामिति चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः । ननु चैकैकस्येति विस्तरः । एकैकस्य लक्षणस्य चतुर्लक्षणी चतुर्णां लक्षणानां समाहारः चतुर्लक्षणी प्राप्नोति । अपर्यवसानदोषश्च अनिष्ठादोषश्च । तेषामनुलक्षणानां पुनरन्यजात्यादिप्रसंगात् । जातेर्जातेर्जातिजातेर्यावदन्तियताया अनित्यताया अनित्यतानित्यतायाश्च प्रसंगात् । तेऽष्टधर्मैकवृत्तयः । ते इति पुंलिंगनिर्देशो धर्माभिसंबंधात् । ते जात्यादिजातिजात्यादिस्वभावा धर्मा यथाक्रममष्टधर्मैकवृत्तयः । जात्यादीनामष्टासु धर्मेषु वृत्तिः । जातिजात्यादीनां चैकधर्मे । आत्मनवमा हीति लक्षणानुलक्षणापेक्ष एवमुक्तं । न हि यथासंभवं तत्र प्राप्त्यादयो भूतानि भौतिकानि वा नोत्पद्यंते । कामेऽष्टद्रव्यकोऽशब्दः । सर्वं संस्कृतलक्षणैः प्राप्त्या वेति चैवमादिवचनात् । जातिरात्मानं विरहय्येति विस्तरः । स्वात्मनि वृत्तिविरोध इत्यतः आत्मानं विरहय्य मुक्त्वाष्टौ धर्मान् जनयति । कतमानष्टौ । तं धर्मं रूपं चित्तं वा स्थितिं जरामनित्यतां जातिजातिं स्थितिस्थितिं जराजरामनित्यतानित्यतां च जनयति । जातिजातिस्तु तामेव जातिं जनयति । एवं जरानित्यते अपि यथायोगं योज्ये इति । [तिब् । १६० ] जरा आत्मानं विरहय्य अष्टौ धर्मान् जरयति । जराजरा पुनस्तामेव जरां । अनित्यता आत्मानं विरहय्य अष्टौ धर्मान् विनाशयति । अनित्यतानित्यता पुनस्तामेवानित्यतामिति । तदेतदाकाशं पाट्यत इति । विभिद्यत इत्यभिप्रायः । सप्रतिघद्रव्याभावमात्रमाकाशं । नाकाशं नाम किंचिदस्ति । तद्विभक्तुं यथा न शक्यते न युज्यते वा । एवमिमे जात्यादयः असंतो धर्मा विभक्तुं न शक्यंते न युज्यंते वा । तत आह । न ह्येत इति विस्तरः । न ह्येते द्रव्यतः स्वलक्षणतः संविद्यंते यथा विभज्यंते । जातिरात्मानं विरहय्याष्टौ धर्मान् जनयतीत्येवं विस्तरेण विभज्यंते यथा रूपादीनां धर्माणामिति । अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणं । तत्र रूपशब्दादि तावत्प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते । वेदनाद्यपि प्रत्यक्षेणैवोपलभ्यते स्वसंवेद्यत्वात् । चक्षुरादि तु चक्षुर्विज्ञानादिनानुमानेनानुमीयते । चक्षुर्विज्ञानादिसंनिश्रयो रूपप्रसादश्चक्षुरादीनि तद्भावभावयोस्त्द्भावाभावात् । आगमोऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः । एवं श्रोत्रेण शब्दां च्छ्रुत्वेति विस्तरेण एवं गन्धादिष्वपि योज्यं । [तिब् । १६१ ] तथा यत्किंचिद्रूपमतीतनागतप्रत्युत्पन्नम् (अभिधर्मकोषव्याख्या १७४) इति विस्तरः । एवं वेदनादिष्वपि योज्यं । पारसांतानिकानां त्वरूपिणां वेदनादीनामस्तित्वानुमानमात्मीयवच्छरीरविकारं दृष्ट्वा तत्संप्रतिपत्तेः । आगमोऽपि चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं सहजाता वेदाना संज्ञा चेतनेति विस्तरः । जात्यादयस्तु न चक्षुरिन्द्रियादिप्रत्यक्षा भवंति । न चैषामस्तित्वे समर्थमनुमानमस्ति । न चाप्यागमो द्रव्यतोऽस्तित्वे । यत्तर्हि सूत्र उक्तमिति विस्तरः । ननु चायमागमोऽस्ति संस्कृतस्योत्पादोऽपि प्रज्ञायते इति विस्तरः । अर्थश्च प्रतिसरणमुक्तं भगवतेति । चत्वारीमानि भिक्षवः प्रतिसरणानि । कतमानि चत्वारि । धर्मः प्रतिसरणं न पुद्गलः । अर्थः प्रतिसरणं न व्यंजनं । नीतार्थसूत्रं प्रतिसरणं । न नेयार्थं । ज्ञानं प्रतिसरणं न विज्ञानमिति । तथार्थप्रतिसरणो भवति । न व्यंजनप्रतिसरण इति । कः पुनः अस्यार्थ इति । अस्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य । तमर्थमाह । अविद्यांधा हि बाला इति विस्तरः । संस्कारप्रबन्धमात्मत आत्मीयतश्चाधिमुक्ताः कृतरुचयोऽभिष्वजंते इत्यर्थः । संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वमिति पर्यायावेतौ । समेत्य संभूय प्रत्ययैः कृतं संस्कृतं । तं [तिब् । १६१ ] तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्यसमुत्पन्नमिति । न तु क्षणस्येति । प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदमाह । न तु क्षणस्य संस्कृतत्वं । न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्वलक्षणा धर्माः प्रज्ञायंते क्षणस्य दुरवधारत्वात् । ब्रूयास्त्वमप्रज्ञायमाना अप्येते लक्षणं भवितुमर्हंतीत्यत आह । न चाप्रज्ञायमाना एते लक्षणं भवितुमर्हंतीति । प्रज्ञायमानमेव हि लक्षणं भवति । तद्यथा जलस्य बलाकेति । अत एवात्रेति । अत एवात्र सूत्रे प्रज्ञायत इति पदग्रहणम् । अन्यथा हि संस्कृतस्योत्पादोऽपि व्ययोऽपि स्थित्यन्यथात्वमपीत्येवावक्ष्यत् । संस्कृतत्वे लक्षणानीति । संस्कृतमिति लक्षणानीत्यर्थप्रतिग्रहार्थं पुनः संस्कृतग्रहणं । जलबलाकावदिति । वैधर्मदृष्टांतोऽयं यथा बलाका जलास्तित्वे लक्षणं न पुनर्जलस्य जलत्वे लक्षणं । मैवं विज्ञायि । किं । संस्कृतस्य वस्तुनः अस्तित्वेऽमूनि लक्षणानि । साध्वसाधुत्वे वा कन्यालक्षणवदिति । यथा कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति । यदि ह्यमूनि तथा संस्कृतस्य वस्तुनोऽस्तित्वे साध्वसाधुत्वे वा लक्षणानीष्येरन् त्रीणीमानि संस्कृतलक्षणानीत्युच्येत । संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत । कृतं च । तेन ज्ञायते संस्कृतत्वे लक्षणानीति । [तिब् । १६२ ] कथं पुनरविद्यमाना जात्यादयः प्रवाहे व्यवस्थाप्यंते प्रज्ञायंते वा । न ब्रूमो जात्यादयो न संविद्यंत इति । यथा तु द्रव्यरूपेण विभज्यंते । तथा न संविद्यंत इति ब्रूमः । यथा तर्हि भवतां (अभिधर्मकोषव्याख्या १७५) संविद्यंते । तथा कथ्यतां । अत आह । प्रवाहस्यादिरुत्पाद इति विस्तरः । निवृत्तिर्व्यय इति । प्रवाहस्योपरतिर्व्ययः । स एव प्रवाहोऽनुवर्तमान इति । सदृशक्षणानुवृत्तेरनुवर्तमानः प्रवाहः । स्थितिरिति उच्यते । तस्याः पूर्वापरविशेष इति । पूर्वस्मादपरस्य क्षणस्य विशेषः । पूर्वापरयोः क्षणयोर्वा विशेषः पूर्वापरविशेषः । एवं च कृत्वोक्तमिति । प्रवाहरूपानेवोत्पादादीन् कृत्वानित्योपस्थितस्मृतितामायुष्मतः सुंदरनन्दस्यारभ्योक्तं । प्रवाहगता हि वेदनास्तस्य विदिता इवोत्पद्यंते विदिता इव तिष्ठंते विदिता इव परिक्षयं पर्यादानं गच्छंति न क्षणगताः । क्षणस्य दुरवधारत्वादिति । विदितस्य च क्षणस्यावस्थानासंभवात् । एतमेवार्थं श्लोकद्वयेन संगृह्णन्नाह । जातिरादिः प्रवाहस्येत्य् आदि सर्वमुक्तं । स्थितिस्तु स इति । स एव प्रवाहः स्थितिः । तस्यैवेति । तस्यैव प्रवाहस्य । तदुच्छेद इति । प्रबन्धोच्छेदः । क्षणिकस्य हि धर्मस्येति श्लोकः । क्षणिको हि धर्मः । स्थितिमंतरेण विनश्येदित्यर्थः । स्थितिरस्तीति मन्यसे चेत् । स च धर्मो व्येत्येव सत्यामपि स्थितौ । विनश्यत्येव क्षणिकत्वात् । विनाशहेत्वभावात् । तस्माद्वृथा तत्परिकल्पना निष्प्रयोजना स्थितिपरिकल्पनेनेत्यर्थः । द्वितीयादिक्षणावस्थानेन [तिब् । १६२ ] हि स्थितिपरिकल्पना न वृथा भवेत् । तस्मात्प्रवाह एव स्थितिः । यस्मात्क्षणिकस्य हि धर्मस्य स्थितिपरिकल्पना व्यर्थेति । एवं च कृत्वायमपीति । प्रवाह एव स्थितिरिति कृत्वेत्यर्थः । न हि क्षणस्योत्पन्नस्याविनाशोऽस्तीति । अत्र कस्यचिदेवमभिप्रायो भवेत् । स्थितिसद्भावादेकं क्षणमविनाशो धर्मस्योत्पन्नस्य । यदि हि स्थितिर्न स्यात् । सोऽप्येकः क्षणो न स्यादिति । न । हेतुप्रत्ययपूर्वकत्वात्तदस्तित्वस्य । अस्मिन् सतीदं भवतीति वचनात् । स्थितिरुपगृह्णातीति चेत् । स्यान्मतं हेतुप्रत्ययेभ्य उत्पद्यमानं धर्मं स्थितिरुपगृह्णातीति । यदि स्थितिर्नोपगृह्णीयात्किं स्यात् । आत्मसत्ता धर्मस्य न भवेत् । (अभिधर्मकोषव्याख्या १७६) जनिका तर्हि स्थितिः प्राप्नोति न स्थापिका । संतानमवस्थापयतीति चेत् । हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते । हेतुप्रत्ययानां संतानहेतुत्वात् । निकायसभागचित्तं युज्यत इति । एकस्मिं निकायसभागेऽनेकमपि चित्तमेकमित्युच्यते । एकनिकायसभागसंभूतत्वादित्यभिप्रायः । तच्चित्तं युज्यत एकस्मिंश्चित्त इति वक्तुम् । अन्यथा हि कथमेकस्यैव चित्तक्षणस्य जातिश्च मरणं चान्यथात्वं च स्यात् । उत्तरोत्तरक्षणानुबन्धः स्थितिरिति । पूर्वस्य क्षणस्य उत्तरः क्षणः प्रतिनिधिभूतः सादृश्यात् । अतः स पूर्वः क्षणोऽद्यापि अवतिष्ठत इवेति कृत्वोत्तरः क्षणः स्थितिरुच्यते । यदा तर्हि सदृशा उत्पद्यन्ते इति । यदा सदृशा उत्पद्यन्ते । तदा विसदृशत्वं [तिब् । १६३ ] नास्ति । विसदृशत्वं च स्थित्यन्यथात्वमुक्तम् । अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं नास्तीति अव्यापिलक्षणं स्यादित्यभिप्रायः । क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति विस्तरः । क्षिप्तं च तदक्षिप्तं च क्षिप्ताक्षिप्तं । बलिदुर्बलाभ्यां क्षिप्तं बलिदुर्बलक्षिप्तं । क्षिप्ताक्षिप्तं च तद्बलिदुर्बलक्षिप्तं च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं । किं तत् । वज्रादि । आदिग्रहणेन लोहपासाणादेर्ग्रहणं । अपरे पुनरेवं विग्रहं कुर्वन्ति । क्षिप्तश्चाक्षिप्तश्च क्षिप्ताक्षिप्तौ । बलिदुर्बलाभ्यां क्षिप्तौ बलिदुर्बलक्षिप्तौ । क्षिप्तस्यैवायं द्विधाभेदः । क्षिप्ताक्शिप्तौ च बलिदुर्बलक्षिप्तौ च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं । वज्रादिरस्य वज्रादिः । अस्मिन् विज्रहे वज्रादि विशेषणं । क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं विशेष्यं । तस्य वज्रादेरेवंविधस्य यथासंभवं चिराशुतरपातः । क्षिप्तस्य चिरंपातः । अक्षिप्तस्य चिरतरः पातः । दुर्बलक्षिप्तस्याशुपातः । बलिक्षिप्तस्याशुतरः पातः । तस्य कालः । कालस्य भेदः । चिराशुतरपातकालभेदात् । [तिब् । १६३ ] तद्भूतानां वज्रादिमहाभूतानां । परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरंपातः । एवं यावद्बलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः । तस्य परिणामविशेषस्य सिद्धिः । तस्याः परिणामविशेषसिद्धेः न ते निर्विशेषा भवन्तीत्यधिकृतं । अन्तिमस्य तर्हीति विस्तरः । शब्दस्यार्चिषश्च दीपादेर्योऽन्त्यः क्षणः संतानोपरतिकाले । निरुपधिशेषनिर्वाणकाले वार्हतः । तस्य षडायतनस्य उत्तरक्षणाभावात्स्थितिर्नास्ति । स्थितेरभावात्स्थित्यन्यथात्वं नास्तीति अव्यापिनी लक्षणव्यवस्था प्राप्नोति । येयमुक्ता तस्या विसदृशत्वं स्थित्यन्यथात्वमिति । यस्यास्ति स्थितिः । तस्यावश्यमन्यथात्वं भवति । यस्य नास्ति स्थितिः । तस्य नास्ति स्थित्यन्यथात्वमित्युक्तं भवति । संभवं हि प्रत्येवमुक्तं सूत्रे त्रीणीमानि संस्कृतलक्षणानीति । तस्मादंत्यशब्दार्चिःक्षणप्रभृतीनामुत्पादव्ययावेव द्वे लक्षने इति अभिप्रीयेते । तदन्येषां तु स्थित्यन्यथात्वमपीति । अपर आह । (अभिधर्मकोषव्याख्या १७७) अंत्यानामपि शब्दार्चिःक्षणप्रभृतीनां स्थितिरस्ति यत्स्वावस्थानं । तस्याश्चान्यथात्वं पूर्वक्षणापेक्षमिति । तेषामपि त्रीणि संस्कृतलक्षणानि व्यवस्थाप्यंत इति । कथमिदानीं स एव धर्ंो लक्ष्यः । तस्यैव च लक्षणमिति । लक्ष्यलक्षणयोर्[तिब् । १६४ ] जलबलाकावतन्यत्वं पश्यंतश्चोदयंति । तद्व्यभिचारयंतः सौत्रांतिका आहुः । कथं तावन्महापुरुषलक्षणानीत्यादि । महापुरुषलक्षणानि महापुरुषसंगृहीतत्वान्नातोऽन्यानि । ब्रूयान्न महापुरुषलक्षणमात्रं महापुरुषः । धर्ममात्रं त्वभूत्वा भवति भूत्वा च न भवतीति अदृष्टांत एषः । अत्र ब्रूमः । सममेवैतत् । यथा हि महापुरुषलक्षणानि महापुरुषाख्यानि महापुरुषलक्षणाख्यानि च भवंति । एवं संस्कृतो धर्मः संस्कृतं चोयते संस्कृतलक्षणं च । उत्पादादिलक्षणेन ह्यवस्थाविशेषेण स धर्मो लक्ष्यते । यदा च प्रवाहलक्षणव्यवस्था क्रियते । तदा समुदायिभिः समुदायो लष्यते । यथा महापुरुषसंज्ञः समुदायो महापुरुषलक्षणैः समुदायिभिरिति । एतेन सास्नादीनि लक्षणानि व्याख्यातानि । कूठिन्यादीनि चेति विस्तरः । उभयसिद्धोऽयं दृष्टांतः प्रवचनसिद्धत्वात् । कठिनलक्षणो हि पृथिवीधातुरुच्यते । न च पृथिवीधातोरन्यत्काठिन्यम् । एवं सर्वत्र योज्यं । स एव हि पृथिवीधातुः कठिनलक्ष्यमाणः कठिनलक्षण उच्यते । एतदेव संस्कृतमभूत्वाभवद्भूत्वाचाभवल्लक्ष्यमाणं संस्कृतलक्षणमुच्यते । लक्ष्यत इति लक्षणमिति कृत्वा । न च तत्तस्मादन्यत् । यथा चोर्ध्वगमनेनेति विस्तरः । क्सणिकवादिनो वैभाषिकस्य धूमस्योर्ध्वगमनं [तिब् । १६४ ] नान्यदस्ति । स एवोर्ध्वदेशांतरेषु निरंतरमुत्पद्यमान ऊर्ध्वगमनाख्यां लभते । तदूर्ध्वगमनं ततो भिन्नमिव लक्ष्यते । न च धूमस्य ऊर्ध्वगमनत्वमन्यदिष्यते । न च तत्तस्मादन्यत् । न च तदूर्ध्वगमनं तस्माद्धूमातन्यत् । स एवात्र न्याय इति । एवमुत्पादो विनाशोऽन्यथात्वं च ततो भिन्नमिव लक्ष्यते । न च संस्कृतस्य संस्कृतमन्यद्भवतीति । न च संस्कृतानां रूपादीनां तावत्संस्कृतत्वं लक्ष्यते गृह्णतापि स्वभावं गृह्णतापि रूपादीनां स्वभावं । यावत्प्रागभावो न ज्ञायते । यावत्तेषां रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते । पश्चाच्च । किम् । अभावः । प्रागभावश्च प्रध्वन्साभावश्च यावन्न ज्ञायते । संततेश्च विशेषो यावन्न ज्ञायते इति वर्तते । तस्मान्न तेनैव तल्लक्षितं भवति । न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते । किं तर्हि । प्रागभावादिभिस्तत्संस्कृतत्वं लक्ष्यते । यदि हि रूपादीनां स्वभावं गृह्णन् संस्कृतमिति गृह्णीयात्प्रागभावं पश्चादभावं च संततेश्च विशेषमज्ञात्वा तेनैव तल्लक्षितं स्यात् । न त्वेवं जानीत इति न तेनैव तल्लक्षितं भवति । न च तेभ्योऽपि रूपादिभ्यो द्रव्यांतराण्येव जात्यादीनि विद्यंते । (अभिधर्मकोषव्याख्या १७८) जातिरादिः प्रवाहस्येति विस्तरेण वचनात् । एषां सहभूतत्वात्जात्यादीनां समानकालोत्पादत्वात् । न । कारित्रकालभेदादिति । नैतदेवं । कस्मात् । कारित्रकालभेदात् । पुरुषकारकालभेदादित्यर्थः । तत्प्रतिपादयन्नाह । अनागता हि जातिः कारित्रं करोतीति विस्तरः । किमनागतं [तिब् । १६५ ] द्रव्यतोऽस्ति नास्तीति । अनागतमेव तावद्द्रव्यतो नास्तीति प्रतिपादयिष्यते । कुतोऽनागता जातिः कारित्रं करोतीत्यभिप्रायः । सत्यपि तु तस्मिन्निति । सत्यपि तु द्रव्यतोऽनागते जातिरनागतावस्थायां कारित्रं कुर्वती कथमनागता सिध्यति । अप्राप्तकारित्रं हि अनागतमिति सिद्धांतः । स विरुध्येत । तस्मात्तद्वक्तव्यं । कथं वर्तमाना सिध्यतीति । उपरतकारित्रोऽतीत इष्यते । जातिश्चानागतैव । उपरतकारित्रे हि वर्तमानावस्थायामेवातीता प्राप्नोतीति न वर्तमाना भवेदिति वर्तमानलषणं वक्तव्यमिति । अपरिसमाप्तकारित्रो वर्तमान इति चेत् । अतीतोऽप्य्वर्तमानः स्यात् । अतीतस्यापि हि फलदानकारित्रमिष्यते । यदैवं ह्येनं स्थितिरिति विस्तरः । स्थितिजराविनाशवृत्तयो ह्यन्योन्यविप्रतिषिद्धाः । न हि स एव धर्मस्तिष्ठति च जीर्यति च विनश्यति चेति युक्तो व्यवस्थापयितुं । तस्य क्षणिकत्वं बाध्यत इति । प्रथमं स्थितिः स्थापयति । ततो जरा जरयति । ततोऽनित्यता विनाशयति । क्षणत्रयावस्थानात् । क्षणिकत्वं बाध्यत इति । एष एव हि नः क्षण इति । कार्यपरिसमाप्तिलक्षणो न तूत्पत्त्यनंतरविनाशलक्षण इत्यर्थः । एवमपीति विस्तरः । सहोत्पन्नानां क्रमेण कारित्रं न युज्यते । कुत एतत् । स्थितिस्तावत्स्थापयति । न तु तस्मिन् काले जरा जरयति नाप्यनित्यता विनाशयतीति । पुनः केनाबलीयस्त्वं [तिब् । १६५ ] पश्चात्केनाबलीयस्त्वं यदेनां यस्मादेनां स्थितिं सह धर्मेण यस्यासौ स्थितिः । तेन धर्मेण सहानित्यता निहंति । कृतकृत्या पुनः कर्तुं नोत्सहते जातिवदिति । यथा जातिः कृतकृत्या जन्यं जनयित्वा परिक्षीणशक्तिर्न पुनर्जनयति । तथा स्थितिरपि तद्वदेव न पुनः स्थापयतीति । न हि शक्यमिति विस्तरः । न वर्तमानतामानीतं जन्यं पुनरानेतुं शक्यतेऽनवस्थाप्रसंगात् । शक्यं तु खलु स्थित्या स्थाप्यमत्यंतं स्थापयितुं । स्थितेर्विनाशप्रतिबन्धलक्षणत्वात् । ते एव जरानित्यते इति । ते एव जरानित्यते प्रतिबन्धः । येन स्थितिः स्थाप्यमत्यंतं स्थापयितुं न शक्नोति । जरा हि स्थितिं दुर्बलीकरोति दुर्बलामनित्यता निहंतीति । आचार्य आह । यदीति सर्वं । यदि हि ते जरानित्यते बलीयस्यौ स्यातां पूर्वमेव स्यातां स्थितिकारित्रकाले । यतः सा स्थितिर्न लभते कारित्रं कर्तुं । निवृत्तकारित्रायामिति विस्तरः । यदा निवृत्तकारित्रा स्थितिः । तदा तेऽपि जरानित्यते न तिष्ठतः । स चापि धर्मः । स्थितिकारित्राद्धि तेषां स्थितिः कल्पते । (अभिधर्मकोषव्याख्या १७९) तस्मात्तेऽपि न तिष्ठतः । कथमतिष्ठन्त्यौ जरानित्यते कुत्र वा धर्मिण्यतिष्ठति कारित्रं कर्तुमुत्सहिष्येते । किं वा पुनस्ताभ्यां जरानित्यताभ्यां कर्तव्यं । स्थितिसामर्थ्याद्धि स धर्म उत्पन्नमात्रो न विनष्टोऽभूत् । स तया उपरतकारित्रया स्थित्याप्युपेक्ष्यमाणोऽस्थाप्यमानो ध्रुवं न स्थास्यतीति । अयमेवास्य विनाशो यदिदमनवस्थानं । किं पुनर्जरानित्यताभ्यां [तिब् । १६६ ] कार्यमित्यभिप्रायः । न च तस्मादेव तस्यान्यप्रकारता युज्यत इति । यदि स एव नासावन्यथा । अथान्यथा न स एव । ययोर्हि अन्यथात्वं । तयोरन्यत्वं दृष्टं तद्यथा देवदत्तयज्ञदत्तयोः । योऽप्याह निकायांतरीय इति आर्यसंमतीयः । स घटादेर्मुद्गरादिकृतो विनाश इति मन्यते कालांतरावस्थायि हि तस्य रूपं । चित्तचैत्तानां तु क्षणिकत्वं । अत उच्यते । चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यतायाश्चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात्स्वयं विनश्वरत्वात्स्थित्यनित्यते कारित्रं युगपत्कुर्यातां । अत एकस्य चित्तस्य चैत्तस्य वा युगपत्स्थितिविनष्टता अन्योन्यविरुद्धोऽपि संप्रसज्यते । एवमेतत्सूत्रं सुनीतमिति । यदेतत्त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानीति । (इइ ।४७ द्) सति सामग्र्ये भावात् । असति चाभावादिति । सति हेतुप्रत्ययानां सामग्र्ये भावात्जन्यस्य । असति चाभावात् । न जातेः । किं । सामर्थ्यं पश्याम इत्यधिकृतं । न हि हेतुप्रत्ययसामग्र्येऽपि तज्जन्यं कदाचिद्भवति कदाचिन्न भवति । अत्र भदंतानंतवर्मा आह । यथा चक्षुर्न विना आलोकादिभिश्चक्षुर्विज्ञानं जनयति । न चातस्तदुत्पत्तौ न कारणं । एवं जातिर्न विना हेतुप्रत्ययैर्धर्मं जनयति । न चातस्तदुत्पत्तौ न कारणमिति । अत्रोच्यते । [तिब् । १६६ ] असमानमेतत् । चक्षुर्हि दृष्तसामर्थ्यं सत्स्वालोकादिषु अन्धानन्धयोश्चक्षुर्विज्ञानस्यानुत्पत्त्युत्पत्तिदर्शनात् । न त्वेवं जातिरिति । सूक्ष्मा अपि हि धर्मप्रकृतय इति । तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः स्वभावा दुःपरिच्छेद्यत्वात्सूक्ष्माह् । अस्त्येतदेवं । अदृश्यमानोऽपि कश्चिद्धर्मः कारित्रेण निर्धार्यते । न त्वेवं जातिः कारित्रेण निर्धार्यते । स्पर्शस्य हि कारित्रं भगवतैवनिर्धारितं । यः कश्चिद्वेदनास्कंधः संज्ञास्कंधः संस्कारस्कंधः । सर्वस्स स्पर्शं प्रतीत्येति विस्तरः । जातमित्येव तु न स्यातसत्यां जाताविति । स्वलक्षणापेक्षा रूपे रूपबुद्धिः । न तु जातमिति स्वलक्षणापेक्षा जातबुद्धिः । वेदनादिष्वपि भावात् । तस्मादर्थांतरभूतजातिद्रव्यापेक्षेयं जातबुद्धिरिति निर्धार्यते । षष्ठीवचनं च न स्यात्रूपस्योत्पाद इति । वैयधिकरण्ये हि षष्ठीनिर्देशो न सामानाधिकरण्ये । तेनाह । यथा रूपस्य रूपमिति । वैधर्मदृष्टांत एषः । यथा रूपं रूपादनन्यदिति कृत्वा षष्ठीनिर्देशो न भवति (अभिधर्मकोषव्याख्या १८०) रूपस्य रूपमिति । तथा रूपस्योत्पाद इति न स्यात् । तस्माज्जातिनिमित्तोऽयं षष्ठीनिर्देश इति गम्यते । एवं यावदनित्यता यथायोगं वक्तव्येति । स्थितमेव तु न स्यातसत्यां स्थितौ । षष्ठीवचनं च रूपस्य स्थितिरिति यथा रूपस्य रूपमिति । जीर्णमित्येव तु न स्यातसत्यां जरायां । षष्ठीवचनं च रूपस्य [तिब् । १६७ ] जरेति यथा रूपस्य रूपमिति । तथा विनष्टमित्येव तु न स्यातसत्यामनित्यतायां । षष्ठीवचनं च रूपस्य विनाश इति यथा रूपस्य रूपमिति । तेन तर्हीति विस्तरः । यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधानार्थं च जात्यादयः कल्प्यंते अनात्मत्वमप्येष्ट्व्यं । न हि निर्निमित्ता अनात्मबुद्धिर्भवितुमर्हति । अथानात्मत्वं प्रज्ञप्तिसदिष्यते । तन्निमित्तानात्मबुद्धिः । जात्याद्यपि प्रज्ञप्तिसदेष्टव्यं । तन्निमित्ता च जात्यादिबुद्धिरिति । साधनं चात्र । प्रज्ञप्तिसत्जात्यादि । द्रव्यसदपेक्ष्य गृह्यमाणत्वाद् । अनात्मत्ववदिति । सत्तादयोऽपीति । आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते । एकं रूपं द्वे रूपे महदणु पृथक्संयुक्तं विभक्तं परमपरं सद्रूपमिति । तथा द्रव्यमेतद्रूपमिदं घटोऽयमित्येवमादिबुद्धिसिद्धार्थं संख्यादयोऽपि वैशेषिकपरिकल्पिता अभ्युपगंतव्याः । षष्थीविधानार्थं च रूपस्य संयोग इति । संयोगग्रहणमुदाहरणमात्रं । रूपस्य विभागः परत्वापरत्वमित्येवमाद्यपि योज्यं । एषा च षष्ठी कथं कल्प्यते रूपस्य स्वभाव इति । न हि वैभाषिकाणां [तिब् । १६७ ] रूपादन्यो रूपस्य स्वभाव इष्टः । जातमिति । जातमेव न विनष्टमित्यभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः । बहुविकल्प इति । बहुभेदो रूपवेदनादिभेदात् । तस्य विशेषणार्थं रूपस्योत्पाद इति न वेदनादीनामुत्पाद इति विशेषणार्थं षष्ठीं कुर्वंति । मान्यः प्रत्यायि रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति । दृष्टांतं कथयंति । चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति । अनर्थांतरभावेऽपि षष्ठीनिर्देशः क्रियते । गन्धादिसमूहमात्रं हि चन्दनमिति बौद्धसिद्धान्तः । वैशेषिकसिद्धान्तापेक्षया तु असिद्धश्चन्दन इत्यपरो दृष्टान्त उपन्यस्यते । शिलापुत्रकस्य शरीरमिति । शिलापुत्रकशरीरयोर्वैशेषिकाणामपि सिद्धान्ते नार्थान्तरभावो भवति च षष्ठीनिर्देशः । अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः । एवं स्थित्यादयोऽपि यथायोगं वेदितव्या इति । तस्मात्प्रज्ञप्तिमात्रमेवेदं प्रवाहावस्थानज्ञापनार्थं क्रियते स्थितमिति । सा च प्रवाहावस्थानलक्षणा स्थितिर्बहुविकल्पा । तस्या विशेषणार्थं रूपस्य स्थितिरिति षष्ठीं कुर्वन्ति । यथा रूपसंज्ञकैव [तिब् । १६८ ] स्थितिः प्रतीयेत मान्या प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत्पूर्वपरविशेषज्ञापनार्थं (अभिधर्मकोषव्याख्या १८१) क्रियते जीर्णमिति । सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा । तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति । यथा रूपसंज्ञकैव जरा प्रतीयेत मान्या प्रत्यायीति । तथा प्रज्ञप्तिमात्रमेवैतत्प्रवाहनिवृत्तिज्ञपनार्थं क्रियते विनष्टमिति । स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः । तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति । यथा रूपसंज्ञक एव विनाशः प्रतीयेत मान्यः प्रत्यायीति । सर्वत्र च दृष्टान्तद्वयं वक्तव्यं । तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति । यथा च धर्मतयेति । धर्मता धर्मप्रक्र्तिः धर्मस्वभावो धर्मशैलीत्यर्थः । धर्मता धर्मप्रकृतिरिति कुत एतत् । चक्षुः समृद्धे शून्यं नित्येन ध्रुवेण शाश्वतेन अविपरिणामधर्मेण आत्मनात्मीयेन च । तत्कस्य हेतोः । प्रकृतिरस्यैषेति । यथा च धर्मतया न सर्वं जातिमदिष्यते आकाशादि । तथा धर्मतया न सर्वं जायत इत्येष्टव्यम् । न ह्यत्र किंचित्काराणमस्ति । यत्संस्कृतमेव जातिमद्भवति नासंस्कृतमिति अन्यत्र धर्मतायाः । एवमसत्यामपि जातौ संस्कृतमेवोत्पद्यते । नासंस्कृतमिति । यथा च तुल्यजातिमतां केषांचिद्रूपवेदनादीनां तदन्ये प्रत्ययास्तेभ्यो रूपोत्पत्तिप्रत्ययेभ्योऽन्ये वेदनाद्युत्पत्तिप्रत्ययास्तदन्ये । ते तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्ति । तेभ्यो वेदनादिभ्योऽन्यत्तदन्यत्[तिब् । १६८ ] । किं तद् । रूपं । तस्य । तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति । एवमसंस्कृतस्याकाशादेरुत्पादने सर्वेऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युरिति । पूर्वं स्वभावनियमेनोक्तमिदानीं शक्तिनियमेनेति । न हि दूषकाः सन्तीति विस्तरः । यथा न मृगाः सन्तीति यवा नोप्यंते उप्यन्त एवेत्यर्थः । द्वौ प्रतिषेढौ प्रकृतमर्थं गमयतः । यथा न मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते । किं तर्हि । भक्ष्यन्त एव । तथा न दूषकास्सन्तीति आगमोऽभिधर्मशास्त्राण्यपास्यन्ते । तस्माद्दोषेषु प्रतिविधातव्यं । दोषेषु परव्यवस्थापितेषु परिहारः कर्तव्यः । सिद्धान्तश्चानुसर्तव्यो न परित्याज्य इत्यभिप्रायः । (इइ ।४८ ब्) नामकायादयः संज्ञावाक्याक्षरसमुक्तय इति । संज्ञासमुक्तयो नामकायाः । वाक्यसमुक्तयः पदकायाः । अक्षरसमुक्तयो व्यंजनकायाः । संज्ञाकरणमिति लोकभाषेयं । संज्ञाकरणं नामधेयमिति पर्यायः । तथा हि लोके वक्तारो भवन्ति । देवदत्त इत्यस्य संज्ञाकरणमिति । संज्ञायाः करणं संज्ञाकरणं । येन संज्ञा चैतसिको धर्मः क्रियते जन्यते । संज्ञैव वा करणं संज्ञाकरणं । संज्ञाग्रहणं चान्यकरणनिवृत्त्यर्थं । करणग्रहणं चैतसिकविशेषणार्थं (अभिधर्मकोषव्याख्या १८२) । यदि हि संज्ञा नामेत्युच्येत चैतसिकोऽपि संभाव्येत । तत्पुनः संज्ञाकरणं [तिब् । १६९ ] नाम रूपं शब्दो रसो गन्धो वेत्येवमादि । वाक्यं पदमिति । पद्यते गम्यतेऽनेनेति । पदं तु सुप्तिङन्तं पदं गृह्यते । तेनाह । यावतार्थपरिसमाप्तिस्तद्यथा अनित्या बत संस्कारा इति एवमादीति । आदिशब्देन उत्पादव्ययधर्मिणः उत्पद्य हि निरुध्यन्ते । तेषां व्युपशमः सुखम् इत्येवमादि । अस्या गाथाया एवमर्थं व्याचक्षते । अनित्या बत संस्कारा इति प्रतिज्ञा । उत्पादव्ययधार्मिण इति हेतुः । यस्मादुत्पादव्ययधर्मवन्तस्तस्मादनित्या इति परिच्छिद्यन्ते उत्पद्य हि निरुध्यन्त इति दृष्टान्तः । य उत्पद्यन्ते निरुध्यन्ते च ते अनित्याः । तद्यथा घटादयः । तथा च संस्कारा इति । अपरे पुनर्व्याचक्षते । असिद्धहेतुसाधनार्थमेतदिति । कथमेतद्गम्यते । उत्पादव्ययधर्मिणस् त इति यस्मादेते उत्पद्य निरुध्यमाना दृष्ता इति । अपरे वर्णयन्ति । अनित्या बत संस्कारा उत्पादव्ययधर्मिण इति पर्यायद्वयमेतदुच्यते । कस्मादित्याह । यस्माद् उत्पद्य निरुध्यन्त इति हेतुवचनं । तेषां व्युपशमः सुखं ये ह्यनित्यास्ते दुःखा अतस् तेषां व्युपशमः सुखम् इति विनेयजनं नियोजयति । येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते । साव्ययकारकविशेषणं वाक्यमिति वाक्यविदो वदन्ति । तद्यथा पचति पठति गच्छतीति कृष्णो गौरो [तिब् । १६९ ] रक्त इति पचति पक्ष्यति अपाक्षीदिति क्रियागुणकालानां संबन्धविशेषा गम्यन्ते । तत्पदं । तथा हि सामान्यवर्तमानानां पदानां यद्विशेषेऽवस्थानं स वाक्यार्थ इत्याहुः । तदेवं स्वलक्षणाभिद्योतकं नाम क्रियादिसंबन्धविशेषाभिद्योतकं पदमित्युक्तं भवति । व्यंजनमक्षरमिति वर्ण इत्यर्थः । न तु हलेव अचामपि व्यंजनकत्वेनेष्टत्वात् । (अभिधर्मकोषव्याख्या १८३) ननु चाक्षराण्यपि लिप्यवयवानां नामानीति । लिपयो मनुष्यादिभिः पत्त्रादिषु ये लिखिताः । तेषामक्षराणि नामानि । रूपनामग्रहणे रूपप्रतीतिवद्व्यंजनग्रहणे लिपिप्रतीतिः । अतो व्यंजनमपि लिप्यवयवानां नाम भवतीति लक्षणसांकर्यं । ततश्च यदभिप्रेतं नाम्नो व्यतिरिक्तमन्यदेव व्यंजनमक्षरमिति । तन्नोपपद्यते । न वै लिप्यवयवानामिति विस्तरः । विपरीतमेतदिति व्याचष्टे । यत्तु व्यंजनग्रहणे लिपिप्रतीतिरिति । तत्प्रत्याय्यप्रत्यायकभावेन संकेतितत्वात् । न तु तन्नामभावात् । समुक्तिरिति उच समवाय इत्येतस्य धातोः क्तिनि समुक्तिरिति एतद्रूपं भवति । योऽर्थः समवाय इति । सोऽर्थः समुक्तिरिति । समवाय इत्यर्थः । ननु च ते इति सौत्रान्तिकवचनं । नैते वाक्स्वभावा इति विस्तरेण वैभाषिकवचनं । न च घोषमात्रेणेति । नानक्षरात्मकेन घोषेणार्थोऽवगम्यते । किं तर्हि । वाङ्नाम्नि प्रवर्तते । तन्नामात्मरूपतामिव वाच आपादयदर्थत्वं द्योतयति । तां वाचमुपादाय पदार्थं द्योतयति । [तिब् । १७० ] प्रत्याययतीत्यर्थः । सौत्रान्तिक आह । न वै घोषमात्रं वागिति विस्तरः । न वयं घोषमात्रं वागिति वर्णयामः । कश्चिदेव तु घोषो वर्णात्मकः । सैव वाक् । योऽर्थेषु कृतावधिः कृतमर्यादः । एतेन संकेतापेक्षः शब्दोऽर्थं प्रत्याययति । न यः कश्चिच्छब्द इति दर्शयति । कृतसंकेतः शब्दोऽर्थं प्रत्याययतीति । तच्चैतच्छब्दमात्रात्प्रतीतपदार्थकात्सिध्यतीति । तच्चैतदर्थद्योतनं नामरहिताच्छब्दाज्जात्याद्यभिधेयपदार्थकात्सिध्यतीत्ययमस्यार्थ इति । यद्युत्पादयतीति विस्तरः । वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत इतीष्यते तेनाशंक्यते यद्युत्पादयतीति । एवं चेत्सर्वं घोषमात्रं वृषभादिगर्जितमपि नामोत्पादयिष्यति । घोषस्वभावा वागिति कृत्वा । ब्रूयास्त्वं विशिष्ट एव घोषो यो वर्णात्मकः संभावितः । स एव नामोत्पादयतीति । अत्रोच्यते । यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः । स एवार्थस्य द्योतको भविष्यति । न तु स चित्तविप्रयुक्त इत्यभिप्रायः । अथ प्रकाशयतीति विस्तरः । घोषेणोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते । स तं प्रकाशयत्यर्थद्योतनायेति यदीष्यते । अत्रोच्यते । सर्वं घोषमात्रं नाम प्रकाशयिष्यतीति पूर्ववद्वाच्यं । न खल्वपि शब्दानां सामग्र्यमस्तीति । यदनेकाक्षरं नाम । तदुत्पत्तिपरिकल्पोऽनेकशब्दापेक्षः । तेनैवं विचार्यते । इहोच्चरितप्रध्वन्सिनः शब्दाः । तस्मादेषां युगपदवस्थानं नास्ति । एकस्य च द्रव्यसतो [तिब् । १७० ] धर्मस्य भागशः खण्डश उत्पादो न युक्तो यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् । यदा तदुत्पादयति । तदा (अभिधर्मकोषव्याख्या १८४) कथं सा तदुत्पादयतीति वाक्यार्थः । वर्तमाना हि वाङ्नामोत्पादयन्त्युत्पादयेत् । न च सर्वे वाच्छब्दक्षना युगपद्वर्तमाना भवन्ति । यदा हि रूपमिति रशब्दो वर्तमानो भवति । तदा ऊकारपकाराकारा अनागता भवन्ति । यदा ऊकारो वर्तमानो भवति । तदा रशब्दोऽतीतः । पकाराकारावनागताउ । एवं पकाराकारावपि क्रमशो यदा वर्तमानौ भवतः । तदेतरे न वर्तमाना इति । एवं सा वाङ्नाम नैवोत्पादयेत् । ब्रूयास्त्वं वर्तमानो रशब्दस्तस्य रूपनाम्नः पूर्वं भागमुत्पाद्यति । ऊशब्दोऽपि वर्तमानो द्वितीयं भागमेवं यावदकारशब्दस्तस्य चतुर्थभागमुत्पादयतीति । तदयुक्तम् । एकस्य धर्मस्य भागश उत्पादसंभवादिति । उक्तमेतत् । कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिमिति । प्रातिमोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्तन्ते । तासां नास्ति सामग्र्यं । अथ चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीतामविज्ञप्तिमुत्पादयति । एवमतीतशब्दक्षणापेक्षः पश्चिमो वाच्छब्दक्षणो नामोत्पादयतीति । एवं तर्हीति विस्तरः । पश्चिमशब्द एव नाम्न उत्पादात्[तिब् । १७१ ] योऽपि तमेवैकं शृणोति योऽपि पश्चिममेवैकं शब्दं शृणोति रूपमिति । सोऽप्यर्थं प्रतिपद्येत । सोऽपि रूपनामार्थं गृह्णीयात् । तन्नामोत्पत्तेः । न चैवं प्रतिपद्यते । तस्मादयुक्तमेतत् । अथाप्येवं कल्प्येतीति विस्तरः । क्षणप्रतिभासा वर्णवाग्व्यंजनमपि तत्प्रतिभासमिति पक्षान्तरमुपन्यस्यते । वाग्व्यंजनं जनयति । व्यंजनं तु नाम जनयतीति । अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्याभावात् । कथं । न खलु व्यंजनानां सामग्र्यमस्ति । न चैकस्य धर्मस्य भागश उत्पादो युक्त इति कथमुत्पादयद्व्यंजनं नामोत्पादयेत् । कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् । एवं तर्हि पश्चिम एव व्यंजने नाम्न उत्पादात्योऽपि तमेवैकं पश्चिमं व्यंजनोत्पादकं शब्दं शृणोति । यो वा तदेवैकं पश्चिमं व्यंजनं शृणोति । सोऽप्यर्थं प्रतिपद्येत । एष एव तु प्रसंगो नाम्नः प्रकाशत्वे वाच इति । न खल्वपि शब्दानां सामग्र्यमस्ति । न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती वाक्नाम प्रकासयेत् । कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्यविज्ञप्तिं । एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद्योऽपि तमेवैकं शब्दं शृणोति । सोऽप्यर्थं प्रतिपद्येत । अथाप्येवं कल्प्येत । वाग्व्यंजनं प्रकाशयति । व्यंजनं तु नामेति । अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्यभावात् । यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति न च शब्दानां (अभिधर्मकोषव्याख्या १८५) सामग्र्यमस्ति । तस्य कथं नामार्थं प्रत्याययति । [तिब् । १७१ ] सर्वाक्षरस्मृत्यनन्तरत्वातर्थप्रतिपत्तेः । अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन कश्चिदर्थं प्रतिपद्यत एवेति । व्यंजनस्यापि वाङ्नैवोत्पादिका न प्रकाशिका युज्यत इति । पूर्वं शब्दस्योत्पाद्यं शब्दस्य व्यंग्यं वा व्यंजनमभ्युपगम्य दोष उद्ग्राहितः । इदानीं शब्दव्यतिरिक्तानुपलब्धेः उत्पाद्यव्यंग्यत्वमपि तस्य नास्तीति तदेव उन्मूलयति । न तु शब्दानां सामग्र्यभावादिति दोशो वक्तव्यः । न ह्यनेकशब्दापेक्षा व्यंजनप्रतिपत्तिः । अपि च घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं व्यंजनमुत्पादयिष्यति प्रकाशयिष्यति वा । यादृशो वा घोषविशेष इष्यते व्यंजनस्योत्पादकः प्रकाशको वा । स एव व्यंजनार्थं करिष्यतीति । अथाप्यर्थसहजं नाम जात्यादिवदिष्येतेति विस्तरः । अथ सहजे नाम्नि कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्येवमादिघोषप्रसंगो न भविष्यतीति मत्वा पक्षान्तरमिदं विकल्प्यते । यथा जात्यादीनि लक्षणानि अर्थसहजान्येवेष्यन्ते नातीतानागतस्यार्थस्य वर्तमानानि भवन्ति । एवमेव यदि नामेष्यते । अतीतानागतस्यार्थस्य वर्तमानं नाम न स्यात् । ततश्चातीतानागतार्थव्यवहारो न शक्येत कर्तुं । न ह्यतीतानागतं नामार्थं द्योतयितुमर्हति । यथातीतानागता वाङ्नाम नोत्पादयितुं व्यंजयितुं चार्हति । नामबहुत्वे च न सहजं नाम परिच्छिद्येत । असंस्कृतानां [तिब् । १७२ ] चानुत्पत्तिमत्त्वात्सहजनाम न स्यादिति अनिष्टिरेवेयं न कर्तव्यैवेयमिष्टिरित्यभिप्रायः । नामसंनिश्रिता गाथेति । गाथा वाक्यं । सा नानानि संनिश्रिता नामसूत्पन्नेषु भावात् । तस्मात्सन्ति नामानि वाक्यं चेति वचनावकाशोऽस्तीत्याह । तत्रार्थेषु कृतावधिः शब्दो नामेति विस्तरः । अर्थकृतावधिशब्दस्वभावानां नाम्नां रचनाविशेषो गाथा । विन्यासविशेष इत्यर्थः । पंक्तिवदिति । यथा पंक्तिः पिपीलीकादीनां रचनाविशेषो न ततो द्रव्यान्तरमुपपद्यते । तद्वत् । एककालवर्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिरित्युच्यते । क्रमवर्तिनां तु शब्दानां न रचनाविशेषः तेन वैषम्यमिति वचनावकाशमभिसमीक्ष्य द्वितीयो दृष्टान्त उपन्यस्यते । चित्तानुपूर्व्यवच्चेती । यथानुक्रमवर्तिभ्यश्चित्तेभ्यो नान्यदानुपूर्व्यमस्ति । तद्वत् । अपार्थिका तत्प्रकॢप्तिरिति । निस्प्रयोजना नामपदयोरर्थान्तरपरिकल्पनेत्यर्थः । न हि सर्वे धर्मास्तर्कगम्या इति । केचिदेव तर्कगम्या न सर्वे । ये हि तथागतज्ञानगोचरपतिता एव । न ते तर्कगम्या इत्यभिप्रायः । (इइ ।४८ द्) चित्तविप्रयुक्तप्रभेदविवक्षया इदमुपन्यस्यते । अथ किं प्रतिसंयुक्ता इति विस्तरः । कस्मिन् धातौ प्रतिसंयुक्ताः किं प्रतिसंयुक्ताः । (अभिधर्मकोषव्याख्या १८६) सत्त्वाख्या असत्त्वाख्या इति किमिति । कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृता इति । कामरूपाप्ता [तिब् । १७२ ] एव सत्त्वाख्या एव निष्यन्दा एवाव्याकृता एव चेत्यवधारणं । ते त्वनभिलाप्या इति । ते त्वारूप्याप्ता नामकायादयोऽकथ्या वाचस्तत्राभावात् । कथं ते सन्तीति गम्यंते । यदा ते नाभिलप्यन्ते । तस्मात्कामरूपाप्ता एव नारूप्याप्ता इति वैभाषिकाः । सत्त्वाख्या एव च सत्त्वप्रयत्नाभिनिर्वृत्तवर्णादिस्वभावत्वात् । यश्च द्योतयति । स तैः समन्वागत इति । कुतः । पुनरियमाशंका । अन्योन्यस्य तैः समन्वागमः स्यादिति । अस्येदं नामेति व्यपदेशात् । यथा चक्षुरिन्द्रियेण द्रष्टैव समन्वागतो न दृश्यः सत्त्वः । तथा द्योतयितैव तैः समन्वागतो न द्योत्यः । नैष्यन्दिकाः सभागहेतुजनितत्वात् । न विपाकजा इच्छातः प्रवृत्तेः । नौपचयिका अरूपिणां चयाभावादिति । अनिवृताव्याकृताश्च । न कुशला नाकुशलाः । कस्मात् । समुच्छिन्नकुशलमूलकामवीतरागाणामपि तत्समन्वागमप्रसंगात् । इतरथा हि यदा समुच्छिन्नकुशलमूलः कुशलान् धर्मान् द्योतयति । तदास्य कुशलधर्मसमन्वागमः स्यात् । एवं कामवीतरागस्याप्यकुशलधर्मद्योतने योज्यं । तस्मादनिवृताव्याकृता एव । अनिवृताव्याकृतानां कुशलाकुशलैरविरोधात् । (इइ ।४९) तथा सभागतेति । [तिब् । १७३ ] तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वमेव सभागताया अतिदिश्यते । त्रिधात्वाप्ताया अपवादरूपेण वक्ष्यमाणत्वात् । सा त्व् इति । तुशब्दो विशेषणार्थः । नामकायादिभ्यो हि सभागता विशिष्यते । कथमित्याह । विपाकापीति । विपाकजापीत्यर्थः । न केवलमियं नैष्यन्दिकी । किं तर्हि । विपाकजापीति । न त्वौपचयिकी तथैव चयाभावात् । आप्तयो द्विधेति द्विधाशब्देन नैष्यंदिकविपाकजत्वप्रभेदावेव प्राप्तीनामुच्येते । प्रभेदान्तरस्योक्तत्वात् । लक्षणानामपि जात्यादीनां तावेव प्रभेदावेवमेव वक्तव्यौ । असमन्वागमो ऽप्राप्तिः । सानिवृताव्याकृतापि न विपाकजा । न हि विपाकस्याप्यसमन्वागमो विपाको भवितुमर्हति । तथा ह्यकुशलस्य कुशलसास्रवस्य च विपाक इष्यते । न चानयोरप्राप्तिर्विपाको भवितुमर्हति । यो हि बुद्धिपूर्वकश्चेतनात्मकस्तत्संप्रयुक्तसमुत्थो वा धर्मः । स विपाकहेतुः । न चासमन्वागम (अभिधर्मकोषव्याख्या १८७) एवं बुद्धिपूर्वककर्ंकृत इति अतो न विपाकजः । शेषमेषां वक्तव्यमुक्तमिति । एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यमुक्तं व्याख्यातमित्यर्थः । [तिब् । १७३ ] किं पुनस्तच्छेषमिति । धात्वाप्तता सत्त्वासत्त्वाख्यता कुशलाकुशलव्याकृतता च । कथं पुनस्तदुक्तं । प्राप्तेस्तावद्धात्वाप्ततोक्ता स्वधातुका तदाप्तानाम् इति वचनात् । सत्त्वाख्यतोक्ता समन्वागमवचनात् । न ह्यसत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः । प्राप्त्यप्राप्ती स्वसंतानपतितानाम् इति वचनात् । कथं कुशलाकुशलाव्याकृततोक्ता । शुभादीनां शुभादिकेति वचनात् । लक्षणानामपि त्रैधातुकप्रतिसंयुक्ततोक्ता सर्वं संस्कृतलक्षणैर् इति वचनात् । सत्त्वासत्त्वाख्यताप्यत एवोक्ता । सर्वसंस्कृतसहभूत्वात् । अत एव च कुशलाकुशलाव्याकृतताप्युक्ता । चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च चित्तानुवर्तिनः कालफलादिशुभतादिभिर् इति वचनात् । असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता ध्यानेऽन्त्य इति वचनात् । कुशलतापि शुभेति वचनात् । सत्त्वाख्यताप्यत एवोपपद्यवेद्यैवेति वचनात् । निरोधसमापत्तेरप्यारूप्यधात्वाप्ततोक्ता भवाग्रजेति वचनात् । कुशलतापि शुभेति वचनात् । सत्त्वाख्यतापि अत एव । कुशलसंस्कृतत्वात् । असमन्वागमस्य त्रिधात्वाप्ततोक्ता कामाद्याप्तामलानां चेति [तिब् । १७४ ] वचनात् । सत्त्वाख्यता समन्वागमवचनात् । अव्याकृतताप्युक्ता अक्लिष्टाव्याकृताप्राप्तिर् (अभिधर्मकोषव्याख्या १८८) इति वचनात् । शेषयोश्चासंज्ञिकजीवितयोः । किं । वक्तव्यमुक्तमिति वर्तते । आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता विपाकस्ते बृहत्फला इति वचनात् । जीवितस्य त्रिधात्वाप्ततोक्ता आयुर्जीवितम् इति वचनात् । आयुषश्च त्रैधातुकत्वात् । सत्त्वाख्यताप्युक्ता विपाको जीवितम् इति सूत्रात् । विपाको हि सत्त्वाख्य एव विपाकोऽव्याकृतो धर्मः सत्त्वाख्यो व्याकृतोद्भव इति वचनात् । अत एवास्यानिवृताव्याकृतताप्युक्तेति । आचार्येण तु यद्दर्शनं वक्तव्यमुक्तं । तद्विवृतं । कथं प्राप्तादीनां सत्त्वाख्यतोक्ता । समन्वागमवचनादित्यादि । (इइ ।५०) क इमे हेतवः के च प्रत्यया इति । हेतूनां प्रत्ययानां च कः प्रतिविशेषः । न कश्चिदित्याह । तथा ह्युक्तं भगवता । द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेरुत्पादाय । कतमौ द्वौ । परतश्च घोषोऽध्यात्मं च योनिशोमनस्कार इति । हेतुः प्रत्ययो निदानं कारणं निमित्तं लिंगमुपनिषदिति पर्यायाः । उपनिषच्छब्दस्तु कदाचिदुपांशौ कदाचित्प्रामुख्य इति । तद्यथापि सूर्योपनिषदो देवा इति । उपांशुप्रयोग उपनिषत्प्रयोग [तिब् । १७४ ] इति । यदि प्रतिविशेषो नास्ति किमर्थं हेतूनां प्रत्ययानां च पृथग्निर्देशः । अन्येनार्थविशेषेण हेतुनिर्देशोऽन्येन प्रत्ययनिर्देशः । हेतुनिर्देशे हि अविघ्नभावसहभूत्वसदृशत्वादिरर्थविशेष उक्तः । प्रत्ययनिर्देशे तु हेतुसमनन्तरत्वादिभिरपरोऽर्थविशेष उक्त इति । अथ कतमस्मिन् सूत्रे षड्ढेतव उक्ताः । सर्वो ह्यभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानमिति । अंतर्हितं तत्सूत्रमिति वैभाषिकाः । तथा हि एकोत्तरिकागम आ शताद्धर्मनिर्देश आसीत् । इदानीं त्वा दशकाद्दृश्यंत इति कथयन्ति । अपि तु संति प्रतिनियतहेतुवाचकानि सूत्राणि । तान्युदाहरिष्यामः । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति कारणहेतुः । जननाविघ्नभावेन ह्येष व्यवस्थाप्यते । इमानि त्रीणि मार्गांगानि सम्यग्दृष्टिमनुपरिवर्तन्ते । तैः सह जाता वेदना संज्ञा चेतना चेति सहभूहेतुः । अन्योन्यानुपरिवर्तनैककृत्यार्थेन ह्येष व्यवस्थाप्यते । समन्वागतोऽयं पुद्गलः कुशलैरपि धर्मैरकुशलैरपि यावदस्ति चास्याणुसहगतं कुशलमूलमसमुच्छिन्नं यतोऽस्य कुशलमूलादन्यत्कुशलमूलमुत्पत्स्यते (अभिधर्मकोषव्याख्या १८९) । एवमयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यतीति सभागहेतुः । एष ह्यतीतप्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्तनार्थेन व्यवस्थाप्यते । इयमुच्यते दर्शनमूलिका श्रद्धावेत्यज्ञानसंप्रयुक्ता । यद्विजानाति । तत्[तिब् । १७५ ] प्रजानातीति संप्रयुक्तकहेतुः । एकालंबनकृत्यार्थेन ह्येष व्यवस्थाप्यते । मिथ्यादृष्टेः पुरुषपुद्गलस्य यच्च कायकर्म तद्दृष्टेर्यच्च वाक्कर्म या चेतना यः प्रणिधिः ये च संस्कारास्तदन्वयाः । सर्वेऽप्येते धर्मा अनिष्टत्वाय संवर्तन्तेऽकान्तत्वायाप्रियत्वायामनआपत्वाय । तत्कस्य हेतोः । दृष्टिर्ह्यस्य पापिका यदुत मिथ्यादृष्टिरिति सर्वत्रगहेतुः । एष हि सभागविसभागक्लिष्टधर्मप्रबंधजनकार्थेन व्यवस्थाप्यते । इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं प्रतिसंवेदयन्ते । संचेतनीयस्य कर्मणः कृतस्योपचितस्य विपाक इति विपाकहेतुः । एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते । इत्यत एते षड्ढेतवः सूत्रत एव प्रसिद्धा इति षड्विधो हेतुरिष्यते वैभाषिकैरित्यभिप्रायः । (इइ ।५१ ) स्वतोऽन्य इति आत्मनोऽन्य इत्यर्थः । स्वात्मनि वृत्तिविरोधात्स्वात्मा न हेतुः । सर्वधर्माः संस्कृतासंस्कृताः कारणहेतुरिति । कारणमेव हेतुः कारणहेतुः । यो हेतुर्विशेषसंज्ञया नोच्यते सामान्यं हेतुभावं परिगृह्योच्यते । स कारणहेतुः । अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च । तस्य तद्विशेषणं भवति । यथा रूपायतनमुक्तमिति । [तिब् । १७५ ] उत्पादं प्रत्यविघ्नभावावस्थानादिति । यस्मादुत्पादं प्रत्युत्पत्तिमतां स्वतोऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते । तस्मात्कारणहेतुरित्युच्यते । ननु च येऽस्याजानत इति विस्तरः । ज्ञानं चेन्नोदयन्त्येते । उदपत्स्यन्त आस्रवास्त इति विस्तरो लृङ्यर्थः । तेनाह । अस्याजानतः अनुत्पन्नदर्शनभावनामार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादय आस्रवा उदपत्स्यंत । जानत उत्पन्नदर्शनदर्शनभावनामार्गस्य पुद्गलस्यास्य तद्वध्यास्ते रागादयो नोत्पद्यन्ते । ततः किमित्याह । ज्ञानमेषां विघ्नमुत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतं । सूर्यप्रभा च ज्योतिषां दर्शनस्य विघ्नमुत्पत्तौ करोतीत्यधिकृतं । एवं सति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवंति । यस्मादास्रवोत्पत्तौ न ज्ञानं कारणहेतुः । ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा । एवं हि वक्तव्यं स्यात् । आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः । (अभिधर्मकोषव्याख्या १९०) ज्योतिर्दर्शनोत्पत्तौ च स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुरिति । उत्पद्यमानस्याविघ्नभावावस्थानादिति । समग्रेषु हेतुप्रत्ययेषु अनन्तरभावी धर्म उत्पद्यमान उच्यते । तस्योत्पद्यमानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठंते । न सर्वस्येत्यवगंतव्यं । ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवंति । प्राप्त्याद्यभावेन प्रत्ययसामग्र्यभावात् । ज्योतिर्दर्शनमपि प्रत्ययवैकल्यादेव [तिब् । १७६ ] नोत्पद्यमानमिति योज्यं । अतस्तदवस्थमिदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवंतीति । तद्यथानुपद्रोतारं भोजकमिति विस्तरः । अनुपद्रवकरं ग्रामपतिमभिसंधाय मनुष्या ब्रूयुः । स्वामिना स्मः सुखिता इति । कस्मात्त एवं वक्तारो भवन्ति । यस्मादसावुपद्रवकरणे समर्थ उपद्रवं न करोति । तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च । किं । कथं हेतुभावः सर्वोत्पत्तौ । नारकादीनां च नारकतिर्यग्योन्यादिकानामारूप्यस्कंधोत्पत्तौ कथं हेतुभावः । नारकादिग्रहणं मनुष्यादीनां कदाचिद्भवेतुपदेशादिनेत्यभिप्रायः । असंतोऽपि हि एव इति । असंतोऽपि ह्येते निर्वाणादयस्तथैव । यथा संतो विद्यमाना विघ्नं कर्तुमसमर्थाः स्युः । अतोऽसतां सतां चैषां निर्वाणादीनां विघ्नकरणे निर्विशिष्टत्वं । असत्तुल्यास्त इत्यर्थः । असमर्थेऽपीति विस्तरः । उपद्रवं कर्तुमसमर्थेऽपि भोजके ग्रामीणास्तथा वक्तारो भवन्ति । स्वामिना स्मः सुखिता इति । स एवात्र दृष्टान्तो यः प्राक्तनः । अतोऽनेनैव दृष्टांतेन विघ्नयितुमसमर्थानामपि निर्वाणादीनामविघ्नभावावस्थानात्कारणहेतुभावः सिद्धः । कस्मात्पुनरसत्तुल्यानां निर्वाणादीनां कारणहेतुत्वम् [तिब् । १७६ ] इष्यते । न पुनरसतां शशविषाणादीनां । असद्दृष्टांताभावात् । न ह्यसन्तं भोजकमधिकृत्य ग्रामीणा भवंति वक्तारः । स्वामिना स्मः सुखिता इति । न वा शशविषाणेन स्मः सुखिता इति । अचोद्यमेतत् । सामान्येन एव निर्देशः इति । यश्च प्रधानः कारणहेतुर्यश्चाप्रधानः सर्वमधिकृत्योक्तं । स्वतोऽन्ये कारणहेतुर् इति । यो हि प्रधानो जनकः । स कारणहेतुः । स सुतरामविघ्नभावेनावतिष्ठते न केवलमितरः । आहारः शरीरस्योत्पादनेऽपि समर्थ इत्यधिकृतं । आहारसमुदयात्कायसमुदय इति वचनात् । रसादिपरिणामयोगात् । बीजादयोऽ ंकुरादीनामिति । बीजांकुरनालगण्डप्रसवादीनामुत्पादने समर्था इत्येवं । यस्त्वेवं चोदयतीति विस्तरः । कारणे सति कार्येण भवितव्यमिति मत्वा चोदयति । कस्मान्न सर्वस्योत्पादो युगपद्भवति । यथा च प्राणातिपातकारकः प्राणातिपातभाग्भवति । तथा सर्वेऽपि कस्मान्न तद्भाजो भवंतीति । (अभिधर्मकोषव्याख्या १९१) न कारकभावेनेति । न मुख्यवृत्त्यास्य कारणत्वमिति दर्शयति । तेन सर्वस्य तावद्युगपदुत्पादो न प्राप्नोति । प्रत्ययसामग्र्यभावेनानुत्पाद्यमानत्वात् । प्राणातिपातयोगश्च न भवत्यकारकत्वात् । यस्तु कारकः । स प्राणातिपातभागेव भवति । मनोविज्ञानमुत्पद्यते कुशलाकुशलमिति । कुशलं मनोविज्ञनमिति निर्वाणालंबनत्वात् । निर्वाणालंबनात्[तिब् । १७७ ] कुशलादकुशलाद्वा मनोविज्ञानमुत्पद्यते । ततश्चक्षुर्विज्ञानमिति । एवं परंपरया तस्यापि निर्वाणस्य प्रत्ययीभावादस्ति सामर्थ्यं । क्व । चक्षुर्विज्ञान इत्यधिकृतं । एवमन्यस्यापि प्रतिपत्तव्यमिति । नारकादीनामप्यारूप्यस्कंधोत्पत्तौ सामर्थ्यं । कथम् । अमी बत नारकप्रेतादयः परमदुःखिता इति नारकाद्यालंबनं मनोविज्ञानं कुशलमुत्पद्यते । यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगातारूप्यसमापत्तिरुपपत्तिश्चोपयद्यत । इति । (इइ ।५१ -द्) सहभूर्ये मिथःफला इति । हेतुरिति वर्तते । सहभूर्हेतुस्ते धर्मा भवंति । ये धर्मा मिथःफला ये परस्परफला इत्यर्थः । सहभूहेतुः सहभुव इति नोक्तं । कस्मात् । संति हि धर्माः केचित्सहभुवो न तु सहभूहेतुः । तद्यथा नीलाद्युपादायरूपं भूतैः सहभूर्भवति । न चान्योन्यं सहभूहेतुः । अतो मिथःफला इत्यर्थपरिग्रहः । इदं च सावशेषं लक्षणं । अतो वक्ष्यति । विनापि चान्योन्यफलत्वेन धर्मोऽनुलक्षणानां सबभूहेतुः । न तानि तस्येत्युपसंख्यातव्यमिति । उपसंख्यानकरणं च महाशास्त्रताप्रदर्शनार्थं । सोपसंख्यानं हि व्याकरणादि महाशास्त्रं दृश्यते । भूतवद् इति । तद्यथार्थे वतिप्रत्ययः । एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगमिति । [तिब् । १७७ ] यस्मात्संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः । सोऽपि तेषाम् । अतो यथायोगं यथासंभवं सर्वं संस्कृतं सहभूहेतुः संस्कृतस्य लक्षणवत्त्वात् । लक्ष्यलक्षयोश्च सहभूहेतुत्वात् । न तु सर्वं सर्वस्य । अन्यलक्षणैरसहभूहेतुत्वादिति यथायोगग्रहणं । (इइ ।५२ -च्) तेषां च ये जात्यादयश्चित्तस्य चेति । तेषां च चित्तसंप्रयुक्तानां चेतनादीनां ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश्चत्वारो धर्माश्चित्तानुपरिवर्तिन उच्यन्ते । (अभिधर्मकोषव्याख्या १९२) (इइ ।५२ ) कालफलादिशुभतादिभिर् इति । कालेन च फलादिभिश्च शुभतादिभिश्चेति कालफलादिसुभतादिभिः । कालतस्तावदिति विस्तरः । चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरोधाश्च । तद्भावः । तयैकोत्पादस्थितिनिरोधतयेति । एकमध्वानं पतिता एकाध्वपतिताः । तद्भावः । तेनैकाध्वपतितत्वेन चतुर्थेनेति । कालतश्चित्तमनुपरिवर्तन्ते । एकफलतयैकविपाकतयैकनिष्यंदतया च चित्तमनुपरिवर्तन्ते । फलमिह पुरुषकारफलं विसंयोगफलं च । विपाकफलनिष्यंदयोः पृथग्गृहीतत्वात् । अधिपतिफलं तु सर्वसाधारणत्वात् । न गण्यते । अयं चैकशब्दः संख्याने साधारणे वा एकफलतयेत्यादि [तिब् । १७८ ] । पूर्वकस्त्वेकशब्दः सहार्थे चित्तेन सहोत्पादस्थितिनिरोधतयेत्यर्थः । न ह्यत्र संख्यानार्थः संभवति । न हि यश्चित्तस्योत्पादः । स एव चित्तानुपरिवर्तिनां । यो वा तेषां । स चित्तस्येति । एवं दशभिः कारणैरिति । कालतश्चतुर्भिरेकोत्पादतयैकस्थितितयैकनिरोधतयैकाध्वपतितत्वेन चेति । ननु चैकोत्पादस्थितिनिरोधतयेति एतेनैव एकाध्वपतितमुक्तं । न सर्वमुक्तं । अनुत्पत्तिकधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन एकाध्वपतिता भवंति । नैकोत्पादनिरोधा इति । तस्मादेकाध्वपतितत्वं चतुर्थं कारणमुच्यते । एकफलविपाकनिष्यंदतयेति त्रिभिः । कुशलाकुशलाव्याकृततया चेति पुनस्त्रिभिरिति दशभिः । पर्यायवृत्तिं जातिं वा प्रत्येवमुक्तं दशभिरिति । न ह्येकत्र चित्ते दश कारणानि भवंति । न हि कुशले चेतसि अकुशलाव्याकृते कारणे भवतः । न चाकुशलाव्याकृते चित्ते अनुत्पत्तिधर्मिणि । अव्याकृते चित्ते अनुत्पत्तिधर्मिणि एकाध्वपतितत्वेन एकफलनिष्यंदताभ्यामव्याकृतत्वेन चेति चतुर्भिः । उत्पत्तिधर्मिणि त्वेभिरेव चतुर्भिरेकोत्पादस्थितिनिरोधताभिश्चेति सप्तभिः । अनास्रवेऽप्येवं । अव्याकृततां तु केवलमपनीय कुशलता [तिब् । १७८ ] प्रक्षेप्तव्या । अकुशले तु कुशलसास्रवे चानुत्पत्तिकधर्मिणि अकुशलतया कुशलतया च यथावस्तु एकाध्वपतितत्वेन एकफलविपाकनिष्यन्दताभिस्चेति पंचभिः । उत्पत्तिधर्मिणि तु तस्मिन्नेभिरेव पंचभिरेकोत्पादस्थितिनिरोधताभिश्चेत्यष्टाभिः । सर्वाल्पं चित्तमिति । सर्वेभ्यो यदल्पपरिवारं चित्तं । तत्सर्वाल्पमित्युच्यते । तत्पुनः कतमत् । द्वितीयध्यानात्प्रभृति ऊर्ध्वमनिवृताव्याकृतं चित्तं । तत्र वितर्कविचारौ न स्तः । न चापि कुशलादिमहाभूमिकाः । केवलमहाभूमिका एव दश भवन्ति । तल्लक्षणानामिति । दशमहाभूमिकलक्षणानां । न तदनुलक्षणानां विप्रकृष्टत्वात् । स्वानुलक्षणानां तु भवति (अभिधर्मकोषव्याख्या १९३) संनिकृष्टत्वात् । अत आह । अष्टानां च स्वलक्षणानुलक्षणानामिति । स्वान्यनुलक्षणानि स्थापयित्वेति । लक्षणेषु अनुलक्षणानां व्यापारः । न विशिष्ते च चित्ते । न्यूनानि तानि । राजायते हि चित्तं लक्षणानुलक्षणानाम् । अतस्चित्तमनुलक्षणानां सहभूहेतुः । न तु तानि चित्तस्य । लक्षणानां तु चित्तेऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर्भवन्ति । चतुर्दशेत्यपर इति । यथानुलक्षणानां नास्ति धर्मे व्यापारः । किं तर्हि । धर्मस्य लक्षणेषु । अतो न तेषां हेतुभावो धर्म इष्यते । तथा संप्रयुक्तेष्वेव तल्लक्षणानां व्यापारः । [तिब् । १७९ ] न चित्त इति न तानि चित्तस्य सहभूहेतुः । चित्तं तु तेषां राजकल्पमिति सहभूहेतुर्भवतीत्यपरेषामभिप्रायः । प्रकरणग्रन्थो ह्येवं विरुध्येत दशानां महाभूमिकानां यानि चत्वारिंशल्लक्षणानि । तानि यदि चित्तस्य सहभूहेतुर्नेष्येरन् । यस्मात्प्रकरणेषूक्तं । चत्वार्यार्यसत्यानि दुःखसत्यं यावन्मार्गसत्यं । एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर्हेतुः । कति सत्कायदृष्टेर्हेतुर्न सक्त्कायदृष्टिहेतुकानि । कति सत्कायदृष्टिहेतुकानि सत्कायदृष्टेश्च हेतुः । कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर्हेतुः इति प्रश्ने कृते विसर्जनं करोति । द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर्हेतुः । निरोधसत्यं मार्गसत्यं च । द्वयोर्भेदः । दुःखसमुदयसत्ययोर्विभंगः । कथमिति । दुःखसत्यं स्यात्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । स्यात्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः । स्यान्नैव सत्कायदृष्टिहेतुकं न सत्कायडृष्टेर्हेतुरिति त्रिकोटिकं । द्वितीया कोटिर्नास्ति । तत्र सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्याननुशयांस्तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा । [तिब् । १७९ ] अतीतप्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्रगाननुशयान् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा । अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वा । सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं । सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुर्यदेतत्स्थापितमिति । नैव सत्कायहेतुकं न सत्कायदृष्टेर्हेतुरक्लिष्टं दुःखसत्यं । यथा दुःखसत्यमेवं समुदयसत्यमिति प्रकरणग्रन्थः । तस्यार्थं विवृण्महे । येऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्ट्यादयः । ते स्थापिताः । तैर्दशभिरनुशयैः संप्रयुक्तं दुःखसत्यं वेदनादिकं स्थापितं । किमत्रास्थापितं । एत एवानागता दशानुशयास्तत्संप्रयुक्तं च वेदनादिकं दुःखसत्यं वर्जयित्वानागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं । तद्धि (अभिधर्मकोषव्याख्या १९४) स्थापयिष्यते । अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेति वचनात् । तत्प्राप्तिजात्यादयश्चास्थापिता वर्जयित्वा सत्कायदृष्टेस्तत्संप्रयुक्तानां [तिब् । १८० ] च धर्माणां जात्यादीन् । ते हि स्थापयिष्यन्ते । सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वेति वचनात् । तदेवं तावदनागतोऽनुशयस्तत्संप्रयुक्तं च स्थापितादन्यत् । तदन्यत्क्लिष्टमित्युच्यते सत्कायदृष्टिहेतुकम् । सत्कायदृष्टिहेतुरस्येति सत्कायदृष्टिहेतुकं । सभागहेतुना सर्वत्रगहेतुना चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात् । न तु सत्कायदृष्टेर्हेतुः न ह्यनागतो धर्मः सभागहेतुः सर्वत्रगहेतुर्वा व्यवस्थाप्यते । न च सहभूहेतुः संप्रयुक्तकहेतुर्वात्र संभवति । न हि सत्कायदृष्टिः सत्कायदृष्ट्या सह भवति संप्रयुज्यते वा । एकस्मिं कलापे द्वितीयसत्कायदृष्ट्यभावात् । न चाप्यन्तग्राहदृष्ट्यादिभिः सह भवति संप्रयुज्यते वा । पृथक्कलापत्वात् । विप्रयुक्तास्तेषामतीतप्रत्युत्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश्चास्थापिताः । ते स्थापितकादन्ये क्लिष्टाश्च । तेऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुका । न तु ते सत्कायदृष्टेर्हेतुः । कस्मात् । प्राप्तयस्तावद्वृक्षप्रपाटिकावत्स्वसर्वत्रगेभ्यो बहिरवस्थितत्वान्न सर्वत्रगा व्यवस्थाप्यन्ते । सर्वत्रगत्वाभावाच्च [तिब् । १८० ] न सत्कायदृष्टेः सर्वत्रगहेतुः । सर्वत्रगजात्यादयोऽप्य्यद्यपि सर्वत्रगा इष्टाः । प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगा इति सिद्धान्तवचनात् । न तु ते चित्तचैत्तवत्पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः । स्वलक्ष्यव्यापारपरत्वेन अप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगपुरुषकाराभावात् । सर्वत्रगव्यवस्थानं तु तेषां जात्यादीनां स्वसंतानसर्वत्रगहेतुत्वात् । तस्मान्न ते सत्कायदृष्टेर्हेतुरिति शास्त्रार्थो लक्ष्यते । सभागहेतुस्तर्हि कस्मान्न भवति । सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि । यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः । स तस्य सभागहेतुः । इदमेव च ज्ञापकं यथेष्टं सभागहेतुव्यवस्थेति । विभाषायामप्येवमुक्तं । चक्षुश्च चक्षुषः सभागहेतुर्देवदत्तचक्षुषो देवदत्तचक्षुः सभागहेतुः । दक्षिणं दक्षिणस्य वामं वामस्य यावच्चक्षुर्द्रव्यं चक्षुर्द्रव्यान्तरस्य । बाह्येष्वपि यवो यवस्य शालिः शालेरिति । यदि हि सर्वचक्षुः सर्वस्य चक्षुषः सभागहेतुरिष्येताव्याकृतत्वं तुल्यमिति कृत्वा नैवं विशेषणमुच्येत । तस्मान्न ते सत्कायदृष्टेः सभागहेतुरित्यवगन्तव्यं । अपरे त्वाहुः । सावशेषमेतद्भाष्यं । तस्मात्[तिब् । १८१ ] सजात्यादिकास्तेऽनुशयास्तत्संप्रयुक्ताश्च धर्माः (अभिधर्मकोषव्याख्या १९५) स्थापिता वेदितव्या । ये हि धर्मस्य तत्संप्रयुक्तानां च जात्यादयः सहभूहेतुर्भवन्ति । तैः सार्धं ते धर्माः पूर्वोत्पन्नाः सर्वत्रगहेतुः सभागहेतुर्वा भवन्तो भवन्ति । प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तऽपि सर्वगा इति सिद्धान्तात् । अत एवोक्तं । सत्कायसंप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वेति । तस्माज्जात्यादयोऽपि केचित्स्थापिताः । अतोऽन्यदस्थापितमित्यवगन्तव्यं । युक्तिरिह द्रष्टव्या । यतो युक्तिः । ततोऽवगन्तव्यं । समुदयदर्शनप्रहातव्या अपि ये सर्वत्रगा अतीतप्रत्युत्पन्नास्तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं । तत्स्थापितं । किमन्यत्समुदयदर्शनप्रहातव्यमस्थापितं । ये सर्वत्रगा अनागतास्तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं । तदस्थापितं । येऽप्यसर्वत्रगा रागादयस्त्रैयध्विका अपि । याश्च तेषां सर्वेषां प्राप्तयः । न ते स्थापिताः । जात्यादयस्त्वेकस्मिं पक्षे नैव स्थापिताः । पक्षान्तरे तु केचित्स्थापिताः । केचिन्न स्थापिताः । तदेतत्सर्वमस्थापितं समुदयदर्शनप्रहातव्यं [तिब् । १८१ ] सर्वत्रगहेतुना सत्कायदृष्टिहेतुकं भवति । पूर्वोत्पन्नसत्कायदृष्टिहेतुकत्वात् । न तु सत्कायदृष्टेर्हेतुः । सर्वत्रगाणां तत्सहभुवां चानागतत्वेनासर्वत्रगहेतुत्वात् । असर्वत्रगाणां च रागादीनां तत्सहभुवां च वेदनादीनां जात्यादीनां चैकस्मिन् पक्षे सर्वप्राप्तीनां चासर्वत्रगत्वात् । निरोधमार्गदर्शनप्रहातव्या भावनाप्रहातव्याश्च क्लिष्टा अनुशयतत्संप्रयुक्ततत्समुत्थजात्यादिस्वभावा अस्थापिताः । ते सर्वत्रगहेतुना सत्कायदृष्टिहेतुकाः । न तु ते सत्कायदृष्टेर्हेतुः । सर्वत्रगहेतुत्वासंभवादितरहेत्वयोगाच्च । सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुर्यदेतत्स्थापितमिति । येऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास्तत्संप्रयुक्तं च दुःखसत्यं यच्च पक्षान्तरे जात्यादिकं । तत्सभागहेतुना सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकं । ये च सत्कायदृष्टिजात्यादयस्तत्संप्रयुक्तजात्यादयश्च । ते सहभूहेतुना पूर्वोक्ताभ्यां च हेतुभ्यां तद्धेतुकाः । ये पुनः सत्कायदृष्टिसंप्रयुक्ताः । ते संप्रयुक्तहेतुना च पूर्वोक्तैश्च हेतुभिस्तद्धेतुकाः । सत्कायदृष्टेश्च तथैव हेतुः । येऽप्यतीतप्रत्युत्पन्नाः समुदयदर्शनप्रहातव्याः सर्वत्रगास्[तिब् । १८२ ] तत्सहभुवश्च वेदनादयो जात्यादयश्च पक्षान्तरे । ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः । सत्कायदृष्टेश्च हेतुः । पूर्वोत्पन्ना हि सत्कायदृष्टिस्तेषां हेतुः । ते च पूर्वोत्पन्नाः सत्कायदृष्टेरिति । असंक्लिष्टं तु दुःखसत्यं कुशलमनिवृताव्याकृतं च न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर्हेतुः । पंचविधहेतुत्वसम्भवात् । जनको (अभिधर्मकोषव्याख्या १९६) ह्यत्र हेतुरधिक्रियते । न कारणहेतुः । साधारणत्वात् । विपाकहेतोश्चेहायोगः । सत्कायदृष्टेर्निवृताव्याकृतत्वेनाविपाकत्वात् । तत्र यदेतदुक्तं सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वेति तद्विरुध्येत । यदि हि सत्कायदृष्तिसंप्रयुक्तधर्मजात्यादयो न सहभूहेतुर्भवेयुः । न ते स्थाप्येरन् । ये हि स्थापिताः । ते सत्कायदृष्टिहेतुकाः । सत्कायदृष्टेश्च हेतुरिति । ये तर्हि तत्संप्रयुक्तानामित्येतन्न पठन्ति । तेषां कथं प्रकरणग्रन्थो विरुध्येतेत्यध्याहार्यं । ते हि सत्कायदृष्टेर्जातिं जरां स्थितिमनित्यतां च स्थापयित्वेत्येवं पठन्ति । तत्संप्रयुक्तेष्वेव तल्लक्षणानि व्याप्रियन्ते । न सत्कायदृष्टौ । [तिब् । १८२ ] अतस्तानि तस्या न सहभूहेतुरिति तेषामेवंवादिनामभिप्रायः । तैरप्येतत्पठितव्यमिति । एवमपाठे दोष इत्यतस्तैरेतत्परं पठितव्यं । तत्संप्रयुक्तानां चेति । तत्संप्रयुक्ता हि सत्कायदृष्टेरात्मकल्पा एकालम्बनकृत्याद्यर्थत्वात् । तस्माद्यथा तेषु तत्संप्रयुक्तेष्वेतानि लक्षणानि सहभूहेतुः । तथा सत्कायदृष्टाव् अपीति वैभाषिकाभिप्रायः । अर्थतो वैवं बोद्धव्यमिति । सत्कायदृष्टिग्रहणेन सत्कायदृष्टिसंप्रयुक्तानामपि ग्रहणमधिकारानुवृत्तेर्वा तैरेवं बोद्धव्यं । तत्संप्रयुक्तानां चेति । काश्मीरा न बहिर्देशका इति दर्शयति । सहभ्वपि तदिति । चैत्तादि । चित्तस्य हि चैत्तास्तानि च लक्षणानि सहभूहेतुः सहभूनि च तानि भवन्ति । धर्मस्यानुलक्षणानीति विस्तरः । धर्मस्य जातिजात्यादीनि सहभूनि । न सहभूहेतुना हेतुर्विप्रकृष्टत्वात् । जात्यादिषु हि तेषां व्यापारो न धर्मे । तानि चान्योन्यं तानि चानुलक्षणानि अन्योन्यं सहभूनि जात्यादिषु व्यापारात् । न सहभूहेतुना हेतुः । धर्मस्तु तेषां सहभूहेतुर्भवति । प्राधान्यात् । स हि राजेव यात्रायां सभृत्यः तद्भृत्यवर्गं सर्वं स्वकलापमाकर्षन्निव प्रवर्तते । चित्तानुपरिवर्त्यनुलक्षनानि चेति । चित्तानुपरिवर्तिनां चैत्तध्यानानास्रवसंवराणाम् [तिब् । १८३ ] तेषां च लक्षणानामनुलक्षणानि च तथैव चित्तस्य सहभूनि । न तु सहभूहेतुना हेतुः । एवशब्दोऽर्थप्रदर्शनार्थः । तानि चान्योन्यमनुपरिवर्त्यनुलक्षणानि सहभूनि । न तु सहभूहेतुना हेतुः । सप्रतिघं चोपादायरूपमन्योन्यमष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभूः । न तु सहभूहेतुना हेतुः । सप्रतिघग्रहणमप्रतिघनिरासार्थं । अप्रतिघं हि ध्यानानास्रवं संवररूपं सप्तविधविज्ञप्तिस्वभावं परस्परं सहभूः । सहभूहेतुना च हेतुरिति । सर्वं च भूतैरिति । सप्रतिघं चाप्रतिघं चोपादायरूपं यथास्वभूतैः सहभूः । न तु सहभूहेतुना हेतुः । प्राप्तयश्च सहजाः (अभिधर्मकोषव्याख्या १९७) प्राप्तिमतो धर्मस्य सहोत्पादेऽपि न सहभूहेतुः पूर्वंपश्चात्कालजात्प्राप्तीनां । असहभूत्वादेव सहभूहेतुत्वाप्रसंग इति । सहज इति विशेषणं । कस्मादित्याह । अनेकफलविपाकनिष्यन्दत्वादिति । यस्मात्तासां प्राप्तिमता सह नैकं फलं पुरुषकारफलं वृक्षप्रपाटिकावत्पृथक्स्रोतत्वात् । नाप्येकं विपाकफलं । नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च इति वचनात् । [तिब् । १८३ ] न चाप्येकनिष्यन्दफलं प्राप्तीनां हि प्रातय एव निष्यन्दफलं पृथक्संतानत्वात् । चित्तानुपरिवर्तिनामेवैकं फलं विपाकनिष्यन्दफलं चेष्यते । न प्राप्तीनां । न ताश्चित्तैः सहचरिष्णवः सहचरणशीलाः । सर्वमप्येतत्स्यादिति । यत्तावत्सहभूहेतुना हेतुरिति विस्तरेण यदुक्तं । बीजादीनामिति । आदिशब्देनांकुरनालकाण्डादीनां ग्रहणं । एष न्यायो न दृष्ट इति । सहोत्पन्नयोर्हेतुफलभावलक्षणो न्यायो न दृष्टः । पूर्वं हि बीजं पश्चादंकुरः । पूर्वमभिघातः पश्चाच्छब्द इति । तद्यथा प्रदीपप्रभयोरंकुरछाययोश्च । किं । हेतुफलभाव इति वर्तते । प्रदीपः सप्रभ एवोत्पद्यते । न निष्प्रभः । अंकुरस्यातपे उत्पद्यमानस्यैव छाया भवति । अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर्भवति छायायाश्चांकुरः । तद्वत् । संप्रधार्यं तावदिति विस्तरः । असिद्धो दृष्टान्त इति परस्याभिप्रायः । यस्मात्पूर्वोत्पन्नैव वर्तिस्नेहादिका सामग्री सप्रभस्य प्रदीपस्योत्पत्तौ हेतुः । प्रदीपस्य प्रभायाश्च सैव सामग्री हेतुः । न तु प्रदीपः प्रभाया हेतुरिष्यते । एवं सच्छायस्यांकुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या । नियमत इति । यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया । स हेतुः । इतरो हेतुमान् कार्यधर्म [तिब् । १८४ ] इत्यर्थः । सहभुवां च धर्माणां । तद्यथा भूतानां चतुर्णां चित्तचैत्तानुपरिवर्तिनां लक्ष्यलक्षणानां चैकस्य भावे सर्वेषां भाव एकस्य चाभावे सर्वेषामभाव इति युक्तो हेतुफलभावः । स्यात्तावत्सहोत्पन्नानामिति विस्तरः । सहोत्पन्नानां हेतुफलभाव इष्यते । तद्यथा चक्षुः सहोत्पन्नमपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर्भवति । परस्परं तु कथं । न हि चक्षुर्विज्ञानं तस्य चक्षुषो हेतुर्भवतीति । आह । अत एव कारणाद्भावाभावयोस्तद्वत्त्वादित्यर्थः । चैत्तादीनां भावे चित्तस्य भावादभावे चाभावात्तेऽपि चित्तस्य हेतवो भवन्तीति । एवं तर्हीति विस्तरः । यद्येकस्य भावे सर्वेषां भावः सर्वेषां चाभाव एकस्येत्यतोऽन्योन्यं हेतुफलभावः । (अभिधर्मकोषव्याख्या १९८) कामेऽष्टद्रव्यक इत्यविनाभाविनोऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपादायरूपस्यान्योन्यमेष प्रसंगः । अन्योन्यसहभूहेतुप्रसंग इत्यर्थः । भूतैश्च सार्धमुपादायरूपस्य सहभूहेतुत्वप्रसंगः । चित्तानुलक्षणादीनां चेति । आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च । चित्तादिभिरिति । अत्राप्यादिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च । चित्तादिभिरिति । अत्राप्यादिशब्देन चित्तानुपरिवर्तिभिश्चान्योन्यहेतुप्रसंगः । तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः [तिब् । १८४ ] प्राप्तिमतामेष प्रसंग इति वक्तव्यं । त्रिदण्डान्योन्यबलावस्थानवदिति । अन्योन्यबलेनावस्थानमन्योन्यबलावस्थानं । त्रिदण्दस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानं । तद्वत् । यथा त्रिदन्डस्य दण्डत्रयस्यान्योन्यबलेनावस्थानं । एवं सहभुवां चित्तचैत्तादीनां हेतुफलभावः सिध्यति । मीमांस्यं तावदेतदिति विस्तरः । परीक्ष्यमेतत् । न सिद्धोऽयं दृष्टान्त इत्यभिप्रायः । सहोत्पन्नास्त्रयो दण्डास्तेषां बलं । तेन सहोत्पन्नबलेन किमेषां दण्डानामवस्थानं । आहोस्वित्पूर्वसामग्रीवशात्तथोत्पादः । आहोस्विद्यथैवैषामवस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात्सहभावः । तथैव पश्चादपि परस्पराश्रितानामुत्पाद इति । अन्यदपि च तत्र किंचिद्भवति नान्योन्यबलमेवेति दर्शयति । किं तदित्याह । सूत्रकं दण्डत्रयं निवेशितं । शंकुको वा कीलको वेत्यर्थः । पृथिवी वा धारिकाधस्तात् । एषामपि नामेति । एषामपि सहभुवामन्येऽपि सभागसर्वत्रगविपाककारणहेतवः सूत्रकादिस्थानीया भवन्तीति सिद्धः सहभूहेतुः । (इइ ।५३, ५४ ब्) क्लिष्टाः क्लिष्टानामिति । क्लिष्टा अकुशला निवृताव्याकृताश्च क्लिष्टत्वसामान्येन सभागहेतुत्वमेषां । तेनाकुशला अकुशलानां सभागहेतुः । निवृताव्याकृता [तिब् । १८५ ] निवृताव्याकृतानां । अकुशला निवृताव्याकृतानां । निवृताव्याकृताश्चाकुशलानां सभागहेतुरिति दर्शितं भवति, अव्याकृता अव्याकृतानामिति । अनिवृताव्याकृता अनिवृताव्याकृतानामित्यर्थः । रूपमव्याकृतमव्याकृतो रूपस्कन्धः पंचानां स्कन्धानां सभागहेतुः । चत्वारस्तु स्कन्धा वेदनादयो न रूपस्य सभागहेतुर्विशिष्टत्वात् । न हि विशिष्टो न्यूनस्य सभागहेतुरिष्यते । समविशिष्टयोर् इति वचनात् । कुशलाकुशलं तु रूपमाभिसंस्कारिकत्वात्समं विशिष्टं चेति चत्वारस्तस्य सभागहेतुर्भवन्ति । कललं कललादीनामिति । पंचगर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः पंच जातावस्थाः बालकुमारयुवमध्यवृद्धावस्था इत्येते दश दशानामवस्थानां सभागहेतुः । कललं कललान्तरस्य यावद्(अभिधर्मकोषव्याख्या १९९) वार्द्धस्य । अर्बुदमर्बुदस्य यावद्वार्द्धस्य । एवं यावद्वार्द्धं वार्द्धस्यैव । एकैकापह्रासेन एकैकापरिहारेणैकस्मिन्निकायसभागे वक्तव्यं । अन्येषु समानजातीयेषु निकायसभागेषु यदा मनुष्यजन्मनो मनुष्यजन्मैवोत्पद्यते । तदा दशाप्यवस्था दशानामप्यवस्थानां । वृद्धावस्थापि यावदवस्थान्तराणां । सा हि वृद्धावस्था [तिब् । १८५ ] क्षणान्तरे तज्जन्मवृद्धावस्थायाः । सभागहेतुः । अंत्या तु जन्मान्तरकललादीनां दशानामप्यवस्थानां सभागहेतुरित्यवगन्तव्यं । बाह्येष्वपि यवो यवस्येति विस्तरः । यवो यवस्य सभागहेतुर्न शालेः । शालिः शालेरेव न यवस्येत्यनेन तुल्येऽप्यव्याकृतत्वे स्वसंतान एव सभागहेतुत्वं । नान्यसंताने जननशक्त्यभावादिति दर्शयति । अतीतानि महाभूतानि अनागतानां महाभूतानां हेतुरधिपतिरिति । हेतुप्रत्ययोऽधिपतिप्रत्ययश्चेत्यर्थः । अयुगपद्भावान्न सहभूहेतुः । अत एवाचित्तचैत्तत्वाच्च न संप्रयुक्तकहेतुः । असर्वत्रगत्वान्न सर्वत्रगहेतुः । अव्याकृतत्वान्न विपाकहेतुः । पारिशेष्यात्सभागहेतुरेवेत्यवगम्यते । यदि सदृशाः सदृशानां सभागहेतुः । एवं पश्चादुत्पन्नोऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति । सहोत्पन्नोऽपि सहोत्पन्नस्य । अनुत्पन्नोऽप्यनुत्पन्नस्येत्यत आह । तेऽपि न सर्वे । किं तर्हि । अग्रजाः । अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः । अनागता न सभागहेतुरित्यर्थादुक्तं भवति । एवमतीतान्यतीतप्रत्युत्पन्नानामिति । पूर्वोत्पन्नान्य्[तिब् । १८६ ] अतीतानि पश्चादुत्पन्नातीतानामिति विभज्यव्याख्यं । अतीतप्रत्युत्पन्नान्यनागतानां सभागहेतुः । न तु अनागतान्यनागतानामित्युक्तम् । अतो गम्यते नास्त्यनागतः सभागहेतुरिति । न कदाचिदिति । न कदाचिन्न हेतुरित्यधिकृतं । हेतुरेवेत्यर्थः । तस्मादस्त्यनागतः सभागहेतुरित्यभिप्रायः । सहभ्विति विस्तरः । सहभूसंप्रयुक्तकविपाकहेतुष्वभिसंधिरभिप्रायः । तेन वचनं । तस्मात्सहभूसंप्रयुक्तकविपाक हेत्वभिसंधिवचनाददोषो न कदाचिन्न हेतुरिति वचने । बाहुलिको ह्येष निर्देश इष्यते । चरमामवस्थामभिसंधायेति । अन्त्यामनागतावस्थामभिप्रेत्येत्यर्थः । अध्वत्रयेऽपि हेतुर्भवतीति तस्याभिप्रायः । तस्यायमपरिहार इति विस्तरः । तस्य वादिनोऽयमपरिहारः । कस्मात् । यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चाद्भवति । न नित्यं सभागहेतुरित्यर्थः । भवीनामनागतावस्थानामेका चरमावस्था सभागहेतुत्वे नियतीभूता । तदन्या बह्व्यस्तत्रानियतीभूताः सन्ति । तत्र च सामान्येनोक्तं न हेतुरिति । एवं कृत्वायमपरिहारः । एकास्याम् (अभिधर्मकोषव्याख्या २००) अपि ह्यवस्थायां [तिब् । १८६ ] स न सभागहेतुरिति शक्यमेवं वक्तुं स्यात् । यो धर्मो यस्य धर्मस्य समनन्तर इति । समनन्तरप्रत्यय इत्यर्थः । शक्यमनया कल्पनयेति । स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो भवति । अतः शक्यं तां चरमावस्थामभिसंधायेत्यनया कल्पनया वक्तुं स्यान्न कदाचिन्न समनन्तर इति । कस्मादेवमाह । यदि स धर्मो नोत्पन्नो भवतीति । यदि स धर्मोऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्यर्थः । चरमावस्थावाद्याह । द्विमुखसंदर्शनार्थमिति विस्तरः । यथा तत्र यो धर्मो यस्य धर्मस्य हेतुः । कदाचित्स धर्मस्तस्य धर्मस्य न हेतुः । आह । न कदाचिदिति । तथेहापि कर्तव्यं । यो धर्मो यस्य धर्मस्य समनन्तरः । कदाचित्स धर्मस्तस्य धर्मस्य न समनन्तर इति । आह । न कदाचिदिति कर्तव्यं । (यदि स धर्मो नोत्पन्नो भवतीति) यथा चेह तथा तत्रेति । कथं । यो धर्मो यस्य धर्मस्य समनन्तरः । कदाचित्स धर्मस्तस्य धर्मस्य न समनन्तरः । आह । यदि स धर्मो नोत्पन्नो भवतीति । एवं तत्र कर्तव्यं । कथं । यो धर्मो यस्य धर्मस्य हेतुः । कदाचित्स धर्मस्तस्य धर्मस्य न हेतुः । आह । यदि स धर्मो नोत्पन्नो भवतीति । यदि स धर्मोऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्यर्थः । अत्राचार्य आह । एवं सति को गुण इति विस्तरः । इति द्विमुखसंदर्शनेन कश्चिद्गुणो लभ्यते । [तिब् । १८७ ] नैव ह्युत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा मुख्यवृत्त्या भवतीत्यकौशलमेवात्र शास्त्रकारस्यैवं संभाव्यते । क्वचित्सावकाशं ब्रुवतः । क्वचिन्निरवकाशं । सावकाशं तावद्यदिदमुक्तं । यो धर्मो यस्य धर्मस्य हेतुः । कदाचित्स धर्मस्तस्य धर्मस्य न हेतुः । आह । न कदाचिदिति । कथं न कदाचिन्न हेतुरित्येवमुक्त्वा पुनर्वर्णयति । चरमावस्थायां सभागहेतुरिति । निरवकाशं यदि स धर्मो नोत्पन्नो भवति न समनन्तरः । उत्पन्नस्तु समनन्तर इति । अयमत्राभिप्रायार्थ ऐकान्तिकमर्थं व्यवस्थाप्य पुनरन्यथाकरोतीति । तस्मात्पूर्वक एवैष परिहारः साधुरिति । सहभूसंप्रयुक्तकविपाकहेत्वभिसंधिवचनाददोष इति । यत्तर्हीदमुक्तमिति विस्तरः । कुत एतदायातं । अनागतो नैव सभागहेतुरित्युक्तं । तद्यदि अनागतो नैव सभागहेतुः कस्मादनागता सत्कायदृष्टिः स्थापिता । यद्धि स्थापितं । तत्सत्कायदृष्टिहेतुं सत्कायदृष्टेश्च हेतुरिति व्याख्यातं । तत्र कथमनागता सत्कायदृष्टिः सत्कायदृष्टेर्हेतुः । न तावत्सहभूहेतुः संप्रयुक्तकहेतुर्वा संभवत्यसहभूत्वात् । न विपाकहेतुरव्याकृतत्वात् । न कारणहेतुः साधारणत्वेनागण्यमानत्वात् । [तिब् । १८७ ] (अभिधर्मकोषव्याख्या २०१) पारिशेष्यात्सभागहेतुः सर्वत्रगहेतुर्वा भवतीति भवेत् । इह च सभागहेतुरेव सर्वत्रगहेतुः । अतो यद्यनागता सत्कायदृष्टिः सत्कायदृष्टेर्न सभागहेतुः कस्मादसौ तृतीयकोट्यर्थं स्थापितेति । वैभाषिक आह । अनागतसत्कायदृष्टिसंप्रयुक्तकं दुःखसत्यं स्थापयित्वेत्येवमेतद्कर्तव्यमिति । सत्कायदृष्टिसंप्रयुक्तकमेव स्थापयितव्यं । न तु सत्कायदृष्टिः । तद्धि वेदनादिकं सहभूहेतुना संप्रयुक्तकहेतुउआ वा सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः । न सभागहेतुना । विनष्टको ह्ययमनागतां सत्कायदृष्टिमिति पाठः । पश्चात्पदस्थेन तच्छब्देन सह न पत्ःितव्यः । संप्रयुक्तदुःखसत्यविशेषणार्थं तु समस्यैतत्पदद्वयं पठितव्यं । अनागतसत्कायदृष्टिसंप्रयुक्तकमिति । अर्थतो वैवं बोद्धव्यं यद्येवं न क्रियते पाठः । भाष्याक्षेपनिर्वृत्तः पाठो न तन्त्रमित्यभिप्रायः । प्रज्ञप्तिभाष्यं कथं नीयते सर्वधर्माश्चतुष्के नियता इति । हेतौ नियता यस्य धर्मस्य यो धर्मो हेतुः । स धर्मस्तस्य धर्मस्य न कदाचिन्न हेतुः । त्रिष्वपि कालेषु हेतुरित्यर्थः । एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि योज्यं । एवमाश्रये नियता यस्य धर्मस्य [तिब् । १८८ ] चक्षुर्विज्ञानादेर्यो धर्म आश्रयश्चक्षुरादिरिति योज्यं । एवमालम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आलम्बनं रूपादिरिति योज्यं । तेन धर्माणां हेतौ नियतत्वात्त्रिष्वपि कालेषु सभागहेतुर्भवतीति चोदकाभिप्रायः । सर्वहेत्वनभिसंधेरदोष इति दर्शयन् वैभाषिक आह । हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च न सभागहेतुः सर्वत्रगहेतुर्वा । अनागतावस्थायामव्यवस्थापितत्वात् । न विपाकहेतुः । अनानिंज्यस्य कर्मणह्कस्यचिद्गत्यन्तरेऽपि विपाकादानात् । फलं पुरुशकारफलमधिपतिफलं च । तयोः सहभूसंप्रयुक्तकहेत्वोः फलत्वात् । वैभासिकाणामेतन्मतम् । अनागतं विद्यमानमुत्पद्यत इति । तस्मादयं प्रसंजयति । ननु चैवं सति सभागहेतुरभूत्वा अनागतावस्थायां हेतुर्भवति वर्तमानावस्थायामिति प्राप्तं प्रसक्तमित्यर्थः । इष्यत एवावस्थां प्रति न द्रव्यमिति । इष्यत एव सभागहेतोः सभागहेतुत्वावस्था पूर्वं नासीदिदानीं भवतीति । न तु द्रव्यस्वलक्षणं पूर्वं नासीदिदानीं भवतीति । अवस्थाफलं हि सामग्र्यं न द्रव्यफलमिति । हेतुप्रत्ययसामग्र्या वर्तमानावस्थाफलं न द्रव्यं । यस्मादनागतोऽपि स धर्मो [तिब् । १८८ ] द्रव्यतोऽस्ति । न पुनः प्रत्युत्पन्न एवेति । चोदक आह । किं पुनः स्यादिति विस्तरः । वैभाषिक आह । शास्त्रे तस्य ग्रहणं स्यादिति । तस्यानागतस्य सभागहेतोः । न चास्ति ग्रहणं । न हि तत्र शास्त्रे उक्तं । अनागतानि कुशलमूलानि अनागतानां कुशलमूलानां (अभिधर्मकोषव्याख्या २०२) सभागहेतुरिति । चोदक आह । य एव हीति विस्तरः । चोदकस्यायमभिप्रायः । यद्यप्यनागतोऽस्ति सभागहेतुर्न त्वसौ फलदानग्रहणक्रियायां समर्थः । य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश्च । तस्यैव सभागहेतोः अतीतस्य वर्तमानस्य च ग्रहणात् । अदोषोऽनागतस्य सभागहेतोरग्रहणं । तस्य फलदानग्रहणक्रियायामसामर्थ्यात् । तस्मादस्त्यनागतः सभागहेतुः । अथ च शास्त्रे नोक्त इति । वैभाषिक आह । नैतदस्तीति विस्तरः । नैतद्युज्यते । निष्यन्दफलेन हि सफलः सभागहेतुः । सभागसर्वत्रगयोर्निष्यन्दः । निष्यन्दो हेतुसदृश इति वचनात् । तच्चानागतस्यायुक्तं । तन्निष्यन्दफलमयुक्तं । कस्मात् । पूर्वपश्चिमताभावात् । अनागतावस्थायामिदं पूर्वमिदं पश्चिममिति न परिच्छिद्यते विप्रकीर्णत्वात् । न चासति पूर्वापरभावे सदृशः सदृशस्य निष्यन्दो युज्यते । अथ मतम् । उत्पन्नमतीतं वर्तमानं वा अनागतस्य निष्यन्द इति । अत आह । न चोत्पन्नमनागतस्य निष्यन्दो युज्यत इति । यथातीतं [तिब् । १८९ ] वर्तमानस्य निष्यन्दो न भवति । तथानागतस्याप्युत्पन्नो न निष्यन्दो भवितुमर्हति । कस्मादित्याह । मा भूद्धेतोः पूर्वं फलमिति दोषाट् । विपाकफलस्य पूर्वं सह चायोगादिति । मा भूद्धेतोः पूर्वं फलमिति पूर्वमयोगः । सह चायोगोऽनागतावस्थायां । न हि प्रत्युत्पन्नावस्थायां सहभूहेतोरिव विपाकहेतोः सहोत्पन्नं फलमुपलभ्यते । तस्मात् । अनागते चाध्वनि पूर्वपश्चिमताभावात् । विप्रकीर्णत्वादनागतस्याध्वनो न पूर्वं विपाकहेतुः पश्चाद्विपाकफलं युज्यते । तस्माच्च सभागहेतुवद्विपाकहेतुरप्यनागतो न प्राप्नोति । वैभाषिक आह । नैतदस्ति यदुक्तं विपाकहेतुरप्येवमिति । न चान्योन्यनिष्यन्दता युक्तिमतीति । यस्य यः सभागहेतुः सदृशो धर्मः । तस्य स एव धर्मस्तदानीमेव कथं निष्यन्दो योक्ष्यते । न हि पुत्रः स्वस्यैव पितुस्तदानीमेव पिता भवतीति । न त्वेवं विपाकहेतुः । किम् । अन्योन्यहेतुफलता न पौर्वापर्येण विना संप्रसज्यते प्राप्नोति । कस्मात्भिन्नलक्षणत्वाद्धेतुफलयोः । हेतोरन्यल्लक्षणं स्वभाव इत्यर्थः । अकुशलता कुशलसास्रवता वा तस्य लक्षणं । फलस्य [तिब् । १८९ ] चान्यल्लक्षणमनिवृतव्याकृतत्वं । विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः विपाकोऽव्याकृतो धर्म (अभिधर्मकोषव्याख्या २०३) इति वचनात् । तस्मादिति विस्तरः । अवस्थाव्यवस्थित एव सभागहेतुः । अवस्थायां व्यवस्थितः । अतीतावस्थः प्रत्युत्पन्नावस्थश्च सभागहेतुर्नानागतावस्थः । लक्षणव्यवस्थितस्तु विपाकहेतुः । लक्षणेन व्यवस्थितस्त्रिष्वपि कालेषु यथोक्तलक्षण इत्यनागतोऽपि विपाकहेतुर्न वार्यते न प्रतिषिध्यते । इदमिह विचार्यते । किमनागतेऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेतुमयं हेतुरिदमिदमस्य निष्यन्दफलमिति । अतो नानागतः सभागहेतुर्व्यवस्थाप्यते । आहोस्वित्यो धर्मो यस्य धर्मस्य सभागहेतुर्भवेत् । स धर्मस्तस्य हेतुप्रत्ययवशान्निष्यन्दफलं भवेदिति । अतोऽनागतस्सभागहेतुर्न व्यवस्थाप्यते । नैतद्व्याख्यानकारैर्विचारितं । मम तु पूर्वक एवायं पक्षः प्रतिभातीति । किमेष नियम इति । किं स्वभूमिक एवेत्यवधार्यते । नान्यथाप्यस्तीत्यभिप्रायः । अन्योन्यं नवभूमिस्तु मार्ग इति । तुशब्दो विशेषणे । मार्ग इति मार्गसत्यं विवक्षितं । सास्रवान्मार्गसत्यं विशिष्यते । सास्रवो हि धर्मः स्वभूमिक एव सभागहेतुः । नान्यभूमिकः मार्गस्त्वन्यभूमिकोऽपि सभागहेतुः । इह भूमिग्रहणे सारवानास्रवग्रहणं । धातुग्रहणे तु सास्रवस्यैवेत्य्[तिब् । १९० ] अत आह । यत्सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिकोऽन्योन्यं सभागहेतुर्न सास्रव इति । कुत इत्याह । आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः । तद्भूमिकाभिस्तृष्णाभिरस्वीकृतत्वादिति । न हि कामरूपारूप्य(नवभूमिसंनिश्रयाधिगम्यत्वात्नवभूमिको न तद्भूमिसंगृहीतत्वात्) चर्यस्तृष्णाः सास्रवानिवानास्रवान् धर्मान् स्वीकुर्वन्ति । यदा तर्हि निर्वाणं मार्गं वाभिलषति कुशलोऽसौ धर्मच्छन्दः । न रागः । तस्य वर्ज्यत्वादिति वचनात् । समानजातीयस्येत्यनास्रवजातीयस्य । एवं तर्हि सर्वः सर्वस्य सभागहेतुः प्राप्नोति । अत आह । समविशिष्टयोर् इति । अन्योन्य- ग्रहणं तर्हि किमर्थं । ऊर्ध्वभूमिकाधरभूमिकयोरन्योन्यमित्येवमर्थं । ऊर्ध्वभूमिकोऽप्यधरभूमिकयोः समविशिष्टयोः सभागहेतुर्भवति । अधरभूमिकोऽप्यूर्ध्वभूमिकयोरिति । तद्यथेति विस्तरः । दुःखे धर्मज्ञानक्शान्तिस्तस्या एवानागतायाः समेति कृत्वा सभागहेतुः । विशिष्टस्य च दुःखे धर्मज्ञानस्य दुःखेऽन्ब्वयज्ञानक्षान्तेर्यावदनुत्पादज्ञानस्य (अभिधर्मकोषव्याख्या २०४) । न तु न्यूनस्य । न हि दुःखे धर्मज्ञानमनागतायाः दुःखे धर्मज्ञानक्षान्तेः सभागहेतुर्भवति । दर्शनभावनाशैक्षमार्गास्त्रिद्व्येकेषामिति । दर्शनमार्गो दर्शनमार्गान्तरस्य भावनामार्गस्याशैक्षमार्गस्य च सभागहेतुरिति त्रयाणां । भावनामार्ग भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः । न दर्शनमार्गस्येति [तिब् । १९० ] द्वयोः । अशैक्षमार्गोऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोरित्येकस्य सभागहेतुः । तत्रापीति । तत्र दर्शनमार्गादिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभावस्यैव । तिक्ष्णेन्द्रियमार्गस्तीक्ष्ण्द्रियमार्गस्यैव । न मृद्विन्द्रियमार्गस्य न्यूनत्वात् । एवं भावनामार्गोऽशैक्षमार्गश्च वक्तव्यः । तद्दर्शयन्नाह । तद्यथेति विस्तरः । एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य षण्मार्गाः सन्ति । प्रकृतितीक्ष्णेन्द्रियस्य त्रयः । तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गान्तरस्यात्मीयस्य सभागहेतुः । धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयाणां यथायोगमुत्पत्त्यनुत्पत्तिधर्माणां चेति षण्णां सभागहेतुः । श्रद्धाधिमुक्तमार्गः श्रद्धाधिमुक्तमार्गान्तरस्य दृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चापरेषामपि त्रयाणामिति चतुर्णां सभागहेतुः । समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः सभागहेतुः । न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारिधर्मानुसारिमार्गयोर्हेतुः पूर्वकालीनत्वात्दर्शनमार्गस्य । भावनामार्गस्य च विशिष्टत्वात् । एवमन्यत्रापि योज्यं । [तिब् । १९१ ] धर्मानुसारिमार्गः धर्मानुसारिमार्गान्तरस्य दृष्टिप्राप्तासमयविमुक्तमार्गयोश्चेति त्रयाणां सभागहेतुः । दृष्टिप्राप्तमार्गो दृष्टिप्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः । असमयविमुक्तमार्गोऽसमयविमुक्तमार्गान्तरस्यैवेत्येकस्य सभागहेतुः । न तु धमानुसारिमार्गः श्रद्धानुसारिमार्गस्य सभागहेतुः । धर्मानुसारिमार्गस्येन्द्रियतो विशिष्तत्वात् । नापि श्रद्धाधिमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात् । नापि समयविमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात् । समयविमुक्तमार्गस्तर्हीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः प्राप्नोति । न प्राप्नोति । अशैक्षमार्गसंगृहीतत्वात् । न हि पूर्वकालीनं फलं पश्चात्कालीनो हेतुरिति । दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभागहेतुरिन्द्रियतो न्यूनत्वात् । कथं पुनरिति विस्तरः । कथं पुनरूर्ध्वब्कूमिकस्य द्वितीयध्यानात्प्रभृति यावदाकिंचन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्षमार्गस्य वा यथायोगमधोभूमिको मार्गो विज्ञानानम्त्यायतनात्(अभिधर्मकोषव्याख्या २०५) प्रभृति यावदनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा समो वा विशिष्टो वा भवति । कथंचन भवितव्यं । हीनत्वादधराया भूमेः । [तिब् । १९१ ] इन्द्रियतो हेतूपचयतश्च । इन्द्रियतस्तावत्समो भवति विशिष्टो वा । दर्शनमार्गे श्रद्धानुसारिमार्गश्चतुर्थध्यानभूमिकोऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य समः । उभयोर्मृद्विन्द्रियत्वात् । तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः । तीक्ष्णेन्द्रियत्वात् । तथा धर्मानुसारिमार्गश्चतुर्थध्यानभूमिकोऽधरभूमिकस्य धर्मानुसारिमार्गस्य समः । एवमेतावेव श्रद्धानुसारिधर्मानुसारिमार्गौ चतुर्थध्यानभूमिकावधरभूमिकयोर्भावनाशैक्षमार्गयोः प्रत्येकं भूमीन्द्रियभेदभिन्नयोः समौ वा विशिष्टौ वेति संभवतो योज्यौ । तथा भावनामार्गे आकिंचन्यायतनभूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः । उभयोर्मृद्विन्द्रियत्वात् । तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः । तीक्ष्णेन्द्रियत्वात् । तथा तस्यैव समयविमुक्तमार्गोऽधरभूमिकः समः । उभयोर्मृद्विन्द्रियत्वात् । तस्यैवासमयविमुक्तमार्गोऽधरभूमिको विशिष्टः । तीक्ष्णेन्द्रियत्वात् । एवमशैक्षमार्गे आकिंचन्यायतनभूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं योज्यम् । अनया दिशा सर्वभूमयो योज्याः कथं हेतूपचयतः । ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा भवतीत्यत इदमुच्यते । तत्र [तिब् । १९२ ] दर्शनादिमार्गाणामिति विस्तरः । आदिग्रहणेन भावनाशैक्षमार्गोपसंग्रहः । ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेः अधोभूमिकं दुःखे धर्मज्ञानं हेतूपचयतो विशिष्टं भवति । दुःखे धर्मज्ञानादप्यूर्ध्वभूमिकादधरभूमिका दुःखेऽन्वयज्ञानक्षान्तिर्यावदूर्ध्वभूमिकान्मार्गे धर्मज्ञानादधरभूमिका मार्गेऽन्वयज्ञानक्षान्तिर्हेतूपचयतो विशिष्टा भवति । एकैकाधिकसभागहेतूपचितत्वात् । दर्शनमार्गादूर्ध्वभूमिकादधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो भवति । दर्शनमार्गो हि दर्शनमार्गहेतूपचितो भावनामार्गस्तु दर्शनभावनामार्गहेतूपचितः । ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्यामधरभूमिकोऽशैक्षमार्गो हेतूपचयतो विशिष्टो भवति । दर्शनभावनामार्गहेतूपचितत्वात् । ऊर्ध्वभूमिकस्य दर्शनमार्गस्याधोभूमिको दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया समो भवति । एवं भावनामार्गस्य भावनामार्गोऽशैक्षमार्गस्याशैक्षमार्ग इति । तदेवं कश्चिदिन्द्रियतः समो भवति हेतूपचयतो विशिष्टः सत्यप्यधरभूमिकत्वे । तद्यथा प्रथमध्यानभूमिकाच्छ्रद्धानुसारिमार्गादधरभूमिकौ श्रद्धाधिमुक्तसमयविमुक्तमार्गौ । कश्चिद्धेतूपचयतः समो भवति इन्द्रियतो विशिष्टः । तद्यथा (अभिधर्मकोषव्याख्या २०६) चतुर्थध्यानभूमिकाच्छ्रद्धानुसार्यादिमार्गादधोभूमिकधर्मानुसार्यादिमार्गः समानक्षणापेक्षया । [तिब् । १९२ ] कश्चिदिन्द्रियतो हेतूपचयतश्च विशिष्टः । तद्यथा चतुर्थध्यानभूमिकाच्छ्रद्धानुसारिमार्गादधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ । मृदुमृद्वादीनां चोत्तरोत्तरे हेतूपचिततरा इति । दर्शनमार्गवर्ज्याः । तस्मिन्मृदुमृद्वाद्यसंभवात् । तत्र मृदुमृदोः प्रकारादूर्ध्वभूमिकादधरभूमिकोऽपि मृदुमध्यो यावदधिमात्रमध्यादधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो वा भवति । एकैकाधिकप्रकारहेतूपचितत्वात् । यदुक्तं श्रद्धानुसारिमार्गः षण्णां सभागहेतुरिति कथं श्रद्धानुसारिमार्गो धर्मानुसारिमार्गस्य सभागहेतुर्भवति । न हि तयोरेकसंताने संमुखीभावोऽस्ति । तेनाह । यद्यप्येकसंताने श्रद्धाधर्मानुसारिमार्गयोरसंभवः । उत्पन्नस्त्वनागतस्य हेतुरिति । असंभवो ह्यत्रासंमुखीभावः । न त्वभावः । सन्ति हि मृद्विन्द्रियाणां मृद्विन्द्रियमार्गवदात्मीयास्तीक्ष्णेन्द्रियमार्गा अपि । दृष्टिप्राप्तसमयविमुक्तमार्गास्तु तत्संताने संमुखीभवेयुरपि यदीन्द्रियसंचारः क्रियेत । तस्मादुत्पन्नः श्रद्धानुसारिमार्गोऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां च यथायोगमनागतानामुत्पत्तिधर्माणामनुत्पत्तिधर्माणां वा समविशिष्टानां सभागहेतुरिति । आचार्यवसुमित्रस्त्वाह । [तिब् । १९३ ] उत्पन्नः श्रद्धानुसारिमार्गोऽनुत्पन्नस्य धर्मानुसारिमार्गस्य दृष्टिप्राप्तमार्गस्य वा हेतुर्यदा श्रद्धानुसार्यादय इन्द्रियाणि संचरन्तो धर्मानुसारिमार्गादीन् संमुखीकुर्वन्ति । तदयुक्तं । न हि श्रद्धानुसारीन्द्रियाणि संचरति । श्रद्धाधिमुक्तादयस्तु संचरेयुः । प्रायोगिका इति । प्रयोगेन निर्वृत्ताः प्रायोगिकाः । प्रायोगिकग्रहणमुपपत्तिप्रतिलंभिकनिरासार्थं । कामावचराः श्रुतमया इति । ये बुद्धवचनश्रुतेन निर्याताः । ते श्रुतमयाः । चिन्तामयाश्चिन्तामयानामिति । चिन्तामयानामेव न श्रुतमयानां । तयोरेव समविशिष्टयोर् इति वचनात् । भावनामयभावादिति । कामधातोरसमाहितत्वात्भावनामया न सन्ति । चिन्तामयाभावादिति । यदा हि चिन्तयितुमारभन्ते । तदैषां समाधिरेवोपतिष्ठत इति चिन्तामयाभावकारणं । तेषामपीति । श्रुतमयादीनां । मृदुमृदवः सर्वेषामिति । मृदुमृदवो मृदुमृद्वन्तराणां समानां मृदुमध्यादीनां चान्येषामष्टानां विशिष्टानामिति सर्वेषां सभागहेतुः । मृदुमध्या अष्टानां मृदुमृदुप्रकारमपास्यतेऽस्य न्यूनत्वात् । [तिब् । १७३ ] (अभिधर्मकोषव्याख्या २०७) एषा नीतिरिति । तद्यथा मृद्वधिमात्राः सप्तानां मध्यमृदवः सण्णां यावदधिमात्राधिमात्रा अधिमात्राधिमात्रान्तराणामेकरूपाणां सभागहेतुरिति । पूर्वान् पूर्वानपास्य तेषां तेषां न्यूनत्वात् । उपपत्तिप्रतिलंभिकास्तु कुशला इति । उपपत्त्या प्रतिलंभ उपपत्तिप्रतिलंभः । स एशामस्तीत्युपपत्तिप्रतिलंभिकाः । अत इनिठनाविति ठन् । सर्वे ते नव प्रकाराः परस्परं सभागहेतुः । मृदुमृदूनां यावदधिमात्राधिमात्राणामेव । अधिमात्राधिमात्रा मृदुमृदूनां यावदधिमात्राधिमात्राणां सभागहेतुः । न समविशिष्टानामेव । अनाभिसंस्कारिकत्वात् । आभिसंस्कारिकस्य हि सभागहेतोर्न्यूनं फलं नेष्यते । नानाभिसंस्कारिकस्य । क्लिष्टा अप्येवमिति । सर्वे नवप्रकाराः परस्परं सभागहेतुरप्रायत्निकत्वात् । पूर्वोत्पन्नाः सर्वे समानभूमिकानां पश्चाद्वर्तिनां सर्वेषां सभागहेतुः । नात्र समविशिष्टते अपेक्ष्येते । ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुरिति । विपाकजा विपाकाजादीनां चतुर्णां सभागहेतुः । ऐर्यापथिका ऐर्यापथिकादीनामेव त्रयाणां । व विपाकजानां । तेषामनाभिसंस्कारिकत्वेन न्यूनत्वात् । शैल्पस्थानिका द्वयोः शैल्पस्थानिकनैर्माणिकयोः । नैर्माणिका नैर्माणिकानामेव । [तिब् । १९४ ] न पूर्वेषाम् । उत्तरेषामुत्तरेषामाभिसंस्कारिकत्वात् । निर्माणचित्तमपि कामावचरं चतुर्ध्यानफलमिति । चतुर्णां ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलमिति चतुष्प्रकारं कामावचरं निर्माणचित्तं । तद्यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुरिति वर्तते । प्रथमध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः । द्वितीयध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानां । तृतीयध्यानफलं द्वयोस्तृतीयचतुर्थध्यानफलयोः । चतुर्थध्यानफलमेकस्य चतुर्थध्यानफलान्तरस्यैव सभागहेतुः । का पुनरत्र युक्तिर्ययैवं नियम इति तां युक्तिं निर्दिक्षुराह । नोत्तरध्यानफलमधरध्यानफलस्येति विस्तरः । न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत्तृतीयध्यानध्यानफलस्य कामावचरस्य निर्माणचित्तस्य सभागहेतुः । कस्मादित्याह । न ह्याभिसंस्कारिकस्य महायत्नसाध्यस्य सभागहेतोर्हीयमानममहायत्नसाध्यं फलं भवति । यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत्तृतीयं ध्यानं निष्पाद्यते । न तादृशेनैव चतुर्थं ध्यानं निष्पाद्यते । [तिब् । १९४ ] किं तर्हि । उत्कृष्टतरेण यत्नविशेषेण निष्पाद्यते । तस्मात्फलमस्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यते इत्यवगम्यते । तेन अधरध्यानफलमुत्तरध्यानफलस्य सभागहेतुः । न तूत्तरध्यानफलमधरध्यानफलस्य (अभिधर्मकोषव्याख्या २०८) । यथा च चतुर्थध्यानफलं योजितं । एवं तृतीयद्वितीयध्यानफलमपि योज्यं । अत एवाहुरिति । यस्मादाभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं न भवति । तस्मादाहुरित्यर्थः । किमाहुरित्याहुः । स्यादुत्पन्न इति विस्तरः । दुःखे धर्मज्ञानमनास्रवमुत्पन्नमनुत्पत्तिधर्माणामनास्रवाणां दुःखे धर्मज्ञानक्षान्तिनां न हेतुः । दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्टत्वात् । एवं हि तद्विशिष्टं । यत्क्लेशविसंयोगप्राप्त्या सह उत्पद्यते । विशिष्टं च न्यूनस्य न हेतुः । तद्यथार्हत्त्वात्परिहीणस्य अशैक्षो मार्गः पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर्न सभागहेतुः । स्यादेकसंताननियतः पूर्वप्रतिलब्ध इति विस्तरः । अनागता दुःखे धर्मज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसंतानगताः । दुःखे धर्मज्ञानं द्वीतियक्षणोत्पन्नं । तस्य ता न हेतुः । [तिब् । १९५ ] यस्मान्न पूर्वतरं फलं । पूर्वतरं हि दुःखे धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः । तस्योत्पन्नत्वात् । तासां चानुत्पन्नत्वात् । अनागतो वा धर्मः यस्मान्न सभागहेतुः । अनागता दुःखे धर्मज्ञानक्षान्तयः अपरिमिताः प्रतिलब्धा एव न तूत्पन्नाः । स्यात्पूर्वोत्पन्न इति विस्तरः । पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः अनुत्पन्नश्च न सभागहेतुर्भवतीति । इदानीं पूर्वोत्पन्नोऽपि किमस्ति न सभागहेतुरिति अतिशयरूपेण पृच्छ्यते । अधिमात्रो न्यूनस्येति । विशिष्टो न्यूनस्येत्यर्थः । तद्यथोत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य वा अधरफलसंमुखीभावेऽनागामिफलसंमुखीभावे सकृदागामिफलसंमुखीभावे वा । योऽर्हत्त्वमार्गोऽधिमात्रः पूर्वोत्पन्नः । स पश्चादुत्पन्नस्यानागामिफलस्य सकृदागामिफलस्य वा न सभागहेतुः । न्यूनत्वात् । एवमनागामिफलपरिहीणस्य योऽनागामिफलमार्गः । स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभागहेतुः । न्यूनत्वात् । दुःखे धर्मज्ञानप्राप्तिश्चेति विस्तरः । दुःखे धर्मज्ञानप्राप्तिर्या पूर्वोत्पन्ना । सा उत्तरक्षणसहोत्पन्नानामुत्तरैः क्षणैर्दुःखेऽन्वयज्ञानक्षान्तिक्षणादिभिरा मार्गेऽन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे [तिब् । १९५ ] धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः । किं कारणं । तासां न्यूनत्वात् । तस्याश्च विशिष्टत्वात् । कथं पुनस्तासां न्यूनत्वं तस्याश्च विशिष्टत्वं । दुःखे धर्मज्ञानक्षान्तेर्दुःखे धर्मज्ञानं विशिष्टं तद्वध्यक्लेशप्राप्तेर्विमुक्तत्वात् । हेतूपचिततरत्वाच्च । तस्माद्धेतूपचिततराभ्योऽपि दुःखे धर्मज्ञानक्षानिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर्विशिष्टा ताश्च न्यूनास्तत्प्राप्तित्वात् । किं च प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर्दुःखे धर्मज्ञानप्राप्तिस्तस्मादेव हेतुद्वयाद्(अभिधर्मकोषव्याख्या २०९) विशिष्टा । न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः । अतस्तत्पूर्विका अप्यन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचिततरत्वेऽपि न्यूना एवेति । तस्मान्न सा तासां सभागहेतुरिति । (इइ ।५४ द्) संप्रयुक्तकहेतुस्तु चित्तचैत्ता इति । तुशब्दोऽवधारणे भिन्नक्रमश्च । चित्तचैत्ता एव संप्रयुक्तकहेतुरिति । एवं सतीति विस्तरः । यदि चित्तचैत्ता एव संप्रयुक्तसहेतुरित्येतावदुच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्नसंतानजा अपि च भिन्नसंतानजैः सह संप्रयुक्तकहेतुः [तिब् । १९६ ] संप्रसज्यते । न हि ते कालसंतानभिन्ना न चित्तचैत्ता भवन्ति । एकाकारालम्बनास्तर्हीति । यदि चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश्च एकनीलाद्यालम्बना एवं ते संप्रयुक्तकहेतुर्नान्यथेति । एवं भिन्नकालजत्वं भिन्नसंतानजत्वं च व्यावर्तितं भवतीत्यभिप्रायः । एवमपि स एव प्रसंगः । भिन्नकालसंतानजानामन्योन्यं संप्रयुक्तकहेतुत्वप्रसंग इति अर्थः । संभवति हि भिन्नकालसंतानजानामपि चित्तचैत्तानामेकाकारालम्बनत्वं । भिन्नसंतानजानामपि प्रसंग इति । भिन्नकालजत्वमेकं परिकृतं । नवचन्द्रादीनि हि पश्यतां बहूनामेकाकारालम्बनाश्चित्तचैत्ता वर्तन्ते । समाश्रया इति । समः अभिन्न आश्रय एषामिति समाश्रयाः । तुल्यार्थे समशब्दग्रहणे हि जातितुल्यत्वात्स एव प्रसंगः स्यात् । अन्योन्यफलार्थेनेति विस्तरः । यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणं । एवं चित्तं चैत्तस्य फलं । चैत्तोऽपि चित्तस्येत्यन्योन्यफलमिति तेनार्थेन सहभूहेतुः । पंचभिरिति विस्तरः । पंचभिस्समताभिः । आश्रयालम्बनाकारकालद्रव्यसमताभिरित्यर्थः । [तिब् । १९६ ] समप्रयोगार्थेन समप्रवृत्त्यर्थेन संप्रयुक्तकहेतुः । यथा तेषामेव सार्थिकानामन्योन्यबलेन मार्गं गच्छतां समोऽन्नपानस्नानशयनादिपरिभोगक्रियायां प्रयोगः । तद्वत्समप्रयोगत्वमेषामन्योन्यं भवति । अत एवाह । एकेनापि हि विना न सर्वे संप्रयुज्यन्त इति । (इइ ।५५ ब्) पूर्वसर्वगा इति । पूर्वे च ते सर्वगाश्च सर्वपूर्वगाः । पूर्वोत्पन्नाः सर्वगा इत्यर्थः । स्वभूमिकाः पूर्वोत्पन्ना अतीताः प्रत्युत्पन्ना वा सर्वत्रगा अनुशयाः क्लिष्टानां क्लेशस्वभावसंप्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानामनागतानां च सर्वत्रगहेतुः । व्याख्यास्याम इति । (अभिधर्मकोषव्याख्या २१०) सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा विमतिः सह ताभिश्च याविद्यावेणिकी च येत्य् अत्र पंचमे कोशस्थाने निर्देक्ष्यामः । क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः । यस्मादयं सर्वत्रगहेतुः क्लिष्टानामेव सामान्येन पंचनिकायानामपि भवति । सभागहेतुस्तु क्लिष्टानां चाक्लिष्टानां च । तस्मात्पृथग्व्यवस्थाप्यते । कथं क्लिष्टधर्मसामान्यकारणत्वमस्येति प्रतिपादयन्नाह । निकायान्तरीयाणामपि हेतुत्वादिति । एषां हि प्रभावेनेति । एषां हि सर्वत्रगाणां प्रभावेन अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते । के पुनस्ते । दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः [तिब् । १९७ ] समुदयनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति । समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोर्दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति । सर्वान् क्लेशनिकायान् गच्छन्ति भजन्ते आलम्बने । सर्वेषां वा क्लेशनिकायानां हेतुभावं गच्छन्तीति सर्वत्रगाः । अत एवोक्तं । सत्कायदृष्टिमूलकाः सर्वक्लेशाः सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदया इति । आत्मग्राहद्वारेण रागमानप्रतिघादिसमुदाचारात् । किमार्यपुद्गलस्यापीति । सर्वत्रगा आर्यपुद्गलस्य सर्व एव प्रहीणा दर्शनप्रहातव्यत्वात् । रागादयश्च शैक्षानां समुदाचरन्ति । ते रागादयस्तेषां न सर्वत्रगहेतुका इति मन्यमान एवं पृच्छति । क्लिष्टा धर्मा इति । अविशेषितत्वात्पृथग्जनार्यसंतानजा इति गम्यते । यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति । अर्थपरिसमाप्त्यर्थमेतदुक्तं । नैतदुदाहरणं । अव्याकृताः संस्कृता धर्मा इति । निवृताव्याकृता अनिवृताव्याकृताश्च गृह्यन्ते । निवृताव्याकृताः कामधातौ सत्कायान्तग्राहदृष्टितत्संप्रयुक्तसमुत्था धर्मा रूपारूप्यावचरास्[तिब् । १९७ ] च क्लिष्टा धर्माः । संस्कृतग्रहणमाकाशाप्रतिसंख्यानिरोधनिरासार्थं । परमव्याकृते ध्रुवे इति तयोरव्याकृतत्वात् । तत्र कामावचराः क्लिष्टा धर्मा यथायोगं सभागसर्वत्रगसहभूसंप्रयुक्तकहेतुभूतैस्तैरेव सत्कायदृष्ट्यादिभिरव्याकृतहेतुकाः । नान्यै रागादिभिः । ऊर्ध्वभूमिकास्त्वन्यैरपीति सुगममेतत् । अनिवृताव्याकृताः सभागहेतुनानिवृताव्याकृतहेतुकाः । अकुशलाः कामावचरा रागादयः । ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकाः । इदमत्रोदाहरणं । अकुशलाश्चेति ह्यविशेषितत्वात्दर्शनप्रहातव्या भावनाप्रहातव्याश्च गृह्यन्ते । इदमत्र द्वितीयज्ञापकं । यत्तदन्यत्क्लिष्टं दुःखं सत्यमिति तृतीयं ज्ञापकं । तदन्यद्धि क्लिष्टं दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं च अविशेषितत्वात्गृह्यते । सर्वत्रगहेतुना (अभिधर्मकोषव्याख्या २११) हि भावनाप्रहातव्यं पृथग्जनानामिवार्याणामपि सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति व्याख्यातमेतत् । इदं तर्हि प्रज्ञप्तिभाष्यमिति । यद्यकुशला अव्याकृतहेतुका अपि भवन्ति न केवलमकुशलहेतुकाः प्रज्ञप्तिभाष्यं कथं नीयते । स्यात् । आर्यपुद्गलः कामवैराग्यात्[तिब् । १९८ ] परिहीयमाणो यस्तत्प्रथमतः क्लिष्टां चेतनां संमुखीकरोतीति ।कामवैराग्यपरिहाणिकाले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च संप्रयुक्तकहेतुना च अकुशलहेतुकैव । नाव्याकृतहेतुका सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात् । इति प्रज्ञप्तिभाष्यार्थो लक्ष्यत इति । अनेनाभिप्रायेण चोदयति । वैभाषिक आह । अप्रहीणं हेतुमेतत्संधायोक्तमिति । अप्रहीणं सहभूहेतुं संप्रयुक्तकहेतुं च संधाय अभिप्रेत्य एतत्प्रज्ञप्तिभाष्यमुक्तं । दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश्चेतनाया हेतुः । प्रहीणत्वात्दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति । (इइ ।५५ द्) अकुशलाः कुशलसास्रवाश्चेति । अकुशला अवश्यं सास्रवा एवेति न विशेष्यन्ते । कुशलास्तु द्विप्रकाराः सास्रवा अनास्रवाश्चेति । अतो विशेष्यन्ते । ये सास्रवाः कुशलाः । ते विपाकहेतुर्नानास्रवा इति । विपाकधर्मत्वादिति । विपक्तिप्रकृतित्वादित्यर्थः । दुर्बलत्वात्पूतिबीजवदिति विस्तरः । यथा पूतीनि बीजानि अभिष्यन्दितान्यपि दुर्बलत्वान्नांकुरोत्पत्तिहेतुर्भवति । एवमव्याकृता धर्मास्तृष्णाभिष्यन्दिता अपि न विपाकोत्पत्तिहेतुर्भवन्ति दुर्बलत्वात् । अनास्रवा बलवन्तोऽपि तृष्णानभिष्यन्दितत्वाद्विपाकं [तिब् । १९८ ] न निर्वर्तयंति । यथाद्भिरनभिष्यन्दितवाच्छुष्काणि बलवंत्यपि सारबीजानि नांकुरं निर्वर्तयंति । तद्वत् । पूर्वेषां स्वशक्तिवैकल्यमपरेषां सहकारिकारणान्तरवैकल्यं । किंप्रतिसंयुक्तमिति । कस्मिं प्रतिसंयुक्तम् । किंप्रतिसंयुक्तं विपाकमप्रतिसंयुक्ताः कामादिष्वप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेषु । प्रतिसंयुक्तेन विपाकेन भवितव्यं । नाप्रतिसंयुक्तेन । कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात् । शेषास्त्विति विस्तरह् । अकुशलाः कुशलसास्रवाश्च शेषा उभयविधत्वातुभयप्रकारत्वात्बलवदभिष्यंदितप्रकारत्वादित्यर्थः । निर्वर्तयंति विपाकं यथा साराण्यभिष्यंदितानि बीजान्यंकुरं । तद्वत् । विपाकस्य हेतुरिति विस्तरः । यदि विपाक इति भावसाधनो घञ् । विपक्तिर्विपाक इति तत्र षष्ठीसमासः । विपाकस्य हेतुरिति । अथ विपच्यते स्वयमिति कर्मसाधनो घञ् । तत्र कर्मसाधनो विपाक एव हेतुर्विपाकहेतुरिति । किं चातः कश्चातो दोषः । यदि विपाकस्य हेतुरिति भावसाधनपरिग्रहः । विपाकजं चक्षुरित्येतन्न प्राप्नोति । न हि चक्षुर्विपक्तेर्जातं । किं तर्हि । विपक्तिहेतोः कर्मण इत्यर्घः । न हि विपाको हेतुह् । अथ विपाक एव (अभिधर्मकोषव्याख्या २१२) हेतुरिति कर्मसाधनपरिग्रहः । सिध्यते तद्विपाकजं चक्षुरिति । कर्मैव हि [तिब् । १९९] विपाको विपच्यत इति कृत्वा । किं तु कर्मणो विपाक इत्येतन्न प्राप्नोति । विपाको हि कर्मैवोच्यते न विपक्तिः । कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ इति । तस्मात्कर्मणो विपाक इत्येतन्न प्राप्नोति । उभयथापि योग इत्युक्तं प्रागिति विपाकजौपचयिकाः । पंचाध्यात्मम् इति अत्रोक्तं विपाकहेतोर्जाता विपाकजाः । मध्यपदलोपाद्गोरथवदिति भावसाधनपरिग्रहः । फलकालप्राप्तं वा कर्म विपाक इत्युच्यते । विपच्यत इति कृत्वा । तस्माज्जाता विपाकजा इति कर्मसाधनपरिग्रहः । फलं तु विपक्तिरेवेति विपाकः । फलविवक्ष्यायां भावसाधन एवं परिगृह्यत इत्यर्थः । तस्माद्विपाकजं चक्षुरिति मध्यपदलोपात्कर्मसाधनपरिग्रहाद्वा सिध्यति । कर्मणो विपाक इति च सिध्यति । भावसाधनपरिग्रहात् । विवक्षितपूर्विका हि शब्दप्रतिपत्तिरिति । विसदृशः पाको विपाक इति । हेतोर्विसदृशं फलमित्यर्थः । हेतुर्हि व्याकृत एव । फलं तु अव्याकृतमेवेति । सहभूहेत्वादीनां तु सदृश एव पाक इति विशेषणं । [तिब् । १९९ ] अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्यादिश्यते । एकस्कंधको विपाकहेतुरेकफल इति विस्तरः । इह प्राप्तयो वृक्षप्रपाटिकावच्चित्तादिभ्यः पृथगवस्थिताः । तासां परिपूरकन्यायेन पृथक्फलं वर्ण्यते । एकः स्कंधोऽस्येत्येकस्कंधको विपाकहेतुः । (कायवाक्कर्म तज्जात्यादयश्च । वाक्कर्मणो रूपस्कंधसंगृहीतत्वात् ।) यत्र स्कंधे प्राप्तयः । तत्रैव च तज्जात्यादय इत्येकस्कंधकः । यदेव च प्राप्तीनां फलं तदेव तज्जात्यादीनामिति । साधारणफलत्वातेकफलः । द्विस्कंधक एकफलो विपाकहेतुः । कायवाक्कर्म तज्जात्यादयश्च । कायवाक्कर्मणो रूपस्कंधसंगृहीतत्वात्तज्जात्यादीनां च चंस्कारस्कंधसंगृहीतत्वात्द्विस्कंधकः । एकफलश्च । तेषामपृथक्फलत्वात् । चतुःस्कंधक एकफलः कुशलाकुशलाश्चित्तचैत्ता इति । ते सह जात्यादिभिरिति । तेषां चित्तचैत्तानां यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कंधसंगृहीतत्वात् । जात्यादीनं च संस्कारस्कंधसंगृहीतत्वाच्चतुःस्कंधको विपाकहेतुरेकफलः साधारणफलत्वात् । न हि चित्तस्यान्यत्फलमन्यच्चैत्तादीनामिति असमाहितत्वात् । कामधातौ पंचस्कंधको विपाकहेतुर्नास्ति । न ह्यत्र रूपस्कंधसंगृहीतं कायवाक्कर्म चित्तचैत्तैरेकफलं [तिब् । २०० ] भवति । पृथक्कलापत्वात् । त्रिस्कंधकस्तु त्रिष्वपि धातुषु नास्ति चित्तचैत्तानामवश्यमेकफलत्वात् । यथायोगं चतुःस्कंधस्वभावत्वात् । (अभिधर्मकोषव्याख्या २१३) रूपधातावेकस्कंधक इति विस्तरः । प्राप्तिः सह जात्यादिभिः संस्कारस्कंधसंगृहीतेत्येकस्कंधकः । तथैव साधारणफलत्वातेकफलः । असंज्ञिसमापत्तिरपि सह जात्यादिभिः तथैव वक्तव्या । विज्ञप्ते रूपस्कंधसंगृहीतत्वात् । जात्यादीनां च संस्कारस्कंधस्वभावत्वात् । द्विस्कंधक एकफलः पूर्ववत् । कुशले चेतस्यसमाहितेऽनुपरिवर्तिरूपं नास्तीति रूपस्कंधवर्जितवेदनादिस्कंधसंगृहीतत्वात्चतुःस्कंधकः । पंचस्कंधकः समाहिते चेतसि । अनुपरिवर्तिरूपस्य चित्तादिभिरेकवर्तित्वात् । आरूप्यधाताविति विस्तरः । तत्र सर्वमेव रूपं नास्तीत्येकस्कंधकश्चतुःस्कंधकश्च विपाकहेतुः । प्राप्तिरिति । तत्र सह स्वजात्यादिभिरेकस्कंधकः पूर्ववत् । निरोधसमापत्तिरपि सह स्वजात्यादिभिरेकस्कंधको विपाकहेतुरेकफल इति सुगमं । अस्ति कर्मेति विस्तरः । यस्य जीवितेन्द्रियं विपाकः । तस्य कर्मणोऽवश्यं तज्जीवितेन्द्रियं तज्जात्यादयश्च विप्रयुक्ता विपाकः । [तिब् । २०० ] तच्चैतत्सर्वं धर्मायतनसंगृहीतमित्येकमायतनं विपाको विपच्यते । यस्य मनआयतनं । तस्य द्वे मनोधर्मायतने । तस्य हि मनआयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्यादयश्च विपाकरूपा भवंति । वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते द्वे मनोधर्मायतने विपाको विपच्यते । एवं यस्य स्प्रष्टव्यायतनमिति । तस्य स्प्रष्टव्यस्यावश्यं जात्यादयस्संतीति धर्मायतनमपि विपच्यते । न केवलं स्प्रष्टव्यायतनमिति द्वे आयतने तस्य विपच्येते । यस्य कायायतनं तस्य तृईणि । तदेव कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कं । तस्यावश्यं भूतचतुष्काश्रितत्वात् । तस्य च जात्यादिभिर्भवितव्यमिति धर्मायतनमपि तत्र तृतीयं विपच्यते । एवमिति विस्तरः । एवं यस्य रूपगंधरसायतनानामन्यतमद्विपाकः । तस्य त्रीण्यायतनानि विपाकः । तदेवायतनं रूपादीनामन्यतमत्स्प्रष्टव्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावमिति । यस्य चक्षुरायतनं । तस्य चत्वारि । तदेव चक्षुः कायायतनं चावश्यं चक्षुःकायप्रतिबद्धवृत्तिवात् । स्प्रष्टव्यधर्मायतने च पूर्ववत् । एवं यस्येति विस्तरः । एवं यस्य श्रोत्रादीनाम् [तिब् । २०१ ] अन्यतमद्विपाकः । तस्यापि चत्वार्यायतनानि विपाकः । तदेव श्रोत्रादीनामन्यतमदायतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत् । अस्ति तत्कर्मेति विस्तरः । पंच यावदेकादशायतनानीति संभवतः । न तु द्वादशायतनानि विपाकः । शब्दायतनस्याविपाकस्वभावत्वात् । अत्राचार्यवसुमित्रो व्याख्यापयति । अस्ति कर्म यस्यैकमेव धर्मायतनं विपाको विपच्यत इति नोपपद्यते । किं कारणं । आक्षेपककर्मफलत्वाज्(अभिधर्मकोषव्याख्या २१४) जीवितेंद्रियस्य । यदि तावत्कामधातौ जीवितं विपाको विपच्यते । कर्मणस्तत्रावश्यं कायजीवितेंद्रिये भवतः कललाद्यवस्थासु अनुत्पन्ने षडायतने । उत्पन्ने तु षडायतने सप्तभिरायतनैर्भवितव्यं । चक्षुरादिभिः षड्भिर्मनआयतनेन चेति । रूपधातावपि सप्तभिरारूप्यधातावपि मनोधर्मआयतनाभ्यामवश्यं भवितव्यं । सकलजन्माक्षेपकफलत्वाज्जीवितेंद्रियस्य । को वात्र धातुरभिप्रेत इति ब्रूमः । आरूप्यधातुः । ननु च तत्राक्षेपककर्मफलत्वाज्जीवितेंद्रियस्य अवश्यं मनआयतनेनापि भवितव्यं । न च जीवितेंद्रियमेव विपाको विपच्यते । वेदनाप्रभावितत्वाद्विपाकस्येति । वेदनयाऽपि तत्र भवितव्यमिति । अत्रोच्यते । क्षणोत्पत्तिमेतत्संधायोक्तं । यस्मिं क्षणे आरूप्योपपन्नस्य [तिब् । २०१ ] विपाकजं चित्तं न समुदाचरति । तस्मिन् क्षणे जीवितेंद्रियमेव विपाको विपच्यते । विपाकस्य जीवितेंद्रियस्यैवोत्पादान्मनआयतनस्य चासमुदाचारादिति किमर्थं तत्समुदाचारे मनआयतनमपरं न भवतीति तस्य द्वे मनोधर्मायतने इति । तदिदं विचार्यते । भवत्येवं चाक्सेपकस्य कर्मणो जीवितेंद्रियं विपाक इति । जीवितेंद्रिये च विपच्यमाने मनआयतनादीन्यपि विपच्यंते । नायतनांतरविपाकः प्रतिषिध्यते । विपाकहेतुरिह चिंत्यते । अस्ति तत्कर्म यस्यैकमेव धर्मायतनं विपच्यते । नान्यदायतनमित्येतावद्विवक्षितं । अथ मतं जीवितेंद्रियाक्षेपकस्यैव कर्मणो मनआयतनादीन्यपि विपच्यंते । नैकमायतनमिति । अत्र ब्रूमः । तस्यैव कर्मणोऽन्येऽपि मनआयतनादयस्तत्र वर्तमाना विपाको न पुनरन्यस्य कर्मण इति । किं कृतोऽयं नियमः । अस्ति हि संभवो यदेकस्य कर्मणो निकायसभागो विपाकः ।ऽन्यस्य जीवितेंद्रियं । अन्यस्यैव च मनआयतनादीनि इति । ब्रूयास्त्वं यथा यस्य चक्षुरायतनं । तस्य चक्षुःकायस्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकः । तस्य कायायतनमावश्यकत्वात् । एवं मनआयतनादीन्यपि तस्यैव कर्मणो विपाक इति । [तिब् । २०२ ] तन्न । क्वचिदेव कस्यचित्प्रतिबद्धवृत्तित्वात् । न हि विना कायेंद्रियेण चक्षुरिंद्रियप्रादुर्भावोऽस्ति । असत्यपि तु विपाके मनसि जीवितेंद्रियप्रादुर्भावोऽस्तीति असममेतत् । आचार्यसंघभद्रस्त्वाह । अस्ति कर्म यस्य धर्मायतनमेव विपाको विपच्यते । यस्य जीवितेंद्रियं । यस्य चक्षुरायतनं । तस्य पंच । चक्षुःकायरूपस्प्रष्टव्यधर्मायतनानि । एवं यावज्जिह्वायतनं । यस्य कायायतनं । तस्य चत्वारः । कायरूपस्प्रष्टव्यधर्मायनानीति । रूपाविनाभावित्वात्रूपायतनमपि तस्यैव चक्षुर्निर्वर्तकस्य (अभिधर्मकोषव्याख्या २१५) कर्मणो विपाक इति समयान्तरमिच्छति । अयं त्वाचार्यो न रूपायतनमवश्यं तस्यैव कर्मणो विपाक इत्यपरं पक्षमवलंबते । यस्य कायायतनं । तस्य त्रीणि । यस्य चक्षुरायतनं । तस्य चत्वारीति । न ह्यन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्यावश्यकमेकस्यैव कर्मणो विपाक इत्यभिप्रायः । तावेतौ पक्षौ विभाष्यकारैर्लिखितौ । तयोर्यो यस्मै रोचते । स तेन परिगृह्यते । इत्यलं प्रसंगेन । अथ कथं कस्यचित्कर्मण एकमायतनं विपाको विपच्यते । कस्यचिद्यावदेकादशेत्यत आह । विचित्राविचित्रफलत्वात्कर्मणो बाह्यबीजवदिति विस्तरः । पद्मदाडिमन्यग्रोधादीनां [तिब् । २०२ ] बीजानि विचित्रफलानि । मूलांकुरनालपत्त्रकेशराकिंजल्ककर्णिकारैश्च रूप्यं हि पद्मबीजादीनां । अनेकस्कंधशाखाविटपपत्त्रपल्लवांकुरपुष्पफलसमृद्धाश्च न्यग्रोधादयः पादपा जलधरायमाणा दृश्यंते । कानिचिदविचित्रफलानि । तद्यथा यवगोधूमादीनां बीजानि । एकरूपफलत्वात् । बीजधर्मतैषा । एकध्विकस्य कर्मणोऽतीतस्य त्रैयध्विको विपाको विपच्यते अतीतप्रत्युत्पन्नानागतः । न तु द्वैयध्विकस्याप्यतीतस्य प्रत्युत्पन्नस्य चैकाध्विकोऽनागतः । न तु विपर्ययादिति । बहुक्षणिकस्य कर्मण एकक्षणिकः । मा भूदतिन्यूनं हेतोः फलमिति वर्तते । न च कर्मणा सह विपाको विपच्यते । सहोत्पन्ने सहभूसंप्रयुक्तकहेत्वोर्व्यापारात् । विपाकहेतोश्च विसदृशपाकापेक्षत्वात् । नाप्यनंतरं विपाको विपच्यते । किं कारणं । समनंतरप्रत्ययआकृष्टत्वात्समनंतरक्षणस्य । यस्मात्समनंतरक्षणः समनंतरप्रत्ययबलेनाकृष्टो न विपाकहेतुबलेन । यद्यप्यसौ समनंतरप्रत्ययो विपाकहेतुः इत्थं चैतदेव । यस्मात्समनंतरक्षणो विपाकहेतोः समनंतरप्रत्ययात्कदाचित्कुषलः कदाचिदकुशलः कदाचिदव्याकृतः । [तिब् । २०३ ] अन्यथा हि अव्याकृत एव स्यात् । अथ वा समनंतरक्षणस्य अविपाकस्वभावस्य समनंतरप्रत्ययाकृष्टत्वादित्यभिप्रायः । प्रवाहापेक्षो हि विपाकहेतुः चित्तचैत्तादिप्रवाहे सति अतिक्रांते विपाकहेतुर्विपाकं दद्यात् । धर्मतैषेत्यभिप्रायः । (इइ ।५६ ब्) उक्तमेषामर्थतोऽध्वनियम इति । अर्थत उक्तो न शब्दत इत्यर्थः । द्विविधं हि वचनं स्वशब्दाभितमर्थोक्तं च । कथं । सभागहेतुः सदृशाः स्वनिकायभुवोऽग्रजाः । तथा सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगा (अभिधर्मकोषव्याख्या २१६) इति वचनात् । सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नावेव स्तो नानागतौ । अविशेषवचनादेव सहभूसंप्रयुक्तकविपाकहेतवस्त्रैयध्विका इत्यर्थत उक्ताः । सभागसर्वत्रगहेतू एव हि पूर्वोत्पन्नौ । पूर्वोत्पन्नावेव च तावित्यवधारणात् । परस्परफलत्ववचनात् । चिंताद्यकुशलादिस्वाभाव्याच्चैषामनध्वपतितत्वं व्यावर्तितं । सूत्र्यत इति । सूत्रं सूत्री वा क्रियते सूत्र्यते । उक्तं चात्र कारणमिति । कथमुक्तं । [तिब् । २०३ ] निष्यंदफलेन हि सफलः सभागहेतुः । तच्चानागतस्यायुक्तं पूर्वपश्चिमताभावादिति एवमादि । यच्चैतत्कारणमुक्तं सभागहेतोः । सर्वत्रगहेतोरप्युक्तरूपं वेदितव्यं । सभागहेतुकल्पो हि सर्वत्रगहेतुः । सभागहेतुर्हि क्लिष्टः क्लिष्टानां । सर्वत्रगहेतुरपि क्लिष्टः क्लिष्टानामेव । क्लिष्टधर्मसामान्यकारणत्वेन त्वयं सभागहेतुः पृथग्व्यवस्थाप्यत इत्युक्तमेतत् । सभागहेतुवदेव चायं नानागतः । निष्यंदफलेन च सफल इति । तद्वदेवास्य वार्त्ता । त्र्यध्वकास्त्रय इति । त्र्यध्वका एव त्रयस्त्रय एव त्र्यध्वका इति अवधारणात् । कारणहेतुरन्यथा भवति । कथं चान्यथा । सर्वाध्वगश्चध्वविनिर्मुक्तश्चेति । स्वतोऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुरिति । अत एवमेव भवति नान्यथा । (इइ ।५६ द्) हेतुः फलमिति अन्योन्यापेक्षयैतत्द्वयमित्यतः पृच्छति । किं पुनस्तत्फलं यस्यैतद्धेतवः इति । संस्कृतसविसंयोगं फलम् इति । आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्वधर्माः फलमित्युक्तं भवति । एवं तर्हीति विस्तरः । फलत्वादसंस्कृतस्य फलमसंस्कृतमिति कृत्वा [तिब् । २०४ ] हेतुना स्वतोऽन्येनास्य भवितव्यं । यस्य हेतोस्तदसंस्कृत फलं । हेतुत्वाच्चासंस्कृतस्य स्वतोऽन्येनास्य फलेन भवितव्यं । यस्य फलस्य तदसंस्कृतं हेतुः । न्संस्कृतस्य ते हेतुफले । असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफलं भवति । न च तस्य हेतुरजन्यत्वात् । हेतुश्च भवति संस्कृतोत्पादाविघ्नभावावस्थानात् । न च तस्य फलं व्यवस्थाप्यते । फलप्रतिग्रहणदानासमर्थत्वाच्च । अत एव च षड्विधहेत्वसंभवादिति विस्तरः । न सहभूहेतुरस्य संप्रयुक्तकहेतुर्वा संभवति । तेन कस्यचिद्धर्मस्यासहभवत्वात् । असंप्रयोगाच्च । न सभागहेतुरस्य कश्चिद्भवति । असंस्कृतस्यासदृशत्वात् । समानभूमित्वायोगाच्च । अत एव चास्य न सर्वत्रगहेतुः । अस्य चाक्लिष्टत्वात् । (अभिधर्मकोषव्याख्या २१७) न चास्य विपाकहेतुः । असंस्कृतस्याविपाकस्वभावत्वात् । विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः । अनुत्पाद्यत्वादेव चास्यैते हेतवो न भवंति । अनुत्पाद्यत्वादेव चास्य कारणहेतुर्न भवति । अत एवोच्यते । कस्मान्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते । यस्मात्स उत्पादाविघ्नभावेन व्यवस्थापितः । न चासंस्कृतमुत्पत्तिमदिति । अनध्वपतितत्वाच्चास्य हेतवो न भवन्ति । अध्वपतितस्य हि धर्मस्य हेतुर्व्यवस्थाप्यते । [तिब् । २०४ ] एवं षड्विधहेत्वसंभवान्नासंस्कृतस्य हेतुः । पंचविधफलासंभवाच्च नासंस्कृतस्य फलं । कस्मात् । सामान्यतस्तावदध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् । तथा ह्युक्तं । वर्तमानाः फलं पंच गृह्णन्ति । द्वौ प्रयच्छतः इत्येवमादि । किं च न तावदधिपतिफलं भवति । तद्धि सहोत्पन्नं पश्चादुत्पन्नं चेष्यते । अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् इति । तच्चानुत्पत्तिमदिति नास्य सहजं पश्चाज्जातं वा फलं भवति । अनुत्पत्तिमत्त्वादेव । न च निष्यन्दफलम् । उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमान्निष्यन्दफलम् । अत एव च न पुरुषकारफलमसंस्कृतस्य पुरुषकाराभावात् । यस्य हि बलेन य उत्पद्यते प्राप्यते वा । स तस्य पुरुषकारफलं । अत एव च न विसंयोगफलं । मार्गस्यैव हि बलेन विसंयोगः प्राप्यः । न चासंस्कृतो मार्ग इति । न चापि विपाकफलं । विपाकहेतुवैधर्म्यात् । सास्रवो हि विपाकहेतुः । न चासंस्कृतं सास्रवमिति । अथ वा पंचविधहेतुवैधर्म्यात्पंचविधफलासंभव इति नासंस्कृतस्य फलं सम्भवति । यद्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते कस्येदानीं तत्फलं । हेतुमता हि फलेन भवितव्यं कथं वा केन वा प्रकारेण तत्फलं । आह । यत्तावदुक्तं कस्येदानीं तत्फलमिति [तिब् । २०५ ] मार्गस्य । यदप्युक्तं कथं वा तत्फलमिति फलं तद्बलेन मार्गबलेन प्राप्तेरित्यर्थः । अथ वैवं पदसंबन्धः । कस्य तत्फलमिति । मार्गस्य तत्फलं । कथं वा तत्फलमिति । तद्बलेन प्राप्तेरिति । प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति । तस्यामेव प्राप्तौ तस्य मार्गस्य सामर्थ्यात्न विसंयोगः । किं । मार्गस्य फलमित्यधिकृतं । तत्रासामर्थ्यादिति । एवं तत्र विसंयोगे मार्गस्यासामर्थ्यादित्यर्थः । तस्मान्न च तावदस्य मार्गः कथंचिदपि हेतुः । षण्णां हेतूनामन्यतमोऽपि हेतुरस्य मार्गो न भवति । फलं चास्य विसंयोगः । प्राप्यं फलं न जन्यमित्यभिप्रायः । पंचविधो हि हेतुरिति केचिदिच्छंति । कारको ज्ञापको व्यंजको ध्वंसकः प्रापकश्चेति । कारको हेतुर्बीजमंकुरस्य । ज्ञापको धूमो (अभिधर्मकोषव्याख्या २१८)ऽग्नेः । व्यंजको दीपो घटस्य । ध्वंसको मुद्गरो घटस्य । प्रापको रथो देशांतरप्रापणीयस्येति । तदेवं मार्गः प्रापकोऽस्य । न जनको हेतुः । प्राप्यं च विसंयोगफलं न जन्यमिति दर्शितं भवति । अथासत्यधिपतिफल इति विस्तरः । असंस्कृतस्य यदि फलं स्यातधिपतिफलं स्यात् । तस्य कारणहेतुत्वेन व्यवस्थापनात् । नासंस्कृतस्य ते इति वचनात्तदप्यस्य [तिब् । २०५ ] निवारितमिति परिच्छिन्ने चोदकः पृच्छति । अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः । उत्पत्त्यनावरणभावेन कारणहेतुः । उत्पत्त्यनावरणभाववचनात् । संस्कृतमेव प्रतीदमसंस्कृतं कारणहेतुर्व्यवस्थाप्यते । नासंस्कृतं प्रतीति दर्शितं भवति । कस्मादस्य संस्कृतवत्फलं न व्यवस्थाप्यत इत्यत आह । न चास्य फलमस्ति । अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वादिति । अध्वसंगृहीतस्यैव हि धर्मस्य फलप्रतिग्रहणदानसामर्थ्यमस्ति नान्यस्य । वक्ष्यति हि वर्तमानाः फलं पंच गृह्णन्ति द्वौ प्रयच्छत इति । उक्तं तु पर्यायेण हेतुरिति । पर्यायेणोक्तं न स्वशब्देनेत्यर्थः । तेऽप्यनित्या इति । तेऽप्यनित्या एवेत्यवधारणादर्थान्न नित्यो हेतुरित्युक्तं भवति । आलंबनप्रत्ययोऽपीति । यथा हेतवोऽत्रानित्या उक्ताः । एवं प्रत्यया अप्यनित्या एवोक्ताः ये हेतवो ये प्रत्यया इति वचनात् । तस्मादसंस्कृतमालंबनप्रत्ययो न प्राप्नोति । उत्पादायेत्यवधारणादिति । ये हेतवो ये प्रत्यया रूपस्योत्पादाय । तेऽप्यनित्याः । न तु येऽनुत्पादाय । द्विविधा हि प्रत्ययाः । जनकाश्चाजनकाश्च । आलम्बनप्रत्ययश्चाजनकः आलम्बनमात्रत्वात् । आलम्बनप्रत्ययो हि निरुध्यमाने धर्मे कारित्रं करोति । वर्तमानैश्चित्तचैत्तैर्ग्रहणात् । [तिब् । २०६ ] निरुध्यमाने कारित्रं द्वौ हेतू कुरुत इति वचनात् । ननु च हेतवोऽपीति विस्तरः । हेतुरपि जनकश्चाजनकश्च । तस्मादसंस्कृतस्यानावरणभावमात्रेणाजनकस्यापिकारणहेतुत्वाप्रतिषेधः । उक्त आलम्बनप्रत्ययः सूत्र इति । चतस्रः प्रत्ययता इत्यत्र सूत्रे । न तु प्रतिषिद्धः । धर्मताया अविरोधान्न दोष इत्यभिप्रायः । सूत्राणि च बहून्यन्तर्हितानि । मूलसंगीतिभ्रंशात् । अत्राचार्यो न निर्बंधं करोति । धर्मताविरोधो नास्तीति । किं तु असंस्कृतमेव विचार्यतेऽस्ति वा न वेति । सर्वमेवासंस्कृतमिति । न केवलं प्रतिसंख्यानिरोधः । रूपवेदनादिवदिति । आदिशब्देन संज्ञादीनां ग्रहणं । यथा रूपाद्वेदनाभावान्तरं वेदनायाश्च संज्ञा यावत्संस्कारेभ्यो विज्ञानं । तथा न रूपादिभ्यः पंचभ्यो (अभिधर्मकोषव्याख्या २१९)ऽसंस्कृतं भावान्तरमस्ति । अतो नासंस्कृतं द्रव्यमिति सौत्रान्तिकाः । स्प्रष्टव्याभावमात्रमिति । सप्रतिघद्रव्याभावमात्रमित्यर्थः । अविन्दन्त इत्यलभमानाः । उत्पन्नानुशयजन्मनिरोधे उत्पन्नानामनुशयानां जन्मनश्च निरोधे प्रतिसंख्याबलेन प्रज्ञाबलेन अन्यस्यानुशयस्य जन्मनश्च अनुत्पादः प्रतिसंख्यानिरोधः [तिब् । २०६ ] । तदेवमनुशयनिरोधः समुदयसत्य निरोधो जन्मनिरोधो दुःखसत्यनिरोध इत्युक्तं भवति । सोपधिशेषनिरुपधिशेषनिर्वाणव्यवस्थापनार्थं चोभयनिरोधवचनं । सौत्रान्तिकनयेन केऽ नुशयाः । कथं च तेषां जन्मनश्च प्रतिसंख्याबलेन निरोधः । अष्टानवतेरनुशयानां वासनाऽनुशयः । यस्य चानुशयस्य यः प्रतिपक्षो मार्गः प्रतिसंख्या । तेन सह प्रथमे क्षणे सोऽनुशय उत्पद्यते । तद्बलाद्द्वितीयादिषु क्षणेषु तस्य निरोधः । तद्बलादेव च पौनर्भविकस्य जन्मनः अप्रतिसंधिको निरोधः । तद्यथा निकायसभागशेषस्येति विस्तरः । निकायसभागो मनुष्यत्वादिलक्षणः । आत्मभावो वा पंचस्कन्धलक्षणः । तस्य शेषस्तल्लक्षण एवोत्पद्यमानः । तस्य निकायसभागशेषयान्तरामरणे आयुष्यपरिसमाप्त एव प्रत्ययवैकल्याद्योऽनुत्पादः । सोऽप्रतिसंख्यानिरोधः । प्रत्ययवैकल्यं पुनरंत्यानां स्कंधानां मरणभवाख्यानां निकायसभागसंबन्धने यदसामर्थ्यमुपकरणादिप्रत्ययासामग्र्यात् । अतोऽसौ प्रतिसंख्यानिरोध इति । सोपधिशेषो निर्वाणधातुः । दुःखस्यानुत्पाद इति निर्वुपधिशेषः । सोऽपि तु दुःखस्यानुत्पादः । योऽप्रतिसंख्यानिरोध इत्युक्तः । नान्तरेण प्रतिसंख्यां सिध्यति । उत्पत्तिकारणानुशयवैकल्यस्य [तिब् । २०७ ] प्रतिसंख्यानकृतत्वात् । अतः प्रतिसंख्यानिरोध एवासौ । स्वरसं निरोधादिति । स्वात्मना निरोधान्न प्रज्ञासामर्थ्येनेत्यर्थः । अविनष्टे तदभावादिति । अविनष्टे तस्मिमनुशये तस्याप्रतिसंख्यानिरोधस्याभावात् । अकृतोत्पत्तिप्रतिबन्धानामिति । अकृते उत्पत्तौ प्रतिबन्ध एषामिति अकृतोत्पत्तिप्रतिबन्धाः । तेषां । य उत्पत्तिप्रतिबन्धभावः । एतदत्र प्रतिसंख्यायाः सामर्थ्यं । यदि तर्ह्यनुत्पाद एवेति विस्तरः । प्रहाणं हि निर्वाणमभिप्रेतं । अनागतस्यैव चानुत्पाद इति यदि निर्वाणमुच्यते । अतीतप्रत्युत्पन्नस्योत्पन्नत्वात्नास्त्यनुत्पाद इति कथमिदमुक्तं सूत्रे । अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय संवर्तन्ते इति तत्सूत्रपदं कथं नीयते । यस्य पुनर्द्रव्यान्तरं निर्वाणं । तस्यातीतप्रत्युत्पन्नयोरपि तदासेवनादिभिर्निर्वाणं प्राप्यत इति सुनीतमिदं सूत्रं भवतीति । तदालम्बनक्लेशप्रहाणादिति । अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणादित्यर्थः । यो रूपे छन्दराग इति । छन्दोऽनागतेऽर्थे प्रार्थना । रागस्तु प्राप्तेऽर्थेऽध्यवसानं । विस्तरेण यावद्विज्ञानमिति । यो वेदनायां संज्ञायां संस्कारेषु विज्ञाने (अभिधर्मकोषव्याख्या २२०)([तिब् । २०७ ] छन्दरागः । तं प्रजहीत । छन्दरागे प्रहीणे एवं वस्तद्विज्ञानं प्रहीणं भविष्यते । एवं त्रियध्विकस्यापि दुःखस्येति । छन्दरागप्रहाणमेव रूपादिदुःखप्रहाणं । तस्य चानागतस्य छन्दरागस्यानुत्पादो भवति । अतस्त्रियध्विकस्यापि दुःखस्य प्रहाणं युज्यत इति दर्शयति । एष एव नय इति । यद्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेति पाठः । तत्राप्येष एव नय इति । यः क्लेशे रागे द्वेषे वा छन्दरागः । तं प्रजहीतेति विस्तरः । तदालम्बनक्लेशप्रहाणादपि क्लेशस्य प्रहाणं । न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यते इत्यर्थः । अथ वेति विस्तरः । पूर्वजन्मनि भवः पौर्वजन्मिकः । इहजन्मनि भव ऐहजन्मिकः । तदेवमैकक्षणिकः क्लेशः पर्युदस्तो भवति । कथमेतत्प्रत्येतव्यं । पौर्वजन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश्च । न पुनरैकक्षणिक इत्यत आह । यथा तृष्णा विचरितेष्विति विस्तरः । अन्यत्राप्येवं दर्शनातेवं प्रत्येतव्यं । अष्टादश तृष्णाविचरितानि कथमतीतेऽध्वनि एकस्मिं क्षणे योज्यंत इति अतोऽतीतं जन्माधिकृत्योक्तं । अष्टादश तृष्णाविचरितानि । अस्मीति भिक्षवः सतीत्थमस्मीति [तिब् । २०८ ] भवति । एवमस्मीति अन्यथास्मीति सदस्मीति असदस्मीति भवति । भविष्यामीत्यस्य भवति । न भविष्यामीत्थं भविष्यामि एवं भविष्यामि अन्यथा भविष्यामीत्यस्य भवति । स्यामित्यस्य भवति । इत्थं स्यामेवं स्यामन्यथा स्यामित्यस्य भवति । अपि स्यामित्यस्य भवति । अपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य भवति । एवं यावत्प्रत्युत्पन्नं । तथेहापि पौर्वजन्मिकः कृत्स्नः क्लेशप्रवाहः अझजन्मिकश्च संबध्यते नैकक्षणिक इति । तदेवं प्रसाध्यताभिप्रायं ब्रवीति । तेन च क्लेशद्वयेनेति विस्तरः । पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां संततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षणं सामर्थ्यमाहितोऽनागतेऽस्योत्पत्तये । तस्य बीजभावस्य प्रहाणात्तदपि क्लेशद्वयं प्रहीणं भवति । यथा विपाकक्षयाद्विपाकोपभोगात्कर्म क्षीणं भवतीत्युपचर्यते । तद्वत् । [तिब् । २०८ ] अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते । न हि तेन संततौ बीजभाव आहितो यस्य प्रहाणात्प्रहाणं भवेदित्यत आह । अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजभावादत्यन्तमनुत्प्डः प्रहाणमिति । बीजभावश्च प्रतिसंख्याबलेन भवति । न हि निरुद्धेऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने यत्नः सार्थकः सप्रयोजनमित्यर्थः । विरागस्तेषामग्र इति । रागक्षयो विरागः प्रतिसंख्यानिरोध इत्यर्थः । कथमसतामसन्नग्रो भवितुम् अर्हतीति । कथमसतामाकाशादीनामसंस्कृतानामसन्नसंस्कृतो विरागोऽग्रो भवितुमर्हतीति । अस्योत्तरं ब्रवीति । अभावोऽपि कश्चिदिति विस्तरः । द्वितीयस्य चेति । द्वितीयस्य समुदयसत्यस्यानंतरं (अभिधर्मकोषव्याख्या २२१) दृष्टं स्वयं प्रज्ञया उद्दिष्टं परेभ्यो देशनया त्रयाणां पूरणं तृतीयं भवति । किं स्यादिति । को दोशः स्यादित्यर्थः । किं च पुनः स्यादिति । को गुणः स्यादित्यर्थः । किं च पुनः स्यादिति गुणपरिप्रश्न आह । वैभाषिकपक्षः पालितः स्यादिति । यत्तूक्तं किं स्यात्को दोषः स्यादिति अत्रोच्यते । अभूतं तु परिकल्पितं स्यादिति । दोषः स्यादित्यर्थः । रूपवेदनादिवदिति । प्रत्यक्षतः । [तिब् । २०९ ] चक्षुरादिवदिति । कर्मतो नुमानत इत्यर्थः । असकृद्व्याख्यातमेतत् । वस्तुन इति । रागादिवस्तुनः । हेतुफलादिभावसंभवादिति । आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो गृह्यन्ते । न हि वस्तुनो निरोधे हेतुः फलमवयवावयवीत्येवमादि । तस्यैतर्हि प्राप्तिनियम इति विस्तरः । तस्य निरोधस्य योऽयं प्रातेर्नियमः । अस्यैव निरोधस्य प्राप्तिर्नान्यस्येति तस्मिं प्राप्तिनियमे को हेतुः । न हि निरोधस्य प्राप्त्या सर्धं कश्चित्संबन्धोऽस्ति हेतुफलादिभावासंभवात् । दृष्तधर्मनिर्वाणप्राप्त इति । सोपधिशेषनिर्वाणस्थ इत्यर्थः । यद्यभावः कथमस्य प्राप्तिः स्यात् । प्रतिपक्षलाभेनेति विस्तरः । आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादेऽत्यन्तविरुद्धस्याश्रयस्य लाभात्प्राप्तं निर्वाणमित्युच्यते । अभावमात्रत्वमिति । मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः । यत्खल्वस्येति विस्तरः । प्रहाणं यावदप्रादुर्भाव इति पर्यायशब्दा एते । अप्रादुर्भाव इत्येतत्स्फुटमित्युदाहरणमुक्तं । नास्मिं प्रादुर्भाव इत्यतोऽप्रादुर्भावा इत्यधिकरणसाधनम् [तिब् । २०९ ] इति दर्शयन्ति । न तु अप्रादुर्भूतिरप्रादुर्भाव इति भावसाधनमित्यर्थः । यत एव तत्प्राप्तिः परिकल्प्यते यतो मार्गात्प्रहाणः प्राप्तः परिकल्प्यते । तस्मिं सति मार्गे प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः । किमन्येन निर्वाणेन परिकल्पितेन । विमोक्षस्तस्य चेतस इति । निरुपधिशेषनिर्वाणकाले भगवतः । यथावस्तु यथालम्बनं । संयोगस्य वस्तु यत्र क्लेशेन संयुज्यते । स वस्तुका धर्मा इति सहेतुकाः । परिग्रहवस्तु परिगृह्यत इति परिग्रहः । स एव वस्तु परिग्रहवस्तु । (इइ ।५७) अन्तेऽभिहितत्वादिति । कारिकाया अन्ते विपाकहेतुः पठितः । तस्य विपाकफलमेव । पूर्वः कारणहेतुः श्लोकादौ पठितत्वात् । तस्य्- आधिपजं फलं । अधिपतिरधिपः । तस्माज्जातमधिपजमधिपतिफलमित्यर्थः । पूर्वस्याधिपतमिति केचित्पठन्ति । अधिपतेरिदं फलमाधिपतमिति । आधिपत्यमिति तु प्राप्नोति । दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इत्यपवादात् । (अभिधर्मकोषव्याख्या २२२) अथापवादविषयेऽप्युत्सर्गसमावेश इति भवेत् । भवेच्च तद्रूपं । एतदेवाधिपत्यमिति । यदनावरणभावमात्रावस्थानं । अंगीभावोऽपि वास्तीति । प्रधानभावोऽपि जनकभावोऽपीत्यर्थः । तदनेन द्विविधस्यापि कारणहेतोः कारकस्य वाध्युपेक्षकस्य वाधिपतिफलम् [तिब् । २१० ] अस्तीति दर्शितं भवति अन्यत्रासंस्कृताट् । यस्माद्वक्ष्यति । अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् । इति । दशानामायतनानामिति । चक्षूरूपायतनयोर्यावत्कायस्प्रष्टव्याय तनयोः । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत्कायं प्रतीत्य स्प्रष्टव्यानि चोत्पद्यते कायविज्ञानमिति वचनात् । कारणहेतुरेव चायं । न हि चक्षुरादीन्यायतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः । पंच हेतवः संभवंति । मनआयतनं तु मनोविज्ञानस्य सभागहेत्वादि संभवति । धर्मायतनमपि सहभूसंप्रयुक्तकहेत्वादि संभवतीति न कारणहेतुरेवेत्यवधार्यते । तस्माद्दशानामित्युक्तं न द्वादशानामिति । भाजनलोके च कर्मणां । किम् । अंगीभावोऽस्ति कारणहेतोरित्यधिकृतं । भाजनलोको हि कुशलाकुशलकर्मजनितोऽप्यव्याकृतोऽपि न विपाकफलमिष्यते । सत्त्वाख्यो विपाक इति लक्षणात् । तस्मात्कारणहेतोरेतदधिपतिफलं । श्रोत्रादीनामपि न केवलं चक्षुषोऽस्ति । किं । चक्षुर्विज्ञानस्योत्पत्तौ पारंपर्येणाधिपत्यं । न साक्षात्यथा चक्षुषः । कथं ज्ञायत इति आह । श्रुत्वा द्रष्टुकामतोत्पत्तेः । द्रष्टुकामतायां च चक्षुर्विज्ञानमुत्पद्यत इत्यभिप्रायः । [तिब् । २१० ] एवमादि योज्यमिति । घ्रात्वा द्रष्टुकामतोत्पत्तेरित्यादि योज्यं । सभागसर्वत्रगयोर्निष्यन्दः फलमिति वर्तते । सभागसर्वत्रगहेत्वोरेव निष्यन्दफलमित्यवधार्यते । पुरुषकारफलमपि हि तयोरनन्तरं संभवति । पौरुषं द्वयोर् इति । पुरुषकारफलमेव सहभूसंप्रयुक्तकहेत्वोरित्यवधारणं । पुरुषकारस्य फलं पौरुसं । पुरुषकारफलमित्यर्थः । पुरुषभावाव्यतिरेकात्पुरुषकारः पुरुषभावान्न व्यतिरिक्तः । पुरुषकर्मैव हि पुरुषकारो न पुरुषादन्यः । न हि कर्म कर्मवद्भ्योऽन्यदिष्यते बौद्धैः । तस्मात्पुरुषकारस्य यत्फलं । तत्पुरुषस्यैवेति पौरुषमित्युच्यते । यस्य धर्मस्य यत्कारित्रमिति । यस्य धर्मस्य यत्कर्म या क्रिया । सा तस्य पुरुषकार इत्यर्थः । ननु चान्तर्व्यापारपुरुषाभावे धर्ममात्रं पुरुष इति अतो धर्मकार इति प्राप्नोति । न पुरुषकार इत्यत आह । पुरुषकार इव हि पुरुषकारः । यथा लोके कल्पितस्य पुरुषस्य पुरुषकारः । (अभिधर्मकोषव्याख्या २२३) एवं धर्मस्यापीति पुरुषकार इव पुरुषकारः । दृष्टान्तं कथयति । काकजंघा ओषधिरित्यादि । काकजंघाकारा ओषधिः काकजंघेत्युच्यते । मत्तहस्तीव यो दृष्टः शूरो वा । स मनुष्यो मत्तहस्तीति । किमन्येषाम् [तिब् । २११ ] इति । हेतूनां । अन्येषामप्यस्तीति । सभागसर्वत्रगकारणहेतूनां । अन्यत्र विपाकहेतोः । कस्मादित्याह । यस्मात्सहोत्पन्नं समनन्तरोत्पन्नं वा पुरुषकारफलमिति । सहभूसंप्रयुक्तकहेत्वोर्हि सहोत्पन्नं फलमुक्तं । तच्च पुरुषकारफलमेव । न ह्यन्यत्फलं सहोत्पन्नमस्ति । सभागसर्वत्रगहेत्वोरनंतरोत्पन्नमेव पुरुषकारफलं । कारणहेतोस्तूभयथा । किं पुनर्निष्यन्दफलादधिपतिफलाद्वान्यत्पुरुषकारफलं । नेत्युच्यते । तदेव हि फलं तत्तन्नाम लभते । तथा हि तद्धेतुसदृशोत्पत्तेर्निष्यन्दफलं । तद्बलेनोत्पत्तेः पुरुषकारफलं । अविघ्नभावावस्थानेनोत्पत्तेश्चाधिपतिफलमिति । न चैव विपाकः । किं । सहोत्पन्नो वा समनन्तरोत्पन्नो वेत्यधिकृतं । (इइ ।५८, ५९) विपाकोऽव्याकृतो धर्म इति विस्तरः । अव्याकृत एव सत्त्वाख्य एव व्याकृतोद्भव एवेत्यवधारणं । अव्याकृत इति अनिवृताव्याकृतो विवक्षितः । सत्त्व इति आख्या यस्य । स सत्त्वाख्यः । सत्त्वसंतानज इत्यर्थः । व्याकृतादुद्भवतीति व्याकृतोद्भवः । औपचयिकनैष्यन्दिकौ तु न व्याकृतादुद्भवतः । [तिब् । २११ ] ननु च इन्द्रियमहाभूतोपचयो ध्यानविशेषसमापन्नस्य भवति । असावपि व्याकृतादुद्भवति । स विपाकः प्राप्नोति । निर्माणचित्तं चापि । तथैव समाधिचित्तसंभूतत्वात् । नैष दोषः । व्याकृतोद्भव इत्युच्छब्द उत्तरकालार्थः । व्याकृतात्कुशलादकुशलाद्वा य उत्तरकालमेव भवति न युगपन्नाप्यनन्तरं । स विपाक इति । समाधिजस्तूपचयः समाधिना सह चानन्तरं च भवति । निर्माणचित्तं त्वनंतरमेव च भवति । विपाकश्च समानभूमिक एवाभिप्रेत इत्येतच्चोभयं भिन्नभूमिकम् (अभिधर्मकोषव्याख्या २२४) अपि भवतीति न विपाकस्य प्रसंगः । निष्यन्दो हेतुसदृश इति । कुशलक्लिष्टानिवृतव्याकृतसादृश्यमधिकृत्य । यद्येवं कुशलसास्रवस्य हेतोरनास्रवं निष्यन्दफलं प्राप्नोति कुशलसादृष्यात् । न । निकायसादृश्याभावात् । समाननिकायो हि सभागहेतुरिष्यते । न सर्वः । भूमितः क्लिष्टतया चास्य सादृश्यमिति । अस्य सर्वत्रगहेतोः सादृश्यं भूमितः क्लिष्टतया च । केन सह । स्वफलेन । कथमिति । भूमितस्तावत्सर्वत्रगहेतुः कामावचरो यावद्भावाग्रिकः । तत्फलमपि कामावचरं यावद्भावाग्रिकमिति । क्लिष्टतया च सर्वत्रगहेतुरपि क्लिष्टः । तत्फलमपि क्लिष्टं । न तु प्रकारतः सादृश्यं यथा सभागहेतोः । [तिब् । २१२ ] यस्य तु प्रकारतोऽपि सादृश्यं । यस्य सर्वत्रगहेतोः स्वफलेन सह प्रकारतोऽपि सादृश्यं । स सर्वत्रगहेतुरभ्युपगम्यते एव सभागहेतुरिति । भूमिक्लिष्टत्वसादृश्याद्धि सर्वत्रगहेतुर्भवति । सभागहेतुश्च स भवति प्रकारतोऽपि सादृश्यात् । अत एव चतुष्कोटिकः क्रियते । उभयस्वभावतया तृतीयकोटिसंभवात् । प्रथमा कोटिरसर्वत्रगः सभागहेतुरिति । रागादिकः सभागहेतुः । स हि सभागहेतुरेव स्वनैकायिकस्य क्लेशस्य । न तु सर्वत्रगहेतुरसर्वत्रगस्वभावत्वात् । द्वितीयान्यनैकायिकः सर्वत्रगहेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स हि सर्वत्रगहेतुरेव सर्वत्रगस्वभावत्वात् । अन्यनैकायिकक्लिष्टहेतुत्वाच्च । न सभागहेतुः । अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात् । तृतीया एकनैकायिकः सर्वत्रगहेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स हि एकनैकायिकस्य क्लेशस्य सभागहेतुः । एकनैकायिकक्लिष्टसादृश्यात् । सर्वत्रगहेतुश्च सः । तस्य सर्वत्रगत्वादेकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच्च । चतुर्थी एतानाकारान् स्थापयित्वेति । त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्यर्थः । तद्यथा क्लिष्टा धर्माः कुशलानां न सभागहेतुरसादृश्यात् । न सर्वत्रगहेतुः । अत एव कुशलानां चाक्लिष्टत्वात् । [तिब् । २१२ ] एवं कुशलाः क्लिष्टानां योज्यं । क्लिष्टा अपि क्लिष्टानां न सभागहेतुः । नापि सर्वत्रगहेतुर्भवन्ति । तद्यथा रागादयोऽन्यनैकायिकानां क्लिष्टानां न सभागहेतुरन्यनैकायिकत्वात् । न सर्वत्रगहेतुरसर्वत्रगत्वाद्रागादीनामिति । सर्वत्रगा अपि धर्माः क्लिष्टानामेकनैकायिकानामपि न सभागहेतुर्न सर्वत्रगहेतुः । यद्यनागतास्ते भवन्तीति योज्यं । विसंयोगः क्षयो धियेति । धिया प्राप्यमाणो निरोधो विसंयोगफलमित्यर्थः । तेनेति । तेन कारणेन । यस्मात्क्षयो निरोधो धीः प्रज्ञा । तेन कारणेन प्रतिसंख्यानिरोधो विसंयोगफलमित्युक्तं भवतीत्याचष्टे । (अभिधर्मकोषव्याख्या २२५) यद्बलाज्जायते इति विस्तरः । यस्य बलं यद्बलमिति षष्ठीसमासः । यस्य बलाज्जायते यत् संस्कृतं । तत्फलं तस्य पुरुषकारजं पुरुषकाराज्जातं पुरुषकारजं पुरुषकारफलमित्यर्थः । उदाहरणं कथयति । तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यानभूमिकस्य वा तत्प्रयोगचित्तस्य उपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यानबूमिको वा समाधिः । फलं पुरुषकारजमित्यधिकृतं । सास्रवस्य धर्मस्य अनास्रवः । ध्यानचित्तस्य निर्माणचित्तं तदेव फलं भवति । [तिब् । २१३ ] आदिशब्देनान्यदपि । तद्यथा कामावचरान्मरणचित्ताद्रूपावचरः प्रथमोऽन्तराभवक्षण इत्येवमादि विजातीयोदाहरणं निष्यन्दफलविवेचनार्थं । अधरभूमिकस्य हि प्रयोगचित्तस्य उपरिभूमिकः समाधिर्न निष्यन्दफलं । भिन्नभूमिकं हि न हेतुसदृशं । नापि सास्रवस्य अनास्रवमिति वक्तव्यं । न तु सर्वं निष्यन्दफलं पुरुषकारफलं भवति यद्धि यस्य बलाज्जायते सदृशं समानभूमिकमनंतरं च भवति । तत्तस्य पुरुषकारफलं निष्यन्दफलं च भवति । चतुःकोटिकं चात्र भवति । अस्ति पुरुषकारफलमेव न निष्यन्दफलं । यथोदाहृतं । अस्ति निष्यन्दफलमेव न पुरुषकारफलं । सभागसर्वत्रगहेत्वोर्व्यवहितं फलं । अस्त्युभयं । समनन्तरोत्पन्नं सभागसर्वत्रगहेत्वोः फलम् । अस्ति नोभयं । तद्यथा विपाकहेतोर्विपाकफलं । प्रतिसंख्यानिरोधोऽपि पुरुषकारफलमिष्यते । न चासौ हेतुबलाज्जायते नित्यत्वादित्यतः कारिकायामनुक्तं तदुपसंचष्टे । प्रतिसंख्यानिरोधस्तु यद्बलात्प्राप्यत इति वक्तवयमिति । प्रतिसंख्याबलेन हि प्रतिसंख्यानिरोधः प्राप्यते । तस्मात्स प्रतिसंख्यायाः पुरुषकारफलं [तिब् । २१३ ] भवति । अपूर्व इति विस्तरः । अपूर्वः पूर्वोत्पन्नादन्यः । कः पुनरसौ । सहोत्पन्नः पश्चादुत्पन्नश्च । न हि पूर्वं फलं पश्चाद्धेतुर्भवति । संस्कृत एव धर्मोऽधिपतिफलं नासंस्कृतः । संस्कृतस्यैव नासंस्कृतस्य । फलप्रतिग्रहणदानासमर्थत्वात् । सर्वस्येति । जनकस्याविघ्नभावावस्थायिनश्च । कर्तुः पुरुषकारफलमिति । यद्बलाज्जायते यत्तत्फलं पुरुषकारजम् (अभिधर्मकोषव्याख्या २२६) इति वचनात् । अकर्तुरप्यधिपतिफलमिति । अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् इति वचनात् । अन्येषामधिपतिफलमेवेति । अशिल्पिनामविघ्नभावावस्थायिनां तच्छिल्पमधिपतिफलमेव न पुरुषकारफलं । तदेवं चतुःकोटिकं भवति । अस्ति पुरुषकारफलमेव नाधिपतिफलं । तद्यथा विसंयोगफलं । अस्त्यधिपतिफलमेव न पुरुषकारफलं । उदासीनस्य हेतोर्व्यवहितं च फलं । अस्त्युभयं । सहोत्पन्नमनन्तरोत्पन्नं च कारकस्य हेतोः । अस्ति नोभयं । तद्यथा आकाशमप्रतिसंख्यानिरोधश्चेति । (इइ ।६०) वर्तमानाः फलं पंचेति । वर्तमाना एव फलं गृह्णन्तीत्य् अवधारणं । प्रतिगृह्णन्तीति । आक्षिपन्ति [तिब् । २१४ ] हेतुभावेनावतिष्ठन्त इत्यर्थः । कारणहेतुरप्येवमिति । वर्तमान एव फलं प्रतिगृह्णाति नतीतो नानागतो वा । स तु नावश्यं सफल इति नोच्यते । ह्यसंस्कृतं कारणहेतुरिष्यते । न चास्य फलमस्ति । अनागतश्च कारणहेतुः । न च पूर्वमुत्पद्यमानेन धर्मेण सफलः । द्वौ प्रयच्छत इति । वर्तमानावधिकृतं । सहभूसंप्रयुक्तकहेतू वर्तमानावेव फलं प्रयच्छतः । युक्तं तावद्यदतीताविति । निष्यन्दफलेन सफलावेतावुक्तौ । सभागसर्वत्रगयोर्निष्यन्द इति वचनात् । अथ कथं वर्तमानौ निष्यन्दफलं प्रयच्छतः । न हि तयोर्वर्तमानावस्थायां निष्यन्दो दृश्यते इत्यत आह । समनन्तरनिर्वर्तनात् । किं । फलं प्रयच्छत इत्यधिकृतं । तौ चाप्यतीतौ भवत इति । हेतुफलयोरसमवधानात् । न पुनस्तदेव दत्त इति । न पुनस्तदेव फलं प्रयच्छत इत्यर्थः । दत्त इति ह्याख्यातपदं द्विवचनान्तं । वर्तमानावस्थायामेव दत्तत्वात् । न हि वर्तमानतामानीतं पुनरानेतुं शक्यते । यदा च तावतीतौ फलं प्रयच्छतः । तदैव तत्स्वफलं प्रयच्छतः । उत्पद्यमानावस्थायामेव हि फलं निर्वर्तते नान्यदा । केवलं तु व्यवहितं तत्फलमित्यवगन्तव्यं । कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहातीति । इह कुशलमूलानि [तिब् । २१४ ] क्रमेण समुच्छिद्यन्ते । कथं । मिथ्यादृष्टिर्नवप्रकारा । मृदुमृद्वी यावदधिमात्राधिमात्रा । कुशलमूलान्यपि नव प्रकाराणि तद्विपर्ययेण मृदुमृद्व्या मिथ्यादृष्ट्याधिमात्राधिमात्राणि कुशलमूलानि समुच्छिद्यन्ते यावदधिमात्राधिमात्रया (अभिधर्मकोषव्याख्या २२७) मिथ्यादृष्ट्या मृदुमृदूनि कुशलमूलानि समुच्छिद्यन्ते । भावनाहेयक्लेशवत् । तत्रांत्यावस्थायां मृदुमृदूनि कुशलमूलानि न समुदाचरंति । प्राप्तयस्तु तेषां मृदुमृदूनां समुदाचरन्ति । ताः सर्वपश्चिमकास्तदा विजहाति । तासां प्राप्तीनां प्राप्तीर्निरोधयतीत्यर्थः । ताः प्राप्तयोऽन्त्यवस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति । फलपरिग्रहं करोति । न ददाति स्वनिष्यन्दफलं । कुशलस्य क्षणान्तरस्य जन्यस्याभावात् । द्वितीया कोटिह् । ददाति न प्रतिगृह्णातीति । कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते । याः प्राप्तीः सर्वपूर्वं प्रतिलभते । ताः कुशलः सभागहेतुः फलं ददातीति । प्राप्तिं स्वनिष्यन्दं जनयति । न तु प्रतिगृह्णाति पूर्वमेव प्रतिगृहीतत्वात् । अयं तु सावद्यो द्वितीयकोटिनिर्देशः । कुशलमूलप्रतिसंधानकाले हि नवप्रकाराणामपि कुशलमूलानां प्राप्तयोऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यंते । तासां या अतीताः प्राप्तयः । स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति प्रतिगृहीतत्वाद्[तिब् । २१५ ] इति युक्तमेतत् । यास्तु वर्तमानास्तथैव प्रतिलब्धाः प्राप्तयः । स कुशलः सभागहेतुः कथमवधार्यते । फलं ददात्येव न प्रतिगृह्णातीति । स हि प्रतिगृह्णाति च ददाति चेति । एवमविशेषितत्वात्सावद्योऽयं द्वितीयकोटिनिर्देशः । तस्मादाचर्य आह । एवं तु वक्तव्यं स्यात् । ता एव प्रतिसंदधानस्येति । ता एव प्राप्तयः कुशलः सभागहेतुः फलं ददात्येव स्वनिष्यन्दफलदानात् । न प्रतिगृह्णाति पूर्वप्रतिगृहीतत्वात् । तृतीया कोटिः । फलं प्रतिगृह्णाति ददाति चेति । असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा । यस्यामवस्थायां कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति । यस्यां चावस्थायां कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते । यथास्मदादीनां कुशलाः प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति । विसभागक्षणान्तराव्यवहित इति वक्तव्यं । न वक्तव्यं । विसभागक्षणान्तरव्यवधानेऽपि प्राप्तिलक्षणस्य सभागहेतोः फलप्रतिग्रहणदानसंभवात् । चतुर्थ्येतानाकारान् स्थापयित्वा । तद्यथा ऊर्ध्वभूमेः परिहीणस्य [तिब् । २१५ ] ऊर्ध्वभूमिकानां कुशलानां याः प्राप्तयः । ताः कुशलः सभागहेतुर्न फलं प्रतिगृह्णाति । पूर्वं प्रतिगृहीतत्वात् । न ददाति । तद्भूमिपरिहीणस्य तद्भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात् । एवं समुच्छिन्नकुशलमूलवस्थायामपि वक्तव्यं । अत्राचार्यसंघभद्र आह । नैतद्युज्यते यदुक्तम् । एवं तु वक्तव्यं स्यात् । ता एव प्रतिसंदधानस्येति । कस्मात् । न हि यास्ताः सर्वपश्चाद्विहीनाः । तासामेव तन्निष्यन्दफलं । याः प्रतिसंदधानः सर्वप्रथमं (अभिधर्मकोषव्याख्या २२८) प्रतिलभत इति । पूर्वनिरुद्धस्यापि हि तत्प्राप्तिसंतानस्य स निष्यन्द इति । अतः कथं फलग्रहणात्कृत्स्न एव तत्सभागहेतुर्गृहीतः स्यादिति तदर्थमेवेदमुच्यते । तस्माद्यथान्यास एव साध्विति । तदेव उभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयानिति । अत्राभिधर्मपाठ एव श्रेयानिति पश्यामः । ननु चोक्तम् । अविशेषितत्वात्कुशलप्रतिसंधानकाले प्रतिलब्धा वर्तमानाः प्राप्तयः फलं ददति प्रतिगृह्णन्त्यपि । ननु ददत्येव न प्रतिगृह्णन्तीति दोष इति । नैष दोषः । कुशलमूलानि प्रतिसंदधान इति कुशलमूलप्राप्त्युत्पद्यमानावस्थायामेतदुच्यते न वर्तमानावस्थायां तत्र च न काश्चिदपि कुशलमूलप्राप्तयो वर्तमाना भवंति । ताः कथं फलं प्रतिगृह्णन्ति ददति चेति [तिब् । २१६ ] शक्यते वक्तुं । अतीतास्तु स्वसंताने कुशलमूलप्राप्तयः सर्वा अपि सभागहेतुभूताः स्वनिष्यन्दफलं तदानीं ददत्येव । समनन्तरनिर्वर्तनन्यायेन । न प्रतिगृह्णन्ति । पूर्वं प्रतिगृहीतत्वात् । इत्यनया युक्त्याभिधर्मपाठमेव समर्थयामः । ननु चैवमविशेषिते पाठे अनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचनप्रसंगः । ता अपि हि तदानीमतीतप्राप्तिवत्प्राप्यन्ते । नैष दोषः । अनागतानां सभागहेतुत्वाभावात्सभागहेतोश्चेहाधिकृतत्वात् । एवमपि न प्राप्तय एव वक्तव्याः । या एव सर्वप्रथमं प्रतिलभत इति । एवं तु वक्तव्यं स्यात् । यान् सर्वप्रथमं प्रतिलभत इति । यान् कुशलान् धर्मानित्यर्थः । चित्तचैत्ता अपि हि कुशलप्रतिसंधाने प्रथमतः प्रतिलभ्यन्ते । न केवलं तत्प्राप्तयः । अस्त्येतत् । किं तु प्राप्तीनामेव कुशलप्रतिसंधाने आवश्यकत्वादेवं वचनं । कुशलप्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसंधानेऽवश्यमुत्पद्यन्ते । चित्तचैत्तास्तु विचिकित्सया कुशलप्रतिसंधाने न तावदुत्पद्यन्त इति प्राप्तय एवोत्पद्यन्त इति वर्णयम्ति । अकुशलस्येति विस्तरः । अकुशलोऽपि सभागहेतुश्चतुष्कोटिकः । अस्त्यकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण । [तिब् । २१६ ] प्रथमा कोटिः । कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति । ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति । कथं कृत्वा । इह क्लेशो नवप्रकारः । मार्गोऽपि नवप्रकारः । तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते । यावदधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते । तत्प्राप्तयोऽपि तथैव प्रहीयन्ते । कामवैराग्यमनुप्राप्नुवन् या मृदुमृदूनामकुशलानां प्राप्तीः सर्वपश्चाद्विजहाति । ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति । अकुशलप्राप्तिक्षणान्तराभावात् । द्वितीया । कामवैराग्यात्परिहीयमाणो याः सर्वप्रथमं प्रतिलभते अकुशलानां प्राप्तीः । ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति पूर्ववद्वक्तव्यं । (अभिधर्मकोषव्याख्या २२९) अत्राचार्यो ब्रवीति । एवं तु वक्तव्यं स्यात् । त एव परिहीयमाणस्येति । ता एव याः कामवैराग्यमनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद्विजहातीति । ता हि प्रतिगृहीतत्वात्न प्रतिगृह्णन्ति । ददत्येव तु केवलं फलं । पूर्वपाठे तु द्वितीया कोटिर्न संभवति यथोक्तं प्राक् । अत्राचार्यसंघभद्रस्तथैव प्रत्याचष्टे । नैतद्युज्यत इति । पूर्वेण समानमेतत् । सर्वं प्रपंचयितव्यं । [तिब् । २१७ ] तृतीया । कामवीतरागस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा । एते एव यथोक्ते प्रथमद्वितीयावस्थे शेषास्ववस्थासु । यथास्माकं । या अकुशलानां प्राप्तयः । ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च । चतुर्थी । एतानाकारान् यथोक्तान् स्थापयित्वा । तद्यथा कामवीतरागस्यपरिहाणधर्मणो या अकुशलानां प्राप्तयः । सोऽकुशलः सभागहेतुर्न फलं प्रतिगृह्णाति । पूर्वं प्रतिगृहीतत्वात् । न ददाति । तस्य प्राप्त्यभावात् । एवं निवृताव्याकृतस्यापीति विस्तरः । एवं निवृताव्याकृतस्यापि चतुःकोटिकविधानम् । अर्हत्त्वप्राप्तितोऽर्हत्त्वपरिहाणितश्च यथायोगं योज्यं । अस्ति निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरः । प्रथमा कोटिः । अर्हत्त्वं प्राप्नुवन् याः प्राप्तीह्सर्वपश्चाद्विजहाति । स निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति । क्लिष्टक्षणान्तराभावात् । द्वितीया । अर्हत्त्वात्परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । एवं तु वक्तव्यं स्यात् । ता एव परिहीयमाणस्येति । एवं हि फलदानमेवैकम् [तिब् । २१७ ] उपपादितं भवति । पूर्वपाठसमर्थनमपि तेनैवानुक्रमेण वक्तव्यं । तृतीया । भवाग्रवीतरागस्य शेषास्ववस्थासु । चतुर्थी । एतानाकारान् स्थापयित्वा । तद्यथा अर्हत्त्वं प्राप्तस्य यास्त्रिधातुक्यो निवृताव्याकृतानां प्राप्तयः यथासंभवं । स निवृताव्याकृतः सभागहेतुर्न फलं प्रतिगृह्णाति । प्रतिगृहीतत्वात् । न ददाति । प्रहीणत्वात् । अनिवृताव्याकृतस्य पश्चात्पादक इति । पश्चात्पादकलक्षणं व्याख्यातमिति न पुनरुच्यते । योऽनिवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्यपि सः । आह । यस्तावद्ददाति प्रतिगृह्णात्यपि सः । अनिवृताव्याकृतस्य आ परिनिर्वाणात्संनिहितत्वात् । स्यात्प्रतिगृह्णाति न ददाति । अर्हतश्चरमाः स्कन्धाः सर्वोपधिनिःसर्गेणानिवृताव्याकृतनिष्यन्दाभावात् । सालम्बननियमेन तु क्षणश इति । पूर्वमनालम्बनानां सम्भवतो नियम उक्तः सालम्बननियमेन तु चित्तचैत्तानामेव सभागहेतुत्वमुच्यते क्षणशः क्षणान्तरापेक्षया । न तु पर्यादाय विच्छेदत इत्यर्थः । कुशलचित्तानन्तरमिति विस्तरः । यदा कुशल्चित्तानन्तरं क्लिष्टमव्याकृतं वा [तिब् । २१८ ] चित्तं संमुखीकरोति । तदा तत्कुशलं चित्तं फलं प्रतिगृह्णाति यतस्तत्संतानपतितं व्यवहितमनागतं कुशलं फलं भविष्यति । अनुत्पत्तिधर्मि वा । न ददाति । यस्माद्(अभिधर्मकोषव्याख्या २३०) अस्यानन्तरं कुशलमेव नास्ति । सदृशेन हि फलेन सफलः सभागहेतुरिष्यते । द्वितीया । विपर्ययादिति । यदा क्लिष्टानिवृताव्याकृतचित्तानन्तरं कुशलं चित्तं संमुखीकरोति । तदा येन कुशलेन चित्तेन तत्कुशलं चित्तं फलत्वेन प्रतिगृहीतमासीत् । तद्ददाति न तत्प्रतिगृह्णाति । पूर्वं प्रतिगृहीतत्वात् । तृतीया । कुशलचित्तानन्तरं कुशलमेवेति । संमुखीकरोतीत्यधिकृतं । तत्पूर्वकं कुशलं चित्तं द्वितीयं चित्तं फलत्वेन प्रतिगृह्णाति ददाति च । समनन्तरनिर्वर्तनात् । चतुर्थी । एतानाकारान् स्थापयित्वेति । यदा क्लिष्टाव्याकृतचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोति । तदासौ सालम्बनः कुशलः सभागहेतुर्न फलं प्रतिगृह्णाति । प्रतिगृहीतत्वात् । न ददाति । क्लिष्टाव्याकृतचित्तसंमुखीभावात् । एवमकुशलादयोऽपि योज्या इति । अस्ति सालंबनोऽकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति चतुःकोटिकः । प्रथमा कोटिः । अकुशलानंतरं कुशलमनिवृताव्याकृतं वा चित्तं संमुखीकरोति । [तिब् । २१८ ] द्वितीया । विपर्ययात् । तृतीया ।ऽकुशलानन्तरमकुशलमेव । चतुर्थी एतानाकारान् स्थापयित्वा । आदिशब्देन निवृताव्याकृतः अनिवृताव्याकृतश्च सभागहेतुर्योज्यः । निवृतस्य तावत्प्रथमा कोटिः । निवृताव्याकृतचित्तानन्तरं कुशलमनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति । द्वितीया । विपर्ययात् । तृतीया । निवृताव्याकृतचित्तानन्तरं निवृताव्याकृतमेव । चतुर्थी । एतानाकारान् स्थापयित्वा । अनिवृतस्य प्रथमा कोटिः । अनिवृताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं संमुखीकरोति । द्वितीय । विपर्ययात् । तृतीया । अनिवृताव्याकृतानन्तरमनिवृताव्याकृतमेव । चतुर्थी । एतानाकारान् स्थापयित्वा । तस्य बीजभावोपगमनादिति । तस्य फलस्य हेतुभावोपगमनादित्युपमा सौत्रान्तिकप्रक्रियैषा । क्वचित्पुस्तके नास्त्येवंपाठः । यथा जलमण्डलमिति विस्तरः । यथेति दृष्टान्तप्रदर्शनं । जलमण्डलं वायमण्डलस्य प्रतिष्थाफलं । यावच्छब्देन जलमण्डलस्य कांचनमयी पृथिवी । कांचनमय्याः पृथिव्यास्तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफलमित्यधिकारः । अशुभायाः स्मृत्युपस्थानान्यारभ्य यावादनुत्पादज्ञानं । [तिब् । २१९ ] एवमन्यस्याप्यानापानस्मृत्यादेः । प्रयोगस्य फलं योज्यं । सामग्र्याः फलं सामग्रीफलं । चक्षुरादीनामिति । आदिशब्देन चक्षूरूपालोकमनस्काराणां ग्रहणं । एवं भावनायाः फलं भावनाफलमिति समासः । एतत्तु सर्वमिति विस्तरः । एतच्चतुर्विधं फलं पुरुषकाराधिपतिफलयोरन्तर्भूतं । प्रतिष्ठाफलं । अधिपतिफलान्तर्भूतं । प्रयोगफलादिपुरुषकाराधिपतिफलयोः । (इइ ।६१, ६२ ब्) क्लिष्टा इति विस्तरः । क्लेशतत्संप्रयुक्ततत्समुत्थाः क्लिष्टाः । विपाकहेतुजाता विपाकजाः । दुःखे धर्मज्ञानक्षान्तितत्सहभुवः प्रथमानास्रवाः ।(अभिधर्मकोषव्याख्या २३१) तेभ्यश्च शेषाः क्लिष्टादिभ्यस्त्रिभ्यः । विपाकवर्ज्या अव्याकृता ऐर्यापथिकशैल्पस्थानिकनैर्माणिकाः । प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति । कुशलग्रहणेन सास्रवानास्रवा गृह्यन्ते । तत्र दुःखे धर्मज्ञानकलापादयः सर्व एव शैक्षाशैक्षमार्गा लौकिकाश्च कुशलाः शेषा इत्यवगन्तव्यं शेषाश्चात्र तृतीयो राशिः क्रियते । तेनाह । त एते चतुर्विधा धर्माः क्लिष्टा विपाकजाः [तिब् । २१९ ] शेषाः प्रथमार्या यथाक्रमं विपाकं सर्वगं हित्वा तौ सभागं च शेषजा इति । विपाकमिति विपाकहेतुं । क्लिष्ता धर्मा विपाकहेतुं हित्वा शेषेभ्यः पंचभ्यः कारणसहभूसभागसंप्रयुक्तकसर्वत्रगेभ्यो यथासंभवं जायन्ते । स्वभाववर्ज्यात्सर्वधर्मलक्षणात्कारणहेतोः । स्वकलापचित्तादिलक्षणात्सहभूहेतोः । पूर्वोत्पन्नस्वसंतानक्लिष्टलक्षणात्सभागहेतोः । स्वकलापचित्तलक्षणात्संप्रयुक्तकहेतोः । यस्मात्ते चित्तचैत्तस्वभावाः पूर्वोत्पन्नसत्कायदृष्ट्यादिलक्षणात्सर्वत्रगहेतोर्जायन्ते । न तु विपाकहेतोः । विपाकफलेन हि सफलो विपाकहेतुः । न च क्लिष्टा धर्मा विपाकस्वभावा इति ते न ततो जायन्ते । विपाकजाः सर्वत्रगहेतुं हित्वा शेषेभ्यः पंचभ्य एव हेतुभ्यो जायन्ते । न तु सर्वत्रगहेतोः । विपाकजानामक्लिष्टत्वात् । सर्वत्रगाख्यः क्लिष्टानामिति हि सर्वत्रगहेतुलक्षणं । यद्यपि मिथ्यादृष्ट्यादिभ्यः सर्वत्रगेभ्यो विपाकजा जायन्ते । न तु सर्वत्रगहेतोरिति कृत्वा ततो जायन्ते । किं तर्हि । विपाकहेतोरिति । शेषा इति विस्तरः । शेषाणाम् [तिब् । २२० ] अविपाकस्वभावत्वात् । न विपाकहेतुरस्ति । अक्लिष्टस्वभावत्वाच्च न सर्वत्रगहेतुरस्ति । अतस्तौ विपाकसर्वत्रगहेतू वर्जयित्वा शेषेभ्यश्चतुर्भ्यो जायन्ते । पूर्ववद्व्याख्यानं । प्रथमानास्रवाः तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ । चशब्देनानुकृष्टौ सभागहेतुं च हित्वा शेषेभ्यः कारणसहभूसंप्रयुक्तकहेतुभ्यो यथासंभवं जायन्ते । अनास्रवाणामविपाकस्वभावत्वात्न विपाकहेतुरस्ति । अक्लिष्टत्वात्न सर्वत्रगहेतुः । मार्गस्य पूर्वमनुत्पादितत्वात्न सभागहेतुरस्ति । न हि सास्रवा अग्रधर्मा अनास्रवस्य कलापस्य सभागहेतुर्युज्यते । तस्मान्न तेभ्यो जायन्ते । चित्तचैत्ता इति । संप्रयुक्तकहेतुसंभवार्थं चित्तचैत्तग्रहणं । प्राप्तिजात्यादयश्च चित्तविप्रयुक्ताः । अनास्रवसंवरश्च रूपिस्वभावोऽनास्रवेषु वेदितव्यः । ते चित्तविप्रयुक्ता रूपिणश्च चित्तचैत्तेभ्योऽन्ये क्लिष्तादयः क्लिष्टविपाकजशेषप्रथमानास्रवसंगृहीताः तथैवोत्पद्यन्ते यथा चित्तचैत्ताः । केवलं तु संप्रयुक्तकहेतुनैकेन वर्जिताः । तेषामसंप्रयुक्तकस्वभावत्वात्न संप्रयुक्तकहेतोर्जायन्ते । कथमिति । क्लिष्टा चित्तविप्रयुक्तरूपिणो [तिब् । २२० ] (अभिधर्मकोषव्याख्या २३२) विपाकसंप्रयुक्तकहेतू हित्वा शेषेभ्यश्चतुर्भ्यो हेतुभ्यो जायन्ते । विपाकजा अपि संप्रयुक्तकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्य एव । शेषा विपाकसर्वत्रगसंप्रयुक्तकहेतून् हित्वा शेषेभ्यस्त्रिभ्यः । प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च संप्रयुक्तकहेतुं च हित्वा शेषाभ्यां हेतुभ्यां जायंत इति । एकहेतुसंभूतो नास्तीति । कारणसहभूहेत्वोरवश्यमविनाभावात् । (इइ ।६२ द्, ६३) जनस्य जनैका जातिर्न हेतुप्रत्ययैर्विनेत्य् उक्तं । अतो हेतुविस्तरवचनानन्तरं पृच्छति प्रत्ययाः कतम इति । प्रत्ययजातिः प्रत्ययतेति । प्रत्ययप्रकार इत्यर्थः । गोतावत् । चित्तचैत्ता इति विस्तरः । चित्तचैत्ता एव समनन्तर इत्यवधारणं अचरम- ग्रहणं सोत्तराणां समनन्तरत्वात् । उत्पन्न- ग्रहणमनागतनिरासार्थं । समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्यय इति । समानार्थे संशब्दः । कामावचरस्य रूपस्येति । अविज्ञप्तिरूपस्य कदाचित्कामावचरमविज्ञप्तिरूपं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते सास्रवध्यानसंमुखीभावे गृहीतसम्वरस्य । कदाचित्कामावचरं चानास्रवं चानास्रवध्यानसंमुखीभावे । न तु कामावचरचित्तानन्तरं कदाचित्[तिब् । २२१ ] कामावचरं रूपावचरं च युगपच्चित्तमुत्पद्यते । कामावचरं च अनास्रवं चेत्याकुलो रूपसंमुखीभावः । द्वितीयोत्पत्तेरिति । द्वितीयौपचयिकोत्पत्तेः । यदा हि भुक्त्वा स्वपिति ध्यानं वा समापद्यते । तदाहारज औपचयिकः स्वप्नजश्च समाधिजो वा औपचयिक उत्पद्यते । अल्पबहुतरोत्पत्तेरिति । किं । रूपं न समनन्तरप्रत्यय इति प्रकृतं । भदन्तः स्थविरः सौत्रान्तिकः । कुशलाकुशलाव्याकृतेषु चित्तेष्विति । सवितर्कविचारित्वात् । कुशले कामचेतसि द्वाविंशतिश्चैतशिकाह् । कौकृत्यमधिकं क्वचित् । आवेणिके त्वकुशले दृष्तियुक्ते च विंशतिः । क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः । निवृतेऽष्टादशान्यत्र द्वादशाव्याकृते मता (अभिधर्मकोषव्याख्या २३३) इत्यनेन क्रमेण कदाचिद्बहुभ्यश्चैत्तेभ्यस्त्रयोविंशतेरेकविंशतिरष्टादश द्वादश वाल्पे चैत्ता उत्पद्यन्ते । कदाचिदल्पाद्बहवो विपर्ययात् । सवितर्कविचारादौ च समाधित्रये अस्ति सवितर्कः सविचारः समाधिः अस्ति अवितर्को विचारमात्रः । अस्त्यवितर्कोऽविचार इति । एतस्मिं समाधित्रये चैत्तानामल्पबहुतरोत्पत्तिः । अतश्च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युरिति । अस्ति जात्यंतरं प्रति न स्वजातिम् [तिब् । २२१ ] इति । अस्त्यल्पबहुतरोत्पत्तिर्जात्यन्तरं प्रति न स्वजातिं । वितर्कविचारादीनां हि क्वचिच्चित्ते जात्यन्तरभूतानां सतां वृत्तिरवृत्तिश्च भवति । न कदाचिद्बहुतरा वेदनेति । न हि कदाचिद्वेदनैकस्मिंश्चित्ते एका क्वचिदपरस्मिं द्वे तिस्रो वेति । रूपस्य तु स्वजातिं प्रत्यल्पबहुतरोत्पत्तिः । किं पुनः स्वजातेरेवेति । किं वेदना वेदनाया एव समनन्तरप्रुत्ययः । अनेकवेदनोत्पत्तावसामर्थ्यात् । एवं संज्ञादयः । न परजातेः । न वेदना संज्ञादीनां । यतश्चैत्तानामल्पबहुतरोत्पत्तिर्न परिगृहीता भवेत् । सांतानसबागिकास्त्विति विस्तरः । चित्तं चित्तान्तरस्य समनन्तरप्रत्ययः । न वेदनायाः । वेदना वेदनान्तरस्य । न चित्तस्येति । संतानसभागः सभागहेतुरित्यर्थः । संतानसभागेन दीव्यन्ति व्यवहरन्ति वा सांतानसभागिकाः केचिदाभिधर्मिकाः । यदि संतानः संतानान्तरस्य सभागहेतुः । अक्लिष्टानन्तरं यदा क्लिष्टमुत्पद्यते । कथं तत्र समनन्तरप्रत्ययव्यवस्थेति । अत आह । यदा तु अक्लिष्टानन्तरमिति विस्तरः । तस्य क्लेशस्य पश्चादुत्पन्नस्य पूर्वनिरुद्धक्लेशः क्षणान्तरव्यवहितः समनन्तरप्रत्यय इति व्यवस्थापयंति । तुल्यजातीयेन चित्तान्तरेणायवधानात् । अक्लिष्टेन व्यवधानं त्वव्यवधानमेव । अतुल्यजातीयत्वात् । [तिब् । २२२ ] तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्य । चित्तान्तरेणाव्यवधानात् । समापत्तिद्रव्येण व्यवहितमपि समनन्तरप्रत्ययो व्यवस्थाप्यते । तद्वत् । त्रैधातुकप्रतिसंयुक्तानां युगपत्संमुखीभावादिति । कामधात्ववीतरागस्यार्यस्य कामावचर्याः प्राप्तेरनन्तरं त्रैधातुकाप्रतिसंयुक्तानां प्राप्तय उत्पद्यन्ते । त्रैधातुकैः क्लेशैः समन्वागतत्वात् । एवं तज्जात्यादयोऽप्युत्पद्यन्ते । इत्येवं व्याकुलसम्मुखीभावात्विप्रयुक्ता अपि संस्काराः प्राप्तिजात्यादयो न समनन्तरप्रत्ययः । कस्मादनागत इति विस्तरः । उत्पन्नाः समनंतर इति अतीतप्रत्युत्पन्ना एव समनन्तरप्रत्यय इति पूर्वमुक्तं । अत एवं पृच्छति । व्याकुलत्वादिति । व्याकुलत्वादनागतो नेष्यते समनन्तरप्रत्ययः । व्याकुलत्वं पुनरनागतस्याध्वनः पूर्वोत्तराभावात् । पूर्वोत्तरताया अभावात् । (अभिधर्मकोषव्याख्या २३४) वर्तमानो हि अनागतात्पूर्वो वर्तमानादतीत इति शक्यते वक्तुं । पूर्वोत्तरकालयोगात् । न त्वनागतस्य पूर्वपश्चिमतास्ति । अत एव च वर्तमानो वर्तमानस्य न समनन्तरप्रत्यय इष्यते । पूर्वपश्चिमताया अभावात्तुल्यवर्तमानस्य न समनन्तरप्रत्यय इष्यते । पूर्वपश्चिमताया अभावात्तुल्यकालत्वात् । अतीतसांप्रतानुमानादिति । अतीतेन च सांप्रतेन चानुमानात् । अतीतेनानुमानमिति दर्शयन्नाह । अतीतं किलाध्वानं [तिब् । २२२ ] पश्यतीति विस्तरः । सांप्रतेनानुमानमिति दर्शयन्नाह । इदं चापि संप्रत्येवंजातीयकमिति विस्तरः । अपरान्तं न जानीयादिति । सर्ववित्त्वमस्य हीयेतेति अभिप्रायः । फलचिह्नभूतः फललिंगभूतः । न साक्षात्कारी न साक्षाद्दर्शी । अनागतो नेष्यते समनंतरप्रत्ययो व्याकुलत्वात्पूर्वपश्चिमतायाऽभावादित्युक्तेऽयमाह । कस्मादग्रधर्मानन्तरमिति विस्तरः । तस्य वैभाषिकः परिहारमाह । यस्य यत्प्रतिबद्ध उत्पाद इति विस्तरः । यस्य धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर्यस्मिं धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः । स तस्यानन्तरमुत्पद्यते । तद्यथा बीजादीनामंकुरादयः । अंकुरस्य हि बीजे प्रतिबद्ध उत्पादः । तस्मात्तदनन्तरमुत्पद्यते । एवं काण्डादीनामंकुरादिषु । विनापि समनन्तरप्रत्ययेनासत्यपि समनन्तरप्रत्यये । अपिशब्दात्सति समनन्तरप्रत्यये सुतरामुत्पद्यत इत्यभिप्रायः । तस्मान्नास्ति च क्रमनियमावस्थानं तद्वत्समनन्तरोत्पत्तिनियमश्च भवतीति वाक्यार्थः । कस्मादर्हतश्चरमा इति । अचरमा इति वचनादयं प्रश्न आगतः । अन्यचित्तसम्बन्धादिति । यस्मात्तदनन्तरमन्यचित्तं न सम्बध्नन्ति । आश्रयभावप्रभावितं [तिब् । २२३ ] मन इति । यथा चक्षुरुत्पन्नं चक्षुर्विज्ञानाश्रयभावेनावस्थितं यदि कारणान्तरवैकल्याच्चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुरपराध्यते । एवमर्हतोऽपि चरमं चित्तमाश्रयभावेनावस्थितं । कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यते इति न तदपराध्यते । तद्धि न कारित्रप्रभावितं न जननपुरुषकारप्रभावितमित्यर्थः । यदि हि तज्जननप्रभावितं स्यात्जायमान एव सति कार्ये तन्मनः स्यात् । न चैवम् । अतोऽसत्यपि जन्ये तन्मनो भवत्येव । कारित्रप्रभावितस्तु समनन्तरप्रत्ययः सत्येव जन्ये समनन्तरप्रत्ययो भवति । नासति । तेन यो धर्मः फलं प्रतिगृहीतः तेन समनंतरप्रत्ययेन यो धर्मः फलं प्रतिगृहीतो जायतामेतदिति । स सर्वैरपि धर्मैरबुद्धिमद्भिः सर्वप्राणिभिर्वा संचिन्त्यकारिभिर्न शक्यः प्रतिबन्द्धुं यथा नोत्पद्येत मोत्पादीति । ये धर्माश्चित्तसमनन्तरा इति विस्तरः । समनंतरप्रत्ययचित्तजनिताश्(अभिधर्मकोषव्याख्या २३५) चित्तसमनन्तराः । चित्तस्य समाश्च तेऽनन्तराश्च ते इति चित्तसमनन्तराः । अथ वा चित्तं समनंतरं । समनंतरप्रत्यय एषामिति चित्तसमनन्तराः । क्षणान्तराव्यवहितात्तु चित्तनिरंतराः । ते पुनश्चित्तसमनन्तराः चित्तचैत्ता [तिब् । २२३ ] द्वे च समापत्ती असंज्ञिनिरोधसमापत्ती । नासंज्ञिकं चित्तसमनन्तरं शास्त्रे पठितं कर्मसामर्थ्योत्पत्तेः । प्रथमा कोटिरिति विस्तरः । समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्तजनितम् । अतश्चित्तसमनन्तरं न चित्तनिरंतरं । समापत्तिक्षणव्यवहितत्वात् । द्वितीयादयश्च समापत्तिक्षणाः । प्रथमक्षणवर्ज्या इत्यर्थः । चित्तसमनंतराः । तत्प्रत्ययजनितत्वात् । न चित्तनिरन्तराः । यथायोगं प्रथमादिक्षणव्यवहितत्वात् । द्वितीया । प्रथमस्य समापत्तिक्षणस्य जात्यादयः चित्तनिरन्तराः । क्षणान्तरव्यवहितत्वात् । न तु चित्तसमनन्तराः । अचित्तसमनन्तरस्वभावत्वात् । चित्तचैत्ता एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः । सचित्तिकावस्थायां च जात्यादयः । तेषामविशेषितत्वात्सर्वेषां चित्तचैत्तादीनां जात्यादयः । आदिग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा । ते च तथैव चित्तनिरंतरा न चित्तसमनन्तराः । पूर्ववद्व्याख्यानं । सचित्तिकावस्थेति । यदा चित्ताच्चित्तांतरमुत्पद्यते । तदा पश्चिमाश्चित्तचैत्ताः [तिब् । २२४ ] पूर्वकेण चित्तेन चित्तसमनंतराश्चित्तनिरंतराश्च भवंति । चतुर्थी । द्वितीयादीनां समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः न चित्तसमनन्तराः । अचित्तसमनन्तरस्वभावत्वात् । न चित्तनिरंतराः । प्रथमादिसमापत्तिक्षणव्यवहितत्वात् । ये तृतीयचतुर्थ्यौ ते प्रथमद्वितीये इति विस्तरः । प्रथमा कोटिः । प्रथमसमापत्तिक्षणः सचित्तिका चावस्था । ते हि चित्तसमनंतराः समनंतरप्रत्ययजनितत्वात् । न समापत्तिनिरंतराः । प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणभावेन न तन्निरंतरत्वाभावात् । सचित्तिकावस्थायां च समापत्त्यभावात् । द्वितीया । द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च । इमे धर्माः समापत्तिनिरंतर न चित्तसमनन्तराः । तृतीया । अच्चित्तिकायाः समापत्तेर्व्युत्थानचित्तं द्वितीयादयश्च समापत्तिक्षणाः । एते चित्तसमनन्तराः समापत्तिनिरन्तराश्च । चतुर्थी । प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां जात्यादयः । इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तराः । अचित्तसमनन्तरस्वभावत्वात् । [तिब् । २२४ ] पूर्वसमापत्तिक्षणभावाच्च । ससंप्रयोगस्य सचैतसिकस्य । तथालक्षणत्वादिति । आलम्ब्यलक्षणत्वात् । आयतनद्रव्यक्षणनियमेनेति । आयतनं च द्रव्यं च क्षणश्च तेषां नियमः । तेनैव । ते चित्तचैत्ताः स्वस्मिन्स्वस्मिनालम्बने नियताः । यथा तावच्चक्षुर्विज्ञानं ससंप्रयोगं रूपायतने आलम्बने नियतं न शब्दायतनादौ । (अभिधर्मकोषव्याख्या २३६) एवमायतननियमेन । तत्राप्यायतने द्रव्यनियमेन नीलरूपे नीलरूपग्राहकमेव चक्षुर्विज्ञानं ससंप्रयोगं नियतं । नान्यत्र पीतादौ । एवं द्रव्यनियमेन । तत्रापि नीलरूपे आलम्बने यो नीलरूपक्षणो यस्यालम्बनं । स तस्यैव । नान्यस्य । इत्येवं क्षणनियमेन । एवं शब्दायतनादिष्वपि श्रोत्रादिविज्ञानं ससंप्रयोगं योज्यं । किमाश्र्यनियमेनापीति । किं चक्षुराद्याश्रयनियमेनाप्येते चित्तचैत्ता नियताः । ओमित्याह । एवमित्यर्थः । आलम्बनप्रत्ययोऽपि सर्वधर्मा इति मनोविज्ञानापेक्षया । अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्यय इति । हेतुप्रत्ययादिभ्यः । हेतुप्रत्ययो हि परं पंच हेतवः । आलम्बनप्रत्ययो हि सहभुवां न संभवतीति नाधिकः । अधिकस्य वा प्रत्यय इति । पूर्वमधिकः पतिरधिपतिः । स प्रत्यय इति [तिब् । २२५ ] समासः । इदानीमधिकस्य भूयसः पतिरधिपतिः । स प्रत्यय इत्यधिपतिप्रत्यय इति समासः । कथमित्याह । सर्व इति विस्तरः । सर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य सालम्बनस्यानालम्बनस्य च प्रत्ययोऽधिपतिप्रत्ययः । आलम्बनप्रत्ययस्तु सालम्बनस्यैव नानालम्बनस्य । प्रथमे विग्रहे प्रत्ययस्याधिक्यं दर्शितं । द्वितीये प्रत्ययवतः । (इइ ।६४) निरुध्यमाने कारित्रम् इति । निरुध्यमान एवेत्यवधारणं । मिथःफलत्वात्समाश्रयत्वाच्च सहभूसंप्रयुतकहेत्वोर्यथाक्रमं । त्रयो जायमान इति । जायमान एवेत्यवधारणं । ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययाद् इति । समनन्तरप्रत्ययः पूर्वोक्तस्तं पश्चादुक्तं कारित्रकालनियममाश्रयते । जायमाने कारित्रं करोतीत्यर्थः । पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियममाश्रयते । निरुध्यमाने कारित्रं करोतीत्यर्थः । एवं तौ विपर्ययात् कारित्रं कुरुतः । तेनाह । समनन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् । आलम्बनप्रत्ययो निरुध्यमाने । वर्तमानैश्चित्तचैत्तैर्वर्तमानग्रहणादिति । ग्रहणार्थेन ह्यालम्बनप्रत्ययो व्यवस्थाप्यते । न चातीतनागताश्चित्तचैत्ता ग्राह्यमर्थं गृह्णन्तीति । एतदेवास्य कारित्रमिति । यदनावरणभावेन सर्वस्यामवस्थायामवस्थानमेतदेवास्याधिपतिप्रत्ययस्य कारित्रमिति सुगमत्वान्नाधिपतिप्रत्ययस्य [तिब् । २२५ ] कारित्रकालनियमः सूचित इत्यभिप्रायः । (अभिधर्मकोषव्याख्या २३७) (६५) द्विविधो हेतुरिति । संप्रयुक्तकसर्वत्रगविपाकहेतूनामसंभवात् । समानभूमिकाः कुशला धर्मा इति । निरोधसमापत्तेर्भावाग्रिकाः कुशला धर्माः सभागहेतुर्हेतुप्रत्ययः । असंज्ञिसमापत्तेरपि चतुर्थध्यानभूमिकाः । येषां बलेन ते समापत्ती भवतः । समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तमिति । सर्वेषां निरोधसमापत्तिक्षणानामसंज्ञिसमापत्तिक्षणानां च चित्तान्तरेणाव्यवधानात् । पूर्ववदिति । स्वभाववर्ज्याः सर्वधर्माः । चित्ताभिसंस्कारजत्वादिति । चित्ताभोगजत्वादित्यर्थः । चित्तोत्पत्तिविबन्धनात्न समनंतरप्रत्यय इति । समनन्तरप्रत्ययस्य चित्तोत्पत्तिहेतुत्वात् । द्वाभ्यामन्ये त्व् इति । तुशब्दोऽवधारणे भिन्नक्रमश्च । द्वाभ्यामेव हेत्वधिपतिप्रत्ययाभ्यामन्ये वै चित्तचैत्तसमापत्तिद्वयविनिर्मुक्ता धर्मा जायन्ते । ईश्वरपुरुषप्रधानादिकमिति । आदिशब्देन कालस्वभावपरमाण्वादि गृह्यते । ननु चात एवेति । यदि वेश्वर एकं कारणं पुरुष इति वात्र पक्षे को हेतुरिति हेतुर्मृग्यते । ईश्वरव्यतिरिक्तं हेतुं कृत्वा तत्सिद्धेरिति अभ्युपगतं भवति । तदभ्युपगमाच्चैकमीश्वरः पुरुष इति वा कारणं सर्वस्य जगत इति अस्य वादस्य व्युदासः परित्यागः प्राप्नोतीति पिण्डेन वाक्यर्थः । [तिब् । २२६ ] नेश्वरादेः क्रमादिभिर् इति । नेश्वरादेर्भावा जायन्ते । कस्मात् । क्रमादिभिः । आदिग्रहणेन देशकालादीनां ग्रहणं । अथ वानेककारणत्वानवस्थाप्रसंगादन्यपुरुषकालनिह्नवादीनां ग्रहणं । यदि ह्येकमेवेति विस्तरः । यदि ह्येकमेव कारणमीश्वरः स्यात्महादेवो वा वासुदेवो वा अन्यद्वा पुरुषादि वेत्यर्थः । युगपत्सर्वेण जगता भवितव्यं कारणस्य सद्भावात् । न ह्येतदिष्टं । सति कारणे कार्यं न भवतीति । दृश्यते च भावानां कललादीनामंकुरादीनां च क्रमसंभवः । तस्मात्स्वकारणपरंपरानिर्वृत्त इति नेश्वरादिकारणमिति गम्यते । ईश्वराद्येककारणं जगदिति हि प्रतिजानानस्य स्वकारणक्रमोत्पादित्वादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्षस्योपलक्ष्यते । स तर्हि छन्दवशादिति । स क्रमभेद इच्छावशादीश्वरस्य स्यात् । कथमित्याह । अयमिदानीं भाव उत्पद्यतां यावदयं पश्चादुत्पद्यतामिति । एवं क्रमसंभवश्च भावानामीश्वरश्च कारणमिति ईश्वरकारणिकाभिप्रायः । छन्दभेदादिति विस्तरः । ईश्वरच्छन्दभेदाच्चैककारणत्वाभ्युपगमाच्च प्राक्पक्षविरोधाद्धर्मस्वरूपविपर्ययः पक्षस्योत्पद्यते । स चापीति विस्तरः । [तिब् । २२६ ] स चापि छन्दभेदो युगपत्स्यात् । तद्धेतोश्छन्दभेदहेतोरीश्वरस्याभिन्नत्वादेकत्वादित्यर्थः । (अभिधर्मकोषव्याख्या २३८) ततश्च एव स पूर्वोक्तो दोशो युगपत्स्यादिति । अथ मन्यसे । अन्यदपि कारणान्तरं भिन्नं तदुत्पत्तौ ईश्वरोऽपेक्षत इत्यत इदमुच्यते । कारणान्तरभेदापेक्षणे चे ति विस्तरः । नेश्वर एव कारणमित्यभ्युपगमे स एव दोषः । तेषामपि चेति विस्तरः । तेषामपि च कार्णान्तराणां क्रमोत्पत्ताविष्यमाणायां कारणान्तरभेदानामपि पुनः कारणान्तरभेदापेक्षणादनवस्थाप्रसंगः । तेषामपि कारणान्तरभेदापेक्षणं तेषामपि कारणान्तरभेदापेक्षणमित्यपर्यवसानप्रसंगः स्यात् । शाक्यपुत्रीयमेव न्यायमिति । अनादिः संसार इति शाक्यपुत्रीयं न्यायं नातिक्रान्तः स्यात् । यौगपद्येऽपीति विस्तरः । अथापि स्यात् । यौगपद्येऽपीश्वरछन्दानां न जगतो यौगपद्यं । कस्मात् । यथाछन्दमुत्पादात् । यश्छन्दः अयमिदानीमुत्पद्यतामिति । तस्य तस्माच्छन्दादिदानीमेवोत्पत्तिः । यः पश्चादुत्पद्यतामिति । तस्य तस्मात्पश्चादुत्पत्तिः । इदं च पश्चात्पश्चात्तरमेवंप्रकारमिति तस्य तस्मात्पश्चात्तरं तथैवोत्पत्तिरिति । तच्च न । तेषां पश्चाद्विशेषाभावात् । तेषां छन्दानां पश्चान्न कश्चिद्विशेष इति । यथैव पूर्वं नारभन्ते । तथा पश्चादपि नारभेरन् । यथा वा पश्चादारभन्ते । तथा पूर्वमपीति । अथ वा एक एवोत्पादयिता नेतर इति तेसां विशेषाभावः । अतः प्राप्तमेव भावानामीश्वरच्छन्दानाम् [तिब् । २२७ ] इव यौगपद्यं । कारणान्तरापेक्षत्वे वा छन्दविशेषाणां पूर्ववद्दोशः । न तस्यामीश्वरः स्यादिति । न तस्यां प्रीतौ ईश्वरः स्याद्विनोपायेन तत्कारणशक्तेः । एतदीश्वरस्येश्वरत्वं । यदसौ कारणान्तरानपेक्षः कुर्यात् । तथैव चान्यस्मिन्निति । यथा प्रीतावनीश्वरः । एवमन्यस्मिन्नपि त्रैलोक्ये नेश्वर इत्यनुमीयते । यदि चेश्वर इति विस्तरः । नरकादिषु प्रजां सृष्ट्वा बहुभिश्चेतिभिरुपसृष्टां । बहुभिरनेकैः प्रकारैरीतिभिरुपसर्गै रोगादिभिरुपसृष्तामुपद्रुतां प्रजां सृष्ट्वा यदि प्रीयेत नमोऽस्तु तस्मै इत्युत्प्रासवचनमेतत् । सुगीतश्चेति विस्तरः । सूक्तश्चायं तमारभ्य तमीश्वरमधिकृत्य श्लोकः शतरुद्रीये व्यासेन यन्निर्दहतीत्यादि । यस्मान्निर्दहति तस्माद् रुद्र इत्येवं सर्वत्र । अन्येषामिति । बीजादीनामंकुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात् । कारणेभ्योऽन्यस्य व्यापारदर्शनादिति । चक्षूरूपालोकमनस्कारादिभ्यश्च एअक्षुर्विज्ञानाद्युत्पत्तौ बीजक्षेत्रोदकादिभ्यश्चांकुराद्युत्पत्तौ अन्यस्य व्यापारानुपलब्धेः । यथा हि चक्षुरादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चांकुराद्युत्पत्तौ व्यापारो दृश्यते । तद्भावे (अभिधर्मकोषव्याख्या २३९) भावात्तदभावे चाभावात् । न तथा चक्षुरादिभावे बीजादिभावे च [तिब् । २२७ ] ईश्वरस्याभावे चक्षुर्विज्ञानांकुराद्यभावो दृष्टः । पुनश्च तद्भावे भावः । यतस्तस्यापि तदुत्पत्तौ व्यापारो गम्यते । अतस्तद्व्यापारदर्शनात्सह कारणैरीश्वरं कारणं कल्पयतां केवलो भक्तिवादः स्यात् । किं च सहकारिषु चेति विस्तरः । यानि सहकारीण्यन्यानि तस्येश्वरस्य । किं तेष्वीश्वरो नेश्वरः स्यात् । तानि हि कार्योत्पत्तौ स्वसामर्थ्येन व्याप्रियंते । अन्येषु तु सहकारिष्वीश्वरः स्यादिति अन्यग्रहणं । आदिसर्ग ईश्वरहेतुकः । तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात् । कारणेभ्योऽन्यस्य व्यापारादर्शने चादोशो जगतश्चेश्वरः कारणमिति । तस्याप्यन्यकारणानपेक्षत्वात् । तस्याप्यादिसर्गस्यान्यकारणानपेक्षत्वात् । ईश्वर एवैकः । कारणं नान्यदिति । ईश्वववदनादित्वप्रसंगः । अनिष्टं चैतत्तस्मान्नेश्वरः कारणं । एवं प्रधानेऽपि यथागोगं योज्यमिति । प्रधानमचेतनं । तस्मात्तत्र छन्दविकल्पनां हित्वा शेषप्रतिषेधविधानं योज्यं । यद्येकमेव कारणं प्रधानं स्यात् । युगपत्सर्वेण जगता भवितव्यं स्यात् । दृश्यते च भावानां क्रमसंभवः । कारणान्तरभेदापेक्षणे वा न प्रधानमेव कारणं स्यात् । तेषामपि क्रमोत्पत्तौ कारणान्तरभेदापेक्षनादनवस्थाप्रसंगः स्यादिति विस्तरः । एवं खल्वपि जगतः कारणं परिगृह्णता अन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात् । सहापि च कारणैः कारणं प्रधानं कल्पयताम् [तिब् । २२८ ] केवलो भक्तिवादः स्यात् । कारणेभ्योऽन्यस्य व्यापारदर्शनात् । सहकारिषु चान्येषु कारणेषु तत्प्रधानमप्रधानं स्यात् । अथादिसर्गः प्रधानहेतुकः । तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्यलक्षणत्वात्प्रधानवतनादित्वप्रसंगः । नित्यं हि प्रधानं प्रधानं च महतः कारणमिति पूर्वप्रधानं पस्चान्महानिति न सिध्यति । प्रसवधर्मि च प्रधानमिति तेन नित्यं प्रवर्तितव्यं कारणान्तरनिरपेक्षत्वात् । न हि प्रकाशः प्रकाश्यमर्थं प्रकाश्य पुनर्न प्रकाशयतीति । स्वभावो हि कृतार्थतां नोपेक्षते । अकृतबुद्धयः परमार्थशास्त्रैरसंस्कृतबुद्धय इत्यर्थः । (इइ ।६६) द्विधा भूतानि तद्धेतुर् इति । पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां स्वासंतानिकानां सभागहेतुरविनिर्भागवर्तीनि सहभूहेतुः । भूतानुविधायित्वादिति । भौतिकं भूतान्यनुविधत्ते । तद्विकारे विकारात् । आचार्यादिनिश्रयवदिति । यथाभिक्षुराचार्यमाश्रयते । आदिशब्देन उपाध्यायं च निश्रयते । तद्वत् । भूतानि भौतिकं निश्रयते । एवमेषामिति विस्तरः । जन्महेतुत्वमेषां भूतानामाख्यातं तु भौतिकस्य तेभ्य उत्पत्तेः । विकारहेतुत्वं तदनुविधायित्वात् । आधारहेतुत्वं (अभिधर्मकोषव्याख्या २४०) आधारभावात् । स्थितिहेतुत्वमनुच्छेदहेतुत्वात् । वृद्धिहेतुत्वमुपबृम्हणहेतुत्वादिति । अविशेषवर्तित्वादिति [तिब् । २२८ ] अविघ्नभाववस्थानेनान्येषामपि हेतुत्वादित्यर्थः । अन्योन्यं चित्तानुपरिवर्तिकायवाक्कर्नेति । कायकर्म चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतं त्रिविधं प्राणातिपातादत्तादानकाममिथ्याचारविरतिभेदेन । वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतमेव चतुर्विधं । मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापविरतिभेदेन । तदेवं सप्तविधं कायवाक्कर्मान्योन्यं सहभूहेतुः । प्राणतिपातविरतिरुपादायरूपमितरेषां षण्णां सहभूहेतुः । तान्यपि षट्तस्य सहभूहेतुरिति सर्वं योज्यं । नान्यदिति । चक्षुरादिकं सर्वमुपादायरूपं प्रातिमोक्षसंवरादिसंगृहीतमपि यावन्नान्योन्यं सहभूहेतुः पृथक्कलापत्वात् । सभागस्येति । कुशलं कुशलस्य स्वासंतानिकस्य क्लिष्टं क्लिष्टस्येत्यादि । यस्य कायवाक्कर्मण इति । विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्यासमाहितस्य वा यथायोगं । एकधैव तदिति । विपाकहेतुरेवैक इत्यवधारणं । कारणहेतोस्तथैवागण्यमानत्वात् । पृथक्कलापत्वादिति सहभूहेत्वाद्ययोगात् । (इइ ।६७) रूपधातावकुशलं नास्तीति । स विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् [तिब् । २२९ ] उपसंपद्य विहरतीति वचनात् । तत्र रूपधातावकुशलं नास्ति । अकुशलविवेकाद्धि यज्जातं शुभं । तद्विवेकमित्युच्यते । यथा च हेतुः । तथा फलमिति । तत्रोपपत्तावपि नास्त्यकुशलमिति गम्यते । रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशावविपाकत्वान्निवृता एव नाकुशलाः । (इइ ।६८-७१) अनन्तरमिति पश्चाद्वक्ष्यत इति कारिकान्ते । तदिह संबन्धनीयं । समापत्तिकाले कुशलमिति । कामावचरप्रायोगिककुशलचित्तानन्तरं प्रथमध्यानभूमिकं सामन्तकीयं मौलीयं वा चित्तमुत्पद्यते । प्रतिसंधिकाले निवृतमिति । कामावचरोपपत्तिप्रतिलम्भिकमरणचित्तानन्तरं रूपावचरं निवृताव्याकृतं चित्तमुत्पद्यते प्रतिसंधिकाले । उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर् इति वचनात् । उपपत्तिरत्रान्तराभवोपपत्तिरभिप्रेता । एवमन्तराभवप्रतिसंधिरपि क्लिष्टो वेदितव्यः । चतसृभिर्दूरताभिर्दूर इति । तत्रेयमाश्रयदूरता । यदारूप्यावचरेण आश्रयेण कामावचरः कश्चिदपि धर्मो न संमुखीक्रियते । यथा रूपावचरेणाश्रयेण कामावचरं निर्माणचित्तं संमुखीक्रियत इति । अनयाश्रयदूरतया कामधातोरारूप्या दूरे भवंति । आकारदूरता । यदारूप्यावचरेण चित्तेन कामधातुर्नाकार्यते । यथा रूपावचरेण औदारिक इत्यादिभिराकारैः । आलम्बनदूरता । यदारूप्यावचरेण (अभिधर्मकोषव्याख्या २४१) चित्तेन न कामधातुरालम्ब्यते । यथा रूपावचरेण । ननु च रूपधातुरपि नारूप्यावचरेण चित्तेनालंब्यते । न मौलाः कुषलारूप्याः सास्रवाधरगोचरा [तिब् । २२९ ] इति वचनात् । तत्कथमिदमुच्यते कामधातोरेवारूप्या दूरत इति । सत्यं न मौलारूप्यावचरेण चित्तेन रूपधातुरध्यालंब्यते । किं तु आकाशानंत्यायतनसामन्तकचित्तेन औदारिकाद्याकारैश्चतुर्थध्यानमालंब्यत इति । अतो न कामधातोरिव रूपधातोरारूप्या दूरे व्यवस्थाप्यंते । प्रतिपक्षदूरता । यदारूप्या न कामधातोः प्रतिपक्षः । यथा रूपधातुः । इत्येवमाश्रयालम्बनाकारप्रतिपक्षदूरताभिरपि कामधातोरारूप्या दूरे भवंति । तस्मान्न कामावचरकुशलानन्तरमारूप्यावचरं कुशलमुत्पद्यते । शैक्षमशैक्षं चेति । कामावचरप्रायोगिककुशलचित्तानन्तरं समापत्तिकाले लब्धपूर्वं शैक्षमुत्पद्यते । तथैव चाशैक्षं । क्लिष्टसमापत्त्युत्पीडितस्येति । क्लिष्टया समापत्त्या उत्पीडितस्य योगिनोऽधरायाः कुशलाया भूमेः संश्रयणान्निवृताव्याकृतादपि कुशलं चित्तमुत्पद्यते । वरमधरापि कुशला भूमिर्नोर्ध्वा क्लिष्टेति । सर्वेभ्यो रूपारूप्यचित्तेभ्य इति । कुशलाव्याकृतचित्तस्य मरणसंभवात् । तस्माच्चत्वारीति । तस्मादकुशलाच्चत्वारि स्वभूमिकान्येव । अकुशलस्योर्ध्वभूमिकुशलप्रयोगत्वासंभवादप्रहाणाच्चोर्ध्वभूम्युपपत्तिचित्तानुत्पादात् । [तिब् । २३० ] कुशलं निर्माणचित्तादनन्तरमिति । निर्माणाद्व्युत्थानकाले । तस्मादनन्तरमेकादशेति । प्रतिसंधिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकालेष्वेकादशचित्तोत्पत्तिसंभवः । कथं । स्वभूमिकानि त्रीणि कामावचराणि च । व्युत्थानकाले कुशलं । प्रतिसंधिकाले क्लिष्टद्वयं । अनिवृताव्याकृतं च निर्माणचित्तं । आरूप्यावचरं । च निवृताव्याकृतं प्रतिसंधिकाले । कुशलं च समापत्तिकाले । शैक्षमशैक्षं चेति । न त्वारूप्यावचरमनिवृताव्याकृतम् । अवश्याक्लिष्टत्वात् । समापत्त्याद्ययोगाच्च । न हि तत्प्रयोगलभ्यं यथा रूपावचरं कामावचरं च निर्माणचित्तं । कामावचरं च क्लिष्टद्वयमारूप्यावचरं चानिवृताव्याकृतं हित्वेति । न कामावचरात्क्लिष्टद्वयात्रूपावचरं कुशलमुत्पद्यते । तस्य क्लिष्टद्वयस्य तत्प्रयोगानर्हत्वात् । अत एव च नारूप्यावचरादनिवृताव्याकृतात्तदुत्पद्यते । कुशलेन च प्रतिसंधिबन्धाभावात् । कामावचरं क्लिष्तद्वयं शैक्षाशैक्षे च स्थापयित्वेति । न कामावचरात्क्लिष्टद्वयाद्रूपावचरं निवृताव्याकृतमुत्पद्यते । तदप्रहाणे रूपधातौ प्रतिसंधिबन्धाभावेन निवृताव्याकृतचित्तसंभवात् । न शैक्षाशैक्षाभ्यां । ततस्त्येन [तिब् । २३० ] क्लिष्टेन व्युत्थानासंभवात् । कामावचराणि (अभिधर्मकोषव्याख्या २४२) चेति । त्रीणीत्यधिकृतं । प्रतिसंधिकाले क्लिष्टद्वयं क्लिष्टसमाध्युत्पीडितस्य च कुशलं । कामावचरे च क्लिष्टे आरूप्यावचरं चेति । प्रतिसंधिकाले । अधरधातुकानि च क्लिष्टानि प्रतिसंधिकाले । आरूप्यावचरात्कुशलान्नवेति । स्वभूमिकानि त्रीणि । रूपावचरं कुशलं तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च । अधरभूमिकानि च क्लिष्टानि प्रतिसंधिकाले । शैक्षमशैक्षं च । कामावचरं कुशलं कामरूपावचरानिवृताव्याकृते हित्वेति । न कामावचरेण कुशलेन तत्समापत्तेर्व्युत्थानं संभवति अतिविप्रकृष्टत्वात् । अत एव च नानिवृताव्याकृतेनापि अपटुत्वात् । अत एव च न रूपावचरेणानिवृताव्याकृतेन व्युत्थानं । न चैभिः प्रतिसंधिबन्धोऽस्तीति नैषामत उत्पत्तिः । तत्षण्णामनंतरमिति वर्तते । रूपावचरात्कुशलादिति । समापत्तिकाले । शैक्षाशैक्षाभ्यां चेति । व्युत्थानकाले । रूपावचरं कुशलमिति । क्लिष्टसमाध्युत्पीडितस्य । निवृतं चेत्यादि । प्रतिसंधिकाले । कामरूपावचराणि क्लिष्तानि शैक्षाशैक्षे च हित्वेति । अधोभूम्यवीतरागस्य तेन [तिब् । २३१ ] प्रतिसंधेरभावात् । शैक्षाशैक्षाभ्यां च तेन व्युत्थानासंभवान्न तेभ्यस्तदुत्पत्तिः । तान्येव चत्वार्यशैक्षं चेति । त्रीणि त्रैधातुकानि कुशलानि व्युत्थानकाले । शैक्षं च प्रवाहे । वज्रोपमानन्तरं क्षयज्ञानमिति अशैक्षं चेति । पंच पंचकादत एवानन्तरोक्तादिति । त्रैधातुकेभ्यः कुशलेभ्यः समापत्तिकाले । वज्रोपमानन्तरोत्पत्तौ प्रवाहे चेति । तस्माच्चत्वारीति । शैक्षं हित्वा । न ह्यशैक्षात्शैक्षमुत्पद्यते । परिहाणिकाले कथं नोत्पद्यते । क्लेशोत्पादव्यवहितत्वात् । व्युत्थितस्यैव परिहाणेश्च । (इइ ।७२, ७३) प्रायोगिकं चोपपत्तिलाभिकं चेति । प्रायोगिकं यत्प्रयोगाल्लभ्यते । श्रुतचिन्ताभावनामयं त्रिषु धातुषु यथासंभवं । उपपत्तिलाभिकं कामरूपधात्वोरन्तराभवप्रतिसंधिक्षणे प्रथमतो यस्य प्राप्तिरुत्पद्यते । आरूप्यधातौ चोपपत्तिभवे यस्य प्राप्तिरुत्पद्यते । विपाकजमैर्यापथिकं शैल्पस्थानिकं निर्माणचित्तं चेति । हेतुकर्मभेदादयं भेदः । विपाकहेतोर्जातं विपाकजं । ईर्यापथेषु शयनासनस्थितिचंक्रमणेषु भवमैर्यापथिकं । शिल्पस्थानेषु भवं शैल्पस्थानिकं । निर्माणे चित्तं निर्माणचित्तं । निर्मिते निर्माणे वा भवं नैर्मितं नैर्माणिकमिति वा । तदेवोच्यते । पुनर्विंशतिर्भवन्तीति । कथमित्याह । षोढा कुशलमनिवृताव्याकृतं च सप्तधा भित्त्वेति । त्रिषु धातुषु प्रायोगिकोपपत्तिप्रतिलंभिकभेदेन [तिब् । २३१ ] कुशलं षोढा भित्त्वा । कामरूपधात्वोश्चानिवृताव्याकृते सप्तधा भित्त्वा । कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकभेदेन । रूपधातौ च विपाकजैर्यापथिकनैर्माणिकभेदेनेति । तान्येतानि त्रयोदश शेषाणि च सप्ताभिन्नान्येव । तद्यथा (अभिधर्मकोषव्याख्या २४३) कामावचरमकुशलं निवृताव्याकृतं च । रूपावचरं निवृताव्याकृतमेव आरूप्यावचरं निवृताव्य्कृतमनिवृताव्याकृतं च । शैक्षमशैक्षं चेति विंशति चित्तानि भवंति । ईर्यापथाद्यधावादिति । ईर्यापथशिल्पस्थाननिर्माणाभावात् । एतानि त्रीण्यारूप्यधातौ न संति । आलम्बनभूतस्य रूपस्याभावात् । रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनमिति । तत्र शय्यासनरूपादयः स्वशरीरावयवरूपादयश्चैर्यापथिकस्यालम्बनं । शैल्पस्थानिकस्य शिल्पस्थानरूपादयः नैर्माणिकस्य निर्माणरूपादयः । शैल्पस्थानिकस्य तु शब्दोऽपीति । तुशब्दो विशेषणे अपिशब्देन रूपादयः । शब्दोऽप्यस्यालम्बनं । शिल्पोपदेशशब्दमालम्ब्य मनोविज्ञानेन शिल्पं शिक्षते इति । विपाकजस्यावचनात्सर्वेऽपि रूपादय आलम्बनमित्यवगन्तव्यं । मनोविज्ञानान्येवेति । मनोविज्ञानस्वभावान्यैर्यापथिकादीनि त्रीणि । विकल्पाभिसंस्करणे [तिब् । २३२ ] प्रवृत्तत्वात् । विपाकजमवचनात्षड्विज्ञानस्वभावमिति ज्ञापितं भवति । पंच तु विज्ञानकायमैर्यापथिकशैल्पस्थानिकयोः प्रायोगिका इति । तत्प्रयोगावस्थायां भवत्वात्प्रायोगिकाः । यस्मात्ते दृष्ट्वा यावत्स्पृस्ट्वोत्पद्यंत इति । विपाकस्य प्रयोगो नास्ति । कर्मसामर्थ्येन स्वरसवाहित्वात् । ऐर्यापथिकाभिनिर्हृतमिति विस्तरः । ऐर्यापथिकेन मनोविज्ञानेनाभिनिर्हृतमुत्पादितं मनोविज्ञानमस्ति द्वादशायतनालम्बनं । चक्षुरायतनालम्बनं यावद्धर्मायतनालंबनमनिवृताव्याकृतस्वभावमित्यपरे । तदेवं प्रदर्शयंति । अन्यदप्यनिवृताव्याकृतमस्ति यदैर्यापथिकादिषु नान्तर्भवतीति । इत्थमेव च प्रतिपत्तव्यं । अन्यथा हि यद्वक्ष्यति कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तदाद्याप्तमक्लिष्टाव्याकृतं च तत् । स्वभूमिकेन निर्माणं भाषणं त्वधरेण चेत्यादि । तानि विज्ञानानि एषां चतुर्णां कतमेन संगृहीतानि । न तावद्विपाकजानि । ऊर्ध्वोपपन्नानामधरभूमिकविपाकासंभवात् । नैर्यापथिकादीनि । ईर्यापथाद्यभावात् । अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यं भदन्तानन्तवर्मणाऽपि विभाषाव्याख्यान उक्तम् । एतच्चतुष्टयव्यतिरिक्तान्यव्याकृतानि विज्ञानानि [तिब् । २३२ ] सन्तीति । सावशेषमेतद्भाष्यमित्यवगन्तव्यं । अन्यत्राभिज्ञाफलादिति । कामावचरं निर्माणचित्तं रूपावचरप्रायोगिकानन्तरमेवोत्पद्यते । न कामावचरप्रायोगिकानन्तरं । रूपावचरं प्रायोगिकं शैक्षमशैक्षं चेति । समापत्तिकाले । स्वेभ्यः कुशलक्लिष्टेभ्य इति । स्वाभ्यां कुशलाभ्यां क्लिष्टाभ्यां च । प्रयोगकाले क्लिष्टासद्भावात् । क्लेशपरिखिन्नस्य च प्रायोगिकोत्पत्तेः । नानिवृताव्याकृतेभ्यः दुर्बलानभिसंस्कारित्वात् । रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यामिति । प्रायोगिकात्क्लिष्टात् । शैक्षाशैक्षाभ्यां (अभिधर्मकोषव्याख्या २४४) च व्युत्थानकाले । क्लिष्टात्क्लिष्टसमाध्युत्पीडितस्य । रूपारूप्यावचरे च क्लिष्टे इति । प्रतिसंधिकाले । संभवति ह्युपपत्तिप्रतिलंभिकचित्तस्य मरणं । पूर्ववदिति । अन्यत्राभिज्ञाफलादित्यर्थः । तद्धि रूपावचरप्रायोगिकानन्तरमेवेत्युक्तं । रूपावचराभ्यां चेति विस्तरेण पूर्ववद्व्याख्यानं । अकुशलनिवृताव्याकृतानन्तरमिति । अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यं । तुल्यत्वाद्धि तद्युगपद्वचनं । रूपावचरेभ्यश्चतुर्भ्यः । अन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । प्रतिसंधिकाले । प्रायोगिकेऽभिज्ञाफले च स्थितस्य नास्ति मरणम् । अतस्ताभ्यां तत्क्लिष्टद्वयं नोत्पद्यते । शेषेषु तु स्थितस्यास्ति मरणं । [तिब् । २३३ ] अतस्तेभ्यस्तत्क्लिष्टद्वयमुत्पद्यते । प्रतिसंधिकाले । एवमन्यत्राप्यन्यत्र प्रायोगिकादिति व्याख्येयं । षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । दुर्बलानभिसंस्कारकत्वात् । अनयोरनन्तरं प्रायोगिकं नोत्पद्यते । रूपावचरप्रायोगिकानन्तरोत्पत्तेश्च न ताभ्यामभिज्ञाफलोत्पत्तिः । रूपारूप्यावचरे च क्लिष्टे इति । प्रतिसंधिकाले । शैल्पस्थानिकानन्तरं षडिति । तत्रस्थस्य मरणासंभवातैर्यापथिकविपाकजवदिह रूपारूप्यावचरक्लिष्टयोरसंभवः । स्वं चाभिज्ञाफलमेवेति । प्रवाहकाले । रूपावचरं च प्रायोगिकमिति । तद्व्युत्थाने । न ह्यप्रविश्य ध्यानमभिज्ञाफलाद्व्युत्थानमस्तीति । तदप्यस्मादेव द्वयादिति । तदभिज्ञाफलं प्रवाहे तत्प्रवेशकाले च । कामावचरकुशले इति । व्युत्थानकाले । अस्ति हि संभव उपपत्तिप्रतिलंभिकेनापि समापत्तिव्युत्थानं पटुत्वात् । अतो द्वयोरपि कुशलयोर्ग्रहणं । अभिज्ञाफलं चेति । कामावचरं निर्माणचित्तं । आरूप्यावचरं प्रायोगिकं शैक्षाशैक्षं च समापत्तिकाले । अन्यत्रैर्यापथिकविपाकजाभ्यामिति । तयोर्दुर्बलानभिसंस्कारिकत्वात् । प्रायोगिकक्लिष्टाभ्याम् [तिब् । २३३ ] इति । व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः । कामावचरे क्लिष्टे इति प्रतिसंधिकाले । अन्यत्राभिज्ञाफलादिति । निर्माणचित्तस्य प्रायोगिकानन्तरोत्पत्तेः । आरूप्यावचरं क्लिष्तमिति । प्रतिसंधिकाले । कुशलक्लिष्टानीति । कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः । कुशलाधरभूमिकाश्रयणात्कुशले । क्लिष्टे तु प्रतिसंधिकाले ।कामावचरेभ्य इति विस्तरः । प्रतिसंधिकाले । प्रायोगिकशैल्पस्थानिकाभिज्ञाफलेषु मृत्युर्नास्तीति न तेभ्यः । कामावचरे क्लिष्टे इति । प्रतिसंधिकाले । आरूप्यावचरमपि क्लिष्टमस्मिन्नेव स्वं प्रायोगिकमतो नोत्पद्यते । ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात् । एवं विपाकजमिति । यथैर्यापथिकमुक्तं । तथेदं विपाकजानन्तरं सप्त यावदन्यत्राभिज्ञाफलादिति । तावेव ग्रन्थार्थौ । अभिज्ञाफलानन्तरं द्वे स्वे इति । व्युत्थाने प्रवाहे च । तदप्याभ्यामेवेति । प्रवेशे प्रवाहे च । (अभिधर्मकोषव्याख्या २४५) रूपावचरं प्रायोगिकमिति । व्युत्थानकाले । एवं शैक्षमशैक्षं [तिब् । २३४ ] स्वानि चत्वारीति । कुशलं भवतीति स्फुटं । क्लिष्टमास्वादनाकाले ।ऽनिवृताव्याकृतं तु व्युत्थानकाले । रूपावचरात्प्रायोगिकादिति । समापत्तिकाले । अन्यत्र विपाकजादिति । दुर्बलानभिसंस्कारवाहित्वादिति कारणं वक्ष्यते । शैक्षाशैक्षाभ्यां चेति । समापत्तिकाले । अधरधातुकानि च क्लिष्टानीति । रूपावचरकामावचराणि प्रतिसंधिकाले । प्रायोगिकक्लिष्टे इति । प्रायोगिकं क्लिष्टसमाध्युत्पीडनात् । क्लिष्तं प्रतिसंधिकाले । कामावचरेऽपि क्लिष्टे प्रतिसंधिकाल एव । कामावचररूपावचरेभ्य इति विस्तरः । तच्चित्तस्थमरणसंभवात् । अन्यत्र प्रायोगिकादिति । विपाकजानन्तरं प्रायोगिकानुत्पत्तेः । अधराणि त्रीणि क्लिष्टानीति । द्विधातुकानि प्रतिसंधिकाले । कामावचरमुत्पत्तिलाभिकमिति । पटुत्वादेतच्छैक्षाद्व्युत्थानचित्तं संभवति । पटुत्वादिति कारणं वक्ष्यति । न तु तथा रूपारूप्यावचरे उपपत्तिलाभिके पटुनी इति न ते संभवतः । शैक्षं प्रवाहे अशैक्षं च वज्रोपमानन्तरं । शैक्षमेकं हित्वेति । अशैक्षाच्छैक्षं नोत्पद्यते । तस्मादशैक्षानंतरं पंच । न तु षट्यथा शैक्षात् । तानि च पंच शैक्षवद्वक्तव्यानि [तिब् । २३४ ] । अत्र विंशतिचित्तानां समनन्तरप्रत्ययस्य असूत्रितस्य सूत्ररूपाः संग्रहश्लोकाः । प्रायोगिकाच्छुभात्कामे दशाष्टभ्यस्तदन्यथः शुभान्नवैकादशतस्तत्सप्त क्लिष्टतः पृथक् चतुर्दशभ्यश्तेऽष्टावैर्यापथिकविपाकजात् ते तु सप्ततः षट्शैल्पस्थानिकात्तत्तु सप्ततः नैर्मिताद्द्वे द्वयोश्चैतद्रूपे प्रायोगिकाच्छुबात् द्वादशैतत्तु दशतः शुभादष्टावयत्नजात् तत्पंचभ्यो नव क्लिष्टात्तदेकादशतः पुनः विपाकजैर्यापथिकात्सप्त तत्पंचतो द्वयं द्वे अभिज्ञाफलाच्चित्ताद्द्वाभ्यामेव तथैव तत् आरूप्ये यात्निकात्सप्त कुशलात्षड्भ्य एव तत् अयात्निकाच्छुभात्सप्त चतुर्भ्यस्तत्पुनः स्मृतं क्लिष्टादष्टौ दशभ्यस्तत्षट्चित्तानि विपाकजात् चतुर्भ्यस्तत्तु षट्शैक्षाच्चतुर्भ्यः पुनरेव तत् । अशैक्षात्पंच तदपि पंचभ्यः समनंतरं । ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् । न पुनरेभ्यः प्रायोगिकमुत्पद्यत इत्यधिकृतं । अतोऽसंभवादैर्यापथिकशैल्पस्थानिकानन्तरं (अभिधर्मकोषव्याख्या २४६) प्रायोगिकं नोत्पद्यते । तदन्याभिसंस्करणप्रवृत्तत्वादित्यभिप्रायः । यस्मादैर्यापथिकमीर्यापथाभिसंस्करणे प्रवृत्तं । गमनाद्याकारत्वात् । शैल्पस्थानिकं च श्लिपाभिसंस्करणे प्रवृत्तम् । इदमेवं करोमीदमेवं करोमीतीत्येवमाकारप्रवृत्तत्वात् । दुर्बलानभिसंस्कारवाहित्वाच्च विपाकजानन्तरं प्रायोगिकं नोत्पद्यते । [तिब् । २३५ ] तद्धि विपाकजमव्याकृतत्वाद्दुर्बलं । पूर्वकर्माक्षेपात् । अयत्नेन च प्रवृत्तेरनभिसंकारवाहीति । अथ वा ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् । ऐर्यापथिकशैल्पस्थानिकानन्तरं न प्रायोगिकमुत्पद्यते । दुर्बलानभिसंस्कारवाहित्वाच्च ऐर्यापथिकशैल्पस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते । सर्वेषामव्याकृतत्वेन दुर्बलत्वात् । अनभिसंस्कारवाहित्वाच्च विपाकजस्यैवैकस्य ऐर्यापथिकशैल्पस्थानिकयोरपि वा प्रायोगिकाभिसंस्काराभावात् । अन्यव्यापारपरत्वमात्राद्धि तयोरभिसंस्करणप्रवृत्तत्वमुक्तं । अथ वायमेवास्य वाक्यस्याभिसंबन्धः । ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् । दुर्बलानभिसंस्कारवाहित्वाच्चैतानि विपाकजैर्यापथिकशैल्पस्थानिकानि न प्रयोगिकानुकूलानि । अतो न तदनन्तरं प्रायोगिकमुत्पद्यत इति संबन्धनीयं । निष्क्रमणचित्तं तु अनभिसंस्कारवाहीति । प्रायोगिकचित्तप्रवाहाद्यदन्यच्चित्तं । तन्निष्क्रमणचित्तं । तेन ह्यसौ योगी ततः प्रवाहान्निष्क्रामति तदवतारत्वात् । निष्क्रमणचित्तमन्भिसंस्कारवाहि अनाभोगवाहीति युक्तोऽस्य निष्क्रमणचित्तस्य विपाकजादीनामन्यतमस्वभावस्य [तिब् । २३५ ] प्रायोगिकचित्तानन्तरमुत्पादः । एवं तर्हीति । यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्योऽनन्तरं प्रायोगिकं नोत्पद्यते । एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात् । विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्यर्थः तद्विरोधित्वात् । तथापीति विस्तरः । यद्यपि तद्विगुणं तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनः तत्परिज्ञानात्क्लेशसमुदाचारपरिज्ञानाद्युक्तः प्रायोगिकसंमुखीभावः । तत्परिज्ञानमेव हि प्रायोगिकं चित्तमिति । पटुत्वादिति । कामावचरमुत्पत्तिप्रतिलंभिकं पटु तच्छैक्षादिभ्यो व्युत्थानचित्तं संभवति । अत एव च क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं भवति । अनभिसंस्कारवाहित्वात्तु तस्य तस्माच्छैक्षादीनि नोत्पद्यन्ते । रूपावचरं तूपपत्तिप्रतिलंभिकं न कामावचरवत्पटु । तस्मात्क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं न भवति । प्रायोगिकमेवाश्रीयते । अन्योन्यानन्तरं चित्तानामुत्पादः । तानि च मनस्कारवशादुत्पद्यंत इति अतो मनस्कारोपक्षेपः । त्रयो मनस्कारा इति विस्तरः । स्वलक्षणस्य मनसिकरणं स्वलक्षणमनस्कारः । तद्यथा रूपणालक्षणं रूपमित्येवमादि । आदिशब्देनानुभवनलक्सणा वेदनेति एवमादि ।[तिब् । २३६ ] अनित्यत्वादिमनसिकरणं सामान्यलक्षणमनस्कारः (अभिधर्मकोषव्याख्या २४७) षोडशाकारसंप्रयुक्तः । अनित्यतो यावन्नैर्याणिकत इति । अधिमुक्त्या न भूतार्थे मनसिकरणमधिमुक्तिमनस्कारः । अशुभायां यावत्कृत्स्नायतनादिषु । आदिशब्देन ऋद्ध्यादीनामभिनिर्हारे लगुत्वाद्यधिमोक्षो गृह्यते । तद्यथा महर्द्धिको महानुभावः परीत्तां पृथिवीसंज्ञामप्यधितिष्ठति । अप्रमाणामपि संज्ञां । स आकांक्षन् पृथिवीं चलयतीति विस्तरः । अशुभया सहगतं सम्बद्धमशुभासहगतं । एतदुक्तं भवति । अशुभामनस्कारानन्तरं स्मृतिसंबोध्यंगं भावयति जनयति उत्पादयतीति । समृतिसंबोध्यंगं ह्यार्यमार्ग इति अस्त्यधिमुक्तिमनस्कारानन्तरमार्यमार्गोत्पाद इति दर्शयति । आह । यदि सामान्यमनस्कारानान्तरमेव नाधिमुक्तिमनस्कारानंतरमार्यमार्गं संमुखीकरोति । इदं कथं नीयते । अशुभासहगतं स्मृतिसंबोध्यंगं भावयतीति । अत इदमुच्यते । अशुभया तु चित्तं दमयित्वेति विस्तरः । प्रायोगावस्थायामशुभया चित्तं दमयित्वा यावदवसाने सामान्यमनस्कारानन्तरमार्यमार्गं संमुखीकर्तोइ । अतो न सूत्रविरोध इति । आर्यमार्गानन्तरमपीति विस्तरः । न केवलं सामान्यमनस्कारानन्तरमार्यमार्गं संमुखीकरोति । [तिब् । २३६ ] आर्यमार्गानन्तरमपि सामान्यमनस्कारमेव संमुखीकरोतीत्यपरे । स्यात्तावदिति विस्तरः । अनायम्यादीति । आदिशब्देनानागम्यप्रथमध्यानध्यानान्तरत्रिभूमिसंनिश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामावचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा संमुखीकुर्यात्संनिकृष्टत्वात् । अथ द्वितीयादिध्यानसंनिश्रयेण द्वितीयतृतीयचतुर्थध्यानसंनिश्रयेण नियामावक्रान्तौ कथमार्यमार्गानन्तरं कथं सामान्यमनस्कारं संमुखीकरोति । न हि कामावचरः शक्यः संमुखीकर्तुमिति वाक्यशेषः । कस्मात् । प्रथमध्यानव्यवहितत्वेनातिविप्रकृष्टत्वात् । ब्रूयास्त्वं द्वितीयादिध्यानभूमिकमेव संमुखीकरोतीति । अत आह । न च तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयादिति । द्वितीयध्यानादिभूमिकोऽनागम्यादिभूमिको वानास्रवो मार्गोऽन्यत्र निर्वेधभागीयान्न प्रतिलब्ध आसीत् । अनाकारपतितस्तु लौकिको मार्गः प्रतिलब्ध आसीत् । न तु सः । तस्मादार्यस्य व्युत्थानार्थं रोचते । निर्वेधभागीयं तर्हि सामान्यमनस्कारं संमुखीकरिष्यतीति । अत आह । न चार्यो निर्वेधभागीयमिति विस्तरः । किमर्थमिति चेत् । अत आह । न हि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति । प्रयोगस्य कृतार्थत्वान् [तिब् । २३७ ] निहीनत्वाच्च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति । अन्योऽप्यस्य तज्जातीय इति । यः सत्यालम्बनत्वान्निर्वेधभागीयजातीयः सामान्यमनस्कारो भावनां गच्छति । अनास्रवमार्गोत्पत्तिकाले प्राप्यते इत्यर्थः । कथं । शान्तं निर्वाणमिति सामान्यमनस्कारः सर्वनिर्वाणालम्बनत्वात् । (अभिधर्मकोषव्याख्या २४८) तत्संमुखीकरिष्यतीति । सर्वसंस्कारा अनित्या इति वा सर्वधर्मा अनात्मान इति वा शान्तं निर्वाणमिति वार्यमार्गानन्तरं संमुखीकरिष्यतीति । तदेतन्न वर्णयन्ति । कस्मातेषां तज्जातीयानां सामान्यमनस्काराणां निर्वेधभागीयप्रतिबद्धभावनत्वात् । न किलैषामनास्रवमार्गप्रतिबद्धाभावेनेति । अनागम्यं निश्रित्येति विस्तरः । तद्भूमिकमिति । अनागम्यभूमिकं । तद्भूमिकं भावाग्रिकं वेति । आकिंचन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो भवति । शेषासु भूमिषु स्वभूमिकमेव व्युत्थानचित्तं । नान्यभूमिकं । अन्यभूमिकस्य प्रयोगसाध्यत्वात् । स्वभूमिकमनभिसंस्कारेण भवतीति । प्रयोगप्रतिबद्धत्वादिति । कस्य । आर्यमार्गस्य । मार्गानन्तरं तूपपत्तिप्रतिलंभिकस्यापि कामावचरस्य संमुखीभाव इत्यधिकृतं । (इइ ।७४) क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोर् इति । यथासंख्येन [तिब् । २३७ ] निर्देशः । कामावचरे क्लिष्ते षण्णां चित्तानां लाभः । प्रतिलंभ इत्यर्थः । रूपावचरे षण्णां । आरूप्यावचरे द्वयोरिति । तेनाह । कामावचरे हि क्लिष्ट इति विस्तरः । तैरसमन्वागतस्येति । तैः षड्भिश्चित्तैरसमन्वागतस्य पुद्गलस्य । कथं । इह कुशलप्रतिसंधानं सम्यग्दृष्ट्या वा विचिकित्सया वा । तद्यदि विचिकित्सया प्रतिसंधत्ते । तत्र विचिकित्सासंप्रयुक्ते क्लिष्टे चित्ते संमुखीभूते यदा रूपधातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति । तदास्यान्तराभवप्रतिसंधिचित्तेऽवश्यक्लिष्टे तस्य कुशलस्य लाभस्तेनासमन्वागतस्येति । अकुशलनिवृताव्याकृतयोरिति विस्तरः । अकुशलं च निवृताव्याकृतं च कामावचरमेव अधिकाराद्रूपावचरस्य च निवृतस्य पृथक्पाठात् । तयोरकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्तस्य । किं । लाभ इति प्रकृतं । कथं लाभ इत्याह । धातुप्रत्यागमनात्परिहाणितश्चेति । यदा रूपधातोरारूप्यधातोर्वा कामधातुं प्रत्यागच्छति । तदास्यांतराभवप्रतिसंधिचित्तेऽवश्यं क्लिष्टेऽकुशलनिवृताव्याकृतयोरन्यतरस्मिं संमुखीभूते तयोरकुशलनिवृताव्याकृतयोर्लाभो भवति पूर्वविहीनत्वात्तेनासमन्वागतस्य । परिहाणितश्च । [तिब् । २३८ ] यदा च कामवैराग्यात्परिहीयते । तदास्य क्लिष्टे परिहाणिचित्ते संमुखीभूते तयोः क्लिष्टयोर्लाभस्तेनासमन्वागतस्य । रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात् । यदारूप्यधातोः कामधातुं प्रत्यागच्छति । तदास्यान्तराभवप्रतिसंधिचित्तेऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेनासमन्वागतस्य । परिहाणितश्च । यदा रूपवैराग्यात्परिहीयते कामावचरेण चित्तेन । तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य । (अभिधर्मकोषव्याख्या २४९) आरूप्यावचरस्य क्लिष्टस्य परिहाणितः । यदा कामावचरेण चित्तेनारूप्यवैराग्यात्परिहीयते । तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य । शैक्षस्य च परिहाणित इत्यधिकृतं । यदा कामावचरेण चित्तेनार्हत्त्वात्परिहीयते । तदास्य शैक्षचित्तस्य लाभो भवति तेनास्मन्वागतस्य । एवं तावत्कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभ उक्तस्तैरसमन्वागतस्य । रूपावचरे क्लिष्ते चित्ते संमुखीभूते षण्णां लाभः तैरसमन्वागतस्य । रूपावचराणामिति विस्तरः । यदारूप्यधातो रूपधातुं प्रत्यागच्छति । तदास्य रूपावचरान्तराभवप्रतिसंधिचित्तेऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां कुशलस्योपपत्तिप्रतिलंभिकस्य [तिब् । २३८ ] क्लिष्टस्यानिवृताव्याकृतस्य च । निर्माणचित्तस्याग्रजप्राप्तिसद्भावात् । कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्तस्यैव । आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च लाभः । परिहाणितो रूपावचरेण चित्तेनार्हत्त्वात्परिहीयमाणस्य तदसमन्वागतस्य । एवं रूपावचरेऽपि क्लिष्टे षण्णां लाभ उक्तः । आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभस्ताभ्यामसमन्वागतस्य । परिहाणित आरूप्यावचरेण चित्तेनार्हत्त्वात्परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः संमुखीभूतः शैक्षस्य चेति । रूपावचरे कुशले त्रयाणाम् इति । कुशल इति जातिनिर्देशः । कुशले कस्मिंश्चिद्रूपावचरे त्रयाणां लाभः संभवः । कथम् । आद्ये तावद्रूपावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस्तेनासमन्वागतस्य । मौलध्यानसंगृहीते तु कुशले चित्ते संमुखीभूते कामावचररूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभः ताभ्यामसमन्वागतस्य । इत्येवं कुशले रूपावचरे चित्ते संमुखीभूते त्रयाणां लाभ इत्युच्यते । न तु युगपल्लाभ इति । शैक्षे चतुर्णाम् इति । शैक्षे चित्ते संमुखीभूते दुःखे धर्मज्ञानक्षांतिचित्ते तस्यैव शैक्षस्य दुःखे धर्मज्ञानक्षांतिकलापस्वभावस्य लाभस्तेनासमन्वागतस्य । कामरूपावचरयोश्चानिवृतव्याकृतयोर्[तिब् । २३९ ] आरूप्यावचरस्य च कुशलस्य । कस्मिं कलाप इत्याह । आर्यमार्गेण कामरूपधातुवैराग्ये । कथमिति । यदायमनागम्यभूमिकेनार्यमार्गेण कामवैराग्यं करोति । तदा नवमविमुक्तिमार्गसंगृहीते शैक्षे चित्ते संमुखीभूते कामरूपावचरयोरनिवृताव्याकृतयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य । यदा तु षड्भूमिकानामार्यमार्गाणामन्यतमेन रूपवैराग्यं करोति । तदाद्यप्रकारचित्ते शैक्षे संमुखीभूतेऽतीतानागतप्राप्तिन्यायेनारूप्यावचरस्य कुशलस्य लाभस्तेनासमन्वागतस्य । आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थं । शैक्षे चित्ते संभूतेऽयं लाभो वर्ण्यते । (अभिधर्मकोषव्याख्या २५०) अत्राचार्यगुणमतिर्व्याचष्टे । शैक्षे चतुर्णां तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोररूप्यावचरस्य च कुशलस्येति । कथमित्यतो ब्रवीति । आर्यमार्गेण कामरूपवैराग्ये यदायमनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति । तदा यो नवमो विमुक्तिमार्गः । तस्मिं मौलध्यानभूमिकमपूर्वकं शैक्षं लभत इति शैक्षस्य लाभ उच्यते । कामरूपावचरयोश्चानिवृताव्याकृतयोर्निर्माणचित्तयोरेव तस्मिं लाभः । षड्भूमिकेन त्वार्यमार्गेण [तिब् । २३९ ] कामरूपवैराग्ये यो नवमो विमुक्तिमार्गः । तस्मिन्नारूप्यावचरं कुषलं प्रतिलभत इति । तच्छिष्योऽप्याचार्यवसुमित्रस्तमेवार्थं तेन वाक्येन तैरेव पदव्यंजनैर्लिखति । तदेतदयुक्तं व्याख्यानं । न ह्येवमेकवाक्येन व्याख्यातार्थो घटते । वाक्यभेदेन घटते । तस्यैव शैक्षस्य लाभ इत्येतदेकं वाक्यं । कामरूपावचरयोश्च यावत्कामरूपधातुवैराग्य इत्यपरं वाक्यम् । आर्यमार्गेण कामरूपधातुवैराग्य इत्येतेन विशेषेण तस्यैव शैक्षस्येत्येतत्पूर्वोक्तं न विशेष्यं वाक्यान्तरत्वात् । अतद्वतो ह्ययं चित्तलाभो वर्ण्यते । चित्तलाभो ह्यतद्वत इति वचनात् । कथं । नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्तलाभो व्यवस्थाप्यते । ननु चोक्तं मौलध्यानभूमिकमपूर्वं शैक्षं लभ्यत इति । न अतिप्रसंगात् । रूपावचरमपि कुशलं चित्तं मौलध्यानभूमिकमपूर्वं प्रतिलभ्यत इति तस्यापि लाभ इति प्रसज्येत । आचार्यवसुमित्र आह । शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशलमुष्मगतावस्थायामेव रूपावचरं नियामवाक्रान्तौ लब्धमिति कृत्वा न गण्यत इति । तदयुक्तं शैक्षस्याप्यगणनाप्राप्तेः । शैक्षमपि हि दर्शनमार्गावस्थायां लब्धमिति न भवता तथा स्थापयितव्यमिति प्राप्नोति । अतश्चेदमपव्याख्यानमिति निश्चीयते । यस्मादाचार्येणैव [तिब् । २४० ] मिश्रश्लोकव्याख्यान एवं लिखितं । शैक्षस्याशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोरिति । शेषं कृतशेषितम् इति । प्रातिपदिकधातुरूपमेतदिति दर्शयति । यत्र चित्ते लाभो न व्याख्यातः । तत्र तस्यैव लाभ इति । कथं कृत्वा । कामावचरे तावत्कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः । तत्र तस्यैव लाभो नान्येषां । तद्यथा सम्यग्दृष्ट्या कुशलमूलप्रतिसंधाने कामावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य चित्तस्य लाभः तेनासमन्वागतस्य । नान्येषां क्लिष्टानां । (अभिधर्मकोषव्याख्या २५१) त्रैधातुकानामपि पूर्वप्रतिलब्धत्वात् । न कामावचरस्यानिवृताव्याकृतस्य । विपाकजादीनां सहजप्राप्तित्वात् । निर्माणचित्तस्य प्राप्त्यभावात् । न रूपारूप्यावचराणां कुशलादीनां शैक्षशैक्षयोश्च प्राप्त्यभावात् । अनिवृताव्याकृतेऽपि कामावचरे चित्ते लाभो न व्याख्यातः । तत्र तस्यैव लाभः तेनासमन्वागतस्य । अव्याकृताप्तिः सहजेति कृत्वा । नन्येषां कुशलादीनां पूर्वप्रतिलब्धत्वात् । तथैव केषांचित्प्राप्त्यभावाच्च । निर्माणचित्ते तु संमुखीभूते न कस्यचिल्लाभ इति न वक्तव्यं । यत्र हि क्लिष्टेऽन्यत्र वा कस्यचिल्लाभो नास्ति । न तदुच्यते । क्लिष्ट एव हि त्रैधातुके षण्णां यावद्द्वयोर्लाभो न त्ववश्यमित्यवधारणं । रूपावचरेऽप्य्[तिब् । २४० ] अनिवृताव्याकृते संमुखीभूते तस्यैव लाभः । नान्येषां पूर्ववद्वक्तव्यं । तथारूप्यावचरे आकाशानन्त्यायतनसामन्तकाद्यप्रकारसंगृहीते कुशलचित्ते संमुखीभूते तस्यैव लाभस्तेनासमन्वागतस्य । नान्येषां केषांचित् । पूर्वप्रतिलब्धत्वात्केषांचित्प्राप्त्यभावात् । एवमनिवृताव्याकृते शैक्षे च । अन्ये पुनरभेदेनाहुरिति । के । मिश्रककारा । अभेदेनेति त्रैधातुकानां क्लिष्टादीनामपृथक्करणात् । षण्णां तु कुशले चित्ते इति । यदुक्तं । तन्न्यूनं लक्षणं । कुशलं हि त्रैधातुकं सास्रवमनास्रवं च । तत्र सप्तानां कशले चित्ते इति वक्तव्य्ं न षण्णामिति तद्दर्शयन्नाह । कामावचरस्येति विस्तरः । कुशलमूलेप्रतिसंधानादिति व्याख्यातमेतत् । अनिवृताव्याकृतयोर्वैराग्यत इति । लौकिकेन लोकोत्तरेण वा मार्गेण कामधातोर्वैराग्ये नवमे विमुक्तिमार्गे कामरूपावचरयोर्निर्माणचित्तयोर्लाभस्ताभ्यामसमन्वागतस्य । रूपाराप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभत इति । यदा रूपावचरमनागम्यं प्रथमतो लभते । तदा रूपावचरस्य कुशलस्य लाभः । यदाकाशानंत्यायतनसामन्तकं प्रथमतो लभते । तदारूप्यावचरस्य कुशलस्य लाभः । [तिब् । २४१ ] शैक्षस्य चाशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोरिति । यदा नियममवक्रामति । तदा शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्य लाघः । यदार्हत्त्वं प्राप्नोति । तदाशैक्षस्य क्षयज्ञानकलापस्य लाभः । इत्यास्ववस्थास्वमीभिश्चित्तैर्यथोक्तैः सप्तभिरसमन्वागतः समन्वागमनं प्रतिलभते । शेषमत एव व्याख्यानादुपधार्यमिति । अत एव मदीयाद्व्याख्यानाच्छेषमवगन्तव्यं । क्लिष्टे चित्ते नवानां हि लाभ इत्येकं । तस्यैवव्याकृते खल्व् (अभिधर्मकोषव्याख्या २५२) इति द्वितीयम् । इत्येतच्छेषं । कथं । क्लिष्टे त्रिधातुके चित्ते नवानां लाभः । कामावचराणां चतुर्णां रूपावचराणां त्रयाणामारूयावचरस्य निवृतस्य शैक्षस्य चेति नवानां यथायोगं लाभः तैरसमन्वागतस्य । कोऽयं यथायोगार्थः । कामावचरो च क्लिष्टे कुशलमूलप्रतिसंधानेन वा धातुप्रत्यागमनेन वा कामावचरस्य कुशलस्य लाभः । अकुशलनिवृताव्याकृतयोश्च धातुप्रत्यागमनेन परिहाण्या वा लाभः । रूपावचर एव क्ल्ष्टे रूपावचरस्य कुशलस्य कामावचररूपावचरयोश्चानिवृताव्याकृतयोर्निर्माणचित्तयोर्धातुप्रत्यागमनाल्लाभः । कामावचरे रूपावचरे वा क्लिष्टे रूपावचरस्य वा क्लिष्टस्य वा धातुप्रत्यागमनात्परिहाणितो वा लाभः । कामावचरे रूपावचरे आरूप्यावचरे वा क्लिष्टे [तिब् । २४१ ] आरूप्यावचरक्लिष्टशैक्षयोः परिहाणितो लाभः । इति यथायोगार्थः । तस्यैवाव्याकृते खल्व् इति । यच्छेषं । तत्तुल्यमिति पूर्ववत् । अव्याकृतानां हि त्रैधातुकानामन्यतमस्मिं संमुखीभूते तस्यैवाव्याकृतस्य लाभः । तेनतेनासमन्वागतस्य । अव्याकृताप्तिः सहजेति सिद्धान्तात् । संग्रहश्लोक इति । सर्वम् उपपत्तौ धातुप्रत्यागमनादिति वचनात् । समापत्तौ तस्यैव कुशलस्यैवमादिवचनात् । ततस्त्यसमाधिलाभत इति वचनात् । वैराग्ये कामरूपधातुवैराग्ये इति वचनात् । परिहाणौ परिहाणित इति वचनात् । कुशलप्रतिसंधौ चेति विचिकित्सया सम्यग्दृष्ट्या च कुशलमूलप्रतिसंधानादिति वचनात् । चित्तलाभः चित्तप्रतिलंभः । अतद्वतः पुद्गलस्य तैरसमन्वागतस्येति वचनादिति । आचार्ययशोमित्रकृतायामभिधर्मकोशव्याख्यायामिन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानं समाप्तं । (अभिधर्मकोषव्याख्या २५३) इइइ (लोकनिर्देशो नाम तृतीयं कोशस्थानम्) (इइइ ।१-३) इदमिदानीं वक्तव्यमिति । द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्धप्रदर्शनार्थमिदमुक्तं । कामरूपारूप्यधातुनैयम्येन चित्तादीनां कृतो निर्देश इति । नियमस्य भावो नैयम्यं नियम एव वा नैयम्यं । तेन चित्तादीनां कृतो निर्देशः । कुशलाकुशलं कामे [तिब् । २४२ ] निवृतानिवृतं मनः । रूपारूप्येष्वकुशलादन्यत्रेति वाचनात् । आदिशब्देन चैत्तादीनां ग्रहणं । सवितर्कविचारत्वात्कुशले कामचेतसि । कौकृत्यमिद्धाकुशलान्याद्ये न सन्त्यतः ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम् इति वचनात् । इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः । कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये । दुःखे च हित्वारूयाप्तं सुखे चापोह्ये रूपि चेति वचनात् । तेन कामरूपारूप्यधातवोऽनुक्तलक्षणा इत्यतः पृच्छति । तत्र कतमे ते कामरूपारूप्यधातव इति । अत इदमुच्यते । नरकप्रेततिर्यं च इति विस्तरः । चतस्रो गतय इति । नरकप्रेततिर्यग्मनुष्यगतयश्चतस्रः साकल्येन कामधातावन्तर्गताः । देवगतिस्तु न साकल्येन । किं तर्हि । षड्देवनिकाया इति दर्शयति । तत्र नीर्यन्त इति नॄ नये । न रंजयन्तीति रंजेः । नरेरिति रि गतिरेषणयोरित्यस्य प्रतिषेधपूर्वस्य रूपं । नीर्यन्तेऽस्मिं सत्त्वा अपुण्येनेति नरकाः । न रंजयन्त इति नरका इत्यपरे । नरेरासादनार्थस्यैतद्रूपं । न रंजयति प्रावंति नास्पृहयंति त्राणमिति नरका इति आचार्यसंघभभद्रः । भृशमितोऽपुनरावृत्तेरिताः प्रेताः । पिपासया (अभिधर्मकोषव्याख्या २५४) परीता इत्यपरे । तिर्यग्गमनात् तिर्यंच । मनस उद्भूतत्वान्मनुष्याः । [तिब् । २४२ ] मनोरपत्या इति लौकिकाः । द्यौरोको येषामिति दिवौकसः । कामप्रभावितो धातुः कामधातुरिति वक्ष्यति । चत्वारो महाराजानो लोकपाला विरूढको विरूपाक्षो धृतराष्ट्रो वैश्रवणश्च । तेषु भवाश्चातुर्महाराजिकास्तन्मध्यगता इत्यर्थः । तद्यथा देवेषूपपद्यते देवमध्ये उत्पद्यत इत्यर्थः । चतुर्महाराजस्थाने भवाश्चातुर्महाराजिका मध्यपदलोपा गोरथवदित्यपरे । सहकृतसुकृतैरत्रोपपद्यंत इति त्रयस्त्रिंशाः । समानपुण्यैरित्यर्थः । अष्टौ वसवा द्वावश्विनौ एकादश रुद्रा द्वादशादित्या इति तावत्प्रमुखत्वात्त्रयस्त्रिंशा इति लौकिकाः । तदनुसारेण प्रवचनेऽपि तथा नामव्यवहार इत्यपरे । दुःखात्याताः पुण्येनेति यामाः । दुःखानि वा यामयन्तीति यामाः । तुषा तुष्ट्या इताः । तुषो वा विद्यन्ते एषामिति तुषिताः । स्वयंकृते निर्माणे रतिरेषामिति निर्माणरतयः । परनिर्मितान् भोगान् वशे वर्तयितुं शीलमेषामिति परनिर्मितवशवर्तिनः । स्थानानीति वाक्यशेष इति । यानि विंशतिस्थानानि । स कामधातुः । यदि तु विंशतिस्थानो विंशतिरिति उत्तरपदलोपः क्रियेत । तद्यथा पीततोया अश्वाः पीता इति [तिब् । २४३ ] सुतरां श्लिष्यति । संजीवो यत्र सत्त्वान्म्रियमाणान् वायवो जीवयंति । कालसूत्रा यत्र कालसूत्राणि पातयित्वा सत्त्वास्तक्ष्यंते । संघातो यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति । रौरवो यत्र सत्त्वा यात्यमानाः परमविकृतं रुदंति । यत्र तु विशेषेण स महारौरवः । तपनो यत्राग्न्यादिभिस्तप्यन्ते सत्त्वाः । यत्र तु विशेषेण स प्रतापनः । अवीचिर्यत्रातिमात्राग्निज्वालालिंगितानां सत्त्वानां सुखवीचिरन्तरं नास्ति । जम्बूद्वीपो जम्बूचिह्नो द्वीपः । पूर्वविदेहः सुमेरोः पूर्वेण । अवरगोदानीयः पश्चिमेन । उत्तरकुरुरुत्तरेण । एवं नामान एते द्वीपा लोकप्रतीताः । षट्चानन्तरोक्ता देवनिकायाः । इत्येतानि विंशतिः स्थानानीति । अष्तौ नरकाश्चत्वारो द्वीपाः षट्चानन्तरोक्ताश्चातुर्महाराजिकादयः प्रेतास्तिर्यञ्चश्चाभिन्ना इति विंशतिस्थानः कामधातुः । यावद्वायुमण्डलमिति । अधस्ताद्यत्राप्मण्डलं तिष्ठति । रूपधातुर् इति । रूपप्रभावितो धातुः । पृथक्पृथग् ध्यानं त्रिभूमिकं तत्र । चतुर्थं तु अष्टभूमिकम् इति । तत्र रूपधातौ सर्वेषामपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं त्रिभूमिकं । [तिब् । २४३ ] ब्रह्मकायिकाः ब्रह्मपुरोहिताः महाब्रह्माण (अभिधर्मकोषव्याख्या २५५) इति प्रथमं । परीत्ताभा आप्रमाणाभा आभास्वरा इति द्वितीयं । परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना इति तृतीयं । अनभ्रकाः पुण्यप्रसवा बृहत्फला इति चतुर्थं । तस्य त्वधिमात्रस्यैवानास्रवध्यानव्यवकिरणेन मृदुमध्याधिमात्रधिमात्रतराधिमात्रतमभेदभिन्नेन पुनः पंच स्थानान्तराणि । अबृहा अतपाः सुदृषाः सुदर्शना आकनिष्ठाश्चेति । अतश्चतुर्थं ध्यानमष्टभूमिकमित्युच्यते । तत्र बृहत्कुशलमूलनिर्यातत्वाद्ब्रह्मा । कश्चासौ । यो महाब्रह्मेत्युच्यते । ध्यानांतरलाभात्पश्चात्पूर्वं च्युत्युपपत्तिलाभात्प्रमाणादिविशेषादिभिश्चास्य महान् । तस्य कायो निवास एषां विद्यते इति ब्रह्मकायिकाः । ब्रह्मा पुरोधीयते एषामिति ब्रह्मपुरोहिताः । आयुर्वर्णादिभिर्विशेषैर्महाब्रह्मा एषामिति महाब्रह्माणः । परीत्तैषामाभाभास्वरभूमिमपेक्ष्येति परीत्ताभाः । नाभाप्रमाणमेषां शक्यं प्रमातुमित्यप्रमाणाभाः । कृत्स्नस्थानान्तरोद्भासनादाभास्वराः । मनोभूमिकं सुखं शुभमित्युच्यते । तदेषामन्यभूमिमपेक्ष्य परीत्तमिति परीत्तशुभाः । अप्रमाणं शुभमेषामप्रमाणशुभाः । शुभं कृत्स्नमेषामिति शुभकृत्स्नाः । [तिब् । २४४ ] न तदुत्कृष्टतरमन्यत्रास्ति सुखमित्यभिप्रायः । अभ्रवदेषां ब्बूमिसंबंधो नास्तीत्यनभ्रकाः । सह सत्त्वेन तद्विमानोदयव्ययादिति वचनान्नैषामुपरि भूम्यन्तरमस्तीति अनभ्रकाः । अभ्रमिव ह्युपरि न भूमिसंबन्ध इत्यपरे । आनिंज्यकर्मसंभूतत्वात्पुण्येभ्यः प्रसव एषामिति पुण्यप्रसवाः । स्थानान्तरप्रतिबद्धं पार्थग्जनिकं सर्वोत्कृष्टं बृहदेषां फलमुद्भवतीति बृहत्फलाः । पृथग्जनामिश्रत्वाच्छुद्ध आवास एषामिति शुद्धावासाः । शुद्धावासांतरेभ्योऽनुत्कृष्टत्वादबृंहिता इत्यबृहाः । नाल्पेन वा कालेनात्मनः स्थानं बृंहंति जहतीत्यबृहाः । विशिष्टसमाधिलाभान्नात्र क्लेशास्तपंतीत्यतपाः । कल्याणाशयत्वाद्वा न परांस्तापयंतीत्यतपाः । परिशुद्धदर्शनत्वात्सुष्ठु पश्यन्तीति सुदृशाः । शोभनदर्शनत्वात्सुदर्शनाः । तदुत्कृष्टतरभूम्यन्तराभावान्नैते कनिष्ठा इत्यकनिष्ठाः ज्येष्ठत्वात् । स्थानिन एते निर्दिष्टाः । कथमिदमुच्यते इत्येतानि सप्तदश स्थानानीति । स्थानिशब्देन स्थाननिर्देशाददोष एव । एवं बहिर्देशकनयेन सप्तदश स्थानानि रूपधातुः । षोडशेति काश्मीराः । षोडश स्थानानि रूपधातुरिति काश्मीराः । [तिब् । २४४ ] परिगण इवेति । परिषण्ड इव । आटविककोट्ट इत्यपरे । न तु भूम्यंतरमिति । न तु भूम्यंतरसंबंधमिति । अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति । अतीतनागता रूपिणोऽप्यदेशस्थाः । अविज्ञप्तिः रूपिणी वर्तमानाप्यदेशस्था । अरूपिणो वेदनादयस्तथैव वर्तमाना अप्यदेशस्थाः । किमंगातीतानागताः । उपपत्त्या चतुर्विध (अभिधर्मकोषव्याख्या २५६) इति कर्मनिर्वृत्ता जन्मान्तरे स्कन्धप्रवृत्तिरुपपत्तिः । तया । आरूप्यधातुश्चतुर्विधश्चतुःप्रकारः । यदुताकाशानंत्यायतनमिति विस्तरः । अनन्तमाकाशमिति समापत्तिप्रपोगकालाकारादाकाशानंत्यं तस्य तदेव चायतनम् । एवमनन्तं विज्ञानं नास्ति किंचिदिति तदाकाराद्विज्ञानानंत्यायतनमाकिंचन्यायतनं चोच्यते । संज्ञा गण्डः संज्ञा शल्यः आसंज्ञिकं सम्मोह इति संज्नामान्द्योत्पत्तेर्नैवसंज्ञानासंज्ञायतनमित्युच्यते । न त्वेषां देशकृतमनुत्तराधर्यमित्यदेशस्थत्वात् । यथा रूपिणामिति विस्तरः । किंकृतेयमाशंका । इह नैरात्म्ये सति चित्तचैत्तानां कामरूपधात्वो रूपनिश्रया [तिब् । २४५ ] प्रवृत्तिः कल्प्येत । आरूप्येषु तु रूपं नास्तीति । तत्र चित्तचैत्तप्रवृत्त्या न भवितव्यमित्याशंकानिवृत्त्यर्थमिदमुच्यते । निकायं जीवितं चात्र निश्रिता चित्तसंततिर् इति । चशब्देन पृथग्जनत्वसमन्वागमप्राप्तिजात्यादयः संगृह्यंते । दुर्बलत्वादिति । कस्यचित्संततेः । रूपिणां सत्त्वानां दुर्बला चित्तसंततिरविभूतरूपसंज्ञत्वाद्विना रूपेण न वर्तते । ततो रूपं निश्रित्य वर्तते । तस्याः केन बलवत्त्वमिति । तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वम् । अत आह । समापत्तिविशेषजत्वादिति विस्तरः । विभूतरूपसंज्ञेति । विगतरूपसंज्ञेत्यर्थः । अतस्तज्जा आरूप्या चित्तसंततिरपि रूपनिरपेक्षा प्रवर्तते । तत एव तर्हि बलवत्त्वात्समापत्तिविशेषजनितत्वात्प्रवर्तिष्यते । किंचिदनिश्रित्येत्यभिप्रायः । यथा रूपिणामिति विस्तरः । यथा रूपिणां रूपनिश्रिते निकायसभागजीवितेन्द्रिये । एवमरूपिणां किं निश्रिते इति वाक्यार्थः । तदेतत्द्वयमन्योन्यमिति । निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते । जीवितेन्द्रियं च निकायसभागमिति । किमर्थं न तदेव द्वयमन्योन्यमिति । किं रूपनिश्रयेणेति अभिप्रायः । तत्रेदानीमिति । [तिब् । २४५ ] तत्रारूप्यधातौ केन बलवत्त्वं तयोर्निकायसभागजीवितेन्द्रिययोः । तदेतच्चित्तसंततौ समानमिति । असावपि चित्तसंततिः समापत्तिविशेषाज्जाता भवतीति न द्वयं निश्रित्य प्रवर्तिष्यति । अनाश्रितैव प्रवर्तिष्यत इति । चित्तचैत्तेषु वा समानमिति प्रकृतं । किं पुनः समानमन्योन्यनिश्रयत्वं । यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते । जीवितेन्द्रियं च निकायसभागं निश्रित्य प्रवर्तते । तथा चित्तं निश्रित्य चैत्ताः प्रत्वर्तिष्यंते । चैत्तांश्च निश्रित्य चित्तं प्रवर्तिष्यत इति । तदन्याश्रयकल्पना निःप्रयोजनेति । यस्याश्चित्तसंततेरिति विस्तरः । चित्तसंततेराक्षेपाय हेतुराक्षेपहेतुः कर्मक्लेशलक्षणः । विगता तृष्णास्येति वीततृष्णः । न वीततृष्णोऽवीततृष्णः । क्व । रूपे । तस्याश्चित्तसंततेः सह रूपेण संभवाद्रूपं निश्रीत्य (अभिधर्मकोषव्याख्या २५७) प्रवृत्तिः । हेतोस्तद्विमुखत्वादिति । आक्षेपहेतो रूपविमुखत्वादित्यर्थः । वज्रवालकवदिति । वज्रेण प्रतिसंयुक्तो वालकोऽङ्गुलीयकः कटको वा वज्रवालकः । मरिचपानकवच्च । यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकं । मध्यपदलोपात् । तद्वत् । कामप्रतिसंयुक्तो धातुः कामधातुरित्यादिः । [तिब् । २४६ ] रूपणीयो वेति । बाधनीय इत्यर्थः । रूपयोगाच्च स शक्यते बाधितुं । तद्भाव आरूप्यमिति । यदा धातूत्तरपदमेतद्भवति । तदारूप्यधातुरिति युज्यते । यदा तु निरुत्तरपद आरूप्यशब्दप्रयोगः । तद्यथा अतिक्रम्य रूपाण्यारूप्या इति । तदा आरूपा एवारूप्या इति स्वार्थे तद्धितात्परिग्रहः कार्यः । आरूप्ये वा साधव आरूप्या इति पश्यामि । कामानां वा धातुरिति षष्ठीसमासेनैव साधयति विनापि प्रतिसंयुक्तशब्दलोपेन । कश्चासौ कामानां धातुरित्याह । कामान् यो दधातीति । एवं रूपारूप्यधातू वेदितव्याविति । रूपाणां धातुः रूपधातुरिति । रूपाणि यो दधातीति । आरूप्यस्य धातुरारूप्यधातुरारूप्यं यो दधातीति । कवडीकाराहारमैथुनोपसंहित राग इति । कवडीक्रियते इति कवडीकारः । स एवाहारः । कवडीकाराहारः । मिथुने भवो मैथुनं । द्वन्द्वालिंगनादि । कवडीकाराहारमैथुनाभ्यामुपसंहितः संबद्धो जनित इति वा कवडीकाराहारमैथुनोपसंहितः । रागः कामः । काम्यतेऽनेनेति काम इति कृत्वा । कथमेवं गम्यत इति स्थविरशारिपुत्रभाषितया गाथया तमर्थं दर्शयति । [तिब् । २४६ ] न ते कामा यानीति विस्तरः । आजीवकेन यदुक्तं गाथांतरेण भिक्षोः कामवितर्कं कल्पयतः कामभोगित्वम् इति । तदभ्युपगतं स्थविरेण । त्रिविधो हि कामोपभोगः । कायेन वाचा मनसा च । तत्रावीतरागो मनसा कामोपभोगित्वेऽपि सति नाभिक्षुर्भवति । केवलं त्वस्य शीलमपरिशुद्धं वर्तते । यस्तु कायेन वाचा ताथागतीं शिक्षापदबन्धलेखां लंघयित्वा कामां परिभुंक्ते । स कामोपभोग्यभिक्षुर्भवतीति । तस्मात्स दोषान्तरमाह । ते चेत्कामा इति विस्तरः । यदि तव चित्रा रूपादयो विषयाः कामा इति पक्षः शास्ता ते अवीतराग इत्यभ्युपगतः । तेन शास्तापि ते भविता भविष्यति (अभिधर्मकोषव्याख्या २५८) कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि । कायेनाप्युपभुंजानोऽपि तान् विषयानिति प्रसक्तं । न चैवमिष्यते । तस्मात् संकल्परागः पुरुषस्य काम इति सिद्धं । केचनेति । केचिदित्यर्थः । नेत्याहेति । प्रतिषेधयति । यस्माद्धात्वन्तरधर्मा धात्वन्तरे समुदाचरंत्यधातुपतिताश्च । कामधातौ हि त्रैधातुकानास्रवा धर्माः समुदाचरंति । एवं रूपधातौ कामावचरं हि निर्माणचित्तं तत्र समुदाचरति । आरूप्यधातावारूप्यावचरा [तिब् । २४७ ] अनास्रवाश्च । तस्मात्प्रतिषेधयति नेति । किं तर्हि । येषु कामरूपारूप्यरागा अनुशेरते । येषु कामरागोऽनुशेते आलंबनतः संप्रयोगतो वा यथासंभवं । ते कामप्रतिसंयुक्ताः । येषु रूपारूप्यरागावनुशयाते । ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति । इदमिदानीं तदश्वबन्धीयमिति । अश्वश्चाश्वबन्धश्चाश्वबन्धं । अश्वबन्धमिवाश्वबन्धीयं । अथ वाश्वबन्धस्येदमश्वबन्धीयमश्वबन्धीयमिति । कस्यायमश्वबन्ध इति कश्चित्पृच्छति । तस्येतरः कथयति । यस्यायमश्व इति । स पुनः पृच्छति । कस्यायमश्व इति । इतरः पुनः कथयति । यस्यायमश्वबन्ध इति । उभयमपि न ज्ञायते । अश्वबन्धोऽश्व इति च । यथेदमुभयमसिद्धेनान्योन्येन न परिच्छिद्यते । तथेहापि न रागैर्धातवः साध्यंते । धातुभिश्च रागा इत्युभयमप्येतन्न सिध्यति । कृतनिर्देशानि हि स्थानानि कामधाताविति । नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः कामधातुः स नरकद्वीपभेदेन विंशतिर् इति कामधातौ कृतनिर्देशानि स्थानानि । तेषु स्थानेष्ववीतरागस्य यो रागः । स कामराग इति । एवंरूपारूप्यरागाविति । कृतनिर्देशानि हि स्थानानि । कामधातोर् ऊर्ध्वं सपदश स्थानो [तिब् । २४७ ] रूपधातुर् इति । तेष्ववीतरागस्य यो रागः । स रूपरागः । तथा कृतनिर्देशोपपत्तिरारूप्यधातोः । आरूप्यधातुरस्थान उपपत्त्या चतुर्विध इति । तेष्ववीतरागस्य यो रागः । स आरूप्यराग इति । यथायोगमिति । स्थाननिर्देशापेक्षं । ध्यानारूप्येषु राग इति । समापत्त्युपपत्तिध्यानेषु रागो रूपरागः । एवमारूप्यरागः । निर्माणचित्ते कथं कामराग इति । कामावचरे निर्माणचित्ते ध्यानफले कथं कामवीतरागाणां कामरागः यतस्तस्य कामावचरत्वं । यदा ह्यसाववीतरागः । तदा निर्माणचित्तं न समुदाचरति । यदा निर्माणचित्तं समुदाचरति । तदा न तस्य राग उत्पद्यते । (अभिधर्मकोषव्याख्या २५९) कथमस्य कामरागेण विना कामावचरत्वं व्यवस्थाप्यते इत्यर्थः । श्रुत्वा परिहाय च तदास्वादनादिति । श्रुत्वा तत्परतो निर्माणचित्तेऽस्य राग उत्पद्यते । परिहाय वा आत्मीयान्निर्माणचित्तात् । तस्यास्वादनादिति । एवंध्यायिनः कामावचरेण निर्माणचित्तेन कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते । अनुस्मृत्य चात्मीयं तत्र राग उत्पद्यते । निर्माणवशेनेति । मनोहरं निर्माणं दृष्ट्वा [तिब् । २४८ ] निर्मापके चित्ते निर्मापकस्य वा चित्ते रागः दर्शयतीत्थं निर्माणचित्तं यस्येदृशं निर्माणमिति । गन्धरसनिर्माणाद्वेति । यत्कामावचरनिर्माणनिर्मापकं । कामावचरं तच्चित्तं । कामावचरधर्महेतुत्वात् । घटहेतुचित्तवत् । यत्तु न कामावचरं । न तत्कामावचरधर्महेतुः । तद्यथा रूपावचरं चित्तम् । अत एवाह । रूपावचरेण तयोरनिर्माणादिति । कस्मात्पुनः रूपावचरेण चित्तेन तयोर्गन्धरसयोरनिर्माणं । तयोर्गन्धरसयोः कवडीकाराहारस्वभावत्वात् । रूपधातूपपन्नं च तद्वीतरागत्वादिति । ईषाधार इति । ईषाप्रमाणवर्षाधारः । नास्ति वीचिर्वा अन्तरिका वेति । नैरन्तर्यं दर्शयति । न तूक्तमूर्ध्वमधश्चेति । अतो लोकधातूनां तिर्यगेवास्थानमिति दर्शयति । (इइइ ।४) पंचम्याश्च प्रदेश इति । देवगतेः षट्कामावचरा देवा उक्ताः । शेषा रूपारूप्यावचराः । अन्यथा हि गतिसंभेदः स्यादिति । गतिमिश्रता । यदि कुशलक्लिष्टा अपि स्युः गतिसंभेदः स्यात् । मनुष्यो नरकसम्वर्तनीयं कर्म करोति । यावद्देवोपपत्तिसम्वर्तनीयम् । इत्यतो मनुष्यगतिर्नरकगतिरपि स्यात् । यावद्देवगतिरपि । तेषां कर्मणां तद्गतिपर्यापन्नत्वात् । कामधातूपपन्नश्चोर्ध्वभूमिकैः क्लेशैः समन्वागतः कामावचरेण च [तिब् । २४८ ] सार्वगतिकेन क्लिष्टेन समन्वागत इति । स एव मनुष्यो नारको यावद्देव इति स्यात् । सत्त्वाख्या एवेति । कर्मानुरूपेणात्मभावतस्तद्गमनात् । अत एवोक्तं । यथाकर्म गमिष्यंति पुण्यपापफलोपगा इति । न भाजनस्वभावा इति । न चान्तराभवस्वभावा इति । अस्य प्रतिपादनार्थं ज्ञापकमानयंति प्रज्ञप्तिषूक्तमिति विस्तरः । सहेतुकाः सगमना इति । हेतुः कर्मभवः । गमनमन्तराभवः । गम्यतेऽनेनेति कृत्वा । गतिस्तु गम्यत इति गतिः । तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् । कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात् । कश्मीरे भवाः काश्मीरकाश्च सूत्रं पठन्तीति । मुक्तकं तत्सूत्रं ते एव पठन्ति नान्य इत्यभिप्रायः । नारकाणामिति विस्तरः । नरकानुकूला नारकाः । तेषामिति विस्तरः । कायवाङ्मनोवंकानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां (अभिधर्मकोषव्याख्या २६०) द्वेषरागसमुत्थितानां । अतोऽप्यनिवृताव्याकृता एव गतय इति । यस्मादुक्तं निर्वृत्ते विपाके नारके इति संख्यां गच्छतीति । गतिषु सर्वेऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः । वक्तव्यः परिहार इत्यर्थः । विरोधप्रसंगात् । यदि हि पंच प्रकारा धर्मा गतिस्वभावा भवेयुः । एवं सर्वेऽनुशया [तिब् । २४९ ] अनुशयीरन् । यदि त्वनिवृताव्याकृता एव गतयः स्युः । एवं वक्तव्यं स्यात् । भावनाप्रहातव्याः सर्वत्रगाश्चेति । अनिवृताव्याकृता हि संस्कृता धर्मा भावनाप्रहातव्या एव । तेषु च भावनाप्रहातव्याः सर्वत्रगाश्चानुशया अनुशेरते आलम्बनतः प्रयोगतो वा । नान्ये । तेन ज्ञायते नानिवृताव्याकृता एव गतय इति । संधिचित्तानि हि गतीनां पंच प्रकाराणीति । संधिचित्तानि गतीनां प्रवेशाः । तेषां पंचप्रकारत्वात् । दुःखदर्शनप्रहातव्यं यावद्भावनाप्रहातव्यमिति । तत्र सर्वेऽनुशया अनुशेरत इति युक्तं । ग्रामोपविचारग्रहणवदिति । ग्रामपरिसामन्तकग्रहणवदित्यर्थः । पंचसु कषायेष्विति । पंच कषायाः । आयुःकषायः क्लेशकषायो दृष्टिकषायः कल्पकषायः सत्त्वकषायश्च । तेषु । क्लेशदृष्टिकषायौ पृथगुक्तौ । क्लेशकषायाद्दृष्टिकषायः पृथगुक्त इत्यर्थः । अनयोः पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकारात् । गतिहेतुज्ञापनार्थमिति । गतीनां कर्मोद्भवो हेतुरिति । अन्तराभवेऽप्येष प्रसंग इति । एवमन्तराभवोऽपि गतिश्च स्यात् । पृथक्चास्य वचनं स्यात्गतिगमनज्ञापनार्थमिति । गच्छंति तामिति । कर्मसाधनपरिग्रहः [तिब् । २४९ ] । न चान्तराभव एवं युज्यत इति न गतिः । आरूप्या अपीति विस्तरः । आरूप्या न गतिः स्युः । च्युतिदेश एवोत्पादात् । आरूप्यगा हि यत्र च्यवन्ते विहारे वा वृक्षमूले वा यावच्चतुर्थ्यां ध्यानभूमौ । तत्रैवोत्पद्यन्त इति । अन्तराभववन्न गतिस्स्यात् । एवं तर्हीति । पूर्वपक्षं परित्यज्य पक्षांतरमाश्रियंते । गत्योरन्तरा अंतराले भवतीति अंतराभव इत्यन्वार्थसंज्ञाकरणान्नान्तराभवो गतिरिति । वैभाषिका आहुः । यत्तर्हीति विस्तरः । निर्वृत्ते विपाक इति विपाकशब्दवचनाद्विपाकस्वभावा गतिरिति तदभिप्रायः । इतर आह । निर्वृत्ते विपाके नारक इति नारको व्यवस्थाप्यते । न तूक्तं विपाक एवेति । न तूक्तं विपाकस्वभावैव गतिरिति । किं तर्हि । विपाकविपाकस्वभावा गतिः । तस्मात्कुशलक्लिष्टा अपि गतयो भवन्तीत्यभिप्रायः । वैभाषिकः पुनराह । यत्तर्ह्युक्तं तत्रेति विस्तरः । अन्यत्र तेभ्यो धर्मेभ्य इति । विपाकजेभ्य इत्यभिप्रायः । न तु स्कन्धान्तरप्रतिषेधं करोतीत्यधिकृतं । ताश्चेति विस्तरः । अव्याकृतत्वपक्षेऽपि द्वैविध्यं । औपचयिकस्वभावा अपीति । अपिशब्दाद्विपाकस्वभावा अपीति । यथोक्तं विपाको जीवितं [तिब् । २५० ] द्वेधा द्वादशेति । (अभिधर्मकोषव्याख्या २६१) नैष्यन्दिकास्तु न गृह्यन्ते । विपाकस्वभावा एवेत्याचार्यसंघभद्रः पूर्वमेव पक्षमिच्छति । (इइइ ।५, ६ ब्) कामावचराः षट्प्रथमध्याणिकाश्च । कतमे ते । बहिर्देशकनयेन ब्रह्मकायिकाः ब्रह्मपुरोहिता महाब्रह्माणश्च प्रथमाभिनिर्वृत्तवर्ज्याः । काश्मीरनयेन पुनः ब्रह्मकायिका ब्रह्मपुरोहिताश्च प्रथमाभिनिर्वृत्तवर्ज्याः । ब्रह्मपुरोहितेष्येव हि तेषां नयेन महाब्रह्माणो न स्थानान्तरनयाः । अनेकवर्णलिंगसंस्थानत्वादिति । वर्णो नीलत्वादिः । लिंगं वस्त्राभरणादि । संस्थानं दैर्घ्यादि । आरोह उन्नतता । परिणाहस्तिर्यक्प्रमाणं । आकृतिविग्रहः आकृतिलक्षणो विग्रह आकृतिविग्रहः । एवं विशेषिते वेदानादीनां विग्रहः पर्युदस्तो भवति । नासावाकृतिलक्षण इति । विग्रहः पुनः शरीरं । वाग्भाषा वागुच्चारणं । कथमिदानीमिति विस्तरः । प्रथमध्यानप्रत्यागमनेन तैर्द्वितीयं त्यक्तम् । तद्भूमिकं द्वितीयध्यानभूमिकं । पूर्वनिवासं कथमन्वस्मार्षुः । न तावत्प्रथमध्यानभूमिकेन चित्तेन तदविषयत्वात् । न द्वितीयध्यानभूमिकेन तस्यालब्धत्वात् । पुनर्लब्धमिति चेत् । अत आह । लब्धायां चेति विस्तरः । शीलव्रतपरामर्शदृष्टिर्महाब्रह्मालम्बना प्रथमध्यानभूमिकैव युज्यते । सा च द्वितीयध्यानलाभात्प्रहीणा न समुदाचरति । द्व्तीयध्यानभूमिकेति [तिब् । २५० ] चेत् । न । अधरालम्बनत्वायोगात् । न ह्यधरभूम्यालम्बनः कश्चिदपि क्लेश इष्यते । अन्तराभवस्था अद्राक्षुरिति । अन्तराभवस्थास्ते तं महाब्रह्माणं दृष्ट्वैवमूचुः । इमं वयं सत्त्वमद्राक्ष्मेति । अयमपि पक्षो न घटते । तथा हि तत्राप्यन्तराभवे दीर्घमध्वानमवस्थातुं न संभवत्युपपत्तिप्रतिबन्धाभावात्शुक्लशोणितानपेक्षत्वात् । तेषां कथं भवतीयं बुद्धिरिमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमिति । दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्यर्थः । तस्मात्तत्रस्था एवेति विस्तरः । प्रथमध्यानभूमिस्था एव तस्य महाब्रह्मणः पूर्ववृत्तान्तं समनुस्मरन्तः उत्पद्यमानावस्थायामेव तं महाब्रह्माणं पूर्वोत्पन्नं दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तः । दृष्ट्वा च पश्चादुत्तरकालमद्राक्ष्मेत्येषां बभूव । बुद्धिरिति वाक्यशेषः । एवं तु सतीदमपरिहृतं भवेत् । अस्य च सत्त्वस्यैवं चेतसः प्रणिधिः । वयं चोपपन्ना इति । उपपत्तिप्रतिलंभिकेन प्रथमध्यानभूमिकेन तस्य महाब्रह्मण एवं चेतसः प्रणिधिमन्वस्मार्षुः । समानभूमिकत्वात् । इत्यदोष एषः । तत्सकाशं श्रवणाद्वा । ननु च शुभकृत्स्नेष्वप्येष प्रसंगः । एकत्वकाया नानात्वसंज्ञिन इति । कथं । यथोक्तं । ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः (अभिधर्मकोषव्याख्या २६२) सामन्तकोपेक्षेन्द्रियं संमुखीकुर्वंतीति विस्तरेण [तिब् । २५१ ] वक्तव्यं स्यात् । ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद्वक्ष्यते । तेन सुखेनेति । तृतीयध्यानभूमिकेन । चेतस उत्प्लावकत्वादिति । औद्बिल्यकरत्वात् । इन्द्रसुखेनेति द्वितीयध्यान । आगमव्यपगमसंज्ञित्वात् । अचिरोपपन्नानामागमसंज्ञित्वात् । चिरोपपन्नानां व्यपगमसंज्ञित्वात् । अथ वाचिरोपपन्नानामागमसंज्ञित्वाच्चिरोपपन्नानामागमव्यपगमसंज्ञित्वात् । भीतभीतसंज्ञित्वात् । यथाक्रममचिरचिरोपपन्नत्वात्ते नानात्वसंज्ञिनः । न सुखादुःखासुखसंज्ञित्वात्यथोक्तं वैभाषिकैरिति । प्रथमे ध्याने क्लिष्टया संज्ञयेति । शीलव्रतपरामर्शसंपरयुक्तया अकारणे कारणाभिनिविष्टत्वात् । द्वितीये कुशलया संज्ञयेति । सामन्तकमौलसंगृहीतत्वात् । तृतीये विपाकजया संज्ञयेति । विपाकजसुखसंप्रयोगात् । आरूप्यास्त्रयो यथासूत्रमिति । अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां समतिक्रमादनन्तमाकाशमित्याकाशानंत्यायतनमुपसंपद्य विहरंति । तद्यथा देवा आकाशानंत्यायतनोपगाः । इयं पंचमी विज्ञानस्थितिः । अरूपिणः सन्ति सत्त्वा ये सर्वश आकाशानंत्यायतनं समतिक्रम्यानंत्यं विज्ञानमिति विज्ञानानंत्यायतनम् [तिब् । २५१ ] उपसंपद्य विहरंति । तद्यथा विज्ञानानंत्यायतनोपगा देवाः । इयं षष्ठी विज्ञानस्थितिः । अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरंति । तद्यथाकिंचन्यायतनोपगा देवाः । इयं सप्तमी विज्ञानस्थितिरिति । पंच स्कंधाश्चत्वारश्च यथायोगमिति । आकाशानंत्यायतनादित्रयप्रतिसंयुक्ताश्चतुःस्कन्धाः । अन्यप्रतिसंयुक्ताः पंचस्कंधाः । शेषं तत्परिभेदवद् इति । परिभिद्यतेऽनेनेति परिभेदः । तस्य विज्ञानस्य परिभेदस्तत्परिभेदः । सोऽस्मिन् विद्यत इति तत्परिभेदवत् । शेषं दुर्गत्यादि । अपायेषु चोभयं नास्तीति । नेहसथानां गंतुकामता । न तत्रस्थानां व्युच्चलितुकामता । अपटुप्रचारत्वादिति । चित्तचैत्तानामत्र मन्दप्रचारत्वात् । अबलवद्विज्ञानं न तिष्ठतीति युक्तं वक्तुं । (इइइ ।६ द्, ७ ब्) भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नवेति । सूत्र उक्तं । नव सत्त्वावासाः । कतमे नव । रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः । तद्यथा मनुष्याः तदेकत्याश्च देवाः । अयं प्रथमः सत्त्वावासः द्वितीयतृतीयचतुर्था अपि यथा विज्ञानस्थितिषु । तथा वक्तव्याः । अयं तु विशेषः । [तिब् । २५२ ] रूपिणः संति सत्त्वा असंज्ञिनोऽप्रतिसंज्ञिनः । तद्यथा देवा असंज्ञिसत्त्वाः । अयं पंचमः सत्त्वावासः । (अभिधर्मकोषव्याख्या २६३) आरूप्याणां च सत्त्वावासानां त्रयो विज्ञानस्थितिवद्वक्तव्याः । चतुर्थस्त्वारूप्यः अरूपिणः संति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरंति । तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः । अयं नवमः सत्त्वावास इति । असंज्ञिसत्त्वेभ्यो येऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासा उत नेति । नेत्याहुः । कस्मादेवमुक्तमाचार्येण के पुनरन्ये । अपाया इति । मुखमात्रमेतदुक्तं । असंज्ञिसत्त्वासंगृहीताश्चतुर्थध्यानोपगा इत्यपि वक्तव्यम् । इहापि तदेव कारणं वक्तव्यं यद्विज्ञानष्थितिषूक्तं । इहस्थानां ह्यपायगमनप्रार्थना नास्ति । तत्रस्थानां च न वस्तुकामतेति । नापायाः सत्त्वावासाः । असंज्ञिसत्त्वासंगृहीतेषु बृहत्फलेषु यद्यपीहस्थानां गमनप्रार्थनास्ति । तत्रस्थानां पृथग्जनानामासंज्ञिकप्रविविक्षा भवति । आर्याणां त्वनभ्रकपुण्यप्रसवेष्वपि शुद्धावासारूप्यप्रविविक्षा । परिनिर्वातुकामता च शुद्धावासानामपि । इति [तिब् । २५२ ] न तेषां तत्रावस्थाने बुद्धिः । अतो न ते सत्त्वावासा इत्याचार्यसंघभद्रः । अन्ये पुनर्व्याचक्षते । के पुनरन्ये । अपाया इति अपायानामेव वचनादनभ्रकादयः सत्त्वावासा इष्टा आचार्यस्येति । तैर्युक्तिरन्वेष्टव्या । बंधनस्थानवदिति । यथा बंधनस्थानानि न सत्त्वावासाः अनिच्छावसनात् । एवमपाया इति । (इइइ ।७ द्, ८ ब्) रूपोपगा विज्ञानस्थितिरिति । विज्ञानं तिष्ठत्यस्यामिति विज्ञानस्थितिः । उपगच्छतीति उपगा । विज्ञानस्य समीपचारिणीत्यर्थः । रूपं च तदुपगा च सा रूपोपगा । एवं यावत्संस्काराश्च ते उपगा च संस्कारोपगेति । भगवद्विशेषस्तु व्याचष्टे । रूपोपगा विज्ञानस्थितिर्यावत्संस्कारोपगेति सौत्रान्तिकानां नयेनोच्यते । तत्र विज्ञानस्थितिर्भवसंतत्यनुच्छेदः । रूपमुपगमस्या विज्ञानस्थितेः । सेयं रूपोपगा । उपगमिति उपगम्यते तदात्मीयत इति । एवं यावत्संस्कारा उपगा अस्या विज्ञानस्थितेः । सेयं संस्कारोपगा । अथ वा तृष्णा स्थितिः । तिष्ठत्यनया विज्ञानं । पुनर्भवसंतत्यनुच्छेदात् । इति कृत्वा विज्ञानस्य स्थितिर्विज्ञानस्थितिः । सा रूपमुपगच्छति तदभिष्वङ्गत इति रूपोपगा । एवं यावत्संस्कारोपगा । वैभाषिकाणां पुनर्नयेन कारकार्थो न शक्यते योजयितुम् [तिब् । २५३ ] इति दूषयति । अत्र ब्रूमः । द्विविधेऽप्यस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थितिरुक्ता । ता हि चत्वारः सास्रवाः स्कन्धा इति चतुष्कोटिस्तु संग्रह इत्येतत्सर्वं निरस्तं भवतीति दोषांतरं । तस्मात्पूर्वकमेव व्याख्यानं (अभिधर्मकोषव्याख्या २६४) साधु । एतद्वैभाषिकव्याख्यानं वर्णयामो न तैरेवं व्याख्यातं । रूपमुपगच्छतीति रूपोपगा विज्ञानस्थितिरित्यादि । अपरे पुनर्व्याचक्षते । रूपोपगा विज्ञानस्थितिरिति । रूपस्वभावेत्यर्थः । यथान्यत्रोक्तं । खक्खटखरगतमिति । स्वभावार्थो गत्यर्थ इत्यभिप्रायः । स्थातुः परिवर्जनेन । अन्यो लोके स्थाता देवदत्तादिरन्या स्थितिः स्थानं गृहादिकमित्यर्थः । विज्ञानं वाहयति प्रवर्तयतीत्यर्थः । नौनाविकन्यायेन । यथा नाविको नावं वाहयति । तद्वत् । न तु विज्ञानं विज्ञानमेवाभिरूह्य वाहयतीत्यर्थः । एकसंताने विज्ञानद्वयासमवधानं । परसंतानविज्ञानं तु यद्यपि युगपद्भवति । न तु तदितरस्य समीपे वर्तत इति न तत्तस्य स्थितिर्भवति । नन्दी सौमनस्यं । सप्त च विज्ञानस्थितयः पंचस्कंधस्वभावाः तत्कथमिति । सप्तसु विज्ञानस्थितिषु पंचस्कंधस्वभावत्वेनेष्टासु तत्कथं विज्ञानं न विज्ञानस्थितिर्[तिब् । २५३ ] इष्टमिति । एवं तर्हीति विस्तरः । अभेदेनैकपिण्डरूपेण रूपादीनां स्कंधानामुपपत्त्यायतनसंगृहीतेषु स्कंधेषु मनुष्यादिनिकायसभागसंगृहीतेषु । साभिरामायां सभिरत्यां । विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञनस्थितिदेशनायामभिप्रीयते । प्रत्येकं त्वेकमेकं स्कंधं प्रति यथा रूपादयो विज्ञानस्य संक्लेशाय भवंति । आश्रयसंप्रयोगसहभूभावेनोपगतत्वात् । नैवं केवलं पृथग्विज्ञानं । किं । संक्लेशाय भवतीत्यधिकृतं । कस्मात् । युगपदाश्रयत्वाद्ययोगात् । तस्माच्चतुर्विज्ञनस्थितिदेशनायां केवलं पृथग्विज्ञानं न स्थितिः प्रोक्तम् । तथा विनेयजनापेक्षया ह्येकत्र सूत्रेऽन्यथा विज्ञानस्थितिरुक्ता । अन्यत्र चान्यथेति । अत आह । अपि च क्षेत्रभावेनेति विस्तरः । विज्ञानस्य क्षेत्रभावेन चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारस्वभावा देशिताः । विज्ञानं बीजभावेन वपनीयरूपेण सोपादानं स्वभूमिकया तृष्णया सतृष्णं । कृत्स्नमेव संतानगतं देशितमिति । न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयां बभूव भगवान् । न हि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते । ये च धर्मा इति विस्तरः । [तिब् । २५४ ] ये च धर्मा विज्ञानस्य सहवर्तिनो रूपादयः । त एव क्षेत्रभावेन साधुतरा भवंति । सहवर्ति हि बीजस्य क्षेत्रं लोके दृश्यते । विज्ञानं तु विज्ञानेन सह न वर्तते युगपदभावात् । अतीतानागतास्तर्हि रूपादयो न विज्ञानस्थितयः प्राप्नुवंति । तेऽप्यतीतानागता यथास्वमतीतानागतानां विज्ञानानां स्थितयो ब्भवंति । तस्मात्स्वभूमौ सर्व एव सास्रवा रूपादयो विज्ञानस्थितयो भवन्तीत्यवगन्तव्यं । प्रथमा कोटिरिति विस्तरः । सप्तसु यद्विज्ञानमिति । पंचस्कंधस्वभावत्वात्सप्तानां विज्ञानस्थितीनां । तत्र विज्ञानं संगृहीतं । न चतसृषु । (अभिधर्मकोषव्याख्या २६५) विज्ञानस्य तत्राग्रहणात् । विज्ञानवर्ज्याः स्कंधा इति । अपायादिष्वपि विज्ञानं न चतसृषु संगृहीतं । न सप्तसु अपायादिषु विज्ञानपरिभेदेनाग्रहणात् । सप्तसु चत्वारः स्कंधा इति । सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश्चत्वारः स्कम्धा उक्ताः । ते चतसृष्वपि विज्ञानस्थितिषु संगृहीताः । उभयात्रापि संगृहीताः इत्य्तृतीया कोटिः । चतुर्थ्येतानाकारान् स्थापयित्वेति । अपायेषु चतुर्थे ध्याने भवाग्रे च यद्विज्ञानमनास्रवाश्च धर्माः । (इइइ ।८ द्, ९) यच्चैतद्गत्यादिभेदभिन्नमिति । आदिशब्देन [तिब् । २५४ ] भाजनांतराभवभूम्यादिर्गृह्यते । जरायुर्येन मातुः कुक्षौ गर्भो वेष्टितस्तिष्ठति । तस्माज्जाता जरायुजाः । भूतसंस्वेदजा इति । भूतानां पृथिव्यादीनां संस्वेदाद्द्रवत्वलक्षणाज्जाता भूतसंस्वेदजाः । अविकलाश्चक्षुरिन्द्रियाद्यवैकल्यात् । अहीनेन्द्रियाः काणविभ्रान्तादेरभावात् । सर्वाङ्गैरुपेता हस्तपादादिभिः । सर्वैश्च प्रत्यंगैरंगुल्यादिभिरुपेताः । सकृदुपजायंते । न कललाद्यनुपूर्व्या अण्डाजादिवत् । उपपादने उपपत्तौ साधुकारित्वात् । शुक्लशोणिताद्यनुपादानेन सकृदुपजातत्वात् । उपपादुका इत्युच्यंते । क्रौंचीनिर्जाताविति विस्तरः । भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे क्रौंचीं समभिगतौ । ततो निर्जातौ शैलोपशैलौ स्थविराविति । पंचालराजस्येति । तस्य महादेव्याः पंचाण्डशतानि जातानि । तेन राज्ञा मंजूषायां प्रक्षिप्य गंगायामववाहितानि । लिच्छविराजेन सांतःपुरेण स्नायता सा मंजूषोह्यमाना दृष्टा उद्घाटिता च । तस्यां पंचशतानि दारकाणां दृष्टानि गृहीतानि चेति । मांधातृप्रभृतयः संस्वेदजाः । कथं । उपोषधस्य किल राज्ञो मूर्ध्नि पिटको जातः । तस्य वृद्धेरन्वयात्परिपाकान्वयात्परिभेदान्वयाद्दारको जातह् । सोऽयं मान्धातेति संस्वेदजो भवति । राज्ञः खल्वपि मांधातुर्जानूपरि पिटकौ जातौ [तिब् । २५५ ] तयोर्वृद्धेरन्वयात्पूर्ववद्यावद्दारकौ जातौ । ताविमौ चारूपचारौ । ब्रह्मदत्तस्य किल राज्ञ उरसि पिटको जातः । तस्य वृद्धेरन्वयात्पूर्ववद्यावद्दारिका जाता । सेयं । कपोतमालिनीति । आम्रपाल्यपि कदलीस्तंभाज्जातेति श्रूयते । प्राथमकल्पिका इति । प्रागासन् रूपिवत्सत्त्वा इति वचनात् । सुपर्णी गरुडः । प्रेतानां जरायुजत्वसिद्ध्यर्थमुच्यते । आयुष्मत इति विस्तरः । कथं गम्यते जरायुजत्वसिद्ध्यर्थमिति । रात्रौ पंचतां जनित्वेति वचनात् । ननु च सुतरामुपपादुकत्वसिद्ध्यर्थमिति गम्यते । पंच रात्रौ दिवा पंच तथापरान् । नास्ति तृप्तिस्तथापि मे इति वचनात् । जरायुजैर्हि भक्षितैस्तृप्तिर्भवेत् । जरायुजसिद्ध्यर्थमेव । नोपपादुकसिद्ध्यर्थं । रात्रौ पंचानां सकृज्जन्म दिवा चपरेषां (अभिधर्मकोषव्याख्या २६६) पंचानां न विरुध्यते । तावत्कालेन तदात्मभावपरिपूरितः । क्रमेणापि च रात्रौ पंचानां दिवापरेषां पंचानां जन्म न विरुध्यते । सत्त्वजातिः सा तादृशी कर्मणां चाचिंत्यो विपाक इति । अभिप्रवृद्धजिघांसादोषत्वात्तु नापि तृप्तिरस्तीति । प्राप्तोपपत्तिवशित्वोऽपीत्यनेन जरायुजोपपत्तौ कर्मबलात्कारयोगं दर्शयति । यथान्यतीर्थ्या अपभाषन्त इति । अन्यतीर्थ्या मस्करिप्रभृतयः । यथोक्तं निर्ग्रन्थशास्त्रे ऋद्धिं भदन्त को [तिब् । २५५ ] दर्शय्ति । मायावी गौतम इति । तथा भगवन्तमेवोद्दिश्यान्यत्रोक्तं । कल्पशतस्यात्ययादेवंविधो लोके मायावी प्रादुर्भूय मायया लोकं भक्षयतीति । उपजीवतीत्यर्थः । बाह्यबीजाभावादिति । बाह्यस्य शुकशोणितकर्दमादेरभावादित्यर्थः आधिष्ठानिकीमिति । यदधितिष्ठति इदमेवं भवत्विति तदधिष्ठानं । तत्प्रयोजनमस्यास्तत्र वा भवा ऋद्धिराधिष्ठानिकी । तामिच्छतां बौद्धानां न युक्त एष परिहार इति । कतमः । य उक्तः । शरीरधातूनामवस्थापनार्थमिति । प्रश्नात्प्रश्नान्तरमुत्पद्यत इति । अथ किमर्थं चरमभविको बोधिसत्त्व इति प्रश्न उक्तो विस्तरेण । तत्र चोक्तं । शरीरधातूनामवस्थापनार्थमिति विस्तरः । तस्मात्प्रश्नादिदं प्रश्नान्तरमुपजायते । यद्युपपादुकानामिति विस्तरः । कायनिधनं कायनाशः । उपपादुकः सुपर्णी उपपादुकं नागमिति विशेषणद्वयं किमर्थं । किमनुपपादुका अपि सुपर्णिनो नागाश्च सन्ति । सन्तीत्याहुः । चतुर्विधा हि गरुडा नागाश्चांडजादिभेदात् । तेषामुपपादुका उत्तमाः । संस्वेदजा उपोत्तमाः । जरायुजा मध्याः अण्डजा जघन्याः । तत्रोपपादुकः सुपर्णी सर्वानुपपादुकादीनुद्धरति भक्षार्थं । संस्वेदजस्त्रीन् संस्वेदजादीन् । जरायुजो द्वौ जरायुजाण्डजौ । [तिब् । २५६ ] अण्डजोऽण्डजमेवेति वर्णयन्ति । यावन्न मृत इति । यदा जीवति । तदा तन्मांसादि नान्तर्धीयत इति निदर्शितं भवति । न पुनर्मृतस्यास्य तृप्यतीति । न पुनर्मृतेनानेन तृप्यतीत्यर्थः । तृपिपूरौ विभाषेति विभाषाषष्ठीष्यते । तस्य मृतस्याकाशस्येव भक्षितस्य मान्सपिण्डान्तर्धानान्न तृप्यतीत्यवगन्तव्यं । सा हि द्वे गती इति नरकगतिर्देवगतिश्च । तिसृणां च प्रदेश इति । तिर्यक्प्रेतमनुष्यगतीनां । (इइइ ।१०) गत्यन्तरालत्वात् । गत्योरन्तरालत्वात् । ननु चाव्याकृतैव गतिरिष्यते । उपपत्तिभवश्चैकांतेन क्लिष्टः । मरणभवोऽपि कदाचित्कुशलः क्लिष्टो वा भवति । न गतिः । कथं तयोर्गतिशब्दमध्यारोप्य गत्यन्तरालत्वादित्युच्यते । नैष दोषः । मरणोपपत्तिभवयोरनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां (अभिधर्मकोषव्याख्या २६७) गतिस्वभावानां तत्काले विद्यमानत्वात् । कामरूपधात्वोश्च कायेन्द्रियस्याप्यवश्यं भावात् । न चोपपत्तिवन्मरणभवोऽवश्यं क्लिष्टो नाप्यवश्यं कुशलः । तस्मात्तेषु गतिशब्दमारोप्य गत्यंतरालत्वादित्युक्तं । पदे गत्यर्थत्वादिति । पद गताविति पठ्यते । तेनोपपन्नशब्दस्योपगतार्थं दर्शयति । नोपपन्नोऽन्तराभवः । किं तर्हि । उपपद्यमान इति । अभिव्यक्तिः समाप्तिश्चेति । आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः परिपूरकैः परिसमाप्तिः । [तिब् । २५६ ] सर्वस्मिं जन्मनि कर्मद्वयस्य व्यापारात् । एकं जन्माक्षिपत्येकमनेकं परिपूरकम् इति वचनात् । अथ वा यत्र देशे आक्षिप्तस्य कर्मणा नामरूपस्य विपाकस्य प्रादुर्भावोऽभिव्यक्तिः । षडायतनपूर्तिश्च समाप्तिः । स देशोऽवगन्तव्यः । (इइइ ।११, १२) व्रीहिसंतानसाधर्म्याद् इति विस्तरः । संबध्नंस्तानः संतानो व्रीहेः संतानो व्रीहिसंतानः । तेन साधर्म्याद्न विच्छिन्नस्य भवस्योद्भवो भवति । यतोऽपैति । यत्र चोत्पद्यते । तदन्तरालसंतानवर्तिरूपपूर्वकमुपपत्तिभवरूपं । स्वोपादानरूपसंतानरूपस्वभावत्वात् । व्रीहिसंतानपश्चात्तररूपवत् । संतानवर्तिनां हि धर्माणामविच्छेदेन देशान्तरोत्पत्त्या देशान्तरेषु प्रादुर्भावो दृष्टः । तद्यथा व्रीहिसंतानस्य । व्रीहिसंतानपश्चात्तररूपं हि यतो देशान्तरादपैति । यत्र च देशांतर उत्पद्यते । तदन्तरालसंतानवर्तिरूपपूर्वकमुत्पद्यते । क्षणिकवादिनां ह्ययमस्माकं सिद्धान्तः । यदा ग्रामाद्ग्रामांतरं नीयते व्रीहिः । न स विऋहिः पूर्वत्र ग्रामे निरुध्य तद्ग्रामान्तरालेऽनुत्पद्यमानोऽनेकयोजनान्तरितेऽपि ग्रामान्तर उत्पद्यते । किं तर्हि । निरन्तराकाशदेशोत्पादनिरोधक्रमेणोत्पद्यते ग्रामान्तरे । तच्च स्वोपादानरूपसंतानरूपस्वभावं । तथोपपत्तिभवरूपमप्युत्पद्यत इति । अत्राचार्यगुणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनिकायानुरागभावितमतिर्व्याख्यानव्यापारमपास्य प्रत्यवस्थानपर एव वर्तते । वयमिह शास्त्रार्थविवरणं प्रत्य्[तिब् । २५७ ] आद्रियामहे । न तद्दूषणं । निःसारत्वात्बहुवक्तव्यभयाच्च । भविष्णुर्भवनशीलः । विच्छिन्नोऽपीति विस्तरः । आदर्शादिषु बिम्बात्प्रतिबिम्बमिति । आदर्शोदकादिषु बिम्बान्मुखात्प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नमुत्पद्यमानं दृष्टमित्यनेनानैकान्तिकतामुद्ग्राहयति । प्रतिसाधनं वा करोति । यतोऽपैति । यत्र चोत्पद्यते । न तदन्तरालसंतानवर्तिरूपपूर्वकमुपपत्तिभवरूपं । स्वोपादानरूपसंतानरूपस्वभावत्वात् । (अभिधर्मकोषव्याख्या २६८) प्रतिबिम्बरूपवदिति । प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्मान्तरमित्यसिद्धमेतदिति । बिम्बसामर्थ्यादेव तत्रार्शादिषु प्रतिबिम्बाकारं भ्रान्तं विज्ञानमुत्पद्यत इत्याचार्यस्याभिप्रायः । न तत्र प्रतिभिंबं नाम किंचिदस्तीत्यनेन धर्म्यसिद्धिं नाम दृष्टान्तदोषं दर्शयति । तस्मान्नानैकान्ततास्ति । न चैतत्प्रतिसाधनं साध्विति । सिद्धावपि च सत्याम् असाम्यादनिदर्शनम् इति । प्रतिबिम्बस्य द्रव्यसत्त्वेन सिद्धावपि सत्यामसाम्याद्दार्ष्टान्तिकेनानिदर्शनमनुदाहरणं प्रतिबिम्बकमिति । कथं तावदसिद्धमिति । तावच्छब्दः क्रमे । असिद्धतायुक्तिं तावद्दर्शयन्नाह । सहैकत्र द्वयाभावाद् इति विस्तरः । तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन न प्रतिबिम्बकं । प्रतिबिंबकं च तत्रैव दृश्यतेऽभिमुखावस्थितेन नादर्शरूपं । न चैकत्रदेशे उपादायरूपद्वयस्यास्ति [तिब् । २५७ ] सहभावः । किं कारणं । आश्रयभूतभेदात् । आश्रयभूतानि हि तर्योर्भिन्नानीति । नास्त्यादर्शरूपाश्रयभूतैरवष्टब्धे देशे प्रतिबिम्बकरूपाश्रयभूतानां तत्रावकाशः । अतो नोपादायरूपद्वयस्यास्ति संभवः । तदेवं युगपद्विज्ञानद्वयस्याभावात् । उपादायरूपद्वयस्य चैकत्र सहभावाभावात् । न तत्किंचिदस्तीति दर्शयति । यत्रैव हि देशे आदर्शरूपं दृश्यते । इति भिम्बकं च तत्रैव । न त्वन्यत्र । को दोष इत्याह । न चैकत्र रूपद्वयस्यास्ति सहभाव इति । पूर्ववद्वाद्च्यं । अथ वा सहैकत्र द्वयाभावाद् इत्यस्य सूत्रस्यायमर्थः । एकत्र रूपे पुरुषद्वयस्य पश्यत एवाभावात्सहदर्शनस्य प्रतिबिम्बमसिद्धमिति वाक्यध्याहारः । कथमित्याह । दिग्भेदव्यवस्थितैः पुरुषैरेकैरुत्तरदिग्व्यवस्थितैरितरैर्दक्षिणदिग्व्यवस्थितैः । एकस्मिं वाप्यम्बुदेशे एकस्मिंस्तटाकजलदेशे । स्वाभिमुखदेशस्थितानां रूपाणां दक्षिणतटोर्ध्वस्थितानि रूपाण्युत्तरदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि उत्तरतटोर्ध्वस्थितान्यपि रूपाणि दक्षिणदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि । तेषामुभयेषां । किं प्रतिबिम्बकमन्योन्यमुपलभ्यते । उत्तरदिग्व्यवस्थितैर्दक्षिणतटाधः प्रतिबिम्बकमुपलभ्यते । दक्षिणदिग्व्यवस्थितैरप्युत्तरतटाधः प्रतिबिंबकमुपलभ्यते । एवमन्योन्यमुपलभ्यते । न तूभयं [तिब् । २५८ ] युगपदुपलभ्यते इति वाक्यार्थः । न हि स्वतटाधः प्रतिबिंबकमेकतटस्थैः समन्ततोऽपि वापीजलं पश्यद्भिरुपलभ्यते । ततः किमिति चेदत आह । न त्वेकत्र रूपे घटे पटे वा द्वयोः पश्यतोः पुरुषयोः सहदर्शनं (अभिधर्मकोषव्याख्या २६९) न भवति । भवत्येवेत्यर्थः । इह तु न भवति सहदर्शनमित्यतो न तत्र रूपान्तरोत्पत्तिर्युक्तेति । अथ वास्यायमर्थः । छायातपयोश्च द्वयोस्सहैकत्रभावो न दृष्टो लोके । यत्र छाया भवति मण्डपेऽन्यत्र वा । न तत्रातपः । यत्र वातपो भवत्यभ्यवकाशे । न तत्र छाया । उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकमिति । कथं । तटाके सूर्यप्रतिबिंबकमुत्पद्यते । तत्तटाकतटस्थे च छायावति मण्डपे आदर्शः स्थाप्यते । तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिंबकस्यापरं प्रतिबिंबकमुत्पद्यते । तटाके च यत्सूर्यप्रतिभिम्बकं । तत्सूर्यसमुत्थमित्यवश्यम् । आतपस्वभावमित्यभ्युपगंतव्यं । यच्चापरमादर्शे प्रतिबिम्बकं । तदातपस्वभावप्रतिबिंबकसमुत्थमित्येतदप्यवश्यमातपस्वभावमभ्युपगंतव्यम् । एवं सति छायातपयोः सहस्वभावः स्यात् । न चान्यत्र लोके छायातपयोः सहभाव इति । न युक्तोऽस्य प्रतिबिंबकस्य तत्र प्रादुर्भावः । कूप इवोदकमिति । यथा कूपे दूरान्तर्गतमुदकम् [तिब् । २५८ ] दृश्यते । तथा चन्द्रप्रतिबिम्बकमप्यत्रैवान्तर्गतं दृश्यते । न चादर्शस्तावद्वस्तुफलोऽस्ति । तच्च तत्रोत्पद्यमानं । तच्च प्रतिबिंबकमादश एवोत्पद्यमानं । नान्यत्राधस्तादुपलभ्येत । उपलभ्यते च । अतो नास्त्येव तत्किंचित् । सामग्र्यास्तु बिम्बादर्शादिलक्षणायाः । स तस्याः प्रभावो यत्तथा दर्शनं भवति । अचिन्त्यो हि धर्माणां शक्तिभेदः । अयसोऽयस्कान्ताभिगमनदर्शनात् । न काष्ठादीनां यथा । चन्द्रकान्ताच्चन्द्रोदयेऽप्संभवप्रक्षरणदर्शनं । नांगारादीनाम् । इत्येवमादि वक्तव्यं । आदर्शसंतानसम्बद्धत्वादिति । न बिंबसंतानभूतं प्रतिबिम्बम् । आदर्शसंबद्धत्वात् । आदर्शरूपवत् । सहभावाच्च । बिम्बसमानकालरूपान्तरवत् । तदेवं यथा मरणभवस्योपपत्तिभवः संतानभूतः । नैवं बिम्बस्य प्रतिबिम्बकमिति । साधनानन्वितः प्रतिबिम्बकदृष्टान्तः । व्रीहिसंतानपश्चात्तररूपदृष्टान्तस्तु स्वसंतानपूर्वरूपसंतानभूत इति । तस्मादसाम्यं दृष्टान्तस्य प्रतिबिंबस्य चेति । द्वयोदयाद् इति विस्तरः । द्वयेनोदयो द्वयोदयः । तस्माद्बिम्बाच्चादर्शाच्चेत्यर्थः । यत्प्रधानं कारणमादर्शादि । तदाश्रित्योत्पद्यते प्रतिबिम्बं । आदर्शादि हि प्रतिभिम्बस्य प्रधानं कारणं तदनुविधानात् । तद्यथा यद्यसिस्तिर्यगवस्थितो भवति । प्रतिबिम्बमपि तिर्यगायतं च दृश्यते । यद्य्[तिब् । २५९ ] ऊर्ध्वमवस्थितो भवति । प्रतिबिम्बमपि तथैव दृश्यते । न चैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवः मरणभवाच्चान्यतश्(अभिधर्मकोषव्याख्या २७०) च प्रधानभूतादादर्शस्थानीयात् । बाह्यं शुक्लशोणितं प्रधानकारणमिति चेत् । न । अचेतनत्वात् । उपपादुकानां च तदभावात् । अतोऽप्ययमसमानो दृष्टान्तः । किमनेन दर्शितं भवति । उक्तालितविशेषणे हेतावयमतुल्यो दृष्टान्तः इति । कथमिति । यतोऽपैति । यत्र चोत्पद्यते । तदन्तरालसंतानवर्तिरूपपूर्वकमुपपत्तिभवरूपम् । अद्वयोत्पन्नस्वोपादानरूपसंतानरूपस्वभावत्वात् । व्रीहिसंतानपश्चात्तररूपवदिति । तदेवं सति नास्य साधनस्यानैकान्तिकता शक्यमुद्ग्राहयितुं । नापि प्रतिसाधनं कर्तुमित्युक्तं भवति । आगमेनान्तराभवस्यास्तित्वं साधयन्नाह । कण्ठोक्तेश्चास्तीति स्वशब्दाभिधानादित्यर्थः । नैतत्सूत्रं तैराम्नायत इति । तैर्निकायान्तरीयैः । कस्मान्नाम्नायते । तदागमेष्वभावात् । निकायन्तरागमप्रसिद्धं किमिति न प्रमाणं क्रियते । मूलसंगीतिभ्रंशेन समारोपितसूत्राशंकितत्वात् । त्रयाणां स्थानानामिति । त्रयाणां हेतूनां । माता कल्या माता नीरोगा । ऋतुमती रजस्वला । तदेतदुभयं प्रथमं स्थानं भवति । रक्तौ संनिपतिताविति । मैथुनधर्मं कुर्वन्तौ । इदं द्वितीयं स्थानं । गन्धर्वश्च प्रत्युपस्थित इति तृतीयं । स्कंधभेदश्च प्रत्युपस्थित [तिब् । २५९ ] इति मरणभवः । पंचानागामिनः सप्त सत्पुरुषगतयः पुद्गलनिर्देशकोशस्थाने वक्ष्यंते । उपपद्यादयोऽपीति । उपपद्या नाम ते देवा इत्येवमादयः संप्रसज्यन्ते । सप्त सत्पुरुषगतय इति । एत एव पंचान्तरापरिनिर्वायिणं त्रिधा भित्त्वा सप्त भवंति । तेनाहान्तरापरिनिर्वायिणस्त्रय उक्ताः कालदेशप्रकर्षभेदेनेति । कालप्रकर्षभेदेन देशप्रकर्षभेदेन च यथायोगं । सूत्रं चात्र पठ्यते । श्रावस्त्यां निदानं । तत्र भगवान् भिक्षूनामन्त्रयते स्म । सप्त वोऽहं भिक्षवः सत्पुरुषगतीर्देशयिष्याम्यनुपादाय च परिनिर्वाणं । तच्छ्रुणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । सप्त सत्पुरुषगतयः कतमाः । इह भिक्षुरेवं प्रतिपन्नो भवति । नो च स्यां नो च मे स्यात्न भविष्यामि न मे भविष्यति यदस्ति यद्भूतं तत्प्रजहामीत्युपेक्षां प्रतिलभते । स भवेऽस्मिन्न रज्यते । स भवेऽस्मिन्न सज्यते । अथोत्तरं पदं शान्तं प्रज्ञया प्रतिविध्यति । तच्चानेन पदं कायेन साक्षात्कृतं भवति । एवं प्रतिपन्नस्य भिक्षोः का गतिः स्यात् । कोपपत्तिः । कोऽभिसंपराय इति स्युः प्रष्टारः । तद्यथा भिक्षवः परीत्तः शकलिकाग्निरभिनिवर्तमान एव निर्वायात् । एवमेव तस्य तावन्मानावशेषम् [तिब् । २६० ] अप्रहीणं भवत्यपरिज्ञातं । तस्य तावन्मानावशेषस्याप्रहाणादपरिज्ञानात्पंचानामवरभागीयानां संयोजनानां प्रहाणादन्तरापरिनिर्वायी भवति । इयं प्रथमा सत्पुरुषगतिराख्याता । (अभिधर्मकोषव्याख्या २७१) पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति । नो च स्यामिति पूर्ववत्यावत्स्युः प्रष्टार इति । तद्यथायोगुडानां वायस्फालानां वा प्रदीप्ताग्निसंप्रतप्तानामयोघनेन हन्यमानानामयस्प्रपाटिका उत्पतंत्येव निर्वायात् । एवमेव तस्य पूर्ववत्यावत्पंचानामवरभागीयानां संयोजनानां प्रहाणादन्तरापरिनिर्वायी भवति । इयं द्वितीया सत्पुरुषगतिः । पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति । पूर्ववद्यावदयस्प्रपाटिका उत्प्लुत्यापतित्वैव पृथिव्यां निर्वायात् । एवमेव तस्य पूर्ववत्यावदन्तरापरिनिर्वायी भवति । इयं तृतीया सत्पुरुषगतिः । पुनरपरं भिक्षुरेवं प्रतिपन्नो भवतीति पूर्ववत्यावदयस्प्रपाटिका उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात् । एवमेव तस्य पूर्ववद्यावत्पंचानामवरभागीयानां संयोजनानां प्रहाणादुपपद्यपरिनिर्वायी भवति । इयं चतुर्थी सत्पुरुषगतिः । पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद्यावदयस्प्रपाटिका उत्प्लुत्य परीत्ते तृणकाष्ठे निपतेत् । सा तत्र धूममपि कुर्यात् । अर्चिरपि संजनयेत् । सा तत्र धूममपि [तिब् । २६० ] कृत्वार्चिरपि संजनय्य तदेव परीत्तं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात् । एवमेव तस्य पूर्ववद्यावत्पंचानामवरभागीयानां संयोजनानां प्रहाणादनभिसंस्कारपरिनिर्वायी भवति । इयं पंचमी सत्पुरुषगतिः । पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद्यावदयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणकाष्ठे निपतेत् । सा तत्र धूममपि कुर्यात् । अर्चिरपि संजनयेत् । सा तत्र धूममपि कृत्वार्चिरपि संजनय्य तदेव महद्विपुलं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात् । एवमेव तस्य पूर्ववद्यावत्पंचानामवरभागीयानां संयोजनानां प्रहाणात्साभिसंस्कारपरिनिर्वायी भवति । इयं षष्ठी सत्पुरुषगतिः । पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद्यावदयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणाकाष्ठे निपतेत् । सा तत्र धूममपि कुर्यातर्चिरपि संजनयेत् । सा तत्र धूममपि कृत्वार्चिरपि संजनय्य तदेव महद्विपुलं तृणकाष्ठं दग्ध्वा ग्राममपि दहेद्ग्रामप्रदेशमपि नगरमपि नगरप्रदेशमपि जनपदमपि जनपदप्रदेशमपि कक्षमपि दावमपि द्वीपमपि षण्डमपि दहेत् । ग्राममपि दग्ध्वा यावद्षण्डमपि दग्ध्वा मार्गान्तमागम्य उदकान्तं वाल्पहरितकं या पृथिवीप्रदेशमागम्य पर्यादाय [तिब् । २६१ ] निरुपादाना निर्वायात् । एवमेव तस्य पूर्ववद्यावत्पंचानामवरभ्गीयानां संयोजनानां प्रहाणातूर्ध्वंस्रोता भवति । इयं सप्तमी सत्पुरुषपतिराख्याता । अनुपादाय परिनिर्वाणं कतमत् । इह भिक्षुरेवं प्रतिपन्न इति पूर्ववद्यावत्स्युः प्रष्टार इति । तस्यैवं प्रतिपन्नस्य भिक्षोर्न पूर्वस्यां दिशि गतिं वदामि न दक्षिणस्यां न पश्चिमायां नोत्तरस्यां नोर्ध्वं नाधो नानुविदिक्षु (अभिधर्मकोषव्याख्या २७२) नान्यत्र । दृष्ट एव धर्मे निश्छायं परिनिर्वृतं शीतीभूतं ब्रह्मीभूतमिति । इदमुच्यतेऽनुपादाय परिनिर्वाणं । सप्त वोऽहं भिक्षवः सत्पुरुषगतीर्देशयिष्याम्यनुपादाय च परिनिर्वाणमिति यदुक्तम् । इदमेतत्प्रयुक्तं । अन्ये पुनराहुरिति विस्तरः । आयुषः प्रमाणं । तस्यान्तरं तस्मिन्नायुःप्रमाणान्तरेऽपरिसमाप्त आयुषीत्यर्थः । देवसमीपान्तरे वा । देवानामन्तिकं देवानां समीपम् । देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति । सोऽन्तरापरिनिर्वायी । स पुनर्धातुगतो वा परिनिर्वाति । यः क्लेशबीजावस्थायामुपपन्नमात्रः । असमुदाचारक्लेश इत्यर्थः । संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति । धातुगताच्चिरतरेणायं [तिब् । २६१ ] परिनिर्वाति । वितर्कगतो वा वितर्कसमुदाचारावस्थायां यः परिनिर्वाति । अयमपि संज्ञागताच्चिरतरेण परिनिर्वाति । तेन त्रिविधो भवत्यन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण । प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्यर्थः । यं प्रत्येष परीत्तः शकलिकाग्निरिति दृष्टान्तः । द्वितीयो देवसमृद्धिं चानुभूय परिनिर्वातीति । यं प्रत्येष दृष्टान्तः । तद्यथायस्प्रपातिकेति । तृतीयो धर्मसंगीतिमनुप्रविश्य धर्मसांकथ्यमनुप्रविश्य परिनिर्वाति । यं प्रत्येष दृष्टान्तः । तद्यथायस्प्रपाटिका उत्प्लुत्य पृथिव्यामपतित्वैव निर्वायात् । तदेवं विनाप्यन्तराभवेन यथान्तरापरिनिर्वायी भवति । यथा च तस्य दृष्टान्तत्रयेण त्रिविधो भेदः । तथा साधितं निकायान्तरीयैः । तस्मिं साधिते इदं चोद्येत यदि धर्मसंगीतिमनुप्रविश्य यः परिनिर्वाति । सोऽन्तरापरिनिर्वायीष्यते कीदृश उपपद्यपरिनिर्वायी भविष्यतीत्यत आह । उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वातीति । प्रकर्षयोगादुत्पत्त्यर्थो भवतीत्यभिप्रायः । संगीतिअनुप्रवेशसामान्यान् [तिब् । २६२ ] नैष भेदो युज्यत इति वचनावकाशं मत्वा पुनराह । भूयसा वायुरुपहत्येति । आयुषो बहु क्षयित्वा परिनिर्वातीत्यर्थः । त एत इति विस्तरः । त एते सर्वेऽपि धातुगतादयस्त्रयः शकालिकादिभिर्दृष्टान्तैर्न संबध्यंते । कस्मात् । देशगतिविशेषाभावात् । देशगतेर्विशेषस्याभावात् । न ह्येषां देशगतिविशेषोऽस्ति । तत्रैव देशे परिनिर्वाणात् । सूत्रोक्तानां त्रयाणां दृष्टान्तानां दशगतिविशेषोऽस्तीति । नैभिरेते सम्बध्यंते । आरूप्येष्वपि चेति विस्तरः । यदि चैवमुपपद्यपरिनिर्वायिण एवान्तरापरिनिर्वायित्वेन व्यवस्थाप्येरन् । आरूप्येष्वपि ते तथैव पठ्येरन् । तत्रायुःप्रमाणान्तरे परिनिर्वाणात् । न चैवम् । अतो नैवं सूत्रार्थः । आयुःप्रमाणान्तरे वेत्यादिः । कथं पुनर्गम्यते । नारूप्येष्वन्तरापरिनिर्वायी पठ्यत इत्याह ध्यानैश्चतस्रो दशिका (अभिधर्मकोषव्याख्या २७३) इति विस्तरः । ध्यानैश्चतुर्भिश्चतस्रो दशिका सूत्रार्थानां । प्रथमस्य ध्यानस्यैका दशिका यावच्चतुर्थस्यैका दशिका । ताः कृत्वा । आरूप्यैस्सप्तिकात्रयं इति । आकाशविज्ञानाकिंचन्यायतनैस्तिस्रः सप्तिकाः । तासां त्रयम् । अन्तराभवाभावादुपपत्तिस्थानत्रयाभावेन च द्वयाभावात् । तत्कृत्वा । नैवसंज्ञानासंज्ञायतनेन [तिब् । २६२ ] षट्किका । तेषामेव त्रयाणामूर्ध्वं स्रोतसश्चाभावात् । तां च कृत्वा वर्गो भवति समुदितो बद्ध इत्यर्थः । कथम् । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमित्तैर्विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । स न हैव तानाकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति । अपि तु यत्तत्रोपलभते रूपगतं वा वेदनागतं वा संज्ञागतं वा संस्कारगतं वा विज्ञानगतं वा । स तां धर्मान् रोगतो मनसिकरोति । गण्डतः शल्यतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतो मनसिकरोति । स तान् धर्मान् रोगतो मनसिकृत्य यावदनात्मतो मनसिकृत्य तेभ्यो धर्मेभ्यश्चित्तमुद्वेजयति उत्तासयति प्रतिवारयति । स तेभ्यो धर्मेभ्यश्चित्तमुद्वेज्योत्त्रास्य प्रतिवार्य अमृते धातावुपसंहरति । एतच्छांतमेतत्प्रणीतं । यदुत सर्वोपधिप्रतिनिसर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणमिति । १ । एतदेव च सूत्रमुक्त्वायं विशेषः । तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते भवास्रवादविद्यास्रवाच्चित्तं विमुच्यते । विमुक्तस्य विमुक्तोऽस्मीति ज्ञानदर्शनं भवति क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति । २ । एतदेव च सूत्रमुक्त्वा नो तु विमुच्यते । अपि तु तेनैव धर्मच्छन्देन [तिब् । २६३ ] तेनैव धर्मस्नेहेन तेनैव धर्मप्रेम्ना तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति । ३ । न हैवान्तरापरिनिर्वायी भवति । अपि तूपपद्यपरिनिर्वायी भवति । ४ । न हैवोपपद्यपरिनिर्वायी भवति । अपि त्वनभिसंस्कारपरिनिर्वायी भवति । ५ । न हैवानभिसंस्कारपरिनिर्वायी भवति । अपि तु साभिसंस्कारपरिनिर्वायी भवति । ६ । न हैव साभिसंस्कारपरिनिर्वायी भवति । अपि तूर्ध्वंस्रोता भवति । ७ । न हैवोर्ध्वंस्रोता भवति । अपि तु तेनैव धर्मच्छन्देन पूर्ववत्यावत्तयैव धर्मभिरत्या महाब्रह्मणां देवानां सभागतायामुपपद्यते । ८ । न हैव महाब्रह्मणां देवानां सभागतायामुपपद्यते । अपि तु तेनैव धर्मच्छन्देन पूर्ववत्यावत्तयैव धर्माभिरत्या ब्रह्मपुरोहितानां (अभिधर्मकोषव्याख्या २७४) देवानां सभागतायामुपपद्यते । ९ । न हैव ब्रह्मपुरोहितानां देवानां सभागतायामुपपद्यते । अपि तु तेनैव धर्मच्छन्देन पूर्ववत्यावत्तयैव धर्माभिरत्या ब्रह्मकायिकानां देवानां सभागतायामुपपद्यते । १० । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमितैर्वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कम् [तिब् । २६३ ] अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति । स न हैव तानाकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति । अपि तु तत्रोपलभते पूर्ववद्ग्रन्थः । यावद्विरागो निरोधो निर्वाणं । १ । एतदेव सूत्रमुक्त्वा तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते । भवास्रवादविद्यास्रवात्पूर्ववत्यावत्कृतं करणीयं नापरमस्माद्भवं प्रजानामीति । २ । एतदेव सूत्रमुक्त्वा नो तु विमुच्यते । अपि तु तेनैव धर्मच्छन्देन पूर्ववत् । यावत्तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति । ३ । न हैवान्तरापरिनिर्वायी भवति । अपि तूपपद्यपरिनिर्वायी भवति । ४ । न हैवोपपद्यपरिनिर्वायी भवति अपि त्वनभिसंस्कारपरिनिर्वायी भवति । ५ । न हैवानभिसंस्कारपरिनिर्वायी भवति । अपि तु साभिसंकारपरिनिर्वायी भवति । ६ । न हैव साभिसंस्कारपरिनिर्वायी भवति । अपि तूर्ध्वंस्रोता भवति । ७ । न हैवोर्ध्वंस्रोता भवति । अपि तु तेनैव धर्मच्छन्देन पूर्ववत्यावत्तयैव धर्माभिरत्या आभास्वराणां देवानां सभागतायामुपपद्यते । ८ । न हैवाभास्वराणां देवानां सभागतायामुपपद्यते । अपि तु तेनैव धर्मच्छन्देन यावत्तयैव धर्माभिरत्या अप्रमाणाभानां देवानां सभागतायामुपपद्यते । ९ । न हैवाप्रमाणाभानां देवानां सभागतायामुपपद्यते । अपि तु तेनैव धर्मच्छन्देन पूर्ववद्यावत्तयैव धर्माभिरत्या परीत्ताभानां देवानां सभागतायामुपपद्यते । १० । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमित्तैः प्रीतिविरागादुपेक्षको विहरति । स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरति । स न हैव तानाकारांस्तानि लिंगानि तानि निमित्तानि मनसिकरोति पूर्ववत्[तिब् । २६४ ] सर्वाणि सूत्राणि । केवलं तु निकायसभागतायां विशेषः । न हैवोर्ध्वंस्रोता भवति । अपि तु तेनैव धर्मच्छन्देन पूर्ववद्यावद्छुभकृत्स्नानां देवानां सभागतायामुपपद्यते । ८ । न हैव शुभकृत्स्नानां देवानां सभागतायामुपपद्यते । अपि तेनैव पूर्ववतप्रमाणशुभानां देवानां सभागतायामुपपद्यते । ९ । न हैवाप्रमाणशुभानां देवानां सभागतायामुपयद्यते । अपि तु तेनैव पूर्ववत्परीत्तशुभानां देवानां सभागतायामुपपद्यते । १० । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमित्तैः सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्ययोर्(अभिधर्मकोषव्याख्या २७५) अस्तंगमात् । अदुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति । स न हैव तानाकारांस्तानि लिंगानि विस्तरेण सर्वाणि सूत्राणि पूर्ववद्वक्तव्यानि । देवनिकायोपपत्तयस्तु विशेष्यन्ते । यावत्तयैव धर्माभिरत्या बृहत्फलानां देवानां सभागतायामुपपद्यते । न हैव पूर्ववत्पुण्यप्रसवानां देवानां सभागतायामुपपद्यते । न हैव पूर्ववदनभ्रकाणां देवानां सभागतायामुपपद्यते । १० । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमित्तैः सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तंगमात्[तिब् । २६४ ] नानात्वसंज्ञानाममनसिकारातनन्तमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति । स न हैव तानाकारानिति पूर्ववत् । केवलं तु रूपगतमिति न पठितव्यं । तत्र रूपाभावात् । यावन्निरोधो निर्वाणमिति । १ । एतदेव सूत्रमुक्त्वायं विशेषः । तस्यैवं जानत इति पूर्ववत्यावन्नापरमस्माद्भवं प्रजानामीति । २ । एतदेवोक्त्वा नो विमुच्यते । अपि तु तेनैव धर्मच्छन्देन यावत्तयैव धर्माभिरत्या उपपद्यपरिनिर्वायी भवति । ३ । न हैवोपपद्यपरिनिर्वायी भवति । अपि तु तेनैव यावदनभिसंस्कारपरिनिर्वायी भवति । ४ । न हैवानभिसंस्कारपरिनिर्वायी भवतीति सर्वमुक्त्वा यावदूर्ध्वंस्रोता न भवति । अपि तु तेनैव पूर्ववत् । यावत्तयैव धर्माभिरत्या आकाशानंत्यायतनोपगानां देवानां सभागतायामुपपद्यते । ७ । इह भिक्षुर्यैराकारैर्यैर्लिंगैर्यैर्निमित्तैः सर्वश आकाशानंत्यायतनं समतिक्रम्यानंतं विज्ञानमिति विज्ञानानंत्यायतनमुपसंपद्य विहरति । स न हैव तानाकारानित्याकाशानंत्यायतनवत्सप्त सूत्राणि वक्तव्यानि । केवलं तु विज्ञानानंत्यायतनोपगानां देवानां सभागतायामुपपद्यत इति विशेषः । ७ । पुनरपरमिह भिक्षुर्यैराकारैर्[तिब् । २६५ ] यैर्लिंगैर्यैर्निमित्तैः सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति । स न हैव तानाकारानिति पूर्ववत्सप्त सूत्राणि । ७ । पुनरपरमिह भिक्षुर्यैरिति यावत्सर्वशः आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति । पूर्ववत्सर्वाणि सूत्राणि वक्तव्यान्यूर्ध्वंस्रोतसं त्वेकमपनीय । ६ । तदेवं चतुर्भिर्ध्यानैरमृतधातुचित्तोपसंहारचित्तविमुक्त्यन्तरोपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनत्र्युपपत्तिस्थानोपपत्तिस्वभावाश्चतस्रः सूत्रार्थदशिका उक्ताः । त्रिभिस्त्वाद्यैरारूप्यैरमृतधातुचित्तोपसंहारचित्तविमुक्त्युपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनोपपत्तिस्थानोपपत्तिस्वभावास्तिस्रः सूत्रार्थसप्तिकाः । नैवसंज्ञानासंज्ञायतनेनोर्ध्वगमनं परिहाय षट्किका चोक्ता । अतो योऽसाव्(अभिधर्मकोषव्याख्या २७६) अन्तरापरिनिर्वायी । नासावायुष्प्रमाणान्तरापरिनिर्वायीति युज्यते वक्तुम् । आरूप्येष्वपि ह्यन्तरामरणसंभवः । कुरुवर्ज्योऽन्तरामृत्युर् इति वचनात् । तस्मातागमतोऽपि सिद्धोऽन्तराभवो न केवलं युक्तित इत्यपिशब्दः [तिब् । २६५ ] । दूषीमार इति । क्रकुच्छन्दस्य तथागतस्य विदुरं नाम श्रावकं दूषी नाम मारस्तदानीं शिरसि मुष्टिनाभिघ्नन् तेनांगीकृतः । तत्क्षण एव च स्वशरीरेणैवावीचौ महानरके प्रपतित इति । स्वशरीरेणैवेति वचनान्नास्त्यन्तराभव इत्यभिप्रायः । स हि जीवन्नेव नारकीभिर्ज्वालाभिरिति । जीवन्नेवासौ मारो नरकोत्थिताभिरग्निज्वालाभिरालिंगितत्वात्स्वशरीरावस्थादुःखोत्पत्तेः । स्वशरीरेणैव प्रपतित इत्युक्तः । न तु कालमकृत्वान्तराभवावस्थानं । नरकोपपत्तिभवॄआवस्थां च न गतवानित्यभिप्रायः । अत्युदीर्णपरिपूर्णानीति । क्षेत्राशयविशेषयोगादत्युदीर्णानि । उपचितत्वात्परिपूर्णानि । समनंतरं नरकेषूपपद्यत इति । समनन्तरवचनान्नास्त्यन्तराभव इत्यभिप्रायः । अन्यां गतिमगत्वेति । उपपत्त्यन्तरप्रतिषेधपरमेतद्वाक्यं । नान्तराभवप्रतिषेधपरमित्यभिप्रायः । पंचैवेति । यदि यथारुतं कल्प्यते । पंचभिरेवानन्तर्र्यैः कृतैः न त्वेकेन द्वाभ्यां वा नरकगमनं भवतीत्येतत्प्राप्नोति । पंचेति रुतात्क्रियानन्तरं चानन्तर्यक्रियानन्तरं च नरकेषूपपन्न इति प्राप्नोति । यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत इति रुतान्न कालान्तरं [तिब् । २६६ ] जीवित्वा । को वान्तराभवस्योपपद्यमानत्वं नेच्छतीति । विप्रकृतावस्थावचनात् । उपपत्त्यभिमुखो ह्युपपद्यमान इत्यभिप्रायः । न तु ब्रूम उपपन्नो भवतीति । न तूपपद्यत इत्येतत्पदमुपपन्नार्थमिति ब्रूमः । तस्माददोष एष्स्ः । उपनीतवया इति विस्तरः । मृत्युसमीपमुपनीतं वयो येन । सोऽयमुपनीतवयाः । द्विजेत्य् आमन्त्रणं । कश्चिज्जीर्णो ब्राह्मण आमन्त्रितः । वासोऽपि हि नास्ति तेऽन्तरेति । इदमत्र ज्ञापकम् । अन्तराभवाभाव इत्यभिप्रायः । पाथेयं पथ्यौदनं च न विद्यते तव (अभिधर्मकोषव्याख्या २७७) पारलौकिकः कुशलसंभारस्तव नास्तीत्यभिप्रायः । मनुष्येष्वन्तरावासो नास्तीति । मरणगतस्य ते सतो मनुष्येष्वन्तरावासो नास्ति । यथेह कस्यचित्प्रतिष्ठमानस्येत्यभिप्रायः । गमनविष्ठानादिति । गमनविरामात् । अयमत्राभिप्रायो यथा त्वया वर्ण्यते । अस्त्यन्तराभव इति । नायमभिप्रायो यथा मया वर्ण्यते । नास्त्यन्तराभव इति । कुत एतत् । कुतो हेतोरेतद्भवति । तुल्य एष भवतोऽप्यनुयोगः । समान एष भवतोऽपि प्रश्न इत्यर्थः । यथोक्तसूत्रविरोधादिति । दूषीमारसूत्राद्यविरोधात् । न भवत्येतत्सूत्रमन्तराभवस्याभावे ज्ञापकं । ज्ञपकं हि नामागतिका गतिर्[तिब् । २६६ ] इति । यस्या गतेरन्या गतिर्नास्ति । असावगतिका गतिः । एतदुक्तं भवति । यदि यज्ज्ञापकं सूत्रं । गाथा वा । येस्यार्थस्य द्योतनार्थमुच्यते । यदि तमेवार्थं द्योतयति । नान्यदप्यर्थान्तरं तद्विरुद्धं । तज्ज्ञापकमनन्यगतिकमिति । (इइइ ।१३) ऐष्यत्पूर्वकालभवाकृतिर् इति । आ एष्यदैष्यत् । ऐष्यतः पूर्वकालभवस्येवाकृतिरस्येति । ऐष्यत्पूर्वकालभवाकृतिः । कस्मात् । एकाक्षेपात् । यस्मादैष्यन्ती गतिस्तत्प्रापकश्चान्तराभवस्तेनैवैकेन कर्मणाक्षिप्यते । शुनीप्रभृतीनामिति । शुनीसूकरीप्रभृतीनां । पंचगतिक इति । पंचगतिगामीत्यर्थः । यदि गर्भस्थोऽपि म्रियेत तस्य नारकोऽन्तराभवो मातुः कुक्षिं निर्दहेत् । नारको हि प्रदीपो भवति । तद्रूपश्चान्तराभव इति । पूर्वकालभवेऽपीति विस्तरः । नारकपूर्वकालभवावस्था अपि नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु कुकूलादिषु भ्रमंतः । किमंगान्तराभविकाः । अस्तु वा प्रज्वलित इति । नारकोऽन्तराभवः । कुक्षावसंश्लेषादिति । अन्तराभवानामच्छत्वादात्मभावस्यान्योन्यमसंश्लेषान्न दाहः । कर्मप्रतिबन्धाच्च । तत्कर्मप्रतिबन्धान्न दाह इति कृत्वा । अत एव शुनीप्रभृतीनां कुक्षेरदाहः । कोटीशतं चातुर्द्वीपकानामवभासितमिति । यतः पूर्णयून इव बोधिसत्त्वस्यान्तराभवः [तिब् । २६७ ] सलक्षणानुव्यंजनश्चातोऽंतराभवस्थेन तेन मातुः कुक्षिं प्रवेष्तुमिच्छता त्रिसाहस्रमहासाहस्रो लोकधातुः स्वक्षेत्रमिति कृत्वावभासितः । पांण्डरं गजपोटमिति । यद्य् ऐष्यत्पूर्वकालभवाकृतिर् अन्तराभवः । कस्माद्बोधिसत्त्वस्य माता गजपोतमेवंरूपमद्राक्षीत् । निमित्तमात्रं तत् । तस्य बोधिसत्त्वस्य तिर्यग्योनेश्चिरव्यावर्तितत्वात् । यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं कल्पशते शेषे ततः प्रभृति तस्य सर्वा दुर्गतयो व्यावृत्ताः । तद्यथा कृकी राजा दश स्वप्नानद्राक्षीत् । (अभिधर्मकोषव्याख्या २७८) भविष्यतोऽर्थस्य निमित्तमात्रमिति । दश स्वप्ना विनये पठ्यन्ते । कृकिणा किल राज्ञा दश स्वप्ना दृष्ताः । हस्ती वातायनेन निर्गत्य पुच्छे सक्तह् । कूपस्तृषितस्य पृष्टतोऽ नुधावति । सक्तुप्रस्थेन मुक्ताप्रस्थो लभ्यते । चन्दनं काष्ठार्घेण विक्रीयते । आरामाः पुष्पफलसंपन्नाः सर्वं च पुष्पफलमदत्तादायिभिर्ह्रियते । कलभैर्गन्धहस्तिनस्त्रास्यन्ते । अशुचिम्रक्षितो मर्कटः परानुपलिंपति । मर्कटाभिषेको वर्तते । पटकोऽष्टादशभिर्जनैराकृष्यते । महाजनकाय एकत्र कलहभण्डनविग्रहविवादेनान्योन्यविघातमापन्न इति । तेन च ते भगवते काश्यपाय तथागताय निवेदिताः । [तिब् । २६७ ] भगवता च व्याकृताः । भविष्यत्यनागतेऽध्वनि साक्यमुनिर्नाम तथागतः । तस्य श्रावका विस्तीर्णस्वजनबंधुवर्गं प्रहाय प्रव्रजिताः विहारेषु गृहसंज्ञामुत्पाद्य संगं करिष्यन्ति हस्तिनो वातायननिर्गमनपुच्छलग्नवत् । कूपस्वप्नेन तच्छ्रावका एव ब्राह्मणगृहपतीनामभ्युपेत्य धर्मं देशयिष्यंति । तेषां श्रोतुकामता न संस्थास्यत इत्येतद्दर्शयति । सक्तुमुक्ताप्रस्थस्वप्नेन तच्छ्रावका एव सक्तुभिक्षाया अप्यर्थायेन्द्रियबलबोध्यंगादीनि प्रकाशयिष्यंति । चेन्दनस्वप्नेन तच्छ्रावका एवाभावितकायशीलप्रज्ञाः तीर्थ्यमतानि गृहीत्वा बुद्धवचनेन समानीकरिष्यन्तीत्येतद्दर्शयति । आरामस्वप्नेन तच्छ्रावका एवावासमाश्रयं कृत्वा यत्तद्भविष्यति संघस्य पुष्पं वा फलं वाधिकं वा तद्विक्रीय विक्रीय जीविकां कल्पयिष्यन्ति । तेन च गृहिणः प्रतिसंस्तरिष्यन्तीत्येतद्दर्शयति । कलभस्वप्नेन तच्छ्रावका एव दुःशीलः पापधर्माणो भविष्यन्ति । ये ते भिक्षवः स्थविराः शीलवंतः कल्याणधर्माणः । तानावासेभ्यः प्रवासयिष्यंतीत्येतद्दर्शयति । अशुचिम्रक्सितमर्कटस्वप्नेन तच्छ्रावका एव दुःशीलाः पापधर्माणः सन्तो ये ते भिक्षवः कल्याणाः । तानसद्भिर्दोषैश्चोदयिष्यन्तीत्येतद्दर्शयति । मर्कटाभिषेकस्वप्नेन तच्छ्रावका एव सामन्तिकाभिषेकं वीहारेषु [तिब् । २६८ ] करिष्यन्ति । लोकेऽपि च पण्डका अधिराज्यं कारयिष्यन्तीत्येतद्दर्शयति । पटस्वप्नेन तच्छासनमेवाष्टादशधाभेदं गमिष्यति । न च विमुक्तिपटः खण्डयिष्यत इत्येतद्दर्शयति । कलहस्वप्नेन तच्छ्रावका एव निकायपरिग्रहात्परस्परं विवादमापत्स्यन्त इत्येतद्दर्शयतीति । संग्रहश्लोकः । करिकूपसक्तुचन्दनकलभारामास्तथा कपेरभिषेकः अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः । अपत्राप्योत्सदवातपत्राप्योत्कटत्वात् । उपपत्तिभवः प्रतिसन्धिक्षण एव । तस्मात्परेण प्रतिसंधिक्षणाद्(अभिधर्मकोषव्याख्या २७९) अन्यो भवः पूर्वकालभवः । रूपिषु चेत्सत्त्वेषूपपद्यत इति । आरूप्यधातावन्तराभवाभावादिदं विशेषवचनं । (इइइ ।१४, १५) समानजातीयैर् इति । नारकोऽन्तराभवो नारकैरेवान्तराभवैर्दृश्यते । एवं यावद्देवान्तराभवो देवान्तराभवैरेवेति । सुविशुद्धमिति । एकादशदिव्यचक्षुरपक्षालवर्जितं । ते पुनरपक्षाला विचिकित्सा अमनसिकारः कायदौष्ठुल्यं स्त्यानमिद्धमौद्धत्यमभ्यारभ्यवीर्यमौद्बिल्यं छंभितत्वं नानात्वसंज्ञा अभिजल्पः । अभिध्यायितत्वं ज्ञेयेषु यथासूत्रं । अभिज्ञामयम् [तिब् । २६८ ] इति । अभिज्ञास्वभावभावनामयमित्यर्थः । उपपत्तिप्रतिलंभिकमपि देवादीनां दिव्यमिष्यते । न तु सुविशुद्धं । देवान्तराभविक इति विस्तरः । अपर आहुः । न समानजातीयैरेवान्तराभवो दृश्यते । किं तर्हि । देवान्तराभविकः सर्वान् देवान्तराभविकादीन् पश्यति । मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वंपूर्वमपास्य । कथं । मनुष्यान्तराभविको देवान्तराभविकं पूर्वमपास्य मनुष्यप्रेततिर्यङ्नारकान्तराभविकान् पश्यति । प्रेतान्तराभविको देवमनुष्यान्तराभविकौ पूर्वावपास्य प्रेततिर्यङ्नारकान्तराभविकान् पश्यति । एवं यावन्नारकान्तराभविको देवान्तराभविकादीन् पूर्वानपास्य नारकान्तराभविकानेव पश्यति । गतीनामुत्तरोत्तरनिकृष्टत्वादिति । अत एव गन्धर्व इति । यतो गन्धगतो गन्धर्वः । गन्धमर्वति भक्षयति गन्धर्व इत्यर्थः । धातूनामनेकार्थत्वात् । अयमर्वति न केवलं गत्यर्थे वर्तते । किं तर्हि । भोजनर्थेऽपीति गत्यर्थपरिगरहेऽप्यदोषः । गन्धमर्वति गच्छति भोक्तुमिति गन्धर्व इति । ह्रस्वत्वं शकन्धुकर्कन्धुवदिति । कृदन्त इति । पररूपनिपातनात् । शकन्धुकर्कन्धुरिति पररूपसिद्धिर्यथा । तथेहपि गन्धर्व इति । अल्पेशाख्योऽनुदारो हीनजातीय इत्यर्थः । ईष्ट इतीशः । अल्प ईशोऽल्पेशः । अल्पेश इत्याख्या यस्य सोऽल्पेशाख्यः । विपर्ययान्महेशाख्यः । एकनिकायसभागत्वादिति । यश्च पूर्वकालभवो यश्चान्तराभवस्तत्प्रापकः । तयोरेक एव निकायसभागः अत एकनिकायसभागत्वात् । [तिब् । २६९ ] येनैव कर्मणायुष्येण पूर्वकालभवस्यायुराक्षिप्यते । तेनैवान्तराभवस्य । इतरथा हि । यदि तस्यान्तराभवायुषः पृथगाक्षेपः स्यात् । तस्याप्यायुषहान्तराभविकस्य क्षयान्मरणभवः प्रसज्येत्पूर्वकालभववत् । तस्मान्नास्ति नियम इति भदन्तः । ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धा इति विस्तरः । ते क्षुद्रजन्तवस्तं गन्धं घ्रात्वा तत्सहचरं (अभिधर्मकोषव्याख्या २८०) चानुभूतं रसमनुस्मृत्य गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिनिकायसभागोत्पादकं कर्म विबोध्य । तया गंधरसतृष्णया विपाकाभिमुखं कृत्वान्तराभवसंतत्या क्रिमिषूपजायन्त इति । तत्पत्ययप्रचुर एव काल इति । क्रिमिप्रत्ययप्रचुरे काले तत्सम्वर्तनीयानि कर्माणि क्रिमिसम्वर्तनीयानि विपाकाभिनिर्वृत्तौ वृत्तिं लभंते । विपाकदानायाभिमुखीभवन्तीत्यर्थः । सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम् इति वचनात् । नान्यत्र । नातत्प्रचुरे काले । नान्यस्यामिति । नाल्पायुषि । चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकाद् इति वचनात् । अत एवेति । यस्माद्विद्यमानान्यपि चक्रवर्तिसम्वर्तनीयानि कर्माणि विपाकाभिनिर्वृत्तौ कदाचिदेव वृत्तिं लभन्ते । बहुप्रत्ययापेक्षित्वात् । संभवैषित्वादुपपत्त्यभिलाषित्वात् । कर्माण्येव प्रत्ययानां सामग्रीमावहन्तीति । कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालमतिक्रम्य [तिब् । २६९ ] कालान्तरेऽपि मैथुनं भवतीति । एककर्माक्षेपादिति । येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते । तेनैव कर्मणा तदन्तराभव आक्षिप्यते । इत्यतो वक्तव्यमेतत् । यदुक्तं येनान्यत्र काले गोषूपपत्तव्यः । स गवयेषूपपद्यत इति विस्तरेण । न निकायभेदादेकाक्षेपकत्वं हीयते । तत्कर्मण एकजातीयत्वात् । गव्याकृतिसंस्थानान्तरपरित्यागाच्च । गतिनियतानां हि कर्मणामुपपत्तिवैचित्र्यं द्र्ष्टं । कल्माषपादादिवदिति नास्त्येष दोष इत्याचार्यसंघभद्रः । विपर्यस्तमतिर् इति । अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर्भवति । तद्दर्शयन्नाह । तत्रास्य पित्रोरित्य्विस्तरः । मातापित्रोस्तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणां । पुंसः सतः पुरुषस्यान्तराभवस्य पुंसायं पौंस्नो राग उत्पद्यते मातरि भार्यायामिव । स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव । विपर्ययात्प्रतिघ इति । पुंसः सतः पौंस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरुष इव । स्त्रियास्सत्याः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्न्यामिव । स ताभ्यामेव विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रंतुकामनतया मैथुनकर्मकामनतया तं देशमिन्द्रियद्वयस्थानमाश्लिष्य तामवस्थां विप्रतिपत्त्यवस्थामात्मन्यधिमुच्यते । मयैतत्कर्म क्रियत इति । तस्मिंश्चाशुचौ शुक्लशोणिते गर्भस्थानसंप्राप्ते आमाशयपक्वाशयान्तरास्थानसंप्राप्ते [तिब् । २७० ] अभिनिविशते प्रतितिष्ठतीत्यर्थः । पृष्ठाभिमुख उत्कुटुक इति । मैथुनक्रियात्माभिमानक्रियायोगात् । आप्यायमानो वर्धमानः । एतान्य्(अभिधर्मकोषव्याख्या २८१) एवेति । शुक्लशोणितमहाभूतानि । भूतान्तराण्येवेति । शुक्लशोणितव्यतिरिक्तानि । बीजांकुरनिरोधोत्पादन्यायेनैकस्मिन्नेव क्षणे बीजं निरुध्यतेऽंकुरश्चोत्पद्यते । तुलादण्डनामोन्नामवन्नाशोत्पादयोः समकालत्वात् । यत्तत्कललमित्याख्यायत इति । कललं प्रथमं भवति । कललाज्जायतेऽर्बुदम् इत्यादिवचनात् । एवं च कृत्वा सूत्रपदमिति । वल्मीक इति भिक्षो अस्य कायस्यैतदधिवचनं रूपिणः औदारिकस्य चातुर्महाभूतस्य ओदनकुल्माषोपचितस्य मातापित्रशुचिकललसंभूतस्येति विस्तरः । मातापित्रशुच्येव कललं । ततः संभूतस्येत्यर्थः । कटसिरिति । श्मशानं । रुधिरबिन्दुरुपात्त इति । इदमुदाहरणं । अस्य कायेन्द्रियभावापत्तितः । भूतान्तराण्य्व शुक्लशोणितव्यतिरिक्तानि । तद्यथा पर्णक्रिमेरिति । यथा पर्णक्रिमेः पर्णमहाभूतान्युपनिश्रित्य भूतान्तराणि कर्मभिर्जायन्ते । यानीन्द्रियस्वभावमापद्यंते । न पर्णमहाभूतानि । बहुत्वात्तत्क्रिमीणां । खण्डशः पत्त्रस्यादर्शनाच्च । सूत्रपदं कथं तर्हि नीयते मातापित्रशुचिकललसंभूतस्येत्यत आह । अशुचिसंनिश्रयोत्पत्त्यभिसंधिवचनात्ते कललस्य सूत्राविरोध [तिब् । २७० ] इति । अशुचिसंनिश्रयेणोत्पत्तिर्भूतान्तराणां । तत्राभिसंधिरभिप्रायः । तेन वचनं कललस्य । तस्मान्मातापित्रशुचिकललसंभूतस्येत्यस्य सूत्रस्याविरोधः । एतदुक्तं भवति । शुक्लशोणितसंनिश्रयेण कललाख्यानि भूतांतराणि शुक्लशोणितसमकालान्युत्पद्यन्तो सेन्द्रियाणि । यथा पर्णसंनिश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्युत्पद्यन्त इति । अन्यत्र तु यथायोगं वक्तव्यमित्याहुरिति । अन्यत्र संस्वेदजौपपादुकयोर्योन्योर्यथायोगं व्याख्येयमित्याहुरभिधर्माचार्याः । तत्र चायं योगो दृश्येत इति । आचार्यो भवीति । शैत्यं च नरकेष्विति शीतनरकोपपत्तिकाले । यदवस्थ इति । औरभ्रिकाद्यवस्थः । यथा भूतेन तद्वेद्यं कृतं प्राक्कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति पार्वाचार्याः योगाचारा आर्यासंगप्रभृतयः । आसनादिवोत्तिष्ठन्निति । ऊर्ध्वोपपत्तिस्थानगमनात् । मनुष्यादिवदिति । यथा मनुष्यस्तिर्यक्प्रेतश्च गच्छति । तद्वत् । ऋषीणामतिवक्तार इति । अधिक्षेप्तारोऽपवदितार इत्यर्थः । (अभिधर्मकोषव्याख्या २८२) (इइइ ।१६, १७) नित्यमण्डज इति नित्यग्रहणात् सर्वाणि मूढ इत्यत्र नास्ति नियमः । भवति तु संप्रजानन्नपि । प्रतिलोमं निर्दिष्टा इति । सूत्रे हि यः सर्वाण्यसंप्रजानन् करोति । एषा प्रथमा गर्भावक्रान्तिरुक्ता । तिस्रस्तु यथा निर्दिष्टानुपूर्विका एवेति । योऽपि जनिष्यते । सोऽप्यण्डज [तिब् । २७१ ] इति । अण्डाज्जनिष्यतेऽण्डज इत्यभिप्रायः । आवश्यको ह्यभूतार्थो भूतवदुच्यते । तद्यथा वर्तमानसामीप्ये वर्तमानवद्वा । आशंसायां भूतवच्चेति । {यथाभूतेन तद्वेद्यं कृतं प्राक्कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति ।} कश्चित्कस्मैचिद्वक्ता भवेत् । आगच्छंतमेवागतं मां विद्धीति । तस्माददोश एषः । अण्डाज्जातो जनिष्यते जायते चेत्यण्डजः । अन्येभ्योऽपि ड्र्श्यत इति वचनात् । तस्माददुष्टमेतदित्याचार्यसंघभद्रः । अथ वा भाविन्यापि संज्ञयेति । भविष्यंत्यापि संज्ञया निर्देशः क्रियते । तद्यथा संस्कृतमभिसंस्करोतीति । जनितावस्थायां संस्कृतं भवति । न जन्यमानावस्थायां । न हि संस्कृतस्य पुनः संस्कारो युज्यते । भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते । एवमोदनं पचतीत्यादियोज्यं । कथं पुनरसंप्रजानन्मातुः कुक्षिं प्रविशतीति विस्तरः संनिकृष्टावस्था उपपत्तिदेशस्य विपर्यस्तमतिर्यातीति । विप्रकृष्टावस्था अधिमोक्षोऽधिमुक्तिः तथा तिष्ठामि निर्यामीति । कथं । तथा तिष्ठतोऽप्येषु तिष्ठामीति । निष्क्रामतोऽप्येभ्यो निर्यामीति । अयमनयोर्विपर्यासयोर्विशेष इति । अपरे पुनराहुः । न केवलं रागद्वेषाभ्याम् [तिब् । २७१ ] एव विपर्यस्तमतिरुत्पत्तिदेशं गच्छति । किं तर्हि । अन्यथापि । कथमिति । वातो वाति देवो वर्षतीत्यदि । तथारामं प्रविशाम्युद्यानं चेत्यादि ।संप्रजानंस्तु सम्यक्प्रजानाति । मातुः कुक्षिं प्रविशामीत्येवमादि । यदि सम्यक्प्रजानाति कथं क्लिष्टेनैव चित्तेन प्रतिसंधिबन्धो व्यवस्थाप्यते । मातृस्नेहादियोगात्क्लिष्टं चित्तं भवति । अपर आह । मातुः कुक्षिं प्रविशल एवं विपरीतौ संज्ञाधिमोक्षाविति । उपपन्नमात्रावस्थायामेतद्भवति वातो वाति यावद्वृक्षमूलं चोपसर्पामि कुड्यमूलं चेति । तिष्ठतोऽप्येषु तिष्ठामीति । निष्क्रामतोऽप्येभ्यो निर्यामीत्येवमादि । तत्र प्रथमेति विस्तरः । प्रथमा चक्रवर्तिनः । येयं । संप्रजानन् विशत्येक (अभिधर्मकोषव्याख्या २८३) इति । द्वितीया प्रत्येकबुद्धस्य । येयं तिष्ठत्यप्यपर इति । तृतीया बुद्धस्य । येयम् अपरः निष्क्रामत्यपीति । अत्रापि भाविन्येति । ते न चक्रवर्त्यादयस्तदानीमिति कृत्वा । त एवं त्वेते चक्रवर्त्यादय इति पर्यायमात्रमेतदुक्तम् । अर्थस्तु स एवेत्यभिप्रायः । (इइइ ।१८, १९) संकेता हेतुफलसम्बन्धव्यवस्थाः । [तिब् । २७२ ] क्लेशकर्माभिसंस्कृतम् इति । क्लेशकर्मपरिभावितमित्यर्थः । प्रदीपवद् इति । संततिन्यायसंचारि स्कंधपंचकं । क्षणिकत्वात् । प्रदीपवदिति दर्शयति । यथाक्षेपम् इति । आक्षेपस्तावत्कालप्रबन्धः । एतच्च विशेषणमायुष्यस्यायुःसम्वर्तनीयस्य कर्मणो भेदात् । व्यंजनान्यनुपूर्वश इति । व्यंजनानि चक्षुराद्यधिष्ठानानि । तैर्हि चक्षुरादीन्यभिव्यज्यन्ते । तस्मिन् वर्चःकूप इवेति । महाकायनाडीव्रण इति । निन्दावचनमेतत् । नाडी व्रण इव नाडीव्रण इति । उग्रो दुर्गन्ध उग्रदुर्गन्धिः । अन्धकारश्चासावालोकरहितत्वात् । समलानां च पल्वलोऽसौ पल्वल इवेति कृत्वा । तस्मिन् सततप्रतिक्रिये नित्यकर्तव्यशौचे । शुक्रेण पौंस्नेन । शोणितेन स्त्रैणेन । लसीकया द्रवविशेषलक्षणया । मलेन च संक्लिन्ने समन्तात्क्लिन्ने । विक्लिन्ने विशेषेण क्लिन्ने । क्वथिते पूतौ पिच्छिले च । तस्मिं हस्तौ संप्रवेश्यांगमन्गं हस्तपादादिकं निकृत्य च्छित्त्वा प्रत्याहरन्ति प्रत्याकर्षयंति । तरुणं व्रणं सरुजं । तरुणव्रणमिवात्मानमाचरंस्तरुणव्रणायमानं । तरुणव्रणायमान आत्मास्येति तरुणव्रणायमानात्मानं बालकं । शस्त्रं च क्षारं च शस्त्रक्षारं । तदिवात्मानमाचरं शस्त्रक्षारायमाणः । शस्त्रक्षारायमाणः [तिब् । २७२ ] संस्पर्शोऽनयोरिति शस्त्रक्षारायमाणसंस्पर्शौ पाणी । ताभ्यां परिगृह्य स्नापयंति । तस्य वृद्धेरन्वयादनुगमात् । तस्याहेतुकत्वमिति । आदेरहेतुकत्वं । सति चास्याहेतुकत्वे । तद्वदेव सर्वमहेतुकं प्रादुः स्यात् । दृष्टं चांकुरआदिषु बीजादीनां सामर्थ्यं । (अभिधर्मकोषव्याख्या २८४) अंकुरनालकाण्डपत्त्रादिषु बीजांकुरनालकाण्डादीनां सामर्थ्यमुत्पादनाय । कस्मात् । देशकालप्रतिनियमात् । देशकालयोस्तु प्रतिनियमात् । तत्र देशप्रतिनियमो बीजादिसंबद्ध एव देश उत्पत्तेः । कालप्रतिनियमो बीजानन्तरमुत्पत्तेः । अग्न्यादीनां वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिष पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु डृष्टं सामर्थ्यं देशकालप्रतिनियमात् । यदि हि निर्हेतुकः प्रादुर्भावः स्यात् । बीजादीनामंकुरादिषु अग्न्यादीनां च पाकजादिषु देशकालप्रतिनियमेनोत्पत्तिं प्रति सामर्थ्यं न स्यात् । सर्वं सर्वत्र सर्वदोत्पद्येत । न चैवं दृष्टमित्यतो नास्ति निर्हेतुकः प्रादुर्भावः । नित्यकारणास्तित्ववादः प्रागेव पर्युदस्तः । नेश्वरादेः क्रमादिभिर् इति वचनात् । (इइइ ।२०) शेषाण्यष्तौ मध्य इति । विज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवांगानि । [तिब् । २७३ ] नापि रूपारूप्यावचर इति । रूपावचरस्य विज्ञानांगकाल एव नामरूपषडायतनांगयोः सद्भावात् । न मध्येऽष्टावंगानि । आरूप्यावचरस्य च नामरूपषडायतनांगयोरभावात् । महानिदानपर्यायसूत्रे । विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदपि तु तन्नामरूपं कललत्वायाभिसंमूर्छेत् । नो भदन्तेत्यादि तत्सूत्रं पठ्यते । मातुः कुक्ष्यवक्रमणं हि कामधातावेवेति । सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणादिति । यथाक्रममेतत् । पूर्वान्तस्य सफलस्य ग्रहणादपरान्तस्य च सहेतुकस्य ग्रहणादिति । तत्र पूर्वान्ते हेतुरविद्या संस्काराश्च । तस्य फलं पंचांगानि । विज्ञानं यावद्वेदनेति । अपरान्ते जातिर्जरामरणं चेति फलं । तस्य त्रीण्यंगानि हेतवस्तृष्णोपादानभवाः । तदेवं सप्तांगानि पौर्वान्तिकः पंचांगान्यपरांतिक इति व्याख्यातं भवति । (इइइ ।२१-२४) अथ क इमेऽविद्यादय इति । किमविद्यैव केवला उताहो सर्वक्लेशाः आहोस्वित्क्लेशावस्थेति संदेहे पृच्छति । साहचर्यादिति । यस्मादविद्यासहचारिणः क्लेशाः । तद्वशेन तेषां समुदाचाराच्च । यस्माच्चाविद्यावशेन तेषां क्लेशानां समुदाचारः । स पुनस्[तिब् । २७३ ] तदनुवृत्तिः । मूढस्य हि क्लेशसमुदाचारो नामूढस्य । राजागमनवचन इति विस्तरः । यथा राजागच्छतीत्युक्ते । तदनुयातृकाणां भृत्यानामागमनसिद्धिः । साहचर्यात्तद्वशेन तेषां समुदाचारात् । तद्वदेतत् । तदेवमविद्यावशाद् । अविद्यांगः क्लेशदशेत्यर्थः । तस्मादुक्तं पूर्वक्लेशदशाविद्येति । (अभिधर्मकोषव्याख्या २८५) न तूक्तं पूर्वाविद्यादशाविद्येति । पुण्यादिकर्मावस्थेति । पुण्यापुण्या कर्मावस्थेत्यर्थः । प्राक्चतुरायतनोत्पादादिति वक्तव्य इति । मनःकायायतनयोरुपपत्तिभव एवोत्पादात् । तदा तद्व्यवस्थापनादिति । चक्षुराद्यायतनोत्पत्तिकाले कायमनआयतनयोर्व्यवस्थापनादित्यर्थः । तत्पूर्वं त्रिकसंगमाद् इति । तत्षडायतनांगं प्राक्त्रिकसंगमात् । प्रागिन्द्रियविषयविज्ञानत्रिकसंनिपातादित्यर्थः । स्पर्शः प्राग् इति । षडिन्द्रियविषयविज्ञानसंनिपातः स्पर्शो जातावस्थायां व्यवस्थाप्यते । परिपूर्णषडायतनसन्निपातसद्भावात् । आ कुतः । प्राक्सुखदुःखादुःखासुखवेदनाकारणेषु ज्ञानशक्तितः । स बालो यावत्सुखाया वेदनाया एतत्कारणं दुःखाया एतत्कारणमदुःखासुखायाश्[तिब् । २७४ ] चैतत्कारणमिति परिच्छेदे न शक्तो भवति । सावस्था स्पर्श इत्युच्यते । तथा हि बालकोऽग्निमपि स्पृशेद्दुःखस्यैतत्कारणमित्यपरिच्छिन्दन् । परिच्छेदे सामर्थ्ये सति वित्तिर् वेदनेत्यर्थः । आ कुतः । प्राङ्मैथुनाद् यावन्मैथुनरागो न समुदाचरति । सावस्था वेदनेत्युच्यते । वेदनाप्रकर्षिणी हि सावस्था । वेदनाकारणवेदनात् । तृष्णा भोगमैथुनरागिण इति । भोगेषु रूपादिकामगुणलक्षणेषु । मैथुने च लोकप्रतीते रागिणः पुद्गलस्य । तद्रागसमुदाचारावस्था तृष्णेत्युच्यते । पर्येष्टिमापन्न इति । एष इत्येतस्य धातोरेतद्रूपं । उपादीयते विषय आत्मभावोऽनेनेत्युपादानं चतुर्विधः क्लेशः । सावस्थोपादानमित्युच्यते । स भविष्यद्भवफलम् इति । स इति परिधावतो निर्देशः । भविष्यद्भवः फलमस्येति भविष्यद्भवफलं । कर्म पौनर्भविकमित्यर्थः । तद्भव इति । भवत्यनेनेति भवः कर्मपर्यायः । जरामरणमा विद इत्या विदः आ वेदनांगात् । जरामरणं नामरूपादिचतुरंगस्वभावं । विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वार्यंगान्युक्तानि । (अभिधर्मकोषव्याख्या २८६) यो भिक्षवो रूपस्योत्पादः । स जरामरणस्योत्पादः । एवं यावद्विज्ञानस्येति । क्षणिकः क्षणे भवः । क्षणोऽस्यस्तीति वा [तिब् । २७४ ] क्षणिकः । प्रकर्षेण दीव्यति चरति वा प्राकर्षिकः । प्रबन्धयुक्त इत्यर्थः । एवं सांबंधिकः हेतुफलसम्बन्धयुक्त इत्यर्थः । एवमावस्थिकः । द्वादश पंचस्कंधिका अवस्था इत्यर्थः । विज्ञानसहभुव इति विस्तरः । रूपमत्र सहभूविज्ञप्त्यविज्ञप्त्यादि । संज्ञादिस्कंधत्रयं नाम । नामरूपव्यवस्थितानीन्द्रियाणि । तत्प्रतिबद्धवृत्तित्वादिन्द्रियाणाम् । आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति । षडायतनाभिनिपातः स्पर्श इति । चक्षुरादीनां स्वस्मिं विषये प्रवृत्तिरभिनिपातः । स तु संभवतः । यस्य तदानीमभिनिपातः संभवति । स तस्य स्पर्श इति वेदितव्यः । तत्संप्रयुक्तानि पर्यवस्थानान्युपादानं । तया तृष्णया संप्रयुक्तान्याह्रीक्यानपत्राप्यादीनि पर्यवस्थानानि तदुपादानं । तत्समुत्थमिति । तृष्णासमुत्थं । चेतनासमुत्थमित्यपरे । उन्मज्जनमुत्पादः परिपाको जरेति । फलाक्षेपसामर्थ्योपघातः । पूर्वक्षणापेक्षया वा । भङ्गो मरणमिति । तत्क्षणविनाशः । भंगाभिमुख्यं भंग इत्यपरे । क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु इति । कथं । प्रकरणेषु प्रतीत्यसमुत्पादः कतमः । सर्वे संस्कृता धर्मा [तिब् । २७५ ] इति । तत्र संस्कृतानां धर्माणां प्रतिक्षणं विनाशयोगात्क्षणिकः प्रतीत्यसमुत्पादः । हेतुफलभूतोभयक्षणसंबन्धात्सांबन्धिकः । निरन्तरजन्मत्रयसंबद्धा इति । द्वादश पंचस्कंधिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसंबद्धाः आवस्थिकः प्रतीत्यसमुत्पादः । निरंतरग्रहणं त्रिकाण्डप्रसिद्ध्यर्थं । स एव प्राकर्षिक इति । स एवावस्थिकः प्रकर्षयोगात् । प्राकर्षिकः । अनेकक्षणिकत्वादनेकजन्मिकत्वाद्वा । (इइइ ।२५ ब्) आभिप्रायिक इति । अभिप्राये भव आभिप्रायिकः । विनेयाभिप्रायवशात्तथा देशित इत्यर्थः । लाक्षणिकोऽभिधर्मे लक्षणप्रधानत्वात् । प्रकरणेषु हि सर्वसंस्कृतग्रहणात्सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पाद उक्तः । सर्वसंस्कृतहेतुत्वयोगात् । विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशांगः प्रतीत्यसमुत्पादो देशितः । (इइइ ।२५ द्) अत आह । पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तय इति । अत एव च त्रिकाण्ड इति । काण्ड इति भागः । को न्वहमभूवमिति । देवो मनुष्य इति वा । कथं न्वहमभूवमिति । केन प्रकारेण कया युक्त्येत्यर्थः । किं भविष्याम्यनागतेऽध्वनीति विस्तरः । किं नु भविष्याम्य्(अभिधर्मकोषव्याख्या २८७) अनागते [तिब् । २७५ ]ऽध्वनि । आहो स्विन्न भविष्यामि । को नु भविष्यामि । कथं नु भविष्यामीति । केन प्रकारेण कया युक्त्येत्यर्थः । किं स्विदिदमिति । आत्मभावद्रव्यमन्वेषते । कथं स्विदिदमिति । केन प्रकारेण कया युक्त्येति । तदेवात्मभावद्रव्यं नावधारयति । के सन्त इति । के वयमिदानीं विद्यमानाः । के भविष्याम इत्येवं नावधारयति । सूत्रे यथाक्रममिति । अविद्या संस्काराश्च पूर्वान्तसम्मोहव्यावर्तनार्थं । जातिर्जरामरणं चापरान्तसम्मोहव्यावर्तनार्थं । विज्ञानं यावद्भवश्च मध्यसंमोहव्यावर्तनार्थमिति । तथा हि सूत्रे एवोक्तमिति विस्तरः । सूत्रेऽप्येवमेवं दर्शितमिति । सूत्रेण स्वव्याख्यानं समर्थयति । स न पूर्वांतं प्रतिसरति । किं न्वहमभूवमतीतेऽध्वनीति विस्तरः । स न पूर्वान्तं प्रतिधावति । किं न्वहमभूवमतीतेऽध्वनीति । प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवमतीतेऽध्वनि संमुह्यते इत्यर्थः । विस्तरशब्देन स नापरान्तं प्रतिसरति । किं नु भविष्याम्यनागतेऽध्वनीति विस्तरः तथा न स मध्यान्तं प्रतिसरति । किं स्विदिदमिति विस्तरः । तृष्णोपादानभवा अपीति । सर्वे तृष्नोपादानभवा अपरांतसंमोहव्यावर्तनार्थं । न मध्यसंमोहव्यावर्तनार्थं । यथा पूर्वमुपदिष्टं विज्ञानं यावद्भवश्चेति । [तिब् । २७६ ] का पुनरत्र युक्तिरित्याह । तस्यैव ह्येते हेतव इति । यस्मादपरान्तस्यैवैते हेतव इति । (इइइ ।२६) क्लेशकर्माश्रयत्वादिति । विज्ञानादीनि सप्तांगानि वस्तून्यधिष्ठानानि क्लेशकर्मणामित्यर्थः । फलं तथेति । सप्तैवांगानि विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि अविद्यासंस्काराणां फलानि । जातिर्जरामरणं च तृस्णोपादानभवानां फलानि । पंच हेतुभूतानीति । अविद्यासंस्कारतृष्णोपादानभवाः । कर्मक्लेशस्वभावत्वादिति । अविद्यातृष्नोपादानानि क्लेशस्वभावानि । संस्कारा भवश्च कर्मस्वभावाः । वस्तुनः पंचधाभेदादिति । विज्ञाननामरूपषडायतनस्पर्शवेदना इति । क्लेशस्य च द्विधेति । तृष्णोपादानमिति । अनागतेऽध्वनि फलं संक्षिप्तं द्विधाभेदादिति । जातिर्जरामरणमिति । अतीतेऽध्वनि हेतुः संक्षिप्तः एकमुखक्लेशोपदेशात् । अविद्यामुखक्लेशोपदेशादित्यर्थः । न पुनरनागतेऽध्वनि फलमेवं पंचधा विशालितं । अतीते चाध्वनि नैवं द्विधा हेतुर्विशालित इति । (इइइ ।२७) यस्मादुपदर्शितोऽत्र भगवतेति । कः । क्लेशात्क्लेश इत्येवमादिको [तिब् । २७६ ] भवंगानामयं नयः । ततो वस्त्व् (अभिधर्मकोषव्याख्या २८८) इति । ततः क्रियायाः । ततः पुनर् वस्त्व् इति । ततो वस्तुनः वस्तु । क्लेशाश्च जायन्त इति । वस्तुन इत्यधिकृतं । जायन्त इत्यत्रेतिकरणोऽध्याहार्यः । वस्तुनः क्लेशाद्वेति ज्ञापितमिति । इति क्लेशो वस्तुन उत्पद्यमानो दृष्टो वेदनायास्तृष्णेति । क्लेशादपि तथा क्लेशो दृष्टस्तृष्णाया उपादानमिति । अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता । तद्यद्युपादानं तृष्णायास्तदुत्पद्यते इति गम्यते । अथ तृष्णा तद्वस्तुन उत्पद्यत इति गम्यते । तस्मादविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद्वेति ज्ञापितं भवति । जरामरणं चतुरंगस्वभावं वस्त्विति व्याख्यातं । वस्तुनश्चेह क्लेश उत्पद्यमानो दृष्टो वेदनाप्रत्यया तृष्णेति । तस्मात्ततः क्लेशो भावी भविष्यतीति ज्ञापितं भवति । नात्र पुनः किम्चिदुपसंख्येयमेवं ज्ञापितत्वात् । कथं पुनरेवं नयो दर्शित इति गम्यत इत्याह । एवमस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात् । अन्यथा हि किमस्य सामर्थ्यं स्यादिति । यद्ययं यथोक्तो नयो न स्यात् । क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः वस्तु क्लेशाश्च जायन्त इत्येतावदेव ब्रूयात् । अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः [तिब् । २७७ ] संभवन्तीति इदं न ब्रूयात् । एवमस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति । समुदय उत्पाद इत्यनर्थांतरं । तस्माद्यथोक्तप्रकाराभिद्योतकमस्य सामर्थ्यमिति गम्यते । अयोनिशोमनस्कारहेतुकाविद्योक्ता सूत्रांतर इति । सहेतुसप्रत्ययसनिदानसूत्रे । कथम् । अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवोऽविय्द्याया हेतुः कः प्रत्ययः किं निदानं । अविद्याया भिक्षवोऽयोनिशोमनस्कारो हेतुरयोनिशोमनस्कारः प्रत्ययोऽयोनिशोमनस्कारो निदानमिति सूत्रे वचनात् । अविद्याहेतुकश्चायोनिशोमनस्कार इति । सूत्रान्तर उक्त इत्यधिकृतम् । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति सूत्रे वचनात् । किमर्थं तस्येहावचनं । कथं न भवांगान्तरं भवतीत्यत आह । स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति । स इत्याविलो मनस्कारः । (अभिधर्मकोषव्याख्या २८९) इहेति प्रतीत्यसमुत्पादसूत्रे । कथम् [तिब् । २७७ ] उक्तः । उपादानान्तर्भूतत्वात् । तथा ह्युपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्था । तत्र चायोनिशोमनस्कारो विपरीतचेतस आभोगोऽन्तर्भूत इत्युक्तो भवति । अतो नास्त्यहेतुकत्वमविद्यायाः । न चांगान्तरमुपसंख्यातव्यं द्वादशेभ्योऽविद्यादिभ्यः । न चानवस्थाप्रसंगोऽविद्याहेतुकत्वादयोनिशोमनस्कारस्य । इत्यपर इति । स्थविरो वसुबन्धुराचार्यमनोरथोपाध्याय एवमाह । आचार्य आह । कथमिति विस्तरः । कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भावः । न ह्ययोनिशोमनस्कार उपादानस्वभावः । यदि संप्रयोगतः । यद्ययोनिशोमनस्कार उपादानेन संप्रयुज्यते इत्यतो भवतास्योपादानेऽन्तर्भाव इष्यते । तृष्णाविद्ययोरपि प्रतीत्यसमुत्पादांगयोस्तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति । टृष्णाविद्याभ्यामपि ह्यसौ संप्रयुज्यत इति । ततश्चैवं वक्तव्यं स्यात् । स चेहाप्यविद्यातृष्नोपादानान्तर्भूतत्वादुक्तो भवतीति । न त्वेवं वक्तव्यं । स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति । नैवमुपादानान्तर्भावावधारणं कर्तव्यमित्यभिप्रायः । सत्यपि चान्तर्भाव इति । असंभवंतमप्यन्तर्भावमभ्युपेत्य ब्रूमः । कथमयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति । [तिब् । २७८ ] न हि तथा सूत्रे वचनमस्ति । यदि ह्यन्तर्भावेनेति विस्तरः । यदि यस्मादुपादानेऽन्तर्भवत्ययोनिशोमनस्कारः । तस्मादयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति । न च तदंगान्तरं वक्तव्यं । उपादानवचनादेव तत्सिद्धेः । तृष्णाविद्ये अपि तर्ह्युपादानेऽन्तर्भवतह् । अतस्तयोरपि तत्रान्तर्भावादंगान्तरत्वं शक्यमकर्तुम् । उपादानवचनादेव तत्सिद्धेः । उक्ते च पृथक्तृष्णाविद्यांगे । तस्मादपरिहार एषः । अन्यः पुनराहेति भदन्तश्रीलातः । अयोनिशोमनस्कारो हेतुरविद्याया उक्तः सूत्रान्तर इति । सहेतुसप्रत्ययसनिदानसूत्रे । अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदानेति विस्तरेण । स चापीति विस्तरः । स चाप्ययोनिशोमनस्कारः स्पर्शकाले निर्दिष्टः । कथमित्याह । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति । स्पर्शकालो योऽयं चक्षुर्विज्ञानोत्पत्तिकालः । आविलो मनस्कारः अयोनिशः प्रवृत्तत्वान्मोहजत्वाद्वा । मोहाज्जातो मोहज इति । अविद्यासंस्पर्शजं वेदितमिति । अविद्यासंप्रयुक्तात्स्पर्शाज्जातमविद्यासंस्पर्शजं वेदितं । यत्र वेदितमविद्यासंस्पर्शजम् । [तिब् । २७८ ] अवश्यं तत्राविद्या संप्रयुज्यते । न हि वेदितमसंप्रयुक्तमविद्यया तृष्णाहेतुर्भवतीति । तदेवं स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति । ज्ञापितमिदं भवत्य्(अभिधर्मकोषव्याख्या २९०) अयोनिशोमनस्कारहेतुकाविद्येति । अतो नास्त्यहेतुकत्वमविद्यायाः । अयोनिशोमनस्कारहेतुकत्वात् । न चांगान्तरमुपसंख्येयं द्वादशभ्योऽन्यत् । यस्मात्स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति । न चाप्यनवस्थाप्रसंगः । तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनात् । आविलो मनस्कारो मोहज इति । तदेतच्चक्रकमुक्तं भवति । अयोनिशोमनस्कारादविद्या । अविद्यायाश्चायोनिशोमनस्कार इति । एवं पुनः परिहारमाचार्यः सदोषं पश्यंस्तस्य दोषस्याभिव्यक्त्यर्थं प्रसंगमारभते । तत्तर्हीति विस्तरः । तद्यथोक्तमयोनिशोमनस्कारो हेतुरविद्याया इति विस्तरेण सूत्रतो युक्त्या वा । तर्हीति अर्थान्तरविवक्षायां । इदानीमर्थ इति भगवद्विशेषः । एतदन्यत्र सूत्र उक्तमिह पुनः प्रतीत्यसमुत्पादसूत्रे वक्तव्यं । न वक्तव्यमिति [तिब् । २७९ ] भदन्तश्रीलातः । कया युक्त्येति पृष्टः । भदन्तश्रीलात आह । न हीति विस्तरः । अर्हतामस्ति वेदना । न च सा तृष्णायाः प्रत्ययीभवतीति । सविद्यैव वेदना तृष्णाप्रत्यय इति गम्यते । न चाविपरीतः स्पर्शः क्लिष्ताया वेदनायाः प्रत्ययीभवतीति प्रकृतं । न च पुनर्निरविद्यस्यार्हतो विपरीतः स्पर्श इति । स्पर्शोऽपि साविद्य एवेति गम्यते । यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पादसूत्रे । अविद्या चास्य स्पर्शस्य हेतुरिति गम्यते । इत्यनया युक्त्या पृअतीत्यसमुत्पादसूत्रे साविद्यस्पर्शप्रत्यया वेदना । साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते । अतो युक्त्या यथोक्तया । स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्यसमुत्पादे सिद्धं भवत्ययोनिशोमनस्कारो हेतुरविद्याया इति । अत्र चोद्यते । यदि तर्हि निरविद्या वेदना तृष्णायः प्रत्ययो न भवतीत्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुरविद्याया अविद्या चायोनिशोमनस्कारस्य हेतुरिति गम्यते । किं सूत्रान्तरापाश्रयेणाविद्यायोनिशोमनस्कारयोरन्योन्यहेतुकत्वप्रदर्शनेन प्रयोजनमिति । अत्रोच्यते । सत्यमस्त्येतत् । किं तु युक्तिमात्रमिदं प्रतीत्यसमुत्पादसूत्रे । न कण्ठोक्तिः । अतः सूत्रान्तरे कण्ठोक्त्येयं [तिब् । २७९ ] युक्तिर्व्यवस्थाप्यत इति तत्सूत्रान्तरोपन्यासप्रयोजनमवगंतव्यं । अतिप्रसंग एवं प्राप्नोतीति शास्त्रकारः । कथमतिप्रसंग इत्याह । अविद्यास्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णेति सूत्रान्तरे निर्दिष्टं । न च निरविद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति । न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः । न च निरविद्यस्यार्हतो विपरीतः स्पर्श इत्यनया युक्त्या एतदप्यंगद्वयं स्पर्शवेदनाख्यमिह प्रतीत्यसमुत्पादसूत्रेऽनुच्यमानमप्यन्यत्रोपदिष्टत्वाद्गम्यते इत्येतस्याप्यंगद्वयस्यावचनं प्राप्तं । तथा सूत्रान्तर उपदिष्टं । स पुण्यांश्चेत्संस्कारानभिसंस्करोति (अभिधर्मकोषव्याख्या २९१) पुण्योपगमस्य विज्ञानं भवति । एवमपुण्योपगमानिंज्योपगं च । न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं विज्ञानं यावदानिंज्योपगं विज्ञानमिति । एतदपि संस्कारांगं युक्त्या सिद्धं । न वक्तव्यमत्रेति प्राप्तं । तथा जातिमन्तरेण जरामरणं न भवतीति युक्त्या गम्यत इति । जात्यंगं न वक्तव्यं स्यात् । इत्यादिप्रसंगः प्राप्नोति । अचोद्यमेव त्वेतदिति विस्तरेणाचार्यः स्वमतमाह । कथं परलोकादिहलोक इति विस्तरः । तत्राविद्यासंस्काराभ्याम् [तिब् । २८० ] इहलोकः सम्बध्यते । स चेहलोको विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि । तृष्णोपादानभवैः परलोकः संबध्यते । स च परलोको जातिर्जरामरणं च । इत्येतावतोऽर्थस्यात्र प्रतीत्यसमुत्पादसूत्रे विनेयेभ्यो विवक्षितत्वात् । एतस्य चार्थस्य पूर्वमेवोक्तत्वात् । पूर्वापरन्तमध्येषु संमोहविनिवर्तय इत्यनेन उक्तत्वात् । अचोद्यमेव त्वेतत्विस्तरेण यावन्न चापरिपूर्णो निर्देश इत्यभिसम्बन्धः । उभयं हि सर्वे संस्कृता धर्मा इति । त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्यसमुत्पादः । अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद्विशेषः । कथं तावदकृता इति । भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते । तथा प्रतीत्यसमुत्पन्ना इत्यभिप्रायः । आभिसंस्कारिकया चेतनयेति । सर्वचेतनानां स्वलक्षणमभिद्योतयन्नाभिसंस्कारिकयेत्याह । सा हि विपाकाभिसंस्करणादाभिसंस्कारिका । तया चेतितत्वात्प्रणिहितत्वात् । देवो भविष्यामि मनुष्यो भविष्यामीत्येवमादि । अतोऽनागताः संस्कृता उच्यन्ते । न तु भाविन्या संज्ञयेति तमभिप्रायं विहन्ति । अनास्रवाः कथमिति । ये सास्रवा अनागता एवं चेतयितुं युज्यन्ते । [तिब् । २८० ] ये त्वनास्रवा अनागताः । ते कथं चेतयितुं युज्यंते । चोदक आह । तेऽपि चेतिताः कुशलया चेतनया । प्राप्तिं प्रति अनास्रवा धर्माः प्राप्येरन्निति । निर्वाणेऽपि प्रसंग इति । निर्वाणमपि संस्कृतत्वं प्रसज्यते । प्राप्तिं प्रति चेतितत्वान्निर्वाणं प्राप्येतेति । तदेवमनेनार्थेनानागतानां संस्कृतत्वव्यवस्थापने दोष इति विध्यंतरमुपन्यस्यते । तज्जातीयत्वादिति विस्तरः । यथा न च तावद्रूप्यते यदनागतं रूपं रूप्यमाणरूपजातीयत्वाद्रूपमित्यतिदेशः । तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वादनागता अपि धर्माः प्रतीत्यसमुत्पन्ना इत्यतिदेश एषामनागतानां भवतीति । (इइइ ।२८ ब्) हेतुफलभावादिति । यस्मात्तदेवांगं हेतुस्तदेव फलं । न चैवं सत्यव्यवस्थानं भवतीति । पारापारवत् । हेतुफलवदिति । नाव्यवस्थितः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पन्नश्च भिन्नापेक्षत्वात् । हेतुफलवत्(अभिधर्मकोषव्याख्या २९२) पितृपुत्रवद्वा । तत्र हेतुफलं । तद्यथा बीजांकुरादि । यथा यदपेक्ष्य हेतुर्व्यवस्थाप्यते । न तदपेक्ष्य फलं । यदपेक्ष्य फलं व्यवस्थाप्यते । न तदपेक्ष्य हेतुः । किं तर्हि । फलम् [तिब् । २८१ ] अपेक्ष्य हेतुर्व्यवस्थाप्यते । हेतुं चापेक्ष्य फलमिति । यथा च यमपेक्ष्य पिता । न तमपेक्ष्य पुत्रः । यमपेक्ष्य पुत्रः । न तमपेक्ष्य पिता । किं तर्हि । तत्पुत्रमपेक्ष्य पितेति । पितरं चापेक्ष्य पुत्र इति । न च तदव्यवस्थितं । तद्वदेतत् । किलेत्यसंभावनायां । प्रथमा कोटिरनागता धर्मा इति । अन्यधर्महेतुत्वात्प्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति कृत्वा । न प्रतीत्यसमुत्पन्नाः अनुत्पन्नत्वात् । द्वितीयार्हतश्चरमा इति । उत्पन्नत्वात् । ततः फलानुत्पत्तेश्च । तृतीया तदन्य इति । अर्हतश्चरमेभ्योऽन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता इति । तत्फलाभावादनुत्पत्तिमत्त्वाच्च । किं खल्वेता इष्टय उच्यन्त इति । आवस्थिकः प्रतीत्यसमुत्पादः स्यात्प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्येवमाद्याः । पूर्वन्तेऽज्ञानमिति । यस्मादविद्यैवोक्ता नान्ये स्कन्धाः । तस्मादविद्यैवांगमिति । नीतार्थमेतदिति दर्शयति । नीतार्थमिति विभक्तार्थं । हस्तिपदोपमा सूत्रं । संति च तत्रान्येऽपि रूपादय इति । तेषु केशरोमादिषु । न पृथिवीधातुमात्रमेवेति । [तिब् । २८१ ] एवमत्रापि यथाप्रधानं निर्देशः स्यादिति । एवमत्रापि प्रतीत्यसमुत्पादसूत्रे । द्वादशसु पंचस्कंधिकास्ववस्थासु यत्र यस्य प्राधान्यं । तत्र तस्यतस्य निर्देशः स्यात् । अविद्याप्रधानायामविद्येति निर्देशः स्यात् । संस्कारादिप्रधानासु अवस्थासु संस्कारादीनां निर्देशः स्यात् । संति च तत्राण्येऽपि रूपवेदनादयो धर्मा इति । न हि तत्रेति विस्तरः । न हि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते । केशादयः कतमे पृथिवीधातुरिति । यत एषां केशादीनामपरिपूर्णो निर्देशः स्यात् । सन्ति हि तत्रान्येऽपि रूपादय इति । रूपादिस्वभावा अपि केशादयो न केवलं पृथिवीधातुस्वभावा इति । अपि तु केशादिभिरेव पृथिवीधातुर्निर्दिश्यते । पृथिवीधातुः कतमः । केशरोमाणीति । न च केशादीनभ्यतीत्याप्यतिक्रम्याप्यस्ति पृथिवीधातुराध्यात्मिक इति । संपूर्ण एवास्य पृथिवीधातोर्निर्देशः । एवमिहाप्यविद्यादीनामेवमिहापि सूत्रेऽविद्यासंस्कारविज्ञानादीनां परिपूर्ण एव निर्देशो न सावशेषः । अश्रुसिंघाणकादिष्विति । अश्रुसिंघाणकादीनि न तत्र सूत्रे पठ्यन्ते । तस्मान्न तद्गतः पृथिवीधातुरुक्त इति सावशेषः एवेत्य्[तिब् । २८२ ] दर्शयति । भवतु वा तथैवेति विस्तरः । यथा पृथिवीधातोरश्रुसिंघाणकादिष्ववशेषमनुक्तत्वात् । तथैवाविद्यावशेषमस्तु यदि शक्यते (अभिधर्मकोषव्याख्या २९३) दर्शयितुम् । न शक्यते दर्शयितुमिति मन्यमानो यदिशब्दं प्रयुंक्ते । पूर्वान्तेऽज्ञानमपरान्तेऽज्ञानं मध्यान्तेऽज्ञानं बुद्धेऽज्ञानं धर्मेऽज्ञानं संघेऽज्ञानमित्येवमादीनां सर्वेषामज्ञानस्थानानामुक्तत्वात् । जात्यंतरस्य तु वेदनादेरविद्यायां किं कृतः प्रक्षेपः पंचस्कंधिकावस्थाविद्येति । न हि वेदनादीनामविद्यात्वं युज्यत इति । भावाभावनियम इति । यस्य भावाभावयोर्यस्य भावाभावौ यथासंख्येन नियतौ तदेवांगं । अविद्याभावे संस्काराणां भावस्तदभावे तेषामभाव इत्यविद्यैवांगं । न वेदनादि । न हि वेदनादिसद्भावेऽर्हतां संस्कारा भवंति । ये विज्ञानांगजनका इत्यर्थः । तस्मादाह । सत्यपि च पंचस्कंधके संस्कारा न भवंतीति विस्तरः । सत्यपि च पंचस्कंधकेऽर्हत्त्वावस्थायां । पुण्योपगं यावदानिंज्योपगं च विज्ञानं न भवति । प्रतिसंधिविज्ञानं न भवतीत्यर्थः । तांतामुपपत्तिं गच्छतीत्युपगं । पुण्योपगं विज्ञानं पुण्योपगं । [तिब् । २८२ ] एवं यावदानिंज्योपगं । तथा सत्यपि पंचस्कंधके निरविद्यावस्थायां तृष्णोपादानादयश्च न भवन्तीति । यथानिर्देश एव सूत्रार्थः । यथासंकीर्तितानामेवाविद्यादीनां ग्रहणमित्यर्थः । अतो विद्यमाना अन्ये स्कंधा न प्रत्ययाः संस्कारादीनामिति न तेऽंगं । एवं मया श्रुतमित्यादि । भगवान् राजगृहे विहरति गृध्रकूटे पर्वते भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः । संबहुलैश्च बोधिसत्त्वैरिति । आयुषमां च्छारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत् । शालिस्तम्भमवलोक्य भिक्षुभ्यः सूत्रमिदमुक्तं । यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति । स धर्मं पश्यति । यो धर्मं पश्यति । स बुद्धं पश्यतीत्युक्त्वा भगवांस्तूष्णींबभूव । तदस्य भगवता भाषितस्य सूत्रस्य कोऽर्थः । प्रतीत्यसमुत्पादः कतमः । धर्मः कतमः । बुद्धः कतमः । कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि । तत्र प्रतीत्यसमुत्पादो नाम इदमविद्येत्यादि । इदं चाभिसंधायेदमुक्तं तत्र सूत्रे । उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवेयं धर्मता धर्मस्थितिता धर्मनियामता [तिब् । २८३ ] तथता अवितथता अनन्यतथता भूतता सत्यता तत्त्वमविपरीतताविपर्यस्ततेत्येवमादि भगवन्मैत्रेयवचनं । यद्यनागता न प्रतीत्यसमुत्पन्ना इति । यदुक्तं प्रथमा कोटिरनागता धर्मा इति । सूत्रं विरुध्यत इति । जातिजरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात् । उक्तं च अविद्या यावज्जातिजरामरणमिति । अथ वेति विस्तरः । अथ जातिजरामरणांगेऽपि प्रतीत्यसमुत्पन्ने इष्टे । तयोर्(अभिधर्मकोषव्याख्या २९४) अनागताध्वव्यवस्थानं नैष्टव्यमिति कृत्वा । त्रिकाण्डव्यवस्था भिद्यते । पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टाव् इति । निकायान्तरीया इत्यार्यमहीशासकाः । उत्पादस्य संस्कृतलक्षणत्वादिति । योऽयमुत्पादः प्रतीत्यसमुत्पाद इति निकायान्तरीयैर्नित्यः परिकल्प्यते । स संस्कृतलक्षणमुक्तं । त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि । संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपीति । संस्कृतलक्षणत्वाच्चानित्यमित्यभिप्रायः । ब्रूयास्त्वं लक्षणमपि नित्यं भवतीति । अत आह । न च नित्यं भावांतरमनित्यस्य लक्षणं युज्यत इति । न हि निर्वाणम् [तिब् । २८३ ] आकाशं वा कस्यचिदनित्यस्य लक्षणं भवति । प्रागुत्पत्तेर्हि लक्ष्यस्य तदस्तीति कस्य लस्क्षणं । विनष्टे च लक्ष्ये कस्येति न युज्यते । उत्पादश्चेति विस्तरः । उत्पादश्च नामाभूत्वाभावलक्षणः । सौत्रान्तिकनयेनोत्पत्तिर्धर्मस्य तदानींतनैव भवतीति । कोऽस्योत्पादस्यासंस्कृतस्य त्वन्मतेनाविद्यादिभिरभिसंबन्धः । यथौदनेन पाकस्यास्ति सम्बन्धः कर्तृक्रियालक्षण इत्योदनस्य पाक इत्युच्यते । न ह्याकाशरूपयोरभिसम्बन्ध उत्पत्त्युत्पत्तृलक्षणोऽस्ति । येन रूपस्याकाशमित्युच्यते । एवं कोऽस्यविद्यादिभिरभिसंबन्धः । यतस्तेषामविद्यादीनां प्रतीत्यसमुत्पाद इत्युच्यते । पदार्थश्चासम्बन्धो भवतीति । प्रत्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः इति पदार्थः । स कथं नित्यश्च नाम प्रतीत्यसमुत्पादश्चेइत् । प्रतिः प्राप्त्यर्थ इति । प्राप्तिद्योतक इत्यर्थः । इतिर्गताविति । धात्वर्थः । परिणामादिति । अनेकार्था हि धातवः । प्रतिश्चोपसर्गः प्राप्तिद्योतक इत्ययमितिर्गत्यर्थमुज्झित्वा प्राप्त्यर्थमापद्यते । पदिः सत्तार्थ इति । पदिः सत्तायामिति । तेनेति कारणेन । पूर्वकालायां क्रियायां क्त्वाविधेरिति । समानकर्तृकयोः पूर्वकाल इति वचनात् । न चासौ पूर्वमुत्पादात्[तिब् । २८४ ] कश्चिदस्तीति सौत्रांतिकमतेन । न चाप्यकर्तृकास्ति क्रियेति । कर्तरि सति क्रियाया व्यवस्थापनात् । आह चात्रेति । एतद्वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्याचार्यः । यदि पूर्वमुत्पादात्प्रत्येति प्राप्नोत्य् असत्त्वान्न युज्यते । न ह्यविद्यमानः कर्ता स्नानादिक्रियां कुर्वन् दृष्ट इति । (अभिधर्मकोषव्याख्या २९५) सह चेद् अथ मन्यसे प्रतीत्यक्रियां समुत्पादक्रियां च सह करोतीत्येवं । क्त्वा न सिद्धोऽत्र क्त्वाप्रत्ययः । कस्मात् । पूर्वकालविधानतः पूर्वस्मिं काले विधानं क्त्वाप्रत्ययस्य । समानकर्तृकयोः पूर्वकाल इति वचनात्क्त्वाप्रत्ययो न सिद्धो भवेत् । पुनरुत्पत्ताविति । उत्पन्नस्य पुनरुत्पत्तौ कल्प्यमानायामनवस्थाप्रसंगः । द्वितीये तृतीये क्षणे पुनःपुनरुत्पद्यत इत्यनिष्ठाप्रसंगः । अथानागत इति विस्तरः । अलब्धात्मकोऽनागत इति कथमसतोऽलब्धात्मभावस्य कर्तृत्वं सिध्यति । अकर्तृका वा क्रिया कथं सिध्यति । यत एवमतो यदवस्थ उत्पद्यते शाब्दिकस्य शब्दविदः । तदवस्थ एव मम प्रत्येति । किमवस्थश्चेति । कावस्थास्येति किमवस्थः । उत्पादाभिमुखोऽनागत इति । न सर्वोऽनागत उत्पद्यते । किं तर्हि । उत्पादाभिमुखः । उत्पादेऽभिमुखः । उत्पित्सुरित्यर्थः । तदवस्थ एव [तिब् । २८४ ] उत्पादाबिमुखावस्थ एव । प्रत्येतीत्युच्यते । अनिष्पन्नं चेदमिति विस्तरः । शाब्दिकानामिदं शाब्दकीयं कर्तुः क्रियायाश्च व्यवस्थानं । कस्मात् । भवितुः कर्तृरूपकल्पितादर्थात्क्रियारूपकल्पिताया भूतेरन्यत्वदर्शनात् । तस्मादच्छलं भवत्युत्पद्यते प्रत्येतीत्येवमादिषु । आह चात्रेति । तत्सिद्धान्तेन प्रक्रियां दर्शयति । असन्नुत्पद्यते यद्वद् इति विस्तरः । असन्नभावः अलब्धात्मकः उत्पद्यते यथा । प्रत्येत्यपि तथा । असन्नित्यर्थः । अथ सन् अथ लब्धात्मक उत्पद्यत इति कल्प्यते । उत्पन्न उत्पद्यत इत्यनिष्ठा । उत्पन्नोऽपि पुनरुत्पद्यते इत्यनवस्थानादन्यदनिष्ठा प्राप्नोति । तथा हि सांख्यमतानुसारेण सत एवोत्पादा नासत इति तदेतदधिकृत्य ब्रवीति । सन् पुरापि वेति । वाशब्दो मतविकल्पार्थः । यदि भवतां सन्नुत्पद्यत इति पक्षः । अस्माकमपि सन्नुत्पद्यते । वैभाषिकनयेनानागतानामस्तित्वात् । सौत्रान्तिकनयेन च जनकधर्मबीजसद्भावात् । ततः किमिदमुच्यते । न चासौ पूर्वमुत्पादात्कश्चिदस्ति । यः प्रतीत्योत्तरकालमुत्पद्यत इति । अथ वा यदि तर्हि सन्नेवोत्पद्यते । पूर्वमेव घटो मृत्पिण्डादीननपेक्ष्य स्वतः (अभिधर्मकोषव्याख्या २९६) प्रसिद्धोऽस्तीति प्राप्नोति । अपरे पुनर्व्याचक्षते । अनिष्ठा [तिब् । २८५ ] सन् पुरापि वेति । अथ मा भूदनिष्ठेति । असन्नुत्पद्यते इति प्रतिपद्यते । पुनस्तदेवोपतिष्ठते । असन्नुत्पद्यते यद्वत्प्रत्येत्यपि तथेति सिद्धो नः पक्ष इति पूर्ववद्वाच्यं । यदप्युक्तमेकस्य हि कर्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवतीति तद्व्यभिचारयन्नाह । सहभावेऽपि च क्त्वास्तीति विस्तरः । समानकालायामपि क्रियायां क्त्वाविधिर्दृष्टः । तद्यथा दीपं प्राप्य तमो गतम् इति । अत्र न पूर्वं तमो दीपं प्राप्नोति पश्चाद्गच्छति विनश्यति इत्यर्थः । किं तर्हि । तस्मिन्नेव काले तमो दीपं प्राप्नुवद्विनश्यति । अथ मतं । समनंतरमेव तन्न युगपदिति । अतः पुनरिदमुच्यते । आस्यं व्यादाय शेते वेति । न ह्यसौ पूर्वं मुखं व्याददाति विदारयति पश्चाच्छेते । किं तर्हि । यो मुखं व्याददच्छेते । स मुखं व्यादाय शेत इत्युच्यते । अथ मतं । पूर्वमसौ मुखं व्याददाति । पश्चाच्छेते इति । अत आह । पश्चाच्चेत्किं न सम्वृते । यः कश्चिन्मुखं व्यादापानंतरं च संवृत्य शेते । स मुखं व्यादाय शेत इत्युच्येत न चोच्यते । तेन ज्ञायते । यो मुखं व्याददच्छेते । स मुखं व्यादाय शेते इत्युच्यते इति । अन्ये पुनरिति । भदन्तश्रीलातः प्रतिर्वीप्सार्थ इति । नानावाचिनामधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुमिच्छा वीप्सा । तामयं प्रतिर्द्योतयति । [तिब् । २८५ ] इतौ गतौ साधव इत्याः । तत्र साधुरिति यत्प्रत्ययः । इतौ विनष्टौ साधवः । अनवस्थायिन इत्यर्थः । समुपसर्गः समवायार्थं द्योतयति । उत्पूर्वः पदिः प्रादुर्भावार्थः । धात्वर्थपरिणामात् । तां तां सामग्रीं प्रतीति । प्रतेर्वीप्सार्थतां दर्शयति । इत्यानां विनश्वराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः । न कश्चिद्धर्म एक उत्पद्यते सहोत्पादनियमात् । रूपादीनां कामेऽष्टद्रव्यकोऽशब्दः परमाणुः यावच् चित्तचैत्ताः सहवश्यम् इति नियमात् । एषा तु कल्पनेति विस्तरः । प्रतिर्वीप्सार्थ इत्येवमादिका कल्पनात्रैव (अभिधर्मकोषव्याख्या २९७) प्रतीत्यसमुत्पादसूत्रे युज्यते । इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति । न हि प्रतीत्यानां चक्षूंषि प्रतीत्यचक्षूंषीति समासः संभवत्यर्थायोगात् । चाक्षुर्हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमित्ययमर्थो गम्यते । तेन तदवस्थमेव तच्चोद्यं न युक्त एष पदार्थ इति विस्तरेण यदुक्तं । कथम् । एकस्य हि कर्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति । स्नात्वा भुंक्ते इति । न च पूर्वमुत्पादाच्चक्षुर्विज्ञानमस्ति । यच्चक्षुः पूर्वं प्रतीत्य रूपाणि चोत्तरकालमुत्पद्यते । न चाप्यकर्तृका क्रियेति । अवधारणार्थं पर्यायद्वयमाह । अस्मिन् सतीत्येतावत्य्[तिब् । २८६ ] उच्यमाने । न केवलमविद्यायां सत्यां संस्कारा भवंति । अन्यस्मिन्नपि सतीति गम्येत । यथा चक्षुषि सति चक्षुर्विज्ञानं भवतीति । न चक्षुष्येव सतीत्यवधार्यते । तेन रूपेऽपि सतीति गम्यते । द्वितीयेन तु पर्यायेणस्योत्पादादिदमुत्पद्यते इत्यनेन पूर्वपर्यायमेवावधारयति । अस्यैवोत्पादादिदमुत्पद्यते । नान्यस्मादिति । अंगपरंपरां वा दर्शयितुमिति । अस्मिन्नंगे सति । अविद्यांगे सतीदं संस्कारांगं भवति । अस्य पुनरंगस्य संस्कारांगस्योत्पादादिदं विज्ञानांगमुत्पद्यत इति । एवमितरेषामप्यंगानां परंपरा वक्तव्या । जन्मपरंपरां वा । किं । दर्शयितुं पर्यायद्वयमाहेति वर्तते । साक्षादिति विस्तरः । साक्षात्पारंपर्येण संतत्याविद्यादीनां प्रत्ययभावं दर्शयितुं पर्यायद्वयमाह । अस्मिन् सतीदं भवतीति साक्षात्प्रत्ययभावं दर्शयति । अस्योत्पादादिदमुत्पद्यत इति पारंपर्येण । तत्र साक्षाद्यदाविद्यायाः समनंतरं क्लिष्टाः संस्कारा उत्पद्यन्ते । पारंपर्येण तु यदा कुशला उत्पद्यंते । कुशलावस्थायामविद्याया अभावात् । किं च । अविद्या संस्काराणां साक्षात्प्रत्ययो विज्ञानादीनां पारंपर्येण । तदुक्तं भवति । अविद्यांगे सति संस्कारांगं भवत्यस्य संस्कारांगस्योत्पादादिदमुत्पद्यते विज्ञानांगं साक्षादविद्याप्रत्ययं पारंपर्येणेति । [तिब् । २८६ ] एतत्सर्वमाचार्यमतं । प्रतिषेधार्थमित्यपर इति स्थविरवसुवर्मा । नासति हेतौ भावो भवतीत्यहेतुवादप्रतिषेधार्थं प्रथमेन पर्यायेण । नित्यहेतुवादप्रतिषेधार्थं न चानुत्पत्तिमतो नित्यात्प्रकृतिपुरुषादिकात्किंचिदुत्पद्यत इति द्वितीयेन । आचार्य आह । अस्यां तु कल्पनायामिति विस्तरः । पूर्वपदस्य ग्रहणमनर्थकमिति । अस्मिन् सतीदं भवतीत्यस्य । उभयवादप्रतिषेधसिद्धेरिति । अस्योत्पादादिदमुत्पद्यते इत्यनेनैव पर्यायेण । हेतोरस्तित्वमुत्पत्तिमतश्च हेतुत्वमित्युभयस्याहेतुत्वनित्यहेतुत्वलक्षणस्य वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं प्राप्नोति । संति तर्हि केचिदिति विस्तरः । सन्ति केचिद्(अभिधर्मकोषव्याख्या २९८) वादिनः । य आत्मनि सत्याश्रयभूते अविद्याया आश्रयभूते संस्कारादीनां संस्कारविज्ञाननामरूपादीनां भावमुत्पादं कल्पयंति । अविद्यादीनां चाविद्यासंस्कारादीनामुत्पादात्तदुत्पत्तिं संस्काराद्युत्पत्तिं कल्पयन्तीत्यधिकृतं । अतः कारणात्तेषां वादिनां कल्पनां पर्युदासयितुं प्रतिषेद्धुमिदं निर्धारयां बभूवाम्रेदयां बभूव । किमित्याह । यस्यैवोत्पादात्यावत्स्कंधस्य समुदयो भवतीति । यस्यैवोत्पादाद्यदुत्पद्यते । तस्मिन्नेव सति तद्भवति । नान्यस्मिन्नात्मनि । यदुताविद्याप्रत्ययाः संस्काराः । [तिब् । २८७ ] अविद्यायामेव सत्यां संस्कारा भवंति । नान्यस्मिन् यावदेवमस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवति । कथं । जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । जात्यामेव सत्यां जरामरणादयः संभवंति । नान्यस्मिन्नात्मनि । अन्यथा ह्यस्मिन् सतीदं भवतीत्युच्यमाने वक्तारस्स्युः । आत्मनि सत्याश्रयभूते अविद्यादिषु सत्सु संस्कारादयो भवन्तीति । अथ पुनर्द्वितीयमेव पर्यायं ब्रूयादस्योत्पादादिदमुत्पद्यत इति । एवमपि तथैव कल्पेयुः । सत्यमविद्यादीनामुत्पादात्संस्कारादय उत्पद्यन्ते । आत्मनि तु सत्याश्रयभूत इति । अतः पर्यायद्वयेन निर्धारयति । यस्योत्पादाद्यदुत्पद्यते । तस्मिन्नेव सति तद्भवति । नान्यस्मिनात्मनि सत्याश्रयभूत इति । आचार्या इति पूर्वाचार्याः । अप्रहीणज्ञापनार्थमुत्पत्तिज्ञापनार्थं च । अविद्यायां सत्यामप्रहीणायां संस्कारा भवंति । न प्रहीयन्त इति प्रथमेन पर्यायेण दर्शयति । तस्या एवोत्पादादुत्पद्यन्त इति द्वितीयेन दर्शयति । एवं यावज्जात्यां सत्यामप्रहीणायां जरामरनादयो भवंति । न प्रहीयंते । तस्या एवोत्पादादुत्पद्यन्त इति । स्थित्युत्पत्तिसंदर्शनार्थमित्यपर [तिब् । २८७ ] इति भदन्तश्रीलातः । तदर्थं पर्यायद्वयमाहेति । यावत्कारणस्रोतस्तावत्कार्यस्रोतो भवतीति प्रथमेन पर्यायेण । कारणस्यैवोत्पादात्कार्यमुत्पद्यत इति द्वितीयेन । उत्पादे त्वधिकृत इति । प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामीत्यधिकृते । कः प्रसंगः कः प्रस्तावः स्थितिवचनस्य । अस्मिन् सतीदं भवतीत्यनेन यावत्कारणस्रोतस्तिष्ठति तावत्कार्यस्रोतस्तिष्ठतीति एवमस्य स्थित्यर्थो वर्ण्यत इति । भिन्नक्रमं च भगवान् किमर्थमाचक्षीत् । उत्पत्तिर्हि प्रथमं भवति । पश्चात्स्थितिः । उत्पत्तिप्रतिबद्धा स्थितिरिति कृत्वा । अस्योत्पादादिदमुत्पद्यत इति पूर्वं वक्तव्यं स्यात् । पश्चादिदमस्मिन् सतीदं भवति । न त्वेवम् । अतो नायमर्थ इति । पुनराहेति । स एव भदन्तश्रीलातः । आचार्यः प्रत्याह । एष चेदिति विस्तरः । अस्मिन् सतीदं न भवतीत्येवावक्ष्यदिति । नात्रैवाभावनिर्देशो युक्तरूप इति दर्शयति । पूर्वं च कार्यस्योत्पादमिति । अस्योत्पादादिदमुत्पद्यत इति पूर्वमवक्ष्यत् । उत्पादपूर्वकत्वाद्(अभिधर्मकोषव्याख्या २९९) विनाशस्य । सूत्र उक्तं जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्तीति जरामरणसंगृहीता एवं ते । नांगांतरमित्यवगन्तव्यं । [तिब् । २८८ ] तत्र सत्त्वासत्त्वसंख्यातस्य विषयस्य परिणामादात्मभावपरिणामाच्चैते भवंति । दौर्मनस्यसंप्रयुक्तो वितर्कः शोकः । शोकसमुत्थितप्रलापः परिदेवः । दुःखदौर्मनस्ये व्याख्याते । विच्छिन्नवेगं दौर्मनस्यमुपायासः । शोकपरिदेवपूर्वकः श्रम उपायास इत्यपरे । बालो हीति विस्तरः । बालः पृथग्जनः संस्कारमात्रमिति । मात्रग्रहणमात्मप्रतिषेधार्थम् । अप्रजानन्नित्यावेणिकीमविद्यां दर्शयति । आत्मदृष्ट्यस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस्त्रिविधं कर्म पुण्यापुण्यानिंज्यलक्षणमारभते । आनिंज्यमिति । इगिः प्रकृत्यन्तरं तस्यैवैतद्रूपं । एजतेरेतत्रूपमानेंज्यमिति वा पाठः । आयतिसुखार्थं पुण्यमिति । अनागतजन्मसुखार्थं । किं । कामावचरं कुशलं कर्म । सुखदुःखासुखार्थमानिंज्यमिति । रूपारूप्यावचरं कुशलं । सुखार्थमा तृतीयाद्ध्यानात् । तस्मादूर्ध्वमदुःकासुखार्थं । ऐहिकसुखार्थमपुण्यमिति । इहसुखापेक्षया तत्कृतं नायतिसुखापेक्षयेत्यर्थः । कर्माक्षेपवशाद्यथोक्तं कर्मावेधवशात् । तांतां गतिं नरकादिकां गच्छति । ज्वालागमनयोगेन । यथा दीर्घा तृणानुसक्ता ज्वाला [तिब् । २८८ ] गच्छतीत्युच्यते । तथा विज्ञानसंततिभिरन्तराभवसम्बन्धादन्तराभवसंबन्धेनातिविप्रकृटदेशामपि तांतां गतिं गच्छति । एवं च कृत्वेति । यदि संस्कारप्रत्ययमन्तराभवप्रतिसंधिचित्तमुपादाय यावदुपपत्तिक्षणः सर्वासौ विज्ञानसंततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानमभिप्रेतं तदुपपन्नं भवति । विज्ञानांगनिर्देशे विज्ञानांगस्य तृतीयस्य निर्देशे । विज्ञानं कतमत् । षड्विज्ञानकाया इति । अन्यथा हि यदि षण्णां विज्ञानकायानां संततिर्नाभिप्रेता स्यात् । संस्कारप्रत्ययं विज्ञानं प्रतिसंधिचित्तमेवाभिप्रेतं स्यात् । अत्र षड्विज्ञानकाया इति नोक्तं स्यात् । एवं तु वक्तव्यं स्यात् । विज्ञानं कत्मत् । मनोविज्ञानमिति । न हि प्रतिसंधिक्षणे पंचविज्ञानकायसंभवोऽस्ति । मनोविज्ञानेनैव प्रतिसंधिबन्धात् । छेदसंधानवैराग्यहानिच्युत्युपपत्तयः मनोविज्ञ्ण एवेष्टा इति वचनात् । विभंग एवं निर्देशादिति । प्रतीत्यस्मुत्पादसूत्रे नामरूपविभंग एवं निर्देशात् । नाम कतमत् । चत्वारोऽरूपिणः स्कन्धा इति । रूपं कतमत् । यत्किम्चिद्रूपमिति विस्तरेण । यावद्यच्चेदं रूपं यच्च नाम । (अभिधर्मकोषव्याख्या ३००) तदुभयं नामरूपमित्युच्यत [तिब् । २८९ ] इति । कामतृष्णेति । कामावचरी तृष्णा । रूपतृष्णेति । या सुखायां त्रिषु ध्यानेषु । अदुःखासुखायां चतुर्थे । अदुःखासुखायामारूप्यतृष्णेति । आरूप्यावचरी । कामादीनामुपादानमिति । काम्यन्त इति कामाः । गुण्यन्त इति गुणाः । कामा एव गुणाः कामगुणाः । के पुनस्ते । रूपशब्दगन्धरसस्प्रष्टव्यानि । दृष्टयो द्वाषष्टि यथा ब्रह्मजाल इति । ब्रह्मजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः । कुक्कुरगोव्रतादीनीति । आदिशब्देन मृगव्रतादीनि गृह्यन्ते । निर्ग्रन्थादीनामिति । आदिशब्देन पाण्डरभिक्ष्वादीनां ग्रहणं । ब्राह्ंणेत्यादिविस्तरः । ब्राह्मणानां दण्डाजिनं पाशुपतानां जटाभस्म । परिव्राजकानां त्रिदण्डमौण्ड्यमादिशब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते । तत्समादानं शीलव्रतोपादानं । आत्मेति वादोऽस्मिन्नित्यात्मवादः । यथोक्तं । ये केचिच्छ्रमणा ब्राह्मणा वा आत्मेति समनुपश्यन्तः । [तिब् । २८९ ] समनुप्श्यंति सर्वे त इमानेव पंचोपादानस्कन्धानिति विस्तरः । आत्मदृष्ट्यस्मिमानावित्यपर आत्मवादमाहुः । आत्मनो ह्यसत्त्वादात्मवादोपादानामिति वादशब्दोपन्यासे प्रयोजनं दर्शयति । बालोऽश्रुतवान् पृथग्जन इति । यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति । स बालः । यस्यागमजा नास्ति । सोऽश्रुतवान् । यस्याधिगमजा सत्याभिसमयजा नास्ति । स पृथग्जनः । प्रज्ञप्तिमनुपतित इति । यथा संज्ञा यथा च व्यवहारः । तथानुगत इत्यर्थः । तेषामिति कामादीनां । छन्दराग इति । अप्राप्तेषु विषयेषु प्रार्थना छन्दः । प्राप्तेषु रागः । तेषु कामादिषु यः छन्दरागः । तदुपादानं । न तु यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनाद् उपादानानीत्य् अभिप्रायः । पौनर्भविकमिति पुनर्भवफलं । इदमत्र भवस्येति । इदमत्र भवस्य स्वलक्षणं स्वभाव इत्यर्थः । विज्ञानावक्रान्तियोगेनेति । ज्वालागमनयोगेनान्तराभवसंबन्धादनागतं जन्म जातिः पंचस्कंधिका नामरूपस्वभावत्वात् । जरामरणं यथा निर्दिष्टं सूत्र इति । जरा कतमा । यत्तत्खालित्यं [तिब् । २९० ] पालित्यमिति विस्तरः । मरणं कतमत् । या तेषांतेषां सत्त्वानां तस्मात्तस्माच्च्युतिश्च्यवनमिति विस्तरः । केवलस्यात्मरहितस्येत्यर्थं दर्शयति । महत इत्यनाद्यन्तस्य । दुःखस्कन्धस्येति दुःखसमूहस्य । स एव तु वैभाषिकन्यायो यः पूर्वमुक्त (अभिधर्मकोषव्याख्या ३०१) इति । द्वादश पंचस्कंधिका अवस्था द्वादशंगानीति । (इइइ ।२८ द्) या न विद्या । चक्षुरादिष्वपि प्रसंग इति । चक्षुःश्रोत्रादीन्यविद्या प्रसज्यन्ते । तान्यपि हि न विद्येति कृत्वा । न किंचिद्स्यादिति । यदि विद्याया अभावोऽविद्या अद्रव्यं स्यादित्यर्थः । न चैतद्युक्तमिति । प्रत्ययभावेनोपदेशात् । तद्विपक्ष इति । विरोधे नञिति दर्शयति । न तु यः कश्चिदन्यो मित्रादिति । न पर्युदासमात्र इति दर्शयति । नापि मित्रभाव इति । नाभावार्थ इति दर्शयति । अधर्मानार्थकार्यादयश्चेति । आदिशब्देनायुक्त्यव्यवहारामनुष्यादयो गृह्यंते । धर्मादिप्रतिद्वन्द्वभूता इति । धर्मार्थकार्ययुक्तिव्यवहारमनुष्यादिप्रतिद्वन्द्वभूताः । न तु ये केचिदन्ये धर्मादिभ्यश्[तिब् । २९० ] चक्षुरादयः । नापि धर्माद्यभावः । एवमविद्यापीति विस्तरः । कुत एतत् । प्रत्ययभावेनोपदेशात् । अविद्याप्रत्ययाः संस्कारा इति । न चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशो युक्तः । अर्हतां संस्कारसंभवात् । न चाभवस्य । शशविषाणादीनामप्रत्ययत्वात् । (इइइ ।२९) संयोजनं यावद्योगश्चाविद्योच्यत इति । अविद्यासंयोजनं यावदविद्यायोग इति सूत्रेषूच्यते । न चाभावमात्रं तथा भवितुमर्हतीति । न संयोजनादि भवितुमर्हतीत्यर्थः । न चापि चक्षुरादयस्तथा भवितुमर्हंतीत्यधिकृतं । सा च दृष्टिस्वभावेति नाविद्या युज्यत इति । दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक्पाठात् । या तर्हि न दृष्टिरिति । या क्लिष्टा प्रज्ञा रागादिसंप्रयुक्ता । दृष्टेस्तत्संप्रयुक्तत्वाद् इति । अविद्यासंप्रयुक्तत्वादित्यर्थः । कथं च दृष्टिरविद्यया संप्रयुक्ता । यस्मादविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते । क्लेशमहाभूमिकाश्च सर्वेऽपि महाभूमिकैः सह संप्रयुज्यन्त इति । दृष्ट्या सत्कायदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या संप्रयुज्यत इति गम्यते । तस्मान्नाविद्या प्रज्ञा । द्वयोः प्रज्ञाद्रव्ययोर्[तिब् । २९१ ] असंप्रयोगात् । अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति । एतदुदाहरणं । येनाविद्या प्रज्ञाया अर्थान्तरभूतेति । न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति । प्रज्ञोपक्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या । उपक्लेशत्वेन निर्दिष्टत्वात् । रागवत् । अत आह । यथा चित्तस्यान्य इति विस्तरः । व्यवकीर्यमाणा न विशुध्यतीति । अन्तरान्तरोत्पद्यमानया क्लिष्टया प्रज्ञया व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्यर्थः । किं तदवश्यं रागपर्यवस्थितमिति । रागसंप्रयुक्तमित्यर्थः । उपहतं तु तत्तथा रागेणेति । न समुदाचरता रागेण । वासनाधानेन तदुपहतं भवति । तां वासनां तद्दौष्ठुल्यं व्यावर्तयतो योगिनः तच्चित्तं विमुच्यते । एवमविद्योपहता क्लिष्टा प्रज्ञा न शुध्यतीति । अतः प्रज्ञा चाविद्या च न दोष इति दर्शयति । को हि परिकल्पयन् (अभिधर्मकोषव्याख्या ३०२) वार्यत इति । परिकल्पनामात्रमेतदागमनिरपेक्षमिति कथयति । योऽपि मन्यते सर्वक्लेशा अविद्येति । भदन्तश्रीलातः । एवं मन्यते । अविद्येति सर्वक्लेशानामियं सामान्यसंज्ञा । [तिब् । २९१ ] न रागादिक्लेशव्यतिरिक्ताविद्या नामास्तीति । कस्मातेवं मन्यते । बुद्धसूत्रात् । न च प्रजानाति न च प्रजानातीत्यायुष्मन्महाकौष्ठिल तस्मादविद्योच्यत इति । सत्कायदृष्ट्यादयोऽपि क्लेशा अज्ञानस्वरूपा विपरीतग्रहणत इति । तस्याप्यत एवेति विस्तरः । तस्य भदन्तस्यात एव प्रतिषेधवचनाद्व्युदासः । प्रतिषेधस्तन्मतस्येत्यध्याहार्यं । कथमित्याहा । सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथङ्नोच्येत । अनुनयसंयोजनादिष्वविद्यासंयोजनमिति पृथङ्नोच्येत । शेषसंयोजनाव्यतिरेकात् । रागो बंधनं द्वेषो बन्धनमित्युक्त्वा मोहो बन्धनमिति । कामरागानुशय इत्यादि उक्त्वा अविद्यानुशय इति । ओघेष्वविद्यौघ इति । योगेष्वविद्यायोग इति पृथङ्नैवोच्येत । कस्मात् । परस्परासंप्रयोगात् । न हि दृष्टिर्दृष्ट्या संप्रयुज्यते । रागो वा रागेण । दृष्ट्यादिसंप्रयुक्ता चाविद्योक्ता । क्लेशमहाभूमिकत्वेन महाभूमिकसंप्रयोगनियमात् । चित्तमपि चाविद्योपक्लिष्टमेवोक्तं भवेत् । [तिब् । २९२ ] रागोपक्लिष्टं चित्तं न विमुच्यत इति नोक्तं भवेत् । अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः । अथ मतं विशेषणार्थं तथोक्तमिति । रागलक्षणयाविद्ययोपक्लिष्टचित्तं न विमुच्यत इति । प्रज्ञायामपि विशेषणं कर्तव्यं स्यात् । रागेण प्रतिघेन मानेन वेति मा भूत्सर्वक्लेशग्रहणप्रसंग इति । इष्ट इति चेत् । चित्तेऽपि न विशेषणं कर्तव्यं स्यात् । अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्येवमेव तु वक्तव्यं स्यात् । संप्रख्यानं प्रज्ञा ज्ञानमित्येकोऽर्थः । तथैव दोशो यथाविद्यायामिति । अथासंप्रख्यानमिति कोऽर्थः । यन् व संप्रख्यानं । चक्षुरादिष्वपि प्रसंगः । संप्रख्यानाभावस्तर्हि । एवं सति न किं चित्स्यात् । न चैतद्युक्तमिति । अथ संप्रख्यानविपक्षभूतं धर्मान्तरं । तदिदं तथैव न ज्ञायते । यथैवाविद्या । किं तदिति । एवंजातीयकोऽपीति विस्तरः । एवंजातीयकः कर्मप्रभावित इत्यर्थः । तस्मादविद्यायाः कर्मणः कारित्रेण स्वभावो विज्ञातव्यः । अस्त्यसौ कश्चिद्धर्म यो विद्याविपक्ष इति विद्याविपक्षत्वं तस्याः कर्मेति । [तिब् । २९२ ] तद्यथा चक्षुः कतमत् । यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय इति । ननु च रूपप्रसाद इति स्वभावप्रभावितोऽस्य निर्देश इति । न । अप्रत्यक्षत्वात् । नित्यं चक्षुर्विज्ञानानुमेयत्वाच्च । अस्मीति सत्त्वमयतेति । अविज्ञातार्थमेतत् । न तेन स्थविरेणास्याभिधेयमवधारितं । मयता पुनः सौत्रांतिकैरविद्या प्रकारभिन्ना वर्ण्यते । मानो वा । यासौ सूत्र उक्तेति विस्तरः । मयतानामित्यविद्यानां प्रकारभिन्नानां (अभिधर्मकोषव्याख्या ३०३) नामेति ग्रहणं । तृष्णादीनां पृथगुपदेशादिति भदन्तधर्मत्रातस्याभिप्रायः । आचार्य आह । अस्त्येषा मयता । अस्ति सूत्रे उक्ता मयता । तत्र जातिनिर्देशादेकवचनं । सा त्वविद्येति । कुतः कारणादेतत्परिच्छिद्यते । साविद्येति । भदन्तधर्मत्रातः स्वाभिप्रायं विवृणोति । यत एषा नान्यः क्लेशः शक्यते वक्तुमिति । कस्मान्न शक्यते । तृष्णादृष्ट्यस्मिमानानां पृथगुक्तेः । आचार्य आह । ननु चान्यो मान एव स्यादिति । अस्मिमानादन्यः षण्णामन्यतमः स च मयता । नविद्येत्यभिप्रायः । अत्र तु पुनर्विचार्यमाणे बहु वक्तव्यं जायत इति । अत्र पुनर्विचार्यमाणेऽविद्यांगे [तिब् । २९३ ] बहुरयं ग्रन्थो जायते । यथोक्तमिति । तस्मात्तिष्ठत्वेतदेतावदेवास्त्विति । अथ वान्यो माण एव स्यात् । न पुनरविद्येति । कुत एतदित्येवमादिके पुनर्विचारे क्रियमाणे । उत्तरप्रत्युत्तरवचनेन बहु वक्तव्यं जायते । तस्मात्तिष्ठत्वेतदलं विचारान्तरेणेत्यर्थः । (इइइ ।३० ) अथ नामरूपमिति । अविद्यांगनिर्देशानन्तरं संस्कारांगं निर्देष्टव्यं । तदनु विज्ञानांगं । किमित्येतदतिक्रम्योपन्यस्ते । एतदर्थमत्र वक्ष्यत्याचार्यः । उक्तं च वक्ष्यते चान्यद् इति । रूपं विस्तरेणोक्तमिति । रूपं पंचेन्द्रियाण्यर्थाः पंचविज्ञप्तिरेव चेत्य् अत्र । नामेन्द्रियार्थवशेनेति विस्तरः । नामवशेन इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम । कतमस्य नाम्नो वशेनेति । नामद्वैविध्यात्पृच्छति । आचार्यस्त्वाचष्टे । यदिदं लोके प्रतीतिमिति विस्तरः । गौरश्व इति । समुदायप्रत्यायकम् । रूपं रस इति । एकार्थप्रत्यायकं । तदेतद्वेदनादिस्कंधचतुष्कं नामशब्देनोच्यते । यस्मात्तन्नामवशेन संज्ञाकरणवशेनार्थेष्वप्रत्यक्षेष्वपि वा नमति प्रवर्तते । अस्य नाम्नोऽयमर्थ इति । इन्द्रियार्थवशेन तु प्रत्यक्षेषु रुपादिषु नमति उत्पद्यते इत्यर्थः । [तिब् । २९३ ] नाम्नि चाप्यर्थवशेन नमति । अस्यार्थस्येदं नामेति । एतस्य पुनः केन नामत्वमिति । एतस्य संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वं । तेषु तेष्वर्थेषु तस्य नाम्नो नमनादिति । यस्मात्तेष्वर्थेषु चतुःस्कन्धलक्षणं नाम तन्नाम नमयति प्रवर्तयति । तस्मादेतस्य नामत्वं । नमयतीति नामेति कृत्वा । इह निक्षिप्त इति विस्तरः । मरणकाले निक्षिप्ते काये उपपत्त्यन्तरे नमनाद्गमनादरूपिणो वेदनादयः स्कन्धा नामेत्युच्यन्ते । यथोक्तं । मृतस्य खलु कालं गतस्य ज्ञातय इमं पूतिकायमग्निना वा दहंति उदके वा प्लावयन्ति भूमौ वा निखनन्ति वातातपाभ्यां वा परिशोषं परिक्षयं पर्यादानां गच्छति । यत्पुनरिदमुच्यते । चित्तमिति (अभिधर्मकोषव्याख्या ३०४) वा मन इति वा विज्ञानमिति वा श्रद्धापरिभावितं शीलत्यागश्रुतप्रज्ञापरिभावितं । तदूर्ध्वगामि भवति विशेषगाम्यायत्यां स्वर्गोपगमिति । (इइइ ।३० ) षडायतनमुक्तमिति । तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः । विज्ञानं प्रतिविज्ञप्तिर्मनआयतनं च तद् इत्यत्र । मनैन्द्रियस्य पुनर्निरुद्धस्य अनागतेन धर्मेण रूपादिना उत्पत्स्यमानेन वर्तमानेन मनोविज्ञानेन कथं संनिपातः । यः कार्यकारणभावः । कार्यं मनोविज्ञानं । कारणं मनैन्द्रियं । धर्मश्च रूपादिः । [तिब् । २९४ ] एककार्यार्थो वेति । एककार्यमेवार्थ एककार्यार्थः । एककार्यत्वमित्यर्थः । कथमेककार्यार्थ इत्याह । सर्वे च ते त्रयोऽपि मनैन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति । षट्षट्को धर्मपर्याय इति । षट्षट्कान्यस्मिन्निति षट्षत्कः । आध्यात्मिकबाह्यविज्ञानस्पर्शवेदनातृष्णाषट्कसंभवात् । षट्स्पर्शकाया इति ज्ञापकं । अनन्यत्वे हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनरुक्तं स्यात् । ततश्च षट्षट्कत्वं हीयते । मा भूद्धर्मायतनाद्वेदनातृष्णयोः । पृथग्भाव इति । यदि पृथङ्निर्देशात्पृथग्भावो भवेत् । वेदनातृष्णे अपि धर्मायतनात्पृथङ्निर्दिष्टे । तयोरपि वेदनातृष्णयोर्धर्मायतनात्पृथग्भावः स्यात् । न च तयोः पृथग्भाव इष्यते । धर्मायतनान्तर्भावात् । नैष दोष इति विस्तरः । नैष दोष इति यथोक्तस्तद्व्यतिरिक्तस्यापि वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य संज्ञादिस्वभावस्य भावादस्तित्वात् । न चैवमिति विस्तरः । न चैवं भवतस्त्रयानां संनिपातः स्पर्श इत्येवं ब्रुवाणस्य [तिब् । २९४ ] स्पर्शभूतादिन्द्रियार्थविज्ञानत्रयादन्यदस्पर्शभूतं त्रयमिन्द्रियार्थविज्ञानत्रयमस्ति । यस्य शेषस्यात्र सूत्रे ग्रहणं स्यात् । षट्स्पर्शकाया इति प्रयोजनवशादपृथग्भावेऽपि स्पर्शभूतात्त्रयात् । तस्मादपृथग्भावेऽपि वेदनातृष्णयोः पृथङ्निर्देशो युक्तो विनेयकार्यवशात् । न तु भवतः संनिपातमात्रस्पर्शवादिनः केनचिदपि प्रयोजनेन षट्स्पर्शकाया इति पृथङ्निर्देशो युक्तः । यस्मात्षट्स्पर्शकाया इति वचनेनेन्द्रियार्थविज्ञानत्रयमुक्तमिति तदवचनं प्राप्तमित्यतः षट्षट्को धर्मपर्याया इति न सिध्येत् । मम तु सिध्यति । स्पर्शवेदनातृष्णाषट्कवचनेऽपि तद्व्यतिरिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसंभवात् । तस्मात्षट्स्पर्शकाया इति पृथङ्निर्देशादस्ति चित्तसंप्रयुक्तं स्पर्शाख्यं धर्मान्तरमिति सिद्धं । अथ ब्रूयादसौ । इन्द्रियार्थावविज्ञानकौ निर्दिष्टावस्मिन् सूत्रे । षडाध्यात्मिकानि षट्बाह्यानीति वचनात् । अत इन्द्रियविषयविज्ञनत्रयं स्पर्शभूतमित्यस्य शेषस्य ज्ञापनार्थमत्र ग्रहणं स्यात् । षट्(अभिधर्मकोषव्याख्या ३०५) स्पर्शकाया इति । अस्य समाधेः प्रतिषेधार्थमिदमारभ्यते । यद्यपीन्द्रियार्थौ स्यातामविज्ञानकौ । तत्सभागावित्यर्थः । न तु पुनर्विज्ञानमनिन्द्रियार्थकं । अवश्यं हि विज्ञानं सेन्द्रियार्थकं भवति । तच्च विज्ञानमपदिष्टमत्र षड्विज्ञानकाया इति । [तिब् । २९५ ] तस्मात्त्रिषु निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विज्ञानकायवचनेन पुनः स्पर्शग्रहणमनर्थकं प्राप्नोति । षट्स्पर्शकाया इति । अतः संनिपातादन्यः स्पर्श इति सिद्धं । अत्र भदन्तश्रीलात आह । न खल्विति विस्तरः । पूर्वोत्पन्ने चक्षूरूपे कारणं । न तु विज्ञानसहोत्पन्ने । नापि सर्वचक्षुर्विज्ञानमिति । पश्चादुत्पन्नं पूर्वयोश्चक्षूरूपयोः । न सहोत्पन्नयोः । अतो येषां कार्यकारणभावः । ते विज्ञानेन्द्रियविषयाः स्पर्शभावेन व्यवस्थिताः । षट्स्पर्शकाया इत्यस्मिन् सूत्रे । तदिदमन्यथा न ज्ञापितं स्यात् । न वा एवं पथन्ति । वै इति निपातः । न वै एवं पठन्तीत्यर्थः । कथं पुनः पठन्ति । य एषां धर्माणां संगतेः संनिपातात्समवायादुत्पन्नः । स स्पर्श इति पठन्ति । कारणे वा कार्योपचारोऽयमिति । संगतौ संनिपाते समवाये कारणे कार्योपचारः स्पर्श इति । यथा सुखो बुद्धानामुत्पाद इति । अतिबहुविस्तएण प्रकारेण विसर्तुं शीलमस्या इति अतिबहुविस्तरप्रकारविसारिणी । (इइइ ।३० द्) अधिवचनमुच्यते नामेति । अध्युच्यतेऽनेनेत्यधिवचनं । वाङ्नाम्नि प्रवर्तते । नामार्थं [तिब् । २९५ ] द्योतयतीत्यधिवचनं नाम । तद्किल नामस्य मनोविज्ञनसंप्रयुक्तस्याधिकं बाहुल्येनालम्बनम् । अतोऽधिवचनसंस्पर्श इति । स्पर्शः संस्पर्श इत्येकोऽर्थः । मनोविज्ञानेन नीलं विजानातीति । अभिधेयं विजानातीत्यर्थः । नीलमिति च विजानातीति । अस्यार्थस्येदं नामेति विजानाति । एक आश्रयप्रभावित इति । प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः प्रतिघस्य वा संस्पर्शः प्रतिघसंस्पर्शः । आलंबनप्रभावित इति । अधिवचनादालम्बनसंस्पर्शः अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति । वचनमधिकृत्य वचनमवधार्यार्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः । न पंचानां चक्षुर्विज्ञानादीनां वचनमधिकृत्यार्थेषु प्रवृत्तिः । अतस्तदेवाधिवचनं मनोविज्ञानं वचने प्रवर्ततेऽधिवचनमिति । तेन संप्रयुक्तस्तस्य वा संस्पर्शस्याधिवचनसंस्पर्शः । तेन चायं द्वितीयः संस्पर्शः संप्रयोगप्रभावित इत्युच्यते । (इइइ ।३१) विद्याविद्येतरस्पर्शा (अभिधर्मकोषव्याख्या ३०६) इति । विद्याविद्येतरश्च विद्याविद्येतरे । ते एव स्पर्शा विद्याविद्येतरस्पर्शाः । विद्याह्वः अविद्याह्वः ताभ्यामितरश्चेत्यर्थः । विद्येत्यनास्रवा प्रज्ञा । अविद्या क्लिष्टमज्ञानम् । नैवविद्यानाविद्या या कुशलसास्रवा या चानिवृताव्याकृता प्रज्ञा । [तिब् । २९६ ] तत्संप्रयुक्ता एते यथाक्रमं संस्पर्शा वेदितव्याः । पुनरविद्यासंस्पर्शस्येति । विस्तरः । अविद्यासंस्पर्शस्य सर्वक्लेशसंप्रयुक्तस्याभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः । तस्य ग्रहणाद्द्वौ स्पर्शौ भवतो व्यापादानुनयस्पर्शौ । सुखवेद्यादयस्त्रय इति । सुखस्य वेदः सुखवेदः । सुखवेदे साधुः सुखवेद्यः । सुखं या वेद्यमस्मिन्निति सुखवेद्यः । स आदिरेषामिति सुखवेद्यादयः । सुखवेदनादिहितत्वादिति । सुखवेदनायै हितः सुखवेदनीयः । प्राक्क्रीताच्छः । वेद्यते तद्वेदयितुं वा शक्यमिति । वेद्यत इति कर्ममात्रे कृत्य इति दर्शयति । वेदयितुं शक्यमित्यर्हे कृत्यतृचश्चेत्यस्मिन्नर्थे कृत्य इति दर्शयति । त एते षोडशेति । चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति षट् । पुनः प्रतिघसंस्पर्शोऽधिवचनसंस्पर्शो विद्यासंस्पर्शोऽविद्यासंस्पर्शो नैवविद्यानाविद्यासंस्पर्शो व्यापादसंस्पर्शोऽनुनयसंस्पर्शः सुखवेदनीयो दुःखवेदनीयोऽदुःखासुखवेदनीयश्च स्पर्श इति षोडश । (इइइ ।३२ ब्) उक्तः स्पर्शो वेदना वक्तव्येति । ननु च वेदनाप्युक्ता वेदनानुभव इति । अथोक्तमप्युच्यते । न तर्हीदं वक्तव्यं । यच्चोक्तं यच्च वक्ष्यमाणं । तन्न वक्ष्यामीति । उक्तं च वक्ष्यते चान्यद् [तिब् । २९६ ] इति वाचनात् । प्रकारनिर्देशाददोषः । पूर्वं लक्सणमुक्तमिदानीं प्रकार इति । जाते हीति विस्तरः । जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यं सहोत्पन्नत्वात् । प्रतिज्ञाविशिष्टमिति । प्रतिज्ञाया अविशिष्टमेतत्साधनमित्यर्थः । यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते । अन्योन्यजनकप्रसंगात्(अभिधर्मकोषव्याख्या ३०७) तर्हि । किं । कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यतीत्यधिकृतम् । अनेन प्रतिज्ञादोष उद्ग्राह्यते । अस्ति सहोत्पन्नयोर्जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति । इष्टत्वाददोष इति । पुर्वाभ्युपगमं दर्शयति । इष्तमिदं । सूत्रे त्वनिष्टमिति । इष्टमिदमभिधर्मे सहभूर्ये मिथःफला इति । सूत्रे त्वनिष्टं । तत्प्रतिपादयन्नाह । चक्षुःसंस्पर्शं प्रतीत्योत्पद्यते चक्षुःसंस्पर्शजा वेदनेति । सूत्रप्रामाण्येनान्योन्यफलत्वं भंक्त्वा सहोत्पन्नकार्यकारणभावबिभंक्षया आह । जनकधर्मातिक्रमाच्चायुक्तमिति । जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता । तद्यथा पूर्वं बीजं पश्चादंकुर इत्यादि । तत्रापि [तिब् । २९७ ] पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानमिति । प्रथमक्षणोत्पन्नाविन्द्रियार्थौ विज्ञानं तु द्वितीये क्षण इति । यथा तर्हि छायांकुरयोरिति । किं । सहोत्पन्नयोर्जन्यजनकभावः । उत्पन्न एव ह्यंकुरश्छायां जनयति । न प्रथमे क्षणेऽंकुरो निश्छायो भवति द्वितीये सच्छाय इति । एवं स्पर्शवेदनयोरपीति । अनयोरपि छायांुकुरयोः पूर्वसामग्री हेतुरिति शक्यं वक्तुं । सहभूहेतुनिर्देशे त्वयमर्थ उक्त इति न पुनरुच्यते । स्पर्शादुत्तरकालं वेदनेत्यपर इति भदन्तश्रीलातः । सोऽसौ त्रयाणां संनिपातः स्पर्श इति । योऽयं जनकजनितभावः । वेदना तृतीये क्षणे इति । इन्द्रियार्थक्षणः प्रथमः विज्ञानोत्पत्तिक्षणो द्वितीयो वेदनोत्पत्तिक्षणस्तृतीय इति । न सर्वत्र विज्ञाने वेदना प्राप्नोतीति । विज्ञानक्षणे द्वितीये वेदनाया अभावात् । न च सर्वविज्ञानं स्पर्शः । वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः । पूर्वद्वितीयक्षणयोः स्पर्श एव विधीयते । पूर्वस्पर्शहेतुका ह्युत्तरस्पर्शे वेदना । योऽयमिदानीं द्वितीयः क्षणः स्पर्शभावेनोक्तः । तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका [तिब् । २९७ ] वेदनोत्पद्यते । तत्स्पर्शपूर्विकाप्यन्यस्मिन्नित्येवं सर्वत्र विज्ञाने वेदना प्राप्नोति । सर्वं च विज्ञानं स्पर्श इति । ते च स्पर्शाः सवेदनका इति भिन्नालम्बनयोरिति विस्तरः । भिन्नमालम्बनमनयोः । तौ भिन्नालम्बनौ । पूर्वस्य रूपमालम्बनमुत्तरस्य शब्दः तयोर्भिन्नालम्बनयोः पूर्वस्पर्शहेतुका रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शे शब्दालम्बने यद्वेदनोत्पद्यते । इत्येतदयुक्तं । कथं हि नामेति दोषमाविष्करोति । अन्यजातीयालम्बनस्पर्शसंभूता रूपप्रकारालम्बनात्स्पर्शात्संभूता वेदना अन्यालम्बना भविष्यति । शब्दालंबना भविष्यति । विधुरकारणत्वात्कार्यस्यासंभावना । यदा हि रूपालम्बनात्स्पर्शात्संभूता वेदना रूपालम्बनैव वेदना भविष्यति । तदा पूर्वस्पर्शहेतुकोत्तरत्र स्पर्शे वेदनेति युक्तं । यदा तु रूपालम्बनात्(अभिधर्मकोषव्याख्या ३०८) स्पर्शाच्छब्दालम्बना वेदनोत्पद्यते । तदा कथमेतद्योक्ष्यते । कारणानुरूपं हि लोके कार्यं दृश्यते । अथ मतं रूपालम्बनात्स्पर्शात्संभूता वेदना शब्दालम्बनस्पर्शसंप्रयुक्तापि रूपालम्बना भवतीति । अत इदमाह । येन वा चित्तेन संप्रयुक्ता । ततो भिन्नालम्बनेति । ततः शब्दालम्बनाच्चित्ताद्भिन्नालम्बना । [तिब् । २९८ ] यत उत्पन्ना रूपालम्बना । तेन समालम्बनेत्यर्थः । कथं चासौ तेन संप्रयुक्तेत्युच्यते । समं प्रयुक्ता हि संप्रयुक्ता । यद्यभिन्नाश्रयत्वात्कथं श्रोत्राश्रयोत्पन्ना सती रूपालम्बना भविष्यति । कथं न भविष्यति । चित्तचैत्तानामाश्रयेणैकविषयप्रवृत्तत्वात् । तस्मादन्यतरालम्बनत्वेऽपि वेदनाया दोषः । स दोषः प्रदर्श्यते । यदि तावद्रूपालम्बनात्स्पर्शादुत्पन्ना वेदना शब्दाद्यालम्बनान्तरमालम्बते । स रूपालम्बनः स्पर्शः सुखवेदनीयो यावददुःखासुखवेदनीय इति न प्राप्नोति । एकालम्बनया तु वेदनया तथा निर्देशो युक्त इति । अस्तु तर्हीति विस्तरः । यद्येवं दोषोऽस्तु तर्हि । तस्मिं काले । कस्मिं काले । शब्दालंबनकाले । स्पर्शभूतं विज्ञानमवेदनकं । तस्माच्च शब्दालम्बनाद्यत्पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः । एवं हि निर्दोषं भवतीति । अन्यथा हि यदि पूर्वोत्पन्नं सवेदनकं विज्ञानं स्पर्शः स्यात् । तदैवं स्पर्शप्रत्यया वेदनेति यथोक्तो दोषः स्यात् । पुनः कारणं । किंचिद्विज्ञानमवेदनकं । किंचिच्च न स्पर्शः प्रत्ययवैधुर्यात् । विधुरा हि प्रत्यता विप्रतिभन्धेनावस्थिताः । न हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्पर्शभूतं विज्ञानं [तिब् । २९८ ] जनयितुं समर्थ इति । तदेवं तस्य भिन्नालम्बनं विज्ञानमेकान्तेनावेदनकं । तदुत्पादकं चास्पर्शभूतं । यदि तु रूपालम्बनाच्चक्षुर्विज्ञानादनन्तरं रूपालम्बनमेव चक्षुर्विज्ञानमुत्पद्यते । मनोविज्ञानं वा । तत्सवेदनकं पूर्वोत्पन्नं स्पर्श इति । एवं सतीति । महाभूमिकनियमो भिद्यत इति । स्पर्शवेदनयोः पर्यायेण नियमात् । तिस्रा भूमय इति । सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम् । अवितर्का विचारमात्रा ध्यानान्तरम् । अवितर्का अविचारा द्वितीयाद्ध्यानात्प्रभृति यावद्भवाग्रं । कुशला भूमिः कुशला धर्माः । एवमकुशला अव्याकृताः । शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः । अशैक्षी अशैक्षस्यानास्रवा धर्माः । नैव शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः । असंस्कृता इह नोच्यन्ते । चैत्तसम्बन्धात् । तद्य एतस्यामिति विस्तरः । तदिति वाक्योपन्यासे । य इति ये चैतसिकाः । एतस्यां सर्वस्यां भूमाविति । सवितर्कसविचारायां भूमौ । यावन्नैवशैक्षीनाशैक्ष्यां भूमौ । ते महाभूमिकाः वेदनाचेतनादयो यथोक्ताः । (अभिधर्मकोषव्याख्या ३०९) ये कुशलायामेव भूमौ । [तिब् । २९९ ] ते कुशलमहाभूमिकाः श्रद्धादयः । ये क्लिष्तायामेव । ते क्लेशमहाभूमिकाः । अविद्यादयो यथोक्ता एव । ते पुनर्यथासंभवमिति विस्तरः । ते पुनर्महाभूमिकादयः । ये यस्यां संभवन्ति । ते तस्यां पर्यायेण । न तु सर्वे युगपत् । इत्यपरे । तद्यथा वेदना सर्वासु भूमिषु भवत्यपि न युगपत्संज्ञाचेतनास्पर्शमनस्कारादिभिर्भवति । तथा स्पर्शो वेदनादिभिः । तथा कुशलायां वितर्कादय इत्येवमादिकं । अपरे पुनरेवं व्याचक्षते । यथा पंचस्कंधके लिखितं । तथेदं ग्रहीतव्यमिति । तद्यथा छन्दः कतमः । अभिप्रेतवस्तुन्यभिलाषः । अनभिप्रेते नास्ति छन्द इत्यभिप्रायः । अधिमोक्षः कतमः । निश्चिते वस्तुनि तथैवावधारणं । स्मृतिः कतमा । संस्तुते वस्तुन्यसंप्रमोषः । चेतसोऽभिलपनता । समाधिः कतमः । उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । प्रज्ञा कतमा । तत्रैव प्रविचयो योगायोगविहितोऽन्यथा चेत्येवमादिः पंचस्कंधकग्रन्थो द्रष्टव्यः । तत्र ह्युक्तं पंच सर्वत्रगाः । वेदनासंज्ञास्पर्शमनस्कारचेतनाः । पंच प्रतिनियतविषयाः । छन्दाधिमोक्षस्मृतिसमाधिप्रज्ञा [तिब् । २९९ ] इत्येवमादि । अकुशलमहाभूमिकास्तु पाठप्रसंगेनासंहिता इति । सूत्रादिषु पाठात् । कुशलमकुशलमव्याकृतमित्येवं पाठप्रसंगेनासंहिताः । अध्यारोपिताः पश्चादित्यर्थः । पूर्वं न पठ्यंते स्म । प्रकरणपादे महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्चेति चतुर्विधा पठ्यन्ते । सहजाता इत्युच्यन्ते । न स्पर्शसहजाता इति । अविशेषितत्वादेते वेदनादयः परस्परसहजाताः । न तु स्पर्शेनेत्यर्थपरिग्रहेण परिहर्तव्यं सूत्रमित्यर्थः । मैत्रीसहगतमिति । अयं सहशब्दो नावश्यं युगपद्भावे समनंतरेऽपि दृष्टः । न हि मैत्र्याः स्मृतिसंबोध्यंगस्य च समवधानमस्ति । नैत्र्या एकान्तसास्रवत्वात् । स्मृतिसंबोध्यंगस्य चैकान्तानास्रवत्वात् । तस्मादज्ञापकमेतत् । संदृष्टा इति । सहोत्पन्ना इत्यभिप्रायः । तत्र हि सूत्र इति । यत्रैवोक्तं । या वेदना या चेतना या च संज्ञेति विस्तरेण । तत्र सूत्र इत्यर्थः । तन्न विज्ञायत इति विस्तरः । किं तावदयमेषां वेदनादीनामालम्बननियमः आलम्बने नियमः । यदेवालम्बनं वेदयते । तदेव चेतयते यावद्विज्ञानं विजानातीति । [तिब् । ३०० ] उताहो क्षणनियमः यस्मिन्नेव क्षणे वेदयते । तस्मिन्नेव यावद्विजानातीति । वयं ब्रूमः । आलम्बननियमोऽयमिति । तस्मान्न सूत्रविरोध इत्यभिप्रायः । आचार्य आह । तत्रैव सूत्रे आयुरुष्मणोः साहभाव्ये संसृष्टवचनात्सिद्धः क्षणनियम इति । आयुरुष्मा च संसृष्टौ । इमौ धर्मौ न विसंसृष्टाविति । आयुरुष्मणोः (अभिधर्मकोषव्याख्या ३१०) सहोत्पन्नतोक्ता भवति । तयोरनालम्बनत्वात् । तदेवं साधितं भवति । अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनाविज्ञानानि । तत्र सूत्रे संसृष्टवचनेनोक्तत्वात् । आयुरुष्मवदिति । तद्कथमिति विस्तरः । तत्कथं विज्ञानं चास्ति । न च त्रयाणामिन्द्रियविषयविज्ञानानां संनिपातः । तस्मादवश्यं विज्ञानास्तित्वे संनिपातोऽभ्युपगन्तव्यः । संनिपातश्च ते स्पर्श इति । तेनेदं ते विरुध्यते । न सर्वविज्ञानं स्पर्श इति । संनिपातो वा न स्पर्श इति । पुनःसंधिकरणं चात्र द्रष्टव्यमिति । पूर्वत्रासिद्धमिति सकारलोपस्यासिद्धत्वाद्गुणो न प्राप्नोति । परिहारस्तु । ईषदर्थेऽयं नञ्द्रष्टव्यः । ईषत्सिद्धमसिद्धमित्यतः सिद्धत्वात्सकारलोपस्य गुणो भवति । सैष दाशरथी राम इति यथा । (इइइ ।३२ द्) षट्सौमनस्योपविचारा इति विस्तरः । चक्षुषा रूपाणि दृष्ट्वा सौननस्यस्थानीयानि रूपाणि उपविचरति । श्रोत्रेण शब्दान् श्रुत्वा सौम्ननस्यस्थानीयां शब्दानुपविचरति । एवं यावन्मनसा धर्मान् विज्ञाय सौमनस्यस्थानीयान् [तिब् । ३०० ] धर्मानुपविचरति । एवं चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्युपेक्षास्थानीयानि चेति विस्तरेण योज्यं । त्रयो भविष्यन्तीति । सौमनस्यदौर्मनस्योपेक्षास्वभावत्रैविध्यात् । एक इति । मनोविज्ञानमात्रसंप्रयोगात् । षडिति । रूपादिविशयषट्कभेदात् । त्रिभिरपि स्थापनेति । यद्वेदनाद्रव्यं मनोविज्ञानमात्रसंप्रयुक्तमेकं । तत्सौमनस्यादिस्वभावत्रयभेदात्त्रिधा भिद्यते । तत्पुनः प्रत्येकं विषयषट्कभेदात्षोढा भिद्यते । इत्यष्टादश भवंति । स्वभावव्यवस्थापनायामसत्यां सौमनस्यदौर्मनस्योपेक्षोपविचारा न स्यात् । संप्रयोगव्यवस्थापनायामसत्यां मनोपविचारा इत्येव न स्यात् । अष्टादशव्यतिरिक्ताश्च स्युः । रूपादिविषयषट्कालम्बनव्यवस्थापनायामसत्यां प्रत्येकं सौमनस्यादिषोधाभेदेनाष्टादश मनोपविचारा इति न स्यात् । तस्मात्त्रिभिरपि व्यवस्थापनेति सिद्धं । असंभिन्नालम्बना इति । असंमिश्रालम्बनाः । त्रयो धर्मोपविचारा उभयथेति । ये रूपादिविषयपंचकव्यतिरिक्तधर्मालम्बनाः । ते धर्मोपविचारा असंभिन्नालम्बनाः । ये तु रूपादीनां षण्णां विषयाणां द्वौ तृईन् [तिब् । ३०१ ] यावत्षडपि विषयानालम्बन्ते । ते संभिन्नालम्बनाः । मनः किलेति । किलशब्दः परमतद्योतकः । मनः किल प्रतीत्याश्रित्य विषयानुपविचरन्त्यालम्बन्त इत्यर्थः । उपविचारयन्तीति प्रवर्तयन्ति । कथमित्याह । वेदनावशेन मनसो विषयेषु पुनःपुनर्विचारणादिति पुनःपुनरित्युपशब्दस्यार्थः । नाप्युपविचारिकेति । असन्तीरिकेत्यर्थः । अयोग इत्यसंभवः । यदि मन एवाश्रिता वेदना मनोपविचारः । तृईये ध्याने यत्सुखं । तन्मन एवाश्रितं । (अभिधर्मकोषव्याख्या ३११) न चक्षुरिन्द्रियाद्याश्रितमिति । तस्य कस्मान्मनोपविचारेष्वग्रहणं । आदितः किलेति विष्तरः । आदावादितः । किलेति परमते । कामधातौ मनोभूमिकं सुक्ःं नास्ति । तस्मान्न तन्मनोपविचारः । अतः पश्चादपि तृतीये ध्याने सुखेन्द्रियस्य मनआश्रितत्वेऽपि मनोपविचारेष्वग्रहणं । यथा सौमनस्योपविचारस्य प्रतिद्वंद्वेन दौर्मनस्योपविचारः । नैवं । सुखोपविचारस्य प्रतिद्वंद्वेन दुःखोपविचारोऽस्ति । मनोविज्ञाननाश्रितत्वाद्दुःखस्य । अतः सर्वत्र तत्सुखं न मनोपविचार इति । सौमनस्यस्थानीयानीति । सौमनस्यजनकानि । पंचेति विस्तरः । [तिब् । ३०१ ] पंचभिर्विज्ञानकायैरभिनिर्हृतत्वमुत्पादितत्वमभिसंधाय चेतसिकृत्वा एतदुक्तं चक्षुषा रूपाणीति विस्तरेण । मनोभूमिकास्त्वेते । तद्यथा अशुभा । चक्षुर्विज्ञानाभिनिर्हृता च पूर्वं विनीलकादिदर्शनात् । मनोभूमिका च समाहितत्वात् । अपि त्विति । चक्षुषा रूपाणि दृष्ट्वा यावत्कायेन स्प्रष्टव्यानि स्पृष्ट्वेति वचनादचोद्यमेतत् । यदि चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्युपविचरतीत्युक्तं स्यात् । यावत्कायेन स्प्रष्टव्यानि स्पृशन्निति । स्याच्चोद्यं । न त्वेवमुक्तमित्यचोद्यमेवैतत् । योऽप्यदृष्ट्वेति विस्तरः । योऽपि श्रुत्वा परतो मनसोपविचरत्यालम्बते । तेऽपि तस्य मनोपविचाराः । इतरथा हीति विस्तरः । रूपधात्वालम्बना रूपाद्युपविचारा न स्युः । कामधातूपपन्नेन रूपावचराणां रूपादीनामप्रत्यक्षीकृतत्वात् । कामधात्वालम्बनाश्च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपन्नस्य न स्युः । तस्य गंधादीनामविषयत्वात् । यथा तु व्यक्ततरं । तथोक्तमिति । प्रत्यक्षीकृतरूपाद्यालम्बनानां मनोपविचाराणां व्यक्ततरत्वात् । योऽपि रूपाणि दृष्ट्वा तत्सहचरां छन्दानुपविचरति । सोऽपि तस्य मनोपविचारः । यथा त्वनाकुलं । तथोक्तं । कथं चानाकुलमित्याह । इन्द्रियार्थव्यवच्छेदत [तिब् । ३०२ ] इति । चक्षुरादीन्द्रियव्यवच्छेदेन । रूपाद्यर्थव्यवच्छेदेन चोक्तमिति । अन्यथा ह्याकुलं स्यात् । एअक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयां छन्दानुपविचरतीत्येवमादि । अस्ति संतानं नियम्येति । कस्यचित्सत्त्वस्य संतानमवेक्ष्य । यदस्य किंचित्सौमनस्यस्थानीयमेव । यावदुपेक्षास्थानीयमेव । न त्वालम्बनं । किं । नियम्य । किंकारणं । तदेव ह्यालम्बनं कस्यचित्सौमनस्यस्थानीयं । कस्यचिन्नेति । (इइइ ।३३-३५ ब्) एवं यावदारूपप्रतिसंयुक्ता इति कति रूपप्रतिसंयुक्ताः । तेषां च कति किमालम्बनाः । कत्यारूप्यप्रतिसंयुक्ताः । तेषां च कति किमालम्बना इति । कामे स्वालम्बनाः सर्व (अभिधर्मकोषव्याख्या ३१२) इति । कामे कामावचराणां मनोपविचाराः सर्वेऽष्टादश सन्ति । स एव च कामधातुः तेषां सर्वेषामालम्बनं । स्वो धातुरालम्बनमेषामिति स्वालम्बना इति कारिकापदविग्रहः रूपी द्वादशगोचर इति । रूपी धातुः कामावचराणां द्वादशानां मनोपविचाराणां गोचरः । षड्गन्धरसोपविचारानपास्येति । द्वौ गन्धरसावालम्बनौ सौमनस्योपविचारौ हित्वा द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा द्वौ तदालम्बनावेव चोपेक्षोपविचारौ हित्वेति । [तिब् । ३०२ ] कस्मात् । तत्र रूपधातौ तयोर्गन्धरसयोरभावात् । विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर् इति वचनात् । त्रयाणामुत्तर इति । त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां कामावचराणामुत्तरो धातुरारूप्यधातुरालम्बनं । तत्र रूपाद्यभावात् । ध्यानद्वये द्वादशेति । दौर्मनस्योपविचाराणां षण्णामभावात् । स्वोऽष्टालम्बनम् इति । अष्टानामालम्बनमष्टालम्बनं । गन्धरसोपविचारांश्चतुरो हित्वेति । सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ च द्वौ हित्वेत्यर्थः । तत्र तयोरभावात् । आरूप्या द्वयोर् इति । सौमनस्योपेक्षाधर्मोपविचारयोः प्रथमद्वितीयध्यानभूमिकयोरारूप्यधातुरालम्बनं । रूपाद्यभावात् । षडुपेक्षोपविचारा एव सन्ति नान्य इति । रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव सन्ति । सौमनस्योपविचाराणामपि तृतीये चतुर्थे चाभावात् । गन्धरसालम्बनौ तु तत्र कामावचरगन्धरसालम्बनावित्यवगन्तव्यं । तत्र चत्वारा इति । आकाशानंत्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थध्यानालम्बनत्वात् । तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात् । येषां तद्व्यवच्छिन्नालम्बनमस्तीति । येषामाचार्याणां मतेन तदाकाशानंत्यायतनसामंतकं [तिब् । ३०३ ] व्यवच्छिन्नालम्बनं पृथक्पृथग्रूपाद्यालम्बनमसमस्तालम्बनमित्यर्थः । औदारिकादिभिराकारैस्तच्चतुर्थध्यानमालम्बत इति एकेषामाचार्याणां मतम् । येषामाचार्याणां मतेन परिपिण्डितालम्बनमेव तदाकाशानंत्यायतनसामन्तकं चतुर्थध्यानभूमिकस्कन्धपंचकालम्बनमिति मतं । तेषामाचार्याणां । तत्रैक एव (अभिधर्मकोषव्याख्या ३१३) संमिश्रालम्बनो धर्मोपविचार इति । एक ऊर्ध्वग इति । केषां पक्षे । येषां चत्वारोऽरूपिसामन्त इति पक्षः । न हि मौलानामिति विस्तरः । मौलानामारूप्याणामधरो धातुर्नालम्बनमधरभूमिकं सास्रवं वस्तु नालम्बनमित्यर्थः । पश्चात्प्रवेदयिष्यामीति । न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इति । (इइइ ।३५ ) प्रथमेति विस्तरः । प्रथमद्वितीयध्यानभूमिकैरष्टाभिः समन्वागतः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः । कतमैरित्याह । क्लिष्टैः । गन्धरसालंबनान् पर्युदस्य । तत्र गन्धरसाभावात् । कथं । प्रथमद्वितीययोर्ध्यानयोर्द्वादशोपविचाराः सन्तीत्युक्तं । सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात् । तत्र स्वभूम्यालम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश्चत्वारः क्लिष्टाः । ये चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः । तैः कामधातूपपन्नो रूपावचरकुशललाभी [तिब् । ३०३]ब्समन्वागतः । अधरभूम्युपपन्नो ह्यूर्ध्वभूमिकैः क्लिष्टैः समन्वागतो भवति । न तु विशिष्टैश्चतुर्भिर्गन्धरसालम्बनैः । तेषामक्लिष्टत्वात् । रूपावचरकुशलालाभित्वात् । च । नास्त्यक्लिष्टरूपावचरधर्मलाभ इति । न तैः समन्वागतः । तृतीयचतुर्थध्यानभूमिका अपि षडेवोपेक्षोपविचारा उक्ताः । तेषां ये स्वभूम्यालम्बनाः क्लिष्टाः । तैः समन्वागतस्तथा । यौ तु गंधरसालम्बनौ । न तौ क्लिष्टौ । अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वागतः । क्लिष्टेनैवेति । नाक्लिष्टेन कुशलस्याभावात् । लाभी रूपावचरस्येति विस्तरः । कामधातूपपन्न एव लाभी रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः कामावचरैरष्टादशभिरपि समन्वागतः । प्रथमध्यानभूमिकैर्दशभिरिति । कथं दशभिरित्याह । सौमनस्योपविचारैः क्लिष्टैर्गंधरसालम्बनावपास्येति । सौमनस्योपविचाराः सामंतकेषु न भवंति । सामन्तकानामुपेक्षेन्द्रियसंप्रयोगित्वात् । अतो मौलसंगृहीतैरेव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश्चतुर्भिः । समन्वागतः । न तु गन्धरसालम्बनाभ्यां । मौलकुशलालाभेनाक्लिष्टलाभाभावात् । न हि क्लिष्टं ध्यानमधरालम्बनमस्ति । षड्भिरुपेक्षोपविचारैरनागम्यभूमिकैरिति । अत्राविशेषाभिधानादुपेक्षोपविचारैः [तिब् । ३०४ ] क्लिष्टैरपि चतुर्भिः समन्वागतः सामन्तकसंगृहीतैः । षड्भिश्चोपेक्षोपविचारैः कुशलैः (अभिधर्मकोषव्याख्या ३१४) कामधात्वालम्बनैः स्वभूम्यालम्बनैरपि । द्वितीयतृतीयचतुर्थध्यानारूप्यजैः पूर्ववदिति । कथं । स एव कामधातावुपपन्नो लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैरष्टाभिः । यैरेव । अलाभी गन्धरसालम्बनानपास्य । त्र्तीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैरेव । गन्धरसालम्बनौ पर्युदस्य । आरूप्यावचरेणैकेन क्लिष्टेनैव । अनया वर्तन्या मार्गेण शेषमनुगन्तव्यं । कथं । प्रथमध्यानोपपन्नो द्वितीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वैः समन्वागतः । द्वितीयध्यानभूमिकैः क्लिष्टैरष्टाभिः । तृतीयचतुर्थध्यानारूप्यजैः पूर्ववत् । लाभी द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैः प्रथमध्यानभूमिकैः । द्वितीयध्यानभूमिकैऋ अष्टाभिः । चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः । गन्धरसालम्ब्नावपास्य । चतुर्भिश्चोपेक्षोपविचारैर्द्वितीयध्यानसामन्तकसंगृहीतैः । तृतीयध्यानभूमिकैस्चतुर्भिः क्लिष्टैः । गन्धरसालम्बनौ पर्युदस्य । एवं चतुर्थध्यानभूमिकैः । आरूप्यावचरेणैकेन क्लिष्टेनैव । द्वितीयध्यानोपपन्नस्तृतीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी [तिब् । ३०४ ] द्वितीयध्यानभूमिकैः सर्वैः समन्वागतः । तृतीयध्यानभूमिकैश्चतुर्भिः क्लिष्टैः । चतुर्थध्यानारूप्यजैः पूर्ववत् । लाभी तृतीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैर्द्वितीयध्यानभूमिकैः । तृतीयध्यानभूमिकैश्चतुर्भिरुपेक्षोपविचारैः क्लिष्टैर्गन्धरसालम्बनावपास्य । चतुर्भिश्चोपेक्षोपविचारैस्तृतीयध्यानसामन्तकसंगृहीतैः । चतुर्थध्यानारूप्यजैः पूर्ववत् । एषा दिक् । अनया दिशा तृतीयादिष्वपि ध्यानेषूपपन्नस्य स्वभूम्यूर्ध्वभूमिकैरुपेक्षोपविचारैरेव क्लिष्टैः कुशलैश्च समन्वागमो यथासंभवं योज्यः । उपेक्षाधर्मोपविचारेनेति । कामावचरस्य निर्माणचित्तस्योपेक्षासंप्रयोगित्वात् । अपर आहेति । अयमेव शास्त्रकारः । न हि यो यस्मादिति विस्तरः । यः पुद्गलः यस्माद्रूपादेर्वीतरागः । न स तद्रूपाद्यालम्बनमुपविचरति । कथमुपविचरति । तत्रानुनीयते वा । प्रतिहन्यते वा । अप्रतिसंख्याय वोपेक्षत इत्येवं । यदाप्रतिसंख्यायोपेक्षते नाभुजति । तदाऽकुशलत्वम् । अतोऽप्रतिसंख्यायेति विशेषणम् । अतः सास्रवा अपि न सर्वे । किं तर्हि । सांक्लेशिकाः । संक्लेशे भवाः सांक्लेशिकाः । संक्लेशानुकूलाः । यैः सौमनस्यादिभिर्मनो विषयानुपविचरति । येषां प्रतिपक्षेण षट्सातता विहारा इति । येषां सांक्लेशिकानां प्रतिव्यूहेन । सततंभवाः सातताः । विहारा योगविशेषा भवंति । ते च षट् । कथमित्याह । चक्षुषा रूपाणि दृष्ट्वा नैव सुमना [तिब् । ३०५ ] भवति । नानुनीयते । न दुर्मना न प्रतिहन्यते । उपेक्षको भवति (अभिधर्मकोषव्याख्या ३१५) नाभुजति । कथं नाभुजति । किमप्रतिसंख्यायाहो स्वित्प्रतिसंख्यायेति । विशेषयन्नाह । स्मृतिमान् संप्रजानन्निति । स्मृतिसंप्रयुक्तया प्रज्ञया प्रतिसमीक्षमाण इत्यर्थः । एवं यावन्मनसा धर्मान् विज्ञायेति । विषयषट्कभेदात्षट्सातता इति । न ह्यर्हत इति विस्तरः । अर्हतो लौकिकं कुशलं सास्रवं धर्मालम्बनं धर्मायतनालम्बनमधिगमधर्मालंबनं वा सौमनस्यमस्ति । तस्य हि बुद्धसांतानिकां गुणान् संमुखीकुर्वतः कुशलं सौमनस्यमुत्पद्यते । न तस्यैष प्रतिषेधो युज्यते । कस्य तर्हि । यत्तु तत्सांक्लेशिकं मनस उपविचारभूतं । तस्यैष प्रतिषेधो लक्ष्यते । तस्मात्सास्रवा अपि न सर्वे सौमनस्यादय उपविचारा इति । अत्र भदन्तानंतवर्मा आह । अयुक्तमेतत् । कस्मात् । सूत्रेऽन्यथानिर्देशात् । सूत्रे हि भगवता न सांक्लेशिका एवोपविचारा उक्ताः । एवं ह्याह । तत्र भिक्षवो य इमे षट्सौमनस्योपविचाराः । तानाश्रित्य तान् प्रतिष्ठाय । य इमे षट्सौमनस्योपविचाराः । तान् प्रजहीत । तत्र भिक्षवो य इमे षडुपेक्षोपविचाराः । तानाश्रित्य तान् प्रतिष्ठाय । य इमे षडुपेक्षोपविचाराः । तान् प्रजहीत । द्वे भिक्षवो उपेक्षे । नानात्वसंनिश्रिता एकत्वसंनिश्रिता च । तत्र भिक्षवो येयमेकत्वसंनिश्रिता उपेक्षा । तामाश्रित्य तामधिष्ठाय । येयं नानात्वसंनिश्रिता उपेक्षा । तां [तिब् । ३०५ ] प्रजहीतेति । एतस्मात्सूत्राज्ज्ञायते । न सांक्लेशिका एव सौमनस्यादय उपविचारा इति । तदेतदज्ञापकं । प्रहाणवचनेऽपि सांक्लेशिकत्वविनिवृत्तेः । न हीतरेणेतरस्य संनिश्रयप्रहाणवचनेऽपि सत्येषां मनोपविचाराणां सांक्लेशिकत्वं विनिवर्तते । अन्यथासंभवात् । एवमाह । मानं निश्रित्य मान एव प्रहातव्य इति । न तु जातु क्वचिन्मानो व्यवदानिकः संभवति । तस्मात्क्लेशानां परस्परविरोधेन वृत्तेर्वृत्त्यन्तरस्य चापेक्षया गुणवत्त्वात् । गुरुलाघवमभिसंधाय सूत्रे वचनाददोषः । नन्दादयोऽत्र निदर्शनं । अतश्चैतदेवं । यदुपेक्षोपविचाराणामुपेक्षोपविचारानेव प्रहाणाय संनिश्रयत्वेन दिदेश भगवान् । द्वे भिक्षव उपेक्षे इत्यादिवचनात् । ननु च गर्धाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच्छास्तृपदानीति वचनात्सिद्धमेषां सांक्लेशिकव्यवदानिकत्वं वैभाषिकमतानुसारात् । अदोषः । आचार्यस्यापि मनोपविचारव्यतिरिक्तास्तत्र सौमनस्यादयस्संति । पुनस्त एवेति विस्तरः । त एवाष्टादशोपविचाराः केचिद्भवाश्रिता अधिष्वंगाश्रिताः । केचिन्नैष्क्रम्याश्रिताः । नैष्क्रम्यं निष्क्रमभावः संक्लेशात्संसारदुःखाद्वा । गर्धनैष्क्रम्याश्रितभेदेन । द्वावष्टादशकौ षट्त्रिंषच्छास्तृपदानि । तद्भेदस्य तेषां मनोपविचारानां द्विधाभेदस्य (अभिधर्मकोषव्याख्या ३१६) शास्त्रा बुद्धेन गमितत्वाद्देशितत्वाद्यथासूत्रं । [तिब् । ३०६ ] (३६, ३७) क्लेशकर्मवस्तूनीति प्रज्ञापितमिति । क्लेशास्त्रीणि द्वयं कर्म सप्त वस्त्व् इति वचनात् । एवं कर्माणि विपाकोत्पत्ताविति । आसन्नं कारणमित्यधिकृतं । क्लेशोऽपि हि कारणं विपाकस्य । तत्तु विप्रकृष्टं । (इइइ ।३८) ते च व्याख्याता इति । मृत्यूपपत्तिभवयोरन्तराभवतीह यः । स पुनर्मरणात्पूर्वमुपपत्तिक्षणात्पर इति । वचनात्व्याख्याताः । न पर्यवस्थानैः स्वतंत्रैरिति । ईर्ष्यामात्सर्यक्रोधम्रक्षैः । स्वातन्त्र्यमेषाम् । अविद्यानिर्मुक्तैरन्यक्लेशैरसंप्रयोगात् । अविद्या हि सर्वत्रैव विद्यत इति । न तत्संप्रयोगेनास्वातन्त्र्यं । आह्रीक्यादिभिस्त्वन्यक्लेशसंप्रयुक्तैः प्रतिसंधिबंधो न प्रतिषिध्यते । यद्यपि सावस्था मन्दिकेति विस्तरः । यद्यपि सा मरणावस्था चित्तचैत्तसमुदाचारस्यापटुत्वात् । उपेक्षायां च्युतोद्भवाव् इति वेदनामान्द्यात् । यस्तु पुद्गलो यत्र क्लेशेऽभीक्ष्णं सततं चरितः प्रवृत्तः आसन्नश्च मरणकालस्य पुद्गलस्य । तदानीं मरणकाले स एव क्लेशः समुदाचरति समुत्थाय मिथ्याड्र्ष्ट्यादिरपि । पूर्वावेधात्पूर्वाक्षेपात् । पूर्वाभ्यासादित्यर्थः । अथ वा योऽसौ तदानीं क्लेश उपतिष्ठते । तस्य पूर्वं फलभावेन परिग्रहावेधाताक्षेपात् । स तदानीमुपतिष्ठत इति । कामरूपधात्वोर्[तिब् । ३०६ ] अपरिसंख्यानात् । सर्व एव चत्वारो भवाः सन्तीति । त्रय एवारूप्येषु आरूप्येष्वेव च त्रय इति अवधारणात् । अनयोरितरयोर्धात्वोर्भवचतुष्टयं तु ज्ञातं भवति । (इइइ ।३९-४१) निष्यन्दाभावादिति । मूत्रपुरीषाभावादित्यर्थः । सूक्ष्माणां वा सूक्ष्मा इति । सूक्ष्माणां स सूक्ष्म आहारः । बालका जातमात्राः । स्वेदजन्तुकादयो यूकादयः । आदिशब्देन गर्भस्थाः । कवडीकाराहाराः काम इति । कामधातावेव कवडीकाराहार इत्यवधारणं । कस्मादित्याह । तद्वीतरागाणां कवडीकाराहारवीतरागाणां तत्र रूपारूप्यधात्वोरुपपत्तेः । कवडीकृट्याभ्यवहरणात्पिण्डीकृत्य गिलनात्कवडीकारः । कवडीकृत्याभ्यवहरणं पुनर्मुखेन नासिकया ग्रासव्यवच्छेदादिति गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार इत्युक्ते पृच्छति छायातपज्वालाप्रभासु (अभिधर्मकोषव्याख्या ३१७) तेषां गन्धादीनां कथमाहारत्वं । न हि तत्रत्यानां गंधादीनां कवडीकृत्याभ्यवहरणमस्तीति । बाहुल्येन किल एष निर्देश इति । न तत्रत्यानां गन्धादीनां कवडीकारत्वमिति प्रतिपद्यते । बाहुलिकस्तु निर्देशः कामे त्र्यायतनात्मक इति । किलशब्दः परमतेन स्वाभिप्रायोऽधिक्रियते । यान्यपि त्विति विस्तरः । यान्यपि तु नाभ्यवह्रियंते छायादिषु स्थितिं चाहरंति यापनां चाहरंती । तान्यपि सूक्ष्म आहारः । स्नानाभ्यंगवत् । यथा स्नानं चाभ्यंगश्च न कवडीकृत्याभ्यवह्रियते । आहारश्च । तद्वदिति । स्वाक्षमुक्ताननुग्रहाद्[तिब् । ३०७ ] इति । स्वाक्षस्य स्वेन्द्रियस्य तेनाननुग्रहात् । मुक्तानां च । कामधातोरनागाम्यर्हतामननुग्रहात् । न रूपायतनमाहारः । रूपायतनं चाभ्यवहारकाल इति । यस्मिन् काले अन्तर्मुखप्रविष्ट आहारो भुज्यते चक्षुर्विषयातीतः । तस्मिं काले स्वमिन्द्रियं चक्षुरिन्द्रियं तन्महाभूतानि च तस्येन्द्रियस्य । यानि महाभूतानि आश्रयः । तानि नानुगृह्णाति तद्रूपायतनं । कुत एवान्यानीन्द्रियाणि श्रोत्रादीन्यनुग्रहीष्यति । अविषयत्वात् । अविषयो हि श्रोत्रादीनां रूपायतनं । दृश्यमानं तर्हि भोजनकालेऽनुग्रहीष्यतीत्यत आह । यदापि च दृश्यमान इति विस्तरः । अथ कथमिदं गम्यते । तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो न रूपमिति । अत आह । मुक्तानामिति विस्तरः । यदि तद्दृष्यमानमाहारकृत्यं कुर्यात् । मुक्तानामनागाम्यर्हतां कवडीकाराहारवीतरागाणां सुमनोज्ञमप्याहारं पश्यतामनुग्रहं कुर्यात् । यथा गन्धरसस्प्रष्टव्यायतनानि इन्द्रियमहाभूतानामनुग्रहं कुर्वन्त्यभ्यवहारकाले । तस्मात्तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवतीति सिद्धं । स्पर्शसंचेतनाविज्ञा इति विज्ञेत्यादन्तमेतत् । प्रज्ञेति यथा । विज्ञानमित्यर्थः । कवडीकाराहारस्त्र्यायतनात्मकत्वात्सास्रव इति सिद्धः । त्रयस्तु स्पर्शादयः सास्रवा अनास्रवाश्च संभवन्तीति अतस्त एव विशेषिताः सास्रवा इति । न चैवमनास्रवा धर्मा इति । न चैवं ते भूतानां स्थितये यापनायै [तिब् । ३०७ ] सम्भवैषिणां चानुग्रहायेति । मनोनिर्जातत्वादिति । निर्वृत्तेरिति न तूपपत्तेः । मन इत्यवधारणं । अत एव ब्रवीति । शुक्लशोणितादिकं किंचिद्बाह्यमनुपादाय भावादिति । आदिशब्देन कर्दमपुष्पादीनां ग्रहणं । (अभिधर्मकोषव्याख्या ३१८) उपपत्त्यभिमुखत्वातभिनिर्वृत्तिरिति । उपपत्त्यभिमुखी निर्वृत्तिर्जन्मास्येति अभिनिर्वृत्तिः । सव्याबाधमिति सदुःखं । सव्याबाधमभिनिर्वर्त्येति । इदमत्र ज्ञापकं । अन्तराभवोऽभिनिर्वृत्तिरिति । तथास्ति पुद्गल इति विस्तरः । अस्मात्सूत्राच्चतुष्कोटिकादभिनिर्वृत्तिरन्तराभव इति । अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं । अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनं । अस्ति यस्याभिनिर्वृत्तिसंयोजनं च प्रहीणमुपपत्तिसंयोजनं च । अस्ति यस्य नैवाभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं । द्विधातुवीतरागस्येति । कामरूपधातुवीतरागस्येति । अनागामिन इति विशेषणं । पृथग्जनानामन्तराभवसंयोजनस्यात्यन्ताप्रहाणात् । तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमिति वचनात् । तस्य च पुनर्भावित्वात् । तत्र प्रथमा कोटिर्द्विधातुवीतरागस्यानागामिनः । द्वितीयान्तरापरिनिर्वायिणः । तृतीयार्हतः । चतुर्थी तदन्येषामस्मदादेः । [तिब् । ३०८ ] पृथग्जनस्य आर्यस्य चावीतरागस्य कामधातुवीतरागस्य रूपधातावुपपद्यमानस्य चेति । भूता वार्हन्त इति । पूर्वमेवोक्तः पर्यायः । भूता उत्पन्नाः संभवैषिणोऽन्तराभविका इति । इदानीमयमपरः पर्यायः । भूता अर्हन्तस्त्रैधातुकवीतरागत्वात् । संभवैषिणः सतृष्णाः । त्रैधातुके संभवैषित्वात् । स्थितय इति । अवस्थापनाय । अनुग्रहायेति । पुनर्भवाय संभवायेत्यर्थः । सर्वेऽप्युभयथेति । सर्वेऽपि चत्वार आहाराः । भूतानां सत्त्वानां स्थितयेऽनुग्रहाय च । तथा संभवैषिणामिति । युक्तं तावन्मनःसंचेतना कर्मस्वभावत्वात् । तत्प्रभावितं च विज्ञानं बीजं । स्पर्शोऽपि तत्संप्रयुक्तो भवत्यनुग्रहायेति । कवडीकारस्तु कथं संभवैषिनामनुग्रहायेति । अत उच्यते । कवडीकारोऽपि हीति विस्तरः । तद्रागिणामिति । कवडीकाररागिणां । पुनर्भवाय संवर्तत इति अस्य ज्ञापनार्थमिदं सूत्रपदमुपन्यस्यते । उक्तं हि भगवतेति विस्तरः । तत्र रोगादिभिः पंच उपादानस्कंधा उक्ताः । तस्य रोगस्य चत्वार आहारा मूलं । मूलं च हेतुरिति अनेन कवडीकारोऽपि तद्रागिणां पुनर्भवाय संवर्तत इति सिद्धं । अन्ये पुनर्जरामरणस्य प्रत्यय इत्येतदेवोदाहरणं ब्रुवते । अस्माज्जन्मनः परेण जरामरणं व्यवस्थापितमित्यभिप्रायः । कवडीकारोऽपि भूतानां सत्त्वानामिहस्थितय इति युक्तं प्रत्यक्षत्वात् । [तिब् । ३०८ ] तथा सुखवेदनीयः स्पर्शो विज्ञानं चानुग्राहकमित्युक्तं । अथ मनःसंचेतना कथमिति । अत इदमुच्यते । मनःसंचेतनापि चेति विस्तरः । अत एव मनःसंचेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः । तत्संप्रयोगित्वात् । प्रद्रुता इति प्रसृताः । संगीतिपर्याय इत्यभिधर्मशास्त्रे । (अभिधर्मकोषव्याख्या ३१९) तेषां पुष्टये स्पर्श इति । सुखवेदनीयेनानुग्रहात् । यः कश्चिद्वेदनास्कंधः संज्ञास्कंधः । सर्वः स स्पर्शं प्रतीत्येति वचनात् । मनःसंचेतनायाः पुनर्भवस्याक्षेप इति । तस्याः कर्मस्वभावत्वात् । कथं च पुनस्तया पुनर्भव आक्षिप्यते । तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात् । कर्मपरिभाविताद्विज्ञानबीजादभिनिर्वृत्तिरिति । बीजादिवांकुरस्य पुनर्भवस्योत्पाद इत्यर्थः । यः कवडीकारः स आहार इति प्रश्ने आह । स्यात्कवडीकारो नाहारः । स्यादाहारो न कवडीकारः । स्यादुभयं । स्यान्नोभयमिति चतुष्कोटिकं । द्वितीया कोटिस्त्रय आहारा इति । मनःसंचेतनास्पर्शविज्ञानानि । चतुर्थी एतानाकारान् स्थापयित्वेति । शब्दो दुःखवेदनासंप्रयुक्ताश्च सर्वे चित्तचैत्ताः । एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्तव्यानीति । यः कश्चित्स्पर्शः । सर्वः स आहारः । स्यात्स्पर्शो नाहार इति चतुष्कोटिकं । एवं या काचिन्मनःसंचेतना । सर्वा सा आहारः । स्यात्मनःसंचेतना नाहार इति चतुष्कोटिकं । तथा [तिब् । ३०९ ] यत्किंचिद्विज्ञानं । सर्वं तदाहारः । स्याद्विज्ञानं नाहार इति चतुष्कोटिकम् । स्पर्शस्य तावत्प्रथमा कोटिः । यं स्पर्शं प्रतीत्येन्द्रियाणामपचयो भवति । महाभूतानां च परिभेदः । द्वितीया त्रय आहाराः । तृतीया यं स्पर्शं प्रतीत्य इन्द्रियाणामुपचयो भवति । महाभूतानां च वृद्धिः । चतुर्थी एतानाकारान् स्थापयित्वेति । एवं यावद्विज्ञानं चतुष्कोटिकं । प्रथमा कोटिः यद्विज्ञानं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां परिभेदः । द्वितीया कोटिस्त्रय आहाराः विज्ञानवर्ज्याः । तृतीया यद्विज्ञानं प्रतीत्य इन्द्रियाणामुपचयो भवति । महाभूतानां च वृद्धिः । चतुर्थ्येतानकारान् स्थापयित्वा । स्यात्स्पर्शादीन् प्रतीत्येति विस्तरेण अपरः प्रश्नः । स्पर्शादीनिति स्पर्शचेतनाविज्ञानधर्मानिति एवं नेतव्यं । एवं च ग्रन्थः कर्तव्यः । स्यात्स्पर्शादीन् प्रतीत्येन्द्रीयाणामुपचयो भवति । महाभूतानां च वृद्धिः । न च ते आहाराः । स्यात् । अन्यभूमिकाननास्रवांश्च । प्रतीत्येत्यभिसंबंधात्द्वितीयाप्रयोगः । योऽपि परिभुक्त इति विस्तरः । केन संबन्धेनेदमुक्तं । अन्यभूमिकाननास्रवांश्च प्रतीत्यानाहार इत्युक्तेऽर्थादेतदुक्तं भवति । स्वभूमिकान् सास्रवां प्रतीत्य आहार इति । यं चेह परिभुक्त इति । कवडीकारो भोक्तुर्बाधामादधाति । स किमाहारः । सोऽप्याहारः । आपाते भोजनवेलायामनुग्रहात् । सर्वासु सर्वः । एवं योनिष्विति । कामधातौ [तिब् । ३०९ ] पंचानां गतीनां चतसृणां च योनीनां सद्भावात् । चतुःकोटिकं बाध्यते । प्रकरणग्रन्थश्चेति । प्रथमे चतुष्कोटिके येयं तृतीया कोटिः । यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति । महाभूतानां च वृद्धिरिति अस्या बाधाच्चतुष्कोटिकं बाध्यते । न केवलमुपचयकरः । किं तर्हि । अपचयकरोऽपि कवडीकाराहार (अभिधर्मकोषव्याख्या ३२०) इति । प्रकरणग्रन्थश्च किं बाध्यते । कीदृशः प्रकरणग्रन्थ इति । तद्दर्शयन्नाह । कवडीइकाराहारः कतमः यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति विस्तरेण यावद्विज्ञानमिति । उपचयाहाराभिसंधिवचनादविरोध इति । उपचयाहाराभिप्रायेण चतुष्कोटिकवचनं प्रकरणग्रन्थवचनं च । तस्मात् । तयोरविरोधः । यो ह्युपचयाय । स मुख्यः । आहारलक्षणप्राप्तत्वादिति । कवडीकाराहारलक्षणप्राप्तत्वात् । कथमित्याह । सोऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति । प्रदीप्तायसगुडलक्षण आहारो जिघत्साप्रतिघाते समर्थः । क्वथितताम्रलक्षणः पिपासाप्रतिघाते इति योज्यं । कवडीकाराहारप्रसंगेनेदमुच्यते । उक्तं भगवता यश्च बाह्यकानामिति विस्तरः । जंबुद्वीपो जम्बुषण्डः । तथा ह्युक्तं भगवता । याः काश्चिज्जम्बुषण्डात्स्रवंत्यः । सर्वाः समुद्रनिम्नाः समुद्रप्रवणाः समुद्रप्राग्भारा इति । तन्निवासिनो जम्बुषण्डगताः । कुक्षिमन्तो भोजनशक्त्युपेता अकललाद्यवस्था इत्यभिप्रायः । तदेतदयुक्तम् । एकमिति वचनादिति । यदि जंबूद्वीपनिवासिनः कुक्षिमन्तो जंबुषण्डगता [तिब् । ३१० ] इश्येरन् । यश्च जम्बुषण्डगतान् पृथग्जनानिति वक्तव्यं स्यात् । उक्तं च यश्चैकं जंबुषण्डगतमिति । तस्मादयमर्थो न घटते । कश्चात्र विशेष इति । किमत्राश्चर्यं यद्बहूं भोजयित्वा बहु पुण्यं स्यात् । न त्वल्पीयसः शतमात्रान् वीतरागानित्यर्थः । संनिकृष्तो बोधिसत्त्व इति । आसन्नाभिसम्बोधिः । बोधिसत्त्वः कुतो यावत् । यतो लक्षणकर्मकृद् इत्यभिप्रायः । न त्वियमन्वर्था संज्ञेति । नार्थानुगता । नार्थवाचकं पदमित्यर्थः । नापि परिभाषिता अर्थमनपेक्ष्य । बोधिसत्त्व एव त्वेष जंबुषण्डगत इति । कृषिग्रामकं व्यवलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जंबूवृक्षमूले निषण्णः प्रथमं ध्यानमुत्पादितवान् । अत आह । स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति । स चापि हि बोधिसत्त्वः पृथग्जनः कामवीतरागश्च । बाह्यकाश्च तथैव कामवीतरागाः पृथग्जनाश्च । अनेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतरेण दानफलेन विशिष्यमाण इत्येवमुक्तः । स तेभ्यो बाह्यकेभ्योऽनन्तेभ्यो विशिष्यमाणो बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा इति वचनात् । शतग्रहणं तु पूर्वाधिकारादिति । तत्रैव सूत्रे शताधिकारोऽधिकृतः । यश्च तिर्यग्योनिगतानां शताय दानं दद्यात् । यश्चैकस्मै दुःशीलाय मनुष्यभूताय [तिब् । ३१० ] दानं दद्यात् । ततः शतगुणो विपाकः (अभिधर्मकोषव्याख्या ३२१) प्रतिकांक्षितव्यः । यावद्यश्च बाह्यकानामिति विस्तरः । इत्थं चैतदेवमिति । इत्थं चैतदेवं बोधिसत्त्व एव त्वेष जम्बुषण्डे निषण्णो युज्यत इति । यदेनं बोधिसत्त्वमपास्य । बाह्यकेभ्य एव स्रोतआपत्तिफलप्रतिपन्नकं विशेषयां बभूवेति । बाह्यकेभ्यो वीतरागेभ्यः स्रोतआपत्तिफलप्रतिपन्नकाय दानमप्रमेयतरं । स्रोतआपन्नाय ततोऽप्रमेयतरं । सकृदागामिफलप्रतिपन्नकायेति विस्तरः । यदि निर्वेधभागी जंबुषण्डगतोऽभविष्यत् । जंबुषण्डगतादेव व्यशेषयिष्यत् । कथं । यश्च जंबुषण्डगतानां शतं भोजयेत् । यश्चैकं स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकं । अतो दानादिदं महाफलतरमिति । न त्वेवं । स्रोतआपत्तिफलप्रतिपन्नकादिभ्यो विशिष्टतरत्वादतो बोधिसत्त्व एव त्वेष जंबुषण्डगतो युज्यते । (इइइ ।४२-४४ ब्) आयुःक्षयादिभिरिति । अस्त्यायुःक्षयान्मरणं न पुण्यक्षयात् । अस्ति पुण्यक्षयान्नायुःक्षयादित्यादि । छेदसंधानवैराग्य इति विस्तरः । कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या । सा च मानस्येव । संतीरकत्वात् । कुशलमूलप्रतिसंधानं सम्यग्दृष्ट्या विचिकित्सया वा । ते च मानस्यौ । धातुभूमिवैराग्यं धातुतो भूमितो वा [तिब् । ३११ ] वैराग्यं मनोविज्ञान एव । समाहित एव चित्ते लभ्यत्वात् । परिहाणिरयोनिशोमनसिकारप्रवर्तिता । मनोविज्ञानेन चायोनिशोमनसिकारो विकल्प इति । च्युतिः संक्षिप्तपंचेन्द्रियप्रचारस्य प्रवाहच्छेदानुकूले विज्ञाने भवति । उपपत्तिरपि विपर्यस्तमतेर्भवतीति मनोविज्ञान एव युज्यते । अन्तराभवप्रतिसंधिरप्युक्तरूप इति । प्रतिसंधिसामान्यादनुक्तोऽप्युक्तकल्प इति नोच्यत इत्यभिप्रायः । च्युतिरेव च्युतं । एकार्थतां दर्शयति । भावे क्तोत्पन्नत्वात् । इतरे हि वदने पट्व्याविति सुखदुःखे । विसभागभूमिकत्वादिति । समाहितं चित्तं समाहितभूमिकत्वात्विसभागं कामधातोः । अतश्च्युतिचित्तमुपपत्तिचित्तं वा न युज्यते । यदा तर्हि रूपधातावेव म्रियते उपपद्यते वा । तदा समाहितभूमिकं चित्तं तद्भविष्यतीत्यत आह । आभिसंस्कारिकत्वादिति । अभिसंस्कारो यत्नः । अभिसंस्कारेण निर्वृत्तमाभिसंस्कारिकं । तद्भावः । तस्मात् । न तदाभिसंस्कारिकं च्युतिचित्तमुपपत्तिचित्तं वा युज्यते । मरणावस्थाया अपटुत्वात् । अनुग्राहकत्वाच्च । यस्माच्च समाहितं चित्तमौउग्राहकं । न च्छेदानुकूलं । अतोऽपि समाहितचित्तस्य च्युतिर्नास्ति । नाप्यचित्तकस्येति विस्तरः । नाप्यचित्तकस्य । [तिब् । ३११ ] किं । च्युतिः । उपपत्तिर्वेति प्रकृतं । अचित्तको निरोधसमापत्तिसमापन्नो (अभिधर्मकोषव्याख्या ३२२)ऽसंज्ञिसमापत्तिसमापन्नः तद्विपाके वावस्थितः । सोऽचित्तक उपक्रन्तुं मारयितुं न शक्यते शस्त्रादिभिः । अतो नाचित्तकस्यास्ति च्युतिः । यदा चास्याश्रयो विपरिणन्तुमारभेतेति । शस्त्रेणाग्निना वोपक्रमान्निरोधसमापत्तिमसंज्ञिसमापत्तिं वा समापन्नस्य असंज्ञिसमापत्तेर्विपाके स्थितस्य विपाकावेधपरिसमाप्तेरवश्यमस्य तदानीमाश्रयप्रतिबद्धं चित्तमाश्रये बीजभावेनास्ति । तत्सम्मुखीभूय पश्चात्प्रच्यवेत । कः प्रच्यवेत । पुद्गलः । यदि पुद्गलोऽधिक्रियेत् । असमानकर्तृकत्वात्क्त्वाविधिर्न प्राप्नोति । चित्तं तर्हि प्रच्यवेत । अथ वैवमभिसंबन्धः । यदा चाश्रयो विपरिणंतुमन्यथात्वमापत्तुमारभेत । अवश्यमस्य पुद्गलस्य तदाश्रयप्रतिबद्धं बीजभावेनावस्थितं चित्तं सम्मुखीभूय समुदाचर्य परिणन्तुमारभेत । पश्चात्प्रच्यवेत पुद्गल इति । अथ वा संमुखीभूयेति संमुखीभाव्येत्यर्थे णिलोपात् । अस्ति पर्णरुहो वातो अस्ति पर्णशुषोऽपर इति यथा । उपपत्तौ चायुक्तमचित्तकत्वं । कस्मात् । चित्तच्छेदहेत्वभावात् । अवश्यं क्लिष्टतया प्रतिसंधिचित्तस्य निरोधसमापत्त्याद्यसंभवात् । विना च क्लेशेनानुपपत्तेः । सर्वक्लेशैर्हि तद्भूमिकैरुपपत्तिप्रतिसंधिबन्धो भवति । न च चित्तमन्तरेण क्लेशाः कदाचिदपि भवन्तीति । अतोऽपि नास्ति अचित्तकस्योपत्तिह् । मरणभवस्त्रिप्रकार इत्युक्तमिति । उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर् इति । उपपत्तिभव एव [तिब् । ३१२ ] क्लिष्ट इत्यवधारणात् । मरणपूर्वांतकालान्तराभवास्त्रिप्रकाराः कुशलाकुशलाव्याकृता उक्ताः । अथ वा निरोधयत्युपरमन्नारूप्ये जीवितं मनः उपेक्षां चेति विस्तरेण यावच् छुभो सर्वत्र पंच चेत्य् उक्तं । अतो मरणभवस्त्रिप्रकार इत्युत्सर्गः । अर्हंस्तु निर्वात्यव्याकृतद्वये इत्येवमपवादः । अस्ति चेत्कामधातौ विपाक उपेक्षेति । अधोऽपि मध्यमस्त्येके इति एकीयमतेन । नास्ति चेदिति । अतः परमदुःखासुखं वेद्यम् इत्यपरमतेन । ऐर्यापथिक एवेति । ऐर्यापथिकजातीयं तद्यत्र निर्वाति । (अभिधर्मकोषव्याख्या ३२३) विपाकजैर्यापथिकशैल्पस्थानिकनिर्मितं चतुर्धाव्याकृतं काम इति । न एतावदेवाव्याकृतमिष्यत इति व्याख्यातमेतत् । तद्धि चित्तच्छेदानुकूलमिति । अप्रतिसंधिकचित्तच्छेदानुकूलं । दुर्बलत्वात् । परमापटुत्वादित्यर्थः । सप्रतिसंधिकचित्तच्छेदे कुशलाकुशलमपि चित्तं संभवति । तेषां यथासंख्यमिति । पादयोरपायगामिनां विज्ञानं संनिरुध्यते । नाभ्यां मनुष्यगामिनां । हृदये देवगामिनां । अरूपित्वाददेशस्थं विज्ञानं कथं तेषु निरुध्यत इति । अत आह । कायेन्द्रियस्य तेषु निरोधादिति । तेषु पादादिषु कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानमिति । [तिब् । ३१२ ] तेषामपि हृदये विज्ञानं निरुध्यत इति । यथासंख्यनिर्देशादेवायमर्थो लभ्यते । कथं । हृदयं च हृदयं च हृदये । पादश्च नाभिश्च हृदये चेति पादनाभिहृदयानीति चत्वारोऽर्थाः । अधोगश्च नृगश्च सुरगश्च अजगश्चेत्येतोऽपि चत्वारोऽर्थाः । तेन यथासंख्यसिद्धिः । प्रायेणेति ग्रहणं देवादीनां सुखमृत्युत्वात् । न तु पुनस्तानि काष्ठानीव च्छिद्यन्ते । किं तर्हीति । तीव्राभिर्वेदनाभिश्छिद्यन्त इवेति । छिन्नवद्वा न पुनश्चेष्टन्त इति छिन्नानीत्युच्यंते इति । छिन्नांगप्रत्यंगवत्न पुनश्चेष्टंत इति छिन्नानीत्युच्यन्ते । सैषा काल्पनिकी छेदवृत्तिः । मर्मणां द्विधाभावकरणात् । अप्तेजोवायुनामन्यतमेनेत्युक्ते पृच्छति । कस्मात्न पृथिवीधातुनेति । अप्तेजोवायुधातुप्रधाना यथायोगमिति । यथासंभवमब्धातुप्रधानः श्लेष्मा । तेजोधातुप्रधानं पित्तं । वायुधातुप्रधानो वायुशेष इति । भाजनलोकसंव्रतनीसाधर्म्येणेत्यपर इति । तिस्रो भाजनसंवर्तन्यः तेजःसंवर्तनी अप्संवर्तनी वायुसंवर्तनी च । तासां च साधर्म्येण अप्तेजोवायुधातूनामन्यतमेनेति विस्तरेणोक्तमिति । (इइइ ।४४ द्) कथमाराद्याता । आत्यन्तिकविसंयोगप्राप्तिलाभात् । पृथग्जनानां त्वस्ति विसंयोगप्राप्तिलाभः । न त्वात्यंतिक इति ते न आराद्याता एवेति । ते हि मिथ्यात्वेऽपि नियता भवेयुरिति । यद्यानन्तर्याणि कुर्युरित्यर्थः । न च त इति विस्तरः । [तिब् । ३१३ ] न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः । यथा सप्तकृत्वःपरमादयः । आदिशब्देन कुलंकुलैकवीचिकादयो गृह्यन्ते । कालनियमश्चैषां पुद्गलनिर्देशे वक्ष्यते । नियतेभ्यो द्वयेभ्य एभ्योऽन्येऽनियताः । प्रत्ययापेक्षं हीति विस्तरः । यदि सम्यक्त्वे प्रत्ययं लभन्ते । सम्यक्त्वे नियताः । अथ मिथ्यात्वे । मिथ्यात्वे नियताः । अथोभयस्मिं न प्रत्ययं लभन्ते । अनुभयभाक्त्वेऽपि । (अभिधर्मकोषव्याख्या ३२४) (इइइ ।४५-४७) उक्तः सत्त्वलोकः अविद्यादिक्रमनिर्देशेन । उशंतीति इच्छन्तीत्यर्थः । लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलं लक्षषोडशकं वेधनभावन । परिणाहेनासंख्यमिति । समन्तपरिक्षेपेणासंख्यमित्यर्थः । कर्माधिपत्येन कर्मसामर्थ्येन । तत्र निदर्शनं । यथा भुक्तं पीतं चान्नं च यथासंख्येन नापक्वं पक्वाशयं पतति । पक्वमेव पक्वस्थानं गच्छतीत्यर्थः । कुसूलन्यायेन कोष्ठन्यायेन । समन्तात्प्राकारवदास्थितमित्यर्थः । पक्वक्षीरशरीभावयोगेन पक्वक्षीरशरीभावन्यायेन । यथा पक्वस्य क्षीरस्य शरी । स्त्रीलिंगनिर्देशः शर इत्यर्थः । अथ वा शरस्य भावः शरीभावः स्त्रीप्रयोगः । यथासौ शरो घनीभावेन भवति । एवं जलस्योपरिष्ठात्कांचनमयी भूमिरिति । शेषं त्रयो लक्षाः सहस्राणि च विंशतिरिति । विंशतिसहस्रोत्तराणामेकादशानां लक्षाणामष्टावपनीय एतावच्छेषं भवति । तिर्यक्त्रीणि सहस्राणीति । विस्तरः । चतुर्द्वीपकस्य एतत्परिमाणमुच्यते । न त्रिसाहस्रमहासाहस्रस्य । समानं ह्येतदुभयम् । एतदिति । जलकांचनमण्डलं । [तिब् । ३१३ ] समन्ततस्तु त्रिगुणम् इति । समन्तपरिक्षेपेण त्रिगुणमेतदुभयं । सर्वस्य परिमण्डलस्येयं स्थितिः । यदस्य तिर्यक्प्रमाणस्य त्रिगुणमेव समन्तपरिक्षिप्तस्य प्रमाणमिति । (४८-५१) तेन चतुर्द्वीपकश्चक्रीकृत इति । चक्रं कृतश्चक्रीकृतः । चक्राकारतां गमितः । अत एव चक्रवाड इत्युच्यते । शस्त्रकम् इति अयोमयोः । यथासंख्यं चतुर्षु पार्श्वेष्विति । उत्तरकुरुपार्श्वसुवर्णमयं पूर्वविदेहपार्श्वं रूप्यमयं । जंबूद्विपपार्श्वं वैडूर्य मयं । अवरगोदानीपार्श्वं स्फटिकमयं । नानाविधबीजगर्भाः । नानाप्रकारसामर्थ्ययुक्ताः । बहुविधप्रभावभिन्नैर्वायुभिरिति । तदुत्पादनेऽनेकप्रकारसामर्थ्यभिन्नैर्वायुभिरित्यर्थः । असमाधानेनेति । अयुगपद्भावेनेत्यर्थः । न हि यदा कार्यं । तदा कारणं तिष्ठति । न हि अवस्थितस्य द्रव्यस्येति । रूपरसाद्यात्मकस्य । धर्मान्तरनिवृत्ताविति । क्षीरनिवृत्तौ । धर्मान्तरप्रादुर्भाव इति । दधिजन्म । स एव धर्मी । नेति । रूपाद्यात्मकक्षीरादिधर्मेभ्योऽन्यो धर्म उत्पादव्ययेऽप्यनुत्पन्नोऽविनष्टः । परिणाम इति । क्षीरनिवृत्तौ दधिभावः । तदेव चेदमिति । क्षीरमेव दधि । न चेदं तथेति । न (अभिधर्मकोषव्याख्या ३२५) चेदं दधि क्षीरम् । तदेवेदमिति । यत्परिणामेनेत्युक्तं । न चेदं तथेति । तस्यैव द्रव्यस्यान्यथीभावमात्रं परिणाम इति वचनात् । अपूर्वैषा वाचो युक्तिरिति । स्ववचनविरुद्धेत्यभिप्रायः । पूर्वोत्तरयोर्हि क्षणयोरन्यथात्वमिष्यते । ययोश्चान्यथात्वं तयोरन्यत्वं दृष्टं । तद्यथा देवदत्तयज्ञदत्तयोः । तस्मात्कार्यकारणयोरन्यत्वेन भवितव्यं । सुवर्णादय इति । सुवर्णरूप्यमणिमृदादयः । षष्टियोजनशतसहस्रसमुच्छ्राय इति । षष्ट्यधिको योजनलक्ष उच्छ्राय इत्यर्थः । (५२, ५३) अष्टांगोपेतस्येति । शीतलाच्छलघुस्वादुमृदुनिःपूतिगंधिकं [तिब् । ३१४ ] पीतं न बाधते कुक्षिं न कण्ठं क्षिणोति तज्जलम् इति अष्टांगसंग्रहश्लोकः । पार्श्वतस्तु त्रिगुणो भवति युगंधरतीरेण गण्यमान इति । स आभ्यंतरः समुद्रो युगंधरपार्श्वेनायांतः संख्यायमानस्त्रिगुण इति कृत्वा । चत्वारिंशद्योजनसहस्राधिकलक्षद्वयमायामो भवति युगंधरपार्श्वे । अशीतिरेका तदुभयतश्चेतरयोर्दिशोस्तत्सीमानदीवैपुल्ययोगेन अपरे द्वे अशीतीति तिस्रोऽशीतयः । चत्वारिंशदधिकं लक्षद्वयं भवतीति । लक्षत्रयं सहस्राणि विंशतिर्द्वे चेति । निमिन्धरगिरिचक्रवाडयोरंतरे एकस्यां दिशि बाह्यस्य समुद्रस्य तत्परिमाणमुक्तं । अत्र सहस्रमेकं द्वे शते चान्ये अर्धाष्टाशीतिरेवेति वक्तव्यं । न्यूनत्वात् । एवमपरस्यां दिशि वक्तव्यम् । एवं द्वयोः सहस्रयोः पंचसु शतेषु पंचसप्ततौ च योजनानां प्रक्षिप्तेषु स आधारः पूरितो भवति । य उक्तः तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयं लक्षद्वादशकं चैव जलकांचनमण्डलम् इति । अनया चतुर्द्वीपसंख्यया यथाविन्यासमतिरिच्यमानत्वात् । तदिदं परिह्रियते । नैष दोषः । चक्रवाडबहिर्जलकांचनमण्डलस्य एतावतातिरिच्यमानत्वात् । न तर्हि चतुर्द्वीपकः तेन चक्रवाडेन चक्रीकृतः । उपरिभूमिरनेन चक्रीकृता । न जलमण्डलमित्यवगन्तव्यं । अपर आह । न सुमेर्वादयः पर्वता अत्यन्तच्छिन्नतटीसमुच्छ्रायघना भवंति । किं तर्हि । पर्वताकारन्यायेन किंचिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात् । समोच्छ्रायघनाश्च त इत्युक्त्वा । अतस्[तिब् । ३१४ ] तैस्तैः किंचिदतिरिच्यमानैरधोभागैस्तदाधेयं (अभिधर्मकोषव्याख्या ३२६) सुमेर्वादिकमाधारं जलकांचनमण्डलात्मकं व्याप्नोतीत्यविरोध एष इति । (इइइ ।५४-५७) अन्य इति विस्तरः । न बोधिसत्त्वाश्रयादन्य आश्रयो वज्रासनप्रदेशाद्वान्यः प्रदेशस्तं वज्रोपमं समाधिं सोढुं समर्थ इति । यश्च द्वीपो यदाकृतिरिति । प्रत्यक्षमेतत् । भूमिवशात्सत्त्वानां वैचित्र्यं । हिमवद्विन्ध्यवासिनां किरातशबराणां गौरश्यामते दृश्यते । देहा विदेहाः कुरव इति । स्थानिनां बहुत्वात्स्थानस्यापि बहुवचननिर्देशः । एको राक्षसैरिति । चामरावरचामरयोरन्यतरः । (इइइ ।५८) कीटाद्रिनवकाद् इति । कीटाकृतीनां पर्वतानां नवकात् । तदधिकारेणायं जंबूद्वीप इति । जंबूवृक्षाधिकारेण । जम्बुवृक्षचिह्नो द्वीपो जम्बुद्वीपः । फलाधिकारेण वेति । जंब्वा वा । लुप्चेति फलमपि जम्बूः । तत्फलचिह्नो जम्बूद्वीप इत्यर्थः । (इइइ ।५९, ६०) चतुस्कन्धा इति । चतुःप्राकारा इत्यर्थः । चतुःसंनिवेशा इत्यपरे । अयःप्राकारपर्यन्ता इति । अयःप्राकारपरिक्षिप्ता इत्यर्थः । अयसा प्रतिवर्जिता इति । अयसोपरिष्ठाच्छादिताः । अयसापिथितद्वारा इत्यपरे । स्फुटा इति व्याप्ताः । पूर्ववदिति । उत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मान्सशोणितमित्यर्थः । [तिब् । ३१५ ] क्षुरमार्गादिकं त्रयम् इति । क्षुरमार्गासिपत्त्रवनशाल्मलीवनं चेति त्रयः । श्यामलशबलाश्च श्वानो भक्षयन्तीति । असिपत्त्रवनान्तर्भूताः । अयस्तुण्डाश्च वायसा इति । शाल्मलीवनान्तर्भूताः । प्रासा भिन्दिपालादयः । अधिकयातनास्थानत्वादुत्सदा इति । उच्छब्दोऽधिकार्थः । अधिकं सीद्यन्तेऽत्रेति उत्सदाः । कथं पुनर्यातनाधिक्यमित्याह । नरकेष्विति विस्तरः । अपर इति । स्थविरमनोरथः । स ऊर्ध्वार्थमुच्छब्दमिति । तेनाहा नरकावरोधादवीच्यादिनरकावरोधातूर्ध्वमेषु कुकूलादिषु सीदन्ति । अतस्तदुत्सदा इति । प्रश्नात्प्रश्नान्तरमिति । षोडशोत्सदाः कतम इत्युक्त्वा । चतुर्थ उत्सदो (अभिधर्मकोषव्याख्या ३२७) वैतरणी । यस्यां ते सत्त्वाः असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणादूर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्त इति । तस्मादिदं प्रश्नान्तरमुपजायते । किं ते नरकपाला इति विस्तरः । विवर्तनीवायुवदिति यथा विवर्तन्यां वायवो भाजनलोकाभिनिर्वृत्तये चेष्टन्ते । तद्लत्ते भूतभौतिकमात्रा नरकपाला इति । यमराक्षसा इति । पापकर्माणः सत्त्वा नरकपाला जायंत इत्यर्थः । ये ते यमेनेति । ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टाः । तां सत्त्वान्नरकस्थानेषु प्रक्षिपन्ति यमराजधानीनिवासिनः । त एते यमराक्षसा उक्ताः । न तु ये कारणा यातनाः कारयंति असिशक्तिप्रासहस्तादयः [तिब् । ३१५ ] । तस्येदानीं कर्मणः क्व विपाक इति । नरकपालानां नरककृतस्य कर्मणः क्व विपाकः । तेष्वेवेति विस्तरः । येष्वानंतर्यकारिणां विपाकावकाशः । तेषु नरकेषु तेषां नरकपालानां को विप्रतिबन्धः । एतदुक्तं भवति । तेषामपि तावदानन्तर्यकारिणां महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्ववकाशोऽस्ति । किमंग पुनर्नरकपालानां यत्कर्म तत्कारणाः कारयतामिति । कृतावधित्वात्कृतमर्यादत्वात्नरकपालान् प्रति । एते न दग्धव्या इति । भूतविशेषनिर्वृत्तेर्वा । भूतविशेषास्तादृशास्तेषां कर्मभिरभिनिर्वृत्ताः । यत्तेनाग्निना न दह्यन्ते । कायशब्दविकारानुरूपाणीति । कायविकारानुरूपाणि अर्बुदो निर्बुद उत्पलः पद्मो महापद्मश्चेति नामानि । अर्बुदाद्याकारकायत्वात्तत्रत्यानां सत्त्वानां । शब्दविकारानुरूपाणि अठठः हहवः हुहुव इत्येतानि नामानि । अत एवेति । धान्यराशिवदधोविशालत्वात् । बहिरिति नान्तर्गतः । (इइइ ।६१-६३) तैजसं सूर्यकान्तात्मकमाप्यं चन्द्रकान्तात्मकं । यथासंभवमिति । तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येण अनुग्रहार्थमुपघातार्थं च । एवमन्येष्वपि योज्यमिति । कथं । यदा पूर्वविदेहे रात्रः । तदा जंबूद्वीपे [तिब् । ३१६ ] सूर्यास्तंगमनमवरगोदानीये मध्याह्नः उत्तरकुरावुदय इत्येवमन्यत्रापि योज्यं । प्रावृण्मासे द्वितीयेऽन्त्यनवम्याम् इति । प्रावृण्मासाश्चत्वारः श्रावणो यावत्कार्त्तिकः । सर्वे च मासाः कृष्णपक्षाद्याः । तत्र भाद्रपदशुक्लपक्षनवम्यां रात्रिर्वर्धते । हेमन्तकानां चतुर्थे हीयते । हेमन्तीमासाश्चत्वारो मार्गशीर्षाद्याः फाल्गुनान्ताः । तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते निलवंलवंल । कालध्वनोरत्यन्तसंयोगे द्वितीया । (अभिधर्मकोषव्याख्या ३२८) अपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति । तद्यथा स्तंभे प्रदीपच्छाया पतन्ती । यथायथा स्तंभ आसन्नो भवति । तथातथा स्तंभः स्वछायया छाद्यते । दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तंभो दृश्यते । किंचिदासन्ने किंचित्क्षीयते यावदासन्ने स्तंभो नष्टरूपो वर्तते । तद्वदेतत् । वाहयोगः स तादृश इति । पुनस्तिर्यगवनामोन्नामयोगेनाधोभागश्चन्द्रमण्डलस्य क्षीयते । ऊर्ध्वं वर्धते चेति योगाचाराः । चातुर्महाराजकायिका इति चतुर्महाराजानां कायः । तत्र भवाश्चातुर्महाराजकायिकाः । सुमेरुपरिषण्डादीनीति । आदिशब्देन युगंधरादीनि । (इइइ ।६४, ६५) दशसाहस्रिकान्तरा इति । योजनदशसहस्रप्रमाणान्तरा इत्यर्थः । अर्धमाक्षिप्तमिति । अर्धमवष्टब्धं । सदामदा इति । सदामत्ता इति वक्तव्ये श्लोकबन्धानुगुण्येन सदामदा इत्युक्तमर्थैकत्वात् । चतुर्थ्यां चत्वारो महाराजानः स्वयं प्रतिवसन्तीति । धृतराष्ट्रः पूर्वदिग्भागे । [तिब् । ३१६ ] विरूढको दक्षिणे । विरूपक्षः पश्चिमे । वैश्रमण उत्तरस्मिन्नित्यनुक्रमोऽवगन्तव्यः । चातुर्महाराजिका देवा इत्युक्तमिति । यस्माच्चतुर्थ्यां परिषण्डायां चत्वारो महाराजानः स्वयं प्रतिवसंति । अत एवमुक्तं महाराजिका देवा इति । महाराजेषु भवा इति कृत्वा महिष्ठो महत्तमः । (इइइ ।६६-६९) स विंशतिसहस्रदिग् इति । यद्येवं कथमिदमुक्तं समोच्छ्रायघनाश्च त । इति । मध्यभागमेवाभिसमीक्ष्यैवमुक्तमिति तेषामभिप्रायः । अध्यर्धम् इति । अधिकमर्धमस्मिन्निति अध्यर्धं । अध्यर्धं योजनमस्येत्य् अध्यर्धयोजनं । समुच्छ्रायेणेति अध्याहार्यं । धातुशतेन रंगशतेन । नानारत्नस्थानविधानसंपदेति । नानारत्नविधानसम्पदा नानास्थानविधानसम्पदा च । सर्वान्यभवनानां श्रियस्तासां महिमानो महत्त्वानि । ह्रेपणो लज्जनो लज्जाजनक इत्यर्थः । दैर्घ्येणार्धतृतीयं योजनशतं पार्श्वमिति । एकं पार्श्वमेतत्प्रमाणं । यावच्चतुर्थमप्येतत्प्रमाणमिति । सुभूमीनीति । शोभना भूमय एषामिति सुभूमीनि क्रीडास्थानानि । (अभिधर्मकोषव्याख्या ३२९) चतुर्दिशम् इति । चतस्रो दिशोऽस्येति चतुर्दिशं क्रियाविशेषणं । भागुरिमतेन दिक्छब्दोऽकारन्तो भवति । विंशतियोजनान्यतिक्रम्य कृईडास्थानानि भवन्तीति । विंशतियोजनान्यन्तरितानीत्युच्यते । त्रायस्त्रिंशानामिति । त्रयस्त्रिंशास्तेषु भवास्त्रायस्त्रिंशाः । तेषां । कामरतिप्रकर्षालयः कामरतिविशेषस्थानं । वृक्षानतिक्रमं [तिब् । ३१७ ] संधायोक्तमिति । तं कोविदारवृक्षमनतिक्रम्य स गन्धो वर्तते । तस्य पंचाशद्योजनानि शाखापत्त्रपलाशमिति एवं वृक्षानतिक्रमं संधायोक्तं पंचाशद्योजनानि प्रतिवातं गन्धो वातीति । अत्रोत्तरमाहुः । न हि नाम प्रतिवातं वातो भवति । यत्रैवोत्पद्यते । तत्रैव ध्वन्स्यते । न देशान्तरे संतानं संतनोति । उक्तं च पंचाशद्योजनानि प्रतिवातमिति । तस्मादसमाधिरेषः । तस्मात्समाध्यन्तरमिदमाह । तस्यैव त्विति विस्तरः । किं पुनः कारणं योजनशतमत्र वातं गंधो वाति प्रतिवातं तु पंचाशत् । न ततः परेणेति अत आह । मन्दतरतमसमारंभात्त्विति विस्तरः । मृदुमारुतप्रतिबध्यमानतया मन्दतरतमसमारंभः । ततश्च स गन्धसंतान आश्वेव समुच्छिद्यते । अतः कारणात्न तथा विप्रकृष्टमध्वानं योजनशतप्रमाणं प्रसर्पतीति । उताहो वायुरधिवासितो जायत इति । यथा तिलेषु पुष्पगंधाद्गन्धान्तरमुत्पद्यतेऽन्यदेव न स पौष्पो गन्ध इत्याह । यदि पंचाशद्योजनं प्रतिवातगन्धो वाति । यत्तर्हि भगवतोक्तं न पुष्पगन्धः प्रतिवातमेतीति । विस्तरः । मौलिको गन्धो मुस्तादिः । कृत्याकृत्यं समर्थयन्त इति । कार्याकार्यं संप्रतीच्छन्ति संप्रधारयन्तीत्यर्थः । (इइइ ।७० ब्) समासेन येषां भाजनं प्रज्ञायत इति । भाजनं स्थानं । विस्तरेणान्येऽपि देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति । अतः समासेनोक्तं । (इइइ ।७० द्) द्वंद्वेन [तिब् । ३१७ ] यावदीक्षितेन मैथुनमेषामिति द्वंद्वालिंगनपाण्याप्तिहसितेक्षितमैथुनाः । सऋवेषां समापत्त्येति । षण्णामपि कामभुजां द्वंद्वसमापत्त्या परिदाहविगमः । कालपरिमाणं तु प्रज्ञप्तावुक्तमिति । यावता कालेन द्वंद्वालिंगनपाण्याप्तिहसितेक्षितानि भवंति । तावता कालेन एषां भूमिसम्बन्धवासिनां यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिनां यथाक्रमं द्वंद्वसमापत्तिर्(अभिधर्मकोषव्याख्या ३३०) इति वैभाषिकाः । यावद्यावदिति विस्तरः । यावद्यावत्परेण परतरेण विषयाणां तीव्रतरत्वात्रागोऽपि तीव्रतरः । तावत्तावन्मैथुनकार इत्यभिप्रायः । (इइइ ।७१ द्) ते पुनश्चत्वारो देवनिकाया इति । चातुर्महाराजकायिका यावत्तुषिताः । यथोत्पन्नपरिभोगः स एषामस्तीति यथोत्पन्नपरिभोगिनः । तद्भावः । तस्मात् । यथेच्छयात्मनिर्मितं । तस्य परिभोगः । पूर्ववत् । यथेच्छात्मपरनिर्मितपरिभोगित्वादिति । आत्मना परेण च निर्मिते । यथेच्छयात्मपरनिर्मिते । तयोः परिभोगः पूर्ववत् । यथेच्छपरनिर्मितपरिभोगित्वादिति केचित्पठन्ति । तत्र पाठे एवं विग्रहः । परनिर्मितं यथेच्छं परनिर्मितं । तस्य परिभोग इति । पूर्ववत् । निर्माणरतीनां परनिर्मितां कामान् परिभोक्तुं न समृध्यति । तदेवं परनिर्मितवशवर्तिनां निर्माणरतिभ्यो [तिब् । ३१८ ] विशेषः प्रदर्शितो भवति । बाह्यरूपादिविषयनिर्माणं चात्र वेदितव्यं । विवेकजेन प्रथमध्यानभूमिकेन । अकुशलविविक्तत्वात् । समाधिजेन च द्वितीयध्यानभूमिकेन । वितर्कविचारविगमात् । प्रीतिसुखेनेति । प्रीतिलक्षणेन सुखेन । निःप्रीतिकेन च सुखेन । सौमनस्यविगमात् । सुखं विहरन्त इति । सुखमिति क्रियाविशेषणं । सुखोपपत्तित्वं विचार्यमिति । सुखाभावान्न ध्यानान्तरं सुखोपपत्तिरिति शक्यं वक्तुं । कुशलविपाकत्वेन सुखकल्पत्वात्सुखोपपत्तिरिति न शक्यं व्यवस्थापयितुं । चतुर्थेऽपि ध्याने सुखोपपत्तिप्रसंग इति चेत् । न । तस्यां भूमौ सुखाभावात् । तस्माद्विचार्यं संप्रधार्यमेतदिति भावः । (इइइ ।७२ द्) एवं शेषा इति । ऋद्ध्या वा यामास्तुषितां गच्छेयुः । यदि ऋद्धिमता नीयेरन् । देवेन वा तत्रत्येन । समानभूमिकास्तु चातुर्महाराजकायिकाः त्रयस्त्रिंशां गच्छन्ति । आगतं तूर्ध्वोपपन्नं पश्येदिति । समानभूमिकं नोर्ध्वभूमिकमिति । प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नमित्यादि । तदिच्छयेति । ऊर्ध्वोपपनेच्छया । इहत्यमिवेति । इहभव इहत्यः । अधोभूमिक इत्यर्थः । इहत्यमिव पश्येदिति निकायान्तरीयाः । यथा स्प्रष्टव्यमित्युदाहरणमात्रमेतत् । [तिब् । ३१८ ] यथा शब्द इत्येतदपि गम्येत । चतुर्णां कामावचराणां यामादिस्थानानां । द्विगुणोत्तरमिति । यामस्थानाद्द्विगुणं तुषितस्थानमित्यादि । चतुर्थं त्वपरिमाणमिति । तारकावततलवाटकप्रतिबद्धविमानत्वातपरिमाणत्वसंभव इत्यभिप्रायः । (इइइ ।७३, ७४) सहस्रं ब्रह्मलोकानाम् इति । ब्रह्मकायिकब्रह्मपुरोहितमहाब्रह्मणामित्यर्थः । लोके तथा प्रतीतत्वात् । (अभिधर्मकोषव्याख्या ३३१) चूलिक इति । महतो लोकधातोश्चूडाभूतत्वात्चूलिक इत्युच्यते । संभवो हि विवर्त इति । विविधवर्तनं विवर्तः । विविधा वा वर्तन्तेऽस्मिन्निति विवर्तः । संवर्तनं संवर्तः । सम्वर्तन्ते वास्मिन्निति संवर्तः । तस्मिं हि काले सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते संगच्छन्त इति । विवर्तते च संवृत्त आस्ते संवर्तते समम् इति उत्तरत्र व्याख्यास्यामः । (इइइ ।७५-७७ ब्) जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तका इति । सार्धत्रिहस्तप्रमाणशरीराः । केचित्तु चतुर्हस्तप्रमाणशरीराः । पूर्वगोदोत्तराह्वया इति । पूर्वो गोद उत्तर इति चाह्वय एषां । ते पूर्वगोदोत्तराह्वयाः । तेषां यथासंख्यमष्टहस्तप्रमाणाः पूर्वविदेहकाः षोडशहस्तप्रमाणाः गोदानीयाः द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति । पादवृद्ध्येति विस्तरः । यावत्सार्धक्रोश इति वक्ष्यमाणत्वात्पाद इति क्रोशस्येति गम्यते । क्रोशचतुर्थभागमात्रं च शरीरं [तिब् । ३१९ ] चातुर्महाराजकायिकानां । द्विपादमात्रं त्रायस्त्रिंशानां यावदध्यर्धक्रोशमात्रं परनिर्मितवशवर्तिनां । योजनत्रयेण हीनं द्विगुणमिति । द्विगुणं कृत्वा तृईणि योजनान्यपनेयानि । पंचविंशयोजनशतमनभ्रकाणां शरीरप्रंाणमिति । पुण्यप्रसवानामिति । पुण्यप्रसवानामर्धतृतीयं योजनशतं शरीरप्रमाणं । बृहत्फलानां पंचयोजनशतानीति गणयितव्यं । (इइइ ।७७ द्-८०) कुमुदपद्मवदिति । यथेह कुमुदानि अहनि संकुचन्ति रात्रौ विकसन्ति । पद्मानि तु विपर्ययेण । तथा तत्र केषांचिदेव पुष्पाणां संकोचादहनि च विकासादहोरात्रव्यवस्थानं । शकुनीनां च कूजनाकूजनात् । अकूजनाद्रात्रिः कूजनात्प्रभातं । विपर्ययेण वा यथाशकुनिजाति । मिद्धापगमोपगमाच्च । मिद्धोपगमाद्रात्रिः प्रज्ञायते । मिद्धापगमात्प्रभातमिति । अधिकाधिकम् इति । विंशतिरधिकं । अधिकं भवतीत्यर्थः । तेनाह । एवं तेषां यथाक्रमं चत्वारिंशत्षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणमिति । विज्ञानानंत्यायतने (अभिधर्मकोषव्याख्या ३३२) चत्वारिंशत् । आकिंचन्यायतने षष्टिः । भवग्रेऽशीतिरिति । तस्मादधो महाकल्पस्यार्धमिति विस्तरः । अशीतिरन्तरकल्पा महाकल्पः । तस्यार्धं चत्वारिंशदन्तरकल्पाः । तस्य महाकल्पार्धस्य कल्पीकृतस्य यदर्धं विंशतिरन्तरकल्पाः । तद्ब्रह्मकायिकानामायुःप्रमाणं । [तिब् । ३१९ ] यत्तदर्धकल्पीकृतं चत्वारिंशदन्तरकल्पाः । तद्ब्रह्मपुरोहितानामायुःप्रमाणं । तदेवमात्मीयार्धं महाब्रह्मण आयुःप्रमाणं । स ह्यध्यर्धः कल्प इत्युच्यते षष्ट्यन्तरकल्पसंख्या । महाब्रह्मादीनामिति । आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन ग्रहणं । अर्धमधस्तत इति परीत्ताभाद्देवनिकायादिति निर्देशापेक्षणात् । (इइइ ।८१-८३) तेषामायुःप्रमाणमुक्तमिति । तेषां महाब्रह्मणां ब्रह्मपुरोहितानां ब्रह्मकायिकानां । कामदेवायुषा तुल्या इति विस्तरः । चातुर्महाराजकायिकानां यदायुःप्रमाणमुक्तं । स संजीवे अहोरात्रः । एवं यावद्यत्परनिर्मितवशवर्तिनामायुःप्रमाणमुक्तं । स तपने अहोरात्रः । कामदेववद् इति । कामदेवानामिव कामदेववत् । तत्र तस्येवेति वतिः । तेन यावत्द्वादशमासकेनेति तेन तत्रत्येनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वाद्शमासकेन सम्वत्सरेण तत्रत्यानि दिव्यानि पंच वर्षशतान्यायुरित्यादि । एवमन्येष्वपि यथायोगं योज्यमिति । यद्यामानामायुःप्रमाणं । तत्संघाते महानरके एकं रात्रिंदिवम् । तेन रात्रिदिवेन तस्मिन् वर्षसहस्रद्वयमायुःप्रमाणं । एवमन्येष्वपि यथायोगं योज्यं । अष्टाविमे भिक्षव इति । अष्टाविमे भिक्षवः नागा महानागाः कल्पस्था धरणिंधराः अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरमपि [तिब् । ३२० ] संग्राममनुभवन्त्यपि प्रत्यनुभवन्त्यपि । ते पुनः कतमे । तद्यथा नन्दो नागराजः उपनन्दो नागराजः अश्वतरी नागराजः मुचिलिन्दो नागराजः मनस्वी नागराजः धृतराष्ट्रो नागराजो महाकालो नागराज एलपत्त्रो नागराज इति । चूलिकाबद्ध इति शिखाबद्धः । (इइइ ।८४ ब्) एकजातिप्रतिबद्धस्येति । एकजन्मप्रतिबधबुद्धत्वस्य । चरमभविकस्येति अन्त्यजन्मनः, येन तस्मिन्नेव जन्मनि अर्हत्त्वं साक्षात्(अभिधर्मकोषव्याख्या ३३३) कर्तव्यम् । तस्य नास्त्यन्तरेण कालक्रिया यावदर्हत्त्वं न प्राप्नोति । श्रद्धानुसारिधर्मानुसारिणोः नास्त्यन्तरेण कालक्रिया यावच्छ्रद्धाधिमुक्तदृष्टिप्राप्तौ न भवतः । तद्गर्भयोरिति । बोधिसत्त्वचक्रवर्तिगर्भयोः । तन्मात्रोर्नास्त्यन्तरेण कालक्रिया यावन्न तौ जायेते । एवमादीनामिति । आदिशब्देन निरोधासंज्ञिसमापत्तिसमापन्नानां मैत्र्यादिसमापन्नानां च नास्त्यन्तरेण कालक्रिया यावत्तस्मात्समाधेर्न व्युत्तिष्ठन्ते । (इइइ ।८५, ८६) चतुर्विंशतिरंगुल्यो हस्त इति । अभिधर्मवचनकाले यः पुरुषहस्तः । स ग्रहीतव्यः । येन चातुर्द्वीपकादिपरिमाणव्यवस्थानं । (इइइ ।८७, ८८) हेमन्तानामिति । यथा वर्षा इत्येकस्मिन्नप्यर्थे बहुवचनं प्रसिद्धं । एवं हेमन्ता ग्रीष्मा इति द्रष्टव्यं । प्रवचने त्रय एव र्तवो न यथा लोके षडिति । शिशिरो हि शीतसामान्याद्धेमन्त इत्युक्तः । वसन्तोऽप्युष्णसामान्याद्ग्रीष्म इत्युक्तः । शरदपि वृष्टिसामान्याद्[तिब् । ३२० ] वर्षा इत्युक्तेति । हेमन्तग्रीष्मवर्षाणाम् इति । सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः । ग्रीष्मा द्वितीयः । वर्षास्तृतीयः । तत्राधिकमर्धमस्येति अध्यर्धो मासः । तस्मिन्न् अध्यर्धमासि निर्गते । मार्गशीर्षे सपौषर्धेऽतिक्रान्ते । शेषेऽर्धमासे । पौषस्यर्धेऽवशिष्टे कृष्णचतुर्दश्याम् । ऊनरात्रो विद्वद्भिर् बौद्धैर् निपात्यते त्यज्यते इत्यर्थः । चातुर्दशिकोऽत्र भिक्षुभिः पोषधः क्रियते । एवं माघे फाल्गुनार्धेऽतिक्रान्ते शेषेऽर्धमासे फाल्गुनावशिष्टे पुनरपर ऊनरात्रो निपात्यते । तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्यामाषाढचतुर्दश्यां चापरावूनरात्रौ निपात्येते । वर्षेष्वपि भाद्रपदकृष्णचतुर्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापरावूनरात्रौ निपात्येते । (इइइ ।८९-९२) गतिसंवर्तनीति । नरकाद्याः पंच गतयो गत्येकदेशे देवगतौ संवर्तन्ते । एकस्थीभवन्तीत्यर्थः । धातुसंवर्तनी चेति । कामधातुः रूपधातौ संवर्तत इति । सत्त्वसंवर्तनीति । यदा सत्त्वा एव सम्वर्तन्ते ध्यानेष्वेकस्थीभवन्ति । न तु तावद्भाजनानि संवर्तन्ते । विनश्यन्तीत्यर्थः । भाजनसम्वर्तनीति । यदा भाजनान्येव सम्वर्तन्ते न तु सत्त्वाः । एकस्यापि सत्त्वस्य तत्राभावात् । यदयं लोक इति विस्तरः । यदयं (अभिधर्मकोषव्याख्या ३३४) लोको विंशतिमन्तरकल्पान् विवृत्तो जातः । यावन्नरकोत्पत्तिप्रभृति निर्यातं । [तिब् । ३२१ ] तन्निष्ठितं वक्तव्यमित्यर्थः । तत्प्रतिपन्नं वक्तव्यमिति तत्संवर्तनमारब्धं वक्तव्यमित्यर्थः । एवं तिर्यक्संवर्तनी प्रेतसंवर्तनी च वक्तव्येति । यदा तिर्यक्ष्वेकसत्त्वोऽपि नावशिष्टो भवति । इयताऽयं लोकः सम्वृत्तो भवति तिर्यक्सम्वर्तन्या । यस्य तदानीं नियतं तिर्यग्वेदनीयं कर्म ध्रियते । स लोकधात्वन्तरतिर्यक्षु क्षिप्यते । एवं प्रेतसंवर्तनी योज्या यदा प्रेतेष्विति विस्तरेण । मनुष्यसहचरिष्णव इति । मनुष्यसहचरणशीलाः । गोमहिषादयः । धर्मताप्रतिलंभिकमिति । धर्मता नाम कुशलानां धर्माणां तदानीं परिणामविशेषः । तया प्रतिलंभोऽस्यास्तीति धर्मताप्रतिलंभिकं । यन्मनुष्येष्विति । जम्बूद्वीपमनुष्येष्वित्यभिप्रायः । एवं पूर्वविदेहगोदानीयसम्वर्तन्यौ योज्यौ । उत्तरकुरुसंवर्तनी त्वेवं वक्तव्या भवेति । स कालो यदुत्तरकुरौ मनुष्याश्च्यवन्त एव नोपपद्यन्ते । यदा तत्रैकसत्त्वो पि नावशिष्टो भवति । इयतायं लोकः संवृत्तो भवति उत्तरकुरुसम्वर्तन्येति । कस्मादेवं वक्तव्या । न तु जंबुद्वीपसम्वर्तन्यादिवदित्याह । तत्र वैराग्याभावात् । तत्रोत्तरकुरौ वैराग्याभावात् । इत एव सामन्तकादिति । चातुर्द्वीपकसामन्तकादित्यर्थः । तदाक्षेपके कर्मणि परिक्षीण इति । भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्यर्थः । ब्राह्मं विमानं निर्दहदर्चिः परैति [तिब् । ३२१ ] गच्छतीत्यर्थः । तच्च तद्भूमिकमेवार्चिरिति । प्रथमध्यानभूमिकं । कस्मादित्याह । न हि विसभागा विसदृशाः अपक्षाला उपद्रवाः अग्न्यादयः क्रमन्ते तापयन्त इत्यर्थः । आह । यद्येवं किमिदमुच्यते । तस्मादेव चेति विस्तरेणेत्यत उच्यते । तद्सम्बद्धसंभूतत्वादिति विस्तरः । तेन कामावचरेणार्चिषा सम्बद्धं संभूतं रूपावचरमर्चिः । तद्भावः । तस्मादिति । एवमन्यस्यामिति । यथा तेजःसम्वर्तन्यामुक्तमेवमन्यस्यामप्यप्संवर्तन्यां वायुषंवर्तन्यां च यथासंभवं वेदितव्यं । कथं कृत्वा । नरकादिसंवर्तनीं पूर्ववदुक्त्वा यावदियतायं लोकः सम्वृत्तो भवति सत्त्वसम्वर्तन्या । ततः शून्ये भाजने सहजोऽब्धातुः संभवति । यस्तं भाजनलोकं लवणमिव विलोपयति । स कामावचरोऽब्धातुः प्रथमध्यानभूमिकमब्धातुं संबध्नाति । स च द्वितीयध्यानभूमिकं सम्बध्नाति । स चाब्धातुस्त्रिभूमिकोऽपि स्वेनस्वेन भाजनेन सहान्तर्धीयते । एवं वायुसंवर्तन्यां सहजो वायुः संभवतीति वक्तव्यं । कथमिति । पूर्ववदुक्त्वा यावत्सहजो वायुधातुः संभवतीति । यस्तं भाजनलोकं कामावचरं यावत्तृतीयध्यानभूमिकं क्रमेण पांसुराशिमिव (अभिधर्मकोषव्याख्या ३३५) विकरति विध्वंसयति । यावत्तेनैव सार्धमन्तर्धीयते । विवर्तकल्पं विस्तरेण वक्तुकाम आह । तथा हि सम्वृत्तो लोक इति विस्तरः । तथेति यथा वर्णितं । तदेति विस्तरः । [तिब् । ३२२ ] यदाकाशे मन्दमन्दा वायवः स्पन्दन्ते । तदा प्रभृति यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात् । तन्निर्यातं परिसमाप्तं वक्तव्यं । तदुपयातं वक्तव्यमिति । तदारब्धं वक्तव्यमित्यर्थः । यथोक्तक्रमविधानमिति । यथोक्तेन क्रमेण विधानेन च सर्वं जायते । यथोक्तः क्रमो वायुमण्डलमप्मण्डलं ततः कांचनमयी पृथिवी ततः सुमेर्वादयश्चेति । यथोक्तं विधानं यस्य यद्विधानमुक्तमायामोद्वेधपरिणाहसंस्थानलक्षणं । तत्तथा सर्वं जायते । प्रथमं तु ब्राह्ममिति विस्तरः । यत्पश्चात्संवर्तते । तत्पूर्वं विवर्तत इति स्थितिः । तेनाह । प्रथमं तु ब्राह्मं विमानमुत्पद्यते । ततो यावद्यामीयमिति । यावच्छब्देन ब्रह्मविमानानन्तरं परनिर्मितवशवर्तिविमानं तदनंतरं निर्माणरतिविमानं ततोऽनन्तरं यावद्यामीयं विमानमुत्पद्यते । ततो यामीयविमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति । यदुत भाजनविवर्तन्येति न सत्त्वविवर्तन्येति दर्शयति । शून्ये ब्राह्मे विमाने उत्पद्यत इति महाब्रह्मा । अन्येऽपि च सत्त्वा इति तद्परिवाराः । ततश्च्युत्वा ब्रह्मपुरोहितेष्विति । तत आभास्वरेभ्यः । तन्निर्यातं भवतीति । तद्विवर्तनं लोकस्य परिसमाप्तं भवतीत्यर्थः । तदुपयातं भवतीति । आरब्धं विवृत्तावस्थानमित्यर्थः । एकान्नविंशतिरन्तरकल्पा अपरिमितायुषाम् [तिब् । ३२२ ] इति । एकोऽन्तरकल्पो ब्रह्मलोकविमानादिभाजननिर्वृत्त्यातिक्रान्त इति एकोनविंशतिरवशिष्टा अन्तरकल्पा अपरिमितायुषां मानुष्याणामतिक्रामन्ति आ नरकसत्त्वप्रादुर्भावात् । सा च विवर्तमानावस्थातिक्रान्ता एवावगन्तव्या । प्रादुर्भूते नारके सत्त्वे विवृत्तावस्था प्रारब्धा । सेयमुच्यते । अपरिमितायुषामेव ह्रसतां यावद्दशवर्षायुषामेको विवृत्तवस्थान्तरकल्पः । तेनाह । सोऽसौ विवृत्तानां तिष्ठतां प्रहमान्तरकल्प इति । ततोऽष्टादश उत्कर्षा अपकर्षाश्च । ततस्तु उत्कर्ष एक इति । विंशत्यन्तरकल्पपरिमाणा विवृत्तवस्थावगन्तव्या । पंचस्कंधस्वभावः कल्पः त एवाध्वा कथावस्त्व् इति । मुक्तकमिति । न चतुरागमान्तर्गतमित्यर्थः । अष्ट्कं मध्याद्(अभिधर्मकोषव्याख्या ३३६) विस्मृतमिति । अष्टौ स्थानानि क्वापि प्रदेशे प्रमुषितत्वात्न पठितानि । तेनात्र द्वापंचाशात्स्थानानि भवंति । षष्ट्या च संख्यास्थानैर्भवितव्यं । तान्यष्टकानि स्वयं कानिचिन्नामानि कृत्वा पठितव्यानि । येन षष्टिसंख्यास्थानानि परिपूर्णानि भवेयुः । असंख्या इति । असंख्येयाः । संख्यानेनासंख्येयाः असंख्या इति । बहुवचननिर्देशादनुक्ता अपि तद्धिता भवंति । यद्येवं तदसंख्यत्रयोद्भवम् इति कथमुक्तं । नैष दोषः । नास्ति संख्यापरेणैष्विति असंख्याः असंख्येयाः कल्पाः । असंख्याश्चासंख्याश्च असंख्याश्चेति असंख्याः । तेषां त्रयं । तेषां कल्पानामसंख्यत्रयोद्भवतीति तदसंख्यत्रयोद्भवं बुद्धत्वम् इति एवं तद्व्याख्यातव्यं । तस्याभिमतत्वादिति । तस्य परार्थस्याभिमतत्वात् । यो ह्यभिमतः । स स्वार्थो दृष्ट इति । [तिब् । ३२३ ] तद्धेतोरिति । आत्मस्नेहहेतोः । आत्मस्नेहं तेभ्य इति विस्तरः । आत्मस्नेहं तेभ्यः स्वासांतानिकेभ्यः संस्कारेभ्यो निवर्त्य अपेक्षां करुणालक्षणां वर्धयित्वा तद्धेतोरपेक्षाहेतोर्दुःखान्युद्वहन्तीति संभाव्यं प्रतिपत्तव्यं । मध्यो दुःखनिवृत्तिमेवेति । प्रत्येकबुद्धः श्रावको दुःखनिवृत्तिमेव मोक्षमेव प्रार्थयते । न सुखं । सांसारिकं । कुतः । दुःखास्पदं तद्यतः । यस्मात्तत्सांसारिकं सुखं दुःखस्थानं भवति । श्रेष्टो बोधिसत्त्वः स्वसंततिगतैर्दुःखैः परेषां सुखम् आभ्युदयिकं । दुःखात्यन्तनिवृत्तिमेव च निःश्रेयसस्वभावां परेषां प्रार्थयते । अथ वा परेषां सुखम् आभ्युदयिकनैःश्रेयसिकं प्रार्थयते । दुःखात्यन्तनिवृत्तिमेव च बुद्धलक्षणामात्मीयां परहितक्रियोपायभूतां प्रार्थयते । कस्मादित्याह । (अभिधर्मकोषव्याख्या ३३७) यतस्तद्दुःखदुःख्येव स इति । यस्मात्परदुःखैः । स बोधिसत्त्वो दुःखी भवति । अत एव सुखं द्विप्रकारं प्रार्थयत इति । (इइइ ।९३) अपकर्षस्याधस्तादिति विस्तरः । वर्षशतस्याधस्तात्पंच कषाया अभ्युत्सदा भवन्ति । अभ्यधिको भवन्तीत्यर्थः । वर्षशतेऽप्युत्सदा न त्वभ्युत्सदा यथाधस्तात् । आयुःकषाय इति । किट्टभूतं प्रत्यवरं कषायः । आयुरेव कषाय आयुःकषायः । एवं कल्पकषायादयः । यथाक्रममिति । जीवितविपत्तिरायुःकषायेण । उपकरणविपत्तिः कल्पकषायेण । धान्यपुष्पफलौषधादीन्युपकरणानि अल्परसवीर्यविपाकप्रभावानि । हि तानि भवंति । नैव वा भवंति । द्वाभ्यां कुशलपक्षविपत्तिर्[तिब् । ३२३ ] इति । क्लेशकषायेण दृष्टिकषायेण च कुशलपक्षस्य विपत्तिः । कथमित्याह । कामसुखल्लिकात्मक्लमथानुयोगाधिकारादिति । कामसुखमेव कामसुखल्लिका । कामसुखलीनतेति वा कामतृष्णा वा कामसुखल्लिका यया कामसुखे सज्यते । आत्मक्लमथ आत्मोपतापः आत्मपीडेत्यर्थः । कामसुखल्लिकात्मक्लमथयोरनुयोगोऽनुसेवनं । तस्याधिकारः । तस्मात् । तदुक्तं । कामसुखल्लिकानुयोगमात्मक्लमथानुयोगं वाधिकृत्यारभ्य क्लेशदृष्टिकषायाभ्यां कुशलपक्षविपत्तिर्भवतीति । एवं तावदविशेषेण । गृहिप्रव्रजितपक्षयोर्वा । गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः । प्रव्रजितपक्षस्य दृष्टिकषायेण । यथाक्रमं कामप्रधाना गृहिणः दृष्टिप्रधानाः प्रव्रजिता इति । एकेनेति सत्त्वकषायेण । द्विविधा हि प्रत्येकबुद्धा इति । यस्माद्वर्गचारिणोऽपि प्रत्येकबुद्धाः श्रावकपूर्विणो भवंति । न केवलं खड्गविषाणकल्पाः । तस्मादुत्कर्षेऽपि तेषामुत्पत्तिर्न विरुध्यते । ये हि उत्पादितस्रोतआपत्तिफलसकृदागामिफलाः अंतर्हिते बुद्धशासने स्वयमर्हत्त्वमधिगच्छंति । ते वर्गचारिणः । ते च पूर्वबुद्धोत्पादकाल एव प्राकृतसम्वेगत्वान्न पुनः सम्वेजनीया इति । तदीर्यापथसंदर्शनादिति । प्रत्येकबुद्धेर्यापथसंदर्शनात्पर्यंकबन्धसमाधिरूपसंदर्शनात् । न चार्यास्सन्तः कष्टानि तपांसि तप्येरन्न् [तिब् । ३२४ ] इति । सत्यदर्शनकाल एव शीलव्रतपरामर्शदृष्टेः प्रहीणत्वात् । शीलव्रतपरामर्शपूर्वकत्वाच्च कष्टतपःक्रियायाः । खड्गविषाणकल्पा इति । यथा खड्गविषाणा अद्वितीया भवंति । एवं ते गृहस्थप्रव्रजितैः अन्यैश्च प्रत्येकबुद्धैरसंसृष्टविहारिण इति । खड्गविषाणकल्पा इत्युच्यन्ते । कल्पशतान्वय इति । कल्पशतकृतबोधिहेतुरित्यर्थः । अत एव व्याचष्टे । महाकल्पानां (अभिधर्मकोषव्याख्या ३३८) शतं बोधिसंभारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृतप्रयोग इति । शक्यं च तैरिति विस्तरः । अथापि ते प्रतिसंवित्प्राप्ता न भवेयुः । तथापि तैः प्रणिधिज्ञानेन पूर्वबुद्धानामनुशासनमनुस्मृत्य धर्मो देशयितुं शक्यते । ऋद्धेराविःकरणादिति । आकाशगमनादिकायाः सत्त्वानुग्रहार्थं प्रकाशनात् । नापि सत्त्वानामभव्यत्वात् । धर्मं न देशयन्तीति वाक्यशेषः । कस्मादित्याह । तथा हीति विस्तरः । यस्माद्धि लौकिकवीतरागास्तदानीं संविद्यंते । तस्माल्लोकोत्तरवीतरागा अपि संभवेयुरित्यभिप्रायः । यद्येते न हेतवो धर्मदेशनाया अकरणे । कस्तर्हि हेतुरित्याह । किं तर्हीति विस्तरः । पूर्वाभ्यासवशेन असंसर्गाभ्यासवशेनाल्पोत्सुखताधिमुक्तत्वात् । तत्कृतरुचित्वादित्यर्थः । गणपरिकर्षणप्रसंगपरिहारार्थं च नोत्सहन्ते गंभीरधर्मग्रहणाय परेषां व्यापर्तुं । तथा व्यापारे हि सति गणः परिक्रष्टव्यः स्यात् । गणपरिकर्षणप्रसंगं पुनः [तिब् । ३२४ ] कस्मात्परिहरन्ति । व्याक्षेपसंसर्गभीरुत्वात् । व्याक्षेपसंसर्गाभ्यां भीरुत्वात् । व्याक्षेपोऽभिप्रेतसमाध्यादिकर्मण्यप्रवृत्तिः । संसर्गोऽन्यसंपर्कः । व्याक्षेपसंसर्गभीरुत्वं पुनः पूर्वाभ्यासवशात् । (इइइ ।९४, ९५) एष प्राज्ञप्तिक इति प्रज्ञप्तिशास्त्रनिर्देशः । चतुर्विधास्चक्रवर्तिन इति । सूत्रे तु सुवर्णचक्रवर्त्येवोक्तः प्राधान्यात् । अस्थानं वर्तमानकालापेक्षया । अनवकाशः अनागतापेक्षया । अनागतेऽप्यध्वनि संभवात्युगपद्द्वयोरिति । अपूर्वाचरमाविति ।नैकः पूर्वो नापरः पश्चात् । किं तर्हि । सहेत्यर्थः । समसम इति वीप्सा । अथ वा समैः सर्वसत्त्वेषु बुद्धैर्भगवद्भिः सम इति समसमः । तावतोऽनभिसंस्कारेणेति । तावतो लोकधातोरनाभोगेन दर्शनात् । निकायान्तरीया इति महासांघिकप्रभृतयः । न चैकत्रेति लोकधातौ । पुरुषायुषमिति । पुरुषस्यायुः पुरुषायुषं । तद्बिभ्रतेति वर्तते । इदमिन्द्रियमिति श्रद्धादि । अस्यांगस्येति । अस्य प्रत्ययस्य । किमिदमेकं लोकधातुमधिकृत्येति । एकचातुर्द्वीपकं त्रिसाहस्रमहासाहस्रं वा लोकधातुमधिकृत्यैतदुक्तमित्यभिप्रायः । चक्रवर्तिनोऽपि चेति विस्तरः । अस्थानमनवकाशो यदपूर्वचरमौ द्वौ तथागतौ लोक उत्पद्येयातामिति नानेन वचनेन लोकधात्वन्तरोत्पादप्रतिषेधः । तथागतानां तथोक्तत्वात् । [तिब् । ३२५ ] तद्यथा चक्रवर्तिनां । चक्रवर्तिनोऽपि हि तथोक्ताः । अस्थानमनवकाशो यदपूर्वचरमौ द्वौ चक्रवर्तिनौ लोक उत्पद्येयातामिति । जनाः प्राकृतमनुष्याः । मनुष्याश्तु मतिमन्तः । शस्त्राण्यावहन्ति उत्क्षिपन्ति । गृहपतिरत्नं कोशाध्यक्षजातीयः । परिणायकरत्नं बलाध्यक्षजातीयः । तद्सम्बन्धजातीयमिति । तेन (अभिधर्मकोषव्याख्या ३३९) चक्रवर्तिना सम्बद्धः । तत्संबद्धस्य तत्संबन्धेन वा सम्वर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसम्वर्तनीयमिति । येन सत्त्वेन कर्मोपचितं । तस्मिन्नुत्पन्ने चक्रवर्तिनि । स्वान्येवैनं सत्त्वं कर्माण्युत्पादयन्ति । न तु सत्त्वश्चक्रवर्तिकुशलविपाकोत्पत्तिप्रत्ययभावमापद्यते । स च कुशलविपाकश्चक्रवर्तिन एवेत्यवगन्तव्यं । देशस्थतराणीति अभ्रष्टस्थानानि । उत्तप्ततराणि प्रभास्वराणि । संपूर्णतराणि अखण्डरूपाणि । चक्रवर्तिराजप्रस्तावेनेदं विचार्यते । (इइइ ।९६) किं खलु यावत्सराजका इति । रूपावचरा इवासन्नित्यस्यार्थस्य प्रतिपादनाय सूत्रमानयति । सूत्र उक्तमिति विस्तरः । दृश्यरूपत्वाद्रूपिणः । उपपादुकत्वान्मनोमयाः । हस्तपादतदंगुल्याद्युपेतत्वात्सर्वंगप्रत्यंयोपेतः । समग्रेन्द्रियत्वातविकलाः । काणविब्रान्ताद्यभावादहीनेन्द्रियाः । दर्शनीयसंस्थानत्वात्शुभाः । रमणीयवर्णत्वात्वर्णस्थायिनः । आदित्यादिप्रभानपेक्षत्वात्स्वयंप्रभाः । कर्मर्द्धिसंयोगेनाकाशचरत्वात्विहायसंगमाः । कवडीकाराहारानपेक्षत्वात्[तिब् । ३२५ ] प्रीतिभक्षाः । प्रीत्याहारा इति पर्यायौ । तथा दीघायुषो दीर्घमध्वानं तिष्ठन्तीति । मधुस्वादुरस इति । मधुन इव स्वादुरसोऽस्य रस इति । अयोनिशोमनस्कारस्य ग्राहभूतस्य ग्रासतां गतानां सत्त्वानां काम एव ग्रहः । तेनावेशस्तस्यारंभ इति । सायमाशार्थमिति । अपरह्णभोजनार्थं । प्रातराशार्थमिति । प्रातर्भोजनार्थम् । संनिधिकारः संग्रहः । क्षेत्राणि विभज्य अकृष्टोप्तेन शालिना तद्वृत्तिकल्पनात् । क्षत्रियादिसंज्ञानां नैरुक्तेन विधिना सिद्धिः । (इइइ ।९७) निर्याणम् इति परिसमाप्तिः । अधर्मरागरक्ता इति । काममिथ्याचाररागाध्यवसिताः । विषमलोभाभिभूता इति । विषमलोभः परकीयस्वीकरणेच्छा चौर्याद्बलाद्वा । तेनाभिभूताः । मिथ्याधर्मपरीता इति विपरीतधर्मपरिदीपकाः । अमातृज्ञा अपितृज्ञा इति विस्तरः । पुनः कल्पस्य निर्याणकाल इति । कल्पस्य निर्याणानि त्रीण्युच्यन्ते । शस्त्ररोगदुर्भिक्षाणि । किमेकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण भवंति । आहोस्विदेकैकस्य एकैकं क्रमेणेति । एक तावदाहुः । एकैकमिति । अपरे पुनराहुः । एकस्य क्रमेण त्रीणि भवंति । पूर्वं दुर्भिक्षं तदनन्तरो रोगः तदनंतरं शस्त्रमिति । पूर्वकस्तु पक्ष इष्ट इति पश्यामः । तैरेव दोषैरिति अधर्मादिरागादिभिः । अमनुष्याः पिशाचादय ईतिं व्याध्यादिकामुत्सृजंति । ओजो वा हरंति । प्रभावतो वा पुष्पफलौषधिप्रभृतीनां महाभूतानि दूषयंति । [तिब् । ३२६ ] यतस्तेषामसाध्या व्याधयः प्रादुर्भवन्ति । यतो म्रियन्ते । तदा चेति विस्तरः । यदेह । जम्बूद्वीपे (अभिधर्मकोषव्याख्या ३४०) शस्त्रकः प्राणातिपातः । तदा द्वयोर्द्वीपयोः पूर्वविदेहावरगोदानीययोर्व्यापाद उद्रेकप्राप्तो भवति । यदेह रोगः । तदा तयोर्दौर्बल्यं । यदेह दुर्भिक्षं । तदा तयोर्जिघत्सापिपासे । (इइइ ।९८, ९९) तीर्थकाराः । कणभुक्प्रभृतयः । वायुर्बीजमुक्तमिति । बहुविधप्रभावभिन्नैर्वायुभिरभिमथ्यमाना इति वचनात् । तस्य निमित्तमिति । रूपावचरो वायुरविनष्टः कामावचरस्य विवर्तकाले प्रथमक्षणोत्पन्नस्य वायोर्निमित्तं । बीजान्याह्रियंते इति । पंच बीजजातानि मूलबीजादीनि । मूलबीजं फलुबीजं बीजबीजमग्रबीजं स्कंधबीजं । एवमपीति । यद्यप्याह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो बीजांकुरगण्डादिभ्योऽंकुरादीनामंकुरकाण्डादीनामुत्पत्तिमिच्छन्ति । बीजादीनि हि तेषां निमित्तकारणानि न समवायिकारणानि । समवायिकारणैश्च भवितव्यं । अत आह । किं तर्हि । स्वेभ्य एवावयवेभ्य इति विस्तरः । तद्यथांकुराद्यवयवी अंकुराद्यवयवेभ्यः । तेषामपि अंकुराद्यवयवानां स्वेभ्य एवावयवेभ्यः । तेषामपि स्वेभ्य एवेति एवं यावत्परमाणुभ्यः । अन्यत्र परमाणूपसर्पणादिति । न जनने बीजादीनां सामर्थ्यं किंचिदस्ति । अंकुरादिपरमाणूपसर्पणात्तु तेषां सामर्थ्यमिष्यत इत्यभिप्रायः । अनियमो [तिब् । ३२६ ] हि स्यादिति । तन्त्वादिभ्योऽपि कटाद्युत्पत्तिः स्यादित्यर्थः । शक्तिनियमादिति । यथा बीजादीनां सामर्थ्यनियमान्न अनियमो भविष्यति । शब्दपाकजोत्पत्तिवत् । यथा शब्दोऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते । अथ च न यतः कुतश्चिद्गन्धरसादेर्विजातीयादुत्पद्यते । अभिघातादीनामेव विजातीयानां तदुत्पादने सामर्थ्यात् । तथा पाकजा रूपादयो विजातीयादग्न्यादेरुत्पद्यंते । अथ च न यतः कुतश्चिद्विजातीयाच्चक्षुरादेरुत्पद्यंते । अग्न्यादेरेव तदुत्पादने सामर्थ्यात् । वैशेषिक आह । चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश्चोत्पद्यते । स्वजातीयेभ्यस्तावत् । रूपरसगन्धस्पर्शादयः कारणपूर्वाः रूपरसगन्धस्पर्शादिभ्य एवोत्पद्यंते । विजातीयेभ्योऽपि संयोगविभागपाकजादयः कर्मादिभ्यः । तदेवं गुणधर्मो द्रव्यधर्मं प्रति अनुदाहरणं । त एव हि ते तथेति विस्तरः । वीरणादय एव हि ते तथा तेन प्रकारेण कटादिरूपेण संनिविष्टा व्यवस्थिताः । तां कटसंज्ञां लभन्ते । पिपीलिकादिपंक्तिवत् । यथा पिपीलिकाः । तथा संनिविष्टाः पंक्तिरिति संज्ञां लभन्ते । न च ताभ्योऽन्यत्पंक्तिद्रव्यमस्ति भवतामपि सिद्धान्ते । कथं गम्यते तानि वीरणादीनि तथासंनिविष्टानि कटादिसंज्ञां लभन्ते । न पुनस्तेभ्यो द्रव्यान्तराणीति । अत आह । एकतन्तुसंयोगे पटस्यानुपलंभात् । आरब्धकार्ये ह्येकस्मिं तंतौ चक्षुःसंस्पर्शाभ्यां (अभिधर्मकोषव्याख्या ३४१) [तिब् । ३२७ ] संयुक्ते भवन्मतेन पटोऽपि च ताभ्यां संनिकृष्ट इति असावपि तथैवोपलभ्येत । यदि ब्रूयात् । प्रतिबन्धात्तस्यानुपलब्धिरिति । अत आह । को हि तदा सतो विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध इति । नास्ति प्रतिबन्ध इत्यभिप्रायः । तस्मान्न पटो नाम द्रव्यान्तरमस्तीति । स्यान्मतं । एकैकस्मिन् तन्तौ प्रदेशेन पटो वर्तते न सर्वात्मना वर्तत इति । अत उच्यते । अकृत्स्नवृत्तविति विस्तरः । अकृत्स्नवृत्तौ पटस्य कल्पमानायां पटभागोऽत्रैकैकस्मिन् तन्तौ स्यान्न पटस्ततः । किमिति चेत् । अत आह । समूहमात्रं च पटः स्यादिति वर्तते । एकस्मिन् तन्तावेको भागो अपरस्मिन्नपर इति तन्तुवर्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति । न चेष्यते । कश्च तन्तुभ्योऽन्यः पटभाग इति । कणभुग्भक्ताः प्रष्टव्याः येन भागेनायमिन्द्रियसंनिकृष्टे तन्तौ वर्तेत । तस्मादेतामपि कल्पनां कल्पयित्वा नातोऽन्यः पटः सिध्यति । स्यान्मतम् । एकैकस्मिन्नपि तन्तौ पटो वर्तते । पटोपलब्धेस्तु पटेन्द्रियसंनिकर्षः । पटस्यानेकाश्रयसंयोगापेक्षो निमित्तमिति । अतोऽनेकाश्रयसंयोगापेक्षायामुपलब्धौ कल्प्यमानायां दशामात्रसंघाते गृह्यमाणे पट उपलभ्येत । न तूपलभ्यते । पटमध्यभागाद्यदर्शनात् । अथ मतं । नैव तदानीमपीन्द्रियेण मध्यादिभागाः संप्रयुज्यन्त इति । अतो दशामात्रसंहाते पटोपलब्धिर्न भवतीति । तत इदमभिधीयते । न वा कदाचिदिति विस्तरः । न वा कदाचित्पटोपलब्धिः स्यात् । मध्यपरभागानामिन्द्रियेणासंनिकर्षात् । [तिब् । ३२७ ] नैव हि संभवोऽस्ति यत्तदारंभकाः मध्यपरभागाः सर्व एवेन्द्रियेण संनिकृष्येरन् । तथा च सति तन्त्वादिष्वप्येष प्रसंग इति न च किंचिदपि कार्यमुपलभ्येत । किं च क्रमसंनिकर्षे चेति विस्तरः । यदा क्रमेण चक्षुः संस्पर्शनेन्द्रियं वा पटं गृह्णीयात् । तदा पटग्रहणं न स्यात् । युगपदनेकाश्र्यसंयोगभावाच्चक्षुःस्पर्शनेन्द्रिययोः । एवमन्येषामपि अवयवानां ग्रहणं न स्यात् । तस्मादिति विस्तरः । यस्मात्क्रमेण पटबुद्धिः कटबुद्धिर्वा । तस्मादवयवेष्वेव पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः कटबुद्धिर्वा विकल्पवशाद्भवति । अलातचक्रवत् । यथालाते शीघ्रसंचारात्तत्रतत्रोत्पद्यमाने अलातचक्रबुद्धिर्भवति । तद्वत् । साधनं चात्र । न द्रव्यसत्पटः । अवयवग्रहणसॄआपेक्षग्रहणत्वात् । अलातचक्रवत् । भिन्नरूपजातिक्रियास्विति विस्तरः । भिन्नरूपेषु तन्तुषु नीलपीतादिभेदात् । भिन्नजातिषु दुकूलकर्पासादिभेदात् । भिन्नक्रियेषूर्ध्वधोगमभेदात् । पटस्य रूपाद्यसंभवात् । कीदृशं तत्र रूपं भवतु (अभिधर्मकोषव्याख्या ३४२) जातिः क्रिया वा । स्यादेषा बुद्धिः चित्रमस्य रूपादीति । तदेवं चित्ररूपादित्वे कल्प्यमाने विजातीयारंभोऽपि स्यात् । तन्तुवीरणयोरपि कटारंभः स्यात् । तथा सति धर्मविशेषविपर्ययः प्राप्नोति । अत्यन्तविजातीयारंभकत्वं द्रव्याणां [तिब् । ३२८ ] प्राप्नोतीत्यर्थः । अविचित्रे च पार्श्वान्तरे एकपार्श्वविचित्रस्य पटस्यादर्शनं स्यात् । तस्य चित्ररूपाभिमतत्वात् । रूपदर्शने हि तदाश्रयद्रव्योपलब्धिरिष्यते वैशेषिकैः । महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । रूपसंस्काराभावात्वायोरनुपलब्धिरिति वचनात् । चित्त्ररूपदर्शनं वा अचित्रे पार्श्वे स्यात्यदि पटो दृश्येत । चित्रं हि तस्य रूपमिष्यते । क्रियापि चित्रेत्यतिचित्रमिति । एकं तद्द्रव्यं विचित्रक्रियमिति न युज्यते । क्रियावैचित्र्ये हि क्रियावदभिमतानां द्रव्याणामन्यत्वमिष्यते । तापप्रकाशभेदे चेति विस्तरः । अग्निप्रभालक्षणस्य अवयविन आदिमध्यान्तेषु आरंभकेषु तापप्रकाशभेदे स्पर्शनभेदो दृष्टः । स च तद्भेदस्तत्र यथाक्रमं तीव्रमध्यमन्दता । तस्यावयविनः प्रभाद्रव्यस्य तौ रूपस्पर्शौ नोपपद्येते । न ह्येकस्यावयविन अनेकं रूपं स्पर्शो वा युज्यते । तेन नावयवेभ्योऽवयवि द्रव्यमन्यदस्तीति । अथ मतं । यदि तन्त्वादिभ्योऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तोऽस्ति । परमाणूनामतीन्द्रियत्वात् । न च तैरवयवैः ऐन्द्रियक आरब्ध इति । कृत्स्नं जगदप्रत्यक्षं स्यात् । प्रत्यक्षं च गवादि दृश्यते । तस्मादतीन्द्रियैः परमाणुभिरर्थान्तरमन्यदैन्द्रियकमारब्धमिति सिद्धमित्यत्रोच्यते । परमाण्वतीन्द्रियत्वेऽपीति [तिब् । ३२८ ] विस्तरः । यथा भवतां वैशेषिकाणामतीन्द्रियत्वेऽपि समस्तानां कार्यारंभकत्वं न व्यस्तानाम् । एवमस्माकमपि समस्तानामेव प्रत्यक्षत्वं न व्यस्तानामसत्यप्यवयविनि अर्थान्तरभूते । यथा चक्षुरादीनां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षुर्विज्ञानोत्पत्तौ कारणत्वं नैकैकस्य । एवं परमाणूनामतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं नैकैकस्य । तैमिरिकाणां च पुरुषाणां विकीर्णानामसंयुक्तानां केशानां समूह उपलभ्यते अनारब्धेऽप्यवयविनि । न त्वेकैकः केशः । तेषां तैमिरिकाणां परमाणुवदेकः केशोऽतीन्द्रियः । इत्यतो नास्ति तेऽन्यद्द्रव्यं । तदेवमवयविनं प्रतिषिध्य रूपादिभ्यो गुंेभ्यः अर्थान्तरं गुणिनां प्रतिषेद्धुकाम आह । रूपादिष्वेव चेति विस्तरः । रूपादिष्वेव परमाणुरिति संज्ञाविनिवेशः । तद्विनाशे रूपादिविनाशे सिद्धः परमाणुविनाश इति । वैशेषिका आहुः । द्रव्यं हि परमाणुः । अन्यच्च रूपादिभ्यो द्रव्यं । रूपगन्धरसस्पर्शवती पृथिवी इत्येवमादिसिद्धान्तवचनात् । अप्रयुक्तम् (अभिधर्मकोषव्याख्या ३४३) अस्यान्यत्वं यस्मान्न केनचित्परिच्छिद्यन्ते इमानि पृथिव्यप्तेजांसि । इमे एषां पृथिव्यादीनां रूपादयो रूपरसगन्धस्पर्शा गुणा इति । ब्रूयाततीन्द्रियाणि तान्यतो न निर्धार्यन्त [तिब् । ३२९ ] इत्यत आह । चक्षुःस्पर्शनग्राह्याणि च तानि पृथ्य्व्यादीनि प्रतिज्ञायन्त इति । दग्धेषु चेति विष्तरः । ऊर्णादीन्यवयविद्रव्याणि न दह्यन्त इति पैलुकाः । तदुक्तं भवति । प्राक्तनगुणनिवृत्तौ पाकजगुणोत्पत्तौ तदाश्रयास्तु द्रव्याणि तदवस्थानान्येव भवन्तीति । तथैवोर्णादिबुद्धिः स्यात् । न च भवति । तस्मात्तद्द्रव्यबुद्ध्यभावात् । रूपादिष्वेव तद्भुद्धिर्न द्रव्ये अर्थान्तरभूत इति । यदि हि ऊर्णादिद्रव्यं रूपादिभ्योऽन्यत्स्यात्तत्तदवस्थानं भवतीति रूपादीन्येवाग्निसंबन्धादुष्णेन निरुद्धानीत्यूर्णादिबुद्धिः स्यात् । न च भवति । तस्माद्रूपादिष्वेवोर्णादिबुद्धिः । वैशेषिका आहुः । यदि रूपादिमात्रं घटः स्यादग्निसंबन्धाद्रूपादीनि पाकजादीन्यन्यान्युत्पद्यन्त इति स एवायं घट इति न परिज्ञायेत । यस्य तु पाकाद्रूपादीन्येवोत्पद्यन्ते निरुध्यन्ते चेति स एव घटस्तदवस्थानो भवतीति तस्य तत्परिज्ञानं युज्यत इत्यत इदमुच्यते । पाकजोत्पत्तौ घटपरिज्ञानं । संस्थानसामान्यादिति । रूपाद्याकृतिसामान्यादित्यर्थः । पंक्तिवत् । यथा न वस्तत्पिपीलिकानां तद्व्यतिरिक्तं पंक्तिद्रव्यं नामास्ति । अथ च पूर्वपंक्तिसंस्थानसामान्यादन्यस्यामिति तत्परिज्ञानं भवति । सैवेयं पिपीलिकानां पंक्तिरिति । [तिब् । ३२९ ] आह । कथमेतद्गम्यते । संस्थानसामान्यात्परिज्ञानं न तु तादवस्थ्यादिति । अत्रोच्यते । चिह्नमपश्यतोऽपरिज्ञानादिति । यस्मात्खण्डनिम्नोन्नतादिचिह्नमपश्यतस्तत्परिज्ञानं न भवति । अतः संस्थानसामान्यादिति सिद्धं । सा चेति विस्तरः । सा च प्रीतिः प्रस्रब्धियोगेन । प्रीतेर्मनसः प्रस्रब्धिर्जायत । इति प्रस्रब्धियोगेनाश्रयमृदुकरणातप्कल्पा । अत एव चेति विस्तरः । आश्रयमृदुकरणात् । तस्मिन् द्वितीये समापत्तिध्याने कृत्स्नस्य कायस्थैर्यस्यापगमात् । दुःखेन्द्रियनिरोध उक्तः । सुखस्य च प्रहाणात् । दुःखस्य च प्रहाणात् । पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य (अभिधर्मकोषव्याख्या ३४४) विहरतीति वचनात् । आध्यात्मिकापक्षालरहितत्वादिति । ये वितर्कविचारादयोऽष्टावाध्यात्मिकापक्षालाः । वितर्कविचारौ चासू च सुखादि च चतुष्टयमिति । तद्रहितत्वादित्यर्थः । आनेज्यमिति । एजृ कम्पन इत्यस्य धातोरेतद्रूपमानेज्यमिति । यदा त्वानिंज्यमिति पाठः । तदा इगेः प्रकृत्यन्तरस्यैतद्रूपं द्रष्टव्यं । न तैः शुद्धावासकायिकैः शक्यमारूप्यान् प्रवेष्टुं । विपश्यनाचरितत्वात् । शमथचरिताश्चारूप्याः । नाप्यन्यत्र गन्तुमधरां भूमिं । विशेषगामित्वात् । एतेन क्रमेणेति । यथोक्तेन सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवत्येका । पुनः सप्तानां तेजःसंवर्तनीनामनंतरमद्भिः [तिब् । ३३० ] संवर्तनी भवति द्वितीया । एवं यावत्सप्तम्यद्भिः संवर्तनी । एवं गतेऽद्भिः सप्तके पुनः तेजसा सप्तकः । ततः पश्चादेका वायुसंवर्तनी भवति । किंकारणं यथावर्णितं बहुना कालप्रकर्षणेनाप्संवर्तनी भवति । ततोऽपि बहुतरेण वायुसंवर्तनीत्यत इदमुच्यते । यथैव हि तेषामिति विस्तरः । यथा प्रथमध्यानात्द्वितीयध्यानसमापत्तिविशेषातात्मभावानां द्वितीयध्यानभूमिकानां स्थितिविशेषः । अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानामायुःप्रमाणं । कल्पद्वयं द्वितीयध्यानोपपन्नानामिति । तथा भाजनानामपि । किं । स्थितिविशेष इति । एवं द्वितीयादपि तृतीयध्यानस्य विशेषो वक्तव्यः । एवं च कृत्वेति । यस्मादष्टकृत्वस्तेजःसंवर्तनीसप्तका इति षट्पंचाशत्तेजःसंवर्तन्यो भवन्ति सप्ताप्संवर्तन्यः एका वायुसंवर्तनीति चतुःषष्टिसंवर्तन्यो भवन्ति । तस्माद्यदुक्तं प्रज्ञप्तिभाष्ये चतुःषष्टिः कल्पाः शुभकृत्स्नानामायुह्प्रमाणमिति । तत्सूक्तं भवति । यथा ऊर्ध्वं तु परीत्ताभेध्यः आश्रयः द्विगुणद्विगुणः इत्यत्रोक्तं शुभकृत्स्नानां चतुःषष्टियोजनानां शरीरप्रमाणं । शरीरप्रमाणेन च तेषामायुःप्रमाणमुक्तं । आयुस्तु कल्पैः स्वाश्रयं इति वचनात् । एकैका संवर्तनी महाकल्प इति कृत्वा । इयता हि कालेन तेषामायुषह्परिसमाप्तिरिति । आचार्ययशोमित्रकृतायां स्फुटर्थायामभिधर्मकोशे व्याख्यायां तृतीयं कोशस्थानं । ३ । (अभिधर्मकोषव्याख्या ३४५) इव्कर्मनिर्देश (इव् ।१) [तिब् । १ ] तीर्थकरविप्रतिपत्त्या समुत्पादितसंदेहः पृच्छति । अथ यदेतदिति विस्तरः । तत्र सत्त्ववैचित्र्यं धातुगतियोन्यादिभेदेन । भाजनवैचित्र्यं मेरुद्वीपादिभेदेन । व्यामिश्रकारिणामिति । कुशलाकुशलकर्मकारिणां । अथ कस्मात्तेषामाश्रया रम्या न भवन्ति [तिब् । २ ] भोगास्तु रम्या इति । सति चैवं विषयोपभोगः संभवति । आश्रयरम्यत्वे हि कस्य प्रतीकारस्य विषयोपभोगः स्यात् । अव्यामिश्रकारिणामिति । रूपावचराणां । कामावचरा अपि देवा अव्यामिश्रकारिकल्पा आश्रयविषयरम्याः । रम्यता हेतुकर्मद्वयकारित्वात् । चेतयित्वा चेति । एवं चेदं करिष्यामीति । [तिब् । २ ] स्वभावतश्चेद्वाक्कर्मैकमिति । वा एव कर्मेति कृत्वा । इतरयोस्तु न कर्मत्वं । कायेन कायस्य वा कर्म कायकर्म । एवं मनस्कर्म । इति न स्वभावतः कर्म । त्रिभिः कारणैरिति । आश्रयतः स्वभावतः समुत्थानतश्चेति । त्रयाणामिति । कायवाङ्मनस्कर्मणाम् । आश्रयतः कायकर्म । कायाश्रयं कर्म कायकर्मेति । स्वभावतो वाक्कर्म । वागेव कर्मेति । समुत्थानतो मनस्कर्म । मनःसमुत्थितमिति कृत्वा । (इव् ।२ द्-४) गतिरित्यपर इति । वात्सीपुत्रीयाः । आत्मलाभोऽनन्तरविनाशीति । क्षणस्यानन्तरक्षण [तिब् । ३ ] इति नैरुक्तेन विधिना आत्मलाभोऽनन्तरविनाशी क्षणशब्देनाभिधीयते । अथ वा कालपर्यन्तः क्षणः । स्वावस्थानः । सोऽस्यास्तीति क्सणिकः । अत इनिठनाविति ठन् । संस्कृतस्यावश्यं व्ययादिति । उत्पत्त्यनन्तरविनाशिरूपं । चित्तचैत्तवत् । आकस्मिको हि भावानां विनाश इति । अकस्माद्भव आकस्मिकः अहेतुक इत्यर्थः । साधनं चात्र । अहेतुको विनाशः । अभावत्वात् । अत्यन्तभाववत् । दृष्टो वै काष्ठादीनामिति विस्तरः [तिब् । ३ ] आदिशब्देन (अभिधर्मकोषव्याख्या ३४६) रूपादीनां ग्रहणं । दृष्टोऽग्निसंयोगाद्विनाश इति । प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोषं दर्शयति । अत एवाह । न च दृष्टाद्गरिष्ठं प्रमाणमिति । न प्रत्यक्षाद्गुरुतमं प्रमाणमस्तीत्यर्थः । आचार्यः प्रत्यक्षाभिमानं परेषां दर्शयन्नाह । कथं तावद्भवान् यावन्मन्यत इति । न हि काष्ठादिविनाशो रूपादिवत्प्रत्यक्षत उपलभ्यते । अक्षणिकवादिनस्त आहुः । तेषां पुनरदर्शनादिति । तेषां काष्ठादीनामदर्शनात् । तदेवमनुमानतः सिद्धिं दर्शयति । अग्निसंयोगहेतुकः काष्ठादिविनाशः । तदापाते भावात् । यस्य यदापाते भावः । स तद्धेतुकः । तद्यथा बीजापाते भाव्योऽंकुरः । संप्रधार्यं तावदेतदिति । नैकान्तिकतामुद्भावयति । न हि यस्यापाते [तिब् । ४ ] यो विनाशो भवति । स तद्धेतुक इति । वायुसंयोगपाते हि सति प्रदीपस्य विनाशः । न च स विनाशो वायुसंयोगकृतः । क्षणिकत्वाभ्युपगमाद्धि प्रदीपस्याकस्मिको विनाश इष्यते । स हि उत्पन्नप्रध्वंसितत्वात्स्वयं विनष्टः प्रदीपः । वायुप्रतिबन्धादन्यस्यानुत्पत्तौ न दृश्यते । न तेन विनाश इति । तथा घण्टाशब्दक्षणिक इष्यते । पाणिसंयोगपाते च सति घण्टाशब्दस्य विनाशः । न स तत्कृतः । क्षणिकत्वाद्धि स्वयं विनष्टो घण्टाशब्दः । तत्प्रतिबन्धत्वादन्यस्यानुत्पत्तौ न दृश्यते । न तेन विनाश इति । तस्मादनुमानसाध्योऽयमर्थः । न प्रत्यक्षसिद्ध इत्यभिप्रायः । तस्मादनैकान्तिकमेतत् । यस्य पाते यः कश्चिद्विनाशः । स तत्कृत इति । किं पुनरत्रानुमानमिति । अत्राहेतुको विनाश इत्येतस्मिन्नर्थे किमनुमानमिति । उक्तं तावदकार्यत्वादभावस्येति । अहेतुको विनाशः । अकार्यत्वात् । आकाशवत् । अकार्यश्चासौ । अभावस्वभावत्वात् । [तिब् । ४ ] अत्यन्ताभाववत् । न कस्यचिदहेतोर् इति । न कस्यचिदकस्मादित्यर्थः । उत्पादवदिति विपरीतोपमानं । यथोत्पाद आत्मलाभलक्षणः सहेतुक एव । नाहेतुकः । तद्विनाशः स्यात् । न चैवं भवति । कथमित्याह । क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाशः । तदेवमनुमानापतितो धर्मस्वरूपविपर्ययः । आकस्मिकः काष्ठादीनां विनाशः । विनाशस्वाभाव्यात् । बुद्ध्यादिविनाशवदिति । यस्तु मन्यत इति वैशेषिकाः । पूर्वा बुद्धिरुत्तरया बुद्ध्या उत्पन्नया विनाश्यते । अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते । एवं शब्दोऽपि वाच्यः । आह । न युक्तमेतत् । कस्मात् । बुद्ध्योरसमवधानात् । अयुगपद्भावादित्यर्थः । न ह्यसन्तं नाश्यं हेतुर्विनाशयतीति । कथं गम्यते बुद्ध्योरसमवधानमिति । अत आह । न हि संशयनिश्चयज्ञानयोर्युक्तसमवधानमिति (अभिधर्मकोषव्याख्या ३४७) विस्तरः । स्वसंवेद्यमेतत् । यदा संशयज्ञानम् । न तदा निश्चयज्ञानम् । यदा निश्चयज्ञानं । न तदा संशयज्ञानमिति । एवं सुखदुःखयो रागद्वेषयोश्चासमवधानमिति योजयं । यथा च विरुद्धयोरसमवधानम् । एवम् [तिब् । ५ ] अविरुद्धयोरपि ज्ञानयोरसमवधानं भवतीति । यदा चेति विस्तरः । अथापि समवधानं स्यादिति । तथाप्यपटुबुद्धिशब्दौ पटू न हिंस्यातां । दुर्बलसमानजातीयत्वात् । न हि दुर्बलसमानजातीयो बलवन्तं हिंसन् दृष्टः । असमानस्तु दुर्बलोऽपि हिंस्यात् । तद्यथा उदकं तेजः । योऽप्यर्चिषमवस्थानहेत्वभावादिति । अवस्थानहेत्वभावाद्भावानां विनाश इति । स्थविरवसुबन्धुप्रभृतिभिरयं हेतुरुक्तः । स चायुक्तः । न ह्यभावः कारणं भवितुमर्हतीति । धर्मधर्मवशाद्वेति वैशेषिकः । तं प्रत्याह । न चाप्युत्पादविनाशहेत्वोरिति । उत्पादविनाशहेत्वोरधर्मस्य । क्षण एव क्षण इति । मुख्ये क्षणे । नौपचारिके क्षण इत्यर्थः । अथ वा क्षण एव क्षण इति । क्षणे क्षण एवेत्यर्थः । वृत्तिलाभप्रतिबन्धौ वृत्तिलाभो वृत्तिप्रतिबन्धश्च क्षणेक्षणे भवितुं नार्हतः । कथं कृत्वा । यस्यार्चिषः उत्पत्तावनुग्रहो भवति चैत्रस्य मैत्रस्य वा । तस्य धर्म उत्पलब्धवृत्तिः तदुत्पादयतीत्येवमुत्पादहेतुः । विनाशहेतुरपि । यदि तद्विनाशस्तस्यानुग्रहं करोति अन्धकारावस्थायाम् । एवमधर्मोऽपि । यस्यार्चिरुत्पत्तावपकारो भवति । [तिब् । ५ ] तस्याधर्मो लब्धवृत्तिस्तदुत्पदयति । विनाशहेतुरपि । यदि तद्विनाशस्तस्याप्यपकारं करोति अन्धकारावस्थायाम् । इति तयोर्वृत्तिलाभादर्चिषामुत्पत्तिर्भवति । न च वृत्तिलाभं तयोरप्रतिबध्य ताभ्यामेव तस्मिन्नेव क्षणे तेषां विनाश इति । क्षणेक्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर्युज्येते । शक्यश्चैष कारणपरिकल्प इति विस्तरः । धर्माधर्मविनाश इति कारणपरिकल्पः सर्वत्र संस्कृते द्व्यणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते कर्तुं । अतो न वक्तव्यमेतत् । अग्निसंयोगात्काष्ठादीनां विनाश इत्येवमादि । ततश्च सर्वसंस्कृतस्य क्षणिकसिद्धिः । धर्माधर्मयोस्तद्विनाशकारणान्तरानपेक्षत्वादित्यलं विवादेन । ततेव तादृशाद्वेति । यदि अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्ततां जनयति । स एव रक्ततां निवर्त्य रक्ततरतां जनयतीति कल्प्यते । (अभिधर्मकोषव्याख्या ३४८) हेतुरेव विनाशकः स्यात् । अथ ज्वालानां क्षणिकत्वादन्यस्तत्संयोगो जनकोऽन्योऽपि विनाशक इति कल्प्यते । हेत्वविशिष्टो विनाशकः स्यात् । न च युक्तमिति सर्वं । ज्वालान्तरेषु च तावद्धेतुभेदेऽपि परिकल्पनां परिकल्पयेयुः वैशेषिकाः । क्षणिकत्वात् । ज्वालानामन्या जनिकाः । [तिब् । ६ ] अन्या विनाशिका इति । क्षारयावद्भूमिसम्बन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः । न हि तेषां क्षारादयः क्षणिकाः । तत्र हेतुरेव विनाशकः स्यात् । यत्तर्हि आप इति विस्तरः । यद्यग्निसंयोगेऽप्यापो न विनाश्यन्ते । कथं तर्ह्यापः क्वाथ्यमानाः क्षीयन्त इत्यभिप्रायः । तेजोधातुरिति । तदविनिर्भागसंवर्धनं । यस्य प्रभावादपां संहातः क्षामक्षामो जायत इति । कारणविशेषात्कार्यविशेष इति । क्षामक्षामतरो जायते । यावदतिक्षामतां गतोऽन्ते न पुनः संतानं संतनोति । कार्यं करोति न त्वभावं करोतीत्यर्थः । भंगुरत्वादिति विस्तरः । भंगशीलत्वात्स्वयं विनश्यन्तोऽन्येनाजनिता विनाशाः । सन्त उत्पन्नमात्रादेकक्षणलब्धात्मानो भवन्तो विनश्यन्ति । तृणज्वालावदिति । यथा तृणज्वालायाः क्षणिकत्वेऽपि देशन्तरेषु निरन्तरोत्पत्तौ गत्यभिमानः । तृणं दहन्तीति । ज्वाला गच्छन्तीति । तद्वत् । साधनं च । अविद्यमानगतयो देशान्तरे निरन्तरमुत्पद्यमाना रूपादयो भावाः । क्षणिकत्वात् । तृणज्वालावत्[तिब् । ६] । संस्थानं कायविज्ञाप्तिरिति वैभाषिकवचनं । एकदिङ्मुख इति । एका दिङ्मुखमस्येति एकदिङ्मुखं । तस्मिन् । भूयसि बहुतरे । एवं सर्वमिति । ऊर्ध्वैकदिङ्मुखे भूयसि उत्पन्न उन्नतमिति प्रज्ञप्यते । अधो भूयस्यवनतमिति । एषा दिक् । तद्यथा अलातमिति । न द्रव्यसत्संस्थानं । वर्णग्रहणात्पक्षग्रहणत्वात् । अलातचक्रवदिति । अथ वा न द्रव्यं संस्थानम् । अन्यरूपग्रहणात्पक्षग्रहणत्वात् । धान्यराशिवदिति । द्वाभ्यामसय ग्रहणं प्राप्नुयादित्युक्ते वैभाषिको ब्रूयात् । न दीर्घत्वादेः कायेन्द्रियेण ग्रहणं । किं तर्हि । स्प्रष्टव्यावयवेष्वेव । तथा संनिविष्टेषु दीर्घादिग्रहणं भवति । अतो न द्वाभ्यामस्य ग्रहणं प्राप्नोतीत्यत इदमुच्यते । यथा वा स्प्रष्टव्य इति विस्तरः । कोऽर्थः । यथा (अभिधर्मकोषव्याख्या ३४९) स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणं । न च स्प्रष्टव्यायतनसंगृहीतं संस्थानं । तथा वर्णेऽपि संभाव्यतां दीर्घादिग्रहणं । न च रूपायतनसंगृहीतं संस्थानम् । अर्थान्तरभूतं स्यादित्यर्थः । पुनर्वैभाषिक आह । स्मृतिमात्रं तत्र इति विस्तरः । स्मृतिमात्रं तत्र संस्थाने । स्पर्शसाहचर्यात्श्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावात् । [तिब् । ७ ] न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य । यथाग्निरूपं दृष्ट्वा तस्याग्नेरुष्णतायां स्मृतिर्भवति । साहचर्यात् । पुष्पस्य च चंपकस्य च गन्धं घ्रात्वा तद्वर्णेऽपि स्मृतिः । साहचर्यात् । आह । युक्तमत्रेति विस्तरः । युक्तमत्राग्नावव्यभिचारातुष्णतायाश्च वर्णस्य च । अन्येनान्यस्मरणमग्निरूपेणोष्णतायाः । पुष्पगन्धेन च तद्वर्णस्य । न तु किंचिदिति विस्तरः । न तु किंचित्स्प्रष्टव्यं श्लक्ष्णत्वादि क्वचिदिति संस्थाने दीर्घादौ नियतं । यतोऽत्र संस्थाने स्प्रष्टव्यं स्पृष्ट्वा समरणं नियमेन स्यात् । यत्र ह्यग्निरूपं । तत्र तदुष्णतया भवितव्यं । यत्र च चम्पकगन्धः । तत्र तद्रूपेण भवितव्यं । न तु यत्र श्लक्ष्णत्वं कर्कशत्वं वा तत्र दीर्घत्वेन ह्रस्वत्वेन वा भवितव्यं । तस्माद्तदुष्णतारूपयोर्नियमेन युज्यते संस्थाने तु नियमेन स्मरणं न प्राप्नोति । तथासत्यपि साहचर्यनियमे स्प्रष्टव्यसंस्थानयोः संस्थाने स्मरणं नियमेन स्यात् । वर्णेऽपि स्यात्स्मरणं नियमेनेति वर्तते । तदेवं स्प्रष्टव्यं स्पृष्ट्वा स्मरेदित्यर्थः । अथानियमेन वर्णस्मरणं भवति वर्णवद्वा संस्थानेऽप्यनियमेन स्यात् । दीर्घे ह्रस्वमिति । ह्रस्वे दीर्घमिति । किंकारणं । वर्णे ह्यनियमेन स्मरणं भवति स्प्रष्टव्यात् । कदाचिद्रक्ते पीतमिति पीते [तिब् । ७ ] रक्तमिति । न चैवं भवति । कथमेवं न भवति । यथा वर्ने संस्मरणं न नियमेन भवति । तथा संस्थानेऽप्यनियमेनेति । किं तर्हि । वर्णे स्मरणं न नियमेन भवति । संस्थाने पुनर्नियमेनेत्ययुक्तमस्य संस्थानस्य स्प्रष्टव्यात्स्मरणं । कथं तर्हि दीर्घबुद्धिर्ह्रस्वबुद्धिर्वा भवति । उक्तमेतत् । एकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घविकल्पबुद्धिरल्पीयसि ह्रस्वविकल्पबुद्धिरित्येवमाद्यवगन्तव्यं । चित्रान्तरेण वेति विस्तरः । चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर्दृश्यमानेनानेकसंस्थानं दृश्यते दीर्घादि । अतोऽनेकसंस्थानदर्शनाद्(अभिधर्मकोषव्याख्या ३५०) बहूनां संस्थानानामेकदेशं प्राप्नुयात् । यत्रैव दीर्घत्वं । तत्रैव ह्रस्वादिग्रहणात् । तच्चायुक्तं वर्णवत् । यथा हि वर्णः सप्रतिघत्वादेकदेशो न भवति । तथा संस्थानमपीति । तथा च सति द्रव्यतोऽस्ति संस्थानमिति सपक्षालः पक्षो भवति । धर्मिविशेषविपर्ययात् । न चाणौ तदिति । यथा नीलादिरूपमष्टद्रव्यकादावणौ विद्यते । न चैवमणौ संस्थानं दीर्घादि विद्यते । कथं पुनर्गम्यते । संस्थानं परमाणौ नास्तीति । दीर्घसंस्थानेऽपचीयमाने दीर्घबुद्ध्यभावात् । दीर्घं हि दण्डमुपलभ्य तस्मिन्नेवापचीयमाने दीर्घबुद्धिर्न निवर्तेत् । न हि नीलादिद्रव्यमुपलभ्यपचीयमाने तस्मिन् पीतबुद्धिर्भवति । दीर्घद्रव्ये त्वपचीयमाने ह्रस्वबुद्धिर्भवति । न दीर्घबुद्धिः । न च युक्तं वक्तुं । तदेव संस्थानं दीर्घादिह्रस्वादिबुद्धिं जनयतीति । [तिब् । ८ ] तस्माद्बहुष्वेवेति सर्वं । अथ मतमिति विस्तरः । संस्ठानपरमाणव एव तथा संनिविष्टा एकदिङ्मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति । न ह्यतत्स्वभावाः तथा संनिविष्ठाः समानास्तां संज्ञामुपलब्धुमर्हतीत्यभिप्रायः । न च संस्थानावयवानां वर्णादिवत्स्वभावः सिद्ध इति । वर्णावयवाः प्रसिद्धस्वभावाः । प्रत्यवयवं नीलादित्वतो ग्रहणात् । न चैवं संस्थानपरमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते । तस्मान्न प्रसिद्धस्वभावाः । यदि तु नैव ते दीर्घादिस्वभावाः । संनिवेशविशेषात्तु दीर्घादिबुद्धिहेतवो भवन्ति । वर्णादिपरमाणव एव संनिवेशविशेषा दीर्घादिबुद्धिहेतवो भवन्तीति किं नेष्यते । यत्तर्हि वर्णत्वाभिन्न इति । यदि वर्णसंनिवेशमात्रं संस्थानं स्यात् । वर्णाभेदे संस्थानभेदो न स्यात् । मृद्भाजनानां कुण्डादीनामनर्थान्तरभावात् । ननु चोक्तमिति विस्तरः । यथा संनिविष्टवर्णे दीर्घादिसंज्ञा प्रज्ञप्यते । एकदिङ्मुखे च वर्ण इति विस्तरेण । यथा च पिपीलिकादीनामिति विस्तरः । यथा च पिपीलिकादय [तिब् । ८ ] एकरूपा भवन्ति । तेषां च पंक्तिरित्यस्मिन् देशेऽन्यादृश्यन्यस्मिन्नन्यादृशी । एवं चक्रादीनां भेद इत्येवमादि । तथा वर्णाभेदेऽपि संस्थानभेदः स्यात् । तर्हि तमसीति विस्तरः । यत्तर्हि तमसि वर्णमपश्यंतः स्थाणुपुरुषहस्त्यादीनां दीर्घह्रस्वत्व परिमण्डलादीनि पश्यन्ति । तत्कथमिति वाक्यशेषः । यदि तर्हि वर्णाज्जात्यन्तरं संस्थानं न स्यात् । यथा वर्णं नीलं पीतमिति वा न पश्यन्ति । तथा संस्थानमपि दीर्घं ह्रस्वमिति न पश्येयुः । पश्यन्ति च कदाचित् । अतो जात्यन्तरं संस्थानमिति । पंक्तिसेनापरिकल्पवदिति । यथा तमस्यव्यक्तं (अभिधर्मकोषव्याख्या ३५१) पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिरिति परिकल्पयंति यथा वा तमस्येव हस्त्यादीनव्यक्तं दृष्ट्वा परिमण्डल इयं सेना व्यवस्थितेति परिकल्पयन्ति । तद्वत् । वेविदितं चैतदेवमिति । यथेदानीमुक्तमसत्यपि जात्यन्तरे संस्थाने वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति । यत्कदाचिदिति विस्तरः । अनिर्धार्यमाणपरिच्छेदमिति । अनिर्धार्यमाणसंस्थानं संघातमात्रमव्यक्तमलक्ष्यमाणनीलत्वादिकं दृश्यते । न च वर्णसंस्थानव्यतिरिक्तं रूपायतनमस्तीति । यथा नान्यत्किंचिद्द्रव्यं [तिब् । ९ ] कल्प्यते । तद्वत्संस्थानमपि न वर्णव्यतिरिक्तं कल्पयितव्यं । तत्र भवन्त इति । ते भवन्त इत्यर्थः । इतराभ्योऽपि दृश्यन्त इति वचनात् । कथं कायकर्म प्रज्ञापयन्तीति । प्रज्ञप्तिसत्त्वात्कायकर्मयोग इति मन्यमानः पृच्छति । कायाधिष्ठानमिति । कायालम्बनमित्यर्थः । यस्य हि कायः प्रवर्त्यः । तत्कायाधिष्ठानं कर्म । तेनाह । या चेतना कायस्य तत्रतत्र प्रनेत्रीति । यथायोगं वेदितव्ये इति । वागधिष्ठानं कर्म वाक्कर्म । मनस्कर्म तु मनसः कर्म । मनसा वा संप्रयुक्तं कर्म मनस्कर्म । तेन यथायोगमित्युक्तं । विज्ञप्त्यभावादिति विस्तरः । यदि विज्ञप्तिर्न स्यात् । अविज्ञप्तिरपि कामावचरी न स्यात् । विज्ञप्त्यधीना हि कामावचर्यविज्ञप्तिर्न चित्तानुपरिवर्तिनीति । सा चैवं नास्तीति । महान्तो दोषा अनुषज्यन्ते । सम्वरासम्वराभावदोषः सप्तौपधिकपुण्यक्रियावस्तुपुण्यवृद्ध्यभावदोष इत्येवमादयोऽनुषंगाः । अनुषंगाणां पुनः प्रत्यनुषंगा इति । तत्परिहारा भविष्यन्तीति अर्थः । कायकर्मसंशब्दितादिति । कायाधिष्ठानादित्यर्थः । समाहिताविज्ञप्तिवदिति । यथा समाहिताविज्ञप्तिश्[तिब् । ९ ] चित्तानुपरिवर्तिनी । एवं प्रातिमोक्षसम्वरादिलक्षणाप्यविज्ञप्तिः स्यात् । सौत्रान्तिका आहुः । नैवं भविष्यति । न चित्तानुपरिवर्तिनी भविष्यति । चेतनाविशेषेणासमाहितेन तदाक्षेपविशेषादसमाहिताया अविज्ञप्तेराक्षेपादित्यर्थः । सापि च विज्ञप्तिर्भवदीया सती विद्यमाना अविज्ञप्तेराक्षेपे उत्पादनचेतनाया बलं सामर्थ्यं निभालयते अपेक्षते । कस्मात् । जडत्वादपटुत्वाच्चेतनाबलमन्तरेण तामविज्ञप्तिं जनयितुं न शक्नोति । न ह्यसत्यां समादानचेतनायां यदृच्छोत्पन्ना विज्ञप्तिरविज्ञप्तिं जनयति । वाग्विज्ञप्तिस्त्व् इति । तुशब्दो विशेषणेन । यथा कायविज्ञप्तिः संस्थानात्मिका न तथा वाग्विज्ञप्तिः । किं तर्हि । वागात्मको ध्वनिर्वर्णात्मकः शब्द इत्यर्थः । (अभिधर्मकोषव्याख्या ३५२) अविज्ञप्तिः पूर्वमेवोक्तेति । ते तु विज्ञप्त्यविज्ञप्ति इत्युक्तं । तत्र विज्ञप्तिरुक्ता अविज्ञप्तिर्वक्तव्या । सा च पूर्वमेवोक्ता । विक्षिप्ताचित्तकस्येति वचनात् । सापि द्रव्यतो नास्ति साप्यविज्ञप्तिर्द्रव्यतो नास्ति । न केवला विज्ञप्तिरित्यपिशब्दः । अभ्युपेत्याकरणमात्रत्वाद्[तिब् । १० ] इति । इमं दिवसमुपादाय प्राणातिपातादिभ्यः प्रतिविरमामीत्यभ्युपेत्य । तस्मात्परेण तेषामकरणमात्रमविज्ञप्तिरित्येवं द्रव्यतो नास्तीति सौत्रान्तिकाः । तेषां चातीतानां महाभूतानां । न ह्यतीतानां प्रत्युत्पन्नस्वभावोऽस्ति । पंचमे च कोशस्थान एतद्दर्शयिष्यत इति । कथमविद्यमानान्यस्या आश्रय इत्यतो न द्रव्यतोऽस्ति । रूपलक्षणभावाच्च । रूप्यत इति रूपलक्षणं । तच्चास्या अप्रतिघत्वान्नास्ति । तस्मान्न द्रव्यतोऽस्ति । (इव् ।५ ब्) त्रिविधेति विस्तरः । त्रिविधं च तदमलं च त्रिविधामलरूपं । तस्योक्तिः । अकुर्वतः पन्था अकुर्वत्पथः । परेण कारयतः स्वयमकुर्वतः कर्म इत्यर्थः । त्रिविधामलरूपोक्तिश्च वृद्धिश्चाकुर्वत्पथश्चादिरेषां । तानीमानि त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादीनि । आदिशब्देन धर्मो भिक्षो इत्यत्रारूपीत्यवचनं । आर्याष्टांगवचनं । प्रातिमोक्षसम्वरसेतुवचनं च गृह्यते । रूपस्य रूपसंग्रह इति । रूपस्य रूपेणैव संग्रहो भवति । नान्यैर्वेदनादिभिः । अस्ति रूपं सनिदर्शनं सप्रतिघं । यच्चक्षुर्विज्ञानविज्ञेयं रूपम् । [तिब् । १० ] अस्त्यनिदर्शनं सप्रतिघं । यानि चक्षुरादीनि । तत्पुनर्नव रूप्यायतनानि । अस्ति रूपमनिदर्शनमप्रतिघं । यन्मनोविज्ञानविज्ञेयमविज्ञप्तिरूपं धर्मायतनसंगृहीतं । नाविज्ञप्तिं विरहय्येति विस्तरः । अविज्ञप्तिं मुक्त्वा नास्ति रूपमनिदर्शनमप्रतिघं यद्रूपसंग्रहसूत्र उक्तं । नाप्यनास्रवमस्ति रूपमविज्ञप्तिविरहेय्येति वर्तते । न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते । सप्तभिरौपधिकैरिति । उपधिरारामविहारादिः । तत्रभवमौपधिकं । तस्योपधेरभावान्निरौपधिकं । सततमभीक्ष्णं । समितं निरन्तरं । अत्र सूत्रं । भगवान् कौशांब्यां विहरति स्म । घोषिरारामे । अथायुष्मान्महाचुन्दो (अभिधर्मकोषव्याख्या ३५३) येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् । एकान्ते स्थित आयुष्मान्महाचुन्दो भगवन्तमेतदवोचत् । लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं महानुशंसं महाद्युतिकं महावैस्तारिकं । लभ्यं चुन्देति भगवांस्तस्यावोचत् । सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफलानि यावन्महावैस्तारिकाणि । [तिब् । ११ ] यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा स्वपतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यं । कतमानि सप्त । इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातुर्दिशाय भिक्षुसंघायारामं प्रतिपादयति । इदं चुन्द प्रथममौपधिकं पुण्यक्रियावस्तु महाफलं यावन्महावैस्तारिकं । येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण यावदुपजायत एव पुण्यं । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेवारामे विहारं प्रतिष्ठापयति । इदं द्वितीयमौपधिकं पुण्यक्रियावस्तु महाफलं यावदुपजायत एव पुण्यं । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेव विहारे शयनासनं प्रयच्छति । तद्यथा । मञ्चं पीठं बृषीं कोच्चवं बिम्बोपधानं चतुरश्रकं ददाति । इदं चुन्द तृतीयमौपधिकं पुण्यक्रियावस्तु पूर्ववत् । पुनरपरं चुन्द श्राद्धः कुलपुत्रो कुलदुहिता वा तस्मिन्नेव विहारे ध्रुवभिक्षां प्रज्ञापयत्यनुकूलयज्ञाम् । इदं चुन्द चतुर्थमौपधिकं पुण्यक्रियावस्तु महाफलं पूर्ववत् । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमिकाय वा दानं ददाति । इदं चुन्द पंचममौपधिकं [तिब् । ११ ] पुण्यक्रियावस्तु पूर्ववत् । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोपस्थायकाय वा दानं ददाति । इदं । षष्ठमौपधिकं पुण्यक्रियावस्तु पूर्ववत् । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास्ता भवन्ति शीतलिका वा वद्दलिका वा वातलिका वा वर्षलिका वा । तद्रूपासु शीतलिकासु यावद्वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि संघायाभिनिर्हृत्यानुप्रयच्छति । इदमार्या अस्माकमनार्द्रगात्राः अनभिवृष्टचीवराः परिभुज्य सुखं स्पर्शं विहरंतु । इदं च चुन्द सप्तममौपधिकं पुण्यक्रियावस्तु महाफलं । यावदुपजायत एव पुण्यम् । एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यस्य प्रमाणमुद्ग्रहीतुं । एतावत्पुण्यं वा पुण्यफलं वा पुण्यविपाकं वा । अपि तु बहुत्वात्पुण्यस्य महापुण्यस्कंध इति संख्यां (अभिधर्मकोषव्याख्या ३५४) गच्छतीत्येवमादि । द्विरप्यायुष्मान्महाचुन्दो भगवन्तमेतदवोचत् । लभ्यं भदन्त निरौपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन्महावैस्तारिकं । लभ्यं चुन्देति भगवांस्तस्यावोचत् । सप्तेमानि चुन्द [तिब् । १२ ] निरौपधिकानि पुण्यक्रियावस्तूनि । यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा विस्तरेण यावदुपजायत एव पुण्यं । कतमानि सप्त । इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रमुपनिश्रित्य विहरतीति । श्रुत्वा च पुनरधिगच्छति प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रमोपसंहितं । इदं चुन्द प्रथमं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत् । यावदुपजायत एव पुण्यं । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा उद्युक्तमागमनाय । श्रुत्वा च पुनरधिगच्छतीति पूर्ववत् । इदं चुन्द द्वितीयं निरौपधिकं पुण्यक्रियावस्तु । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथागतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तदेव ग्रामक्षेत्रमनुप्राप्तं । श्रुत्वा च पुनरधिगच्छतीति पूर्ववत् । इदं चुन्द तृतीयं निरौपधिकं पुण्यक्रियावस्तु । यावदुपजायत एव पुण्यं । [तिब् । १२ ] पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा तदेव ग्रामक्षेत्रमनुप्राप्तं । श्रुत्वा च पुनरधिगच्छतीति पूर्ववत् । इदं चुन्द चतुर्थं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत् । यवदुपजायत एव पुण्यं । पुनरपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तमेव तथागतं वा तथागतश्रावकं वा दर्शनायोपसंक्रामति । दृष्ट्वा च पुनः अधिगच्छतीति पूर्ववत् । इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु । पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद्धर्मं शृणोति । श्रुत्वा च पुनरधिगच्छतीति । पूर्ववत् । इदं चुन्द षष्ठं निरौपधिकं पुण्यक्रियावस्तु । पुनरपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद्धर्मं शृणोति । श्रुत्वा च बुद्धशरणं गच्छति धर्मशरणं गच्छति संघशरणं गच्छति । शिक्षापदानि च प्रतिगृह्णाति । इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफलमिति पूर्ववत् । बहुग्रन्थभयान्न सर्वं लिखितं । न ह्याज्ञापनविज्ञप्तेः कर्मपथ उपयुज्यते । तस्य प्राणातिपातादिकर्मणोऽकृतत्वात् । स्यान्मतं । कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः [तिब् । १३ ] कर्मपथो भविष्यतीति । अत्र इदमुच्यते । कृतेऽपि च तस्याः स्वभावाविशेषादिति । परेण कृतेऽपि तस्मिन् (अभिधर्मकोषव्याख्या ३५५) कर्मणि तस्या आज्ञापनविज्ञप्तेर्न कश्चित्स्वभावविशेषोऽस्ति । येन तदानीं कर्मपथः स्यात् । तस्मात्पूर्ववत् । तस्याः स्वभावाविशेषात् । यथैव पूर्ववत्कर्मपथो न व्यवस्थाप्यते । तथैव पश्चादित्यतोऽस्तीत्यभ्युपगन्तव्या यासौ तदानीमुत्पद्यते कर्मपथसंगृहीतेति । एकादशभिरायतनैरसंगृहीतमिति । धर्मायतनवर्ज्यैः । वाक्कर्मान्ताजीवानामयोगादिति । विज्ञप्तिस्वभावानामेवासंभवादित्य् अर्थः । यत्तर्हीदमुक्तमिति विस्तरः । कोऽस्यभिसंबन्धः । यदि वा मतं । यद्यविज्ञप्तिर्न स्यादष्टंगोऽयं मार्गो न स्यात् । तत्र विज्ञप्त्ययोगात् । तस्मादस्त्यविज्ञप्तिरिति । यत्तर्हीदमुक्तमिति विस्तरेणोक्त्वा यावत्सम्यक्समाधिरिति किमर्थमेवमुच्यते । पूर्वमेव चास्येति सर्वं । मार्गस्य समापत्तिकालात्पूर्वमित्यर्थः । विज्ञप्तिरूपास्त उक्ता इत्यभिप्रायः । वैभाषिकाः परिहरन्ति । लौकिहमार्गवैराग्यमिति विस्तरः । लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं [तिब् । १३ ] विज्ञाप्तिरूपम् । एतदभिसंधायैतदुक्तं । न तु मार्गकाले तत्संगृहीतं वागाद्यविज्ञप्तिरूपं नास्तीति । समाधिविषयरूपमिति । समाधेरालम्बनमस्थिसंकलादि । देशनावरणादप्रतिघमिति । यद्रूपं देशमावृणोति । तत्प्रतिघं । विपर्ययादप्रतिघमिति सिद्धं । कथमिदानीं तद्रूपमिति । यदि न रूपयितुं शक्यत इत्यभिप्रायः । एतदविज्ञप्तौ समानं । अविज्ञप्तिरपि वा देशं नावृणोतीति तुल्यं । अनास्रवे समाधौ अनास्रवमिति । मार्गं संमुखीकुर्वाणो योगाचारस्तद्रूपमाशयं चाश्रयं च प्रतिलभते । यत्सम्यग्दृष्टिवदनास्रवं शीलं प्रतिलभते । यस्मिन् सति प्रकृतिशीलतायां संतिष्ठते । अथ वा । अनास्रवेऽपि समाधौ तदेवंविधं रूपं त आचार्या इच्छन्ति । अर्हतो यद्रूपं बाह्यं चेत्यपर इति । अपर आचार्या वर्णयन्ति । अर्हतो यद्रूपं चक्षुरायतनादि । बाह्यं च काष्ठकुड्यादि । तदनास्रवं रूपं । कुतः । आस्रवाणामनिश्रयत्वात् । न ह्यर्हत्सांतानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति । यद्येवं यत्तर्ह्यविशेषेण सूत्र उक्तं सास्रवा धर्माः कतमे । यावदेव च्कषुर्यावदेव रूपाणीति [तिब् । १४ ] विस्तरः । तत्पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तं । चित्तचैत्तविशेषा हि आस्रवप्रतिपक्ष इति । पर्यायेण तर्हीति विस्तरः । तदेवार्हतो रूपं बाह्यं चास्रवाणामप्रतिपक्षत्वात्सास्रवमास्रवाणामनिश्रयत्वादनास्रवमिति । तथा च लक्सणसंकरः स्यादिति दोषः । यानि रूपाणीति । यानि रूपाण्यायतनानीत्यर्थः । विस्तरेण यावद्ये धर्माः सास्रवाः सोपादानीयाश्चेतःखिलम्रक्षवस्त्विति वचनात् । सन्त्यनास्रवाणि रूपायतनानीति । तानि पुनः कतमानि सास्रवाणि सोपादानीयानि । (अभिधर्मकोषव्याख्या ३५६) पृथग्जनरूपाणि । आस्रवाणां निश्रयत्वात्तदप्रतिपक्षत्वाच्च । कतमान्यनास्रवाणि । यान्यर्हतो रूपाणि बाह्यानि च । आस्रवाणामनिश्रयत्वात् । धर्मता ह्येषेति । धर्माणामनादिकालिका शक्तिः । गुणविशेषादिति । ध्यानाप्रमाणादिगुणविशेषात् । अनुग्रहविशेषाच्चेति । शरीरस्य वर्णबलादिविशेषात् । तदालम्बनेति विस्तरः । सप्रतिग्राहकमालम्बनमस्याः । सेयं तदालम्बना दानचेतना । [तिब् । १४ ] तया परिभाविताः संततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमितं प्राप्नुवन्ति । कथं भविष्यतीति । बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्यभिप्रायः । न ह्यत्र दातॄणां दायाः परिभुज्यन्ते । यत्परिभोगात्भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणामिति विस्तरेण यावत्समर्था भवंति । यावदुपजायत एव पुण्यमिति वा । तदालम्बनेचेतनाभ्यासादिति । तथागततच्छ्रावकालम्बनचेतनाभ्यासात् । संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति । येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति । चरतस्तिष्ठतो जाग्रतो युक्तमेवं स्वपतस्तु कथमित्यत आह । स्वप्नेष्वपि ताश्चेतना अनुषङ्गिण्यो भवन्तीति । अविज्ञप्तिवादिनस्तु वैभाषिकस्य निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर्नास्ति । केवलं तं श्रुत्वाधिगच्छति प्रीतिप्रामोद्यमुदारं कुशलं । तत्र कथमविज्ञप्तिः स्यात् । तस्य श्रोतुर्विज्ञप्तिसमाध्योरसंभवात् । अविज्ञप्तिर्हि विज्ञप्तेः समाधेर्वा संभवेत् । औपधिकेष्वपीति विस्तरः । आरामदानादिष्व्[तिब् । १५ ] अपि । तदालम्बनचेतनाभ्यासात् । प्रतिग्राहक आलम्बनमस्याश्चेतनाया इति पूर्ववत् । आह । यद्यौपधिकेष्वपि एवमभीक्ष्णं तदालम्बनचेतनाभ्यासात् । यत्तर्हि सूत्रमिति विस्तरः । अप्रमाणं चेतःसमाधिमिति । मैत्र्यादिसंप्रयुक्तं । चेतनाविशेष इति । एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्यभिष्यन्दोऽस्तीति दर्शयति । क्रियाफलपरिसमाप्ताविति । मौलकर्मपथप्रयोगः क्रिया । मौलकर्मपथः फलं तस्य परिसमाप्तौ । एष एव न्याय इति । स्वयंप्रयोगेण परेषामुपघातविशेषात्कर्तुः सूक्ष्मः संततिपरिणामविशेषो जायत इति सर्वं । कार्ये कारणोपचारादिति । संततिपरिणामविशेषः कर्मपथो भवतीति संततिपरिणामविशेषः कार्यं । कर्मपथः कारणं । योऽसौ कायवाचोः प्रयोगः । स हि चेतनालक्षणस्य कर्मणः पन्था इति । तस्मिन् कार्ये कर्मपथ इति कारणोपचारः । कायिकवाचिकत्वं तु तस्य संततिपरिणामविशेषस्य । तत्क्रियाफलत्वात् । कायवाक्क्रियायाः फलत्वादित्यर्थः । यथा अविज्ञप्तिवादिनामविज्ञप्तिर्[तिब् । १५ ] इति । यथा वैभाषिकाणामविज्ञप्तिवादिनामविज्ञप्तिः कर्मपथ इत्याख्यायते । कार्ये कारणोपचारात् । कायिकवाचिकत्वं तु तत्क्रियाफलत्वादिति । अविज्ञप्तिर्(अभिधर्मकोषव्याख्या ३५७) अद्रव्यमिति प्रकारान्तरेण दर्शयन् भदन्त आह । उपात्तेषु स्कन्धेष्विति विस्तरः । सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावद्येन स्पृश्यते घातक इति । कथं त्रिकालयेत्याह । हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति । तदेवमत्र चेतनैव कर्मेत्युक्तं भवति । आचार्यो भदन्तमतं केनचिद्भागेनाभिप्रेतं केनचिद्भागेनानभिप्रेतं दर्शयन्नाह । न त्वियतेति विस्तरः । यदि कश्चिदेवं प्रयोजयेत् । मन्मातरं मारयेति । उच्चलिते च मारके तस्यैवं भवेत् । हता तेन मन्मातेति । तस्य हताभिमानिन आनन्तर्यकर्म स्यात् । न चेष्यते । तस्मात्स्वयं घ्नन्निति भदन्तेन विशेष्यं वक्तव्यम् । ततेवाह । स्वयं तु घ्नत इति विस्तरः । एतावांश्चेतनासमुदाचार इति । हनिष्यामि हन्मि हतमिति । युक्तरूप इति । युक्त एव युक्तरूप इति । स्वार्थे रूपप्रत्ययः । नामधेयवत् । [तिब् । १६ ] यथा नामैव नामधेयमित्येके व्याचक्षते । प्रशस्तरूपो युक्तरूपः । युक्तं वा रूपं स्वभावोऽस्येति युक्तरूपः । तथैवसंज्ञायमान इति । यथैवाविज्ञप्तिर्दुरवबोधा । तथैव संततिपरिणामविशेषोऽपीति । चित्तान्वयकायप्रयोगेणेति । चित्तपूर्वकेण कायप्रयोगेणेत्यर्थः । ताभ्यां पृथग्भूतमिति । चित्तकायाभ्यां पृथग्भूतं । यत्कृतप्रयोगसंभूतेति । येन कृतो यत्कृतः । यत्कृतात्प्रयोगात्संभूता । क्रियापरिसमाप्तिः कर्मपथपरिसमाप्तिः । तस्यैव चित्तचैत्तस्य प्रयोक्तुस्तन्निमित्तस्तत्प्रयोगनिमित्तः संततिपरिणामो भवतीति । भवति परितोषोऽस्माकमिति वाक्यशेषः । चित्तचैत्तसंतानाच्चायत्यां फलोत्पत्तेः । नाविज्ञप्तिः । किं । भवति परितोष इति वर्तते । विज्ञप्त्यभावादित्येवमादीनि । समुत्थापकस्य धर्मस्याभावात्समुत्थाप्यस्य धर्मस्याभाव इत्यर्थः । अविज्ञप्तिर्द्रव्यतो नास्तीति साधितमेतत् । आदिशब्देनाभ्युपेत्याकरणमात्रत्वात् । अतीतानि महाभूतान्य्[तिब् । १६ ] उपादाय प्रज्ञप्तेः । तेषामविद्यमानत्वादि । तदेवास्तु । धर्मायतनपर्यापन्नमिति । यद्ध्यायिनां समाधिविषयरूपं समाधिप्रभावादुत्पद्यत इत्युक्तं तद्ध्यनिदर्शनं चाप्रतिघं च । अंग तावदाचक्षेति । अंगाप्रातिलोम्य इति पठ्यते । हन्त तावदाचक्षेति । एहि तावदाचक्षेत्यर्थ इत्यपरे । अतो निमित्त इति विस्तरः । यत एवम् । अतो निमित्तेऽविज्ञप्तौ नैमित्तिकोपचारात् । सम्यगाद्युपचारात् । अविज्ञप्तौ तदा व्याक्रियते । सम्यग्वाक्कर्मन्ताजीवाख्या क्रियत इत्यर्थः । आशयं चाश्रयं चेति । आशयः प्राणातिपाताद्यकरणाशयः । श्रद्धाद्याशयो वा । आश्रय आश्रयपरावृत्तिः । (अभिधर्मकोषव्याख्या ३५८) अतो निमित्ते आशये आश्रये च नैमित्तिकोपचारं । सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गांगानि व्यवस्थाप्यन्त इति । तदक्रियामात्रमिति । मिथ्यावागाद्यक्रियामात्रं । कतमत्तदित्याह । यदसाविति विस्तरः । यद्यक्रियामात्रमंगं कथं तदनास्रवमित्याह । तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवमिति । यद्यक्रियामात्रमंगं । तथाद्रव्यसत् । कथमष्टावंगानि भवन्तीत्याह । न हि सर्वत्रेति [तिब् । १७ ] विस्तरः । विधिपूर्वमिति । शीलग्रहणविधिपूर्वं । अन्यचित्तो न संवृतः स्यादिति चेत् । यदि सा चेतना संवरः । तस्माच्चेतनाचित्तादन्यचित्तो न संवृतः स्यात् । यथा चेतना या कायवाचौ संवृणोति नासौ तदानीमस्तीति । न तद्भावनयेति विस्तरः । नैतदेवं । तद्भावनया चित्तसंतानभावनया क्रियाकाले प्राणातिपातादिचित्ते प्रत्युपस्थिते स्मरतः अहंप्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः । तत्प्रत्युपस्थानाद्यया चेतनया कायवाचौ संवृणोति । तस्याः सम्मुखीभावात् । इत्यर्थमेव तस्याः समादानमिति । कथम् । अयमक्रियाप्रतिज्ञामनुस्मृत्य दौःशील्यं न कुर्यादिति । न कश्चिन्मुषितस्मृतिः शिक्षां भिद्यादिति । यासावविज्ञप्तिः सेतुभूता दौःशील्यं प्रतिबध्नाति । सा तदानीं विद्यत इति । (इव् ।५ द्) न हि सैव सामग्रीति विस्तरः । न सैव पृथिवीधात्वादीनां महाभूतानां विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघविज्ञप्तिफलत्वातौदारिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद्युज्यते । तस्माद्[तिब् । १७ ] अन्यान्येव महाभूतानि उपादायाविज्ञप्तिरुत्पद्यते । (इव् ।६ ब्) यदातनी विज्ञप्तिरिति विस्तरः । यदाभवा विज्ञप्तिर्यदातनी विज्ञप्तिः । एवं तदातनानि महाभूतानि । यत्कालसंभूता विज्ञप्तिः किं तत्कालसंभूतान्येव महाभूतान्युपादायाविज्ञप्तिरुत्पद्यते । सर्वमिति । सर्वमुपादायरूपं विज्ञप्तिरविज्ञप्तिर्ध्यानानास्रवसंगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्येव महाभूतान्युपादाय वर्तते । प्रायेणेति ग्रहणं किंचित्कामावचर्यविज्ञप्तिनिरासार्थं । अत एवाह । किंचिद्वर्तमानमनागतमतीतानि महाभूतान्युपादायेति । किंचिदुपादायरूपं वर्तमानमतीतानि महाभूतान्युपादाय वर्तते । किंचिदनागतमुपादायरूपमतीतानि महाभूतान्युपादाय वर्तते । किं पुनस्तदुपादायरूपं यदेवं भूतमिति दर्शयन्नाह । क्षणादूध्वमविज्ञप्तिः कामाप्तातीतभूतजेति । कामावचरसम्वरादिग्रहणकाले अविज्ञप्तिः सहजानि महाभूतान्युपादायोत्पद्यते । एवमन्याप्यविज्ञप्तिस्तान्येवोपादायोत्पद्यते । यस्मात्तान्यस्या आश्रयार्थेन संभवन्ति । यथान्येषामुपादायरूपाणां प्रत्युत्पन्नानि (अभिधर्मकोषव्याख्या ३५९) महाभूतान्याश्रयः [तिब् । १८ ] एवं तस्या अतीतान्याश्रयः । प्रवृत्त्यनुवृत्तिकारणत्वाद्यथाक्रममिति । अतीतानि महाभूतानि प्रवृत्तिकारणत्वाताक्षेपकारणत्वाताश्रयार्थेन भवन्ति । प्रत्युत्पन्नानि शरीरमहाभूतान्यनुवृत्तिकारणत्वादधिष्ठानकारणत्वात्संनिश्रयार्थेन भवन्ति । चक्रस्येवेति विस्तरः । यथा चक्रस्य पाण्यावेधः । एवमस्याः प्रवृत्तिकारणं । यथा भूमिप्रदेशः । एवमनुप्रवृत्तिकारणं । (इव् ।६ द्) कालनियममुक्त्वा भूमिनियमं पृच्छति । अथ कुतस्त्यानीति विस्तरः । यावच्चतुर्थध्यानभूमिकमिति । आरूप्येषु भूतभौतिकानामभावात् । धात्वपतितत्वादिति । अनास्रवस्य कायवाक्कर्मणो धात्वप्रतिसंयुक्तत्वात् । नास्ति नियमत इत्यभिप्रायः । अनास्रवाणि तर्हि महाभूतान्युपादाय कस्मान्न भवतीत्यत आह । अनास्रवाणां च महाभूतानामभावादिति । किं पुनरस्या महाभूतैः कार्यमित्यत आह । तद्बलेन चोत्पत्तेरिति । महाभूतबलेन चोत्पत्तेरित्यर्थः । अथ चित्तबलेनैव तदुत्पत्तिः कस्मान्न भवति । अनुपादायरूपत्वप्रसंगात् । (इव् ।७, ८) अविज्ञप्तिरनौपात्तिकेति । अमूर्तत्वाच्चित्तचैत्ताधिष्ठानभावायोगात् । नैष्यन्दिकी चेति । [तिब् । १८ ] कुशलाकुशलत्वात्न विपाकजा नाव्याकृतास्त्यविज्ञप्तिर् इति वचनात् । विपाकजस्य चाव्याकृतत्वाद् विपाकोऽव्याकृतो धर्म इति वचनात् । नौपचयिकी उपचयाभावात् । पारिशेष्यान्नैष्यन्दिकी । सत्त्वाख्या सत्त्वसंतानपतितत्वात् । निष्यन्दोपात्तभूतजेति । नैष्यन्दिकोपात्तमहाभूतजा । समुत्थापकचित्तापेक्षत्वातसमाहितचित्तविज्ञप्त्यधिकाराच्च । न स्वप्नसमाध्याद्यौपचयिकमहाभूतजा । अत एव च न विपाकजमहाभूतजा । समाधिजेति विस्तरः । सास्रवानास्रवसमाधिजत्वात् । ध्यानानास्रवजसम्वराविज्ञप्तिः समाधिजेत्युच्यते । अनुपात्तानि च महाभूतान्युपादायेति । समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात् । उपात्तानि हि महाभूतानि निरोधसमापत्त्याद्यवस्थासु (अभिधर्मकोषव्याख्या ३६०) चित्तमन्तरेणापि वर्तन्ते । यावत्संभिन्नप्रलापादिति । यावच्छब्देनादत्तादानात्काममिथ्याचारान् [तिब् । १९ ] मृषावादात्पैशुन्यात्पारुष्यात्संभिन्नप्रलापादिति । चित्तवत्भूताभेदात् । यथा तदुत्पादकं चित्तमभिन्नम् । एवं भूतान्यपि तदुत्पादकान्यभिन्नान्येव । न चाधारार्थेनाविज्ञप्तेर्महाभूतान्याश्रयः । किं तर्हि । तत्प्रवर्तनार्थेन । तस्माद् अभिन्नभूजेति वचनं न विरुध्यति । प्रातिमोक्षसम्वरे त्वन्यान्यानीति । अचित्तानुपरिवर्तनीयत्वात् । विज्ञप्तिस्तु नैष्यन्दिकीति । आक्षेपवशेनानुवृत्तेः । उपात्ता तु कायिकीति । न वाचिकीत्यर्थः । कायिकी हि कायमहाभूताविनिर्भागवर्तित्वात्तदाश्रयभूतानामुपात्ता । न तु वाचिकी । तद्विनिर्भागवर्तित्वात् । अत्र चोदयन्ति । शास्त्रविरुद्धमेतद् । एवं ह्याह । यानीमान्युपासकस्य पञ्च शिक्षापदानि । एषां कत्युपात्तानि । कत्यनुपात्तानि । आह । सर्वाण्यनुपात्तानीति । अविज्ञप्तिलक्षणशिक्षापदाभिसंधिवचनाद्बाहुलिकत्वाद्वा तथानिर्देशस्येत्यदोषः । पुनःप्रबन्धादवैभाषिकीयम् [तिब् । १९ ] इति । एकसंस्थानोत्पत्तावितरसंस्थानानिवृत्तेः । कथं विस्तरेण यावत्संस्थानद्वयं सिध्यतीति । अन्योन्यावकाशदानात् । तन्महाभूतैरभिव्यापनादिति । विज्ञप्त्याश्रयैर्महाभूतैरङ्गस्याभिव्यापनात् । अनभिव्यापने च पुनर्विज्ञप्तिमहाभूतैः कथं कृत्स्नेनांगेन विज्ञापयेत् । न हि शक्यते वक्तुं । कायैकदेशेनासौ विज्ञापयति । न सर्वकायेनेति । विज्ञप्त्याश्रयाणि महाभूतानि तदंगं न व्याप्यावतिष्ठन्त इति । सुषिरत्वात्कायस्यास्ति तेषामवकाश इति । अभिव्यापनेऽपि न महीयसाङ्गेन भवितव्यं । सुषिरत्वेन कायानुप्रवेशात् । पीनेन तर्हि गुरुणा वा तेनांगेन न भवितव्यं । सूक्ष्मत्वात् । (इव् ।९, १० ब्) द्विविधं त्रिविधं पंचविधं चोक्तमिति । चेतना तत्कृतं च तद् इति वचनात् । द्विविधमुक्तं । चेतना मानसं कर्म तज्जे वाक्कायकर्मणी इति वचनात् । त्रिविधमुक्तं । ते तु विज्ञप्त्यविज्ञप्ती इति । कायवाक्कर्मणो विज्ञप्त्यविज्ञप्तित्वे भेदात् । चेतनात्मनः कर्मणश्च पञ्चसत्त्वात्पञ्चविधमुक्तं । नाव्याकृतास्त्यविज्ञप्तिर् (अभिधर्मकोषव्याख्या ३६१) इति । [तिब् । २० ] कुशलाकुशलैवाविज्ञप्तिरित्यर्थादुक्तं भवति । बलवत्कर्मेति । अविज्ञप्तिलक्षणं । कामेऽपीति । अपिशब्दादितिचशब्दार्थेनापिशब्देन काम इत्याकृष्यते । अनास्रवाविज्ञप्तिवदिति । यथा न च तावदनास्रवाया अविज्ञप्तेरनास्रवाणि महाभूतानि । अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति । तद्भूमिकानि महाभूतान्युपादायोत्पद्यते । एवं न च तावदारूप्याणि महाभूतानि स्युः । अथ च पुनर्यस्यां भूमौ जात आरूप्यामुत्पादयति । तद्भूमिकानि महाभूतान्युपादायारूप्यावचर्यविज्ञप्तिर्भविष्यतीति । न । तस्या धात्वपतितत्वादिति । नेहासाम्यात् । यस्मादविज्ञप्तिरनास्रवा धात्वपतिता कामरूपारूप्यावचरीति । तृष्णाभिरस्वीकृतत्वात्तस्या धातुतो भूमितो वा नैव सभागानि नापि विसभागानि महाभूतानि भवन्तीत्यतो यत्रजातस्तत्रजानि महाभूतान्युपादायोत्पद्यते । आरूप्यावचरी त्वविज्ञप्तिर्नार्हति कामरूपावचराणि विसभागानि महाभूतान्युपादाय भवितुं । धातुपतितवादित्यभिप्रायः । किं च । सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नालं रूपोत्पत्तये । रूपभूमिका त्वनास्रवा समापट्तिरलं [तिब् । २० ] रूपोत्पत्तयेऽविज्ञप्त्युत्पत्तये इत्यर्थः । कस्मात् । सर्वरूपवैमुख्यादित्यभिप्रायः । कथं चारूप्यसमापत्तेः सर्वरूपं वैमुख्यमित्यतो ब्रवीति । विभूतरूपसंज्ञत्वादिति । विगतरूपसंज्ञत्वादित्यर्थः । दौःशील्यप्रतिपक्षेण शीलमिति विस्तरः । दौःशील्यं कामावचरमकुशलसमुत्थानत्वात् । तस्य रूपभूमिकं शीलमविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते । आरूप्यावचरमप्येवं भविष्यतीति चेदत आह । आरूप्याश्च कामधातोरिति विस्तरः । आरूप्याः कामधातोश्चतसृभिर्दूरताभिर्दूरे । दूरत्वाच्चारूप्यसंगृहीतं शीलं कामधातुप्रतिपक्षे न कल्पते । चतस्रश्च दूरता व्याख्याताः पुरस्तादिति न पुनर्व्याख्यायन्ते । प्रतिपक्षदूरता चात्रोदाहरणं । विज्ञप्तिः सविचारयोर् इति । सविचारयोरेव भूम्योरित्यवधारणार्थ आरंभः । वितर्क्य विचार्य वाचं भाषत इति वितर्कविचारपूर्वकत्वात्कायवाक्कर्मणोः । कामेऽपि निवृता नास्तीति । न केवलमविचारासु भूमिष्विति दर्शयति । ब्रह्मलोक एवास्तीत्युक्तं भवति । तत ऊर्ध्वमिति । ब्रह्मलोकादूर्ध्वं । बाह्यमहाधूतहेतुकमिति । वायुप्रभृतीनां [तिब् । २१ ] शब्दायतनं । विज्ञप्तिशब्दप्रतिषेधपरमेतद्वचनं (अभिधर्मकोषव्याख्या ३६२) । न तु बाह्यमहाभूतहेतुकमेव । पाण्याद्यङ्गशब्दोऽपि हि द्वितीयादिषु ध्यानेषु संभवति । अन्यथा हि शास्त्रविरोधः स्यात् । तथा हि शास्त्र उक्तं । शब्दधातुना कः समन्वागतः । आह । कामरूपावचरः । कोऽसमन्वागतह् । आह । आरूप्यावचर इति । न हि बाह्येनासत्त्वसंख्यातेन समन्वागतो युज्यते । प्राप्त्यप्राप्ती स्वसंतानपतितानाम् इति वचनात् । अस्यैव च दोषपरिहारार्थमन्ये पुनराहुरिति । द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्तीति । किंभूमिका । प्रथमध्यानभूमिका । वैभाषिकपक्ष एवायं । न पक्षान्तरं । कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तदा व्याप्तमक्लिष्टव्याकृतं च तद् इति सिद्धान्तात् । एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरं । सा तु किं व्याकृता उताव्याकृतेत्याह । अनिवृताव्याकृता । न तु कुशला न क्लिष्टेति । परस्परसंभाषणादिकुर्वतां ततस्त्यानामव्याकृता विज्ञप्तिर्भवति । [तिब् । २१ किंकारणं न कुशला न क्लिष्टास्तीत्याह । न हि तेषूपपन्न इति विस्तरः । न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयमधोभूमिकं चित्तं संमुखीकरोति । येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत् । किंकारणमिति आह । न्यूनत्वात्प्रहीणत्वाच्चेति । कुशलमधोभूमिकं न्यूनत्वान्न संमुखीकरोति । प्रहीणत्वाच्चेति न क्लिष्टम् । अर्थादेतदुक्तं भवति । अव्याकृतमधोभूमिकं चित्तं संमुखीकरोति । तेन तां समुत्थापयतीति । एतदुक्तं भवति । अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिरुत्थाप्यत इति । तदेवं नेच्छन्ति वैभाषिकाः । प्रथमध्यानिकैव हि सा विज्ञप्तिः प्रथमध्यानभूमिकचित्तसमुत्थापितत्वात् । तस्मादाह । पूर्वमेव तु वर्णयन्तीति । तच्च कामधाताविति । तच्च भावनाप्रहातव्यं निवृतव्याकृतं चित्तं कामधातौ नास्ति । सत्कायान्तग्राहदृष्टिसंप्रयुक्तमेव हि कामधातौ निवृताव्याकृतं चित्तमिष्यते । तेन च न विज्ञप्तिः समुत्थाप्यते । अन्तर्मुखप्रवृत्तत्वात् । (इव् ।१० द्, ११) स्वभावत इत्यात्मतः । परमक्षेमत्वादिति । अक्षेमलेशानुबन्धभावात् । [तिब् । २२ ] यद्धि स्वभावसंप्रयोगसमुत्थानतः कुशलं न तत्परमक्षेममित्युक्तं भवति । असंप्रयुक्तानां कुशलत्वाभावादिति । कुशलमूलादिभिरसंप्रयुक्तानां चैत्तादीनां कुशलत्वाभावात् । तत्संप्रयोगकुशलत्वसिद्धिः । तैरेव कुशलमूलादिसंप्रयुक्तैरित्यादिशब्देन ह्र्यपत्राप्ययोर्ग्रहणं । औषधिपानीयसंभूतक्षीरवदिति । पीतौषधपानीयाया (अभिधर्मकोषव्याख्या ३६३) गोर्यत्क्षीरं । तदौषधपानीयसंभूतं । प्राप्तीनां त्विति विस्तरः । प्राप्तीनां कुशलानां विसभागचित्तसमुत्थापितानां । विसभागं चित्तं कुशलादन्यत् । विचिकित्सया कुशलमूलप्रतिसंधाने याः कुशलानां प्राप्तयः । तासां कुशलत्वं । न तावत्परिनिर्वाणवत्परमार्थक्षेमत्वात् । नाप्यलोभादिवत्स्वभावतः कुशलमतत्स्वभावत्वात् । नापि वेदनादिवत्संप्रयोगतो विप्रयुक्तत्वात् । नापि समुत्थानतस्तत्समुत्थानचित्तस्य [तिब् । २२ ] क्लिष्टत्वात् । एवं पुनर्भवप्रतिसंधावपि उपपत्तिप्रतिलंभिककुशलप्राप्तयो वक्तव्याः । कथं तासां कुशलत्वमिति वक्तव्यमेतत् । कर्तव्योऽत्र यत्न इत्यभिप्रायः । अत्र परिहरन्ति । कुशलमूलसमुत्थापनीयत्वादनागतावस्थायामेव ताः कुशलमूला भवन्ति । क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धोऽपनीयते । न तत्कुशलत्वमापद्यत इति । सर्वदुःखप्रवृत्त्यात्मकत्वेनेति । सर्वस्य दुःखस्य प्रवृत्तिरात्मा स्वभावोऽस्येति सर्वदुःखप्रवृत्त्यात्मकः । तद्भावेन । परमार्थेनाक्षेमः संसारः । कायवाक्कर्मजात्यादिप्राप्तय इति । कायवाक्कर्माणि विज्ञप्त्यविज्ञप्तिस्वभावान्यसम्वरनैवसम्वरनासम्वरसंगृहीतानि । जात्यादयो जातिजरास्थित्यनित्यतालक्षणालक्षणस्वभावः । प्राप्तयोऽकुशलानां । व्याध्यपथ्यौषधादिभिरुपमेया इति । संसारो व्याधिनोपमेयः । व्याधिसंसार इत्यर्थः । लोभादीन्यपथ्यौषधेनोपमेयानि । अन्यसंप्रयोगसमुत्थानापेक्षत्वात् । तत्संप्रयुक्ता अपथ्यौषधिमिश्रपानीयेन । कायवाक्कर्मजात्यादिप्राप्तयो [तिब् । २३ ]ऽपथ्यौषधपानीयसंभूतक्षीरेणोपमेयाः । एवं तर्हीति विस्तरः । यदि परमार्थेनाकुशलः संसारः । न किंचित्सास्रवमव्याकृतं भविष्यति कुशलं वा । संसाराभ्यन्तरत्वात्सास्रवस्य । परमार्थत एवमुक्तमिति अभ्युपगतमेतत्सर्वं संसारपर्यापन्नमकुशलमिति । विपाकं तु प्रतीति विस्तरः । यद्विपाकं प्रति न व्याक्रियते । सविपाकमेतदिति । तदव्याकृतमित्युच्यते । तदुक्तं भवति । यत्सास्रवं । तदकुशलं परमाक्षेमत्वात् । विपाकं प्रत्यव्याकरणार्थाव्याकृतमिति । कुशलमपि । तथैवाकुशलम् । इष्टविपाकत्वात्कुशलमित्यवगन्तव्यं । यदि समुत्तानवशादिति विस्तरः । चेतनाया एव कुशलाकुशलत्वमित्यनेनाभिप्रायेण । कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति । किं न महाभूतानामिति । कुशलाकुशलत्वं । कुशलाकुशलेन हि चित्तेन कायवाक्कर्म तन्महाभूतानि समुत्थाप्यते । वैभाषिक आह । कर्मणि हि कर्तुरभिप्रायो न महाभूतेषु न महाभूतानि कुर्यामिति । किं तर्हि । इदं कर्म कुर्यामिति । न कर्मवन्महाभूतानां कुशलाकुशलत्वमिति । [तिब् । २३ ] आचार्य आह । (अभिधर्मकोषव्याख्या ३६४) समाहितस्य कर्तुरविज्ञप्तौ नास्त्यभिप्रायः । अविज्ञप्तिं कुर्यामिति । न चासमाहितं चित्तं तस्याः समुत्थापकमस्ति । यदेवमभिप्रायं कुर्यात् । विसभागत्वात्विसदृशत्वात्भूमितोऽसमाधानाद्वा । कथं तस्याः समाहिताया अविज्ञप्तेः कुशलत्वं । महाभूतवत्तस्याः कुशलत्वं न स्यादित्यभिप्रायः । दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसंग इति । यद्यन्तरेणापि तदभिप्रायमविज्ञप्तेः कुशलमिति । अथ वा अयमस्याभिसम्बन्धः । यदि विसभागासमाहितचित्तवशेन तस्याः कुशलत्वं । दिव्ययोरपि चक्षुःश्रोत्रयोः कुशलत्वप्रसंगः । प्रयोगकाले तदभिप्रायसंभवात् । न च तयोः कुशलमस्त्य् अव्याकृते श्रोत्रचक्षुरभिज्ञे इति वचनात् । (इव् ।१२-१४) यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति । दर्शनप्रहातव्यस्यांतर्मुखप्रवृत्तत्वादित्येवं ब्रुवतां किं तर्हि भगवतोक्तमिति विरुध्यते । तद्भगवतोक्तमिति वाक्यार्थः । किं तदित्युच्यते । ततो मिथ्यादृष्टेरिति विस्तरः । कथं मिथ्यादृष्टेर्दर्शनप्रहातव्यायाः [तिब् । २४ ] मिथ्यावाक्विज्ञप्तिस्वभावा मिथ्याकर्मान्तश्च तत्स्वभाव एवेत्युक्तमिति । हेतुतत्क्षणोत्थानसंज्ञितम् इति । हेतुत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणोत्थानं । हेतुतत्क्षणोत्थानमिति संज्ञितं हेतुतत्क्षणोत्थानसंज्ञितं । संज्ञितम् इति संज्ञीकृतं । अथ वा हेतुतत्क्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञं । हेतुतत्क्षणोत्थानसंज्ञीकृतं हेतुतत्क्षणोत्थानसंज्ञितं । हेतुसमुत्थानमिति । समुत्तिष्ठतेऽनेनेति समुत्थानं । हेतुश्च स समुत्थानं च तथेतुसमुत्थानं । तत्क्षणसमुत्थानमिति । स क्षणः क्रियाक्षणः । तत्क्षणे समुत्थानं तत्क्षणसमुत्थानं । तत्रैव क्षणे समुत्थानसद्भावात् । तत्रैव क्रियाक्षणे तत्क्षणसमुत्थानस्य भावादित्यर्थः । आक्षेपकत्वादित्युत्पादकत्वात् । किमिदानीमिति विस्तरः । तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां सामर्थ्यं । येन तदानीं तदनुवर्तकमित्युच्यते । तेन हीति विस्तरः । तेन हि तत्क्षणसमुत्थानेन विना असौ विज्ञप्तिर्मृतस्येव न स्यादाक्षिप्ता सती हेतुसमुत्थानेन जनितापि सती । तद्यथा । कश्चिद्ग्रामं गमिष्यामीत्याक्षिप्तक्रियान्तरा म्रियेत् । तस्यानुवर्तकचित्ताभावाद्(अभिधर्मकोषव्याख्या ३६५) गमनं न भवति । तद्वत् । अचित्तकस्य तर्हीति [तिब् । २४ ] विस्तरः । यदि तत्क्षणसमुत्थानेन विनासौ मृतस्येव न स्यात् । निरोधसमापत्तिलाभिनः कस्यचिदुपसंपाद्यमानस्य कायविज्ञप्तिमाबध्नतः तत्कालोपस्थितनिरोधसमापत्तित्वादचित्तकस्य संवरोत्पत्तौ कर्मवाचनावसानकालीनायां तत्संवरान्तर्गता कायविज्ञप्तिः कथं भवति । कथमुत्पद्यते तत्क्षणसमुत्थानं विनेत्यर्थः । एवं विरोधिते समाध्यंतरः श्रीयते । स्फुटतरा तर्हीति । तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर्भवतीत्येतत्तस्य सामर्थ्यं । प्रवर्तकं दृष्टिहेयम् इति । प्रवर्तकमेव दृष्टिहेयमित्यवधार्यते । कथं पुनस्तत्प्रवर्तकमित्याह । तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वाथेतुभूतत्वात् । विज्ञप्तेः प्रवर्तकमिति । न त्वनुवर्तकमिति विस्तरः । यत्तद्बहिर्मुखं चित्तमनुवर्तकं । तस्य यो विज्ञप्तिक्रियाकालः । तस्मिं तदभावात् । तस्य दर्शनप्रहातव्यस्य प्रवर्तकस्याभावादित्यर्थः । अतस्तन्नानुवर्तकं । अयं चान्यो दोषः । तत्समुत्थापितं च रूपमिति विस्तरः । यदि तदनुवर्तकं स्याद्दर्शनप्रहातव्यं । तेन दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात् । यथा भावनाप्रहातव्येन चित्तेन समुत्थापितं [तिब् । २५ ] कायवाक्कर्म भावनाप्रहातव्यमिति । किं स्यादिति चोदकः । अभिधर्मो बाधितः स्यादिति वैभाषिकः । न दृष्तिहेयमक्लिष्टं न रूपम् इति वचनात् । किं च विद्याविद्याभ्यां चाविरोधात् । विद्यया दर्शनमार्गेण सत्कायदृष्ट्यादिवत्तस्य रूपस्याविरोधात् । अप्रहाणादित्यर्थः । दृष्टसत्यानामपि तत्समन्वागतत्वान्नास्ति रूपं दर्शनप्रहातव्यं । अविद्यया चाविरोधात् । किं चाविद्ययापि रूपं न विरुध्यते । न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे वा सत्यविद्या न भवति अविद्यायां च सत्यां तन्न भवति । यथा अनास्रवो मार्गोऽविद्यया विरुध्यते । पृथग्जनावस्थायां तदनुत्पादात् । तदुत्पादे वार्यवस्थायां कस्याश्चिदविद्यायाः प्रहाणात् । तदेवमनास्रववदप्रहातव्यमपि न भवति । न चेदप्रहातव्यं । नापि दर्शनप्रहातव्यं । पारिशेष्याद्भावनाप्रहातव्यमिति सिद्धं । इतर आह । [तिब् । २५ ] साध्य एष पक्षो विद्यया रूपं न विरुध्यत इति । यो हि दर्शनप्रहातव्यं रूपमिच्छति । स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति । वैभाषिक आह । भूतान्यपीति विस्तरः । यदि तद्रूपं दर्शनप्रहातव्यचित्तसमुत्थापितं (अभिधर्मकोषव्याख्या ३६६) दर्शनप्रहातव्यं स्यात् । तदाश्रयभूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः । कस्मात् । समानचित्तोत्थापितत्वात् । येन हि दर्शनप्रहातव्येन चित्तेन तद्रूपं समुत्थापितं । तेनैव तदाश्रयभूतान्यपीति । न च तानि तथा भवितुमर्हन्ति । अक्लिष्टाव्याकृतत्वात् । दर्शनप्रहातव्यानां च क्लिष्टत्वात् । इतर आह । नैवं भविष्यति । दर्शनप्रहातव्यानि स्युरिति । कथमित्याह । यथा न कुशलाकुशलानि भवन्ति । यथा येन चित्तेन कुशलाकुशलेन कुशलाकुशलं रूपं समुत्थापितं । तेनैव तदाश्रयभूतानि समुत्थापितानि । तच्च कायवाक्कर्मस्वभावं रूपं कुशलाकुशलं । न तदाश्रयभूतानीति । तद्वत् । स एव पुनः परावृत्याह । अथ वा पुनर्भवंतु दर्शनप्रहातव्यानीति । वैभाषिक आह । नैवं शक्यं भवितुम् । दर्शनप्रहातव्यानीति वाक्यशेषः । कस्मात् । अक्लिष्टस्य [तिब् । २६ ] धर्मस्य विद्याविद्याभ्यामविरोधात् । न ह्यक्लिष्टो धर्मः अनिवृताव्याकृतः कुशलसास्रवश्च विद्ययानास्रवेण मार्गेण विरुध्यते । यथा क्लिष्टा धर्माः प्राप्तिच्छेदाद्विरुध्यंते । तदालम्बनक्लेशप्राप्तिच्छेदात्तु विरोधो न प्रतिषिध्यते । नाप्यविद्यया विरुध्यते । प्राप्तिच्छेदेन तदालम्बनक्लेशप्रहातव्येन च । भूतानि चाक्लिष्टानि । तत्र यदुक्तमथ वा पुनर्भवंत्विति । तदयुक्तं । तदेवमत्र साधनमुत्तिष्ठते । न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रयमहाभूतानि । अक्लिष्टत्वात् । अक्लिष्टचित्तचैत्तधर्मवदिति । तदेवं वैभाषिकः प्रवर्तकं दृष्टिहेयं विज्ञानम् इति सचोद्यपरिहारं प्रतिष्ठाप्य निगमयति । अतो हेतुसमुत्थानमिति विस्तरः । यदुक्तं मिथ्यादृष्टेर्मिथ्यासंकल्पो यावत्मिथ्याकर्मान्त इति । तस्य सूत्रस्य न विरोधो भवतीति । प्रवर्तकं चानुवर्तकं चेति । अन्तर्बहिर्मुखप्रवृत्तत्वात् । पंचकं त्वनुवर्तकम् इत्यवधारणमविकल्पकत्वात् । [तिब् । २६ ] नोभयमनास्रवमिति । न प्रवर्तकं । नाप्यनुवर्तकं । समाहितान्तर्मुखप्रवृत्तत्वात् । अम्लायमानेति । अहीयमाना । चानट्प्रत्ययन्तश्चायं शब्दः । कुशलैकताना इति । कुशलैकप्रबन्धा इत्यर्थः । बुद्धो भगवान्नाग इत्युक्तः सूत्रे । कथं । तथागत उदायिन् सदेवके लोके समारक इति विस्तरेणोक्त्वाह आगो न करोति कायेन वाचा मनसा । तस्मान्नाग इत्युच्यते इति । आगो न करोतीत्यपराधं न करोतीत्यर्थः । अनिच्छयास्येति । अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद्विषयेष्वगमनादेवमुक्तं । (अभिधर्मकोषव्याख्या ३६७) चरन् समाहितो नाग इति विस्तरः । चतुर्ष्वीर्यापथेषु चरं चरामीति । यावन्निषीदं निषीदामीत्युपस्थितस्मृतित्वान्नित्यसमाहितः स उच्यते । निरभिसंस्कारवाहित्वादिति । अभावो हि संस्कारस्य प्रयत्नस्य निरभिसंस्कारं । निरभिसंस्कारं वहतीति निरभिसंस्कारवाही । तद्भावः । तस्मादिति । न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति । स्यादेतदेवं । यदि सर्वं दर्शनप्रहातव्यं प्रवर्तकमिष्येत । न तु सर्वं । किं तर्हि । मिथ्यादृष्ट्यादिकमेव प्रवर्तकं विज्ञप्तेर्न सत्कायदृष्ट्यादिकम् [तिब् । २७ ] इत्यत आह । न वा सर्वमिति विशेषणं वक्तव्यमीदृशं प्रवर्तकमीदृशं नेति । अकुशलाव्याकृतचित्तस्येति । उपसंपाद्यमानस्य केनचिद्योगेनाकुशलाव्याकृतचित्तस्य । प्रातिमोक्षसम्वरविज्ञप्तिरंजल्यादिका कुशला न प्राप्नोति । तदनुवर्तकचित्तमकुशलाव्याकृतमिति कृत्वा । यथा प्रवर्तकमिति विस्तरः । यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम् । तथा विज्ञप्तिर्व्यवस्थाप्यते । न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते । कस्मात् । भावनाहेयेनान्तरितत्वात् । यस्मात्तत्प्रवर्तकं दर्शनप्रहातव्यं भावनाहेयेन प्रवर्तकेनान्तरितं । कथं कृत्वा । तद्यथास्त्यात्मेति मया परेषां गमयितव्यमिति पूर्वमेवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते । अस्त्यात्मेत्येवमादि । अतो यथा प्रवर्तकमिति विस्तरः । तदेवमवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्यानन्तरं प्रवर्तकमेव भावनाप्रहातव्यं कुशलम् [तिब् । २७ ] अकुशलमव्याकृतं चोत्पद्यते । तद्वशाच्च विज्ञप्तेः कुशलादित्वमिति । एवं तु वक्तव्यमिति विस्तरः । एवं तु वक्तव्यमन्यव्यवहितं भावनाहेयव्यवहितं हेतुसमुत्थानं संधायोक्तमिति । परंपराहेतुसमुत्थानं संधायेत्यर्थः । (इव् ।१५ ब्) अविज्ञप्तिस्त्रिधेति विस्तरः । त्रिविधेत्युद्दिश्य । संवोरासंवरेतरेति विवृणोति । संवरश्च सः । असंवरश्च सः । संवरासंवरः । संवरासंवरश्च सः । इतरा च सा । संवरसंवरेतरेति समासः । (इव् ।१६) प्रतिनियतलक्षणत्वादिति । भिक्षुसंवरस्यान्यल्लक्षणमेवं यावदुपवाससंवरस्यान्यल्लक्षणं । तथा हि वक्ष्यति । पंचाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् (अभिधर्मकोषव्याख्या ३६८) उपासकोपवासस्थश्रमणोद्देशभिक्षुतेति । अष्टविधत्वे तु सांकर्यसंभवः । य एव हि भिक्षुसम्वरः । स एव भिक्षुणीसम्वर इत्येवमादि । श्रामणेरी च पुनः शिक्षमाणा चेति । श्रामणेरी परिवृत्तव्यंजना श्रमणेरो भवति । शिक्षमाणा चापि परिवृत्तव्यंजना श्रामणेर एव भवति । किमेवं नेष्यते । परिवृत्तव्यंजनो भिक्षुर्भिक्षुसंवरं च त्यजति । भिक्षुणीसंवरं च प्रतिलभत इत्यत आह । न च व्यंजनपरिवृत्ताविति विस्तरः । न भिक्षुभिक्षुणीव्यंजनप्रादुर्भावे पार्वसंवरत्यागकारणमस्ति । [तिब् । २८ ] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः उभयव्यंजनोत्पत्तेर्मूलच्छेदान्निशात्ययाद् इत्यत्र यत्कारणमुक्तं । नाप्यपूर्वसंवरप्रतिलंभे कारणमस्तीति वर्तते । यदुक्तं प्रातिमोक्षाख्यः परविज्ञापनादिभिर् इति । अतो विज्ञायते न भिक्षुसंवरादन्यो भिक्षुणीसंवर इति । एवं श्रामणेरादीनामपि वक्तव्यं । तस्मादभिन्नोऽनन्यश्चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षुश्रामणेरोपासकसंवरेभ्यः स्वभावः । किं ते संवरा इति विस्तरः । यथा पंचसंख्यायामन्यानि पंच प्रक्षिप्य पंचवृद्धियोगाद्दश भवन्ति । पंचदशसंख्यायां चान्यानि पंच प्रक्षिप्य विंशतिर्भवंति । दीनारसतेरवच्च । यथा पूर्वको दीनारो द्वितीयेन सह सतेरो भवति । तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन पूर्वकेण दीनारमूल्येन सहाधिकमपेक्ष्य कश्चिद्वक्ता भवेत् । दीनारसतेरो मया लब्ध इति । दीनारद्वयं मया लब्धमित्यर्थः । किमेवमेत उपासकश्रामणेरभिक्षुसंवराः विरतिवृद्धियोगात्प्राणातिपातादिविरतिषु तथैवावस्थितासु पुनर्नृत्यगीतविरत्यादीनामपूर्वाणां विरतीनां [तिब् । २८ ] वृद्धियोगादन्योन्य उच्यंते । अन्य उपासकसंवराच्छ्रामणेरसंवरः श्रामणेरसंवराच्चान्यो भिक्षुसंवर इति एकदेशविशेषयोगादन्योन्यव्यवस्थेत्यर्थः । आहो स्वित्पृथगेव ते सकला उपजायन्ते । अन्याः प्राणातिपातादिविरतय उपासकस्य । ततोऽन्याः श्रामणेरस्य । ततोऽन्याश्च भिक्षोः । इत्येकस्मिं भिक्षुसंताने तिस्रः प्राणातिपातादिविरतयः । एवमदत्तादानविरतयः । इत्येवमादि । एवं शेषा इति । नृत्यगीतविरत्यादयः । मदप्रमादेभ्य इति । उच्चशयनादिमद्यपानादिभ्यः । बहुतरेभ्यः (अभिधर्मकोषव्याख्या ३६९) प्राणातिपातादीनां निदानेभ्य इति । उपासकाच्छ्रामणेरो बहुतरेभ्यः प्राणातिपातादिनिदानेभ्यो निवर्तते । तद्यथा विकालभोजनं प्राणातिपातनिदानं भवेत् । तस्माच्छ्रामणेरो निवर्तते । नोपासक इत्येवमादि योज्यं । एवं चासति । एवं च यदि न स्यादित्यर्थः । भिक्षुसंवरं प्रत्याचक्षाणस्त्यजंस्त्रीनपि उपासकसंवरादीन् विजह्यात् । द्वयोरुपासकश्रामणेरसंवरयोस्तत्र भिक्षुसंवरेऽन्तर्भावात् । (इव् ।१७) विरतिसमादानादिति । विज्ञप्त्यविज्ञप्तिविरतिर्[तिब् । २९ ] इति वक्ष्यति । (इव् ।१८) समापादनादिति । प्रतिसंस्थापनादित्यर्थः । पापकर्मणो हि सत्त्वेषु विषमं संप्रवर्तते । सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति । विज्ञप्त्या च क्रियते प्रातिमोक्षसंवरसंगृहीता अविज्ञप्तिश्चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः । समाधिना क्रियत इत्यर्थः । तदेवं क्रियत इति क्रियेति कर्मसाधनं । क्रियाहेतुत्वादिति । क्रियाया हेतुत्वात् । संवरस्थो ह्य्संवरपरिरक्षणार्थं क्रियां विज्ञप्तिलक्षणामारभते । क्रियाफलत्वाच्चेति । विज्ञप्तिलक्षणायाः क्रियायाः फलत्वादित्यर्थः । समाधिसंभूता कथं क्रिया भवति । समाधिजायाश्चेतनायाः फलत्वात्सापि क्रिया । प्रातिमोक्षसंवराधिकाराद्वा । न तत्र चित्ताः । एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति । आद्योऽपि क्षणो द्वितीयादयोऽपि च क्षणाः प्रातिमोक्षसंवर इत्युच्यते । प्रातिमोक्षस्वभावस्त्वाद्यक्षण एव । तदर्थमाह । पुनः आद्ये विज्ञप्त्यव्ज्ञप्ती प्रातिमोक्ष इत्युच्यते । पापस्य तेन प्रतिमोक्षणादिति । प्रथमेनैव क्षणेन पापं प्रतिमोक्षते । [तिब् । २९ ] उत्सृज्यते त्यजत इत्यर्थः । प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष इति वचनं स्वार्थे वृद्धिविधानात् । स्वार्थे प्रत्यये कृते वृद्धिकरणादित्यर्थः । वैकृतवैशसवत् । यथा विकृतमेव वैकृतम् । विशसमेव मारणं वैशसं । एवं प्रतिमोक्ष एव प्रातिमोक्ष इति । प्रातिमोक्षसंवर इत्यपीति । प्रातिमोक्षश्चासौ संवरश्च । कायवाचोः संवरणार्थ इत्यर्थः । कर्मपथ इत्यप्युच्यत इति । मौलः कर्मपथ इत्यर्थः । द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव । प्रातिमोक्षजातीयः प्रातिमोक्षाद्वा जातः संवरः प्रातिमोक्षसंवरः । न प्रातिमोक्षः । यस्मात्न तेन पापं प्रतिमोक्षते । प्रथमक्षण एव प्रतिमोक्षितत्वात् । (इव् ।१९) अष्टावेव निकाया इत्यवधारणे पृच्छति । किं खलु बाह्यकानामिति विस्तरः । समादानशीलमिति विशेषणं । शीलद्वैविध्यात् । द्विविधं हि शीलं । समादानशीलं धर्मताप्रतिलंभिकं च । तत्र समादान्शीलं यद्गृह्यते । (अभिधर्मकोषव्याख्या ३७०) इदं चेदं च न करिष्यामीति । धर्मताप्रतिलंभिकं ध्यानसंवरोऽनास्रवसंवरश्च । भवसंनिश्रितत्वादिति । मोक्षार्थिनामपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात् । भवविशेष एव च तेषां केषांचिन्मोक्ष इति । भवसंनिश्रितमेव शीलं । ततोऽस्ति तेषां समादानशीलं । न प्रातिमोक्षसंवर इति । सामन्तकमप्यत्र ध्यानं कृत्वोच्यत इति । यस्मात्सांन्तकेऽपि ध्यानसंवरोऽनास्रवसंवरश्[तिब् । ३० ] चेष्यते । तस्माद्ध्यानसामन्तकमप्यत्र ध्यानशब्देनोच्यत इतीष्यते । अपिशब्दान्मौलमपि गृह्यत एव । सहभूहेतावुच्यमान इति । चैत्ता द्वौ संवरौ तेषाम् इत्यत्र । त्रयाणामिति । प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणां । अन्यचित्ताचित्तकस्याप्यनुवृत्तेरिति । विक्षिप्ताचित्तकस्यापीति वचनात् । (इव् ।२० ब्) अनागम्य इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात् । आनंतर्यमार्गेष्विति । तेषां प्रहाणमार्गत्वात् । तत्समुत्थापकानामिति । दौःशील्यसमुत्थापकानाम् । अत एवेति । यस्मादनागम्यानन्तर्यमार्गेष्वेव तद्व्यवस्थानं । तस्माच्चतुःकोटिकं क्रियते । प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः । अनागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद्ध्यानादानन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः । अयं ध्यानसंवरो न प्रहाणसंवरः । [तिब् । ३० ] तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानामप्रहाणात् । द्वितीयानागम्यानन्तर्यमार्गेष्वनास्रवसंवरः । अयं प्रहाणसंवरः तेनैव दौःशील्यादिप्रहाणात् । न ध्यानसंवरोऽनास्रवत्वात् । तृतीयानागम्यानन्तर्यमार्गेषु सास्रवसंवरः अयं प्रहाणसंवरश्च तेन दौःशील्यादिप्रहाणात् । ध्यानसंवरश्च सास्रवसमाधिजत्वात् । चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः । अयं न ध्यानसंवरोऽनास्रवत्वात् । नापि प्रहाणसंवरस्तेन दौःशील्याद्यप्रहाणात् । स पुनस्तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण योऽनास्रवसंवरः । संवरनियमेनैवमुक्तम् । अन्यथाप्यन्ये धर्मा वक्तव्याः स्युः । एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं । प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः । (इव् ।२० द्) मनःसंवरोऽपि स्मृतिसंप्रज्ञानस्वभावः इन्द्रियसंवरोऽपि स्मृतिसंप्रज्ञानस्वभाव इति द्विस्वभावज्ञापनार्थं [तिब् । ३१] द्विग्रहणं । (अभिधर्मकोषव्याख्या ३७१) द्विवचननिर्देशादेव हि द्वित्वसिद्धिः । कथं पुनर्गम्यते । एतावेवंस्वभावादिति । आगमात् । अन्यतरा किल देवता भिक्षुं विषयेष्विन्द्रियाणि विचारयन्तमवोचत् । भिक्षो भिक्षो व्रणं मा कार्षीदिति । भिक्षुराह । पिधास्यामि देवते । देवताह । कुंभमात्रं भिक्षो व्रणं कृत्वा केन पिधास्यसि । भिक्षुराह । स्मृत्या देवते पिधास्यामि । संप्रजन्येन चेति । (इव् ।२१, २२) स यावत्तामविज्ञप्तिं न त्यजतीति । शिक्षानिक्षेपादि । पूर्वात्क्षणादूर्ध्वमतीतयेति । प्रथमे क्षणे वर्तमानस्यैव समन्वागतो भवतीत्युक्तं भवति । ध्यानसंवरवान् सदा अतीताजातयेति । ध्यानसंवरवान् किं पृथग्जनोऽथार्यः । उभय इत्याह । अविशेषितत्वात् । सोऽतीतानागतया अविज्ञप्त्या समन्वागतः । किंलक्षणया । ध्यानसंवराधिकाराद्ध्यानसंवरलक्षणयेति गम्यते । स जन्मान्तरत्यक्तमिति । उदाहरणप्रदर्शनपरमेतत् । इदं जन्म त्यक्तमपि हि गृह्यते । आर्यस्तु प्रथमे नाभ्यतीतयेति । आर्यः सदातीताजातया अविज्ञप्त्या [तिब् । ३१ ] समन्वागतः । किंलक्षणया । अनास्रवया । आर्याधिकारात् । अत एवाह । आर्यपुद्गलोऽप्येवमनास्रवयेति । अयं तु विशेष इति । तुशब्दार्थं दर्शयति । स च भिन्नक्रमः । प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिक्षणे नाभ्यतीतया अविज्ञप्त्या समन्वागत इत्यर्थः । कस्मात् । अनादिमति संसारे मार्गस्य पूर्वमनुत्पादितत्वात् । ननु च फलप्राप्तिकाल इन्द्रियसंचारकालेऽपि वा पूर्वमार्गत्यागे नैवातीतया अविज्ञप्त्या समन्वागम इष्यते । एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो भवति । तत्र नातीतयाविज्ञप्त्या समन्वागतो भवति । फलमार्गस्य पूर्वमनुत्पादितत्वादिति व्याख्यातव्यं । आचार्यवसुमित्रस्त्वस्य चोद्यस्य परिहारमाह । अनास्रवसंवरोऽत्र प्रकृतः । स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः । अतस्तेन प्रथमे क्षणे नातीतेन समन्वागतो द्वितीयादिष्वतीतानागतेनेति । ऊर्ध्वं तु यो मार्गान्तरलाभः । तत्रानास्रवसंवरसादृश्यमस्तीति न तदुच्यत इति । तदिह सादृश्यमस्तीति न बुध्यामहे । किं सास्रवसंवरोऽस्तीत्यपेक्ष्येदमुच्यते । आहो स्विदनास्रवोऽस्तीति । यदि सास्रवोऽस्तीत्यभिप्रीयते । [तिब् । ३२ ] दुःखधर्मज्ञानक्षान्तिकालेऽपि सोऽस्तीति नातीतया समन्वागत इति प्रतिषेधानुपपत्तिः । अथ फलप्राप्तिकालेऽतीतानास्रवसंवरोऽस्तीत्यभिप्रीयते । विहीनः स कथमस्तीति शक्यं वक्तुमिति चिन्त्योऽस्याभिप्रायः । समाहितार्यमार्गस्थाव् इति । समाहितमार्गस्थश्च लौकिकसमाहितमार्गस्थः आर्यमार्गस्थश्च (अभिधर्मकोषव्याख्या ३७२) समाहितार्यमार्गस्थौ । ध्यानानास्रवसंवरान्वितावित्यर्थः । अत्र चार्यमार्गाभिरूढ आर्यमार्गस्थो वेदितव्यो नौस्थनायेन । तद्यथा यो नावमभिरूढः । स नौस्थः । एवं य आर्यमार्गमभिरूढः समापन्नः । स आर्यमार्गस्थः । अन्यथा ह्यार्यमार्गसमन्वितोऽप्यार्यमार्गस्थ इति कृत्वा । प्रकृतिस्थोऽप्यार्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति । अन्यः पुनरेवंप्रसंगं परिहरन् व्याचष्टे । एकशेषोऽत्र क्रियते । समाहितश्च समाहितार्यमार्गश्च मार्गौ समाहितार्यमार्गौ । तयोः स्थितौ समाहितार्यमार्गस्थौ । तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्यानास्रव[तिब् । ३२ ] संवराविज्ञप्त्या च समन्वागतौ । न तु व्युत्थितौ । न तु तन्मार्गव्युत्थितौ तया वर्तमानया समन्वागतौ । तस्याश्चित्तानुपरिवर्तनीयत्वात् । एवं व्याख्यायते । यच्चोदितमाचार्यसंघभद्रेण । कथमविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनादेव गम्यते । तत्समापन्न एवायं । न पुनस्तत्समन्वागमवचनप्रसंग इति चेत् । न । ध्यानाधिकारात् । तत्रविज्ञप्त्यभावाच्च । (इव् ।२३ ब्) यो नैवसंवरणासंवरे स्थितस्स मध्यस्थ इति । यो न भिक्ष्वादिः । न च कैवर्तादिः । स मध्यस्थः । दौःशील्यशीलांगादिसंगृहीतेति । दौःशील्यं प्राणातिपातादि । शीलांगं प्राणातिपातविरत्यादि । यन्नसंवरणासंवरसंगृहीतम् । आदिशब्देन स्तूपवन्दनाखटचपेटादिक्रियाविज्ञप्तिर्गृह्यते । (इव् ।२३ द्,२४ ब्) असंवरसंवरस्थौ पुद्गलावकुशलकुशलधर्मप्रतिष्ठितावित्यनयोर्विपर्ययमसंभावयन् पृच्छति । किमसंवरस्थ इति विस्तरः । तौ यावदनुवर्तेते इति । प्रसादक्लेशवेगौ । अन्येष्वतीतयापीति । द्वितीयक्षणादिषु अतीतया । (इव् ।२४ द्, २५ ब्) क्षणादूर्ध्वमा त्यागाद्[तिब् । ३३ ] इति । यो यस्यास्त्यागस्तस्मादा त्यागात्तयातीतया विज्ञप्त्या समन्वागतः । कथं । संवरलक्षणायास्तावद्विज्ञप्तेस्त्यागः शिक्षानिक्षेपादिभिः । तस्मादा त्यागादनयातीतया विज्ञप्त्या समन्वागतः । असंवरलक्षणायाः संवरसमादानादिभिस्त्यागः । तेस्मादा त्यागादनया समन्वागतः । नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः । तस्मादा त्यागादनया समन्वागत इति । यो हि संवराद्यविज्ञप्तिसमन्वागतः । सोऽवश्यं मौलकर्मपथस्वभावया क्षणादूर्ध्वमतीतयाविज्ञप्त्या समन्वागतः । अनागतया तु विज्ञप्त्या न कश्चित्(अभिधर्मकोषव्याख्या ३७३) समन्वागत इति । चित्ताननुपरिवर्तनीयत्वात् । चित्तस्यापीति । चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत्प्राप्तिः । अनुबन्धिनी मा भूदित्यर्थः । कस्मादित्याह । जडा हि विज्ञप्तिरनालम्बनत्वात् । परतंत्र च चित्तपरतन्त्रत्वात् । न चैवं चित्तमिति । न जडं । न परतंत्रं चेत्यर्थः । कस्मात् । तद्विपर्ययात्सा दुर्बलेन निवृताव्याकृतेन चित्तेनोत्थापिता दुर्बलतरा भवतीति । (इव् ।२५ द्) मौलसंगृहीतत्वाद्[तिब् । ३३ ] इति । चेतनायाः तदर्थत्वात् । (इव् ।२६) विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतन इति । मध्यस्थग्रहणं संवरासंवरस्थनिरासार्थं । संवरासंवरस्था हि विज्ञप्त्यविज्ञप्तिभ्यामवश्यं समन्वागताः । मृदुचेतनग्रहणं तीव्रचेतननिरासार्थं । तीव्रचेतना हि विज्ञप्तिं कुर्वन्नविज्ञप्तिं समुत्थापयेत् । प्रागेवाव्याकृतमिति । मृद्व्या चेतनया प्रागेवाव्याकृतं कुर्वन् । यत्र हि मृद्व्या चेतनया कुशलमकुशलं वा कुर्वन्नैवसंवरनासंवरे स्थितो विज्ञप्त्यैव समन्वागतो भवति अविज्ञप्तेरनुत्पादात् । प्रागेवाव्याकृतं कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतो नाविज्ञप्त्या । अविज्ञप्त्युत्पादाशंकाया अभावात् । अन्यत्रेति विस्तरः । अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः । कर्मपथेभ्यश्च प्राणातिपातादिभ्यः । तत्र ह्यव्याकृतमपि कुर्वन्नविज्ञप्त्या समन्वागतो भवति । सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावदुपजायत एव पुण्यमिति सूत्रे वचनात् । प्राणातिपातादींश्च कर्मपथां मृदुचेतनयापि कुर्वनविज्ञप्त्या समन्वागतो भवति । [तिब् । ३४ ] येनार्यपुद्गलेनेति विस्तरः । परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद्विज्ञप्तं भवति । कललाद्यवस्थायामारूप्योपपत्तौ च । विज्ञप्तं वा पुनर्विहीनमव्याकृतचित्तोत्थापितविज्ञप्तिविहीनाच्च । न हि तस्याः प्राप्तिरनुबन्धिनी भवति । कृतस्तूपादिकस्य वा । तद्वस्तुच्छेदात् । स हि तदानीमविज्ञप्तिमपि परित्यजति प्रागेव विज्ञप्तिमिति । आस्ववस्थासु जन्मान्तरपरिवृत्तावार्यपुद्गलोऽनास्रवयैवाविज्ञप्त्या जन्मान्तरलब्धया समन्वागतो न विज्ञप्त्या । ननु च पृथग्जनस्याप्ययं विधिः संभवति । संभवति । अनावश्यकत्वात्तु पृथग्जनो नोक्तः । यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधातावकृतविज्ञप्तिः कृतविज्ञप्तिविहीनो वा । स एव तथा संभवति नान्य इति । कामावचरसत्त्वाभिसंधिवचनाद्वा । अथ वा उदाहरणरूप आर्यपुद्गल उक्तस्तेन पृथग्जनोऽपि तथा ग्रहीतव्यः । अत एव विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतन (अभिधर्मकोषव्याख्या ३७४) इत्यत्रोक्तोऽन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्य इति । सावशेषमेतद्वचनमिति कृत्वा । एवं द्वे कोटी सूत्रिते प्रथमद्वितीये [तिब् । ३४ ] तृतीयचतुर्थ्यौ तु योज्ये । तृतीया संवरासंवरमध्यस्थास्तीव्रया चेतनया कुशलमकुशलं वा कुर्वन्तः । चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद्विज्ञप्तं भवति । विज्ञप्तं वा विहीनमिति । (इव् ।२७) सहभूतत्वादिति । यस्माद्ध्यानचित्तेन सह भवति ध्यानसंवरः । परो विज्ञापयतीति प्रत्यापयति । पुद्गलादन्य इति । श्रामणेरश्रामणेर्युपासकोपासिकोपवाससंवराः । नियामावक्रान्त्या आर्यमार्गावतारणेन । पंचकानामाज्ञातकौण्डिन्यादीनां । एहिभिक्षुकयेति एहि भिक्षो चर ब्रह्मचर्यमिति भगवतो वचने । एहीति चोक्तः सुगतेन तायिना मुण्डश्च काषायधरो बभूवेति । शास्तुरभ्युपगमान्महाकाश्यपस्येति । महाकाश्यपः किल यांयां देवताप्रतिमां वन्दते । सासा स्फुटति । तस्य महानुभावात् । स भगवन्तमुपसंक्रम्य न वन्दते । मास्य रूपविनाशो भूदिति । तमभिप्रायं विदित्वा भगवांश्चोदयति स्म । वन्दस्व काश्यप तथागतमिति । तेन भगवान् वन्दितः । ततः स भगवतो रूपमविकोपितं दृष्ट्वा अयं मे शास्तेति स भगवन्तमभ्युपगताद्[तिब् । ३५]अ अस्योपसंपदिति । प्रश्नाराधनेन सोदायिन इति । सोदायिना प्रश्नविसर्जनेन भगवानाराधितस्तेनाराधनेन तस्योपसंपत् । गुरुधर्माभ्युपगमेनेति । अष्टौ गुरुधर्माः । भिक्षोरन्तिकाद्भिक्षुणीनामुपसंपत्भिक्षुणीभावः । अन्वर्धमासमववादो ग्राह्यो भिक्षोरन्तिकात् । अभिक्षुके आवासे वर्षा नोपगन्तव्या । प्रवारणायामुभयसंघस्त्रिभिः स्थानैः प्रवारयितव्यः । न चोदयितव्यो भिक्षुरापत्तिमापन्नः नाक्रोष्टव्यः । गुरुधर्मापत्तौ मानाप्यमर्धमासं चरितव्यं । वर्षशतोपसंपन्नयाप्य्भिक्षुण्या तत्क्षणोपसंपन्नो भिक्षुर्वन्द्यः । न च भिक्षुण्या क्वचिद्भिक्षुश्चोदयितव्यः । इत्येवमादयः । एषामभ्युपगमेन तस्या उपसंपत् । दूतेन धर्मदिन्नाया इति । तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति । विनयधरपञ्चमेनेति । चत्वारो भिक्षवः संघः । तत्र ज्ञप्तिवाचकेन पंचमेनोपसंपाद्यते प्रत्यन्तिकेषु जनपदेषु । मध्यमेषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसंपाद्यते । षष्टिभद्रवर्गपूगोपसंपादितानाम् [तिब् । ३५ ] इति । भद्रो वर्ग एषामिति । भद्रवर्गाणां षष्टिः कुलपुत्राः । तेषां पूगेन समूहेनोपसंपादितानां । शरणगमनत्रैवाचिकेन बुद्धशरणं गच्छाम इति त्रिर्वचनेनोपसंपत् । तेषां नावश्यं विज्ञप्त्यधीन इति । तेषां विनयधराणामिदं मतं । नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर (अभिधर्मकोषव्याख्या ३७५) इति । बुद्धप्रभृतीनामविज्ञप्तिधीनत्वात् । अथ वा तेषामिति येषां विज्ञप्तिर्नास्त्युपसंपत्क्रियायां । (इव् ।२८ ब्) संवृतेर् इति संवरस्य । कालो नित्यः पदार्थोऽस्तीत्येके । तदाशंकया पृच्छति । कालो नाम क एष धर्म इति । काल इत्यस्याभिधानस्य किमभिधेयमित्यर्थः । संस्कारपरिदीपनाधिवचनमेतदिति । संस्काराणामतीतानागतप्रत्युत्पन्नानामभिद्योतकं नामेति । तद्यथातीतः कालो यावत्प्रत्युत्पन्न इति त्रैयध्विकाः संस्कारा एव गम्यंते । तेन च तत्राप्रयोगादिति । तेन विसभागेनाश्रयेण तत्र समादाने अप्रयोगात् । अस्मरणाच्च तेनाश्रयेण तत्समादानं न समरति । वैभाषिक आह । कुतस्त्वेतदेवं तर्क्यते । यथानन्तरमुक्तं । आचार्य आह । परेणापि संवरोत्पत्तौ युक्त्यविरोधादिति । नात्र युक्तिर्विरुध्यते । यथा जीवितादूर्ध्वं सत्यपि समादाने [तिब् । ३६ ] संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रयत्वादित्येवमादि । न कालान्तरविपन्नमेति अहोरात्रादियावत्क्रियाशयेन । (इव् ।२८ द्) अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति । यथा नास्त्यविज्ञप्तिर्द्रव्यत इति प्रतिपादितं । तथा असंवरोऽपि न द्रव्यतोऽस्ति । चेतनाव्यतिरिक्त इत्यभिप्रायः । पापक्रियाभिसंधिरिति । पापक्रियाभिप्राय इत्यर्थः । सानुबन्ध इति सवासन इत्यर्थः । सवासनश्चेतनाविशेषोऽसंवर इत्यर्थः । यतोऽनुबन्धात्तद्वानसंवरवानित्युच्यते । असंवरिक इत्यर्थः । तस्यानिराकृतत्वात् । तस्याभिसंधेः सानुबन्धस्यानिराकृतत्वात् । तद्विरुद्धया चेतनयानुपहतत्वादित्यर्थः । (इव् ।२९) स भुक्त्वापि गृह्णीयादिति । सूर्योदय एव संवर उत्तिष्ठते । समादाननियमचित्तस्योत्थापकत्वात् । भुक्त्वाग्रहणं त्वभिव्यक्त्यर्थं । कपोतकमिति । अंगुष्ठरहितस्यांगुलिचतुष्कस्येतुरहस्तांगुष्ठप्रदेशिन्योरन्तरालविन्यसनात्कपोतकः । (इव् ।३०) शीलं पाराजिकाभावः संघवशेषाद्यभावः । व्रतम् इति नियमः । तदभावादित्यकालभोजनात् । उभयं न स्यादिति । स्मृतिः संवेगश्च । न तु तेषामिति विस्तरेणाचार्यो वैभाषिकमतं युक्त्या [तिब् । ३६ ] विरोधयति । न तु तेषामेव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टिधर्मप्रविचयसंबोध्यंगसमाधीनां । त एव सम्यग्दृष्ट्यादयोऽङ्गत्वाग कल्पंते । युज्यन्त इत्यर्थः । कस्मात् । युक्तिविरोधात् । पूर्वकाः सम्यग्दृष्ट्यादय (अभिधर्मकोषव्याख्या ३७६) उत्तरेषां सम्यग्दृष्ट्यादीनामङ्गं यदि स्युरिति व्यवस्थाप्यते । एवमस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टांगः स्यात् । न हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिरङ्गमस्तीति । सप्ताङ्गः स्यात् । बोध्यंगेष्वपि पश्चिमः क्षणो न बोध्यंगं स्यात् । न ह्यन्या परेण बोधिरस्ति यस्यास्तदङ्गं स्यात् । अथ मतमनागताया बोधेस्तदंगमिति । अनागतबोधिर्न स्यात् । एवं समाधिर्योज्यः । (इव् ।३१ ब्) अन्यत्राज्ञानादिति । दातुर्ग्रहीतुर्वा विस्मरणादव्युत्पत्तेश्च । संदिग्धस्य विपन्नाशयस्य वानादरपूर्वकं शरणमवगच्छतः संवरो नोत्पद्यत इति । गृहीति । उद्देशपदम् । अवदातवसन इति । निर्देशपदं । पुरुष इति । उद्देशपदं । पुरुषेन्द्रियेण समन्वागत इति । तन्निर्देशपदं । यदि न विना संवरेणोपासको भवति । यत्तर्हि सूत्र उक्तं । तदुक्तमियतोपासको भवतीति । तत्कथमिति वाक्यशेषः । आह । नास्त्यत्र सूत्रविरोध इति । [तिब् । ३७ महानामसूत्रस्य । (इव् ।३१ द्) उक्तिस्तु भिक्षुवद् इति । उपासकशिक्षापदोक्तिः भिक्षुरिव । यथैव हि भिक्षुर्लब्धसंवरोऽपि ज्ञप्तिचतुर्थेन कर्मणा शिक्षापदानि यथास्थूलं ग्राह्यते प्रत्याय्यते इतश्चामुतश्च पाराजिकादिभ्यस्तव संवरः । अन्यानि च ते सब्रह्मचारिणः कथयिष्यन्तीति । श्रामणेरश्च । किं । शिक्षापदानि ग्राह्यते लब्धसंवरोऽपि पूर्वं । यदैव हि तेनाभ्युपगतमहमेवंनामा तं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्ध शाक्यमुनिं शाक्याधिराजं प्रव्रजितमनुप्रव्रजामि । गृहस्थलिंगं परित्यजामि । प्रव्रज्यालिंगं समाददामि । श्रमणोद्देशं मां धारय । एवं यावत्त्रिरपीति । तथोपासकोऽपि बुद्धशरणं गच्छामि । यावत्संघशरणं गच्छामि । द्विरपि त्रिरपि । इत्यनेन लब्धसंवरोऽपि पुनः शिक्षापदानि ग्राह्यते । प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरमामीति विस्तरेण । (इव् ।३२ ब्च्) एकदेशकारी । य एकं शिक्षापदं रक्षति । प्रदेशकारी । यो द्वे रक्षति । यद्भूयस्कारी । यस्त्रीणि चत्वारि वा रक्षति । परिपूर्णकारी । यः पंचापि रक्षति । स तत्कारीत्युक्त इति । एकदेशकारी यावत्परिपूर्णकारीत्य्[तिब् । ३७ ] अर्थः । न ह्येवं सूत्रपाठ इति । न ह्येवं महानामसूत्रपाठो यावज्जीवप्राणापेतमित्युक्तः । यथा महानामसूत्रपाठ इति । कियता भदन्त उपासको भवति । यतश्च महानामन् गृही विस्तरेण यावदुपासकं मां धारयेति । इयतोपासको भवतीति । यत्र त्वेष पाठ इति । यत्र सूत्रान्तरे एष पाठः । यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमिति । ततस्ते दृष्टसत्याः पुद्गलाः अवेत्यप्रसादान्वयमवेत्यप्रसादहेतुकं प्राणैरपि (अभिधर्मकोषव्याख्या ३७७) जीवितहेतोरपि सद्धर्मोपगमनं दर्शयति । अभव्या वयमेनं धर्मं परित्यक्तुमिति । न त्वेष लक्षणापदेशः संवरस्य । न त्वनेन सूत्रेण लक्षणमपदिश्यत इत्यर्थः । प्राणापेतं तु न क्वचित्पठ्यत इति । नापि महानामसूत्रे । नापि दृष्टसत्यसूत्रे । कश्चैतदपरिस्फुटार्थं पठेदिति । मध्यपदलोपविकल्पान्न ज्ञायते । किं प्राणेभ्योऽपेतं प्राणैर्वाऽपेतं प्राणपेतं । उताहो प्राणातिपातादिभ्योऽपेतं प्राणापेतमिति । प्रश्न एव न युज्यत इति । योऽयं प्रश्नः कियता भदन्तोपासक एकदेशकारी भवति । यावत्परिपूर्णकारीति । एष प्रश्नो न युज्यते । कुतो विसर्जनमिति । इह महानामन्नुपासकः [तिब् । ३८ ] प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरतो भवति । इयता महानामन्नुपासकः शिक्षायामेकदेशकारी भवति । विश्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति । त्रिभ्यः प्रतिविरतः चतुर्भ्यो वा यद्भूयस्कारी भवति । पंचभ्यः प्रतिविरतः परिपूर्णकारी भवतीत्येतद्विसर्जनं सुष्ठु न युज्यते । तन्मात्रशिक्षाक्समां प्रत्येष प्रश्नो युज्यते इति । एकस्य शिक्षापदस्य द्वयोस्ततः परेण वा क्षमामिति । विनापि संवरेणोपासकः प्रज्ञपित इति । महानामसूत्रे । यतः खलु महानामं गृही अवदातवसन इत्येवमादिना । (इव् ।३२ ) अर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यादिति । यदि समुत्थापकमस्य चित्तं मृदु स्यात् । पृथग्जनस्याधिमात्र इति । यद्यस्याधिमात्रं चित्तमिति । अन्यत्राज्ञानादिति । दातुर्ग्रहीतुश्च । तदनादरतस्तु शरणगमनैर्विना न स्यादुपासक इति । (इव् ।३३) बुद्धकरकानिति । बुद्धप्रज्ञप्तिहेतून् । अत एवाह । येषां प्राधान्येन स आत्मभावो बुद्ध इत्युच्यते । अन्येऽपि हि गुणा अप्राधान्येनाश्रिता भवति । येषां वा लाभेनेति । क्षयज्ञानादयः सपरिवारा इति । आदिशब्देनानुत्पादज्ञानमशैक्षी च सम्यग्दृष्टिर्गृह्यते । सपरिवारग्रहणेनानास्रवाः पंच स्कंधा गृह्यन्ते । रूपकायस्य पूर्वं पश्चाच्चाविशेषादिति । किं । न रूपकायं [तिब् । ३८ ] शरणं गच्छतीति संबन्धः । यादृशो बोधिसत्त्वावस्थायां रूपकायस्तादृशः पश्चादपीति । लक्षणतः सर्वबुद्धानिति । न कण्ठोक्तित इत्यभिप्रायः । मार्गस्याविलक्षणत्वादिति । लौकिकस्य मार्गस्य पुण्यज्ञानसंभारलक्षणस्य लोकोत्तरस्य च क्षयज्ञानादिलक्षणस्याविलक्षणत्वात्तुल्यत्वात् । नायुर्जात्यादिलक्षणानाम् । अतस्तुल्यलक्षणाः सर्वे बुद्धा इति । संघीभवन्त्यभेद्यत्वादिति । सदेवकेनापि लोकेन मार्गं प्रत्यभेद्यत्वात्संघीभवंति । समग्ररूपा भवन्तीति । लक्षणत इति । पूर्ववद्(अभिधर्मकोषव्याख्या ३७८) व्याख्यातव्यं । योऽसौ भविष्यतीति विस्तरः । तत्र भगवांस्त्रपुसभल्लिकौ वणिजावामंत्रयते स्म । एतं युवां बुद्धं शरणं गच्छतं । धर्मं च । योऽसौ भविष्यत्यनागतेऽध्वनि संघो नाम तमपि शरणं गच्छतमिति । यदा संघो नास्ति तदैवमुक्तमनागतमेव संघमधिकृत्य । तत्कथं सर्वसंघानसौ शरणं गच्छतीत्यनेन विरुध्यते । तत्प्रत्यक्षभाविन इति । यत्संघरत्नं तयोस्भल्लिकयोर्धर्मचक्रप्रवर्तनानन्तरं प्रत्यक्षीभविष्यत्ति । तस्योद्भावनार्थगुणतः [तिब् । ३९ ] प्रकाशनार्थं स एवाधिकृतो भविष्यतीत्यर्थः । शांत्येकलक्षणत्वादिति । स्वपरसांतानिकानां क्लेशानां दुःखस्य च या शान्तिः । तल्लक्षणमस्येति शान्त्येकलक्षणं निर्वाणं । तद्भावः । तस्मात् । असौ सर्वं निर्वाणं गच्छति । आश्रयविपादनादिति । तेषामशैक्षाणां य आश्रयो रूपस्कन्धः । तस्य विपादनाद्विकोपनात्तदाश्रयिणोऽपि ते बुद्धकरका धर्मा विपादिता भवंति । शास्त्रं तु नैवमिति विस्तरः । अभिधर्मशास्त्रं नैवं वाचकं । नैवं दर्शकं । अशैक्षा धर्मा एव बुद्ध इति । किं तर्हि । बुद्धकरका इति । के ते बुद्धकरकाः ये बुद्धत्वस्य बुद्धप्रज्ञप्तेश्च हेतवो लौकिकलोकोत्तरा धर्माः । ते बुद्ध इति । अत आश्रयस्य लौकिकपंचस्कन्धलक्षणस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् । यदुक्तं यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनादानन्तर्यं भवतीति । अन्यथा हीति विस्तरः । यद्यशैक्षा धर्मा बुद्धः । [तिब् । ३९ ] शैक्षाशैक्षा एव धर्माः संघः । लौकिकचित्तस्थो न बुद्धः स्यान्न संघः । कस्मात् । न हि लौकिकमशैक्षा धर्माः शैक्षाशैक्षाश्चेति । यदि वा शैक्षा धर्मा एव बुद्धकरका बुद्द्धः स्यात्नाश्रयोऽपि । शीलमेव स भिक्षुसंवराख्यं भिक्षुकरकं भिक्षुः स्यात् । नाश्रयः । आह । यद्याश्रयस्यापि बुद्धत्वं कस्मादेवमाह शास्त्रे । यो बुद्धं शरणं गच्छति । अशैक्षानसौ बुद्धकरकान् धर्मान् शरणं गच्छतीत्यशैक्षधर्मानेवावधारयति । एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिमाह । यथा तु यो भिक्षुं पूजयतीति विस्तरः । यथा तु यो भिक्षुं पूजयति शीलमुखेन । भिक्षुकरकमसौ शीलं पूजयति । न च पुनः शीलमेव भिक्षुः । एवं यो बुद्धं शरणं गच्छत्यशैक्षमुखेन । अशैक्षानसौ बुद्धकरकान् धर्मां शरणं गच्छति । न पुनः स्वसंतानिका अशैक्षा एव धर्मा बुद्धः । तस्माददोष एषः । यो बुद्धं शरणं गच्छति । अशैक्षानसौ बुद्धकरकान् धर्मांश्छरणं गच्छतीति । (अभिधर्मकोषव्याख्या ३७९) सोऽष्टादशावेणिकानिति । तेषामसाधारणत्वादित्यभिप्रायः । वाग्विज्ञप्तिस्वभावानीति । ग्रहणकालमधिकृत्य । चैत्यवृक्षांस्[तिब् । ४० ] चेति । चैत्यकल्पिता वृक्षाश्चैत्यवृक्षाः । तानिति । अत एवेति । यस्माद् एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते । अतः सर्वसंवरसमादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानीत्यर्थः । (इव् ।३४ ब्) आपायिकत्वाच्च । यस्माच्च काममिथ्याचार एकांतेनापायिकः अपायसंवर्तनीयः । न तथाब्रह्मचर्यं । अक्रियानियमो ह्यकरणसंवर इति । अक्रियायामकरणे नियम एकांतता अक्रियानियमः । सोऽकरणसंवरः । अकरणलक्षणः संवरः । न समादानिकसंवर इत्यर्थः । स च सौत्रांतिकनयेनावस्थाविशेष एव । वैभाषिकनयेन तु शीलांगमविज्ञप्तिरिति । (इव् ।३४ द्) य उपासकाः संत इति विस्तरः । ये गृहीतपंचशिक्षापदाः संतो भार्याः परिणयन्ति विवाहयंति । किं तैरुपासकैस्ताभ्योऽपि स्त्रीभ्यः संवरः प्रतिलब्धः । प्रतिलब्धपूर्वक इत्यर्थः । अथ न प्रतिलब्ध इत्यधिकृतं । वैभाषिक आह । प्रतिलब्ध इति । मा भूत्प्रादेशिक इति सर्वागम्यात्प्रतिविरतेः । काममिथ्याचारात्प्रतिविरमामीति अगम्याचारात्प्रतिविरमामि । न त्वस्मात्संतानागम्याचरात्प्रतिविरमामीत्यभिप्रायः । अत एवाह । न त्वत्र संतान इति विस्तरः । (इव् ।३५ द्) प्रतिक्षेपणसावद्यम् [तिब् । ४० ] इति । प्रतिषेधसावद्यं । भगवत्प्रतिषिद्धं कर्माचरतः पापं भवति । भगवच्छासनानादरात् । न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा पिबतीत्याभिधार्मिकेणोक्ते । प्रकृतिसावद्यं मद्यमिति विनयधराः साधयंति । प्रकृतिसवद्यमुपाले स्थापयित्वेति । प्रकृतिसावद्येन कर्मणा न चिकित्स्यः । प्रज्ञप्तिसवद्येन तु चिकित्सनीय इत्यभिप्रायः । शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् । अतो गम्यते प्रकृतिसावद्यं तदिति । यदि हि हत्प्रज्ञप्तिसावद्यं स्यात्ग्लानशाक्योपस्थानाय तदनुज्ञायते । न चानुज्ञायते । तेन तत्प्रकृतिसावद्यमिति । इदं चोक्तं मां शास्तारमुद्दिशद्भिः शाक्यमुनिर्नः शास्तेत्युपदिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमिति । प्रकृतिसावद्यं तदिति भगवता तत्प्रतिषिद्धं । न तु मदनीयमित्यवेत्य । कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात् । आर्यैश्चेति विस्तरः । प्रकृतिसावद्यं (अभिधर्मकोषव्याख्या ३८०) मद्यं । जन्मांतरगतैरप्यार्यैरनध्याचारात् । प्राणिवधादिवदिति साधनं । कायदुश्चरितवचनाच्चेत्य्[तिब् । ४१ ] अपरं साधनं । प्रकृतिसावद्यं मद्यं । कायदुश्चरितवचनात् । प्राणिवधादिवत् । चतुर्विधं हि नन्दिकसूत्रादिषु कायदुश्चरितमुक्तम् । प्राणातिपातः अदत्तादानं काममिथ्याचारः सुरामैरेयमद्यप्रमादस्थानमिति । उत्सर्गविहितस्यापीति विस्तरः । अनेन भगवद्वचनस्य पूर्वापरविरोधं परिहरंति । कथं । भदंतेति विस्तरेण मद्यपानस्य सामान्यवचनमुत्सर्गः । शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातमित्यपवाद इति । मद्यपानं ग्लानावस्थायामपि नानुज्ञातमिति गम्यते । अपवादः पुनः प्रसंगपरिहारार्थं । सकृत्पीतं हि मद्यं व्यसनीभवेत् । उक्तं हि भगवता । त्रीणि स्थानानि प्रतिषेधमाणस्य नास्ति तृप्तिर्वा । अलंता वा । पर्याप्तिर्वा । मद्यमब्रह्मचर्यं स्त्यानमिद्धं चेति । प्रसंगपरिहारः कस्मादित्याह । मदनीयमात्रानियमात् । सैव हि मात्रा द्रव्यकालप्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति । अत एव च कुशाग्रपानप्रतिषेध इत्यतिशयवचनं । तदेवं न प्रकृतिसावद्यमिति मनसिकृत्वा भगवता तत्परिहरणीयमुक्तं । [तिब् । ४१ ] किं तर्हि । प्रसंगदोषादिति दर्शितं । आर्यैरनध्याचरणं ह्रीमत्त्वादिति । पंच शैक्षाणि बलानि सूत्रे पठ्यंते । कतमानि पंच । श्रद्धाबलं वीर्यबलं ह्रीबलमपत्राप्यबलं प्रज्ञाबलं चेति । अतो ह्रीमत्त्वान्न पिबंति । न तु प्रकृतिसावद्यत्वात् । यदि ह्रीमत्त्वात्तदनध्याचरणमज्ञातमुदकादिवत्कस्मान्न पिबंतीत्यत आह । तेन च स्मृतिनाशादिति । मद्यं हि पिबतः कार्याकार्यस्मृतिर्नश्यतीति । यद्येवमल्पकं तु पिबंतु । यावत्या मात्रया स्मृतिर्नश्यतीत्यत आह । अल्पकस्याप्यपानम् । अनियमात् । विषवदिति । यथा कालप्रकृतिशक्तियोगादल्पमपि विषं कदाचिन्मारयति । एवं मद्यमपि मदयतीति । दुश्चरितवचनं प्रमादस्थानत्वादिति । मदेनाकुशलपरिहारात् । कुशलकरणाच्च । अत्र प्रमादस्थानग्रहणं नान्येष्विति । अत्रैव शिक्षापदे प्रमादस्थानग्रहणं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरमामीति वचनात् । नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणं । प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात्प्रतिविरमामीति [तिब् । ४२ ] प्रमादस्थानं न पठ्यते । किं तर्हि । प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरमामीति । एवमदत्तादानादि योज्यं । कस्मादित्याह । तेषां प्रकृतिसावद्यत्वात् । तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्यत्वात् । तदुक्तं भवति । प्रमादस्थानमेतदिति मद्यपानात्प्रतिविरन्तव्यं । न तु प्रकृतिसावद्यमेतदिति । अत्यासेवितेनेति विस्तरः । (अभिधर्मकोषव्याख्या ३८१) सुरामैरेयमद्यप्रमादस्थानेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान्नरकेषूपपद्यत इति नन्दिकसूत्रे वचनात् । अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानं तत्प्रसंगेन मद्यपानप्रसंगेन अभीक्ष्णमजस्रमकुशलसंततिप्रवृत्तेः । अकुशलानां या संततिः । तस्याः प्रवृत्तेः । आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपादावेधः । यतः । वृत्तिलाभाद्वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः । यतः । तस्मादाक्षेपात्वृत्तिलाभाद्वा दुर्गतिगमनाभिधानमिति संबन्धनीयं । अन्नासव इति । तण्डुलकृतः । द्रवासव इति । इक्षुरसादिकृतः । ते वेति विस्तरः । सुरामैरेये कदाचिदप्राप्तमद्यभावे [तिब् । ४२ ] । यदा नवे भवतः । कदाचित्प्रच्युतमद्यभावे । यदा अतिपुराणे भवतः । इत्यतो मद्यग्रहणं । यदि मदनीयं । ततो दोष इत्यभिप्रायः । पूगफलकोद्रवादयोऽपीति । आदिशब्देन निष्पावादयो गृह्यंते । मद्यपाने नामद्यत्वेऽप्यदोषः । सुरामैरेये न भवत इति । सुरामैरेयस्वभावस्य मद्यस्य पाने दोष इत्यर्थः । सर्वप्रमादास्पदत्वादिति । सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानमास्पदं प्रतिष्ठेति प्रमादस्थानं मद्यपानम् । (इव् ।३६) यत एको लभ्यते इति । यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश्च । प्रातिमोक्षसंवरो लभ्यते । ततः शेषौ ध्यानानास्रवसंवरौ । मौलप्रयोगपृष्ठेभ्य इति । मौलप्रयोगपृष्ठेभ्योऽकुशलेभ्यः कर्मभ्यः । मौलप्रयोगपृष्ठस्वभावास्त्रयाणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या विज्ञप्त्यविज्ञप्तयो लभ्यंते । सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधिष्ठानलक्षणेभ्यः । प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च कर्मभ्यः प्राणातिपातवनस्पतिभंगादिलक्षणेभ्यः । तदेतदुभयमप्युभयाधिष्ठानं भवति । प्रकृतिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं च । प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं च । [तिब् । ४३ ] न पुनरेवं ग्रहीतव्यं । प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यमसत्त्वाधिष्ठानमिति । तत्र तावत्प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि । प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं । सहागारशय्यादि च । प्रकृतिसावद्यमसत्त्वाधिष्ठानं जातरूपाद्यपहरणं । प्रज्ञप्तिसावद्यमसत्त्वाधिष्ठानं वृक्षपत्त्रादिच्छेदो भिक्षोः । आहारादिषु च विनयोक्त उपदेशः । सत्त्वाधिष्ठानप्रवृत्तत्वादिति । सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वादित्यभिप्रायः । वर्तमाना एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीता नानागताः । तेषां (अभिधर्मकोषव्याख्या ३८२) निरुपाख्यकल्पत्वात् । अत एवाह । नातीतानागतेह्यः । तेषामसत्त्वसंख्यातत्वादिति । ननु चासत्त्वप्रज्ञप्तिअधिष्ठ्हानप्रवृत्तोऽपि प्रातिमोक्षसंवरो भवति । सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति वचनात् । स चाप्येवं न प्रतिषिध्यते । यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्ये एव लभ्यत इत्युच्यते । तथा वर्तमानेभ्य एवासत्त्वाख्येभ्योऽपि लभ्यत इति वक्तव्यं । वर्तमानाधिष्ठनतामेव ह्यनेन वचनेनातिदिषति । न प्रयोगपृष्ठेभ्य इति । समाहितावस्थायामेकांतमौलत्वात् । असमाहितावस्थायां च न संवराभावात् । कुत एव प्रज्ञप्तिसावदेभ्य इति । अभ्युपगमाभावात् । सर्वकालेभ्यश्चेति । अतीतानागतयोरपि संवरयोर्लाभात्तत्सहभूचित्तवत् । अत एवेति । यस्माद्[तिब् । ४३ ] एते संवरा एवं लभ्यंते । यथा विस्तरेणोक्तम् । अतश्चतुष्कोटिकं क्रियते । विस्तर इति । संति तानि स्कन्धधात्वायतनानि । येभ्यो ध्यानानास्रवसंवरौ लभ्येते । न प्रातिमोक्षसंवरः । संति तानि । येभ्यः प्रातिमोक्षसंवरो न ध्यानानास्रवसंवरौ । संति तानि । येभ्य उभयं लभ्यते । संति तानि । येभ्यो नोभयं लभ्यत इति । विस्तरार्थः । प्रथमा कोटिः । वर्तमानेभ्यः प्राणातिपातादिकर्मपथप्रयोगपृष्थेभ्यः प्रतिक्षेपणसावद्याच्च वृक्षभंगादिकाद्यः संवरः । स प्रातिमोक्षसंवरः । सर्वोभयेभ्य इति वचनात् । प्रयोगपृष्ठत्वात्तु न ध्यानानास्रवसंवरौ । द्वितीय । अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणातिपातादिभ्यः कायवाचिकेभ्यः सप्तभ्यः संवरो यः । तौ ध्यानानास्रवसंवरौ । मौलेभ्यः सर्वकालेभ्य इत्य्वचनात् । न प्रातिमोक्षसंवरः । अतीतानागतत्वात् । तृतीया । प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्य इति । प्रत्युत्पन्नकर्मपथत्वात्प्रातिमोक्षसंवरो भवति । मौलकर्मपथत्वाच्च ध्यानानास्रवसंवरौ । चतुर्थी अतीतनागतेभ्यः सामंतकपृष्ठेभ्य इति । अतीतानागतत्वान्न प्रातिमोक्षसंवरः । सामंतकपृष्ठत्वान्न ध्यानानास्रवसंवरौ [तिब् । ४४ ] स्वसंताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यत इति पश्यन्नाह । न तु संवरलाभकाले वर्तमानाः कर्मपथाः संतीति । वर्तमानाधिष्ठानेभ्यस्तेभ्यः कर्मपथेभ्य इति वक्तव्यमिति शिक्षयत्याचार्यः । यतो वस्तुनः प्रतिविरमति । तस्य वर्तमानत्वासंभवात् । नातीतवर्तमानानामिति । उत्पन्नत्वादेषां संवरणं न युज्यते । न ह्युत्पन्नानामनुत्पत्तिः शक्यते कर्तुं । अनागतानां तु शक्यत इति । तेषामेव संवरणं युज्यत इत्याचार्याभिप्रायः (अभिधर्मकोषव्याख्या ३८३) । वैभाषिकाणां तु तथावचनेऽयमभिप्रायो लक्ष्यते । प्राणातिपातादिप्रयोगमौलपृष्ठानां यथाक्रमं संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तंते । नैतानि प्रवर्तिष्यंत इति । अर्थत एवैतानि प्रतिपक्षभूतानि तानि रुन्धन्तीवोत्पद्यंते । प्रयोगः प्रयोगमेवं भवीतीव त्वामहं संवृणोमि । मा त्वमुत्था इति । एवं यावत् । पृष्ठः पृष्ठमेवं ब्रवीतीवेति योज्यं । तथा स्कन्धधात्वायतनानां कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रुन्धानो वर्तमानेभ्यस्तेभ्यो लभ्यते । प्रातिमोक्षसंवर इत्युच्यत इति । तस्मान्नैवं वक्तव्यमिति । (इव् ।३७) कश्चित्सर्वेभ्य इति विस्तरः । भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते । सर्वकर्मपथा वर्जनीया इत्यर्थः । कश्चिच्चतुर्भ्यः । ततोऽन्यः । [तिब् । ४४ ] ततो भिक्षुसंवरादन्यः । संवरः श्रामणेरादिसंवरश्चतुर्भ्य एवांगेभ्यो लभ्यते । कायिकेभ्यः प्राणातिपातादिभ्यस्त्रिभ्यो वाचिकाच्च मृषावादात् । यद्यलोभाद्वेषामोहाः कारणानीति । संवरकारणानि द्विह्दा इष्यंते । अलोभाद्वेषामोहा वा कारणानि । मृदुमध्याधिमात्राणि वा चित्तानीति । यदि पूर्वः पर्यायोऽभिप्रीयते । सर्वैः कारणैरलोभादिस्वभावैर्लभ्यते संवरः । कुशले समुत्थापके चेतसि तेषां युगपत्भावात् । यदि मृद्वादीनि चित्तानि कारणानीष्यंते । एकेन कारणेन लभ्यते । तेषामयुगपत्भावात् । पश्चिमं पर्यायमिति । मृद्वादिकारणपक्षं । अस्ति संवरस्थायीति विस्तरः । सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणाशये सति संवरोत्पत्तेः । न सर्वांगैरुपासकादिसंवरस्य सर्वांगाप्रतिविरतत्वात् । न सर्वकारणैर्मृद्वादीनां कारणत्वेन युगपदसंभवात् । भिक्षुसंवरस्तु सर्वांगैरपि । सर्वांगप्रतिविरतत्वात् । यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति । तद्यथा मृदुना चित्तेन उपासकसंवरं समादत्ते । मध्येन श्रामणेरसंवरम् । [तिब् । ४५ ] अधिमात्रेण भिक्षुसंवरमिति । सर्वकारणैश्च न तु सर्वांगैरिति । उपासकादिसंवराणामेकैकस्य मृद्वाद्येकैककारणत्वात् । तथा गृह्णत इति । पंचनियमक्रियया गृह्णतः । कथमशक्येभ्य इति । ये हंतुमेव न शक्याः । तेभ्योऽशक्येभ्यः सत्त्वेभ्यः कथं संवरलाभः । अत्राचार्यः समाधिमाह । सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमादिति । सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात् । वैभाषिका अप्यस्यैव प्रश्नस्य परिहारांतरमाहुः । यदि पुनः शक्येभ्य एवेति विस्तरः । चयापचययुक्तः स्यात् । शक्यतामागतेषु सत्तेषु संवरश्चीयेत । असक्यतामागतेष्वपचीयेत । (अभिधर्मकोषव्याख्या ३८४) शक्याशक्यानां मनुष्यादिदेवादीनामितरेतरसंचारात् । देवादयो मनुष्यादीन् संचरंति । मनुष्यादयश्देवादीनिति । इमं वैभाषिकपरिहारं सावकाशं पश्यन्नाचार्य आह । नैवं भविष्यतीति विस्तरः । नैवं चयापचययुक्तः संवरो भविष्यति । कथं कृत्वा । यथा ह्यपूर्वतृणाद्युत्पत्तौ । शोषे वा तृणादीनां । यद्यपि तृणादिभ्योऽपि संवरो लभ्यते । तथापि संवरस्य वृद्धिह्रासौ न भवतः । [तिब् । ४५ ] एवं शक्याशक्यसंचारेऽपि न स्यातां वृद्धिह्रासौ चयापचयावित्यर्थः । तस्माच्छक्येभ्य एव संवरो लभ्यते । न चायं दोषः स्यादिति । वैभाषिका आहुः । न सत्त्वानामिति विस्तरः । न तदेवं । यथा ह्यपूर्वतृणाद्युत्पत्ताविति विस्तरेण यदुक्तं । किं कारणं । सत्त्वानां पूर्वं संचारात्पश्चाच्च भावात् । तृणगुल्मलतादीनां पूर्वं पश्चाच्चाभावात् । अतो न तृणादिदृष्टांतेन चयापचयदोषो निवार्यते । एवं वैधर्म्यमात्रमुक्तं । न साध्यसाधनार्थ इति । आचार्यः पुनराह । यदा परिनिर्वृता न संत्येवेति विस्तरः । तस्मात्पूर्वक एव हेतुः साधुरिति । सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमादिति । अत शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धं । एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रातिमोक्षसंवरः । पूर्वबुद्धपरिनिर्वृतेभ्यस्तस्यालाभाच्छीलन्यूनता स्यात् । सत्त्वानां पूर्वेभ्यो न्यूनत्वात् । आचार्य आह । सर्वेषां बुद्धानां पूर्वं पश्चाच्चोत्पन्नानामविशेषेण सर्वसत्त्वेभ्यो लाभात् । यदि हि ते प्यपरिनिर्वृता अभविष्यन् । संप्रति तेभ्योऽपि तेऽलप्स्यंत इति । सर्वकर्मपथेभ्य इति । कायिकवाचिकेभ्यः । नास्ति हि विकलेनासंवरेणेति । प्राणातिपातेनैव [तिब्४६ ] नादत्तादानेनेत्येवमादि । मृदुनैवासंवरेण समन्वागत इति । पूर्वप्रतिलब्धत्वात् । अधिमात्रया तु प्राणातिपातविज्ञप्त्या । किं । समन्वागत इति वर्तते । न विपाकफलविशेष इति । एवं मध्याधिमात्रेण योज्यमिति । यो मध्येन चित्तेनासंवरं प्रतिलभते । सोऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद्व्यवरोपयन्मध्येनैवासंवरेण समन्वागतो भवति । अधिमात्रया तु प्राणातिपातविज्ञप्त्या । एवं योऽधिमात्रेण यावदधिमात्रेणैवासंवरेण समन्वागतो भवति । अधिमात्रया च प्राणातिपातविज्ञप्त्या । इत्थमपि च योज्यं । योऽधिमात्रचित्तेनासंवरं प्रतिलभते । स मृदुनापि चित्तेन प्राणिनो जीविताद्व्यवरोपयनधिमात्रेनैवासंवरेण समन्वागतो भवति । मृद्व्या तु प्राणातिपातविज्ञप्त्येत्येवमादि । नागबंधा हस्तिपकाः । वागुरिका इति । पंपा नाम प्राणिजातिर्वागुराख्या । तां घ्नन्तीति वागुरिकाः । अर्थत आसंवरिका इति । राजानश्चाधिकरणस्थाश्च (अभिधर्मकोषव्याख्या ३८५) दण्डनेतृत्वादिहापठिता अपि आसंवरिका एव द्रष्टव्याः । एवमन्येऽपि योज्या इति । कुर्कुटां घ्नंतीति । कौर्कुटिका इत्येवमादीनि । युक्तस्तावदिति विस्तरेणोक्त्वा यावत्कथमसंवरः सर्वसत्त्वेध्यो युज्यत इति प्रश्निते । वैभाषिकः परिहारमाह । मात्रादीनपि हीति विस्तरः । आचार्य आह । न हि तावत्[तिब् । ४६ ] त एव त इति । ते मात्रादय इति जानाना हन्युरित्यघात्येभ्यस्तेभ्योऽसंवरः कथं युज्यते । किं चार्यीभूतानां पुनः पशूभवितुं नास्त्यवकाशः । तेषामुरभ्राद्युपपत्त्यसंभवात् । तेभ्यः कथमसंवरः स्यात् । यदि वानागतात्मभावापेक्षया उरभ्रादयो भविष्यंतीति वर्तमानान्मात्रादेरसंवरः स्यात् । उरभ्रानपि ते औरभ्रिकाः पुत्रीभूताननागते जन्मनि सर्वथा न हन्युरिति । न स्यात्तेभ्य उरभ्रेभ्योऽसंवरः । वैभाषिक आह । कथं हि नाम जिघांसतामिति विस्तरः । आचार्य आह । एतन्मात्रादिषु समानमिति विस्तरः । कथं हि नामाजिघांसतां पुत्रादिभूतानामौरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्यादसंवर इति । विकलः कर्मपथांगतः । प्रादेशिकोऽपि स्यात् । एकस्याप्यंगस्य अविरमात् । सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात् । संवरश्च तथैव । विकलोऽपि प्रादेशिकोऽपि स्यात् । अन्यत्राष्टविधात्पूर्वोक्तात्प्रातिमोक्षसंवरात् । कस्मादित्याह । तन्मात्रशीलदौःशील्यप्रतिबन्धादिति । असंवरस्तन्मात्रं शीलं प्रतिबध्नाति । संवरश्च तन्मात्रं दौःशील्यं प्रतिबध्नातीति । (इव् ।३८) तत्कुलीनैरिति । आसंवरिककुलीनैः । क्षेत्रादानादरेहनाद्[तिब् । ४७ ] इति । आदरेण ईहनं क्रियारंभः । क्षेत्रं चादानं चादरेहनं चेति समासः । तस्मादविज्ञप्तिरुत्पद्यते । तिथीति विस्तरः । तिथिभक्तं । यावदर्धमासभक्तमित्यर्थगतिः । आदिशब्देन मण्डलकरणादि गृह्यते । आदरेण वा तद्रूपेणेति ।तीव्रक्लेशतया । तीव्रप्रसादतया चेत्यर्थः । (इव् ।३९, ४०) समादानविरुद्धविज्ञप्त्युत्पादादिति । यावज्जीवं प्राणातिपातादिभ्यः प्रतिविरमामीति यत्समादानं । तेन विरुद्धाया विज्ञप्तेरुत्पादात् । इति प्रथमेन कारणेन प्रातिमोक्षसंवरत्यागः । आश्रयत्यागादिति । येनाश्रयेण संवरो गृहीतः । तस्य त्यागान्मरणादिति । द्वितीयेन कारणेन तत्त्यागः । आश्रयविकोपनादिति । यादृशेनाश्रयेण संवर उपात्तः । तादृशो न भवति । विकोपनात् । इति तृतीयेन कारणेन तत्त्यागः । निदानच्छेदादिति । निदानं कुशलमूलानि । तस्य च्छेदात् । चतुर्थेन कारणेन तत्त्यागः । तावदेवाक्षेपाच्चेति । उपवाससंवरस्याहोरात्रमाक्षेपः । इति पंचमेन कारणेन तस्योपवाससंवरस्य त्यागः । पूर्वोक्तैश्च चतुर्भिः कारणैरिति । पतनीयेन चेति । एभिश्च यथोक्तैः पंचभिः कारणैः पतनीयेन चेति । (अभिधर्मकोषव्याख्या ३८६) पतंत्यनेनेति पतनीयं । तच्चतुर्विधं । अब्रह्मचर्यं । यथोक्तप्रमाणमदत्तादानं । [तिब् । ४७ ] मनुष्यवधः । उत्तरिमनुष्यधर्ममृषावादश्चेति । धनर्णवत्तु काश्मीरैरापन्नस्येष्यते । आगमाद्युक्तितश्च । तत्रायमागमः । विनय उक्तं । दुःशीलश्चेत्भिक्षुर्भिक्षुणीमनुशास्ति । संघावशेषमापद्यत इति । आपन्नपाराजिको हि भिक्षुर्दुःशीलोऽभिप्रेतः । नानापन्नपाराजिकः । प्रकृतिस्थः शीलवानिति विपर्ययेण वचनादतोऽवगम्यते । अस्त्यस्य दुःशीलस्यापि सतो भिक्षुभावः । यस्मात्संघावशेषमापद्यत इत्युक्तमिति । युक्तिरपि न ह्येकदेशक्षोभात्सकलसंवरत्यागो युक्त इति । न मौलीमप्यापत्तिमापन्नस्येति । पतनीयामप्यापत्तिमापन्नस्येत्यर्थः । नैव चान्यापत्तिमिति । संघावशेषादिकं । आविष्कृतायामिति । देशितायां । यत्तर्हि भगवतोक्तमिति विस्तरेण यावत्पराजितमिति । तत्कथमिति वाक्याध्याहारः । परमार्थभिक्षुत्वं संधायैतदुक्तमिति । सत्यदर्शनभव्यत्वेन तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः । बहुक्लेशेभ्यो नन्दप्रभृतिभ्यः । मौल्याप्यापत्त्या न भिक्षुत्वं नश्यतीति विदित्वा तां कुर्युरिति वाक्यार्थः [तिब् । ४८ ] संज्ञाभिक्षुरिति । यस्यानुपसंपन्नस्य भिक्षुरिति नाम । प्रतिज्ञाभिक्षुरिति । अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः । भिक्षत इति भिक्षुरिति । याचनकः । भिन्नक्लेशत्वाद्भिक्षुरिति । अर्हन् । अस्मिंस्त्वर्थ इति । यत्यत्भगवतोक्तमभिक्षुर्भवत्यश्रमण इति विस्तरेण । एतस्मिन्नर्थे । यथोक्तेभ्यश्चतुर्भ्यो भिक्षुभ्योऽन्य एवायं पंचमो ज्ञप्तिचतुर्थोपसंपन्नो भिक्षुरिति । यदप्युक्तं परमार्थभिक्षुत्वं संधायैतदुक्तं । तत्प्रत्याह । न चासौ पूर्वं परमार्थभिक्षुरासीत् । यतः पश्चादभिक्षुर्भवेत् । अभिक्षुर्भवत्यश्रमण इति वचनात् । इत्युपमां कुर्वतेति । मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तोऽनुयोग इति संबंधनीयं । परिहृतः प्रश्न इत्यर्थः । एकग्रासपरिभोग आहारस्य । एकपार्ष्णिप्रदेशपरिभोगो विहारस्येति सम्भ्धः । सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रेति । सर्वस्मात्भिक्षुभिस्सह संभोगादेकपंक्तिभोजनादिकाद्बहिष्कृतो बुद्धेन । नाशयत कारण्डवकमिति । कारण्डवको यवाकृतित्वाद्यवस्तृणविशेषः । यो यवदूषीत्युच्यते । एवमसावभिक्षुर्भिक्ष्वाकृतिर्[तिब् । ४८ ] इति । कशंबकं नाम पूतिकाष्ठम् । एवमसौ पूतिभूतो भिक्षुः । तं शीलवत्संघाद्यूयमपकर्षतेति भगवां (अभिधर्मकोषव्याख्या ३८७) भिक्षूनाज्ञापयामास । अथोत्प्लाविनं वाहयतेति । उत्प्लावी नाम व्रीहिमध्येऽभ्यंतरतण्डुलहीनो वृईहिरेव । तथासौ शीलसारहीनो भिक्ष्वाकृतिः । तं प्रवाहयत । निष्क्रामयतेत्यर्थः । मार्गजिनः शैक्षोऽशैक्षः । मार्गदैशिको बुद्धः । मार्गे जीवति शीलवां भिक्षुर्मार्गनिमित्तं जीवनात् । मार्गदूषी दुःशीलः । इदमत्रोदाहरणं । दग्धकाष्ठेति विस्तरः । यथा यद्दग्धं । न तत्काष्ठं । पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात् । तद्दग्धं काष्ठमित्युच्यते । ह्रदश्च शुष्कोऽपि ह्रद इत्युच्यते । शुकनासा गृहादिषु रूपकारकृता । शुकनासाकृतित्वाच्छुकनासेत्युच्यते । एवमसौ भिक्ष्वाकृतिसामान्यमात्रावशेषाच्छ्रमण उक्तः । पूतिबीजमंकुराजनकत्वादबीजमपि बीजमित्युच्यते । तदाकारमात्रावशेषत्वादलातचक्रं चक्रमिति । चक्राकृतित्वात् । मृतसत्त्वश्चासत्त्वोऽपि सत्त्व इत्युच्यते । सत्त्वाकृतिमात्रावशेषत्वात् । तद्वदेष द्रष्टव्यः । शिक्षादत्तको नाम भिक्षुरधिमात्ररागतया [तिब् । ४९ ] स्त्रिया अभ्रह्मचर्यं कृत्वा । तदनंतरमेव जातसंवेगः कष्टं मया कृतमित्येकस्मिन्नपि प्रतिच्छादनचित्तेऽनुत्पन्ने भिक्षुसंघमुपगम्याविष्करोतीदं मया पापं कृतमिति । स आर्यसंघोपदेशात्सर्वभिक्षुनवकांतिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्युच्यते । तद्यदि दौःशील्यादभिक्षुरेव स्यात् । स न स्यात् । न हि तस्य पुनरुपसंपादनं क्रियते । भिक्षुश्च स व्यवस्थाप्यते । तस्मान्न दौःशील्यादभिक्षुत्वमिति । न ब्रूम इति विस्तरः । न वयं ब्रूमः । सहाध्यापत्त्या अब्रह्मचर्यादेव सर्वः पाराजिको भवति । किं तर्हि । प्रतिच्छादनचित्तेन । किं न पुनः प्रव्राज्यते । अनिक्षिप्तशिक्ष इत्यध्याहार्यं । तीव्रानपत्राप्यविपादितत्वात् । तीव्रेणानपत्राप्येण विपादितास्य संततिः । तस्याः संततेरेवं विपादितत्वात्संवरस्याभव्यत्वं । तस्मान्न पुनः प्रव्राज्यत इत्यधिकारः । न तु खलु भिक्षुभावापेक्षया । न तु खलु तस्य भिक्षुभावोऽस्तीत्यपेक्षया न प्रव्राज्यते । तथा ह्यसौ पराजयिको निक्षिप्तशिक्षो पि न प्रव्राज्यते । तीव्रानपत्राप्यविपादितत्वात्संततेः । (इव् ।४१) ध्यानाप्तम् इति । रूपस्वभावं कुशलमरूपस्वभावं चाभिप्रेतं । अत एव च सर्वमेवेति व्याचष्टे । द्वाभ्यामिति । उपपत्तितो वा । परिहाणितो वा । [तिब् । ४९ ] तेनाह उपपत्तितो वेति विस्तरः । ऊर्ध्वमुपपद्यमानोऽधरं परित्यजति । अधश्चोपपद्यमान उपरिभूमिकमिति । परिहाणितो वा समापत्तेः तत्समापत्तिसंगृहीतं कुशलं त्यज्यते । निकायसभागत्यागाच्च किंचिदिति । निर्वेधभागीयं यत्पृथग्जनावस्थायामुत्पादितं यावत्क्षांतिरिति । तदसत्यपि भूमिसंचारे निकायसभागत्यागेन त्यज्यते । यदा कामधातौ मृत्वा तत्रैवोपपद्यते (अभिधर्मकोषव्याख्या ३८८) । वक्ष्यति हि भूमित्यागात्त्यजत्यार्यस्तान्यनार्यस्तु मृत्युत इति । पूर्वको मार्ग इति । प्रयोगानंतर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः । फलं फलविशिष्टो वेति । उत्तरो मार्गोऽधिकृतः । तद्यथाऽनागामी यद्यनागामिफलात्परिहीयते । तेनानागामिफलमुत्तरो मार्गस्त्यज्यते । यदि त्वनागामी द्वितीयं ध्यानं लभते । तस्माच्च परिहीयते । स तस्य फलविशिष्टो मार्गो द्वितीयध्यानभूमिकस्त्यज्यते । (इव् ।४२ ब्) हेतुप्रत्ययबलेनेति । सभागहेतुबलेन । परतो घोषबलेन चेत्यर्थः । ध्यानसंवरं वा लभत इति । अनास्रवसंवरं वा लभत इति नोच्यते । ध्यानसंवरपूर्वोत्पादेनैव तत्त्यागात् । अकरणाश्न्यत इति । एतत्कर्म न करिष्यामीत्याशयतोऽपि शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति । तद्यथा रोगनिदानपरिहारेऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना [तिब् । ५० ] विनिवृत्तिर्न भवति । तद्वत् । तदुक्तं भवति । असंवरत्यागेच्छायां संवरो ग्रहीतव्यो नान्यथेति । तल्लाभस्येति । असंवरलाभस्य । (इव् ।४२ द्) कथमविज्ञप्तिरिति । विज्ञप्तिरपीति वक्तव्यं । स्वसमुत्थापिताया अतीताया विज्ञप्तेस्तत्काल एव प्राप्तिच्छेदात् । वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यम इति च पठितव्यं । नैवसंवरनासंवर इत्यर्थः । अथाप्यविज्ञप्तिरपि केवलोच्यते । तत्र विज्ञप्तेरवचने कारणं वक्तव्यमित्युच्यते । विज्ञप्तेरनावश्यकत्वात् । तथा हि वक्ष्यति । अशुभाः षडविज्ञप्तिर्द्विधैक इति । अविज्ञप्तिवचनेन च विज्ञप्तिवचनसिद्धेस्तदवचनं । अन्ये त्वाहुः । न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेरनुबंधिनी प्राप्तिरित्यत एतदविज्ञप्तेरेव त्यागकारणमुच्यत इति । कुंभकारचक्रेषुगतिवदिति । यथा कुंभकारचक्रस्य इषोश्च गतिः । येन कारणेन संस्कारविशेषेण आक्षिप्तो भवति । तस्य च्छेदात्सापि च्छिद्यते । तद्वत् । अलं समादानेनेति प्रत्याख्यानवचनेन । यथासमात्तमकुर्वत इति । तद्यथा बुद्धमवन्दित्वा । मण्डलकमकृत्वा वा [तिब् । ५० ] न भोक्ष्य इति । तदकृत्वा भुंजानस्य सा मध्यमा अविज्ञप्तिश्छिद्यते । यंत्रजालादीति आदिशब्देन शस्त्रविषादि गृह्यते । कुशलमूलानि समुच्छेत्तुम् (अभिधर्मकोषव्याख्या ३८९) आरभत इति । कुशलमूलसमुच्छेदप्रारंभावस्थायामेव च्छिद्यते । न समुच्छेदावस्थयामिति दर्शयति । (इव् ।४३) कुशलरूपम् इति । अरूपग्रहणं रूपच्छेदस्योक्तत्वात् । मूलच्छेदोर्ध्वजन्मत इति । अत्र वैराग्यतश्च किंचिदिति वक्तव्यं । यथा कुशलं दौर्मनस्येन्द्रियमिति । सर्वमेवेति । कामरूपारूप्यावचरं । यः प्रहाणमार्ग इति । दर्शनमार्गो भावनामार्गश्च । लौकिको वा लोकोत्तरो वा यथासंभवं । असौ सपरिवार इति । असावुपक्लेशप्रकारः सतत्सहभूप्राप्त्यनुचरः उपक्लेशप्रकारस्येति ग्रहणं क्लेशस्याप्युपक्लेशत्वेन सर्वसंग्रहार्थं । तथा हि शास्त्र उक्तं । ये यावत्क्लेशा उपक्लेशा अपि ते स्युरुपक्लेशा न क्लेश इति । (इव् ।४४, ४५) उभयाश्रय इति विस्तरः । स्त्रीपुरुषाशयस्य क्लेशस्याधिमात्रतया । प्रतिसंख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात् । तीव्रस्य च ह्रीव्यपत्राप्यस्याभावादेषां संवरो नास्तीति । प्रतिद्वंद्वभावादिति । यस्मात्संवरस्यासंवरः [तिब् । ५१ ] प्रतिद्वंद्वभूतः । तस्मात्यत्रैव संवरः । तत्रैवसंवर इति । तेषां षण्ढादीनामसंवराभावो द्वितीयं कारणं । समादानसमाध्यभावादिति । समादानभावात्प्रातिमोक्षसंवरो नास्ति । समाध्यभावाच्च ध्यानानास्रवषंवरौ न स्तः । तदभावस्तु मांद्येन कुशलेष्वव्युत्पत्तेः । पापक्रियाशयाभावाच्चासंवरो नास्ति । यद्योगाद्यद्विपादनाच्चेति । येन ह्रीव्यपत्राप्येण योगाद्यस्य ह्रीव्यपत्राप्यस्य विपादनाच्च । यथाक्रमं संवरसंवरौ स्यातां । तत्तीव्रं ह्रीव्यपत्राप्यमापायिकानां नास्तीति । यद्यापायिकानां संवरासंवरौ न स्तः । यत्तर्हि सूत्र उक्तमिति यिस्तरः । तत्कथं । प्रातिमोक्षसंवरो मनुष्याणामेव । न देवानाम् । असंवेगात् । ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद्यथासंभवं । (इव् ।४६ ब्) तत्कालमत्यंतं चेति । यदिष्टविपाकं । तत्तत्कालं । दुःखपरित्राणात्क्षेमं । यन्निर्वाणप्रापकं । तदत्यंतं दुःखपरित्राणात्क्षेमं । परिनिर्वृतस्य यन्नित्यकालं दुःखं नास्ति । (इव् ।४६ द्, ४७) ननु च त्रीणि ध्यानानि सेंजितान्युक्तानि भगवता । यदत्र वितर्कितं विचारितमित्येवमादि । इदमत्रार्या इंजितमित्याहुरिति । आदिशब्देन द्वितीय उक्तं । यदत्र प्रीतिरविगता । इदमत्रार्या इंजितमाहुः । तृतीयेऽपि यदत्र सुखं [तिब् । ५१ ] सुखमिति चेतस आभोगः । इदमत्रार्या इंजितमित्याहुरिति । अथ कस्मात्सर्वमेव रूपारूप्यावचरं कुशलं कर्मानिंज्यम् (अभिधर्मकोषव्याख्या ३९०) उक्तमित्याह । आनिंज्यप्रत्ययगामिनमिति । आनिंज्यानुकूलभागिनं । अकंप्यानुकूलभागिनं मार्गमारभ्येत्यर्थः । किं पुनः कारणं समाधिसपक्षालतया सेंजितमेवान्यत्रानिंज्यमुक्तमित्याह । तद्भूमिषु यतः कर्म विपाकं प्रति नेंजतीति । भोगादि संवर्तनीयमिति । भोगो द्रव्यसंपत् । आदिशब्देन सौरूप्यसौस्वर्यादि गृह्यते । तदेवेति विस्तरः । यत्तद्देवेषु विपच्येत । तत्बहुलीकृतमेवं शीलमयं भावनामयं । तस्य चैवं भवति । अहो बताहं देवसुभगानां मनुष्यसुभगानां वा सभागतायामुपपद्येयेति । यावत्स तत्र उपपद्यत इति । (इव् ।४८-५०) कामधातुस्त्रीणि च ध्यानानीति । क्ंधातुप्रथमध्यानयोः [तिब् । ५२ ] कायिकं सुखं चैतसिकं च सौमनस्यं सुखा वेदना । द्वितीये ध्याने सौमनस्यं सुखा वेदना । तृतीये ध्याने चैतसिकं सुखमिति । तद्भावज्ञापनार्थमिति । तच्छब्देन दुःखमभिसंबध्यते । तस्य दुःखस्य कामधातावेवास्तित्वज्ञापनार्थमिहग्रहणं । ससंभारैरिति । संभ्रियते उत्पाद्यतेऽनेनेति संभारः । इन्द्रियविषयाश्रयलक्षणः । तेन ससंभारा वेदना फलं । ध्यानांतरविपाकत इति । ध्यानांतरकर्मणो ध्यानांतरोत्पत्तौ विपाकेन वेदितेन भवितव्यं । तत्र सुखा दुःखा वा वेदना नास्ति । नास्ति । तस्मादस्यादुःखासुखा वेदना विपाक इति । चतुर्थाद्ध्यानादधोऽप्यदुःखासुखवेदनीयं कर्मास्तीति । ध्यानांतरे वा कस्यचित्कर्मणोऽन्यस्य विपाको वेदना न स्यान्न संभवति । न हि सुखवेदनीयस्य मौलप्रथमध्यानभूमिकस्य कर्मणो ध्यानांतरे स विपाक इति युज्यते वक्तुं । सवितर्कत्वेन ध्यानांतरतो मौलस्य निहीनत्वात् । नापि कामावचरस्य दुःखवेदनीयस्य कर्मणो भूम्यंतरत्वात् । अत एव चतुर्थध्यानादिभूमिकस्य । ततो वीतरागत्वाच्च । (अभिधर्मकोषव्याख्या ३९१) एतद्दोषपरिजिहीर्षया ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्येके ब्रुवते । [तिब् । ५२ ] नैव तस्य ध्यानांतरकर्मणो वेदना विपाकः । किं तर्हि रूपादीत्यपरे । किं तेषां ध्यानांतरोपपत्तौ वेदना नास्ति । अस्ति । न तु सा विपाकस्वभावा । किं तर्हि । नैष्यन्दिकीति । अत्राचार्य आह । तदेतदुच्छास्त्रं । यदेतदुक्तं । ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इति । यच्चोक्तं । नैव तस्य वेदना विपाक इति । तदेतदुभयमप्युच्छास्त्रं । तत्प्रतिपादयन्नाह । शास्त्रे हि पठितमिति विस्तरः । अवितर्कस्य कर्मण इति । ध्यानांतरकर्मण इत्यर्थह् । अतः कुशलस्यावितर्कस्य कर्मणश्चैतसिक्येव वेदना विपाको विपच्यत इत्यवधारणान्न तस्य कर्मणो ध्यान एव सुखेन्द्रियं विपाको नापि वेदनातोऽन्य इति गम्यते । अवितर्कं हि कर्म ध्यानांतरात्प्रभृत्यूर्ध्वमिति । अपूर्वचरम इति । न पूर्वं न पश्चात् । युगपदित्यर्थः । सुखवेदनीयस्य रूपमिति चक्षुरादिकं । दुःखवेदनीयस्य चित्तचैत्ता इति । पंचविज्ञानकायिकाः । दौर्मनस्यस्याविपाकत्वात् । अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता इति । जीवितेन्द्रियादयः [तिब् । ५३ ] न हि कामधातोरन्यत्रेति । दुःखवेदनीयस्य कर्मणोऽन्यत्रभावात् । किमिदानीं तदिति । अदुःखासुखवेदनीयं । एवं तर्हीति विस्तरः । यद्यधोऽपि चतुर्थाद्ध्यानाददुःखासुखवेदनीयं कर्मास्ति कुशलं । सुखवेद्यं शुभं ध्यानादा तृतीयाद् इत्यस्य विरोधः । न हि केवलं सुखवेदनीयं कुशलमा तृतीयाद्ध्यानात् । किं तर्हि । अदुःखासुखवेदनीयमप्यस्तीति । इष्टविपाकं च कुशलमित्यस्य विरोधः । न हि केवलमिष्टविपाकं कुशलमिष्टानिष्टविपरीतविपाकमपि कुशलमस्तीति । बाहुलिक एष निर्देश इति । बाहुल्येनैवं निर्दिष्टमित्यर्थः । सुखवेद्यं शुभं ध्यानादा तृतीयाद् इति । इष्टविपाकं च कुशलमिति । कथं पुनरवेदनास्वभावमिति । सुखमनुभूयते । न कर्मेत्येवमभिसमीक्ष्य पृच्छति । सुखवेदनाहितं सुखवेदनीयमिति । सुखवेदनोत्पत्त्यनुकूलमित्यर्थः । सुखोऽस्य वेदनीय इति वेति । सुखोऽस्य विपाकोऽनुभवनीय इत्यर्थः । स्नानीयकषायवद्[तिब् । ५३ ] इति । यथा येन स्नाति । स स्नानीयः कषायः । एवं येन सुखं विपाकं वेदयते । तत्कर्म (अभिधर्मकोषव्याख्या ३९२) वेदनीयं । सुखस्य विपाकस्य वेदनीयं कर्म सुखवेदनीयं । करणेऽपि कृत्यविधानात् । एतदेवं दुःखवेदनीयमिति । दुःखवेदनाहितं दुःखवेदनीयमिति विस्तर्ण पूर्ववद्योज्यं । एवमदुःखासुखवेदनीयमपि । स्वभाववेदनीयतेति । स्वभाववेदनानुभवलक्षणेन वेदनीयस्वभावः । एवं यावत्संमुखीभावेन वेदनीयतेति योज्यं । सुखवेदनीयः स्पर्श इति । सुखवेदनाहितं सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शः । आलम्बनवेदनीयतेति । वेदनीया विषयाः । आलम्बनीया इत्यर्थः । रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवदीति । रूपं प्रत्यनुभवति । नो तु रूपरागं प्रत्यनुभवतीत्यर्थः । अथ वा नो तु स रूपं रागेण प्रत्यनुभवत्यालंबत इति । दृष्टधर्मवेदनीयमिति । दृष्टे जन्मनि वेदनीयं विपाकलक्षणमस्येति दृष्टधर्मवेदनीयं कर्मेति विस्तरः । यस्मिन् समय इति विस्तरः । यस्मिन् समये सुखां वेदनां वेदयते अनुभवति । द्वे अस्य वेदना दुःखा अदुःखासुखा च तस्मिन् समये [तिब् । ५४ ] निरुद्धे भवत इति । (इव् ।५१) आरंभवशादिति । दृष्ट एव जन्मनि विपाकारंभादित्यर्थः । तन्नामव्यवस्थानमिति । दृष्टधर्मवेदनीयमित्येवंनामव्यवस्थानमित्यर्थः । अस्ति हीति विस्तरः । संनिकृष्टफलस्य कर्मणः सुवर्चलादृष्टांतः । विप्रकृष्टफलस्य यवगोधूमादयः । दार्ष्टांतिकाः सौत्रांतिकाः । तेषामेवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्टविधं । दृष्टधर्मवेदनीयं नियतमनियतं च विपाकं प्रति । एवं यावदनियतवेदनीयमिति । उपपद्यवेदनीयं नियतमनियतं च विपाकं प्रति । अपरपर्यायवेदनीयमपि नियतमनियतं च । अनियतवेदनीयमपि यो दृष्टधर्माद्यनियतवेदनीयं । तन्नियतमनियतं च । इत्यष्टविधं । (इव् ।५२, ५३) चतुर्विधं कर्माक्षिपेदिति । दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेदित्यर्थः । कथमित्याह । स्यात्त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काममिथ्याचारे स्वयमात्मना प्रयुक्तः । तेषां कर्मनां युगपत्परिसमाप्तौ । एकं दृष्टधर्मवेदनीयमपरमुपपद्यवेदनीयमपरं चापरपर्यायवेदनीयमन्यच्चानियतवेदनीयमिति । कुशलानामकुशलानां च यथासंभवमिति । यत्राकुशलस्य संभवः कामधातावेव नान्यत्र । सर्वासु गतिष्व् (अभिधर्मकोषव्याख्या ३९३) इत्य्[तिब् । ५४ ] अस्योत्सर्गस्यायमपवादः । शुभस्य नरके त्रिविधेति । त्रिधैवेत्यवधारणं । नरकेषु कुशलस्य कर्मणस्त्रिविधस्यैवाक्षेपः । न चतुर्विधस्य । दृष्टधर्मवेदनीयं स्थापयित्वा । अत्र नरकेष्विष्टविपाकाभावात् । शुभग्रहणमशुभनिरासार्थं । अकुशलस्य हि चतुर्विधस्यापि नरकेष्वाक्षेपः संभवति । यद्विरक्तः स्थिरो बाल इति । यतो विरक्तो यद्विरक्त इति समासः । स्थिरग्रहणं परिहाणधर्मणो निरासार्थं । तस्य हि तस्यां भूमावुपपद्यवेदनीयं कर्म संभवति । बालग्रहणमार्यनिवृत्त्यर्थं । आर्यस्य हि तत्रोपपद्यवेदनीयमपरपर्यायवेदनीयं च न संभवति । अनागामित्वात् । नार्योऽन्यवेद्यकृदपीति नापरपर्यायवेदनीयकृदपि । नोपपद्यवेदनीयकृदपीत्यर्थः । तत्र युक्तिं दर्शयन्नाह । न ह्यसौ भव्यः पुनराधस्तीं भूमिमायातुमिति । न ह्यसावार्योऽपरिहाणधर्मा यतो वीतरागः । तत आधस्तीमधस्तात्भवां भूमिमायातुं भव्यः । परिहाणधर्मा तु भव्यः । तद्यथा । आर्यो भवाग्रलाभी परिहाणधर्मा यः परिहाय रूपधातावुपपद्येत । तस्योपपद्यवेदनीयमपरपर्यायवेदनीयं चापि संभवति यथोक्तमुदायिसूत्रे । अनियतं कुर्यादिति । अनियतवेदनीयमपरिहाणधर्माप्यार्यो दृष्टधर्मवेदनीयं च यत्रोपपन्नः । [तिब् । ५५ ] तत्र कुर्यात् । कामधातोर्भवाग्राद्वा वीतराग इति । कामवीतरागोऽनागामी । भवाग्रवीतरागोऽर्हन् । तयोरिति कामधातुभवाग्रयोः । पश्चात्प्रवेदयिष्याम इति । म्रियते न फलभ्रष्ट इत्यादि । (इव् ।५४) अंतराभववेदनीयं च । किं । नियतमनियतं चेति । यन्नियतमेकादशविधमुक्तं । दृष्टधर्मवेदनीयं यत्तदिति । कललवेदनीयं नियतं यावदंतराभववेदनीयं नियतमिति । याश्च तदन्वया दशावस्था इति । अंतराभवपूर्विका इत्यर्थः । अत एवान्यदंतराभववेदनीयं कर्म नोक्तमिति । चतुर्विधं कर्म । दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयमनियतवेदनीयं चेत्यत्र नोक्तम् । उपपद्यवेदनीयेनैव तस्यान्तराभवस्याक्षेपात् । (इव् ।५५) नियतानियतं कर्मेत्युक्तमतो ब्रवीति । कीदृशं पुनः कर्म नियतम् (अभिधर्मकोषव्याख्या ३९४) इति विस्तरः । फलसमापत्तिविशेषप्राप्त इति । दर्शनमार्गफलप्राप्तोऽर्हत्त्वफलप्राप्तश्च फलविशेषप्राप्त इष्यते । विशेषग्रहणमनास्रवमार्गप्राप्यफलग्रहणार्थं । समापत्तिविशेषप्राप्तो निरोधारणामैत्रीसमापत्तिलाभी । अत्रापि विशेषग्रहणं [तिब् । ५५ ] तदन्यलौकिकसमापत्तिविशेषणार्थं । यथा तथा चेति । यदि पुण्यबुद्ध्या यदि द्वेषादिना । योऽपि हि पारसिकः पुण्यबुद्ध्या मातरं मारयति । पितरं वा । तदकुशलमानंतर्यं कर्म नियतं संपद्यते । नान्यदिति । यदतो विपरीतं मन्दक्लेशप्रसादकृतमित्यादि । (इव् ।५६) संघस्त्रीवादसमुदाचारादिति । भिक्षुणा किल केनचिद्व्यवहारपराजितेन संघः स्त्रियो यूयमिति समुदाचरितः । तस्य दृष्ट एव धर्मे पुरुषव्यंजनमंतर्हितं । स्त्रीव्यंजनं च प्रादुर्भूतमिति । तदिदं क्षेत्रविशेषाद्दृष्टधर्मवेदनीयं भवति । आशयविशेषादिति । शंठेन गवामपुंस्त्वं करिष्यमाणमभिवीक्ष्य ममेदृशमपुंस्त्वे दुःखमिति तीव्रेणाशयेन तेषां गवामपुंस्त्वं प्रतिमोक्षितं । तस्य दृष्ट एव धर्मे पुरुषेन्द्रियं प्रादुर्भूतम् । इदमाशयविशेषाद्दृष्टधर्मवेदनीयं कर्म संवृत्तं । तद्भूम्यत्यंतवैराग्याद् इति । ततो भूमेरत्यंतवैराग्यात्तददृष्टधर्मवेदनीयमपि कर्म दृष्टधर्मवेदनीयं संपद्यते । यथानागाम्यर्हतामवीतरागावस्थाकृतं । पुनरधरभूम्यनागमनादनुपादाय च परिनिर्वाणात् । न त्ववस्थायामिति । यदनियतं दृष्टधर्माद्यवस्थासु । न चानियतं विपाके । नियतत्वात् । तदेव दृष्टधर्मवेदनीयं भवति । अत एवाह । यत्पुनरवस्थांतरे दृष्टधर्मादिके नियतम् । तस्य तत्रैववस्थांतरे विपाकः । [तिब् । ५६ ] तद्वतोऽत्यंतवैराग्यासंभवादिति । एवमवस्थांतरनियतविपाकेन कर्मणा तद्वत्पुद्गलस्यात्यंतं तस्या भूमेर्वैराग्यासंभवादित्यर्थः । (इव् ।५७) क्षेत्रविशेषादित्युक्तमतः पृच्छति । कीदृशं पुनः क्षेत्रमिति । अरणाव्युत्थितस्येति विस्तरः । अप्रमाणेषु सत्त्वेषु अरणया हितोऽध्याशयोऽभिप्रायः । तेनानुगता । अत्युदग्रेण तीक्ष्णेन । अप्रमाणेन पुण्येन परिभावितानुगता च संततिर्वर्तते । अरणामुत्तरत्र वक्ष्यति । अरणाप्रणिधिज्ञानम् इत्यत्र । मैत्रीव्युत्थितस्येति विस्तरः । अप्रमाणेषु सत्त्वेषु सुखमुत्पद्यताम् (अभिधर्मकोषव्याख्या ३९५) इत्यध्याशयः । तेनानुगता । अत्युदग्रेति सर्वं पूर्ववत् । प्रत्यग्राश्रयपरिवृत्तिनिर्मलेति । प्रत्यग्राभिनवा । अचिरव्युत्थितत्वात् । प्रत्यग्राश्रयस्य शरीरस्य परिवृत्त्या निर्मला संततिः । एतेषु पुद्गलेषु कृतानां करापकाराणामुपकारापकाराणां कुशलाकुशलानां । फलं दृष्ट एव धर्म इहैव जन्मनि प्राप्यत इति । सद्योऽर्थं दर्शयति । सद्य इवेति कृत्वा । शेषस्य त्विति विस्तरः । शेषो भावनामार्गः सकृदागाम्यनागामिफलप्रापकः । अपरिपूर्णः स्वभावः फलं वास्येत्यपरिपूर्णस्वभावफलः । तस्य भावः । [तिब् । ५६ ] तस्मात् । अपरिपूर्णस्वभावफलत्वात् । का पुनस्तस्य परिपूर्णस्वभावता परिपूर्णफलता च । अशैक्षत्वं परिपूर्णस्वभावता । स हि मार्गोऽशैक्षस्वभावः । येनार्हत्त्वं प्राप्यते । परिपूर्णफलताप्यर्थत्त्वप्राप्तिः । स हि फलमार्गस्त्रिभिः फलैः फलवानिति । अथ वा क्षयज्ञानसंगृहीतो मार्गः परिपूर्णस्वभावफलः । परिपूर्णस्वभावो यस्मादशैक्षमार्गः । परिपूर्णफलो निरवशेषफलत्वात् । तद्व्युत्थितानामिति । शेषभावनामार्गव्युत्थितानां । न ते तद्व्युत्थितास्तथा पुण्यक्षेत्रं भवंति । यथार्हत्त्वव्युत्थिताः । प्रागेव लौकिकमार्गव्युत्थिताः । भावनाप्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणादयं विशेष उक्त इत्यवगंतव्यं । (इव् ।५८) तस्या अवश्यं सवितर्कसविचारत्वादिति । सवितर्कविचारा हि पंच विज्ञानधातव इति नियमात् । वितर्कविचारयोश्चाध्यानांतरादिस्वभावात् । न चावितर्कस्य कर्मणः सवितर्क विचारोऽधरभूमिको विपाको युज्यत इति । तस्य हि दुःखा वेदना विपाक इति विस्तरः । तस्याकुशलस्य दुःखा वेदना विपाक इष्यते । तस्यानिष्टफलत्वात् । [तिब् । ५७ ] चैतसिकी च दुःखा वेदना दौर्मनस्यं नान्यदस्ति । न च दौर्मनस्यं विपाक इति व्याख्यातमेतदिति । इन्द्रियनिर्देशे विपाको जीवितं द्वेधा द्वादशांत्याष्टकादृते दौर्मनस्याच्चेति । (इव् ।५९) दौर्मनस्यं न विपाक इत्येतदमृष्यन्नाह । यत्तर्हीति विस्तरः । यदि दौर्मनस्यं न विपाकः । यत्तर्हि सत्त्वानां चित्तक्षेपो भवति । कतमस्मिन्नसौ चित्ते भवति केन वा कारणेनेति । तस्यायमभिप्रायः । चित्तक्षेपो न पंचसु विज्ञानकायेषु । तेषामविकल्पकत्वात् । स चाकुशलकेतुकोऽनिष्टत्वात् । इत्यतो विपाकेन दौर्मनस्येन भवितव्यमिति । अविकल्पकत्वादिति । अभिनिरूपणानुस्मरणविकल्पाभ्यामविकल्पकत्वात्पंचानां विज्ञानकायानां (अभिधर्मकोषव्याख्या ३९६) । चित्तक्षेपस्य चासद्विकल्पलक्षणत्वात् । अग्निं वा दावेषूत्सृजंतीति । दावस्तृणादिगहनांवितो देशविशेषः । अन्येन वा केनचिदिति । अनिष्टवेदनादिना । वासिष्ठीप्रभृतीनामिति । भगवान्मिथिलिकायां विहरति स्म । मिथिलाम्रवणे । तेन खलु पुनः समयेन वसिष्ठसगोत्राया ब्राह्मण्याः षट्पुत्राः कालगताः । सा तेषां कालक्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेनतेनानुहिण्डंती येन मिथिलाम्रवणं तेनोपसंक्रांता । तेन खलु पुनः समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति स्म । अद्राक्षीद्वसिष्ठसगोत्रा [तिब् । ५७ ] ब्राह्मणी भगवंतं दूरादेव । दृष्ट्वा च पुनर्जेह्रीयमाणरूपा उत्कुटकास्थात् । स्मृतिं च लब्धवती । अद्राक्षीत्भगवान् वसिष्ठसगोत्रां ब्राह्मणीं दूरादेव । दृष्ट्वा च पुनरायुष्मंतमानन्दमामंत्रयते स्म । अनुप्रयच्छानन्द वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगं । धर्ममस्यै देशयिष्यामि । आयुष्मानानन्दो वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगमदात् । अथ वसिष्ठसगोत्रा ब्राह्मणी उत्तरासंगं प्रावृत्य येन भगवांस्तेनोपसंक्रांता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकंते निषण्णा । एकांतनिषण्णां वसिष्ठसगोत्रां ब्राह्मणीं धर्म्यया कथया संदर्शयति । समादापयति । समुत्तेजयति । संप्रहर्षयतीत्येवमादि । विस्तरग्रंथभयात्सर्वसूत्रं न लिखितं । अयं तत्रार्थः भगवांस्तस्यै दानकथादि कृत्वा । चत्वार्यार्यसत्यानि देशितवान् । यावत्तया स्रोतआपत्तिफलमधिगतम् । अधिगम्य च भगवतोऽंतिकात्प्रक्रान्ता । तस्या अपरेण समयेन सप्तमः पुत्रः कालगतः । सा तत्कालक्रियया न शोचति । तामशोचंतीं स्वभर्ताब्रवीत् । त्वं पूर्वं पुत्रमरणेन परितप्तासि । इदानीं नासि परितप्ता । नूनं ते पुत्रास्त्वया भक्षिताः । यतो न परितप्यस इति । सा तं प्रत्युवाच । पुत्रपौत्रसहस्राणि ज्ञातिसंघशतानि च दीर्घेऽध्वनि मया ब्रह्मं खादितानि तथा त्वया । पुत्रपौत्रसह्स्राणां परिमाणं न विद्यते अन्योन्यं खाद्यमानानां [तिब् । ५८ ] तासुतासूपपत्तिषु । कः शोचेत्परितप्येत परिदेवेत वा पुनः ज्ञात्वा निःसरणं लोके जातेश्च मरणस्य च । साहं निःसरणं ज्ञात्वा जातेश्च मरणस्य च न शोचामि न तप्यामि कृते बुद्धस्य शासन इत्येवमादि । कथं न चैतसिकी वेदना विपाकः प्राप्नोति । तस्याकुशलस्य कर्मण इति वाक्यशेषः । महाभूतानां प्रकोपो विपाक इति । विपक्तिर्विपाकः । तस्माज्जातमतो विपाकजं चित्तम् । अत एव स च कर्मविपाकज इत्युक्तं । (अभिधर्मकोषव्याख्या ३९७) न तूक्तं । स च कर्मज इति । एवं चेदमिति विस्तरः । यस्मात्कर्मजेन यावत्भ्रष्टस्मृतिकं चित्तं वर्तते । तस्मादिदं चतुष्कोटिकं युज्यत इति । उभयं क्षिप्तचित्तस्य क्लिष्टं चित्तमित्येव तत्रोदाहरणं । न हि क्लिष्टं चित्तं विपाको युज्यते । विपाकोऽव्याकृतो धर्म इति वचनात् । अभिनुन्ना अभिपीडिताः । हाचित्तपरिदेवकश्चात्र नारक इहोदाहार्यः । क्षिप्तचित्ता नारका भवंतीति । अन्यत्र बुद्धादिति । महापुण्यसंभारत्वान्न बुद्धस्य । तद्वत्भूतवैषम्येनापि चित्तं क्षिप्यते । न कर्मणेति । किं । आर्याणां क्षिप्यते चित्तमन्यत्र भूतवैषम्यादेव । किं कारणमित्याह । नियतस्य कर्मणः पूर्वं पृथग्जनावस्थायाम् [तिब् । ५८ ] एव विपाकात् । अनियतस्याविपाकादार्यावस्थायां । अत एव चैतदनियतमित्युच्यते । पंचभयसमतिक्रमादिति । पंच भयानि । आजीविकाभयमश्लोकभयं परिषच्छारद्यभयं मरणभयं दुर्गतिभयं च । तत्राश्लोकभयमकीर्तिभयं । पर्षच्छारद्यभयं सभायां सांकुचित्यं । अप्रसादिकस्येति । अप्रसदनीयस्य कर्मणः । धर्मताभिज्ञत्वादिति । सर्वं सास्रवं दुःखं । सर्वे संस्कारा अनित्याः । सर्वा धर्मा अनात्मान इति । धर्मस्वभावाभिज्ञत्वात् । (इव् ।६० ब्) कुटिलान्वयत्वादिति । कुटिलहेतुकत्वात् । साध्यं हि कौटिल्यं । रंजनान्वयत्वादिति यथा कषायो रंजनहेतुः । तथापीत्यतस्तत्साधर्म्यादेवमुक्तं । (इव् ।६० द्, ६१) कामाप्तमित्य् अनेन शुभं विशेष्यते । नाशुभं । तस्यावश्यं कामाप्तत्वात् । आरूप्याप्तं कस्मान्नोच्यत इति । तदपि ह्यकुशलेन न व्यतिभिद्यते । न व्यतिमिश्र्यत इत्यर्थः । यत्र किलेति विस्तरः । किलशब्दः परमते । यत्र किलांतराभविको अंतराभवे भवो विपाकः । एवमौपपत्तिभविकोऽपि । त्रिविधस्य च कायवाङ्मनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्वपि ध्यानेषु सद्भावादस्ति । तत्रैवोक्तं शुक्लं शुक्लविपाकम् [तिब् । ५९ ] इति । तदपि तूक्तं सात्रांतर इति । तदप्यारूप्याप्तं । अस्ति कर्म शुक्लं शुक्लविपाकं । तद्यथा प्रथमे ध्याने । एवं यावत्भवाग्र इति । अनेन स्वाभिप्रायं दर्शयति । येन किलशब्दं प्रयुक्तवान् । संतानत एतद्व्यवस्थापितमिति । एकस्मिन् संताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलमकुशलेन व्यवकीर्यते । अन्योन्यविरोधादिति । कुशलमकुशलेन विरुध्यते । अकुशलं च कुशलेनेति । द्विरूपता न (अभिधर्मकोषव्याख्या ३९८) युज्यते । नावश्यमकुशलं कुशलेन व्यवकीर्यत इति विस्तरः । व्यवकीर्यते न त्ववश्यं । यस्मात्कामधातौ प्रतिपक्षभूतस्य समाधेरभावादकुशलस्य बलवत्त्वं । अत एव च कुशलस्य दुर्बलत्वं । तथा हि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो भवति । न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति । आभिप्रायिको ह्येषोऽशुक्लशब्द इति । विपाकशुक्लताभावादशुक्लं । न तु नैव शुक्लमित्यर्थः । अपि च यच्छुक्लमुक्तं । तन्न भवतीत्यशुक्लं । महत्यां शून्यतायामिति । महाशून्यतार्थसूत्रे । अनिवृताव्याकृताश्च शुक्लाः । अक्लिष्टत्वात् । अविपाकं धात्वपतितत्वाद्[तिब् । ५९ ] इति । अनास्रवा धर्माः न धातुपतिताः । धातुपतितश्च विज्पाक इत्यतोऽनास्रवं कर्मविपाकं । कस्मादित्याह । प्रवृत्तिविरोधत इति । अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्तिं विरुणद्धि । न तु जनयतीत्यविपाकं । (इव् ।६२, ६३) कर्मकर्मक्षयायेति । द्विः कर्मग्रहणं यत्तत्कर्मास्तीत्यपदिष्टं । तत्कर्म सत्संविद्यमानमप्रच्युतस्वभावं कर्मक्षयाय संवर्तत इत्यस्य चतुर्थस्य कर्मणो द्योतनार्थं । अथ वा । वीप्साप्रयोग एषः । कर्मणः कर्मणः क्षयाय संवर्तत इत्यर्थः । एअतसृष्विति विस्तरः । धर्मक्षांतिग्रहणं कामवैराग्ये चानंतर्यमार्गग्रहणं कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात् । अनास्रवमार्गस्यैवेहाधिकृतत्वाल्लौकिका आनंतर्यमार्गास्तत्प्रहाणभूता अपि न गृह्यंते । शुक्लस्य ध्यानवैराग्येष्व् इति । कुशलस्यैवेत्यवधार्यते । तत्र कृष्णाभावात् । क्लिष्टसंस्कारप्रहाणमष्टाभिः । नवमेन तु कुशलस्यापि । न हि तस्य स्वभावप्रहाणमिति । प्राप्तिच्छेदप्रहाणं । प्रहीणस्यापि कुशलस्य संमुखीभावात् । तदालम्बनक्लेशप्रहाणादिति । तदालंबनस्य क्लेशस्य प्रहाणात्तस्य कुशलस्य प्रहाणं भवति । तदालंबनक्लेशप्रहानं च नवमस्य तदालंबनक्लेशप्रकारस्य प्रहाणे सति भवतीति । नवमानंतर्यमार्गचेतनैव कृष्णशुक्लस्य [तिब् । ६० ] कर्मणः क्षयाय भवति । तदा हि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे विसंयोगप्राप्तिरुत्पद्यते । तस्य च कृष्णशुक्लस्य कर्मणोऽन्यस्यापि चानिवृतव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिरुत्पद्यत इति वर्णयंति । एवं चतुर्ध्यानवैराग्येष्वपि वक्तव्यं । तेन तद्वेदनीयमिति । तेन नरकगतिनैयम्यकारणेन । तद्वेदनीयं (अभिधर्मकोषव्याख्या ३९९) नरकवेदनीयमर्थः । अतोऽन्यत्रेति विस्तरः । ततो नरकगतेरन्यत्र कामधातौ मनुष्यादिगतौ अकुशलस्य कुशलस्य च कर्मणो विपाकस्तेन गतिनैयम्यकारणेन । तदन्यकामधातुवेदनीयमुभयमप्यविशेष्य मिश्रीकृत्य कृष्णशुक्लमित्युक्तं । न पुनरेवं ग्रहीतव्यं । कुशलमपि कृष्णशुक्लम् । एवमकुशलमपीति । कुशलेनामिश्रत्वादिति । न हि कुशलं दर्शनप्रहातव्यमस्ति । न दृष्टिहेयमक्लिष्टम् इति नियमात् । अत्र चोद्यते । कामावचरं दृग्घेयं कृष्णम् इति विशेष्यं वक्तव्यम् । इतरथा हि रूपारूप्यावचरस्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसंग इति । न वक्तव्यम् । अन्यत् कृष्णशुक्लं तु कामजम् इति । कामजमित्यस्योभयविशेषणत्वात् । कामजं दृग्घेयं कृष्णं । कामजमन्यत्कृष्णशुक्लम् [तिब् । ६० ] इति । तद्धीति विस्तरः । तद्धि कामावचरं भवनाप्रहातव्यं । कुशलं चाकुशलं च संभवति । तन्मिश्रीकृत्योभयमपि कृष्णशुक्लमित्युक्तं । न पुनः प्रत्येकं । (इव् ।६५) त्रीणि मौनेयानीति । मुनिता वा मुनिकर्म वा मौनेयं कापेयवत् । मौनत्रयम् इति । मुनेरिदं मौनं । अशैक्ष इति विस्तरः । अशैक्षं कायकर्माविज्ञप्तिस्वभावं कायमौनम् । एवं वाङ्मौनं । अथ कस्मादविज्ञप्तिरेव गृह्यते । न पुनर्विज्ञप्तिरपि । विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासंभवात् । मन एव मनोमौनमिति । स्वार्थे वृद्धिविधानात् । चित्तं हि परमार्थमुनिरिति । सर्वक्लेशजल्पोपरतेरिति कारणं वक्ष्यते । तत्किलकायवाक्कर्मभ्यामशैक्षाभ्यामनुमीयते अशैक्षामिति । कथं तथागतोऽनुमातव्यः । प्रशांतेन कायकर्मणा प्रशांतेन वाक्कर्मणेति सूत्रे वचनात् । किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतमाह । अपि खल्विति विस्तरः । चित्ताविज्ञप्त्यभावादिति । यस्माच्चित्तस्यविज्ञप्तिर्नास्त्यतो न मनस्कर्म विरतिस्वभावं । विरमार्थेन च मौनमिति । विरमो विरतिः । सर्वाकुशलविरमार्थेन [तिब् । ६१ ] मौनमित्यभिप्रायः । अतो मनो एव सर्वाकुशलेभ्यो विरतं मौनमित्युच्यते । सर्वक्लेशजल्पोपरतेरिति । वितथालंबनजल्पनात्क्लेशा जल्पा इत्युच्यंते । ते चार्हत उपरता इत्यर्हन् परमार्थमुनिः । शौचेयानीति । शुचिभावः शौचेयं । शौचमित्यर्थः । (अभिधर्मकोषव्याख्या ४००) सर्व- ग्रहणं सास्रवानास्रवसुचरितपरिग्रहार्थं । तावत्कालमत्यंतं चेति । तावत्कालदुश्चरितमलापकर्षकं सास्रवेण सुचरितत्रयेण । अत्यंतमनास्रवेण । तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञयेति सूत्रात् । मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थमिति । तूष्णींभावमात्रेण शुद्धिदर्शिनो मिथ्यामौनाधिमुक्ताः । कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधिमुक्ताः । तेषां विवेचनं ततो दर्शनात्प्रच्यावनं । तदर्थमेतानीति (इव् ।६६) संचेतनीयसूत्रे वचनादिति । संचेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते । कथं च भिक्षवः संचेतनीयं कर्म कृतं भवत्युपचितं । इह भिक्षव एकत्यः संचिंत्य त्रिविधं कर्म कायेन कर्म करोत्युपचिनोति चतुर्विधं वाचा त्रिविधं मनसेति विस्तरेणोक्त्वाह [तिब् । ६१ ] । कथं भिक्षवस्त्रिविधं मनसा संचेतनीयं कर्म कृतं भवत्युपचितं । यथापीहैकत्योऽभिध्यालुर्भवति । व्यापन्नचित्तः । यावन्मिथ्यादृष्टिः । खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति विस्तरः । न चान्यदभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तमित्यभिद्यादय एव मनस्कर्मेति दार्ष्टांतिकाः सौत्रांतिकविशेषा इत्यर्थः । एवं तु सति कर्मक्लेशयोरैक्यं स्यादिति । अभिध्याव्यापादमिथ्यादृष्टयः क्लेशाः । त एव कर्मेति । तदैक्यं स्यात् । नैतदस्ति । कश्चित्क्लेशोऽपि कर्म स्यादिति । चेतना कर्म चेतयित्वा चेति वचनात् । यद्येवं संचेतनीयसूत्रं कथं नीयत इत्याह । सूत्रे त्विति विस्तरः । सूत्रे तु चेतनायास्तन्मुखेनाभिध्यादिमुखेन प्रवृत्तेस्तैरभिध्यादिभिस्तां चेतनां दर्शयति । अभिध्यालुः खलु भिक्षवो भवतीति विस्तरेण । अन्यथा चेतनामतं भिक्षवः कर्म वदामि चेतयित्वा चेत्येतद्विरुध्यते । कर्मक्लेशयोश्चैक्ये अभिधर्मविरोधः स्यात् । परानुग्रहोपघाभिसंध्यभाव इति विस्तरः । परेषामनुग्रहोपघातयोरभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योर्यथाक्रमं [तिब् । ६२ ] कुशलाकुशलत्वमिति । अतो ब्रवीति । तन्मूलत्वादिति । यस्मात्परानुग्रहाभिसंधेः परोपघाताभिसंधेश्च सम्यग्दृष्टिमिथ्यादृष्टी मूलं कारणमित्यर्थः । अतस्तयोः कुशलाकुशलत्वं । (इव् ।६७) यथायोगमिति यथासंभवं । कथमित्याह । कुशलाः सुचरितेध्यः अकुशला दुश्चरितेभ्यश्चेति । क्लिष्टश्चान्योऽपीति । वधबंधनादि । तस्य नात्यौदारिकत्वादिति । तस्य प्रयोगपृष्ठभूतस्य क्ल्ष्टस्यान्यस्यापि (अभिधर्मकोषव्याख्या ४०१) अनत्यौदारिकत्वात् । मनोदुश्चरितस्य च प्रदेशश्चेतना । न संगृहीतेति वर्तते । मद्यादिविरतिदानेज्यादिक इति । प्रथमेनादिशब्देन ताडनबंधनादिविरतिर्गृह्यते । द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर्गृह्यते । प्रियवचनादिक इत्य् । आदिशब्देन धर्मदेशनामार्गकथनादिर्गृह्यते । मनःसुचरितस्य चेतना न संगृहीतेति वर्तते । (इव् ।६८) षडविज्ञप्तिर् इति । षडविज्ञप्तिरवश्यं । न त्वविज्ञप्तिरेव षडित्यवधारणं । मौलविज्ञप्त्यभावादिति । यस्मान्मौली कर्मपथसंगृहीता विज्ञप्तिर्नास्ति । आज्ञापनविज्ञप्तिस्त्वस्ति प्रयोगसम्गृहीतेति वैभाषिकसिद्धांतः । [तिब् । ६२ ] द्विधैक इति । द्विधैवैक इत्यवधारणार्थ आरंभः । तत्कालमरण इति । विज्ञप्तिकालमरणे । कालांतरमरणे त्वविज्ञप्तिरेव भवति । द्विविधाः सप्त कुशला इति । द्विविधा एवेत्यवधारणं । विज्ञप्त्यधीनत्वात्समादानशीलस्येति । शीलं हि द्विविधं । समादानशीलं प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानास्रवसंवरौ । समादानशीलं विज्ञप्त्यधीनं । तद्धि परस्मादादीयते । धर्मताशीलं तु न विज्ञप्त्यधीनं । चित्तमात्रधीनत्वात् । अत एवाह । अविज्ञप्तिः समाधिजा इति । (इव् ।६९ ब्च्) सामंतकास्तु विज्ञप्तिर् इति । कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः । न त्ववश्यमविज्ञप्तिरित्यत एवाह । अविज्ञप्तिर्भवेन्न वेति । पर्यवस्थानेनेति । आह्रीक्यादिना । घनरसेनेति । घनवेगेन । तस्यानुधर्मं चेष्टेतेति । तस्य कर्मपथस्यानुधर्ममनु सदृशं कर्म । तद्यथा मृतेऽपि प्राणिनि पुनः प्रहारदानं कोषणं मान्सच्छेदनमित्येवमादि । द्वौ क्षिणातीति शब्दौ । परस्य चर्मापनयनमर्थः । पूर्वस्यार्थांतरं द्रष्टव्यं । फलपरिपूरितश्चेति । प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः । यो ह्य्प्रयुज्यते मौलं कर्मपथं [तिब् । ६३ ] न जनयति । तस्य प्रयोगफलमस्ति न तु फलपरिपूरिः । एवमन्येष्वपीति । यथा तावदिह कश्चित्परस्वं हर्तुकामो मंचादुत्थिष्ठति शस्त्रं गृह्णाति । परगृहं गच्छति । सुप्तो न वेत्याकर्णयति । परस्वं स्पृशति । यावन् (अभिधर्मकोषव्याख्या ४०२) न स्थानात्प्रच्यावयति । तावत्प्रयोगः । यस्मिंस्तु क्षणे स्थानात्प्रच्यावयति । तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः । द्वाभ्यां हि कारणाभ्यामदत्तादानावद्येन स्पृश्यते प्रयोगतः फलपरिपूरितश्च । ततः परमविज्ञप्तिक्षणाः पृष्ठं भवंति । यावत्तत्परस्वं विभजते । विक्रीणीते । गोपायति । अनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवंतीति । एवमन्येष्वपि पंचसु यथासंभवं योज्यं । मरणभवस्थ इति । अमृत एव । न चैष सिद्धांत इति । समं प्राक्च मृतस्यास्ति न मौलोऽन्याश्रयोदयाद् इति सिद्धांतात् । तन्न वक्तव्यमिति । व्यपरोपयतीति । विप्रकृतावस्थायामयोगात् । एवं तु वक्तव्यं स्यात् । मृते प्राणिनि या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः । स्यं मौलः कर्मपथ इति । यच्चापीदमिति विस्तरः । वैभाषिकैरस्य शास्त्रवाक्यस्यैवमर्थो व्याख्यातः । अत्र शास्त्रे प्रयोगशब्देन पृष्ठमुक्तमिति । प्रयोग इव प्रयोगः । प्रयोगसदृशी क्रियेत्यर्थः । अस्यार्थस्य विरोधः । [तिब् । ६३ ] कस्मात् । मौलस्यैव तदानीमनिरुद्धात् । मृते प्राणिनि मौलकर्मपथव्यवस्थापनादित्यत्राभिप्रायः । वैभाषिक आह । यथा न दोषस्तथास्त्विति । कथं च न दोष इत्याचार्यः । वैभाषिकः पुनराह । मौल एवात्र प्रयोगशब्देनोक्त इति । कुत्र । योऽयं प्रश्नः स्यात्प्राणी हतः प्रानातिपातश्चानिरुद्ध इत्यत्र । पृष्ठं प्रयोगशब्देनोक्तमिति किमयं पक्षः परित्यक्त एव । स च न परित्यक्त एव । उभयमपि हि संभवति । यदि मरणभवानंतरक्षणवर्ती प्राणी भवत्यत्र प्रयोगशब्देन मौल उक्त इतीष्यते । ततः परेण तु पृष्ठ इति । आचार्य आह । विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवतीति । मृते हि प्राणिनि विज्ञप्तिरकिंचित्करी । न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारणं पुनरस्तीति मन्यामानोऽयं पृच्छति । कस्मादव्ज्ञप्तिं न पृच्छति । यस्मादसावनिदर्शनत्वादप्रतिघत्वाच्च प्रहाराख्या न भवति । कथं च न भवितव्यमिति वैभाषिकेणोक्ते । स्वाभिप्रायमाचार्यो विवृणोति । असामर्थ्यादिति । प्राणिनि मृते तस्याः सामर्थ्यं न दृश्यत इति वैभाषिक आह । अविज्ञप्तिरिदानीं कथं भवत्यसति सामर्थ्ये मौलः कर्मपथ इति । यस्मादेवमविज्ञप्तिरसामर्थ्येऽपि मौलः कर्मपथो भवति । तस्मात्प्रयोगफलपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृतत्वावस्थायां । तदुभयं विज्ञप्त्यविज्ञप्त्याख्यं [तिब् । ६४ ] कर्मपथः स्याद्युज्येतेत्यर्थः । एवमन्येष्वपि यथायोगं योज्यमिति । यथा परस्वं हर्तुकामः कार्यसिद्धये परकीयं हृत्वा तेन पशुना बलिं कुर्यात् । दारेषु चास्य विप्रतिपद्येत (अभिधर्मकोषव्याख्या ४०३) तैरेव तदपहारार्थं । अनृतपिशुनपरुषसांत्वभेदैश्चास्य मित्रभेदं कुर्यात् । यान्यस्य परित्राणाय कल्पेरन् । अभिध्यां च तत्स्वे कुर्यात् । तद्द्रव्यस्वामिनि च व्यापादं मिथ्यादृष्टिं बृंहयेत् । एवं काममिथ्याचारादिषु यथासंभवं योज्यं । एषा दिक् । (इव् ।६९ , ७० ब्) नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्टेति । न च सर्वेषां लोभेन । किं तर्हि । केषांचिदेव काममिथ्याचारादीनां । नापि सर्वेषां व्यापादेन । किं तर्हि । केषांचिदेव प्राणातिपातादीनां । एवं न सर्वेषां मोहेन । किं तर्हि । केषांचिदेव मिथ्यादृष्ट्यादीनामेवेति । त्र्यंबुकाः वरताः । आदिशब्देन व्याघ्रादयः । यश्च मिथ्यादृष्टिप्रवर्तित इति । नास्ति परलोक इति कृत्वा निरपेक्षो हंति । अयमपि मोहजः । अन्यलाभसत्कारयशोऽर्थमिति । अन्यलाभस्यार्थे परस्वं हरति । यथाश्वहारिकः । सत्कारस्य यशवो वार्थं हरति । इदमपि लोभजमदत्तादानं । [तिब् । ६४ ] यच्च मिथ्यादृष्टिप्रवर्तितं । तदपि मोहजमदत्तादानं । तत्र मोहप्राधान्यात् । उपैति मातरमब्रह्मचर्यार्थे । उपस्वसारमुपैतीति वर्तते । उपस्वसारं भगिनीमित्यर्थः । उपसगोत्रामुपैति । समानगोत्रामित्यर्थः । उपहायजमानः । ये चाहुरिति विस्तरः । उदूखलादितुल्यो मातृग्रामः । यथोदूखलादयः साधारणा उपभोग्याः । एवं स्त्रीजनः । तस्मान्न दोषोऽस्त्यभिगच्छतामिति । मृषावादादयो लोभजाः द्वेषजाश्च पूर्ववदिति । मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापाः लोभजाः अन्यलाभसत्कारयशोऽर्थं वा । आत्मसुहृत्परित्राणार्थं वा । द्वेषजाः वैरनिर्यातनार्थं । न मर्मयुक्तं । न परिहासयुक्तं । मिथ्यादृष्टिप्रवर्तित इति । नास्ति परलोक इति निर्मर्यादय यो मृषावादोऽयं मोहजः । पैशुन्यादयस्तु । पैशुन्यपारुष्याबद्धप्रलापाः मृषावादवन्मोधजाः । यश्चेति विस्तरः । यश्च वेदसांख्यवैशेषिकाद्यसत्प्रलापः । स चापि मोहजः संभिन्नप्रलापः । (इव् ।७० द्) तस्य चेति । कुशलचित्तस्य । नानावासं प्रविशतीति । [तिब् । ६५ ] मण्डलं प्रविशतीत्यर्थः । नानावासा हि तस्मिन्महासीमामण्डले भवंति । तृतीये कर्मवाचन इति । ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसंपाद्यते । तत्र ज्ञप्त्या इदंनामानमुपसंपादयेत्संघ इति । लिङ्ङर्थ उच्यते । कर्मवाचनेन लडर्थ उच्यते । इमं संघ उपसंपादयतीति । तत्र कर्मवाचनं त्रिरुच्यते । तृतीयस्य कर्मवाचनस्यापरिसमाप्तेः प्रयोगः कर्मपथस्यावगंतव्यः । तस्यावसाने तु या विज्ञप्तिस्तत्क्षणिका वाविज्ञप्तिर्(अभिधर्मकोषव्याख्या ४०४) अयं मौलः कर्मपथः । तत ऊर्ध्वं यावन्निश्रया आरोच्यंत इति । चत्वारो निश्रयाश्चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन विधिना तस्योपसंपादितस्यारोच्यंते । तदधिष्ठानं च विज्ञपयति । निश्रयाधिष्ठानं च विज्ञप्तिं करोतीत्यर्थः । अविज्ञप्तिश्च यावदनुवर्तते । यावत्संवरो न त्यज्यत इत्यर्थः । इदं पृष्ठं । (इव् ।७१, ७२ ब्) वधव्यापादपारुष्यनिष्ठा द्वेषेणेति । द्वेषेणैवेत्यवधारणं । परित्यागपरुषचित्तसंमुखीभावादिति । परित्यागचित्तसंमुखीभावात्प्राणातिपातस्य निष्ठा द्वेषेण । परुषचित्तसंमुखीभावात्तु व्यापादपारुष्ययोः । [तिब् । ६५ ] (७२ द्) चतुर्भिः काण्डैरुक्ता इति । चतुर्भिर्भागैरुक्ताः । कथं । वधव्यापादपारुष्यनिष्ठा द्वेषेणेत्य् एकः काण्डः । लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम् इति द्वितीयः । मिथ्यादृष्टेस्तु मोहेनेति तृतीयह् । शेषाणां त्रिभिरिष्यत इति चतुर्थः काण्डः । भोगाधिष्ठाना इति । विषयाधिष्ठानाः । नामरूपाधिष्ठानेति । पंचस्कन्धाधिष्ठानेत्यर्थः । नाम हि वेदनादयः स्कंधाः रूपं रूपस्कंधः । अधिष्ठानमधिकरणं विषय इत्यनर्थांतरं । नामकायाधिष्ठाना मृषावादादयो वाग्नाम्नि प्रवर्तत इति कृत्वा । (इव् ।७३ ब्) न मौल इति प्रतिषेधात्पृष्ठमपि न भवतीति गम्यते । मौलपूर्वत्वात्पृष्ठस्य । न च प्राणातिपातावद्येन स्पृश्यत इति । न मौलेनेत्यभिप्रायः । अन्याश्रयोदयाद् इति । विसभागाश्रयोदयादित्यर्थः । (इव् ।७३ द्) अर्थतो हि तेऽन्योन्यं प्रयोक्तार इति । न वाचा तेऽन्योन्यं प्रयोक्तारः । किं तर्हि । प्राणातिपातकरणाभ्युपगमाद्[तिब् । ६६ ] अर्थत इति एककार्यत्वात् । (इव् ।७४ ब्) संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमित्वेति । न भ्रांत्यान्यं मारयतीत्यर्थः । क्षणिकेषु स्कंधेष्विति । स्वरसेनैव विनश्वराणां स्कंधानां कथम् (अभिधर्मकोषव्याख्या ४०५) अन्येनैषां निरोधः क्रियत इत्यभिप्रायः । प्राणो नाम वायुः । कायचित्तसंनिश्रितो वर्तत इति । कथं चित्तसंनिश्रितो वायुः प्रवर्तते । चित्तप्रतिबद्धवृत्तित्वात् । तथा हि निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते । शास्त्रेऽप्युक्तं । य इमे आश्वासप्रश्वासाः । किं ते कायसंनिश्रिता वर्तंत इति वक्तव्यं । चित्तसंनिश्रिता वर्तंत इति वक्तव्यं । नैव कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यं । कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् । आह । कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यमिति विस्तरः । तमपि पातयतीति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्तिं प्रतिबध्नन्निरोधयतीत्युच्यते । यथा प्रदीपं निरोधयति । घण्टास्वनं वा । क्षणिकमपि संतं । कथं च स निरोधयति । अनागतस्योत्पत्तिप्रतिबंधात् । जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावमेनं दर्शयति । कस्य तज्जीवितं । यस्तदभावान्मृत इति । यः प्राणी जीवितस्याभावान्मृतो भवति । स बौद्धानां नास्ति नैरात्म्यवादित्वात् । [तिब् । ६६ ] अत एवं पृच्छति । कस्येति षष्ठीं । पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे । असत्यात्मनि कस्येयं स्मृतिः । किमथैषा षष्ठीत्यत्र प्रदेशे चिंतयिष्यामि । आस्तां तावदेतत्सामान्यासिकमित्यभिप्रायः । तस्मात्सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितं । नात्मन इति दर्शयति । स एव चानिन्द्रियो मृत इति । अबुद्धिपूर्वादिति विस्तरः । असंचिन्त्यकृतादपि प्राणिपातात्कर्तुरधर्मो यथाग्निसंस्पर्शादबुद्धिपूर्वादसंचिंत्यकृताद्दाह इति । निर्ग्रंथा नग्नाटकाः । तेषां निर्ग्रंथानामेवं वादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंगः । पापप्रसंग इत्यर्थः । अग्निदृष्टांतात् । निर्ग्रंथशिरोलुंचने च निर्ग्रंथशिरःकेशोत्पाटने च । दुःखोत्पादनबुद्ध्यभावेऽप्यधर्मप्रसंगः । अग्निदाहवत् । कष्टतपोदेशने च । निर्ग्रंथशास्तुरधर्मप्रसंगो बुद्ध्यनपेक्षायां । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च । निर्ग्रंथानां विषूचिकया अजीर्णेन मरणे । दातुरन्नदातुरधर्मप्रसंगः । अन्नदानेन मरणकारणात् । अबुद्धिपूर्वोऽपि हि प्राणिवधः कारणमधर्मस्येति । मातृगर्भस्थयोश्च । मातुर्गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वादधर्मप्रषंगः । तत एवाग्निदृष्टांतात् । वध्यस्यापि च तत्क्रियासंबंधात् । प्राणातिपातक्रियासंबंधात्[तिब् । ६७ ] । अधर्मप्रसंगः । वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति । अग्निस्वाश्रयदाहवत् । अग्निर्हि न केवलमन्यजनं दहति । किं तर्हि । स्वाश्रयमपि इन्धनं दहतीति । तद्वत् । न हि तेषां चेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि (अभिधर्मकोषव्याख्या ४०६) अधर्मस्याप्रसंगः । परेणाग्निं सपर्शयतः स्पर्शयितुस्तेनादाहवत् । आग्नेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादीनां । गृहपाते तत्रांतःस्थितानां प्राणिनां वधात् । पापप्रसंगः । न हि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टांतमात्रादहेतुकात् । सिद्धिरस्यार्थस्येति । (इव् ।७४ द्) अन्यत्र संज्ञाविभ्रमादिति । यदि देवदत्तद्रव्यं हरामीत्यभिप्रायमाणो यज्ञदत्तद्रव्यं हरति । नादत्तादानमित्यभिप्रायः । परिनिर्वाणकाले परिगृहीतमिति । दातृजनपुण्यानुग्रहार्थं । अपरिग्रहे हि स्तूपे दानमफलं स्यात् । प्रतिग्राहकाभावात् । परिवर्तकं मृतस्य भिक्षोश्चीवरादिद्रव्यं । कृते कर्मणि ज्ञप्तिकर्मणि । (इव् ।७५ ब्) गर्भिणीगमने गर्भोपरोधः । पाययंती स्तन्योपभोगावस्थापुत्रिका स्त्री । अब्रह्मचर्यकरणे हि तस्याः स्तन्यं क्षीयते । बालकस्य वा पुष्टये तत्स्तन्यं न भवतीति । [तिब् । ६७ ] प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यज्ञदत्तं मारयतो न प्राणातिपातो भवति । तद्वद् । इहान्यस्मिं वस्तुनि प्रयोगोऽभिप्रेतोऽन्यच्च वस्तु परिभुक्तमिति । न स्यात्काममिथ्याचार इत्यपरे । अंततो राज्ञ इति । यद्यन्यः कश्चिद्रक्षिता नास्ति । अंततः सर्वपश्चाद्राज्ञोऽंतिकात्स काममिथ्याचारः । तस्य हि तन्न मर्षणीयमिति । (इव् ।७५ द्) आहोस्विदभिज्ञातुं समर्थ इति । योऽपि ह्यर्थमभिज्ञातुं समर्थः । सोऽप्यर्थाभिज्ञ इति शक्यते वक्तुम् । अर्थमभिजानीत इति विप्रकृतावस्थायामभिप्रेतत्वात् । मनोविज्ञानविषयत्वाद्वाक्यार्थस्येति । नास्त्यत्र देवदत्तोऽस्ति वेत्युच्यमाने शब्दः श्रोत्रा विज्ञायते । तदनंतरं तु चक्षुरादिसमूहो देवदत्तो वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते । तेनाविज्ञप्तिरेव मौलः कर्मपथः स्यात् । वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात् । इष्यते च विज्ञप्त्यविज्ञप्तिस्वभावो मौलः कर्मपथ इति । (इव् ।७६) मृतकल्पानि । अत एतेषु मताख्येति । नैरुक्तं विधिमालंभ्य वैभाषिका व्याचक्षते । स्वेन्द्रियैः प्राप्ता मता इत्याचार्यसंघभद्रः । विस्तरेण यावन्मनसा धर्मा इति । ये त्वया घ्राणेन गन्धा न घ्राताः । जिह्वया रसा नास्वादिताः । कायेन स्प्रष्टव्यानि [तिब् । ६८ ] न स्पृष्टानि । यावद्ये त्वया मनसा धर्मा न विज्ञाता इति । त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद्यथाक्रमं । गन्धादिषु गंधरसस्प्रष्टव्येषु मताख्या गम्यते । ते मतशब्देनोच्यंते । एवं चानिष्यमाणे गंधादिषु मताख्येत्यनिष्यमाणे । दृष्टादिभावबाह्यत्वात् । गन्धादीनामरूपलक्षणत्वेन (अभिधर्मकोषव्याख्या ४०७) दृष्टभावबाह्यत्वादशब्दधर्मायतनलक्षणत्वेन च श्रुतविज्ञातभावबाह्यत्वात् । गंधादिषु व्यवहारो न स्यात् । दृष्ट इति वा यावद्विज्ञात इति वेत्येषा युक्तिः । तेषु मताख्येति । आचार्य आह । सूत्रं तावदिति विस्तरः । अन्यार्थत्वादिति । यस्मात्सूत्रस्यान्य एवार्थः । सूत्रार्थं ब्रवीति । अत्र च ते तव षड्विधे विषये रूपादौ । चतुर्षु दृष्टादिव्यवहारेषु । दृष्टश्रुतमतविज्ञातव्यवहारेषु । दृष्टादिव्यवहारमात्रं भविष्यतीति । रूपे दृष्टमिति व्यवहारो भविष्यति । यावद्विज्ञातमिति । एवं शब्दाडिषु । अत्र च ते मालकीमातर्दृष्टे विषयषट्के दृष्टमात्रं भविष्यति । श्रुते विषयषट्के । मते विज्ञाते विषयषट्के एव विज्ञातमात्रमित्येवं तत्सूत्रपदं व्याख्यायत इत्यभिप्रायः । न हि प्रियाप्रियनिमित्ताध्यारोपस्तव भविष्यतीति सूत्रार्थः । [तिब् । ६८ ] ननु च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्येवोक्तानि । न तु न श्रुतानि यावन्न विज्ञातानीत्येवोक्तानि । एवं शब्दा न श्रुता इत्येवोक्ताः । न तु न दृष्टा यावन्न विज्ञाता इत्युक्ताः । एवं यावद्धर्मा न विज्ञाता इत्येवोक्ताः । न तु न दृष्टा यावन्न स्पृष्टा इति । नैष दोषः । उदाहरणरूपमेतदुक्तं भगवता । यथा हि रूपाणि न दृष्टानीत्युक्तानि । तथा न श्रुतानि । यावन्न विज्ञातानीति वक्तव्यानि । एवं शब्दादिषु वक्तव्यं । तेनैव लक्षणमुच्यते । यत्पंचभिरिन्द्रियैरिति विस्तरः । यत्पंचभिरिन्द्रियैः प्रत्यक्षं रूपादि तद्दृष्टं । यत्परत आगमितं विषयषट्कं तच्छ्रुतं । यद्युक्त्यनुमानतो रुचितमभिप्रेतं तन्मतं युक्त्यनुमानमिति । अव्यभिचार्यनुमानं । तच्च षड्विषयगोचरं । षष्ठोऽन्यत्र दृष्टादिति । षष्ठो विषयो धर्माः । स दृष्टव्यवहारं वर्जयित्वा त्रिभिः श्रुतादिभिर्व्यवहारैर्व्यवह्रियते । अतो नास्ति गन्धादिषु व्यवहाराभावप्रसंगः । तस्माद्युक्तिरप्येषा न युक्तिर्भवति । या वैभाषिकैर्[तिब् । ६९ ] उक्ताः एवं चानिष्यमाण इत्येवमादिका । यस्मादन्यथापि गंधादिषु व्यवहारो भवतीति । यत्प्रत्यक्षीकृतं चक्षुषेति । न पंचभिरिन्द्रियैः । यच्छ्रोत्रेण श्रुतं परतश्चागमितमिति उभयमप्यभीष्टं । प्रत्यात्मं प्रतिसंवेदितं सुखाद्यसमाहितेन चित्तेन । अधिगतं तु समाहितेन । लौकिकेनैव । न लोकोत्तरेण । लौकिकं व्यवहाराधिकारात् । तदेवं योगाचारनयेनापि षडप्येते विषयाः प्रत्येकं यथासंभवं दृष्टा इति वा व्यवह्रियंते । श्रुताः । मताः । विज्ञाता इत्येवेत्यतो नास्ति गंधादिषु व्यवहाराभावप्रसंग इति । (अभिधर्मकोषव्याख्या ४०८) यः कायेनान्यथेति । कायसंज्ञया योऽर्थं गमयति । तस्यापि मृषावादः । पराक्रमेत व्यायच्छेत । वाचा पराक्रमेतेति । वाचा परं मारयेदित्यर्थः । इह तु प्राणातिपातस्य कायिकत्वात्कायिक्येवाविज्ञप्तिर्मौलसंगृहीता । न वाचिकी । नाप्यत्र कायिकी विज्ञप्तिः स्यात् । कायेन पराक्रमेतेति । अत्र मृषावादस्य वाचिकत्वाद्वाचिक्येवाविज्ञप्तिर्मौलसंगृहीतेत्यवगंतव्यं । उभयावद्येन वेति । [तिब् । ६९ ] कायवागवद्येन । ऋषीणां मनःप्रदोषेण कायावद्येन योगो भवति । पोषधनिदर्शनं चात्रेति । वागवद्येन योगो भवति । भिक्षुपोषधे हि कच्चिऽत्थ परिशुद्धा इति विनयधरेणानुश्राविते । यदि कश्चित्भिक्षुः सतीमापत्तिं नाविष्कुर्यात् । तूष्णींभावेनैवाधिवासयेत्स मृषावादी भवेदिति । कथं तयोः कर्मपथः सिध्यतीति । कथं तयो ऋषिभिक्ष्वोः कायवाग्भ्यामपराक्रममाणयोः प्राणातिपातो मृषावादश्च यथाक्रमं कर्मपथः सिध्यतीति । कर्तव्योऽत्र यत्नः । वैभाषिकैः कर्तव्यः समाधिरित्यर्थः । अत्राचार्यसंघभद्रः समाधिमाह । ऋषयोऽर्थत आज्ञापयितारो भवंति । तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयमवेत्यामनुष्यास्तदभिप्रसन्नाः कायेन पराक्रमंते । येन तेषामृषीणां कर्मप्थ उत्पद्यते । कथं । परविज्ञप्त्येति । अवश्यं तथाविधस्य कायवाग्विकारा भवंति । अपि च शपंति ते तथा । तत्र चावश्यं कायवाक्चेष्टया भवितव्यमन्ये त्वाहुः । न कामधाताववश्यमविज्ञप्तिः सर्वैव विज्ञप्त्यधीना भवति । फलप्राप्त्यैव सह पंचकादीनां प्रातिमोक्षसंवरोत्पत्तिसंभावात् । इत्यकुशलाप्येवंजातीया काचिद्विज्ञप्तिमंतरेणापि स्यात् । पूर्वविज्ञप्तं तैरिति [तिब् । ७० ] अवश्यमितरत्रापि भविष्यति । ऋषीणां तावदुक्तं पोषधमृषावादेऽपि । यदपरिशुद्धः संघमध्यं प्रविशैत् । निषीदति । स्वमीर्यापथंकल्पयति । तत्संबद्धं वा यत्किंचिद्भाषते । सास्य पूर्वविज्ञप्तिरिति । (इव् ।७७, ७८ ब्) सर्वं क्लिष्टं वचनं संभिन्नप्रलाप इति । मृषावादादित्रयमपि । न केवलमन्यं क्लिष्टं । सैव च संभिन्नप्रलापितेति । यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशः । तस्य । तदभिधाने त्वतलाविति । तत्प्रत्ययेन क्लिष्टवचनलक्षणः संभिन्नप्रलाप उच्यते । तद्योगेन हि । संभिन्नप्रलापयोगेन हि । स पुद्गलः संभिन्नप्रलापी भवति । मृषावादादित्रयाद्यदन्यक्लिष्टं वचनं । स संभिन्नप्रलाप इत्युक्त्वोदाहरणं दर्शयन्नाह । लपनागीतनाट्यवत्कुशास्त्रवच्चेति । लपनां करोतीति । लाभयशस्कामतया सेवाभिद्योतिकां वाचं निश्चारयतीत्य्(अभिधर्मकोषव्याख्या ४०९) अर्थः । परिदेवसंगणिकादिकमिति । आदिशब्देन परिदेवसंगणिकाभ्यां योऽन्यः क्लिष्टचित्तानां कश्चिदालापः । आवाहविवाहाद्यभिलापसद्भावादिति । आवाहो दारिकाया दारकगृहागमनं । विवाहो दारकस्य दारिकागृहागमनं । आवाहः प्रवेशनकः । विवाहः परिणयनमित्यपरे । आदिशब्देन रक्तचित्तानामालापः । (इव् ।७८ द्, ७९ ब्) विषमेणान्यायेनेति । [तिब् । ७० ] उद्देशनिर्देशरूपौ पर्यायौ । तथा हीति विस्तरः । यस्मात्पंचानां निवरणानामधिकारेण । कामच्छन्दं कामतृष्णास्वभावमधिकृत्योक्तं । सोऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति । व्यापादं स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सां लोके प्रहाय तीर्णकांक्षो भवति । तीर्णविचिकित्सः । अकथंकथी कुशलेषु धर्मेषु । स पंच निवरणानि प्रहायेत्येवमादि । अतो ज्ञायते सर्वैव कामावचरी तृष्णाभिध्येति । औदारिकदुश्चरितसंग्रहादिति । दशस्वकुशलेषु कर्मपथेषु यदौदारिकं दुश्चरितं । तत्संगृहीतं । न सर्वम् । एवं कुशलेषु । अतो न सर्वाभिध्या कर्मपथः । किं तर्हि । या परस्वे विषमस्पृहा । सा कर्मपथ इत्यपरेषामभिप्रायः । मा भूच्चक्रवर्तिनामुत्तरकौरवाणां चाभिध्या कर्मपथ इति । न हि तत्र कामावचरी तृष्णा नास्ति । न च तत्राकुशलाः कर्मपथा इष्यंते । सैषा साकल्येन कर्मफलार्यापवादिकेति । तथा ह्येषा पठ्यते । नास्ति दत्तम् । नास्तीष्टं । नास्ति हुतं । नास्ति सुचरितं । नास्ति दुश्चरितं । नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः । नास्त्ययं लोकः । नास्ति परलोकः । नास्ति माता । [तिब् । ७१ ] नास्ति पिता । नास्ति सत्त्व उपपादुकः । न संति लोकेऽर्हंत इति । तत्र नास्ति दत्तं । यावन्नास्ति दुष्चरितमिति कर्मापवादिका । तथा नास्ति माता । नास्ति पितेति कर्मापवादिकैव । नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः । नास्त्ययं लोकः । नास्ति परलोकः । तथा नास्ति सत्त्व उपपादुक इति फलापवादिका । न संति लोकेऽर्हंत इत्यार्यापवादिका । आदिमात्रं तु श्लोके दर्शितमिति । नास्तिदृष्टिः शुभशुभ इति उदाहरणमात्रत्वात् । (इव् ।७९ द्) कर्मणः पंथान इति । चेतनाख्यस्य कर्मणः पंथानः । कथमित्याह । तत्संप्रयोगिणी हि चेतना । अभिध्यादिसंप्रयोगिणी तेषामभिध्यादीनां वाहेन गत्या वहति । गच्छतीत्यर्थः । तद्वशेन तथाभिसंस्करणात् । यस्मादभिध्यादीनां यथाक्रमं सक्तिप्रतिकूलमिथ्यानितीरणाकाराणां (अभिधर्मकोषव्याख्या ४१०) वशेन । तदनुरूपा चेतनाभिसंस्करोति । चेतयत इत्यर्थः । अतस्तेषां वाहेन वहति । कर्म च । कायवाक्कर्मस्वभावत्वात् । कर्मणश्च चेतनाख्यस्य पंथान इति कर्मपथाः । तत्समुत्थानचेतनायाः [तिब् । ७१ ] कायवाक्कर्मसमुत्थानचेतनायाः । तानधिष्ठाय तान् प्राणातिपातादीनधिष्ठाय प्रवृत्तेः । असरूपाणामप्येकशेषसिद्धेरिति । शब्दसरूपाणामर्थसरूपाणां वा एकशेष इष्यते । यथा वृक्षश्च वृक्षश्च वृक्षौ । वक्रष्च कुटिलश्च वक्राविति । इह तु कर्म च कर्मपथाश्चेति न कर्मशब्दस्य कर्मपथशब्दस्य च सारूप्यं शब्दतः नाप्यर्थतः । कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वादेकशेषो न प्राप्नोति । यस्मात्त्वसरूपाणां साकल्येनैकदेशेन तु सरूपाणामेकशेषः सिध्यति । इष्यत इत्यर्थः । तद्यथा गुणो यङ्लुकोरिति । यङ्च यङ्लुक्यङ्लुकौ । तयोरिति । न शक्यते वक्तुं । यङ्च लुक्च यङ्लुकाविति अयं लुकोऽनिष्टत्वात् । एकदेशसारूप्यात्तु । यङो यङ्लुगेकदेशस्य च यङिति सारूप्यात्सिध्यत्येकशेषो यङ्लुकोरिति । अतो ज्ञापकादयमपि सिध्यति । कर्म च कर्मपथाश्च कर्मपथा इति । पश्चात्पुनः सरूपैकशेषः । कर्मपथाश्चाभिध्यः कर्मपथाश्च प्राणातिपातादय इति कर्मपथाः । अथ वैवं योजना । कर्मणः पंथानः कर्मपथाः । कर्म च ते कर्मपथाश्च कर्मकर्मपथाः । कर्मपथाश्चाभिध्यादयः । कर्मकर्मपथाश्च प्राणातिपातादयः । [तिब् । ७२ ] कर्मपथा इति । एवमनभिध्यादय इति विस्तरः । कुशला अपि कर्मपथा एवमेव योज्याः । अनभिध्यादयो हि कर्मणः पंथान एव । प्राणातिपातविरत्यादयश्च कर्म च कर्मणश्च पंथान इति । यस्मात्तदर्थ इति विस्तरः यस्मान्मौलकर्मपथार्थं तेषं तत्प्रयोगाणां प्रवृत्तिः । यस्माच्च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः । अतो न तानि कर्मपथाः । यद्यपि कर्मपथोऽपि कर्मपथस्य प्रयोग उक्तः । स तु मौलत्वात्कर्मपथः । न तु प्रयोगपृष्ठभूतत्वादिति । यथौदारिकसंग्रहादित्युक्तं प्रागिति । तदौदारिकसंग्रहाद्दशकर्मपथा उक्ता इति वचनात् । यानि प्रयोगपृष्ठानि । तानि न संगृहीतानि । येषां चेति विस्तरः । येषां मौलानामुत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षाप्कर्षौ लोके भवतः । न तु प्रयोगपृष्ठानां । अतस्त एव कर्मपथाः । तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षं वक्ष्यति । सर्वेऽधिपतिनिष्यन्दविपाकफलदामता इत्यत्र । अतो न तानि प्रयोगपृष्ठानि कर्मपथाः । (अभिधर्मकोषव्याख्या ४११) तेषां ते कथं कर्मपथा इति । न हि तेषामभिध्यादिभ्योऽन्यन्मनस्कर्मास्ति चेतना । यस्य कर्मणस्तेऽभिध्यादयः पंथान इति कर्मपथाः स्युः । [तिब् । ७२ ] त एव प्रष्टव्या इति । तैरेव परिहारो वक्तव्यः । य एवं मन्यंते । अपि तु शक्यमिति विस्तरः । स्वमतेन तत्पक्षं समर्थयति । इतरेतरावाहनाद्वेति । किं । तेऽभिध्यादयः कर्मपथा इति प्रकृतं । अभिध्या व्यापादमिथ्यादृष्टी आवाहयति । ते च तामिति । कर्म च ते । कर्मणश्चैषामेकतरस्य पन्थान इति कर्मपथाः । (इव् ।८०, ८१) मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्येतमर्थं वक्तुकाम उपोद्घातं ब्रवीति । सर्व एतेऽकुशलानामिति विस्तरः । अधिमात्रपरिपूर्णयेति । अधिमात्राधिमात्रयेत्यर्थः । किं तर्हि शास्त्र उक्तमिति । यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशलमूलैः । यत्तच्छास्त्र उक्तं । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि । तानि हि लोभादिस्वभावानि । न मिथ्यादृष्टिस्वभावानीत्यर्थः । अकुशलमूलाध्याहृतत्वादिति विस्तरः । अकुशलमूलैर्लोभादिभिरधिमात्रैर्मिथ्यादृष्टिरध्याहृतापनीता । तस्मात् । अकुशलमूलाध्याहृतत्वान्मिथ्यादृष्टेः । तेष्वेव तत्कर्मोपदेशः । तेष्वेवाकुशलमूलेषु । मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत्कर्म । तस्योपदेशः [तिब् । ७३ ] । प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । यदि कामावचराणि कुशलमूलानि समुच्छिद्यंते । रूपारूप्यावचरैरसमन्वागतत्वादिति वर्ण्यंते । तत्प्राप्तिदूरीकरंमिति । रूपारूप्यावचराणां प्राप्तेर्दूरीकरणमभिप्रेत्य तस्य पुद्गलस्य । एतदुक्तं त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति । कथं च पुनस्तत्प्राप्तिदूरीकरणं । संततेस्तदभाजनत्वापादनात् । यस्मादसौ तत्संततिः पूर्वं भाजनभूता तत्प्राप्तीनां । कुशलमूलसमुच्छेदादिदानीं तत्प्राप्तीनामभाजनमापादितेति । अतस्तत्प्राप्तिर्दूरीकृता भवति । प्रायोगिकेभ्यः पूर्वं परिहीणत्वादिति । श्रुतचिंताभावनामयेभ्यः प्रायोगिकेभ्यः पूर्वमेवासौ मृदुमृद्व्यवस्थायां तेभ्यः परिहीणः । तदैव तस्य प्राप्तिच्छेद इत्यर्थः । आनंतर्यविमुक्तिमार्गस्थानीये इति । हेत्वपवादिनी आनंतर्यमार्गस्थानीया । फलापवादिनी विमुक्तिमार्गस्थानीया । तदुक्तं भवति । उभे अप्येते हेतुफलापवादिन्यौ मिथ्यादृष्टी कुशलसमुच्छेदे व्याप्रियेते । नैकैवेति । अपरः पक्षः सास्रवालंबनयैवेति । दुःखसमुदयालंबनया । नानास्रवालंबनयाऽनिरोधमार्गालंबनयेत्य्[तिब् । ७३ ] अर्थः । सभागधात्वालंबनयैव (अभिधर्मकोषव्याख्या ४१२) चेति । कामधात्वालंबनयैवेत्यर्थः । न विसभागधात्वालंबनया न रूपारूप्यधात्वालंबनया । कुशलमूलानि समुच्छिद्यंत इत्यधिकृतं कस्मादित्याह । संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादिति । अनास्रवालंबना विसभागधात्वालंबना च या मिथ्यादृष्टिः । सा संप्रयोगमात्रेण संप्रयुक्तेषु धर्मेष्वनुशेते नालंबनतः । तस्मादसौ दुर्बला भवति । अतो न तया समुच्छिद्यंते । एवं तु वर्णयंति वैभाषिकाः । सर्वयेति । या च हेतुमपवदते या च फलं । या च सभागं धातुमालंबते या च विसभागं । या च सास्रवं या चानास्रवमालंबते । सर्वयैव तया समुच्छिद्यंते । दर्शनप्रहातव्या इवेति । यथा दुःखादिदर्शनहेयाः क्लेशा नव प्रकारा अपि दुःखादिसत्यदर्शनात्सकृत्प्रहीयंते । तद्वन्नव प्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यंत इत्येते । भावनाहेयक्लेशवदिति । यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः प्रहीयते । मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते । यावद्[तिब् । ७४ ] अधिमात्राधिमात्रेण मृदुमृदुः । एवं नवप्रकारयापि मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यंते । ऋदुमृद्व्या मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः समुच्छिद्यते । यावदधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति । एवमयं ग्रंथः परिपालितो भवति । यदि भावनाहेयक्लेशवद्यथोक्तं तानि समुच्छिद्यंते । अणुसहगतानि मृदुमृदूनि । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति । अधिमात्राधिमात्रैरकुशलमूलैः कुशलमूलसमुच्छेद उक्तः । न मृदुमृद्वादिभिरित्यभिप्रायः । यदि क्रमशः समुच्छिद्यंतेऽस्य तर्हीत्यादि । कथं । समाप्तिमेतत्संधायोक्तमिति । कुशलमूलसमुच्छेदसमाप्तिं संधाय कतमान्यधिमात्राणीति विस्तरेण एतदुक्तं । मृदुमृद्वादिसमुच्छेदस्त्वनुक्तोऽपि ग्रहीतव्यः । तस्मात्समाप्तिमेव संधायैतदुक्तं । तैर्निरवशेषच्छेदात् । यस्मात्तैर्नवभिर्मिथ्यादृष्टिप्रकारैः कुशलमूलानां निरवशेषच्छेदो भवति । एकोऽपि हि प्रकारस्तेषामसमुच्छिन्न इति । मृदुमृदुनवमः प्रकारः सर्वेषां नवानामपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्यादिति । अतः समाप्तिमेतत्संधायोक्तं । उभयेनेति । व्युत्थानेन चाव्युत्थानेन च । तत्त्यागात्[तिब् । ७४ ] तस्य त्याग इति । यो मृदुमृदुना चित्तेन संवरः समात्त आसीत् । तस्य मृदुमृदोश्चित्तस्य मृदुमृदुकुशलमूलसंप्रयुक्तस्य (अभिधर्मकोषव्याख्या ४१३) त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति । एवं यावद्योऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः । तत्त्यागात्तस्य त्याग इति । कर्मफले प्रत्यक्षत्वादिति । अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि समुदाचरंति । कुतोऽहं च्युतः । कुत्रोपपन्नः । केन कर्मणेत्येवं कर्मफलप्रत्यक्षत्वान्न देवेषु कुशलमूलानि समुच्छिद्यंते । जंबूद्वीप एवेति । तत्र विशेषेण तार्किकत्वादित्यभिप्रायः । सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः पंचभिर्वेदनेन्द्रियैः कायजीवितमनैन्द्रियैश्च । समुच्छिन्नकुशलमूल एव । तस्य हि श्रद्धादीनि समुच्छिन्नानि । पृथग्जनत्वाच्च नाज्ञास्यामीन्द्रियादीनि संति । चक्षुरादीन्यपि न संति । वैकल्ययोगे । क्रममरणावस्थायां वा । एवं पौर्वविदेहको गौदानीयक इति । अतिदेशादस्त्यनयोरपि कुशलमूलसमुच्छेद इति दर्शयति । छिनत्ति स्त्री पुमान् इति । स्त्री पुमांश्चेति चशब्दो लुप्तनिर्दिष्टः । यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागतः । चतुर्भिर्वेदनेन्द्रियैस्त्रिभिश्च कायजीवितमनैन्द्रियैः [तिब् । ७५ ] स्त्रीन्द्रियेणाष्टमेन । श्रद्धादीनि समुच्छिन्नकुशलमूलावस्थायां व्यभिचार्यंत इत्यभिप्रायः । अयमेव चात्रार्थो विरुध्यते । चक्षुरादीन्यपि व्यभिचार्यंते पूर्ववत् । तेषामपीति । तेषामपि समुच्छेत्तॄणामुक्तानां । तृष्णाचरितो न समुच्छिनत्ति । दृढगूढपापाशयत्वादिति । दृढो गूढः पापश्चाशयोऽभिप्रायोऽस्येति समासः । दृढः स्थिरः । गूढः प्रच्छन्नः । पापोऽकल्याणः । तृष्णाचरितपक्षत्वादिति । तृष्णाचरितजातीयत्वादित्यर्थः । यथा तृष्णाचरितश्चलाशयः । तद्वत्ते षण्ढादय इति । आपायिकवच्च । यथापायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वान्न कुशलमूलानि समुच्छिन्दंति । एवं षण्धादयः । प्रतिसंधितानीति । प्रतिसंधिकृतानि प्रतिसंधितानि । प्रातिपदिकधातुः । प्रतिसंहितानीत्यपरे पठंति । आरोग्यबललाभवदिति । यथारोग्यं पूर्वं भवति । क्रमेण तु बललाभो भवति । तद्वत् । नेहानंतर्यकारिण इति । आनंतर्यकारिण एव नेह प्रतिसंधिर्भवतीति । अर्थत एतदुक्तं भवत्यनानंतर्यकारिण इह प्रतिसंधिर्भवतीति । अंतराभवस्थ इति । नरकगमनायांतराभवस्थः । च्युत्यभिमुख इति । [तिब् । ७५ ] नरकाच्च्युत्यभिमुखः । हेतुबलेनेति । सभागहेतुबलेन । यस्माद्येषां मिथ्यादृष्टिः स्वयं रोचते । प्रत्ययबलेनेति । परतो घोषबलेन । यस्माद्येषां मिथ्यादृष्टी रोचते । हेतुबलस्य सारत्वात् । एवं यः स्वबलेनेति । यः स्वतर्कबलेन । स च्यवमानः । यः परबलेन । परतः श्रुतबलेन । स उपपद्यमानः । (अभिधर्मकोषव्याख्या ४१४) य आशयविपन्न इति । मिथ्यादृष्टिसंमुखीभावेन विपन्नो विनष्टः । स दृष्टे धर्मे जन्मनि प्रतिसंदधाति । य आशयप्रयोगविपन्नः । यो मिथ्यादृष्टिसंमुखीभावेनानंतर्यकृइयया च विपन्नः । स भेदात्कायस्य प्रतिसंदधाति । अत्र च यः स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः । एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति । अनंतरपूर्वोक्तस्यैवायं पर्याय इत्यवगंतव्यं । पूरणादय इति । आदिशब्देन षट्शास्तारो गृह्यंते । तद्यथा पूरणकाश्यपः । मस्करी गोशालीपुत्रः । संजयी वैरटीपुत्रः । अजितः केशकंबलः । ककुदः कात्यायनः । निर्ग्रन्थो ज्ञातिपुत्र इति । ते समुच्छिन्नकुशलमूलाः । नास्तिकत्वात् । न मिथ्यात्वनियताः । अनानंतर्यकारित्वात् । [तिब् । ७६ ] आनंतर्यकारिणो हि मिथ्यात्वनियताः अजातशत्रुर्मिथ्यात्वनियतः । आनंतर्यकारित्वात् । न समुच्छिन्नकुशलमूलः । सम्यग्दृष्टिकत्वात् । देवदत्तः समुच्छिन्नकुशलमूलश्च मिथ्यात्वनियतश्च । संघभेदकत्वात्तथागतदुष्टचित्तरुधिरोत्पादकत्वाच्च । चतुर्थ्येतानाकारान् स्थापयित्वेत्यस्मदादयः । (इव् ।८२) विनान्येनाभिध्यादीसंमुखीभाव इति । विनान्येन कर्मपथेन प्राणातिपातादिनाभिध्यादीनामन्यतमसंमुखीभावे । सा चेतना एकेन कर्मपथेन सह वर्तते । अभिध्यया वा व्यापादेन वा मिथ्यादृष्ट्या वा । अक्लिष्टचेतसो वेति । कुशलाव्याकृतचित्तस्य । तस्य प्रयोक्तुः प्रयोगेण । रूपिणां प्राणातिपातादीनां काममिथ्याचारवर्ज्यानमन्यतमस्य निष्ठापने । तेनैकेन सह चेतना वर्तते । अभिध्यादिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यं । तस्यापि ह्ययमयं विधिः संभवति । व्यापन्नचित्तस्य प्राणिवध इति विस्तरः । व्यापादेन प्राणातिपातेन चेति द्वाभ्यां सह वर्तते । काममिथ्याचारे । संभिन्नप्रलापे च । द्वाभ्यां सह वर्तते । अभिध्यया काममिथ्याचारेण चेति द्वाभ्यां । संभिन्नप्रलापेनाभिध्यादीनां चान्यतमेन चेति । [तिब् । ७६ ] द्वाभ्यामेव । इदं चोद्यते । व्यापन्नचित्तस्य प्राणिवध इत्यभिध्याविष्टस्य चादत्तादान इति । किमिदं स्वयं कुर्वत उच्यते । उताहो परेण काऋअयतः । यदि स्वयं कुर्वतः । व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते । प्राणिवधे व्यापादस्यावश्यकत्वात् । अदत्तादाने चाभिध्यायाः । व्यभिचारे हि विशेषणमिष्यते । अथ परेण कारयतः । अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य । प्राणिवधे । अदत्तादानकाममिथ्याचारसंभिन्नप्रलापेषु वेति वक्तव्यं । उच्यते स्वयं कुर्वत इति । ननु चोक्तं विशेषणं न युज्यत इति । नैष दोषः । न हीदं विशेषणमुच्यते । किं तर्हि । स्वरूपाख्यानमेतत् । व्यापादाभिध्ययोर्द्वितीयभूतयोस्तत्रास्तित्वं कथ्यत इति । एवमप्यभिध्याद्यन्यतरचित्तस्य तान् प्राणातिपातादीन् कारयतो (अभिधर्मकोषव्याख्या ४१५) द्वाभ्यां सह चेतना वर्तत इति संभवेत् । तस्मात्तदपि वक्तव्यं । सत्यं वक्तव्यमेतत् । उदाहरणमात्रं त्वेतदुक्तमित्यदोषः । व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपदिति । यत्र मारणेनैवापहरणं सिध्यति । तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपत्भवंतीति । न तर्हीति विस्तरः । यदि [तिब् । ७७ ] परकीयद्रव्यापहरणकाले व्यापादो ब्व्हवति । न तर्हीदानीमदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति । लोभद्वेषयोर्युगपदभावात् । अनन्यचित्तस्येति विस्तरः । अपहरणचित्तस्यैव तत्परिसमाप्तावदत्तादानपरिसमाप्तौ स नियमो ज्ञेयः । लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम् इति । अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः । भेदाभिप्रायस्यानृतवचन इति । भेदाभिप्रायत्वात्तदेवानृतं पैशुन्यं भवति । तदेव संभिन्नप्रलापः । सर्वं क्लिष्टं भिन्नप्रलापितेति सिद्धांतात् । एवं भेदाभिप्रायत्वात्तदेव परुषवचनं पैशुन्यं । तथैव च संभिन्नप्रलाप इति । चतुर्भिः सह वर्तते । कथमित्याह । तत्र्हि मानस एको भवति । वाचिकास्त्रय इति । अनृतवचनेऽभिध्या व्यापादो वा भवेत् । वाचिकास्त्रयः । मृषावादपैशुन्यसंभिन्नप्रलापाः । परुषवचनेऽपि मानस एको व्यापादः । वाचिकास्त्रयः । पारुष्यपैशुन्यसंभिन्नप्रलापाः । नामत एवं त्रयो भवति । न तु स्वभावतः । तदेव ह्यनृतवचनं पैशुन्यं संभिन्नप्रलाप इति चोच्यते । न तु त्रयः स्वभावा भवंति । एवं परुषवचनमपि त्रिनामकं भवतीति योज्यं । अपरे पुनर्व्याचक्षते । स्वभावभेदोऽप्यस्तीति । मृषावादपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो हि भिद्यंते । तथा पारुष्यपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो भिद्यंत इति । [तिब् । ७७ ] अभिध्यादिगतस्येति विस्तरः । अभिध्यादिगतस्य वा चतुर्भिः सह वर्तते । तत्र मानस एकोऽभिध्यादीनामन्यतमः । तत्प्रयोगेणाभिध्यादिगतप्रयोगेणान्यकर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले । एवं पंचषट्सप्तभिर्योजयितव्या । का । चेतना । कथं । पंचभिस्तावत्वर्तते । अभिध्यादिगतस्य तत्प्रयोगेणान्यचतुष्टयनिष्ठागमने । एवमभिध्यादिगतस्यान्यपंचषट्निष्ठागमने षड्भिः सप्तभिश्च सह वर्तते । अष्टाभिः सह वर्तते । षट्सु प्राणातिपातादिषु प्रयोगं कृत्वाभिध्यागतस्य स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने । नवभिः सह वर्तत इति नास्त्येतत् । मानसानां कर्मपथानां (अभिधर्मकोषव्याख्या ४१६) युगपदसंभवात् । नैकाष्टपंचभिर् इति । नैकेनैव मानसेन । कुशले चेतस्य अनभिध्याव्यापादयोरवश्यं भावात् । नापि रूपीनैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना वर्तते । क्लिष्टाव्याकृतचित्तावस्थायामपि उपासकसंवरादिषु प्राणातिपातादत्तादानकाममिथ्याचारमृषावादानामवश्यं सहभावात् । न पंचभिरेव । कुशले चेतस्यन्भिध्याव्यापादयोर्द्वयोरवश्यं सहभावात् । संवरसंगृहीतानां च प्राणातिपातादीनाम् [तिब् । ७८ ] एषां चतुर्णामवश्यं सहभावात् । नाष्टाभिरेव । भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानामेव संभवात् । कुशलचित्तावस्थायां च नवानां दशानां वा संभवात् । पारिशेष्यात्द्व्यादिभिः सह वर्तत इत्युक्तं भवति । तत्र द्वाभ्यामिति विस्तरः । तत्र द्वाभ्यां सह वर्तते । कुशलेषु पंचसु विज्ञानेष्वनभिध्या चाव्यापादश्च स्तः न सम्यग्दृष्टिः । पंचविज्ञानसहजा धीर्न दृष्टिरतीऋअणाद् इति सिद्धांतात् । अतोऽनभिध्याव्याप्दाभ्यां द्वाभ्यामेवात्र सह वर्तते । आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोरिति । आरूप्यसमापत्तिसंगृहीतयोश्च क्षयानुत्पादज्ञानयोराभ्यामेव द्वाभ्यां सह वर्तते । क्षयानुत्पादधीर्न दृग् इति तत्र सम्यग्दृष्ट्यभावात् । आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थं । क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थं । क्षयानुत्पादज्ञानयोरसम्यग्दृष्टिस्वभावत्वात् । त्रिभिः सह वर्तते । सम्यग्दृष्टिसंप्रयुक्ते [तिब् । ७८ ] मनोविज्ञाने । रूपिकर्मपथाभाव इति वाक्यशेषः । तत्र ह्यनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवंतीति । चतुर्भिरिति विस्तरः । अकुशलाव्याकृतचित्तस्येति विशेषणान्मानसा न संतीति दशितं भवति । उपासकश्रामणेरसंवरसमादाने च । प्राणातिपातादत्तादानकाममिथ्याचारमृषावादविरतिलक्षणाश्चत्वार एव कर्मपथाः संति । मद्यपानादिविरतीनां दशकर्मपथानंतर्भावात् । पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरसंग्रहात् । श्रामणेरसंवरसमादानवचनाच्चोपवाससंवरसमादानमुक्तरूपमवगंतव्यं । श्रामणेरसंवरसमादाने त्वब्रह्मचर्याद्विरतिस्तृतीयः कर्मपथः । तत्र च काममिथ्याचारोऽंतर्भूत एव । षड्भिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने । उपासकश्रामणेरसंवरसमादाने तैश्चतुर्भिर्यथोक्तैर्(अभिधर्मकोषव्याख्या ४१७) अनभिध्याव्यापादाभ्यां चेति षड्भिः । पंचसु विज्ञानेषु सम्यग्दृष्ट्यभावात् । सप्तभिः कुशले मनोविज्ञाने तद्समादान एव । उपासकश्रामणेरसंवरसमादान एव तैरेव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन । मनोविज्ञाने हि कुशले सम्यग्दृष्टिर्[तिब् । ७९ ] अस्तीति । अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने सप्तभिरेव रूपिभिः । न मानसैः । अकुशलाव्याकृतचित्तत्वात् । नवभिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने । भिक्षुसंवरसमादाने । सम्यग्दृष्टेरेवाभावात् । क्षयानुत्पादज्नानसंप्रयुक्ते च मनोविज्ञाने तैरेव नवभिः सह वर्तते । तत्रापि सम्यग्दृष्ट्यभावात् । तस्मिन्नेव चेति । क्षयानुत्पादज्ञानसंप्रयुक्त एव ध्यानसंगृहीते मनोविज्ञाने । नवभिरेव । ध्यानसंवरसंगृहीतै रूपिभिः सप्तभिरनभिध्याव्यापादाभ्यां च । दशभिस्ततोऽन्यत्रेति । क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । सर्वा चेति विस्तरः । सर्वा च ध्यानानास्रवसंवरसहवर्तिनी क्षयानुत्पादज्ञानसंप्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर्ध्यानानास्रवसंवरसंगृहीतैः । त्रिभिश्च मानसैरिति । दशभिः सह वर्तते । संवरसंगृहीतैः कर्मपथैः सहैव चेतना [तिब् । ७९ ] वर्तत इति दर्शितं । संवरनिर्मुक्तेन त्वष्टविधसंवरनिर्मुक्तेन त्वेकेनापि सह स्यात् । कथमित्याह । अन्यचित्तस्येति । तत्संवरनिर्मुक्तनिर्मुक्तकुशलकर्मपथसमुत्थापकाच्चित्तादन्यचित्तस्य । क्लिष्टाव्याकृतचित्तस्येत्यर्थः । एकांगविरतिसमादाने । प्राणातिपातांगविरतेः । अदत्तादानविरतेर्वा समादाने । तेनैकेन कर्मपथेन सह वर्तते । पंचाष्टभिरपीति । कुशलमनोविज्ञानस्य पुद्गलस्य द्व्यंगसमादाने युगपन्मानसैस्त्रिभिः । रूपिभ्यां द्वाभ्यामिति पंचभिः । पंचांगसमादाने युगपत्तैश्च रूपिभिः पंचभिः । मानसैश्च त्रिभिरित्यष्टाभिः । उदाहरणरूपं चैतदुक्तम् । अतोऽन्यथापि शक्यते वक्तुम् । क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपंचांगसमादाने पंचभिः सह वर्तत इति । (इव् ।८३, ८५) रंजनीयवस्त्वभावादिति । नरके रंजनीयवस्त्वभावात्न संमुखीभावतोऽभिध्यास्ति । कर्मफलप्रत्यक्षत्वाच्च न मिथ्यादृष्टिः । अत एवेति । प्रयोजनाभावान्न पैशुन्यं । नित्यभिन्नत्वाच्चान्योन्यसौहार्द्याद्यभावतः । अममपरिग्रहत्वान्न कुरौ [तिब् । ८० ] संमुखीभावतोऽस्त्यभिध्याकर्मपथः । स्निग्धसंतानत्वादाघातवस्त्वभावाच्च न व्यापादः । अपापाशयत्वाच्च न मिथ्यादृष्टिः । त्रयोऽप्येतेऽभिध्यादयो न संति । स्वयमपीति । (अभिधर्मकोषव्याख्या ४१८) अस्य संमुखीभावत इति व्याख्यानं । अपापाशयत्वान्न प्राणातिपातादयः षडपि संमुखीभावतः संति । नियतायुष्कत्वान्न प्राणातिपातः द्रव्यस्तृइपरिग्रहाभावाद्यथाक्रमं नादत्तादानं काममिथ्याचारश्च । प्रयोजनभावाच्च न मृषावादपैशुन्यपारुष्याणि । यदि परिग्रहो नास्ति कथमेषामब्रह्मचर्यमिति पृच्छति । संवरनिर्मुक्ता इति । नैवसंवरनासंवरसंगृहीता इत्यर्थः । अन्यगतिस्थं तु मारयतीति । प्रेतादिगतिस्थं । देवा अपि शिरोमध्यच्छेदान्म्रियंत इति । शिरश्छेदान्मध्यच्छेदाच्च देवा अपि म्रियंते । देवो देवं न मारयतीत्युक्ते अवध्या देवा इत्यभिप्रेतं । देवानां ह्यंगप्रत्यंगानि छिन्नानि छिन्नानि पुनर्जायंते । यद्यप्येवं तथापि शिरोमध्यच्छेदाच्छिरश्छेदान्मध्यच्छेदाच्च न पुनः प्रतिसंधानमित्यस्ति देवानां वध इत्यभिप्रायः । यद्भूम्याश्रयमिति विस्तरः । पंच भूमयः । यावाच्चतुर्थध्यानभूमिं । यद्भूमिराश्रयोऽस्येति यद्भूम्याश्रयम् । अनास्रवं शीलमार्येणोत्पादितं [तिब् । ८० ] निरोधितम् । उत्पादितं वर्तमानमध्वानं गमितं । निरोधितमतीतमध्वानं गमितम् । एकभूम्याश्रयं यावच्चतुर्भूम्याश्रयं वा । तेनारूप्येष्वतीतेन समन्वागतो भवति । पंचभूम्याश्रयेण त्वनागतेन । कामावचराश्रयेण यावच्चतुर्थध्यानाश्रयेण च । यत्रोपपन्नो यत्र वा नोपपन्नः । तदाश्रयेण । अन्यत्र नरकोत्तरकुरुभ्य इति । तत्र समादानशीलाभावात् । अन्यत्रोभयथेति । अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषूभयथा । संवरनिर्मुक्ताः संवरसंगृहीतश्च । त्रिविधः संवरः प्रातिमोक्षसंवरो ध्यानसंवरोऽनास्रवसंवरश्च यथासंभवं ग्रहीतव्यः । (इव् ।८६) आसेवितभावितबहुलीकृतैरिति । प्रयोगमौलपृष्ठावस्थासु । किं तर्हि । तेनाल्पायुर्भवतीति । आयुषोऽल्पत्वान्निष्यन्दफलमिति दर्शयति । बाह्या भावाः । ओषधिभूम्यादयः । अल्पौजसोऽल्पवीर्यः । अशनिरजोबहुला इति । अशनिः शिलावर्षं । रजो धूलिवृष्टिः क्षारवृष्टिर्वा । यतः सस्यादिविनाशः । रजोऽवकीर्णा इति धूलिरुत्थिता । उत्कूलनिकालाः उन्नतनिम्नाः । ऊषरजंगलाः । ऊषराश्च जंगलाश्च ते । बाह्या भावा इत्यधिकृताः । ता भूमय इहाभिप्रेताः । प्रतिक्रुष्टा विगर्हिताः । विषमर्तुपरिणामा इति विषम ऋतुपरिणाम एषामिति विषमर्तुपरिणामाः [तिब्८१ ] सस्यादय ओषधयः । यस्मिनृतौ वर्षितव्यं । तत्र न वर्षति । यस्मिं शीतेन भवितव्यं । तस्मिन्न शीतं । यस्मिन्नुष्णेन भवितव्यं । तत्र तन्न भवतीति योज्यं । तद्विपाकफलमिति सत्त्वसंताने । इदं निष्यन्दफलमिति बाह्यं (अभिधर्मकोषव्याख्या ४१९) तद्वस्त्विति । न तद्विपाकफलं । तत्र प्रयोगेणेति विस्तरः । नरके प्राणातिपातप्रयोगेण तीव्रं दुःखमनुभवति । प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनोऽतीवतीव्रं दुःखं भवति । इह मौलेनाल्पायुर्भवति । यथा तस्य वध्यस्य प्राणिन आयुरुपद्रूयत इति । तादृशमेवैतत् । क्षणिको हि मौलः कर्मपथः । तत्र च न दुःखा वेदनास्तीति युक्तमिह मौलेनेति वक्तुं । आह । यदि तत्र प्रयोगेणेह मौलेन । कस्मादेवमुक्तं । प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते । प्राणातिपातेन मौलेनेति सूत्रार्थं पश्यन्नेवं पृच्छति । सपरिवारग्रहणादिति । मौल एव प्राणातिपातः । तस्य प्रयोगः परिवारः । तस्मिं प्रयोगे प्राणातिपातोपचारं कृत्वैवमुक्तं प्राणातिपातेनेति विस्तरः । नैतद्द्वयमतिवर्तते । विपाकफलमधिपतिफलं चेति । स्वसंताने विपाकफलमन्यत्राधिपतिफलमिति कृत्वा । सादृश्यविशेषत्तु तथोक्तमिति । इष्टजीवितोपच्छेदभोगव्यसनादिलक्षणात्[तिब् । ८१ ] सादृश्यविशेषात्तु तथोक्तं । सचेदित्थंत्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर्भवत्यदत्तादानेन भोगव्यसनी भवतीति विस्तरेण । भवति ह्यत्र हेतुविपाकफलयोः सादृशमिति । एवं कुशलेष्वपि वक्तव्यं । निष्यन्दफलं फलद्वयं नातिवर्तते । सादृश्यविशेषात्तु तथोक्तं । सचेदित्थंत्वमागच्छति मनुष्याणां सभागतां प्राणातिपातविरत्या दीर्घायुर्भवतीति विस्तरेण । ओजो नाशितम् इति । ओजो हृदयप्रदेशे भवति । एवमन्येषामपि योज्यमिति । अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखमुत्पादितं । भोगव्यसनं कृतं । ओजो नाशितम् । अतोऽस्य दुःखनाद्भोगत्याजनादोजोनाशनाच्च त्रिविधं फलं । कथमोजो नाशितं । तद्धेतुनाशनात् । भोगव्यसनेन च तस्योपघातात् । अत एवोक्तं । अदत्तादानेनाशनिरजोबहुला इति । तेन तदोजसः सोपघातता भवतीति । एवं परदारमभिगच्छता परस्य दुःखमुत्पादितं । स सपत्नदारता कृता । ओजो नाशितं । येनौजसा तेजस्वीति लोके निरुच्यते । अत एवोक्तं । काममिथ्याचारेण रजोऽवकीर्णा इति । एवमन्येषामपि योज्यम् । एषा दिक् । अकुशलविपर्ययेण सर्वं योजयितव्यमिति । कथं । अदत्तादानविरत्यासेवितया [तिब् । ८२ ] भावितया बहुलीकृतया देवेषूपपद्यते । सचेदित्थंत्वमागच्छति मनुष्याणां सभागतां स न भोगव्यसनी भवतीति । एवं काममिथ्याचारविरत्यासेवितया भावितयेति विस्तरेणोक्त्वा । यावन्मनुष्याणां (अभिधर्मकोषव्याख्या ४२०) सभागतां नाभ्याख्यानबहुलो भवतीति । अनया दिशा सर्वं योजयितव्यं । प्राणातिपाताद्विरमता परस्य दुःखं नोत्पादितं । न मारितः । नौजो नाशितम् । इत्यतस्त्रिविधं फलं । एवमदत्तादानात्प्रतिविरमता नार्थस्वामिनो दुःखमुत्पादितं । न भोगव्यसनं कृतं । नौजो नाशितम् । अतोऽस्य त्रिविधं फलं । काममिथ्याचाराद्विरमता परस्य दुःखं नोत्पादितं । न स सपत्नदारः कृतः । नाप्योजो नाशितम् । अतोऽस्य त्रिविधं फलं । एवमन्यत्रापि योजयितव्यं । (इव् ।८७) विविधदृष्टिनेति । कौतुकमंगलतिथिमुहूर्तनक्षत्रादिदृष्टिना । परेष्वायत्तवृत्तिनेति । कायस्थितिहेतवश्चीवरपिण्डपाताशयनासनादयो भिक्षोः परप्रतिभद्धाः । पिण्डपातं निश्रित्येति वचनात् । तस्य परधीनवृत्तेर् भिक्षोर् मिथ्याजीवा भवेयुः कुहना । लपना । नैमित्तिकता । नैष्पेषिता । लाभेन लाभनिश्चिकीर्षा च । ते दुःशोधा भवंति आजीवयोगा इति । शीलस्कंधिकायामिति । शीलस्कंधिका नाम निपातः । तत्रोक्तं । यथा त्रिदण्डिन्नेके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारंभानुयोगमनुयुक्ता विहरंति । तद्यथा । हस्तियुद्धे ।ऽश्वयुद्धे । रथयुद्धे । पत्तियुद्धे । यष्टियुद्धे । मुष्टियुद्धे । सारसयुद्धे । वृषभयुद्धे । महिषयुद्धे । अजयुद्धे । मेषयुद्धे । कुक्कुटयुद्धे । वर्तकयुद्धे । लाबकयुद्धे । स्त्रीयुद्धे । पुरुषयुद्धे । कुमारयुद्धे । कुमारिकायुद्धे । इट्गालवशे । उत्सतिकायां । ध्वजाग्रे । बलाग्रे । [तिब् । ८२ ] सेनाव्यूहे । अनीकसंकर्शणे । महासमाजं वा प्रत्यनुभवन्त्येके । इत्यप्येवंरूपाच्छ्रमणो विविधदर्शनसमारंभानुयोगात्प्रतिविरतो भवति । यथापि तत्र त्रिदण्डिन्नेके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारंभानुयोगयुक्ता विहरंति । तद्यथा । हस्तिशब्दे । अश्वशब्दे । रथशब्दे । पत्तिशब्दे । शंखशब्दे । भेरीशब्दे । आडंबरशब्दे । नृत्तशब्दे । गीतशब्दे । शय्याशब्दे । अच्छटाशब्दे । पाणिस्वरे (अभिधर्मकोषव्याख्या ४२१) । कुंभतूणीरे कचिते । चित्राक्षरे । चित्रपदव्यंजने । लोकायतप्रतिसंयुक्ते । आख्यायिका वा श्रोतुमिच्छन्त्येके । इत्यप्येवंरूपाच्छ्रमणो विविधशब्दश्रवणसमारंभानुयोगात्प्रतिविरतो भवतीत्येवमादि । मिथ्याविषयपरिभोगादसम्यग्विषयपरिभोगात् । (इव् ।८८, ८९) यानि पूर्वं पंच फलान्युक्तानीति । अधिपतिफलं । पुरुषकारफलं । निष्यन्दफलं । विपाकफलं । विसंयोगफलं च । प्रहाणार्थं मार्ग इति । भावसाधनं । प्रहाणाय मार्गः प्रहाणमार्ग इति । प्रहीयतेऽनेनेति करणसाधनं । प्रहाणो मार्ग इति च विग्रहः । समाधिजा उत्तरे सदृशा धर्मा इति । समाधिजग्रहणमसमाधिजनिरासार्थम् । सदृशग्रहणम् [तिब् । ८३ ] अनास्रवाव्याकृतनिरासार्थं । सहभुव इति । संप्रयुक्ताश्च तत्र वेदनादयः । विप्रयुक्ताश्च जात्यादयः । यच्चानागतं भाव्यत इति । अनागतो धर्मस्तद्बलेन प्राप्यत इति । तस्य तत्पुरुषकारफलमत एव तच्च प्रहाणं पुरुषकारफलं व्यवस्थाप्यते । न केवलं विसंयोगफलमिति । पूर्वोत्पन्नवर्ज्या इति पूर्वोत्पन्नं फलं न युज्यत इति कृत्वा । तथा ह्युक्तं । अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् इति । विपाकफलं हित्वेति । अनास्रवस्याविपाकत्वात् । तस्य हि निष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः । विसंयोगफलं विसंयोग एव यत्तत्प्रहाणं । पुरुषकारफलं तदाकृष्टा धर्माः । तद्यथा विमुक्तिमार्गः । सहभुवः । यच्चानागतं भाव्यते । तच्च प्रहाणं । अधिपतिफलं स्वभावादन्ये सर्वे संस्क्र्ताः पूर्वोत्पन्नवर्ज्याः । यच्छुभाशुभम् इति । प्रहाणमार्गाद्यदन्यसास्रवं कर्म समाहितमसमाहितं च । तदपि चतुर्भिः फलैः सफलं विसंयोगफलं हित्वा । अप्रहाणमार्गत्वादस्य विसंयोगफलं नास्ति । तस्य हि विपाकफलं स्वभूमाविष्टोऽनिष्टो वा विपाकः । [तिब् । ८३ ] निष्यन्दफलमुत्तरे सदृशा धर्माः । पुरुषकारफलं तदाकृष्टा धर्माः सहभुवोऽनंतरभुवो वा । अधिपतिफलं शेषं पूर्ववत् । अनास्रवं पुनः शेषम् इति । शेषग्रहणं प्रहाणमार्गनिरासार्थं । तत्पुनः कथं । शेषं प्रयोगविमुक्तिविशेषमार्गेषु । तस्याप्रहाणमार्गत्वाद्विसंयोगफलं नास्ति । (अभिधर्मकोषव्याख्या ४२२) अनास्रवत्वाच्च न विपाकफलं । शेषं पूर्ववत् । अव्याकृतं च यन्निवृताव्याकृतमनिवृताव्याकृतं च । तदपि त्रिभिः सफलं । सप्रहाणमार्गत्वान्न तस्य विसंयोगफलम् । अव्याकृतत्वाच्च न विपाकफलं । शेषं पूर्ववदेवास्ति । (इव् ।९०) चत्वारि द्वे तथा त्रीणि कुशलस्येति । यथाक्रममेतत् । कथं । कुशलस्य कुशला धर्माश्चत्वारि फलानि । तस्यैवाकुशला द्वे फले । तस्यैवाव्याकृतास्त्रीणि फलानीति । विपाकफलं हित्वेति । विपाकस्याव्याकृत्वात् । अकुशला द्वे इति । पुरूषकाराधिपतिफले । न निष्यन्दफलं । यस्मात्कुशला धर्मा अकुशलानां न सभागहेतुरिति । न विपाकफलं । अव्याकृतत्वाद्विपाकस्य । यस्माच्चाकुशला विपाकं प्रति व्याक्रियंते । न विसंयोगफलं । अकुशलत्वात् । [तिब् । ८४ ] पारिशेष्यात्पुरुषकाराधिपतिफले एव । ते च पूर्ववद्व्याख्यातव्ये । अव्याकृताश्चत्वारीति । कथमकुशलस्याव्याकृता धर्मा निष्यन्दफलं । कथं च न भवितव्यं । विसदृशत्वात् । विसदृशा ह्यकुशालयाकृता धर्माः । सविपाकाविपाकत्वात् । नैष दोषः । अकूशलनिवृताव्याकृतानां हि धर्माणां क्लिष्टसामान्येनास्ति सादृश्यं । तस्मादकुशलानां निवृताव्याकृताः निवृताव्याकृतानां चाकुशलाः निष्यन्दफलं युज्यंते । तेनाह । अव्याकृते हीति विस्तरः । अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानां । दुःखदर्शनहेयानां च रागादीनां । सत्कायान्तग्राहदृष्टी निष्यन्दफलं । सभागसर्वत्रगयोर्निष्यन्दफलमिति । अकुशला हीति विस्तरः । अकुशला दुःखादिदर्शनहेयाः पंचनैकायिकाः । अव्याकृतयोः सत्कायांतग्राहदृष्ट्योः निष्यन्दफलं । एतान्येव त्रीणि विपाकविसंयोगफले हित्वा । (इव् ।९१) अतीतस्य कर्मणस्त्रियध्विका अतीतानागतप्रत्युत्पन्ना धर्माः । प्रत्येकं चत्वारि फलानि । विसंयोगफलं हित्वा । तस्यानध्वपतितवात् । कथं कृत्वा । अतीतस्य कर्मणः पश्चादतीतस्तद्विपाको विपाकफलं । [तिब् । ८४ ] तदाकृष्टाः । सहजातीताः पश्चादनंतरातीता वा पुरुषकारफलं । स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्नाश्चातीताः अधिपतिफलं । पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफलं । अतीतस्यानागतस्तद्विपाको विपाकफलं । यद्बलेन प्राप्यतेऽनागतो धर्मः । तत्पुरुषकारफलं । अधिपतिफलं यदनागतं । तस्य फलं । निष्यन्दफलं तत्सदृशमनागतं । एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फलानि योज्यानि । नध्यमस्याप्यनागता इति । प्रत्युत्पन्नस्याप्यनागता धर्माश्चत्वारि फलानि । एतान्येव विसंयोगफलं हित्वेत्यर्थः । तान्यप्येवमेव योज्यानि । प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले इति । तस्य हि सहोत्पन्नं तद्बलाज्(अभिधर्मकोषव्याख्या ४२३) जातमिति पुरुषकारफलमधिपतिफलं च भवत्येव । अविसंयोगस्वभावान्न विसंयोगफलं । पूर्वोत्तरताभावान्न निष्यन्दफलं । प्रवाहापेक्षत्वाद्विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलं । निष्यन्दविसंयोगफले हित्वेति । अनागतोऽनागतस्य न निष्यन्दफलं । यस्मात्सभागसर्वत्रगहेतू नानागतौ भवतः । तस्य विप्रकीर्णत्वात् । सादृश्येन चास्येदं फलमिति परिच्छेत्तुमशक्यत्वात् । न विसंयोगफलं । यस्मादनागतो विसंयोगो न भवति । विपाकफलं तु भवेदनागतस्य ह्यकुशलस्य कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानं च विपाकफलं । पुरुषकारफलं [तिब् । ८५ ] । सहजमनागतमनंतरभावि चानागतं । अधिपतिफलं तु सुगममिति न पुनरुच्यते । (इव् ।९२ ब्) स्वभूमिका धर्मा न विसंयोगफलं । विसंयोगस्याभूमिस्वभावत्वात् । अनास्रवाश्चेत्त्रीणि फलानीति । निष्यन्दफलस्य तृतीयस्य संभवात् । अन्योन्यं नवभूमिस्तु मार्ग इति हि सिद्धांतः । (इव् ।९२ द्, ९३ ब्) शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणीति । यस्माद्विपाकफलं न शैक्षं । विसंयोगश्चापि न शैक्षः । नैवशैक्षनाशैक्षा अपि त्रीणि । न विपाकफलमस्यास्ति । शैक्षस्याविपाकत्वात् । न निष्यन्दफलं । नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वात् । विसंयोगफलं तु भवति । विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात् । पुरुषकारफलमपि भवति । शैक्षेण नैवशैक्षनाशैक्षाकृष्टिसंभवात् । अधिपतिफलं चास्त्येव । इति त्रीणि संभवंति । अशैक्षस्य त्विति विस्तरः । अशैक्षस्य शैक्षा धर्मा एकमधिपतिफलं । न निष्यन्दफलं । न्यूनत्वात् । समविशिष्टयोर् इति वचनात् । न पुरुषकारफलं । सहानंतरोत्पादाभावात् । न ह्यशैक्षानंतरं शैक्षमुत्पद्यते । च नैवशैक्षनाशैक्षस्वभावमिति । [तिब् । ८५ ] न चाशैक्षस्य विपाको भवतीत्यतो न विपाकफलं । अशैक्षास्त्रीणीति । पुरुषकाराधिपतिनिष्यन्दफलानि । न विपाकविसंयोगफले । तयोर्नैव शैक्षनाशैक्षस्वभावत्वात् । यच्चाशैक्षस्वभावं । तदिह चिंत्यते । नैवशैक्षनाशैक्षा द्वे पुरुषकाराधिपतिफले इति । पुरुषकारफलं । तद्यथा । तदाकृष्टा अणंतरभाविनो धर्माः । अधिपतिफलं । पूर्ववत् । यथोक्तकारणत्वान्न फलत्रयं । अशैक्षा अप्येवमित्य् । द्वे पुरुषकाराधिपतिफले (अभिधर्मकोषव्याख्या ४२४) इत्यर्थः । (इव् ।९३ द्, ९४) तदादय इति । दर्शनहेयादयः । त इति । दर्शनहेयादयः । भावनाहेया द्वे इति । अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरुषकारफलं । आद्यंतवदिति विस्तरः । आद्यंतयोरिवाद्यंतवत् । मध्येऽपि ज्ञापनार्थं पुनर्यथाक्रमग्रहणं । कथम् । आदौ यथाक्रमार्थोऽनुक्रमशब्दः प्रयुक्तः । अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् इति वचनात् । अंतेऽपि प्रयुक्तः । अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् इति । यथैवमाद्यंतयोर्यथाक्रमार्थ उक्तः । [तिब् । ८६ ] तथा मध्येऽपि अवगंतव्यः । एष हि पेयालधर्म इति । एषोऽभिसंक्षेपन्यायः । अन्यथा ह्य् अव्याकृतस्य द्वे तृईणि चैते शुभादय इत्येवमादिषु यथाक्रममिति सर्वत्र वक्तव्यं । (इव् ।९५) अयोनिशोमनस्कारसंभूतत्वादिति । अयोन्या अन्यायेन क्लेशयोगेन । यः प्रवृत्तो मनस्कारः । तत्र संभूतः । तद्भावः । तस्मादिति । येन यथा गंतव्यं । येन पुद्गलेन यथा गंतव्यं । तथा न गच्छतीत्यस्यायोगविहितं कर्म । विधिभ्रष्टमपीति । अपिशब्देन क्लिष्टं चापीति गृह्यते । तदुभाभ्यामन्यन्नोभयथेति । न योगविहितः । नायोगविहितः । किं च तदन्यदव्याकृतं कर्म विधिभ्रष्टविधिभ्रष्टाभ्यामन्यदव्याकृतमिति । (इव् ।९६ ब्) जन्मेति निकायसभागस्याख्येति । चित्तविप्रयुक्तस्य संस्कारस्य । न तु जातेरित्यभिप्रायः । यत्तर्हीति । यद्येकमेव कर्मैकमेव जन्माक्षिपति । यत्स्थविरनिरुद्धेनोक्तं सोऽहं तस्येति विस्तरेण । तत्कथं न विरुध्यत इति वाक्यार्थः । तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय [तिब् । ८६ ] पिण्डपातो दत्तः । तेनैवमुक्तं । सोऽहं तस्येति विस्तरेण । निर्वर्त्येति । विठपित्वेत्यर्थः । तुल्येऽपि मानुष्ये कश्चित्सकलेन्द्रियो भवति कश्चिद्विकलेन्द्रियः । परिपूरकस्य कर्मणो भेदात्तदनुपपन्मम् । (अभिधर्मकोषव्याख्या ४२५) आक्षेपकर्मफलत्वाच्चक्षुरादीनां । षडायतनं ह्याक्षिप्यत इति । वर्णादयस्तु परिपूरकस्य कर्मणः फलमिति । युक्तं वक्तुं । तुल्येऽपि मानुष्ये कश्चिद्वर्णवान् कश्चिन्नेति । तदुत्पत्तिविरोधिप्रत्ययपरिहारे परिपूरककर्मसामर्थ्यान्न विरोधः । अन्यथा हि न कश्चिद्विकलेन्द्रियः स्यात्सति जन्माक्षेप इति । (इव् ।९६ द्) अन्यदपि सविपाकमिति । वेदनादिकं । कर्मसहभूत्वादिति । यस्मात्कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः । नापि कायवाक्कर्मभ्यामचित्तिकत्वात् । प्राप्तिभिश्च नाक्षिप्यते सविपाकाभिरपि । कर्मणानेकफलत्वात् । तदाक्षेपकेण कर्मणा सह भवंत्योऽपि प्राप्तयो न तेन सहैकफला इति । वृक्षप्रपाटिका इव हि प्राप्तयो बहिरवस्थायिनो भवंति । (इव् ।९७) कर्मावरणमिति । कर्मैवावरणं । क्लेश एवावरणं । विपाक एवावरणमिति । आर्यामार्गप्रायोगिकाणां च कुशलमूलानामिति । उष्मगतादीनां । अपायादिनियतानीति [तिब् । ८७ ] । नरकतिर्यक्प्रेतनियतानि । आदिशब्देनासंज्ञिसमापत्तिमहाब्रह्मसंवर्तनीयं च नियतं कर्म गृह्यते । षण्ढपण्डकोभयव्यंजनसंवर्तनीयं च वक्तव्यं । तथाण्डजसंस्वेदजस्त्रीत्वाष्टमभवनियतानि कर्माणि वक्तव्यानि । आर्या हि नरकादिषु नोपपद्यंते । अण्डजां संस्वेदजां च योनिं न प्रतिपद्यंते । स्त्रीत्वमष्टमं च भवं न निर्वर्तयिष्यंति । सप्तकृत्वो भवपरमत्वात् । सुदर्शकानीति । सुखेन दृश्यंते परेभ्या इति सुदर्शानि । सुदर्शान्येव सुदर्शकानि । एवं सुखेन प्रज्ञप्यंते आत्मनेति सुप्रज्ञेयानि । सुप्रज्ञेयान्येव सुप्रज्ञपकानि । स्वार्थे कः । पर्याये द्वयं चैतत् । सुदर्शकानि सुप्रज्ञपकानीति । अधिष्ठानत इति । कर्मपथोऽधिष्ठानं । त्रयाणामानंतर्याणां प्राणातिपातः कर्मपथोऽधिष्ठानं । एकस्य मृषावादः कर्मपथोऽधिष्ठानं । पंचमस्य प्राणातिपातप्रयोगोऽधिष्ठानं । एवमधिष्ठानतः सुदर्शकानि । सुप्रज्ञपकानि । फलतः । सर्वेषामनिष्टफलत्वात् । गतितः । नरकगतिप्रापकत्वात् । उपपत्तितः । उपपद्यवेदनीयत्वात् । पुद्गलतः । गरिष्ठक्लेशसमुदाचारात्सुप्रज्ञातः पुद्गलः । अयं पितृघातकः । यावदयं तथागतशरीरे दुष्टचित्तरुधिरोत्पादक [तिब् । ८७ ] इति । अपरे पुनर्व्याचक्षते । अधिष्ठानतः । पूर्ववत् । फलतः । नरकफलत्वात् । गतितः । मनुष्यगतिकरणात् । त्रिषु द्वीपेष्वानंतर्यम् इति । वचनात् । उपपत्तितः । तथैवोपपद्यवेदनीयत्वात् । पुद्गलतः । स्त्रीपुंसौ । न षण्ढः पण्डको वा । इत्येवं पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानि । न तु पुनस्तान्यपायादिनियतानि कर्माणि पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानीति । न तान्युक्तानि । उत्तरोत्तरावाहनादिति । (अभिधर्मकोषव्याख्या ४२६) यस्मात्क्लेशावरणं कर्मावरणमावहति । कर्मावरणं चापायेऽनिष्टं विपाकमावहतीति । क्लेशावरणं सर्वपापिष्ठं । ततः कर्मावरणं लघु । ततो विपाकावरणं । विपाकावरणस्य हि दृष्ट एव धर्मे व्यापारः । न द्वितीय इति । यस्य धर्मस्य योगात्पितृवधादेः सोऽनंतरो भवति । तस्याभिधाने भावप्रत्ययः । आनंतर्यमिति । श्रामण्यवत् । यथा येनानास्रवेण मार्गेण योगाच्छ्रमणो भवति । तदभिधाने भावप्रत्ययः । श्रामण्यममलो मार्ग इति । तद्वत् । (इव् ।९८) नोत्तरकुराविति । नियतायुष्कत्वात् । प्रकृतिशीलत्वात् । तत्र शासनभावाच्च । यदेवासंवरभावे कारणमिति । पापेऽप्यस्थिराशयत्वात् । यत्रैव च संवरः । तत्रासंवरोऽपि । प्रतिद्वंद्वभावात् । इत्यसंवरः षण्ढादीनां न भवतीति । [तिब् । ८८ ] यद्विपादनादिति । यस्य ह्रीव्यपत्राप्यस्य विपादनाद्विकोपनादानंतर्येण स्पृश्येरन् षण्ढादयः । तत्तेषां मातापित्रोरंतिके न तीव्रं भवति । इत्यतस्तेषामानंतर्यं नेष्यते । यदि विकलात्मभावहेतुत्वादल्पोपकारत्वमिति । अतस्तेषामानंतर्यं नेष्यते । जात्यन्धादीनामपि स्त्रीपुंसानां मात्रादिवधादानंतर्यं न स्यात् । न । अधिगमधर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात् । यद्वैकल्यमधिगमधर्मविरोधि । तदधिकृतं तेनैव च मात्राल्पस्नेहत्वं । न जात्यन्धादिवैकल्येन । अत एव तिर्यक्प्रेतानामपि नेष्येते । अल्पोपकारालज्जित्वाद् एव । अश्वाजानेयवदिति । पटुबुद्धीनां स्यादानंतर्यं तिर्यक्प्रेतानामपीत्यधिकृतं । अश्वाजानेयवदिति । श्रूयते यथा कश्चिदेव विशिष्टाश्व आजानेयो मातरं न गच्छतीति । वाससा मुखं प्रच्छाद्य मातरं गमितस्तेन पश्चात्ज्ञात्वा स्वमंगजातमुत्पाटितमिति । एवमाजानेयोऽश्वः पटुबुद्धिः । अस्यानंतर्यं स्यादित्यभिप्रायः । मनुष्यस्याप्यमानुषं मातापितरं मारयतो न स्यादानंतर्यं । नैव भवेदानंतर्यमित्यर्थः । कथम् । अल्पोपकारालज्जित्वाद् एव । न हि मनुष्यानुरूपमुपकारममनुष्यः कर्तुं समर्थः [तिब् । ८८ ] न च मनुष्यस्यामनुष्ययोर्मातापित्रोरंतिके तीव्रं ह्रीव्यपत्राप्यं संतिष्ठते । गतिवैलक्षण्येनाल्पस्नेहत्वात् । (इव् ।९९) चत्वारि कायकर्मेति । मातृवधादीनि । एकं वाक्कर्मेति । संघभेदः । त्रीणि प्राणातिपात इति । मातृवधादीनि । एकं मृषावादः । संघभेदः (अभिधर्मकोषव्याख्या ४२७) । एकं प्राणातिपातप्रयोगः । तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान्न प्राणातिपात इत्याह । अनुपक्रमधर्माणो हि तथागता इति । अपरोपक्रममरणधर्माण इत्यर्थः । हेतौ फलोपचारादिति । मृषावादो हेतुः संघभेदस्य चित्तविप्रयुक्तलक्षणस्य । तस्मिन् हेतौ फलोपचारः । चित्तविप्रयुक्तो धर्मः फलमुपचर्यते । संघभेद इति । भिद्यते । वानेनेति । करणसाधनपरिग्रहाद्वा मृषावादः संघभेद इत्युच्यते । मृषावादेन हि संघो भिद्यते । न तु संघभेद इति भावसाधनपरिग्रहः । (इव् ।१००) संघभेदस्त्वसामग्रीति । मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता । तेनाह । स्वभावो विप्रयुक्तकः । अक्लिष्टाव्याकृतो धर्म इति । स किमानंतर्यं भविष्यतीति । नैवासावेवंलक्षणमानंतर्यं भवतीत्यर्थः । नैव च तेन विप्रयुक्तेन धर्मेण भेत्ता समन्वागतः । तेन नासावानंतर्यमित्यभिप्रायः । (इव् ।१०१) [तिब् । ८९ ] स पुनर्मृषावादः संघभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव इत्यर्थः । (इव् ।१०२) भिक्षुर्भिनत्तीति । बुद्धस्य भिक्षुत्वात् । तत्प्रतिस्पर्धिवृत्तित्वाच्च भेत्तुः । न गृही भिक्षुण्यादय इति । तेषामनादेयाश्रयत्वात् । स च दृष्टिचरित एव । दृढगूढाशयत्वात् । सत्कायदृष्ट्यादिषु पंचसु चरितः प्रवृत्तो दृष्टिचरितः । दृष्टिर्वा चरितमस्येति दृष्टिचरितः । स ह्यूहापोहसामर्थ्यादन्यं शास्तारं मार्गांतरं च ग्राहयितुं समर्थः । न तृष्णाचरित इति । संक्लेशव्यवदानपक्षयोरस्थिराशयत्वात् । दुष्प्रसहत्वादिति । दुरभिभवत्वात् । प्रत्यक्षधर्मत्वादिति । आगमाधिगमधर्मयोः साक्षात्कारित्वादित्यर्थः । न क्षांतिलाभिन इति । न निर्वेधभागीयक्षांतिलाभिन इत्यर्थः । दृष्टसत्यकल्पत्वात् । न विवसत्यसौ । न तां रात्रिं परिवसतीत्यर्थः । भिन्नं भवतीति कथं भिन्नमित्याह । मार्गप्रवृत्तिविष्ठापनादिति । मार्गप्रवृत्तिविबन्धनादित्यर्थः । यावद्धि संघो न प्रतिसंधीयते । तावन्मार्गप्रवृत्तिर्विष्ठिता भवति । न कस्यचित्संताने मार्गः । संमुखीभवतीत्यर्थः । चक्रभेदनिमित्तत्वात् । संघभेदश्चक्रभेद इत्युच्यते । (इव् ।१०३) अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यमिति । बुद्धपक्षे [तिब् । ८९ ] भेत्तृपक्षे च स्थातव्यमित्यर्थः । संघो हि चत्वारो भिक्षवः । (अभिधर्मकोषव्याख्या ४२८) संघद्वयेन च भवितव्यमित्यष्टाभिर्भिक्षुभिर्भेद्यैर्भवितव्यं । नवमेन च भेत्त्रा । अन्यस्तु संघभेद इति । चक्रभेदादन्यः । नात्रानंतर्यमित्यभिप्रायः । यस्मादसौ कर्मभेदाद्भवति । व्यग्रा इति । नानामतयः कर्माणि पोषधादीनि संघकर्माणि । अष्टाभिरधिकैश्च स इति । संघद्वयेनात्रापि भवितव्यं । न भेत्ता शास्तृमानी भवतीत्यष्टाभिरेव भिक्षुभिर्भवितव्यं । न नवादिभिरिति । (इव् ।१०४) एकरसो भवतीति । अव्यग्र एकमतिर्भवतीत्यर्थः । पूर्वस्यामवस्थायां प्रीतिप्रामोद्यजातः । पश्चिमायामतीव मनसि उद्विग्नसंजातसंवेगः । अर्बुदात्पूर्वमिति । दोषोऽर्बुदं । दृष्ट्यर्बुदं शीलार्बुदं वा । अत्र दृष्ट्यर्बुदं । यथोक्तं । यथाहं भगवतो भाषितस्यार्थमाजानामि । य इमे भगवतांतरायिका धर्मा आख्याताः । ते प्रतिषेव्यमाणा नालमंतरायेति । तथा तदेव चित्तं संधावति संसरतीत्यादि । शीलार्बुदं दौःशील्यं । तेन च प्रतिसंधानीयत्वादिति । तेन च श्रावकयुगेन यस्मात्प्रतिसंधानीय इत्यर्थः । [तिब् । ९० ] अवश्यं च सर्वेषां बुद्धानां श्रावकयुगं भवति । एकः प्रज्ञावतामग्रः । द्वितीयः ऋद्धिमतां । इह शाक्यमुनेरार्यः शारद्वतीपुत्रः प्रज्ञावतामग्रः । आर्यो महामौद्गल्यायन ऋद्धिमतां । प्रतिद्वंद्वाभावादिति । यस्मात्परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वंद्वभूतो नास्ति । सीमायामबद्धायामिति । मण्डलसीमायाम् । एकस्यां हि सीमायां पृथक्कर्मकरणात्संघद्वैधं भवति । ननु च प्रकृतिसीमास्ति । ग्रामनगरादि । सत्यमस्ति । ज्ञप्तिसीमायां तु सत्यां सा प्रकृतिसीमा व्यवस्थाप्यत इति । तस्या अपि बन्धो व्यवस्थाप्यत एवेति वेदितव्यं । कर्माधीनत्वादिति । येन शिष्यसंघभेदसंवर्तनीयं कर्म कृतं भवति । तस्यैव तद्भेदो भवति । नान्यस्य । शाक्यमुनिना च किल बोधिसत्त्वावस्थायां पंचाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत् । येनास्य देवदत्तेन संघो भिन्न इति । (इव् ।१०५, १०६ ब्) गुणक्षेत्रत्वादिति । गुणानामाश्रयत्वादित्यर्थः । अथ वा गुणैः क्षेत्रं गुणक्षेत्रं । गुणयोगाद्धि तत्पुण्यस्य क्षेत्रं भवति । यथा क्षेत्रे बीजमुप्तं महाफलं भवति । एवं पुण्यबीजमत्रोप्तं महाफलं भवति । नान्यत्रेति । न सामान्यस्त्रीवधादिषु । उपकारिगुणक्षेत्रनिराकृतिविपादनाद् इति । उपकारिक्षेत्रस्य गुणक्षेत्रस्य वा निराकृतेः परित्यागान्मातृपितृवधादिष्व्(अभिधर्मकोषव्याख्या ४२९) [तिब् । ९० ] आनंतर्यं । तस्य विपादनाच्च विकोपादानंतर्यं । तथागतशरीरे दुष्टचित्तरुधिरोत्पादनात् । संघस्यापि यद्भेदनं । तदपि तद्विपादनं । तदेतदुक्तं भवति । उपकारिक्षेत्रत्वात् । गुणक्षेत्रत्वाच्च । तन्निराकरणविपादनान्मातृवधादिष्वेवानंतर्यं नान्यत्रेति । यदि पुनर्मातुर्व्यंजनपरिवृत्तं स्यात्पितुर्वेति । व्यंजनपरावृत्त्या तन्मातृत्वं तत्पितृत्वं वा विनष्टमिति । मातुर्मारणाभावात्पितुर्मारणाभावाद्वा न स्यादानंतर्यमिति । तदभावाशंकया पृच्छति । यच्छोणितोद्भव इति । यस्याः शोणितादुद्भवोऽस्येति यच्छोणितोद्भवः । सर्वकृत्येष्ववलोक्येति । सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्यभिप्रायः । मातृकल्पत्वात् । आप्यायिका कताहारिका । पोषिका स्तन्यदायिका । संवर्धिका औदारिकाहारादिकल्पिका । अपरे व्याचक्षते । आप्यायिका स्तन्यधातृकेति योऽर्थः । पोषिका औदारिकाहाराभ्यासतः । [तिब् । ९१ ] संवर्धिका स्नानोद्वर्तनविषमपरिहारत इति । मंचतलावलीनेति । मंचोपरि प्रावरणकल्पनेन पुरुषोऽत्र सुप्त इति मन्यमानेन पुत्रेण तत्रशस्त्रप्रहारः कृतः । तेन शस्त्रप्रहारेण मंचतलावलीना माता मारितेत्युदाहार्यं । धावकस्य च रजकस्य पुत्रेण मशकं मारायामीति मशकप्रयोगेण पितुर्मारनमिति । द्वे अविज्ञप्ती आनंतर्यविज्ञप्तिः । केवलप्राणातिपातविज्ञप्तिश्च । विज्ञप्तिस्त्वानंतर्यमेव तत्संगृहीतैव सा नान्येत्यर्थः । तस्याप्येकमेवेति । अर्हद्वधाख्यं । गच्छ शिखण्डिनं ब्रूहीति रौरुके नगरे उद्रायणो नाम राजा शिखण्डिनं नाम पुत्रमभिषिच्य प्रव्रजितः । प्रव्रज्यार्हत्त्वमधिगतवान् । स रौरुकाभ्याशमागतवान् । पुना राज्यमाकांक्षतीति । अमात्यप्रक्रामितेन तेन शिखण्डिना राज्ञा स्वपिता मारितः । तेन तु मार्यमाणावस्थायां स मारको मनुष्य उक्तो गच्छ शिखण्डिनं ब्रूहीत्येवमादि । द्वाभ्यां कारणाभ्यामिति वक्तव्यमिति । गच्छ शिखण्डिनं ब्रूहि । द्वाभ्यामानंतर्यकारणाभ्यां भवता कृतमानंतर्यमिति । तेन वक्तव्यं । द्वाभ्यां वा [तिब् । ९१ ] मुखाभ्यां परिभाषित इति । मुखद्वित्वादानंतर्यद्वित्वोपचार इत्यभिप्रायः । कारणद्वित्वाद्धि गुरुतरं तदानंतर्यं । (इव् ।१०६ द्) आश्रयस्यात्यंतं तद्विरुद्धत्वादिति । उत्पन्नार्यमार्गस्याश्रयस्य तैः कर्मपथैः विरुद्धत्वात् । एकावदानं चात्रोदाहरणं । छेकः किल शाक्यमनुष्यो विरूढकभयाद्विषमं वनप्रदेशमाश्रित्य लुब्धकवृत्तिमशिश्रियत् । भगवता च त्रायस्त्रिंशेषु त्रैमास्यां कुर्वता ततोऽवतीर्य (अभिधर्मकोषव्याख्या ४३०) छेकाय सपरिजनाय धर्मो देशितः । तेन स्रोतआपत्तिफलमधिगतं । तत्पुत्रैश्च फलप्राप्तैः पूर्वं प्रतानितानि कूटजालादीनि मृगेभ्यः । तत्प्रयोगेण च मार्यमाणेष्वपि मृगेषु फलप्राप्त्या न ते पुनरकुशलैः कर्मपथैः स्पृष्टा इति । (इव् ।१०७) पंचमतृतीयप्रथमानि गुरुतराणीति । इयमानंतर्यकर्मपाठानुपूर्वी । मातृवधः पितृवधोऽर्हद्वधः संघभेदस्तथागते दुष्टचित्तरुधिरोत्पादनमिति । पंचमं दुष्टचित्तरुधिरोत्पादनं । तत्संघ भेदवर्ज्येभ्योऽवशिष्टेभ्यश्चतुर्भो गुरुतरं । तृतीयमर्हद्वधः । तन्मातापितृवधाभ्यां गुरुतरं । प्रथमं मातृवधः । तत्पितृवधात्गुरुतरं । तेनाह । सर्वलघुः पितृवध इति । नियमस्येति । तदेवावधार्येत्यर्थः । विपाकविस्तरमधिकृत्य संघभेदो महासावद्य [तिब् । ९२ ] उक्तः । अंतरकल्पविपाकदानत् । महाजनव्यापादनमधिकृत्य मनोदण्डः । दण्डकारण्यादिशून्यकरणात् । न ह्यन्येन कायकर्मणा वाक्कर्मणा वा तावतो महाजनस्य व्यापादः संभवतीति । कुशलमूलसमुच्छेदमधिकृत्य मिथ्यादृष्टिर्महासावद्या । न ह्यन्यदकुशलमूलं कुशलमूलानि समुच्छिनत्ति । समुदाचारमात्रविरोधित्वादिति । (इव् ।१०८, १०९ ब्) न त्वनंतरमेव्ति । नरकेऽवश्यमुत्पत्त्या तानि तत्सादृश्यात्तत्सभागान्युच्यंते । न तु तत्रानंतरोत्पत्त्या । अन्यथा ह्यानंतर्याण्येव स्युरित्यपरेषामभिप्रायः । अनंतरभावित्वेऽपि न तान्यानंतर्याण्येव संभवंत्यतुल्यकालविपाकत्वादिति । प्रथमपाक्षिकाणां परिहारः । दूषणं मातुरर्हंत्या मातृवधानंतर्यसभागं । नियतिपतितबोधिसत्त्वमारणं पितृवधानंतर्यसभागं । शैक्षमारणमर्हद्वधानंतर्यसभागं । संघायद्वारहारिका संघभेदानंतर्यसभागं । स्तूपभेदनं तथागतदुष्टचित्तरुधिरोत्पादानंतर्यसभागं । संघायद्वारहारिका पुनरक्षयनीव्यपहार इत्याचार्यवसुमित्रः । [तिब् । ९२ ] एवं तु व्याचक्षते सुखायद्वारहारिकेति । यत्सुखोपयोगिकं येन संघो जीविकां कल्पयति तस्यापहार इति । (इव् ।१०९ द्) तद्विपाकभूम्यतिक्रमादिति । क्षांतिलाभ्यनपायग इत्यपायभूम्यतिक्रमात् । तथैवेति । तद्विपाकभूम्यतिक्रमात् । यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उत्तिष्ठंते तथैवेत्यर्थः । (अभिधर्मकोषव्याख्या ४३१) (इव् ।११०) महासालकुलज इति । महाप्राकारकुलज इत्यर्थः । क्षत्रियमहाशालकुलजो यावत्गृहपतिमहाशालकुलज इति । महागृहपतिकुलज इत्यर्थः । कदर्थना महापरिभवपूर्विका विहेठना । ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये भवतस्तदपेक्षया तन्निग्रहो यंत्रणेत्युच्यते । (इव् ।१११) एकनवतं कल्पमुपादायेति । एकनवतेः पूरणः कल्प एकनवतः । तमुपादाय । अशिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेन भगवानुक्तः । किमनर्थायासि भो गौतम कुलानां प्रतिपन्नो यस्त्वमीदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्धमशनिवदुत्सादयं भिक्षामटसीति । स भगवताभिहितः । इतोऽहं ग्रामणि एकनवतं कल्पमुपादायेति [तिब् । ९३ ] विस्तरः । एतां चतुरो दोषान् व्यावर्तयतीति । दुर्गतिदोषमकुलीनतादोषं विकलेन्द्रियतादोषं स्त्रीभावदोषं चेति । द्वौ च गुणौ प्रतिलभते । जातिस्मरतागुणमनिवर्तकतागुणं चेति । संनिकृष्टं बोधिसत्त्वं स्थापयित्वेति । यो लक्षणविपाककर्मकारी । स्त्रिसाहस्रको निर्वर्तत इति । येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्र महासाहस्रप्रादुर्भावः । तस्य तत्परिमाणमिति । उक्तं पुण्यस्य परिमाणं । तेषामेवंकृतपरिमाणानां शतेनैकं महापुरुषलक्षणं निर्वर्तते । एवं यावद्द्वात्रिंशत्तममपीति । केचित्ते व्याचक्षते । बुद्धालंभनमनस्कारसंमुखीभावात्पंचाशच्चेतना भवंति । अहमपीत्थं स्यामित्यपराः पंचाशदित्येवं पुण्यशतं भवतीति । अपरे वर्णयंति । कामधातुर्विंशतिस्थानानि । रूपधातुः षोडश । आरूप्याश्चत्वारः । अष्टौ च शीतनरका इत्यष्टचत्वारिंशद्विकल्पं त्रैधातुकं भवति । तदालंबनमस्य बोधिसत्त्वस्य करुणाचित्तमुत्पद्यते । ततस्तत्संप्रयुक्ताश्चेतना अष्टचत्वारिंशद्भवंति । अतोऽनंतरं बुद्धालंबना चेतनोत्पद्यते । यथानेनास्मात्त्रैधातुकात्सत्त्वा मोचिता इत्येका चेतना । अतोऽनंतरं द्वितीया चेतनोत्पद्यते । अहमप्येवं मोचयेयमित्यात्मालंबनेति । पंचाशच्चेतना भवंति [तिब् । ९३ ] तासां पुनर्द्विःसंमुखीभावाच्चेतनाशतं भवतीति । अन्ये आहुः । प्राणातिपातविरतिर्बुद्धस्य भगवतः पंचभिः कारणैरुपेता भवति । पंच कारणानि । मौलकर्मपथपरिशुद्धिः । सामंतकपरिशुद्धिः । वितर्कानुपघातः । स्मृत्यनुपरिगृहीतत्वं । निर्वाणपरिणामितत्वं (अभिधर्मकोषव्याख्या ४३२) चेति । तदालंबना अपि चेतनाः पंच भवंति । एवं दशकर्मपथालंबना दश पंचकाश्चेतनानां पंचाशच्चेतना भवंति । तासां द्विःसंमुखीभावाच्चेतनाशतं भवतीत्येतत्पुण्यशतं । यथा अयमसाधारणदशकुशलकर्मपथनिर्जातो भगवानेवमहमपि स्यामिति कृत्वा । तदेवं सत्येकैकं पुण्यशतजमित्येतत्सिध्यति । (इव् ।११२) पर्युपासयामासेति । लिट्यांप्रत्ययांतस्यासेरेतद्रूपं । पर्युपासितवानित्यर्थः । यत्र भगवतेति विस्तरः । प्रभासनाम्ना कुंभकारकुमारभूतेनासुखोदकाभ्यंगपरिचर्याभिरुपस्थानं कृत्वाद्यं प्रणिधानं कृतं । (इव् ।११४, ११५) तदास्य क्षांतिशीलपारमिते परिपूर्णे इति । चेतसा तावदकोपतः क्षांतिपारमितापरिपूरिः । कायवाग्भ्यां दुशरिताकरणाच्छीलपारमितापरिपूरिरिति । न दिवि भुवि वेति विस्तरः । दिवि भुवि वेति उद्देशपदन्यायेनोक्तं । नास्मिन् लोके न वैश्रवणालये न मरुभवने । दिव्ये स्थान इति । तद्व्यक्त्यर्थं निर्देशपदानि । अस्मिन् लोक इति । मनुष्यलोके । [तिब् । ९४ ] वैश्रवणालय इति । चातुर्महाराजिकस्थाने । मरुभवन इति । मरुद्भवने त्रायस्त्रिंशभवन इत्यर्थः । दिव्ये स्थाने यामादिस्थाने । लोकधात्वंतरेष्वपि तत्सदृशस्याभावज्ञापनार्थमाह । न दिक्षु विदिक्षु चेति । अथ न श्रद्धीयते । चरतु नरः कश्चिद् वसुधाम् इमां कृत्स्नां स्फितां बहुसत्त्वाध्यासितां । सह पर्वतैः काननैश्च । (अभिधर्मकोषव्याख्या ४३३) सपर्वतकाननां स्वयं प्रस्त्यवेक्षतामित्यभिप्रायः । नव च कल्पाः प्रत्युदावर्तिता इति । तेन वीर्यारंभेणैकनवत्या कल्पैः परिपूर्णा वीर्यपारमितेति कृत्वा । अत एवोक्तमेकनवत्यां कल्पेष्वाक्षिप्तमिति । बोधेः पूर्वसमनंतरमिति । क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसमनंतरं । किं कारणं । परिपूर्णपारमितो हि बोधिमधिगच्छति । नापरिपूर्णपारमित इति । (इव् ।११६) यथायोगमिति । किंचित्पुण्यं च क्रिया च । किंचित्पुण्यं च क्रिया च । किंचित्पुण्यमेव । क्रिया च । किंचित्पुण्यं च वस्तु च । किंचिद्वस्त्वेवेति । कथमित्याह । तद्यथेति विस्तरः । कर्म च ते पंथानश्च । प्राणातिपातादयः सप्त कर्मपथाः । कर्मस्वाभाव्याच्चेतनापथत्वाच्च । त्रयस्त्वभिध्यादयः पंथान एव कर्मणश्चेतनाख्यस्येति [तिब् । ९४ ] कर्मपथाः । कायवाक्कर्म त्रिविधेति । पुण्यं तावदिष्टविपाकत्वात् । क्रिया कर्मस्वभावत्वात् । वस्तु तत्समुत्थानचेतनायास्तदधिष्ठाय प्रवृत्तेः । तत्समुत्थापिका चेतना कायवाक्कर्मसमुत्थापिका । पुण्यमिष्टविपाकत्वात् । क्रिया मनस्कर्मत्वात् । न वस्तु क्रियानधिष्ठानत्वात् । तत्सहभुवो वेदनादयः । इष्टविपाकत्वात्पुण्यमेव । न तु क्रियाधिष्ठानं वा । तल्लक्षणाभावात् । शीलमयमिति । पूर्ववत्त्रैधं योज्यं । मैत्री पुण्यमिति । पूर्ववद्योज्यं । पुण्यक्रियायाश्च वस्तु । तत्संप्रयुक्ताया मैत्रीसंप्रयुक्तायाश्चेतनायाः मैत्रीमुखेन मैत्रीवशेनाभिसंस्करणादभिसंचेतनात् । तत्सहभूर्मैत्रीसहभूश्चेतना शीलं च ध्यानसंवरसंगृहीतं पुण्यं च क्रिया च पूर्ववत् । न हि ध्यानसंवरं प्रवर्तयेयमित्यधिष्ठाय चेतना प्रवर्तते । तेन न क्रियाधिष्ठानं । अन्ये तत्सहभुवो वेदनादयः पुण्यमेव पूर्ववत् । तदेवं । दानमये पुण्यं च क्रिया च वस्तु च । पुण्यं क्रिया च । पुन्यं च । पुण्यक्रियावस्तु । शीलमये पुण्यं च [तिब् । ९५ ] क्रिया च क्रियावस्तु च । पुण्यक्रियावस्तु । भावनामये पुण्यक्रियावस्तु च । पुण्यं क्रिया च । पुण्यं चेति । पुण्यक्रियावस्तु । अवयवसरूपाणामप्येकशेष इष्यते । गुणो यङ्लुकोरिति यथा । (इव् ।११७) यदपि दीयते तद्दानमिति देयं वस्तु कर्मणि ल्युडिति कृत्वा । दीयते येन तद्दानम् इति । इह तु कुशलमिष्टं दानमिति । देयस्य हि वस्त्रादेरव्याकृतत्वं । रागादिभिरपीत्यादिशब्देन क्रोधेर्ष्यादीनां ग्रहणं । पूजानुग्रहकाम्ययेति चैत्यापरिनिर्वृतेभ्यः पूजा । इन्द्रियमहाभूतानुग्रहकामा तया । येन कलापेनेति (अभिधर्मकोषव्याख्या ४३४) चित्तचैत्तकलापेन । कुशलाः स्कन्धा इति । पंच स्कंधाः । कायवाग्विज्ञप्तिस्तदविज्ञप्तिरपि वा रूपस्कंधो द्रष्टव्यः । स्वभावे चैष मयदिति । न विकारादिषु । तद्यथा तृणमयं गृहमिति । न तृणानां विकारोऽस्ति । तैस्तु निर्विकारैरेव तत्कृतमित्यतस्तृणमयं तृणस्वभावं तदिति गम्यते । तत्स्वाभाव्येऽपि सति । तद्विकारतां परिकल्प्य मयत्क्रियत इत्यभिप्रायः । तत्प्रकृतिवचने मयदित्यनेन वा लक्षणेन मयद्विधीयते । एवं पर्णमयं भाजनमित्येतदपि वक्तव्यं । (इव् ।११८ ब्) स्थापयित्वा दृष्टधर्मवेदनीयमिति । तदुभयार्थमिति कृत्वा स्थाप्यते । तद्विपाकभूमेर्[तिब् । ९५ ] अत्यंतसमतिक्रांतत्वात् । कामधातोरत्यंतसमतिक्रांतत्वादित्यर्थः । कामधातुर्हि दानस्य विपाकभूमिरिति । (इव् ।११९) श्रुतादिगुणयुक्त इति । आदिशब्देन त्यागप्रज्ञाल्पेच्छतादिगुणयुक्तः । सत्कृत्यादि ददातीति । सत्कृत्येत्यादिरस्येति सत्कृत्यादि । क्रियाविशेषणमेतत् । यथाक्रमं चत्वारो विशेषा इति । सात्कृत्यदाता सत्कारलाभी भवति । स्वहस्तदाता उदारेभ्यो भोगेभ्यो रुचिं लभते । कालदाता काले भोगाल्लभते । नातिक्रांतकालात् । यान्न भोक्तुमेवासमर्थः । पराननुपहत्यदाताऽनाच्छेद्यां भोगां लभते । (इव् ।१२०) ऋतुसुखस्पर्शानि चास्यांगानीति । शीते उष्णानि । उष्णे शीतानि । साधारणे साधारणानि । (इव् ।१२१ ब्) शीतलिकादिषु चेति । आदिशब्देन वर्दलिकावर्षलिकादिषु । यथासूत्रमुक्तमेतत् । यथा मातापित्रोरिति । उपकारित्वविशेषात्कारापकारौ महाफलौ तयोर्भवत इत्यर्थोऽवगंतव्यः । ऋक्षमृगजातकाद्युदाहरणात्विपाक इति । एवमृक्षमृगयोर्गुहां प्रवेश्य गात्रोष्मशीतोपनयेनोह्यमाननद्युत्तारणेन वोपकारिणोरपकारकरणेन सद्योऽंगपातात् । [तिब् । ९६ ] आदिशब्देन कपिजातकाद्युदाहार्यं । शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्येवमादीति । आदिशब्देन स्रोतआपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकस्ततोऽप्रमेयतरः स्रोतआपन्नायेत्यादि । (इव् ।१२१ द्) तत्स्थापयित्वेति । अनंतरोक्तं बोधिसत्त्वदानं । तद्धि सम्यक्संबोध्यर्थं सर्वसत्त्वार्थं च । शेषं सुगमत्वान्न विभक्तमिति । यदेतददान्मे दानमित्येवमादिकं । अदान्मे दानमिति । दत्तमनेन मे (अभिधर्मकोषव्याख्या ४३५) पूर्वमिति दानं तृतीयं । दास्यति मे दानमिति चतुर्थं । दत्तपूर्वं मे पितृभिश्च पितामहैश्चेति दानमिति पंचमं । स्वर्गार्थं दानं षष्ठं । कीर्त्यर्थं सप्तमं । चित्तालंकारार्थं यावदुत्तमार्थस्य प्राप्तये दानमित्यष्टमं । चित्तालंकारार्थमृद्ध्यर्थं । चित्तपरिष्कारार्थमष्टौ चित्तपरिष्काराः मार्गांगानि । तदर्थं । योगसंभारार्थं योगनिदानार्थं । उत्तमार्थस्य प्राप्तिरर्हत्त्वं निर्वाणस्य वा प्राप्तिः । तस्मै प्राप्तये दानं । चतुर्भेदमप्येकमष्टमं भवति । निर्वाणप्रापकमेवैतदिति कृत्वा । सुगममुक्तमाचार्येण । (इव् ।१२२) [तिब् । ९६ ] चतुर्विधे क्षेत्रविशेष इति । गतिदुःखोपकारिगुणक्षेत्रे कतमस्मिन् पक्ष इति । यस्मादस्य गतिक्षेत्रता गुणक्षेत्रता च न संभवति तस्मात्पृच्छति । समविषमस्य प्रकाशयितेति धर्मधर्मस्य । (इव् ।१२३) विपाकनैयम्यावस्थानादिति । नियतविपाकदानावस्थानादित्यर्थः । कस्यचित्क्षेत्रवशेनैवेति । तद्यथा । सामान्यपुरुषवधात्पितृवधः । तत्रैव क्षेत्रे पुनरधिष्ठानवशादिति । कर्मपथवशात् । कथमित्याह । मातापित्रोः प्राणातिपातनात्गुरु कर्म न त्वेवमदत्तादिकात्गुरु । न हि मातापित्रोर्द्रव्यापहरणकर्म तद्वधवत्गुरु भवति । तद्वधस्यानंतर्यस्वभावत्वादादिशब्देन मृषावादपैशुन्यादिग्रहणं । एवमन्यदपि योज्यमिति । कस्यचित्प्रयोगविशेषेण गुरु सम्पद्यते विपाकनैयम्यावस्थानात् । कस्यचिच्चेतनाविशेषेण । कस्यचिदाशयविशेषेण । (इव् ।१२४) नाबुद्धिपूर्वं न सहसा कृतमिति । अथ वा नाबुद्धिपूर्वं कृतमिदं कुर्यामित्यसंचिंत्य कृतं । तन्नोपचितम् । अव्याकृतं हि तत्कर्म । न सहसा कृतमिति । बुद्धिपूर्वमपि न सहसा कृतं । यदभ्यासेन भाष्याक्षेपान्मृषावादाद्यनुष्ठानं कृतं तदकुशलं [तिब् । ९७ ] न पुनरुपचितं । यावत्त्रिभिरिति । कायवाङ्मनोदुश्चरितैः । निष्प्रतिपक्षं चेति । प्रतिदेशनादिप्रतिपक्षाभावतः । अकुशलं चाकुशलपरिचारं चेति । यः कृत्वाप्यनुमोदत इति । विपाकदाने नियतमिति । पुष्टाकुशललक्षणसमुत्पादात् । एवं कुशलमपि योज्यमिति । कथं । संचेतनतः संचिंत्य कृतं भवति । नाबुद्धिपूर्वकृतं भवति । तद्यथा । अव्याकृतेन चित्तेन पाषाणं ददामीति सुवर्णपिण्डं दद्यात् । कृतं तन्न पुनरुपचितं । अव्याकृतं हि तत्कर्म । न सहसा कृतं । यथा भाष्याक्षेपात्सत्यवचनं कृतं तत्कुशलं न पुनरुपचितं । कश्चिदेकेन सुचरितेन सुगतिं याति । कश्चिद्यावत्त्रिभिः । कश्चिदेकेन कर्मपथेन । कश्चिद्यावद्दशभिः । तत्र यो यावता गच्छति । तस्मिन्नसमाप्ते कृतं कर्म नोपचितं । समाप्ते तूपचितं । एवं यावद्विपाकदाने नियतमिति । संभवतो योज्यम् । (अभिधर्मकोषव्याख्या ४३६) (इव् ।१२५ ब्) चैत्ये सरागस्येति विस्तरः । स्वपरार्थोभयार्थायेत्य् अत्र । पुण्यमेव त्यागान्वयमपश्यन्नाह । कस्यचिदप्यनुग्रहाभावाद् । इति । सति हि प्रतिग्रहीतरि युक्तं त्यागान्वयं पुण्यं । तत्र हि प्रीत्यनुग्रहेण [तिब् । ९७ ] ग्रहीता युज्यत इति । मैत्र्यादिवदगृह्णतीति । मैत्र्यादिष्विव मैत्र्यादिवत् । अगृह्णति असति प्रतिग्राहके पुण्यं भवति । असत्यपि परानुग्रहे । कुशलमूलादिबलाधानात् । तथा ह्यतीते पि पुणवति तथागतादौ । तद्भक्तिकृतं चैत्यदानं पुण्यं भवति । दानमानक्रिया तर्हि व्यर्था प्राप्नोतीति । यदि स्वचित्तादेव पुण्यं भवेच्चित्तेनैव दानमानावनुष्ठेयौ । तत एव पुण्यप्राप्तेः । न । तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् । नैतदेवं । कस्मात् । यस्माद्दानमानौ भगवतश्चित्तमात्रेण चिंतयतो या भक्तिः । तत इयं दानमानौ कुर्वतो भक्तिः प्रकृष्टतरा । कायवाक्कर्मणोरपि प्रवर्तनात् । चित्तमात्रेण हि चिन्तयतो भक्तिः कायवाक्कर्मणी न प्रवर्तयतः । यथा हीति विस्तरः । यथा हि शत्रुं हन्मीति कृताभिप्रायस्य कस्यचित्तत्समुत्थितं तदभिप्रायसमुत्थितं कायवाक्कर्म शत्रुसंज्ञया शत्रुरयं न तावन्म्रियत इत्यनया संज्ञया तस्मिन्मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते चेतनानुबंधात् । नाभिप्रायमात्रेण क्रियाशून्येन । तथा ह्यतीतेऽपि परिनिर्वृतेऽपि भगवति तद्भक्तिसमुत्थां शास्तृभक्तिसमुत्थां दानमानक्रियां पृष्ठभूतामिव कुर्वतो बहुतरं पुण्यं जायते । न भक्तिमात्रेण क्रियाशून्येनेति । (इव् ।१२५ द्) कुक्षेत्रे तर्ह्य्[तिब् । ९८ ] अनिष्टफलं भविष्यतीति । तस्करादिभ्यो दानमानिष्टफलमिति निर्ग्रंथाः । सुक्षेत्रे हीष्टफलं । कुक्षेत्रे तु विपरीतमित्यतो ब्रवीति । कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययाद् इति । न क्षेत्रविशेषादिष्टं फलमिति ब्रूमः । किं तर्हि । विशिष्टमिति । न हि सुक्षेत्रे प्राणतिपातादिबीजस्येष्टं फलं भवतीति । कुक्षेत्रेऽपि हि फलस्य मृद्वीकाफलस्य बीजात्मृद्वीकाबीजाद् । अविपर्ययो दृष्टः । मृद्वीकाफलमेव मधुरं दृष्टमित्यर्थः । न तु निंबफलमेवं । निंबबीजान्निंबफलमेवेति । तिक्तमिति । मृद्वीकाबीजं कुशलस्योदाहरणं । निंबबीजमकुशलस्य । (इव् ।१२६) दौःशील्यमशुभं रूपम् इति । प्राणतिपातादिलक्षणं प्रकृतिसावद्यं रूपं दौःशील्यं । (अभिधर्मकोषव्याख्या ४३७) प्रतिक्षिप्ताच्च बुद्धेनेति । प्रज्ञप्तिसावद्यत्वात् । समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यमिति । गृहीततद्विरमणस्य भगवद्वचनानादराद्दौःशील्यं जायते । अर्थादुक्तं भवति । असमात्तशिक्षस्य न दुःशील्यमिति । विशुद्धं तु चतुर्गुणम् इति । चत्वारो गुणा अस्येति चतुर्गुणं । दौःशील्येन यथोक्तेनेति । दौःशील्यमशुभं रूपम् इत्यनेन । [तिब् । ९८ ] लोभादिभिरिति । न तैर्दौःशील्यहेतुभिः समुदाचरद्भिरुपहतं भवति । दौःशील्यविपक्षाश्रितमित्यर्थः । मौलैः कर्मपथैर्विशुद्धमिति । प्राणतिपातादिभिर्मौलैरखण्डितमित्यर्थः । सामंतकैर्विशुद्धमिति । प्राणातिपातादिप्रयोगैरदूषितमित्यर्थः । वितर्कैरिति । कामवितर्कादिभिः । स्मृत्यानुपरिगृहीतमिति । कायादिस्मृत्युपस्थानैर्दृढीकृतं । शीलस्मृत्या वानुपरिगृहीतं । आशास्तिशीलमिति । आशास्तिः प्रार्थना । यद्भवभोगसत्कारतृष्णाकृतमिति । भवे भोगे च सत्कारे च या तृष्णा । तया यत्समात्तमित्यर्थः । सम्यग्दृष्टिकानामिति । बुद्धशासनप्रतिपन्नानां । अन्यतीर्थिकानां हि न बोध्यंगानुकूलमसद्दृष्टिकत्वात् । (इव् ।१२७ ब्) समाहितं तु कुशलम् इति । समाहितग्रहणमसमाहितनिवृत्त्यर्थं । कुशलग्रहणं समाहितास्वादनासंप्रयुक्तक्लिष्टध्याननिवृत्त्यर्थं । तत्समाहितकुशलसदृशमुत्पद्यते । समाधिस्वभावसहभू यदिति । समाधिस्वभावं तेन च सह भवति यदित्यर्थः । तद्धि समाहितम् [तिब् । ९९ ] इति विस्तरः । तत्समाहितं कुशलमत्यर्थं चित्तं संवासयति । भावयति । असमाहितमपि वासयति । न त्वेवमत्यर्थमिति दर्शयति । कथमित्याह । गुणैस्तन्मयीकरणात्संततेः । यस्मात्समाधिगुणैस्तन्मयी क्रियते चित्तसंततिः । अत्र दृष्टांतमाह । पुष्पैस्तिलवासनावदिति । यथा पुष्पैस्तिला भाव्यंते । पुष्पगंधमयीकरणात् । तद्वत् । तदिदमुक्तं भवति । भावना वासना । तत्स्वभावं पुण्यं भावनामयमिति । (इव् ।१२७ द्) अथ शीलं भावना च कस्मै संवर्तत इति वाक्यशेषतोऽर्थं पृच्छति । स्वर्गाय शीलं प्राधान्याद् इति । शीलं प्राधान्येन स्वर्गाय भवति । अन्यत्तु न प्राधान्येन स्वर्गाय भवति । किमन्यत् । दानं । दानमपि हि स्वर्गाय संभवति । शीलमपि (अभिधर्मकोषव्याख्या ४३८) विसंयोगाय संभवति । शमथविपश्यनयोः शीलप्रतिष्ठानत्वात् । भावना प्राधान्येन विसंयोगाय । साक्षाद्विसंयोगप्रापकत्वात् । प्रहाणमार्गसंगृहीतत्वाद्वा । पुण्यक्रियावस्तुप्रसंगेनेदमुपन्यस्यते । (इव् ।१२८ ब्) सूत्र उक्तं । चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवंति । अप्रतिष्ठिते पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति । अयं प्रथमः पुद्गलो ब्राह्मं पुण्यं प्रसवति । चातुर्देशे भिक्षुसंघे आरामं निर्यातयति तत्रैव चारामे विहारं [तिब् । ९९ ] प्रतिष्ठापयति । अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति । भिन्नं तथागतश्रावकसंघं प्रतिसंदधाति । अयं तृतीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति । मैत्रीसहगतेन चित्तेनावैरेणासंस्पर्धेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्फरित्वोपसंपद्य विहरति । तथा द्वितीयां । तथा तृतीयां । तथा चतुर्थीम् । इत्यूर्ध्वमधस्तिर्यक्सर्वतः सर्वमिमं लोकं स्फरित्वोपसंपद्य विहरति । अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवतीति । यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति । यदुक्तं संनिकृष्टं बोधिसत्त्वं स्थापयित्वा । यावत्सर्वसत्त्वानां भोगफलमित्येवमादि । इदं ब्राह्मं पुण्यमिति । ब्रह्मणामिदं ब्राह्मं । ब्रह्मपुरोहिताश्चात्र ब्रह्मशब्देनोच्यते । कस्मात् । ब्रह्मपुरोहितानां कल्पायुष्कत्वात् । ब्रह्मपुरोहितानां हि कल्पमायुरुक्तं । अनेन च कर्मणा कल्पं स्वर्गेषु मोदते । ब्राह्मं पुण्यं प्रसवति । कल्पं स्वर्गेषु मोदत इति । निकायांतरपाठवचनात् । तत्साधर्म्यादेतद्ब्राह्मं पुण्यमुच्यते । ननु च कामधातौ नास्ति कुशलस्य कर्ंणः कल्पं विपाक इति । सत्यमेकस्य नास्ति । [तिब् । १०० ] एकाधिष्ठानास्तु बह्व्यश्चातना भवंति । यासां क्रमेण कल्पप्रमाणं स्वार्गिकं फलमभिनिर्वर्तते । च्युतस्य पुनस्तत्रैव जन्मसंधानात् । बृहत्पुण्यं ब्राह्ममित्यपरे । (इव् ।१२८) सूत्रादीनाम् इत्य् । आदिशब्देन द्वादशानामंगानां ग्रहणं । सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा इति द्वादशानामंगानां । अक्लिष्टदेशनेति । अक्लिष्टचित्तसमुत्थापितेत्यर्थः । (इव् ।१२९) पुण्यभागीयमिति । पुण्यस्य भागः प्राप्तिरिति पुण्यभागः । इष्टफलप्राप्तिर्(अभिधर्मकोषव्याख्या ४३९) इत्यर्थः । तस्मै हितं पुण्यभागीयं । अत एवोक्तं यदिष्टविपाकमिति । तत्प्राप्त्यनुकूलमिति । अथ वा त्रयो भागाः । पुण्यो भागः अपुण्यो भागः अनिंज्यो भागः । तस्मै हितं पुण्यभागीयं । अथ वा पुण्यं भजत इति पुण्यभाक् । पुण्यभागेव पुण्यभागीयं । स्वार्थे कप्रत्ययः । एवं मोक्षभागीयं । अथ वा संसारभागो मोक्षभागश्चेति द्वौ भागौ । [तिब् । १०० ] तत्र यन्मोक्षभागाय हितं । तन्मोक्षभागीयं । मोक्षप्राप्तिर्वा मोक्षभागः । तस्मै हितं । तत्प्राप्त्यनुकूलमिति मोक्षभागीयं । तस्य लक्षणं पश्चाद्वक्ष्यते । एवं निर्वेधभागीयमपि योज्यं । पश्चाद्व्याख्यास्याम इति । तत उष्मगतोत्पत्तिर् इत्यत्र । कर्माधिकारेणैषां कर्मस्वभावानां लक्षणमुच्यते । (इव् ।१३०) यदिदं लोक इत्यादि । ससमुत्थानम् इति । सचित्तचैतसिककलापं । येन तत्कायकर्मोत्थाप्यते । तत्कायकर्म ससमुत्थानं योगप्रवर्तितं । लिपिर्मुद्रा च । कारणे कार्योपचारात् । येन हि कायकर्मणा लिपिर्लिख्यते मुद्रा वा खन्यते । सा लिपिर्मुद्रा स शास्त्रेऽभिप्रेते । न यथा लोके । ह्यक्षरचिह्नं पुस्तकादौ लिपिरिष्यते । अक्षरानक्षरचिह्नं च मुद्रेति । गणना काव्यं च वाक्कर्म । योगप्रवर्तितं ससमुत्थानमिति वर्तते । पंचस्कंधस्वभावानीति । लिपिमुद्रयोः कायकर्म रूपस्कंधः । गणनाकाव्ययोर्वाक्कर्म रूपस्कंधः । वेदनादयस्तूभयत्रापि समुत्थानभूताश्चत्वारः स्कंधा इति । पंचस्कंधस्वभावान्येतानि भवंति । यन्मनसा संकलनं धर्माणामिति । एकं द्वे त्रीणीत्येवमादि सा संख्या । [तिब् । १०१ ] यत्तु वाचा न मनसा सा गणनेत्याभिधार्मिकाः । इयं च संख्या सपरिवारग्रहणाच्चतुस्कंधस्वभावा । (इव् ।१३१) लिप्यादिलक्षणनिर्देशानुषंगेण सावद्यादीनामपि धर्माणां लक्षणनिर्देशोपन्यासः । धर्मस्कंधकविभाषायामेते पर्याया निदिष्टाः । तत्प्रत्यासन्नेयमिति । इमे पर्याया उपन्यस्यंत इत्यपरः संबंधः । सहावद्येन क्लेशलक्षणेन वर्तंत इति सावद्याः क्लेशच्छादितत्वान् निवृताः । क्लेशा अपि हि संप्रयोगिणा क्लेशांतरेण निवृताः । निष्कृष्टत्वादार्यैस्त्यक्तत्वाद्वा (अभिधर्मकोषव्याख्या ४४०) हीनाः । क्लिष्टास् तु क्लेशयोगतोऽवगंतव्याः । शुभामलाः कुशलानास्रवाः । ते प्रणीताः । शुद्धिप्रकर्षगतत्वात् । हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धमिति । क्लिष्टा एव हीनाः । शुभामला एव च प्रणीता इत्यवधारणादतोऽन्ये न हीनाः । न प्रणीता इति मध्याः सिद्धाः । संस्कृतशुभाः सेव्या इति । अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः । पर्युपासितव्याः । संतानाध्या रोपणतः । शेषा असेवितव्या इति । के शेषा । असंस्कृताश्च । ये च न कुशलाः । क्लिष्टा [तिब् । १०१ ] निवृताव्याकृता इत्यर्थः । अनभ्यसनीयत्वादिति । पौनःपुन्येन कर्तुमशक्यत्वादित्यर्थः । अनुत्पाद्यत्वादित्यपरे । अफलत्वाच्चेति । संस्कृतस्य हि हेतुफले । नासंस्कृतस्य ते इति । सोत्तरा इति सातिशयाः । अकुशलाः निवृताव्याकृतैः सोत्तराः । निवृताव्याकृतानामनिष्टविपाकाभावात् । निवृताव्याकृता अनिवृताव्याकृतैः संस्कृतैः सोत्तराः । तेषामक्लिष्टत्वात् । तेऽपि कुशलसास्रवैः सोत्तराः कुशलसास्रवाणामिष्टफलत्वात् । तेऽप्यनास्रवैस्सोत्तराः । निह्क्लेशत्वात् । अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तराः । असंस्कृतानां नित्यत्वात् । असंस्कृतावप्याकाशप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ । प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात् । मोक्षस्त्वनुत्तरः । न हि निर्वाणाद्विशिष्टतममस्ति । तथा ह्युक्तं ये केचिद्भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायत इति । प्रतिसंख्यानिरोधो हि नित्यत्वात्सर्वसंस्कृतेभ्य उत्कृष्टः । कुशलत्वाच्चासंस्कृताभ्यामाकाशप्रतिसंख्यानिरोधाभ्याम् [तिब् । १०२ ] उत्कृष्टतर इति । आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां चतुर्थकोशस्थानं समाप्तं । ४ । (अभिधर्मकोषव्याख्या ४४१) व्(अनुशयनिर्देशो नाम पञ्चमं कोशस्थानम्) (व् ।१) कर्मजं लोकवैचित्र्यम् इत्युक्तमिति । चतुर्थस्यादावुक्तं । अतोऽनेन संबंधेनानुशयोपन्यास इति संबन्धं दर्शयति । तानि च कर्माणि यथोक्तलक्षणप्रभेदानि अनुशयवशादुपचयं गच्छंति । विपाकनैयम्येनात्र उत्तिष्ठंते । विपाकदानाय नियतीभवंतीत्यर्थः । अंतरेण चानुशयान् विनानुशयैर्भवस्य जन्मनोऽभिनिर्वर्तने उत्पादने न समर्थानि भवंति कुशलान्यकुशलानि वा कर्माणि । न ह्यर्हतः पौनर्भविकानि कर्माण्यनियतानि न संति । अनुशयाभावात्तु पुनर्भवाभिनिर्वर्तने न समर्थानि भवंति । अत एवैषामनियतत्वं सिध्यति । ह्यर्थे चायं चः पठितव्यः । यस्मादंतरेणानुशयान् भवाभिनिर्वर्तने न समर्थानि भवंति । तस्मादनुशयवशादुपचयं गच्छंतीत्यभिप्रायः । अपरे पुनरेतद्वाक्यद्वयमेवं व्याचक्षते । तानि च कर्माण्यनुशयवशादुपचयं गच्छंति । यान्यकृतानि कर्माणि । तान्यनुशयवशात्पुनर्भवाभिनिर्वर्तन उपचीयंत इत्यर्थः । न ह्यर्हतां कर्माणि पुनर्भवाभिनिर्वर्तन उपचीयंते । अंतरेण चानुशयां भवाभिनिर्वर्तने न समर्थानि भवंतीति । यानि च कृतानि । तान्यप्यंतरेणानुशयां भवाभिनिर्वर्तने न शक्तानि भवंति । न ह्यर्हतां पृथग्जनावस्थायां कृतानि [तिब् । १०२ ] कुशलाकुशलानि पौनर्भविकान्यनियतानि कर्माणि न संति । अनुशयवैकल्यात्तु तानि भवाभिनिर्वर्तने न समर्थानि । इत्येवं पृथगर्थाभिधानात् । समुच्चयेऽयं चकार इति । मूलं भवस्यानुशया इति । पुनर्भवस्य कर्मभवस्य वा मूलमनुशयाः । तदुपचयसमुत्थानहेतुत्वादित्यभिप्रायः । मूलं दृढीकरोतीति । प्राप्तिर्हि मूलं । तामनुच्छेदार्थेन दृढीकरोतीत्यर्थः । संततिमवस्थापयतीति । परंपरया क्लेशप्रबंधं स्थापयतीत्यर्थः । क्षेत्रमापादयतीति । आश्रयमात्मोत्पत्त्यनुकूलं (अभिधर्मकोषव्याख्या ४४२) करोतीत्यर्थः । निष्यन्दं निर्वर्तयतीति । स्वनिष्यन्दमुपक्लेशं जनयति । तद्यथा राग आह्रीक्यौद्धत्यमत्सरान् जनयति । द्वेषः क्रोधेर्ष्ये इत्यादि । कर्मभवमभिनिर्हरतीति । कर्मैव भवः कर्मभवः । तं पुनर्भवाभिनिर्वृत्तये जनयतीत्यर्थः । इदमस्य मूलं भवस्यानुशया इत्यर्थसंदर्शनं । स्वसंभारं परिगृह्णातीति । स्वसंभारः क्लेशस्यायोनिशोमनस्कारः । तं परिगृह्णाति । तस्यानागतस्य हेतुभावेनावतिष्ठत इत्यर्थः । आलंबने संमोहयतीति । यथाभूतग्रहणात् । बुद्ध्युपघाताद्वा संमोहयतीति । विज्ञानस्रोतो नमयतीति । विज्ञानसंततिम् [तिब् । १०३ ] आलंबने पुनर्भवे वा नमयति । यदि मूलं भवस्येति पुनर्भवग्रहणमिदमस्योदाहरणं । कुशलपक्षाद्व्युत्क्रमयतीति । कुशलपक्षात्परिहापयति । बन्धनार्थं च स्फरति । बन्धनकार्यं व्याप्नोति तनोतीत्यर्थः । कथमित्याह । धात्वनतिक्रमणयोगेन धात्वनतिकमणप्रकारेणेत्यर्थः । तदिदमुक्तं भवति । यः क्लेशो यद्धातुकः स तं धातुं नातिक्रामयतीति । षोडशेत्यन्यः । एषु षट्प्रक्षिप्य । आश्रयदौष्ठुल्यं जनयत्यकर्मण्यतापादनात् । गुणान् द्वेट्ति तद्विरोधित्वात् । अपवादानामास्पदीकरोति विद्वद्विगर्हितकायकर्मोत्थापनात् । सत्पथादुद्वर्तयति विपरीतदैशिकसंसेवाभिमुखीकरणात् । विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात् । आधिपत्यफलेन च लोकस्यानिष्टमुपसंहरति तद्वेगेन बाह्यभावविकारापत्तेः । रागवशेनान्येषामपीति । यत्र रागः । तत्रालंबनेऽन्ये प्रतिघादयोऽप्यनुशेरते । प्रेमाद्द्वेषो जायते मानादयोऽपीति सूत्रं । अत एव च रागानुशयनाभावादनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति । एतच्च पश्चात्प्रवेदयिष्याम इति । यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं । तत्रान्येऽप्यनुशया अनुशयितुमुतहंते । आर्द्र इव पटे रजांसि संस्थातुमित्येतत्ज्ञापयिष्यामः । (व् ।२) आहोस्वित्कामराग एवानुशय इति । वैभाषिकनयेन पर्यवस्थानमेवानुशयः । वात्सीपुत्रीयनयेन प्राप्तिरनुशयः । सौत्रांतिकनयेन बीजम् । उत्तरनिःसरणमिति । पश्चान्निःसरणमित्यर्थः । स्थामशः सुसमवहतं । (अभिधर्मकोषव्याख्या ४४३) बलशः सुष्ठु सम्यगवहतमित्यर्थः । सानुशयं प्रहीयत इति । इदमत्रोदाहरणं । [तिब् । १०३ ] इदमत्र विरुध्यते । सहयोगसमासे ह्यन्यत्वं दृष्टं । तद्यथा सपुत्रो देवदत्त इति । तथा च सति सूत्रविरोधः । अभिधर्मविरोध इति । कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्तः । कतमैस्त्रिभिः । सुखसौमनस्योपेक्षेन्द्रियैः संप्रयुक्त इति । न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिरिन्द्रियैः संप्रयोगो युज्यत इति शास्त्रविरोधः । सानुश्यं सानुबन्धमित्यर्थादिति । कामरागस्यानुबन्धोऽनुशयशब्देनोक्तः । अनुबंधः पुनः क्लेशांतरस्योत्पादानुकूल्येनवास्थानं । अनुवृत्तिर्वा अनुशयः । सानुशयं प्रहीयते । न पुनरनुवर्तते संक्लेश इत्यर्थः । औपचारिको वा सूत्रेऽनुशयशब्दः उपचारे भव औपचारिकः । कुत्र्ऽ औपचारिक इत्याह । प्राप्तौ । मुख्यवृत्त्या पर्यवस्थानेऽनुशयशब्दो वर्तते । उपाचारेण तु प्राप्तौ । तस्यानुशयहेतुभावात् । तद्यथा दुःखवेदनाहेतुत्वातग्निर्दुःख इत्युच्यते । तद्वत् । लाक्षणिकस्त्वभिधर्मेऽनुशयशब्दः । लक्षणे भवो लक्षणेन वा दीप्यति [तिब् । १०४ ] लाक्षणिकः । लाक्षणिक इत्याह । क्लेश एवेति । आलंब्नसंप्रयोगतश्चानुशेरत इत्यनुशया इति । तस्मात्संप्रयुक्ता एवानुशयाः । अत्र चार्थे श्लोकमुदाहरंति । चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात् कुशलस्य चोपलंभादविप्रयुक्ता इहानुशया इति । चित्तक्लेशकरत्वादिति । अस्य विवरणं । यस्मादनुशयैः क्लिष्टं चित्तं भवति । न विप्रयुक्तैः क्लिष्टं चित्तं भवति । आवरणत्वादिति । अस्य पदस्य विवरणं । अपूर्वं कुशलं नोत्पद्यत इति । सानुशये चित्ते कुशलमपूर्वं नोत्पद्यते । शुभैर्विरुद्धत्वादिति । अस्य पदस्य विवरणं । उत्पन्नाच्च परिहीयत इति । अनुशयाः शुभैर्विरुद्धाः । यस्मादुत्पन्नात्कुशलात्परिहीयते । तस्मात्कुशलैर्विरुद्धा अनुशयाः । तस्मान्न विप्रयुक्ता इति । यस्माच्चेतस्यविद्यमानैस्तैर्यथोक्तक्लिष्टादि न संभवति । संप्रयुक्तैः पुनः सर्वमेतद्युज्यत इति । अथ विप्रयुक्तैरप्येवं स्यादिति । विप्रयुक्तैः क्लिष्टं चित्तं भवति । अपूर्वं कुशलं नोत्पद्यते । उत्पन्नाच्च परिहीयत इति । यद्येवं कुशलं न कदाचिदप्युपलभ्येत । तेषां विप्रयुक्तानां नित्यसंनिहितत्वात् । [तिब् । १०४ ] यस्मात्क्लिष्टावस्थायां कुशलावस्थायामन्यस्यां वा ते विप्रयुक्ता वर्तंत इति उपलभ्येत च कुशलम् । अतः कुशलस्य चोपलंभादविप्रयुक्ता इहानुशया (अभिधर्मकोषव्याख्या ४४४) इति स्थितमेतत् । आचार्य आह: तदिदमज्ञापकं । यदिदं वैभाषिकैरुक्तं । चित्तक्लेशकरत्वादित्यादि । यो हि विप्रयुक्तमनुशयमिच्छतीति वात्सीपुत्रीयः । सर्वमेतदिति । चित्तक्लेशादि । क्लेशकृतमेवेच्छतीति । पर्यवस्थानकृतमेवेत्यर्थः । पर्यवस्थानं च न नित्यसंनिहितं भवतीति कुशलोपलंभसिद्धिः । कामरागस्यानुशय इति पक्षपरिग्रहे सानुशयं प्रहीयत इति नास्ति सूत्रविरोधः । किं तु विप्रयुक्तोऽनुशय इति प्राप्नोति । अत आह । न चानुशयः संप्रयुक्तो न विप्रयुक्त इति । कथमित्याह । तस्याद्रव्यान्तरत्वादिति । शक्तिरूपस्य बीजस्य रागादिभ्योऽनर्थांतरत्वात् । आत्मभावस्याश्रयस्य । क्लेशजा पूर्वोत्पन्नक्लेशजनिता । क्लेशोत्पादनशक्तिः क्लेशोत्पादनाय [तिब् । १०५ ] शक्तिः । यथानुभवज्ञानजा स्ंृत्युत्पादनशक्तिर्न द्रव्यांतरभूता । तद्वत् । स्मृत्युत्पादनहेतुर्द्रव्यांतरभूतः कश्चिद्विप्रयुक्त इत्याशंक्य दृष्टान्तांतरमुपन्यस्यति । यथा चांकुरादीनामिति विस्तरः । यथा चांकुरादीनां पूर्वोत्पन्ना शालिफलजा शालिफलांतरोत्पादनाय शक्तिर्न द्रव्यांतरभूता । तद्वत् । यस्त्विति । वात्सीपुत्रीयः । यदि क्लेशस्यानुशय इतीस्यते । यत्तर्हि सूत्र एव क्लेशोऽनुशय उक्तः षट्षट्के सूत्रे ।ऽस्य पुद्गलस्य भवति सुखायां वेदनायां रागानुशय इति । राग एवानुशयः । सुखवेदनावस्थायां हि रागः समुदाचरंनेवमुक्तः । न तु तस्य बीजमित्यभिप्रायः । भवतीति वचनान्नासौ तदैवानुशय इति । अनुशय एव रागस्यायमुक्तः । न रागः । भवतीति वचनात् । तस्यामवस्थायामुत्पद्यमानस्य रागस्यानुशयो भवतीति । बीजमुत्पद्यते । न तूत्पन्नमिति । बीजप्रकृतावस्थात्र कथ्यत इत्यभिप्रायः । कदा तर्हि भवतीति । कदानुशयोऽस्तीत्यर्थः । यदा प्रसुप्तो भवति । यदोपरतो भवतीत्यर्थः । हेतौ वा तदुपचार इति । हेतौ रागे अनुशयोपचारः । रागो हि रागानुशयस्य हेतुः । तथा हि [तिब् । १०५ ] रागजा रागोत्पादनशक्ती रागानुशय इत्युक्तमिति । तदिदमुक्तं भवति । क्वचिदनुशयशब्देन बीजमुच्यते । क्वचित्पर्यवस्थानमिति । समापत्तिरागो हि तेषां प्रायेणेति । आस्वादनासंप्रयुक्ते ध्याने प्रायेण तेषां रागः । विमानादिष्वपि तेषां रागोऽस्तीत्यतः प्रायेणेति ग्रहणं । स चांतर्मुखप्रवृत्तः समाहितरूपत्वात् । तथा च सति मोक्षसंज्ञोपतिष्ठते । तद्विच्छन्दनार्थं भगवान् देशयामास कामरागो भवराग इत्येवमादि । (अभिधर्मकोषव्याख्या ४४५) भवे राग एषः । नैष मोक्षे । मोक्षे कुशलो धर्मच्छन्द इति । आत्मभाव एव तु भव इत्याचार्यमतं । समापत्तिं साश्रयामिति । समापात्तिं सात्मभावाम् । आस्वादयन्त आत्मभावमेवास्वादयंति । न कामगुणान् । कामवीतरागत्वात् । अतः स रागो भवराग इत्युक्तो न कामराग इति दर्शयति । (व् ।३) अभिधर्म इति । न सूत्र इत्यभिप्रायः । (व् ।४, ५) सप्त समुदयदर्शनहेया इति । सत्कायदृष्टिः फलभूतान् पंचोपादानस्कन्धानालंबत इति दुःखदर्शनहेयैव । एवमंतग्राहदृष्टिः [तिब् । १०६ ] तेषामेव स्कन्धानां शाश्वतोच्छेदांतग्रहणात् । शीलव्रतपरामर्शोऽपि तानेव स्कन्धां शुद्धितो मुक्तितो नैर्याणिकतश्चालंबत इति न समुदयदर्शनहेयः । एवं निरोधदर्शनहेया अपि योज्याः । अष्टौ मार्गदर्शनहेया इति । शीलव्रतपरामर्शमधिकं प्रक्षिप्य । मार्गेण शुध्यति । तमपास्यान्येन शीलव्रतेन शुद्धिं प्रत्येतीति विप्रतिपन्नत्वात् । मार्गदर्शनप्रहातव्यो भवति । यो हि क्लेशो यस्य सत्यस्यापवादाय प्रवृत्तः । स तस्मिन् दृष्टे प्रहीयते । सर्पभ्रांतिरिव रज्जुदर्शनात् । सत्यानां दर्शनमात्रेण प्रहाणादिति । नाभ्यासेन प्रहाणादित्यभिप्रायः । दृष्टसत्यस्य पश्चान्मार्गाभ्यासेन प्रहाणात् । किमेते भावनाहेया इत्यधिकारः । तदेवमभ्यासो भावना पुनःपुनरुत्पादनमित्यर्थः । सत्कायदृष्टिरेकप्रकारेति । आत्मात्मीयाकारेण दुःखे विप्रतिपन्नत्वात्दुःखदर्शनहेयैव । एवमंतग्राहदृष्टिरिति । असावप्यात्माभिमतस्य वस्तुनः शाश्वतोच्छेदांतारोपाद्दुःख एव विप्रतिपन्नेति दुःखदर्शनहेयैव । मिथ्यादृष्टिश्चतुष्प्रकारेति । दुःखादिसत्यलक्षणापवादप्रवृत्तत्वात्सत्यचतुष्टयेऽपि विप्रतिपन्नेति । चतुःसत्यदर्शनहेया । एवं दृष्टिपरामर्शोऽपि चतुष्प्रकार एव । स हि हीनेऽग्रदर्शनं । तत्र समुदयनिरोधमार्गप्रहेयालंबनः समुदयनिरोधमार्गदर्शनहेयः । शेषो दुःखदर्शनहेयः । एवं विचिकित्सा सर्वत्रसंशयाकारेति सर्वत्रविप्रतिपन्नत्वाच्चतुःसत्यदर्शनहेया । शीलव्रतपरामर्शो द्विष्प्रकार इति । ईश्वरादिष्वहेतुषु हेतुग्रहो नित्यात्मविपर्यासात्प्रवर्तत इति दुःखदर्शनहेयः । अमार्गे मार्गदर्शनं मार्गदर्शनहेयः । कीदृशा एत इति । रागादयश्चत्वारः क्लेशाः । पर्यनुयुज्यंते हि रागप्रतिघमानाविद्या इत्यनंतराधिकृताः । ते चेमे दर्शनहेयाः । इमे भावनाहेया इति दुःपरिच्छेदाः । न तु सत्कायदृष्ट्यादयश्चित्यंते । ये हि दुःखसत्यविप्रतिपन्नाः । ते दुःखदर्शनहेया इति । एवं यावद्ये मार्गसत्यविप्रतिपन्नाः ते मार्गदर्शनहेया इति [तिब् । १०६ ] सुपरिच्छेदमेतत् । तत्र (अभिधर्मकोषव्याख्या ४४६) य इति रागादयः । यस्य सत्यस्य दर्शनं यद्दर्शनम् । यद्दर्शनेन हेयाः । त आलंबनमेषां । त इमे यद्दर्शनहेयालंबनाः । ते तद्दर्शनहेयाः । ते रागादयः । तस्य सत्यस्य दर्शनं तद्दर्शनं । तद्दर्शनेन हेयास्तद्दर्शनहेयाः । एतदुक्तं भवति । ये रागादयो दुःखदर्शनहेयं यावन्मार्गदर्शनहेयं क्लेशमालंबंते । ते तद्दर्शनहेया इति । यदालंबना यद्दर्शनहेयालंबनाश्चेति वक्तव्यं । चतुरार्यसत्यालंबनोऽप्यविद्यानुशयो भवतीति । न वक्तव्यं । एकशेषविधानसिद्धेः । यच्च सत्यं यद्दरशनहेयाश्च क्लेशा आलंबनमेषां । त इमे यद्दर्शहेयालंबनाः । ते तद्दर्शनहेया इति । ननु च समुदयदर्शनप्रहातव्यः सर्वत्रगोऽविद्यानुशयो दुःखनिरोधादिसत्यदर्शनहेयाद्यालंबनोऽपि भवति । पंचनिकायालंबनत्वात् । ततश्चास्य दुःखनिरोधादिसत्यदर्शनहेयत्वप्रसंगः स्यादिति । न दोषः । यद्यपि हि स पंचनिकायालंबनः समुदयरूपाकारतस्[तिब् । १०७ ] तु तान्निकायानालंबते । तेन तथालंबनतः समुदयदर्शनप्रहातव्य एव स इति । एवं दुःखदर्शनप्रहातव्योऽपि संयोज्यः । एवं च सति येऽपि व्याचक्षते । ये यद्दर्शनहेयालंबना इति सर्व एव दर्शनहेया अधिक्रियंते न केवला रागादय इति । तेषामपि व्याख्याने इमावेव चोद्यपरिहारौ वक्तव्यौ । रूपारूप्यधात्वोर्दुःखाभावात्प्रतिघाभावः । दुःखायां हि वेदनायां प्रतिघोऽनुशेते । सा चोपरि नास्तीति । द्वेषश्च रूक्षो वातव्याधिवत् । ते च सत्त्वाः शमथस्निग्धसंततय इति । विपाकाभावाच्च । अनिष्टो ह्यस्य विपाकः । तौ धातौ विगतानिष्टविपाकौ । आघातवस्त्वभावाच्च । न हि तत्र बाह्याः कुशक्षारकण्टकादयो नाध्यात्मिका तापापस्मारादयः संति । मैत्र्यादिकुशलमूलसंभूतत्वात्परिग्रहाभावाच्च । आकारप्रकारधातुभेदैरिति । आकारभेदो दशानामनुशयानां आत्मात्मीयध्रुवोच्छेदनास्तिहीनग्रदृष्टय इत्येवमादिकः । प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद्भावनाप्रहातव्य इति । धातुभेदः कामावचरः । रूपावचरः । आरूप्यावचर इति । तत्र रागानुशयः प्रकारधातुभेदाभ्यां पंचदशविध इति । तस्य परस्परमाकारभेदो नास्ति । सर्वो हि रागः सक्त्याकारः । तस्मान्नाकारभेदेन व्यवस्थाप्यते । प्रतिघानुशयः प्रकारभेदात्पंचविधः । न (अभिधर्मकोषव्याख्या ४४७) परस्परमाकारभेदोऽस्ति । सर्वस्य प्रतिघाकारत्वात् । धातुभेदोऽपि नास्ति । रूपारूप्यधात्वोस्तदभावात् । मानानुशयः प्रकारधातुभेदाभ्यां पंचदशविधः । नाकारभेदोऽस्ति । सर्वस्योन्नत्याकारत्वात् । तथा अविद्या पंचदशविधा । ताभ्याम् [तिब् । १०७ ] एव । नाकारभेदोऽस्ति । सर्वस्या असंप्रख्यानाकारत्वात् । विचिकित्सा द्वादशविधा । ताभ्यामेव । नाकारभेदः । सर्वस्याः संशयाकारत्वात् । दृष्ट्यनुशय आकारप्रकारधातुभेदैः षट्त्रिंशद्विधः । [एवमेते षडनुशया इति विस्तरः ।] (व् ।६) भवाग्रजाः क्षांतिवध्या इति । क्षांतिवध्यग्रहणं भावनाहेयनिवृत्त्यर्थं । भवाग्रजग्रहणं तदन्यभूमिकविशेषणार्थं । न हि लौकिकोऽस्ति भवाग्रप्रतिपक्षभूतो भावनामार्ग इति । शेषासु भूमिष्विति । कामधातौ यावदाकिंचन्यायतनभूमौ । यथायोगमिति । कामधातौ धर्मज्ञानक्षांतिहेयाः । तत ऊर्ध्वमवशिष्टासु भूमिष्वन्वयज्ञानक्षांतिहेयाः । त एते आर्याणां दर्शनहेयास्त एव च पृथग्जनानां भावनाहेयाः । द्विविधो हि भावनामार्गः । लौकिको लोकोत्तरश्च । तथा हि शास्त्र उक्तं । भगवतः श्रावको दर्शनेन जहाति । पृथग्जनो भावनया जहातीति । अक्षांतिवध्या भावनयैव त्व् इति । अक्षांतिवध्यग्रहणं भावनाहेयोपसंग्रहार्थं । सर्वासु भूमिषु । कामधातौ यावद्भवाग्रे । ये रागप्रतिघमानाविद्यानुशया यथायोगं भवंति अक्षांतिवध्या ज्ञानवध्याः । [तिब् । १०८ ] ते उभयेषामार्याणां पृथग्जनानां च नित्यं भावनाहेया एव । लौकिकेन लोकोत्तरेण वा भावनामार्गेण । भवाग्रे तु लोकोत्तरेणैव । ऊर्ध्वभूमिकस्य लौकिकस्य मार्गस्याभावात् । नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयंत इति । भावनाप्रहातव्या एव तेषां विष्कभ्यंते । दर्शनहेयास्तु सर्वास्वपि भूमिषु लोकोत्तरमार्गवध्या एव । तथा हि महाकर्मविभागसूत्रे । वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । इहानन्द एकत्यः प्राणातिपातात्प्रतिविरतो भवति । यावन्मिथ्यादृष्टेः । इहाचारतः प्रतिविरतः । कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनरकेषूपपद्यते । तमेवं यः पश्यति श्रमणो वा ब्राह्मणो वा बाह्यतीर्थिक ऋद्धिमान् दिव्यचक्षुः परचित्तवित् । तस्यैवं भवति । नास्ति कायसुचरितं नास्ति कायसुचरितस्य विपाकः । नास्ति वाङ्मनःसुचरितं । नास्ति वाङ्मनःसुचरितस्य विपाक (अभिधर्मकोषव्याख्या ४४८) इति विस्तरः । इयं मिथ्यादृष्टिः कामधात्वालंबना । तस्य कर्मणः कामावचरत्वात् । तत्रैव च नरकसंभवादिति । पूर्वांतकल्पकानां च शाश्वतवादिनां । [तिब् । १०८ ] ब्रह्मजालसूत्रे वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । पूर्वजन्मदर्शनानुसारेण य एवमुत्पन्नदृष्टिकाः । ते पूर्वांतकल्पकाः । शाश्वतवादिनो बहवस्तत्रोक्ताः । तेषामुदाह्रणमेकं दर्शयिष्यामः । इहैकत्यः श्रमणो वा ब्राह्मणो वारण्यगतो वा वृक्षमूल गतो वा शून्यागारगतो वा आतप्तान्वयात् । प्रहाणान्वयात् । भावनान्वयात् । बहुलीकारान्वयात्सम्यन्मनसिकारान्वयात् । तद्रूपं शांतं चेतःसमाधिं स्पृशति । यथा समाहिते चित्ते विंशतिं संवर्तविवर्तकल्पान् समनुस्मरति । तस्यैवं भवति । शाश्वतोऽयमात्मा लोकश्चेति । तदेवं सर्व एव एते पूर्वांतकल्पकाः शाश्वतवादिनः । अनया शाश्वतदृष्ट्यात्मानं लोकं चालंबमानाः कामधातुमप्यालंबंते । इत्येवं कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । तथा तस्मिन्नेव ब्रह्मजालसूत्रे पूर्वांतकल्पकानामेकत्यशाश्वतिकानां वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । कथं । भवति भिक्षवः स समयो यदयं लोकः संवर्तते । संवर्तमाने लोके यद्भूयसा सत्त्वा आभास्वरे देवनिकाय उपपद्यंते । ते तत्र भवंति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः [तिब् । १०९ ] स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाःब्प्रीत्याहारा दीर्घायुषा दीर्घमध्वानं तिष्ठंति । भवति भिक्षवः स समयो यदयं लोको विवर्तते । विवर्तमाने लोके आकाशे शून्यं ब्राह्मं विमानमभिनिर्वर्तते । अथान्यतरः सत्त्व आयुःक्षयात्पुण्यक्षयात्कर्मक्षयाताभास्वराद्देवनिकायाच्च्युत्वा शून्ये ब्राह्मे विमान उपपद्यते । स तत्रैकाक्यद्वितीयोऽनुपस्थायको दीर्घायुर्दीर्घमध्वानं तिष्ठति । अथ तस्य सत्त्वस्य दीर्घस्याध्वनोऽत्ययात्तृष्णोत्पन्ना अरतिः संजाता । अहो बतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभागतायां । एवं च तस्य सत्त्वस्य चेतःप्रणिधिः । अन्ये च सत्त्वा आयुःक्षयात्पुण्यक्षयात्कर्मक्षयाताभास्वराद्देवनिकायाच्च्युत्वा तस्य सत्त्वस्य सभागतायामुपपन्नः । अथ तस्य सत्त्वस्यैतदभवत् । अहमस्म्येकाक्यद्वितीयोऽनुपस्थायको दीर्घायुर्यावदन्येऽपि सत्त्वा इहोपपद्येरन्मम सभागतायाम् । एवं चेतःप्रणिधिः । इमे च सत्त्वा इहोपपन्ना मम सभागतायां । मयैते सत्त्वा निर्मिताः । अहमेषां सत्त्वानामीश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानामिति । तेषामपि सत्त्वानामेवं भवति । इमं वयं (अभिधर्मकोषव्याख्या ४४९) सत्त्वमद्राक्ष्म एकाकिनमद्वितीयम् [तिब् । १०९ ] अनुपस्थायकं दीर्घायुषं दीर्घमध्वानं तिष्ठंतं । तस्यास्य सत्त्वस्य दीर्घस्याध्वनोऽत्ययात्तृष्णोत्पन्ना अरतिः संजाता । अहो बतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभागतायाम् । एवं चास्य सत्त्वस्य चेतसःप्रणिधिः । वयं चेहोपपन्ना अस्य सत्त्वस्य सभागतायाम् । अनेन वयं सत्त्वेन निर्मिताः । एषोऽस्माकं सत्त्व ईश्वरो यावत्पितृभूतो भावानां । अथान्यतरः सत्त्व आयुःक्षयात्पुण्यक्षयात् । कर्मक्षयात्तस्मात्स्थानाच्च्युत्वा तेषामित्थंत्वमागच्छति मनुष्याणां सभागतायां । स वृद्धेरन्वयादिन्द्रियाणां परिपाकात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यग एव श्रद्धया अगारादनगारिकां प्रव्रज्यां प्रव्रजति । सोऽरण्यगतो वा वृक्षमूलगतो वा विस्तरेण यावत्तद्रूपं शांतं चेतःसमाधिं स्पृशति । यथा समाहिते चित्ते पूर्वकमात्मभावं समनुस्मरति । तस्यैवं भवति । योऽसौ ब्रह्मा येन वयं निर्मिताः । स नित्यो ध्रुवः शाश्वतः अविपरिणामधर्मा । ये तु वयं तेन ब्रह्मणा निर्मिताः । ते वयमनित्या अध्रुवा आशाश्वता विपरिणामधर्माण इति । तदेवं कामधातुरपि तयांतग्राहदृष्ट्यालंबितो भवति । अतः कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । [तिब् । ११० ] तथा तत्रैव ब्रह्मजालसूत्रे अहेतुसमुत्पत्तिकानां पूर्वान्तकल्पानामिति प्रकृतं । वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः । कथं । संति रूपधातावसंज्ञिसत्त्वा नाम देवाः । संज्ञोत्पादात्तेषां सत्त्वानां तस्मात्स्थानात्च्युतिर्भवति । अतोऽन्यतमः सत्त्वस्तस्मात्स्थानाच्च्युत्वा इत्थंत्वमागच्छति मनुष्याणां सभागतायां । पूर्ववद्यावत्पूर्वकमात्मभावं समनुस्मरति । तस्यैवं भवति । अहेतुसमुत्पन्न आत्मा लोकश्च । तदनेनैवमेव भवति । अहेतुसमुत्पन्न आत्मा लोकश्च । अहमस्मि पूर्वं नाभूवन् सोऽस्म्येतर्हि संभूत इत्यहेतुसमुत्पन्न आत्मा लोकश्च । इत्येवमात्मानं लोकं चालंबमानास्तया मिथ्यादृष्ट्या कामधातुमप्यालम्बन्त इत्येतेषां कामधात्वालंबानां दृष्टीनां समुदाचार उक्तः । कथं च पुनरेषामात्मा लोकश्चाहेतुसमुत्पन्न इत्येवं मिथ्यादृष्टिर्भवति । पूर्वकृतं कुशलसास्रवमकुशलं वा न हेतुरात्मनो लोकस्येत्येवमपवदति । इति कामधातुवीतरागाणां तेषां रूपावचर्यस्ता दृष्टयो भविष्यंतीति वचनावकाशं मत्वाह । न च रूपावचराणां क्लेशानां कामधातुरालंबनं वीतरागत्वाद्[तिब् । ११० ] इति । नैताः कामावचर्यो दृष्टयः । मिथ्याज्ञानानि पुनरेतानि । इति केचित्परिहरंति तदेषामयुक्तं । तद्दृष्टिरूपत्वात् । (अभिधर्मकोषव्याख्या ४५०) परिहीणाः [कथं तर्हि वीतरागाणां कामालंबनदृष्टिसमुदाचार इत्याह । दृष्ट्युत्पादेत्यादि ।] देवदत्त इवेति वैभाषिकाः । यथा देवदत्तो भगवतोऽल्पोत्सुकविहारिताशयस्य भिक्षुसंघपरिकर्षणाय पापकेच्छासमुत्पादादृद्धेः परिहीणः । सूत्रे वचनात् । एवं हि सूत्रे पठ्यते । अथ देवदत्तस्य लाभसत्कारेणाभिभूतस्य इदमेवंरूपं पापकमिच्छागतमुत्पन्नमहो बत मे भगवान् भिक्षुसंघं प्रतिनिःसृजेत् । अहं भिक्षुसंघं परिकर्षयं भगवानल्पोत्सुको विहरेत्दृष्टधर्मसुखविहारयोगमनुयुक्तः । सहचित्तोत्पादाद्देवदत्तस्तस्या ऋद्धेः परिहीण इति विस्तरः । एवं तेऽपि दृष्ट्युत्पादसमकालं परिहीणा इति । (व् ।७) एतत्पूर्वको हि तेष्वात्मग्राह इति । नित्यपिण्डसंज्ञापूर्वकः । सर्वैवेति । पंचप्रकारापि । सत्काय इति । पंचसूपादानस्कन्धेषु । सर्वैव हि विपरीतदृष्टिस्वभावप्रवृत्ता दृष्टिः मिथ्यादृष्टिः सत्कायदृष्ट्यादिका मिथ्योपनिध्यानात् । अन्यास्तु समारोपिका इति । कथमुच्छेददृष्टिः समारोपिका । बाहुलिक एष निर्देषः । आर्यः प्रहीणत्वादिति । त्यक्तत्वात् । ओहाक्त्याग इत्येतस्य धातोर्ग्रहणात् । आदिशब्दलोपः कृत इति । दृष्ट्यादीनामुपादानस्कंधानां परत्वेन प्रधानत्वेनामर्शो दृष्टिपरामर्श इति । परशब्दप्रयोगेण चायमतिशयार्थो [तिब् । १११ ] लभ्यत इत्याचार्यसंघभद्रः । अहेतौ हेतुदृष्टिरिति । दुःखदर्शनप्रहातव्य उच्यते । अमार्गे च मार्गदृष्टिरिति । मार्गदर्शनप्रहातव्यः । शीलव्रतमात्रकमिति । शीलव्रतमपि बौद्धानां मोक्षप्राप्तये भवति । न तु तन्मात्रकमित्यतस्तदन्येषां दृष्टिः । अत्रापि किल आदिशब्द इति । शीलव्रतादिपरामर्शः । शीलव्रतपरामर्शः । किं कारणं । शीलव्रतं हि रूपस्कंधसंगृहीतम् । अतोऽन्यस्कन्धग्रहणार्थमादिशब्द इति । (व् ।८) कस्मादयं न समुदयदर्शनप्रहातव्य इति । हेतौ विप्रतिपन्नत्वादित्यभिप्रायः । तत्कृतोऽपि कारणाभिनिवेश इति । नित्यैकात्मकर्तृग्राहकृतोऽपीत्यर्थः । तत एव प्रहीयत इति । दुःखदर्शनादेव प्रहीयते । यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति । शीलव्रतेन वा शुद्धिमिति । नायं तत्कृतः कारणाभिनिवेशः । कथं दुःखदर्शनात्प्रहीयते । तस्मात्समुदयदर्शनप्रहातव्यः एवायं भविष्यतीत्यभिप्रायाः । वैभाषिक आह । सोऽपि दुःखदर्शनप्रहातव्य इति विस्तरः दुःखे विप्रतिपन्नत्वादिति वैभाषिकाः । कथं च पुनर्दुःखे विप्रतिपन्नः । [तिब् । १११ ] तेन स्वर्गगमनाच्छुद्धिदर्शनाद्वा । अतिप्रसंग इति विस्तरेणाचार्यः । सर्वेषां सास्रवालंबनानामदृष्टिस्वभावानां च दुःखादिदर्शनप्रहातव्यानां (अभिधर्मकोषव्याख्या ४५१) दुःखे विप्रतिपन्नत्वात् । सर्वं हि सास्रवं वस्तु दुःखमिति दुःखदर्शनप्रहातव्यप्रसंगः । तथा च सति न कश्चित्समुदयादिदर्शनप्रहातव्यः स्यात् । इदं चापरं वक्तव्यं । कीदृशो वान्यः शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः स वक्तव्यः । योऽपि हि गोशीलादिना शुध्यति यावत्सुखदुःखव्यतिक्रमं चानुप्राप्नोतीति पश्यति । तस्याप्ययमकारणं कारणतः प्रत्येतीति दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्श इति पठ्येत । वैभाषिक आह । यो मार्गदर्शनप्रहातव्यालंबन इति । यो मार्गदर्शनहेयानष्टौ मिथ्यादृष्ट्यादीनालंबते । स मार्गदर्शनप्रहातव्यः शीलवतपरामर्श इति । सोऽपि हि नाम दुःखे विप्रतिपन्न इत्याचार्यः । मिथ्यादृष्ट्यादयो हि मार्गदर्शनप्रहातव्या अष्टावनुशयः शीलव्रतपरामर्शस्यालम्बनं । ते च सास्रवत्वाद्दुःखसत्यसंगृहीताः । तत्र च स विप्रतिपन्न इति । दुःखदर्शनप्रहातव्य एव स्याद्[तिब् । ११२ ] इत्यभिप्रायः । यस्य चेति विस्तरः । यस्य च पुद्गलस्य नास्ति मार्ग इति मार्गालंबना मिथ्यादृष्टिरस्ति विचिकित्सा वा । स पुद्गलो नास्ति मोक्षमार्ग इति पश्यन् । विचिकित्सन् वा । किमस्ति मार्गः । नास्तीति संदिह्यन् । कथं तया मिथ्यादृष्ट्या शुद्धिं प्रत्येष्यति प्रतिपत्स्यते एतया मिथ्यादृष्ट्या एतया वा विचिकित्सयेति । मिथ्यादृष्टिविचिकित्सायोगादेव हि तस्य शुद्धिप्रतिपत्तिर्नास्ति । अथान्यमिति विस्तरः । अथान्यं सांख्यादिपरिकल्पितं मोक्षमार्गं परामृश्य गृहीत्वा । एष मोक्षमार्गो बौद्धीयो नास्तीत्याह । सोऽपीति । तीर्थिकः । तेनैवान्येन सांख्यादिपरिकल्पितेन शुद्धिं प्रत्येति । न तया मिथ्यादृष्ट्येति कृत्वा । तस्याप्यसौ शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यालंबनो न सिध्यति । किं तर्हि । सांख्यादिपरिकल्पितमार्गालंबन एवेति अयं चान्यो दोषः । यश्चापीति विस्तरः । यश्चापि मिथ्यादृष्टिकः समुदयनिरोधदर्शनप्रहातव्यया मिथ्यादृष्ट्या शुद्धिं प्रत्येति । स कस्मान्न तद्दर्शनहेयः । स शीलव्रतपरामर्शः कस्मान्न समुदयनिरोधदर्शनहेय इत्यर्थः । तस्मात्परीक्ष्य एषोऽर्थ इति । यस्मादयं दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्शो न संभवति । मार्गदर्शनप्रहातव्यश्च । अतिप्रसंगादिदोषात्[तिब् । ११२ ] तस्मात्परीक्ष्य एषोऽर्थः । शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश्चेति । तदिदमाचार्येण संशयावद्यं कृतं । न स्वमतं दर्शितं । अन्य आहुर्योगाचारमतिमपेक्ष्यैवं कृतं । योगाचारा ह्यष्टाविंशत्युत्तरं क्लेशशतं वर्णयंति । यथैव हि दुःखदर्शनप्रहातव्या इमे दशानुशया भवंति । सत्कायदृष्टिः । अंतग्राहदृष्टिः । मिथ्यादृष्टिः । दृष्टिपरामर्शः । (अभिधर्मकोषव्याख्या ४५२) शीलव्रतपरामर्शः । विचिकित्सा । रागः । प्रतिघः । मानः । अविद्या चेति । तथैवेमे दश समुदयदर्शनप्रहातव्याः । तथैव च दश निरोधदर्शनप्रहातव्याः । दश मार्गदर्शनप्रहातव्या इति । चत्वारिंशत्कामावचरा दर्शनहेया भवंति । भावनाहेयास्तु षट् । अकल्पिका सत्कायदृष्टिः । उच्छेददृष्टिः । सहजो रागः । प्रतिघः । मानः । अविद्या चेति । षट्चत्वारिंशत्कामवाचरा अनुशया भवंति । रूपावचरास्त्वेकचत्वारिंशदेत एव प्रतिघवर्ज्याः । यथा रूपावचराः । एवमारूप्यावचरा इति । अत्र कश्चित्समाधिमाह । यदुक्तमतिप्रसंगः सर्वेषां सास्रवालंबनानां दुःखे विप्रतिपन्नत्वादिति । अत्र ब्रूमः नातिप्रसंगः । दुःखादिमुखेन विप्रतिपत्तेः । यद्यपि सास्रवालंबना [तिब् । ११३ ] दुःखसत्यविप्रतिपन्नाः । तथापि तु केचिद्दुःखमुखेन विप्रतिपन्नाः । केचित्समुदयमुखेन । केचिन्निरोधविप्रतिपन्नविप्रतिपन्नाः । केचिन्मार्गविप्रतिपन्नविप्रतिपन्नाः । तत्र ये दुःखमुखेन दुःखे विप्रतिपन्नाः । ते दुःखदर्शनप्रहातव्याः । शीलव्रतपरामर्शश्च दुःखमुखेन दुःखे विप्रतिपन्नो नित्यात्मग्रहणात् । तस्माद्दुःखदर्शनप्रहातव्यः । यस्तु मार्गविप्रतिपन्नविप्रतिपन्नः । तद्यथा सांख्यनिर्ग्रंथादयः स्वपरिकल्पितं मार्गं गृहीत्वा नास्ति बौद्धानां मोक्षमार्ग इति मिथ्यादृष्टिमुत्पादयंति । तां च मिथ्यादृष्टिं शीलव्रतपरामर्शोऽग्रतः पश्यति । अयमेषां शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः । मार्गविप्रतिपन्नविप्रतिपन्नत्वात् । नास्ति तु स शीलव्रतपरामर्शः यः समुदयमुखेन विप्रतिपद्येत । नापि यो निरोधमुखेन विप्रतिपन्नविप्रतिपन्नः स्यात् । तस्माद्दुःखमार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्श इति । कथं पुनः समुदयनिरोधमुखेन न विप्रतिपद्यते । अत्राचार्यसंघभद्र आह । [तिब् । ११३ ] शूलव्रतपरामर्शः समुदयनिरोधदर्शनप्रहातव्यः । तच्छरीरानुपपत्तेः । अकारणे हि कारणभिनिवेशः । अमार्गे च मार्गाभिनिवेशेः । शीलव्रतपरामर्शशरीरं । समुदयापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशे नन्वाकस्मिकाज्जन्मदर्शनमस्य स्यात् । क्वचिदपि कारणबुद्ध्यभावात् । दुःखसमुदययोर्हि द्रव्यतोऽव्यतिरेकात् । ईश्वरादिस्कन्धा अपि तेनापोदिताः स्युः । निरोधापवादिकायां तु मिथ्यादृष्टौ शुद्धिप्रत्यागमनान्निरोधोपायकल्पनैव न संभवति । कथं नास्ति निरोध इति तद्दर्शनपृष्ठेन तदुपायकल्पना व्यर्था भवेत् । एवं च शीलव्रतपरामर्शशरीरानुपपत्तिः । मार्गदर्शनप्रहातव्योऽपि शीलव्रतपरामर्श एवं न संभवेत् । नास्ति (अभिधर्मकोषव्याख्या ४५३) मार्ग इति दर्शनपृष्ठेन मार्गपरिकल्पनानुपपत्तेः । यस्य हि मार्गालंबना मिथ्यादृष्टिर्विचिकित्सा वास्ति । स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यतीति । उपपद्यत एवस्यार्यमार्गापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशः । न्यायतस्तत्ग्रहणात् । अन्या हि तेन मोक्षमार्गो हृदि निवेशितो भवति । यतोऽस्य सद्भूतमार्गापवादिकायां मिथ्यादृष्टौ न्यायबुद्धिरुत्पद्यते । एष न्यायो यदन्यो मोक्षमार्गो नास्ति । यच्च स्यान्न वेत्यन्यं मोक्षमार्गं विचिकित्सतीति । न्यायतो हि शुद्ध्युपायग्रहणमुपपद्यते । यश्चासावन्यो मोक्षमार्गस्तेन हृदि निवेशितः । [तिब् । ११४ ] स नैव तस्य मार्गदर्शनहेयस्य शीलव्रतपरामर्शस्य विषयः । स्वनैकायिकमात्रालंबनतवात् । अथ मतं निरोधदर्शनहेयोऽपि प्रयुज्यते । तत्कल्पनासामर्थ्यात् । अन्यद्धि तेन मोक्षस्थानं हृदि निवेशितं भवति । यतोऽस्य सद्भूतमोक्षापवादिकायां मिथ्यादृष्टौ न्यायतो ग्रहणं । अतः समानमेतदिति । तन्न । नित्यशांतग्रहणसामान्येन तदपवादे शुद्ध्यभिनिवेशानुपपत्तेः । द्रव्याद्रव्यसंप्रतिपत्तिभेदे हि कश्चिन्मोक्षोपायमन्वेषते । ध्रुवं तस्यास्ति मोक्ष इति निश्चयः । यस्य चास्ति मोक्षनिश्चयो ध्रुवं । तस्य तत्र नित्यशांतग्रहणम् । अन्यथा तत्र प्रार्थनानुपपत्तेः । तत्र यथेहधार्मिकाणां निवाणे द्रव्याद्रव्यसंप्रतिपत्तिभेदोऽपि नित्यशांतग्रहणसामान्यात्तदपवादे दोषो दर्शनमेव । येनपि किंचिन्मोक्षस्थानं हृदि निवेशितं स्यात् । तस्यापि नित्यशांतग्रहणसामान्यान्मोक्षापवादे न्यायग्रहणमुपपद्यते । भिन्ना हि शीलव्रतादयः स्वभावतश्चाकारतश्चार्यमार्गात् । नास्ति तु नित्यशांतग्रहणभेद इति । नास्ति कल्पनासामान्यं । अतो मार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्शः संभवति । न निरोधदर्शनप्रहातव्य इति । इह [तिब् । ११४ ] सीलव्रतपरामर्शो द्विप्रकार इष्यते आभिधर्मिकैः । तत्र कीदृशः शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यो व्यवस्थाप्यते । कीदृओ मार्गदर्शनप्रहातव्यः । योऽपिहि गोशीलादिना शुद्भिं प्रत्येति । सोऽप्यमार्गे मार्गं पशतीति । यः शीलव्रतादिदुःखालंबनः शीलव्रतपरामर्शः । स दुःखदर्शनप्रहातव्यः । यो मार्गविप्रतिपत्त्यालंबनः । स मार्गदर्शनप्रहातव्यः । यः शीलव्रताद्यालंबनः । स न मार्गविप्रतिपत्तिः । तथा न बाधते । यथा मार्गविप्रतिपत्त्यालंबनः । यस्माच्छीलव्रताद्यालंबन औदारिकः । न दूरगतः न दृढाशयः अल्पयत्नघात्यः । तद्विपर्ययान्मार्गविप्रतिपत्त्यालंबन इति । (व् ।९) दृष्टित्रयाद्विपर्यासचतुष्कम् इति । दृष्टित्रयस्वभावा विपर्यासा इति दर्शयति । सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यास (अभिधर्मकोषव्याख्या ४५४) इति । नात्मीयदृष्टिरित्यभिप्रायः । सकलेत्यपर इति । सकला सत्कायदृष्टिः आत्मदृष्टिरात्मीयदृष्टिश्चात्मविपर्यास इत्यर्थः । वैभाषिक आह । कथमात्मीयदृष्टिर्विपर्यास इति । न ह्यात्मीयविपर्यास इत्युच्यते । कथं च न भवितव्यमिति परः । विपर्याससूत्रादिति वैभाषिकः । [तिब् । ११५ ] अनात्मनि आत्मेति विपर्यास इति सूत्रवचनात् । न पुनरात्मीय इति । अस्त्येवं सूत्रनिर्देशः । न पुनरसावात्मदृष्टेरर्थांतरभूता । कथं कृत्वा । आत्मानमेव तत्र पंचोपादानस्कंधेषु वाशिनं पश्यन्नात्मीयं पश्यतीति । न केवलमात्मानं पश्यत्यात्मीयमपि पश्यतीत्यर्थः । आत्मदृष्टिरेवासौ द्विमुखीति । आत्मात्मीयमुखी एका द्रव्यतोऽस्तीति अहंकारममकारमुखद्वयवतीत्यर्थः । अथाहमित्येतस्मात्प्रथमनिर्दिष्टान्ममेति षाष्ठीनिर्दिष्टं दृष्ट्यंतरं स्यात् । मया मह्यमित्येतदपि स्यात् । दृष्ट्यंतरमिति प्रकृतं । मयेति तृतीयानिर्देशान्मह्यमित्य्च चतुर्थीनिर्देशात् । अनिष्टं चैतत् । तस्मात्सकलेति सिद्धं । कस्मादन्ये क्लेशा न विपर्यासा इति । सत्कायदृष्ट्यंतग्राहदृष्टिपरामर्शेभ्योऽन्ये उच्छेदमिथ्यादृष्टिशीलव्रतपरामर्शरागादयः । त्रिभिः कारणैरिति । विपरीतनितीरणसमारोपैर् विपर्यासानां व्यवस्थानं । यत्रैतानि समस्तानि कारणानि संति । ते विपर्यासाः स्थापिताः । यत्र तु न समस्तानि । ते न विपर्यासा इत्युक्तं भवति । तन्मात्रशुद्ध्यालंबनाद्[तिब् । ११५ ] इति । यस्माच्छीलव्रतमात्रेण शुद्धिरित्यालंबते नितीरयति । तस्मान्नैकान्तविपर्यस्तः शीलव्रतपरामर्शः । न हि शीलव्रतं शुद्धिकारणं न भवति । केवलं तु न भवतीति । कथमस्य समारोपकत्वं । तन्मात्रेण शुद्धिकारणभावसमारोपात् । यद्यसंतीरको न विपर्यासः यत्तर्हि सूत्र उक्तं । तत्कथं । न हि संज्ञा संतीरिका नापि चित्तं । द्वादश विपर्यासा इति । चतुर्षु विपर्यासेषु प्रत्येकं संज्ञाचित्तदृष्टिविपर्यासा इति । कथमित्युच्यते । अनित्ये नित्यमिति विस्तरः एवं यावदनात्मन्यात्मेति । दुःखे सुखमिति संज्ञादृष्टचित्तविपर्यासास्त्रयः । अशुचौ शुचीत्येत एव त्रयः । यावदनात्मन्यात्मेति एत एव त्रय इति । तत्राष्टौ दर्शनप्रहातव्या इति । अनित्ये नित्यमिति संज्ञाचित्तदृष्टिविपर्यासास्त्रयः । अनात्मन्यात्मेति पुनस्त्रयः । दुःखे सुखमिति दृष्टिविपर्यासः । अशुचौ शुचीति दृष्टिविपर्यास इति । चत्वारो भावनाप्रहातव्याः । कतम इत्याह । दःखे च (अभिधर्मकोषव्याख्या ४५५) संज्ञाचित्तविपर्यासावशुचौ चेति । दुःखे सुखमिति संज्ञाचित्तविपर्यासौ द्वौ । अशुचौ शुचीति संज्ञाचित्तविपर्यासावपरौ द्वाविति चत्वारः । अवीतरागस्यार्यस्येति । [तिब् । ११६ ] स्रोतआपन्नस्य सकृदागामिनश्च । तद्विपर्यासावपीति । सत्त्वसंज्ञासमुदाचारात्सत्त्वचित्तसमुदाचाराच्च । तद्विपर्यासावपि किं नेष्येते । सत्त्वालंबनसंज्ञाचित्तविपर्यासावपि किं नेष्येते । आत्मविपर्यासावपि किं नेष्येते इत्यभिप्रायः । किं कारणमित्याहुः । न हि स्त्रियामात्मनि च विना सत्त्वसांज्ञया कामरागो युक्त इति । तस्मादेतावप्यनात्मन्यात्मेति संज्ञाचित्तविपर्यासौ भावनाप्रहातव्याविति प्राप्तं । विस्तर इति वचनादेवं नेयं । दुःखे सुखमिति अशुचौ शुचीति यावदनात्मन्यात्मेति संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासः प्रहीयत इति । तास्माद्दृष्टिसमुत्थे एव दृष्टिसंप्रयुक्ते एव संज्ञाचित्ते विपर्यासौ नान्ये । नादृष्टिसंप्रयुक्ते इत्यर्थः । एतदुक्तं भवति । अस्त्यसौ संज्ञाचित्तविभ्रमः । न तु विपर्यासः । यस्मादसौ दृष्टिसमुत्थो न भवति । कस्मादित्याह । तत्कालभ्रांतिमात्रत्वादिति । स्त्रीदर्शनकाले भ्रांतिमात्रत्वादित्यभिप्रायः । यस्मात्तत्कालमेव दर्शनकालमेवार्याणां भ्रांतिः । तथा मिथ्याज्ञानं भवति । अलातचक्रचित्रयक्षभ्रांतिवत् । [तिब् । ११६ ] यथा अलात आशु भ्रम्यमाणे तत्कालमात्रं चक्रमिति भ्रांतिरुत्पद्यते । न पश्चात् । चित्रलिखितं च यक्षं दृष्ट्वा तत्कालं भ्रांतिरुत्पद्यते यक्ष इति । तद्वत् । आर्यस्यात्र परिध्यानान्मुहूर्तं सुखशुचिभ्रांतिः सत्त्वभ्रांतिर्वा । न त्वसौ विपर्यासः । उक्तं हि भगवता धन्धाः खलु भिक्षवः श्रुतवत आर्यश्रावकस्य स्मृतिसंप्रमोषा उत्पद्यंते । अथ च पुनः क्षिप्रमेवास्तं परिक्षयं पर्यादानं गच्छंतीति । यद्यसौ संज्ञाचित्तभ्रमो न विपर्यासो यत्तर्हि स्थविरानन्देनेति विस्तरः । आर्येण वागीशेन स्थविरानन्द उक्तः । कामरागाभिभूतत्वाच्चित्तं मे परिदह्यते । अंग मे गौतम ब्रूहि शांतित्वमनुकम्पयेति । आर्यानन्दस्तं प्रत्याह । विपर्यासेन संज्ञानां चित्तं ते परिदह्यते निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् इति । स हि स्रोतआपन्नः । तस्य चानया गाथया विपर्यासास्तित्वं परिदीपितमिति । तस्मादिति विस्तरः । यस्मान्निकायांतरीयमतं वैभाषिकैरागमेन विरुध्यते । वैभाषिकमतं च निकायांतरीयैः । तस्मात्सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः (अभिधर्मकोषव्याख्या ४५६) शैक्षस्याप्रहीणा इत्यपरे । केचित्तृतीयपाक्षिकाः । सूत्रविरोधं च परिहरंति । कतरस्य सूत्रस्य । यदिदं वैभाषिकैः सूत्रम् [तिब् । ११७ ] आनीतं । यश्च श्रुतवानार्यश्रावक इति विस्तरेण यावत्प्रहीयत इति । तेऽपि चार्यसत्यानामिति विस्तरः । तेऽपि चाष्टौ संज्ञाचित्तविपर्यासा आर्यसत्यानां दुःखादीनां यथाभूतज्ञानात्प्रहीयंते । न विना तेन यथाभूतज्ञानेन । इत्युपायसमाख्यानादुपायप्रवर्तनान्नास्ति तस्य सूत्रस्य विरोधः । यदिदमुक्तमिदं दुःखमार्यसत्यमयं दुःखसमुदयोऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । तन्न दर्शनमार्गमेवाधिकृत्य । किं तर्हि । भावनामार्गमपीति । भावनामार्गोऽपि ह्यनास्रवश्चतुरार्यसत्यालंबन एवेति । (व् ।१०) प्रवृत्तिभेदादिति । आकारभेदादित्यर्थः । अप्राप्ते विशेषाधिगम इति । समाधिसंनिश्रिताः सास्रवाश्चानास्रवाश्च धर्मा विशेषास्तस्याधिगमः साक्षात्करणं विशेषाधिगमः । तस्मिन्नप्राप्ते असंमुखीकृते । स विशेषाधिगमः प्राप्तो मयेत्यभिमानः । अगुणवतो गुणवानहमिति । अगुणान्वितस्य गुणवानहमस्मीति विपरीतविषयो मानो मिथ्यामानः । मिथ्यामानाभिमानयोः कः प्रतिविशेषः । [तिब् । ११७ ] प्रतिलब्धविशेषाधिगमप्रतिरूपकगुणस्याभिप्राय इति सवस्तुकोऽभिमानः । मिथ्यामानस्तु निर्गुणस्य सतो गुणवानहमस्मीति निर्वस्तुकः । मानविधा इति । मानप्रकाराः । सदृशो हीनोऽस्तीति मानविधा सडृशोऽस्मीति मानविधा हीनोऽस्मीति मानविधेति वक्तव्यं । दृष्टिसंनिश्रितास्त्रय इति । पृथग्जनमधिकृत्य दृष्टिसंनिश्रिता इत्युच्यंते । आत्मदृष्टिः पूर्वमहमिति । पश्चादनंतरमिमे मानाः । अतिमानमानोनमाना यथाक्रममेते भवंति । कथं श्रेयानहमस्मीति मानविधा दृष्टिसंनिश्रितोऽतिमानः ।ऽसदृशोऽस्मीति मानविधा दृष्टिसंनिश्रितो मानः हीनोऽस्मीति मानविधा दृष्टिसंनिश्रित ऊनमानः । द्वितीयं त्रयमेतत्प्रातिलौम्येन यथाक्रमं नेयं । अस्ति मे श्रेयानस्ति मे सदृशः अस्ति मे हीन इति दृष्टिसंनिश्रिता ऊनमानमानातिमानाः । तृतीयं नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन इति । यथाक्रमं दृष्टिसंनिश्रिता मानातिमानोनमानाः । प्राकरणं तु निर्देशं परिगृह्येति । प्रकरणपादनिर्देशः । कोऽसौ । योऽसौ पूर्वमुक्तः । हीनाद्विशिष्टोऽस्मि [तिब् । ११८ ] समेन वेत्यादिनिर्देशः । श्रेयानस्मीति मानोऽपि स्याथीनापेक्षया । हीनाद्विशिष्टोऽस्मि समेन वेति मानलक्षणनिर्देशात् । अतिमानोऽप्ययं स्यात्समापेक्षया । समाद्विशिष्टोऽस्मीत्यतिमानलक्षणनिर्देशात् । मानातिमानोऽप्ययं स्यात्विसिष्टापेक्षया । विशिष्टाद्(अभिधर्मकोषव्याख्या ४५७) विशिष्टोऽस्मीति मानातिमानलक्षणनिर्देशात् । सर्व इति ग्रहणमस्मिमानोऽपि भावनाप्रहातव्यः । न केवलं शेषाः । शेषा अपि दर्शनप्रहातव्याः । न केवलमस्मिमान इति प्रदर्शानार्थं । नावश्यमिति । प्रहीणं न समुदाचरतीति नियमः । तथा हि श्रद्धादिमिद्धदुःखेन्द्रियचक्षुरादयः प्रहीणा अपि संुदाचरंति । दर्शनहेयानामन्तर्मुखत्वात् । भावनाहेयालंबनैव रागद्वेषमोहैर्विज्ञप्तिरुत्थाप्यत इति । भावनाहेयमेव वधादिपर्यवस्थानं । वधादिपर्यवस्थानम् इति । आदिशब्देनादत्तादानकाममिथ्याचारमृषावादग्रहणं । तद्भावनाहेयं भावनाहेयधर्मालंबनत्वादिति । भावनाहेया वधादिकसत्त्वादयः एव धर्मा अस्यालंबनमिति कृत्वा । सत्कायदृष्ट्यादयोऽपि हि यद्यपि भावनाहेयान् धर्मानालंबंते न तु केवलं भावनाहेया इत्यतो न ते भावनाहेयाः । तत्र प्रार्थनेति । तत्र त्रैधातुक्यामनित्यतायां प्रार्थना । किं तत्रापि प्रार्थना भवति । [तिब् । ११८ ] भवतीत्याह । यथोक्तं सूत्रे । यावदयमात्मा जीवति तिष्ठति ध्रियते यापयति । तावत्सरोगः सगण्डः सशल्यः सज्वरः सपरिदाहकः । यतश्चायमात्मा उच्छिद्यते विनश्यति न भवति । इयतायमात्मा सम्यक्समुच्छिन्नो भवतीति । भवतृष्णायाः प्रदेशो गृह्यत इति । अहो बताहमैरावणो नागराजः स्यामित्येवमादिका भवतृष्णा न समुदाचरति । आदिशब्देन कुवेरः स्यां स्त्री स्यामित्येवमादिका गृह्यते । प्रादेशग्रहणादिन्द्रः स्यामित्येवमादिका समुदाचरतीति दर्शितं भवति । (व् ।११) मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमिति । दृग्भावनाक्षया इति वचनात् । न चार्यस्य संभवंति विधादयो नास्मितेति । पूर्वं भावनाहेयपरिग्रहणं कृतं । दृग्भावनाक्षयाः वधादिपर्यवस्थानं हेयं भावनया तथा विभवेच्छा इत्यनेन ग्रन्थेन । संप्रति तेषां विधादीनामार्यस्यासमुदाचार उच्यते । न चार्यस्य संभवंति विधादयो नास्मितेति । (अभिधर्मकोषव्याख्या ४५८) आदिग्रहणेन यावद्भवतृष्णाया ग्रहणमिति । वधादिपर्यवस्थानस्य विभवतृष्णायाः प्रदेशस्य भवतृष्णायाश्च ग्रहणमित्यर्थः । न संभवंति न समुदाचरंति । दृष्टिपुष्टत्वाद् इति । तत्पूर्वकत्वेन तदुपबृंहितत्वात् । वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टं तदभ्यासेन कर्मफलापवादित्वात् । भग्नपृष्ठत्वात्तत्पोषकाभावेन भगन्पृष्ठत्वाद्[तिब् । ११९ ] इत्यर्थः । कौकृत्यं भावनाप्रहातव्यं । भावनाहेयधर्मालंबनत्वात् । (व् ।१२, १३) सर्वत्रगा इति । सर्वत्र गच्छंतीति सर्वत्रगाः । पंचापि निकायानालंबंत इत्यर्थः । पंचानामपि निकायानां हेतुभावेनावतिष्ठन्त इत्यपरे । वक्ष्यति हि एषां प्रभावेनान्यनैकायिका अपि क्लेशा उपजायंत इति । एकादशानुशया इति विस्तरः । सप्त दृष्टयो दुःखदर्शनप्रहातव्याः सत्कायदृष्ट्यादयः पंच । समुदयदर्शनप्रहातव्ये द्वे दृष्टी मिथ्यादृष्टिपरामर्शदृष्टी इति सप्त । द्वे विचिकित्से दुःखसमुदयदर्शनप्रहातव्ये । द्वे अविद्ये दुःखसमुदयदर्शनप्रहातव्ये एव । एकदेशतो न साकल्यतः । ये ह्यविद्ये एतत्सर्वत्रगसंप्रयुक्ते । आवेणिक्यौ च । ते एव सर्वत्रगे भवतो न रागादिसंप्रयुक्ते । इत्येवमेकादशानुशयाः सर्वत्रगाः । नवानुशयाः साकल्यतः । द्वावेकदेशत इति कृत्वा । धातुभेदेन तु त्रयस्त्रिंशत् । आवेणिकीति कोऽर्थः । एवमाहुः । संपर्को वेणिरित्युच्यते न वेणिरवेणिः । पृथग्भाव इत्यर्थः । एवं ह्युक्तमवेणिर्भगवानवेणिर्भिक्षुसंघ [तिब् । ११९ ] इति । पृथग्भगवान् पृथग्भिक्षुसंघ इत्यभिप्रायः । अवेण्या चरत्यावेणिकी । नान्यानुशयसहचारिणीत्यर्थः । सकलस्वधात्वालंबनत्वादिति । यस्मादेते सकलं स्वधातुमालंबंते । तस्मात्सर्वत्रगा इत्युच्यंते । कः सकलेनेति विस्तरः । कः सकलेन कामधातुना शुद्धिं प्रत्येति । अकारणं वा कारणतः सकलं कामधातुं प्रत्येतीत्यधिकृतं । तस्माच्छीलव्रतपरामर्शो न सर्वत्रग इत्यभिप्रायः । नोच्यते सकलं निरवशेषमनेकं भेदभिन्नं स्वधातुं युगपदालंबंते । अपि तु पंचप्रकारमपि सर्वयुगपदालंबंते । दुःखदर्शनप्रहातव्यं यावद्भावनाप्रहातव्यमिति । प्रकारसर्वतायां सर्वशब्दोऽयं द्रष्टव्य इत्येष वैभाषिकाणां परिहारः । यात्रात्मदृष्टिरिति । पंचसूपादानस्कन्धेषु । तत्रात्मतृष्णा तेषामात्माभिनिवेशवस्तुत्वात् । यत्राग्रशुद्धिदृष्टी । यत्र वस्तुनि पंचोपादानस्कंधलकषणेऽग्रदृष्टिर्दृष्टिपरामर्शः । शुद्धिदृष्टिश्च शीलव्रतपरामर्शः । तत्र प्रार्थना तृष्णालक्षणा । तत्र तत्प्रार्थनेति केचित्पठंति । तत्र वस्तुनि तस्य (अभिधर्मकोषव्याख्या ४५९) पुद्गलस्य प्रार्थना तत्प्रार्थनेत्यर्थः । तेन च मान इति । तेन च वस्तुना मानः । तद्द्वारेणोन्नतिरित्यर्थः । एवं सतीति । एवं तृष्णामानयोः सर्वत्रगत्वे सति । [तिब् । १२० ] सत्कायदृष्ट्यादिवद्दर्शनभावनाहेयालंबनत्वातेतदुभयं तृष्णामानलक्षणं किं प्रहातव्यं केन प्रहातव्यं । किं दर्शनप्रहातव्यमुताहो भावनयेति । ये यद्दर्शनहेयालंबनाः । ते तद्दर्शनहेया इति नियमं मनसिकृत्वा पृच्छति । अन्यथा हि सत्कायदृष्ट्यादिवदेवैतदुभयं दर्शनप्रहातव्यमेव स्यादिति किमत्र प्रष्टव्यं स्यात् । न हि सत्कायदृष्ट्यादयो न दर्शनभावनाहेयालंबनाः । न च ते न दर्शनहेया भवंतीति । अत्राचार्यः समाधिमाह । भावनाप्रहातव्यं व्यामिश्रालंबनत्वादिति । यदि तृष्णामानौ दर्शनप्रहातव्यालंबनावेव स्यातां दर्शनप्रहातव्यौ । न तु एवम् । अतो व्यामिश्रालंबनत्वाद्भावनाप्रहातव्यौ । अवशिष्टा भावनहेया इति लक्षणनियमात् । अथ वेति । स एवाचार्यः परावृत्य पुनर्ब्रवीति । पुनरस्तु दर्शनप्रहातव्यमिति । किम् । एतदुभयमिति वर्तते । कस्मादित्याह । दृष्टिबलाधानवर्तित्वादिति । दृष्टेर्बलाधानं सामर्थ्यं । दृष्टिबलाधानेन वर्तितुं शीलमस्येति दृष्टिबलाधानवर्ति तदुभयं । तद्भावः । तस्मात् । तदुभयं [तिब् । १२० ] दर्शनप्रहातव्यमस्त्विति । वैभाषिक इदानीं स्वपक्षं स्थापयति । स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ भवतः । तस्मान्न सर्वत्रगाविति । यत्रात्मदृष्टिः । तत्र तृष्णामानौ । न तु युगपत्सर्वस्मिन् । स्वलक्षणक्लेशत्वात् । एकदेशालंबनौ हि तौ । तस्मान्न सर्वत्रगौ । न चेत्सर्वत्रगौ । तेन यौ यद्दर्शनहेयालंबनौ । तौ तद्दर्शनहेयौ । परिशिष्टौ भावनाहेयाविति सिद्धं । कदाचित्विसभागमेदं धातुमालंबते । कदाचिद्द्वाविति । कदाचित्त्रीं धातूनिति नोक्तमेतत् । कामधातुस्थास्तु कदाचिद्विसभागमेकरूपधातुमारूप्यधातुण्वालंबंते । कदाचिद्रूपारूप्यौ द्वाविति । आत्मात्मीयत्वेनाग्रहणादिति । यस्मात्तं ब्रह्माणमात्मत्वेनात्मीयत्वेन न गृह्णाति । अतः सत्कायदृष्टिर्न भवति ब्रह्मणि सत्त्वदृष्टिः । यस्माच्चान्तग्राहदृष्टिः सत्कायदृष्टिसमुत्थिता । अतो नित्यदृष्टिरपि तस्मिन् ब्रह्मणि नांतग्राहदृष्टिरिति । का तर्हीयं दृष्टिरिति । येयं ब्रह्मणि सत्त्वदृष्टिः । नित्यदृष्टिश्च । नेयं दृष्टिः मिथ्याज्ञानं पुनरेतदिति । विपरीतालंबनत्वान्मिथ्याज्ञानमेतत् । न हि सर्वा विपरीतालंबना प्रज्ञा दृष्टिरिष्यते । अनात्मन्येवात्मेति विपरीता [तिब् । १२१ ] प्रज्ञा सत्कायदृष्टिरिष्यते । तत्समुत्थापिता (अभिधर्मकोषव्याख्या ४६०) च नित्यदृष्टिरंतग्राहदृष्टिः । नान्या । यैव ह्यहंकारस्य संनिश्रयीभवति । सैव सत्कायदृष्टिः । महाब्रह्मणि च सत्त्वदृष्टिरहमित्यहंकारस्य न संनिश्रयीभवति । तेनोक्तमात्मात्मीयत्वेनाग्रहणादिति । प्राप्तिवर्ज्याः सहभुव इति । वेदनादयः । प्राप्तयस्तु नैवमनेकफलत्वादिति । अनेकफलविपाकनिष्यन्दा हि प्राप्तयः प्राप्तिमतेत्युक्तं । अतो न सर्वत्रगधर्मप्राप्तयः सर्वत्रगा व्यवस्थाप्यंते । अत एवेति । यस्मात्सहभुवोऽपि सर्वत्रगा अवस्थाप्यंते । तस्माच्चतुष्कोटिकं क्रियते । प्रथमा कोटिरनागताः सर्वत्रगा अनुशया इति । एते सर्वत्रगस्य स्वाभाव्यात् । न सर्वत्वगहेतुरनागतावस्थायां सर्वत्रगहेतोरनवस्थापनात् । द्वितीया अतीतप्रत्युत्पन्नास्तत्सहभुवः । सर्वत्रगसहभुवोऽतीतप्रत्युत्पन्नत्वात्सर्वत्रगहेतुर्भवंति । न सर्वत्रगा अनुशयाः अननुशयस्वभावत्वात् । तृतीयचतुष्ठ्यौ योज्ये । तृतीयातीतप्रत्युत्पन्नाः सर्वत्रगा अनुशयाः । चतुर्थी तानाकारान् स्थापयित्वा । तद्यथा अनागतास्तत्सहभुवः [तिब् । १२१ ] प्राप्त्यादयश्च । (व् ।१४-१६) षडनास्रवगोचरा इति । षडेवेत्यवधारणं । तस्मान्न रागादयोऽनास्रवालंबना युज्यन्ते । न रागस्तस्य वर्ज्यत्वान्न द्वेषोऽनपकारत इत्यादिवचनात् । अविद्या च ताभ्यामिति । मिथ्यादृष्टिविचिकित्साभ्यां या संप्रयुक्ता । या चावेणिक्यविद्या । स एकोऽविद्यानुशय इति । त्रयो निरोधदर्शनप्रघातव्या अनास्रवालंबनाः । एवं मार्गदर्शनप्रहातव्या अप्येत एव त्रय इति षड्भूमौभूमौ भवंति । तद्गोचराणां विषय इति । तौ निरोधमार्गौ । गोचर एषामिति तद्गोचराः । तेषां । यथाक्रमं त्रयाणां । स्वभूम्युपरमः स्वभूमिनिरोधः गोचर आलंबनं । मार्गस् तु धर्मज्ञानपक्ष्यः षड्भूमिकोऽन्वयज्ञानपक्ष्यो नवभूमिको मार्गगोचराणामपरेषां त्रयाणामनुशयानामालंबनं । कथं कृत्वा । निरोधालंबना एते त्रयानुशया नवभूमिका भवंति । कामावचरा यावद्भावाग्रिकाः । तेषां कामावचराणां कामावचरधर्मनिरोध एवालंबनं । प्रथमध्यानभूमिकानां प्रथमध्यानभूमिकधर्मनिरोध एवालंबनं । तेषां यावद्भवाग्रभूमिकानां भवाग्रभूमिकधर्मनिरोध (अभिधर्मकोषव्याख्या ४६१) एवालंबनं । मार्गस्तु धर्मज्ञानपक्ष्यः [तिब् । १२२ ] षड्भूमिकः । अनागम्यध्यानांतरभूमिकश्चतुर्ध्यानभूमिकश्च । स सर्व एव कामावचराणामेषां त्रयाणामनुशयानामालंबनं । अन्वयज्ञानपक्ष्यः पुनर्नवभूमिकः । अनागम्यध्यानांतरचतुर्ध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः । स सर्व एव प्रथमध्यानभूमिकानामेषां त्रयाणामनुशयानामालंबनम् । एवं यावद्भवाग्रभूमिकानामिति । कस्मात्पुनः स्वभूमिनिरोध एव तद्गोचरालम्बनं । मार्गस्तु षड्भूमिकोऽपि नवभूमिकोऽपि वा तेषामालंबनमित्यत्र हेतुं दर्शयति । मार्गो ह्यन्योन्यहेतुक इति । कथमन्योन्यहेतुकः । षड्भूमिको धर्मज्ञानपक्ष्यो मार्गोऽधरभूमिकस्योर्ध्वभूमिकस्य वा समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यांतरस्यान्वयज्ञानपक्ष्यस्यापि च मार्गस्य हेतुर्भवति । सोऽपि तस्यान्वयज्ञानपक्षो नवभूमिको योज्यः विस्तरेणैतद्व्याख्यातं अन्योन्यं नवभूमिस्तु मार्गः समविशिष्टयोर् इत्यत्र । तदेवं कामावचरानां मार्गालंबनानामनागम्यभूमिको धर्मज्ञानपक्ष्यो यावच्चतुर्थध्यानभूमिक आलंबनं । अन्वयज्ञानपक्ष्योऽपि मार्गोऽनागम्यभूमिको यावदाकिक्ंचन्यायतनभूमिकः प्रथमध्यानभूमिकानामेषां मार्गालंबनानामालंबनम् । एवं यावद्भवाग्रभूमिकानामिति । यदि [तिब् । १२२ ] कामावचरा मार्गालंबना मिथ्यादृष्ट्यादयो रूपारूप्यप्रतिपक्षमपि निरोधमार्गाख्यं धर्मज्ञानमालम्बंते । सकलोऽपि हि धर्मज्ञानपक्ष्योऽन्योन्यहेतुक इति । कस्मात्त एव मिथ्यादृष्ट्यादयोऽन्वयज्ञानपक्ष्यमपि मार्गं नालंबंते धर्मज्ञानान्वयज्ञानयोरन्योन्यहेतुकत्वादित्याह । यद्यपि धर्मज्ञानान्वयज्ञान इति विस्तरः । अन्वयज्ञानं न कामधातुप्रतिपक्ष इति । न ते तदालंबंते । धर्मज्ञानं तु कामधातुप्रतिपक्ष इति रूपारूप्यप्रतिपक्षमप्यालम्बते । धर्मज्ञानं तर्हीति विस्तरः । धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे त्रिधातुप्रतिपक्षस्तद् इति सिद्धान्ताद्धर्मज्ञानं रूपारूप्यप्रतिपक्षः तद्भावात्तद्भूमिकानां रूपारूप्यभूमिकानां मिथ्यादृष्ट्यादीनामालंबनं भविष्यति । न तत्सकलमिति विस्तरः । न तद्धर्मज्ञानं सकलं प्रतिपक्षो रूपारूप्यधात्वोः । किं तर्हि किं कारणं । दुःखसमुदयधर्मज्ञानयोर्भावनामार्गसंगृहीतयोरेतदप्रतिपक्षत्वात् । रूपारूप्यधात्वोरप्रतिपक्षत्वादित्यर्थः । अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानम् (अभिधर्मकोषव्याख्या ४६२) आलंबनं । [तिब् । १२३ ] किं च नापि सकलयोरिति विस्तरः । नापि सकलयो रूपारूप्यधात्वोस्तद्धर्मज्ञानं प्रतिपक्षः । किं कारणं । दर्शनप्रहातव्यानामप्रतिपक्षत्वात् । धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथ इति वचनात् । अत्र निगमनं करोति इत्याद्याभावान्न भवत्यालंबनमिति । दुःखसमुदयनिरोधमार्गाणामाद्ययोर्दुःखसमुदयधर्मज्ञानयोर्यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्यभावात् । रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात् । न तद्भूमिकानां मिथ्यादृष्ट्यादीनां मार्गालंबनानां रूपारूप्यभूमिकानां धर्मज्ञानमालंबनं भवति । तदेव त्रैधातुकानष्टादशानास्रवालंबनानपास्य शेषा अशीतिरनुशयाः सास्रवालंबना इति स्थापितं । न वर्ज्यनीयः स्यादिति । न प्राप्तिच्छेदेन प्रहेयः स्यादित्यर्थः । यथा कुशलो धर्मच्छन्दोऽभिलाषरूपः सम्यग्दृष्टिरिति न प्राप्तिच्छेदेन प्रहेयः । तद्वदयं स्यात् । अतो नानास्रवालंबनः । न द्वेषोऽनपकारत इति । नवाघातवस्तुलक्षणव्यतीतत्वान्निरोधमार्गयोर्नात्र द्वेषः । भूतार्थशुद्धित्वाद्[तिब् । १२३ ] इति । भूतार्थेन शुद्धिर्निरोधः । क्लेशमलप्रहीणत्वात् । मार्गोऽपि परमार्थशुद्धिः परमार्थेन शुध्यत्यनयेति कृत्वा । यस्तयोः शुद्धिरिति ग्राहो न शीलव्रतपरामर्श इति युज्यते व्यवस्थापयितुं । अग्रौ च ताविति । भूतार्थशुद्धित्वात्तौ निरोधमार्गौ अग्रौ । अपि च परामर्शौ यद्यनास्रवालंबनौ स्यातां सम्यग्दृष्टिलक्षणं भजेतां । शुद्धत्वादग्रत्वाच्चानास्रवाणाम् । अतश्च न दर्शनहेयौ स्यातामग्रौ हीने च वस्तुन्यग्र इति ग्राहो दृष्टिपरामर्शो युज्यते । न चैवं निरोधमार्गाविति । न तयोरग्रग्राहो दृष्टिपरामर्शो भवति । (व् ।१७, १८) कत्यालंबनतोऽनुशेरते । कति संप्रयोगत एवेति । कत्यालंबनत एवेति नावधारणेन पृच्छति । यस्माद्य आलंबनतोऽनुशेरते । तेऽवश्यं संप्रयोगतोऽनुशेरते इति । ये तु संप्रयोगत एवानुशेरते । ते नालंबनतोऽनास्रवविसभागभूम्यालंबना अनुशया इति । आनुगुण्यर्थोऽत्रानुशयार्थः । न तद्भूमिकाः प्रत्ययास्तदुपपत्तये आनुगुण्येन वर्तन्त इति । न च ते तदनुगुणा इति । न च ते निरोधादयः तेषां मिथ्यादृष्ट्यादीनामनुगुणाः । वातिकस्य रूक्षाननुशयनवत् । यथा वातिकस्य रूक्षं नानुशेत इत्युक्ते न कायस्यानुगुण्येन वर्तत इति गम्यते । (अभिधर्मकोषव्याख्या ४६३) पूर्वस्मिंस्तु पक्षे प्रतिष्ठालाभार्थो न तेषु प्रतिष्ठां लभत इति वचनात् । [तिब् । १२४ ] येन धर्मेणेति । वेदनादिना । (व् ।१९) तच्च तयोर्नास्तीति । तच्च दुःखं तयोः रूपारूप्यधात्वोर्नास्ति । कस्मात् । परव्याबाधहेत्वभावात् । परव्याबाधस्य हेतुर्व्यापादादिः । तस्याभावात् । एतदग्रं दृष्टिगतानामिति । एतद्विशिष्टं दृष्टिप्रकारेभ्यः । नातिसावद्यमित्यर्थः । मोक्षो मार्गोपनिषतुच्छेदस्तु निर्हेतुकोऽभिप्रेत इति भ्रांतेः सावद्यमुच्छेददर्शनमिति विशेषः । स्वद्रव्यसंमूढत्वादिति । स्वसंततिपतितानामुपादानस्कंधानामात्मात्मीयत्वेन ग्रहणात्स्वद्रव्यसंमूढा सत्कायदृष्टिः । तेषामेव शाश्वतोच्छेदान्तग्राहदृष्टिरपि तथैव । यथा च ते दृष्टी । तथा तत्संप्रयोगिन्यप्यविद्येति । अपरपीडाप्रवृत्तत्वाच्च । किम् । अव्याक्टे सत्कायांतग्राहदृष्टी इति प्रकृतं । ते हि न काचिदपि परपीडां कुरुतः । स्वर्गतृष्णास्मिमानयोरप्येष प्रसंग इति । स्वर्गतृष्णाया अस्मिमानस्य च दानादिभिरविरोधात्स्वद्रव्यसंमूढात्वादपरपीडाप्रवृत्तत्वाच्चाव्याकृतत्वप्रसंगः । न चेष्यते । तस्मान्नैभिः कारणैरनयोरव्याकृतत्वमित्यनेनाभिप्रायेण पूर्वाचार्यमतम् [तिब् । १२४ ] उपन्यस्यति । सहजा सत्कायदृष्टिरित्यादि । विकल्पिता त्वकुशलेति । यात्मवादिभिः कपिलोलूकादिभिर्विकल्पिता । सा नाव्याकृता । किं तर्हि । अकुशलेति । अन्तग्राहदृष्टिरपि । या तैर्विकल्पिता । साप्यकुशला । तत्पूर्वकत्वात्तु सा तुल्यवार्त्तेत्यनुक्तापि गम्यत एव । शेषास्त्विहाशुभा इति । इहेति । कामावचरशेषाभिसंग्रहार्थं । कामधातौ सत्कायदृष्ट्यादिशेषाः क्लेशा अकुशला एवेत्यवधार्यते । (व् ।२०) कत्यकुशलमूलानि कति नेति । एषामष्टानवतेरनुशयानामित्यनुवृत्तत्वेनैवं विवर्जनं क्रियते । कामेऽकुशल्मूलानि रागप्रतिघमूढय इति । कामधातौ ये रागप्रतिघमोहाः । ते सर्व एव पंच प्रकारा अप्यकुशलमूलानि । कुशलमूलविपक्षेण व्यवस्थानात् । नान्येऽनुशया इति । मूढिरिति मोहपर्यायः । सर्वो मोहः अन्यत्र सत्कायांतग्राहदृष्टिसंप्रयुक्तान्मोहादिति । कथमिह न सूत्रितं लभ्यते । अशुभा इत्यधिकारादेकदेशनिर्देशात् । अत एवोच्यते । यद्यकुशलं चाकुशलस्यैव च मूलमिष्टमिति । एत एवेत्यवधारणाच्छेषा अनुशया मिथ्यादृष्ट्यादयो (अभिधर्मकोषव्याख्या ४६४) नाकुशलमूलानीति सिद्धं । (व् ।२० द्, २१) त्रीण्यव्याकृतमूलानीति । एषामेवाष्टानवतेरनुशयानां । त्रीण्यव्याकृतमूलानीति । [तिब् । १२५ ] त्रिग्रहणं बहिर्देशकमताद्विशेषणार्थः । त्रीण्येव न चत्वारीति दर्शितं भवति । कतमानि त्रीणीत्याह । तृष्णाविद्या मतिश्च सा । सेति अव्याकृततां दर्शयतीति । अव्याकृतमूलानीति । अनेनाव्याकृतशब्देन केवलेन तृष्णाविद्यामतयो विशेषिता इति दर्शयति । अत्र च मतिरक्लेशस्वभावाप्यव्याकृतमूलमितीष्यते वैभाषिकैः । या काचिदव्याकृता तृष्णेति । आस्वादनासंप्रयुक्तेषु ध्यानारूप्येषूपपत्तिकाले वा विमानादिषु संभवतः । या काचिदविद्या रूपारूप्यधात्वोः कामधातौ च सत्कायांतग्राहदृष्टिसंप्रयोगिणीति । एवं प्रज्ञा च या काचिदव्याकृता । अंततो विपाकजापि । कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनिर्माणचित्तसंप्रयुक्ता सत्कायांतग्राहदृष्टिसंप्रयुक्ता च रूपारूप्यधात्वोः सर्वक्लेशसंप्रयुक्ता प्रज्ञा । विपाकजादिसंप्रयुक्ता च यथासंभवमव्याकृता प्रज्ञा । द्वैधवृत्तेरिति । द्विधाभावो द्वैधं । द्वैधे वृत्तिः । तस्याः । न विचिकित्सा मूलं भवितुमर्हति । द्वैधवृत्तितश्चलत्वात् । उन्नतिलक्षणेनेति [तिब् । १२५ ] । उन्नतेर्लक्षणं । तेन । ऊर्ध्ववृत्तिर्भवति । तस्मान्न मानो मूलं भवितुमर्हति । मूलानि स्थिराण्यधोवृत्तीनि चेति । मूलवैधर्म्यान्न विचिकित्सा मूलमस्थिरत्वात् । न मानोऽनधोवृत्तित्वादिति वक्तव्यं । ते इत्यव्याकृताः । अव्याकृता तृष्णेति । रूपारूप्यधात्वोः । दृष्टिरपि तयोश्च कामधातौ च सत्कायांतग्राहदृष्टिस्वभावा । अविद्यापि कामधातौ तत्संप्रयोगिण्येव । रूपारूप्यधात्वोश्च सर्वा । तृष्णादृष्टिमानोत्तरध्यायिन इति । य आस्वादनासंप्रयुक्तध्यानध्यायी । स तृष्णोत्तरध्यायी । यो ध्याननिश्रयेण शाश्वतादिदृष्टिमुत्पादयति । स दृष्ट्युत्तरध्यायी । मानोत्तरध्यायी च । यस्तेन मन्यते लाभ्यहमस्य ध्यानस्य नान्ये तथेति । स मानोत्तरध्यायी । तत्र तृष्णोत्तरं तृष्णोपरिकं । ध्यातुं शीलमस्येति तृष्णोत्तरध्यायी । अथ वा । तृष्णोत्तरश्च तृष्णाधिक इत्यर्थः । ध्यायी च तृष्णोत्तरध्यायी । एवं दृष्ट्युत्तरध्यायी च । मानोत्तरध्यायी च । ते चाविद्यावशाद्भवंतीति । ते च त्रयो ध्यायिनोऽविद्यावशादविद्यायोगात्तथा भवंति । अतोऽविद्याप्यव्याकृतमूलम् [तिब् । १२६ ] इति । समापत्तिसमापन्नानां च एताः क्लेशसमुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं कारणमिति । (अभिधर्मकोषव्याख्या ४६५) (व् ।२२) अव्याकृतसंबन्धेन पर्यनुयुंक्ते । यानि सूत्रे चतुर्दशाव्याकृतवस्तूनीति विस्तरः । शाश्वतो लोकः । अशाश्वतो लोकः । इत्येवमादि । किं तान्यव्याकृतत्वादिति । किं तानि नैव कुशलानि नाकुशलानीत्यव्याकृतत्वात् । नाव्याकृतवस्तून्यपदिश्यंते । स्थापनीयप्रश्नोऽव्याकृत इति । यः स्थापनीयत्वेन न व्याकृतो न कथितः । सोऽव्याकृतः प्रश्नः । तस्य वस्त्वधिष्ठानमित्यव्याकृतवस्तु । तत्प्रसंगेनेदमुपन्यस्यते । चतुर्विधो हि प्रश्न इति विस्तरः । मरणोत्पत्तिविशिष्टात्मान्यतादिवद् इति । मरणवदुत्पत्तिवद्विशिष्टवदात्मान्यतादिवदिति । यथासंख्यमेकांशव्याकरणादिषूदाहरणानि । मरिष्यंतीति मरणोदाहरणमेकांशव्याकरणे । सक्लेशा जनिष्यंते न निःक्लेशा इत्युत्पत्त्युदाहरणं विभज्यव्याकरणे । कानधिकृत्य प्रश्नयसीति विशिष्टतोदाहरणं परिपृच्छाव्याकरणे । किमन्यः स्कन्धेभ्यः सत्त्व इति [तिब् । १२६ ] आत्मान्यतोदाहरणं स्थापनीयव्याकरण इति । किं सर्वसत्त्वा मरिष्यंतीत्येकांशेन व्याकर्तव्यमिति । यथोक्तं भगवता अल्पकं भिक्षवो मनुष्याणां जीवितं । गमनीयः सम्परायः । चरितव्यं कुशलं । नास्ति जातस्यामरणमिति । किमन्यः स्कन्धेभ्यो सत्त्वोऽनन्य इति स्थापनीय इति । यथोक्तं भगवता । किं तु भो गौतम स करोति स प्रतिसंवेदयते । अव्याकृतमेतत्ब्राह्मण । अन्यः करोत्यन्यः प्रतिसंवेदयते । अव्याकृतमेतद्ब्राह्मण । स करोति स प्रतिसंवेदयत इति पृष्टोऽव्याकृतमेतदिति वदसि । अन्यः करोति अन्यः प्रतिसंवेदयत इति पृष्टोऽव्याकृतमेतदिति वदसि । तत्कोऽत्र खल्वस्य भवतो गौतमस्य भाषितस्यार्थः । स करोति स प्रतिसंवेदयत इति ब्राह्मण शाश्वताय परैति । अन्यः करोति अन्यः प्रतिसंवेदयत इति उच्छेदाय परैति । एतावंतावनुगम्य तथागतो मध्यया प्रतिपदा धर्मं देशयतीति । अपर आहेति भदंतरामः । इदमप्येकांशेन व्याकर्तव्यं । न सर्वे जनिष्यंत इति । न केवलमिदमेकांशेन व्याकर्तव्यं । सर्वे सत्त्वा मरिष्यंतीति यस्तु पृच्छेदिति विस्तरेणाचार्यः । यस्तु पृच्छेदनेन प्रकारेण ये मरिष्यंति । किं ते जनिष्यंत इति । तस्य विभज्यव्याकरणं स्यात् । न सर्व जनिष्यंते । किं तर्हि । सक्लेशा जनिष्यंते । न निःक्लेशा [तिब् । १२७ ] इति । तस्माद्यदुक्तमिदमेकांशेन व्याकर्तव्यं न सर्वे जनिष्यंत इति । तन्नोपपद्यते । तेन युज्यत एव वैभाषिकोदाहरणमित्यभिप्रायः । स एव भदन्तराम आह । मनुष्येषु चोभयमस्ति । हीनत्वं विशिष्टत्वं च । एतदुभयमापेक्षिकमस्तीत्युभयमेकांशेन व्याकर्तव्यं तत्यथा किं (अभिधर्मकोषव्याख्या ४६६) विज्ञानं कार्यं कारणमिति प्रश्न एकांशेन व्याक्रियते । हेतुफलापेक्षया कारणं कार्यं चेति । तत्र यदुक्तं किं मनुष्यो हीनो विशिष्ट इति । परिपृच्छ्य व्याकर्तव्यं कानधिकृत्य प्रश्नयसीति । तदयुक्तं । यस्मादयमेकांशेन व्याकरणीयः प्रश्न इति । एकांतेन तु पृच्छत इत्याचार्यो वैभाषिकपक्षं समर्थयति । एकांतेन तु पृच्छतः किं मनुष्यो हीन एव विशिष्ट एवेति । नैकांतव्याकरणाद्धीन इति वा विशिष्ट इति वा । विभज्यव्याकरणं युज्यते कानधिकृत्य प्रश्नयसीति । तत्र तदुक्तं मनुष्येष्वेवोभयमस्तीति विस्तरेण । तदयुक्तं । स एवाह । स्कंधेभ्योऽन्यः सत्त्व इति सर्वं । यस्तु स्थापनीय इत्याचार्यः वैभाषिकनयेनोक्तम् [तिब् । १२७ ] एतच्चतुर्विधस्योदाहरनं । आभिधार्मिका आहूरिति । षट्पादभिधर्ममात्रपाठिनः । दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरिति । चतुर्णामार्यसत्यानां प्रज्ञप्तिः यथासूत्रं । अर्थोपसंहितत्वादिति । अर्थप्रतिसंयुक्तत्वादित्यर्थः । एतदेव शठस्येति । एतदेव विभज्यव्याकरणीयप्रश्नवचनं । शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदितव्यं । भदन्तराम आह । यदा ताविति विस्तरः । यदा तौ शठाशठौ न किंचित्पृच्छतः । केवलमध्येषयतो धर्मान् वदेति । तयोश्च शठाशठयोर्न किंचिद्व्याक्रियते इमे धर्मा रूपादयः सविस्तरप्रभेदा इति । केवलं परिपृछ्येते कतमान् वदामीति । तद्कथमनयोः शथाशठयोः प्रश्नो भवति । कथं च व्याकरणमाभिधार्मिकस्य । यो हीति विस्तरेणाचारः । यो हि पन्थानं ब्रूहीति तदनभिज्ञ आह । किं तेन पंथा न पृष्टो भवति । अध्येषणमुखेनैवास्य इत्यभिप्रायः । यथा हि पन्थानं ब्रूहीति ब्रुवतोक्तं भवति कतमः पन्था इति । एवं धर्मान् वदेति ब्रुवतोक्तं भवति कतमे धर्मा इति । परिपृच्छ्यैव च व्याकरणात्बहवो धर्माः कतमान् वदामीति परिपृच्छ्यैव तस्य प्रश्नस्य तेषां वा धर्माणां व्याकरणात् । धर्मबहुत्वं व्याकृतमिति कृत्वा । कथं न परिपृच्छाव्याकरणमिति । परिपृच्छ्यव्याकरणम् [तिब्१२८ ] इत्यर्थः । तत्र यदुक्तं तयोश्च न किंचित्व्याक्रियते केवलं परिपृछ्येते यावत्कथं च व्याकरणमिति । तदयुक्तं । आचार्य आह । सूत्रान्तादेवेति विस्तरः । एवं तु सूत्रे व्याकृतं । संस्कृतेन व्यवस्थाप्य पठ्यते । संचेतनीयं कर्म कृत्वा किं प्रतिसंवेदयते । किं सुखं दुःखमदुःखासुखमित्येवं पृष्टेन विभज्यव्याकरणीयः (अभिधर्मकोषव्याख्या ४६७) प्रश्नः । संचेतनीयस्य कुशलादिभेदात् । कुशलसास्रवं संचेतनीयं कर्म कृत्वा सुखमदुःखासुखं वा प्रतिसंवेदयते । अकुशलसंचेतनीयं कर्म कृत्वा दुःखं प्रतिसंवेदयत इति । सचेदेवं वदेदौदारिकमिति रूपि । विस्तरः प्रभेदो न भवति यावदन्यो जीव इति । यावच्छब्देन सर्वं वक्तव्यं । न भवति तथागतः परं मरणाद् । भवति च न भवति च तथागतः परं मरणात् । नैव भवति न न भवति तथागतः परं मरणात् । स जीवस्तच्छरीरम् । अन्यो जीवोऽन्यच्छरीरमिति । (व् ।२३, २४) स तेन तस्मिं संयुक्त इति । पुद्गलस्तेनानुशयेन बद्ध इति ज्ञायत एवेत्यर्थः । स्वलक्षनाक्लेशाश्[तिब् । १२८ ] चेति । स्वलक्षणं सुखवेदनीयादि वस्तु । तत्र रागः सुखवेदनीयमेव वस्तु आलंब्योत्पद्यत इति । स्वलक्षणक्लेश इत्युच्यते । तेन सुखवेदनीयेन वस्तुनालंब्यमानेनोन्नतिर्भवतीति मानोऽपि स्वलक्षणक्लेशः । तथा दुःखवेदनीयं वस्त्वालंब्य प्रतिघ उत्पद्यत इति प्रतिघोऽपि स्वलक्षणक्लेश इत्युच्यते । सामान्यक्लेशाश्च । दृष्टिविचिकित्सादयः सामान्याः सामान्येन वा क्लेशाः सामान्यक्लेशाः । एते ह्यविशेषेण सुखवेदनीयादिके वस्तुन्युत्पद्यंत इति । अतस्तदालंब्य उत्पन्नाः सामान्यक्लेशा इत्युच्यंते । अतीतप्रत्युपस्थितैर् इति । अतीतवर्तमानैः । रागप्रतिघमाना यस्मिं वस्तुन्युत्पन्ना इति विस्तरः । एते रागादयः षड्विज्ञानकायिका अप्यविशेषाभिध्यानाद्यथायोगं यस्मिं वस्तुन्युत्पन्नास्त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद्भावनाप्रहातव्ये । न च प्रहीणाः । तस्मिन् वस्तुनि तै रागादिभिः संयुक्तः । दाम्नेव बलीवर्दः कीलके । एते हि स्वलक्षणक्लेशत्वान्न सर्वस्य पुद्गलस्यावश्यं सर्वत्रोत्पद्यन्त इति । कस्यचित्कस्मिंश्चिदुत्पद्यंत इत्यर्थः । अतो यत्रोत्पन्नाप्रहीणास्त इति तद्विशेषणं । अप्रहीणा इति विशेषणं । यस्माद्यै रागादिभिर्यस्मिन् वस्तुनि [तिब् । १२९ ] संयुक्त आसीत् । यदि ते प्रहीणा भवेयुर्न तैः सर्वत्र संयुक्तः । प्रहीणेन निरनुशयविषयत्वात् । सर्वत्रानागतैरेभिर्मानसैर् इति मानसग्रहणं । स्वाध्विके परैर् इति पंचविज्ञानकायिकानामन्यथा व्यवस्थाप्यमानत्वात् । रागप्रतिघविशेषणं (अभिधर्मकोषव्याख्या ४६८) चैतत् । मानस्यावश्यं मानसत्वात् । एभिरनागतैः सर्वत्र त्रैयध्विके पंचनैकायिकेऽपि यथास्वं संयुक्तः । न हि तत्सास्रस्वं वस्तु । यत्स्वलक्षणक्लेशेनापि रागेण न सरागं । द्वेषेन च न सद्वेषं । मानेन च न समानं । सर्वसास्रववस्त्वालंबना हि यथास्वमपरिमिता अनागता रागादयो भवंति । अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्त इति । सर्वे चित्तचैत्ता आलंबने नियता इति । तैरुत्पत्तिधर्मिभिरनागत एव वस्तुनि संयुक्तः । वर्तमानविषयत्वात्पंचानां विज्ञानकायानां । रागप्रतिघैरिति मानवचनं मानानां मानसत्वात् । समानमिद्धा दृग्घेया मनोविज्ञानभूमिका इति वचनात् । पंचविज्ञानकायिकैरपि न केवलं मानसैरित्यपिशब्दो द्योतयति । तैरनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः । एते ह्यनुत्पत्तिधर्मिणोऽनागत एवाध्वनि व्यवतिष्ठंते । [तिब् । १२९ ] एषां चालंबनानि संचरंति । ससंप्रयोगा हि क्लेशाः सुवर्चलावदनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठंते । तथा ह्यनुत्पत्तिधर्मिणो नैवालंबनमालंब्योत्पद्यंत इति । अतः केषांचिदालंबनमतीतं । केषांचिद्वर्तमानं । केषांचिदनागतं भवति । न ह्यालंबनानुत्पत्तित एव तेषामनुत्पत्तिः । किं तरि । प्रत्ययवैकल्यात् । अवस्थाफलं हि सामग्र्यं न द्रव्यफलमिति सिद्धांतः । शेषैस्तु सर्वैः सर्वत्र संयुत इति । त्रैयध्विकैरपि दृष्ट्यादिभिरनेकनैकायिकैरपि त्रैयध्विके पंचप्रकारेऽपि वस्तुनि संयुतः संयुक्त इत्यर्थः । किं कारणमित्याह । सामान्यक्लेशत्वादिति । एते हि सर्वस्य सर्वस्मिन् संभवंति । पंचोपादानस्कंधालंबनत्वात् । (व् ।२५) कथं तत्र तेन च संयुक्त इति । कथमतीतानागते वस्तुनि । तेन चातीतानागतेनानुशयेन संयुक्त इति । विसंयुक्तो वा । कथं वा अप्रहीणप्रहीणावस्थायां व्यवस्थाप्यंते । संस्कृतलक्षणयोगादिति । यस्मात्संस्कृतलक्षणानि जात्यादीनि संस्काराणामर्थसंचाराय प्रवर्तन्ते । अतस्तेषामशाश्वतत्वं प्रतिज्ञायते । रूपं चेद्भिक्षव इत्यस्य सूत्रस्यायमादितः पाठः । रूपमनित्यमतीतानागतं । कः पुनर्वादः प्रत्युत्पन्नस्य । एवंदर्शी श्रुतवानार्यश्रावकः अतीते रूपेऽनपेक्षो भवति । अनागतं रूपं नाभिनन्दति । प्रत्युत्पन्नस्य रूपस्य निर्विदे [तिब् । १३० ] विरागाय निरोधाय प्रतिपन्नो भवति । अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको अतीते रूपेऽनपेक्षोऽभविष्यत् । यस्मात्तर्ह्यस्त्यतीतं रूपं । तस्माच्(अभिधर्मकोषव्याख्या ४६९) छ्रुतवानार्यश्रावको अतीतरूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात्तर्ह्यस्त्यनागतं रूपं । तस्माच्छ्रुतवानार्यश्रावकोऽनागतं रूपं नाभिनन्दति । प्रत्युत्पन्नं चेद्भिक्षवो रूपं नाभविष्यदिति विस्तरः । न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यदिति । निर्विषयत्वाद्वैराग्यकालेऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर्न स्यादित्यर्थः । यदातीतं रूपमपेक्ष्यते । तदा तत्रासक्तिरिति । अभ्यनन्दिष्यदित्यभ्यलषिष्यत् । प्रत्युत्पन्नं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावकः प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नोऽभविष्यदित्येतन्नोक्तमुभयपक्षप्रसिद्धत्वात् । द्वयाद् इति पूर्वं कण्ठत उक्तमिति प्रदर्शितम् । इदानीमर्थतो न कण्ठत इति विशेषः । [तिब् । १३० ] न द्वयं प्रतीत्य मनोविज्ञानं स्यात् । यदतीतानागतालंबनमिति विशेषः । ततो विज्ञानमेव न स्यातालंबनाभावादिति । विज्ञेये सति विज्ञानमिति कृत्वा । साधनं चात्र । सदालंबनमेव मनोविज्ञानम् । उपलब्धिस्वभावत्वात् । चक्षुर्विज्ञानवदिति । फलाद् इति । विद्यमानस्वलक्षणं शुभाशुभमतीतं कर्म । विपक्तिकाल उत्पद्यमानफलत्वात् । वर्तमानधर्मवदिति । (व् ।२६) भावान्यथात्वं भवतीति । अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवतीत्यर्थः । न द्रव्यान्यथात्वं । न रूपादिस्वलक्षणस्यान्यथात्वमित्यर्थः । अनागतो हि वर्तमानमध्वानं प्रतिपद्यमानोऽनागतभावं जहाति । वर्तमानभावं प्रतिलभते । वर्तमानोऽप्यतीतं । सुवर्णं क्षीरं चेति दृष्टांतद्वयं यथाक्रममाकृतिगुणान्यथात्वज्ञापनार्थं । लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः । अत एवाह । धर्मोऽध्वसु प्रवर्तमानोऽतीतोऽतीतलक्षणयुक्तः । अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्त इति विस्तरः । यद्यनागतमतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात् । एवं सति नानागतमेवोत्पन्नमतीतं वेति स्यात् । अथातीतमनागतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात् । नानागतं वर्तमानं चातीतं स्यात् । वर्तमानमतीतानागताभ्यां वियुक्तं स्यात् । अनागतमेव वर्तमानं वर्तमानमेवातीतं स्यात्लब्धवृत्तिना हि लक्षणेन युक्तो व्यवस्थाप्यते । तदन्येनावियुक्तो न विरहित इत्यर्थः । अत एवोदाहरति । (अभिधर्मकोषव्याख्या ४७०) तद्यथा । पुरुष एकस्यां स्त्रियां रक्तः [तिब् । १३१ ] शेषास्वविरक्त इति । एकस्यां स्त्रियामस्य रागाध्यवसानं वर्तते । शेषासु स्त्रीषु रागप्राप्तिरेवास्ति । न समुदाचार इति । अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः । यस्यामवस्थायां सो धर्मः कारित्रं न करोति । तस्यामनागत उच्यते । यस्यां करोति । तस्यां वर्तमानः । यस्यां कृत्वा निरुद्धः । तस्यामतीत इत्यवस्थामवस्थां प्राप्य अन्योऽन्यो निर्दिश्यते । अनागतावस्थां प्राप्यानागतो यावदतीतावस्थां प्राप्यातीत इति । अवस्थान्तरतः । न द्रव्यांतरत इति अभिन्नलक्षणोऽनागताद्यवस्थाप्राप्तोऽनागतादिशब्दनिर्देशः केवलं भवतीत्यर्थः । अत एवोदाहरति । यथैका वर्तिकेति विस्तरः । यथैका गुलिका एकांके निक्षिप्ता एकस्थाने स्थापिता एकमित्युच्यते । एवं शतांके शतं । सहस्रांके सहस्रमित्युच्यते । अवस्थांतरापेक्षया । न पुनस्तस्याः स्वभावान्यथात्वं । किं तर्हि । स्थानांतरविशेषात्संख्याभिद्योतकं संज्ञांतरमुत्पद्यत इति । पूर्वापरमपेक्ष्यान्योन्य उच्यत इति । पूर्वमपरं चापेक्ष्यतीतानागतवर्तमाना उच्यंत इत्यर्थः । पूर्वमेवातीतं वर्तमानं वापेक्ष्यानागत [तिब् । १३१ ] इति । पूर्वं वातीतमपरं वानागतमपेक्ष्य वर्तमान इति । अपरमेव वर्तमानमनागतं वापेक्ष्यातीत इति । पूर्वापरापेक्षोऽन्यथान्यथिकस्य व्यवहारः । अत एवोदाहरति । यथैका स्त्री माता वोच्यते दुहिता चेति । यथैका स्त्री दुहितरमपेक्ष मातेत्युच्यते । मातरमपेक्ष्य दुहिता चेति । पूर्वापरापेक्षया न द्रव्यांतरतः । सांख्यपक्षे निक्षेप्तव्य इति । यः सांख्यपक्षे प्रतिषेधः । स एव तत्पक्षस्य प्रतिषेधः । सांख्यपक्षः प्रतिषिद्ध इत्यभिप्रायः । द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसंकरः प्राप्नोति । योऽतीताध्वाभिप्रेतः । स वर्तमानः अनागतोऽपि प्राप्नोति । कथं कृत्वा ।ऽतीते अतीतलक्षणयुक्तो भवन्ननागतवर्तमानलक्षणाभ्यामवियुक्तः । युक्त एवेत्यर्थः । अनागतोऽप्यनागतलक्षणयुक्तः अतीतवर्तमानलक्षणाभ्यामवियुक्तः । वर्तमानोऽपि वर्तमानलक्षणयुक्तोऽतीतानागतलक्षणाभ्यामवियुक्त इति कृत्वा । एकैकस्य त्रिलक्षणयोगाततीतोऽनागतो वर्तमानश्च प्राप्नोति । इत्येवमनागतवर्तमानावपि योज्यौ । किमत्र साम्यमिति । पुरुषस्य कस्यांचित्केवलं समन्वागमः । किमेवं धर्मस्यैकं लक्षणं विद्यते । इत एव लक्षणे [तिब् । १३२ ] न विद्येते । यत एवमुदाह्रियत इति असाम्यं । चतुर्थस्यापि भदंतबुद्धदेवस्यापि एकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्तीति । एकस्मिन्नेवतीते (अभिधर्मकोषव्याख्या ४७१)ऽध्वनि पूर्वापरक्षणव्यवस्थास्ति । तत्र पूर्वपश्चिमौ क्षणावतीतानागतौ । पूर्वः क्षणोऽतीतः पश्चिमोऽनागतः । मध्यमः प्रत्युत्पन्नः । इत्यतीतेऽध्वनि त्रयोऽध्वानः प्राप्नुवंति । अत एषां सर्वेषां तृतीयः शोभन इति वैभाषिकः । कथं कृत्वा शोभन इत्याह । यस्मात्तस्य अध्वानः कारित्रेण व्यवस्थिताः । कारित्रं पुनः चक्षुरादीनां दर्शनादीनीति । रूपादीनामपि स्वेन्द्रियगोचरत्वं कारित्रं । गद्येवमिति विस्तअरः । यदि कारित्रेण व्यवस्थापिताः । तत्सभागस्य चक्षुषः किं कारित्रं । यद्धि कारित्रलक्षणं स्वकर्म न करोति तत्तत्सभागः । तस्य च नास्ति कारित्रं दर्शनलक्षणं । कथं तत्प्रत्युत्पन्नमित्यभिप्रायः । फलदानप्रतिग्रह इति । तच्चक्षुः स्वनिष्यन्दफलं परिगृह्णाति आक्षिपति । फलं च ददाति निष्यन्दफलमनंतरं ददाति । पुरुषकारफलं च । यद्यपि दर्शनकारित्रं न करोति । अन्यत्तु फलं करोतीति । तस्य फलदानपरिग्रहसद्भावात्तत्प्रत्युत्पन्नमिति व्यवस्थाप्यते । [तिब् । १३२ ] अतीतानामपि तर्हि सभागहेत्वादीनामिति । आदिशब्देन विपाकहेत्वादीनां परिग्रहणं । तेषां फलदानात् । वर्तमानाभ्यतीतौ द्वावेकोऽतीतः प्रयच्छति इति वचनात् । कारित्रप्रसंगः । कारित्रमस्तीति । ततश्चैषां सभागहेत्वादीनामतीतानां वर्तमानत्वप्रसंगः । वर्तमानवत्कारित्रसद्भावादिति लक्षणसंकरः । ब्रूयास्त्वं येषां फलपरिग्रहः फलदानं चोभयमस्ति । ते वर्तमानाः । येषां त्वेकतरं । न ते वर्तमाना इति । तत इदमुच्यते । अर्धकारित्रस्य वेति । प्रसंग इत्यधिकृतं । अर्धकारित्रस्य वा प्रसंगः । अर्धवर्तमाना इति वा तेऽतीताः प्रसज्यंते । उपरतफलपरिग्रहकारित्रत्वाद्धि तेऽतीतलक्षणयुक्ताः । वर्तमानफलदानकारित्रत्वाच्च वर्तमानलक्षणयुक्ता इति । स एव लक्षणसंकरदोषः । एतद्ध्यतीतादीनामध्वनां लक्षणमिष्टं । उपरतकारित्रमतीतमप्राप्तकारित्रमनागतं प्राप्तानुपरतकारित्रं वर्तमानमिति । (व् ।२७) किं विघ्नम् इति । नपुंसकलिंगमेतच्छब्दरूपं । को विबन्ध इत्यर्थः । को विघ्नोऽस्येति किं विघ्नं कारित्रमित्यपरे । प्रत्ययानामसामग्र्यमिति चेत् । तत्रैतत्स्यात् । प्रत्ययानां हेतुसमनंतरादीनामसामग्र्यम् । अतो न सर्वदा कारित्रं करोतीति । न । नित्यमस्तित्वाभ्युपगमात् । [तिब् । १३३ ] न प्रत्ययानामसामग्र्यं कल्पयितुं युज्यते । यस्मादिह भवद्भिर्नित्यं प्रत्ययानाम् (अभिधर्मकोषव्याख्या ४७२) अस्तित्वमभ्युपगम्यते । सतामविनाशात् । यच्च तत्कारित्रमतीतमिति विस्तरः । यच्च कारित्रमतीतमुच्यते अनागतं प्रत्युत्पन्नमिति चोच्यते सिद्धांते उपरतकारित्रमतीतमित्येवमादिवचनात् । किं कारित्रस्याप्यन्यत्कारित्रमस्ति । यतस्तस्यातीतादित्वं कथ्यते । यद्यस्त्यनवस्थाप्रसंगः । न चेदस्ति अथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया एवं भावानामप्यनागतादित्वं भविष्यति । किं कारित्रकल्पनया । कथं तदतीतमित्यादि । अथ तन्नैवातीतमिति विस्तरः । यन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नं तदसंस्कृतमित्यसंस्कृतत्वान्नित्यमस्तीति प्राप्तं । कारित्रमित्यधिकृतं । ततः किमित्याह । अतो न वक्तव्यं । यदा कारित्रं न करोति धर्मस्तदानागत इति । कारित्रस्य कर्तुमशक्यत्वप्राप्तेः । स्यादेष दोष इति विस्तरः । स्यादेष दोषः कारित्रस्यान्यत्कारित्रमित्यतिप्रसंगोऽसंस्कृतत्वप्रसंगो वा यदि धर्मात्कारित्रमन्यत्स्यात् । तत्तु खलु नान्यदिति । नैष दोषः । तेनैवात्मनेति । यः प्रत्युत्पन्नस्य स्वभावः । तेनेत्यर्थः । किमस्य पूर्वं नासीदित्यनागतावस्थायां । यदि कारित्रमनन्यत्वाद्धर्म एव नासीदित्युक्तं भवत् । किं च पश्चान्नास्तीत्यतीतावस्थायां । यदि कारित्रं [तिब् । १३३ ] धर्म एव नास्तीत्युक्तं भवेत् । धर्मकारित्रयोरनन्यत्वात् । यद्यभूत्वा भवतीति नेष्यते प्रत्युत्पन्नो न सिध्यति । भूत्वा च पुनर्न भवतीति यदि नेष्यते अतीतोऽध्वा न सिध्यति । अनागतस्तु यो न तावदभूत्वा भवतीत्यर्थाद्गम्यते एवमध्वत्रयं सिध्यत्यतोऽन्यथा न सिध्यतीत्य्वाक्यार्थः । उत्पादविनाशयोरयोगादिति । सर्वकालास्तित्वादुत्पादविनाशयोरयोगः । तस्माद्वाङ्मात्रमेतत्संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसंग इति । अपूर्वैषा वाचो युक्तिरिति । पूर्वापरविरुद्धैषा वाचो युक्तिरित्यर्थः । सर्वदा चास्त्युत्पादविनाशाभ्यां च युज्यत इति । स्वभावः सर्वदा चास्तीति । यद्रूपादेः स्वलक्षणं । तत्सर्वस्मिन् काले विद्यत इतीष्यते । यदि रूपादेः स्वभावः सर्वदास्ति तेन रूपादिभावो नित्यः प्राप्नोति । अत आह । भावो नित्यश्च नेष्यते । एवं सति तस्मात्स्वभावाद्भावो नूनमन्य इति । अत आह । न च स्वभावाद्भावोऽन्य इति । तदिदमिच्छामात्रत्वात् व्यक्तमीश्वरचेष्टितं । नात्र युक्तिरस्ति । अतीतं तु यद्भूतपूर्वमिति । न स्वलक्षणेनास्तीति दर्शयति । (अभिधर्मकोषव्याख्या ४७३) अनागतं यत्सति हेतौ भविष्यतीति । अविद्यमानम् [तिब् । १३४ ] अपि हेतुसद्भावाद्व्यवस्थाप्यत इति दर्शयति । एवं हि कृत्वास्तीत्युच्यत इति । भूतपूर्वं भविष्यति चेति कृत्वा । न तु पुनर्द्रव्यत एवं भवति । हेतुफलापवाददृष्टिप्रतिषेधार्थमिति । हेत्वपवाददृष्टिप्रतिषेधार्थमस्त्यतीतमित्युक्तं । फलापवाददृष्टिप्रतिषेधार्थमस्त्यनागतमिति । आसीदतीतं भविष्यत्यनागतमिति वक्तव्येऽस्तीति वचनमस्तिशब्दस्य निपातत्वात् । त्रिकालविषयो हि निपातः । आसीदर्थे भविष्यदर्थेऽपि वर्तते । यथास्ति दीपस्येति विस्तरः । यथास्ति दीपस्य प्रागभावोऽस्ति पश्चादभाव इति वक्तारो भवंति । न च द्रव्यतोऽस्ति । यथा चास्ति निरुद्धः । स प्रदीपो न तु मया निरोधित इति वक्तारो भवंति । न चास्तिप्रयोगान्निरुद्धोऽप्यसावस्तीति । ननु च वैधाषिकस्य निरुद्धोऽप्यसावस्तीति । सत्यमस्ति । न तु प्रदीपरूपतामेव भिभ्राणः सोऽस्ति । एवमतीतानागतमस्तीत्युक्तमसत्यपि द्रव्यसत्त्वे । अन्यथा ह्यतीतानागत एव न सिध्येत् । यदि तेनैव लक्षणेन विद्येतातीतानागत एव न सिध्येदित्यर्थः । यद्यतीतं भूतपूर्वं यत्तर्हि लगुडशिखीयकानिति विस्तरः । लगुडशिखीयकैः परिव्राजकैर्नार्यो निदानं । नालंदाया [तिब् । १३४ ] बुद्धभाषितं च सूत्रं । संयुक्तकागमे च । आर्यमहामौद्गल्यायनश्च मारित इत्याहुरभियुक्ताः । यतो नो मारित इत्यत्र सूत्र एवं पठ्यते । लगुडशिखीयकाः परिव्राजका आनंतर्यकारिणो यत्कर्माभ्यतीतं । तन्नास्तीत्येवंवादिन इति विस्तवः । किं ते लगुडशिखीयकाः परिव्राजकास्तस्य कर्मण आनंतर्यस्य भूतपूर्वत्वं नेच्छंति । एतदुक्तं भवति । इच्छंति स्म ते तस्य कर्मणो भूतपूर्वत्वं । किं तु न द्रव्यमिति तस्मिं कर्मणि ते विप्रतिपन्नाः । नास्ति तत्कर्माभ्यतीतमिति । यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे । तत्कर्माभ्यतीतमस्तीति विस्तरेण । तस्मादस्ति स्वभावेनातीतमिति विस्तरः । तत्र पुनः सूत्रे यद्भूतपुर्वं कर्म । न तदेवातीतमित्यभिसंधायोक्तं तत्कर्मास्तीति । किं तर्हि । तदाहितं तेन भूतपूर्वेण कर्मणा आहितमर्पितं । तस्यां संततौ फलदानसामर्थ्यं संधायोक्तमित्यनेनाभिप्रायेणोक्तमिति । कथं गम्यत इत्याह । अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येदिति । स्वलक्षणेन विद्यमानं तत्कर्म प्रत्युत्पन्नलक्षणेन विद्यमानमतीतमिति न सिध्येत् । प्रत्युत्पन्नमेव सिध्येदित्यभिप्रायः । तदाहितमिति विस्तरेणैवम् (अभिधर्मकोषव्याख्या ४७४) उच्यमानेऽभ्यतीतं तत्कर्मास्तीति सिध्यति । इत्थं चैतदेवमिति । यथानागतं [तिब् । १३५ ] द्रव्यतो नास्त्यतीतं चेति । वर्तमानेऽध्वनीति विस्तरः । वर्तमानभावेनाभूत्वा भवतीत्यर्थः । न । अध्वनो भावादनर्थांतरत्वात् । नैव तदेवम् । अध्वनः प्रत्युत्पन्नस्य भावाच्चक्षुःसंज्ञकादनर्थांतरत्वात् । अद्रव्यांतरत्वादित्यर्थः । य एव वर्तमानोऽध्वा । स एव भावः । तत्कथं स एव वर्तमानः स्वात्मन्यध्वयभूत्वा भविष्यति । तथा ह्युक्तं त एवाध्वा कथावस्त्व् इति । अथ स्वात्मनि चक्षुषि चक्षुरभूत्वा भवति सिद्धमिदमनागतं चक्षुर्नास्तीति । आलंबनमात्रमिति । मात्रशब्दो जनकत्वव्यावर्तनार्थः । तद्रूपोत्पत्तेरालंबनं धर्मा इत्यभिप्रायः । यदनागतं सहस्रैरिति । संनिकृष्टमप्यनागतं जनकं न युज्यते । किमंगातिचिरेण कालेन यद्भविष्यति । न हि पूर्वकालीनस्य फलस्य पश्चात्कालीनो हेतुर्युज्यत इति । निर्वानं चेति । निर्वाणं हि विज्ञानं निरुद्धान्न जनयेत् । संसारप्रवृत्तिनिरोधादित्यभिप्रायः । अभूद्भविष्यति चेति । यद्वर्तमानावस्थायां रूपमभूत्भविष्यति च । तदालंबनमित्यर्थः । कथं ज्ञायते एवं तदालंब्यते न पुनरस्तीत्य्[तिब् । १३५ ] अत आह । न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति । किं तर्हि । अभूदिति स्मरति तद्रूपं यथादृष्टं यथानुभूतां च वेदनां चक्षुर्विज्ञानानुभवबलेन । यथा खल्वपीति विस्तरेणाचार्य एवोपचयहेतुमाह । वर्तमानरूपमिव भूतं भविष्यच्च गृह्यत इत्यभिप्रायः । यदि च तथैवास्तीति यथा वर्तमानं । वर्तमानं तत्प्राप्नोति । अथ नास्ति तत्तथैव असदप्यालंबनं भवतीति सिद्धं । वर्तमानवद्रूपस्याभावात् । तस्य च स्मर्यमाणत्वात् । तदेव तद्विकीर्णमिति । यदेव तद्वर्तमानं । तदेव विकीर्णमतीतानागतं । न । विकीर्णस्याग्रहणादिति । न युक्तमेतत् । विकीर्णस्याग्रहणात् । पूर्वं न विकीर्णमिदानीं विकीर्णमेतद्रूपमित्येवमस्याग्रहणात् । यदि च तत्तदेवेति विस्तरः । यदि च वर्तमानावस्थायां पिण्डीभूतं रूपं । तदतीतावस्थायामनागतावस्थायां च परमाणुशो विभक्तमतो न वर्तमानवत्गृह्यते । एवं सति तादवस्थ्यान्नित्याः परमाणवः स्युः । अनागताः प्रत्युत्पन्ना अतीताश्च त एव त इति । एवं च सति परमाणुसंचयविभागमात्रमेव प्राप्नोति । न तु कश्चिदुत्पादो नापि निरोध इत्याजीविकानां पाषण्डिनां वादः परिगृहीतो भवति । तथा चेष्यमाणे सूत्रमपास्तं भवति । चक्षुर्भिक्षव उत्पद्यमानम् (अभिधर्मकोषव्याख्या ४७५) न कुतशिच्दागच्छति । निरुध्यमानं न क्वचित्संनिचयं गच्छति । इति हि भिक्षवश्चक्षुर्[तिब् । १३६ ] अभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । कथक्ं पुनरिदं सूत्रमपविद्धं विरोधितं भवति । यस्माच्चक्षुरुत्पद्यमानं स्वेन रूपेण न कुतश्चिदागच्छतीत्येतत्पदं बाधितं भवति । निरुध्यमानं न क्वचित्संनिचयं गच्छतीत्येतदपि पदं बाधितं भवति । अतीतेऽध्वनि तत्परमाणूनां विप्रकीर्णसंचितत्वाभ्युपगमात् । अपरमाणुसंचितानामिति । वेदनादीनामपरमाण्वात्मनां कथं विप्रकीर्णत्वं । मूर्तानां हि संचितत्वं विप्रकीर्णत्वं वाभवद्भवेन्नामूर्तानां । तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्त इति । वर्तमानरूपा एव स्मर्यन्ते । यदि च ते तथैव संति । यथा वर्तमाना नित्याः प्राप्नुवंति । अथ न संति तद्रूपाः असदप्यालंबनमिति सिद्धं । त्रयोदशमप्यायतनमालंबनं स्यादिति । त्रयोदशानामायतनानां पूरणं त्रयदशमायतनं । तद्विज्ञानस्यालंबनं स्यात् । असदालंबनत्व इष्यमाणे तदालंबनं वा विज्ञानं स्यात् । एवं वैभाषिकेणोक्ते आचार्य आह । अथ त्रयोदशमिति विस्तरः । एतदेव नामेति वैभषिकाः । यदेतन्नाम त्र्योदशमायतनमिति । तदालंबनं । एवं तर्हि नामैव नास्तीति [तिब् । १३६ ] प्रतीयेत । नाभिधेयं त्रयोदशायतनाभावलक्षणं । किं च यश्च शब्दस्य प्रागभावमालंबते । किं तस्यालंबनं । भवतीति वाक्यशेषः । एवं प्रकृते वैभाषिक आह । शब्द एवालंबनमिति प्रकृतं । एवं तर्हीति विस्तरेणाचार्यः । यः शब्दस्य प्रागभावमालंबते । शब्द एव तेनालंबितो भवति । न प्रागभावः । प्राप्तमिदं भवति । यः शब्दाभावं प्रार्थयते । तस्य शब्द एव कर्तव्यः स्यादिति । अनागतावस्थ इति चेत्स्यान्मतं । यस्यासौ प्रागभावः । सोऽनागतावस्थस्तेनालंब्यते । तस्माद्यः शब्दाभावं प्रार्थयते । न तस्य शब्द एव कर्तव्यः स्यादिति । तदुच्यते । सति कथं नास्तीति बुद्धिरिति । विद्यमाने तस्मिं शब्दे यस्यासौ प्रागभावः कथमस्य नास्तिबुद्धिर्या प्रागभावमालंबते । वर्तमानो नास्तीति चेत् । तत्रैतत्स्यात्वर्तमानो नास्तीत्येवं तदालंबनान्नास्तिबुद्धिस्तस्योत्पद्यत इति । न । एकत्वात् । यदेव तदनागतं । तदेव वर्तमानं भवति । न तस्मादन्यदिति । कथं तस्मिन्नेव वर्तमाने नास्तिबुद्धिरुत्पद्यते । यो वा तस्य विशेषः । यो वा तस्यानागतस्य पश्चाद्विशेषो वर्तमानावस्थायां भवति । तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धिरुत्पद्यते ।ऽतस्याभूत्वाभावसिद्धिः । तस्य विशेषस्याभूत्वा पूर्वं पश्चाद्भावः । तस्य सिद्धिरिति । [तिब् । १३७ ] भावश्चाभावश्चेति । भावो वर्तमानावस्थ्यायामभावोऽतीतानागतावस्थयोः । इति विज्ञानस्योभयमालंबनं भवति । यद्यभावो विज्ञानस्यालंबनं यत्तर्हीति विस्तरः । (अभिधर्मकोषव्याख्या ४७६) बोधिसत्त्वेन चरमभविकेनैवमुक्तं । यल्लोकेनास्ति । तज्ज्ञास्यामीत्येष संभवो नास्तीति वचनादभावालंबनं न भवतीति दर्शितं भवति । आचार्योऽन्याभिप्रायतामस्य सूत्रस्य दर्शयन्नाह् । अपरे आभिमानिका इति विस्तरः । अपरिशुद्धसमाधयोऽपरे आभिमानिका भवंति । असंतमप्यवभासं दिव्यचक्षुरवभासं प्रयोगावस्थायां संतमित्येव पश्यंति । अहं तु सन्तमेवावभासं पूर्वरूपं दिव्यचक्षुषोऽस्तीति पश्यामीत्ययं तत्र सूत्रेऽभिप्रायः । कुतोऽस्य विमर्श इति । सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतोऽस्य विमर्शविचारः संदेहो वा स्यात् । यदुत लोके नास्तीति विस्तरेण य उक्तः । सदसदालंबने तु बुद्धीनामयं विमर्शः संभवति । नान्यथा । को वा विशेष इति । को वा बोधिसत्त्वस्यान्येभ्यो विशेषः यदि तेऽपि सन्तमेवावभासं पश्यंति नासंतं । सदसदालंबनत्वे हि बुद्धीनामयं विशेषो भवति । इत्थं चैतदेवं [तिब् । १३७ ] सत् । असदालंबना बुद्धय इति । सच्च सतो ज्ञास्यत्यसच्चासत इतीदमत्रोदाहरणं । सच्च वस्तु सत्त्वतः परैष्यति ज्ञास्यति असच्चासत्त्वत इत्यसदालंबना बुद्धय इति सिद्धं । तस्मादयमप्यहेतुरिति । यदेतद्बोधिसत्त्वेनोक्तमिति । तत्पूर्वकादिति । कर्मपूर्वकात्चित्तसंतानविशेषात् । आत्मवादप्रतिषेध इति । शास्त्रावसाने वात्सीपुत्रीयमतप्रतिषेधे । उत्पादस्तर्हि अभूत्वा भवतीति । उत्पादः पूर्वं नास्तीदानीं भवतीति सिद्धोऽपूर्वप्रादुर्भावः । उत्पादस्योत्पादवता सह तुल्यवार्त्तत्वात् । अथ सर्व एवस्तीति । उत्पादोऽपि यद्यस्ति न केवलं हेतुरनागतं च फलमित्यभिप्रायः । कस्येदानीं क्व सामर्थ्यमिति । कस्य हेतोः क्व फले सामर्थ्यं । हेतुश्च यथोक्तः उत्पादः फलं चानागतमस्तीति । वर्तमानीकरण इति वैभाषिकः । किमिदानीं वर्तमानीकरणमिति विस्तरेणाचार्यः । नोत्पादो वर्तमानीकरणं । तस्य विद्यमानत्वात् । अत एवं पृच्छति । देशांतराकर्षणं चेत् । यदि मन्यसे हेतुना फलस्य देशांतराकर्षणं वर्तमानीकरणमिति । अत्र ब्रूमः । नित्यं प्रसक्तं फलमिति वाक्यशेषः । केवलं देशांतराद्देशांतराकर्षणं । न किंचिदपूर्वमुत्पद्यत इति । नित्यं प्रसक्तं । अरूपिणां च [तिब् । १३८ ] वेदनादीनां । कथं तद्देशांतराकर्षणा । अमूर्तत्वेनादेशस्थत्वान्न तद्युज्यत इत्यभिप्रायः । यच्च तदाकर्षणं क्रियासंज्ञकं । तदभूत्वा भूतमित्यभूत्वाभावसिद्धिरित्यभिप्रायः । स्वभावविशेषणं चेत् । यदि मन्यसे हेतुना स्वभावोऽस्य फलस्य विशेष्यते । तेन फलविशेषणं । भवतीति । अत्र ब्रूमः । सिद्धमभूत्वाभवनमिति । सिद्धमभूत्वा विशेषणस्य (अभिधर्मकोषव्याख्या ४७७) भवनं प्रादुर्भाव इति । अध्वत्रयं वा । किं । सर्वमस्तीत्यधिकृतं । यथात्र तदस्ति तथोक्तमिति । यद्भूतपूर्वं तदतीतं । यत्सति हेतौ भविष्यति । तदनागतं । यद्भूत्वाविनष्टं । तत्प्रत्युत्पन्नम् । इत्येवं सर्वास्तिवादः शासने साधुर्भवति । कथं तेन तस्मिं वा संयुक्ता इति । कथं तेनातीतानागतेन क्लेशेन तस्मिन् वा अतीतानागते वस्तुनि कथं संयुक्त इति । तज्जतद्धेत्वनुशयभावात्क्लेशेनेति । तस्मादतीताज्जातस्तज्जः । तस्यानागतस्य हेतुस्तद्धेतुः । तज्जश्चासौ तद्धेतुश्च तज्जतद्धेतुः । तज्जतद्धेतुरनुशयो बीजं तज्जतद्धेत्वनुशयः । तस्य भावात् । अतीतेनानागतेन च क्लेशेन यथाक्रमं संयुक्तः । तदतीतानागतं वस्त्वालंबनमस्येति तदालंबनः क्लेशस्तस्यानुशयः । तस्य भावादतीतेऽनागते च वस्तुनि यथाक्रमं संयुक्त इति धर्मतेति । [तिब् । १३८ ] धर्माणां स्वभावः । अतीतादिकाध्वव्यवस्थाने सति तत्संव्यवहारव्युत्पादनार्थमाह । अस्ति पर्याय इत्यादि । अस्ति वचनक्रमः । यदुत्पद्यते । तन्निरुध्यत इत्युक्त्वा । दृष्टांतमाह । रूपमुत्पद्यते रूपं निरुध्यते द्रव्यानन्यत्वात् । अन्यदुत्पद्यतेऽन्यन्निरुध्यते । अनागतमुत्पद्यतेऽन्यदुत्पादाभिमुखत्वात् । वर्तमानं निरुध्यतेऽन्यन्निरोधाभिमुखत्वात् । अध्वाप्युत्पद्यते उत्पद्यमानस्य धर्मस्याध्वसंगृहीतत्वादध्वस्वभावत्वादित्यर्थः । त एवाध्वा कथावस्त्व् इति लक्षणात् । अध्वनोऽप्युपादानरूपादुत्पद्यते धर्मः । कस्मादित्याह । अनेकक्षणिकत्वादनागतस्याध्वन इति । यस्मादनेकेषां क्षणानामनागतानां राशिरूपाणां कश्चिदेव क्षण उत्पद्यते । अतोऽध्वनोऽप्युत्पद्यत इत्युच्यते । (व् ।२८) प्रसंगेनागतमिति । शेषैस्तु सर्वैः सर्वत्रेति प्रसंगेनागतमतीतानागतविचारणं । यद्यस्तु प्रहीणमित्यादि । इह प्रहाणं प्राप्तिविगमात् । विसंयोगस्तदालंबनक्लेशप्रहाणात् । दर्शनभावनामार्गावधिकृत्य प्रहीणे दुःखदृग्घेय इत्यादि । प्राक्प्रहीणे इत्यादि । शेषसर्वगैर् इति । समुदयदर्शनप्रहातव्यैः सर्वत्रगैः । शेषैस्तद्विषयैर्मलैर् (अभिधर्मकोषव्याख्या ४७८) इति । प्रहीणप्रकारविषयानुशयैरित्यर्थः । तद्यथाधिमात्राधिमात्रे प्रकारे प्रहीणेऽधिमात्रमध्यादिभिः शेषैरप्रहीणैरनुशयैः संयुक्तः । तथा ह्यसावधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तोऽपि स संयुक्त एव तैः शेषैरिति । (व् ।२९-३१) पिण्डविभाषां कुर्वंति । संक्षेपव्याख्यां कुर्वंतीत्यर्थः । के । वैभाषिकाः । षोडशेति । कामावचराः पंच प्रकाराः । [तिब् । १३९ ] दुःखसमुदयनिरोधमार्गदर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्यश्च पंचमः । एवं यावदारूप्यावचराः पंच प्रकारा इति पंचदश । अनास्रवश्च षोडश इति षोडश धर्माः । इमे च धर्माः ये दर्शनप्रहातव्याः । ते चतुःस्कन्धस्वभावाः । ये भावनाप्रहातव्याः । ते पंचस्कन्धस्वभावाः । कथं । या वेदना यैर्दर्शनप्रहातव्यैरनुशयैः संप्रयुक्ताः । स वेदनास्कन्धः । याः संज्ञाः । स संज्ञास्कन्धः । येऽनुशयाः ये च तत्संप्रयुक्ताश्चेतनादयो याश्चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जातिजरास्थित्यनित्यताश्च विप्रयुक्ताः । स संस्कारस्कन्धः । यच्चैभिः संप्रयुक्तं मनोविज्ञानं । स विज्ञानस्कन्धः । इति चतुःस्कन्धस्वभावा दर्शनप्रहातव्याः । भावनाप्रहातव्याः पुनरतोऽन्ये सास्रवा धर्माः । कथं । बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूपस्कन्धः । अनास्रवदर्शनप्रहातव्यवर्ज्याश्च वेदनासंज्ञासंस्कारविज्ञानस्कन्धा इति पंचस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः । चित्तान्यपि षोडशैतान्येवेति । कामावचरं दुःखदर्शनप्रहातव्यं यावद्भावनाप्रहातव्यम् [तिब् । १३९ ] इति पंच चित्तानि । एवं रूपावचराण्यारूप्यावचराणि च पंचपंच अनास्रवं च चित्तमिति षोडश चित्तानि । तानि तत्षोडशधर्मालंबनानि वर्ण्यंते । अमुष्मिन्नियंतोऽनुशया इति । अमुष्मिं धर्मे इयंतोऽनुशया ये तेन चित्तेन संप्रयुक्ता आलंबनतः संप्रयोगतो वानुशेरत इत्येतदभ्यूहितव्यं । दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजा इति । दुःखसमुदयदर्शनभावनाप्रहेयाः कामावचरा इत्यर्थः । एषा विग्रह जातिरिति । स्वकत्रयं चैकरूपाप्तं चामलं च । स्वकत्रयैकरूपाप्तामलानि विज्ञानानि । स्वकत्रयैकरूपाप्तामलविज्ञानि । तेषां गोचराः । कामावचरास्तावदिति विस्तरः । कामावचरा दुःखसमुदयदर्शनप्रहातव्या (अभिधर्मकोषव्याख्या ४७९) यथाक्रमं दशसप्तानुशयाः । तत्सहभुवस्तत्प्राप्तयश्च सानुचराः । भावनाहेयाश्चतुरनुशयास्तत्सहभुवस्तत्प्राप्तयश्च सानुचराः । सर्वं सास्रवं रूपं । अन्ये चाक्लिष्टा धर्माः । एते धर्माः पंचानां चित्तानामालंबनं । केषामित्याह । स्वधातुकानां त्रयाणां तेषामेवेति । कामावचराणां दुःखसमुदयदर्शनभावनाहेयानां । [तिब् । १४० ] कथं कृत्वा । दुःखदर्शनहेयास्तावद्दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसंप्रयुक्तस्य । समुदयदर्शनप्रहातव्यस्य च सर्वत्रगसंप्रयुक्तस्य । भावनाहेयस्य च कुशलस्य । रूपावचरस्यैकस्य भावनाहेयस्यैव । लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालंबनावस्थायां । रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायां । अनास्रवस्य च धर्मज्ञानपक्षस्य चेति पंचानां चित्तानामालंबनं भवंति । न कामावचरयोर्निरोधमार्गदर्शनहेययोश्चित्तयोरालंबनम् । अनास्रवालंबनयोश्चित्तयोर्निरोधमार्गालंबनत्वात् । सास्रवालंबनयोर्श्च निरोधमार्गदर्शनहेयमात्रालंबनत्वात् । नोर्ध्वभूमिकानां क्लिष्टानां । अधरभूमिकानालंबनत्वात् । नारूप्यावचरस्य कुशलस्य । चतसृभिर्दूरताभिर्दूरत्वात् । एवं समुदयदर्शनहेया द्विप्रकारस्य समुदयदर्शनहेयस्य । दुःखदर्शने हेयस्य च सर्वत्रगसंप्रयुक्तस्य । भावनाहेयस्य कुशलस्य । रूपावचरस्यैकस्य भावनाहेयस्यैव । अनास्रवस्य चेति । पंचानामेवालंबनं भवंति । व्याख्यानं च पूर्ववदेव कर्तव्यं । भावनाहेया अपि पंचानामेवालंबनं भवंति । दुःखसमुदयदर्शनहेययोः [तिब् । १४० ] सर्वत्रगसंप्रयुक्तयोश्चित्तयोर्भावनाहेयस्य च कुशलाकुशलाव्याकृतस्य यथासंभवं । रूपावचरस्यैकस्य भावनाहेयस्यैव । अनास्रवस्य चेति । पूर्ववदेव वाच्यं । स्वकाधरत्रयोर्ध्वैकामलानाम् इति । स्वकानामधराणां च त्रयं स्वकाधरत्रयं च ऊर्ध्वैकं चामलं चेति विग्रहः । रूपावचरास्त एव त्रिप्रकारा धर्मा इति । दुःखसमुदयदर्शनभावनाहेयास्तेषामधिकृतत्वात् । तेऽष्टानां चित्तानामालंबनं । स्वधातुकानां त्रयाणां तेषामेव दुःखसमुदयदर्शनभावनाहेयानां पूर्ववद्व्याख्येयं । अधरधातुकानां त्रयाणां तेषामेव । तेषां दुःखसमुदयदर्शनहेययोर्विसभागधातुसर्वत्रगसंप्रयुक्तयोश्चित्तयोर्भावनाहेयस्य च श्रुतमयस्य च चिन्तामयस्य वा । ऊर्ध्वधातुकस्यैकस्य भावनाहेययैवाकाशानांत्यायतनसामन्तकसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्येति । (अभिधर्मकोषव्याख्या ४८०) त्रिधात्वाप्तत्रयानास्रवगोचरा इति । त्रिधात्वाप्तानां त्रयाणामनास्रवस्य च गोचराः । त एवेति त एव दुःखसमुदयदर्शनभावनाहेया [तिब् । १४१ ] अधिकृताः । त्रिप्रकराणां तेषामेवेति । कामरूपावचराणां दुःखसमुदयदर्शनहेयानां विसभागधातुसर्वत्रगसंप्रयुक्तानां चतुर्णां भावनाप्रहातव्ययोर्द्वयोर्यथायोगं । स्वधातुकानां च त्रयाणां । कतमेषां । सर्वत्रगासर्वत्रगसंप्रयुक्तयोर्यथायोगं द्वयोर्भावनाप्रहातव्यस्य चानास्रवस्य चेति । दशानां चित्तानामालंबनं भवंति । निरोधमार्गदृग्घेयाः सर्वस्वाधिकगोचरा इति । सर्वग्रहणं त्रैधातुकोपसंग्रहार्थं । स्वस्याधिकस्य गोचरा इति वचनात्पूवोक्तानां च गोचरा इत्यर्थादुक्तं भवति । अथ वा स्वेनाधिकानि स्वाधिकानि । स्वाधिकानां गोचराः स्वाधिकगोचरा इति । तस्याधिकस्येति । रागादिसंप्रयुक्तस्य । न मिथ्यादृष्ट्यादिसंप्रयुक्तस्य । तस्य नित्यं निरोधमार्गालंबनत्वात् । पूर्वोक्तानां पंचानामिति । कामावचराणां त्रयाणां । द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां । रूपावचरस्य भावनाप्रहातव्यस्यैव । अनास्रवस्य चेति । मार्गदर्शनप्रहातव्या अप्येवमिति । किमेवं । [तिब् । १४१ ] षण्णां चित्तानामालंबनमिति । नवानामेकादशानां च चित्तानामालंबनं भवतीति । रूपावचरा निरोधमार्गदर्शनप्रहातव्या नवानां चित्तानामालंबनं भवंति । आरूप्यावचरा एकादशानामिति । कथं । रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाहेयानां त्रयाणां । स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां । आरूप्यावचरस्य भावनाप्रहातव्यस्याकाशानंत्यायतनसंगृहीतस्य । अनास्रवस्य चान्वयज्ञानपक्षस्य । तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य । इति नवानां प्रत्येकमालंबनं भवंति । आरूप्यावचरा अपि निरोधमार्गदर्शनप्रहातव्या धर्माः प्रत्येकमेकादशानां चित्तानामालम्बनं भवंति । कामरूपावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां षण्णां । स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तकभावनाप्रहातव्यानां । निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येकमधिकस्य । अनास्रवस्य चान्वयज्ञानपक्षस्य । इत्येकादशानामालंबनं भवंति । अनास्रवास्त्रिधात्वंत्यत्रयानास्रवगोचरा इति । अनास्रवा निरोधादयः । त्रिषु धातुषु [तिब् । १४२ ] यान्यन्त्यानि त्रयाणि (अभिधर्मकोषव्याख्या ४८१) निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणानि । तेषां यथायोगमनास्रवस्य च गोचराः । कथं । प्रतिसंख्यानिरोधार्यमार्गौ तावत्तदालंबनानां मिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तानां भावनाप्रहातव्यानामनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगमालंबनं । आकाशाप्रतिसंख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालंबनमिति वेदितव्यं । आचार्यगुणमतिवसुमित्रौ तु व्याचक्षाते आकाशाप्रतिसंख्यानिरोधौ भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालंबनमिति । तदयुक्तं । मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला निरोधमार्गदृग्घेयाः षडनास्रवगोचरा इति नियमात् । अतो न क्लिष्टचित्तस्य भावनालंबनमिति सिद्धांतः । पंचाष्टदशविज्ञानदशविज्ञानगोचरा इति । कामावचराः दुःखसमुदयदर्शनभावनाहेयाः पंचानां गोचराः । रूपावचरा अष्टानाम् । आरूप्यावचरा दशानाम् । अमला अपि दशानामेवेति । पूर्वव्याख्यानानुसारेण योज्यं । एतान्येव षोडश चित्तानि षट्त्रिंशद्भवंति । कामधातौ दुःखसमुदयदर्शनहेयमसर्वत्रगसंप्रयुक्तं सभागविसभागसर्वत्रगसंप्रयुक्तं च । एवं रूपधातौ दुःखसमुदयदर्शनहेयं प्रत्येकं त्रिप्रकारं । आरूप्यधातावन्यत्र विसभागधातुभूमिसर्वत्रगसंप्रयुक्तात् । निरोधमार्गदर्शनहेयं धातुत्रयेऽपि प्रत्येकं द्विधा सास्रवानास्रवालंबनत्वात् । भावनाहेयमपि क्लिष्टाक्लिष्टभेदात्द्विप्रकारं । अनास्रवमपि धर्मज्ञानपक्षमन्वयज्ञानपक्षं चेति द्विधा । कामावचरं भावनाप्रहातव्यमिति । पंचविज्ञानकायिकं सुखेन्द्रियं । रूपावचरं पंचप्रकारम् [तिब् । १४२ ] इति । प्रथमध्यानभूमिकं त्रिविज्ञानकायिकं । तृतीयध्यानभूमिकं मानसमित्यभिसमस्य यथायोगं पंचप्रकारं दुःखदर्शनप्रहातव्यं यावद्भावनाप्रहातव्यं । अनास्रवं च तृतीयध्यानभूमिकमेव । कामावचरस्य चतुःप्रकारस्येति । दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य । दुःखसमुदयदर्शनहेययोः सुखेन्द्रियमालंबनं भवति । यस्माद्दुःखसमुदयसत्यसंगृहीतं स्वभूमिकमूर्ध्वभूमिकं वा सुखेन्द्रियं सत्कायमिथ्यादृष्ट्यादीनामालंबनं भवति । मार्गदर्शनहेयस्य च मिथ्यादृष्ट्यादिसंप्रयुक्तस्य मार्गसत्यसंगृहीतं सुखेन्द्रियमालंबनं । भावनाहेयरागादिसंप्रयुक्तस्य च चित्तस्य (अभिधर्मकोषव्याख्या ४८२) तत्पंचविज्ञानकायिकं सुखेन्द्रियमालंबनम् । इति चतुष्प्रकारस्यास्य तदालंबनं । न तु निरोधदर्शनहेयस्य चित्तस्य । तत्र मिथ्यादृष्ट्यादीनां निरोधालंबनत्वात् । दृष्टिपरामर्शादीनां च स्वनिकायालंबनत्वात् । तत्र च सुखेन्द्रियाभावात् । तेनोच्यतेऽन्यत्र निरोधदर्शनहेयादिति । रूपावचरस्य पंचप्रकारस्येति । यस्मात्तृतीयध्यानसंगृहीतं पंचप्रकारं सुखेन्द्रियं भवति । मार्गदर्शनभावनाहेयस्येति । आरूप्यावचरस्य मार्गदर्शनहेयस्य मिथ्यादृष्ट्यादिसंप्रयुक्तस्य चित्तस्य मार्गसंगृहीतं सुखेन्द्रियमालंबनं । तदेव च भावनाहेयस्य कुशलस्य चित्तस्यालंबनम् । अनास्रवस्य च सर्वमप्यालंबणं [तिब् । १४३ ] भवति । तत्र यथासंभवमिति । यस्मादनास्रवे अनुशया नानुशेरते । यस्मात्क्वचिदेव केचिदनुशेरते । तस्माद्यथासंभवमित्युच्यते । तत्र विज्ञाने कामावचराश्चत्वारो निकायाः । तद्यथा निथ्यादृष्टिसंप्रयुक्ते सुखेन्द्रियालंबने दशापि दुःखदर्शनप्रहातव्या अनुशया आलंबनतोऽनुशेरते संप्रयोगतो वा यथासंभवं । एवं समुदयदर्शनप्रहातव्याः । मार्गदर्शनप्रहातव्या अपि तत्र सुखेन्द्रियालंबने विज्ञानेऽनुशेरते । मार्गसुखेन्द्रियालंबने हि मिथ्यादृष्ट्यादिसंप्रयुक्ते विज्ञाने मिथ्यादृष्ट्यादयः संप्रयोगतोऽनुशेरते । दृष्टिपरामर्शादयोऽप्यालंबनतोऽनुशेरते । तस्मात्सोऽपि निकायस्तत्रानुशेते । भावनाहेयोऽपि निकायोऽत्रानुशेते । तत्र रागादीनां सुखेन्द्रियालंबनविज्ञानालंबनयोगात् । निरोधदर्शनप्रहातव्यनिकायस्तु तत्र नानुशेते । सुखेन्द्रियालंबनविज्ञानाभावात् । रूपावचराः संस्कृतालंबना इति । रूपावचरं सुखेन्द्रियालंबनं पंचप्रकारमस्ति । तत्र चत्वारो निकाया अनुशेरत इति सुगममेतत् । निरोधदर्शनप्रहातव्यास्[तिब् । १४३ ] तु संस्कृतालंबनाः कथमनुशेरते । तृतीये ध्याने दृष्टिपरामर्शादयः सुखेन्द्रियेण संप्रयुज्यंते । ते चान्योन्यालंबनाः । ते तत्र सुखेन्द्रियालंबनविज्ञाने संप्रयोगत आलंबनतो वानुशेरते । आरूप्यावचरौ द्वौ निकायाविति । मार्गदर्शनभावनाहेयनिकायौ । मार्गसुखेन्द्रियालंबने मिथ्यादृष्ट्यादिसंप्रयुक्ते मिथ्यादृष्ट्यादयः संप्रयोगतोऽनुशेरते । दृष्टिपरामर्शादयस्तु तत्रालंबनतोऽनुशेरते । भावनाहेयोऽपि निकायोऽनुशेते । भावनाहेयं हि कुशलं चित्तं मार्गमालंबते । तत्र स रागादिनिकायोऽनुशेते । सर्वत्रगाश्चारूप्यावचरा अनुशयास्तत्रैव विज्ञाने मार्गालंबनमिथ्यादृष्ट्यादिसंप्रयुक्ते वा विज्ञानेऽनुशेरत इति विज्ञातव्यं । तस्यैव द्वादशविधस्येति । कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् । (अभिधर्मकोषव्याख्या ४८३) रूपावचरस्य पंचप्रकारस्यारूप्यावचरस्य च द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य चेत्यन्योन्यालंबनयोगतस्तस्य सुखेन्द्रियालंबनं विज्ञानमालंबनं भवति । आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत्सुखेन्द्रियालंबनं विज्ञानमालंबनं भवति । कतमस्येत्याह । दुःखसमुदयदर्शनप्रहातव्यस्येति । [तिब् । १४४ ] आरूप्यावचरस्य सर्वत्रगसंप्रयुक्तस्य हि दुःखसमुदयदर्शनहेयभेदात्द्विप्रकारस्य चित्तस्यारूप्यावचरमार्गदर्शनहेयमिथ्यादृष्ट्यादिसंप्रयुक्तं विज्ञानं मार्गालंबनं चारूप्यावचरं भावनाहेयं कुशलमालंबनं भवति । एवमिदं चतुर्दशविधं सुखेन्द्रियालंबनविज्ञानालंबनं तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति । पूर्वं सर्वत्रगा एवारूप्यावचराः सुखेन्द्रियालंबने विज्ञानेऽनुशेरते । सुखेन्द्रियालंबनालंबने तु सकलावप्यारूप्यावचरौ दुःखसमुदयदर्शनहेयौ निकायावनुशयाते । तस्मात्तत्र सर्वत्रगसंप्रयुक्ते चित्ते दुःखसंुदयदर्शनहेया अनुशयाः संप्रयोगत आलंबनतो वा यथायोगमनुशेरते । शेषास्तु पूर्ववद्योज्याः । अनया वर्तन्यान्यदपि गंतव्यमिति । अनेन वर्त्मनान्यदपि बोद्धव्यं । कथं । दुःखेन्द्रियालंबने कत्यनुशया अनुशेरत इति प्रश्न आगते विचारयितव्यं । दुःखेन्द्रियमेकविधं कामावचरं भावनाप्रहातव्यं पंचविज्ञानकायिकत्वात् । तत्समासतः पंचविधस्य विज्ञानस्यालंबनं भवति । कामावचरस्य [तिब् । १४४ ] त्रिप्रकारस्य । दुःखसमुदयदर्शनहेययोः सर्वत्रगसंप्रयुक्तयोर्विज्ञानयोर्भावनाप्रहातव्यस्य च । रूपावचरस्य च भावनाप्रहातव्यस्य । अनास्रवस्य च । इदं पंचविधं दुःखेन्द्रियालंबनं विज्ञानं । तत्र यथासंभवं कामावचरास्त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः । तत्र हि सर्वत्रगसंप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत आलंबनतो वा यथासंभवमनुशयाते । भावनाहेये च भावनाहेयो निकायोऽनुशेते । रूपावचर एको भावनाहेयः । तत्र भावनाहेये चित्तेऽनुशेते । सर्वत्रगाश्च रूपावचरास्तत्रैवेत्यवगंतव्यं । दुःखेन्द्रियालंबनालंबने विज्ञाने कत्यनुशया अनुशेरते । तत्पुनर्दुःखेन्द्रियालंबनं पञ्चविज्ञानं कतमस्य विज्ञानस्य आलंबनं । तस्यैव पंचविधस्यान्योन्यालंबनयोगेन । कामावचरस्य च भूयो मार्गदर्शनहेयस्य अनास्रवालंबनस्य । रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालंबनं भवति । तेन हि रूपावचरं दुःखेन्द्रियालंबनं कुशलं भावनाप्रहातव्यम् (अभिधर्मकोषव्याख्या ४८४) आलंब्यते । आरूप्यावचरमप्याकाशानंत्यायतनसामन्तकसंगृहीतौदारिकाद्याकारं [तिब् । १४५ ] दुःखेन्द्रियालंबनमालंबते । तदिदमष्टविधं दुःखेन्द्रियालंबनालंबनं विज्ञानं । तत्र कामावचराश्चत्वारो निकायाः । दुःखसमुदयमार्गदर्शनभावनाहेयाः । रूपावचरास्त्रयो निकायाः । दुःखसमुदयदर्शनभावनाप्रहातव्याः । आरूप्यावचर एको भावनाप्रहातव्यः । सर्वत्रगाश्चानुशया अनुशेरत इति विज्ञातव्यं । सौमनस्येन्द्रियालंबने विज्ञाने कत्यनुशया अनुशेरत इति प्रश्ने विचारयितव्यं । तत्पुनः सौमनस्येन्द्रियालंबनं विज्ञानमेकादशविधं । कामरूपावचरं पंच प्रकारमनास्रवं चेति । तदेतत्समासतस्त्रयोदशविधस्य विज्ञानस्यालंबनं भवति । कामावचरस्य पंचप्रकारस्य संस्कृतालंबनस्य तस्य संस्कृतत्वात् । एवं रूपावचरस्य । आरूप्यावचरस्य तु द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य । अनास्रवस्य च । इदं त्रयोदशविधं सौमनस्येन्द्रियालंबनविज्ञानं । तत्र यथासंभवं कामावचररूपावचराः पंचनिकायाः संस्कृतालंबनाः । आरूप्यावचरौ द्वौ निकायौ । सर्वत्रगाश्चानुशयाः अनुशेरत इति विज्ञातव्यं । सौमनस्येन्द्रियालंबनालंबने विज्ञाने कत्यनुशया अनुशेरते । तत्पुनः सौमनस्येन्द्रियालंबनं [तिब् । १४५ ] त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालंबनं । तस्यैव त्रयोदशविधस्य । आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य । इदं पंचदशविधं सौमनस्येन्द्रियालंबनं विज्ञानं । तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा । कामावचररूपावचराः संस्कृतालंबनाः । आरूप्यावचराश्चत्वारो निकायाः अन्यत्र निरोधदर्शनहेयात् । अनुशया अनुशेरत इति विज्ञातव्यं । अनया दिशा अन्यदपि गंतव्यमिति । (व् ।३२) द्विधा सानुशयं क्लिष्टम् इति । अनुशयानैरननुशयानैश्चानुशयैः सानुशयं क्लिष्टमित्यर्थः । तत्सहितत्वात्सदावस्थितत्वात् । अक्लिष्टं चित्तमनुशयानैरेव सानुशयं विवेचयितुं शक्यत्वात् । तथा हि वक्ष्यति प्रहातव्यः क्लेश आलंबनात्मत इति । (व् ।३३) सर्वस्य सर्वानंतरमुत्पत्तिसंभवान्नास्त्येषामुत्पत्तौ सार्वजन्यः क्रमनियमः । दुःखतः स्कन्धानपोह्येति । नेदं दुःखमित्यात्मतोऽभिनिवेशात् । रूपमात्मेत्येवंदृष्टिकस्य वेदनाद्यात्मग्राहदृष्टिः (अभिधर्मकोषव्याख्या ४८५) प्रत्यनीका । (व् ।३४) अप्रहीणो भवत्यपरिज्ञात इति । अप्रहीणस्तत्प्राप्त्यनुच्छेदात् । अपरिज्ञातस्तत्प्रतिपक्षस्य चानुत्पत्तेः । कामरागपर्यवस्थानीया इति । पर्यवतिष्ठते एभिरिति पर्यवस्थानीयाः स्नानीयवत् । कामरागस्य पर्यवस्थानीया अनुकूला इति । कामराग एव वा पर्यवस्थानं [तिब् । १४६ ] कामरागपर्यवस्थानं । तस्मै हिताः कामरागपर्यवस्थानीयाः । ते पुना रूपादयो विषयाः आभासगता भवंतीति । विषयरूपतामापन्ना भवंतीत्यर्थः । तत्र चायोनिशोमनस्कार इति । तत्र चाभासगतेषु विषयेषु विपरीतः समनंतरप्रत्यय इत्यर्थः । हेतुविषयप्रयोगबलानीति । हेतुबलं कामरागोत्पत्तये कामरागानुशयोऽप्रहीणो भवत्यपरिज्ञातः । कामरागपर्यवस्थानीया विषयबलं । तत्र चायोनिशोमनस्कारः प्रयोगबलं । एवमन्योऽपि क्लेश उत्पद्यत इति । प्रतिघानुशयोऽप्रहीणो भवत्यपरिज्ञातः । प्रतिघपर्यवस्थानीया धर्मा आभासगता भवंति । तत्र चायोनिशोमनस्कार इत्येष नयः । (व् ।३५-३८) चत्वारो योगा एत एवेति । कामयोगो भवयोगो दृष्टियोगोऽविद्यायोगश्चेति । विना मोहेनेति । अविद्यास्रवस्य पृथगुक्तत्वात् । सह पर्यवस्थानैराह्रीक्यादिभिर्वक्ष्यमाणैः एकचत्वारिंशद्द्रव्याणि । एकत्रिंशदनुशया इति । द्वादश दृष्टयः । दुःखदर्शनप्रहात्व्या पंच । समुदयदर्शनप्रहातव्ये द्वे । निरोधदर्शनप्रहातव्ये द्वे एव । [तिब् । १४६ ] तिस्रो मार्गदर्शनप्रहातव्याः । चतस्रो विचिकित्साः । पंच रागाः । एवं प्रतिघा मानाश्च । दश पर्यवस्थानानीत्येवमेकचत्वारिंशत् । अनुशया एवेति । एवकारः पर्यवस्थाननिरासार्थः । षड्विंशतिरनुशया इति । द्वादश दृष्टयश्चतस्रो विचिकित्साः पंच रागाः पंच माना इति । ननु च तत्राप्यस्ति पर्यवस्थानद्वयमिति । तत्र रूपारूप्यधात्वोः । स्त्यानौद्धत्यमदा धातुत्रय इति वचनात् । कस्मादिह तस्याग्रहणमिति । तस्य पर्यवस्थानद्वयस्य । अस्वातंत्र्यादिति । कथमस्वातंत्र्यं । रागादिसंप्रयोगित्वादीर्ष्यादिवदविद्यामात्रासंप्रयोगित्वाच्च । एतद्धि द्वयं रागादिभिः संप्रयुज्यते । न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः । स्वतंत्राः । अविद्यामात्रेण संप्रयोगादिति । ते ह्युभयेऽपीति । रूपारूप्यावचरा अपीत्यर्थः । अंतर्मुखप्रवृत्ता इति । न विषयप्रधाना इत्यर्थः । येनैव च कारणेन भवराग उक्त इति । (अभिधर्मकोषव्याख्या ४८६) अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृत इति । अनेन च भवास्रव इति । अविद्यास्रव इति सिद्धमिति । अविद्या पूर्वोक्ताभ्यामास्रवाभ्यां बहिष्कृता । तस्मात्सा त्रैधातुक्यपि अविद्यास्रव इति सिद्धमेतत् । पंचदशद्रव्याणीति । त्रिष्वपि धातुष्वविद्यायाः प्रत्येकं पंचप्रकारत्वात् । सर्वेषां तेषामिति । कामास्रवादीनां संसारस्य च । उक्तो ह्यविद्या हेतुसंरागायेत्यादि । याः काश्चन दुर्गतयः अस्मिन् लोके परत च अविद्यामूलिकाः सर्वा इच्छालोभसमुत्थिता इति च । तथौघयोगा इति । आस्रवा [तिब् । १४७ ] एवौघा योगाश्च भवंति । केवलं दृष्टयः पृथग् अवस्थाप्यन्ते । कथमिति विव्रियते । कामास्रव एव कामौघः कामयोगश्च । एवं भवास्रव एव भवौघो भवयोगश्च । अविद्यौघयोगस्तु पूर्ववदेवावगंतव्यः । दृष्टियोग इह चतुर्थ उक्तः । तेनाह अन्यत्र दृष्टिभ्य इति । ताः किलेति । किलशब्दः परमतद्योतकः । विनेयजनवशात्तु दृष्टियोगः पृथगुक्त इत्यभिप्रायो युज्यते । आस्रवेषु दृष्टयः किमर्थं न पृथग्स्थापिता इत्याह । नास्रवेष्वसहायानाम् इत्यादि । असहायानां दृष्टीनामास्यानुकूलता अवस्थानानुकूलता चलत्वात्पटुत्वाच्च न भवति । नासनानुकूलतेत्यर्थः । आसेति रूपे प्राप्ते आपिशलेष्ट्या आस्येति रूपं भवति । तदिदमुक्तं भवति । यस्मादेता दृष्टयोऽसहाया नासनानुकूलाः ससहायास्त्वासनानुकूला भवंति । तस्मात्ससहाया एवैता आस्रवेषूक्ताः । मिश्रीकृत्योक्ता इत्यर्थः । किमर्थमित्याह । आसयंतीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यतीत्यत आसनार्थमास्रवेषु भवितव्यमित्यभिप्रायः । तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणीति । द्वादशदृष्ट्यपनयनान्नास्रववदेकचत्वारिंशद्द्रव्याणि भवंति । किं तर्ह्येकान्नत्रिंशद्द्रव्याणि भवंति । कथमित्याह । रागप्रतिघमाना इति सर्वं । भवौघो [तिब् । १४७ ]ऽष्टाविंशतिर्द्रव्याणीति । भवास्रवो द्वापंचाशद्द्रव्याण्युक्तानि । ततश्चतुर्विंशतिर्दृष्टीरपनीयाष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिरिति द्विधातुका रागा दश भवंति । माना अपि दशेति विंशतिः । दृष्ट्योघः (अभिधर्मकोषव्याख्या ४८७) षट्त्रिंशद्द्रव्याणीति । त्रिषु धातुषु त्रिद्वादश दृष्टय इति । अविद्यौघः पंचदश द्रव्याणि । पूर्ववत् । ओघवद्योगा इति । कामयोग एकान्नत्रिंशद्द्रव्याणि । रागप्रतिघमानाः पंचदश विचिकित्साश्चतस्रः दश पर्यवस्थानानीति । भवयोगोऽष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिः विचिकित्सा अष्टौ दृष्टियोगः षट्त्रिंशद्द्रव्याणि । अविद्यायोगः पंचदश द्रव्याणि । यथोक्ता एव साविद्या इति विस्तरः । के यथोक्ताः । योगा इत्यधिकृतं तस्माद्विव्रियते । कामयोग एव सहाविद्यया कामोपादानमिति । अविद्या कामोपादानात्मवादोपादानयोर्यथास्वमंतर्भाव्यते । द्विधादृष्टेः पृथक्करणाच्चतुष्ट्वं । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति । दृष्टियोगाच्छीलव्रतं निष्कृष्येति । षट्त्रिंशद्द्रव्यकाद्दृष्टियोगात्धातुभेदेन षच्छीलव्रतपरामर्शान्निष्कृष्य । दृष्ट्युपादानं त्रिंशद्द्रव्याणि । शीलव्रतोपादानं षड्द्रव्याणि कामधातौ द्वे एवं रूपधाताव्[तिब् । १४८ ] आरूप्यधातौ चेति । मार्गप्रतिद्वंद्वादिति । सांख्ययोगज्ञानादिभिर्मोक्षप्राप्तिदर्शनान्मार्गप्रतिद्वंद्वभूतं शीलव्रतोपादानं । उभगपक्षविप्रलंभनाच्चेति विस्तरः । गृहिप्रव्रजितपक्षविप्रलंभनाच्चेत्यर्थः । अनशनादिभिरिति । आदिशब्देन जलाग्निप्रपतनमौनवीरादानादिर्गृह्यते । अनशनादीनि शीलव्रतसंगृहीतानीष्टविषयपरिवर्जनं च । इष्टविषयपरिवर्जनेनेति । रसपरित्यागभूमिशय्यामलपंकधारणनग्नचर्याकेशोल्लुंचनादिना शुद्धिप्रत्यागमनात् । अविद्या तु ग्राहिका नेति मिश्रितेति । न केवलाविद्या भवमुपाददाति । कस्मादित्याह । असंप्रख्यानलक्षणतया अपटुत्वादिति । मिश्रिता त्वन्यक्लेशसंपर्कवशादुपाददातीत्यभिप्रायः । एतः किलेति । किलशब्दः परमतद्योतकः । तेन स्वमतमुच्यते । सूत्रे तु भगवतोक्तमिति विस्तरेण । एवं यावद्दृष्टियोग इति । कथं । दृष्टियोगः कतमः । विस्तरेण यावद्योऽस्य भवति दृष्टिषु दृष्टिरागो दृष्टिच्छन्दो दृष्टिस्नेह इति पूर्ववत् । छन्दरागश्चोपादानमुक्तं सूत्रांतरेषु । कथम् । उपादानं कतमत् । योऽत्र छन्दराग इति । एतदाचार्यमतं । तदुक्तं भवति राग एवात्र योगः । [तिब् । १४८ ] उपादानं वा । नान्ये क्लेशा इति । तेनोच्यते कामादिषु यश्छन्दराग इति । (व् ।३९) अणव इति विस्तरेण । अणवः शेरते इत्यनुशयाः । नैरुक्तेन विधिनास्य सिद्धिः । (अभिधर्मकोषव्याख्या ४८८) सूक्ष्मप्रचारत्वादिति । सूक्ष्मप्रवृत्तित्वादित्यर्थः । कथं पुनः सूक्ष्मा प्रवृत्तिः । अरूपिणां दुर्विज्ञानतया । आलंबनतश्छिद्रान्वेषिशत्रुवत्दृष्टिविषवच्च । संप्रयोगतोऽयोगुडोदकसंतापवत्स्पर्शविषवच्च । उभयतो धात्र्यः कुमारकमनुशेरते । एवमेतेऽप्यालंबनात्संप्रयुक्तेभ्यो वा स्वां संततिं वर्धयंतः प्राप्तिभिरुपचिंवंति । अनुबध्नंतीति । अनुक्रान्तेश्चातुर्थकज्वरवन्मूषिकाविषवच्चेत्यन्ये । अप्रयोगेण अनाभोगेन । प्रतिनिवारयतोऽपि निषेधयतोऽपि पुद्गलस्य पुनःपुनः संमुखीभावादनुबध्नंत्यतोऽनुशया इति । आसयंति संसार इत्यास्रवा इति । नैरुक्तो विधिः । आसनार्थो वा । आस्रवंति भवाग्राद्यावदवीचिमिति । षड्भिरायतनव्रणैश्चक्षुरादिभिरायतनैर्व्रणभूतैरास्रवंति क्षरंति । भवाग्राद्यावदवीचिं गच्छंति । भवाग्रावीतरागस्याप्यावीचिकक्लेशसमुदाचारात्तदुत्पन्नस्य वा तत्रोत्पत्तिसंभवात् । क आस्रवंति । अनुशयाः । आस्रवंतीत्यास्रवा इत्यच्प्रत्ययः । हरंतीत्योघाः । श्लेशयन्तीति योगाः । उपगृह्णंतीत्युपादानानीत्यर्थप्रदर्शनम् । एतदुक्तं वैभाषिकैः । वहन एतद्रूपमोघा इति । वहंति हरंति गत्यंतरं विषयांतरं वेति ओघाः । योजयंति श्लेषयंति गत्यन्तरे विषयांतरे वेति योगाः । उपाददत्युपगृह्णंति पुनर्भवे कामादिषु वा विज्ञानसंततिमित्युपादानानीति । एवं तु साधीयः स्यादिति । एवं तु साधुतरं स्यादित्याचार्यः । [तिब् । १४९ ] कथमित्याह । आस्रवति गच्छत्येभिरनुशयैः संततिर्विज्ञानसंततिर्विषयेष्वित्यास्रवाः । करणसाधनं । महताभिसंस्कारेण कुशलैर्धर्मैश्चित्तसंतानः प्रतिस्रोतो नीयते विषयेभ्यो निवार्यते । तेषामेव संस्काराणां प्रतिप्रश्रब्ध्येति । तेषामेव प्रयत्नानां व्युपरमेणेत्यर्थः । अधिमात्रवेगत्वादोघा इति । ओघसाधर्म्यं दर्शयति । ओघ इवौघा इति कृत्वा । तदनुविधानादिति । रागाद्यनुविधानात् । नाधिमात्रसमुदाचारिणो हि योगा इति । ओघयोगानां नानाकरणं दर्शयति । ये हि नाधिमात्रसमुदाचारिणः । ते योगाः । ये त्वधिमात्रसमुदाचारिण एव । त ओघा इति । कथं च ते योगा इत्याह । विविधदुःखयोजनाज्जात्यादिभिर्विविधैर्दुःखैर्योजनादित्यर्थः । अभीक्ष्णानुषंगतो वा । यस्माद्वा संततावभीक्ष्णं युज्यंते । तस्माद्योगा इति । कामाद्युपादानादिति । यैः कामादयः उपादीयंते । तानि कामाद्युपादानानि छन्दरागात्मकानि । (अभिधर्मकोषव्याख्या ४८९) (व् ।४० ब्) त एवानुशयाः पुनर्यावत्पर्यवस्थानभेदेन पंचधा भित्त्वोक्ता इति । त एवानुशया आस्रवादिभेदेन चतुर्धोक्ताः । संयोजनबंधनानुशयोपक्लेशपर्यवस्थानभेदेन [तिब् । १४९ ] पुनः पंचधा भित्त्वोक्ताः सूत्रेऽभिधर्मे च । ननु चानुशयव्यतिरिक्तान्याह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यंते । कथमिदमुच्यते । अनुशया एव पर्यवस्थानानीति । सत्यं भवंति तद्व्यतिरिक्तानि । अव्यतिरिक्तान्यपि त्विष्यन्ते । तथा हि वक्ष्यति । क्लेशोऽपि हि हर्यवस्थानं । कामरागपर्यवस्थानप्रत्ययं दुःखं प्रतिसंवेदयत इति सूत्रे वचनादिति । (व् ।४० द्-४२) एवमन्यान्यपि यथासंभवं योज्यानीति । प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामावचराणि । मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रैधातुकानि । दृष्टिसंयोजनं तिस्रो दृष्टय इति । सत्कायांतग्राहमिथ्यादृष्टयः । परामर्शसंयोजनं द्वे दृष्टी इति । दृष्टिशीलव्रतशीलव्रतपरामर्शौ । अत एवोच्यत इति । यत एव तिस्रो दृष्टयो दृष्टिसंयोजनं द्वे दृष्टी परामर्शसंयोजनम् । अत एवोच्यते । स्याद्दृष्टिसंप्रयुक्तेष्विति विस्तरेण प्रश्नः । दृष्टिसंप्रयुक्तेष्विति । परामर्शदृष्टिसंप्रयुक्तेषु वेदनादिषु । अनुनयसंयोजनेन संयुक्तो रागेण । न दृष्टिसंयोजनेन सत्कायदृष्ट्यादिलक्षणेन । न च तत्र दृष्ट्यनुशयो नानुशयीतेति । न च तत्र दृष्टिसंप्रयुक्तेषु धर्मेषु दृष्ट्यनुशयो नानुशयीत । [तिब् । १५० ] किं तर्हि । अनुशयीत । द्विः प्रतिषेधः प्रकृतिं गमयति । आह स्यादिति विस्तरेण प्रश्नविसर्जनं । समुदयज्ञान उत्पन्न इति विशेषणं सर्वत्रगदृष्टिसंयोजनप्रहाणसंदर्शानर्थं । निरोधज्ञानेऽनुत्पन्न इति । परामर्शदृष्टिद्वयाप्रहाणेन तत्संप्रयोगसत्ताप्रदर्शनार्थं । निरोधमार्गदर्शनप्रहातव्येषु यावद्धर्मेष्विति । वेदनादिषु । तेषु ह्यनुनयसंयोजनेन निरोधदर्शनहेयेन मार्गदर्शनहेयेन वा संयुक्तः । कीदृशेन । तदालंबनेन । यस्मादसावेतान्निरोधदर्शनमार्गप्रहातव्यान् दृष्टिपरामर्शशीलव्रतपरामर्शसंप्रयुक्तान् वेदनादिधर्मानालंब्य राग उत्पद्यते । तस्मादालंबनतस्तेन संयुक्तः । दृष्टिसंयोजनेनासंयुक्तः । कस्मादित्याह । सर्वत्रगस्य दुःखसमुदयदर्शनहेयस्वभावस्य समुदयज्ञानोत्पत्तेः प्रहीणत्वात् । असर्वत्रगस्य च तदालंबनसंप्रयोगिणो दृष्टिसंयोजनस्याभावादिति । यद्यपि ह्यसर्वत्रगं मिथ्यादृष्टिस्वभावं निरोधमार्गदर्शनप्रहातव्यं दृष्टिसंयोजनमस्ति । न तु तत्परामर्शदृष्टिसंप्रयुक्तवेदनादिधर्मालंबनम् । अनास्रवालंबनत्वात् । तस्मान्नालम्बनतो [तिब् । १५० ] दृष्टिसंयोजनेन संयुक्तः । न चापि तत्तैर्वेदनादिभिः संप्रयोगि । तत्पृथक्कलापत्वात् । (अभिधर्मकोषव्याख्या ४९०) तस्मात्संप्रयोगतोऽपि न तेन संयुक्तः । दृष्ट्यनुशयश्च तेष्वनुशेते । कीदृशस्स इत्याह । ते एव परामर्शदृष्टी संप्रयोगत इति । दृष्टिपरामर्शः शीलव्रतपरामर्शो वा तेषु वेदनादिषु धर्मेषु संप्रयोगतोऽनुशेते । स्वकलापसंभूतत्वात् । न च तत्र दृष्टिसंयोजनमनुशेते । तयोर्दृष्टिसंयोजनमित्यसंज्ञितवान्न दृष्ट्यनुशयग्रहणे पंचदृष्टिग्रहणं भवति । दृष्टिसंयोजनग्रहणे तु सत्कायांतग्राहमिथ्यादृष्टीनामेव ग्रहणं । न परामर्शदृष्ट्योरित्यवगंतव्यं । दृष्टिसंयोजनांतरम् इति । परामर्शदृष्टी । अष्टादश द्रव्याणि तिस्रो दृष्टयो भवंतीति वाक्यशेषः । अष्टादशसंख्येयद्रव्याः सत्कायांतग्राहमिथ्यादृष्टय इति वाक्यार्थः । अष्टादशैव द्रव्याणीति प्रकृतं । द्वे परामर्शदृष्टी भवंति । कथं । कामधातौ सत्कायांतग्राहदृष्टी द्वे । ते च दुःखदर्शनप्रहातव्ये एवेष्टे । मिथ्यादृष्टिश्चतुःप्रकाराः । दुःखदर्शनप्रहातव्या यावन्मार्गदर्शनप्रहातव्या । इत्येवं कामधातौ षड्भवंति । यथा कामधातौ षडेवं रूपधातावारूप्यधातौ [तिब् । १५१ ] चेत्यष्टादश भवंति । अष्टादशैव द्वे परामर्शदृष्टी । कथं । कामधातौ दृष्टिपरामर्शो दुःखदर्शनप्रहातव्यो यावन्मार्गदर्शनप्रहातव्य इति चतुःप्रकाराः । शीअव्रतपरामर्शोऽपि दुःखदर्शनप्रहातव्यः । मार्गदर्शनप्रहातव्यश्चेति द्विप्रकारः । इत्येवं कामधातौ षड्भवंति । यथा कामधातावेवं रूपधातावारूप्यधातौ च । इत्येवमष्टादशैव द्रव्याणि भवंति । न शेषा इति दृष्टयः । ग्राह्यग्राहकभेदादिति । दृष्टिसंयोजनं ग्राह्यं । परामर्शसंयोजनं ग्राहकमिति । यत इति । यतः कारणात् । एकांताकुशलत्वस्वातंत्र्यलक्षणात् । एषूक्तम् इति । एष्वाह्रीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम् ईर्ष्यामात्सर्यम् उक्तं । न ह्यन्यत्पर्यवस्थानमेवंजातीयकमिति । अनाह्रीक्यानपत्राप्यमप्येकांताकुशलं । न तु स्वतंत्रं रागादिक्लेशसंप्रयोगात् । कौकृत्यमपि स्वतंत्रमविद्यामात्रसंप्रयोगात् । न त्वेकांताकुशलं । तद्धि कुशलमपि । स्त्यानौद्धत्यमिद्धान्यप्यस्वतंत्राणि रागादिसंप्रयोगात् । [तिब् । १५१ ] न त्वेकांताकुशलानि । कुशलव्याकृतान्यपि हि तानि भवंति । यत्रैतदुभयमिति । यत्रैकांताकुशलत्वं च स्वातंत्र्यं चेत्येतदुभयं स्यात् । तदेवंजातीयकमन्यत्पर्यवस्थानं नास्तीत्यभिसंबन्धः । (अभिधर्मकोषव्याख्या ४९१) यस्य पुनर्दशेति । यस्य वैभाषिकस्य दश पर्यवस्थानानि । तस्य क्रोधम्रक्षावप्युभयप्रकारावेकांताकुशलौ स्वतंत्रौ चेति । तस्मान्न भवत्ययं परिहार इति । कस्तर्हि परिहारस्तस्य इति । अत्राचार्यसंघभद्र आह । अभीक्ष्णसमुदाचारित्वादीर्ष्यामात्सर्ययोः पृथक्संयोजनमिति । अत एव च षट्त्रिंशत्संयोजनत्वेऽपि कामधातूपपन्नानामीर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इत्युक्तम् । आधिक्येन हि सुगतावेतत्क्लेशद्वयं बन्धनमिति । अथ वा । अल्पेशाख्याल्पभोगकारणत्वात्सर्वसूचनात् द्विपक्षसंक्लेशत्वाच्च । मात्सर्येर्ष्ये पृथक्कृते । यदयं सुगतावप्युपपन्नः प्रगाढं परिभवमुद्वहति । तत्रेर्ष्यामात्सर्ये कारणं । तथा ह्य् अल्पेशाख्योऽल्पभोगश्च बन्धनावप्युभयान्मत इति । द्विविधाश्चोपक्लेशाः संतापसहगताः । आमोदसहगताश्च । त आभ्यां सर्वे सूचिता भवंति । गृहिपक्षश्चाभ्यां भोगाधिष्ठानाभ्यामतीव क्लिश्यते । प्रव्रजितपक्षोऽपि धर्माधिष्ठानाभ्यां । देवासुरपक्षौ वा भिन्नोदरहेतोरत्यर्थं क्लिश्यतः । अत एवोक्तं भगवता । ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इति । [तिब् । १५२ ] तस्माद्दशभ्यः पर्यवस्थानेभ्य एतदेव द्वयं संयोजनमिति । (व् ।४३-४४) अवरो हि भागः कामधातुरिति । त्रैधातुकसमुदायापेक्षया कामधातुरवरो निहीनो धातुरेकांतसमाहितत्वात् । अकुशलधर्मापायगतिदुःखदौर्मनस्यसद्भावात् । घनक्लेशत्वाच्च । द्वाभ्यां कामानतिक्रम इति । तदप्रहाणे कामधात्वनतिक्रमात् । दौवारिकानुचरसाधर्म्यादिति । दौवारिकसधर्मणौ कामछन्दव्यापादौ । तौ हि कामधातुबन्धनागारान्निःक्रमणं न दत्तः । दौवारिकवत् । अनुचरसधर्माणः सत्कायदृष्ट्यादयः । यथा हि दौवारिकप्रमादे बन्धनागारात्पुरुषो निष्क्रांतोऽपि दौवारिकानुचरैर्निवर्त्यते । तथेहाप्यमीभिरिति । त्रिभिः । सत्त्वावरतामिति । पृथग्जनत्वलक्षणां सत्त्वावरतां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनैर्नातिक्रामति । द्वाभ्यां कामछन्दव्यापादाभ्यां । धात्ववरतां कामधातुस्वभावां नातिक्रामति । नातिवर्तते । आर्येभ्यो ह्यवराः पृथग्जनाः । धातुषु च कामधातुरवरः । तस्मादेव तान्यवरभागीयानि (अभिधर्मकोषव्याख्या ४९२) अपरे योगाचाराः । पर्यादाय त्रिसंयोजनप्रहाणादिति । निरवशेषतः सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासम्योजनप्रहाणादित्यर्थः । षट्क्लेशाः [तिब् । १५२ ] प्रहीणा इति । पंच दृष्टयो विचिकित्सा च । न तु रागादय उक्ताः सवशेषत्वात् । तिस्रो दृष्टीरपहायेति । अंतग्राहमिथ्यादृष्टिदृष्टिपरामर्शदृष्टीः । त्रयमेवाहेति । सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सात्रयमेवाह । क आह । भगवान् । तथा हि सूत्रे पठ्यते । कियता भदंत स्रोतआपन्नो भवति । यतश्च महानामन्नार्यश्रावकः इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः । अयं दुःखनिरोधः । इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथभूतं प्रजानाति । त्रीणि चास्य संयोजनानि प्रहीणानि भवंति परिज्ञातानि । तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विव्चिकित्सा च । स एषां त्रयाणां संयोजनानां प्रहाणात्स्रोतआपन्नो भवत्यविनिपातधर्मा संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य संधाव्य दुःखस्यांतं करिष्यतीति । सर्वमेतद्वक्तव्यं स्यात् । भवेदित्यर्थः । त्रिप्रकाराः किल क्लेशा इति । दर्शनहेया इहाधिकृताः । एकप्रकाराः सत्कायांतग्राहदृष्टयः दुःखदर्शनमात्रप्रहेयत्वात् । द्विप्रकाराः शीलव्रतपरामर्शाः । चतुष्प्रकाराः विचिकित्सामिथ्यादृष्टिपरामर्शाः । तत्र सत्कायदृष्टिर्मुखमेकप्रकाराणां । अतः सत्कायदृष्टिग्रहणादन्तग्राहदृष्टिर्[तिब् । १५३ ] अपि गृहीता भवति । विचिकित्सा मुखं चतुःप्रकाराणां । अतस्तद्ग्रहणान्मिथ्यादृष्टिपरामर्शानां ग्रहणं भवति । शीलव्रतपरामर्शस्तु साक्षादेव गृहीतः । ये तु रागादयो दर्शनहेयाः । तेऽपि तदालंबनत्वात्गृहीता एवेति शक्यते वक्तुमिति । अंतग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति । आत्मनः शाश्वतोच्छेदानुग्रहणात् । दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तित इति । येन शुद्धिं प्रत्येति । तस्याग्रतो ग्रहणात् । मिथ्यादृष्टिर्विचिकित्साप्रवर्तितेति । संशयितस्य मिथ्याश्रवणचिन्तनान्मिथ्यानिश्चयोत्पत्तेः । अतो मूलग्रहणान्मूलसंभूतग्रहणसिद्धिरित्यंतग्राहदृष्ट्यादयोऽप्युक्तरूपा वेदितव्याः । अपरे पुनराहुरित्ययमेवाचार्यः । मार्गविभ्रमः कथमित्याह । अन्यमार्गसंश्रयणादिति । (व् ।४५) अवरभागीयसंयोजनवचनादन्यभागीयमप्यस्तीत्यर्थादुक्तं भवति । अत इदमुच्यते । पंचधैवोर्ध्वभागीयम् इति । संयोजनप्रसंगः । (व् ।४६) संयोजनादिभेदेन पुनस्ते पंचधोदिता (अभिधर्मकोषव्याख्या ४९३) इत्यनेन संबंधेन संयोजननिर्देशानंतरं बंधननिर्देशावसरोऽपरपर्यायः । रागो बन्धनं सर्व इति । सर्व इति प्रकारतो धातुतश्च । सर्वद्वेषः । किं सर्वः । प्रकारत एव [तिब् । १५३ ] मोहः सर्वः प्रकारतो धातुतश्च । आलंबनसंप्रयोगाभ्यामिति । स्वपरसांतानिक्यां सुखायां वेदनायां यथायोगं रागोऽनुशेते । दुःखायां वेदनायां द्वेषः आलंबनसंप्रयोगाभ्यामित्येव । अदुःखासुखायां मोहः ताभ्यामित्येव । ननु च रागद्वेषावप्यदुःखासुखायां यथायोगं तथैवानुशयाते । कस्मान्मोह एवोच्यत इति आह । न तथा रागद्वेषाविति । रागद्वेषावप्यनुशयाते । न तु तथा यथा मोहः । मोहो ह्यपटुत्वादपट्व्यामदुःखासुखायां वेदनायामनुकूलत्वात्सुतरामनुशेत इति । स्वासांतानिकालंबनतो वा नियम इति । स्वासांतानिकसुखाद्यनुभूतिसामर्थ्यात्तथा नियमः । स्वसंतानवेदनायां हि सुखायां रागो दुःखायां द्वेषोऽदुःखासुखायां मोहः संप्रयोगत इति । अपरे तु व्याचक्षते । न तथा रागद्वेषाविति । सुखायां यथा रागोऽनुशेते न तथा द्वेषः । किं पुनः सुखायामपि द्वेषोऽनुशेते । अनुशेते शत्रुसुखे आलंबनतः । यथा च दुःखायां द्वेशोऽनुशेते [तिब् । १५४ ] न तथा रागः । किं पुनर्दुःखायामपि रागोऽनुशेते । अनुशेते शत्रुदुःखे आलंबनतः । स्वासांतानिकालंबनतो वा नियम इति । अथ वा स्वासांतानिके सुखे आलंबनतः संप्रयोगतो वा रागोऽनुशेते । न परसांतानिके शत्रुसुखे । एवं दुःखे स्वासांतानिके द्वेशोऽनुशेते आलंबनतः संप्रयोगतो वा । न पारसांतानिके शत्रुदुःखे । इत्येवं स्वासांतानिकालंबनतो नियमः । सुखायां वेदनायां रागोऽनुशेतो । आलंबनसंप्रयोगाभ्यां दुःखायां द्वेष इति । (व् ।४६) चित्तोपक्लेशनादिति । चित्तक्लिष्टकरणात् । येऽप्यन्ये चैतसा इति । क्लेशेभ्योऽन्य इत्यर्थः । त उपक्लेशा एवेति । क्लेशसमीपरूपाः । क्लेशो वा समीपवर्त्येषामिति । क्लेशप्रवृत्त्यनुवृत्तेरपरिपूर्णक्लेशलक्षणत्वाच्चोपक्लेशाः । उपक्लेशाश्चैतसा एव ते न चित्तविप्रयुक्ताः । ये क्षुद्रवस्तुके पठिता इति । क्षुद्रवस्तुके प्रवचनभागे ये पठिताः । न तु चेतनादय एवेत्यभिप्रायः । तद्यथा अरतिर्[तिब् । १५४ ] विजृंभिका चेतसो लीनत्वं तन्द्री भक्षेऽसमता नानात्वसंज्ञा अमनसिकारः कायदौष्ठुल्यं शृंगी भित्तिरीका अनार्दवता अनार्दवता अस्वभावानुवर्तिता कामवितर्को व्यापादवितर्को विहिंसावितर्को ज्ञातिवितर्को जनपदवितर्कोऽमरवितर्कोऽवमन्यनाप्रतिसंयुक्तो वितर्कः कुलोदयताप्रतिसंयुक्तो वितर्कः शोकः दुःखं दौर्मनस्यम् (अभिधर्मकोषव्याख्या ४९४) उपायास इति । [तन्द्रीति जडता ।] (व् ।४७-४९ ब्) तत्राह्रीक्यानपत्राप्ये व्याख्याते इति । अह्रीरगुरुतावद्ये भयादर्शित्वमत्रपेति । धर्मामिषेति विस्तरः । धर्मस्यामिषस्य कौशलस्य च प्रदाने विरोधी चित्तस्याग्रहो मात्सर्यं । मा मत्तः सरत्वित्याकारो मत्सरः । मत्सर एव मात्सर्यं । मत्सरिणो वा भावो मात्सर्यं । कौकृत्यं स्त्यानं च व्याख्याते इति । कुकृतभावः कौकृत्यं । इह तु तदालंबनो धर्मः कौकृत्यं । कायचित्ताकर्मण्यता स्त्यानमिति । चित्ताभिसंक्षेपो मिद्धमित्येतावत्युच्यमाने समापत्तावपि प्रसंग इत्यतो विशेष्यते । कायसंधारणासमर्थ इति । तत्तु क्लिष्टमेव पर्यवस्थानं । कौकृत्यं चेति । यत्क्लिष्टं मिद्धं । तत्पर्यवस्थानं । यत्तु कुशलमव्याकृतं वा न तत्[तिब् । १५५ ] पर्यवस्थानं । त्रिविधं हि मिद्धमिष्यते । कौकृत्यं च । यत्क्लिष्टं । तत्पर्यवस्थानं । न कुशलं । कुशलाकुसलं हि तदिष्यते । व्यापादविहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोध इति । सत्त्वविषये आघातविशेषो व्यापादः । अमी भवंतः सत्त्वा हन्यंतां वा बध्यंतां वा शीर्यंतां वा अनयेन व्यसनमापद्यंतामित्याकारप्रवृत्तो व्यापादः । सत्त्वाकर्षणसंत्रासनतर्जनादिकर्मप्रवृत्ता विहिंसा । ताभ्यामन्यः सत्त्वासत्त्वयोराघातः क्रोधः । तद्यथा शिक्षाकामस्य भिक्षोश्चित्तप्रकोपः । कंटकादिषु च प्रकोप इति । यथाक्रमं ज्ञाताज्ञातानामिति । राजादिभिर्ज्ञातानां म्रक्षवतां पुद्गलानां म्रक्षस्तृष्णानिष्यन्दः । मा मे लाभसत्कारो न भवैष्यतीति । अज्ञातानामविद्यानिष्यन्दः कर्मस्वकतामश्रद्दधानः तदवद्यं प्रच्छादयति । न परस्यांतिके विशुद्ध्यर्थं देशयतीत्येवमुभयनिष्यन्दो म्रक्ष इत्येके । कथमनपत्राप्यमविद्यानिष्यन्दः । यस्माद् अवद्ये भयादर्शित्वमत्रपेति । [तिब् । १५५ ] कौकृत्यं विचिकित्साजम् इति । यत्क्लिष्टं । तदेव पर्यवस्थानाधिकारात् । (व् ।४९ द्, ५०) क्लेशमला इति । यथा शरीरान्मला जायंते एवमिमे मायादयो मला इव क्लेशेभ्य उत्पद्यंते । क्षिपति प्रेरति । मदः पूर्वोक्तः मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतस इति । (अभिधर्मकोषव्याख्या ४९५) (व् ।५१) यश्च यद्दर्शनहेयसंप्रयुक्त इति । यस्य सत्यस्य दर्शनं यद्दर्शनं । यद्दर्शनेन हेयो यद्दर्शनहेयः । तेन संप्रयुक्तो यद्दर्शनहेयसंप्रयुक्तः । स तद्दर्शनहेयः । स तस्य सत्यस्य दर्शनेन हेयः । कः । आह्रीक्यादिः । तदन्ये भावनाहेया एव । तेभ्योऽन्य इति । आह्रीक्यादिभ्योऽन्ये ईर्ष्यादयो भावनाहेया एव । न दर्शनहेयाः । स्वतंत्राश्चैते । न रागादिपरतंत्रा इत्यर्थः । (व् ।५२) स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानीति । पर्यवस्थानाधिकारान्मिद्धं कुशलमपीति नोच्यते । परेणाव्याकृतास्तत इति । यथासंभवमिति । कामधातोः परेण यावंतः संभवंति । ते पुनर्मायाशाठ्यादयः । (व् ।५२) वितथात्मसंदर्शनतयेति । वितथस्यात्मनः संदर्शनतया महाब्रह्मा आयुष्मंतमश्वजितं वंचयितुं प्रवृत्तः । कुत्रेमानि ब्रह्मन्महाभूतान्यपरिशेषं निरुध्यंत इति पृष्टो [तिब् । १५६ ]ऽप्रजानन् क्षेपमकार्षीत् । अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानामिति मायया वंचयितुमारब्धः । अथ स महाब्रह्मा आयुष्मंतमश्वजितं करे गृहीत्वा एकांते अस्थादेकांतस्थितश्चेदमुक्तवान् । विद्यमाने तथागते मां प्रष्टव्यं मन्यसैतीदमस्य शाठ्यं दृश्यते । स्वपरिषल्लज्जया ह्यात्मीयज्ञानतां निगूहमानः स तथा कृतवानिति । उक्तमपि शाठ्यमिति तथा हि कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न संत्यत इति । अत्रोक्तमपि प्रसंगेनेति परेणाव्याकृतास्तत इति प्रसंगेनेति । पंचापनीयेति मायाशाठ्यस्त्यानौद्धत्यमदान् । (व् ।५३) तेहि सकले मनोभूमिके इति । मानमिद्धे । उपक्लेशाः स्वतंत्राश्चेति ईर्ष्यामात्सर्यादयः । ये च क्लेशमहाभूमिकेषूक्ता इत्याश्रद्ध्यकौसीद्यप्रमादा एव । नान्ये स्त्यानौद्धत्ययोरिहैव पूर्वं गृहीतत्वात् । मोहस्य क्लेशग्रहणेन ग्रहणात् । (व् ।५४,५५) सुखाभ्याम् (अभिधर्मकोषव्याख्या ४९६) इति । सुखवेदनास्वभावाभ्यामिन्द्रियाभ्यामित्यर्थः । हर्षदैन्याकारवर्तित्वादिति । हर्षाकारवर्ती रागो दैन्याकारवर्ती द्वेष इति यथासंख्येन । [तिब् । १५६ ] षड्विज्ञानभूमिकत्वाच्चेति । पंचविज्ञानभूमिकत्वाद्रागः सुखेन्द्रियेण संप्रयुक्तः । द्वेषश्च दुःखेन्द्रियेण । मनोविज्ञानभूमिकत्वात्तु रागः सौमनस्येन्द्रियेण । द्वेषश्च दौर्मनस्येन्द्रियेण संप्रयुक्तः । पुण्यकर्मणां पापकर्मणां च यथाक्रममिति । पुण्यकर्मणां मिथ्यादृष्टिर्दौर्मनस्येन संप्रयुक्ता । पुण्यक्रियाया नैरर्थक्यदर्शनात् । पापकर्मनां मिथ्यादृष्टिः सौमनस्येन सस्ंप्रयुक्ता । स्वकृतपापवैफल्यदर्शनात् । चतस्रो दृष्टय इति । सत्कायदृष्टिरंतग्राहदृष्टिर्दृष्टिपरामर्शः शीलव्रतपरामर्सश्च । कथमुच्छेददृष्टिः सौमनस्येन संप्रयुक्ता । तस्याभिनतत्वात् । उपेक्षा संतिष्ठत इति विनाशावस्थायां मन्दत्वात् । यस्यां भूमौ यावन्तीन्द्रियाणीति । सौमनस्यसुखोपेक्षाः उपेक्षासुमनस्कजे । सुखोपेक्षे उपेक्षा च विदो ध्यानोपपत्तिषु इति अवगंतव्यं । तत्रप्यूर्ध्वभूमिषु । चतुर्विज्ञानकायिकाः प्रथम एव ध्याने । चक्षुःश्रोत्रकायमनोविज्ञानभूमिकाः । प्रथमे हि ध्याने त्रिविज्ञानकायिकं सुखेन्द्रियमस्ति । [तिब् । १५७ ] मनोविज्ञानकायिकं सौमनस्येन्द्रियं । चातुर्विज्ञानकायिकमुपेक्षेन्द्रियं । तत ऊर्ध्वं मनोभूमिकमेव । द्वितीये ध्याने सौमनस्योपेक्षेन्द्रिये । तृतीये सुखोपेक्षेन्द्रिये । चतुर्थे ध्याने आरूप्येषु चोपेक्षेन्द्रियमेव । तत्र सर्वेऽप्यनुशया यथायथं वेदनेन्द्रियेण संप्रयुक्ताः । तत्र शमथस्निग्धसंतानत्वाथर्षदैन्याकारव्यवस्था नास्ति । दैन्याकारवर्तित्वादेषां कौकृत्यादीनां न सौमनस्येन संप्रयोगः । मनोभूमिकत्वा न दुःखेन्द्रियेण । (व् ।५६-५७) लोभान्वयत्वेनेति । लोभहेतुदत्वेन । लोभसमुत्थेनेत्यर्थः । मदः सुखाभ्याम् इति । सुखसौमनस्याभ्यां । तृतीये ध्याने सुखेनेति । मदस्य मानसत्त्वात् । यथा अविद्याया इति । यथा अविद्यायाः न क्वचित्क्लेशे उपक्लेशे वा संप्रयोगप्रतिषेधोऽस्ति । एवमुपेक्षाया अपीति । अकुशलमहाभूमिकत्वाताह्रीक्यानपत्राप्ययोः । अकुशले त्वाह्रीक्यमनपत्रपेति वचनात् । क्लेशमहाभूमिकत्वाच्च स्त्यानौद्धत्ययोः । षड्विज्ञानकाया अकुशलाः क्लिष्टाः संभवंतीत्यतः पंचभिरपीन्द्रियैः संप्रयोग एषां [तिब् ।१५७ ] संभवतीति । (अभिधर्मकोषव्याख्या ४९७) (व् ।५८) किं त्रैधातुक्यस्त्यानौद्धत्यविचिकित्सा गृह्यंत इति । आसां त्रैधातुकत्वात्ता एव निष्कृष्य पृच्छ्यंते । केवलोऽयमिति विस्तरः अकुशला राशिरिति भिक्षवो यदुत पंच निवरणानीति ते सम्यग्वदमाना वद्युः । तत्कस्य हेतोः । केवलोऽयं भिक्षवः परिपूर्णाकुशलराशिर्यदुत पंच निवरणानीति विस्तरेणैकांताकुशलत्ववचनात् । कामे निवरणानि नान्यत्रेति । वृत्तिसूत्रपदयोरेकवाक्यता । निवरणानीति ध्यानसमापत्त्यादीनामावरणानीत्यर्थः । एकविपक्षाहारकृत्यत इति । एकविपक्षाहारकृत्यत्वादित्यर्थः । अंतरेणापि हि भावप्रत्ययं भावप्रधाने निर्देशो भवेत् । अथ वा एकं विपक्षाहारकृत्यमेकविपक्षाहारकृत्यं । तत इति । विपक्षः प्रतिपक्ष इति । श्लोकबन्धानुगुण्येन प्रतिपक्ष इह विपक्षोऽभिप्रेतः । क्लेशविरुद्धः पक्षो विपक्ष इति कृत्वा । अभिधर्मे तु कृष्णः पक्षो विपक्षः शुक्लविरुद्धः पक्षो विपक्षः । शुक्लपक्षः प्रतिपक्ष इति प्रतीतं । भक्ते असमतेति । अतिबहुभुक्त्वाहारस्य यः कायोपरोधः । अनाहार इति प्रतिपक्षः । स्त्यानमिद्धेन प्रज्ञास्कन्धस्य । किं । विघात इति प्रकृतं । [तिब् । १५८ ] एतस्यां तु कल्पनायामिति विस्तरः । शीलस्कंधः समाधिस्कंधः प्रज्ञास्कन्ध इति । ययानुपूर्व्या स्कन्धा व्यवस्थिताः । तयैवानुपूर्व्या तद्विपक्षभूतानि निवरणानि पठ्येरन् । कामच्छन्दो व्यापादः औद्धत्यकौकृत्यं स्त्यानमिद्धं विचिकित्सा चेति । औद्धत्यकौकृत्यनिवरणस्य पूर्वं ग्रहणं प्राप्नोति । समाधिस्कंधस्य प्रज्ञास्कंधात्पूर्वमुक्तत्वात् । न चैवमतो नैतत्कारणमित्यभिप्रायः । किं पुनरत्र कारणमित्याह । अतो यथासंख्यमेताभ्यां स्त्यानमिद्धेन औद्धत्यकौकृत्येन च निवरणाभ्यां समाधिप्रज्ञास्कंधयोरुपघात इति । कथमित्याह । समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयं समानरूपकल्पत्वात् । एवं धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्याद्भयमिति । अन्ये त्वन्यथा वर्णयंतीति पूर्वाचार्यः । [तिब् । १५८] चारगतस्येति पिण्डपातार्थं परिभ्रमतः । निमित्तग्राहात् । स्त्रीरूपमिति स्त्रीशब्द इति वा ग्रहणात् । विहारगतस्य प्रतिसंलीनस्य स्थितस्य वा निषण्णस्य वा चंक्रम्यमाणस्य वा । तत्पूर्वकौ प्रियाप्रियविषयनिमित्तग्राहपूर्वकौ प्रियाप्रियविषयपूर्वकौ वा । यथाक्रमं शमथविपश्यनयोरंतरायं कुरुत इति । शमथस्य स्त्यानमिद्धमंतरायं करोति । प्रत्यासन्नरूपतया स्त्यानमिद्धोपस्थानात् । विपश्यनाया औद्धत्यकौकृत्यविचिकित्से अंतरायं (अभिधर्मकोषव्याख्या ४९८) कुरुतः । औद्धत्यकौकृत्यस्य कृतद्वंद्वैकवद्भावस्य विचिकित्सया सह पुनर्द्वंद्वः । औद्धत्यकौकृत्यं च विचिकित्सा च औद्धत्यकौकृत्यविचिकित्से इति । विचिकित्सा तु पुनर्व्युत्थितस्यापि तस्य धर्मनिध्यानकालेऽंतरायं करोति । अपरे पुनरेवं पाठं पठंति । स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति । एवं च व्याचक्षते । स्त्यानमिद्धं शमथस्यांतरायं करोति । औद्धत्यकौकृत्यं विपश्यनायाः । विचिकित्सा च व्युत्थितस्य धर्मनिध्यानकालेऽंतरायं करोतीति । (व् ।५९) विसभागधातुसर्वत्रगाणामिति । विस्तरः । विसभागधातुसर्वत्रगाणां दुःखसमुदयदर्शनहेयत्वेन द्विभेदानां मिथ्यादृष्ट्यादीनां । यदालंबनं परिज्ञायते दुःखसमुदयान्वयज्ञानपक्षेण मार्गेण रूपारूप्यधात्वालंबनावस्थायां । न ते तदा प्रहीयंते । दुःखधर्मज्ञानेन समुदयधर्मज्ञानेन च यथायोगं पूर्वमेव प्रहीणत्वात् । धर्मज्ञानवध्या हि ते कामावचरत्वात् । निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालंबनानां [तिब् । १५९ ] दृष्टिपरामर्शादीनां यदालंबनं निरोधमार्गदृग्दृग्घेयं मिथ्यादृष्ट्यादिकं दुःखसमुदयसत्यस्वभावं दुःखसमुदयधर्मज्ञानपक्षेणान्वयज्ञानपक्षेण वा यथाधातु परिज्ञायते । न ते तदा प्रहीयंते । निरोधमार्गदर्शनप्रहेयत्वादिति । न च तथा तेषामालंबनं परिज्ञायते पूर्वमेव ज्ञातत्वात् । कथमेषां प्रहाणमालंबनपरिज्ञानात्तत्प्रहाणं न युज्यत इत्यभिप्रायः । तत्रालंबनपरिज्ञानात्कामावचराः स्वधात्वलंबना रूपारूप्यावचराश्च दुःखसमुदयदृग्घेयाः प्रहीयंते । तत्र विसभागधात्वालंबनानामालंबनं परिज्ञया पश्यतः प्रहाणां दुःखसमुदयान्वयज्ञानक्षांत्योर्युगपद्द्विधात्वालंबनत्वात् । स्वभूम्यालंबनानामिति विशेषणं । विसभागधातुसर्वत्रगनिरासार्थं । तदालंबनसंक्षयादिति । विसभागधातुसर्वत्रगा आलंबनमेषां सत्कायदृष्ट्यादीनामिति । तदालंबनाः सभागधातुसर्वत्रगाः । तेषां क्षयात्प्रहाणात् । ते विसभागधातुसर्वत्रगाः प्रहीयंते । [तद्धेतुत्वेनोपस्तंभप्रहाणाद्विसभागधातुसर्वत्रगानां प्रहाणमालंबनप्रहाणा] । आलंबनप्रहाणादिति । दृष्टिपरामर्शाद्यालंबनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात् । तेऽपि दृष्टिपरामर्शादयः सास्रवालंबनाः प्रहीयंते । प्रतिपक्षोदयात्क्षय इति । भावनाहेयानां प्रतिपक्षोदयादेव क्षयः नालंबनपरिज्ञानादिभ्य (अभिधर्मकोषव्याख्या ४९९) इति दर्शयति । पश्चात्प्रवेदयिष्याम इति । नवप्रकारा दोषा हि भूमौभूमौ तथा गुणा इत्यत्र वक्ष्यति । (व् ।६० ब्) प्रहाणप्रतिपक्ष आनंतर्यमार्ग इति । [तिब् । १५९ ] विपक्षप्रतिद्वंद्वी पक्षः प्रतिपक्षः । प्रहाणाय प्रतिपक्षः प्रहाणप्रतिपक्षः । विमुक्तिमार्गोऽपि हि प्रतिपक्षो न तु प्रहाणायेत्यत इत्थं विशेषणं । प्रहीयते वानेनेति प्रहाणं । प्रहाणश्चासौ प्रतिपक्षश्च प्रहाणप्रतिपक्षः । तद्यथा दुःखधर्मज्ञानक्षांतिः । आधारप्रतिपक्षस्तस्मात्परेणेति । तस्मादानंतर्यमार्गात्परेण । यो मार्गो विमुक्तिमार्गः । स ह्याधारः प्रहाणस्य तत्प्राप्त्याधारणात् । आधार्यतेऽनेनेत्याधारः । स एव प्रतिपक्षः आधारप्रतिपक्षः । तद्यथा दुःखधर्मज्ञानक्षांतेः परं दुःखधर्मज्ञानमिति तेनोच्यते । येन तत्प्रापितमिति विस्तरः । येन मार्गेण तत्प्रापितमानंतर्यमार्गप्रापितं प्रहाणमाधार्यते । तत्प्राप्त्यनुच्छेदात्म आधारप्रतिपक्ष इति । दूरीभावप्रतिपक्ष इति विस्तरः । क्लेशप्राप्तिर्दूरीभवति येन स दूरीभावः । स एव प्रतिपक्षो दूरीभावप्रतिपक्षः । दूरीभवनं वा दूरीभावः । तस्मै प्रतिपक्षो दूरीभावप्रतिपक्षः । विमुक्तिमार्गात्परेण यो मार्ग इति । योऽसौ विमुक्तिमार्गो दुःखे धर्मज्ञानं । तस्मात्परेण यो मार्गो दुःखेऽन्वयज्ञानक्षांत्यादि । स दूरीभावप्रतिपक्ष इति दर्शयति । विमुक्तिमार्गोऽपीत्यपर इति । [तिब् । १६० ] स चाप्याद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष इत्युच्यते । सोऽपि हि तां क्लेशप्राप्तिं दूरीकरोति । एवं च सति विमुक्तिमार्ग आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वच नामद्वयं लभत इत्युक्तं भवति । तं धातुं दोषतो दर्शनाद्विदूषयतीति । अनित्यादिभिराकारैर्येन तं धातुं विदूषयतीत्यर्थः । तदेवं सति योऽपि दुःखसमुदयालंबनः प्रहाणप्रतिपक्षादिः । स चापि विदूषणाप्रतिपक्ष इति दर्शितं भवतीति । अपि त्वियमानुपूर्वी साध्वी भवेदित्याचार्यः । सोपानन्यायसमाश्रयात्लक्षणासांकर्याच्चेयमानुपूर्वी साध्वीति दर्शयति । दुःखसमुदयालंबनः प्रयोगमार्ग इति । प्रयोगमार्ग एवोष्मगतादि गृह्यते । नानंतर्यमार्गादि । प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात् । सर्वानंतर्यमार्ग इति । पश्चात्कालीनोऽपि योऽन्यः । विमुक्तिमार्गः सर्व इत्येव चाधिक्रियते । विशेषमार्गस्तु य एतत्त्रयव्यतिरिक्तः । स इह गृह्यते । (व् ।६० द्) न हि संप्रयोगात्क्लेशो विवेचयितुं शक्यत इति । स्वकलापात्विवेचनाशक्यत्वात् । [तिब् । १६० ] अनागतस्तावच्छक्येतालंबनाद्विवेचयितुं । विवेचितस्य (अभिधर्मकोषव्याख्या ५००) तस्य न पुनस्तद्वस्त्वालंब्योत्पत्तिरित्यतः कारणात् । अतीतस्तु कथं यद्वस्त्वालंब्योत्पन्नः । न ह्यालंबितं वस्त्वनालंबिनीकर्तुं शक्यते । एषोऽपि नैकांत इति । चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते । आलंबनपरिज्ञानात्तदालंबनसंक्षयात् आलंबनप्रहाणाच्च प्रतिपक्षोदयात्क्षय इति । तस्मादालंबनपरिज्ञानादिति नायमेकांतः । तस्माद्वक्तव्यमेतदिति परिहर्तव्यमेतदित्यर्थः । अत्राचार्यसंघभद्रः परिहरति । आलंबनात्क्लेशाः प्रहातव्याः । आलंबनपरिज्ञानबलेन हि क्लेशाः प्रहीयंते । द्विविधं चानुशयालंबनं । संयोगवस्तु असंयोगवस्तु च । तत्र संयोगवस्तुविषयाणामनुशयानां तदनुशयबलोत्पादितानामतद्विषयाणामपि पुद्गलस्य संताने प्राप्तिरक्लिष्टचित्तस्याप्यविच्छेदेन प्रवर्तते । अनागतातीतक्लेशहेतुफलभूता । एवमसंयोगवस्तुविषयाणामतद्विषयाणामपि च तद्विषयक्लेशपृष्ठसमुदाचरिणां क्लेशानां प्राप्तिर्वेदितव्या । सा ह्यनागतानामुत्पत्तौ प्रत्ययगमनाद्धेतुभूता भवति । अतीतानां च निष्यन्दभावात्[तिब् । १६१ ] फलभूता । सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा । तदाधारितत्वात्क्लेशानाम् । अतो येनालंबनेनोत्पन्नाः क्लेशा अन्यालंबनानपि क्लेशान् प्रवर्तयंति । तदालंबनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशास्तदालंबना अपि संतो हेतुफलापक्रांताः प्रहीणा इत्युच्यंते । तद्यस्मादपरिज्ञाते कस्मिंश्चित्क्लेशविषये अतद्विषयाणामपि क्लेशानां तद्विषयक्लेशबलेनप्राप्तिरनागतातीतक्लेशहेतुफलभूता संततौ प्रवर्तते यथा वस्तु । तस्मादालंबनात्क्लेशाः प्रहातव्या इत्यभिमतमिति । ननु च तदालंबनप्रहाणादिभिरपि क्लेशाः प्रहीयंत इत्यभिप्रेतं । किमिदमुक्तमालंबनपरिज्ञानबलेन क्लेशाः प्रहीयंत इति । तेऽपि दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंते । तद्भावाभावयोगे तद्भावाभावयोगात् । येषामपि हि प्रतिपक्षोदयात्प्रहाणमुच्यते । तेऽपि भावनाहेयाः । क्लेशा आलंबनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंत इत्यवगंतव्यं । व्यवस्थामात्रं तु तद्यदुक्तं । तदालंबनप्रहाणादिभिर्[तिब् । १६१ ] अपि क्लेशाः प्रहीयन्त इत्यभिप्रायो लक्ष्यते । स्वासांतानिकः प्राप्तिच्छेदादिति विस्तरः । स्वसंतानक्लेशः प्राप्तिविगमात्प्रहीणो वक्तव्यः । परसंतानक्लेशस्तु न प्राप्तिच्छेदात् । स्वसंताने तत्प्राप्त्यभावात् । किं तर्हि तदालंबनस्वासांतानिकक्लेशप्रहाणात् । पारसांतानिकक्लेशालंबनस्वासांतानिकक्लेशप्राप्तिच्छेदादित्यर्थः । सर्वं (अभिधर्मकोषव्याख्या ५०१) रूपं कुशलाकुशलाव्याकृतं । अक्लिष्टश्च धर्म इत्यरूपी कुशलसास्रवमनिवृतव्याकृतश्च । तथैव तदालंबनस्वासांतानिकक्लेशप्रहाणात्प्रहीणो वक्तव्य इति । (व् ।६१) भूतशीलप्रदेशाध्वद्वयानामिव दूरतेति । इवशब्दोऽत्रोदाहारणं । तद्यथार्थे द्रष्टव्यः । वैलक्षण्याल्लक्षणदूरता । तद्यथा भूतानां । भिन्नलक्षणो हि पृथिवीधातोरब्धातुस्तस्मात्पृथिवीधातोरब्धातुर्दूरे भवति । विपक्षत्वाद्विपक्षदूरता । तद्यथा शीलस्य दौःशील्यं । देशविच्छेदात्देशदूरता । तद्यथा प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात् । कालतः कालदूरता । तद्यथाध्वद्वयस्यातीतानागतलक्षणस्य । [तिब् । १६२ ] तद्ध्यतीतानागतं दूरमुच्यते । क्वोच्यते । अभिधर्मे । एवं ह्याह । दूरे धर्माः कतमे । अतीतानागता धर्माः । अंतिके धर्माः कतमे । प्रत्युत्पन्ना धर्माः । असंस्कृतं चेति । तद्दूरमिति । तदतीतानागतम् । उत्पद्यमानं चेति । उत्पादाभिमुखमनागतं चेत्यर्थः । न चिरभूतभावित्वेनेति । न चिरभूतत्वेनातीतं नापि चिरभावित्वेनानागतं दूरमित्यर्थः । वर्तमानमप्येवं दूरं प्राप्नोतीति । अध्वनानात्वेन प्रत्युत्पन्नोऽध्वतया वर्तमानमपि दूरं प्राप्नोति । यथातीतानागतमतीतानागताध्वतया । अकारित्रात्तर्हि तद्दूरमिति । उपरतकारित्रमतीतमप्राप्तकारित्रमनागतमिति । तदतीतानागतं दूरमुच्यते । असंस्कृतस्य कथमंतिकत्वमिति । तस्य कारित्राभावादंतिकत्वं न स्यात् । तच्चेष्यते अंतिके धर्माः कतमे । प्रत्युत्पन्ना धर्माः । असंस्कृतं चेति शास्त्रपाठात् । सर्वत्र तत्प्राप्तेरिति । सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्याप्रतिसंख्यानिरोधस्य प्राप्त्युत्पादात् । अतीतानागतेऽपि [तिब् । १६२ ] प्रसंग इति कुशलादेरतीतानागतस्य सर्वत्र देशे प्राप्तिः संभवतीत्यतीतानागतेऽप्यंतिकत्वप्रसंगः । आकाशं च कथमिति । आकाशं च कथमंतिकं । न हि तस्य प्राप्तिरस्तीति । अतीतानागतमन्योन्यमिति । अतीतादनागतं दूरमनागताच्चातीतमित्यर्थः । असंस्कृतं चाव्यवहितत्वादिति । न केनचिद्व्यवहितं । यथा वर्तमानेनातीतानागतमिति । एवं तस्यांतिकत्वं । एवमपीति । अस्यामपि कल्पनायां । यदनंतरमतीतानागतं । तद्वर्तमानस्यांतिकत्वादुभयं प्राप्नोति । दूरमासन्नं चेति । तद्ध्यतीतं वर्तमानांतरितत्वादनागताद्दूरं । वर्तमानाच्चाव्यवहितत्वादंतिकमिति प्राप्नोति । इत्येवमनागतमपि नेयं । एवं तु युक्तं स्यादिति । स्वमतमाचार्यस्य । धर्मस्वलक्षणादनागतं दूरं । कस्मात् । असंप्राप्तत्वात् । यस्मादनागतेन स्वलक्षणं न संप्राप्तम् (अभिधर्मकोषव्याख्या ५०२) इति । अथ वा यस्मात्तत्स्वलक्षणमसंप्राप्तमनुपस्थितमिति । अतीतं च । किं धर्मस्वलक्षणाद्दूरं । तत्प्रच्युतत्वात् । यस्मात्तद्धर्मस्वलक्षणं । तस्मादतीतात्प्रच्युतं । तद्ध्यतीतं यद्धर्मस्वलक्षणात्प्रच्युतमिति । (व् ।६२) प्रतिपक्षोदयात्क्षय इत्युक्तम् । अतः पृच्छति । किं मार्गविशेषगमनादिति विस्तरः । प्रहाणविशेष [तिब् । १६३ ] इति । विशिष्यते प्रहाणमित्यर्थः । प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेत इति । तस्य विसंयोगप्राप्तिसहोत्पादादानंतर्यमार्गे हि न तावद्विसंयोगप्राप्तिरस्ति । उत्पादाभिमुखत्वात् । विमुक्तिमार्गोऽपि हि प्रतिपक्ष इति शक्यते व्यवस्थापयितुं । मुख्यप्रतिपक्षेणानंतर्यमार्गेण सहैककार्यत्वात् । तथा ह्युक्तमुभाभ्यां हि तस्य प्राप्तिः विसंयोगप्राप्तेरावाहकसंनिश्रयत्वादिति । फलानि चत्वारीति । चतुर्ग्रहणमेकान्ननवतिफलप्रतिपत्तिनिरासार्थं । पुरुषकारादिपंचफलप्रतिपत्तिनिरासार्थं वा । फलप्राप्तिरपि विमुक्तिमार्गावस्थायामेव गृह्यते । विसंयोगलाभास्तित्वयोगादिन्द्रियविवृद्धिः इन्द्रियसंचार इति । इन्द्रियाधिक्यप्रतिपत्तिनिरासार्थमेतदर्थप्रदर्शनमिन्द्रियविवृद्धिरित्युच्यते । फलप्राप्तिवचनेनैव सिद्धेरित्याचार्यसंघभद्रः । अत्र ब्रूमः । सत्यं फलप्राप्तिरेवेन्द्रियविवृद्धिः । फलप्राप्तिविशेषस्तु प्रदर्शयितव्यो यत्र पुनर्विसंयोगफललाभो भवति । अन्यथा हि फलप्राप्तिवचनमपि न कर्तव्यं स्यात् । प्रतिपक्षोदयवचनेनैव तत्सिद्धेः । [तिब् । १६३ ] इत्यलमनयातिखलिनिकया । केषांचिद्यावद्द्वयोरिति । केषांचित्क्लेशानां षट्सु कालेषु विअंयोगलाभः । यावच्छब्देन केषांचित्पंचसु । केषांचिच्चतुर्षु । केषांचित्त्रिषु । केषांचिद्द्वयोरिति । केषांचिद्द्वयोरिति । केषांचिदेकास्मिन् काल इति नोक्तं । पुनःप्राप्तस्य विसंयोगस्याधिकृतत्वात् । संभवति हि भावाग्रिकस्य नवमस्य प्रकारस्यैकस्मिन्नेव काले तीक्ष्णेन्द्रियस्य विसंयोगलाभः । स तु न पुनर्लाभ इति नोच्यते । तत्र तावन्मृद्विन्द्रियस्य षट्सु कालेषु विसंयोगलाभः । दुःखसमुदयनिरोधदर्शनहेयानां कामावचराणां मार्गदर्शनहेयानां प्रतिपक्षोदयकाले । स्रोतआपत्तिफलकाले सकृदागामिफलकालेऽनागामिफलकालेऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति षट्सु कालेषु विसंयोगलाभः । संभवं च प्रत्येवमुच्यते । न हि मृद्विन्द्रियोऽवश्यमिन्द्रियाणि संचरति । तस्यैव मृद्विन्द्रियस्य रूपारूप्यावचराणां मार्गदर्शनहेयानां मार्गान्वयज्ञानकाले प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वा गृहीते प्रथमतो विसंयोगलाभः । पुनः सकृदागामिफलप्राप्तिकाले (अभिधर्मकोषव्याख्या ५०३) यावदिन्द्रियसंचारकाल इति पंचसु कालेषु । भावनाहेयानामपि तस्यैवे कामावचराणां पंचप्रकाराणामधिमात्राधिमात्रस्य यावन्मध्यमध्यस्य । [तिब् । १६४ ] तेष्वेव स्रोतआपत्तिफलकालवर्ज्येषु पंचसु कालेषु विसंयोगलाभः । मध्यमृदोस्तु षष्ठस्य प्रकारस्य तस्यैव चतुर्षु कालेषु । प्रतिपक्षोदयफलप्राप्तिकालयोरेकत्वात् । तस्मिन्नन्यतरस्मिन् । अनागामिफलकाले । अर्हत्त्वफलप्राप्तिकाले । इन्द्रियसंचारकाले चेति । तस्यैव मृद्वधिमात्रस्य मृदुमध्यस्य च सप्तमाष्टमयोः प्रकारयोः प्रतिपक्षोदयकालेऽनागामिफलकाले यावदिन्द्रियसंचारकाले वेति चतुर्ष्वेव कालेषु विसंयोगलाभः । तस्यैव मृदुमृदोरंत्यस्य प्रकारस्य प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वैकतरस्मिन् । अर्हत्त्वफलकाले । इन्द्रियसंचारकाले चेति त्रिषु कालेषु विसंयोगलाभः । तस्यैवार्हत्त्वफलं प्राप्नुवतो ये नवप्रकारा रूपारूप्यावचराः क्लेशा भावनाप्रहातव्याः प्रहीणाः अधिमात्रधिमात्रो यावन्मृदुमृदुरिति । तेषां भावाग्रिकं मृदुमृदुप्रकारमंत्यं हित्वा सर्वेषां त्रिष्वेव कालेषु विसंयोगलाभः । प्रतिपक्षोदयकालेऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति । यस्त्वस्यैवारूप्यावचरो मृदुमृदुरंत्यः क्लेशप्रकारः । तस्य प्रतिपक्षोदयार्हत्त्वफलप्राप्तिकालैकत्वात् । प्रतिपक्षोदयकाल इति वार्हत्त्वफलकाल इति वा अन्यतरस्मिन्निन्द्रियसंचारकाले चेति । [तिब् । १६४ ] द्वयोः कालयोर्विसंयोगलाभ इति । एवं तावन्मृद्विन्द्रियस्योक्तं । तीक्ष्णेन्द्रियस्य पुनः केषांचित्क्लेशानां पंचसु कालेषु । केषांचिद्यावद्द्वयोरिति वक्तव्यं । इन्द्रियसंचारकालमेकमपास्य । तस्य हि सर्वत्रेन्द्रियसंचारो नास्ति । तस्यैकस्मिन्नेव काले क्लेशानां विसंयोगलाभोऽस्ति । भावाग्रिकस्य भावनाहेयस्य मृदुमृदोः प्रकारस्य । स तु पुनर्लाभो न भवतीति न वक्तव्य इति पश्यामः । (व् ।६३, ६४) फले हेतूपचारादिति । प्रहाणं फलं परिज्ञा ज्ञानस्वभावो हेतुः तस्मिन् प्रहाणे । फले हेतूपचारः । प्रहाणं परिज्ञेति । तद्यथा षडिमानि स्पर्शायतनानि पूर्वमभिसंस्कृतान्यभिसंचेतितानि पौराणं कर्म वेदितव्यमिति । कः पुनः प्रहाणं परिज्ञाशब्देनापदिशते । सूत्रे एवं हि पठ्यते । परिज्ञेयांश्च वो भिक्षवो धर्मान् देशयिष्यामि । परिज्ञां च परिज्ञावन्तं च पुद्गलं । परिज्ञेया धर्माः कतमे । पंचोपादानस्कन्धाः । परिज्ञा कतमा । यदत्र च्छन्दरागप्रहाणं । छन्दरागसमतिक्रमः । इयमुच्यते परिज्ञेति विस्तरः । (अभिधर्मकोषव्याख्या ५०४) कामाद्यप्रकारद्वयसंक्षय एकेति । अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः हेतुद्वयसंुद्घातात्[तिब् । १६५ ] परिज्ञा धात्वतिक्रमात् इत्यत्र परिज्ञाव्यवस्थापने कारणं वक्ष्यते । अवरभागीयप्रहाणमिति । कामधात्वास्रवप्रहाणमित्यर्थः । इयमेव चास्याः संज्ञा । रूपास्रवप्रहाणमिति । रूपधात्वास्रवप्रहाणमित्यर्थः । रूपरागक्षयपरिज्ञेत्यस्या नाम । यद्यप्यन्येषां क्लेशोपक्लेशानां मानादीनां रूपावचराणां प्रहाणमियं परिज्ञा व्यवस्थाप्यते । रागस्य तु तत्र प्राधान्यादूर्ध्वभागीयस्य संयोजनस्य प्रहाणं रूपरागक्षयपरिज्ञेत्युक्तं । सर्वसंयोजनपर्यादान [कुन् तु स्ब्योर्ब थम्स्चद्योङ्स्सु ग्रुग्स्पःि] योङ्स्सु शेस्पःो । षेस्ब्य ब ःदि नि शग्प थम्स्चद्स्पङ्स्पःि मिङ्यिन्नो । योङ्स्सु शेस्प नि थ दद्पर्ब्स्तन् ल । षेस्ब्य ब नि ब्स्ग्रोम्स्पस्स्पङ्बर्ब्य ब ग्शुग्स्न स्प्योद्प र्नम्स्स्पङ्स्प नि ग्शुग्स्क्यि ःदोद्छग्स्शद्पःि योङ्स्सु शेस्प यिन्नो । ग्शुग्स्मेद्पर्नम्स्क्यि नि कुन् तु स्ब्योर्ब थम्स्चद्योङ्स्सु ग्रुग्स्पःि योङ्स्सु शेस्प यिन्नो । षेस्ःब्युङ्बःि फ्यिर्रो । म्थोङ्बःि स्पङ्बर्ब्य बर्नम्स्क्यि नि म यिन् ते । षेस्ब्य ब नि चिःि फ्यिर्ग्शुग्स्दङ्ग्शुग्स्मेद्प न स्प्योद्पःि म्थोङ्बस्स्पङ्बर्ब्य बर्नम्स्क्यि योण्स्सु शेस्प सो सोर्मि ब्स्तन् ते । दे ब्षिन् दु ग्शुग्स्दङ्ग्शुग्स्मेद्प न स्प्योद्प म्थोङ्बस्स्पङ्बर्ब्य बर्नम्स्स्पङ्स्प यङ्योङ्स्सु शेस्प ग्सुं यिन् ते । षे ःब्युङ्बःि फ्यिर्रो । ब्स्गों प स्पङ्बर्ब्य बर्नम्स्क्यि ग्ञेन् पो मि ःद्र बःि फ्यिर्रो षेस्ब्य ब नि ःदि ल्तर्स दङ्स न ग्शुग्स्न स्प्योद्[तिब् । १६५ ] पःि ब्स्गों पस्स्पङ्बर्ब्य ब र्नं प द्गुःि ग्ञेन् पो बर्छद्मेद्प दङ्र्नं पर्ग्रोल्बःि लं शग्प मेद्प मि ल्चोग्स्प मेद्प ल सोग्स्पःि स दङ्शग्प दङ्ब्चस्प ब्सं ग्तन् ग्ञिस्पःि ञेर्ब स्तोग्स्क्यिस्ब्स्दुस्प नस्नं म्खः म्थः यस्स्क्ये म्छेद्क्यि ञेर्ब्स्दोग्स्क्यिस्ब्स्दुस्पःि बर्र्नं प द्गु योद्ल ग्शुग्स्मेद्प न स्प्योद्प र्नम्स्क्यि ग्ञेन् पो बर्छद्मेद्पःि लं दङ् । र्नं पर्ग्रोल्बःि लमिन् चि रिग्स्पर्शुग्प मेद्पःि स ःोग्म प ःम् । चि रिग्स्पर्शग्प दङ्ब्चस्प गोङ्मःि ञेर्ब्स्दोग्स्क्यिस्ब्स्दुस्प दग्योद्दे । ग्षन् खो न यिन् पस्ग्ञेन् पो मि ःद्र बःि फ्यिर्ःदि दग्गिस्योङ्स्सुऽशेस्प थ दद्पर्स्तन् तो । म्थोङ्बस्स्पङ्बर्ब्य ब र्नम्स्क्यि ग्ञेन् पो नि ःद्र स्ते । र्जेस्सु शेस्पःि ब्शोद्प ल सोग्स्प ग्शुग्स्न स्प्योद्पर्नम्स्क्यि ग्ञेन् पो दे दग्ञिद्ग्शुग्स्मेद्पर्नम्स्क्यि यङ्यिन् पस्योङ्स्सु शेस्प थ तद्दु र्नं पर्मि ब्षग्गो । (अभिधर्मकोषव्याख्या ५०५) (व् ।६४-६६) थ मःि छ दङ्म्थुन् प स्पङ्स्प ल सोग्स्प योङ्स्सु शेस्प स्ते षेस्ब्य ब नि थ मःि छ दङ्ंथुन् प स्पङ्स्पःि योङ्स्सु शेस्प दङ् । ग्शुग्स्क्यि ःदोद्छग्स्शद्पःि योङ्स्सु शेस्प दङ् । कुन्तु स्ब्योर्ब थम्स्चद्योङ्स्सु ग्तुग्स्पःि योङ्स्सु शेस्पःो । ःदि दग्नि ब्स्गों पःि लं ग्यि ःब्रस्बु यिन् पःि फ्यिर्शेस्पःि ःब्रस्बु यिन् ते । ब्स्गों पःि लं ल ब्शोद्प दग्नि मेद्दो । जि ल्तर्योङ्स्सु शेस्प ब्शोद्पःि ःब्रस्बु यिन् षेस्ब्य ब नि योङ्स्सु शेस्प दङ्शेस्प षेस्ब्य ब दोन् ग्चिग्स्ते । शेस्प दङ्योङ्स्सु शेस्प नि शग्प मेद्पःि ये शेस्यिन्नो षेस्ःब्युङ्बःि फ्यिर्रो । बं पो ब्षि ब्चु र्त्स ब्षि प । द्रि मेद्ब्शोद्र्नम्स्शेस्प मेद् । षस्ःब्युङ्बस्ब्शोद्प नि शेस्पःि ङो बो [तिब् । १६६ ] ञिद्यिन् पर्यङ्मि रुङ्न । दे जि ल्तर्योङ्स्सु शेस्प ब्शोद्पःि ःब्रस्बु यिन् ते । ःब्रस्बु ल र्ग्यु ब्तग्स्ब्यस्न यङ्मि रुङ्ङो स्ञं दु ब्सं प यिन्नो । ःदिर्ब्शोद्प र्नम्स्नि शेस्पःि ःखोर्चन् यिन् पःि फ्यिर्षेस्ब्य ब स्मोस्ते । ःदि दग्ल ःखोर्शेस्प योद्पस्न शेस्पःि ःखोर्चन् ते । ब्शोद्पर्नम्स्सो । देःि फ्यिर्शेस्पःि ःब्रस्बु यङ्ब्शोद्पर्नम्स्क्यि ःब्रस्बु षेस्ब्यःो । र्ग्यल्बःि ःखोर्ल र्ग्यल्पो ञे बर्ब्तग्स्प ब्षिन् ते द्पेर्न र्ग्यल्पोःि ःखोर्ल र्ग्यल्पो ञे बर्ब्तग्स्पःि फ्यिर्ःखोर्ग्यिस्ब्यस्प ल यङ्र्ग्यल्पोस्ब्यस्प षेस्ब्यअ दङ्ःद्र ःो । शेस्प दङ्ःब्रस्बु ग्चिग्फ्यिर्रो षेस्ब्य ब नि ब्शोद्प दग्नि शेस्प दङ्ल्हन् चिग्ःब्रस्बु ग्चिग्प यिन् ते । ब्शोद्प दग्गि ःब्रस्बु गङ्यिन् प दे ञिद्शेस्र्नम्स्क्यि यिन् पस्ब्शोद्पःि ःब्रस्बु यङ्योङ्स्सु शेस्पर्रुङ्ङो । मि ल्चोग्स्मेद्ःब्रस्थम्स्चद्दो षेस्ब्य ब नि ःदि ल्तर्मि ल्चोग्स्पःि स पःि लं ग्यिस्खम्स्ग्सुं पःि म्थोङ्ब दङ्ब्स्गों पस्स्पङ्बर्ब्य बःि शग्प र्नम्स्स्पङ्ब स्रिद्दे । शग्मेद्मि ल्चोग्स्मेद्प यिस् । थम्स्चद्लस्नि ःदोद्छग्स्ब्रल् । षेस्ःब्युङ्बःि फ्यिर्रो । ग्शुग्स्दङ्ग्शुग्स्मेद्प न ञोन्मोङ्स्प स्पङ्स्पःि रङ्ब्षिन् गङ्दग्यिन् पःो । षेस्ब्य ब नि ब्ये ब्रग्तु स्म्र ब र्नम्स्न रे ग्शुग्स्दङ्ग्शुग्स्मेद्प न स्प्योद्पःि म्थोङ्बस्स्पङ्बर्ब्य ब र्नम्स्स्पङ्स्प जि स्कद्ब्शद्पःि योङ्स्सु शेस्प ग्सुं दङ् । ब्स्गों पस्स्पङ्बर्ब्य ब ग्शुग्स्न स्प्योद्प र्नम्स्स्पङ्स्प ग्शुग्स्क्यि ःदोद्छग्स्शद्पःि योङ्स्सु शेस्प दङ्ग्शुग्स्मेद्प न स्प्योद्प र्नम्स्स्पङ्स्प कुन् तु स्ब्योर्ब थम्स्चद्योङ्स्सु ग्तुग्स्पःि [तिब् । १६६ ] योङ्स्सु शेस्प षेस्ब्य ब ल्ङ स्ते । ब्सं ग्तन् ग्यि द्ङोस्ग्षि ल ब्र्तेन्नस्ग्शुग्स्दङ्ग्शुग्स्मेद्प न स्प्योद्पःि ञोन्मोङ्स्प स्पोङ्ब स्रिद्पःि फ्यिर्रो । ःदोद्प न स्प्योद्पःि ञोन्मोङ्स्प स्पङ्स्प नि ब्सं ग्तन् गि द्ङोस्ग्षिःि ःब्रस्बु म यिन् ते । ब्सं ग्तन् ग्यि द्ङोस्ग्षि र्नम्स्नि ःदोद्पःि (अभिधर्मकोषव्याख्या ५०६) खम्स्क्यि ग्ञेन् पो म यिन् पःि फ्यिर्रो । दे ल्त बस्न ःदोद्छग्स्दङ्ब्रल्ब र्नम्स्ल ब्रल्बःि थोब्प शग्प मेद्प योद्दु शिन् क्यङ्थ मःि छ दङ्म्थुन् प स्पङ्स्पःि योङ्स्सु शेस्प ब्षिन् दु ःदोद्प न स्प्योद्प म्थोङ्बस्स्पङ्बर्ब्य ब स्पङ्स्प नि ब्सं ग्तन् ग्यि द्ङोस्ग्षिःि ःब्रस्बु म यिन्नो षेस्शेर्रो । ब्त्सुन् प द्ब्यङ्स्स्ग्रोग्स्क्यि लुग्स्क्यिस्नि ब्र्ग्यद्दे । षेस्ब्य ब नि ब्त्सुन् प द्ब्यङ्स्स्ग्रोग्स्दे नि ःदोद्पःि ःदोद्छग्स्दङ्ब्रल्बःि गङ्शग्गि यङ्ःदोद्प न स्प्योद्प म्थोङ्बस्स्पङ्बर्ब्य ब र्नम्स्स्पङ्स्प योङ्स्सु शेस्प ग्सुं ग्यि ङो बो ञिद्ःफग्पःि लं ग्यि ःब्रस्बु यिन् पर्ःदोद्दो । चिःि फ्यिर्षे न । ब्रल्बःि थोब्प शग्प मेद्प र्ञेद्पःि फ्यिर्ते । ब्सं ग्तन् ग्यि द्ङोस्ग्षि ल र्तेन्नस्ङेस्प ःजुग्प न यङ्म थोङ्बस्स्पङ्बस्स्पङ्बर्ब्य बःि शग्प स्ङोन् ःजिग्र्तेन् पःि लं ग्यिस्स्पङ्स्प र्नम्स्क्यिस्ब्रल्बःि थोब्प शग्प मेद्प यङ्ःथोब्ल दे ल न म्थोङ्बःि लं ग्यिस्नुस्प योद्पस्ग्शुग्स्दङ्ग्शुग्स्मेद्प ब स्प्योद्पःि म्थोङ्बस्स्पङ्बर्ब्य ब स्पङ्स्प ब्षिन् दु । ःदोद्प न स्प्योद्पःि म्थोङ्बस्स्पङ्बर्ब्य ब स्ङोन् स्पङ्स्पःि योङ्स्सु शेस्प यङ्द्ङोस्ग्षि ब्सं ग्तन् ग्यि ःब्रस्बुःो षेस्ब्य बर्र्नं प ब्षग्गो । दे ल्त ब स्न ःदोद्प न स्प्योद्पःि म्थोङ्बस्स्पङ्बर्ब्य ब स्पङ्स्पःि योङ्स्सु शेस्प ग्सुं पो ःदि द्ग दङ्स्ङर्ब्शद्प ग्शुग्स्दङ्ग्शुग्स्मेद्पःि योङ्स्सु शेस्प दङ्ब्चस्प योङ्स्सु शेस्प ब्र्ग्यद्ब्सं ग्तन् ग्यि ःब्रस्बु यिन् [तिब् । १६७ ] नो । शेस्ब्य ब नि ब्त्सुन् प द्ब्यङ्स्स्ग्रोग्स्क्यि ग्षुङ्लुग्स्यिन्नो । थ मःि छ दङ्म्थुन् प स्पङ्स्पःि योङ्स्सु शेस्प नि मि ल्चोग्स्प मेद्पःि ःब्रस्बु खो न यिन्नो । षेस्ब्य ब नि ःदोद्प लस्ःदोद्छग्स्म ब्रल्ब नि मि ल्चोग्स्प मेद्प खो नस्थ मःि छ दङ्म्थुन् प स्पोङ्बर्ब्येद्क्यि द्ङोस्ग्षिस्नि म यिन् ते । दे न म थोब्पःि फ्यिर्रो । ःदोद्छग्स्दङ्ब्रल्ब स्तोन् दु ःग्रो ब यङ्गङ्गि त्स्हे ब्सं ग्तन् ल ब्र्तेन्नस्ञेस्प ल देस्क्यङ्सो सोःि स्क्ये बोःि स्नस्स्कब्स्न ःजिग्र्तेन् पःि लं ग्यिस्ःदोद्प न स्प्यद्पःि ञोन्मोङ्स्प थम्स्चद्स्पङ्स्पस्दे ब्सं ग्तन् ग्यि द्ङोस्ग्षिःि ःब्रस्बु म यिन्नो । सेम्स्क्यि स्कद्चिग्म ब्चु द्रुग्ल देःि थ मःि छ दङ्म्थुन् प स्पङ्स्प योङ्स्सु शेस्प ब्सं ग्तन् ग्यि द्ङोस्ग्षि ल ब्र्तेन् पर्यङ्र्नं पर्ब्षग्मोद्क्यि देःि ःब्रस्बु षेस्ब्य बर्र्नं पर्ब्षग्प नि म यिन्नो । ःो न चि षे न । ग्नस्स्कब्स्दे न थ मःि छ दङ्म्थुन् प स्पङ्स्प ःजिग्र्तेन् पःि लं ग्यिस्थोब्पःि ब्रल्बःि थोब्प शग्प मेद्प यङ्ःथोब्पस्दे स्पङ्स्पःि योङ्स्सु शेस्पर्र्नं पर्ब्षग्स्ते । देःि त्स्हे नि म्थोङ्बस्स्पङ्बर्ब्य ब स्ङ म स्पङ्स्पस्स्ङर्म्थोङ्बःि लं ग्यिस्स्पङ्बर्ब्य ब स्पङ्स्प गङ्यिन् प दङ् । स्ङर्स्पङ्स्प थ मःि छ दङ्म्थुन् प स्पङ्स्प ब्स्दोम्स्नस्थ मःि छ दङ्म्थुन् प स्पङ्स्पःि योङ्स्सु शेस्प ग्चिग्तु र्नं पर्ब्षग्स्ते । (अभिधर्मकोषव्याख्या ५०७) खम्स्लस्ःदोद्छग्स्ब्रल्ब दङ्ःब्रस्बु थोब्फ्यिर्दे दग्ब्स्दोम्स्षेस्थम्स्चद्ब्स्दोम्स्पःि ग्तन् त्स्हिग्स्योद्पःि फ्यिर्रो । दे ल्त बस्न थ मःि छ दङ्म्थुन् प स्पङ्स्पःि योङ्स्सु शेस्प दे नि मि ल्चोग्स्प मेद्पःि ःब्रस्बु खो नर्र्नं प ब्षग्गि । द्ङोस्ग्षिःि ःब्रस्बु नि म [तिब् । १६७ ] यिन् ते । ःदि ल नि ब्ये ब्रग्तु स्म्र ब दङ् । ब्त्सुन् प द्ब्यङ्स्स्ग्रोग्स्क्यि ग्षुङ्लुग्स्म्थुन्नो । ब्सं ग्तन् ख्यद्पर्चन् यङ्ब्सम्स्ब्षिन् दु ब्ल्त बर्ब्यःो षेस्ब्य ब नि ब्सं ग्तन् ख्यद्पर्चन् ग्यि शग्प मेद्पस्क्यङ्ञोन्मोङ्स्प स्पोङ्बर्ःग्युर्ते । दे ल्त बस्न मि ल्चोग्स्प मेद्प दङ् । द्ङोस्ग्षिःि ब्सं ग्तन् र्नम्स्खो नःि ःब्रस्बु खो न ब्शद्क्यि । ब्सं ग्तन् ख्यद्पर्चन् ग्यि नि म यिन्नो । देःि फ्यिर्ब्सं ग्तन् ख्यद्पर्चन् यङ्ब्सं ग्तन् ब्षिन् दु ब्ल्त बर्ब्यःो षेस्ब्य ब स्मोस्ते । ब्सं ग्तन् ख्यद्पर्चन्नि ब्सं ग्तन् दङ्पो खो न र्तोग्प दङ्ब्रल्बस्ख्यद्पर्दु ःफग्स्पःि फ्यिर्रो । [नं म्खः म्थः यस्स्क्ये म्छेद्क्यि ञेर्ब्स्दोग्स्क्यि षेस्ब ब नि ।] ध्यानांतरं भवतीति । आकाशानंत्यायतनसामंतकस्येति । लौकिकस्यापि तस्य परिज्ञा फलं व्यवस्थाप्यते । आर्यस्यैवानास्रवविसंयोगप्राप्तिसंभवात् । मौलारूप्यत्रयस्य चेत्य् अनास्रवस्य । लौकिकस्य मार्गस्य द्वे इति । आर्यस्य लौकिकेन मार्गेण कामरूपधातुवैराग्ये । अन्वयज्ञानस्यापि द्वे इति । भावनामार्गसंगृहीतस्य । पश्चिमे रूपरागक्षयसर्वसंयोजनपर्यादानअपरिज्ञे । धर्मज्ञानस्य तिस्र इति । भावनामार्गसंगृहीतस्य । धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे त्रिधातुप्रतिपक्षस्तद् इति । तस्य पश्चिमास्तिस्रः फलमवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः । कस्मादित्याह । [तिब् । १६८ ] त्रैधातुकभावनाहेयप्रतिपक्षत्वादिति । षट्तत्पक्षस्य पंच वेति । तयोर्धर्मज्ञानान्वयज्ञानयोः पक्षस्य । षट्पंच च यथायोगं पक्षग्रहणेन क्षांतिज्ञानयोर्ग्रहणं । या एव धर्मज्ञानक्षांतिज्ञानानाम् (अभिधर्मकोषव्याख्या ५०८) इति । धर्मज्ञानक्षांतीनां धर्मज्ञानानां चेति समासः । धर्मज्ञानक्षांतीनां कामावचरदर्शनहेयप्रहाणस्वभावा यथोक्तस्तिस्रः परिज्ञाः फलं । धर्मज्ञानानामिति भावनामार्गे । दुःखसमुदयज्ञानसंगृहीतानामेकावरभागीयप्रहाणपरिज्ञा । निरोधमार्गसंगृहीतानां तु तिस्रोऽप्यवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः । या एवान्वयक्षांतिज्ञानानामिति । अन्वयज्ञानक्षांतीनामन्वयज्ञानानां च । ताश्च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास्तिस्रः परिज्ञाः द्वे च पश्चिमे इति । (व् ।६७) कस्मान्नैकैकं प्रहाणमिति । दुःखदर्शनहेयप्रहाणसमुदयदर्शनहेयप्रहाणं विस्तरेण यावद्भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणमिति कस्मान्न गृह्यते । अनास्रववियोगाप्तेर्[तिब् । १६८ ] इति । अनास्रवविसंयोगप्राप्तेरित्यर्थः । भवाग्रविकलीकृतेर् इति । भवाग्रप्रदेशप्रहाणादित्यर्थः । हेतुद्वयसमुद्घाताद् इति । दुःखसमुदयदर्शनहेयसर्वत्रगहेतुद्वयप्रहाणादित्यर्थः । तत्प्रहाणं परिज्ञेति । एभिः कारणैः प्रकृष्टं तत्प्रहाणमित्यत्र परिज्ञेति व्यवस्थाप्यत इत्यभिप्रायः । अन्येषु धर्मान्वयज्ञानेष्विति । समुदयधर्मज्ञानमारभ्य यावत्क्षयज्ञानमित्येतेषु धर्मज्ञानान्वयज्ञानेषु । ज्ञानफलं तु प्रहाणमिति । भावनामार्गे । तद्धि न क्षांतिफलमिति । धात्वतिक्रमाद् इति । चशब्दो लुप्तनिर्दिष्टः । धात्वतिक्रमाच्चेति । अत एव विव्रियते चतुर्थाच्चेति । यदा धातुं समतिक्रामतीति । कामधातुं रूपधातुमारूप्यधातुं वा समतिक्रामति । तदा परिज्ञाख्यां लभत इति वाक्यशेषः । कस्मात् । कृत्स्नधातुवैराग्यात् । कृत्स्नस्य धातोर्वैराग्यात् । न विकलीकरणमात्रत्वात् । तदा हि सुष्ठु प्रहाणमित्यभिप्रायः । उभयसंयोगविसंयोगमिति । आलंब्यालंबकक्लेशलक्षणः संयोग उभयसंयोगः । तस्माद्विसंयोग उभयसंयोगविसंयोगः । तत्पंचमं कारणमाहुराभिधार्मिकाः । [तिब् । १६९ ] अनेन च कारणेन प्रहाणं परिज्ञेत्युच्यत इति । यः प्रकारः प्रहीण इति दुःखदर्शनप्रहातव्यो यावं मार्गदर्शनप्रहातव्यो भावनाप्रहातव्यश्च । यदि तत्र प्रहीणे (अभिधर्मकोषव्याख्या ५०९) प्रकारे अन्येन तदालंबनेन क्लेशेन दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति । एवमिदमपि पंचमं कारणं प्रहाणस्य परिज्ञाविधाने आहुरपरे । स तु नान्यदिति विस्तरः । स तूभयसंयोग उभयहेतुसमुद्घातात्दुःखदर्शनप्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद्धातुसमतिक्रमाच्च नान्यः । तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्वपि न तावदस्ति हेतुद्वयसमुद्घातो यावत्तदालंबनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुरप्रहीणो भवति । भावनाप्रहातव्येषु च प्रहीणेष्वपि यावदष्टासु प्रकारेषु न तावद्धात्वतिक्रमोऽस्ति यावन्न नवमस्यापि प्रकारस्य प्रहाणमित्यतो न पुनर्ब्रूमः । (व् ।६८) नैकयेति विस्तरः । पृथग्जनस्तावन्नैव समन्वागतः । अनास्रवविसंयोगप्राप्त्यभावात् । आर्योऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षांतौ । यावच्छब्देन दुःखधर्मान्वयज्ञानक्षांतिज्ञानेषु समुदयधर्मज्ञानक्षांतौ च नैव समन्वागतः । हेतुद्वयस्याप्रहीणत्वात् । समुदयधर्मज्ञान एकया समन्वागतः समुदयान्वयज्ञानक्षांतावप्येकयैव समन्वागत इत्यवगंतव्यं । समुदयान्वयज्ञाने द्वाभां पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च । निरोधधर्मज्ञानक्षांतावपि द्वाभ्यामेव । निरोधधर्मज्ञाने तिसृभिरिति नेयं । यावत्पंचभिर्दर्शनास्थः समन्वागतो न षड्भिः षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात् । मार्गान्वयज्ञाने षड्भिरिति । पूर्वोक्ताभिश्च रूपारूप्यावचरमार्गदर्शनप्रहाणपरिज्ञया च । ननु च पश्चाद्वक्ष्यति । चतुःफलव्यवस्था तु पंच कारणसंभवात् पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलणं फले ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावनेति । भवति प्रहाणसंकलनं । न तु परिज्ञासंकलनमित्यविरोधः । यावत्कामवैराग्यं न प्राप्त इति । यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे [तिब् । १७० ] यावदष्टमप्रकारप्रहाणेऽपि षड्भिरेव समन्वागतः । परिहीणोऽपि तत इति । कामवैराग्यपरिहाण्या हि तत्संकलनविगतः । कामवैराग्यं प्राप्तः पूर्वं पश्चाद्वेति । अभिसमयात्पूर्वं पश्चाद्वा । कथं । लौकिकेन मार्गेण कामवीतरागो भूत्वा नियाममवक्रांतो मार्गेऽन्वयज्ञाने एकयावरभागीयप्रहाणपरिज्ञया समन्वागतः । यस्मादसावार्यः षोडशक्षणं प्राप्तोऽनागाम्येव भवति । न स्रोतआपन्नः । सकृदागामी (अभिधर्मकोषव्याख्या ५१०) वा । पंचावरभागीयप्रहाणाच्चानागामी इति पठ्यते । तस्माद्दर्शनहेयप्रहाणानां पंचावरभागीयप्रहाणस्य च संकलनादेकयैवावरभगीयप्रहाणपरिज्ञया समन्वागतः । पश्चाद्वाभिसमयादानुपूर्विकः कामवैराग्यप्राप्त एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः । अर्हत्त्वप्राप्त एकयैवेति । तदा परिज्ञासंकलनात् । परिहीणोऽपि रूपावचरेणेति । विशेषणं कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थमारूप्यावचरेण च परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थमिति । रूपवैराग्यं [तिब् । १७० ] प्राप्तो द्वाभ्यामिति । अनागामी रूपवीतराग इत्यर्थः । धातुवैराग्येण कस्मान्न संकलनं भवति । फलप्राप्त्यभावात् । धातुवैराग्यफलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनमिष्यते । न केवलेन परिहीणोऽपि । आरूप्यावचरेणेत्यर्हत्त्वप्राप्तिसंकलितयोरवरभागीयप्रहाणरूपरागक्षयपरिज्ञयोरारूप्यावचरेण क्लेशेनार्हत्त्वात्परिहाणौ पुनर्लाभात् । रूपावचरेण तु परिहाणावेकया समन्वागतः स्यात् । कामावचरेण च षढिः समन्वागतः स्यादित्यारूप्यावचरपर्यवस्थानग्रहणं । (व् ।६९ ब्) अनागाम्यर्हतोरिति । कामवीतरागानागामीह विवक्षितः । रूपवीतरागानागामिनः परिज्ञाद्वयसमन्वागमवचनात् । न भूयस्य इति । न बहुतराः । आनुपूर्विकस्रोतआपन्नवदित्यभिप्रायः । द्वाभ्यां कारणाभ्यामिति व्याख्यातं । संकलनमिति कोऽर्थः एकत्वेन व्यवस्थापनमिति योऽर्थः । तयोश्चावस्थयोरिति । कामवीतरागानागाम्यर्हत्त्वावस्थयोरेतदुभयं । धातुवैराग्यं फलप्राप्तिश्चेति । एकपरिज्ञोच्यत इति । रूपवीतरागस्यानागामिन [तिब् । १७१ ] एकावरभागीयप्रहाणपरिज्ञा अर्हतोऽप्येका सर्वसंयोजनपर्यादानपरिज्ञेति । (व् ।६९ द्) एकां द्वे इति विस्तरः । एकां कश्चिज्जहातीति त्यजतीत्यर्थः । कश्चिद् द्वे कश्चित् पंच कश्चित् षट् (अभिधर्मकोषव्याख्या ५११) जहाति । आप्नोति वा कश्चिदेकां कश्चिद्द्वे कश्चित्षट् । कश्चित्पंचाप्नोतीत्येतन्नास्ति । अत आह । पंच नेति । पंच नैव कश्चिदाप्नोति । इति सूत्रार्थनयः । वृत्तिस्तु विव्रियते अर्हत्त्वात्परिहीयमाणो येन केनचित्चित्तेन सर्वसंयोजनपर्यादानपरिज्ञामेकां त्यजति । संकलने तस्या एकैकस्या अर्हत्त्वावस्थायामस्तित्वात् । एवं कामवैराग्यात्परिहीयमाणो रूपवीतरागोऽनागामी एकामेवावरभागीयप्रहाणपरिज्ञां । द्वे परिज्ञे त्यजतीति । अवरभागीयप्रहाणपरिज्ञां । रूपरागक्षयपरिज्ञां च । कोऽसावित्याह । अनागामी रूपवीतरागः कामवैराग्यात्परिहीयमाण इति । पंच त्यजति वीतरागपूर्वी मार्गान्वयज्ञान [तिब्१७१ ] इति । अभिसमयचित्ते षोडशे । स ह्यवरभागीयप्रहाणपरिज्ञालाभे । लौकिकमार्गप्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पंच परिज्ञाः पंचदशक्षणलब्धास्त्यजति । षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति । किं तु धातुवैराग्यफललाभतोऽत्रावरभागीयप्रहाणपरिज्ञायां संकलितेति नष्टरूपेव सा नोपन्यस्यते । आनुपूर्विको यो न वीतरागपूर्वी कामवैराग्यात्कारणात्षट्त्यजति । यास्त्रैधातुकानां दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः । लाभोऽप्येवमिति । कश्चिदेकां लभते । पंचेति मुक्त्वा । यावत्षट्लभते । यः कश्चिदपूर्वं लभत इति । दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां परिज्ञानां यो प्रतिलब्धपूर्वां प्रतिलभते प्रथमतः । स तामेकां लभते । भावनामार्गेऽपि हि वीतरागपूर्वी दर्शनमार्गांते अवरभागीयप्रहाणपरिज्ञामेकां लभते । आनुपार्विकोऽपि कामवैराग्ये नवमे विमुक्तिमार्गे तामेव लभते । अर्हन्नप्यन्यां लभत इति । केवलादारूप्यवैराग्यात्परिहीयत इति । नान्यवैराग्यादिति दर्शयति । स ह्यवरभागीयप्रहाणपरिज्ञां [तिब् । १७२ ] रूपरागक्षयपरिज्ञां च लभते । कश्चित्षड्योऽनागामिफलात्परिहीयत इति । आनुपूर्विकोऽनागामी । न हि वीतरागपूर्विणः परिहाणिरस्ति । तद्वैराग्यस्य द्विमार्गप्रापणात् । अत एव च नैव कश्चित्पंच लभते । वीतरागपूर्विणो हि यदि परिहाणिरभविष्यत् । स एव युगपत्पंच परिज्ञा अलप्स्यतेति । आचार्ययशोमित्रकृतायामभिधर्मकोशव्याक्यायामनुशयनिर्देशो नाम पंचमं कोशस्थानं समाप्तं । (अभिधर्मकोषव्याख्या ५१२) ब्लन्क् (अभिधर्मकोषव्याख्या ५१३) वि (पुद्गलमार्गनिर्देशो नाम षष्ठं कोशस्थानम्) (वि ।१) पंचमस्य षष्ठस्य च कोशस्थानयोः संबंधमुपदर्शयन्निदमुपन्यस्यति । उक्तं यथाप्रहाणमित्यदि । यथाप्रहाणं परिज्ञा लभत इति । फले हेतूपचारादिति वचनात् । तदपि च क्लेशप्रहाणमाख्यातम् उक्तं । कथमित्याह । सत्यदर्शनभावनाद् इति । द्वंद्वैकवद्भावनिर्देशः । सत्यानां दर्शनाद्भावनाच्च भावनाया इति वा । सत्यदर्शनभावनात्कारणाद्दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणोक्तं दशैत सप्त सप्तष्टौ त्रिद्विदृष्टिविवर्जिताः यथाक्रमं प्रहीयंते कामे दुःखादिदर्शनैः । चत्वारो भावनाहेया इत्यादिना । [तिब् । १७२ ] सत्यदर्शनं च दर्शनमार्गेण सत्यभावनं च भावनामार्गेणेत्यत इदमुच्यते । ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति । मार्गनिर्देशोपन्यास इति संबन्धः । त्रैधातुकप्रतिपक्षत्वादिति दर्शनमार्गस्य । लौकिकत्वे सति भवाग्रप्रतिपक्षो न स्यादिति । किं च नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच्च । न भावनामार्गवत् । न हि लौकिकस्यैषा शक्तिरस्ति । त्रैधातुकप्रहाणे च प्रकारप्रहाणे च । यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे शक्तिः । भावनाहेयानामपि लोकोत्तरेण सकृत्प्रहाणप्रसंगः । लोकोत्तरेणैव सकृत्प्रहाणमित्यवधार्यते । न तु सकृत्प्रहाणमेव लोकोत्तरेणेति अतो न तत्प्रसंगः । भावनाहेया हि क्लेशा दृढाः सवस्तुकत्वात् । अतो लोकोत्तरेणाप्येषां न सकृत्प्रहाणं । (अभिधर्मकोषव्याख्या ५१४) (वि ।२) इतरथा हीति । यदि यथाभिसमयं निर्देशो नाभिप्रीयेत । पूर्वं हेतुनिर्देशः समुदयसत्यनिर्देशः । हेतूनां लोके पूर्वं दृष्टत्वात् । यथा स्मृत्युपस्थानध्यानादीनामिति । तद्यथा स्मृत्युपस्थानादीनामुपपत्त्यनुकूला देशना । कायस्मृत्युपस्थानं हि पूर्वमुत्पद्यते । यथौदारिकालंबनतः [तिब् । १७३ ] सूक्ष्मौदारिकप्रचारतो वा पूर्वोत्तरहेतुफलभावतो वा । ततो वेदनास्मृत्युपस्थानं । ततश्चित्तस्मृत्युपस्थानमित्येषामुपपत्त्यनुकूला देशना एवं ध्यानानाम् । आदिशब्देन विमोक्षाभिभ्वायतनकृत्स्नायतनादीनामप्युपपत्त्यनुकूला देशना । केषांचित्प्ररूपणानुकूलेति । प्रदर्शनानुकूला अवबोधानुकूलेत्यर्थः । यथा सम्यक्प्रहाणानामिति । कृष्णशुक्लपक्षयोः प्रत्येकमुत्पन्नानुत्पन्नभेदतः । उत्पन्नं हि सुखावबधं नानुत्पन्नं । कृष्णपक्षो वा विनेयजनेन सुखमवबुध्यते । कथमुत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते । वीर्यमारभते चित्तं प्रगृह्णाति प्रणिदधाति । अनुत्पन्नानामनुत्पादाय छन्दं जनयतीति पूर्ववत् । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयतीति पूर्ववत् । उत्पन्नानां स्थितये असंमोषतायै छन्दं जनयतीति पूर्ववत् । न ह्येष नियमो यत्पूर्वमुत्पन्नानां प्रहाणाय छन्दं जनयति । पश्चादनुत्पन्नानामनुत्पादायेति । किं तर्हि । पूर्वं चानुत्पन्नानामनुत्पादाय छन्दं जनयति । [तिब् । १७३ ] पश्चाच्चोत्पन्नानां प्रहाणायेत्येतदुदाहरणं । एवं शुक्लपक्षोऽपि योज्यः । सत्यानां त्वभिसमयानुकूलेति हेतुफलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसंग इति दर्शयति । यत्र हि सक्त इति । दुःखसत्ये । येन बाध्यत इति तेनैवं । यतश्च मोक्षमिति । तत एव दुःखसत्यात् । तदेवादौ पयोगावस्थायां । कस्मादित्याह । व्यवचारणावस्थायां परीक्षावस्थायां निर्वेधभागीयावस्थायामित्यर्थः । व्याधिं दृष्ट्वेति । व्याधिर्दुःखसत्यस्योपमानं । तन्निदानं समुदयसत्यस्य । तत्क्षयो निरोधसत्यस्य । तद्भेषजं मार्गसत्यस्योपमानं । सूत्रेऽप्येष सत्यानां दृष्टांत इति । व्याध्यादिसूत्रे । कथं । चतुर्भिरंगैः समन्वागतो भिषक्शल्यापहर्ता राजार्हश्च भवति राजयोग्यश्च राजांगत्वे च संख्यां गच्छति । कतमैश्चतुर्भिः । आबाधकुशलो भवति । आबाधसमुत्थानकुशलः । आबाधप्रहाणकुशलः । प्रहीणस्य चाबाधस्यायत्यामनुत्पादकुशलः । एवमेव चतुर्भिरंगैः समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरो भिषक्शल्यापहर्तेत्युच्यते । कतमैश्चतुर्भिः । इह भिक्षवस्[तिब् । १७४ ] तथागतोऽर्हन् सम्यक्संबुद्ध इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः । अयं दुःखनिरोधः । (अभिधर्मकोषव्याख्या ५१५) इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानातीति । पूर्वावेधादिति । पूर्वाक्षेपात् । दृष्टभूमिनिःसंगाश्वप्रसरणवदिति । यथा भूमौ दृष्टायां निःसंगमश्वस्य प्रसरणं । तद्वत् । अश्वधावनवदिति केचित्पठंति । धावि प्रकृत्यंतरं व्याचक्षते । इणो बोधनार्थत्वादिति । सर्वो गत्यर्थो बोधनार्थोऽपि भवतीति । द्रव्यतोऽपीत्यपिशब्दान्नामतोऽपीति दर्शितं । अविपरीतत्वादिति । यस्मात्तदार्याणामन्येषां चाविपरीतं । दुःखमेव नान्यथा । आर्यैस्तु यथैतानि सत्यानि । तथा दृष्टानि । दुःखसत्यं दुःखत अनित्यतः शून्यतोऽनात्मतश्च । एवं यावन्मार्गो मार्गतः न्यायतः प्रतिपत्तितो नैर्याणिकतश्च । नान्यैरनार्यैः एवं दृष्टानि । अत आर्याणामेतानि सत्यान्युच्यंते । न त्वनार्याणां सत्यान्युच्यंते । कस्मात् । विपरीतदर्शनात् । ते हि दुःखमदुःखत [तिब् । १७४ ] इत्येवमादिभिराकारैर्दुःखसत्यं पश्यंति । सम्दयमसमुदयत इत्येवमादिभिः । निरोधमनिरोधत इत्येवमादिभिः । मार्गममार्गत इत्येवमादिभिरिति । तत्परे दुःखतो विदुर् इति । तद्यथा निरोधसत्यं व्यथंतेऽपुनर्भवात्प्रपातादिव बालिशा इति । आर्यास्तु दुःखतो विदुर् इत्युपादानस्कंधपंचकः । द्वे आर्याणां सत्ये इति । दुःखसम्दयसत्ये अविपरीतदर्शनात् । द्वे आर्ये । कुशलतयानास्रवतया च । आर्याणां च सत्ये । अविपरीतदर्शनात् । एवमेकशेषनिर्देशाच्चार्यसत्ये इति भवति । (वि ।३) यदा वेदनैकदेशो दुःखस्वभाव इति । वेदनास्कन्धैकदेशो दुःखदौर्मनस्यस्वभावः । यथायोगमशेषत इति । मनआपा अपि विपरिणामदुःखतया संस्कारदुःखतया च दुःखा । अमनआपा दुःखदुःखतया संस्कारदुःखतया च । तदन्ये दुःखाः संस्कारदुःखतयैवेति यथायोगार्थः । मन आप्नुवंतीति मनआपाः । पुनः संधिकरणं चात्रेति व्याख्यातं । तेभ्योऽन्य इति मनआपामनआपेभ्योऽन्य इति । तिस्रो वेदना यथाक्रममिति । सुखा वेदना [तिब् । १७५ ] मनआपा दुःखा अमनआपा अदुःखसुखा नैव मनआपा नामनआपेत्यर्थः । तद्वशेनेति । वेदनावशेन । अवेदनास्वभावा अपि रूपशब्दादयस्तदनुकूलत्वान्मनआपादिसंज्ञां लभंते । विपरिणामेन दुःखतेति । अनित्यताविपरिणामेनेत्य्(अभिधर्मकोषव्याख्या ५१६) अर्थः यथोक्तं । हा चैत्ररथ हा वापि हा मंदाकिनि हा प्रिये इत्यार्त्ता विलपंतोऽपि गां पतंति दिवोकस इति । दुःखस्वभावेनैवेति । उपघातस्वभावेनेत्यर्थः । दुःखा वेदना उत्पाददुःखा स्थितिदुःखेति । नन्वेषा अर्थापत्तितो विपरिणामसुखा प्राप्नोति । तथा च सति लक्षणसंकरः स्यात् । नेदमस्या लक्षणं । किं तर्हि विदूषणार्थमयमुपदेश इति । अथ वा भवत्वेव सात्त्र । येन रूपेण विदूष्यते । तदेवापेक्षते इति । दुःखैव भवति । यथा सुखा वेदना उत्पादस्थितिसुखत्वात्सुखापि सती विपरिणामदुःखतया दुःखेत्येव विदूष्यते विदूषणीयत्वेनाभिप्रीयमाणत्वादिति । संस्कारेणैव दुःखतेति । संस्करणेनैव जननेनैवेत्यर्थः । यदनित्यं । तद्दुःखं । यन्न नियतस्थितं । तद्दुःखं । यज्यायते विनश्यति च । तद्दुःखम् [तिब् । १७५ ] इत्यर्थः । तेनोक्तं । प्रत्ययाभिसंस्करणादिति । प्रत्ययैरभिसंस्क्रियते यस्मात् । तस्मात्तद्दुःखमिति । वेदनावत्तद्वेदनीया अपि संस्कारा वेदितव्या इति । सुखवेदनीयानां संस्काराणां विपरिणामेन दुःखता । सुखवेदनीयाः संस्कारा उत्पादसुखाः स्थितिसुखा विपरिणामदुःखा इति । दुःखवेदनीयानां संस्काराणां दुःखवेदनीयस्वभावेनैव दुःखता । दुःखवेदनीयाः संस्कारा उत्पाददुःखा स्थितिदुःखा इति । अदुःखासुखवेदनीयानां संस्काराणां संस्कारेणैव दुःखता । प्रत्ययाभिसंस्करणात् । यदनित्यम् । तद्दुःखमिति । दुःखमेव दुःखता दुःखदुःखता । यावदिति वचनात्विपरिणाम एव दुःखता विपरिणामदुःखता संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम् । अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन । स एव ह्यत्रार्थो ग्रहीतव्यः । असाधारणत्वादिति विस्तरः । मनआपाः संस्काराः असाधारणा दुःखदुःखतायाः । अतस्तेषामसाधारणत्वाद्विपरिणामदुःखतोक्ता । अमनआपाश्चासाधारणा विपरिणामदुःखतायाः । अतस्तेषामसाधारणत्वाद्दुःखदुःखतोक्तेति । [तिब् । १७६ ] सर्वे तु मनआपादयः संस्कारदुःखतया दुःखाः तस्या व्यापिनीत्वात् । यदि सर्वेऽपि तथा दुःखाः कस्मात्सर्वे (विपरिणामदुःखतया) न पश्यंतीति अत आह । तां त्वार्या एव पश्यंति नान्ये । कथमितीदमुपन्यस्यते आह चात्रेति सर्वम् । एवं तर्हीति यदि संस्कारदुःखतया सर्वेऽपि संस्कारा दुःखाः मार्गेऽपि संस्कारदुःखताप्रसंगः । संस्कृतत्व्ता प्रत्ययजनितत्वादित्यर्थः । (अभिधर्मकोषव्याख्या ५१७) प्रतिकूलं हि दुःखमिति लक्षणान्मार्गो न दुःखमिति । किमिदमन्यदेवोच्यते । पूर्वमुक्तं प्रत्ययाभिसंस्करणात्सर्वसंस्कारा अनित्याः । यच्चानित्यं । तद्दुःखमिति । मार्गश्च प्रत्ययाभिसंस्कृतत्वादनित्यः । तस्माद्दुःखमिति प्रसज्येत् । यदि हि प्रतिकूलतैव दुःखलक्षणमिष्येत् । तत्पूर्वोक्तमलक्षणं स्यात् । तच्चेद्दुःखतालक्षणम् । इदमलक्षणमिति । नैष दोषः । कथं । यदनित्यमार्याणां प्रतिकूलं । तद्दुःखमित्ययमत्राभिप्रेतोऽर्थः । किं चानित्यमार्याणां प्रतिकूलं यत्सास्रवं वस्तु । कस्मात्पुनरनास्रवो मार्गस्तथैवानित्योऽपि न चार्याणां प्रतिकूल [तिब् । १७६ ] इत्यत आह । न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनादिति । अविशेषाभिधानेऽपि हि लोके विशेषप्रतिपत्तिर्दृष्टा । तद्यथा गमनाद्गौः न च गमनान्महिषोऽपि गौर्भवति । एवं ह्यर्थे नियते गौः [कास्मिंचिद्भवति ।] कस्माद्भवति । यस्मात्गच्छतीति । एवमिहापि यत्सास्रवं वस्तु । तत्प्रतिकूलमार्याणां । कस्मात् । अनित्यत्वादिति । यदेव दुःखतो दृष्टमिति । सास्रवं वस्तु । तस्यैव निरोधं शांततः पश्यंति । न मार्गस्येत्यवगंतव्यं । मुद्गादिभावेऽपि माषराश्यपदेशवदिति । माषराशौ मुद्गमसूरकलायादिसद्भावेऽप्यल्पत्वान्मुद्गादीनां माषराशिरिति लोके व्यपदेशो दृश्यते । तद्वत् । परिषेकसुखाणुकेनेति । सुखं च तदणुकं च सुखाणुकं । परिषेकेण सुखाणुकं परिषेकसुखाणुकं । तेनाह खल्वपीति । भदन्ककौमारलातः दुःखसंतत्यां । दुःखस्य च हेतुत्वाद् इति । सुखं दुःखस्य हेतुर्दुःखवेदनीयेन कर्मणा संप्रयुक्तत्वादिति । दुःखैश्चानल्पकैः समुदितत्वात् । यस्माच्चातिबहुभिर्दुःखैः परसेवाकृत्यादिकृतैः समुदितं सुखम् [तिब् । १७७ ] उत्पद्यते । दुःखे च सति तदिष्टेः । यस्माच्च क्षुत्पिपासादिकृते दुःखे सति । भोजनपानादिकृतं सुखमिष्टं । नान्यथा । अत एभ्यः कारणेभ्यो दुःखमिति सुखं व्यवस्यंतीति । सहैव तु सुखेनेति । तुशब्दः पूर्वपक्षव्यावर्तनार्थः । संस्कारदुःखतैकरसत्वादिति । संस्काऋअदुःखतैकप्रकारत्वात् । कथमिदानीं सुखस्वभावामिति । कथमदुःखस्वभावां वेदनां दुःखतः पश्यंति । अनित्यतया प्रतिकूलत्वादिति । अनित्यत्वात्प्रतिकूलं प्रतिकूलत्वाद्दुःखतः पश्यंतीत्य्(अभिधर्मकोषव्याख्या ५१८) अर्थः । यथा रूपसंज्ञादीन्यपीति । यथा रूपसंज्ञासंस्कारविज्ञानान्यपि दुःखतः पश्यंति । न च तान्येवं दुःखानि । यथा दुःखा वेदना । तस्या उपघातकस्वभावत्वात् । तेषां वा तल्लक्षणत्वात् । यस्तु मन्यत इति भदन्तकुमारलातः । तस्य भदन्तस्यासौ समुदयाकारः स्यान्न दुःखाकारः । दुःखहेतुतो दर्शनात् । किं चार्याणां चानागामिनां रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तते । नैव प्रवर्तते इत्यर्थः । न हि तेषामनागामिनां दुःखवेदनाहेतुः दुःखाया वेदनाया हेतुः । [तिब् । १७७ ] के । स्कंधा रूपारूप्यावचराः । कस्मान्न हेतुः । पुनर्दुःखस्थानानागमनात् । संस्कारदुःखत च सूत्रे किमर्थमुक्ता भवेदिति । यदि दुःखहेतुत्वात्सुखमपि दुःखतः पश्यंति । येयं संस्कारदुःखतोक्ता यदनित्यं । तद्दुःखमिति । सा किंप्रयोजना दुःखहेतुत्वेनैव तत्प्रयोजनसिद्धेः । दुःखहेतुवाद्याह । यदि तर्हीति । यदि यदनित्यं । तद्दुःखमित्यनित्यत्वाद्दुःखतः पश्यंति न दुःखहेतुत्वादनित्यदुःखाकारयोः कः प्रतिविशेषः । अत्राचार्य आह । उदयव्ययधर्मित्वादिति विस्तरः । यथा प्रतिकूलत्वाद्दुःखं । तथा तत्प्रतिपादयन्नाह । अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षतीति । तदुक्तं भवति । यदिदमुक्तं यदनित्यं । तद्दुःखमिति । नाकारैकत्वादेवमुक्तं । अप्य्त्वनित्यं तत्सुखं पश्यतां प्रतिकूलं भवति । प्रतिकूलत्वाद्दुःखतः पश्यंतीति । एकीया इति भदंतश्रीलातादयः । इदमत्र दुःखस्येति । इदमत्र दुःखस्य लक्षणमित्यर्थः । सुखा वेदना दुःखतो द्रष्टव्येति । अपरं सूत्रपदं । शीतोष्णादय [तिब् । १७८ ] इति । आदिशब्देनाम्लमधुरादयो गृह्यंते । अत्युपयुक्ता अतिपरिभुक्ताः । अकालोपयुक्ताश्चेति । तद्यथा शीता हेमंते उष्णा गृईष्मे । समेन वेति । सुखहेतुना । एवमीर्यापथविकल्पेऽपि वक्तव्यमिति । य एव हि शयनादय इष्यंते सुखहेतवः । त एवेति सर्वं यावद्व्यक्तिमापदयंत इति वक्तव्यं । दुःखप्रतीकारे च सुखबुद्धेः । किं । नास्ति सुखा वेदनेति प्रकृतं । दुःखविकल्पे च । किं । सुखबुद्धेः । तथैव नास्ति सुखा वेदनेति । दुःखप्रतीकारे सुखबुद्धिं प्रतिपादयन्नाह । न हि तावत्सुखमिति विस्तरः । दुःखविकल्पेनेति प्रतिपादयन्नाह । दुःखविकल्पे च बाला इति विस्तरः । अंसादंसं भारं संचारयंतो भारवाहका दुःख एवावस्थिते भारातिक्रामणे सुखमिति बुद्धिमुत्पादयंति । एष एव च न्याय इत्याचार्यः । अनभिप्रीतं भवत्यार्याणामिति कामसुखं । (अभिधर्मकोषव्याख्या ५१९) अन्यथानभिप्रेतत्वादिति । प्रमादपदत्वादिनाकारांतरेण । तदर्थं दर्शयन्नाह । या हि वेदनेति विस्तरः । प्रमादपदमिति । कुशलप्रच्युतिकारणमित्यर्थः । महाभिसंस्कारसाध्यां च विपरिणामिनीं च । [तिब् । १७८ ] समनंतरदुःखोत्पादिनीमदुःखासुखोत्पादिनीं चेत्यर्थः । न्यूनरूपत्वमापन्नामिति वा । अनित्यां च विनाशिनीं चेत्यर्थः । न तु खलु स्वलक्षणाकारेणेति । अनुग्राहकस्वलक्षणाकारेण आर्याणामपि हि सुखवेदनानुग्राहकेभ्य विसंवादः । यदि चासौ सुखा वेदना स्वेनात्मनानुग्राहकात्मनानभिप्रेता भवेत्नैव तस्यां सुखायां वेदनायां कस्यचिद्रागो भवेत् । दुःखवेदनावदित्यभिप्रायः । यतो वैराग्यार्थमिति । यतः कारणात्वैराग्यार्थमाकारांतरेणापि दोषवतीं पश्येयुः । अन्यथानायासेनैव रागाभावसिद्धेः वैराग्यार्थं प्रयत्नोऽनर्थकः स्यात् । उक्तं चेदं भगवतेति स्थविरानन्दवचनमेवैतत्सूत्रपदं । एवं हि सोऽप्रक्ष्यदिति । यत्किंचिद्वेदितम् । इदमत्र दुःखस्येति एतदयुक्तरूपं वचनमिति पश्यं स्थविरानन्दस्तदेव पृष्टवान् । यत्किंचिद्वेदितमिदमत्र दुःखस्येति विरुद्धमेवेति कृत्वा । यदि तु तिस्रो वेदना इत्येतदयुक्तरूपमद्रक्ष्यत् । तदेवाप्रक्ष्यत्किं नु संधाय भगवता भाषितं तिस्रो वेदना इत्येतद्विरुद्धमेवेति कृत्वा । भगवान् [तिब् । १७९ ] अपि चैवं व्याकरिष्यदिदं मया संधाय भाषितं तिस्रो वेदना इति । न त्वेवं व्याकरिष्यत् । संस्कारानित्यतामानन्द संधाय मया भाषितं । संस्कारविपरिणामतां । यत्किंचिद्वेदितमिदमत्र दुःखस्येति । न त्वेवमाह । पुनश्च तिसृणां वेदनानां वचनात्तस्मात्संत्येव स्व्भावतस्तिस्रो वेदनाः । इदं तु संधाय मया भाषितं यत्किंचिद्वेदितमिदमत्र दुःखस्येति वेदनादाभिप्रायिकमेतद्वाक्यं दर्शयति भगवान् । यत्किंचिद्वेदितमत्र दुःखस्येति संस्कारविपरिणामताभिप्रायात् । विपरिणामानित्यधर्मित्वादिति । विपरिणामधर्मित्वादनित्यधर्मित्वाच्च । विपरिणामः पुनरन्यथात्वं । कामगुणा इति । इष्टानां रूपशब्दगन्धरसस्प्रष्टव्यानामियं संज्ञा । उपपत्तेरपीष्टस्य जन्मनः संज्ञा । एवमुपपत्तिमल्पसुखां बहुदुःखामेकांतसुखां पश्यतो विपर्यासः । लोकानुवृत्त्येति । चेत् । अथ मतं लोकस्य वेदनां व्यवस्यतोऽनुवृत्त्या तिस्रो वेदना इति वचनं । तन्न भवति । सर्ववेदितदुःखत्वस्य संधाय भाषितमिति भगवतो वचनात् । संस्कारानित्यतामानन्द मया संधाय भाषितं संस्कारविपरिणामतां । यत्किंचिद्वेदितमिदमत्र दुःखस्येत्य्[तिब् । १७९ ] अतो न लोकानुवृत्त्या तिस्रो वेदना इति वचनं । किं तर्हि । स्वलक्षणतो (अभिधर्मकोषव्याख्या ५२०) निधार्येत्यभिप्रायः । यथाभूतवचनाच्च । न लोकानुवृत्त्या तिस्रो वेदना इति वचनं । कथमित्याह । यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं । सुखैषा वेदना द्रष्टव्येति । विस्तरेणोक्त्वेति । यच्च दुःखेन्द्रियं यच्च दौर्मनस्येन्द्रियं । दुःखैषा वेदना । यदुपक्षेन्द्रियम् । अदुःखासुखैषा वेदना इत्येवंादिना विस्तरेणोक्त्वा येनेमानि पंचेन्द्रियाण्येवं यथाभूतं सम्यक्प्रज्ञया दृष्टानीति । इदमत्र वेदनात्रयसद्भावे ज्ञापकं । यथाभूतमित्यध्यारोपापवादाभावात् । लोकोऽपि च कथं दुःखां वेदनां त्रिविधां सुखां दुःखामदुःखासुखां व्यवस्येद्दुःखस्वाभाव्येन दुःखव्यवसायस्यैव प्राप्तेः । मृद्वधिमात्रमध्यास्विति विस्तरः । अथ मतं मृदुनि दुःखे सुखबुद्धिरधिमात्रे दुःखबुद्धिः मध्य अदुःखासुखबुद्धिरिति । अत्र ब्रूमः । सुखस्यापि त्रिविधत्वादिति विस्तरः । [तिब् । १८० ] मृदुमध्याधिमात्रभेदेन मृद्वादिषु दुःखेषु मृदुमध्याधिमात्रेषु । अधिमात्रादिसुखबुद्धिः स्यादधिमात्रमध्यमृदुः सुखबुद्धिः स्यादित्यर्थः । कथं । मृदुनि दुःखे अधिमात्रसुखबुद्धिः । मध्ये मध्यसुखबुद्धिः । अधिमात्रे मृदुसुखबुद्धिरिति । न चाधिमात्रे दुःखे मृदुसुखबुद्धिर्युक्ता । किं कारणं । अधिमात्रमेव तद्दुःखं न स्याद्यदि तत्र मृदुसुखबुद्धिः स्यात् । मृदुनि च दुःखे यद्यधिमात्रसुखबुद्धिः कथं तस्य दुःखस्य मृदुत्वं । न हि तथा व्यक्तस्यानुभवस्य मृदुत्वं युज्यत इति । अदुःखासुखानंतरं सुखानुभवं पश्यन्नाह । यदा गंधरसस्प्रष्टव्यविशेषजमिति । मध्यं हि दुःखमदुःखासुखं भवतां । न मृदुप्रकारम् । अतो वक्तव्यं । तदा कतमद्दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवतीति । विषयबलादेव हि तत्सुखमुत्पद्यते । मृदुदुःखसमनंतरप्रत्ययबलादधिमात्रदुःखसमनंतरप्रत्ययबलाद्वेति । किं च यदि मृदुनि दुःखे सुखबुद्धिरिति मन्यसे । अनुत्पन्नविनष्टे च तस्मिन्मृदुनि दुःख इति । [तिब् । १८० ] अनुत्पन्ने विनष्टे च तस्मिन्मृदुनि दुःखे । सुतरां सुखबुद्धिः स्यातशेषदुःखापगमात् । यस्मादशेषं दुःखमपगतं । सशेषापगतेऽपि हि दुःखे सुखबुद्धिमिच्छसि । किमंगाशेषापगत इत्यभिप्रायः । एवं कामसुखसंमुखीभावेऽपि वक्तव्यमिति । यथा गन्धरसस्प्रष्टव्यविशेषजं सुखमुक्तम् । एवं कामसुखसंमुखीभावेऽपि वक्तव्यं । कथम् । मृदुनि रागदुःखे कामसुखबुद्धिर्भवति । अनुत्पन्ने विनष्टे च तस्मिन् रागदुःखे सुतरां कामसुखं स्यात् । न चैवं दृष्टमिति । कथं च नामेति विस्तरः । कथं च नामैतद्योक्ष्यते । यन्मृदुनि (अभिधर्मकोषव्याख्या ५२१) वेदिते यन्मृदुनि दुःख इत्यर्थः । तीव्रानुभवो गृह्यत इति वक्तव्यं । सुखं गृह्यते । मध्ये पुनरव्यक्त इति । मध्यदुःखे अदुःखासुखा वेदना गृह्यते इत्यर्थः । मृदुनि दुःखे तेनाव्यक्तेन भवितव्यमित्यभिप्रायः । त्रिषु चेति विस्तरः । त्रिषु च ध्यानेषु प्रथमद्वितीयतृतीयेषु सुखवचनात् । सुखा वेदना तत्रेति सूत्रे वचनात् । मृदुदुःखं स्यात् । किं कारणं । मृदुनि दुःखे सुखबुद्धिरिति तवाभिप्रायात् । ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु चादुःखासुखवचनात्[तिब् । १८१ ] सूत्रे । मध्यं दुःखं स्यात् । कस्मात् । मध्ये दुःखे अदुःखासुखमिति तवैवाभिप्रायात् । इत्यतो न युज्यते मृद्वादिषु दुःखेषु सुखादिवेदनाव्यवस्थानं । कथं हि नामाधोध्यानेषु मृदु दुःखम् । ऊर्ध्वे पुनर्मध्यमिति युज्यते । रूपं चेन्महानामन्निति । रूपं चेन्महानामन्नेकांतदुःखमभविष्यत्न सुखं न सुखानुगतं न सौमनस्यं न सौमनस्यानुगतं न सुखवेदितं हेतुरपि न प्रज्ञायते रूपे संरागाय । यस्मात्तर्हि अस्ति रूपं सुखं सुखानुगतं पूर्ववदतो रूपे हेतुः प्रज्ञायते यदुत संरागायेति । सुखहेत्वव्यवस्थानादित्यत्र ब्रूमः । यदि सुखहेत्वव्यवस्थानान्न सुखमस्ति वः । दुःखमप्यसत्स्यात्दुःखहेत्वव्यवस्थानात् । अपि च व्यवस्थित एव सुखहेतुः । कथमित्याह । आश्रयविशेषापेक्षो हीति विस्तरः । यदि हि केवल एव विषयो हेतुः स्यात्स्यादेवाव्यवस्थितो हेतुः । न तु केवलो विषयो हेतुः । यस्मादाश्रयविशेषोऽपि हेतुरिति । स एवाग्निरिति । तद्यथा स एवाग्निः पाक्यभूतविशेष [तिब् । १८१ ] ईषत्पक्वावस्थे तण्डुलसमूहे स्वादुपाकहेतुर्भवति । अभिमतौदनपाकहेतुत्वात् । स एवास्वादुपाकहेतुः । तद्दाहहेतुत्वादित्यर्थः । न तु या पाक्यभूतावस्थां प्राप्य स्वादुपाकहेतुरासीत् । तां पुनः प्राप्य पश्चान्न हेतुः स्वादुपाकस्य तादृशस्येत्यर्थः । एष दृष्टांतः तस्य पूर्वोक्तस्य दार्ष्टांतिकस्यार्थस्य । ध्यानेषु च कथं न व्यवस्थितः सुखहेतुरिति । न हि तदेव ध्यानं प्रथमं यावत्तृतीयं चिरकालमपि समापन्नानां दुःखहेतुर्भवतीति । ध्यानजे च सुखे कस्य प्रतीत्कार इति । न हि ध्यानेषु दुःखमस्तीति । आदिशब्देनेदमपि वक्तव्यं । यदि दुःखप्रतीकारेषु सुखबुद्धिः स्यात् । रूपं चेन्महानामन्नेकांतदुःखमभविष्यत्न सुखं न सुखानुगतमित्येवमादि नोक्तं स्यादिति । सुखमेवोत्पद्यत इति । सुखैव सा वेदनोत्पद्यते । न सा दुःखा वेदना सुखत्वेन कल्पितेति । यावदसौ तादृशी कायावस्थेति । सुखोत्पत्त्यनुकूला । अन्यथा हि यद्यवस्थांतरजं सुखमेव नोत्पद्यते यावदसौ (अभिधर्मकोषव्याख्या ५२२) तादृशी कायावस्था नांतरीयते । अन्यथा पश्चाद्भूयसी सुखबुद्धिः स्यात् । अंते कुत इति विस्तरः । अथ मतं पानभोजनाद्यंते कुतो दुःखबुद्धिः स्यात्यदि तस्यादितत्प्रारंभो नासीदिति । अत्र ब्रूमः । कायपरिणामविशेषात् । [तिब् । १८२ ] कायस्य तादृशः परिणामविशेषाः पश्चादुत्पद्यते पानाद्यासेवनात्यत्सुखोत्पत्त्यवस्थायां दुःखं नोत्पद्यते । अंते तूत्पद्यत इति । किमेवेत्याह । मद्यादीनामंते माधुर्यशुक्ततावदिति । यथा मद्यक्षीरादीनां तादृशः पश्चात्परिणामवीशेषो भवति । यत्पूर्वं मधुरतावस्थायां माधुर्यस्याविद्यमाना शुक्तता अम्लता अंते उत्पद्यते । अथ वा यथा मद्यादीनां परीणामवीशेषान्माधुर्यमेषामादौ भवति । आम्लं वा । तच्चिकित्सौषधकृतात्परिणामविशेषान्माधुर्यं भवति । परिणामविशेषादेव च पश्चाच्छुक्तता । माधुर्यमिह सुखस्योदाहरणं । शुक्तता दुःखस्येति । यत्तु समुदयसत्यं । तदेवोच्यत इति । हेतुभूताः शमुदयसत्यमिति वचमात् । प्रथमे वा कोशस्थाने दुःखंसमुदयो लोक इति वचनात् । शूत्रे हि तृष्णैवोक्तेति । समुदयसत्यं कतमत् । यासौ तृष्णा नन्दीरागसहगता तत्रतराभिनन्दिनीति । वैभाषिक आह । प्राधान्यादिति । अन्यत्रान्यस्यापि वचनात् । [तिब् । १८२ ] अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर्वचनादन्येऽपि समुदय इति । अभिसंपराये आयत्यां परलोक इत्यर्थः । पुनश्चोक्तमन्यत्र शूत्रे । यतश्च भिक्षवः पंच बीजजातान्यखण्डानि अच्छिद्राणी अपूतीनि अवातातपहतानि नवानि साराणि सुखशयितानि । पृथिवीधातुश्च भवत्यब्धातुश्च । एवं तानि बीजानि वृद्धिं विरूढिन् विपुलतामापद्यंते । इति हि भिक्षव उपमेयं कृता यावदेवास्यार्थस्य विज्ञप्तय इतीमं दृष्टांतमुपन्यस्येदमुक्तं । पंच बीजजातानीति भिक्षवः सोपादानस्य विज्ञानस्यैतदधिवचनं पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमिति । बीजं पुनर्हेतुः । यश्च हेतुः । स समुदयः विज्ञानस्थितयोऽपि प्रतिष्ठाहेतुः । तस्मादिति । यतः कर्मादीनामपि हेतुत्ववचनात्समुदयसत्यत्वं सिद्धं । तस्मादाभिप्रायिकः । अभिप्राये भवः अभिप्रायेण वा दीव्यतीत्याभिप्रायिकः सूत्रे निर्देशः तृष्णाधिकृतं पुद्गलमधिकृत्य कृत इत्यभिप्रायः । लाक्षणिकस्त्वभिधर्मे लक्षणे भवो लाक्षणिको निर्देशोऽभिधर्मे । सर्वं सास्रवं वस्तु समुदय इति सास्रवस्य स्कंधपंचकस्य समुदयसत्यत्वलक्षणयोगात् । स एव वैभाषिकस्तृष्णादीनामाभिप्रायिकं समुदयसत्यत्वं विवक्षुर्[तिब् । १८३ ] (अभिधर्मकोषव्याख्या ५२३) आह । अपि त्विति विस्तरेण । अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे । उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत्कर्म च तृष्णा चाविद्या चोक्ता । उपपत्तिहेतुः कर्म । अभिनिर्वृत्तिहेतुस्तृष्णा भवेषु । तयोः पुनस्तद्धेत्वोः कर्मतृष्णयोरविद्या हेतुरित्याह । कथमेतद्गम्यते । गाथायामुपपत्तिहेतुः कर्माभिनिर्वृत्तिहेतुस्तृष्णेति । कर्म हेतुरुपपत्तये तृष्णा हेतुरभिनिर्वृत्तय इति सूत्रात् । सूत्रांतरे वचनादिति । सहेतुसप्रत्यय इति विस्तरः । अत्र सूत्रे क्रमेण वा । कारणपरंपराक्रमेण वा । गाथायामेष निर्देशः । कर्मतृष्णाविद्या संकाराणां चक्षुरादीनां हेतुरभिसंपराय इति । तदेतदुक्तं भवति । कर्म हेतुरुपपत्तय इति । अतो वा सूत्रात् । सहेतुसप्रत्ययक्रमसूत्राद्वा । अयमीदृशः गाथार्थ इति । कथं चक्षुर्भिक्षवः सहेतु सप्रत्ययं सनिदानं । कश्च भिक्षवश्चक्षुषो हेतुः कः । प्रत्ययः । किं निदनं । चक्षुषो भिक्षवः कर्म हेतुः । कर्म प्रत्ययः कर्म निदानं । कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानं । कश्च भिक्षवः कर्मणो हेतुः । कः प्रत्ययः । किं निदानं । [तिब् । १८३ ] कर्मणो भिक्षवस्तृष्णा हेतुः । तृष्णा प्रत्ययः । तृष्णा निदानं । तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवस्तृष्णाया हेतुः । कः प्रत्ययः । किं निदानं । तृष्णाया भिक्षवोऽविद्या हेतुः । अविद्या प्रत्यय्ः । अविद्या निदानं । अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवोऽविद्याया हेतुः । कः प्रत्ययः किं निदनं । अविद्याया भिक्षवः अयोनिशोमनस्कारो हेतुः । अयोनिशोमनस्कारः प्रत्ययः । अयोनिशोमनस्कारो निदानमिति । बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽप्युक्ता विज्ञानं बीजं । तस्य क्षेत्रं वेदनादयः स्कन्धाः । तेऽप्युक्तः समुदयसत्यं । न केवलं तृष्णादय इत्याभिप्रायिकः सूत्रे निर्देश इति साधितं । सर्वस्य च दुःखस्य लाक्षणिकः समुदयभाव इति । योन्यादिप्रकारभेदेनेति । आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते । अभेदेनेति । धातुगत्य्योन्यादीनां । तयोर्यथाक्रममिति । उपपत्तेः कर्म हेतुरभिनिर्वृत्तेस्तृष्णेति । तद्यथा बीजमिति विस्तरः । शालिबीजं शाल्यंकुरोपपादनस्य हेतुः यवबीजं यवांकुरोपपादनस्येत्यादि । आपः पुनरभेदेन । यथा शाल्यंकुरप्ररोहस्य हेतुः । एवं यवांकुरस्यापीत्यादि । अतस्ताः सर्वांकुरप्ररोहमात्रस्य हेतुरिति विना तृष्णया जन्माभावादिति । अत्र साधनं । हेतुर्जन्मनस्[तिब् । १८४ ] तृष्णा । तद्भावाभावभाव्यभावित्वात् । तक्यथा बीजमंकुरस्य । संततिनामनाच्चेत्यस्यार्थं विवृण्वन्नाह । यत्र च सतृष्णेति विस्तरः । यत्र विषये रूपादौ सतृष्णा । का । चित्तसंततिः । तत्राभीक्ष्णं चित्तसंततिं नमंतीं पश्यामः । तस्नात्पुनर्भवेऽप्येवमिति । पुनर्भवेऽप्येवं सतृष्णा चित्तसंततिः । (अभिधर्मकोषव्याख्या ५२४) तस्मात्तन्नमतीति । यत्र च नमति । तत्र च प्रवर्तत इति व्यवस्यामः । साधनं चात्र प्रवर्तते । पुनर्भवे चित्तसंततिः । सतृष्णानमनात् । रूपादिविषयवत् । शुष्कमसूरोपस्नानलेपांगवदिति । मसूर उपस्नानं । तस्य लेपः शुष्कः । मसूरोपस्नानलेपोऽस्येति शुष्कमसूरोपस्नानलेपमंगं । तद्वद् । यथा शुष्केण मसूरोपस्नानलेपेनागृहीतमंगं । एवं तृष्णयात्मभाव इति दर्शितं भवति । एषा युक्तिरिति । तृष्णाभिनिर्वृत्तिहेतुरिति । (वि ।४) अत्रार्थे द्वे अपि सत्य इति सत्यप्रसंगेनेदमुच्यते । घटांबुवद् इति । दृष्टांटद्वयोपन्यासो भेदद्वयोपप्रदर्शनार्थः । उपक्रमभेदिनश्च घाटादयः । बुद्धिभेदिनश्च जलादय इति । जलादिषूपक्रमेण रसाद्यपकर्षणानुपपत्तेः । अथ वा द्विविधा संवृतिः । [तिब् । १८४ ] संवृत्यंतरव्यपाश्रया द्रव्यांतरव्यपाश्रया च । तत्र यासौ संवृत्यंतरव्यपाश्रया । तस्यां भेदोऽपि संभवति अन्यापोहोऽपि । या त्वसौ द्रव्यांतरव्यपाश्रया । तस्यामन्यापोह एव संभवति न भेदः । न हि परमाणोरष्टद्रव्यकस्यावयवविश्लेषः शक्यते कर्तुमिति । संवृतिसदिति । संव्यवहारेण सत् । परमार्थसदिति । परमार्थेन सत् । स्वलक्षण सदित्यर्थः । एवं वेदनाद्योऽपि द्रष्टव्या इति । वेदनाचेतनासंज्ञादयोऽपि द्रव्यसंत एव द्रष्टव्याः । कथं । वेदनादीन् धर्मानपोह्य बुद्ध्या वेदनास्वभावे बुद्धिर्भवतीति । द्रव्यसती वेदना । एवं संज्ञाचेतनादयोऽपि योज्याः । घटश्चांबु चास्तीति ब्रुवंतः सत्यमेवाहुः । न मृषेति । संवृतिसत्यस्य वचने प्रयोजनं दर्शयति । उक्तं च । द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थत इति । तथा परमार्थसत्यमिति । परमस्य ज्ञानस्यार्थः परनार्थः । परमार्थश्च सत्यं च तत्परनार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते । तथा संवृतिसत्यं । संवृत्या संव्यवहारेन ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यं । त्रिविधं हि योगाचाराणां सत् । [तिब् । १८५ ] परमार्थसंवृतिसत्द्रव्यसच्च । द्रव्यतः स्वलक्षणतः सद्द्रव्यसदिति । (वि ।५) वृत्तस्थ इति विस्तरः । वृत्तं शीलं । तदव्यासंगकारणमविक्षेपकारणमाचारकारणं च । सत्यदर्शनस्यानुलोममिति । यच्छ्रुतं सत्यदर्शनाधिकारिकं (अभिधर्मकोषव्याख्या ५२५) तच्छ्रुतमुद्गृह्णाति पठति । अर्थं वा शृणोति तदर्थं श्रोत्रद्वारेण विजानाति । कथम् । उभयालंबना चिन्तामयीति दर्शयन्नाह । कदाचिद्व्यंजनेनार्घमाकर्षति । व्यंजननिर्वृत्तेन नाम्नार्थमाकर्षत्ययमस्य नाम्नोऽर्थ इति । कदाचिदर्थेन व्यंजनमाकर्षति । इदमस्याभिधेयस्यार्थस्य व्यंजनं नामेत्यर्थः । अयं हि व्यंजनशब्दो नाम्नि प्रयुक्तः । सूत्रेऽपि चोक्तं । स्वर्थं सुव्यंजनमिति । अस्यां तु कल्पनायामिति विस्तरेणाचार्यः । चिन्तामयी प्रज्ञा न सिध्यतीति । श्रुतभावनामयीलक्षणसंकीर्णं लक्षणमुच्यते । नासंकीर्णमिति न सिध्यति । युक्तिनिध्यानज इति । युक्त्या निध्यानं नितीरणं । ततो जात इति । हेतौ मयड्विधानादिति । आप्तवचनं श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः । अत्र मयड्विधानं । श्रुतहेतुका प्रज्ञा श्रुतमयीति । एवं युक्तिनिध्यानं चिन्ता सहेतुश्चिन्तामय्याः । अत्र मयड्विधानात् । समाधिर्भावना सहेतुर्भावनामय्याः । अत्र मयड्विधानं । तत्प्रकृतिवचने मयडिति लक्षणात् । तस्य विकार इति वा लक्षणात् । औपचारिकस्तु विकारः । श्रुतविकार इव श्रुतमयीति लक्षणांतरं चोपसंख्यातव्यं । अन्नमयाः प्राणास्तृणमय्यो गाव इति लोके प्रयोगदर्शनात् । (वि ।६-८) संसर्गाकुशलवितर्कदूरीकरणादिति । संसर्गदूरीकरणं यदद्वितीयविहारित्वं । तस्मात्कायेन [तिब् । १८५ ] व्यपकृष्टो भवति । अकुशलवितर्कदूरीकरणं यत्क्लिष्टवितर्कविवर्जनं । तस्माच्चित्तेन व्यपकृष्टो भवति । लब्धेनाप्रणीतेनाप्रभूतेन परितास इति । परितासो दौर्मनस्यं । तेन हि परितस्यति । उपक्षीयत इत्यर्थः । अप्रणीतत्वादप्रभूतत्वाद्वा । तेन लब्धेन परितासोऽसंतुष्टिः । अलब्धे तु प्रणीतेऽपि वा प्रभूतेऽपि वा इच्छाभिलाषा महेच्छतेत्याचार्यमतं । कामावचर्यावेवेति । लोभाकुशलस्वभावत्वात् । प्रहाणभावनारामता निरोधमार्गारमता । सा न संतुष्टिस्वभावेति । कथं चतुर्थोऽप्ययमार्यवंशो भवत्यलोभस्वभाव इत्यत आह । भवकामरागवैमुख्यादिति । भवरागवैमुख्यात् । कामरागवैमुख्याच्च । वैमुख्यं चालोभ इति । परित्यक्तस्ववृत्तिकर्मांतेभ्य इति । परित्यक्तस्ववृत्तिभ्यः परित्यक्तस्वकर्मांतेभ्यश्च । तत्र वृत्तिजीविका यया जीव्यते अन्नपानादिना । कर्मांतः कृषिशिल्पादिः । इति भवविभवहेतोरिति । इतिशब्दो भवविभवप्रकाराभिद्योतकः । तत्र भवप्रकारे तृष्णा अहो बताहमिन्द्रः स्यां चक्रवर्ती स्यामिति एवमादि । [तिब् । १८६ ] विभवतृष्णापि विणाशतृष्णा । अहो बतोच्छिद्येयं न भवेयं परं मरणादित्यादि । (अभिधर्मकोषव्याख्या ५२६) (वि ।९) स्मृतिरेव स्मृतमिति । भावे क्तविधानमिति दर्शयति । अवतारस्तीर्थं येनावतरति । प्रत्यासन्नमत्यर्थं रागचरित इति । यस्याल्पेन रागः शीघ्रमुपतिष्ठते । स प्रत्यासन्नं रागचरितः । यस्याधिमात्रो रागः । सोऽत्यर्थं रागचरितः । अविचित्रालंबनत्वादिति । वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः । अबहिर्मुखत्वादंतर्मुखत्वात् । एषा वितर्कोपच्छेदाय संवर्तत इति प्रकृतं । तद्विषयोपनिध्यानादिति । चक्षुर्विषयनिरूपणादित्यर्थः । (वि ।१०, ११) विनीलकाद्याकारालबनामित्यादिग्रहणेन विपूयकादिग्रहणं । विपटुमकमिति यदुत्पन्नक्रिमिकं । चतुर्विधं रागवस्तु नास्तीति । वर्णसंस्थानस्पर्शोपचारात्मकम् । अधिमुक्तिप्रादेशिकमनसिकारत्वादिति । अधिमुक्तिमनसिकारत्वात्प्रादेशिकमनसिकारत्वाच्चेत्यर्थः । अधिमुक्तिप्रधानोऽयं मनसिकारः । प्रादेशिकश्चायमव्यापीत्यर्थः । न ह्यशुभा पंचस्कन्धालंबना । सकलभूम्यालम्बना वा । किं तर्हि । रूपस्कन्धैकदेशालंबना [तिब् । १८६ ] तद्भावात् । नाशुभया क्लेशप्रहाणं विष्कंभणामात्रं तु भवतीत्यर्थः । स्वांगावयवे चित्तमुपनिबध्नातीति वचनात्न तावत्स्त्र्यंगावयवे प्रयोगकाल एव संरागहेतुपरिहारात् । अस्थि विशोधयन्निति । अस्थिनो मांसमपनयन् सकलामस्थिशंकलां पश्यति । यथोक्तं । यो भवेन्नवको भिक्षुः शैक्षोऽसंप्राप्तमानसः गच्छेदसौ शिविपथिकां हंतुं रागं यदीच्छति ततो विनीलकं पश्येत्ततः पश्येद्विपूयकं । ततो व्याध्मातकं पश्येदस्थिशंकलिकामपीति । अत्र समासतोऽशुभायां वर्तमानो योगाचारस्त्रिविधः । आदिकर्मिकः कृतपरिजयः अतिक्रांतमनसिकारश्च । तत्र संक्षेपचित्त आदिकर्मिको योगाचार एकस्मिन् पादांगुष्ठे मन उपनिबध्य पादांगुष्ठं क्लिद्यमानं पश्यत्येतन्मांसमेवं यावत्सर्वं शरीरमस्थिशंकलामधिमुच्यते । कृतपरिजयस्तु तथैव यावत्कपालार्धं । अतिक्रांतमनसिकारस्तथैव यावद्भ्रुवोर्मध्ये चित्तं धारयति । विस्तरचित्तस्तु आसमुद्रास्थिविस्तारः संक्षेपादादिकर्मिक इत्येवमादित्रिविध इति । एवं च कृत्वा चतुष्कोटिकः प्रश्नो भवतीति । जिताजितमनस्कारयोरिति विस्तरः । [तिब् । १८७ ] प्रथमा कोटिर्जितमनस्कारस्य स्वकायालंबना अशुभा आलंबनपरीत्ततया परीत्ता कायस्याल्पत्वात् । (अभिधर्मकोषव्याख्या ५२७) न वशितापरीत्ततया जितमनस्कारत्वादतिक्रांतमनसिकारत्वादित्यर्थः । द्वितीया कोटिरजितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा । वशितापरीत्तततया परीत्ता अजितमनस्कारत्वात् । नालंबनपरीत्ततया समुद्रपर्यंतालंबनत्वात् । तृतीया कोटिरजितमनस्कारस्य स्वकायालंबना अशुभा । आलंबनपरीत्ततयापि परीत्ता कायस्याल्पत्वात् । वशितापरीत्ततयापि अजितमनस्कारत्वात् । चतुर्थी कोटिर्जितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा । नाप्यालंबनपरीत्ततया परीत्ता समुद्रपर्यंतालंबनत्वात् । नापि वशितापरीत्ततया जितमनस्कारत्वात् । (वि ।१२) स सामांतकध्यानांतरेष्विति । सामंतकेषु ध्यानांतरे चतुःषु ध्यानेषु कामधातौ चेति दश भूमिका । ध्यानसामंतकानां चतुष्ट्वात् । अत एवार्थालंबनेति । वर्णसंस्थानालंबनत्वादर्थालंबना । न तु नामालंबनेत्यभिप्रायः । नाम्नैव सिद्धमशुभाकारेत्याकारार्थं न सूत्रयितव्यमित्यभिप्रायः । यदध्विका तदध्विकालंबनेति । चक्षुर्विज्ञानवदतीताया अतीतमालंबनमेवं यावत्प्रत्युत्पन्नायाः प्रत्युत्पन्नमिति । स्वालंबननियतत्वात् । अधिमुक्तिमनसिकारत्वान्न सूत्रितं । उचितानुचितत्वादिति । अनादिमतिसंसारे उचितत्वाद्वैराग्यलाभिकी । अनुचितत्वात्प्रायोगिकी । (वि ।१३) कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि । [तिब् । १८७ ] तद्बलाधानवृत्तित्वात् । तस्याः स्मृतेर्बलस्याधानेन वृत्तिरेषामिति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि कायप्रज्ञाद्रव्यादीनि स्मृत्युपथानीत्युच्यंते । तद्वदानापानप्रज्ञा स्मृतिबलाधानवृत्तित्वादानापानस्मृतिरित्युच्यते । पंचसु भूमिष्विति । त्रिषु सामंतकेषु चतुर्थसामंतकवर्ज्येषु । ध्यानांतरे । कामधातौ चेति पंचसु भूमिषु । किं कारणं । उपेक्षासंप्रयोगित्वात् । यस्मात्प्रथमध्याने सामंतकादिषूपेक्षावेदना भवति । चतुर्थध्याने सामंतके तु यद्यप्युपेक्षास्ति । सा त्वभूमिराश्वासप्रश्वासानां । अथ किमर्थमेषोपेक्षा संप्रयोगिण्येवावधार्यत इति । अतो ब्रवीति वितर्कानुगुणत्वादिति । तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृतेस्ताभ्यां सुखदुःखाभ्यामसंप्रयोगः । सुखसौमनस्ययोश्चावधानपरिपंथित्वात् । आभोगप्रत्यनीकत्वात् । तस्याश्चानापानस्मृतेरवधानसाध्यत्वात्ताभ्यामसंप्रयोग इति । वितर्कानुगुणत्वात् । किलेति । किलशब्दः परमतद्योतकः । तेनेदं पक्षांतरमुपन्यस्यते ये तु मौलेष्विति विस्तरः । परेणेति । चतुर्थाद्ध्यानादारभ्य । [तिब् । १८८ ] कामधात्वाश्रयेति । तत्र वितर्कभूयस्त्वात् । प्रायोगिकी अनुचितत्वात् । वैराग्यलाभिकी उचितत्वात् । इदंधर्माणामिति । अयं धर्मो बौद्ध एषाम् (अभिधर्मकोषव्याख्या ५२८) इति इदंधर्माणः । तेषामेव बौद्धानामित्यर्थः । उपदेशाभावादिति । बाह्यानां हि प्राणायामोपदेशोऽस्ति नानापानस्मृत्युपदेश तित् । स्वयं च सूक्ष्मधर्मानभिसंबोधादिति । उपदेशमंतरेण यस्माद्बाह्यानां नास्ति स्वयं सूक्ष्मधर्माभिसंबोधः । सूक्ष्मत्वं पुनरस्याः षट्कारणयुक्तत्वात् । कायं चित्तं वाध्युपेक्ष्येत्यनासज्येत्यर्थः । वितस्तिव्यामांतरमिति । बलवद्दुर्बलप्राणियोगात् । यावद्वायुमण्डलमित्यधस्तादनुगच्छति । वैरंभाश्च वायव इत्युपरिष्ठात् । तत्त्वमनसिकारत्वान्न युक्तमेतत् । यावद्वायुमण्डलं वैरंभाश्च वायव इति । अधिमुक्तिमनस्कारस्यैषा कल्पना युज्येत । किमनुग्राहका एते यावदुष्णा इति । स्थापनैवेयं द्रष्टव्या । कायप्रदेश एवानुग्राहकादिविशेषस्थापनतः । तदाश्रिताश्चित्तचैत्त इति । तत्प्रतिबद्धवृत्तय इत्यर्थः । [तिब् । १८८ ] उत्तरोत्तरेषु कुशलमूलेष्विति । स्मृत्युपस्थानोष्मगतादिष्विति । दर्शनमार्गादिष्वित्यादिशब्देन भावनामार्गग्रहणं । क्षयज्ञानादिविशुद्धिरिति । आदिशब्देन अनुत्पादज्ञानाशैक्षसम्यग्दृष्टिग्रहणं । (वि ।१४) नापानौ यतः काय इति । आनापानस्मृतिसंबंधेन सर्वभूमिकावानापानौ निर्दिश्यते । यद्भूमिको हि काय इति । कामावचरः यावत्तृतीयध्यानभूमिकस्तद्भूमिकावेतौ । नान्यभूमिकौ । कायचित्तविशेषसंनिश्रिता इति । कायविशेषसंनिश्रिताः चित्तविशेषसंनिश्रिताश्चाश्वासप्रश्वाशाः । कस्मादित्याह । आरूपोयकललादिगतानामभावादिति । कायाभावादारूप्यगतानां न भवंति । कललादिगतानां च । कललार्बुदपेश्यादिगतानां च न भवंति । कायविशेषाभावात्सुषिरकायाभावादित्यर्थः । अचित्तानां च न भवंति । चित्ताभावात् । चतुर्थध्यानसमापन्नानामपि न भवंति । आश्वासप्रश्वासभूमिचित्तविशेषाभावात् । अत एवाह । यदि कायः सुषिर इति विस्तरः । इन्द्रियविनिर्भागित्वादिति । इन्द्रियपृथग्वृत्तित्वादित्यर्थः । कायोपचयेनापचयान्नौपचयिकौ । [तिब् । १८९ ] उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसंधानान्न विपाकजौ । न ह्येतद्विपाकरूपस्यास्ति विपाकात्मकस्य रूपस्य चक्षुरादेरेतत्पुनःप्रतिसंधानं नास्ति । अरूपस्य तु चित्तचैत्तस्य पुनःप्रतिसंधानं न वार्यते । नाधरेणैर्यापथिकनैर्माणिकेनेति । ऐर्यापथिकं नैर्नाणिकं च चित्तमधरभूमिकं संमुखीभवति यावच्चतुर्थध्यानोपपन्नस्येत्य्(अभिधर्मकोषव्याख्या ५२९) अत आशंक्योच्यते । नाध्गरभूमिकाभ्यां ताभ्यामुपलक्षणमिति । (वि ।१५, १६) विपश्यनायाः संपादनार्थमिति । प्रज्ञायाः संपादनार्थमित्यर्थः । निष्पन्नसमाधेरपि हि प्रज्ञामंतरेण क्लेशा न प्रहीयंते । ज्ञानवध्याः क्लेशा इति वचानात् । कुतः प्र्नरेतत्स्मृत्युपस्थानभावनया विपश्यना संपद्यत इति । सूत्रात् । एकायनोऽयं भिक्षवो मार्गो यदुत स्मृत्युपस्थानानि । केवलोऽयं कुशलराशिः यदुअत्चत्वारि स्मृत्युपस्थानानीति वचनात् । कायविद् इति वेदना वित् । स्वभाव एवैषां स्वलक्षणमिति । कः स्वभावः । कायस्य भूतभौतिकत्वं । वेदनाया अनुभवत्वं । चित्तस्योपलब्धित्वम् । एभुअस्त्रिभ्योऽन्येषां यथास्वं स्वभावः । दुःखता सास्रवाणामिति । [तिब् । १८९ ] आर्यप्रतिकूललक्षणं दुःखमिति व्याख्यातमेतत् । धर्मास्त्रिभ्योऽन्य इति असंभिन्नव्यवस्थामभिसंधायैवमुच्यते । स्ंभिन्नव्यवस्थायां तु कायादयोऽपि निगृह्यंते । पुनः सर्वे संस्कृता असंस्कृताश्च धर्मा द्रष्टव्याः । स्वभावस्मृत्युपस्थानं प्रज्ञेति । यस्मात्संसर्गालंबनमपेक्ष्येयं प्रज्ञोपतिष्ठते । तस्मात्स्मृत्युपस्थानमित्युच्यते । श्रुतादिमयी ऽति विशेषणं । यस्मात्स्मृत्युपस्थानानि प्रायोगिकाणि नोपपत्तिलभ्यानि । कस्मात्प्रज्ञास्वभावमित्युच्यते । किमन्यथापि स्मृत्युपस्थानमस्तीति । उच्यते । अन्ये संसर्गालंबनाद् इति । अन्ये तत्सहभुवो वेदनादयः । संसर्गेण स्मृत्युपस्थानं संसर्गस्मृत्युपस्थानम् । स्वभावस्मृत्युपस्थानसंसर्गात् । तदालंबनादिति । स्वभावसंसर्गस्मृत्युपस्थानालंबनादालंबनस्मृत्युपस्थानं । तदालंबना आलंबनस्मृत्युपस्थानमित्यपरे पठंति । आलंब्यंत इत्यालंबनाः । के । कायवेदनाचित्तधर्माः । तदेवं सति तदालंबनस्मृत्युपस्थानं सर्वधर्मस्वभावं भवति । उक्तं च भगवता । [तिब् । १९० ] सर्वधर्मा इति भिक्षवश्चतुर्णां स्मृत्युपस्थानानामेतदधिवचनमिति । तया हि प्रज्ञया तद्वान् प्रज्ञावान् । अनुपश्यः क्रियत इति । अनुपश्यतीत्य्(अभिधर्मकोषव्याख्या ५३०) अनुपश्यः । पाघ्राध्माधेट्दृशः श इति शप्रत्ययः । अनुपश्यं पुद्गलं करोतीत्यनुपश्ययति । प्रज्ञास्वभावे त्वेवं विग्रहः । अनुपश्यस्य करणमनुपश्यनेति । तया हि प्रज्ञया तद्वान् प्रज्ञावाननुपश्यः क्रियते । यथा प्रज्ञायोगात्प्राज्ञः पुद्गल उच्यते । एवमनुपश्यनायोगादनुपश्य इत्यतोऽनुपश्यना प्रज्ञेति सिद्धं । यतश्चोक्तं भगवता । अध्यात्मं प्रत्यात्मं काये कायानुपश्यी कायानुदर्शी विहरतीति । तेनापि ज्ञायतेऽनुपश्यना प्रज्ञेति । कथमिति साधयत्यनुपश्यमस्यास्ति । किं तद्दर्शनं । दर्शनलक्षणं ह्यनुपश्यम् । अतोऽनुपश्यी पुद्गलो दण्डिवत् । ततः सप्तमीतत्पुरुषः । कायेऽनुपश्यी कायानुपश्यीति । कायमनुपशयितुं शीलमस्येति कायानुपश्यीति णिनिरपि यदि विधीयेत तथाप्येतद्रूपं सिध्यतीति पश्यामः । स्मृत्युद्रेकत्वादिति । स्मृत्यधिकत्वादित्यर्थः । [तिब् । १९० ] स्मृतिबलाधानवृत्तित्वादिति । बलस्याधानं । स्मृतेर्बलाधानं स्मृतिबलाधानं । स्मृतिबलाधानेन वृत्तिरस्या इति स्मृतिबलाधानवृत्तिः प्रज्ञा । तद्भावः । तस्मात् । दारुपाटकीलसंधारणवद्यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य संधारणम् । एवमस्याः प्रज्ञायाः स्मृतिबलाधानेनालंबने वृत्तिरिति । यदि हि स्मृतिरालंबनं धरयत्येवं प्रज्ञा प्रजानातीति । तदेवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषिकीयोऽर्थः कृत्यल्युटो बहुलमिति कर्तर्यपि ल्युड्भवतीति । एवं तु युज्यत इत्याचार्यः । करणसाधनमेतत् । स्मृतिरनयोपतिष्ठत इति । अर्थप्रदर्शनमात्रमेतत् । विग्रहस्त्वेवं कर्तव्यः । उपतिष्ठतेऽनेनेत्युपस्थानं । स्मृते उपस्थानं स्मृत्युपस्थानमिति । कथं स्मृतिरनयोपतिष्ठत इत्याह । यथादृष्टस्याभिलपनादिति । यस्माद्यथादृष्टोऽर्थः प्रज्ञया । तथैवाभिलप्यते । स्मृत्योद्गृह्यत इत्यर्थः । क्व पुनरुपतिष्ठते । काये यावद्धर्मेषु । काये स्मृत्युपस्थानं कायस्मृत्युपस्थानं । एवं यावद्धर्मेषु स्मृत्युपस्थानं धर्मस्मृत्युपस्थानमिति । यथा च स्वभावस्मृत्युपस्थानस्य । एवं संसर्गस्मृत्युपस्थानस्यापि । यथैव हि प्रज्ञया स्मृतिरुपतिष्ठते कायादिषु । एवं तत्संप्रयुक्तैरपीति । इदानीं सूत्रोक्तां स्मृत्युपस्हानानां कर्णसाधनत्वमसंबध्यमानं दृष्ट्वा कारकांतरेणार्थं विवक्षुर्[तिब् । १९१ ] आह । यत्र तूक्तमिति विस्तरः । यथा कायस्य समुदयास्तंगतावुक्तौ । एवं वेदनादीनामपि वक्तव्यौ । कथं । स्पर्शसमुदयात्वेदनायाः समुदयो भवति । स्पर्शनिरोधाद्(अभिधर्मकोषव्याख्या ५३१) वेदनाया अस्तंगमः । नामरूपसमुदयाच्चित्तस्य समुदयो भवति । नानरूपनिरोधाच्चित्तस्यास्तंगमाः । मनसिकारसमुदयाद्धर्माणां समुदयो भवति । मनसिकारनिरोधाद्धर्माणामस्तंगम इति । अत्र सूत्रे आलंबनमेव कायवेदनाचित्तधर्माः स्मृत्युपस्थानं । स्मृतिरत्र कायादिषूपतिष्ठत इति कृत्वा । तदेवमधिकरणसाधनं दर्शितं भवति । उपतिष्ठते स्मृतिरस्मिन्नित्युपस्थानम् । स्मृतेरुपस्थानं स्मृत्युपस्थानं । एवं यावद्धर्मा एव स्मृत्युपस्थानं धर्मस्मृत्युपस्थानमिति विग्रहः । यदि चात्र सूत्रे आलंबनं स्मृत्युपस्थानं नाभिप्रेतमभविष्यत् । न भगवानेवमवक्ष्यत् । कथं च भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तंगमश्च । आहारसमुदयात्कायस्य समुदयो भवति । आहारनिरोधात्कायस्यास्तंगम इति विस्तरः । कायादीनां हि स्मृत्युपस्थानत्वे सति तथा वचनं युज्येत । तस्मात्कायादय आलंबनस्मृत्युपस्थानमिति सिद्धं । यथालंबनं चैषां नामेति । एषां कायस्ंृत्युपस्थानादीनां [तिब् । १९१ ] आलंबनापेक्षया कायस्मृत्युपस्थानं यावद्धर्मस्मृत्युपस्थानमिति नाम व्यवस्थापते । स्वपरोभयसंतत्यालंबनत्वात् । परसंतत्यालंबनत्वात् । उभयसंतत्यालंबनत्वाच्च प्रत्येकमेकैकशः एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति । सूत्रे वचनात् । कथम् । अध्यात्मं काये कायानुपश्यी विहरति । आतापी संप्रजानन् स्मृतिमान् विनीय लोकेऽभिध्यादौर्मनस्ये । बहिर्धा ये कायनुपश्यी विहरति आतापीति पूर्ववत् । अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति पूर्ववत् । एवं तावत्कायस्मृत्युपस्थानस्य त्रैविध्यं । वेदनास्मृत्युपस्थानादीनामप्यध्यात्मं वेदनानां वेदनानुपश्यी विहरतीति विस्तरेण त्रैविध्यं योज्यं । औदारिकस्य पूर्वं दर्शनादिति । कायस्त्रिभ्य औदारिकः । षड्विज्ञानविज्ञेयत्वादिति । तस्य पूर्वं दर्शनं । द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनंतरं तस्या दर्शनं । सूक्ष्मप्रचारत्वाद्दुर्विज्ञतया धर्माः सूक्ष्मा इत्यतस्तेभ्यः पूर्वं चित्तस्य दर्शनम् । अंते धर्माणामिति । स चेति कामरागः । स च चित्तस्येति स वेदनाभिलाषः । तत्क्लेशाप्रहाणात् । तददांतत्वं । यथाक्रममिति । [तिब् । १९२ ] शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानं । सुखविपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानं । यत्किंचिद्वेदितमिदमत्र दुःखस्येति । नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानानां । चित्तस्य लघुपरिवर्तित्वात् । आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानं । पिण्डविभागतो धर्माणामनात्मकारित्वाद्धर्ममात्रं रहितमात्मनेति (अभिधर्मकोषव्याख्या ५३२) धर्मनिर्वचनतः । धर्मा इमे पृथग्पृथगवस्थिताः । न च कश्चित्स्वतंत्र आत्मेति । तद्दर्शनाद्वा । चतुर्थमुभयथेति । धर्मस्मृत्युपस्थानमसंभिन्नालंबनममिश्रालंबनं भवति । कायवेदनाचित्तव्यतिरिक्तधर्मालंबनत्वसंभवात् । संभिन्नालंबनमपि भवति । कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति । यदि कायं वेदनां च द्वे पश्यति धर्मस्मृत्युपस्थानं । तत्संभिन्नालंबनं । यदि कायं यावद्धर्मांश्च पश्यति । तदपि तथैव । यदपि कायं वेदनां चित्तं धर्मांश्च समस्तान् पश्यति । तदपि संभिन्नालंबनं धर्मस्मृत्युपस्थाममिति । (वि ।१७) समस्तालंबने स्थित इति । कायवेदनाचित्ताधर्मानभिसमस्य । (वि ।१८-२०) उष्मगतम् इत्युष्मप्रकारं कुशलमूलं । पूर्वरूपत्वादिति । प्रथमनिमित्तत्वात् । पूर्वस्वभावत्वाद्वा । प्राकर्षकत्वादिति । [तिब् । १९२ ] प्राबंधिकत्वादित्यर्थः । एषां तु विशेषणं पश्चाद्वक्ष्याम इति सप्तमे कोशस्थाने द्रव्यतः षोडशाकारा इति अत्र । यदि तेऽपि तादृशाः । अथ किमर्थमुपदिश्यंत इत्यत आह । उत्कृष्टतरत्वात्तु नामांतरमिति । अथ कस्मान्मूर्धान इत्युच्यंत इत्याह । चलकुशलमूलमूर्धत्वादिति । मूर्धशब्दोऽयं प्रकर्षपर्यंतवाची । तथा हि लोके वक्तारो भवंति । मूर्धगता खल्वस्य श्रीरिति । द्वे हि कुशलमूले चले । उष्मगतमूर्धलक्षणे परिहाणिसंभवात् । द्वे अचले क्षांतिलौकिकाग्रधर्मलक्षणे विपर्ययात् । तत्र तयोर्यन्मृदु । तदुष्मगतं । यदधिमात्रं । ते मूर्धानः । अचलयोरपि यन्मृदु । सा क्षांतिः । यदधिमात्रं । ते लौकिकाग्रधर्माः । एभ्यो हि पातोऽतिक्रमो वेति । मूर्धभ्यः पातः परिहाणिः । अतिक्रमो वा क्षांतिसंमुखीभावो वा । मूर्ध्नां चलत्वात् । वृक्षादिमूर्धेभ्यो हि लोके पातो वा भवेदतिपातो वा । उपरिष्ठानुप्राप्तिरिति मूर्धसाधर्म्यं । सत्येष्वाकाराणां प्रथमतो विन्यसनमिति । सत्येष्वनित्याद्याकाराणामादित उपनिपातनं । तदालंबनानां प्रवर्तनमित्यर्थः । अन्यैरपीति । धर्मस्मृत्युपस्थानाद्[तिब् । १९३ ] अन्यैरपीत्यर्थः । वर्धनम् अभ्यासेनोत्तोप्तीकरणं । विवर्धयत इति विस्तरः । विवर्धयतो योगिनो वर्धनेन (अभिधर्मकोषव्याख्या ५३३) विशिष्टानां कुशलमूलानां संमुखीभावः । पूर्वप्रतिलब्धानामिति । अविशिष्टानामसंमुखीभावः । कस्मात् । अबहुमानात् । न्यूनत्वेनावहुमानादित्यर्थः । अधिमात्रसत्यक्षमणादिति । उष्मगतावस्थायां मृदु सत्यं क्षमते रोचते । मूर्धावस्थायां मध्यं । तदनंतरमिदानीमधिमात्रसत्यक्षमणात्क्षांतिरुत्पद्यते । कथमित्यत आह । अपरिहाणित इति । यस्मात्क्षांतिर्न परिहीयते । मूर्धभ्यस्तु परिहीयत इत्यस्ति संभवः । द्विधा तद्वद् इति । मृदुमध्ये क्षांती तथैव । यथा मूर्धान उक्ताः । तथैवाकरणात्धर्मस्मृत्युपस्थानेन । सत्येष्वाकाराणामाकरणादित्यर्थः । सर्वस्या इति । मृदुमध्याधिमात्रभेदभिन्नायाः सर्वस्याः क्षांतेः । धर्मस्मृत्युपस्थानेनैव वचनं । नान्येन कायस्मृत्युपस्थानादिना । कस्मात् । अग्रधर्मश्लेषात् । अग्रधर्मा हि दर्शनमार्गश्लेषात् । धर्मस्मृत्युपस्थानात्मक एवेति । अग्रधर्मश्लेषादिति [तिब् । १९३ ] अग्रधर्माणां कामावचरदुःखसत्यालंबनानामनंतरोत्पादात्क्षांतेः कामावचरत्वदुःखसत्यालंबनम् । अग्रधर्मश्लेषाद्धि तत्सादृश्यमिति । नियमावचनादिति । अधिमात्रक्षांतिवदुष्मगतादीनामालंबनं प्रतिनियमावचनात् । अधिमात्रक्षांत्यवधारणेनैव हि त्रैधातुकदुःखाद्यालंबनत्वमेषामुष्मगतादीनां सिध्यति । कथं । कामाप्तमेव दुःखं विषयोऽस्याम् । सेयं कामाप्तदुःखविषया अधिमात्रा क्षांतिः । क्षांतेरेवेत्यवधारणातन्यान्युष्मगतादीनि त्रैधातुकदुःखाद्यालंबनानीति सिद्धं । यदा किलेति विस्तरः । यदा किल रूपारूप्यप्रतिपक्षादीनाम् । अदिशब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणं । एकैकसत्याकारालंबनापह्रासेनैकैकस्य सत्याकारस्य एकैकस्य सत्यालंबनस्य चापह्रासेन यावत्कामावचरमेव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति । एषा सर्वैव रूपाराप्यप्रतिपक्षाकारह्रासात्प्रभृति मध्या क्षांतिः । कथम् । अन्वयज्ञानपक्षं तावन्मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्चेति [तिब् । १९४ ] तैश्चतुर्भिराकारैराकारयति । ततस्त्रिभिरेकं हित्वा । ततो द्वाभ्यां द्वौ हित्वा । तत एकेन । ततो मार्गसत्यं हित्वा । रूपारूप्यनिरोधं चतुर्भिः स्वैराकारैराकारयति । ततस्त्रिभिः द्वाभ्यामेकेनैव चाकार्य निरोधसत्यं चापास्य । समुदयसत्यं चतुर्भिः स्वैराकारैः । त्रिभिः द्वाभ्यामेकेन चाकार्य । तथैव तदपास्य । दुःखसत्यं स्वैराकारैर्यावदेकेनाकार्य । तदपि सत्यमपास्य । कामावचरप्रतिपक्षं स्वैश्चतुर्भिराकारैः त्रिभिः द्वाभ्यामेकेन चाकारयति । तदपास्य । (अभिधर्मकोषव्याख्या ५३४) कामावचरनिरोधसमुदयसत्ये तथैव स्वाकारह्रासक्रमेणाकार्यापास्य च । कामावचरं दुःखसत्यं चतुर्भिराकारैराकारयति । ततस्त्रिभिः ततो द्वाभ्यामाकारयतीति । एवं हि ह्रासारंभात्प्रभृति सर्व एते क्षणा मध्या क्षांतिरित्युक्तं भवति । तृतीये क्षणे तदालंबनैवाधिमात्रा क्षांतिः । चतुर्थे अग्रधर्मास्तदालंबना एव । म्र्द्वी तु क्षांतिर्या पुरस्तादधिमात्रेभ्यो मूर्धभ्योऽनंतरं कामावचरं दुःखसत्यं यावन्मार्गसत्यं । रूपारूप्यावचरं च । स्वैःस्वैः सर्वैराकारैरनपह्रासं मनसिकुर्वत इत्यवगंतव्यं । [तिब् । १९४ ] एवं तावदेके व्याचक्षते । आकारापह्रासपूर्वक आलंबनापह्रास इति । अपरे पुनर्व्याचक्षते । एकैकसत्याकारालंबनापह्रासेनेति । नैवं ग्रहीतव्यमेकैकसत्याकारालंबनापह्रासेने चेति । किं तर्हि । रूपारूप्यप्रतिपक्षादीनामेकैकेषां सत्यानां ये आकाराः । तेषामालंबनह्रासेनेति व्याख्यातव्यमिति । एकान्नविंशतिक्षणशतं मध्या क्षांतिरिति वर्णयंति । आकारापह्रास । पूर्वके ह्यालंबनापह्रासे सति अतिबहवश्चित्तक्षणा विसर्पंति । न चैतन्न्याय्यं । न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते । यदा तु सत्यानि त्यक्तानि भवंति । तदाकारत्याग इति युक्तं । एवं च सति पूर्वं सत्यालंबनह्रासं करोति पश्चादाकारह्रासं । न हि मौले विषयेऽनपाकृते तदालंबनापाकरणं न्याय्यं । समाहितासमाहितदुःखसमुदयनिरोधमार्गा अष्टौ व्यवस्थाप्यंते । एषामाकारा द्वात्रिंशद्भवंतीत्येतदधुना न्यायांतरमुपदिश्यते । कथं कृत्वा । यदा कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति । एवं यावद्रूपारूप्यावचराणां प्रतिपक्षं चतुर्भिराकारैर्मनसिकरोतीयं मृद्वी क्षांतिः । यदा पुनः कामावचरदुःखं चतुर्भिराकारैर्मनसिकरोतीत्येवं यावत्कामावचराणां [तिब् । १९५ ] संस्काराणां प्रतिपक्षं मनसिकरोति चतुर्भिराकारैः । रूपारूक्यावचराणां संस्काराणां प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षांतिरारब्धा । तत्र च रूपारूप्यावचरप्रतिपक्षपरित्यागेऽष्टाविंशतिश्चित्तक्षणा भवंति । कामावचरसंस्कारप्रतिपक्षपरित्यागे चतुर्विंशतिः । रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः । कामावचरनिरोधपरित्यागे षोडश रूपारूप्यावचरसमुदयपरित्यागे द्वादश । कामावचरसमुदयपरित्यागेऽष्टौ । रूपारूप्यावचरदुःखपरित्यागे चत्वारः । कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति । तस्य भवंत्याकाराश्चत्वारः । स च योगाचारो द्विविधः । (अभिधर्मकोषव्याख्या ५३५) दृष्टिचरितः । तृष्णाचरितश्च । दृष्टिचरितोऽपि द्विविधः । आत्मदृष्टि चरितः । आत्मीयदृष्टिचरितश्च । यो ह्यात्मदृष्टिचरितो भवति । सोऽनात्माकारेण नियाममवक्रामति । यस्त्वात्मीयदृष्टिचरितः । स शून्याकारेण । तृष्णाशरितोऽपि द्विविधः । अस्मिमनोपहतः । कौसीद्याधिकश्च । तत्र योऽस्मिमानोफतः । सोऽनित्याकारेण नियाममवक्रामति । यः कौसीद्याधिकः । स दुःखाकारेण । तत्रात्मदृष्टिचरितो योगाचारः पुनस्तत्कामावचरं दुःखं त्रिभिराकारैर्मनसिकरोति । एकमाकारं हित्वा । ततो द्वाभ्यामनात्मशून्यताकाराभ्यां । तत एकमनात्माकारं द्विः संमुखीकरोति । दुःखधर्मज्ञानक्षांतिदुःखधर्मज्ञानसदृशम् [तिब् । १९५ ] इति । एषा मध्या क्षांतिरित्येवमेकान्नविंशं चित्तशतं भवति । एवमात्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्यामाकारयतः शून्याकारं द्विः संमुखीकरोति । एषास्य मध्या क्षांतिः एवमेकान्नविंशक्षणशतम् । एवं तृष्णाचरितो द्विप्रकारः । अस्मिमानोपहतः । कौसीद्याधिकश्च वक्तव्या इति । अधिमात्रा तु क्षांतिरेकमेव क्षणं । सा यथापुद्गलचरितमनित्याकारेण वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा संप्रयुक्तेति । अथ किमर्थमेकैकसत्याकारालंबनह्रासः क्रियते । पूर्वं हि तेन त्रैधातुकं विदूषयता समस्तः प्रतिपक्ष आलंबितः । पश्चात्कामधातोः पूर्वं प्रहेयपरिज्ञेयत्वात्कामावचर एव दुःखेऽवतिष्ठत इति । तत्पुरुषकारेण मार्गाकर्षणादिति । विना सभागहेतुना । पूर्वस्यानास्रवस्याभावात् । लौकिकाग्रधर्मपुरुषकारेण मार्गसत्यस्याकर्षणात् । सर्वलौकिकश्रेष्ठत्वमग्रधर्माणां गम्यते । सर्वे तु पंच स्कंधाः सपरिवारग्रहणादिति । समाहितभूमिदत्वादुष्मगतादीनामविज्ञप्तिलक्षणो रूपस्कंधोऽस्तीति [तिब् । १९६ ] पंच स्कंधा उष्मगतादयः सपरिवारग्रहणात्सपरिवारा गृह्यंते इति । मा भूदार्यस्येति । प्राप्तिसंमुखीभावातार्यपुद्गलस्योष्मगतादीनां फलप्राप्तिप्रयोगभूतानां संमुखीभावो मा भूदिति प्राप्तयो नोष्मगतादिषु गृह्यंते । न हि प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसंमुखीकरणं न्याय्यमिति । त्रिसत्यालंबनोष्मगताकरण इति । दुःखसमुदयमार्गालंबनोष्मगताकरणे । धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं । यत्नजन्यस्य कार्यस्याकरणे समस्तालंबनत्वेन धर्मस्मृत्युपस्थानस्यैव समर्थत्वात् । प्रतिनियतालंबनत्वेन हि कायस्मृत्युपस्थानादीन्यसमर्थानीति अनागतानि चत्वारि (अभिधर्मकोषव्याख्या ५३६) भाव्यंत इति । यस्मात्स्मृत्युपस्थानेन कायवेदनादयोऽपि दुःखसत्यादिसंगृहीता गृह्यंते । कायस्मृत्युपस्थानादीनि च पूर्वप्रतिलब्धानि भवंतीत्यतश्चत्वार्यपि भाव्यंते प्राप्त्युत्पादादिति । निरोधसत्यालंबने तदेवोभयथेति । निरोधसत्यालंबने उष्मगताकरणे । धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं । तदेव चानागतं भाव्यते । न कायस्मृत्युपस्थानादीनि । निरोधसत्ये कायाद्यभावात् । [तिब् । १९६ ] सर्वत्राकाराः सभागा इति । त्रिसत्यालंबनस्य निरोधसत्यालंबनस्य चोष्मगतस्याकरणे सदृशा एवाकारा भाव्यंते । दुःखसत्यालंबने दुःखसत्याकारा एव चत्वारो भाव्यंते । न समुदयसत्याद्याकाराः । समुदयसत्याद्याकारालंबने समुदयसत्याद्याद्याकारा एव चत्वारो भाव्यंते । नान्य इत्यादि । विवर्धन इति । त्रिसत्यालंबने । कायस्मृत्युपस्थानादीनामन्यतमत्प्रत्युत्पन्नं संभवति । मिरोधसत्यालंबनेऽन्त्यं प्रत्युत्पन्नं । उभयत्रानागतानि चत्वारि । आकारः सर्वेऽपि षोडशापि भाव्यंते । किं कारणं । लब्धत्वात्गोत्राणां संभवस्तश्चतुःसत्यालंबनकायस्मृत्युपस्थानादिजातीनां लब्धत्वादित्यर्थः । मूर्धाकरण इति विस्तरः । मूर्धाकरणे सर्वत्रापि धर्मस्मृत्युपस्थानमेव प्रत्युत्पन्नं । कायादिस्मृत्युपस्थानानामाकरणेऽसामर्थ्यात् । निरोधालंबनविवर्धनेऽपि अंत्यं धर्मस्मृत्युपस्थानं प्रत्युपन्नम् । इतरेषामयोगात् । त्रिसत्यालंबनविवर्धने तु चतुर्णामन्यतमत्प्रत्युत्पन्नम् । अनागतानि सर्वत्र चत्वारि । आकारा अपि सर्वे । लब्धत्वात्गोत्राणामित्यवगंतव्यं । [तिब् । १९७ ] क्षांतीनां सर्वत्रांत्यमिति । आकरणे विवर्धने चांत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं । तथा ह्युक्तं । सर्वस्याः क्षांत्या धर्मेण वर्धनमिति । अग्रधर्मेष्वंत्यमिति । अग्रधर्मेषु संमुखीक्रियमाणेष्वंत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम् । अनागतानि चत्वारि अनुत्पत्तिधर्मान्येव प्राप्यंते । आकारश्चत्वारि एवेति । अनित्यदुःखशून्यानात्माकाराः । अन्याभावादिति । यस्मादन्यसमुदयाद्याकारा अग्रधर्मा न संति दुःखमात्रालंबनत्वात् । यथा तर्ह्यग्रधर्मास्वभावकायस्मृत्युपस्थानाद्यसंमुखीभावेऽप्यग्रधर्मसमुदाचारावस्थायामनागतानि कायस्मृत्युपस्थानादीनि भाव्यंते । एवमग्रधर्मास्वभावसमुदयाद्याद्याकारा आनगता भाव्यंत इति किं नेष्यत इत्यतः पुनराह । दर्शनमार्गसादृश्याच्चेति । दुःखाकारा एव चत्वारो भाव्यंते । कस्मात् । दर्शनमार्गसादृश्यात् । दर्शनमार्गे हि यस्य सत्यस्य दर्शनं भवति । तदाकारा एव भाव्यंते । दर्शनमार्गसदृश्या ह्यग्रधर्माः । किं पुनर्(अभिधर्मकोषव्याख्या ५३७) एषां दर्शनमार्गेण सादृश्यमनुश्लेषात् । तथैव प्रथमतः कामावचरदुःखालंबनत्वं [तिब् । १९७ ] तुल्यभूमिकत्वं वा । तथा हि दर्शनमार्गमधिकृत्य वक्ष्यति । सोऽग्रधर्मैकभूमिक इति । यद्वा पृथग्जनत्वघाताय दुःखधर्मज्ञानक्षांतेरानंतर्यमार्गभूता अग्रधर्मा भवंति । तदेषां दर्शनमार्गेण सादृश्यं । सदृशा ह्यानंतर्यमार्गा विमुक्तिमार्गैरिति । (वि ।२१-२३) विध विभाग इति विस्तरः । तस्य धातोरेतद्यञिरूपं । निश्चित इति । निःशब्दस्यार्थं दर्शयति । कथं पुनर्निश्चितो वेध इत्याह । तेन विचिकित्साप्रहाणात्निश्चितः । सत्यानां च विभजनात् । इदं दुःखमयं यावन्मार्ग इति । निर्वेध आर्यमार्गः । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेनाकर्षकत्वेन हितत्वात्तस्मै हितमिति छः । तेन निर्वेधभागीयमिति भवति । अनागम्यांतरध्यानभूमिकम् इति । अनागम्यं चांतरं च ध्यानानि च भूमयोऽस्येत्य् अनागम्यांतरध्यानभूमिकं । नोर्ध्वमिति । नारूप्येषु निर्वेधभागीयमस्ति । दर्शनपरिवारत्वात् । दर्शनमार्गप्रयोगत्वादित्यर्थः । तदभावः । दामधात्वालंबनत्वादिति । तस्य दर्शनमार्गस्याभावस्तदभावः । क्व । ऊर्ध्वमिति वर्तते । आरूप्येष्वित्यर्थः । कस्मात् । काम धात्वनालंबनात् । यस्मादारूप्याः कामधातुं [तिब् । १९८ ] नालंबंते । आह । किं कामधात्वालण्बनेन दर्शनमार्गेण प्रयोजनमिति । अत उच्यते । तस्य पूर्वं परिज्ञेयप्रहेयत्वादिति । तस्य कामधातोर्दुःखरूपस्य पूर्वं परिज्ञेयत्वात् । समुदयरूपस्य च प्रहेयत्वात् । अत्र च हेतुर्यस्मात्स योगी कामावचरेण दुःखेन विहन्यते । तेन स पूर्वं ततो मोक्षमन्वेषत इति । तेषां रूपधातौ पंचस्कंधको विपाक इति । तेषां निर्वेधभागीयानां रूपावचरत्वात्यदि च योगी रूपधातावुपपद्येत । ततस्तस्य तत्र पंच स्कंधको विपाकोऽभिनिर्वर्तते । परिपूरिकाण्येव च तानीष्टवेदनीयजननात् । नाक्षेपकाणि निकायसभागस्य । भवद्वेषित्वात् । अनित्यादिभिराकारैर्भवं द्विषंतीति । द्वे प्रथमे इति उष्मगतमूर्धस्वभावे । कामाश्रयाणीति । (अभिधर्मकोषव्याख्या ५३८) यस्मादिहैव सत्याभिसमयओ नान्यधातौ । नोर्ध्वं हि दृक्पथः असंवेगात् । इह विधा तत्र निष्ठेति चागमादिति । त्रिषु द्वीपेषूत्तरकुरुवर्ज्येष्विति व्याख्यायते । उत्तरकौरवाणां मृद्विन्द्रियत्वात् । देवेषु संमुखीभाव इति । कामावचरेषु । चतुर्थं निर्वेधभागीयं [तिब् । १९८ ] देवेष्वपि । तेष्वेव च नान्यत्र । तृईणि निर्वेधभागीयान्यन्यत्र अग्रधर्मेभ्यः । इहैव जन्मनि स्त्रीपुरुषेन्द्रियपरावृत्तौ उभयाश्रयाणि स्त्रीपुरुषेन्द्रियाश्रयाणि स्त्रियः पुरुषाश्च लभंते । स्त्रियो ह्येतान्युत्पाद्य जन्मांतरस्त्रीभावप्रादुर्भावे स्त्र्याश्रयाणि संमुखीकुर्वंति । जन्मांतरपुरुषभावप्रादुर्भावे तु पुरुषाश्रयाणि संमुखीकुर्वंति । न हि तल्लाभिनीनां स्त्रीणां जन्मांतरे स्त्रीभावो न संभवति । पुरुषा अपि तथैव स्त्रीभावे जन्मांतरे सति स्त्र्याश्रयाणि संमुखीकुर्वंति । पुरुषभावे पुरुषाश्रयाणीति । अग्रधर्मान् प्रत्याह । अग्रधर्मान् द्व्याश्रयान् लभतेऽंगनेति । स्त्र्येवोभयाश्रयानग्रधर्मान् लभते । न पुरुषः । तथा हि स्त्री तान् लब्ध्वा स्त्र्याश्रयैस्तैस्तदानींतनैः समन्वागता भवति । जन्मांतरपरावृत्तौ च कामधातौ पुरुषाश्रयप्रादुर्भावे पुरुषाश्रयैः स पुरुषः समन्वागत इति । पुरुषस्तु पुरुषाश्रयानेव लभते । कस्मादित्याह । स्त्रीत्वस्याप्रतिसंख्यानिरोधलाभादिति । तस्मिं जन्मनि स्त्रीत्वं जन्मांतरेऽपि पुनर्नास्तीत्यस्याप्रतिसंख्यानिरोधलाभः । यो ह्यग्रधर्मानुत्पादयति । सोऽवश्यमनंतरं दर्शनमार्गमुतपादयेन् [तिब् । १९९ ] न च दृष्टसत्यस्य पुनः स्त्रीत्वप्रादुर्भाव इति सिद्धांतः । भूमित्यागाद् इति विस्तरः । यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि प्रथमध्यानभूमिकानि यावच्चतुर्थध्यानभूमिकानि । तां भूमिं त्यजन् प्रथमं ध्यानं यवच्चतुर्थं त्यजन्नार्यस्तान्यपि यथास्वं प्रथमध्यानधूमिकानि यावच्चतुर्थध्यानभूमिकानि त्यजति । नान्यथा न मृत्युना परिहाण्या वा । यथा पृथग्जन इत्यर्थः । भूमित्यागः पुनर्भूमिसंचारादिति । न वैराग्यत इति दर्शयति । पृथग्जनस्त्विति विस्तरः । पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति निर्वेधभागीयानि सत्यसति वा भूमिसंचारे । तथा हि पृथग्जनो यद्भूमिकनिर्वेधभागीयलाभी भवति । तत ऊर्ध्वमुपपद्यमानस्तानि भूमिसंचारेऽपि मृत्युनैव त्यजति । अवीतरागस्त्वसति भूमि संचारे मृत्युना त्यजति । कामधातावेवोपद्यते । न त्वेवम् (अभिधर्मकोषव्याख्या ५३९) आर्यपुद्गलस्तत्कुशलमूलसंततेर्दर्शनमार्गोपबृंहितत्वात् । पृथग्जन एव तथा त्यजतीति कथं गम्यते । अण्डकललादिगतः पृथग्जनः कायेन समन्वागतः । न कायकर्मणेति शास्त्रे वचनात् । आचर्यवसुमित्रस्तु व्याचष्टे । पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति । सत्यसति वा भूमिसंचार इति । सकलं ध्यानमत्र भूमिग्रहणेन [तिब् । १९९ ] गृह्यते । तत्र पृथग्जनो यदा ब्राह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यते । तदा निकायसभागत्यागेन त्यजति । यदा तु प्रथमात्ध्यानाच्च्युत्वा द्वितीय उपपद्यते । तदा भूमित्यागनिकायसभागत्यागाभ्यामिति । तदयुक्तं । ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात् । कामधातौ हि निर्वेधभागीयान्युत्पद्यंते । कामधातुच्यवनादेव च तेषां निर्वेधभागीयत्याग इति । आचार्यसंघभद्रेणापि दर्शितमेतत् । ननु च पृथग्जनोऽपि यद्भूमिकनिर्वेधभागीयलाभी भवति । तत ऊर्ध्वमुपपद्यमानो निर्वेधभागीयानि विजह्यादिति । नास्त्येतत् । निकायसभागत्यागादेव त्यक्तत्वात् । मरणभवास्थितो हि तानि त्यजति । अंतराभवस्थितेन तु त्यक्तानि । अत ऊर्ध्वमुपपद्यमानस्य तन्मस्ति यद्विजह्यादिति । मृत्युनैवेत्युच्यत इति । प्रातिमोक्षसंवरवदिति । यथा प्रातिमोक्षसंवरस्त्यक्तः पुनरादीयमानोऽपूर्व एव लभ्यते । कस्मात् । अनुचितयत्नसाध्यत्वात् । अनुचितत्वात्यत्नसाध्यत्वाच्च । यस्मादनादिमतिसंसारे नोचितानि भवंति । आर्यमार्गपरिवारत्वात् । तस्मान्न वैराग्यलभ्यानि । यस्माद्यत्नसाध्यानि । तस्मान्न पूर्वत्यक्तानि लभ्यंत इति । सति प्रतिसीमादैशिक इति । सीमा नाम [तिब् । २०० ] मर्यादा । तस्या दैशिको देशयिता प्रणिधिज्ञानलाभी । तस्मिन् सति लब्धविहीनात्परेणोत्पादयति । यदनुत्पादितं । तदुत्पादयतीत्यर्थः । असति प्रतिसीमदैशिके मूलादेवोष्मगतात्प्रभृतीत्यर्थः । एते पुनर्विहानिपरिहाणी इति । भूमित्यागात्त्यजत्यार्य इत्यादिवचनाद्विहानिरुक्ता । आद्ये द्वे परिहाण्या चेति वचनात्प्रैहाणिरप्युक्ता । तेनैते इति निर्दिशति । हानी इति विहानिपरिहाण्योः सामान्यरूपपरिग्रहादुभयोर्ग्रहणं । परिहाणिस्तु दोषकृता । क्लेशकृतेत्यर्थः । नावश्यं विहानिरिति । सा हि गुणकृतापि भवति न केवलं दोषकृता । गुणकृता तद्यथा दर्शनमार्गोत्पत्तौ पृथग्जनत्वस्य (अभिधर्मकोषव्याख्या ५४०) विहानिः । दोषकृता तु तद्यथा मिथ्यादृष्ट्या कुशलमूलविहानिः । प्रतिसंधिचित्तेन वा केषांचिद्धर्माणां विहानिरिति । तदेवं या परिहाणिः । विहानिरपि सा । या तु विहानिः । नावश्यमसौ परिहाणिः । गुणविशेषेभ्य एव हि परिहाणिरिति । (वि ।२४) अनुत्पत्तिधर्मतां प्रतिलभत इति । अप्रतिसंख्यानिरोधं तेषां गत्यादीनां प्रतिलभत [तिब् । २०० ] इत्यर्थः । तां तु यथायोगमिति । तां त्वनुत्पत्तिधर्मतां । यथासंभवं मृद्व्यामधिमात्रायां च क्षांतौ प्रतिलभत इति वर्तते । कथं कृत्वा । मृद्व्यां क्षांत्यामपायगतीनामनुत्पत्तिधर्मतां प्रतिलभते । अधिमात्रायमण्डजसंस्वेदजयोन्योः । मृद्व्यामसंज्ञित्वोत्तरकुरुमहाब्रह्मोपपत्तीनां । अधिमात्रायां षण्ढपण्डकोभयव्यंजनाश्रयाणाम् । अधिमात्रायामष्टमादिभवानां । अष्टमादिनवमादिभवानां । दर्शनहेयक्लेशानां चानुत्पत्तिधर्मतामेवेति । (वि ।२५) तस्यैव तु गोत्रस्येति । क्षांतिपरिभावितस्य श्रावकगोत्रस्येत्याचार्यमतं । तस्य क्षांतिपरिभावितत्वेनाविवर्त्यत्वादित्यभिप्रायः । त्रीण्यपीतर इति । प्रत्येकबुद्धः क्षांतिमपि श्रावकगोत्राद्विवर्त्य स्यात् । न हि ते परार्थमपायानवगाहन्त इत्यभिप्रायः । आनिंज्यपटुसमाधित्वादिति । अष्टपक्षाल्मुक्तत्वादानिंज्यः समाधिः । अत एव पटुरुत्तप्ततीक्ष्णेन्द्रियत्वाद्वा । येषां तु खड्गादन्योऽपीति । येषामाभिधार्मिकाणां मतेन खड्गादन्योऽपि प्रत्येकबुद्धोऽस्ति । उत्पादितनिर्वेधभागीयमात्रोऽपि वर्गचारी प्रत्येकबुद्ध इत्यभिप्रायः । तेषामुष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः खड्गविषाणकल्पस्यैवावधारणात् । [तिब् । २०१ ] (वि ।२६) क्षिप्रं मोक्षस्त्रिभिर्भवैर् इति । यः क्षिप्रं मोक्षं प्राप्नोति । स एकस्मिं जन्मनि मोक्षभागीयमुत्पादयेत् । द्वितीये निर्वेधभागीयानि । तृतीये आर्यमार्ग इति । यस्तु पूर्वस्मिन् जन्मनि संभृतमोक्षभागीयो भवति । स एकस्मिन्नपि जन्मनि निर्वेधभागीयान्यार्यमार्गं चोत्पादयतीत्यवगंतव्यं बीजावरोपणेत्यादि बीजावरोपणं मोक्षभागीयोत्पादनं । सस्याभिवृद्धिर्निर्वेधभागीयोत्पत्तिः । फलोत्पत्तिरार्यमार्गः । अस्यां धर्मतायामिति । प्रवचनधर्मतायाम् । अवतारपरिपाकविमुक्तयो भवंतीति । अवतारो मोक्षभागीयेन । परिपाको निर्वेधभागीयैः । विमुक्तिरार्यमार्गेणेति । तत्प्रणिधानपरिग्रहणादिति । (अभिधर्मकोषव्याख्या ५४१) मनःप्रणिधानपरिग्रहात् । प्रणिधानं पुनश्चेतनाविशेशः । एकभिक्षामपि दत्त्वेति कायकर्म । एकशिक्षामपि चादायेति वाक्कर्म । तच्च मनस्कर्मोत्थानमिति । त्रिकर्मस्वभावमल्पकमप्येतत्मोक्षाभिलाषबलाधानान्मोक्षभागीयमाक्षिपति । मोक्षस्य भागः प्राप्तिर्मोक्षभागः । [तिब् । २०१ ] तस्मै हितं मोक्षभागीयमिति । नान्यत्र प्रज्ञानिर्वेदयोरभावाद्यथायोगमिति । कुरुषु तावदुभयं नास्ति । अपायेषु निर्वेदोऽस्ति प्रज्ञा नास्ति । देवेषु प्रज्ञास्ति निर्वेदो नास्तीति । अतो मनुष्येष्वेव त्रिषु द्वीपेष्वाक्षिप्यते । नान्यत्र । (वि ।२७-२८) अभिसमयक्रमस्तु वक्तुमारब्ध इति वृत्तस्थः श्रुतचिंतावान् भावनायां प्रयुज्यत इत्यारभ्य निर्वेधभागीयानुक्रमः । तत्प्रसंगेन मोक्षभागीयोपन्यास इति । धर्मक्षांतिरनास्रवेति । निर्वेधभागीयैरपि धर्मक्षमणम् । अतो निष्यन्देन विशेषणं । यस्या धर्मज्ञानं निष्यंदः । सा धर्मज्ञानक्षांतिः । धर्मज्ञानार्थं क्षांतिर्धर्मज्ञानक्षांतिः । पुष्पफलवृक्षवद्यथा पुष्पार्थं वृक्षः पुष्पवृक्षः । फलार्थं वृक्षः फलवृक्षः । कारिकायां तु धर्मक्षांतिरिति वचनमेकदेशग्रहणतो देवदत्तो दत्त इति यथा । सम्यक्त्वं निर्वाणमित्युक्तमिति । सम्यक्तवं कतमत् । यत्तत्पर्यादाय रागप्रहाणमिति विस्तरः । तत्र नियमो नियाम इति । तत्र सम्यक्त्वे नियम एकांतीभावो नियाम इति घञि रूपं । अपि तु नियम इति यमः समुपनिविषु चेत्यप्प्रत्ययस्य विभाषितत्वात् । तस्याहिगमनमवक्रमणमिति । [तिब् । २०२ ] तस्यैकांतीभावस्याभिगमनं प्राप्तिः । तदेव विपर्यासस्यापक्रमान्नियामावक्रांतिरित्युच्यते । तस्यां चेति धर्मज्ञानक्षांतौ । प्रदीपजातिवदिति । प्रदीपस्येव जातेरिव चेत्यर्थः । यथा प्रदीपस्यानागतस्य तमोविनाशने सामर्थ्यं । जातेश्चानागताया जन्यजनने । तथा पृथग्जनत्वव्यावर्तने सामर्थ्यमनागताया धर्मज्ञानक्षांतेरभ्युपगम्यते । नान्यदिति । क्लेशप्रहाणां कारित्रं । लौकिकैरग्रधर्मैरिति अपर इति । पृथग्जनत्वं व्यावर्तत इति प्रकृतं । न । तद्धर्मत्वादिति । न युक्तमेतल्लौकिकैरग्रधर्मैस्तद्व्यावर्तन इति । कस्मात् । तेऽपि हि पृथग्जनधर्माः । कथं पृथग्जनधर्मस्य पृथग्जनधर्मं व्यावर्तिष्यंत इति । तद्विरोधित्वाददोषः । अग्रधर्माणां पृथग्जनन्त्वविरोधित्वातदोष एषः । किं । (अभिधर्मकोषव्याख्या ५४२) यथेत्याह । शत्रुस्कन्धारूढतद्घातनवदिति । यथा शत्रुस्कन्धारूढ एव कश्चिच्छत्रुं घातयेत् । एवं किलाग्रधर्माः पृथग्जनत्वशत्रुस्कन्धारूढास्तदेव पृथग्जनत्वं घातयेयुरिति । उभयैरिति । लौकिकैरग्रधर्मैः [तिब् । २०२ ] क्षांत्या च पृथग्जनत्वं व्यावर्त्यते । कथमित्याह । आनंतर्यविमुक्तिमार्गसाधर्म्यादिति । लौकिकानामग्रधर्माणामानंतर्यमार्गेण साधर्म्यं । क्षांतेर्विमुक्तिमार्गेण । यथा ह्यानंतर्यमार्गेण क्लेशः प्रहीयते । विमुक्तिमार्गेण प्रहीणः एवं लौकिकैरग्रधर्मैः पृथग्जनत्वं विहीयते । क्षांत्या विहीनमिति । अनास्रवाधिकारः सर्वत्रेति । तेन ततोऽत्रैव धर्मज्ञानमनास्रवमिति गम्यते । तद्दुःखे धर्मज्ञानमित्युच्यते इति । शास्त्रे तेन नाम्ना व्यवहार इत्दर्शयति । समस्तालंबना रूपारूप्यावचरदुःखालंबनत्वात् । प्रथमतो धर्मतत्त्वज्ञानादिति । आदितो दुःखादिधर्मतत्त्वज्ञानादित्यर्थः । तदन्वयत्वादिति । तद्धेतुकत्वादित्यर्थः । तथैवानुगमादिति । यथैव धर्मज्ञानेनानुगतं परिज्ञातं दुःखादिसत्यं दुःखादिभिराकारैः । तथैव रूपारूप्यावचरदुःखाद्यनुगमादन्वयज्ञानमेतदिति विस्तरः । एवं समनंतरोत्पत्तिक्रमेण शेषे समुदये रूपारूप्यावचरेऽन्वयज्ञानक्षांतिर्[तिब् । २०३ ] इति विस्तरेण योज्यं । निकायांतरीया आर्यधर्मगुप्तप्रभृतयः । अभेदेन ह्यभिसमय उच्यत इति । षोडश चित्तोऽयं सत्याभिसमय इति । दर्शनाभिसमय आलंबनाभिसमयः कार्याभिसमयश्चैवं षोडशचित्तक इत्यभेदः । दर्शनाभिसमय इति । दर्शनमेवाभिसमयः । एवमालंबनाभिसमयः कार्याभिसमयश्च । दर्शनाभिसमयोऽनास्रवया प्रज्ञया । तद्धि भिक्षवो दृष्टं । यदनास्रवया प्रज्ञया दृष्टमिति वचनात् । प्रज्ञैव दर्शनमिति व्यवस्थाप्यते । आलंबनं ग्रहणं तत्संप्रयुक्तैरपि वेदनादिभिर्भवति । अपिशब्दात्प्रज्ञयापि । यस्माच्चित्तचैत्तैः सत्यान्यालंब्यंते । कार्यं यस्य सत्यस्य यत्कर्तव्यं । तद्यथा दुःखस्य परिज्ञानं । समुदयस्य प्रहाणं । निरोधस्य साक्षात्करणं । मार्गस्य भावनं । तद्विप्रयुक्तैरपि शीलजात्यादिभिर्भवति । अपिशब्दात्प्रज्ञातत्संप्रयुक्तैरपि । प्रज्ञासंप्रयुक्तविप्रयुक्तैर्हि तत्कार्यचतुष्टयं [तिब् । २०३ ] क्रियते । जात्यादिभिरित्यादिशब्दाल्लक्षणांतराणि प्राप्तयश्च गृह्यंते । दुःखे हीति विस्तरः । दुःखे हि दृश्यमाने प्रज्ञया । तस्याभिसमयितुर्दुःखस्य वा त्रिविधो (अभिधर्मकोषव्याख्या ५४३)ऽभिषमयो यथोक्तः । कथमित्याह । समुदयादीनां समुदयनिरोधमार्गाणामभिसमयः प्रहाणसाक्षात्करणभावनाद्यथाक्रमं प्रहाणं समुदयस्य क्लेशप्राप्तिच्छेदात् । साक्षात्करणं निरोधस्य तत्प्राप्त्युत्पादात् । भावनं मार्गस्य संमुखीभावात् । आकारभेदादिति । प्रत्येकमेषां दुःखादीनामाकारभेदात् । न च दुःखाकारेण समुदयादीनां दर्शनं युज्यते । तदाकारार्थभेदतः । अथाप्यनात्माकारेण सर्वेषां सत्यानां दर्शनमिति ब्रूयात्निकायांतरीयः । शून्यतानात्मते सर्वसत्यानां सामान्यं लक्षणमिति कृत्वा । न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् । दुःखतः समुदयतो निरोधतो मार्गत इति । तथा च सत्यनात्माकारेण सर्वेषां दर्शनमिति ब्रुवन् सूत्रविरोधः । यस्मात्सूत्र एवमुक्तमार्यश्रावकस्येति विस्तरः । अथ मन्यसे नास्ति सूत्रविरोधो यस्मादभिसमयावस्थायाह्पूर्वं प्रयोगावस्थायाम् [तिब् । २०४ ] आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इत्येवमादि । अतोऽनात्माकारेण सर्वेषां दर्शनादेकाभिसमय एवेति । तच्चायुक्तम् । अनास्रवेण मनसिकारेण संप्रयुक्तो धर्माणां विचय इति वचनात् । न हि प्रयोगावस्थायामनास्रवमनसिकारः संभवति । भावनामार्ग एवमिति चेद्य आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इति विस्तरेण । न । यथा दर्शनं भावनात् । नैतदेवं । यथैव हि पूर्वं सत्यानां दर्शनं । तथैव तेषां पश्चाद्भावनं । भावनामार्गो भवतीत्यर्थः । शेषेषु वशित्वलाभादिति । अंतरेण प्रयोगं समुदयादिदर्शनसंमुखीभावशक्तिलाभो वशित्वलाभः । तस्मादिति । अंतरा तु व्युत्थानामस्ति नास्तीति विचार्यं स्यादिति । शेषेषु वशित्वलाभादंतरा व्युत्थानं प्राप्नोतीति दोषः स्यादित्यभिप्रायः । उभयथापि च विचार्यमाणे बहूनां सूत्राणां विरोधः । यथा च तेषां विरोधः । तथागमेषु श्रोतव्यः । एकस्य दर्शने शेषाणां कार्याभिसमयवचनादिति । यस्मादस्त्येतत्वचनं । दुःखे हि दृश्यमाने तस्य त्रिविधोऽभिसमयः । समुदयादीनां कार्यभिसमयः प्रहाणसाक्षात्करणभावनादित्य्[तिब् । २०४ ] अतोऽस्माभिरप्येवमभ्युपगमान्नास्ति दोषः । आह । यद्यप्यभ्युपगम्यत इत्यभिसमयः । सूत्रे सत्यानां क्रमेणाभिसमयो विरुध्यते । अत उच्यते । दर्शनाभिशमयं तु प्रतीति विस्तरः । सदृष्टांतानि त्रीणि सूत्राणीति । संयुक्तागमे पठ्यंते । कथं । अनाथपिण्डद आह । किं नु भदंत चतुर्णामार्यसत्यानामनुपूर्वाभिसमयः । आहोस्विदेकाभिसमय इति । चतुर्णां गृहपते आर्यसत्यानामनुपूर्वाभिसमयो न त्वेकाभिसमयः । यो गृहपते एवं वदेदहं (अभिधर्मकोषव्याख्या ५४४) दुःखमार्यसत्यमनभिसमेत्य समुदयमार्यसत्यमभिसमेष्यामीति विस्तरेण यावद्दुःखनिरोधगामिनीं प्रतिपदमार्यसत्यमभिसमेष्यामीति । मैवं वोच इति स्याद्वचनीयः । तत्कस्य हेतोः । अस्थानमनवकाशो यद्दुःखमार्यसत्यमनभिसमेत्य समुदयमार्यसत्यमभिसमेष्यति पूर्ववत् । यावन्नेदं स्थानं विद्यते । स्थानमेतदिति पूर्ववत् । तद्यथा गृहपते य एवं वदेदहं कूटागारस्य वा कूटागारशालाया वा वा मूलपादमप्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामि । भित्तिमप्रतिष्ठाप्य तलकं । [तिब् । २०५ ] तलकमप्रतिष्ठाप्य च्छदनं प्रतिष्ठापयिष्यामीति । मैवं वोच इति स्याद्वचनीयः । तत्कस्य हेतोः । अस्थानमनवकाशो यत्कूटागारस्येति पूर्ववत् । यावत्स्थानमेतद्विद्यते । यन्मूलपादं प्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामीति पूर्ववत् । यावदेवमेव गृहपते नेदं स्थानं विद्यते । यद्दुःखसत्यमदृष्ट्वा समुदयसत्यं द्रक्ष्यतीति विस्तरः । अथान्यतरो भिक्षुराह । किं नु भदंत चतुर्णामार्यसत्यानामनुपूर्वाभिसमयः । आहोस्विदेकाभिसमय इति । भगवानाह । चतुर्णां भिक्षो सत्यानामिति । पूर्ववद्यावत्तद्यथा भिक्षो य एवं वदेदहं चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरमनभिरुह्य द्वितीयमभिरोक्ष्यामीति । द्वितीयमनभिरुह्य तृतीयं । तृतीयमनभिरुह्य चतुर्थमभिरोक्ष्यामीति । मैवं वोच इति स्याद्वचनीयः । तत्कस्य हेतोः । अस्थानमनवकाशो यच्चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरमनभिरुह्य द्वितीयकडेवरमभिरोक्ष्यति । एवं यावत्तृतीयमनभिरुह्य चतुर्थमभिरोक्ष्यति । एवमिहापि नेदं स्थानं विद्यते । यद्दुःखसत्यमदृष्ट्वा समुदयसत्यं द्रक्ष्यतीत्यादि । [तिब् । २०५ ] तथार्यानन्द आह । किं नु भदंत चतुर्णामार्यसत्यानामनुपूर्वाभिसमयः । उताहो एकाभिसमय इति । पूर्वसूत्रवत् । यावत् । तद्यथानन्द य एवं वदेदहं चतुष्पदिकाया निःश्रेण्याः प्रथमं निःश्रेणीपदमनभिरुह्य प्रासादमभिरोक्ष्यामीति । मैवं वोच इति स्याद्वचनीयः । विस्तरेण यावदेवमेवानन्द य एवं वदेदहं दुःखमार्यसत्यमनभिसमेत्य समुदयसत्यमभिसमेष्यामीति विस्तरेण यावन्नेदं स्थानं विद्यत इति । एतानि त्रीणि सूत्राणि । यो दुःख इति विस्तरः । अथ मतं स्याद्यो दुःके निष्कांक्षो निर्विचिकित्सो बुद्धेऽपि स इति सूत्रादेकाभिसमय इति । कथम् । अशैक्षा हि धर्मा बुद्धः । त एवाशैक्षा धर्मा मार्गः । तस्माद्दुःखाभिसमयान्मार्गोऽपि तेनाभिसमितो यस्माद्दुःखवद्बुद्धेऽपि निष्कांक्षो निर्विचिकित्स इति । कांक्षा विचिकित्सेत्यनर्थांतरः । अथ वानिश्चयाभिलाषः कांक्षा विमतिर्विचिकित्सा (अभिधर्मकोषव्याख्या ५४५) यथोक्तलक्षणा । नासमुदाचारावश्यंप्रहाणाभिसंधिवचनादिति । नैतदेवं सूत्रादेकाभिसमय इति । असमुदाचारस्य [तिब् । २०६ ] वश्यंप्रहाणस्य चाभिसंधिवचनात् । दुःखेऽभिसमिते बुद्धविषये विचिकित्साया असमुदाचारोऽवश्यंप्रहाणं च भवति । अतो यो दुःखे निष्कांक्षो निर्विचिकित्सो बुद्धेऽपि । स इत्युक्तमभिसंधिः । (वि ।३० ब्) ते पुनः षड्भूमिका इत्युक्तं प्रागिति । अनागम्यांतरध्यानभूमिकम् इति वचनात् । (वि ।३० द्) अनंतर्यशक्यत्वादिति । कृत्याश्च शकि लिङ्चेति शक्यार्थे कृत्यप्रत्ययः अंतरयितुं शक्या अंतर्याः । नांतर्याः अनंतर्याः । क्लेशप्राप्तिं ते विच्छिन्दंति । विप्रकृतावस्था सा तेषामिष्यते । आनंतर्यमार्गेणेति भावे स्वर्थे वृद्धिविधानं । अनन्तरभावो अनंतरमार्गो वा आनंतर्यं । तस्य मार्गा आनंतर्यमार्गाः । विमुक्तिमार्गाः । विमुक्तिमार्गा इति । विमुक्तौ मार्गा विमुक्तिमार्गाः । क्लेशविमुक्त्यवस्थामार्गा इत्यर्थः । द्वाभ्यां चौरनिष्कासनकपाटपिधानवदिति । यथा द्वाभ्यामेकेन चौरो निष्कास्यते । द्वितीयेन तदप्रवेशाय कपाटः पिधीयते । एवमानंतर्यमार्गेण क्लेशचौरो निष्कास्यते । तत्प्राप्तिच्छेदतः । विमुकित्मार्गेण च विसंयोगप्राप्तिकपाटं पिधीयते । वर्तमानीकरणतः । यदि पुनरिति विस्तरः । [तिब् । २०६ ] यदि पुनर्द्वितीयेनानंतर्यमार्गेणैव दुःखेऽन्वयज्ञानक्षांत्या सह विसंयोगप्राप्तिरुत्पद्येत । नैव दुःखे धर्मज्ञानमुत्पद्यते । यदनेन कर्तव्यं । तद्दुःखेऽन्वयज्ञानक्षांत्यैव क्रियेतेत्यभिप्रायः । प्रहीणविचिकित्सं ज्ञानं तत्रैवालंबने कामावचरदुःखे प्रहीणविचिकित्सं ज्ञानं नोत्पन्नं स्यात् । तत्र हि दुःखे धर्मज्ञानक्षांतिः सविचिकित्सैव वर्तते विचिकित्साया अप्रहीणत्वात् । न च तत्र दुःखेऽन्वयज्ञानक्षांतिः प्रहीणविचिकित्सेति शक्यते व्यवस्थापयितुं । अतद्विषयत्वात् । क्षांतिभिरिति विस्तरः । क्षांतिभिः क्लेशप्रहाणाद्योऽयं सास्त्रपाठः । नवसंयोजननिकायाः । दुःखधर्मज्ञानप्रहातव्यः संयोजननिकायः । समुदयधर्मज्ञानप्रहतव्यो निरोधधर्मज्ञानप्रहातव्यो मार्गधर्मज्ञानप्रहातव्यः दुःखान्वयज्ञानप्रहातव्यः समुदयान्वयज्ञानप्रहातव्यो निरोधान्वयज्ञानप्रहातव्यो मार्गान्वयज्ञानप्रहातव्यो भावनाप्रहातव्यश्च संयोजननिकाय इति । सूत्रेऽप्युक्तम् । इति हि भिक्षवो ज्ञानवध्याः क्लेशाः । विद्युदुपमं चित्तमिति । तस्य विरोधः । न हि तत्र (अभिधर्मकोषव्याख्या ५४६) क्षांतिप्रहातव्यः संयोजननिकाय इत्युक्तं । न क्षांतीनामिति [तिब् । २०७ ] विस्तरः । नैतदेवं । कस्मात् । क्षांतीनां ज्ञानपरिवारत्वात् । क्षांतयो ज्ञानस्य परिवारा इत्यतः क्षांतिप्रहातव्यः संयोजननिकायो ज्ञानप्रहातव्य उच्यते । राजपरिवारकृतस्य राजकृतव्यपदेशवत् । यथा राजपरिवारकृतस्य कस्यचिदर्थस्य राजकृत इति व्यपदेशो भवति । तद्वद्भावनाप्रहातव्यस्तु संयोजननिकायो ज्ञानप्रहातव्य एव । तत्र आनंतर्यमार्गोऽपि ज्ञानस्वभाव इति । क्लेशप्रहाणे ह्यानंतर्यमार्ग एव विशेषेणाधिक्रियते । (वि ।३१ ब्) अदृष्टसत्यदर्शनादिति ज्ञानेन कथमदृष्टसत्यदर्शनं भवति । तदप्यदृष्टे सत्यांतरे सति भवतीति दर्शनमार्गांतरालवर्तिज्ञानं दर्शनमार्गः पारंपर्यमभिसंधाय । तेनाप्यदृष्टमिव पश्यतीति । अथ वा अदृष्टदृष्टेरडृष्टदर्शनात् । पंचदशक्षणा दर्शनमार्गो यावदस्य पुद्गलस्यादृष्टदर्शनं प्रवर्तते । तावदस्य क्षणा दर्शनमार्गः । तस्य दृष्टेऽपि दुःखे अदृष्टदर्शनमस्य समुदये प्रवर्तत एवेत्याह । भावनामार्ग एव षोडश क्षण इति वाक्याध्याहारः । ननु च तेनाप्यदृष्टं पश्यति किं तददृष्टमित्याह । मार्गान्वयज्ञानक्षांतिमिति । मार्गान्वयज्ञानक्षांतिरात्मानं विरहय्य शेषमन्वयज्ञानपक्ष्यं मार्गमालंबते । स्वात्मनि [तिब् ।२०७ ] वृत्तिविरोधात् । तेनोच्यते । मार्गान्वयज्ञानक्षांतिमदृष्टां पश्यतीति । सत्यं प्रति चिंतेति विस्तरः । सत्यं प्रति चिन्ता दृष्टं न दृष्टमिति । न तु क्षणं प्रति दृष्टः क्षणो न वेति । कस्मात् । पंचदशेन क्षणेन यदन्वयज्ञानपक्षलक्षणं सत्यं दृष्टं । तदेव षोडशेनापीति । नास्त्यपूर्वदृष्टसत्यदर्शनमिति । न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते । न ह्येकक्षणेनादृष्टेन मार्गान्वयज्ञानक्षांतिलक्षणेन सत्यं तन्मार्गसत्यमडृष्टं भवति । लौकिकं दृष्टांतमाह । यथा नैकलुङ्गेन एकसस्यशलाकया दात्रेणालूनेनाच्छिन्नेन केदारमलूनं भवति । किं तर्हि । लूनमेवेत्यर्थः । तथा हि केचित्प्रमादादलूनेऽपि एकलुंगे वक्तारो भवंति लूनमस्माभिः केदारमिति । फलत्वादिति विस्तरः । फलत्वादित्यदिहेतुभिर्भावनामार्गमेव षोडशक्षणं साधयति । भावनामार्गः षोडशः क्षणः । संस्कृतश्रामण्यफलत्वात् । सकृदागामिफलवत्यावदर्हत्त्वफलवद्वा । तथा भाविताष्टज्ञानषोडसाकारत्वाद्विहीनप्रतिपन्नकमार्गत्वात्प्राबंधिकत्वाच्च । [तिब् । २०८ ] फलांतरवदेव भावनामार्गः । षोडशे हि क्षणेऽष्टौ ज्ञानानि भाव्यंते । दुःखे धर्मज्ञानं दुःखेऽन्वयज्ञानं यावन् (अभिधर्मकोषव्याख्या ५४७) मार्गेऽन्वयज्ञानमिति । आकारा अपि षोडशानित्याद्या भाव्यंते । तद्वदेव च दर्शनमार्गेऽष्टज्ञानषोडशाकारभावना नास्ति । तत्र हि सभागज्ञानाकारभावनैव यथोत्पन्नानि भाव्यंते क्षांतिज्ञानानि दर्शन इति वचनात् । मार्गान्वयज्ञाने च पूर्वमार्गस्य प्रतिपन्नकमार्गस्य विहानिः । न च दर्शनमार्गे पूर्वमार्गविहानिरिति । प्राबंधिकं चेदं मार्गान्वयज्ञानं । न च दर्शनमार्गे क्षांतिर्ज्ञानं वा किंचित्प्राबंधिकमस्तीत्यतोऽपि मार्गान्वयज्ञानं भावनामार्ग इति । इतरः प्रत्यवस्थानं करोति । दर्शनमार्गः षोडशः क्षणः । अवश्यकापरिहाणित्वात् । दुःखधर्मज्ञानक्षांत्यादिवदिति । पूर्वपक्षं वा दूषयति । अनुमानपतितधर्मस्वरूपविपर्ययापक्षालोऽयं पक्ष इति । भावनामार्गत्वेऽपि साध्यमाने तदपरिहाणित्वमनेनानुमानेनापततीति । तदिदमंतर्नीतमभिसमीक्ष्य पुनराह । अपरिहाणिस्त्विति विस्तरः । यस्माद्दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वयज्ञानेनाधारप्रतिपक्षेण [तिब् । २०८ ] संधार्यते । यदि च तस्मात्फलमार्गात्षोडशात्क्षणात्परिहाणिः स्यात्स्रोतआपत्तिफलात्परिहाणिः स्यात् । न च स्रोतआपत्तिफलात्परिहाणिरित्यतो न तस्मात्परिहीयते । इतर आह । अत एवेति । किमयम् । अपरिहाणिहेतुरेवोच्यते । वयमप्येतमर्थमभिदध्महे । किमयमुपलब्धिसममिति चोत्तरमुद्ग्राह्यते । आचार्य आह । अत एव दर्शनमार्ग इति चेत् । यदि मन्यसे यत एव दर्शनहेयप्रहाणसंधारणं मार्गान्वयज्ञानेन । अत एव दर्शनमार्ग इति । तन्न । अतिप्रसंगात् । यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसंधारणमित्यतो दर्शनमार्गः स्यात् । एवं सत्यतिप्रसंगः स्यात् । तस्मान्मार्गान्वयज्ञानात्परेण सर्वेण भावनामार्गेण दर्शनहेयप्रहाणसंधारणमिति सर्व एव दर्शनमार्गः स्यात् । अनिष्टं चैतत् । षोडश एव हि क्षणो दर्शनमार्गो भवधिरिष्यते । न सप्तदशाष्टदश इत्यादिकः क्षणः प्रवाहन्यायेनोत्पद्यते । द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो विशेषमार्गसंगृहीतः । तन्नास्ति । ततोऽपि हि नास्ति परिहाणिः । तदेवं सत्यावश्यकापरिहाणित्वं यो हेतुरुक्तः । सोऽनैकांतिक इति दर्शितं भवति । [तिब् । २०९ ] तदनैकांतिकत्वाच्चाप्रतिसाधनं तत् । न पूर्वपक्षदूषणं चेति । आह । सप्त ज्ञानानि दुःखे धर्मज्ञानं यावन्मार्गे धर्मज्ञानं कस्माद्दुर्शनमार्गो न पुनरष्टमं मार्गेऽन्वयज्ञानम् (अभिधर्मकोषव्याख्या ५४८) इत्यभिप्रायः । दर्शनस्यासमाप्तत्वादिति । मार्गान्वयज्ञानक्षांतौ दर्शनं समाप्तं । सर्वेषां सत्यानां तदानीं दृष्टत्वात् । दुःखे धर्मज्ञान उत्पन्ने यद्यपि कामावचरं दुःखं दृष्टं । रूपारूप्यावचरदुःखादि तु न तावद्दृष्टम् । एवं यावत् । मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद्दृष्ट इति । सावशेषं दर्शनं न समाप्तमिति । तदंतरालत्वादिति । दर्शनमार्गांतरालत्वात् । तयोर्वा द्वयोः क्षांत्योरंतरालत्वात् । तान्यपि सप्त ज्ञानानि दर्शनमार्गः । शेषद्रष्टव्यसाकांक्षत्वात्तस्य योगिन इत्यभिप्रायः । (वि ।३१ द्, ३२) पूर्वं परप्रत्ययेन परोदितेन अर्थानुसरणाद्दुःखादिसत्यप्रतिपत्तेरित्यर्थः । पूर्वमिति विशेषणेन भावनाकाले परोपदेशनिरपेक्षमर्थानुसरणमिति कथितं भवति । एवं धर्मानुसारीति । धर्मैरनुसारो धर्मानुसारः । सोऽस्यास्तीति धर्मानुसारी । धर्मैरनुसर्तुं शीलमस्येति वा । [तिब् । २०९ ] पूर्वं स्वयमेव सूत्रादिभिर्धर्मैर्द्वादशांगैः प्रवचनैरर्थानुसरणात् । पूर्ववद्व्याख्यानं । यावत्पंच प्रकाराः प्रहीणा भवंतीति । यावच्छब्देन यद्येको द्वौ त्रयश्चत्वारः पंच प्रहीणाः प्रकारा भवंति । तथैव प्रथमफलप्रतिपन्नकावुच्येते । यथा सकलबन्धनौ । द्वितीयेऽर्वाङ्नवक्षयाद् इति । द्वितीये इति द्वितीयनिमित्तमित्यर्थः । चर्मणि द्वीपिनं हंतीति यथा । अर्वाङ्नवक्षयात् । नवप्रकारप्रहाणादधरतः नवप्रकारप्रहाणपरिहारेणार्थादुक्तं भवति । यदि तयोः पुद्गलयोस्तस्मात्पंचप्रकारप्रहाणात्परेण षट्सप्तष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति । तौ द्वितीयफलप्रतिपन्नकाविति । द्वितीय इति वचनात् । प्रतिपन्नकाविति चाधिकारादेवं पदार्थव्यवस्था लभ्यते । ऊर्ध्वं चेति प्रथमध्यानवीतरागौ । यावदाकिंचन्यायतनाद्वीतरागौ । (वि ।३३) अर्हत्त्वं तु न शक्यमादितः प्राप्तुमिति । अनागामिफलमप्राप्यादित एवार्हत्त्वं प्राप्तुं न शक्यते । कस्मादित्याह । भावनाहेयप्रहाणात् । न हि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणमस्तीति । यथा दर्शनमार्गस्वभावेषु पंचदशसु क्षणेषु वर्तमानः अदितस्तृतीयफलप्रतिपन्नकाद्[तिब् । २१० ] अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकः स्यात् । षोडशे तु चित्त उत्पन्ने आदितोऽनागामिनोऽर्हन् स्यात् । भावाग्रिकभावनाहेयप्रहाणाद्ध्यर्हत्त्वं प्रतिस्थाप्यते । आह । यदि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीति अतोऽर्हत्त्वमशक्यं (अभिधर्मकोषव्याख्या ५४९) पूर्वमेव । तर्हि पृथग्जनावस्थायामेव भावनामार्गेण भवाग्रवैराग्यात्तत्फलप्रतिपन्नकः । तेषु वर्तमानोऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति । षोडशे तु चित्तक्षण आदितोऽर्हन्निति । अत उच्यते । पूर्वं च भवाग्रवैराग्यसंभवादिति । न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसंभवः । उपरिभूम्यभावात् । तस्मादादितः प्रतिपन्नकोऽर्हंश्च न स्यादिति । श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वादिति । श्रद्धाधिकत्वेनाधिमोक्षप्रभावितत्वाच्छ्रद्धाधिमुक्तः । श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा । न तु तस्य प्रज्ञा नैवास्ति । तया न तु प्रभावित इति । न तन्नाम लभते । प्रज्ञाधिकत्वेन दृष्टिप्रभावितत्वात्दृष्टिप्राप्तः । न तु तस्य श्रद्धा नासीति पूर्ववद्वाच्यं । अपरे तु पुनः । [तिब् । २१० ] नैरुक्तविधिमालंब्य व्याचक्षते । श्रद्धाधिपत्येन दर्शनहेयेभ्यो मुक्तः श्रद्धाधिमुक्तः । दृष्ट्याधिपत्येन प्राप्तफलो प्राप्तफलाः दृष्टिप्राप्त इति । (वि ।३४) यावत्पंचप्रकारघ्नाव् इति उक्तम् । अतः पृच्छति किं पुनः कारणमिति विस्तरः । फलविशिष्टो मार्गो न लभ्यत इति । फलाद्विशिष्टो मार्गः सकृदागामिफलप्रतिपन्नकादिः । प्रथमादिप्रकारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्यर्थः । यावन्न विशेषाय प्रयुज्यत इति । यावन्नाप्रहीणक्लेशप्रहाणाय फलांतरप्राप्तिनिमित्तं प्रयोगं करोति । तावत्प्रतिपन्नको नोच्यते । यदा प्रयुज्यते । तदा प्रतिपन्नक इत्यर्थादुक्तं भवति । तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहाणस्य चानास्रवा प्राप्तिरुत्पद्यत इति सिद्धांतः । एवमन्यत्रापि फले वेदितव्यमिति । षोडशे चित्ते स्रोतआपन्न एवोच्यत इति वचनात् । स्रोतआपन्न उक्त इत्यतोऽन्यत्रापि । सकृदागामिफले अनागामिफले च वेदितव्यं । लौकिकेन मार्गेण प्रहीणाष्टप्रकारोऽपि षोडशे चित्ते सकृदागाम्येवोच्यते । नानागामिफलप्रतिपन्नकः । यस्मात्फले फलविशिष्टस्य मार्गस्य लाभो नास्तीति । एवं कामवीतराग ऊर्ध्वं वा षोडशे चित्ते नार्हत्त्वफलप्रतिपन्नक उच्यते । यस्मात्फले फलविशिष्टस्येति [तिब् । २११ ] पूर्ववत् । यस्तु तृतीयध्यानवीतराग इति विस्तरः । तृतीयध्यानवीतरागः अधरां भूमिं निश्रित्यानागम्यं ध्यानांतरं प्रथमं द्वितीयं वा ध्यानं निश्रित्य नियाममवक्रामतीत्यस्ति संभवः । सोऽवश्यं फलविशिष्टं मार्गं संमुखीकरोति तृतीयध्यानसंगृहीतं वा । यतस्तृतीयध्यानसंगृहीतमनास्रवं सुखेन्द्रियं लभ्यते । अस्ति हि सम्भावना यदसौ फलविशिष्टमार्गं संमुखीकुर्यात् । यस्मादस्य तृतीयध्यानभूमिकः क्लेशः प्रहीण इति । तेन सोऽवश्यं फलविशिष्टं मार्गं (अभिधर्मकोषव्याख्या ५५०) संमुखीकरोतीति नियम्यते । अन्यथा हि यदि न संमुखीकरोतीत्यर्थः । स तस्मादूर्ध्वोपपन्नः । स आर्यः । तस्मात्तृतीयध्यानादूर्ध्वं चतुर्थे ध्याने आरूप्येषु वा सुखेन्द्रियेणासमन्वागतः स्यात् । यद्धि सास्रवं सुखेन्द्रियं । तद्भूमिसंचारात्त्यक्तं । यदपि चानास्रवं । तदपि । यदि न संमुखीकृतं स्यादुभयेनापि सुखेन्द्रियेनासमन्वागतः स्यादार्याणां चोर्ध्वोपपन्नानामवश्यं सुखेन्द्रियेणासमन्वागम उक्तः । सुखेन्द्रियेण चतुर्थध्यानारूप्योपन्नः पृथग्जनो न समन्वागतः । आर्यस्तु समन्वागत इति वचनात् । यश्चापि सौमनस्येन्द्रियेण समन्वागतः । सोऽवश्यं पंचभिरुपेक्षाजीवितमनःसुखसौमनस्येन्द्रियैरित्येवमादिवचनाच्च । [तिब् । २११ ] अत्र ब्रूमः । अस्त्येष विभाषायां लिखितपक्षः । स तु न स्थापनापक्षो लक्ष्यते । अपर आहुरिति वचनात् । यो हि चतुर्थध्यानलाभी षण्णां भूमीनामन्यतमां भूमिं निश्रित्य नियाममवक्रामति । स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन यावच्चतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति । तथा वीतरागत्वात् । यस्तृतीयध्यानलाभी । स पंचभूमिकेन । चतुर्थध्यानभूमिकं हित्वा । एवं यो द्वितीयध्यानलाभी । स चतुर्भूमिकेन । तृतीयचतुर्थभूमिके हित्वा । यस्तु वीतरागः प्रथमध्यानलाभी वा द्वितीयालाभी । स यद्यनागामिफलं प्राप्नोति । त्रिभूमिकेनासावनागामिफलेन समन्वागतः । अनागम्यध्यानांतरप्रथमध्यानभूमिकेन । सर्वजघन्योऽपि ह्यनागाम्यवश्यमेव त्रिभूमिकेनानागामिफलेन समन्वागत इति वर्णयंति । तस्मादपरपक्षापेक्षयैवम् उक्तमाचार्येणेति युक्तं स्यात् । (वि ।३५ ब्) एवं तावद्भूयःकामवीतरागाणामिति । भूयोवीतरागाणां । कामवीतरागाणां च । तत्र भूयोवीतरागो यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति । यस्य [तिब् । २१२ ] नव प्रकाराः प्रहीणाः । स कामवीतरागः । भूयोवीतरागाणां पुद्गलव्यवस्था द्वितीयेऽर्वाङ्नवक्षयाद् इति वचनात् । कामवीतरागाणां कामाद्विरक्तादूर्ध्वं चेति वचनात् । यथैते कामधाताविति । यावत्पंचप्रकारघ्नौ । द्वितीयेऽर्वाङ्नवक्षयात् । कामाद्विरक्ताव् इति वचनात् । कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः । चेलादिति वस्त्रात् । एष दृष्टांतयोग इति । द्र्स्तांतयुक्तिर्दृष्टांतयोगो दृष्टांतप्रकार इत्यपरे । (अभिधर्मकोषव्याख्या ५५१) तदेवमनया युक्त्यानेन वा प्रकारेणान्योऽपि दृष्टांतो वक्तव्य इति सूचयति । अन्यथा ह्येष दृष्टांत इत्येव ब्रूयात् । अनादिसंसार इति । अनादौ संसारे । स्वहेतुपरंपरया ध्यापिता अभिवर्धितास्ततश्चाधिमात्रप्रमाणमेतेषामित्यभिप्रायः । तेषां क्लेशानामुन्मूलनात्प्राप्तिच्छेदतः । मूलसधर्मिण्यो हि प्राप्तयस्तत्प्रबंधत्वात्क्लेशानां तृवृत्कर्षनिष्कर्षणवदिति । यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्तादीनां दोषाणां निष्कर्षणं । एवं क्षाणिकमृदुकेनाप्यार्यमार्गेण क्लेशानां । यथा च क्षणिकेनाल्पेन प्रदीपेन [तिब् । २१२ ] महतस्तमसो घातः । तद्वत्क्लेशानामिति । (वि ।३५ द्) सप्तकृत्वः परमं जन्मास्येति । सप्तकृत्वो जन्मप्रकर्षणास्य । नातः परमित्यर्थः । तेन मार्गेण निर्वाणगमनादित्यर्थः । स्रोतसा हि लोके गम्यते । आद्यमार्गलाभाच्चेत् । आद्योऽनास्रवो मार्गो दर्शनमार्गस्तस्य लाभाच्चेत्स्रोतआपन्नः । अष्टमकोऽपि स्यात् । स्रोतआपत्तिफलप्रतिपन्नकोऽपि स्यादित्यर्थः । तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानामर्हत्प्रतिपन्नकादीनां स्रोतआपत्तिफलप्रतिपन्नोऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी वा तस्याप्याद्यमार्गलाभात्सोऽपि स्रोतआपन्नः स्यात् । आद्यफललाभाच्चेत् । अथ मतमपूर्वफलस्य लाभात्स्रोतआपन्न इति । भूयोवीतरागोऽपि स्यात् । यः प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी । सोऽपि स्रोतआपन्नः स्यात् । तस्याप्यपूर्वफललाभात् । एवं कामवीतरागोऽपि स्यात् । तस्यापि तदाद्यं फलमिति । इदानीं परिहार [तिब् । २१३ ] उच्यते । सर्वफलप्रापिणमधिकृत्याद्यफललाभादिति । सर्वफलमिति । स्रोतआपत्तिफलादीनि चत्वारि । तत्प्राप्तुं शीलमस्येति सर्वफलप्रापी । सर्वफलप्राप्ति अस्यासीति वा सर्वफलप्रापी । तमधिकृत्य तमभिसंधायाद्यफललाभादपूर्वफललाभात्स्रोतआपन्न उच्यते । किं पुनः कारणमिति विस्तरः । कस्मात्स एव स्रोतआपन्न उच्यते । नाष्टमकः स चापि ह्यार्यमार्गस्रोतआपन्न इति । प्रतिपन्नकफलमार्गलाभादिति विस्तरः । यस्मात्तेन सर्वफलप्रापिणा प्रतिपन्नकमार्गः पंचदशक्षणस्वभावः । भावनामार्गश्च षोडशक्षणो लब्धः । अष्टमकेन तु प्रतिपन्नकः मार्ग एव लब्ध इति । इतश्च दर्शनभावनामार्गलाभात् । यस्माच्च तेन दर्शनमार्गश्च स एव भावनामार्गश्च स एव लब्धः । अष्टमकेन तु दर्शनमार्ग एवेति । सकलस्रोतोऽभिसमयाच्च मार्गान्वयज्ञाने । यस्माच्चानेन सकलं स्रोतोऽभिसमितं मार्गान्वयज्ञानक्षांतिक्षणस्यापि दर्शनान्न त्वष्टमकेन । तस्माद्(अभिधर्मकोषव्याख्या ५५२) एभिः कारणैः सर्वफलप्राप्येव स्रोतआपन्न इत्युच्यते नाष्टमकः । प्रकर्षगतेर्हि तथा वचनं । तद्यथा लोके यः प्रकर्षेण भासं करोति । स भास्कर उच्यते । न खद्योतकः । [तिब् । २१३ ] तद्वत् । तस्मादन्यानिति । तस्मात्सांप्रतिकाद्भवादन्यान् । सप्तस्थानकौशलसप्तपर्णवदिति । यथा सप्तकसामान्यात्सप्तस्थानकुशलो भिक्षुरुक्तः सूत्रे । कथं । विस्तरमुक्त्वाह । कथं च भिक्षवो भिक्षुः सप्तस्थानकुशलो भवति । रूपं यथाभूतं प्रजानाति । रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादमादीनवं निःसरणं यथाभूतं प्रजानाति । एवं वेदनां संज्ञां संस्कारान् विज्ञानं यथाभूतं प्रजानाति । विज्ञानसमुदयं विस्तरेण यावन्निःसरणं यथाभूतं प्रजानातीति । एवमनेन न्यायेन पंचसप्तकानि पंचत्रिंशदिति । पंचत्रिंशत्कुशलः प्राप्नोति । सप्तपर्णवच्च । यथा च पत्त्रिकायां पत्त्रिकायां सप्तपर्णसादृश्यादनेकशतपत्त्रोऽपि सन् स वृक्षः सप्तपर्ण इत्युच्यते । तद्वत् । प्रथमो दृष्टांतः प्रवचने सिद्धः । द्वितीयो लोक इति दृष्टांतद्वयोपन्यासे प्रयोजनम् । यदि सप्तकसामान्यात्सप्तकृत्वः परम इति व्याख्यायते । यत्तर्हि सूत्र उक्तं । तद्विरुध्यत इत्यतोऽपव्याख्यानमेतदित्यभिप्रायः । एकस्यां गतावष्टमं भवं नाभिनिर्वर्तयतीत्यविरोधः । यथारुतं वा कल्प्यमान इति । सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य संधाव्य [तिब् । २१४ ] दुःखस्यांतं करोतीति देवमनुष्यवचनादंतराभवोऽपि न स्यात् । इष्यते च देवमनुष्यगत्योः सप्तभवाभिनिर्वर्तनम् । अंतराभवास्तु न गण्यांत इति । यदि अंतराभवैः सह सप्तभवा गण्येरन् जन्मचतुष्टयमेवास्य स्यात् । तदेवानेनानिष्टापत्तिवचनेन तदात्मीयं व्याख्यानमेकस्यां गताविति समर्थयति । इतर आह । एवमप्यूर्ध्वंस्रोतस इति विस्तरः । यद्येकस्यां गतावष्टमं भवं नाभिनिर्वर्तयतीति व्याख्यापयसि । कथं तर्हि ऊर्ध्वस्रोतसोऽष्टमभवाभिनिर्वृत्तिरेकस्यां गतौ भवति । भवाग्रपरमस्येति विशेषणं किमर्थम् । अकनिष्ठपरमस्यापि अष्टमभवाभिनिर्वृत्तिः संभवति । स प्लुतोऽर्धप्लुतः सर्वश्च्युतश्चान्यो भवाग्रग इति वचनात् । स चापि वक्तव्यः । भवप्रकर्षविवक्षायां तु भवाग्रपरमग्रहणमित्यभिप्रायं लक्षयामः । कामधात्वभिसंधिवचनादिति । कामधातौ चैका गतिर्मनुष्यगतिः । देवगतिर्वा । तस्यामष्टमभवं नाभिनिर्वर्तयति । न तु रूपारूप्यधात्वोरिति । किमत्र ज्ञापकं । सूत्रं युक्तिर्वा । कामधातुमधिकृत्येदमुक्तमिति । [तिब् । २१४ ] सूत्रमागमः । (अभिधर्मकोषव्याख्या ५५३) युक्तिरत्रानुमानं । येन चोदकेनैवं चोदितं किमत्र ज्ञापकं सूत्रं युक्तिर्वेति । स एव पुनराह । इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु इति विस्तरः । प्रत्येकं देवमन्युष्येषु सप्तकृत्वः संसृत्येति । न पुनरुभयेष्वेव देवमनुष्येषु सप्तकृत्व इति । तदुक्तं भवति । यो मनुष्येषु दृष्टसत्यः । स देवेषु त्रिष्कृत्वः संसृत्य मनुष्येषु च त्रिष्कृत्व एव ततो देवानागम्य परिनिर्वातीति । यो वा देवेषु दृष्टसत्यः । स तथैव । स मनुष्येषु त्रिष्कृत्वो देवेषु च त्रिष्कृत्व एव संसृत्य ततो मनुष्यानागम्य परिनिर्वातीति । एवं हि पठ्यते सप्तकृत्वो देवांश्च मनुष्यांश्चेति । सामान्यरूपेण हि पठ्यते । न प्रत्येकमिति विशिष्य पठ्यत इत्यर्थः । एवं वैभाषिकपक्षे संशयावस्थे कृते आचार्यः समर्थयन्नाह । प्रत्येकमपि तु काश्यपीया इति विस्तरः । काश्यपीया निकायांतरीयाः । त एवं पठन्ति । सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानिति । एवं प्रत्येकमर्थो लभ्यते । तदनेनोभयमपि परिहृतं भवति । यदुक्तं किमत्र ज्ञापकं सूत्रं युक्तिर्वा कामधातुमधिकृत्येदमुक्तमिति । यच्चोक्तमिह चैव किं ज्ञापकं । प्रत्येकं देवमनुष्येषु सप्तकृत्व इति । [तिब् । २१५ ] प्रत्येकमर्थपरिग्रहेणैव हि कामधात्वभिसंधिरपि सूचितो भवति । न हि रूपारूप्यधात्वोः सप्तकृत्वो देवमनुष्येषु संसरणं युज्यते । तत्रोपपन्नानामनागामिनां मनुष्यानागमनात् । युक्तिरप्यत एव गम्यते । यत्रैव सप्तकृत्वोभवपरम उक्तः । तत्रैव भूमावष्टमभवप्रतिषेध उपपद्यते नान्यत्रेति । नात्राभिनिवेष्टव्यमिति । इह चैव किं ज्ञापकमिति । तज्जातीय इति । तत्प्रकारः । येन तावता कालेनावश्यं संततिपरिपाकान्नाष्टमं भवमभिनिर्वर्तयति । सप्तपदाशीर्विषदष्टवत् । सप्तपदाशीर्विषेण तेन दष्टो यथा सप्तपदानि गत्वा म्रियते । न परेण नार्वाक् । विषजातिः सा तादृशी । चातुर्थकज्वरवच्च । यथा चातुर्थको ज्वरश्चतुर्थ एवाहनि भवति । न परेण नार्वाक् । रोगजातिः सा तादृशी । तद्वत् । द्वे अवरभागीये इति । कामच्छन्दव्यापादौ । कामावीतरागत्वादेतौ भवतः । पंचोर्ध्वभागीयानीति । द्वौ रागौ रूप्यरूपिजौ औद्धत्यमानमोहाश्चेति । यतोऽर्वाण्निर्वाणं च न प्राप्नोति । न चाष्टमं भवमभिनिर्वर्तयतीति । [तिब् । २१५ ] सप्तसंयोजनावशेषत्वादित्यहेतुरेष इत्याचार्यसंघभद्रः । न ह्यूर्ध्वभागीयानि कामधातौ जन्माभिनिर्वर्तयितुं समर्थान्यूर्ध्वभूमिकत्वादिति । एतद्धेतुवादिनः पुनराहुः । यद्यपि तान्यूर्ध्वभूमिकानि । तत्प्राप्तिसामर्थ्यात्तु तावतां भवानामभिनिर्वृत्तिर्भवति । (अभिधर्मकोषव्याख्या ५५४) न हि तानि ऊर्ध्वमपि विपाकहेतुत्वेन व्यवस्थाप्यंते । अव्याकृतत्वादिति । अंतरेणेत्यंतरार्वागित्यर्थः । धर्मताप्रतिलंभिकमिति । अशैक्षमार्गसामर्थ्यप्रतिलंभिकमित्यर्थः । स हि तस्य स्वभावो यद्भिक्षुलिंगेन योजयतीति । अविनिपातधर्मेति । सूत्रे पठ्यते । स्रोतआपन्नो भवन्नविनिपातकधर्मा नियतं संबोधिपरायणः सप्तकृत्वःपरमः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यांतं करोतीति । कस्मादेवं भवतीत्याह । तद्गामिककर्मानुपचयादिति । विनिपातोऽपायो नरकादिः । तं गच्छतीति तद्गामि । तद्गाम्येव तद्गामिकं । किं । कर्म । तस्यानागतस्यानुपचयादार्यावस्थायां । उपचितविपाकदानवैगुण्याच्च संततेः । पृथग्जनावस्थायामुपचितस्यानियतवेदनीयस्य तद्गामिकस्य कर्मणो विपाकदानवैगुण्यात्संततेः । अविनिपातधर्मा भवतीत्युच्यते । [तिब् । २१६ ] ईदृशी तस्य स्कंधसंततिः परावृत्ता । यदसौ तद्गामिकस्य कर्मण उपचितस्य विपाकदानवैगुण्येनावस्थितेति । कस्मात्पुनः सा स्कंधसंततिरुपचिततद्गामिककर्मविपाकदानवैगुण्येनावस्थितेति । तत उच्यते । बलवत्कुशलमूलाधिवासनादिति । यस्मादसौ स्कंधसंततिर्बबवद्भिः । कुशलमूलैरधिवासिता परिभाविता । कथं च पुनर्बलवत्कुशलमूलाधिवासिता । प्रयोगाशयशुद्धितः । प्रयोगशुद्धित आशयशुद्धितश्च । तत्र प्रयोगशुद्धिरार्यकांतानि शीलानि । आशयशुद्धिर्बुद्धादिष्ववेत्यप्रसाद इति । क्षांतिमपि नोत्पादयेदिति । क्षमणमपि नोत्पादयेत् । चित्तमपि नोत्पादयेत् । प्रागेव प्रयोगमित्यभिप्रायः । अथ वा । अपायनियते तु कर्मणि सत्यसौ पुद्गलः क्षांतिमपि निर्वेधभागीयलक्षणां नोत्पादयति । किमंगानास्रवं मार्गमिति । यथा बलवत्कुशलमूलाधिवासिता उपचिताकुशलविपाकदानविगुणा भवति । तच्छ्लोकेनोपदर्शयति । कृत्वाबुधोऽल्पमपीति सर्वम् । अबुधोऽल्पमपि पापं कृत्वा अधः प्रयात्य् अपायं । बुधः पुनर् (अभिधर्मकोषव्याख्या ५५५) महदपि पापं कृत्वा प्रजहात्यनर्थम् अपायं । तदर्थद्वयं यथाक्रमं [तिब् । २१६ ] दृष्टांतद्वयेन साधयति । लोहमल्पमपि संहतं पिण्डरूपावस्थितम् उदके मज्जत्य् असंस्कृतत्वात् । तदेव पुनर्लोहं पात्रीकृतं सन् महज् जातमुदके प्लवते तरति । तदभिसंस्कारगुणात् । एवमबुधो गुणैरपात्रीकृतत्वान्मज्जति । न तु बुधो गुणैः पात्रीकृतत्वादिति । यस्मात्परेण दुःखं नास्तीति । यस्माद्दुःखात्परेण दुःखं नास्ति भवांतरसंगृहीतं । स दुःखस्यांतो दुःखावसानमित्यर्थः । अन्यथा हि मरणकाले दुःखस्यांतो भवति । सप्रतिसंधिकं तु तद्दुःखम् । अत आह । अप्रतिसंधिकं दुःखं करोतीत्यर्थ इति । कथं निर्वाणं करोतीति । नित्यत्वात्करणं न युज्यत इत्यभिप्रायः । तत्प्राप्तिविबंधापनयनादिति । निर्वाणप्राप्तिविबंधापनयनात् । तत्प्राप्तेर्विबंधः क्लेशप्राप्तिरुपधिर्वा तदपनयनान्निर्वाणं करोति । तद्यथाकाशं मण्डपावस्थाने न लक्ष्यते । सति तस्य विबंधे । तदपनयनान्नित्यमप्याकाशं करोतीत्युच्यते । तेनाह । यथाकाशं कुरु मण्डपं पातयेति भवंति वक्तार इति । अन्योऽपि वेति पृथग्जनः परिपक्वसंतानः न तु नियत इति । कदाचिदिहैव परिनिर्वायातंतराभवेषु चेत्यतो नोच्यते । (वि ।३६) द्वित्रिजन्मेति । द्वे वा त्रीणि वा जन्मान्यस्येति [तिब् । २१७ ] द्वित्रिजन्मा । केचिदेवं पठंति । द्वित्रजन्मेति । द्वे वा त्रीणि वा द्वित्राणि । संख्ययाव्ययासन्नादूराधिकसंख्याः (अभिधर्मकोषव्याख्या ५५६) संख्येय इति समासः । बहुव्रीहौ संख्येये डजिति समासांतः । द्वित्रान्यजन्मान्यस्येति द्वित्रजन्मेति । श्लोके तु द्वयोर्ग्रहणमिति । क्लेशप्रहाणजन्मनोः । कस्मादित्याह । स्रोतआपन्नस्यानुपूर्विकस्य दर्शनप्रहातव्येषु प्रहीणेषु भावनाप्रहातव्यानां क्लेशानामेकस्य प्रकारस्य यावच्चतुर्णां पश्चात्प्रहाणे सति । तत्प्रतिपक्षस्यैकद्वित्र्यादिक्लेशप्रकारप्रतिपक्षस्यानास्रवस्येन्द्रिगस्य लाभस्तस्यानुक्तसिद्धत्वात्श्लोकेन तस्याग्रहणं । न हि विना प्रतिपक्षेण क्लेशप्रकारप्रहाणमस्ति । लौकिकेनापि हि मार्गेण तस्यार्यस्य क्लेशप्रकारप्रहाणेऽनास्रवस्य तत्प्रतिपक्षस्येन्द्रियस्य लाभो भवति । जन्म तु कदाचिदल्पीयः स्यात् । यदीहैव परिनिर्वायातंतराभवे उपपद्य वा । किं कारणं । परेण भव्यत्वात् । स्रोतआपत्तिफलात्परेण सकृदागामित्वस्य यावदर्हत्त्वस्य भव्यत्वात् । अतोऽस्य जन्मनो ग्रहणं । द्वित्रिजन्मा कुलंकुल इति । नियमार्थमिदमिह विचार्यते । य एकद्विविधमुक्तः । स किं भवति । कुलंकुल इत्येके । त्रिचतुर्विधमुक्त- ग्रहणं तु उदाहरणार्थः । परिमाणार्थं वा नातः परेणेति । एकद्विविधमुक्तः पंचषट्जन्मेत्यपरे । [तिब् । २१७ ] त्रिचतुर्विधमुक्त इति विशेषपरिग्रहात् । नैतद्व्याख्यानकारैर्विचारितमिति विचार्यमेतत् । कस्मान्न पंचप्रकारप्रहाणात् । किं । कुलंकुलो भवतीत्यधिकारः । तत्प्रहाण इति विस्तरः । पंचप्रकारप्रहाणे षष्ठयापि प्रकारस्यावश्यं प्रहाणात् । कस्मादित्याह । न हि तस्यैकः प्रकारः षष्ठः फलं सकृदागामिफलं विघ्नयितुं समर्थ इति । एकवीचिकस्येवेति । विपरीतदृष्टांत एषः । यथैकवीचिकस्यैकः प्रकारो नवमोऽनागामिफलं विघ्नयितुं समर्थः । नैवमस्य स्रोतआपन्नस्य षष्ठः प्रकारः सकृदागामिफलं विघ्नयितुं समर्थ इति । कस्मादित्याह । धात्वनतिक्रमादिति । एकवीचिको हि कामधातुमतिक्रामति । अतोऽस्यैकोऽपि प्रकारो नवमः फलं विघ्नयितुं समर्थो धात्वतिक्रमस्य दुष्करत्वात् । सकृदागामी तु धातुं नातिक्रामतीति । न तस्यैकः क्लेशः प्रकारः षष्ठः फलं विघ्नयितुं समर्थ इति । तत्र वान्यत्र वा देवनिकाय इति । तद्यथा त्रायस्त्रिंशेषु सत्यानि दृष्ट्वा द्वे त्रीणि वा कुलानि संसृत्य । तत्रैव त्रायस्त्रिंशेषु परिनिर्वाति । अन्यत्र वा । (अभिधर्मकोषव्याख्या ५५७) चातुर्महाराजकायिकेषु यामेषु वा परिनिर्वाति । एवमन्यत्रापि योज्यं । रागद्वेषमोहानां तनुत्वादित्युच्यत इति सूत्रे । कथं । त्रयाणां सम्योजनानां [तिब् । २१८ ] प्रहाणात्रागद्वेषमोहानां च तनुत्वात्सकृदागामीभवतीति । मृदुप्रकारावशेषत्वादिति । मृद्वधिमात्रो मृदुमध्यो मृदुमृदुरित्येतन्मात्रावशेषत्वात् । (वि ।३७) क्षीणसप्ताष्टदोषांश इति । दोषांशो दोषावयवः सप्ताष्टप्रकारलक्षणः । इन्द्रियत इति चात्र तृतीयं कारणं न सूत्रितं तथैव व्याख्येयं । कथमस्येति विस्तरः । कथमस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थो न हि कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति । उच्यते । धात्वतिक्रमात् । यस्मादसौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रांतो भवति । न पुनस्तत्रोपपद्यते । स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्यतस्तद्विपाकनिष्यन्दफलभूम्यतिक्रमात्फलं विघ्नयितुं समर्थो भवति । अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठंत इत्युक्तं प्राक् । क्षांत्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृद् इति । इह तु क्लेशेषु योजयितव्यं । अत एवाह । यथा कर्माणि । एवं क्लेशा इत्यादि । तस्यवैकजन्मव्यवहितत्वादिति । तस्य क्षीणसप्ताष्टप्रकारस्य सकृदागामिनः । एकेन जन्मना वावहितत्वान्निर्वाणस्य । एकेन वा क्लेशप्रकारेण व्यवहितमस्यानागामिफलमित्य्[तिब् । २१८ ] एकवीचिकः । न तावत्कुलंकुलो भवत्येकवीचिको वेति । लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तोऽपि न तावत्कुलंकुलो भवति । क्षीणसप्ताष्टप्रकारोऽपि न तावदेकवीचिको भवति । तत्प्रतिपक्षानास्रवेन्द्रियलाभस्याभावात् । अत एवाह । यावत्फलविशिष्टो मार्गो न संमुखीकृत इति । फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा संमुखीकृते तदानास्रवेन्द्रियलाभात् । कुलंकुलो भवत्येकवीचिको वेत्यर्थादुक्तं भवति । पंचानामिति विस्तरः । पंचानामवरभागीयानां संयोजनानां प्रहाणातनागामीत्युच्यते सूत्रे । प्रहाणसंकलनात् । सत्कायदृष्ट्यादीनां प्रहाणैकत्वव्यवस्थापनात्द्वे त्रीणि वा पूर्वं प्रहीणानीति । यदि तावत्कामवीतरागो नियाममवक्रामति । द्वे पूर्वं प्रहीणे लौकिकेन मार्गेण । कामच्छन्दो व्यापादश्च । सत्कायदृष्ट्यादीनामपर्यादाय प्रहाणात् । अथानुपूर्विकः । त्रीणि पूर्वं प्रहीणानि । केन । दर्शनमार्गेण सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च । तस्मात्साकल्येन पंचानां प्रहाणादित्युच्यते । (अभिधर्मकोषव्याख्या ५५८) (वि ।३८, ३९) सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिर् इति । सोऽनागामी । अंतरा उत्पन्ने संस्कारेणासंस्कारेण [तिब् । २१९ ] परिनिर्वृतिरस्येति अंतरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः । यत्तूक्तमेवमुत्पन्नस्येति । तन्न बुध्यामहे । कथमुत्पन्नस्यानागामिनः परिनिर्वृतिरस्येति बहुव्रीहिः समासो भवति । अन्यपदार्थे हि बहुव्रीहिरुच्यते । न स्वपदार्थे । तेनैवमिह पाठं पश्यामः एवमुत्पन्नेऽस्येति । लेखकेनैकारोऽत्र विनाशित इति । तथापाठे ह्ययमर्थः संभवति । उत्पन्ने जन्मनि परिनिर्वृतिरस्येति उत्पन्नपरिनिर्वृतिः । अथैवमेव पाठः स्यात् । एवं व्याख्यायेत । अनादरे षष्ठी । तयैवं समासः क्रियेत । उत्पन्नस्य जन्मनः परिनिर्वृतिरस्यानागामिन इत्युत्पन्नपरिनिर्वृतिरनागामीति । अथ वा उत्पन्नस्येत्युत्पन्नजातिरुच्यते । उत्पन्नानामिति योऽर्थः । सोऽर्थ उत्पन्नस्येति । तेनोत्पन्नानां या परिनिर्व्र्टिः । सा अस्येत्युत्पन्नपरिनिर्वृतिः । अथ परिनिर्वृत्यर्थादेव केवलादनागाम्यर्थस्यान्यत्वात् । पूर्वपदार्थानन्यत्वेऽप्यनागामिसमानाधिकरणस्योत्पन्नशब्दस्य परिनिर्वृतिशब्देन सह बहुव्रीहिः समास इतीच्छेयुः । सुभणितमेतत्स्यात् । स एवानागामी पुनः पंचधा भवतीति । अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वंस्रोताश्चेति निगमयति । अभियुक्तवाहिमार्गत्वादिति । अभियुक्तो वीर्यवानारब्धवीर्य इत्यर्थः । वाही मार्गो अस्येति वाहिमार्गः । कथं मार्गो वाही । विनाभिसंस्कारेण संमुखीभावात् । अभियुक्तश्चासौ वाहिमार्गश्चाभियुक्तवाहिमार्गः । तद्भावः । तस्मात् । उत्पन्नमात्रो नचिरात्परिनिर्वाति । सोपधिशेषेण निर्वाणेनेति । निर्वाणद्वैविध्याद्विशिनष्टि सोपधिशेषनिर्वाणेन परिनिर्वाति । सर्वास्रवक्षयं करतीत्यर्थः । सोऽपि निरुपधिशेषनिर्वाणेनेति । न केवलमंतरापरिनिर्वायी निरुपधिशेषपरिनिर्वाणेन परिनिर्वात्यर्हत्त्वं प्राप्यायुरपरिसमाप्य । उपपद्यपरिनिर्वाय्य्[तिब् । २१९ ] अपि तत्सदृश इत्यपरे । न । आयुरुत्सर्गावशित्वात् । नैतदेवं सोऽपि निरुपधिशेषपरिनिर्वाणेनेति । कस्मात् । आयुरुत्सर्गावशित्वात् । आयुष उत्सर्गे तस्यावशित्वात् । कस्मात्पुनरस्यात्रावशित्वं । यत्प्रांतकोटिकचतुर्थध्यानलाभिन आयुरुत्सर्गवशित्वं । तच्च प्रांतकोटिकं ध्यानं मनुष्येष्वेव त्रिषु द्वीपेषूत्पाद्यते । स च रूपधातूपपन्न इति । किमंतरापरिनिर्वायिणोऽस्त्यायुरुत्सर्गवशित्वं । यत एवमसौ निरुपधिशेषपरिनिर्वाणेन परिनिर्वाति । तस्यापि वशित्वं नास्ति । अंतराभवावस्थानाय (अभिधर्मकोषव्याख्या ५५९) तु तादृशं कर्म नास्ति । यादृशमुपपद्यपरिनिर्वायिण इति । अतोऽंतरापरिनिर्वायी शीघ्रं परिनिर्वाति । उपपद्यपरिनिर्वायी तु यावदायुः स्थित्वा परिनिर्वातीत्युपपद्यपरिनिर्वाय्येव सोपधिशेषनिर्वाणेन परिनिर्वातीत्युच्यते । साभिसंस्कारपरिनिर्वायी किलेति । किलेति किलशब्दो वैभाषिकमतद्योतकः । स्वमतं हि सूत्रानुसारेण पश्चाद्वक्ष्यते । अप्रतिप्रस्रब्धप्रयोग इति । पूर्वप्रयोगावेधेनानिराकृतप्रयोग इत्यर्थः । साभिसंस्कारं सप्रयत्नं । अभियुक्तावाहिमार्गत्वादिति । अभियुक्तत्वातवाहिमार्गत्वाच्च तस्य योगिनः । [तिब् । २२० ] अत एवासौ साभिसंस्कारपरिनिर्वायी सिध्यति । अनभिसंस्कारेणेति । पूर्वविपर्ययेण । प्रयोगस्य प्रतिप्रस्रब्धत्वात् । अभियोगवाहिमार्गाभावादिति । अभियोगस्य वीर्यस्याभावात् । वाहिमार्गस्य चाभावादित्यर्थः । तदेवमभियोगादिनानात्वात्परिनिर्वाणविशेष उक्तो भवति । उपपद्यपरिनिर्वायिणो ह्युभयमस्ति । अभिगोगश्च वाही च मार्ग इति । साभिसंस्कारपरिनिर्वायिणोऽभ्ज्योगोऽस्ति । न त्वस्य वाही मार्गः । अनभिसंस्कारपरिनिर्वायिणस्तूभयमपि नास्ति । नाभियोगो न च वाही मार्ग इति । संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणादिति । संस्कृतं संस्कार इत्येकोऽर्थः । एवमसंस्कृतमसंस्कार इति । संस्कारालंबनेन मार्गेण दुःखसमुदयमार्गालंबनेन मार्गेण यः क्लेशान् प्रजहाति । स साभिसंस्कारपरिनिर्वायी । योऽसंस्कारालंबनेन निरोधालंबनेन । सोऽनभिसंस्कारपरिनिर्वायीति । तत्तु न । अतिप्रसंगाद्[तिब् । २२० ] इति । तत्तु नैवं । कस्मात् । अतिप्रसंगात् । अंतरोपपद्यपरिनिर्वायिणोरपि संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणात्प्रत्येकं साभिसंस्कारानभिसंस्कारपरिनिर्वायित्वप्रसंगः । तत्रस्थौ द्वावेव पुद्गलौ स्यातां । न पंचेति । अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति । साभिसंस्कारपरिनिर्वायिणः पूर्वमयं पठ्यते । अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायीति । तथैव युज्यत इति विस्तरः । अनभिसंस्कारसाभिसंस्कारपरिनिर्वायिणोर्यथाक्रमं । वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात्पूर्वस्याभिसंस्कारसाध्यत्वाच्चेतरस्य । कथं तथा साध्यत्वमित्याह । अयत्नयत्नप्राप्तितस्तत्परिनिर्वाणस्य यथाक्रममित्येव । अथ वाह्यवाहिमार्गयोरिति । मार्गयोरेव ग्रहणं न पुद्गलयोरभिसंबंधः । वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वादवाहिनश्चाभिसंस्कारसाध्यत्वात् । अयत्नयत्नप्राप्तितः । अयत्नसंमुखीभावतः पूर्वमार्गस्य । यत्नप्राप्तित इतरस्येति । [तिब् । २२१ ] तदेवमनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते । आह । यद्यनभिसंस्कारपरिनिर्वायिणो वाही (अभिधर्मकोषव्याख्या ५६०) मार्गोऽनभिसंस्कारशाध्यत्वातुपपद्यपरिनिर्वायिणोऽपि वाही मार्ग इति । कस्तयोर्विशेष इति । अत उच्यते । उपपद्यपरिनिर्वायिणस्तु मार्गो वाहितरो जिततरः । नानभिसंस्कारपरिनिर्वायिण एवमधिमात्रतरो हेतूपचयतः । मृदुतराश्चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात् । ऊर्ध्वस्रोता इति । ऊर्ध्वस्रोतो गतिरस्येति ऊर्ध्वस्रोताः । यत्र ऊर्ध्वमिति पठ्यते । ऊर्ध्वं दमाच्च देहाच्चेति । ऊर्ध्वंदमिकः ऊर्ध्वंदेहिक इति । तत्प्रत्ययसंनियोगेनोर्ध्वशब्दस्य मांततोऽपि निपात्यत इति वेदितव्यं । यथा चिरशब्दस्य चिरंतनमित्यूर्ध्वमिति निपातोऽस्तीत्यपरे । अकारांतोऽपि तूर्ध्वशब्दोऽस्त्येवेति न वार्यते । व्यवकीर्णाव्यवकीर्णध्यानत्वादिति । मिश्रितामिश्रितध्यानत्वादित्यर्थः । अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात् । इह ध्यानानि व्यवकीर्य ध्यानत्रयात्परिहीयत इति । ध्यानव्यवकिरणं चतुर्थध्यानव्यवकिरणपूर्वकम् । आकीर्यते चतुर्थं प्राग् इति वचनात् । चतुर्थमेव हि ध्यानमादितो व्यवकिरणे समर्थं । नान्यत् । चतुर्थाच्च ध्यानादपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर्नास्तीत्यत उच्यते । ध्यानत्रयात्[तिब् । २२१ ] परिहीण इति । कथं च परिहीण इत्याह । प्रथमं ध्यानमास्वाद्येति । मध्यानिमज्जनात्मध्येऽनिमज्जनात् । अर्धप्लुतो नामेति विस्तरः । य एकमपि स्थानांतरं विलंघ्य शुद्धावासेषूपपद्याकनिष्ठान् प्रविशतीत्येवं वाक्याभिसंबंधः । दृष्टिस्थानत्वादिति । महाब्रह्मणां प्रथमोपपन्नानां च महाबह्मणि निर्मायकाभिमानतः । एकमायकत्वाच्चेति । किं । महाब्रह्मस्वार्यो नोपपद्यते । आर्यस्य हि प्रभाववतस्तत्रोत्पादे सत्युभयनायकत्वं स्यात् । निःसपत्नेन च कर्मणा तत्राधिपतिम् । अतः ससपत्नं न भवतीति । सर्वाणि स्थानांतराणीति । ब्रह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितादीनि सुदर्शनान्तानि चतुर्दशस्थानांतराणि संचर्याकनिष्ठान् प्रविशति । यत्रोपपन्नस्ततस्तत्र चात्यंतमनागमनादिति । यत्रोपपन्नस्तद्यथा । प्रथमध्याने । ततोऽत्यंतमनागमनात्कामधातौ । तथा यत्रोपपन्नस्तत्र चात्यंतमनागमनात् । तत्र च पुनः प्रथमे ध्यानेऽत्यंतमनागमनात् । परिपूर्णमनागामित्वं पुनस्तत्र द्वितीयजन्माकरणात् । शमथचरितो ह्येष इति । य एष भवाग्रपरमः स समाधिप्रियः । आरूप्येषु च समाधिरतिप्रशांतः । तस्मादयमारूप्यान् प्रविशति । पूर्वकस्तु विपश्यनाचरित इति । योऽसावकनिष्ठपरम (अभिधर्मकोषव्याख्या ५६१) उक्तः । [तिब् । २२२ ] स प्रज्ञाप्रियः शुद्धावासान् प्रविशति । अंतरापरिनिर्वाणमिति विस्तरः । नैतत्प्रति शास्त्रकारैर्निश्चितं । न च प्रतिषिद्धमतोऽप्रतिषेधादूर्ध्वस्रोतसोऽकनिष्ठपरमस्य भवाग्रपरमस्य चांतरा अकनिष्ठां भवाग्रं च प्रविश्य परिनिर्वाणं युज्यमानं पश्यामः । संभवं तु पश्याम इत्यर्थः । ननु चाकनिष्ठपरमो भवाग्रपरम इति चोक्तमत आह । अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावादकनिष्ठेभ्यो भवाग्राच्चोर्ध्वं गत्यभावात् । तद्यथा स्रोतआपन्नस्य सप्तकृत्वः परमत्वं । न हि तस्य द्वौ त्रीन् वा भवानभिनिर्वर्त्य परिनिर्वाणं न संभवतीति । ततः परेण त्वष्टमं भवं नाभिनिर्वर्तयतीति । सप्तकृत्वः परम उक्त इति । स पुनश्चतुर्विध इत्यंतरापरिनिर्वाय्यभावान्न पंचविधः । एते षडनागामिनो भवंतीति । अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वस्रोताः आरूप्यगश्च । षष्ठश्चतुर्धाभेदमविगणय्येति । दृष्टधर्मपरिनिर्वायी । दृष्टजन्मपरिनिर्वायीत्यर्थः । (वि ।४०) कथमेषां त्रयाणामिति [तिब् । २२२ ] विस्तरः । त्रयोऽनागामिन इति निर्भिद्य नोक्ता इत्यनवबुध्यमान इतरः पृच्छति । आचार्योऽप्यर्थापत्त्योक्ता एत इति पश्यन् विवृणोति । अंतरोपपद्यपरिनिर्वायिणोरंतरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणश्चेत्यर्थः । ऊर्ध्वस्रोतसश्च तृतीयस्येति । आश्वनाशुचिरपरिनिर्वाणात्दृष्टांतत्रयेणेति । आशुपरिनिर्वायी अनाशुपरिनिर्वायी चिरपरिनिर्वायी च दृष्टांतत्रयेण योजय्यितव्याः । तद्यथा परीत्तः शकलिकाग्निरभिनिर्वर्तमान एव निर्वायात् । एवं प्रथमो य आशुपरिनिर्वायी । तद्यथायोगुडानां वायस्फालानां वादीप्ताग्निसंप्रतप्तानामयोघनेन हन्यमानानामयःप्रपाटिकोत्पतत्येव निर्वायात् । एवं द्वितीयो योऽनाशुपरिनिर्वायी । तद्यथायोगुडानामिति पूर्ववद्यावदयःप्रपाटिकोत्प्लुत्य पृथिव्यामपतितैव निर्वायात् । एवं तृतीयो यश्चिरपरिनिर्वायी । एतच्च सूत्रं विस्तरेण पुरस्ताल्लिखितमिति न पुनर्लिख्यते । उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणादिति । उपपद्य परिनिर्वाणादभिसंस्कारेणानभिसंस्कारेण परिनिर्वाणात्[तिब् । २२३ ] त्रिधाभेदान्नवानागामिनो भवंतीति संबंधः । उपपद्यपरिनिर्वायी य उपपन्नमात्रः परिनिर्वाति । न त्वभिसंस्कारेणानभिसंस्कारेण वा परिनिर्वाति । साभिसंस्कारपरिनिर्वायी तु नोपपद्यैव परिनिर्वाति । किं तर्हि । अभिसंस्कारेणाप्रतिप्रस्रब्धस्य पूर्वाभिसंस्कारस्य सामर्थ्यतः परिनिर्वाति । अस्य हि यद्यपि वाही मार्गोऽस्ति अभियोगेन तु परिनिर्वाति । उपपद्यपरिनिर्वायी तु नाभियोगेनेति विशेषः । अनभिसंस्कारपरिनिर्वायी (अभिधर्मकोषव्याख्या ५६२) पुनः प्रतिप्रस्रब्धपूर्वाभिसंस्कारोऽभिसंस्कारमनंतरेण परिनिर्वातीत्ययमेव एषां विशेषोऽवगंतव्यः । यथा तु साभिसंस्कारानभिसंस्कारपरिनिर्वायिणावप्युपपद्यपरिनिर्वाय्याख्यां लभेते । तथा दर्शयन्नाह । सर्वे ह्येत उपपद्यपरिनिर्वाणादुपपद्यपरिनिर्वायिण इति । प्लुतादिभेदादिति । प्लुतार्धप्लुतसर्वच्युतभेदादित्यर्थः । सर्वेषां वा त्रयाणामिति । अंतरोपपद्यपरिनिर्वाय्यूर्ध्वस्रोतसामाश्वनाशुचिरपरिनिर्वाणात्[तिब् । २२३ ] त्रिधाभेदः । कश्चिदंतरापरिनिर्वायी आशुपरिनिर्वायी भवति । कश्चिदनाशुचिरपरिनिर्वायी । एवमुपपद्यपरिनिर्वायी । ऊर्ध्वस्रोताश्चेति । अस्माच्च त्रिधाभेदान्नवानागामिनो भवंतीति स एव संबंधो वाच्यः । तद्विशेषः पुनरिति विस्तरः । तेषां पुनस्त्रयाणामंतरोपपद्यपरिनिर्वायिणोः ऊर्ध्वस्रोतसश्च । नवानां चैषामेव प्रत्येकं त्रिधाभेदाद्यथा वर्णिताद्विशेषः । कर्मक्लेशेन्द्रियविशेषात् । कर्मणः क्लेशस्येन्द्रियस्य च विशेषाद्भवति । कथमित्याह । त्रयाणामिति विस्तरः । अभिनिर्वृत्तिरंतराभावः अभिनिर्वृत्तिवेदनीयस्य कर्मण उपचितत्वादंतरापरिनिर्वायी । उपपद्यवेदनीयस्य कर्मण उपचितत्वादुपपद्यपरिनिर्वायी । अपरपर्यायवेदनीयस्य कर्मण उपचितत्वादूर्ध्वंस्रोता इत्येवं तावत्तेषां त्रयाणां कर्मविशेषाद् विशेषः । मृदुमध्याधिमात्रक्लेशसमुदाचारत्वाद्यथाक्रममेषामेव क्लेशविशेषाद्विशेषः । अधिमात्रमध्यमृद्विन्द्रियत्वाच्च यथाक्रममेषामेवेन्द्रियविशेषाद्विशेष इति । तेषामपि प्रत्येकमत एव यथायोगं विशेष इति । तेषामपि प्रत्येकं भिन्नानां नवानामित्यर्थः । अत एव कर्मादिविशेषात्[तिब् । २२४ ] यथायोगं न यथाक्रमं । विशेषोऽवगंतव्यः । कथमित्याह । प्रथमयोस्त्रिकयोरिति विस्तरः । यच्चांतरापरिनिर्वायिणां त्रिकं । यच्चोपपद्यपरिनिर्वायिणां । तयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् । मृदुमध्याधिमात्रक्लेशसमुदाचारत्वातधिमात्रमध्यमृद्विन्द्रियत्वाच्च । यथाक्रमं विशेषः । न तु कर्मविशेषात् । यस्मात्प्रथमस्य त्रिकस्याभिनिर्वृत्तिवेदनीयं कर्म तुल्यं । द्वितीयस्य चोपपद्यवेदनीयं कर्म तुल्यमिति । पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्च विशेषः । प्लुतादीनां ह्यपरपर्यायवेदनीयं कर्म भिन्नमिति । अतोऽपरपर्यायवेदनीयकर्मविशेषात् । क्लेशेन्द्रियविशेषाच्च । चकारानुकृष्टत्वात्विशेषो मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात् । अधिमात्रमध्यमृद्विन्द्रियत्वाच्च । यथाक्रममित्यर्थः । त एते नवप्रकारक्लेशेन्द्रिगत्वादिति । त एते नवानागामिनो नवप्रकारक्लेशत्वात् । नवप्रकारेन्द्रियत्वाच्च । नवानागामिनो भवंति । कर्मणोऽग्रहणमव्यपित्वात् । न हि प्रथमयोस्(अभिधर्मकोषव्याख्या ५६३) त्रिकयोः कर्मविशेषाद्[तिब् । २२४ ] विशेषोऽस्तीति । कथं पुनरेते नवप्रकारक्लेशा भवंति । इह क्लेशस्त्रिप्रकारो मृदुमध्याधिमात्र इति । मृदुरंतरापरिनिर्वायिणां । मध्य उपपद्यपरिनिर्वायिणां । अधिमात्र ऊर्ध्वस्रोतसां । तत्र प्रथमोऽन्तरापरिनिर्वायी मृदुमृदुक्लेशः । द्वितीयो मृदुमध्यक्लेशः तृतीयो मृद्वधिमात्रक्लेशः । उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः । द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यमध्यक्लेशः । तृतीयोऽनभिसंस्कारपरिनिर्वायी मध्याधिमात्रक्लेशः । ऊर्ध्वस्रोतसामपि प्लुतोऽधिमात्रमृदुक्लेशः अर्धप्लुतोऽधिमात्रमध्यक्लेशः । सर्वस्थानच्युतोऽधिमात्राधिमात्रक्लेश इति । कथं नवप्रकारेन्द्रिया भवंति । तथैवेन्द्रियमपि त्रिप्रकारमधिमात्रं मृदु चेति । अधिमात्रमंतारापरिनिर्वायिणां । मध्यमुपपद्यपरिनिर्वायिणां । मृदूर्ध्वस्रोतसां । तत्र प्रथमोऽंतरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः । द्वितीयोऽधिमात्रमध्येन्द्रियः । तृतीयोऽधिमात्रमृद्विन्द्रियः । उपपद्यपरिनिर्वायिणां [तिब् । २२५ ] प्रथममुपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः । साभिसंस्कारपरिनिर्वायी मद्यमध्येन्द्रियः । अनभिसंस्कारपरिनिर्वायि मध्यमृद्विन्द्रियः । ऊर्ध्वस्रोतसामपि प्लुतो मृद्वधिमात्रेन्द्रियः । अर्धप्लुतो मृदुमध्येन्द्रियः । सर्वस्थानच्युतो मृदुमृद्विन्द्रिय इति । (वि ।४१) कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति । सप्त वोऽहं भिक्षवः सत्पुरुषगतीर्देशयिष्यामि । अनुपादाय च परिनिर्वाणम् । इत्येतत्सर्वं सूत्रं गतिसूत्रत इत्यत्र प्रदेशे लिखितमिति न पुनर्लिख्यते । अत्र च सूत्रे सप्त सत्पुरुषगतयो देशिताः । त्रयोऽंतरापरिनिर्वायिणाः । त्रय उपपद्यपरिनिर्वायिण इति षट्गतयः । ऊर्ध्वंस्रोतो गतिश्च सप्तमीति । ऊर्ध्वस्रवणधर्मेति । कृदंतमेतच्छब्दरूपमिति । विधार्थमेतच्छब्दरूपमिति दर्शयति । ऊर्ध्वमिति च क्रियाविशेषणमिति । तस्याभेदनिर्देशादिति । तस्योर्ध्वंस्रोतसः प्लुतादिभेदानिर्देशादित्यर्थः । विनेयाशयापेक्षो हि सूत्रनिर्देशः । नान्याः शैक्षा गतय इति । न स्रोतआपन्नसकृदागामिगतय इत्यर्थः । गतिरुत्पत्तिः संपराय इत्येते सूत्रे पर्याया उच्यंते । तेषामित्यनागामिनां । सति च कर्मणि वृत्तिः प्राणातिपाताद्यकरणात् । असति चावृत्तिरब्रह्मचर्याद्यकरणात् । [तिब् । २२५ ] अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणमिति । तेषां तु वीतरागाणां सत्येव कर्मणि वृत्तिर्नासति प्रहीणकुशलत्वात् । न पुनः प्रत्यागतिरिति । यासु गतिषूपपन्नाः । तत्रतत्र चैषामत्यंतमनागमनमित्यर्थः । न त्वेतद्यथोक्तमन्यत्रास्तीत्य् । यदेतत्सत्येव वृत्तिरसति चावृत्तिरेवापुनःप्रत्यागमनं च । तदेतत्(अभिधर्मकोषव्याख्या ५६४) स्रोतआपन्ने सकृदागामिनि च नास्तीति । अन्येषामपीति । स्रोतआपन्नसकृदागमिनामपीत्यर्थः । पार्यायिकमिति । पर्याये भवं पार्यायिकं । केनचित्प्रकारेण भवतीत्यर्थः । कथमित्याह । पंचविधस्य पापस्यात्यंतमकरणसंवरप्रतिलंभादिति । पंचविधस्य पापस्य प्राणातिपातादत्तादानकाममिथ्याचारमृषावादमद्यपानलक्षणस्याकरणेनाक्रियया संवरः संवरणम् । तस्य प्रतिलंभात् । न ह्यार्या जन्मांतरेऽप्येतत्पंचविधं पापमध्याचरंति । अकरणसंवरवचनं । समादानसंवरस्यानावश्यकत्वात् । प्रायेणेति । दर्शनग्रहातव्यानामकुशलानां सर्वेषामत्यंतप्रहाणात् । भावनाप्रहातव्यानां च कामावचराणां केशांचित्संभवतः । येषामिति विस्तरः । येषां तु निःपर्यायेण न प्रकारांतरेण स्रोतआपन्नसकृदागामिवत्सत्पुरुषत्वं । [तिब् । २२६ ] किं तर्हि । सर्वस्य पापस्यात्यंतमकरणसंवरप्रतिलंभात् । सर्वेषां चाकुशलानां दर्शनप्रहातव्यानां क्लेशानां प्रहाणात् । भावनाप्रहातव्यानां च कामावचराणां सर्वेषां नवप्रकाराणामपि प्रहाणात् । तेषां सत्पुरुषाणामनागामिनामिह सूत्रेऽधिकारः । सप्त सत्पुरुषगतय इत्यतोऽन्येषां पार्यायिकं सत्पुरुषत्वं न प्रतिषिध्यते । (वि ।४२) किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एश भेदोऽस्ति । अंतरापरिनिर्वायीत्येवमादिकः । परिवृत्तजन्मानागामीयः प्रथमे जन्मनि स्रोतआपत्तिफलं सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्यनागामी भवति । काम इति विशेषणं । यस्मात्रूपधातौ परिवृत्तजन्मा कदाचिदारूप्यान् प्रविशतीति । तत्रैव जन्मनि परिनिर्वाणादिति । कामधातौ दुःखबहुलत्वेनास्य तीव्रसंवेगत्वात् । यत्तर्हीति विस्तरः । शक्रेणोक्तमितश्च्युतोऽहं मनुष्येषूपपन्नो यद्यर्हत्त्वं प्राप्य न परिनिर्वामि । ये ते देवा अकनिष्ठा इति विश्रुताः । अंते मे हीयमानस्य तत्रोपपत्तिर्भविष्यतीति । स हि देवेष्वेव स्रोतआपन्नो मनुष्यांश्चागत्य परिनिर्वास्यामीति वचनात्परिवृत्तजन्मा भवेत् । अंते निकायसभागावसाने मम हीयमानस्यार्हत्त्वाद्[तिब् । २२६ ] अप्राप्तिपरिहाण्या परिहीयमाणस्य । तत्राकनिष्ठेषूपपत्तिर्भविष्यतीति प्रार्थनावचनाद्धात्वंतरगमनमस्तीति दर्शितं भवतीति गम्यते । तत्कथं कामधातौ परिवृत्तजन्मांतर आर्यो धात्वांतरं न गच्छतीत्युच्यत इति । सूत्रार्थो दृश्यते । ब्रूयास्त्वं । धर्मलक्षणानभिज्ञत्वाच्छक्रेणैवमुक्तं । तस्माददोष इति । भगवता तर्ह्येवं शृण्वता कस्मादसौ न निवारितो मा त्वमेव वोच इत्यत उच्यते । भगवताप्यनिवारणं । संहर्षणीयत्वादिति । कामदुःखपरित्यागाभिलाषेण संहर्षणीयमित्यभिप्रायः । (अभिधर्मकोषव्याख्या ५६५) च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संहर्षणीयत्वादित्याचार्यसंघभद्रः । इन्द्रियाणां परिपक्वतरत्वादिति । प्रज्ञादीनामिन्द्रियाणां निष्यन्दफलपुष्टिविशेषादित्यर्थः । आश्रयविशेषलाभाच्च । यस्माच्चाश्रयविशेषमनुपहतं मार्गसंमुखीभावानुकूलं प्रतिलभते । दृष्यंते हि तीक्ष्णेन्द्रिया अपि संत आश्रयवैगुण्यात्गुणेभ्यः परिहीयमाणा इत्यतो जन्माण्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादिन्द्रियसंचारो नास्ति । आश्रयविशेषलाभाच्च परिहाणिर्नास्त्यनेनैव जन्मांतरपरिवासेन धात्वंतरगमनं न भवतीति । मार्गस्याजितत्वादसंमुखीभावत इति । [तिब् । २२७ ] यस्मान्मार्गस्याजितत्वादसंमुखीभावः । तस्मात्कारणादवीतरागः शैक्षः स्रोतआपन्नः सकृदागामी च नांतरापरिनिर्वायी भवति । अनुशयानां च नातिमन्दत्वात् । यस्माच्चानुशयास्तस्य नातिमन्दाः । अतो नांतरापरिनिर्वायी भवतीत्ययमाचार्यस्य परिहारः । वैभाषिकाणां कः परिहार इत्याह । दुस्समतिक्रमत्वात्कामधातोरिति वैभाषिका इति । कथमित्युच्यते । बहु ह्यनेन कर्तव्यं भवति । अकुशलाव्याकृतक्लेशप्रहाणमकुशलानां कामावचराणामव्याकृतानां च रूपारूप्यावचराणां क्लेशानां प्रहाणमनेन कर्तव्यं । वीतरागेण पुनः शैक्षेणाव्याकृतानामेव प्रहाणमिति । द्वित्रिश्रामण्यफलप्राप्तिरिति । द्वे वा त्रीणि वा श्रामण्यानि फलानि प्राप्तव्यानि । सकृदागामिना द्वे श्रामण्यफले प्राप्तव्ये । अनागामिफलमर्हत्त्वफलं च । स्रोतआपन्नेन त्रीणि सकृदागामिफलमनागामिफलमर्हत्त्वफलं च । वीतरागेण पुनरेकमेवार्हत्त्वफलं प्राप्तव्यमिति । त्रिधातुसमतिक्रमश्चावीतरागेण कर्तव्यः । वीतरागेण तु रूपावीतरागेणांतरापरिनिर्वायिना भवता द्विधातुसमतिक्रमः [तिब् । २२७ ] कर्तव्य इति । (वि ।४३) आकीर्यत इति । व्यवकीर्यते व्यतिभिद्यते । अनास्रवाभ्यां सास्रवं चतुर्थं ध्यानं मिश्रीक्रियत इत्यर्थः । सुखप्रतिपदामग्रत्वादिति । सुखाः प्रतिपदश्चत्वारि मौलानि ध्यानानि । ध्यानेषु मार्गः प्रतिपत्सुखेति वचनात् । तासां चतुर्थं ध्यानमग्रमष्टापक्षालमुक्तत्वात् । यदा किलेति । किलशब्दो वैभाषिकमतद्योतकः । स्वमतं तु पश्चाद्दर्शयिष्यति । अशक्यं तु क्षणव्यवकिरणमिति विस्तरेण द्वौ हि क्षणावानंतर्यमार्गसदृशाविति । अनास्रवसास्रवौ । तृतीयो विमुक्तिमार्गसदृश इत्यनास्रवः । मृद्विन्द्रियाः क्लेशभीरुतया च व्यवकिरंति । चशब्दाच्छुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च व्यवकिरंति । तीक्ष्णेन्द्रियास्तु शुद्धावासोपत्त्यर्थं (अभिधर्मकोषव्याख्या ५६६) दृष्टधर्मसुखविहारार्थमेव च व्यवकिरंति । न क्लेशभीरुतया । तेषां परिहाण्यसंभवात् । कथं पुनः क्लेशभीरुतया अपरिहाण्यर्थं व्यवकिरंतीत्याह । आस्वादनासंप्रयुक्तसमाधिदूरीकरणातपरिहाण्यर्थमिति । फलान्न परिहीयेयमिति । (वि ।४४ ब्) पंचप्रकारेति विस्तरः । मृद्वी मध्याधिमात्राधिमात्रतरा अधिमात्रतमेति । [तिब् । २२८ ] प्रथमायां त्रीणि चित्तानीति । तस्य पुद्गलस्य तावती शक्तिरित्येवमुपरिष्ठादपि वक्तव्यं । द्वितीयायां षडिति । अनास्रवं सास्रवमनास्रवमिति त्रीणि । पुनरनास्रवं सास्रवमनास्रवमित्यपराणि त्रीणीति षड्भवंति । एवमेव च तृतीयायां नव चतुर्थ्यां द्वादश पंचम्यां पंचदशेति योज्यं । तासां यथासंख्यमिति । तासां व्यवकीर्णभावनानां यथाक्रमं पंच शुद्धावासाः फलं । मृद्व्या भावनाया अवृहाः फलमेवं यावदधिमात्रतमाया भावनाया अकनिष्ठाः फलमिति । श्रद्धादीन्द्रियाधिक्यादिति भदंतश्रीलातमतम् । श्रद्धाधिकाया भावनाया अवृहाः फलं । एवं यावत्प्रज्ञाधिकाया भावनाया अकनिष्ठाः फलमिति । (वि ।४४ द्) यो हि कश्चिदनागामीति । श्रद्धाधिमुक्तो वा दृष्टिप्राप्तो वा । कायेन साक्षात्करणमिति । चित्ताभावात्कायेनैव साक्षात्करोति । कथं कायेनैवेत्याह । कायाश्रयोत्पत्तेः । एवं तु भवितव्यमिति स्वमतमाचार्यस्य । प्राप्ति ज्ञानसाक्षात्क्रियाभ्यामिति । समाधिकाले तदनुकूलाश्रयप्राप्तिसाक्षात्करणात् । व्युत्थानकाले च तत्प्रतिसंवेदनाज्ञानसाक्षात्करणात् । प्रत्यक्षीकारो [तिब् । २२८ ] हि साक्षात्क्रियेति । सविज्ञानकायशांतिप्रतिलंभावस्थायां साक्षात्क्रिया युज्यत इत्यभिप्रायः । सविज्ञानककायशांतिप्रतिलंभेन वा अविज्ञानककायशांत्यवस्थायां तत्प्राप्तिर्गम्यत इति । अष्टादश शैक्षा इत्यत्र सूत्र इति । अनाथपिण्डदो गृहपतिर्भगवंतमपृच्छत् । कति भदंत दक्षिणीया इति । भगवानाह । अष्टादश गृहपते शैक्षा नवाशैक्षा दक्षिणीया इति । अष्टादश शैक्षाः कतमे । स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः । स्रोतआपन्नः । सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः । सकृदागामी । अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः । अनागामी । अर्हत्त्वफलसाक्षात्क्रिवायै प्रतिपन्नकः । श्रद्धानुसारी । धर्मानुसारी । श्रद्धाधिमुक्तः । दृष्टिप्राप्तः । कुलंकुलः । एकवीचिकः । अंतरापरिनिर्वायी । उपपद्यपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । अनभिसंस्कारपरिनिर्वायी । ऊर्ध्वस्रोताः । इतीमे गृहपतेऽष्टादस शैक्षाः । नवाशैक्षाः कतमे । परिहाणधर्मा । चेतनाधर्मा । अनुरक्षणाधर्मा । स्थिताकंप्यः । प्रतिवेधनाभव्यः । अकोप्यधर्मा । [तिब् । २२९ ] चेतोविमुक्तः । प्राज्ञाविमुक्तः । (अभिधर्मकोषव्याख्या ५६७) उभयतोभागविमुक्तः । इतीमे गृहपते नवाशैक्षा इति । तिस्रः शिक्षास्तत्फलं चेति । अधिशीलमधिचित्तमधिप्रज्ञमिति तिस्रः शिक्षा आर्यमार्गलक्षणाः । तासां फलं विसंयोगः । तद्विशेषेण हि शैक्षाणां व्यवस्थानमिति । शिक्षाविशेषेण तत्फलविशेषेण चेत्यर्थः । कथं पुनस्तद्विशेषः । अन्यादृस्योऽन्यादृश्योऽष्टादशानां शैक्षाणां शिक्षाः विसंयोगफलं चेति । निरोधसमापत्तिश्च न शैक्षा अप्रहाणमार्गस्वाभाव्यात् । न शिक्षा फलमविसंयोगफलस्वाभाव्यात् । अतो न तद्योगान्निरोधसमापत्तियोगात्शैक्षविशेष उक्तः । यथैतेऽष्टादश शैक्षाः । न पुनरसौ न शैक्षः । तत्र यदिदमुच्यते । अष्टादश शैक्षा इत्यत्र सूत्रे किं कारणं कायसाक्षी नोक्तः शैक्ष इत्येवं नोक्तः । यथास्थूलंभेद इति । रूपोपगा पंच । आरूप्यगश्चतुर्धान्यः । इह निर्वायको पर इत्येवमादि । सूक्ष्मं तु भिद्यमाना इति विस्तरः । अत्राचार्यो गणनोपायप्रदर्शनार्थं [तिब् । २२९ ] प्रथममंतरापरिनिर्वायिण इन्द्रियभूमिगोत्रादिभेदं व्युत्पादयति । किं कारणम् । तद्भेदे हि गणिते यथांतरापरिनिर्वायिण इन्द्रियादिभेदाद्भेदः । एवं यावदूर्ध्वस्रोतस इति सुखमतिदेशं करिष्यामीति । भूमिभेदाश्चत्वार इति । ते एवांतरापरिनिर्वायिणः । भूमयश्चत्वारि ध्यानानि । रूपोपगानामनागामिनां विवक्षितत्वात् । तत्र प्रथमे ध्यानेऽंतरापरिनिर्वायी यावच्चतुर्थ इति चत्वारः । परिहाणधर्मादिगोत्रभेदात्षडिति । त एव परिहाणधर्मा चेतनाधर्मा अनुरक्षणाधर्मा स्थिताकंप्यः प्रतिवेधनाभव्यः अकोप्यधर्मा चेति । स्थानांतरभेदात्षोडशेति । ब्रह्मकायिकादीन्यकनिष्ठांतानि । महाब्रह्मणो वैभाषिकनीत्यास्थानांतरः । बहिर्देशकनयेनापि स्थानांतरत्वे तत्रार्यो नोत्पद्यत इत्यगणनं । तदेवं स्थानांतरभेदात्षोडशांतरापरिनिर्वायिणः । भूमिवैराग्यभेदात्षट्त्रिंशदिति । भूमिभेदात्तद्वैराग्यभेदाच्च षट्त्रिंशदंतरापरिनिर्वायिणः । कथमिति प्रतिपादयति । रूपधातन् [तिब् । २३० ] सकलबन्धन इति विस्तरः । रूपधातौ प्रथमे ध्याने सकलबन्धन एकप्रकारवीतरागो यावदष्टप्रकारवीतराग इति नव । द्वितीयेऽपि नव सकलबन्धनो यावदष्टप्रकारवीतराग इति । तथा तृतीये नव । तथा चतुर्थे नवेति । चत्वारो नवकाः षट्त्रिंशद्भवंति । यावच्चतुर्थध्यानाष्टप्रकारवीतराग इति । यावच्छब्देनायमर्थविस्तरो लभ्यते । चतुर्थध्याननवमप्रकारवीतरागो नोच्यते । यस्मादसावारूप्ये सकलबन्धनो भवति । न चेहारूप्यगोऽधिक्रियते । रूपोपगानामिह विवक्षितत्वात् । अंतराभवसंबन्धाद्(अभिधर्मकोषव्याख्या ५६८) इति । तथा च सति स्थानांतरगोत्रवैराग्येन्द्रियभेदादिति विस्तरः । स्थानांतराणां गोत्राणां वैराग्याणामिन्द्रियाणां च भेदात् । द्वानवतीनि द्वानवत्यधिकानि पंचविंशतिशतानि भवंति तेषामंतरापरिनिर्वायिणां । कथं कृत्वा तथ भवंतीत्याह । एकस्मिं स्थाने । तद्यथा ब्रह्मपुरोहिते षट्गोत्राणि परिहाणधर्मादिभेदात् । गोत्रगोत्र इति वीप्सा नव पुद्गलाः । सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात् । तद्यथा ब्रह्मपुरोहितात् । [तिब् । २३० ] षण्णवकानि गोत्रषट्पुद्गलनवकग्रहणाच्चतुःपंचाशत् । षोडश चतुःपंचाशत्कानि । षोडशस्थानांतरग्रहणात् । चतुःषष्ट्यादि । चतुःषष्ट्यधिकानि अष्टौ शतानि । इन्द्रियभेदात्तु त्रिगुणू मृदुमध्याधिमात्रभेदात् । इत्येवं कृत्वा । किं द्वानवतीनि पंचविंशतिशतानि भवंति । येन न्यायेन सकलबन्धनो यावदष्टप्रकारवीतराग इति नव पुद्गला व्यवस्थापिताः । तं न्यायं दर्शयन्नाहयो ह्यधरे ध्यान इति विस्तरः । यो ह्यधरे ध्याने प्रथमे यावत्तृतीये नवप्रकारवीतरागः । स उत्तरे ध्याने द्वितीये यावच्चतुर्थे सकलबन्धन इत्युक्तः । कस्मादित्याह । समगणनार्थमिति । चतुर्षु ध्यानेषु नवनव यथा स्युरिति । अन्यथा हि विषमा गणना स्यात् । प्रथमे ध्याने दश स्युः सकलबन्धनो यावन्नवप्रकारवीतराग इति । द्वितीये नव एकप्रकारवीतरागो यावन्नवप्रकारवीतराग इति । एवं तृतीये नव चतुर्थे त्वष्टौ स्युः । एकप्रकारवीतरागो यावदष्टप्रकारवीतराग इति । नवप्रकारवीतरागस्यारूप्यसकलबन्धनत्वादित्य् उक्तमेवं यावदूर्ध्वस्रोतस इति । एवमुपपद्यसाभिसंस्कारानभिसंस्कारोर्ध्वस्रोतसामपि । स्थानांतरगोत्रवैराग्येन्द्रियभेदात्[तिब् । २३१ ] प्रत्येकं द्वानवतीनि पंचविंशतिशतानि भवंतीत्यभिसमस्य पुनः पंचाभेदांश्चत्वारिंशदूनानि त्रयोदशसहस्राण्यनागामिनां भवंति । आरूप्यगैस्तु सहोपपद्यादिचतुर्भेदभिन्नैरतितरां बहवो भवंति । अनया तु वर्तन्या गम्यत एवेति न लिख्यते । (वि ।४५, ४६) आभवाग्राष्टभागक्षिद् इति । आभवाग्रादाष्टौ प्रकारान् क्षिणोतीत्याभवाग्राष्टभागक्षिदाभवाग्राष्टप्रकारक्षयकृदित्यर्थः । अयमनागामी प्रथमध्यानैकप्रकारवैराग्यात्प्रभृतीति । यस्मात्कामवैराग्यादनागामी व्यवस्थाप्यते । तस्मात्ततः परेणार्हत्त्वफलप्रतिपन्नको भवति । यथा वज्रः सर्वं भिनत्ति । एवमयं समाधिः सर्वमनुशयं भिनत्तीति सामर्थ्यात्वज्र उपमा अस्येति वज्रोपमः । भिन्नत्वादसौ न सर्वां भिनत्तीति । त्रैधातुकान् (अभिधर्मकोषव्याख्या ५६९) दर्शनप्रहातव्यान् भावनाप्रहतव्यांश्च कामावचरान् यावद्भावाग्रिकानष्टौ प्रकारान् । यदि सर्वान्न भिनत्ति कस्मात्सर्वानुशयभेदीत्युच्यत इत्याह । सर्वांस्तु भेत्तुं समर्थ इति । संभवमधिकृत्योक्तमित्यभिप्रायः । अनागम्यसंगृहीता इति विस्तरः । नव भूमीः अनागम्यं ध्यानांतरं [तिब् । २३१ ] चत्वारि ध्यानानि त्रींश्चारूप्यान् भवाग्रवर्ज्यान्निश्रित्यार्हत्त्वप्राप्तिरित्यत एवं प्रतन्यते । दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाविति । भावाग्रिकदुःखालंबनान्वयज्ञानाकारैश्चतुर्भिः संप्रयुक्ताश्चत्वारो भावाग्रिकसमुदयालंबनान्वयज्ञानाकरैः चतुर्भिरपरैः संप्रयुक्ताश्चत्वार इत्यष्टौ । एवमेव निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टाविति वक्तव्यं । धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे त्रिधातुप्रतिपक्षस्तद् इति सिद्धांतात्तयोरेवेहोपन्यासो न दुःखसमुदयधर्मज्ञानयोर्ग्रहणं । एवं यावदिति । यावच्छब्देन यथा प्रथमध्याननिरोधालंबनाकारैः संप्रयुक्ताश्चत्वारः । एवं द्वितीयतृतीयचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभवाग्रनिरोधालंबनाः प्रत्येकं चत्वारश्चत्वारो वक्तव्याः । मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वार इत्यत्र प्रतिभूमिमार्गालंबनान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः चत्वार इति नोच्यते । कस्मादित्याह । कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनादिति । अविशिष्टो ह्यन्वयज्ञानपक्षो मार्गः प्रतिपक्षभावेनान्योन्यहेतुकश्च मार्ग इति समस्तमेवालंब्यते । [तिब् । २३२ ] न निरोधवदित्यतश्चत्वार एव मार्गान्वयज्ञानाकारैः संप्रयुक्ता इति । त इमे ज्ञानाकारालंबनभेदभिन्ना इति । ज्ञानाकारभेदेनालंबनभेदेन च भिन्नाः । अथ वा ज्ञानानामाकाराणामालंबनानां च त्रिभेदेन भिन्नाः । ज्ञानाकारभेदभिन्नास्तावत् । दुःखसमुदयान्वयज्ञानाकारैरित्येवमादिवचनात् । आलंबनभेदभिन्ना अपि । भावाग्रिकदुःखसमुदयालंबनैरित्येवमादिवचनात् । द्वापंचाशदिति । आदितो द्व्यष्टाविति षोडश । प्रथमध्याननिरोधालंबनाश्चत्वारो यावन्मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वार इति नवचतुष्काणि षट्त्रिंशत् । षोडश च षट्त्रिंशच्च द्वापंचाशद्भवंति । यथानागम्यसंगृहीत इति विस्तरः । मौलं ध्यानमनागम्यप्रविश्योत्पद्यत इत्यनागम्यं । येन प्रकारेणानंतरोक्तेनानागम्यसंगृहीता द्वापंचाशद्वज्रोपमा भवंति । तेनैव प्रकारेण ध्यानांतरसंगृहीता द्वापंचाशद्भवंति । कथं कृत्वा । ध्यानांतरसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः (अभिधर्मकोषव्याख्या ५७०) संप्रयुक्ता अष्टौ । निरोधमार्गधर्मज्ञानाकारैः [तिब् । २३२ ] संप्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालंबनाश्चत्वारः । एवं यावद्भवाग्रनिरोधालंबनाश्चत्वारः । मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः । कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनात् । त इमे ज्ञानाकारालंबनभेदभिन्ना द्वापंचाशद्भवंति । यथा ध्यानांतरसंगृहीता एवं प्रथमध्यानसंगृहीता द्वापंचाशात् । यावच्चतुर्थध्यानसंगृहीता द्वापंचाशदिति । यथासंख्यमिति विस्तरः । आकाशानंत्यायतनसंगृहीता अष्टाविंशतिः । विज्ञानानंत्यायतनसंगृहीताश्चतुर्विंशतिः । आकिंचन्यायतनसंगृहीता विंशतिः । भवाग्र आर्यमार्गो नास्तीति तत्संगृहीता न संतीति न चिंत्यंते । तेषु धर्मज्ञानस्याभावादिति । तेष्वाकाशानंत्यायतनादिषु धर्मज्ञानस्याभावात् । धर्मज्ञानस्य षड्भूमिकत्वात् । तस्मान्निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ न भवंति । अधोभूमिनिरोधालंबनस्य चान्वयज्ञानस्याभावात् । निरोधान्वयज्ञानाकारैः संप्रयुक्ताश्चतुर्ध्याननिरोधालंबनाः षोडश पुनर्न भवंतीत्यष्टाविंशतिर्भवंति । द्वापंचाशतोऽष्टौ षोडश चैवापनीयेति कृत्वा । कथम् । आकाशानंत्यायतनसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः [तिब् । २३३ ] संप्रयुक्ता आकाशानंत्यायतनादिनिरोधालंबनाः षोडश । मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वार इति । त इमे ज्ञानाकारालंबनभेदभिन्ना अष्टाविंशतिर्भवंति । एवं विज्ञानानंत्यायतननिरोधालंबनाश्चतुरोऽपनीय चतुर्विंशतिर्योज्याः । आकिंचन्यायतनसंगृहीता विज्ञानानंत्यायतननिरोधालंबनानप्यपरानपनीय विंशतिरिति । किं पुनः कारणं स्वभूम्यूर्ध्वभूमिकनिरोधमेवालंबंत आरूप्या नाधोभूमिकं ध्यानवत् । न ह्यधोभूमिकं दुःखमनालंब्य तन्निरोधः शक्यमालंबितुं । दुःखं च सर्वं सास्रवमेव । एष च नियमः । न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इत्येतत्कारणं । ध्यानानां तु समस्तालोचनत्वान्न प्रतिषेधः । वक्ष्यति हि ध्यानं सद्विषयं शुभम् इति । अथ कस्मान्निरोधमेवालंबंते न पुनर्दुःखं समुदयं वा । भवाग्रादधोभूमेर्वीतरागत्वात् । तस्य हि भावाग्रिक एव नवमः प्रकारो वज्रोपमवध्योऽवशिष्ट इति । अधोभूमिप्रतिपक्षालंबनं तु भवतीति अन्वयज्ञानमधिकृतं । तच्च वज्रोपमसमाधिसंप्रयुक्तं वेदितव्यं । तस्य प्रतिपक्षस्य अन्योन्यहेतुत्वादिति (अभिधर्मकोषव्याख्या ५७१) [तिब् । २३३ ] अन्योन्यं नवभूमिस्तु मार्गः समविशिष्टयोर् इति वचनात् । सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनमिति । येषां त्विति विस्तरः । येषामाभिधार्मिकानां मार्गान्वयज्ञानमपि न केवलनिरोधान्वयज्ञानमेकैकभूमिप्रतिपक्षालंबनमिष्टं । तेषामष्टाविंशतिमधिकान् प्रक्षिप्य अनागम्यसंगृहीता अशीतिर्वज्रोपमा भवंति । कथं कृत्वा । पूर्वकाः कृत्स्नस्यान्वयज्ञानपक्ष्यस्यालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः । इदानीमेकीयमतेनैकैकभूमिप्रतिपक्षालंबना अपि व्यवस्थाप्यंते । अनागम्यसंगृहीताः प्रथमध्यानप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः । एवं यावदाकिंचन्यायतनप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वार इत्येवमष्टाविंशतिरधिका भवंति । एवमष्टाविंशतिमधिकान् प्रक्षिप्य द्वापंचाशदशीतिर्भवंति । किं पुनः कारणं भवाग्रप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारो न गण्यंते । आह । न भवाग्रसंगृहीतोऽनास्रवो मार्गो भवाग्रप्रतिपक्षोऽस्ति । प्रथमध्यानभूमिकस्त्वस्ति । यावदाकिंचन्यायतनभूमिक इति । तस्मात्तद्भूमिप्रतिपक्षालंबना एवोक्ताः । न भवाग्रप्रतिपक्षालंबना इति । अपरे पुनर्व्याचक्षते । येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालंबनम् [तिब् । २३४ ] इष्टं । यथा निरोधान्वयज्ञानमिष्टमित्यभिप्रायः । तेषां भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ । निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथंध्याननिरोधालंबनाश्चत्वारः । एवं यावद्भवाग्रनिरोधालंबनाश्चत्वार इति द्वात्रिंशद्भवंति । एवं मार्गान्वयज्ञानाकारैरपि संप्रयुक्तास्तथैव द्वात्रिंशदिति कृत्वा । अष्टाविंशतिमधिकान् प्रक्षिप्यानाम्यसंगृहीता अशीतिर्वज्रोपमा भवंतीति । तेषां हि ये हि कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनान्मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारस्ते न संति । भवाग्रप्रतिपक्षालंबनास्तु तत्स्थाने भवंतीत्यतो अशीतिर्वज्रोपमा भवंतीति । एवं यावच्चतुर्थध्यानसंगृहीताः कथम् । अष्टाविंशतिमधिकान् प्रक्षिप्य ध्यानांतरसंगृहीता अशीतिर्वज्रोपमा भवंति । यथा ध्यानांतरसंगृहीताः । एवं प्रथमद्वितीयतृतीयचतुर्थध्यानसंगृहीता प्रतिध्यानमशीतिर्वज्रोपमा भवंति । आकाशानंत्यायतनादिष्विति । भवाग्रवर्ज्येषु त्रिष्वारूप्येषु यथाक्रमं चत्वारिंशत्द्वात्रिंशच्चतुर्विंशतिश्च भवंति । कथं कृत्वा । [तिब् । २३४ ] आकाशानंत्यायतने तावदष्टाविंशत्यां वज्रोपमेष्वाकाशानंत्यायतनप्रतिपक्षालंबनान् (अभिधर्मकोषव्याख्या ५७२) मार्गान्वयज्ञानाकारैः संप्रयुक्तांश्चतुरः प्रक्षिप्य यावदाकिंचन्यायतनप्रतिपक्षालंबनांश्चतुर इति । द्वादश प्रक्षिप्य चत्वारिंशद्भवंति । एवं चतुर्विंशत्यां विज्ञानायतनप्रतिपक्षालंबनांश्चतुरः प्रक्षिप्याकिंचन्यायतनप्रतिपक्षालंबनांश्चतुरः प्रक्षिप्य द्वात्रिंशद्भवंति । एवं विंशत्यामाकिंचन्यायतनप्रतिपक्षालंबनांश्चतुरः प्रक्षिप्य चतुर्विंशतिर्भवंति । आह । नन्वपदिष्टमधोभूमिप्रतिपक्षालंबनं तु भवति । तस्यान्योन्यहेतुत्वादिति । अथ कस्मात्स्वभूम्यूर्ध्वभूमिप्रतिपक्षालम्बना एवोक्ता आकाशानंत्यायतनादिसंगृहीताः । नाधोभूमिप्रतिपक्षालंबना इति । अत्रोच्यते । अविशेष्य नवभूमिकमन्वयज्ञानपक्षं मार्गमधोभूमिप्रतिपक्षालंबनं भवतीत्युक्तं । न पुनराकाशानन्त्यायतनादिसंगृहीतस्याधोभूमिप्रतिपक्षालंबनं । किं तर्हि । स्वभूम्यूर्ध्वभूमिकप्रतिपक्षालंबनमेव । तत्राविशेषरूपेणाधरालंबनमन्वयज्ञानं भवति । न विशेषस्वरूपेण । स्वभूम्यूर्ध्वभूम्यालंबनं तु विशेषरूपेणापि भवतीति । एष तु पूर्वको वैभाषिकाणां स्थापनापक्षः । सामान्यरूपेणैव सर्वमन्वयज्ञानपक्षमालंबतेऽन्वयज्ञानमिति । [तिब् । २३५ ] तथा ह्याचार्यसंघभद्रेणोक्तं । सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनमिति । अपरे त्वेवं व्याचक्षते । भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाउ । निरोधान्वयज्ञानाकारैः संप्रयुक्ता आकाशानंत्यायतननिरोधालंबनाश्चत्वारः । एवं यावद्भावाग्रिकनिरोधालंबनाश्चत्वार इति षोडश । मार्गान्वयज्ञनाकारैरपि संप्रयुक्ता आकाशानंत्यायतनप्रतिपक्षालंबनाश्चत्वारः । एवं यावद्भवाग्रप्रतिपक्षालंबनाश्चत्वार इति षोडश । त एते द्विषोडश पूर्वोक्ताश्चाष्टाविति । चत्वारिंशदाकाशानंत्यायतनसंगृहीता वज्रोपमा भवंति । विज्ञानानंत्यायतहसंगृहीता द्वात्रिंशत् । आकाशानंत्यायतननिरोधप्रतिपक्षालंबनानष्टावपनीयेति । आकिंचन्यातनसंगृहीताश्चतुर्विंशतिः । विज्ञानानंत्यायतननिरोधप्रतिपक्षालंबनानप्यपरानष्टावपनीयेति । भवाग्रस्यापि हि तेऽधोभूमिकं प्रतिपक्षमार्गमाचक्षत इति । पुनर्गोत्रेन्द्रियभेदाद्भूयांसो भवंतीति । कथं । ये तावदष्टौ सर्वप्रथमा उक्ताः । तेषां । यो भावाग्रिकदुःखालंबनोऽनित्याकारसंप्रयुक्तो [तिब् । २३५ ] वज्रोपमः । तस्य षड्गोत्रभेदात्षोढाभेदः । एवं दुःखाद्याकारसंप्रयुक्तानां त्रयाणां प्रत्येकं षोढाभेदः । तेषाम् (अभिधर्मकोषव्याख्या ५७३) अपि प्रत्येकं मृदुमध्याधिमात्रेन्द्रियभेदाद्भेदः । यथा चैषां प्रत्येकं गोत्रेन्द्रियभेदाः । एवं भावाग्रिकसमुदयालंबनानां चतुर्णां प्रत्येकं षड्गोत्रभेदात्षोढाभेदः । इन्द्रियभेदाच्च त्रिधाभेदः । यथा चैषामष्टानां गोत्रेन्द्रियभेदात्प्रत्येकं षोढा त्रिधा च भेदः । एवं सर्वेषामनागाम्यसंगृहीतानां ज्ञानाकारालंबनभेदभिन्नानां यावदाकिंचन्यायतनसंगृहीतानां गोत्रेन्द्रियभेदाद्भेदः । अनया वर्तन्या योज्यः । एवं वा योज्यः । प्रथमे पक्षे द्वापंचाशदनागाम्यसंगृहीताः । यावद्विंशतिराकिंचन्यायतनसंगृहीता इत्यभिसमस्य चतुरशीतिरुत्तराणि त्रीणि शतानि वज्रोपमानां भवंति । तानि षड्गुणीकृत्य त्रिगुणीकृत्य च षट्सहस्राणि नवशतानि द्वादशोत्तराणि भवंति । द्वितीयपक्षे यत्रादितोऽशीतिः । यावदाकिंचन्यायतने चतुर्विंशतिरिति । एकपिण्डतः षट्सप्तत्युत्तराणि पंचशतानि भवंति । गोत्रेन्द्रियभेदात्षट्गुणीकृत्य त्रिगुणीकृत्य च । दशसहस्राणि अष्टषष्ट्युत्तराणि च त्रीणि शतानि वज्रोपमानां [तिब् । २३६ ] भवंतीति । अत एव तत्क्षयज्ञानमिति । कुत इत्याह । सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमत इति । यस्मात्सर्वास्रवक्षयप्राप्त्या सह जातं तत्प्रथमतो ज्ञानं । तस्मात्क्षयज्ञानमित्युच्यते । मध्यपदलोपात् । नैरुक्तिविधानतो वा । सर्वग्रहणं स्रोतआपन्नादिज्ञानविशेषणार्थं । प्रथमतोग्रहणमनुत्पादज्ञानादिविशेषणार्थं । संकेतापेक्षया हिशब्दप्रवृत्तिः । अत एव स इति । स्वर्थपरिसमाप्तेः । स परार्थकरणार्हत्त्वादर्हन् । परार्थकरणयोग्यत्वादित्यर्थः । सर्वसरागपूजार्हत्त्वाच्चेति । सरागाः पृथग्जनशैक्षाः तेषां सर्वेषां पूजामर्हतीत्यर्हन् । सिद्धं भवतीति । किं सिद्धं भवतीत्याह । अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति । त्रयः फलस्थाश्चत्वारश्च प्रतिपन्नका उक्ताः । असावेवाशैक्ष इत्यवधारणादेतदन्ये आर्याः शैक्षा इति सिद्धं । केन ते शैक्षा इति । केन कारणेन ते सप्त पुद्गलाः शैक्षा इत्युच्यंत इत्याह । आस्रवक्षयाय नित्यं शिक्षणशीलत्वादिति । शिक्षा शीलमेषामिति शैक्षाः । शीलं । छत्त्रादिभ्यो ण इति लक्षणात् । क्व शिक्षणशीलाः । शिक्षात्रये । [तिब् । २३६ ] किं शिक्षात्रयम् । अधिशीलमधिचित्तमधिप्रज्ञं च । किंस्वभावास्ता इत्याह । ताः पुनः शीलसमाधिप्रज्ञास्वभावा इति । शीले शीक्षा अधिशीलमेवं यावत्प्रज्ञायां शिक्षेत्यधिप्रज्ञमिति । अव्ययं विभक्तावित्यव्ययीभावसमासः । शिक्षाक्रियाणां त्वव्यतिरेकाच्छीलादिस्वभावाः शिक्षा इति व्याचष्टे । पृथग्जनोऽपि शैक्षः प्राप्नोतीति । पृथग्जनोऽपि विनयोक्तासु शिक्षासु शिक्षत इति । न । यथाभूतंसत्याप्रज्ञानात् । नैतदेवं । कस्मात् । यथाभूतं सत्यानां दुःखादीनामप्रज्ञानादनवबोधात् । तद्धि भिक्षवो (अभिधर्मकोषव्याख्या ५७४) दृष्टं यदार्यया प्रज्ञयेति वचनात् । तथा हि सूत्रे अधिशीलमधिचित्तं वा शिक्षां विस्तरेणोक्त्वाह । अधिप्रज्ञं शिक्षा कतमा । इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः । अयं दुःखनिरोधः । इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । यथाभूतसत्यप्रज्ञानात् । यत्र च शिक्षिताः शीलादिषु । तत्र पुनरपरशिक्षणात् । प्रातिमोक्षसंवरपरित्यागतः उष्मगतादिपरिहाणितश्चार्यः पुनर्यद्यपि किंचित्परित्यजति । न तु सर्वं । [तिब् । २३७ ] न ह्यार्यस्य कदाचिदपि शिक्षात्रयं नास्तीति । प्रकृतिस्थ आर्य इति । असमाहितावस्था सत्त्वानां प्रकृतिः । तत्रस्थ आर्यः पिण्डपातचारादिगतः । न शिक्षणशील इति । न शैक्षः स्यादित्यभिप्रायः । आशयत इति छन्दतः । स्थिताध्वगवत् । अध्वग उच्यते योऽध्वानं गच्छति । संस्थितोऽप्यध्वग इत्युच्यते । गमनाशस्यापरित्यागात् । तद्वत् । प्राप्त्यनुषंगतश्च । शीलसमाधिप्रज्ञानां च प्राप्तयः प्रकृतिस्थस्याप्यनुषज्यंते । तस्मात्प्रकृतिस्थोऽपि नाशिक्षणशील एवेति । शैक्षाशैक्षनिर्देशप्रशंगेनेदमुच्यते । अथ शैक्षा धर्माः कतमा इत्यादि । शैक्षस्यानास्रवा धर्माः संस्कृतस्वभावाः । एवमशैक्षस्याशैक्षा धर्माः । निर्वाणं कस्मान्न शैक्षं । यच्छैक्षेण प्राप्तमित्यभिप्रायः । अशैक्षपृथग्जनयोरपि तद्योगादिति । पृथग्जनोऽपि लौकिकमार्गप्राप्तेन निर्वाणेन युज्यते । प्रथमः प्रतिपन्नक इति । दर्शनमार्गस्थः । शेषाणामिति विस्तरः । शेषाणां प्रतिपन्नकानां सकृदागाम्यनागाम्यर्हत्त्वफलप्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् । [तिब् । २३७ ] स्रोतआपत्तिसकृदागाम्यनागामिफलस्थेभ्योऽव्यतिरेकात् । सकृदागामिप्रतिपन्नकादयः स्रोतआपन्नादिभ्यो नान्य इत्यर्थः । अनुपूर्वाधिगमं प्रत्येवमुच्यत इति । अनुपूर्वेण चतुःफलप्राप्तिं प्रत्युच्यते । द्रव्यत पंचेति । भूगःकामवीतरागौ तु स्यातां । भूयोवीतरागः क्षीणषट्प्रकारः । कामवीतरागः क्षीणनवप्रकारः । दर्शनमार्गे दर्शनमार्गावस्थायां यथाक्रमं सकृदागाम्यनागामिफलप्रतिपन्नकौ स्यातां । न च स्रोतआपन्नसकृदागामिनौ । किं तर्हि । तद्व्यतिरिक्तौ । तथा च सति द्रव्यतः सप्त भवंति । स्रोतआपत्तिसकृदागाम्यनागामिफलप्रतिपन्नकास्त्रयश्चत्वारश्च फलस्था इत्यर्हत्त्वफलप्रतिपन्नक एकोऽनागामिफलस्थान्न व्यतिरिक्त इत्यवगंतव्यं । (वि ।४७ ब्) द्विविधो हि भावनामार्ग उक्त इति । द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रव इति वचनात् । तत्क्लेशानुशयितत्वादिति यस्मात्तद्भूमिकः क्लेशस्तत्र लौकिके (अभिधर्मकोषव्याख्या ५७५) मार्गे आलंबनतोऽनुशयितः । यो हि क्लेश इति विस्तरेण साधर्म्यवैधर्म्यदृष्टांतं दर्शयति । यो यद्भूमिको मार्गः । न स तद्भूमिकक्लेशप्रतिपक्षः । [तिब् । २३८ ] तत्क्लेशानुशयितत्वात् । असमाहिततद्भूमिकधर्मांतरवत् । वैधर्म्येण तूपरिसामंतकमार्गवदनास्रववत्प्रतिपक्षमार्गवद्वा । लौकिकेनापि वैराग्यमिति । उपरिभूमिसामंतकेन । लोकोत्तरेणापीति । तत्प्रतिपक्षेण स्वाधरभूमिकेनानास्रवेण मार्गेण । (वि ।४७ द्) लौकिकेनार्यवैराग्य इति । तद्यथा स्रोतआपन्नः शमथचरितः । लौकिकेन मार्गेण वैराग्यं गच्छतः प्रतिप्रकारं विशंयोगप्राप्तयः सास्रवोऽनास्रवश्चोत्पद्यंते । ध्यानं निश्रित्येति । यस्माच्छैक्षः षड्भूमीर्निश्रित्येन्द्रियाणि संचरति । नारूप्यमिति । अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षड् इति वचनात्तेनाह । यो ध्यानं निश्रित्येन्द्रियाणि संचरति । स कृत्स्नपूर्वमार्गत्यागादारूप्यमार्गाणां मृद्विन्द्रियसंगृहीतानां पूर्वलब्धानां त्यागात् । केवफलमार्गलाभाच्च केवलस्यानागामिफलस्य तीक्ष्णेन्द्रियस्वभावस्य लाभात् । स विशेषं फलं त्यक्त्वा फल्माप्रोति वर्धयन्न् इति वचनात् । ऊर्ध्वभूमिकक्लेशविसंयोगेन आरूप्यावचरक्लेशविसंयोगेनासमन्वागतः स्यात् । अयं चापरो दोषः । त्यक्ते च तस्मिन्नूर्ध्वभूमिक्लेशविसंयोगे [तिब् । २३८ ] तैः क्लेशैरूर्ध्वभूमिकैः समन्वागतः स्यादिति । भवाग्रार्धविमुक्तोर्ध्वजातवत्त्वसमन्वय इत्यर्धेन विमुक्तोऽर्धविमुक्तः । भवाग्रादर्धविमुक्तो भवाग्रार्धविमुक्तः । ऊर्ध्वं जात ऊर्ध्वजातः । भवाग्रार्धविमुक्तश्चोर्ध्वजातश्च भवाग्रार्धविमुक्तोर्ध्वजातौ । तयोरिवेति । भवाग्रार्धविमुक्तोर्ध्वजातवत् । समन्वयस्तैश्तस्येति वाक्यशेषः । तुशब्दः पूर्वदोषव्यावर्तनार्थः । तमर्थं विवृण्वन्नाह । असत्यामिति विस्तरः । असत्यामपि तस्य पुद्गलस्य लौकिक्यां विसंयोगप्राप्तौ । न तैः क्लेशैः समन्वागमः स्यात्तद्यथा भवाग्रार्धप्रकारविमुक्तस्येति विस्तरः । तस्य हि लौकिकी भवाग्रार्धप्रकारविसंयोगप्राप्तिर्नास्ति । तत्प्रतिपक्षलौकिकमार्गाभावात् । लोकोत्तरा च तद्विसंयोगप्राप्तिर्ध्यानं निश्रित्येन्द्रियसंचारेण त्यक्ता स्यात् । न च पुनस्तैर्भावाग्रिकक्लेशप्रकारैः समन्वागमो भवतीत्यभ्युपगम्यते भवद्भिः । तद्वदस्य स्यात् । यथा च पृथग्जनस्य प्रथमध्यानभूमेरूर्ध्वं जातस्य द्वितीयध्यानाद्युपपन्नस्य । कामावचरक्लेशविसंयोगप्राप्तित्यागात् । प्रथमध्यानभूमिकाया विसंयोगप्राप्तेर् (अभिधर्मकोषव्याख्या ५७६) भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं । तथारूप्याप्तम् इति नियमात्त्यागो भवति । तस्मान्न पुनस्तैः कामावचरैः [तिब् । २३९ ] क्लेशैः समन्वागमो भवतीत्यभ्युपगम्यते । तद्वदस्यापि पुद्गलस्य स्यात् । पृथग्जनस्येतिग्रहणं । यस्मादार्यस्य लौकिकेन मार्गेण कामधातोरूर्ध्वं वा वैरग्यं गच्छतः क्लेशविसंयोगप्राप्तिर्लौकिकी लोकोत्तरा च भवति । तत्र या लौकिकी कामावचरक्लेशविसंयोगप्राप्तिः । तस्याः प्रथमध्यानभूमेरूर्ध्वजातस्य भूमिसंचारेण त्यागो भवति न लोकोत्तरायाः । आर्ये तु फलाप्त्युत्तप्तिहानिभिर् इति त्यागनियमात् । तस्यां च सत्यां लोकोत्तरायां प्रथमध्यानादूर्ध्वं जातस्याप्यार्यस्य न पुनस्तैः समन्वागमः संभवति । न त्वेवं पृथग्जनस्येति पृथग्जनग्रहणं । तस्मादज्ञापकमेतत् । त्यक्ते क्लेशासमन्वयादिति यदुक्तं । (वि ।४८) सर्वत इति । स्वोर्ध्वाधोभूमितः । तस्य सास्रवानास्रवत्वात् । (वि ।४९) उपेक्षेन्द्रियसामान्यादिति । चतुर्थध्यानादिसमापत्तितत्सामंतकयोरुपेक्षेन्द्रियं तुल्यमिति । कश्चिन्न शक्नोतीति मृद्विन्द्रियः । इन्द्रियसंचारस्य दुष्करत्वादिति । उपेक्षेन्द्रियानंतरं सुखेन्द्रियस्य सौमनस्येन्द्रियस्य वा दुष्करत्वात् । मौलसामंतकयोरुपेक्षेन्द्रियसामान्ये सति किमर्थं मौलादेवांत्यं विमुक्तिमार्गं संमुखीकरोति । न सामंतकात् । वीतरागभूमिबाहुमान्यात् । [तिब् । २३९ ] नाधराया वीतरागत्वादिति । तत्सामंतकेन वाधोवैराग्यस्य कृतत्वात् । सत्याकारप्रवृत्ता इति । अनित्याद्याकारप्रवृत्ताः । (वि ।५०) संभवत इति । यद्यधरां भूमिमौदारिकतः पश्यंत्यूर्ध्वं तद्विपर्ययेण शांतत इत्येके । अपरे व्याचक्षते । शांताद्याकाराणां कदाचिदेकेनाप्याकारेणाकारयंति । नावश्यं समस्तैरिति । औदारिकत इति । औदारिकमित्यौदारिकतः । अशांतत्वादौदारिकतः । कथमशांताधरा भूमिः । महाभिसंस्कारतरत्वात् । इदं महाभिसंस्कारं यत्नसाध्यं मार्गेण सहाधरं स्थानं । इदमपि महाभिसंस्कारं सह मार्गेणोर्ध्वं स्थानम् । इदमनयोरतिशयेनेति महाभिसंस्कारतरं । तद्भावः । तस्मात् । खिलं दुर्भेदं । कुत्सितं खिलं दुःखिलमिति दुःखिलतः । कथमप्रणीताधरा भूमिरित्याह । बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावादिति । दौष्ठुल्यं कायचित्तयोरकर्मण्यता क्लेशानुकूलतेत्यर्थः । बहुदौष्ठुल्यम् (अभिधर्मकोषव्याख्या ५७७) अस्येति । बहुदौष्ठुल्यम् । इदमपि बहुदौष्ठुल्यं समार्गमधरं स्थानं । इदमपि बहुदौष्ठुल्यं समार्गमूर्ध्वं स्थानम् । इदमनयोरतिशयेनेति बहुदौष्ठुल्यतरं । तद्भावात् । [तिब् । २४० ] स्थूलभित्तिकत इति । स्थूलभित्तिकभावेन । तयैवतद्भूम्यनिःसरणात् । तयैव भूम्या तस्या एव भूमेरनिःसरणात् । भित्त्यनिःशरणवत् । यथा तयैव भित्त्या तस्या एव भित्तेरनिःसरणं । तदवष्टब्धाकाशदेशात् । तेषां विपर्ययेणेति । अल्पाभिसंस्कारत्वातल्पदौष्ठुल्यतरत्वेनाप्रतिकूलभावात्तया भूम्या तद्भूमिनिःसरणाद्यथाक्रमं शांतप्रणीतनिःसरणाकाराः । (वि ।५१) गतमानुषंगिकं । इदं वक्तव्यमिति । क्षयज्ञानांतराभावि वक्तव्यम् । अनुषंगेण तु लौकिकानांतर्यविमुक्तिमार्गलक्षणनिर्देश इति । यद्यकोप्यः क्षयज्ञानादनुत्पादमतिर् इति । अपुनःकर्तव्यताज्ञानं । तदस्य तदानीमुत्पद्यते । परिहाणिसंभवादिति । क्लेशोत्पादावकाशोऽस्तीति नास्यानुत्पादज्ञानमुत्पद्यते । किं कारणं । परिहाणिसंभवात् । यस्मादस्य परिहाणिः संभवति । यस्य पुनरनुत्पादज्ञानं । न तस्य परिहाणिरिति । (वि ।५२) तेन हि श्रमणो भवतीति । श्रामण्ययोगाच्छ्रमणो भवति । यथा शौक्ल्ययोगाच्छुक्लः पट इति । शमयति क्लेशानिति श्रमणः । तन्निष्यन्दपुरुषकारफलत्वादिति । तस्य श्रामण्यस्यानंतर्यमार्गलक्षणस्य यथायोगं विमुक्तिमार्गा असंस्कृतानि च [तिब् । २४० ] निष्यन्दफलत्वात्पुरुषकारफलत्वाच्च । विमुक्तिमार्गास्तस्य निष्यन्दफलं पुरुषकारफलं च । असंस्कृतानि पुरुषकारफलमेव । यद्बलाज्जायते यत्तत्फलं पुरुषकारजं । यद्बलात्प्राप्यते च यत्तच्च पुरुषकारफलमिति कृत्वा । (वि ।५३) एवं तर्हीति विस्तरः । यथा पृथग्जनस्य पाणिनेः प्रवचने उपसंख्यानं क्रियते । एवं सर्वज्ञस्यापि बुद्धस्योपसंख्यानं कर्तव्यमुपजायत इति वाक्यार्थः । पूर्वमार्गत्याग इति विस्तरः । पूर्वमार्गत्यागः प्रतिपन्नकमार्गत्यागात् । अपूर्वमार्गप्राप्तिश्च फलमार्गलाभादिति । सर्वस्यैकप्राप्तिलाभादिति । सर्वस्य दर्शनहेयप्रहाणस्यैका भावनामार्गसंगृहीता प्राप्तिः स्रोतआपत्तिफलप्राप्तिकाले लभ्यते । तथा सकृदागामिफलप्राप्तिकाले दर्शनहेयप्रहाणस्य षड्विधभावनामार्गहेयप्रहाणस्य च सर्वस्यैका सकृदागामिफलसंगृहीता प्राप्तिर्लभ्यते । एवमनागाम्यर्हत्त्वफलयोरपि योज्यं । चतुर्विधानां धर्मान्वयज्ञानानामिति । सत्यभेदाच्चतुर्विधानां धर्मज्ञानानामन्वयज्ञानानां च तथैव चतुर्विधानाम् (अभिधर्मकोषव्याख्या ५७८) इति । युगपदष्टज्ञानलाभः । (वि ।५४) लौकिकमार्गप्राप्तं फलद्वपमिति । सकृदागामिफलम् [तिब् । २४१ ] अनागामिफलं च । तद्धि लौकिकेनापि मार्गेण प्राप्तं संभवति । तत्कथं श्रामण्यस्यानास्रवमार्गलक्षणस्य फलं युज्यते । दर्शनमार्गफलमपि प्रहाणमिति । अपिशब्दाद्भावनामार्गफलमपि प्रहाणं गृह्यते । तस्य द्विप्रकारस्यापि प्रहाणस्य सकृदागामिफलसंगृहीतानागामिफलसंगृहीता वा एका प्राप्तिर्लभ्यते । तस्माद्दर्शनमार्गफलप्रहाणयोगादसंस्कृतं सकृदागंिफलमनागामिफलं वा श्रामण्यफलं भवति । यत्त्रयाणां संयोजनानां प्रहाणमिति । त्रिसंयोजनप्रहाणं दर्शनमार्गेण । पंचावरभागीयैकदेशानां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सानां दर्शनमार्गेणैव प्रहाणं । तस्य प्रहाणस्य सकृदागाम्यनागामिफलत्वे । किं । कृतः प्रक्षेपः । तेन ज्ञायते । प्रहाणमिश्रीकरणादेवमुक्तं भगवतेति । तद्बलेन परिहीणादिति । लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा इति तत्रनास्रवया विसंयोगप्राप्त्या तत्प्रहाणं यल्लौकिकमार्गसंप्राप्तं संधार्यते । प्राप्तियोगेनावश्यमुपतिष्ठत इत्यर्थः । म्रियते न फलभ्रष्ट इति । तदभावे हि लौकिकस्येव परिहीणस्य मरणं स्यात् । तद्बलेनेत्यनास्रवविसंयोगप्राप्तिबलेनेत्य्[तिब् । २४१ ] अर्थः । सैव च वर्तमानलौकिकमार्गोपजनितानास्रवा प्रातिरनागतश्चाष्टांग आर्यमार्गो लौकिकबलेन प्राप्यमाणः संस्कृतं श्रामण्यफलं व्यवस्थाप्यमानं न विरुध्यते । सूत्रे त्वसंस्कृतं श्रामण्यफलमुद्ग्राह्यते । प्राधान्यात् । संस्कृतमप्यत्रैष्टव्यमिति । (वि ।५५, ५६) क्लेशानां वाहनाद्ब्राह्मण्यमिति । वाहिता अनेनानेकविधाः पापका अकुशला धर्मा इति ब्राह्मणः । तद्भावो ब्राह्मण्यमनास्रवो मार्गः । कथं ब्रह्मचक्रमित्याह । ब्रह्मचक्रं तु ब्रह्मवर्तनादिति । यस्माद्ब्रह्मणा प्रवर्तितं । तस्मात्ब्रह्मचक्रमिति । अनुत्तरब्राह्मण्ययोगादिति । अनुत्तरानास्रवमार्गयोगादित्यर्थः । एष हि भगवान् ब्राह्मेत्येतदुदाहरणं जीवकेनोक्तमेतत् । आशुगत्वाद्यरादिभिर् इति । आशुगत्वादिभिररादिभिश्चेत्यर्थः । आशुगत्वादिति विस्तरः । इदं मार्गस्य चक्ररत्नेन साधर्म्यमुच्यते । यथा चक्ररत्नमाशुगम् । एवं (अभिधर्मकोषव्याख्या ५७९) दर्शनमार्गः । पंचदशभिश्चित्तक्षणैः सत्याभिसमयादाशुग इति । त्यजनक्रमणात् । यथा तदन्यं देशं त्यजत्यन्यं देशं क्रामति । [तिब् । २४२ ] एवमयमानंतर्यमार्गं त्यजति विमुक्तिमार्गं क्रामति संमुखीभावतः । सत्यांतरत्यजनक्रमणाद्वा । अजितजयजिताध्यावसनात् । यथा तदजितानि ग्रामनिगमादीनि जयति । जितानि चाध्यावसति । एवमयमानंतर्यमार्गेणाजितान् सत्कायदृष्ट्यादीन् क्लेशां जयति तत्प्रातिच्छेदात् । जितांश्चाध्यावसति विमुक्तिमार्गेण । क्लेशविसंयोगप्राप्तिसहोत्पादात् । उत्पतननिपतनाच्च । यथा च तत्क्वचिदुत्पतति क्वचिन्निपतति । एवमयमानंतर्यविमुक्तिमार्गाणां पुनःपुनः संमुखीभावात् । कामादिदुःखादिसत्यालंबनतो वा यथायोगमुत्पतति च । रूपारूप्यधात्वालंबनादुत्पतति । कामधात्वालंबनान्निपततीति । सम्यग्दृष्टिरिति विस्तरः । इह शीलं प्रतिष्ठाय समाधिलाभः समाधिलाभात्प्रज्ञा यथाभूतं भाव्यत इत्यतः सम्यग्वाक्कर्मांताजिवा नाभिस्थानीयाः । सम्यग्दृष्ट्यादीनां तत्प्रतिबद्धवृत्तित्वात्शीलमाधारभूतमिति कृत्वा । समाधिर्नेमिस्थाणीयस्तेनेतरेषामुपग्रहात् । सम्यग्दृष्ट्यादयोऽरस्थानीयः । [तिब् । २४२ ] अरवदितश्चामुतश्च प्रवृत्तत्वात् । कुत एतदिति । किं स्वमतमेतद्वैभाषिकाणां दर्शनमार्गो धर्मचक्रमित्याहोद्विदागमत इति । तदुत्पत्तौ प्रवर्तितमिति । दर्शनमार्गोत्पत्तौ प्रवर्तितं धर्मचक्रमिति सूत्रे वचनात् । कथं । भगवान् बाराणास्यां विहरति स्म ऋषिपतने मृगदावे । तत्र भगवान् पंचकां भिक्षूनामंत्रयते स्म । इदं दुःखमार्यसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश्चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि । अयं दुःखसमुदयः । अयं दुःखनिरोधः । इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । पूर्वमननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश्चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि । तत्खलु दुःखमार्यसत्यमभिज्ञया परिज्ञातव्यं मयेति पूर्वमननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश्चक्षुरुदपादीति पूर्ववत् । तत्खलु दुःखसमुदय आर्यसत्यमभिज्ञया प्रहातव्यं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत्खलु दुःखनिरोध आर्यसत्यमभिज्ञया साक्षात्कर्तव्यं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत्खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावयितव्यं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । [तिब् । २४३ ] तत्खलु दुःखमार्यसत्यमभिज्ञया परिज्ञातं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत्खलु दुःखसमुदय आर्यसत्यमभिज्ञया प्रहीणं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत्खलु (अभिधर्मकोषव्याख्या ५८०) दुःखनिरोध आर्यसत्यमभिज्ञया साक्षात्कृतं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । तत्खलु पुनर्दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावितं मयेति पूर्वमननुश्रुतेषु धर्मेषु पूर्ववत् । यावच्च मम भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं न चक्षुरुदपादि । न ज्ञानं न विद्या न बुद्धिरुदपादि । न तावदहमस्मात्सदेवकाल्लोकात्समारकात्सब्रह्मकात्सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुराया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षं । न तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीत्यध्यज्ञासिषं । यतश्च मम भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं चक्षुरुदपादि यावद्बुद्धिरुदपादि । ततोऽहमस्मात्सदेवकाद्यावत्विप्रयुक्तो विपर्यासापगतेन चेतसा [तिब् । २४३ ] बहुलं व्यहार्षं । ततोऽहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मीति अध्यज्ञासिषं । अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे आयुष्मतः कौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नमशीतेश्च देवतासहस्राणां । तत्र भगवानायुष्मंतं कौण्डिन्यमामंत्रयते स्म । आज्ञातस्ते कौण्डिन्य धर्मः । आज्ञातो मे भगवन् । आज्ञातस्ते कौण्डिन्य धर्मः । आज्ञातो मे सुगत । आज्ञात आयुष्मता कौण्डिन्येन धर्म इति भौमा यक्षाः शब्दमुदीरयंति घोषमनुश्रावयंति । एतन्मार्षा भगवता बाराणस्यामृषिपतने मृगदावे त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रवर्तितं । अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा । केनचित्पुनर्लोके सहधर्मेण बहुजनहितायेति विस्तरः । तदेवमार्यस्य कौण्डिन्यस्य दर्शनमार्ग उत्पन्ने देवताभिरुक्तं भगवता प्रवर्तितं धर्मचक्रमिति सूत्रवचनात् । दर्शनमार्गो धर्मचक्रमिति गम्यते । कथं त्रिपरिवर्तमिति विस्तरः । इदं दुःखमार्गसत्यमित्येकः परिवर्तः । तत्खलु परिज्ञातव्यमिति द्वितीयः । तत्खलु परिज्ञातमिति तृतीयः । इत्येते त्रयः परिवर्ताः । एकैकस्मिन् परिवर्ते इदं दुःखमित्यस्मिंश्चक्षुरुदपादि ज्ञानं [तिब् । २४४ ] विद्या बुद्धिरुदपादीति चत्वार आकाराः । परिज्ञातव्यमित्यस्मिन् पुनश्चत्वारः । परिज्ञातमित्यस्मिन् पुनरपि चत्वारः । इत्येते द्वादशाकाराः । तत्र प्रत्यक्षार्थत्वादनास्रवा प्रज्ञा चक्षुः । निःसंशयत्वाज्ज्ञानं । भूतार्थत्वात्विद्या । विशुद्धत्वाद्बुद्धिः । विशुद्धा धीर्बुद्धिरिति निरुक्तेः । पुनर्बाह्यकानां सत्येषु दर्शनं कुदृष्टिविचिकित्साविद्यानामप्रतिपक्षः सास्रवं चेति ततो विशेषणार्थं चक्षुरादिग्रहणं (अभिधर्मकोषव्याख्या ५८१) पुनस्त्रिषु परिवर्तेषु प्रथमं दर्शनं चक्षुः । यथादृष्टव्यवचारणं ज्ञानं । यावद्भाविकतामुपादाय विद्या । यावद्विद्यमानग्रहणात् । यथावद्भाविकतामुपादाय बुद्धिः । यथाभूतार्थावबोधात् । पुनरननुश्रुतेषु धर्मेष्वानुमानिकज्ञानप्रतिषेधार्थं चक्षुरित्याह । आधिमोक्षिकज्ञानप्रतिषेधार्थं ज्ञानमिति । आभिमानिकज्ञानप्रतिषेधार्थं विद्येति । सास्रवप्रतिषेधार्थं बुद्धिरिति । प्रति सत्यमेवं भवंतीति । अयं दुःखसमुदय आर्यसत्यं । तत्खलु प्रहातव्यं । तत्खलु प्रहीणमित्येते त्रयः परिवर्ताः । एकैकस्मिं परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरित्येते द्वादशाकाराः । एवं निरोधमार्गसत्ये अपि योज्ये । आह । यदि प्रति सत्यमेवं भवंति । त्रयः परिवर्ता द्वादश चाकाराः [तिब् । २४४ ] द्वादश परिवर्ताः अष्टचत्वारिंशच्चाकाराः प्राप्नुवंति । कस्मात्त्रिपरिवर्तं द्वादशाकारमित्युक्तम् । अत उच्यते । त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तमिति । द्वयसप्तस्थानकौशलदेशनावदिति । द्वयदेशनावत् । सप्तस्थानकौशलदेशनावच्च । तद्यथा विस्तरमुक्त्वा तेन हि भिक्षो द्वयं ते देशयिष्यामि तच्छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये । द्वयं कतमत् । चक्षूरूपाणि यावन्मनोधर्माश्चेति । यथेह द्वयसाधर्म्याद्द्वयमित्युक्तम् । एवं त्रिकद्वादशकसाधर्म्यात्त्रिपरिवर्तं द्वादशाकारमुक्तं । यथा च सप्तस्थानकुशलो भिक्षुः रूपं यथाभूतं प्रजानाति । रूपसमुदयं । रूपनिरोधं । रूपनिरोधगामिनीं प्रतिपदं । रूपस्यास्वादं चादीनवं च । निःसरणं च यथाभूतं प्रजानातीति । सप्तस्थानकुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्मिन् धर्मविनये दुःखस्यांतं प्रजानातीति । प्रत्येकं स्कंधेषु सप्तस्थानकौशलसाधर्म्यात् । एवमिहापि त्रिकद्वादशकसाधर्म्यात्त्रिपरिवर्तं द्वादशाकारमुक्तमिति । एभिश्चेति विस्तरः । एभिश्च परिवर्तैर्यथासूत्रनिर्दिष्टैर्दर्शनभावनाशैक्षमार्गा [तिब् । २४५ ] यथासंख्यं दर्शिताः । इदं दुःखमार्यसत्यमित्यारभ्य यावदियं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति दर्शनमार्गो दर्शितः । तत्खलु दुःखम् आर्यसत्यमभिज्ञया परिज्ञातव्यमित्यारभ्य यावत्तत्खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावयितव्यमिति भावनामार्गो दर्शितः । तत्खलु दुःखमार्यसत्यमभिज्ञया परिज्ञातमित्यारभ्य यावत्तत्खलु दुःखनिरोधगामिनी प्रतिपदार्यसत्यमभिज्ञया भावितमित्यशैक्षमार्गो दर्शित इति । अत्राचार्य आह । यद्येवमिति विस्तरः । यद्येवमेभिः परिवर्तैर्दर्शनादिमार्गा यथासंख्यं दर्शिताः । न तर्हि दर्शनमार्ग एव त्रिपरिवर्तो द्वादशाकारः । किं तर्हि । एकपरिवर्तश्चतुराकार इति । कथमसौ दर्शनमार्गो धर्मचक्रं व्यवस्थाप्यते । त्रिपरिवर्ताभावे (अभिधर्मकोषव्याख्या ५८२) चक्रसाधर्म्याभावान्न चक्रं युज्यत इत्यभिप्रायः । तस्मात्स एव धर्मपर्यायो धर्मचक्रं । तदेव सूत्रं धर्मचक्रं । धर्मचक्रप्रकाशनात् । त्रिपरिवर्तं द्वादशाकारं च युज्यते । तदर्थप्रकाशनात् । त्रिःपरिवर्तनादिति । दुःखं यावन्मार्ग इत्येकं परिवर्तनं । [तिब् । २४५ ] परिज्ञातव्यं यावद्भावयितव्यमिति द्वितीयं । परिज्ञातं यावद्भावितमिति तृतीयं । चतुर्णां सत्यानां त्रिधाकरणादिति । दुःखं समुदयो निरोधो मार्ग इति सत्यस्वरूपं प्रत्येक आकरणप्रकारश्चतुराकारः । परिज्ञातव्यं प्रहातव्यं साक्षात्कर्तव्यं भावयितव्यमिति कर्तव्यरूपां परिज्ञानक्रियां प्रति द्वितीय आकरणप्रकारश्चतुराकारः । परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति परिनिष्ठितां परिज्ञानादिक्रियां प्रति तृतीय आकरणप्रकारश्चतुराकार इति । द्वादशाकारं भवति । तस्य पुनरिति । धर्मपर्यायस्य । प्रवर्तनं परसंतान्मे गमनं विनेयजनसंताने प्रेरणं । कथं गमनम् । अर्थज्ञापनात् । अथ वा सर्व एवार्यमार्गो दर्शनभावनाशैक्षमार्गो धर्मचक्रं । विनेयजनसंताने क्रमणात् । क्रमणाच्चक्रमिति कृत्वा । यदि सर्व एवार्यमार्गो धर्मचक्रं । कथमार्याज्ञातकौण्डिन्यस्य दर्शनमार्गमात्रोत्पादे तत्प्रवर्तितमित्युक्तं । अत उच्यते । तत्तु परसंताने आर्यकौण्डिन्यसंताने । दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमादौ वर्तितमित्येतत्प्रवर्तितमित्युच्यते । आदिकर्मणि प्रशब्दो वर्तते । प्रभुक्त ओदन इति यथा । (वि ।५७) तृतीयस्य तु कस्मादप्राप्तिरिति । रूपधातूपपन्नो [तिब् । २४६ ] यदि नियाममवक्रामेत् । षोडशे चित्तक्षणे कस्मादनागामिफलप्राप्तिर्न स्यादित्यभिप्रायः । परिहार उच्यते । नोर्ध्वं हि दृक्पथ इति । श्रवणाभावादिति । आरूप्येषु श्रावकबोधिरेव भवंती भवेत् । स्वयंभुबोधेरसंभवात् । श्रावकाभिसमयश्च परतो घोषमंतरेण न भवति । किं च अधोधात्वनालंबनाच्च । न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इति । त्रैधातुकालंबनेन च दर्शनमार्गेण भवितव्यमित्यतः । स तत्र न भवतीति । विधानं विधा उपाय इत्यर्थः । (वि ।५८, ५९ ब्) परिहाणं धर्मः स्वभावोऽस्येति परिहाणधर्मा । चेतनाधर्मा आत्ममारणधर्मा । अनुरक्षणाधर्मा यस्तां विमुक्तिमनुरक्षितुं शक्नोति । स्थिताकंप्यः यस्यां विओमुक्तौ स्थितः । तस्यामकंप्यः । प्रतिवेधनाभव्यः । इन्द्रियसंचारभव्यः । अकोप्यधर्माकोप्योऽनिवार्यो धर्मोऽस्येत्यकोप्यधर्मा । स च द्विविधः । स्वभावतस्तीक्ष्णेन्द्रियः । (अभिधर्मकोषव्याख्या ५८३) न्द्रियसंचारतस्तीक्ष्णेन्द्रियश्च । पंच श्रद्धाधिमुक्तजाः एवेत्यवधारणं । श्रद्धाधिमुक्ता भूत्वा एते जाता इत्यर्थः । श्रद्धाधिमुक्तपूर्वका इति यावदुक्तं भवति । षष्ठस्[तिब् । २४६ ] त्वन्यथापि भवतीति व्याख्यातं सामयिकीति । समये उपकरणारोग्यदेशविशेषादिलक्षणे भवा सामयिकी । कांता च । कांता चेतोविमुक्तिः । कस्मात्कांतेति । नित्यानुरक्ष्यत्वात् । कांतं हि नित्यमनुरक्ष्यमिति लोके दृश्यते । सूत्रेऽप्युक्तं । तद्यथा नामैकाक्षस्य पुरुषस्य ज्ञातय एकमक्षि साधु च सुष्ठु चानुरक्षितव्यं मन्येरन् । मास्य शीतं मास्योष्णं मास्य रजोऽंशवश्चक्षुषि निपतेयुर्मास्य यदप्येकं चक्षुरविनष्टं तदपि विनश्येदिति । एवमेव समयविमुक्तस्यार्हतोऽनुरक्ष्य एष धर्मोऽनुकंप्योऽनुग्राह्यः । तत एवं समयविमुक्तोऽर्हन् साधु च सुष्ठु चानुरक्षितव्यं मन्यते । कच्चिदहमेतस्माद्धर्मान्न परिहीयेयेति । स तस्मान्न परिहीयत इति । घृतघटवदिति । यथा घृतस्य पूर्णो घटो घृतघट इति भवति । मध्यगतस्य पूर्णशब्दस्य लोपात् । यथा वा घृतापेक्षो घटो घृतघटो यत्र घृतं प्रक्षेप्स्यते । अपेक्षशब्दलोपात्घृतघट इति भवति । एवमिहापि मध्यगतस्यापेक्षशब्दस्य लोपात्समयाअपेक्षाश्चैते विमुक्ताश्चेति समयविमुक्ताः । समयः पुनरुपकरणादिरित्य्[तिब् । २४७ ] उक्तं । कथं कोपयितुमशक्यत्वादित्याह । अपरिहाणित इति । कालांतरात्यंतविमुक्तितो वेति । कालांतरविमुक्तितः समयविमुक्तत्वम् । अत्यंतविमुक्तितोऽसमयविमुक्तित्वमित्यर्थः । कथमेवमित्याह । परिहाणिसंभवासंभवतः । परिहाणिसंभवात्कालांतरविमुक्त्या समयविमुक्त इत्युच्यते । परिहाण्यसंभवादत्यंतविमुक्त्यासमयविमुक्त इत्युच्यते । दृष्टिप्राप्तान्वयश्च स इति । यदा शैक्षो भूत्वेन्द्रियाणि संचरति । स दृष्टिप्राप्ततामापद्यते । अथ स्वभावतस्तीक्ष्णेन्द्रियः स षोडशे चित्तक्षणे दृष्टिप्राप्त एव । तस्मादसावकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्युच्यते । यस्त्वर्हत्त्वावस्थायामिन्द्रियाणि संचरति । नासावकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्यवगंतव्यं । (वि ।५९ द्) कश्चित्प्रथमत एव चेतनाधर्मगोत्रक इति । परिहाणधर्मा नोच्यते । यस्मादुत्तापनागतो न भवतीति । तद्गोत्रा आदितः केचिदित्यपदिष्टं । तत्किमिदं परिहाणधर्मगोत्रं नाम यावदकोप्यधर्मगोत्रम् [तिब् । २४७ ] इति न तैः परिहाणधर्मादिगोत्रमपदिष्टं । तत्र केचिदेवं वर्णयंति कुशलमूलानि गोत्रमिति । कस्यचिद्धि तादृशानि कुशलानि भवंति । यः परिहाणधर्मा यावदकोप्यधर्मा । अन्ये (अभिधर्मकोषव्याख्या ५८४) पुनराहुः पृथग्जनावस्थामारभ्येन्द्रियभेदो गोत्रमिति । सौत्रांतिकाः पुनर्वर्णयंति बीजं सामर्थ्यं चेतसो गोत्रमिति । पृथग्जनावस्थायां शैक्षावस्थायां च परिहाणधर्मबीजे सति हेतौ परिहाणधर्मगोत्रक इत्युच्यते । एवमशैक्षावस्थायां तद्बीजवृत्तिलाभात्परिहाणधर्मेत्युच्यते । एवं यावदकोप्यधर्मेति । तत्र परिहाणधर्मेति विस्तरः । परिहाणधर्मा यः परिहातुं भव्य इति । यद्येतावद्ब्रूयात् । न च चेतनादिधर्मेत्येतन्न ब्रूयात् । सर्व एवैते चेतनाधर्मादयश्चत्वारः परिहातुं भव्या इत्येषामेवान्यतरः परिहाणधर्मा स्यात् । न तेभ्योऽन्यः पंचमः । अतस्तेभ्योऽन्य एवायं पंचम इति विशेषयन्न च चेतनादिधर्मेत्याह । चेतनाधर्मादीनां पुनश्चतुर्णां परिहाणधर्मकत्वेऽसति [तिब् । २४८ ] एकैकस्य विशेषलक्षणापदेशादेव पुनरिदं वक्तव्यं जायते । चेतनाधर्मा चेतयितुं भव्यो न चानुरक्षणाधर्मा यावत्प्रतिवेधनाभव्य इति । एवमनुरक्षणाधर्मा परिहाणिप्रत्ययं बलवंतमंतरेणेति । यदि परिहाणिप्रत्ययो बलवान् स्यात्परिहीयेत स इत्यभिप्रायः । अनेन बलवत्प्रत्ययवचनेन परिहाणधर्मणः पूर्वोक्ताद्विशिनष्टि । परिहाणधर्मा ह्यबलवतापि परिहाणिप्रत्ययेन परिहीयते । परिहाणिप्रत्ययाः पुनर्यथा सूत्रं । पंच हेतवः पंचप्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तंते । कतमे पंच । कर्मांतप्रसृतो भवति । भाष्यप्रसृतो भवति । अधिकरणप्रसृतो भवति । दीर्घचारिकायोगमनुयुक्तो भवति । दीर्घेण च रोगजातेन स्पृष्टो भवतीति । अननुरक्षन्नपीत्यनेनानुरक्षणाधर्मणो विशिनष्टि । स ह्यनुरक्षन्नेव न परिहीयेत । अयं त्वननुरक्षन्नपीति । अननुरक्षयन्नपि तत्फलं स्थातुं भव्यस्तत्फले । न हातुं तत्फलात् । नापि वर्धयितुं प्रतिवेधनाभव्यताप्राप्त्या । विनाभियोगेन विना वीर्येण । अनेनार्थादुक्तं भवति । यद्यभियोगं कुर्याद्भव्यः स्यादिति प्रतिवेधनाभव्याच्चायमेवं विशेषितो भवति । [तिब् । २४८ ] स हि विना अप्यभियोगेन प्रतिवेद्धुं भव्य इति । प्रथमौ द्वाविति विस्तरः । परिहाणधर्मा सातत्यसत्कृत्यप्रयोगविकलः । चेतनाधर्मापि सातत्यप्रयोगेण विकलः । विशेषेण तु सत्कृत्यप्रयोगेण विकल इत्यनयोर्विशेषः । मृद्विन्द्रियस्त्विति षष्ठाद्विशिनष्टि । षष्ठो हि तीक्ष्णेन्द्रियः । इन्द्रियकृतो ह्यनयोर्विशेषो न प्रयोगकृत इति । एवं च कृत्वेति विस्तरः । यस्मान्नावश्यमेवं भवति । तस्माद्रूपारूप्यधात्वोरपि षडर्हंतो न केवलं कामधातावेव षडित्यभिप्रायः । रूपारूप्यधात्वोर्द्वौ स्थिताकंप्य एकः । अकोप्यधर्मा च द्वितीयः । स्थिताकंप्यस्(अभिधर्मकोषव्याख्या ५८५) तावद्बद्धाभिरुचिः स्यान्न प्रतिवेधनाभव्यताक्रियादरवानिति । न कामधातौ स्थिताकंप्यः प्रतिवेधनाभव्यतामापद्यते । रूपारूप्यधात्वश्च परिहाणिप्रत्ययो बलवान्नास्तीति । नासौ परिहीयते । न चेन्द्रियाणि संचरंतीति स्थिताकंप्यगोत्रक एव सं तत्र भवति । अकोप्यविमुक्तियोगाच्चाकोप्यधर्मापि भवति । एवेति द्वावेव तौ भवतः । नातोऽन्ये । तयो रूपारूप्यधात्वोः परिहाणिचेतनेन्द्रियसंचाराभावात् । परिहाणधर्मा तावत्तत्र नास्ति । परिहाण्यभावात् । अनुरक्षणाधर्मापि नास्ति । परिहाण्यभावेनानुरक्षितव्यायोगात् । [तिब् । २४९ ] अत एव चेन्द्रियसंचाराभावात्प्रतिवेधनाभव्योऽपि न भवति । तथा चोक्तं । स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाग् इति । तत्र च नात्मसंचेतना न परसंचेतनास्तीति चेतनाधर्मापि न भवतीति । (वि ।६० ब्) चेतनाधर्मादीनां चतुर्णामिति । चेतनानुरक्षणाधर्मस्थिताकंप्यप्रतिवेधनाभव्यानां । न हि परिहाणधर्मा पुनः स्वगोत्रात्परिहीयत इति । तस्य गोत्रस्याकृत्रिमत्वात् । परिहाणधर्मादीनां पंचानामिति । यस्मात्परिहाणधर्मणोऽपि फलात्परिहाणिः संभवति । फलस्यागंतुकत्वात् । न पूर्वकाद् इति । गोत्रात्फलाच्च । स तस्मान्न परिहीयत इत्यर्हन् । कस्मादित्याह । शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वादिति । यच्छैक्षावस्थायां गोत्रमस्ति । तच्छैक्षेण मार्गेण भावितं । अशैक्षावस्थायां च पुनर्भावितमिति । ताभ्यां दृढीकृतत्वान्न तस्मात्सोऽर्हन् परिहीयते । शैक्षस्तु कथमित्याह । शिक्षस्तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वात्प्रथमात्गोत्रान्न परिहीयते । यत्तदात्मीयं प्रथमं गोत्रं तल्लौकिकेन मार्गेण पूर्वं भावितं । शैक्षेण च मार्गेण पुनर्भावितमिति । ततो [तिब् । २४९ ] न परिहीयते । अत्र कश्चिदाह । यदुच्यते । यस्य यत्प्रथमं गोत्रं । स तस्मान्न परिहीयते शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वादिति । तदेतदकारणं । यस्माद्योऽपि चेतनाधर्मा उत्तापनागतस्तस्मात्गोत्रात्परिहीयते । तद्गोत्रं शैक्षाशैक्षाभ्यां मार्गाभ्यां दृढीकृतमिति । परिहाणिर्न प्राप्नोति । तस्मात्गोत्रमेव तत्तादृशं यस्मादाद्यान्न परिहीयते । उत्तापनागतात्तु परिहीयत इति । यदप्युक्तं शैक्षस्तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वान्न परिहीयत इत्येतदप्यकारणं । स्रोतआपन्नस्य परिहाणिप्रसंगात् । न हि स्रोतआपत्तिफलं लौकिकेन मार्गेण दृढीकृतमिति । कर्तव्योऽत्र यत्न इति । (अभिधर्मकोषव्याख्या ५८६) अत्र वयमाचार्यस्याभिप्रायं दर्शयामो येनैवमुक्तं । कथमिति । यत्तावदुक्तं चेतनाधर्मा उत्तापनागतस्तस्मात्गोत्रात्परिहीयत इति । तदयुक्तं । यद्धि चेतनाधर्मगोत्रं शैक्षावस्थायां भावितं पुनश्चाशैक्षावस्थायामपि भावितमिति दृढीकृतं । नैव स तस्मादर्हत्त्वात्परिहीयमाणः परिहीयते । शैक्षावस्थायां प्रथमीभूतत्वात् । उक्तं चाचार्यसंघभद्रेण यः शैक्षावस्थायां गोत्रांतरमधिगम्यार्हत्त्वं प्राप्नोति । असाव्[तिब् । २५० ] अपि तं मार्गं परित्यजति । न चोत्तापनागत एव गोत्रे नावतिष्ठत इति । यत्तु चेतनाधर्मगोत्रमशैक्षावस्थायामिदानीमेवाधिगतं न शैक्षावस्थायामधिगतं । स तस्मात्परिहीयमाणः परिहीयते । तदवस्थाद्वयादृढीकृतत्वात् । इति न कारणमेवैतद्भवति । यदप्युक्तं शैक्षस्तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतत्वान्न परिहीयेत इत्येतदप्यकारणं । स्रोतआपन्नस्य परिहाणिप्रसंगात् । न हि स्रोतआपत्तिफलं लौकिकेन लोकोत्तरेण दृढीकृतमिति । तदप्यनवबुद्ध्याभिहितं । तद्गोत्रं प्रति कारणमुच्यते । न फलं प्रति । तत्र हि कारणांतरं वक्ष्यते । येन प्रथमात्फलान्न परिहीयते । न हि किंचिदप्यस्ति फलं यद्युगपदुभाभ्यां लौकिकलोकोत्तराभ्यां प्राप्यते । गोत्रं तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतं भवति । ऐहजन्मिकेनोष्मगतादिना पारजन्मिकेन वा प्रहाणमार्गेणान्येन वा लौकिकेन मार्गेण लोकोत्तरेण शैक्षावस्थायां भावितत्वात् । यत्तु पश्चात्प्रतिलब्धमुत्तापनयेति । यदागंतुकं गोत्रं पश्चादेव न द्वयोरवस्थयोरधिगतं तस्मात्[तिब् । २५० ] परिहीयते । गोत्रं निर्दिश्य फलं निर्दिश्यते । यस्य च यत्प्रथमं फलमिति विस्तरः । अत एव च स्रोतआपत्तिफलान्नास्ति परिहाणिरिति । यस्मात्स्रोतआपत्तिफलं यदि प्राप्यतेऽवश्यं प्रथमं भवति । सकृदागाम्यनागामिफले तु कदाचित्तु प्रथमे भवतो यदि भूयोवीतरागकामवीतरागयोः । कदाचिदप्रथमे यद्यानुपूर्विकस्य । तत्र यद्यत्फलं प्रथमं भवति स्रोतआपत्तिफलं सकृदागामिफलमनागामिफलं वा । न तस्मात्परिहीयते । यत्तु पश्चात्सकृदागामिफलमनागामिफलमर्हत्त्वफलं वा । ततः परिहीयते । एवं च कृत्वेति । यस्य च यत्प्रथमं गोत्रं फलं च । स तस्मान्न परिहीयत इति कृत्वा । यथाक्रमं पंच षट्सप्त प्रकारा इति । अनुरक्षणाधर्मणः पंच प्रकारा भवंति । तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः परिहाय वा शैक्षत्वं चेतनाधर्मगोत्रप्रत्यागमनं परिहाणधर्मगोत्रप्रत्यागमनं च । स्थिताकंप्यस्य षट्प्रकारा भवंति । (अभिधर्मकोषव्याख्या ५८७) त एव च पंच अनुरक्षणाधर्मगोत्रप्रत्यागमनं षष्ठं । प्रतिवेधनाभव्यस्य सप्त प्रकारा भवंति । एत एव च षट्स्थिताकंप्यगोत्रप्रत्यागमनं च सप्तममिति । यस्य च यत्[तिब् । २५१ ] प्रथमं गोत्रं शैक्षावस्थायामासीत् । स शैक्षीभूतः । पुनरिति वाक्याध्याहारः । तत्रैवावतिष्ठते नान्यस्मिन् । अन्यथा हि गोत्रविशेषलाभाच्छैक्षावस्थाद्गोत्राद्विशिष्टं तद्गोत्रं भवतीति । अतो विशिष्टगोत्रलाभात्वृद्धिरेवास्य पुद्गलस्य स्यात् । न परिहाणिरिति । कथं कृत्वा । यथा तावत्परिहाणधर्मा अर्हत्त्वावस्थायामिन्द्रियोत्तापनया प्रतिवेधाभव्यताप्राप्तः । सोऽर्हत्त्वात्परिहीयते । शैक्षीभूतस्तद्गोत्रादपि परिहीयमाणो न स्थिताकंप्यगोत्रे तिष्ठति । प्रतिलोमतो यावन्न चेतनाधर्मगोत्रे । किं तर्हि । परिहाणधर्मगोत्र एव तिष्ठतीति । अन्यथा हीति यद्यन्यगोत्रेऽवतिष्ठेत । गोत्रविशेषलाभादिति परिहाणधर्मगोत्रविशिष्टगोत्रलाभात् । तस्मादवश्यमर्हत्त्वात्परिहीयमाण इन्द्रियोत्तापनादपि गोत्रात्परिहीयत इति । किं पुनः कारणं प्रथमात्फलान्नास्ति परिहाणिरिति । यस्य यत्प्रथमं फलं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा । दर्शनहेयानामवस्तुकत्वादनधिष्ठानत्वादित्यर्थः । आत्माधिष्ठानप्रवृत्ता ह्येत इति विस्तरः । आत्मनोऽधिष्ठानेन प्रवृत्ता एते दर्शनहेयाः । कस्मादित्याह । सत्कायदृष्टिमूलत्वात् । यस्माद्[तिब् । २५१ ] आत्मदर्शनवशेन दर्शनहेयानां समुदाचारः । उक्तं च यानि वा पुनः पृथग्लोके दृष्टिगतानि । तानि सत्कायदृष्टिमूलकानि सत्कायदृष्टिसमुदयानि सत्कायदृष्टिजातीयानि सत्कायदृष्टिप्रभवानीति । स चात्मा नास्तीत्यवस्तुकत्वान्नास्ति परिहाणिरिति । सत्यालंबनत्वादिति । सत्यानां नित्यादितो ग्रहनात् । कतमश्च क्लेशो नैवं । भावनाप्रहातव्योऽपि हि रागादिर्वितथालंबनः । शुचिसुखनित्यात्माकारैः सत्यादितत्त्वालंबनात् । आत्मत्वमभूतमध्यारोपयंतीति । यथोक्तं । ये केचिद्भिक्षव आत्मेति आत्मीय इति समनुपश्यंतः समनुपश्यंति । इमानेव ते पंचोपादानस्कन्धानात्मत आत्मीयतश्च समनुपश्यंतीति । तदधिष्ठानानुप्रवृत्ताश्चांतग्राहादय इति । आत्माधिष्ठानानुप्रवृत्ताः । शाश्वत आत्मा । उच्छेदीति वा । नास्त्यात्मा । अयमेवाग्रः । इयमेव शुद्धिः । किमसावस्ति नास्तीत्येवमाद्याकारप्रवृत्तास्तदन्यद्दर्शनहेया अवस्तुका उच्यंते । निरधिष्ठाना उच्यंत इत्यर्थः । न त्वात्मादिलेशोऽस्तीति । आदिग्रहणेनात्मीयग्रहणमीश्वरादिग्रहणं वा । [तिब् । २५२ ] प्रतिनियतं मनआपामनआपादिलक्षणमिति । रागस्य भावनाहेयस्य मनआपं केशदंतशुभादिलक्षणं (अभिधर्मकोषव्याख्या ५८८) वस्तु । प्रतिघस्यामनआपं तदशुभतादिलक्षणं । मानस्यापि मनआपमविद्याया अपि तदेव द्वयं संमोहनीयं किंचिदिति । न तु दर्शनहेयानामात्मादिलक्षणमिति । न तु दर्शनहेयानामात्मात्मीयलक्षणं प्रतिनियतं वस्तु किंचिदस्ति । अन्यत्र तदालंबनेभ्यो रागादिभ्यः । तस्मादवस्तुका उच्यंते । तस्मान्न प्रतिनियतवस्तुका उच्यंत इत्यर्थः । अपि खल्विति विस्तरेणाचार्यः । आर्यस्य शैक्षस्यानुपनिध्यायतोऽसंतीरयतः स्मृतिसंप्रमोषात्क्लिष्टस्मृतियोगात्क्लेश उत्पद्यते । रागादिकः । नोपनिध्यायतः । रज्ज्वामिव सर्पसंज्ञा कस्यचिदनुपनिध्यायतः स्मृतिसंप्रमोषाज्जायते । नोपनिध्यायतः । तद्वत् । आत्मदृष्ट्यादीनामिति । अंतग्राहदृष्ट्यादीनां ग्रहणं । किं पुनः कारणं । न चानुपनिध्यायत आत्मदृष्ट्यादीनामुत्पत्तिर्युज्यते । संतीरकत्वात् । केषाम् । आत्मदृष्ट्यादीनां क्लेशानां । अतोऽनुपनिध्यानादार्यस्यात्मदृष्ट्यादीनामुत्पत्तिर्न युज्यत इति । परिहाणिकारणाभावान्नास्ति दर्शनहेयप्रहाणात्[तिब् । २५२ ] परिहाणिरिति । अर्हत्त्वादपि नास्तीति । न केवलं दर्शनहेयप्रहाणान्नास्ति परिहाणिरर्हत्त्वादपि नास्ति परिहाणिरित्यपिशब्देन दर्शयति । अप्रथमाभ्यां तु सकृदागाम्यनागामिफलाभ्यां परिहाणिः संभवति । लौकिकेन मार्गेण तत्प्राप्तिसंभवादित्यभिप्रायः । एष एव च न्याय इत्याचार्यः समर्थयति । तद्धि भिक्षवः प्रहीणमिति । तदेव प्रहीणं । यदार्यप्रज्ञया प्रहीणं । तद्धि न पुनरुत्पद्यते । लौकिक्या तु यत्प्रहीणं । तत्पुनरुत्पद्यत इत्यभिप्रायः । शैक्षस्य चाप्रमाद इति विस्तरेण द्वितीयं सूत्रपदं ज्ञापकमर्हत्त्वान्नास्ति परिहाणिरिति । अयं चास्यार्थः शैक्षस्याप्रमादनिमित्तमप्रमादकर्म प्रवेदयाम्यप्रमादः शैक्षेण कर्तव्य इति । ननु च शैक्षस्याप्यार्यया प्रज्ञया प्रहाणमस्ति । कथं तस्याप्रमादकरणीयं शास्तीति । यस्मादनधिगतमनेन फलांतरमधिगंतव्यं । लौकिकमार्गगतं च तस्य प्रहाणमस्तीति । अत्र वैभाषिको ब्रूयादर्हतोऽप्यहमानन्द लाभसत्कारमंतरायकरं वदामीति सूत्रे वचनादस्त्यर्हतोऽपि परिहाणिरित्यत इदमुच्यते । अर्हतोऽपि विस्तरेण यावदत्र सूत्रे दृष्टधर्मसुखविहारमात्रादेव परिहाणिरुक्तेति । [तिब् । २५३ ] कथं । यत्र भगवानायुष्मंतमानन्दमामंत्रयते स्म । अर्हतोऽप्यहमानन्द लाभसत्कारमंतरायकरं वदामीति । आयुष्मानानन्द आह । तत्कस्माद्भगवानेवमाह । अर्हतोऽप्यहमानन्द लाभसत्कारमंतरायकरं वदामीति । भगवानाह । न हैवानन्दाप्राप्तस्य प्राप्तये । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अपि तु येऽनेन चत्वार (अभिधर्मकोषव्याख्या ५८९) आधिचैतसिका दृष्टधर्मसुखविहारा अधिगताः । ततोऽहमस्यान्यतमस्मात्परिहाणिं वदामि । तच्चाकीर्णस्य विहरतः । या त्वनेनैकाकिनाव्यपकृष्टेनाप्रमत्तेनातापिना प्रहितात्मना विहरता अकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता । ततोऽस्याहं न केनचित्पर्यायेण परिहाणिं वदामि । तस्मात्तर्ह्यानन्दैवं ते शिक्षितव्यं । यल्लाब्बसत्कारमभिभविष्याणो न चात्यन्तैर्लाभसत्कारकैश्चित्तं पर्यादाय स्थास्यति । एवं ते आनन्द शिक्षितव्यमिति । यदि वैभाषिक एवं ब्रूयात् । अकोप्या इति विशेषणात्सामयिक्या अस्ति परिहाणिरिति । तत आह । सामयिक्या अस्तीति चेदिति । वयमप्येवं ब्रूमः । सामयिक्या अस्ति परिहाणिरिति । सा तु विचार्या सा तु सामयिकी विमुक्तिर्विचार्या । कथमित्याह । किमर्हत्त्वं सामयिकी विमुक्तिरस्ति । [तिब् । २५३ ] आहोस्विद्ध्यानान्येव लौकिकानि सामयिकी विमुक्तिरिति । कस्मादेवमाशंक्यत इत्याह । मौलो हि ध्यानसमाधिरिति । ध्यानमेव समाधिर्ध्यानसमाधिः । मौलध्यानग्रहणं सुखप्रतिपदामग्रत्वात् । समये संमुखीभावात् । कस्मिंश्चित्काले निःशब्दादिके संमुखीभावात् । समये भवा समायिकी विमुक्तिरित्युच्यते । पुनःपुनरेषणीयत्वात्कांतेति । परिहाणौ परिहाणौ कमनीयत्वात्प्रार्थनीयत्वादित्यर्थः । आस्वादनीयत्वादित्यपर इति भदंतरामः । सास्रवत्वादास्वादनासंप्रयुक्तध्यानयोगात्कांतेत्यभिप्रायः । अर्हत्त्वविमुक्तिस्त्विति विस्तरः । अर्हत्त्वमेव विमुक्तिरर्हत्त्वविमुक्तिः । नित्यानुगतत्वात्प्राप्तियोगेन । न युज्यते सामयिकीत्यनेन सामयिक्या विमुक्तेर्विपर्ययेणार्हत्त्वविमुक्तिं दर्शयति । अपुनःप्रार्थनीयत्वान्न कांतेत्यनेन कांतविपर्ययेऽर्हत्त्वविमुक्तिर्न कांतेति । नित्यानुगतत्वेनास्तित्वादप्रार्थनीयत्वान्न कांतेत्यर्थः । आधिचैतसिकेभ्य एवेति । अधिचेतसि भवा [तिब् । २५४ ] आधिचैतसिका दृष्टधर्मसुखविहाराः । तेभ्य एव । किमर्थं परिहाणिमवक्ष्यदिति । ये ते चैतसिका द्र्ष्टधर्मसुखविहारा अधिगताः । ततोऽहमस्यान्यतमस्मात्परिहाणिं वदामीति वचनात् । यद्यर्हत्त्वात्सामयिकी विमुक्तिलक्षणात्परिहाणिसंभवोऽभविष्यत् । किमर्थं तेभ्य एव परिहाणिमवक्ष्यत् । न तेभ्य एव परिहाणिमवक्ष्यदित्यर्थः । वशित्वभ्रंशादिति । समाधिसंमुखीभाववशित्वभ्रंशादित्यर्थः । सोऽपरिहाणधर्मेति । अपरिहाणधर्मा अकोप्यधर्मणोऽन्यः सूत्रे पठितः । अष्टादशशैक्षान् विस्तरेणोक्त्वाह । नवाशैक्षाः कतमे । परिहाणधर्मा । अपरिहाणधर्मा । चेतनाधर्मा । अनुरक्षणाधर्मा । स्थिताकंप्यः । प्रतिवेधनाभव्यः । अकोप्यधर्मा । (अभिधर्मकोषव्याख्या ५९०) प्रज्ञाविमुक्तः । उभयतोभागविमुक्तः । इम उच्यंते नवशैक्षा इति । यः परिहीयते दृष्टधर्मसुखविहारेभ्यः । स परिहाणधर्मा । यो न परिहीयते तत एव । सोऽपरिहाणधर्मा । एवं [तिब् । २५४ ] चेतनाधर्मादयोऽपि योज्याः । कथं । यः समाधिभ्रंशभयादात्मानं चेतयते । स चेतनाधर्मा । योऽनुरक्षति कथंचिद्गुणविशेषं । सोऽनुरक्षणाधर्मा । यो यस्मिन्नेव गुणे स्थितः । तस्मादननुरक्षन्नपि न कंप्यते । स स्थिताकंप्यः । यः परेण प्रतिविध्यति । गुणविशेषमुत्पादयतीत्यर्थः । स प्रतिवेधनाभव्यः । यो न कुप्यति उत्पन्नेभ्यो न परिहीयते । सोऽकोप्यधर्मा । को विशेष इति । अपरिहाणधर्मादीनां त्रयाणामपरिहाणियोगाद्विशेषमपश्यन् प्रश्नयति । अनुत्तापनागत इति । स्वभावतस्तीक्ष्णेन्द्रियः । नेंद्रियोत्तापनां प्राप्त इत्यर्थः । तस्मान्न कंप्यत इति । तस्मात्गुणविशेषादित्यर्थः । एष विशेषो लक्ष्यत इति । आचार्यः स्वमतं दर्शयति । ननु चायुष्मान् गौतिकोऽर्हत्त्वात्परिहीण इत्येवं यदि वैभाषिको ब्रूयादित्यस्य प्रतिविधानमारभ्यते । आयुष्मान् गौतिक इति विस्तरः । शैक्षीभूत इति न तावदर्हन् । शस्त्रमाधारयन्निति । शस्त्रं वाहयन् । कायजीवितनिरपेक्षत्वात्कारणान्मरणकाल एवार्हत्त्वं प्राप्तः । शस्त्राधारादुत्तरकाल इत्यर्थः । [तिब् । २५५ ] परिनिर्वृत्तश्च तेनैव शस्त्रप्रहारेण । दशोत्तरे चेति । दशोत्तरनामसूत्रे । किमुक्तमित्याह । एको धर्म उत्पादयितव्यः । कतम इत्याह । सामयिकी कांता चेतोविमुक्तिरिति । दृष्टधार्मसुखविहार इत्यभिप्रायः । एको धर्मः साक्षात्कर्तव्यः । कतम इत्याह । अकोप्या चेतोविमुक्तिरिति । अर्हत्त्वमित्यभिप्रायः । पृथग्वचनाद्ध्यकोप्यविमुक्तिलक्षणादर्हत्त्वादर्हत्त्वस्वभावा न कांता चेतोविमुक्तिरुक्तेत्यभिप्रायः । द्विप्रकारत्वादर्हत्त्वस्य पृथग्वचनमिति वैभाषिकवचनावकाशं पश्यन् पुनराह । यदि चार्हत्त्वमिति विस्तरः । यद्यर्हत्त्वमेव सामयिकी कांता चेतोविमुक्तिरभविष्यत् । किमर्थं तत्रैव दशके न सूत्रांतरे अर्हत्त्वस्य द्विग्रहणमकरिष्यत् । एको धर्मः साक्षात्कर्तव्यः । अकोप्या चेतोविमुक्तिरिति । नैवाकरिष्यदित्यर्थः । एवं ह्यवक्ष्यत् । एको धर्मः साक्षात्कर्तव्यश्चेतोविमुक्तिरिति । ब्रूयास्त्वर्हत्त्वं द्विप्रकारम् । अतो वचनविभागेनोच्यते । एकमुत्पादयितव्यं द्वितीयं साक्षात्कर्तव्यमिति । अत्र ब्रूमः । न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तं । [तिब् । २५५ ] किं तर्हि । साक्षात्कर्तव्यमिति । तत्रतत्र सूत्रे । अभ्युपेत्यापि ब्रूमः । मृद्विन्द्रियसंगृहीतं चोत्पादयितव्यमिति । किमनेन ज्ञापनेन ज्ञापितं कथितं भवति । यदि तावदुत्पादयितुं शक्यमित्येतज्ज्ञापितं भवति । (अभिधर्मकोषव्याख्या ५९१) शकि लिङ्चेति कृत्यप्रत्ययलक्षणात् । अन्यदपि शक्यं यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वं । तथा च सत्येवं सूत्रे वक्तव्यं स्यात् । एको धर्म उत्पादयितव्यः । चेतोविमुक्तिरिति । अथोत्पादनमर्हतीत्येतज्ज्ञापितं भवति । अर्हे कृत्यतृचश्चेति लक्षणपरिग्रहात् । अन्यत्सुतरामर्हति यत्तीक्ष्णेन्द्रियसंगृहीतमर्हत्त्वं । तद्ध्यकोप्यत्वात्सुष्ठूत्पादयितुमर्हतीत्यभिप्रायः । कथं तर्हीति विस्तरः । यदि सामयिकी विमुक्तिरर्हत्त्वं भवति । एवं तद्योगात्समय विमुक्तोऽर्हन्निति युज्यत इत्यभिप्रायः । समयापेक्षः समाधिसंमुखीभाव इति । यस्मादस्य समाधिः सास्रवोऽनास्रवोऽपि वा समयमारोग्यदेशविशेषादिलक्षणमपेक्षते । अभिधर्मेऽपि चोक्तमिति विस्तरः । कामरागानुशयोऽप्रहीणो भवतीत्येतदुदाहरणम् । इदं चाप्युदाहरणं । तत्र चायोनिशोमनस्कार इति । परिपूर्णोत्पत्तिरेवमिति चेत् । स्यान्मता परिपूर्णकारणस्य क्लेशस्यैवमुत्पत्तिः । अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलादेवेति । [तिब् । २५६ ] तदयुक्तं । कस्मादित्याह । कस्य वापरिपूर्णकारणस्योत्पत्तिरिति । कस्योत्पत्तिः । यतः अपरिपूर्णकारणस्योत्पत्तिरस्ति । यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा । सा तदेकदेशविकला सती तस्योत्पत्तये न भवति । तद्यथा चक्षू रूपालोकमनस्कारसामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा । स तदन्येतरविकला सती तदुत्पत्तये न भवतीति । तस्मान्न किंचिदेतत् । तद्रूप इति तत्प्रकारः । तत्स्वभाव इति वा । अथ नोत्पन्न इति प्रतिपक्षः तद्बीजधर्मतायामिति । क्लेशबीजस्वभाव इत्यर्थः । तस्यामनपोद्धृतायामनुन्मूलितायां कथं क्षीणास्रवो भवतीति । ब्रूयास्त्वं न भवतीति । अत आह । अक्षीणास्रवो वा कथमर्हन् भवतीति । एवंचरत इति । स्मृतिमतश्चरत इत्यर्थः अनंतरं स्मृतिवचनात् । शैक्षस्स इत्यस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्याह । स हि तत्रार्हन्नेव ज्ञापित इति । कथं कृत्वा ज्ञापित इत्याह । दीर्घरात्रमिति विस्तरः । अपरिहाणिवादिनः स्यादेवं वचनावकाशः । शैक्षस्येदं विवेकनिम्नचित्तमुच्यते यावन्निर्वाणप्राग्भारमिति । अस्य परिहारार्थं परिहाणिवादी पुनराह । अर्हतो ह्येतद्बलमन्यत्रोक्तमिति सूत्रे । कथं । कति भदंतार्हतो भिक्षोः क्षीणास्रवस्य बलानि । [तिब् । २५६ ] अष्टौ शारिपुत्रार्हतो भिक्षोर्दीर्घरात्रं विवेकनिम्नं चित्तं यावन्निर्वाणप्राग्भारं । अंगारकर्षूपमाश्चानेन कामा दृष्टा भवंति । यथास्य कामान् जानतः कामान् पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत्कामाध्यवसानं । तत्रास्य चित्तं न पर्यादाय तिष्ठतीति विस्तरः । किं च शीतीभूतं (अभिधर्मकोषव्याख्या ५९२) वांतीभूतमिति चाभिधानात् । तत्रैवांगारकर्षूपमे सूत्रेऽर्हन्नेव ज्ञापित इति । अस्त्येतदेवमिति । अंगारकर्षूपमे यदुक्तमर्हन्नेव ज्ञापित इति । यावत्तु चारो न सुप्रतिविद्ध इति । पिण्डपातादिचारः । शैक्षावस्थामधिकृत्यैवंवचनाददोष इति । यदेतदुक्तं । कदाचित्स्मृतिसंप्रमोषादुत्पद्यंते पापका अकुशला वितर्का इति । तच्छैक्षामधिकृत्योक्तं नार्हत्त्वावस्थां । यत्तूक्तं दीर्घरात्रं विवेकनिम्नमिति । तच्छैक्षस्यापि संभवति । अर्हतस्तु प्रकर्षेण भवतीति विशेषाः । यच्चाप्युक्तं सास्रवस्थानीयैर्धर्मैः शीतीभूतं वांतीभूतमिति । तदपि शैक्षावस्थामधिकृत्य संभवति । कामावचरास्रवस्थानीयधर्मशीतीभावाभिधानात् । [तिब् । २५७ ] अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाददोष इति आचार्यस्याभिप्रायः । (वि ।६० द्) प्रयोगासंभवान्न दर्शनमार्ग इति । पंचदशक्षणो दर्शनमार्गः । तत्रेन्द्रियसंचारे प्रयोगावकाशो नास्ति । कश्चित्पृथग्जनावस्थायामिन्द्रियाणि संचरतीति । [किमनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि संचरति ।] किमौदारिकाद्याकारेण मार्गेणेन्द्रियाणि संचरति । उताहो शांताद्याकारेणेति । अविशेषितत्वादुभयथापि संभवतीति पश्यामः । तथा ह्येनमर्थमाचार्यः सूचयिष्यति । न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचार इत्यार्याणामिति विशेषणात् । अपि नाम ममेन्द्रियाणि तीक्ष्णानि स्युरिति प्रयोगमभिसंधाय । मार्गं लौकिकं लोकोत्तरं चान्यस्यानंतर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि संचरतीति वेदितव्यं । कश्चिच्छ्रद्धाधिमुक्तावस्थायामित्यत्राशैक्षवचनं । शैक्षपृथग्जनाधिकारात् । अशैक्षोऽपि त्विंद्रियाणि संचरतीति बोद्धव्यं । (वि ।६१) कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिरिति । तीक्ष्नेन्द्रियत्वादस्य दृष्टधर्मसुखविहारेभ्यः परिहाणिर्न संभवेत् । किमुताकोप्याया विमुक्तेरित्यसंभावयन् पृच्छति । बुद्धस्योपभोगपरिहाणिरेवेति । विनेयकार्यव्यापृतत्वाद्[तिब् । २५७ ] दृष्टधर्मसुखविहारान्नोपभुंक्ते । न संमुखीकरोतीत्यर्थः । सा चाप्राप्तपरिहाणिश्चेति । अकोप्यधर्मणः सा चोपभोगपरिहाणिः कुतश्चिद्व्यासंगात् । अप्राप्तिपरिहाणिश्च पुद्गलविशेषधर्मप्रापणात् । यस्मादकोप्यधर्मापि कश्चिन्महाश्रावकाणामार्यशारिपुत्रमौद्गल्यायनादीनां प्रांतकोटिकादीन् धर्मान् । स्वयंभुवां च कांश्चिद्धर्मान्न प्राप्नोति । महाश्रावका अपि स्वयंभुवां कांश्चिद्विशेषधर्मान्न प्राप्नुवंतीत्यादि । अन्यस्यार्हत इति परिहाणधर्मादेर्मृद्विन्द्रियस्य प्राप्तपरिहाणिरप्यस्ति । अपिशब्दात्पूर्वोक्त अपि (अभिधर्मकोषव्याख्या ५९३) परिहाणी स्त इति । अकोप्यधर्मण उपभोगपरिहाणिवचनात्सूत्रविरोध इति । यदेतदुक्तं । येऽनेन चत्वार इति विस्तरेण । यावत्ततोऽहमस्यान्यतमस्मात्परिहाणिं वदामीति । तस्य सुत्रस्याविरोधः । षण्णामप्यर्हतामकोप्या विमुक्तिरित्युक्ते वैभाषिको ब्रूयात् । यदि सर्वस्यैवार्हतोऽनास्रवा विमुक्तिरकोप्या । कस्मादसमयविमुक्त एवाकोप्यधर्मा व्यवस्थापितो नान्य इति । अत इदमुच्यते । सर्वस्यानास्रवा विमुक्तिर्[तिब् । २५८ ] अकोप्येति । सत्यमस्त्येतत् । अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तमिति । दृष्टधर्मसुखविहारेभ्यस्तु कश्चिल्लाभसत्कारव्याक्षेपदोषात्परिहीयते वशित्वभ्रंशात् । यो मृद्विन्द्रियः । कश्चिन्न परिहीयते । यस्तीक्ष्णेन्द्रियः । स एवाकोप्यधर्मा व्यवस्थापितः । यत एव च दृष्टधर्मसुखविहारेभ्यो लाभसत्कारव्याक्षेपदोषात्परिहीयते । मृद्विन्द्रियो न तीक्ष्णेन्द्रियः । अत एतदचोद्यं । कथम् । अकोप्यधर्मणो दृष्टधर्मसुखविहारात्परिहाणिरित्यपरिहाणिवादी । अथ वा अयमन्यः संबंधः । पूर्वमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर्नास्तीत्युक्तं । सूत्रे च । यस्याकोप्या विमुक्तिः । तस्य दृष्टधर्मसुखविहारात्परिहाणिरुक्ता । अविशेष्याभिधानादत इदमुच्यते । सर्वस्यानास्रवा विमुक्तिरकोप्येति । न तयैवाकोप्यधर्मा व्यवस्थाप्यत इत्यभिप्रायः । अत एवोच्यते अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तमिति । अत एतदचोद्यमिति । यदुक्तं सूत्रमाश्रित्य कथमकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणि इति । (वि ।६२) धन्धा इति मन्दाः । अन्यथा ह्य्[तिब् । २५८ ] अनाश्वासिकमिति । यद्यर्हत्त्वात्परिहीणः पुनर्जायेत सुचीर्णब्रह्मचर्येऽस्मिन्मार्गे चापि सुभाविते तुष्ट आयुःक्षयाद्भवति रोगस्यापगमे यथेत्याश्वासः । एवंविधो न स्यादिति । तदकार्यमब्रह्मचर्यादिलक्षणं शूरप्रस्खलनापतनवदिति । यथा शूरस्य प्रस्खलने अपतनं भवति शक्तित आत्मधारणात् । तद्वदार्यः फलात्परिहीणोऽपि तत्फलमलब्ध्वा न म्रियते । शूरग्रहणमविह्वलत्वात् । बलवां छूर इत्यपरे । (वि ।६३, ६४) कथमभ्यस्तमित्याह । शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वादिति प्रयोगमार्गस्तु सर्वत्रैक एवेति । अकोप्यप्रतिवेधे दृष्टिप्राप्ततायां च । न हि सास्रवेणेति । आर्येन्द्रियसंचारस्य विवक्षितत्वात् । अन्यथा हि कश्चित्पृथग्जनावस्थायामिन्द्रियाणि संचरतीत्येतद्विरुध्यते । नान्यत्र परिहाण्यसंभवादिति । परिहाणिभयाद्धीन्द्रियसंचार इष्यते । अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश्च परिहाणिर्नास्तीत्याह । ऊर्धव्धातूपपन्न आर्यो नैवेन्द्रियाणि संचरति । नापि कथंचित्(अभिधर्मकोषव्याख्या ५९४) परिहीयते [तिब् । २५९ ] इति । उक्तमत्र कारणं । कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात् । आश्रयविशेषलाभाच्चेति । अथ कस्मात्कामावचरेषु देवेषु परिहाणिर्नास्ति । ये पूर्वमभ्युदारेभ्योऽपि विषयेभ्यः संविजंतो नियतं सत्यानि पश्यंति । ते कथं तानेवालंब्य परिहास्यंते । अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्यभिप्रायः । अशैक्षो नव निश्रित्येति । तत्फलस्य नवभूमिसंगृहीतत्वसंभवात् । फलं फलविशिष्टं चेति । फलं सकृदागामिफलं । फलविशिष्टं प्रथमध्यानादि प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणं । फलमार्गमेव प्रतिलभत इति । कामधातुवैराग्यमात्रसंगृहीतं । न चानागामिफलमारूप्यसंगृहीतमिति । पंचानामवरभागीयानां प्रहाणादनागामीति सूत्रे वचनात् । दर्शनमार्गस्य च तत्राभावात् । तदभावः कामधात्वनालंबनादिति व्याख्यातमेतत् । (वि ।६५ ब्) अकोप्यधर्मा च द्विविध इति । सूत्रे पठितत्वातकोप्यभेद एव द्वौ बुद्धाव् इति । अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात्त्रिधा भिद्यते । श्रावको ह्यकोप्यधर्माधिमात्रमृद्विन्द्रियः । [तिब् । २५९ ] प्रत्येकबुद्धोऽधिमात्रमध्येन्द्रियः । सम्यक्संबुद्धोऽधिमात्राधिमात्रेन्द्रिय इति । मृदुमृद्वादिनवप्रकारेन्द्रियभेदादिति । परिहाणिधर्मा मृदुमृद्विन्द्रियो यावद्भगवानधिमात्राधिमात्रेन्द्रिय इति । (वि ।६५ द्, ६६ ब्) सप्त भवंतीति । प्रत्येकबुद्धसम्यक्संबुद्धावुभयतोभागविमुक्तसंगृहीतावेवेति कृत्वा । पूर्वमेवेति विस्तरः । पूर्वमेव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा स्मृत्युपस्थानादीन् धर्मान् । पश्चादर्थेषु प्रयोगात् । चिन्ताभावनासेवनादित्यर्थः । तथा पूर्वमेव पृथग्जनावस्थायां प्रज्ञया द्वादशांगप्रवचनधर्मानुसारेण स्वयमेवं बोधिपक्षादीन् धर्माननुसरन्नर्थेषु प्रयोगात् । चिन्ताभावनासेवनात् । इत्येवं प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः । श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति । श्रद्धाधिमोक्षाधिक्यतः प्रज्ञाधिक्यतश्च । श्रद्धयाधिमोक्षः श्रद्धाधिमोक्षः । तस्याधिक्यान्मृद्विन्द्रियत्वं । प्रज्ञाधिक्यात्तीक्ष्णेन्द्रियत्वं । विमुक्तित इति । क्लेशविमुक्तितः प्रज्ञया क्लेशाद्विमुक्तः प्रज्ञाविमुक्त इति कृत्वा । समापत्तिविमुक्तित इति । समापत्तितो विमुक्तितश्च । तत्रेन्द्रियत [तिब् । २६० ] इति विस्तरः । यथैते श्रद्धानुसारिणो गण्यंते । तथा यथाग्रन्थं प्रदर्शयिष्याम । इन्द्रियतस्त्रयः । मृदुमध्याधिमात्रेन्द्रियत्वात् । (अभिधर्मकोषव्याख्या ५९५) अत्र पुनरेवमवगन्तव्यं । यद्यपि श्रद्धानुसारिणः सर्व एव मृद्विन्द्रियाः । तथापि तारतम्येनावस्थानादेषां पुनस्त्रिधाभेदः मृदुमध्याधिमात्रेन्द्रिया इति । गोत्रतः पंच । कथं । परिहाणधर्मगोत्रको यावत्प्रतिवेधनाभव्यगोत्रक इति पंच भवंति । पुनरेषां गोत्रेन्द्रियभेदात्पंचदशानामेकैको मार्गतः पंचदश भवंति । कथमित्युच्यते । अष्टक्षान्तिसप्तज्ञानस्था इति । दर्शनमार्गो हि पंचदशक्षणाः । अष्टौ क्षान्तयः । दुःखे धर्मज्ञानक्षांतिर्यावन्मार्गे अन्वयज्ञानक्षान्तिः । सप्त ज्ञानानि । दुःखे धर्मज्ञानं यावन्मार्गे धर्मज्ञानं । मार्गेऽन्वयज्ञानस्य भावनामार्गसंगृहीतत्वात् । अष्टौ च सप्त च पंचदश भवन्ति । त एवं तत्रस्थाः पंचदश भवंति । एवमेषां मार्गतः पंचदशधाभिन्नानां पुनरेकैको वैराग्यतस्त्रिसप्ततिः । कथं । सकलबन्धनस्तावत्कामधातावेकः । कामवैराग्यान्नव । एकप्रकारवीतरागो यावन्नवप्रकारवीतरागः । एवं यावदाकिंचन्यायतनवैराग्यान्नवेति । भवाग्रवैराग्यान्नवेति न संभवति । लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात् । त एतेऽष्टौ नवका द्विसप्ततिः । [तिब् । २६० ] सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर्भवंति । पुनरेते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः । प्रत्येकमाश्रयतो नव । कथमित्याह । त्रिद्वीपषड्देवनिकायजा इति । त्रयो द्वीपा उत्तरकुरुवर्ज्याः । उत्तरकुरौ मार्गाभावात् । षड्देवनिकायाः कामावचराः । तत ऊर्ध्वं दर्शनमार्गाभावात् । तेषु जाता इति । प्रत्येकमेते नवगुणा भवंति । इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति । निगमन उच्यते । इयन्त इति वृत्तौ लिखिताः । एवमन्येऽपि पुद्गलाः संभवतः संख्येया इति । धर्मानुसारिप्रभृतयः । यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः । तथैव संख्येयाः संभवत इति । धर्मानुसारिदृष्टिप्राप्तसमयविमुक्तानां गोत्रभेदो नास्ति । श्रद्धाधिमुक्तसमयविमुक्तयोस्तु गोत्रभेदोऽप्यस्तीति । संभवत इत्युच्यते । तत्रेन्द्रियतस्त्रयो धर्मानुसारिणः । गोत्रत एक एवेति भेदो नास्ति । मार्गतः पंचदश अष्टक्षान्तिसप्तज्ञानस्थाः । वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः । कामवैराग्यान्नव । एवं यावदाकिंचन्यायतनवैराग्यात् । [तिब् । २६१ ] आश्रयतो नव । त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः । सहस्राण्येकान्नत्रिंशत्संपद्यंते । शतानि च पंच पंचषष्टिश्च । एवमिन्द्रियतस्त्रयः श्रद्धाधिमुक्ताः । गोत्रतः पंच प्रत्येकं । वैराग्यतस्त्रिसप्ततिः प्रत्येकमेव पूर्ववत् । आश्रयतो नव । त्रिद्वीपषड्देवनिकायजा इति । एवमिन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः । नव सहस्राणि संपद्यन्ते । (अभिधर्मकोषव्याख्या ५९६) शतानि चाष्टौ पंच पंचाशच्च । केवलफलस्थो षोडशचित्तप्राप्तोऽधिकृतः । श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदेत्य् अनयो इह विवक्षितत्वात् । भगवद्विशेषस्त्वाह । मार्गतो नव भवंति । भावनामार्गस्थत्वादिति । तन्न बुध्यामहे केनाभिप्रायेणैवमुक्तमिति । यद्ययमभिप्रायो भवेत् । मार्गतो भूमौभूमौ नव भवन्तीति । वैराग्यतस्त्रिसप्ततिरिति स एवार्थो दर्शितो भवेत् । ततव्यतिरेकादिति । युक्तं स्यात् । तदेव हि परिमाणं स्यात् । अथ नवभूमिकानास्रवभावनामार्गस्थत्वान्नवत्वमेषां व्यवस्थाप्येत । तथा सति । तत्परिमाणं पुनर्नवगुणीक्रियेत । एतावन्तश्च भवेयुरष्टाशीतिसहस्राणि । शतानि च षट् । पंचनवतिश्चेत्येवमुत्तरत्रापि वक्तव्यं । यदि तु श्रद्धाधिमुक्त आ वज्रोपमात्समाधेर्गृह्येत । ततोऽन्यथा गणयितव्यं । इन्द्रियतस्त्रयः श्रद्धाधिमुक्ताः । [तिब् । २६१ ] गोत्रतः पंच प्रत्येकं । वैराग्यत एकाशीतिः त्रिसप्तत्तौ भवाग्राष्टप्रकारवीतरागानष्टावधिकान् प्रक्षिप्य । आश्रयत एकान्नत्रिंशत् । कथं कामधातौ नवोपपत्तिस्थानानि । रूपधातौ षोडश स्थानानि । चत्वारश्चारूप्या इति । एवमिन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः सहस्राणि पंचत्रिंशत् । शते च द्वे । पंचत्रिंशच्चेति । दृष्टिप्राप्तस्य गोत्रभेदो नास्ति । इन्द्रियवैराग्याश्रयतः पिण्डिताः सहस्रं संपद्यन्ते । शतानि च नव । एका सप्ततिश्च । यदि त्वा वज्रोपमात्समाधेर्दृष्टिप्राप्तो गृह्यते । तत एवं संख्यातव्याः । इन्द्रियवैराग्याश्रयतः पिण्डिताः । सप्तचत्वारिंशदधिकानि सप्त सहस्राणि संपद्यन्ते । कायसाक्षी श्रद्धाधिमुक्तदृष्टिप्राप्तयोरन्तर्भूत इति न गण्यते । यदि पुनर्गण्यते इन्द्रियतस्त्रयः । यदि श्रद्धाधिमुक्तः स कायसाक्षी गोत्रतः पंच । यदि दृष्टिप्राप्तो नास्ति गोत्रभेदः । मार्गत उभयोरपि नास्ति भेदः । आकिंचन्यायतनवीतरागत्वात्वैराग्यतोऽपि नास्ति भेदः । यद्यपि भवाग्रे सकलबन्दनः एकप्रकारवीतरागो यावदष्टप्रकारवीतराग इति । मार्गतो वैराग्यतो वास्ति भेदः । न तु मार्गवैराग्यकृतं कायसाक्षित्वमिति । नास्य तत्कृतस्तद्भेदो व्यवस्थाप्यते । [तिब् । २६२ ] आश्रयतो वा बहुधाभेदः । कामावचराश्रयत्वात्यावद्भवाग्राश्रयत्वादिति भगवद्विशेषः । कथमाकाशानंत्यायतनाद्याश्रयः कायसाक्षी भवति । एवं तु युक्तं पश्यामः । आश्रयतः पंचविंशतिः । कामधातौ नवोपपत्तिस्थानानि । रूपधातौ च षोडश स्थानानिति । तत्र ह्यार्यो निरोधसमापत्तिमुत्पादयेत् । यदि तु कामरूपाश्रयोत्पादितनिरोधसमापत्तियोगात्कायसाक्षीभूतस्यानागामिनः । तत्समन्वागममात्रप्रयोगात् । (अभिधर्मकोषव्याख्या ५९७) पश्चादपि भवाग्राश्रयं कायसाक्षित्वमिष्येत । भवाग्रं षड्विंशतितम आश्रयः स्यादित्यवगन्तव्यं । एवमिन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः । प्रज्ञाविमुक्तस्यापि भेदः । इन्द्रियतस्त्रयः प्रज्ञाविमुक्तः । गोत्रतः पंच । यदि समयविमुक्ताः । अथासमयविमुक्ता नास्ति भेदः । एवमुभयतोभागविमुक्तोऽपि योजयितव्यः । (वि ।६६ द्) प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वादिति । प्रज्ञाबलेन क्लेशावरणविमुक्तत्वात् । समाधिबलेन च विमोक्षावरणविमुक्तत्वात् । विमोक्षाः पुनरष्टौ वक्ष्यन्ते रूपी रूपाणि पश्यतीति विस्तरः । तत्र क्लेशावरणम् [तिब् । २६२ ] इति । क्लेशा एवावरणं । विमोक्षावरणमिति । विमोक्षाणामावरणं । तत्पुनः कायचित्तयोरकर्मण्यता । यया विमोक्षानुत्पादयितुं न शक्नोतीति । (वि ।६७) क्लेशान् प्रहायेह हि यस्तु पंचेति । पंचावरभागीयानि संयोजनानि सत्कायदृष्ट्यादीन्युक्तानि । अहार्यधर्मेत्यपरिहाणिधर्मेत्यर्थः । फलत एवेति विस्तरः । श्रद्धाधिमुक्तत्वान्नेन्द्रियतः परिपूर्णत्वम् । अकायसाक्षित्वान्न समापत्तितः । अनागामित्वात्तु फलतः परिपूर्णत्वमस्ति । इन्द्रियत एवेति । दृष्टिप्राप्तत्वादिन्द्रियतः परिपूर्णत्वम् । अवीतरागत्वात्तु न फलतो नापि समापत्तितः । अनागामिफलसमापत्त्योरभावातेवमन्येषामपि संभवतो योज्यं । समापत्तित एवेति । समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्यामिति नास्त्येतत् । कस्मात् । न ह्यसत्यामनागामिफलप्राप्तौ निरोधसमापत्तिरस्ति । समापत्तीन्द्रियतश्च विना फलेनेति । समापत्तीन्द्रियत एव च परिपूर्णत्वं न फलत इत्येतदपि नास्ति । यस्मादनागामिफलमप्राप्तस्य निरोधसमापत्तिर्नास्तीति । इन्द्रियतः समापत्तितश्चेति । [तिब् । २६३ ] तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया चेत्यर्थः । इन्द्रियत एवेति विस्तरः । असमयविमुक्तस्येति वचनात् । अस्येन्द्रियतः परिपूर्णत्वं । प्रज्ञाविमुक्तस्येति वचनात् । न समापत्तितोऽस्य परिपूर्णत्वं । अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्युक्तं । समापत्तित एवेति । समयविमुक्तस्येति वचनात् । नेन्द्रियतः परिपूर्णत्वमस्य भवति । उभयतोभागविमुक्तस्येति वचनात् । समापत्तितोऽस्य परिपूर्णत्वं । निरोधसमापत्तिलाभीत्युभयतोभागविमुक्त इत्युक्तं । इन्द्रियसमापत्तिभ्यां । किं । परिपूर्णत्वं । असमयविमुक्तत्वादिन्द्रियतः उभयतोभागविमुक्तत्वात्समापत्तित इति दर्शयति । (वि ।६८) आनन्तर्यमार्गो येनावरणं प्रजहातीति । अप्रहाणमार्गसंभवात् । अस्ति स आनन्तर्यमार्गो येनावरणं न प्रजहाति । इन्द्रियसंचारादिषु । (अभिधर्मकोषव्याख्या ५९८) यस्तत्प्रहेयावरणनिर्मुक्तः प्रथमत इति । य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः । प्रथमत इति विशेषणं । यस्मात्तृतीयादिषु क्षणेषु तज्जातीयो [तिब् । २६३ ] मार्गो विशेषमार्ग इतीष्यते । तेन एव चाह । विशेषमार्गो य एभ्योऽन्यो मार्ग इति । प्रयोगमार्गादिभ्योऽन्य इत्यर्थः । किं च यदि प्रथमत इति न ब्रूयात् । विमुक्तिमार्गो यस्तत्प्रहेयावरणनिर्मुक्त इत्येतावद्ब्रूयात् । एवं सति दुःखधर्मज्ञानात्परेण सर्वे आनन्तर्यमार्गादयस्तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति । सर्वे विमुक्तिमार्गाः स्युः । अनिष्टं चैतत् । आनन्तर्यमार्गादिष्वपि विमुक्तिमार्गप्रसंगात् । तस्मादानन्तर्यमार्गस्य दुःखधर्मज्ञानक्षान्त्यादेर्यत्प्रहेयमावरणं । दुःखदर्शनप्रहातव्यो निकायो यावद्भावनाप्रहातव्यः । तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते । स विमुक्तिमार्गः । नान्यस्तत्प्रहेयावरणनिर्मुक्तत्वेऽपीति । य एभ्यः प्रयोगमार्गादिभ्यस्त्रिभ्योऽन्यः । स विशेषमार्गः । षोडशान्मार्गान्वयज्ञानक्षणात्परेण सप्तदशादयस्तज्जातीया येऽनास्रवाः क्षणाः । ते विशेषमार्गस्वभावा इत्यवगन्तव्यं । एवमन्यदपि विमुक्तिज्ञानं । यत्प्राकर्षिकं क्षयज्ञानादि । तदपि वक्तव्यं । यश्च दृष्टधर्मसखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः । सोऽपि विशेषमार्ग [तिब् । २६४ ] एव प्रयोगमार्गो यस्मादानन्तर्यमार्गोत्पत्तिरित्युक्तं । अतो लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते । यस्तु प्रतिलोमतः क्षान्त्यादिमार्गः । स कस्मिन्नन्तर्भवतीति वक्तव्यम् । आह । प्रयोगमार्ग एवान्तर्भवति । विप्रकृष्टस्त्वसौ प्रयोगमार्ग इत्ययं तस्याग्रधर्मेभ्यो विशेषः । उदाहरणार्थत्वाच्चाचार्येण संनिकृष्ट एव प्रयोगमार्ग उक्त इति । एष हि निर्वाणस्य पन्थाः । तेन तद्गमनादिति । लोके येन गम्यते । स मार्ग इति प्रतीतः । अनेन च निर्वाणं गम्यते प्राप्यते । तस्मान्मार्ग इति दर्शयति । मार्गयंत्यनेन वेति । मार्गोऽन्वेषण इति धातुः पठ्यते । तस्यैतद्घञि रूपं मार्ग इति । येन निर्वाणमन्विष्यते । स मार्ग इति । विमुक्तिविशेषमार्गयोः कथं मार्गत्वमिति । न हि ताभ्यां निर्वाणं प्राप्यते । प्रयोगानन्तर्यमार्गयोरेव तत्प्राप्तौ सामर्थ्यान्न तयोरिति अभिप्रायः । तज्जातीयाधिमात्रतरत्वादिति । प्रहाणमार्गजातीयौ चालंबनाकारानास्रवत्वसादृस्यात् । अधिमात्रतरौ च हेतूपचयतः । यथा ह्यानन्तर्यमार्गश्चतुःसत्यालंबनषोडशाकारोऽनास्रवश्च । एवं विमुक्तिविशेषमार्गावपि । अधिमात्रतरत्वेनैव तु तस्माद्विशेष इति । [तिब् । २६४ ] उत्तरोत्तरप्रापणात् । निरुपधिशेषप्रवेशाद्वेति । यस्माद्विमुक्तिमार्गेण विशेषमार्गेण च उत्तरोत्तरो (अभिधर्मकोषव्याख्या ५९९) मार्गः प्राप्यते । तस्मातनयोर्मार्गत्वमित्यर्थः । यस्माद्वा ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति । यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश इति । अपरे पुनरेवं व्याचक्षते । उत्तरोत्तरप्रापणान्निरुपधिशेषप्रवेशः । तस्मादनयोर्मार्गत्वमिति । (वि ।६९) निर्वाणप्रतिपादनादिति । यस्मादनेन निर्वाणं प्रतिपद्यत इत्यर्थः । एवं सुखापि द्विविधेति । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति सुखा क्षिप्राभिज्ञेति । अंगपरिग्रहणशमथविपश्यनासमताभ्यामयत्नवाहित्वादित्यंगैः परिग्रहः । शमथविपश्यनयोः समत्वं । अंगपरिग्रहश्च शमथविपश्यनासमत्वं च । ताभ्यामयत्नवाहित्वं । तस्मात्सुखा प्रतिपत् । यस्मादंगपरिगृहीतानि ध्यानानि शमथविपश्यनाभ्यां समानि च । तस्मादयत्नवाहीनि । अतश्च सुखासौ प्रतिपदिति । अंगापरिग्रहादिति विस्तरः । अंगापरिग्रहादनागम्यध्यानांतरारूप्या यत्नवाहिनः । शमथविपश्यनान्यूनत्वाच्च संभवतस्ते [तिब् । २६५ ] यत्नवाहिनः । शमथन्यूनत्वादनागम्यध्यानांतरे यथवाहिनी । विपश्यनान्यूनत्वाच्चारूप्या यत्नवाहिनः । तद्भावात् । तेऽनागम्यादयो दुःखा प्रतिपदिति । धन्धाभिज्ञेति । धन्धाभिज्ञास्यामिति । धन्धाभिज्ञा मन्दप्रज्ञेत्यर्थः । क्षिप्राभिज्ञेति तीक्ष्णप्रज्ञा । धन्धस्य मन्दस्य पुद्गलस्येयमभिज्ञा धन्धाभिज्ञेति । षष्ठीतत्पुरुषेणाप्येतत्सिध्यतीति दर्शयति । एवं क्षिप्रस्य तीक्ष्णस्य पुद्गलस्याभिज्ञा क्षिप्राभिज्ञेति योज्यं । (वि ।७०) चत्वारि स्मृत्युपस्थानानि । कायवेदनाचित्तधर्मास्मृत्युपस्थानानि यथोक्तानि । चत्वारि सम्यक्प्रहाणानि । उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय छन्दं जनयति । व्यायच्छते । वीर्यमारभते । चित्तं प्रगृह्णाति । प्रदधाति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयतीति पूर्ववत् । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयतीति पूर्ववत् । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये भूयोभावाय वृद्धिविपुलताज्ञानसाक्षात्क्रियायै छन्दं जनयतीति पूर्ववत् । चत्वार ऋद्धिपादाः । छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः । एवं वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः । ऋद्धिपादा ऋद्धिहेतव इत्यर्थः । [तिब् । २६५ ] पंचेन्द्रियाणि । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणि । पंच बलानि । श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानि । सप्तबोध्यंगानि । स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षाबोध्यंगानि । स्मृतिरेव संबोध्यंगं स्मृतिसंबोध्यंगम् । एवं यावदुपेक्षैव संबोध्यंगं (अभिधर्मकोषव्याख्या ६००) उपेक्षासंबोध्यंगमिति । आर्याष्टंगो मार्गः । सम्यग्दृष्टिः । सम्यक्संकल्पः । सम्यग्वाक् । सम्यक्कर्मान्तः । सम्यगाजीवः । सम्यग्व्यायामः । सम्यक्स्मृतिः । सम्यक्समाधिरिति । अशेषविद्याप्रहनादिति । यस्मादशेषत्रैधातुक्यविद्याप्रहाणं । तस्मादुभयं बोधिः । अनेन शैक्षपृथग्जनानां प्रज्ञा न बोधिर्व्यवस्थाप्यत इति दर्शयति । किं च यथाक्रमं । ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच्च । क्षयज्ञानेन यथाभूतं कृतावबोधात्तत्क्षयज्ञानं बोधिः । दुःखं मे परिज्ञातमिति यथाभूतं प्रजानाति । समुदयो मे प्रहीण इति । निरोधो मे साक्षात्कृत इति । मार्गो मे भावित इति यथाभूतं प्रजानातीति । अनुत्पादज्ञानेन यथाभूतमपुनःकर्तव्यमिति । [मार्गो मे भावितो न पुनर्भावयितव्य] तदनुत्पादज्ञानमपि बोधिः । दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम् । [तिब् । २६६ ] इति यथाभूतं प्रजानाति । समुदयो मे प्रहीणो न पुनः प्रहातव्य इति । निरोधो मे साक्षात्कृतो न पुनः साक्षात्कर्तव्य इति । मार्गो मे भावितो न पुनर्भावयितव्य इति यथाभूतं प्रजानातीति । दुःखं मे परिज्ञातमित्यनेन क्षयज्ञानं । न पुनः परिज्ञातव्यमित्यनेनानुत्पादज्ञानम् । इत्युभयमपि तीक्ष्णेन्द्रियस्य पुद्गलस्य दर्शयतीति सर्वं नेयं । तदेवं क्षयज्ञानमनुत्पादज्ञानं च बोधिरित्यवयवार्थं प्रसाध्य समुदयार्थं प्रसाधयन्नाह । तादनुलोम्यतः सप्तत्रिंशत्तु तत्पक्षा इति । तस्या बोधेरनुलोमस्तदनुलोमः । तद्भावस्तादनुलोम्यं । तस्मात् । तादनुलोम्यतो बोधिपक्षा । बोधिपक्षे साधवोऽनुलोमा इति बोधिपक्षाः । स्मृत्युपस्थानादयः सप्तत्रिंशदुच्यंते प्रवाचने । (वि ।७१) दश द्रव्याणीति । केषांचिन्मतेन । वक्ष्यति हि वैभाषिकाणामेकादश कायवाक्कर्मणोरसंभिन्नत्वादिति । प्रज्ञा हि स्मृत्युपस्थितिर् इति । प्रज्ञा स्मृत्युपस्थानमित्यर्थः । स्मृतिरुपतिष्ठतेऽनयेति कृत्वा । तथा हि सूत्र उक्तं । काये [तिब् । २६६ ] कायनुपश्यी विस्तरः । वीर्यं सम्यक्प्रहाणाख्यम् इति । यस्मादुक्तमुत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय छन्दं जनयति । व्यायच्छते । वीर्यमारभत इति सर्वं । ऋद्धिपादाः समाधय इति । यस्मादुक्तं छन्दसमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं (अभिधर्मकोषव्याख्या ६०१) भावयतीति सर्वं प्रहाणसंस्काराः पुनरत्राष्टौ सूत्रे पठ्यन्ते । कथं । तथाभूतस्य यश्छन्दः । यो व्यायामः । या श्रद्धा । या प्रश्रब्धिः । या स्मृतिः । यत्संप्रजन्यं । या चेतना । योपेक्षा । इम उच्यन्ते प्रहाणसंस्कारा इति । इन्द्रियाणि तावदिति विस्तरः । स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा द्रव्याणि पंच । तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि । यच्च बोध्यंगेषु धर्मप्रविचयसंबोध्यंगं । या च मार्गांगेषु सम्यग्दृष्टिः । न द्रव्यान्तरं । वीर्यमेव तद्यानि चत्वारि सम्यक्प्रहाणानि । यच्च बोध्यंगेषु वीर्यसंबोध्यंगं । यश्च मार्गांगेषु सम्यग्व्यायामः । समाधिरेव च स ये चत्वार ऋद्धिपादाः । यच्च बोध्यंगेषु समाधिसंबोध्यंगं । [तिब् । २६७ ] यच्च मार्गांगेषु सम्यक्समाधिः । किमवशिष्यते यन्न प्रज्ञेन्द्रियादिस्वभावं । बोध्यंगेषु प्रीतिप्रश्रब्ध्युपेक्षासंबोध्यंगान्यवशिष्यन्ते । मार्गांगेषु सम्यक्संकल्पाः । शीलांगानि च त्रीणि । सम्यग्वाक्सम्यक्कर्मान्तः सम्यगाजीव इति । दश द्रव्याणीति । श्रद्धादीनि पंच । प्रीतिसंबोद्यंगादीनि च पंचेति । शीलांगानि त्रीण्यविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते । वैभाषिकाणामेकादश द्रव्याणि । कायवाक्कर्मणोरसंभिन्नत्वात्द्वे द्रव्यमिति कृत्वा । अभिप्रायवशात्पक्षद्वयेऽप्यदोषः । यदि तु मुख्यवृत्त्या तस्मिन् कलापे यावंति द्रव्याणि संति । तावंति गण्येरन् । नैव तानि दश द्रव्याणि समाहितविज्ञप्तिरूपाणां सप्तद्रव्यत्वात् । षोडश द्रव्याणीति वक्तव्यं स्यात् । (वि ।७२) प्रधानग्रहणेनैवमुक्लं । प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति । सर्वे तु प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः । प्राधान्यं पुनस्तद्बलेनान्येषां [तिब् । २६७ ] वृत्तेः । न पुनस्ते न सन्ति । प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्यतः प्रज्ञाग्रहणं । न तु प्रज्ञैव स्मृत्युपस्थानं । किं तर्हि । प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रश्रब्ध्युपेक्षासम्यक्संकल्पादयोऽपीति । प्रायोगिकग्रहणमुपपत्तिलभ्यश्रद्धादिनिरासार्थं । एवं वीर्यप्रधानानि सम्यक्प्रधानानि । समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यं । ऋद्धिपादाः समाधय इति कुत एतत् । सूत्रात् । उक्तं हि छन्दं चापि भिक्षवो भिक्षुरधिपतिं कृत्वा लभते समाधिं । सोऽस्य भवति छन्दसमाधिः । (अभिधर्मकोषव्याख्या ६०२) चित्तं वीर्यं मीमांसां चापि भिक्षवो भिक्षुरधिपतिं कृत्वा लभते समाधिं । सोऽस्य भवति मीमांसासमाधिरिति । तेन हि सम्यक्कायवाङ्मनांसि प्रधीयंत इति । प्रधीयंते धार्यंते नियम्यन्ते प्रवर्त्यन्ते वा कदाचिदनेनेति प्रधानं । तत्प्रतिष्ठितत्वादिति । यस्मात्सर्वगुणसंपत्तिलक्षणा ऋद्धिस्तस्मिन् समाधौ प्रतिष्ठिता । ऋद्धेः पादः प्रतिष्ठेति ऋद्धिपाद इति । ये त्वाहुः समाधिरेव ऋद्धिः । पादाश्छंदादयः । छन्दचित्तवीर्यमीमान्सा इति । तेषामेवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षाः प्राप्नुवन्ति । छन्दचित्तयोराधिक्यादेकादशसु [तिब् । २६८ ] प्रक्षेपे । वीर्यप्रज्ञे त्वत्र नाधिके । सम्यक्प्रधानस्मृत्युपस्थानेष्वन्तर्भावात् । बहुधा भवतीति विस्तर इति । बहुधाभूत्वैको भवति । आविर्भवं । तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति । तिरः कुड्यं तिरः प्राकारमसज्जमानः कायेन गच्छति । तद्यथाकाशे । पृथिव्यामुन्मज्जननिमज्जनं करोति । तद्यथोदके । उदकेऽभिद्यमानेन स्रोतसा गच्छति । तद्यथा पृथिव्याम् । आकाशे पर्यंकेण क्रामति । तद्यथा शकुनिः पक्षी । इमौ वा पुनः भूयो चन्द्रमसावेवं महर्धिकावेवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि । यावद्ब्रह्मलोकं कायेन वशे वर्तयत इति । इयमुच्यते ऋद्धिः । ऋद्धिपादाः कतमे । छन्दसमाधिः । वीर्यसमाधिः । चित्तसमाधिः । मीमान्सासमाधिः । इम उच्यन्ते ऋद्धिपादा इति । एवंलक्षणः समाधिः । तस्मान्न समाधिरेव रुधिरिति । अत्राचार्यसंघभद्र आह । न भवत्येष तेषां दोषः । समाधिं हि ते ऋद्धिपादमिच्छन्ति । ऋद्धिरपीति । छन्दादयस्तूच्यन्ते समाधेश्चतुस्त्वज्ञापनार्थं । कश्चिद्धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानी भवति । कश्चित्कुशलमूलनिष्पन्नावस्थायां । पूर्वोऽत्र र्द्धिपादः । उत्तर र्द्धिरिति । सूत्रविरोधोऽपि चैषां न भवति । ऋद्धिपादफलमृद्धिशब्देनोक्तं । [तिब् । २६८ ] परिज्ञाफलस्य तच्छब्दाभिधानवदित्यादि । मृद्वधिमात्रभेदादिति । मृदूनीन्द्रियाणि अधिमात्राणि बलानि । कथमेषां मृद्वधिमात्रभेद इति हेतुमाह । अवमर्दनीयानवमर्दनीयत्वादिति । तद्विपक्षभूतैराश्रद्ध्यकौसीद्यमुषितस्मृतिताविक्षेपासंप्रजन्यैरन्तरासमुदाचारादिन्द्रियाण्यवमृद्यन्ते न त्व्च्वं बलानीति । पुनस्तान्युक्तनि । (वि ।७३) आदिकर्मिकनिर्वेधभागीयेष्व् (अभिधर्मकोषव्याख्या ६०३) इति । पंचावस्था इमे उक्ताः । भावने दर्शन चेति । द्वे अवस्थे इति । सप्तस्ववस्थासु सप्त वर्गा यथाक्रमं प्रभाव्यंते व्यवस्थाप्यन्ते प्रधानीक्रियन्ते वा । आदिकर्मिकावस्थायां स्मृत्युपस्थानानि । उष्मगतावस्थायां सम्यक्प्रधानानि । मूर्धावस्थायामृद्धिपादाः । क्षान्त्यवस्थायामिन्द्रियाणि । लौकिकाग्रधर्मावस्थायां बलानि । भावनामार्गावस्थायां बोध्यंगानि । दर्शनमार्गावस्थायामार्याष्टांगो मार्ग इति । विशेषाधिगमहेतुर्वीर्यसंवर्धनं । तस्मादुष्मगतेषु सम्यक्प्रधानानि । [तिब् । २६९ ] अपरिहाणीयकुशलमूलप्रवेशत्वात् । मूर्धेष्विति । अपरिहाण्यनुकूलानां कुशलमूलानां प्रवेशो मूर्धतः । मूर्धलाभी न मूलच्छिद् इति वचनात् । प्रविशत्येभिरिति कृत्वा प्रवेशः । अपरिहाणिर्हि क्षान्तिषु भवति । तदवस्थाः । समाधयः समृद्धेराश्रयीभवंतीति । मूर्धस्वृद्धिपादा व्यवस्थाप्यंते । अपुनःपरिहाणित इति विस्तरः । यस्मात्क्षान्तिषु पुनःपरिहाणिर्नास्ति । आद्ययोरेव हि परिहाणिसंभवः । तस्मादाधिपत्यप्राप्तानि श्रद्धादीनि भवंति । तद्भावात्क्षान्तिष्विन्द्रियाणि व्यवस्थाप्यंते । क्लेशानवमर्दनीयत्वादिति । यस्मात्क्लेशैर्नावमृद्यन्ते । तस्यामवस्थायां क्लेशासमुदाचारात् । लौकिकान्यधर्मानवमर्दनीयत्वाद्वा । अथ वा लौकिकैरन्यैर्धर्मैरनवमर्दनीयत्वादग्रधर्मावस्थायां श्रद्धादीनि बलानीति प्रभाव्यन्ते । बोध्यासन्नत्वादिति । क्षयानुत्पादज्ञानासन्नत्वादित्यर्थः । भावनामार्गो हि क्षयानुत्पादज्ञानासन्नः । दर्शनमार्गस्तु दूरो तदन्तरालभावनामार्गव्यवहितत्वात् । गमनप्रभावितत्वादिति । मार्गो हि लोके गमनप्रभावितः । गच्छंत्यनेनेति मार्गः । गच्छतीति वा मार्गः । पाटलिपुत्रमयं पन्था गच्छतीति लोके वचनात् । दर्शनमार्गश्चातिशयेन गमनप्रभावितो न भावनामार्गः । कथमित्याह । तस्याशुगामित्वाद्[तिब् । २६९ ] इति । तद्वानपि तेनाशु गच्छति । भावनामार्गेण तु भूमिभेदेन प्राकर्षकत्वात्बहुना कालेन गच्छति । अपरे पुनराहुरित्याचार्यः । अस्मदादय इत्यभिप्रायात् । यथा वैभाषिकैर्भिन्नः क्रमः । तथा तमभित्त्वा बोधिपक्षाणामानुपूर्वीं वर्णयंति । दर्शनमार्गे बोध्यंगानीति कृत्वा । बहुविधेति विस्तरः । बहुप्रकारो विषयो रूपादिभेदात् । नीलादिभेदाच्च । तस्मिन् व्यासेको विक्षेपः । बहुविधविषयव्यासेकेन विसर्तुं शीलमासामिति । बहुविधविषयव्यासेकविसारिण्यो (अभिधर्मकोषव्याख्या ६०४) बुद्धयः । तासां निग्रहार्थं स्मृत्युपस्थानानि । गर्धाश्रितानां तृष्णाश्रितानामित्यर्थः । स्मरसंकल्पानामित्यनुभूतविषयस्मृतिसंकल्पानामित्यर्थः । कामसंकल्पानामिति वा । तद्बलेनेति । चतुःस्मृत्युपस्थानबलेनेत्यर्थः । चतुर्विधकार्यसंपादनायेति । चतुर्विधं कार्यमुत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणम् । अनुत्पन्नानामनुत्पादः । तथानुत्पन्नानां कुशलानामुत्पादः । उत्पन्नानां स्थित्यादीनि । ततः समाधिविशोधनादिति । ततः सम्यक्प्रधानेभ्योऽनतरं समाधेर्विशोधनादृद्धिपादाः [तिब् । २७० ] प्रभाव्यंते । लोकोत्तरधर्माधिपतिभूतानीति । तदावाहकत्वादधिपतिभूतानि वेदितव्यानि । तान्येवेन्द्रियाणि । यदा निर्जितविपक्षसमुदाचाराणि । निर्जितश्रद्ध्यादिसमुदाचाराणि भवंति । तदा बलानि । इन्द्रियावस्थायां हि क्लेशसमुदाचारः संभवति । क्षान्त्यवस्थायाः प्राकर्षकत्वात् । दर्शनमार्गे बोध्यंगानीति । अनास्रवा प्रज्ञा बोधिरिति कृत्वा । उभयोर्मार्गांगानीति । दर्शनभावनामार्गयोः । कथमित्याह । तथा ह्युक्तमिति विस्तरः । भावनया परिपूरिर्भावनापरिपूरिः तां गच्छत्यार्याष्टांगो मार्गः । तस्मिन् गच्छति चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं यच्छंति । याचत्सप्त बोध्यंगानीति । भावनापरिपूरिं गच्छंतीति वचनात्भावनामार्गेऽपि आर्याष्टांगो मार्गो भवतीति गम्यते । न हि दर्शनमार्गे भावना परिपूरिं गच्छति । किं तर्हि भावनामार्ग इति । पुनश्चोक्तमुभयोर्मार्गांगानि व्यवस्थाप्यंत इति । चतुर्णामार्यसत्यानामेतदधिवचनमिति दर्शनमार्गं दर्शयति । यथागतेन मार्गेण प्रक्रमणमिति विस्तरेण यावन्मार्गस्यैतद्[तिब् । २७० ] अधिवचनमिति भावनामार्गं दर्शयति । यथागतेन यथाप्राप्तेन मार्गेण प्रक्रमणं यावद्बोधिरिति । तदेवं दर्शनमार्गे भावनामार्गे च मार्गांगानि व्यवस्थाप्यन्त इति । अत उभयोरार्याष्टांगो मार्ग एष्टव्य इति । (वि ।७४) सिद्धोऽनुक्रमः । पूर्वं बोध्यंगानि पश्चादार्याष्टांगो मार्ग इति । अनास्रराणि बोध्यंगमार्गांगाणीति । अनास्रवाण्येवेत्यवधारणं । द्विधेतर इति । स्मृत्युपस्थानादयो बलपर्यन्ताः । (वि ।७५) बलवाहनीयत्वादिति । बलेन वीर्येण संमुखीकरणीयत्वात् । अनागम्ये प्रीत्यभावः । सुखाधिगम्यं चित्तं प्रीणाति । नेतरदिति । किं चाधरभूमिसाशंकत्वाच्च । परिहाणिं प्रति साशंक इति । अतश्च तत्र प्रीत्यभावः । साशंकतायां हि चित्तं न प्रीयते । संकल्पवर्ज्या इति । संकल्पो (अभिधर्मकोषव्याख्या ६०५) वितर्कः । कामधातौ भवाग्रे च बोधिमार्गांगवर्जिता इति । कथं भवाग्रे कायस्मृत्युपस्थानं भवति । न हि तत्र कायो विद्यते । कायालम्बना हि प्रज्ञा कायस्मृत्युपस्थानं । न च भवाग्रं कामधातुं रूपधातुं चालाम्बते । [तिब् । २७१ ] न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इति सिद्धान्तात् । नैतत्केनचिद्व्याख्याकारेण लिखितं । तदिदमत्र व्यवस्थापयामः । कायस्य कः स्वभावः । भौतिकत्वमित्युक्तं । भूतं भौतिकं च काय इत्यर्थः । तत्र यदि केवलभूतालंबना केवलभौतिकालंबना तदुभयालंबना वा प्रज्ञा भवेत् । कायस्मृत्युपस्थानमेव तद्भवेत् । भवाग्रे च कुशलसास्रवा प्रज्ञा मार्गत इति न्यायत इति वानास्रवसंवरमार्गालंबनत इति । सास्रवधरालंबना हि मौलाः कुशलारूप्या नेष्यंते । न त्वनास्रवधरालंबना इति । अतस्तदत्र कायस्मृत्युपस्थानं वेदितव्यं । (वि ।७७, ७८) चत्वारोऽवेत्यप्रसादाः बुद्धेऽवेत्यप्रसादो धर्मे संघे चार्यकान्तानि च शीलानीति । तत्र दुःखसत्यादीनां धर्मत्वादबुद्धसंघस्वभावत्वाच्च । यथाक्रमं सत्यत्रयमभिसमयन् पश्यन् धर्मे चावेत्यप्रसादमार्यकान्तानि चाशीलानि अनास्रवाणि प्रतिलभते । न बुद्धे न संघे वा अवेत्यप्रसादं । [दुःखसत्यादीनां धर्मत्वाद् । अबुद्धसंघस्वभावत्वाच्च । यथा] मार्गसत्यमभिसमयतो बुद्धे तस्य च स्रावकसंघेऽवेत्यप्रसादं प्रतिलभते । मार्गसत्यस्य बुद्धसंघस्वभावत्वात् । कोऽयमिह धर्मोऽभिप्रेत [तिब् । २७१ ] इति । बहवो धर्माः कुशला धर्मा इत्येवमादयः । तत्कोऽयमिह धर्मोऽभिप्रेतः । यदुक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति । अथ वा बुद्धरत्नं संघरत्नं चेदमुच्यते । तस्मादिदमपि धर्मरात्नमिहाभिप्रेतं भवेत् । रत्नत्रयस्य ह्ययं स्वभाव उक्तः । बुद्धसंघकरां धर्मानशैक्षानुभयांश्च सः निर्वाणं चेति शरणं यो याति शरणत्रयम् इति । तत्किमयं निर्वाणधर्मोऽभिप्रेत इत्यतः पृच्छति । कोऽयमिह धर्मोऽभिप्रेत इति । धर्मः सत्यत्रयम् इति विस्तरः । दुःखसमुदयनिरोधसत्यानि । बोधिसत्त्वस्य च शैक्षावस्थायां (अभिधर्मकोषव्याख्या ६०६) अनास्रवो मार्गः । प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो मार्गो धर्म इहाभिप्रेत इति । अतश्चत्वार्यपीति विस्तरः । मार्गसत्यमप्यभिसमयन् धर्ममपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणमभिसमयति । तस्माच्चत्वार्यपि सत्यान्यभिसमयतो धर्मेऽवेत्यप्रसादलाभ इत्युक्तमिति । बुद्धसंघयोर्मार्गो धर्म इति नोच्यते । यस्मात्तदभिसमयतो बुद्धे संघे चावेत्यप्रसादलाभ इति । कथं पुनर्मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्धधर्मसंघावेत्यप्रसादानां युगपत्संमुखीभावः । सैव श्रद्धाधिष्ठानभेदापेक्षया [तिब् । २७२ ] नामत्रयं लभत इत्यदोषः । अथ वा धर्मेऽवेत्यप्रसादो वर्तमानः । अनागतास्तु त्रयो भाव्यंते । तेनोच्यते लाभो मार्गाभिसमये बुद्धतत्संघयोरपीति । यद्यधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानं धर्मावेत्यप्रसादः पूर्वं पठितव्यः स्यादित्यत आह । यथा तु व्युत्थितः संमुखीकरोति । तथैषामानुपूर्वमिति । वैद्यभैषज्योपस्थायकभूतत्वादिति । वैद्यभूतो भगवाननुत्तरो विषक्शल्यहर्तेति सूत्रात् । धर्मभैषज्यदैशिकत्वाच्च । भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात् । निर्वाणारोग्यसंप्रापकत्वाच्चोपस्थायकभूतः संघो निर्वाणारोग्यप्राप्तये परस्परोपस्थानात् । चित्तप्रसादकृतः शीलप्रसाद इति । त्रिविधश्चित्तप्रसादः । सम्यक्संबुद्धो बत भगवान् । स्वाख्यातोऽस्य धर्मविनयः । सुप्रतिपन्नोऽस्य श्रावकसंघ इति । तेन कृतः शीलप्रसादः । शीलमेव प्रसादः । शीलस्य वा प्रसादोऽनास्रवत्वं शीलप्रसादः । अन्ते त्रयाणां प्रसादानां चतुर्थ उक्तः शीलप्रसादः । कस्मादित्याह । एवं प्रसन्नस्य सम्यक्संबुद्धो बत भगवानिति विस्तरेणैषा प्रतिपत्तिः । [तिब् । २७२ ] आर्यकान्तशीलप्रतिपत्तिरित्यर्थः । आरोग्यभूतत्वाद्वा । किमन्ते शीलप्रसाद उक्तः । वैयभैषज्योपस्थायकारोग्यानुक्रमतः । दैशिकमार्गसार्थिकयानवद्वा । किम् । अन्ते चतुर्थ उक्त इत्यधिकृतं । दैशिकभूतो भगवान् । मार्गभूतो धर्मः । सार्थिकभूतः संघः । यानभूतान्यार्यकान्तानि शीलानीति । आर्याणं कान्तानि प्रयाणीत्यार्यकान्तानीति । (वि ।७९, ८०) अष्टाभिरिति । अष्टाभिरंगैः समन्वागतः शैक्षः । कतमैरष्टभिः । शैक्ष्या सम्यग्दृष्ट्या यावच्छैक्षेण सम्यक्समाधिनेति । दशभिरंगैः समन्वागतोऽशैक्षः । कतमैर्दशभिः । अशैक्ष्या सम्यग्दृष्ट्या यावदशैक्षेण सम्यक्समाधिना अशैक्ष्या सम्यग्विमुक्त्या अशैक्षेण च सम्यग्ज्ञानेनेति । विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति । तस्यां (अभिधर्मकोषव्याख्या ६०७) विमुक्तौ प्रत्यात्मज्ञानं तत्प्रत्यात्मज्ञानं विमुक्तिश्च तत्प्रत्यात्मज्ञानं च । विमुक्तितत्प्रत्यात्मज्ञानं । ताभ्यां प्रभावितः । क्लेशविमुक्त्या क्लेशविमुक्तिप्रत्यात्मज्ञानेन च । क्लेशेभ्यो विमुक्तोऽस्मीति प्रभावितः । प्रकर्षित इत्यर्थः । तस्यैवाशैक्षस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च । न्याय्यं न शैक्षस्येति । अधिमोक्षः संस्कृता विमुक्तिर्[तिब् । २७३ ] इति । धात्वर्थैकत्वातंगानां संस्कृतत्वादिति । यथा सम्यग्दृष्ट्यादीनि संस्कृतानि । तथा विमुक्तिरपि संस्कृतैव गृह्यते नासंस्कृता । विसभागत्वाद्विसदृशत्वात् । द्वे विमुक्ती सूत्र उक्ते इति । रागविरागाच्चेतोविमुक्तिः । अविद्याविरागात्प्रज्ञाविमुक्तिरिति । चेतोविमुक्तिः प्रज्ञाविमुक्तिश्चेत्यर्थः । विमुक्तिस्कंधोऽपि स एवेति । शीलस्कन्धः । समाधिस्कन्धः प्रज्ञास्कन्धः । विमुक्तिस्कन्धः । विमुक्तिज्ञानदर्शनश्चेत्यत्र द्रष्टव्यः । यत्तर्हि सूत्र उक्तमिति । चत्वारीमानि व्याघ्रबोध्यायनाः परिशुद्धिप्रधानानि । कतमानि चत्वारि । शीलपरिशुद्धिप्रधानं । समाधिपरिशुद्धिप्रधानं । दृष्टिपरिशुद्धिप्रधानं । विमुक्तिपरिशुद्धिप्रधानं चेति विस्तरेणोक्त्वाह । कतमच्च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानं । यावद्यश्छन्दो वीर्यमिति विस्तरः । व्याघ्रबोध्यायना इति बहुवचनं । तेषां बहुत्वात् । विमुक्तिपरिशुद्धिप्रधानमिति । विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः । तस्यै प्रधानं वीर्यविमुक्तिपरिशुद्धिप्रधानं । [तिब् । २७३ ] तदेवमत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयं । तत्र इह भिक्षो रागाच्चित्तं विरक्तं भवति विमुक्तं । द्वेषात् । मोहाद्विरक्तं भवति विमुक्तं । विमुक्तिरुक्ता । इत्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये । परिपूर्णस्य वानुग्रहायायेति । विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता । यश्छन्दो वीर्यमिति विस्तरेण प्रधानमुक्तं । यत एवं रागादिभ्यो विमुक्तिः प्रहाणमित्येवंलक्षणा विमुक्तिरुक्ता सूत्रे नाधिमुक्तिः । तस्मान्नाधिमोक्ष एव विमुक्तिः । किं तर्हि । तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यमनास्रवत्वमनर्थान्तरभूतं घृतमण्डस्वच्छतावदिति अपर इत्याचार्यः । (वि ।८१ ब्) तदुत्पत्तिविबन्धत्वादिति । तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात् । क्लेशप्राप्तिर्हि विबन्धः । यत्तर्हि नोत्पद्यमानमिति । यदनागतं वज्रोपमात्समाधेरनन्तरं न भवत्यशैक्षमेव । लौकिकं वेत्यशैक्षसंतान एव यल्लौकिकं । यत्तु नियतमुत्पत्तौ । तदेवोक्तमिति । यदुत्पादाभिमुखमनागतं । तदेवोक्तं शास्त्रे विमुच्यत इति । तद्विमुच्यमानतया [तिब् । २७४ ] सूपलक्ष्यत्वादित्यभिप्रायः । तत एवोत्पत्त्यावरणादिति । तत एव क्लेशप्राप्तितः । तदुत्पत्तिविबंधाद्(अभिधर्मकोषव्याख्या ६०८) इति तदेवात्र कारणं वक्तव्यं । यद्यशैक्षसंतानलौकिकमपि विमुच्यत इत्यभ्युपगम्यते । शैक्षस्यापि लौकिकमुत्पद्यते । कस्मान्न विमुच्यत इत्यभ्युपगम्यते । अत आह । न तत्तादृशमित्यादि । क्लेशप्राप्तिसहितं तच्छैक्षस्य लौकिकं । न त्वशैक्षस्य लौकिकमेवं भवतीत्यसाम्यं । (वि ।८१ द्) निरुध्यमान इति । निरोधाभिमुखः । तदावृतिम् इत्यशैक्षचित्तावरणं । (वि ।८२) या चासंस्कृता विमुक्तिरुक्ता शास्त्रे इहैव वा असंस्कृता क्लेशहानम् इति । ये च त्रयो धातव उच्यंते । क्वोच्यंते । सूत्रे शास्त्रेऽपि वा । विरागो रागसंक्षय इति । भेदविवक्षायामेवमुच्यते । अभेदविवक्षायां तु यो विरागः । तत्प्रहाणमप्युच्यते । निरोधोऽपीत्यादि । (वि ।८३) वस्तुन इति । सास्रवस्य रूपादेः । चतुष्कोटिक इति । स्यान्निर्विद्यते न विरज्यते । स्याद्विरज्यते न निर्विद्यते । स्यादुभयं । स्यान्नोभयम् [तिब् । २७४ ] इति । निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर् इति । अनेन वस्तुहेतुकं निर्वेदं दर्शयति । विरज्यते सर्वैर्जहाति यैर् इति प्रहाणक्रियाहेतुकं विरागं दर्शयति । एवं चतुष्कोटिकं सिध्यतीति । एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम् । अनेन चतुष्कोटिकं सिध्यतीत्यभिप्रायः । कथमित्याह । निर्विद्यत एवेति विस्तरः । निर्विद्यत एव दुःखसमुदयक्षांतिभिर्दुःखसमुदयज्ञानैश्च निर्वेदवस्त्वालंबनत्वात् । दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलंबनमिति । न विरज्यते । क्लेशानप्रजहदिति वचनेन प्रहाणक्रियाया असंभवात् । विरज्यत एव निरोधमार्गक्षान्तिभिर्दर्शनमार्गे । निरोधमार्गज्ञानैर्भावनामार्गे । क्लेशान् प्रजहदिति प्रहाणक्रियासंभवात् । न निर्विद्यते । प्रामोद्यवस्त्वालंबनत्वात् । निर्वाणमार्गौ हि प्रामोद्यवस्तुनी आलंबनमिति । उभयपूर्वैः क्लेशान् प्रजहदिति निर्विद्यते च विराज्यते च पूर्वैर्दुःखसमुदयक्षान्तिज्ञानैः । कथं । निर्विद्यते । निर्वेदवस्त्वालंबनत्वात् । विरज्यते । क्लेशान् प्रजहद्[तिब् । २७५ ] इति वचनेन प्रहाणक्रियासद्भावात् । नोभयम् (अभिधर्मकोषव्याख्या ६०९) उत्तरैः क्लेशानप्रजहदिति । न च निर्विद्यते । न च विरज्यते । उत्तरैर्निरोधमार्गक्षान्तिज्ञानैः प्रामोद्यवस्त्वालंबनत्वात्न निर्विद्यते । क्लेशानप्रजहदिति वचनेन प्रहाणक्रियाया अभावात्न विरज्यते । आह । अपदिष्टं प्रथमायां कोट्यं चतुर्थ्यां च क्लेशामप्रजहदिति । कः कान् क्लेशान्न प्रजहाति । तत्र वीतराग इति विस्तरः । तत्रार्थोपक्षेपार्थं । वीतरागः कामधातोर्यावदाकिंचन्यायतनादपि । सत्यानि पश्यन्नभिसमयन् । धर्मज्ञानक्षांतिभिर्धर्मज्ञानैर्धर्मज्ञानक्षान्तिभिश्च क्लेशान्न प्रजहाति । लौकिकेन भावनामार्गेण पूर्वं प्रहीणत्वात् । अनास्रवा तु केवलं विसंयोगप्राप्तिरुत्पद्यते । अन्वयज्ञानक्षान्तिभिस्त्ववश्यं क्लेशान् प्रजहाति । न हि लौकिकेन मार्गेण भवाग्रवैराग्यमस्ति । ज्ञानैस्तु भावनामार्ग । प्रयोगविमुक्तिविशेषमार्गैरानन्तर्यमार्गैरपिव कैश्चिदिन्द्रियसंचाराद्यावस्थासु न क्लेशान् प्रजहाति । [तिब् । २७५ ] केऽवशिष्यंते । तदन्य आनन्तर्यमार्गास्तैः क्लेशान् प्रजहातीति सिद्धं । आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां षष्ठं कोशस्थानं समाप्तं । (अभिधर्मकोषव्याख्या ६१०) ब्लन्क् (अभिधर्मकोषव्याख्या ६११) विइ ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् (विइ ।१) षष्ठात्कोशस्थानादनन्तरं सप्तमस्योपन्यासे संबंधं दर्शयन्नाह । क्षान्तयश्चोच्यन्ते । ज्ञानानि चेति विस्तरः । लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवेत्य् अत्राष्टौ क्षान्तय उक्ताः । कामदुःखे ततोऽत्रैव धर्मज्ञानं । तथा पुनर् इत्यत्र ज्ञानानि । चेत्क्षयज्ञानमशैक्षी वा दृष्टिर् इत्यत्र सम्यग्दृष्टिः । सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदितेत्य् अत्र सम्यग्ज्ञानं । इहैव वा षष्ठकोशस्थानावसान एतत्सर्वमुक्तम् । निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर्विरज्यते सर्वैर्जहाति यैर् इति । शास्त्रसंबन्धेन वायमुपन्यस्यते । शास्त्रे हि क्षान्तयश्चोच्यन्ते । ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च । तत्प्रत्यायनाय चायमारभ्यत इत्यतः पृच्छति । किं पुनः क्षान्तयो न ज्ञानमिति विस्तरः । नामलाः क्षान्तयो ज्ञानम् इति । अमला एव क्षान्तयो न ज्ञानमित्य्[तिब् । २७६ ] अवधारणात्सास्रवाः क्षान्तयो ज्ञानमित्युक्तं भवति । संवृतिज्ञानं हि तदिष्यते । तत्प्रहेयस्येत्य् । क्षान्तिप्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात् । प्रहीयते हि तास्ववस्थास्वनुशयः । न प्रहीणो विप्रकृतावस्थत्वात् । निश्चितं च ज्ञानमिष्यते । नानिश्चितम् । इति न क्षान्तयो ज्ञानं । क्षमणरूपेण च क्षान्तय उत्पद्यन्ते । न निश्चयरूपेणेति न ज्ञानमिति वर्णयन्ति । विचिकित्सानुशयस्याप्रहीणत्वाद्(अभिधर्मकोषव्याख्या ६१२) इत्येतावति वक्तव्ये तत्प्रहेयस्येति विशेषणं किमर्थं । द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानुशयः प्रहीणो भवतीति प्रथमैव क्षान्तिर्न ज्ञानमिति गम्येत । न त्वन्याः क्षान्तयः । इत्यतस्तत्प्रहेयस्येति विशेषणं । [यद्वा दुःखधर्मज्ञानादीनां ज्ञानत्वप्रतिपादनार्थं । यदि विचिकित्सानुशयाप्रहीणत्वादित्येतावदुच्यते । एवं] संतीरणात्मकत्वादिति । उपनिध्यानस्वभावत्वादित्यर्थः । असंतीरणापरिमार्गणाशयत्वादिति । नास्ति संतीरणमस्येत्यसंतीरणं । परिमार्गणे आशयोऽभिप्रायः परिमार्गणाशयः । नास्य परिमार्गणाशय इत्यपरिमार्गणाशयं । असंतीरणं च तदपरिमार्गणाशयं च असंतीरणापरिमार्गणाशयं । तद्भावः । तस्मात् । क्षयज्ञानमनुत्पादज्ञानं च न दृष्टिरित्य्[तिब् । २७६ ] अर्थः । यावदयमकृतकृत्यः । तावद्दुःखादीनि सत्यान्युपनिध्यायति परिमार्गयति चाशयतो यथोक्तैरनित्यादिभिराकारैः । कृतकृत्यस्य पुनर्यथा दृष्टिष्वेव दुःखादिष्वार्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति दुःखं मया परिज्ञातं न पुनः परिज्ञेयमित्यादि । तस्मान्न ते दृष्टिस्वभावे । तदन्योभयथार्या धीर् इति । दुःखे धर्मज्ञानं यावन्मार्गेऽन्वयज्ञानं । सा प्रज्ञोपनिध्यानप्रवृत्ता प्रहीणतद्विषयविचिकित्सा च । अन्येति लौकिकी । सा सर्वैव ज्ञानमित्यवधारणं । न सा प्रज्ञास्ति । यन्न ज्ञानमित्यर्थः । का पुनरसौ प्रज्ञा । पंचविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या दृष्टिस्वभावक्लेशसंप्रयुक्ता अनिवृताव्याकृता च । या पुनर्दृष्टिस्वभावा या च मानसी कुशला । सा किं भवतीत्याह । दृशश्च षड् इति । एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः । अन्या न दृष्टिः । षडेवेत्यवधारणात् । का पुनरन्या । या पूर्वमुक्ता लौकिकी । ज्ञानं त्वेषा चान्या चेति । एषा च षड्विधा दृष्टिस्वभावा प्रज्ञा । ततोऽन्या च पूर्वोक्ता ज्ञानमित्युच्यते । अत एव च दृशश्च षड् इति चकारः पठ्यते । यस्मादेताः षट्ज्ञानानि चोच्यन्ते दृष्टयश्चेति । (विइ ।२, ३) दशभिर्ज्ञानैः । कतमैः । [तिब् । २७७ ] धर्मान्वयसंवृतिपरचित्तदुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानैरवधारणार्थोऽयमारम्भो दशैव ज्ञानानि । च्युत्युपपादपुद्गलज्ञानादीनामेषामेवान्तर्भावात् । (अभिधर्मकोषव्याख्या ६१३) समासेन तु द्वे एव सास्रवमनास्रवं चेति । प्रायेणेति विशेषणं । घटपटादिकं संवृतिसद्वस्तु संवृतिज्ञानमालंबते । स्वसामान्यलक्षणमपि तु कदाचिद्गृह्णाति । सांवृतमिति । संवृतौ भवं सांवृतं । अनास्रवम् अपि संक्षिप्यमाणं द्विधा धर्मज्ञानमन्वयज्ञान चेति । दुःखज्ञानादीनामनयोरेवान्तर्भावात् । आलंबनं संभवत इति । यस्य यदालंबनं । तस्य तद्भवति । न हि चक्षुर्विज्ञानस्य शब्दालंबनं । तदालंबनत्वादिति । दुःखाद्यालंबनत्वादित्यर्थः । (विइ ।४) एते चतुर्विधे इति । एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालंबनभेदाच्चतुर्विधे । अदृष्टिस्वभावे सती क्षयज्ञानमनुत्पादज्ञानं चोच्यते । ते पुनः प्रथमोदिते । ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती दुःखहेत्वन्वयज्ञाने भवतः । दुःखसमुदयालंबने अवश्यं भवत इत्यर्थः । कस्मादित्याह । दुःखसमुदयाकारैर्भावाग्रिकस्कंधालंबनत्वादिति । [तस्य हि सर्वपश्चाद्भवाग्रमेव प्रहीयते । तस्माद्येन च पीड्यते येन च बद्धं तत एव मोक्षं बहु मन्यमानोऽनन्तरं क्षीणं भवाग्रमालंबते । तच्च दुःखं या समुदया चित्यतो दुःखसमुदयाकारैर्भवाग्रमालंबते ।] यस्मादवश्यं ते प्रथमोत्पन्नक्षयानुत्पादज्ञाने [तिब् । २७७ ] दुःखाकारैरनित्यादिभिः समुदयाकारैर्वा हेत्वादिभिर्भावाग्रिकान् स्कंधानालंबते । अप्रथमोत्पन्ने त्वन्यसत्यालंबने अपि ते भवत इत्यर्थादुक्तं भवति । वज्रोपमानन्तरं क्षयज्ञानं भवति । तदनन्तरं चानुत्पादज्ञानमित्यतः पृच्छति । किं वज्रोपमोऽपि ताभ्यामेकालंबनो भवतीति । ताभ्यामिति प्रथमोत्पन्नाभ्यामित्यर्थः । यथा क्षयानुत्पादज्ञाने एकालंबने किं वज्रोपमोऽपि ताभ्यामेकालंबन इत्यपिशब्दस्यार्थः । यदि दुःखसमुदयालंबनो भवति । किं । ताभ्यामेकालंबनो ब्भवतीति संभवः । अथ निरोधमार्गालंबनो भवति नैकालंबनः । तयोर्नियमेन भावाग्रिकस्कंधालंबनत्वात् । यथा हि विषकाण्डविद्धस्य मृतस्य विषं सर्वमंगमभिव्याप्य व्रणदेश एव मरणकालेऽवतिष्ठते नान्यत्र । तद्वदस्य योगिनः प्रहेय एव भावाग्रिकस्कंधलक्षणे ज्ञानमवतिष्ठते । (अभिधर्मकोषव्याख्या ६१४) (विइ ।५, ६) चतुर्भ्यः परचित्तविद् इति । चतुर्भ्य एव धर्मज्ञानादिभ्यस्तत्संगृहीतत्वात् । न दुःखज्ञानादिभ्यः । अन्याकारत्वात् । अनास्रवं हि परचित्तज्ञानं मार्गाकारमेव मार्गज्ञानत्वात् । यत्तु सास्रवं । तल्लौकिकाकारं सरागम् [तिब् । २७८ ] विगतरागमित्यादि । श्रद्धाधिमुक्तसमयविमुक्तमार्गेणेति । यथासंख्यं श्रद्धाधिमुक्तमार्गेन दृष्टिप्राप्तमार्गं न जानाति । समयविमुक्तमार्गेणासमयविमुक्तमार्गं न जानाति । अधरेणोत्तरमिति । अनागामिमार्गेणार्हन्मार्गं न जानाति । अर्हन्मार्गेण प्रत्येकबुद्धमार्गमित्यादि । कामधातूर्ध्वधातुप्रतिपक्षालंबनत्वात्तयोरिति । तयोर्धर्मज्ञानपक्षान्वयज्ञानपक्षयोः । धर्मज्ञानपक्षस्य कामधातुप्रतिपक्ष आलंबनम् । अन्वयज्ञानपक्षस्य ऊर्ध्वधातुप्रतिपक्ष आलंबनमिति नियमः । दर्शनमार्गे परचित्तज्ञानं नास्तीत्यव्यापारत्वात्दर्शनमार्गस्य । दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं चेति संभवं प्रत्येवमुच्यते । कदाचिद्धि प्रयोगवशाद्दुःखेऽन्वयज्ञानक्षान्तिं दुःखेऽन्वयज्ञानं च ज्ञातुं संभवति । अष्टमं च समुदयान्वयज्ञानमिति । धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वान्वयज्ञानपक्षं परेण चित्तं ज्ञास्यामीति प्रयोगं कृत्वा समुदयान्वयज्ञानमष्टमं संभावयति । मृदुप्रयोगत्वादिति अल्पप्रयोगत्वादित्यर्थः । श्रावकस्य हि महाप्रयोगसाध्यं तदन्वयज्ञानपक्षालंबनं [तिब् । २७८ ] परचित्तम् । अतो यावत्स तत्र प्रयोगमारभते । तावदयं षोडशं चित्तमनुप्राप्तो भवतीति । अंतरा न जानाति । प्रथमद्वितीयपंचदशानिति एतानेव त्रीन् जानाति । कथं । दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पंचदशक्षणं मार्गान्वयज्ञानक्षान्तिं जानातीति । (विइ ।७) कथमनास्रवेण ज्ञानेनैवं जनातीति । अनास्रवणां दुःखाद्याकारत्वत् । इदं च संवृत्याकारं दुःखं मे परिज्ञातमित्येवमाद्याकारत्वादतः पृच्छति । तद्विशेषेण तयोर्विशेष इति । तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण दुःखं मे परिज्ञातं यावन्मे मार्गो भावित इति जानाति । दुःखं मे परिज्ञातं न पुनः परिज्ञेयं । यावन्मार्गो मे भावितो न पुनर्भावयितव्यः इति च जानातीत्येवंरूपेण तयोरनास्रवयोः क्षयानुत्पादज्ञानयोर्विशेषः शास्त्रे ज्ञापितो दर्शितः । अत एव तदुपादायेत्युक्तं । तदुपादायेति पूर्वीकृत्य तत्पुरस्कृत्येत्यर्थः । निष्यंदने तयोर्निर्विकल्पयोर्विशेषोऽनुमीयत इत्यभिप्रायः । अनास्रवेणाप्येवं जानातीति । षोडशाकारव्यतिरिक्तोऽस्त्यनास्रव आकारः । (अभिधर्मकोषव्याख्या ६१५) तेनैवं जानातीत्यपरे । यदि तदुपादाय यज्ज्ञानं दर्शनमिति शास्त्रवचनेन दुःखपरिज्ञानादिसंवृतिज्ञानफलम् [तिब् । २७९ ] अमास्रवं क्षयानुत्पादज्ञानमुच्यते । यदिदमुच्यते । क्षयानुत्पादधीर्न दृक् इति न दृष्टिरिति । तद्विरुध्यते । तेनाह । दर्शनवचनं तु भाष्याक्षेपादिति । यदेतच्छास्त्रे वचनं यज्ज्ञानं दर्शनमिति । भाष्याक्षेपाद्भवति । दुःखज्ञानादिषु हि ज्ञानं दर्शनं विद्या बुद्धिर्बोधिरिति पठ्यते । तत्पाठाक्षेपेणायमुपतिष्ठते तत्पाठिनां पाठः । न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे । न दृष्टिस्वभावे इत्यर्थः । प्रत्यक्षवृत्तित्वाद्वेति । प्रत्यक्षा वृत्तिरस्य ज्ञानद्वयस्य । तदियं प्रत्यक्षवृत्तिः । तद्भावत् । अनयोर्दर्शनवचनं । न ह्येतज्ज्ञानद्वये आनुमानिकवदागामिकवद्वा परोक्षवृत्तिः । प्रत्यक्षवृत्तिश्च दर्शनमिष्यते । तद्यथा चक्षुर्विज्ञानं । तद्साधर्म्यादेतदपि ज्ञानद्वयं दर्शनमित्युक्तम् । अत एवोक्तमिति । अत एव प्रत्यक्षवृत्तित्वादुक्तं शास्त्रे यत्तावज्ज्ञानं । दर्शनमपि तत् । स्यात्तु दर्शनं न ज्ञानमष्टावाभिसमयान्तिकाः क्षान्तयः । तदिदमुक्तं भवति दर्शनत्वमनयोरिष्यते । न दृष्टित्वमिति । तत्रेति तेषु दशसु ज्ञानेषु संवृतिज्ञानं संवृतिज्ञानमेव स्वभावसंग्रहतः । एकस्य च परचित्तज्ञानस्य भाग एकदेशः । तस्य हि सास्रवानास्रवस्य [तिब् । २७९ ] सास्रव एव भागः संवृतिज्ञानं । नानास्रवो भाग इति । धर्मज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं धर्मज्ञानमेव । सप्तानां च भागो दुःखसमुदयनिरोधमार्गपरचित्तक्षयानुत्पादज्ञानानाम् । कथं । दुःखज्ञानं हि धर्मान्वयज्ञानस्वभावं । तस्य यो धर्मज्ञानभागः । तद्धर्मज्ञानम् । एवं समुदयज्ञास्य यावदनुत्पादज्ञानस्य धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः । तद्धर्मज्ञानं । न त्वन्वयज्ञानभाग इति । परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो धर्मज्ञानमिति । एवमन्वयज्ञानमेकमन्वयज्ञानमेव । सप्तानां च भागः । तेषामेव दुःखज्ञानादीनां योऽन्वयज्ञानभागः । तदन्वयज्ञानमिति योज्यं । दुःखज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं । तदेव दुःखज्ञानं । चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम् । एतानि हि धर्मज्ञानादीनि चत्वारि चतुःसत्यालंबनानि भवन्ति । य एषां दुःखसत्यालम्बनो भागः । तद्दुःखज्ञानं । नान्यो भागः । इत्येवं समुदयनिरोधज्ञाने (अभिधर्मकोषव्याख्या ६१६) योज्ये प्रत्येकम् । एकं ज्ञानं समुदयज्ञानं निरोधज्ञानं वा । चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानां यः समुदयालंबनभागो निरोधालंबनभागो वा । तत्समुदयज्ञानं निरोधाज्ञानं च । मार्गज्ञानं दशसु ज्ञानेष्व्[तिब् । २८० ] एकं ज्ञानं तदेव मार्गज्ञानं । पंचानां च भागः । धर्मान्वयक्षयानुत्पादपरचित्तज्ञानानं । एतानि पंच मार्गज्ञानानि मार्गज्ञानस्वभावानि भवन्ति । य एषां मार्गज्ञानभागः । तन्मार्गज्ञानं नेतर इति । परवित्तज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं । चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानां । एतानि हि चत्वारि ज्ञानानि परचित्तापरचित्तज्ञानं स्वभावानि भावंति । य एषां परचित्तज्ञानभागः । तत्परचित्तज्ञानं । नेतर इति । क्षयज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं तदेव क्षयज्ञानं स्वभावसंग्रहतः । षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां । क्षयज्ञानं दुःखं मे परिज्ञातमित्येवमाद्याकारज्ञाननिष्यन्दं । तत्र यत्कामावचरदुःखाद्यालंबनं । तद्धर्मज्ञनेऽन्तर्भवति । यद्रूपारूप्यावचरदुःखाद्यालंबनं । तदन्वयज्ञानेऽन्तर्भवति । यत्प्रत्येकं दुःखाद्यालंबनं । तद्दुःखज्ञानं यावन्मार्गज्ञानं वा भवति । तत्र य एषामेवंलक्षणो भागः । तत्क्षयज्ञानं नेतर इति । षण्णां भाग इत्युच्यते । [तिब् । २८० ] एवमनुत्पादज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं तदेवानुत्पादज्ञानं । षण्णां च भगो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां यो भागः । दुःखं मे परिज्ञातं न पुनः परिज्ञेयमित्येवमाद्याकारनिष्यन्दं । तदनुत्पादज्ञानं । रूपारूप्यावच्रदुःखाद्यालंबनम् । तदन्वयज्ञानं । नेतरो भाग इति । षण्णां भाग इत्युच्यते । (विइ ।८) आकाराकारगोचराद् इति । आकारश्च गोचरश्चाकारगोचरं । आकारश्चाकारगोचरं । आकाराकारगोचरम् । तस्मात् । स्वभावतः संवृतिज्ञानमिति । स्वभावेन स्वभावतः । संवृतिज्ञानं । कस्मादित्याह । अप्रमार्थज्ञानत्वादिति । कामधातुप्रतिपक्षो धर्मज्ञानं । ऊर्ध्वधातुप्रतिपक्षोऽन्वयज्ञानं । तथा हि शास्त्र उक्तं । धर्मज्ञानं कतमत् । कामप्रतिसंयुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं । कामप्रतिसंयुक्तानां (अभिधर्मकोषव्याख्या ६१७) संस्काराणां हेतौ यदनास्रवं ज्ञानं । कामप्रतिसंयुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं कामप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानं । इदमुच्यते धर्मज्ञानम् । अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यदनास्रवं । इदमुच्यते धर्मज्ञानम् । अन्वयज्ञानं कतमत् । रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु यदनास्रवं ज्ञानम् । रूपारूप्यप्रतिसंयुक्तानां संस्काराणां [तिब् । २८१ ] हेतौ यदनास्रवं ज्ञानं । रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं । रूपारूप्यप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम् । इदमुच्यते अन्वयज्ञानं । अपि खल्वन्वयज्ञाने अन्वयज्ञानभूमौ च यदनास्रवं ज्ञानम् । इदमुच्यतेऽन्वयज्ञानमिति । आकारतो दुःखसमुदयज्ञाने इति । आकारत एव नालंबनतः पंचोपादानस्कंधलक्षणत्वेन तयोरभेदात् । तथा हि शास्त्र उक्तं । दुःखज्ञानं कतमत् । पंचोपादानस्कंधाननित्यतो दुःखतः शुन्यतोऽनात्मतश्च मनसिकुर्वतो यदनास्रवं ज्ञानं । इदमुच्यते दुःखज्ञानं । समुदयज्ञानं कतमत् । सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च मनसिकुर्वतो यदनास्रवं ज्ञानम् । इदमुच्यते समुदयज्ञानं । आकारालंबनतो निरोधमार्गज्ञाने इति । आकारतश्चालंबनतश्च निरोधमार्गज्ञाने व्यवस्थाप्येते । तथा हि शास्त्र उक्तं । निरोधज्ञानं कतमत् । निरोधं निरोधतः शान्ततः । प्रणीततो निःसरणतश्च मनसिकुर्वतो यदनास्रवं ज्ञानम् । इदमुच्यते निरोधज्ञानमिति । मार्गज्ञानं कतमत् । मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च मनसिकुर्वतो यदनास्रवं ज्ञानम् । इदमुच्यते मार्गज्ञानमिति । प्रथमत [तिब् । २८१ ] इति ग्रहणमनुत्पादज्ञानविशेषणार्थं । तदपि हि कृतकृत्यसंतान उत्पद्यते । सर्वानास्रवहेतुकत्वादिति । प्रथमोत्पन्नानि दश ज्ञानान्यधिकृत्य सभागहेतुना सर्वानास्रवहेतुकमनुत्पादज्ञानं । क्षयज्ञानं तु न सर्वानास्रवहेतुकं । न ह्यनुत्पादज्ञानमस्य हेतुर्भवति विशिष्टत्वात् । (विइ ।९) सकलस्य सकलप्रतिपक्षत्वादिति । सकलस्य कामधातोर्दर्शनभावनाप्रहातव्यसंगृहीतस्य पंचप्रकारस्य सकलं धार्मज्ञानं दर्शनभावनामार्गसंगृहीतं चतुरार्यसत्यालंबनं प्रतिपक्ष इति कृत्वा कामधातोरेव प्रतिपक्षो धर्मज्ञानमित्युक्तम् । अपि त्वस्ति संभवो यद्रूपारूप्यधातोरपि धर्मज्ञानं प्रतिपक्षः । कतमत्तद्धर्मज्ञानं । यन्निरोधे मार्गे च धर्मज्ञानं । निरोधमार्गौ ह्यधातुपतितौ । तावधरावपि न हिनौ व्यवस्थाप्येते । दुःखसमुदयसत्वे त्व्(अभिधर्मकोषव्याख्या ६१८) अधरभूमिके निहीने । न तदालम्बनं धर्मज्ञानं रूपारूप्यधातुप्रतिपक्ष इत्यवगंतव्यं । भावनापथ- ग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानामन्वयज्ञानक्षान्तिवध्यत्वात् । अन्वयज्ञानं तर्हि निरोधमार्गालंबनभावनामार्गसंगृहीतं कस्मात्त्रिधातुप्रतिपक्षो न भवति । कामधातोर्जितत्वात् । धर्मज्ञानेनैव कामधातुः [तिब् । २८२ ] पूर्वतरजितो भवति । ततः पश्चादन्वयमुत्पद्यते । ततः कामधातोर्जितत्वान्न तत्कामधातुप्रतिपक्ष इति । धर्मज्ञानं तु रूपारूप्यधातोरजितत्वात्प्रतिपक्षो युज्यते । [कर्मान्निरोधमार्गधर्मज्ञानाभ्यामेव त्रैधातुकभावनाप्रहातव्यक्लेशप्रहाणं न पूर्वाभ्यां । शान्तनैर्याणिकतासाभागात् । न हि कामावचरसंस्काराणां । निरोधात्प्रतिपक्षाद्वा रूपारूप्यावचरसंस्काराणां निरोधस्य प्रतिपक्षस्य वास्ति कश्चिद्विशेषः । सर्वो हि निरोधः कुशलोऽसंस्कृतो मार्गश्च नैर्याणिकः ।] अन्वयमित्यन्वेतीत्यन्वयं ज्ञानं । (विइ ।१०-१२ ब्) सर्वथेति । भावनामार्गसंगृहीतमपि । तान् पुरस्तादिति । ताननित्यादीनाकारानूर्ध्वं व्याख्यास्यामः । षोडशाकारमुष्मगतादिषु । स्वसामान्यलक्षणादिग्रहणादिति । स्वलक्षणग्रहणात्सामान्यलक्षणग्रहणाच्च । आदिशब्देन भुंक्ष्व तिष्ठ गच्छेत्येवमाकारं च । न ह्येते स्वलक्षणाकाराः । किं तर्हि । एवमाकारा एवेति । उभयमपि त्विति । सास्रवानास्रवं । यत्तर्हीति विस्तरः । रागस्य च चित्तस्य च युगपद्ग्रहणमित्यभिप्रायः । सूत्रं पुनरेवं पठ्यते । सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति । विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति । यथा सरागं विगतरागम् । एवं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतमुद्धतम् [तिब् । २८२ ] अनुद्धतमव्युपशान्तं भावितमविमुक्तं विमुक्तमिति यथाभूतं प्रजानातीति । वस्त्रमलायुगपद्ग्रहणवदिति । यथा वस्त्रमलयोर्न युगपद्ग्रहणं । तद्वत् । कथं । यथा यदा वस्त्रमिति परिच्छिन्नाकारं विज्ञानमुत्पद्यते न तदा मलं गृह्णाति । यदा च मलमिति परिच्छिन्नाकारं विज्ञानमुत्पद्यते । न तदा वस्त्रं गृह्णाति । संसृष्टसरागता संयुक्तसरागता चेति । संसृष्टसरागता संप्रयोगात् । संयुक्तसरागता रागप्राप्त्यनुबंधादित्येके । अनुशयानरागालंबनत्वादित्यपरे । द्वाभ्यामिति । संसृष्टसरागतया संयुक्तसरागतया चेति । ततो (अभिधर्मकोषव्याख्या ६१९)ऽन्यत्सास्रवमिति । यत्क्लिष्टमव्याकृतं कुशलं च लौकिकं । तत्संयोगसरागतया सरागं । तदेवमुभयमप्येतत्सरागमेवोक्तं । आह । किं पुनः कारणमेकीयमतेन रागप्रतिपक्षो विगतरागमित्युच्यते । यतस्त आहुः । यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसंप्रयुक्तमपि । द्वेषादिसंप्रयुक्तमपि । स्यात्विगतरागं । [तिब् । २८३ ] तदपि हि रागेणासंप्रयुक्तं संप्रयुक्तमपि । न च सूत्रे द्वेषादिसंप्रयुक्तं विगतरागमित्युक्तं । सद्वेषं समोहमित्यादिवचनात् । येषां पुना रागप्रतिपक्षो विगतरागमिति । तेषामयमदोषः । न हि रागप्रतिपक्षो द्वेषादिभिः संप्रयुज्यत इति । एवं तर्हीति विस्तरः । यदि रागसंप्रयुक्तं चित्तं सरागं रागप्रतिपक्षो विगतरागं । तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः । चित्तमक्लिष्टमनिवृताव्याकृतं । नैव सरागं रागेणासंप्रयोगात् । न वियतरागं रागस्याप्रतिपकेषत्वात् । एवमादीति । आदिशब्देन सद्वेषं समोहमिति तुल्यप्रसंगो योज्यः । कथम् । अत्र तु सूत्रे द्वेषसंप्रयुक्तं चित्तं सद्वेषं द्वेषप्रतिपक्षो विगतद्वेषमिति । यदि हि द्वेषेणासंप्रयुक्तं विगतद्वेषं स्यात् । अन्यक्लेशसंप्रयुक्तमिति स्यादित्येके । एवं तर्हि तद्[तिब् । २८३ ] अप्रतिपक्षश्चित्तमक्लिष्टं नैव सद्वेषं स्यात्न विगतद्वेषम् । इत्येवं समोहं चित्तं विगतमोहमिति वक्तव्यं । तस्माद्रागसंयुक्ततयापि सरागं चित्तमत्रेष्टव्यं । अपिशब्दाद्रागसंप्रयुक्ततयापीत्यपरे । आभिधार्मिकाः । एवं यावत्समोहं विगतमोहं चेति । तस्माद्द्वेषसंयुक्ततयापि सद्वेषं मोहसंयुक्ततयापि समोहमत्र सूत्रे एष्टव्यमिति । आलंबनाभिसंक्षेपादिति । कुशलं चित्तं विक्षेपेण न संप्रयुज्यते । तस्मात्तदालंबने तस्याभिसंक्षेप इति । संक्षिप्तं विक्षिप्तं च स्यात् । क्लिष्टमिद्धसंप्रयोगादिति । द्विविधं मिद्धं । क्लिष्टमक्लिष्टं च । तदेव हि चित्तं क्लिष्टं मिद्धसंप्रयुक्तमिति संक्षिप्तं स्यादिति । क्लिष्टमिति च विक्षिप्तं स्यादिति सांकर्यदोषः । सास्त्रविरोधश्चेति । कथं । संक्षिप्तं चित्तं यथाभूतं संप्रजानाति विस्तरेण यथा वृत्तौ । तेषामन्वयज्ञानं तावत्संक्षिप्तचित्तालंबनं न संभवति । कामधातोरूर्ध्वं मिद्धभावादन्वयज्ञानस्य [तिब् । २८४ ] (अभिधर्मकोषव्याख्या ६२०) च कामधात्वनालंबनत्वात् । मार्गज्ञानमपि संक्षिप्तचित्तालंबनं न संभवति । मार्गज्ञानं हि मार्गालंबनं । न च मार्गसंगृहीतं चित्तं मिद्धसंप्रयोगीति । तेनैवं वक्तव्यमभविष्यत्तज्ज्ञानं द्वे [ज्ञाने] । धर्मज्ञानं संवृतिज्ञानं चेति । ये तु वर्णयन्ति संक्षिप्तं चित्तं कुशमालंबनाभिसंक्षेपादिति । तेषामेतद्दोषद्वयं न भवति । तदक्लिष्टेन मिद्धेन न संप्रयुज्यत इति संक्षिप्तं विक्षिप्तं च न प्राप्नोति । नापि शास्त्रविरोधः । कुशलं त्रैधातुकसंगृहीतमसंगृहीतं च संक्षिप्तं चित्तं तज्ज्ञानं चत्वारि ज्ञानानीति सिद्धं । रूपारूप्यकुशलचित्तालंबनमनास्रवं ज्ञानमन्वयज्ञानं भवति । मार्गसंगृहीतकुशलालंबनं मार्गज्ञानमपीति । व्यवदानपरीत्तैर्निषेवितत्वादिति । अल्पकुशलमूलैर्निषेवितत्वादित्यर्थः । तद्विपर्ययादिति । व्यवदानमहद्भिर्निषेवितत्वादित्यर्थः । मूलादीनं बलान्तानामल्पबहुत्वमेकैकस्य मूलस्याल्पबहुत्वाद्यथाक्रमं परीत्तं च वेदितव्यं । कथमित्याह । क्लिष्टं हि [तिब् । २८४ ] द्वाभ्यामकुशलमूलाभ्यां समूलं मोहेन लोभद्वेषयोश्चान्यतरेण । एकस्मिन् कलापेऽनयोरसमवधानात् । कुशलं त्रिभिरलोभाद्वेषामोहैरेषामविनाभावात् । तज्जातीयानागतभावनाभावादिति । क्लिष्टजातीयस्यानागतस्य भावनायाः प्रतिलंभस्याभावात्कुशलसंस्कृता धर्मा भावयितव्या इति न्यायात् । त्रिभिश्च स्कंधैः सानुपरिवर्तं वेदनासंज्ञासंस्कारस्कंधैः । न विज्ञानस्कन्धेन । एकस्मिन् कलापे द्वितीयविज्ञानाभावात् । न च स्वात्मना स्वात्मनि वृत्तिविरोधात् । कुशलं तु महापरिवारं तज्जातीयानागतभावनासद्भावात् । चतुर्भिश्च स्कंधैः सानुपरिवर्तं । तैश्च वेदनादिभिस्त्रिभिः । रूपस्कंधेन च ध्यानानास्रवसंवरसंगृहीतेन चित्तानुपरिवर्तनासंभवयोगतः । अल्पबलं खल्वपि क्लिष्टमिति । ननु च कुशलमपि दुर्बलमेकेन मिथ्यादृष्टिक्षणेन कुशलपंचस्कंधसमुद्घातात् । न तदत्यंतमुच्छिद्यते पुनः प्रतिसंधानात् । दुःखधर्मज्ञानक्षांत्य तु दशानामनुशयानामत्यंतसमुच्छेद इति तसादपीत्यपिशब्देन पूर्वोक्तादपीति । तत्प्रतिपक्षत्वादिति । औद्धत्यप्रतिपक्षत्वादित्यर्थः । एवमव्युपशान्तं व्युपशान्तं चेति । अव्युपशांतं [तिब् । २८५ ] क्लिष्टमौद्धत्यसंप्रयोगात् । व्युपशान्तं कुशलं तत्प्रतिपक्षत्वादिति क्लेशसंप्रयोगासंप्रयोगतो वा तदव्युपशान्तं व्युपशान्तं च भवति । समाहितं कुशलं तत्प्रतिपक्षत्वादिति । विक्षेपप्रतिपक्षत्वात् । पृअतिलंभनिषेवणभावनाभ्यामिति । अलब्धपूर्वस्य प्राप्तिः प्रतिलम्भः । संमुखीभावो (अभिधर्मकोषव्याख्या ६२१) निषेवणं । ते एव भावने । ताभ्यामभावितत्वातभावितं । न हि क्लिष्टं कुशलवदनागतं भाव्यते । न च निषेवणार्हं भवति निहीनत्वात् । प्रतिलंभनिषेवाख्ये शुभसंसऋतभावने इति । ताभ्यामिति प्रतिलम्भनिषेवणाभ्यामित्यर्थः । स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वादिति । क्लेशैः संप्रयोगान्न स्वभावविमुक्त्या विमुक्तं । क्षीणक्लेशसंतानानुत्पत्तेश्च न संतानविमुक्त्या च विमुक्तं । कुशलं तु क्लेशासंप्रयोगात् । क्षीणक्लेशसंतानोत्पत्तेश्च विमुक्तं । स्त्यानमिद्धसहगतमिति । स्त्यानमिद्धसंप्रयुक्तमध्यात्मं संनिरोधसहगतमिति । एतदेव निगमयति न तु विपश्यनया समन्वागतमिति । अनुविक्षिप्तमित्यस्य निर्देशं करोत्यनुविसृतमिति । मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानाद्[तिब् । २८५ ] इति । किमिति कृत्वा विक्षिप्तत्वमत्र न प्रतिज्ञायते । किं मिद्धसहगते क्लिष्टे चित्ते विक्षिप्तत्वं नास्तीति न प्रतिज्ञायते । आहोस्विद्विद्यमानमप्यत्र विक्षिप्तत्वम् । संक्षिप्तत्वेनैव स्थापितत्वान्न प्रतिज्ञायते । उभयथापि व्याचक्षते । केचिद्व्याचक्षते । मिद्धसहगताद्धि क्लिष्टाद्यदन्यत्क्लिष्टं । तद्विक्षिप्तं प्रतिज्ञायते । मिद्धसहगतं तु क्लिष्टमक्लिष्टं चाविशेषेण संक्षिप्तमेवेति । अपरे पुनर्व्याचक्षते । यन्मिद्धसंप्रयुक्तं । तत्संक्षिप्तमेव न विक्षिप्तं । यत्तु विषयेषु विसृतं । तदेव विक्षिप्तमित्यतोऽत्र मिद्धसंप्रयुक्ते चित्ते । न प्रतिज्ञायत इति । वरं शास्त्रविरोध इति । अबुद्धोक्तमभिधर्मशास्त्रमित्यभिप्रायः । अभिन्नलक्षणवचनादिति । सर्वाणि तानि क्लिष्टान्युक्तानीति । क्लिष्टत्वलक्षणमेषां विक्षिप्तादीनामविमुक्तान्तानाम् । क्लिष्टत्वं पुनः क्लेशमहाभूमिकैः संप्रयोगः । संक्षिप्तप्रगृहीतादीनां चाभिन्नलक्षणवचनान्नार्थविशेष उक्तो भवतीति संबन्धः । आदिशब्देन महद्गतानुद्धतव्युपशान्तसमाहितभावितविमुक्तानां [तिब् । २८६ ] ग्रहणं । कुशलमेषामभिन्नं । किं पुनः कुशलत्वं । कुशलं महाभूमिकैः संप्रयोगः । न वै नोक्त इति विस्तरः । वै इति निपातः । न नोक्त इति द्वौ प्रतिषेधौ उक्त एवेत्यर्थः । क उक्तः । पदानामर्थविशेषः । इत्याह । क्लिष्टसामान्येऽपि विक्षिप्तादीनां तुल्ये क्लिष्टत्वे तेषां दोषाविशेषसंदर्शनादित्यप्येतत्क्लिष्टं चित्तं विक्षेपयोगाद्विक्षिप्तं क्लिष्टं । कौसीद्ययोगाल्लीनमौद्धत्ययोगादुद्धतमित्येवमादिदोषे विशेषसंदर्शनादुक्त एवार्थविशेषो भवति । एवं कुशलस्यापि संक्षिप्तादेर्(अभिधर्मकोषव्याख्या ६२२) गुणविशेषसंदर्शनादित्यप्येतत्कुशलं चित्तं संक्षिप्तं प्रगृहीतमिति विस्तरेणोक्त एवार्थविशेषो भवति । सूत्रविरोधस्यापरिहारादिति । सूत्रे हि स्त्यानमिद्धसहगतं संक्षिप्तमुक्तं । स्त्यानयोगेन यत्क्लिष्टं मिद्धसंप्रयुक्तं । तत्संक्षिप्तं न कुशलं । स्त्यानस्य क्लेशमहाभूमिकत्वात् । यदि च सूत्रे इति विस्तरः । यदि [तिब् । २८६ ] युष्मन्नीत्या सूत्रे लीनमेवोद्धतं भगवताभिप्रेतं स्यात् । लीनोद्धतयोः पृथग्वचनं नोक्तं स्यात् । कथमित्याह । यस्मिन् समये चित्तं लीनं कौसीद्यसंप्रयुक्तं । लीनाभिशंकि लीनमेतद्भविष्यतीत्यभिशंकतो लीनाभिआशंकि । अकालस्तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया इत्येष नियमो न स्यात् । एवं च वक्तव्यं स्यात् । अकालस्तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया अपीति । किं कारणं । तदेव लीनं चित्तमुद्धतमिति कृत्वा । तथा यस्मिन् समये उद्धतं चित्तं भवत्यौद्धत्याभिशंकि । अकालस्तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इत्येष नियमो न स्यात् । एवं च वक्तव्यं स्यात् । अकालस्तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया अपीति । किं कारणं । तदेवोद्धतं चित्तं लीनमिति कृत्वा । अविभागेन वा वक्तव्यं स्यात् । यस्मिन् समये चित्तं लीनं भवति लीनाभिशंकि उद्धतं वा भवत्यौद्धत्याभिशंकि । अकालस्तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षाधर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इति । स्मृतिसंबोध्यंगस्याग्रहणं सर्वत्रगत्वात्स्मृतेः । उभयेऽपि चित्तेऽनुक्त सिद्धितः । [तिब् । २८७ ] स्मृतिं खल्वहं सर्वत्रगतां वदामीति सूत्रे वचनात् । कथं पुनर्वैभाषिकेण यदेव लीनं । तदेवोद्धतमित्यभीष्टं गम्यते । लीनं चित्तं क्लिष्टं कौसीद्यसंप्रयोगात् । उद्धतं चित्तं क्लिष्टमौद्धत्यसंप्रयोगादिति वचनात् । किं पुनरत्र बोध्यंगानां व्यग्रा भावनेति । किं कदाचित्प्रश्रब्ध्यादिभावनैव न धर्मप्रविचयादिभावना । कदाचिद्धर्मविचयादिभावनैव न प्रश्रब्ध्यादिभावनेति व्यग्रा भावना । मनसिकरणं तेषां भावनेष्टा । न संमुखीभाव इति । मनसिकरणमालंबनीकरणं । लीने चित्ते अकालः प्रश्रब्ध्यादीनामालंबनीकरणस्याभोगकरणस्येत्यर्थः । उद्धते च चित्ते अकालो धर्मविचयादीनामिति । न तु संमुखीभावो भावनेष्टा । तस्मिन् काले न प्रश्रभ्द्यादयः संमुखीकर्तव्याः । धर्मविचयादयस्तु संमुखीकर्तव्याः । धर्मविचयादयो वा न संमुखीकर्तवाः । प्रश्रब्ध्यादयस्तु कर्तव्या (अभिधर्मकोषव्याख्या ६२३) इति । कौसीद्याधिकमत्रेति विस्तरः । यत्र कौसीद्यम् [तिब् । २८७ ] अधिकमौद्धत्यं तु न्यग्भावेन वर्तते । तल्लीनं । यत्र चौद्धत्यमधिकं कौसीद्यं तु न्यग्भावेन । तदुद्धतम् । इत्यनयोर्विशेषादविरोधः सूत्रस्य पृथग्वचने । तयोस्तु सहभावादेकस्मिन् कलापे युगपद्भावात्तदेव लीनं तदेवोद्धतमिति ब्रूम इति । लीनं क्लिष्टं कौसीद्यसंयोगात् । उद्धतं क्लिष्टमौद्धत्यसंयोगादिति । आचार्य आह । आभिप्रायिकं यावत्सूत्रे तु नायमभिप्राय इति । कौसीद्याधिकं लीनमौद्धत्याधिकमुद्धतमिति । यस्मादाह । यस्मिन् समये लीनं चित्तं भवति विस्तरेण न त्वेवं विशिनष्टि कौसीद्याधिकमन्द्धत्याधिकमिति वा । यत्तूक्तं सर्वमेव रागसंयुक्तं चित्तं सरागमिति । कथमुक्तं । तत्र रागसंप्रयुक्तं चित्तं द्वाभ्यां सरागं । ततोऽन्यत्सास्रवं संयोगसरागमिति वचनात् । तत्र रागसंयुक्ततयापि सरागं चित्तमत्रेष्टव्यमिति वचनात् । अनास्रवमपि सरागं प्राप्नोति शैक्षमिति । शैक्षसंताने रागस्य सावशेषत्वात् । [तिब् । २८८ ] रागालंबनं चेत् । अथ मतं रागस्य यदालंबनं । तद्रागसंयुक्तं सरागं च भवति । अर्हतोऽपि सास्रवं चित्तं परकीयस्य रागस्यालंबनत्वात्रागसंयुक्तमिति कृत्वा सरागमिति गृह्णीयात्परचित्तवित्परचित्तज्ञानं वा । अथ मतं न तद्रागेणालंब्यत इति । तत उच्यते । कथं वा तत्सास्रवमिति । सामान्यक्लेशालंबनत्वादिति चेत् । अथ मतं सामान्यक्लेशानां दृष्टिविचिकित्साविद्यानामालंबणं तदतः सास्रवमिति । एवमपि समोहं ग्र्ःणीयात् । अर्हतः सास्रवं चित्तं मोहालंबनत्वात् । मोहोऽपि सामान्यक्लेशः । परकीयस्य च मोहस्यार्हच्चित्तमालंबनीभवतीति । न च परचित्तज्ञानं प्राप्त्यालंबनमिति । यस्मात्परचित्तज्ञानं चित्तचैत्तालंबनमिष्यते । तस्मान्न रागप्रप्तिसहितत्वेन रागसंयुक्तत्वात्सरागमिति । नापि तच्चितालंबनरागालंबनमिति । तदिति यत्तत्परकीयं चित्तं परचित्तज्ञानेन [तिब् । २८८ ] गृह्यते । तत्तच्छब्देनोच्यते । [तस्यालंबनः] । तच्चित्तालंबनस्तच्चित्तालंबनो रागः । आलंबनमस्य परचित्तज्ञानस्येति तद्भवति तच्चित्तालंबनरागालंबनं । यस्मादेवंविधं रागं नालंबते परचित्तज्ञानं विप्रकृष्टत्वात् । एकैकद्रव्यगोचरं हि परचित्तज्ञानं । न च परकीयचित्तज्ञानं तस्य चित्तस्यालंबनं गृह्णाति । आकारालंबननिरपेक्षं हि तदिति वचनात् । रक्तमिदमेइत्तं जानातीति वचनाच्च । तस्मादपि न रागसंयोगात्सरागं चित्तमिति । असंप्रयुक्तं विगतरागमिति । सत्यामपि रागप्राप्तावित्यभिप्रायः । तत्र तत्संधायोक्तमिति रागादिप्राप्तिविगमं । संधायोक्तं (अभिधर्मकोषव्याख्या ६२४) न संप्रयोगमिति दर्शयत्यनावर्तिकधर्मि कामभवे रूपभवे आरूप्यभवे इति । त्रैधातुकवैराग्यसंदर्शनादित्यभिप्रायः । ननु चोक्तमिति विस्तरः । क्वोक्तम् । अत्र तु सूत्र इति विस्तरेण यावद्यदि हि रागेणासंप्रयुक्तं चित्तं विगतरागं स्यादन्यक्लेशसंप्रयुक्तम् [तिब् । २८९ ] अपि विगतरागं स्यादित्यत्र । एतेनाभिसंधिना रायविप्रयुक्तत्वाद्विगतरागमन्यक्लेशसंप्रयुक्तमपीत्यनेन । यद्येवं सद्वेषं समोहमित्येवमादि । न वक्तव्यं स्यादित्यत आह । न तु तद्विगतरागमित्यादि । न तु तद्द्वेषादिसंप्रयुक्तं चित्तं विगतरागमपि सद्विगतरागमिति कृत्वा गृह्यते । किं तर्हि । सद्वेषं समोहमित्येवमादि द्वेषादिसंप्रयोगितया विशिष्टत्वात् । आदिशब्देन चात्र संक्षिप्तं विक्षिप्तमित्येवमादिसूत्रोक्तानि पदानि गृह्यन्ते । अन्यथा हीति विस्तरः । यद्यस्मिन् वस्तुनि रूपादिके रक्तमिति विजानीयात्तद्रूपालंबनमपि स्यात् । तथा च सति न तत्परचित्तज्ञानं स्याद्रूपालंबनत्वात् । तदालंबनं च परचित्तं गृह्णतः स्वभावग्रहणं प्राप्नुयादिति । सालंबनपरचित्तग्रहणे हीष्यमाणे स्वात्मा परचित्तज्ञानेन गृह्येत । अस्ति हि संभवो यत्परचित्तविद्यस्य चित्तं गृह्णाति । असावपि तस्य परचित्तविदश्चित्तमालंबेत । ततश्च परचित्तज्ञानस्य स्वालंबनपरिज्ञानात्[तिब् । २८९ ] स्वमेवासौ परचित्तविच्चित्तमालम्बेत । न चैतत्प्राप्यं । यत्तेनैव चित्तेन तदेव गृह्यते । सर्वं चेति विस्तरः । द्रव्यस्य स्वलक्षणं च चित्तचैत्ताश्च प्रत्युत्पन्नाश्च परसंततिश्च कामरूपप्रतिसंयुक्ताश्चाप्रतिसम्युक्ताश्च विषयोऽस्येति समासविग्रहः । द्रव्यग्रहणं संवृतिसन्निरासार्थं । स्वलक्षणग्रहणं सामान्यलक्षणनिवृत्त्यर्थं । चित्तचैत्तग्रहणं रूपादिविशेषणार्थं । प्रत्युत्पन्नग्रहणमतीतानागतविवेचनार्थं । परसंततिग्रहणं स्वसंततिव्युदासार्थं । कामरूपप्रतिसंयुक्ताप्रतिसंयुक्तग्रहणमारूप्यप्रतिसंयुक्तप्रतिषेधार्थं । दर्शनमार्गप्रतिषिद्धमिति । दर्शनमार्गे वर्तमानः परचित्तज्ञानं न संमुखीकरोतीत्यतो दर्शननार्गसंगृहीतं नास्ति । न हि दर्शनमार्गो व्यवच्छिन्नचित्तचैत्तालंबनो भवति । भावनामार्ग उपलभ्यते । भावनामार्गसंगृहीतं भवतीत्यर्थः । शून्यतानिमित्तविप्रयुक्तमिइत् । शून्यतासमाधिना आनिमित्तसमाधिना च विप्रयुक्तं । शून्यतासमाधिर्दुःखज्ञानसंयुक्तः । आनिमित्तसमाधिर्निरोधज्ञानसंप्रयुक्तः । न च परचित्तज्ञानं । [तिब् । २९० ] दुःखज्ञानं दुःखनिरोधज्ञानं वा भवत्याकारालम्बनभेदात् । अतस्ताभ्यां विप्रयुक्तमुच्यते । अर्थादुक्तं भवत्यप्रणिहितसमाधिसंप्रयुक्तं (अभिधर्मकोषव्याख्या ६२५) संभवतीति । क्षयानुत्पादज्ञानसंगृहीतमिति । क्षयज्ञानेनानुत्पादज्ञानेन न संगृहीतं । न क्षयानुत्पादज्ञानस्वभावमित्यर्थः । किं कारणं । द्रव्यस्वलक्षणसंतीरणपरिमार्गणाशयं परचित्तज्ञानं । न चैव क्षयज्ञानमनुत्पादज्ञानं चेति ताभ्यामसंगृहीतं । आनन्तर्यमार्गं प्रतिषिद्धं चेति । स हि प्रहाणमार्गो भवति । परचित्तज्ञानं च विमुक्तिविशेषमार्ग इति । पारमार्थिकयोरपि संवृतिभजनादिति । परमार्थनिमित्ते परमार्थेन वा दीव्यतः पारमार्थिके । तयोः संवृतिभजनात् । यस्मादेते संवृतिं भजेते । अतः शून्यानात्माकारौ न स्तः । कथं पुनरेते संवृतिं भजेते । क्षीणा मे जातिः । नापरमस्माद्भवं प्रजानातीति यथाक्रमं । कथमेते अनास्रवे सती एवमाकारे । तद्बलेनान्व्व्यवहारतः । अन्येन ज्ञानेनेति वाक्यशेषः । यस्मात्तत्पृष्ठनिर्जाते संवृतिज्ञाने एवमाकारे प्रवर्तेते । अतस्तन्निष्यन्देन तयोः संवृतिभजनमित्युच्यते । न तु मुख्यवृत्त्या तयोः संवृतिभजनम् [तिब् । २९० ] इत्यभिप्रायः । यतश्चैव निष्यन्देनात्मदृष्टिं भजमाने इव ते प्रवर्तेते । अत्र तस्माच्छून्यानात्माकारविवर्जितैश्चतुर्दशभिरेवाकारैः संप्रयुक्ते इति । (विइ ।१२) अप्रतिसंयुक्तेनेत्यनास्रवेण । अनित्यमित्यनित्यतः । अयं हि तसिप्रत्ययः स्वार्थे प्रयुक्तः । एवं सर्वत्रायं प्रत्ययो ज्ञातव्यः । अथ वान्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भवति । अनित्येन रूपेण भावोऽनित्यत इति । एवमन्यत्रापि योज्यं । अस्त्येतत्स्थानमस्त्येतद्वस्त्विति । एतावपि द्वावाकारावनास्रवौ । अस्त्येतत्स्थानमित्यस्त्येतल्लक्षणमित्यर्थः । अस्त्येतद्वस्त्वित्ययं हेतुरित्यर्थः । योगविहिततो विजानीयादिति । अविपरीततो विजानीयादित्यर्थः । नास्यायमर्थ इति विस्तरः । अस्येति वाक्यस्य पदद्वयस्य वा । अस्त्येतत्स्थानमस्त्येतद्वस्त्वित्यस्त्ययं संभवोऽस्त्ययं योगो यदनित्यादितो विजानीयादिति मतं चेत् । न । नैतदस्ति । अन्यत्रावचनात् । अन्यत्र वाक्ये पदद्वयस्यावचनात् । दर्शनप्रहातव्येनेति । दर्शनप्रकारेण । आत्मत आत्मीयतश्चेति । सत्कायदृष्ट्या संप्रयुक्तेन चित्तेन । उच्छेदतः शाश्वत इति । अन्तग्राहदृष्ट्या । अहेतुतोऽक्रियातोऽपवादत इति मिथ्यादृष्ट्या । अग्रतः श्रेष्ठतो विशिष्टतः परमत इति दृष्टिपरामर्शेन । शुद्धितो मुक्तितो नैर्याणिकत इति शीलव्रतपरामर्शेन । [तिब् । २९१ ] कांक्षातो विमतितो विचिकित्सात इति विचिकित्सात । रज्येतेति रागेण । द्विष्यादिति द्वेषेण । मन्येतेति मानेन । मुह्येदिति मोहेन । अयोगविहितता विजानीयादिति । एवमात्मादिभिर्विपरीतता विजानीयादिति निगमयति । अत्रापि वाक्ये एष (अभिधर्मकोषव्याख्या ६२६) पाठोऽभविष्यदिति । न चैवम् । अतो गम्यते नायमस्यार्थ इति । (विइ ।१३) सप्त द्रवत इति । दुःखाकाराश्चत्वारो द्रव्यतो भवन्ति । समुदयाद्याकारास्त्वेकैक इति सप्त । य एव हेत्वाकारः । स एव समुदयः प्रभवः प्रत्ययश्च पर्यायमात्रं नार्थभेदः । शक्र इन्द्रः पुरंदर इति यथा । एवं निरोध एव शान्तः प्रणीतो निःसरणमित्येक आकारः । मार्ग एव च न्यायः प्रतिपन्नैर्याणिक इत्येक आकार इति । तदिदमुक्तं भवति । दुःखाकारांश्चतुरः पृथग्योगिनः सम्मुखीकुर्युः । हेत्वाद्याकाराणां त्वेकैकमित्येकीयमतं । द्रव्यतः षोडशेति वैभाषिका वर्णयन्ति दुःखाकारवत्समुदयाद्याकाराणां सर्वेषामपि पृथक्पृथक्संमुखीकर्तव्यत्वात् । प्रज्ञास्वभावा ह्याकारा इति ब्रुवते । प्रत्ययाधीनत्वादिति विस्तरः । न नियतभवमनित्यं प्रत्ययाधीनत्वात्प्रत्ययप्रतिबद्धजन्मत्वादित्यर्थः । पीडनात्मकत्वाद्[तिब् । २९१ ] इति । बाधनात्मकत्वादित्यर्थः । विपक्षेणेति । प्रतिपक्षेणेत्यर्थः । विरुद्धः पक्षो विपक्ष इति कृत्वा । हेतुर्बीजधर्मयोगेनेति । प्रकृष्टावस्थतां हेतोर्दर्शयत्यादिबीजवत् । योगशब्दोऽत्र न्यायर्थः । समुदयः प्रादुर्भावयोगेनेति । संनिकृष्टावस्थतां हेतोर्दर्शयति । यतः क्षणादनन्तरमुत्पद्यते समुदेत्यस्मादिति कृत्वा । प्रभवः प्रबंधयोगेनेति । संततियोगेनानुच्छेदं दर्शयति । बीजांकुरकाण्डनालादिवत् । अभिनिष्पादनार्थेन प्रत्यय इति । हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति । तद्यथा मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पद्यते घटः । तद्वत् । अग्निनिर्वापणादिति । रागद्वेषमोहाग्निनिर्वापणादित्यर्थः । निरुपद्रवत्वादिति । निर्दुःखत्वादित्यर्थः । सर्वापक्षालवियुक्तत्वादिति । सर्वदुःखकारणविमुक्तत्वात् । गमनार्थेन निर्वाणस्य । योगयुक्तत्वादुपपत्तियुक्तत्वादुपाययुक्तत्वाद्वा । सम्यक्प्रतिपादनार्थेन प्रतिपदिति । प्रतिपद्यते निर्वाणमनयेति प्रतिपत् । नैर्याणिक इति । अत्यंतं निर्याणाय प्रभवतीति नैर्याणिकः । अनात्यन्तिकत्वाद्[तिब् । २९२ ] अनित्यमिति । पूर्वं प्रागुत्पत्त्यभावेनानित्यमुक्तम् । इदानीं प्रध्वंसाभावेनेति दर्शयति । अभिन्यासभूतत्वादिति । भारभूतत्वादित्यर्थः । दुःखेन भारभूतेन हि स पुद्गलो भिद्यते । आक्रम्यत इत्यर्थः । अकामकारित्वादिति । कामतः कर्तुं शीलमस्येति कामकारी । न कामकार्यकामकारी । तद्भावातनात्मा । सूत्रेऽप्ययमर्थ उक्तः । रूपं चेद्भिक्षव आत्माभविष्यत् । न रूपमात्मव्याबाधाय संवर्तेत । लभ्येत च रूपे एवं भवत्वेवं मा भूदिति कामकार्यात्मेति (अभिधर्मकोषव्याख्या ६२७) निरुक्तिपरिग्रहात् । हेतुरागमनयोगेनेति । हि गतौ हिनोत्यस्मादिति हेतुः । अस्मादुत्पद्यत इत्यर्थः । उन्मज्जनयोगेनेति । अनागताध्वन उन्मज्जतीवेत्यर्थः । प्रसरणयोगेनेति । प्रबन्धयोगेन । प्रतिसरणार्थेन प्रत्यय इति । जनिक्रियाप्रतिप्रधानभूत इत्यभिप्रायः । असंबन्धः संबंधोपरमादिति । पूर्वस्य दुःखस्योपरमात् । उत्तरस्य संबंधोपरमो निरोध इत्यर्थः । त्रिसंस्कृतलक्षणविमुक्तत्वात् । उत्पादव्ययस्थीत्य्[तिब् । २९२ ] अन्यथात्वविमुक्तत्वात् । परमाश्वासत्वादिति सर्वदुःखोच्छित्त्या परमक्षेमत्वात् । निर्वाणपुराविरोधनार्थेन प्रतिपदिति । यस्मादनेन निर्वाणपुरं न विरोध्यते न विसंवाद्यते । किं तर्हि प्रतिपद्यत एवेत्यतः प्रतिपत् । प्रतिपद्यते अनयेति कृत्वा । छन्दमूलका इति । छन्दहेतुका इत्यर्थः । तृष्णापर्याय इह छंदः । छन्दसमुदया इति । छन्दसमुद्गमा इत्यर्थः । छन्दजातीया इति । छन्दप्रत्यया इत्यर्थः । प्रभवशब्दः केवलं पश्चात्पठितव्यः । आभिधार्मिकैरिति वाक्याध्याहारः । सूत्रानुसरणं हि कर्तव्यमित्यभिप्रायः । हेतुतः समुदयतः । प्रत्ययतः प्रभवतश्चेति । कः पुनरेषां [पदानां] छन्दानाम् [इव वा] विशेषः । अस्मीत्यभेदेनात्मभावच्छन्द इति । अनवधार्यैकं द्रव्यं समस्तेषु पंचसूपादानस्कंधेषु अस्मीत्यभेदेन प्रकारान्तरविशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनोऽनालंबनतः त्रैयध्विकात्मभावनालम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः । स्यामित्यभेदेनेति पुनर्भवमात्रप्रार्थना न विशेषरूपाप्रार्थनेति द्वितीयः । इत्थं स्यामिति । इदंप्रकारः [तिब् । २९३ ] स्यामिति भेदेन पुनर्भवच्चन्दस्तृतीयः । प्रतिसंधिबन्धच्छन्दश्चतुर्थ इति । प्रतिसंधिरेव बंधः । प्रतिसंधेर्वा बंधः प्रतिसंधिबंधः । तत्र छन्दः प्रार्थनेति चतुर्थः । कर्माभिसंस्कारच्छन्दो वा चतुर्थ इत्यधिकृतं । कर्मणो वाभिसंस्कारः । तत्र छन्दः । एवं चैवं च दानं दास्यामीति । कथं पुनस्ते छन्दा मूलादिशब्दवाच्या इति प्रतिपादयन्नाह । तत्र प्रथम इति विस्तरः । आदिः कारणमादौ वा कारणमादिकारणं । तद्भावात्छन्दमूलकाः । हेत्वर्थो हि मूलशब्दः । फलस्येव बीजमिति । यथा फलस्य बीजमादिकारणं विप्रकृष्टकारणं । तद्वदयमादिच्छन्दो दुःखस्य । तेन तत्समुदागमादिति । तेन द्वितीयेन छदेन पुनर्भवस्य समुदागमात्क्षणपरंपरया फलस्येवांकुरादिप्रसवः । यथा परंपरयांकुरादिप्रसवः फलस्य समुदयः । तद्वत् । तृतीयच्छन्द इत्थं स्यामिति । तज्जातीयदुःखप्रत्यय इति । यत्प्रकारः पुनर्भवच्छन्दः । तत्प्रकारस्य दुःखस्य (अभिधर्मकोषव्याख्या ६२८) प्रत्ययः संभवति तस्य विशेषरूपत्वाद्विशेषफलरूपमेव फलमुत्पद्यत इत्यभिप्रायः । फलस्येव क्षेत्रोदकपाष्यादिकमिति । पाषिः शुष्को गोमयः । आदिशब्देन [तिब् । २९३ ] वातातपादिर्गृह्यते । ततोऽपि हि फलसंपदिति । वीर्यं शीतवीर्यता उष्णवीर्यतेति । विपाकः उष्णपरिणामता मधुरपरिणामतेति । प्रभावः सामर्थ्यविशेषः । तद्यथाम्लत्वे तुल्ये बीजपूरकरसः पित्तं जनयत्यामलकरसं तु शमयतीति । तत एव तत्संभवादिति । तत एव प्रतिसंधिबंधच्छन्दात्तस्य पुनर्भवलक्षणस्य संभवादुत्पादात् । फलस्येव पुष्पावसानं । यथा पुष्पावसानं फलस्य प्रभवः । तद्वत् । अत्र चतुर्थच्चन्दः साक्षाद्धेतुः पुनर्भवस्य । पूर्वकास्त्रयः पारंपर्येण हेतवः । अथ चेति विस्तरः । तृष्णाविचरितानां द्वव्पंचकौ गणौ द्वव्चतुष्कौ चत्वारश्छन्दा यथाक्रमं भवन्ति । प्रथमच्छन्दः पंचाकारः । द्वितीयोऽपि पंचाकारः । तृतीयश्चतुःप्रकारः । चतुर्थोऽपि चतुःप्रकारः । कथम् । अस्मीति भिक्षवः सत्यात्मदृष्टौ सत्यामित्थमस्मीति भवतीदं प्रकारोऽस्मीति भवति । तद्योगात्तृष्णामुत्पादयतीत्यर्थः । एवमस्मीति यथा पूर्वमेव नान्यथेत्यर्थः । अन्यथास्मीत्यन्येन प्रकारेण वर्णप्रतिभानादिदर्शनात् । सदस्मीति भवति । विपर्ययादसदस्मीत्ययमभेदेन पंचधात्मभावच्चन्दः प्रथमः । भविष्यामीत्यस्य भवतीति शाश्वतरूपेण । न भविष्यामीत्युच्छेदरूपेण । इत्थं भविष्यामीति विस्तरेण पूर्ववद्व्याख्यानम् । [तिब् । २९४ ] इत्ययमभेदेन पंचधापुनर्भवच्छन्दो द्वितीयः । स्यामित्यस्य भवति । इत्थं स्यामेवं स्यामन्यथा स्यामित्यस्य भवतीत्ययं भेदेन चतुर्धापुनर्भवच्छंदस्तृतीयः । अपि तु स्यामित्यस्य भवत्यपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्य् अस्य चतुर्धाप्रतिसंधिबंधच्छन्दस्चतुर्थः । तत्र प्रथमो दुःखस्यादिकारणत्वान्मूलहेतुरिति विस्तरेण पूर्ववद्योज्यं । प्रतिनियतत्वात्प्रतिपदिति । नियतप्रतिपादनं प्रतिपत् । कथं पुनः प्रतिनियता । अनयैव तद्गमनात् । यथोक्तमिति विस्तरः । नित्यसुखात्मीयात्मदृष्टिचरितानामिति । नित्यं सुखमात्मीयमात्मेति च दृष्टिचरितमेषां । त इमे नित्यसुखात्मीयात्मदृष्टिचरिताः पुद्गलाः । तेषां प्रतिपक्षेण यथाक्रममनित्याद्याकाराः । नास्ति हेतुरित्यहेतुदृष्टिचरितानां प्रतिपक्षेण हेत्वाकारः । एको हेतुरीश्वरः प्रधानं चेत्येकहेतुदृष्टिचरितानां समुदयाकारः । समुदयो हेतुर्नैकहेतुरिति । परिणमते भाव इति परिणामदृष्टिचरितानां प्रभवाकारः । (अभिधर्मकोषव्याख्या ६२९) आदिभवोऽयं । न तु पूर्वमवस्थितः परिणमत इति । बुद्धिपूर्वकृतोऽयं लोक इति बुद्धिपूर्वकृतदृष्टिचरितानां [तिब् । २९४ ] प्रत्ययाकारः । नेदमीश्वरबुद्धिकृतं जगत् । किं तर्हि । तंतं प्रतीत्य तत्तद्भवतीति । वीप्सार्थो हि प्रतिशब्दः । तस्मादनेकप्रत्ययजनितं जगदिति ज्ञापितं भवति । एवं तु युक्तं स्यादिति । सौत्रान्तिकमतम् । आलम्बनग्रहणप्रकार आकारा इति । नैरुक्ता विधिरिति दर्शयत्यालम्बनशब्दादाकारं गृहीत्वा प्रकारशब्दाच्च कारशब्दं । शेषवर्णलोपे च कृते आकार इति रुपं भवति । तदेवं सति प्रज्ञापि साकारा भवतीति सिद्धं । सालम्बा इति । आलम्बेत्याकारान्तमेतच्छब्दरूपं । घञन्तं वा आलम्ब इति । सहालम्बेन सहालम्बया वा वर्तन्ते सालम्बः । सालम्बना इत्यर्थः । (विइ ।१४, १५) कुशलादिभेदमिति । आदिशब्देनाकुशलाव्याकृतभूम्याश्रयग्रहणं । श्लोकादौ भवत्वादाद्यमिति इहाद्यं । न शास्त्रमिति व्याचष्टे । शास्त्रे हि धर्मज्ञानमाद्यं पठितमिति । धर्माख्यं षट्स्व् इति । कामावचरदुःखाद्यालम्बनत्वात् । आरूप्यत्रये चास्ति भावनामार्गसंगृहीतमेवान्वयज्ञानं । तथैव षड् इति । दुःखज्ञानादीनामन्वयज्ञानस्वभावत्वसम्भवात् । न रूपारूप्यधात्वोः संमुखीक्रियत इति । युक्तं तावदारूप्यधातौ धर्मज्ञानं न संमुखीक्रियत इति । आरूप्याणां कामावचरदुःखाद्यनालंबनत्वात् । रूपधातौ तु कस्मान्न संमुखीक्रियते । केचिदाहुः । कामधातुविदूषणपरं धर्मज्ञानं । रूपधातूपपन्नस्य च धर्मज्ञानं न कामधातुं विदूषयितुम् [तिब् । २९५ ] उपजायते । तस्य वैराग्यभूमिसंचारपरित्यक्तत्वात् । कामधातूपपन्नस्तु तद्वीतरागोऽपि तत्संमुखीकरोति । कामधातूपपत्तेः सावशेषत्वादित्यतो न रूपधातौ धर्मज्ञानं संमुखीक्रियते । आचार्यसंघभद्रस्त्वाह । धर्मज्ञानं कामेधातावेव संमुखीक्रियते । न रूपारूप्य धात्वोः । तत्समापत्तिव्युत्थानचित्तानां कामधातावेव सद्भावात् । अनुपरिवर्तकाश्रयाभावाद्वा । धर्मज्ञानानुपरिवर्तकस्य हि शीलस्य कामावचराण्येव भूतान्याश्रयः । दौःशील्यसमुत्थापकक्लेशप्राप्तिविबंधकत्वात् । प्रातिपक्षिकत्वात् । तानि च तत्र न संतीति धर्मज्ञानं कामधात्वाश्रयमेवेति । (विइ ।१६) निरोधज्ञानमेकं धर्मस्मृत्युपस्थानं धर्मस्मृत्युपस्थाननिर्देश (अभिधर्मकोषव्याख्या ६३०) उक्तं । धर्माः कायवेदनाचित्तेभ्योऽन्य इति । अन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानीति । धर्मान्वयसंवृतिदुःखसमुदयमार्गक्षयानुत्पादज्ञानानि चतुःस्मृत्युपस्थानस्वभावानि सन्ति । दुःखज्ञानमपि हि कदाचित्कायालंबनं । कदाचिद्यावद्धर्मालम्बनं । एवं समुदयज्ञानं । मार्गज्ञानमपि यदनास्रवसंवरालम्बनं कायस्मृत्युपस्थानं तद्भवति । शेषं सुगमं । (विइ ।१७) अन्यत्रान्वयज्ञानादिति । धर्मज्ञानं यद्यनास्रवं ज्ञानमालंबेत [तिब् । २९५ ] धर्मज्ञानपक्षमेवालम्बेत । एवमन्वयज्ञानमन्वयज्ञानपक्षमेवालम्बेतेति नियमः । तत्र धर्मज्ञानस्य मार्गज्ञानभूतस्य धर्मज्ञानान्तरं दुःखज्ञानादीनि चानुत्पादज्ञानान्तान्यालम्बनं संभवन्ति । दुःखसमुदयज्ञानभूतस्य तु संवृतिज्ञानमालंबनं संभवति । परचित्तज्ञानभूतस्य च परचित्तज्ञानमालंबनं संभवतीति । नव ज्ञानानि तस्यालंबनमिति । एवमन्वयज्ञानमपि योज्यं । मार्गज्ञानस्यापि नवैवान्यत्र संवृतिज्ञानात् । न हि मार्गज्ञानं संवृतिज्ञानमालम्बते । अनास्रवमार्गालम्बननियमात् । द्वे संवृतिपरचित्तज्ञाने इति । दुःखसमुदयसत्यांतर्भूते । परचित्तज्ञानं यदनास्रवं । तस्य नवानास्रवाणि ज्ञानान्यालंबनं । यत्सास्रवं तस्य संवृतिज्ञानं प्रर्चित्तज्ञानं चालम्बनं संभवति । क्षयानुत्पादज्ञाने दुःखज्ञानादिस्वभाव इति दशापि ज्ञानानि तयोरालम्बनानि भुवन्ति । (विइ ।१८, १९) संप्रयुक्तविप्रयुक्तभेदादिति । संप्रयुक्ताश्चित्तचैत्ता इति । विप्रयुक्ताः प्राप्त्यादयः । कुशलाव्याकृतभेदादिति । कुशलं प्रतिसंख्यानिरोधः परमक्षेमत्वात् । अव्याकृताव्[तिब् । २९६ ] आकाशप्रतिसंख्यानिरोधाविति । कामावचरानास्रवाश्चत्वार इति । संप्रयुक्तविप्रयुक्तभेदात् । रूपारूप्यावचरानास्रवाः षडिति । प्रत्येकं संप्रयुक्तविप्रयुक्तभेदात् । कामरूपारूप्यावचरा अपि तत एव भेदात्षट् । द्वावनास्रवाविति । तत एव कामरूपावचरानास्रवः संप्रयुक्ता इति । आरूप्यावचरांां चित्तचैत्तानां विप्रयुक्तासंस्कृतानां च सर्वेषां परचित्तज्ञानाविषयत्वात् । अव्याकृतमसंस्कृतं मुक्त्वेति । क्षयानुत्पादज्ञानयोश्चतुःसत्यालम्बनत्वादव्याकृतस्य चासंस्कृतस्य तद्व्यतिरिक्तत्वात् । (विइ ।२०) स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् । न स्यादिति । कथं गम्यते । सूत्रात् । इहास्माकं भो गौतम उपस्थानशालायां संनिषण्णानां संनिपतितानामेवंरूपान्तराकथासमुदाहारोऽभूत् । श्रमणो गौतमः (अभिधर्मकोषव्याख्या ६३१) किलैवमाह । नास्ति स कश्चिच्छ्रमणो वा ब्राह्मणो वा । यः सकृत्सर्वं जानीयात्सर्वं पश्येदिति । तथ्यमिदं भो गौतम स्मरामि भवतोऽहमेवं वक्तुम् । अपि तु नास्ति स कश्चिच्छ्रमणो वा ब्राह्मणो वा । यः सकृत्सर्वं ज्ञास्यति वा द्रक्ष्यति वेति । विषयिविषयभेदादिति विस्तरः । [तिब् । २९६ ] विषयिणो विषयस्य च भेदात् । यस्माद्यो विषयी । न स एव तस्य विषयो भवति । स्वातमनि वृत्तिविरोधात् । न हि सैवासिधारा तयैव छिद्यते । तस्मात्तेन संवृतिज्ञानेन स्वभावो न गृह्यते । नापि तेन चैत्ताः सहभुवो गृह्यन्ते । एकालम्बनत्वात् । यदेव हि तस्य संवृतिज्ञानस्यालम्बनं । तदेव संप्रयुक्तानां । यदि च ते संप्रयुक्ता गृह्येरन् स्वभावालम्बनाः स्युः । संवृतिज्ञानेनैकालंबनात् । न चैतद्युक्तं । तस्मान्न ते तेन गृह्यन्ते । अतिसंनिकृष्टत्वाच्च । न तेन विप्रयुक्ताः सहभुवोऽपि गृह्यन्ते । चक्षुषोऽञ्जनाञ्जनशलाकादर्शनवत् । तच्चेति संवृतिज्ञानं । तस्य व्यवच्छिन्नभूम्यालम्बनत्वादिति । यस्माद्भावनामयं रूपावचरं संवृतिज्ञानं व्यवच्छिन्नमेव भूमिमालम्बते । कामधातुं वा प्रथमं वा ध्यानं यावद्भवाग्रं वा । किं कारणम् । आनन्तर्यविमुक्तिमार्गाणामधरोत्तरभूम्यालम्बनत्वात्यथाक्रमं । शान्ताद्युदाराद्याकारा उत्तराधरगोचरा इति वचनात् । यदि च तत्सर्वभुंयालम्बनं स्यात् । सर्वतो युगपद्वैराग्यं स्यात् । प्रयोगविशेषमार्गयोरपि यथासंभवं काचिदेव भूमिरालम्बनं । कथं । निर्वेधभागीयप्रयोगमार्गसंगृहीतस्य हि यस्य कामधातुरालम्बनं । [तिब् । २९७ ] न तस्येतरौ धातू । यस्येतरौ धातू । न तस्य कामधातुरालम्बनं । अशुभाप्रमाणाभिभ्वायतनादिविदूषणे विशेषमार्गसंगृहीतस्य कामधातुरेवालम्बनं । नेतरौ धातू । (विइ ।२१, २२) एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षण इति । यस्मात्क्षान्तिज्ञानं न भवति अन्येनापि अनास्रवेण ज्ञानेन समन्वागतो न भवति रागीति ग्रहणं । यस्माद्वीतरागः परचित्तज्ञानेनापि समन्वागतो भवति । द्वितीये त्रिभिर् इति । तदेव दुःखे धर्मज्ञानं चोच्यते दुःखज्ञानं चेति । नामभेदात्द्वित्वोपचारे । धर्मज्ञानेन दुःखज्ञानेन संवृतिज्ञानेन चेति त्रिभिः समन्वागतः । चतुर्ष्व् (अभिधर्मकोषव्याख्या ६३२) इति दुःखेऽन्वयज्ञानक्षणे समुदयमार्गनिरोधधर्मज्ञानक्षणेषु च । क्षान्तिषु पूर्ववदेवासमन्वागमात्दुःखेऽन्वयज्ञानक्षणे ह्यन्वयमेव वर्धते । न धर्मज्ञानं । तेन समन्वागतपूर्वत्वात् । समुदयधर्मज्ञानक्षणे समुदयज्ञानमेव वर्धते । [तिब् । २९७ ] न धर्मान्वयज्ञाने । पूर्वमेव ताभ्यां समन्वागतत्वात् । एवं निरोधमार्गधर्मज्ञानक्षणयोर्निरोधमार्गज्ञाने एव वर्धेते इति वक्तव्यं । वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेनेति । दुःखे धर्मज्ञानक्षान्तौ यावन्मार्गे धर्मज्ञानक्षणे परचित्तज्ञानेनापि समन्वागतः । तैश्च यथोक्तैर्ज्ञानैरिति वेदितव्यं । मार्गेऽन्वयज्ञाने तु तैरेव सप्तभिरवीतरागः समन्वागतः । वीतरागस्त्वष्टाभिः । तैश्च परचित्तज्ञानेन चेति । क्षयानुत्पादज्ञानाभ्यां त्वर्हन्नेव समन्वागत इति सुबोधान्न तदर्थं सूत्रितमित्यवगन्तव्यं । (विइ ।२३, २४) यथोत्पन्नानि भाव्यंत इति । इह द्विविधा भावनाधिकृता । प्रतिलंभभावना निषेवणभावना । प्रतिलंभभावना प्राप्तितः निषेवणभावना संमुख्ःिभावतः । यथोत्पन्नानि भाव्यंत इति यानियान्युत्पन्नानि तानितानि भाव्यंत इति । तद्यथा दुःखधर्मज्ञानक्षान्तावुत्पन्नायां तज्जातीया क्षान्तिरेवानागता भाव्यते । तदाकाराश्चत्वार इति । क्षांत्याकारा अनित्याद्याश्चत्वारः सभागत्वात् । नान्ये । एवं दुःखे धर्मज्ञान उत्पन्ने तदेवानागतं भाव्यते । तदाकाराश्चत्वार एव भावनां गच्छन्ति । एवं दुःखान्वयज्ञानक्षांत्यादिषु योज्यं । सभागज्ञानाकारभावनैवेति । कस्मात्[तिब् । २९८ ] सभागज्ञानभावना सभागाकारभावना च दर्शनमार्ग एव भवति । न भावनामार्ग इति । क्षांतीनामपरिप्रश्नः । भावनामार्गे तासामभावात् । तासामपि वा प्रश्नः कर्तव्यः । तासामपि सभागभावनात् । न हि दुःखक्षान्तावुत्पन्नायां समुदयादिदुःखक्षान्त्याकरा भाव्यन्ते । उदाहरणमात्रार्थत्वात्तु ज्ञानपरिप्रश्नो न क्षान्तिपरिप्रश्न इति । गोत्राणामप्रतिलब्धत्वादिति । सभागहेतुनामप्रतिलब्धत्वादित्यर्थः । कथं कृत्वा । दुःखे धर्मज्ञानक्षान्तावुत्पन्नायां तद्गोत्रं तदाकाराणां च चतुर्णां गोत्राणि लब्धानि भवन्ति । न दुःखधर्मज्ञानादीनां । किं पुनः कारणमनित्यादीनामाकाराणामेकैकस्मिन्नाकारे संमुखीभूते परिशिष्टानामाकाराणां गोत्राणि प्रतिलभ्यंते । यतस्ते भावनां गच्छन्ति । तुल्यालम्बनतया सभागत्वात् । सर्वेषां गोत्राणि प्रतिलब्धानि भवन्ति । एवं दुःखे धर्मज्ञान उत्पन्ने यावन्मार्गेऽन्वयज्ञानक्षान्तावुत्पन्नायां तद्गोत्राणि तदाकराणि च चतुर्णां (अभिधर्मकोषव्याख्या ६३३) गोत्राणि लब्धानि भवन्तीति तदेव भावनां गच्छति नान्यत् । भावनामार्गे तु पुनः सर्वेषां ज्ञानानां सभागविसभागानां तदाकराणां च संमुखीभावात्सर्वेषां हेतवो लब्धा भवन्तीति । तद्विशिष्टा ज्ञानाकारा भावनां गच्छंत्यनागताः । सांवृतं चान्वयत्रय इत्यलब्धपूर्वं । न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयादिति । [तिब् । २९८ ] न हि तदानीं रूपारूप्यावचरं दुःकं परिज्ञातं समुदयः प्रहीणस्तन्निरोधः साक्षात्कृत इति । मार्गस्य पूर्वं लौकिकेन मार्गेणानभिसमितत्वादिति । लौकिकमार्गेण पूर्वमनादिगतिसंसारे दुःखसमुदयनिरोधा अभिसमिताः । न तु संवृतिज्ञानेन कदाचिन्मार्गो मार्गादिभिराकारैरभिसमितः । तस्मात्त्रयाणामेकैकस्य सत्यस्याभिसमयान्ते भावनां । गच्छति । न मार्गान्वयज्ञाने । न तु मार्गः शक्यते कृत्स्नो भावयितुमिति । संमुखीकर्तुमित्यर्थः । समुदयोऽपि तदा न सर्वः प्रहीण इति । निरोधमार्गदर्शनभावनाप्रहातव्यः । दुःखं पुनः सर्वं त्रैधातुकं परिज्ञातं तस्य परिज्ञेयत्वादित्यतः समुदयमेव प्रतिचोद्यते । तत्सत्यदर्शनहेय इति । समुदयसत्यदर्शनहेय इत्यर्थः । बहुगोत्रत्वादिति । आत्मभावसंततिसामान्यविशेषो गोत्रं । तानि बहूनि गोत्राण्यस्येति बहुगोत्रो मार्गः । श्रावकगोत्रात्प्रत्येकबुद्धगोत्रमन्यत् । तथा बुद्धगोत्रं । श्रावकगोत्रमप्यन्योन्यं भिन्नं । मृद्वधिमात्रादिभेदात् । तेषां कश्चिदेव दर्शनहेयप्रतिपक्षो भाव्यते संमुखीक्रियत इत्यर्थः । न मार्गः । शक्यते कृत्स्नो भावयितुं । दर्शनमार्गपरिवारत्वादिति । दर्शनमार्गस्य [तिब् । २९९ ] परिवारः संवृतिज्ञानम् । अतः सत्यत्रयांते एव दर्शनमार्गो भाव्यते । न मार्गसत्यंते तस्य भावनामार्गत्वात् । साध्यत्वादज्ञापकमिति । साध्यमिदं दर्शनमार्गपरिवार एव । न भावनामार्गपरिवारोऽपीति । वयं हि भावनामार्गपरिवारोऽपि तदिति ब्रूमः । सत्यालंबनं विशिष्टतरमिति । दर्शनावस्थायां यल्लौकिकं पूर्वमासीत । ततो विशिष्टमेव च लौकिकमित्यभिप्रायः । यस्तत्संमुखीभावसमर्थाश्रयलाभ इति । तस्य संवृतिज्ञानस्य संमुखीभावे समर्थाश्रयस्य यो लाभः । एष एव तस्य लाभः । नार्थान्तरभूत इति । गोत्रेऽभिलब्धे लब्धं गौत्रिकमिति । गोत्रं तदुत्पादनसमर्थो हेतुः । तत्र भवं गौत्रिकं संवृतिज्ञानम् । एतदुक्तं भवति तत्संमुखीभावसमर्थाश्रयलाभे तदपि तेनाश्रयेणोत्पद्यमानं लब्धं भवतीति । अथ कस्माद्(अभिधर्मकोषव्याख्या ६३४) एवं नेच्छंति वैभाषिकाः । दर्शनमार्गलभ्यं तत् । तस्य कथं भावनामार्गे संमुखीभावो भविष्यतीति । दर्शनमार्गे चोत्पत्त्यनवकाशोऽस्यास्ति तदनुत्पत्तिधर्मकमिति वर्णयंते । एवं यावच्चतुर्थध्यानभूमिक इति विस्तरः । प्रथमध्यानभूमिकश्चेद्भवति त्रिभूमिकं भाव्यते । प्रथमध्यानभूमिकमनागम्यभूमिकं [तिब् । २९९ ] कामावचरं च । ध्यनांतरभूमिकश्चेच्चतुर्भूमिकं भाव्यते । ध्यानान्तरभूमिकं प्रथमध्यानभूमिकादीनि च पूर्वोक्तानि एवं द्वितीयध्यानभूमिकश्चेत्पंचभूमिकं । द्वितीयध्यानभूमिकं यावत्कामावचरं । तृतीयध्यानभूमिकश्चेत्षट्भूमिकं । तृतीयध्यानभूमिकं यावत्कामावचरं । चतुर्थध्यानभूमिकश्चेद्भवति सप्तभूमिकं भाव्यते । चतुर्थध्यानभूमिकं । यावत्कामावचरं चेति । एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारीति । निरोधेऽन्त्यमेवान्त्यमेव च निरोध इत्युभयावधारणाच्छेषं चतुःस्मृत्युपस्थानमिति सिद्धं भवति । दुःखेऽभिसमिते यत्संवृतिज्ञानं भाव्यते । तच्चत्वारि स्मृत्युपस्थानानि दुःखस्य कायादिस्वभावत्वात् । एवं समुदयेऽपि वक्तव्यं । तत्सत्याकारमेवेति । दुःखेऽभिसमिते यत्संवृतिज्ञानं भाव्यते । तत्प्रत्येकमनित्यदुःखशूयानात्माकारं । एवं समुदये निरोधे च वक्तव्यं । आलम्बनमस्य तदेवेति । तस्याकारस्य तदालम्बनत्वात् । प्रायोगिकमिति । नोपपत्तिलभ्यः । चतुःपंचस्कंधस्वभावानीति । कामावचरम् [तिब् । ३०० ] अनुपरिवर्तकरूपाभावाच्चतुःस्कंधस्वभावं । वेदनासंज्ञासंस्कारविज्ञानस्कंधस्वभावमित्यर्थः । ऊर्ध्वभूमिकानि तु पंचस्वभावानि ध्यानसंवरलक्षणरूपस्कन्धस्वभावात् । (विइ ।२५, २६) द्वे ज्ञाने प्रत्युत्पन्ने इति । अन्वयज्ञानं मार्गज्ञानं च । मार्गान्वयज्ञानस्य तदुभयस्वभावत्वात् । अनागतानि षडिति । धर्मज्ञानादीनि । न संवृतिज्ञानं भाव्यते । लब्धपूर्वत्वात्वक्ष्यति हि लब्धपूर्वं न भाव्यत इति । न परचित्तज्ञानमवीतरागत्वात् । तदूर्ध्वं सप्तभावनेति । एकप्रकारप्रहाणे यावदष्टप्रकारप्रहाणे । यावन्न वीतरागो भवतीति । यावन्न प्रहीणनवप्रकाको भवति । अत्रान्तरे प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु भाव्यमानेषु सप्त ज्ञानानि भाव्यन्ते । धर्मज्ञानादीनि परचित्तज्ञानवर्जितानि भाव्यन्ते । लौकिकश्चेत् । यदि शांताद्युदाराद्याकारो भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नं । चतुर्णां धर्नज्ञानानाम् (अभिधर्मकोषव्याख्या ६३५) इति । दुःखसस्मुदयनिरोधमार्गधर्मज्ञानानामन्यतमत् । अन्वयज्ञानानां कामधात्वप्रतिपक्षत्वान्नान्वयज्ञानानामन्यतमत् । पंचसु चाभिज्ञास्विति । आस्रवक्षयाभिज्ञनमपास्य । [तिब् । ३०० ] चतुर्णामन्वयज्ञानानामिति । दुःखसमुदयनिरोधमार्गान्वयज्ञानां । द्वयोश्च धर्मज्ञानयोरिति । निरोधमार्गालंबनयोस्त्रिधातुप्रतिपक्षत्वयोगात् । संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वादिति । सप्तभूमिवैराग्ये लोकोत्तरेऽपि भाव्यमाने संवृतिज्ञानं भाव्यते । संवृतिज्ञानमपि हि तस्य क्लेशप्रकारस्य प्रतिपक्षो भवति । न केवलं लोकोत्तरमिति । संवृतिज्ञानमपि तत्र भाव्यते तज्जातीयम् । अकोप्यप्रतिवेधे तु न तथा प्रतिपक्षरूपं भूतं संवृतिज्ञानमस्ति । अतोऽत्र न भाव्यते । तत्र क्षयज्ञानं सप्तममिति । आनन्तर्यमार्गस्थितत्वात्क्षयज्ञानं तत्र भाव्यते । नानुत्पादज्ञानं न ह्यानन्तर्यमार्गस्थितोऽकोप्यधर्मा भवति । अकोप्यधर्मणश्चानुत्पादज्ञानं भाव्यत इति । भवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्त इति । परचित्तज्ञानं कथं भाव्यते । आनन्तर्यमार्गे प्रतिषिद्धं परचित्तज्ञानं न विमुक्तिमार्गे । अतः एकप्रकारे प्रहीणे यावदष्टप्रकारे प्रहीणे पूर्वपरचित्तज्ञानविशिष्टं परचित्तज्ञानं भाव्यते । यत्स एवंविध आर्यपुद्गलस्ततो मार्गाद्व्युत्थितः संमुखीकुर्यात् । संतानविशेषाद्धि परचित्तज्ञानविशेष इष्यते । उभयोरपि सरागवीतरागयोर्[तिब् । ३०१ ] विमुक्तिमार्गे भावनेति । प्रयोगमार्गे तु तयोरिति । तयोरेव सरागवीतरागयोः संवृतिज्ञानस्यापि भावना । विमुक्तिमार्गे किमर्थं विवादः । दर्शनमार्गसादृश्यात्तत्र तदाभिसमयान्तिकवद्भाव्येत इत्येके । न चाभिसमयोऽस्ति दर्शनमार्गसादृश्यं चेत्यपर इत्येवं विवादः । (विइ ।२८-३०) षण्णां भावना पूर्ववदिति । धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां । न संवृतिज्ञानस्य दर्शनमार्गसादृश्यादिति । किमत्र दर्शनमार्गेण सादृश्यं । फलप्राप्तिः । यथा दर्शनमार्गेण स्रोतआपत्तिफलं वा सकृदागाम्यनागामिफलं वा प्राप्यते । एवमनेनाप्यानन्तर्यमार्गेण शैक्षस्य शैक्षेन्द्रियोत्तापनायां तीक्ष्णेन्द्रियसंगृहीतानि संस्कृतानि स्रोतआपत्तिफलादीनि प्राप्यंते । दर्शनमार्गे चानन्तर्यमार्गावस्थायां न संवृतिज्ञानभावनास्ति एवमिहापि । इत्येवं दर्शनमार्गसादृश्यादानन्तर्यमार्गे न संवृतिज्ञानस्य भावना । तथैवेति । धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् । अत्रापि संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वात् । न परचित्तज्ञानं सर्वानन्तर्यमार्गे प्रतिषेधत्वात् । (अभिधर्मकोषव्याख्या ६३६) [तिब् । ३०१ ] किं पुनः शेषमिति विस्तरः । कथं कामवैराग्ये नवमो विमुक्तिमार्गः शेषः । सरागभावनामार्गे तदूर्ध्वसप्तभावनेति । वचनात् । सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गाः शेषाः । सप्तभूमिजयाभिज्ञाकोप्याप्त्याकिर्णभाविते आनन्तर्यपथेष्व् इति वचनात् । तथा योऽकोप्यतां संचरति । तस्याप्यन्ते विमुक्तिमार्गे दशानां भावनेति वचनात् । अष्टौ विमुक्तिमार्गाः शेषा भवन्ति । सर्वे च वीतरागस्यानागामिनः प्रयोगविशेषमार्गाः शेषास्तेषां भावनायामवचनात् । शैक्षस्यैवमिति यदपदिष्टं प्रोक्तशेषेऽष्टभावनेति । कथं पुनः एवमविशेषिते विशेषप्रतिपत्तिर्लभ्यते । अशैक्षस्यावश्यं नवदशज्ञानभावनायोगात् । अत एवाहाशैक्षस्य पुनरभिज्ञादीति । आदिशब्देन व्यवकीर्णभावनाध्यानादिग्रहणम् । अभिज्ञाभिनिर्हारे व्यवकीर्णभावनायां च ये प्रयोगविमुक्तिविशेषमार्गाः । तेषु यदि समयविमुक्तो नवज्ञानानि भाव्यन्ते । अनुत्पादज्ञानं हित्वा । यद्यकोप्यधर्मा [तिब् । ३०२ ] दश तदेव प्रक्षिप्य । अष्टौ नव चेति । समयविमुक्तस्याष्टौ अकोप्यधर्मणो नव परचित्तज्ञानं हित्वा । तस्यानन्तर्यमार्गेषु प्रतिषेधात् । द्वयोस्त्वभिज्ञाविमुक्तिमार्गयोरिति । दिव्यश्रोत्रचक्षुरभिज्ञाविमुक्तिमार्गयोः । अव्याकृते श्रोत्रचक्षुरभिज्ञे इति वचनात्तद्विमुक्तिमार्गावव्याकृतौ । न चाव्याकृतस्य धर्मस्यानागतभावनास्ति । पृथग्जनस्य तु कामत्रिध्यानवैराग्य इति । चतुर्थध्यानाग्रहणम् । यस्माच्चतुर्थध्यानवैराग्ये योऽन्त्यो विमुक्तिमार्गः । तत्र मौलाकाशानन्त्यायतनप्रतिलम्भः । न चारूप्यधातुसंगृहीतं परचित्तज्ञानमस्ति । रूपातीतार्थाभिनिष्पाद्यत्वात् । प्रयोगाभिज्ञात्रयो विमुक्तिमार्गप्रमाणादिगुणाभिनिर्हारेष्विति । प्रयोगमार्गाश्चाभिज्ञात्रयविमुक्तिमार्गाश्चाप्रमाणादिगुणाभिनिर्हाराश्चेति विग्रहः । आदिशब्देन विमोक्षाभिभ्वायतनादिगुणग्रहणम् । अप्रमाणादीनां गुणानामभिनिर्हार इति । ध्यानभूमिकग्रहणं सामन्तकनिरासार्थं । [तिब् । ३०२ ] तत्र हि परचित्तज्ञानं नास्ति । अभिज्ञात्रयमृद्धिविषयाभिज्ञा पूर्वेनिवासानुस्मृत्यभिज्ञा चेतःपर्यायाभिज्ञा च । तेषु च कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु (अभिधर्मकोषव्याख्या ६३७) ध्यानभूमिकेषु चाभिज्ञात्रयविमुक्तिमार्गेषु । अप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादिगुणाभिनिर्हारेषु च । ध्यानभूमिकेष्वेव प्रयोगविमुक्तिविशेषमार्गेषु संवृतिज्ञानमनागतं भाव्यते । यत्तत्संगृहीतं परचित्तज्ञानं च विशिष्टमेव भाव्यते । यत्तद्गुणविशेषलाभी संमुखीकुर्यात् । अन्यत्र निर्वेधभागियेभ्य ऊष्मगतादिभ्यः । तेषु हि निर्वेभभागीयेषु परचित्तज्ञानं न भाव्यते । किं कारणमित्याह । दर्शनमार्गपरिवारत्वादिति । यथा दर्शनमार्गे परचित्तज्नानं न भाव्यते । तथा तत्परिवारेऽपि न भाव्यत इत्यभिप्रायः । अन्यत्रेति विस्तरः । पृथग्जनस्यैवान्यत्रापूर्वमार्गलाभे कामत्रिध्यानवैराग्येऽन्त्यविमुक्तिमार्गान् हित्वा यः प्रयोगानन्तर्यविमुक्तिमार्गलाभः । तस्मिन्नन्यत्रापूर्वमार्गलभे संवृतिज्ञानमेवानागतं भाव्यते । न परचित्तज्ञानं [तिब् । ३०३ ] तथाभिज्ञात्रयप्रमाणादिगुणाभिनिर्हारेषु य आनन्तर्यमार्गलाभः । तस्मिंश्चान्यत्रापूर्वमार्गलाभे संवृतिज्ञानमेवानागतं भाव्यते । प्रयोगमार्गेषु न परचित्तज्ञानं तदप्रतिपक्षत्वात् । (विइ ।३१, ३२) अथ कस्मिन्मार्ग इति लौकिके लोकोत्तरे वा । यद्भूमिको मार्ग इति । अनागम्यादिकः सास्रवोऽनास्रवो वा । यां च भूमिं प्रथमतो लभत इति । वैराग्यतः प्रथमं ध्यानं यावद्भवाग्रं तद्भूमिकमित्यर्थः । कथं कृत्वा । यद्यनागम्यभूमिसंनिश्रयेण हि लौकिकेन मार्गेण कामधातुवैराग्यात्प्रथमं ध्यानं लभते अनाग्म्यभूमिकं सामन्तकस्वभावं प्रथमध्यानभूमिकं च मौलस्वभावं । नवमे विमुक्तिमार्गे संवृतिज्ञानं भाव्यते । एवं द्वितीयध्यानसामन्तकसंनिश्रयेण प्रथमध्यानवैराग्यात्द्वितीयं ध्यानं लभते । तथैव द्वितीयध्यानसामन्तकसंगृहीतं मौलद्वितीयध्यानसंगृहीतं च भाव्यते । एवं यावद्यदि नैवसंज्ञासंज्ञायतनसामन्तकसंनिश्रयेणाकिंचन्यायतनवैराग्याद्भवाग्रं लभत इति विस्तरेण योज्यं । यदाप्यनास्रवानागम्यभूमिसंनिश्रयेण कामधातुवैराग्यात्[तिब् । ३०३ ] प्रथमध्यानं लभते । तदापि तथैव तत्संवृतिज्ञानं भाव्यते । यदापि मौलप्रथमध्यानभूमिकसंनिश्रयेण प्रथमध्यानवैरायानास्रव्सं प्रथमं ध्यानं लभते । तदापि प्रथमध्यानप्रथमप्रकारप्रतिपक्षभूतं यावन्नवमप्रतिपक्षभूतं द्वितीयध्यानसामन्तकसंगृहीतं संवृतिज्ञानं लभते । सा हि प्रथमतो भूमिस्तदा लभ्यते । नवमे तु विमुक्तिमार्गे मौलद्वितीयसंगृहीतमपि संवृतिज्ञानमनागतं भाव्यते । एवमनास्रवध्यानान्तरभूमिसंनिश्रयेण यावदनास्रवाकिंचन्यायतनभूमिसंनिश्रयेण संवृतिज्ञानभावना योज्य । (अभिधर्मकोषव्याख्या ६३८) यद्वैराग्यायेति । यस्या भूमेर्वैराग्राय । यल्लाभः यस्या भूमेर्लाभो यल्लाभः । तत्रो- भयत्रा- धश् च ततो भाव्यते ऽनास्रवज्ञानं । कथमिति वृत्त्या व्याचष्टे । यद्भूमिवैराग्यायापि हि न केवलं यद्भूमिक इत्यपिशब्दः । द्विविधोऽपि मार्गो भवतीति । लौकिको लोकोत्तरश्च । प्रयोगमार्गादि आदिशब्देनानन्तर्यविमुक्तिविशेषमार्गग्रहणं । यां च भूमिं लभते वैराग्यत इति । उपरिभूमिकं । तद्भूमिकान्यधोभूमिकानि वानास्रवाणि भावनां गच्छन्ति । तद्यथा द्वितीयमनास्रवं ध्यानं निश्रित्य तृतीयध्यानवैराग्यं [तिब् । ३०४ ] करोति । यद्भूमिको मार्गो द्वितीयध्यानभूमिकस्तद्भूमिकमनास्रवं ज्ञानं भावनां गच्छति । यस्याश्च भूमेर्वैराग्यं करोति तृतीयाया भूमेस्तद्भूमिकं तृतीयध्यानभूमिकं नवमे विमुक्तिमार्गेऽनास्रवं ज्ञानं भावनां गच्छति । अधोभूमिकं च प्रथमध्यानभूमिकमनागम्यभूमिकं वानास्रवं ज्ञानं भावनां गच्छति । अधोभूमिकमपि हि तत्प्रयोगमार्गादिकं संभवामि तज्जातीयमिति भावनां गच्छति । अथ तु तृतीयध्यानसामन्तकं निश्रित्य द्वितीयध्यानवैराग्यं करोति । तत्राष्टास्वानन्तर्यमार्गेषु विमुक्तिमार्गे च तस्य सामन्तकस्य सास्रवत्वात्तद्भूमिकमनास्रवं ज्ञानं न भावनां गच्छति । अभावात् । अधोभूमिकं तु तज्जातीयं द्वितीयध्यानभूमिकं ध्यानान्तरभूमिकं प्रथमध्यानभूमिकमनागम्यभूमिकं च तज्जातीयमनास्रवं ज्ञानं भावनां गच्छति । एवमन्यत्रापि योज्यमेषा दिगिति । सास्रवाश्च क्षयज्ञान इति । अनास्रवाश्चेति चशब्दः । यान् गुणानर्हद्भूत्वा संमुखीकुर्यात्ते सास्रवास्तस्यामवस्थायां । भावनां गच्छंति । अप्रमाणविमोक्षादय इति । आदिशब्देनाभिभ्वायतनकृत्स्नायतनादयो गृह्यन्ते । उच्छ्वसंतीव पेडासाधर्म्येणेति । [तिब् । ३०४ ] या पेडा रज्ज्वा निपीड्य बद्धा । सा रज्जूच्छेदादुच्छ्वसतीव पेडोच्यते । उच्छ्वस्तीव प्रतिरूपकशब्दाभिधानात् । तस्य रज्जूच्छेदादुच्छ्वसन्तीव पेडायाः साधर्म्येण । यथासौ रज्ज्वा निपीड्य बद्धा (अभिधर्मकोषव्याख्या ६३९) पेडा रज्जूच्छेदादुच्छ्वसतीव । एवं यथोक्ता अशुभादयो गुणा वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदादशैल्षसंताने वर्त्स्यन्त उच्छ्वसन्तीव । उच्छ्वासस्य प्राणिधर्मत्वादौपमिकं । कस्मादित्याह । स्वचित्ताधिराज्यप्राप्तस्येति सर्वं । सर्वेषां राज्ञामधिको राजाधिराजः । तद्भाव आधिराज्यं । स्वचित्तेऽधिराज्यं क्लेशपराधीनताविगमात् । स्वचित्तैश्वर्यमित्यर्थः । तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्थानीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणा भावनां गच्छन्ति । आधिराज्ये प्राप्तौ कस्यचिद्राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां जनपदानां । यथा प्रत्युद्गमनं । तद्वत्तदेव क्लेशप्राप्तिरज्जूच्छेदे सति स्वप्राप्तिलाभातुच्छ्वसन्तीव गुणा उत्तप्ततराणां तेषां प्राप्तिरुत्पद्यत इत्यर्थः । कामधातावर्हत्त्वप्राप्तावेवाशुभादयो यथासंभवं श्रुतचिन्ताभावनामयास्त्रैधातुका भावनां गच्छन्ति । रूपारूप्यधात्वोस्त्वर्हत्त्वप्राप्तौ यथाक्रमं द्विधातुकैकधातुकाः । [तिब् । ३०५ ] एवं भूमितोऽपि बोद्धव्यं नैवसंज्ञानासंज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एव इत्यवगंतव्यं । यत्किंचिल्लभ्यत इति विस्तरः । यद्विहीनं पुनर्लभ्यते संमुखीक्रियते संसारोचितं । न तदनागतं भाव्यते । भावितोत्सृष्टत्वात्संसारे । यदेवात्र ध्यानाप्रमाणाद्यनुचितं संसारे विशिष्टामनास्रवाणुगुणं । तत्संमुखीभावे तज्जातीयमेवानागतं विशिष्टं भाव्यत इय्ताचार्यो दर्शयति । आचार्यसंघभद्रोऽप्येतमेवार्थं व्याचष्टे । लब्धपूर्वं न भाव्यते । यत्प्रतिलब्धविहीनं पुनर्लभ्यते न तद्भाव्यं । अर्थाद्गम्यते यदलब्धपूर्वं लभ्यते तद्भाव्यते । यत्नाभिमुखीकरणात् । अप्रतिप्रस्रब्धो हि मार्गो यत्नेनाभिमुखीक्रियत इति । तदावेधस्य बलवत्त्वादनागतो भावनां गच्छति । प्रतिप्रस्रब्धपूर्वस्त्वयत्नेन संमुखीभवति । भावितप्रतिप्रस्रब्धत्वात्कृतकृत्यदत्तफलत्वाच्च वेगहीन इति तत्संमुखीभावदनागतो न भाव्यत इति । योऽनागतो यत्नेन जन्यते । स भाव्यत इत्यभिप्रायः । तदेवं सति यदुक्तं संवृतिज्ञानं तावदिति विस्तरेण । तदार्यसंतानपतितमेव गृह्यते संसारानुचितत्वादिति आचार्यवसुमित्रेणात्र लिखितम् । अत्र किल वैभाषिका आहुः । नैतदेवं । [तिब् । ३०५ ] कुतः । यस्मादलब्धमेव तद्भवति त्यक्तत्वात् । तस्माद्भावितोत्सृष्टस्यापि पुनर्लाभे भवत्येव भावनेति । कथं तदपूर्वं भवति यावता लब्धपूर्वमिति । न ह्येवंविधं लोके पूर्वं प्रसिद्धमिति । अपरे पुनर्व्याचक्षते । एकं जन्मेदमधिकृयोक्तं न जन्मान्तरं । यद्विहीनमस्मिन्नेव जन्मनि पुनर्लभ्यते । न तद्भाव्यते । भावितोत्सृष्टत्वात् । जन्मान्तरे तु यल्लभ्यते । तद्भाव्यते । न लभ्यते (अभिधर्मकोषव्याख्या ६४०) विस्मृतभावनत्वादिति । (विइ ।३३) चतुर्विधा हि भावनेति । प्रतिलम्भ एव भावना प्रतिलम्भभावन । अनागतप्राप्तिरेव भावनेत्यर्थः । एवं निषेवणमेव प्रतिपक्ष एव विनिर्धावनमेव भावानेति वक्तव्यं । किं निषेवणं । किं च यावद्विनिर्धावनमिति । निषेवणं पुनःपुनःसंमुखीकरणं प्रतिपक्षो मार्गो यथोक्तं सूत्रे । भावितकायो भावितचित्त इति । भावितप्रतिपक्षकायचित्त इत्यर्थः । कायप्रतिपक्षः पुनश्चतुर्ध्यानविराग्याय यो मार्गः । तथा ह्युक्तं भावितकायो भिक्षुरित्युच्यते भावितचित्तो भावितशीलः । कत्ःं भावितकायो भवति । कायाद्विगतरागो विगतस्पृहो विगतपिपासो विगतप्रेमा विगतनियंतिः । अथ वा योऽसौ रूपरागक्षयानन्तर्यमार्गः । सोऽनेन विगतरागो भवतीत्य्[तिब् । ३०६ ] आगमः । विनिर्धावनं क्लेशप्राप्तिछेदः । अनागतानामेकेति । प्रतिलम्भभावना । प्रत्युत्पन्नानामुभे इति । प्रतिलम्भनिषेवणभावने । तदेवमिति विस्तरः । यस्मात्प्रतिलम्भनिषेवणभावने कुशलसंस्कृतानामित्यविशेषेणोक्तं सास्रवाणामनास्रवणां च । प्रतिपक्षविनिर्धावनभावने च सास्रवाणां धर्माणामित्यविशेषेणोक्तं क्लिष्टानामक्लिष्टानां च । तस्मादेवमित्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति । येषां भावना कुशलत्वात्प्रतिलम्भनिषेवणभावने भवतः । सास्रवत्वाच्च प्रतिपक्षविनिर्धावनभावने भवत इति । ये तर्हि न कुशलसास्रवाः ये संस्कृता येऽनास्रवा ये च क्लिष्टाव्याकृताः । तेषां कति भावना इत्याहानास्रवाणां द्वे इति । प्रतिलम्भनिषेवणभावने । क्लिष्टाव्याकृतानां च । किं द्वे भावने भवतः । प्रतिपक्षविनिर्धावनभावने इति । इन्द्रियाणां पूर्वेति । चक्षुरादीनां संवरभावनेत्यर्थः । कायस्योत्तरेति । विभावनभावना । तत्पुनर्भावनाद्वयमागमेन यथाक्रमं दर्शयति । षडिमानीन्द्रियाणीति विस्तरः । स पुनरिन्द्रियसंवरः स्मृति [तिब् । ३०६ ] संप्रज्ञानस्वभाव उक्तः । विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनं । ते त्विति विस्तरः । ते तु संवरविभावनभावने प्रतिपक्षनिर्धावनभावनान्तर्भूते यथाक्रममुभयमुभयत्रान्तर्भूतमित्यपि न विरुध्यते । (विइ ।३४ ब्) सामान्येन सर्वेषामिति । श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानां क्षयज्ञानक्षणे गुणभावनोक्ता सास्रवाश्च क्षयज्ञान इति वचनात् । दश बलानीति विस्तरः । एते बलाद्या महाकरुणान्ता अष्टादशावेणिका वैभाषिकैर्व्यवस्थाप्यंते । बलादिव्यतिरिक्तान् केचिदन्यानष्टादशावेणिकान् (अभिधर्मकोषव्याख्या ६४१) बुद्धधर्मान् वर्णयन्ति । तद्यथा । नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति द्रवता । नास्ति नानात्वसंज्ञा । नास्त्यव्याकृतं मनः । नास्त्यप्रतिसंख्यायोपेक्षा । नास्त्यतीतेषु प्रतिहतं ज्ञानदर्शनं । नास्त्यनागतेषु प्रतिहतं ज्ञानदर्शनं । नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनं । सर्वं कायकर्म ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म ज्ञानानुपरिवर्ति । सर्वं मनस्कर्म ज्ञानानुपरिवर्ति । नास्ति छंदहानिः । नास्ति वीर्यहानिः । नास्ति स्मृतिहानिः । नास्ति समाधिहानिः । [तिब् । ३०७ ] नास्ति प्रज्ञाहानिः । नास्ति विमुक्तिज्ञनदर्शनहानिरिति । तत्र रवितं नाम सहसा क्रिया । द्रवता क्रीडाभिप्रायता । नानात्वसंज्ञा सुखदुःखादुःखासुखेषु विषयेषु रागद्वेषमोहतो नानात्वसंज्ञा । शेषं सुगमं । दश बलानि । स्थानास्थानज्ञानबलं । कर्मविपाकज्ञानबलं । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं । इन्द्रियपरापरज्ञानबलं । नानाधिमुक्तिज्ञानबलं । नानाधातुज्ञानबलं । सर्वत्रगामिनीप्रतिपज्ज्ञानबलं । पूर्वनिवासानुस्मृतिज्ञानबलं । च्युत्युपपत्तिज्ञानबलं । आस्रवक्षयज्ञानबलं च । सूत्रं तु दशायुष्मन्तस्तथागतबलानि । कतमानि दश । इहायुष्मन्तस्तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति । अस्थानं चास्थानतः । इदं प्रथमं तथागतबलं । येन बलेन समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्ध उदारमार्षभस्थानं प्रतिजानाति ब्राह्मं चक्रं प्रवर्तयति । पर्षदि सम्यक्सिंहनादं नदति । पुनरपरमायुष्मन्तस्तथागतोऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि [तिब् । ३०७ ] स्थानतो हेतुतो वस्तुतो विपाकतश्च यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । यावद्विपाकतश्च यथाभूतं प्रजानाति । इदं द्वितीयं तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिं यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतः परसत्त्वानां परपुद्गलानामिन्द्रियपरापरतां यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं चतुर्थं तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो नानाविमुक्तिकं लोकमनेकविमुक्तिकमिति यथाभूतं प्रजानाति । यदायुष्मंतस्तथागतः पूर्ववत् । इदं पंचमं तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मंतस्तथाग्तो नानाधातुकमनेकधातुकमिति यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः [तिब् । ३०८ ] पूर्ववत् । इदं षष्ठं तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः (अभिधर्मकोषव्याख्या ६४२) पूर्ववत् । इदं सप्तमं तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतोऽनेकविधं पूर्वनिवासमनुस्मरति । तद्यथैकामपि जातिं द्वे तिस्रश्चतस्रः पंच षट्सप्ताष्टौ नव दश विंशतिं यावदनेकानपि संवर्तविवर्तकल्पाननुस्मरति । अमी नाम ते भवन्तः सत्त्वाः । यत्राहमास एवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवं दीर्घायुरेवंचिरस्थितिकः एवमायुष्पर्यन्तः सोऽहं तस्मात्स्थानाच्च्युतोऽमुत्रोपपन्नः तस्मादपि च्युत इहोपपन्नः । इति साकारं सनिदानं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदमष्टमां तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यति च्यवनानप्युपपद्यमानानपि सुवर्णान् दुर्वर्णान् दुर्बलान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि यथाकर्मोपगान् सत्त्वान् [तिब् । ३०८ ] यथाभूतं प्रजानात्यमी भवन्तः कायदुश्चरितेन स्मन्वागता वाङ्मनोदुश्चरितेन समन्वगताः । आर्याणामपवादकाः मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपाते नरकेषूपपद्यंते । अमी पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः वाङ्मनःसुचरितेन समन्वागताः आर्याणामनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्सुगतन् स्वर्गलोके देवेषूपपद्यन्ते । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं नवमं तथागतबलं । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतः आस्रवाणां क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रतिवेदयते क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं दशमं तथगतबलं । येन बलेनेति पूर्ववत् । (विइ ।३४ द्-३६) स्थानास्थाने दश ज्ञानानीति । स्थानं चास्थानं स्थानास्थानं । तत्र ज्ञानमेव बलं ज्ञानबलं । तद्दशज्ञानानि । [तिब् । ३०९ ] दशज्ञानस्वभावमित्यर्थः । कथं कृत्वा । स्थानास्थानं समासेन संस्कृतं चासंस्कृतं च तदपि संस्कृतमष्टधा भेत्तव्यं । कामरूपारूप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् । तथा संस्कृतं द्विधा भेत्तव्यं । कुशलाव्याकृतभेदात् । तत्र संवृतिज्ञानबलस्य दशापि धर्मा विषयः । (अभिधर्मकोषव्याख्या ६४३) दशस्वपि धर्मेषु तस्य वृत्तिरित्यर्थः । धर्मज्ञानस्य पंच । कामावचरानास्रवाश्चत्वारः कुशलं चासंकृतं । अन्वयज्ञानस्य सप्त । रूपारूप्यावचरानास्रवाः षट्कुशलं चासंस्कृतं । दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यावचराः । निरोधज्ञानस्यैकः कुशलमेवासंस्कृतं । मार्गज्ञानस्य द्वावनास्रवौ । परचित्तज्ञानस्य त्रयः । कामरूपावचरानास्रवाः संप्रयुक्ताः । क्षयानुत्पादज्ञानयोर्नव धर्मा विषयः । अव्याकृतमसंस्कृतं मुक्त्वा । एवं कृत्वा स्थानास्थानज्ञानबलं दश ज्ञानानि । कथं पुनर्दशा धर्माः स्थानास्थानमित्युच्च्यंते । संभवः स्थानमसंभवोऽस्थानमिति । अथ वा अस्थानमनवकाशो यः स्त्री बुद्धत्वं कारयिष्यति । स्थानमेतद्यत्पुरुष इति । अस्थानमनवकाशो यः स्त्री ब्रह्मत्वं [तिब् । ३०९ ] कारयिष्यति । स्थानमेतत्पुरुस इति । तथा स्थानमेतद्यद्दुःखस्य निरोध इति । एवमाद्याकारप्रवृत्तं स्थानास्थानज्ञानबलमवगंतव्यं । अष्टौ कर्मफल इति । कर्मणः सास्रवस्य तद्विपाकस्य च दुःखसमुदयसत्यसंगृहीतत्वात् । निरोधमार्गज्नाने न भवत इति । अतोऽन्यानि तदालंबनानि अष्टौ ज्ञानानि संभवन्ति । ध्यानाद्यक्षाधिमोक्षेष्व् इति विस्तरः । ध्यानमादिरासामिति ध्यानादयो ध्यानविमोक्षसमाधिसमापत्तयः । ध्यानानि चत्वारि । विमोक्षा अष्टौ । समाधयस्त्रयः शून्यताद्याः । समापत्ती द्वे । असंज्ञिनिरोधसमापत्ती । नवानुपूर्वविहारसमापत्तयः । अक्षाणीन्द्रियाणि । अधिमोक्षाश्चैतसिकाः । ध्यानादयश्चाक्षाणि चाधिमोक्षाश्चेति द्वन्द्वः । तेषु नव ज्ञानानि निरोधज्ञानं हित्वा । कथं कृत्वा । ध्यानादीनां सास्रवानास्रवसंप्रयुक्तविप्रयुक्तभेदात्तदालंबनानि नव ज्ञानानि संभवन्ति । निरोधज्ञानं तु न भवति । [तेषां सन्निरोधज्ञानं तु न भवति ।] तेषां संस्कृतत्वात् । इन्द्रियेष्वपि श्रद्धादिषु । [तिब् । ३१० ] यत्प्रधानाप्रधानज्ञानं मृदुमध्याधिमात्रेन्द्रियभेदेन । तत्परापरज्ञानबलं । तेष्वपि सास्रवानास्रवभेदभिन्नेषु नव ज्ञानानि संभवन्ति निरोधज्ञानं हित्वा । प्रधानादिषु रुचयो नानाधिमुक्तयः । ताः पुनः सास्रवानास्रवास्त्रैधातुकाश्च तदालम्बनत्वात्निरोधज्ञानं हित्वा । एवं नानाधातुज्ञानबलं । तत्र हि धातुः पूर्वाभ्यासवासनासमुदागत आशयो धातुरित्याचार्यसंघभद्रः । स पुनस्तु एव ते चित्तचैत्ता विशिष्टाः । तेषां तथैव सास्रवानास्रवभेदभिन्नानां निरोधज्ञनं हित्वा नव ज्ञानानि भवन्तीति पूर्ववद्योज्यं । प्रतिपत्स्विति विस्तरः । बह्व्योऽत्र प्रतिपदो नरकादिगामिन्यः । नरकगामिनी प्रतिपत्(अभिधर्मकोषव्याख्या ६४४) यावद्देवगामिनी । निरोधगामिनि च । तत्र या नरकादिगामिन्यः प्रतिपदः । ता हेतुः । प्रतिपद्यन्ते ताभिरिति कृत्वा । मार्गो हि प्रतिपद्युचते । तेन हि विसंयोगः प्रतिपद्यते । निरोधस्तु कथं । स चापि प्रतिपत् । प्रतिपद्यते तमिति कृत्वा । प्रतिपत्फलं वा प्रतिपदित्युच्यते । अत एवाह । यदि सफला प्रतिपद्गृह्यत इति । हेतुर्हि सर्वत्रगामिनि प्रतिपदिहेष्यते । [तिब् । ३१० ] तथा हि व्याचक्षते । सर्वत्रगामिनीप्रतिपज्ज्ञानबलमिति । सत्कायसमुदयगामिनीत्यर्थ इति । तत्र सत्कायः पंचोपादानस्कंधाः । समुदय उत्पाद इहाभिप्रेतः । एवमस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात् । सत्कायनिरोधो विसंयोगः । तत्र सर्वत्र गंतुं शीलमस्या इति सर्वत्रगामिनी चासौ प्रतिपच्च सर्वत्रगामिनीप्रतिपत् । तत्ज्ञानं तदेव च बलमिति । सर्वत्रगामिनीप्रतिपज्ज्ञानबलं । तद्दश ज्ञानानि योज्यानि । यदि निरोधज्ञानमेवास्रवक्षयज्ञानमिति । आस्रवाणां क्षये निरोधे ज्ञानम् । आस्रवनिरोधालम्बनं ज्ञानमित्यर्थः । एवं सति षड्ज्ञानानि भवन्ति । निरोधज्ञानजातिरेव धर्मज्ञानादिभेदभेदिनीकृत्वा । अथ क्षीणास्रवसंतान इति । आस्रवक्षये सति यज्ज्ञानं । तदासवक्षयज्ञानमित्यर्थः । क्षीणास्रवसंताने सर्वाणि ज्ञानानि समुदाचरन्तीति दश ज्ञानानि भवंति । अन्यत्र बुद्धानुत्पादादिति । जंबूद्वीपादन्यत्र बुद्धानुत्पाददिति जंबूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेरित्यभिप्रायः । तदेव दशविधज्ञानमन्यस्य बलं नोच्यत इति । अन्यस्याप्येतदस्ति न तु बलं व्याहतत्वात् । [तिब् । ३११ ] यत्त्वव्याहतं । तद्बलमावेणिक इत्यभिप्रायः । प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानमिति विस्तरः । प्रव्रजनं प्रव्रज्या प्रेक्ष्यते प्रव्रजनप्रेक्षः । तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानं । तदुदाहरणं यथा अन्यस्य व्याहन्यते ज्ञानमिति । आर्यशारिपुत्रेण किल कस्यचित्प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीयं कुशलमूलं व्यवलोकयता न दृष्टमिति प्रत्याख्यातो न प्रव्राजित इत्यर्थः । भगवता तु दृष्टं प्रव्राजितश्च । तं चाधिकृत्य भिक्षुभिः प्र्ष्टेन भगवतोक्तं । अनेनैवेदं कर्म कृतं । यदर्हत्त्वं प्राप्ता । न हि कर्माणि पृथिवीधातौ विपच्यन्ते । नाब्धातौ न तेजोधातौ न वायुधातौ । अपि तूपात्तेष्वेव स्कंधधात्वायतनेष्विति विस्तरः । इदं चोक्तं । मोक्षबीजमहं ह्यस्य स्वसूक्ष्ममुपलक्षये । धातुपाषाणविवरे निलीनमिव काञ्चनम् (अभिधर्मकोषव्याख्या ६४५) इति । उपपत्त्यादिपर्यन्ताज्ञानं चेति । आदिशब्देन च्युतिपर्यन्ताज्ञानं । (विइ ।३७) नारायणं बलम् इति । बलस्येयं संज्ञा नारायणमिति । यस्य च तद्बलम् । असावपि नारायण इत्युच्यते । चाणूरमहानग्नवत् । भदन्त इति [तिब् । ३११ ] दार्ष्टांतिकः स्थविरः । अन्यथा हीति । यदि मानसवत्कायिकबलं नेष्यते । अनंतस्य ज्ञानबलस्य सहिष्णुर्न स्यात् । सहनशीलो भगवान्न भवेदित्यर्थः । संधिष्वन्य इत्युक्तमस्थिसंधिविशेषोपन्यासः । नागग्रंथिरिति विस्तरः । नागग्रन्थिसंधयो बुद्धाः । नागपाशो नागग्रंथिः । शंकलासंधयः प्रत्येकबुद्धाः । शंकुसंधयश्चक्रवर्तिनः । दशाधिकं हस्त्यादिसप्तकबलम् इति । हस्त्यादीनां हस्तिगन्धहस्तिमहानग्नप्रस्कंदिवरांगचाणूरनारायणानां सप्तकं तस्य बलं दशभिरधिकं दशभ्यो वाधिकं । कथमित्याह । यद्दशानां प्राकृतहस्तिनां सानान्यहस्तिनां बलं । तदेकस्य गन्धहस्तिनो बलं । एवं यद्दशानां गन्धहस्तिनां बलं । तदेकस्य महानग्नस्य बलं । यावद्यद्दशानां चाणूराणां बलं । तदेकस्य नारायणस्य बलमिति । दशोत्तरवृद्धिनगः । दशोत्तरवृद्ध्यार्धनारायणबलमिति । आदितस्तथैव प्रक्रम्य यद्दशानां प्रस्कन्दिनां बलं । तदर्धनारायणं । तद्द्विगुणं नारायणमिति । यथा तु बहुतरं । तथा युज्यत इत्याचार्यः । पूर्वकमेव पक्षं समर्थयति । अन्यथा ह्यनन्तज्ञानबलसहिष्णुर्न स्यादिति तदेव कारणं । देवदत्तहतहस्तिपादांगुष्ठसप्तप्राकारपरिखाक्षेपश्[तिब् । ३१२ ] चान्यथा न स्यादिति । महाभूतविशेष एवेति । महाभूतविशेषस्वभावमेवेदं बलं न भौतिकमिति दर्शयति । उपादायरूपसप्तभ्योऽर्थान्तरमिति । श्लक्ष्नत्वादिभ्यः पूर्वोक्तेभ्योऽन्यदेव बलं नामोपादायरूपमित्यपरे । (विइ ।३८ ब्) यथासूत्रमेवेति । चत्वारीमानि शारिपुत्र तथागतस्य वैशारद्य्नि । यैर्वैशरद्यैः समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्ध उदारमार्षभं स्थानं प्रतिजानाति ब्राह्म्यं चक्रं प्रवर्तयति पर्षदि सम्यक्सिंहनादं नदति । कतमानि चत्वारि । सम्यक्संबुद्धस्य बत मे सतो इमे धर्मा (अभिधर्मकोषव्याख्या ६४६) अनभिसंबुद्धा इत्यत्र मां कश्चिच्छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत् । स्मारयेत् । तत्राहं निमित्तमपि न समनुपश्यामि । एवं चाहं निमित्तमसमनुपष्यन् क्षेमप्राप्तश्च विहराम्यभयप्राप्तश्च वैशारद्यप्राप्तश्च उदारमार्षभं स्थानं प्रतिजानामि ब्राह्म्यं चक्रं प्रवर्तयामि । पर्षदि सम्यक्सिंहनादं नदामि । इदं प्रथमं वैशारद्यं । क्षीणास्रवस्य बत मे सत इमे आस्रवा अप्रहीणा इत्यत्र मां कश्चिदिति पूर्ववत् । यावत्पर्षदि सम्यक्सिंहनादं [तिब् । ३१२ ] नदामि । इदं द्वितीयं वैशारद्यं । ये वा पुनर्मया श्रावकाणामान्तरायिका धर्मा आख्याताः । तान् प्रतिषेवमाणस्य नालमन्तरायायेत्यत्र मां कश्चिदिति पूर्ववत् । इदं तृतीयं वैशारद्यं । यो वा पुनर्मया श्रावकाणां मार्ग आख्यातः आर्यो नैर्याणिको नैर्वेधिको निर्याति । तत्करस्य सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै स न निर्यास्यतीत्यत्र मां कश्चिदिति पूर्ववत् । इदं चतुर्थं वैशारद्यमिति । यथा स्थानास्थानज्ञानबलमिति विस्तरः । यथा स्थानास्थानज्ञानबलं दश ज्ञानानि सर्वभूमिसंगृहीतं च । एवं सम्यक्संबुद्धस्य बत मे सत इत्येतद्वैशारद्यं । तथैव दशधा धर्माणां भेदं कृत्वा योज्यं । यथास्रवक्षयज्ञानबलं षट्दश वा ज्ञानानि दशभूमिसंगृहीतं च । एवं क्षीणास्रवस्येति द्वितीयं वैशारद्यमत्रापि तथैव धर्माणां भेदं कृत्वा षट्दश वा ज्ञानानीति योज्यं । यथा कर्मस्वकज्ञानबलमष्टौ ज्ञानानि निरोधमार्गज्ञाने हित्वा सर्वभूमिसंगृहीतं च । एवं य वा पुनर्मया श्रावकाणामान्तरायिका इति विस्तरेण तृतीयं वैशारद्यम् । अत्रापि तथैव धर्माणां भेदं कृत्वा दुःखसमुदयसत्यसंगृहीता एवान्तरायिकाः । न निरोधमार्गसत्यसंगृहीता [तिब् । ३१३ ] इत्यष्टौ ज्ञानानीति योज्यं । यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलं दश ज्ञानानि नव वा सर्वभूमिसंगृहीतं च । एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यात इत्येतद्वैशारद्यं । अत्रापि सफलसास्रवानास्रवमार्गग्रहणतो दश ज्ञानानि । अफलतद्ग्रहणतो वा नवेति योज्यं । निर्भयता हि वैशारद्यम् । एभिश्च ज्ञानैर्निर्भयो भवतीति ज्ञानानि वैशारद्यानीति वैभाषिकाः । आचार्य आह । ज्ञानकृतं तु वैशारद्यं । न ज्ञानमेवेति । अथ व आचार्यवचनमेवैतत्सर्वं । निर्भयता हि वैशारद्यं । तथा हि तद्भयप्रतिपक्षो धर्मश्चैतसिकः । भयमपि चैतसिको धर्म इति । एभिश्च ज्ञानैर्हेतुभूतैर्निर्भयो भवतीति । तत्कथं ज्ञानमेव वैशारद्यं । ज्ञानकृतं तु वैशारद्यं युज्यते न ज्ञानमेवेति । (विइ ।३८ द्) यथासूत्रमिति त्रीणीमानि भिक्षवः स्मृत्युपस्थानानि । यान्यार्यः । (अभिधर्मकोषव्याख्या ६४७) सेवते । यान्यार्यः सेवमानोऽर्हति गणमनुशासयितुं । कतमानि त्रीनि । इह भिक्षवः शास्ता श्रवकाणां धर्मं देशयति अनुकंपकः कारुणिकोऽर्थकामो हितैषी करुणायमानः । इदं वो हिताय इदं वो सुखाय इदं वो हितसुखाय । [तिब् । ३१३ ] तस्य मे श्रावकाः शुश्रूषन्ते । श्रोत्रमवदधति । आज्ञाचित्तमुपस्थापयन्ति । प्रतिपद्यन्ते धर्मस्यानुधर्मन् प्रति । न व्यतिक्रम्य वर्तन्ते शास्तुः शासने । तेन तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम् । उपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन् । इदं प्रथमं स्मृत्युपस्थानं । यदार्यः सेवते । यदार्यः सेवमानोऽर्हति गणमनुशासयितुम् । पुनरपरं शास्ता धर्मं देशयति पूर्ववत् । तस्य ते श्रावका न शुश्रूषन्ते । न श्रोत्रमवदधति । नाज्ञाचित्तमुपस्थापयन्ति । न प्रतिपद्यन्ते धर्मस्यानुधर्मं । व्यतिक्रम्य वर्तन्ते शास्तुः शासने । तेन तथागतस्य नाघातो भवति नाक्षान्तिर्नाप्रत्ययो न चेतसोऽनभिराद्धिः । उपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन् । इदं द्वितीयं स्मृत्युपस्थानं । यदार्यः सेवते । यदार्यः सेवमानोऽर्हति गणमनुशासयितुं । पुनरपरं भिक्षवः यावच्छासने तत्र तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वं । नाघातो नाक्षान्तिर्नाप्रत्ययो [तिब् । ३१४ ] न चेतसोऽनभिराद्धिः । उपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन् । इदं तृतीयं स्मृत्युपस्थानं । यदार्यः सेवते । यदार्यः सेवमानोऽर्हति गणमनुशासयितुमिति । स्मृतिसंप्रज्ञानम् इति । उभयस्वभावमिति दर्शयति । स्मृतः संप्रजानन्निति वचनात् । यदा श्रावकस्यापीति विस्तरः । यदा श्रावकस्यापि हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येष्वशुश्रूषमाणेषु च उभयेषु च शुश्रूषमाणाशुश्रूषमाणेषु च । नन्दी अनुनयो म भवति । आघातो वा द्वेषो वा । कस्मादेते आवेणिका असाधारणा बुद्धधर्मा उच्यंते । सवासनप्रहाणडिति । सवासनानामानम्द्यादीनां प्रहाणात् । का पुनरियं वासना नाम श्रावकाणां । यो हि यत्क्लेशचरितः पूर्वं । तस्य तत्कृतः कायवागचेष्टाविकारहेतुसामर्थ्यविशेषश्चित्ते वासनेत्युच्यते । अव्याकृतश्चित्तविशेषो वासनेति भदन्तानन्तवर्मा । अथ वेति विस्तरेणाचार्यः । यस्य श्रावका बुद्धस्य भगवतः श्रावका भवन्ति नान्यस्य । किं कारणं । शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश्च शुश्रूषमाणाशुश्रुषमाणेषु [तिब् । ३१४ ] उभयेषु तस्यैव श्रवकवतस्ततनुत्पादः । आनन्द्याघातानुत्पादः । आश्चर्यमद्भुतं (अभिधर्मकोषव्याख्या ६४८) व्यवस्थाप्यते । नान्यस्य श्रावकस्येत्यर्थः । (विइ ।३९) अन्यथा हीति विस्तरः । यदि संवृतिज्ञानस्वभावा न स्यादद्वेषस्वभावा स्यात्करुणावत् । न सर्वसत्त्वालंबना सिध्येत् । न त्रैधातुकसत्त्वालंबना सिध्येदित्यर्थः । यथा करुणा न त्रैधातुकसत्त्वालम्बना । किं तर्हि । कामावचरसत्त्वालंबना । दुःखितसत्त्वालम्बनत्वादेवं सिद्धं स्यादित्यभिप्रायः । न च त्रिदुःखताकारा सिध्येदिति वर्तते करुणावत् । यथा करुणा दुःखताकारैव न त्रिदुःखताकारा दुःखदुःखतासंस्कारदुःखताविपरिणामदुःखताकरा । तथा न स्यात् । इष्यते च त्रिदुःखताकारेति । अतः संवृतिज्ञानस्वभावेति । महच्छब्दवाच्यताकारणं दर्शायन्नाह । कस्मादियमित्यादि । संभारेण महापुण्यज्ञानसंभारसमुदागमादिति । महापुण्यसंभारसमुदागमात् । महाज्ञानसंभारसमुदागमाच्चेत्यर्थः । तत्र महापुण्यसंभारस्तिस्रः पारमिताः । [तिब् । ३१५ ] दानशीलक्षान्तिपारमिताः । महाज्ञानसंभारः प्रज्ञापारमिता । वीर्यध्यानपारमिते तु द्विधा उभयत्रव्यापारात् । न हि विना वीर्येण दानं दीयते शीलं समादीयते क्षान्तिर्भाव्यत इति महापुण्यसंभारभागीयं वीर्यं भवति । तथा नान्तरेण वीर्यं प्रज्ञा भवतीति महाज्ञानसंभारभागीयं भवति । तथा मैत्र्यादिचतुर्विधाप्रमाणभावनापक्षं ध्यानं महापुण्यसंभारभागीयं । स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपक्षधर्मभावनापक्षं ध्यानं महाज्ञानसंभारभागीयं । तदेवं महापुण्यज्ञानसंभाराभ्यां समुदागमान्निर्वृत्तेर्महतीयं करुणेति महाकरुणा । आकारेण त्रिदुःकताकरणात् । यस्मात्तिसृभिरपि दुःखताभिराकारयति न दुःखदुःकतयैव करुणावत् । आलम्बनेन त्रैधातुकसत्त्वालंबनत्वात् । यस्मात्त्रैधातुकोपपन्नन् सत्त्वानालम्बते न च कामधातूपपन्नानेव करुणावत् । कामसत्त्वास्तु गोचर [तिब् । ३१५ ] इति वचनात् । समत्वेन सर्वसत्त्वेषु समवृत्तित्वात् । यस्मात्सर्वसत्त्वेषु त्रैधातुकपर्यापन्नेषु समं वर्तते संस्कारदुःखताकारेण । अतोऽपि महाकरुणेत्युच्यते । ततोऽधिमात्रतराभावादिति । प्रज्ञास्वभावतया तीक्ष्णतरत्वात् । यथा हि तया करुणायते । न तथा करुणयेति । नानाकरणं विशेषः । अद्वेषामोहस्वभावत्वादिति । यथाक्रमं करुणाया अद्वेषस्वभावत्वात् । महाकरुणायाश्चामोहस्वभावत्वादित्यर्थः । एकत्रिदुःखताकारत्वादिति । एकदुःखताकारत्वात्करुणायाः । त्रिदुःखाकारत्वाच्च महाकरुणायः । इत्य्(अभिधर्मकोषव्याख्या ६४९) उभयत्रापि सर्वत्र याथासंख्येन योजयितव्ग्यं । चतुर्ध्यानचतुर्थध्यानभूमिकत्वादिति । करुणा चतुर्ध्यानभूमिक । अनागम्यध्यानान्तरयोः प्रथमध्यानग्रहणेन ग्रहणान्न षड्भूमिकेत्युक्तं । महाकरुणा तु चतुर्थध्यानभूमिकैव सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादनसमर्थत्वात् । श्रावकादिबुद्धसंतानजत्वादिति । आदिशब्देन प्रत्येकबुद्धपृथग्जनां ग्रहणं । कामभवाग्रवैराग्यलभ्यत्वादिति । कामवैराग्यलभ्या करुणा । [तिब् । ३१६ ] भवाग्रवैराग्यलभ्या महाकरुणा । अपरित्राणपरित्राणत इति । करुणया श्रावकादयः करुणायन्त एव केवलमनुग्लायंत्येवेत्यर्थः । न संसारभयात्परित्रायन्ते । महाकरुणया तु करुणायमानो भगवान्महतः संसारभयात्परित्राय्ते । अतुल्यतुल्यकरुणायनात् । करुणयातुल्यं करुणायते । दुःखितानामेव करुनायनात् । महाकरुणया तु तुल्यं सर्वसत्त्वसमक्रुणायनात् । (विइ ।४०) पूर्वपुण्यज्ञानसंभारसंुदागमत इति । पूर्वेषु जन्मसु पुण्यसंभारेण पूर्वोक्तेन ज्ञानसंभारेण च समुदागमतः । धर्मकायपरिनिष्पत्तित इति । अनास्रवधर्मसंभारसंतानो धर्मकायः । आश्रयपरिवृत्तिर्वा । अर्थचर्यया चेति । स्वर्गापवर्गकारणमर्थो लोकस्य । तस्य संपादनमर्थचर्या । तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः । यथाकालमिति । सर्वत्राभिसंबध्यते । कथं । चिराल्पजीवनाद्यथाकालं दीर्घायुषि प्रजायां दीर्गायुषो बुद्धा भवन्ति । अल्पायुष्यल्पायुषः । यथासंभवं क्षत्रियगुरुके लोके क्षत्रिया भवन्ति । ब्राह्मणगुरुके ब्राह्मणाः । यथाकालमेव च काश्यपादिगोत्राः । [तिब् । ३१६ ] गौतमादिगोत्राश्च । तथाल्पप्रमाणे लोकेऽल्पप्रमाणाः । अनल्पप्रमाणेऽनल्पप्रमाणा इति । हेतुसंपदं पुण्यज्ञनसंभारलक्षणां । फलसंपदं धर्मकायलक्षणां । उपकारसंपदं जगदर्थचर्यालक्षणां । सर्वगुणज्ञानसंभाराभ्यास इति । गुणाः पंचपारमितास्वभावाः । ज्ञानानानि च प्रज्ञापारमितास्वभावानि । तेषां गुणज्ञानानां संभारः । तस्याभ्यासः पुनःपुमह्प्रयोगः । दीर्घकालाभ्यासस्त्रिभिरसंख्येयैर्महाकल्पैः । निरन्तराभ्यासोऽसान्तरतया । सत्कृत्यभ्यासस्तीव्रादरतया । चतुर्विधा फलसंपदिति । धर्मकायपरिनिष्पत्त्या ज्ञानादिसंपदश्चतस्रो भवन्तीति ता अपि फलसंपद इति व्यवस्थाप्यन्ते । ज्ञानसंपच्चतुर्विधेति वक्ष्यति । तथा प्रहाणसंपत्प्रभावसंपत्रूपकायसंपच्च चतुर्विधेति वक्ष्यति । तदेवासां व्याख्यानं भविष्यति । चतुर्विधोपकारसंपत् । क्थमित्याह । अपायत्रयसंसारदुःखत्यन्तनिर्मोक्षसंपदिति । अपायत्रयं च नरकादि संसारश्च । तयोर्दुःखं । (अभिधर्मकोषव्याख्या ६५०) ततोऽत्यन्तनिर्मोक्षः । सैव संपदिति । यानत्रयसुगतिप्रतिष्ठापनसंपद्[तिब् । ३१७ ] वेति । यानत्रये च श्रावकयानादौ । सुगतौ च प्रतिष्ठापनं । सैव संपदिति । इयं वा चतुर्विधोपकारसंपत् । अनुपदिष्टज्ञानमिति स्वयमभिसंबोधनार्थेन । सर्वत्रज्ञानम्निति निरवशेषस्वलक्षणावबोधनार्थेन । सर्वथाज्ञानमिति । सर्वप्रकारावबोधनार्थेन । अयत्नज्ञानमितीच्छामात्रावबोधनार्थेन सर्वक्लेशप्रहाणमिति त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः अत्यन्तप्रहाणमित्यपरिहाणितः । सवासनप्रहाणमिति । अनुबंधाभावतः । सर्वसमापत्त्यावरणप्रहाणमित्युभयतोभागविमुक्तेः । बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसंपदिति । तत्रापूर्वबाह्यविषयोत्पादनं निर्माणम् । अश्मादीनां सुवर्णादिभावापादनं परिणामः । दीर्घकालावस्थानमधिष्ठानमिति । आयुष उत्सर्गेऽधिष्ठाने च वशित्वसंपदायुरुत्सर्गाधिष्ठानवशित्वसंपदिति । आवृतेति विस्तरः । आवृतगमनं चाकाशगमनं च सुदूरक्षिप्रगमनं च । ब्राह्मणादित्यनवदेकशेषः । अल्पे बहूनां प्रवेशः । परमाणौ बहूनां हस्त्यादीनां [तिब् । ३१७ ] प्रवेशः । स चेत्यावृताकाशासुदूरक्षिप्रगमनाल्पबहुपहुप्रवेशः । तयोर्वशित्वसंपदिति योज्यं । विविधा नानाप्रकारा निजाः स्वाभाविकाः । के । आश्चर्यधर्माः । तेषां संपदिति योज्यं । धर्मतैषा बुद्धानां भगवतां यत्तेषां गच्छतां निम्नस्थलं च समीभवति । यदुच्चं । तन्निचीभवति । यन्नीचं । तदुच्चीभवति । अंधाश्चक्षूंषि प्रतिलभंते । बधिराः श्रोत्रम् । उन्मत्ताः स्मृतिमिति यथासूत्रं सर्वमनुसर्तव्यं । लक्षणसंपदिति । द्वात्रिंशतां महापुरुषलक्षणानामूर्णोष्णीषादीनां संपत् । अनुव्यंजनसंपदिति । वृत्तांगुलिताम्रतुंगनखत्वादीनामशीतेरनुव्यंजनानां संपत् । बलसंपन्नारायणं बलं । वज्रसाराण्यस्थीन्यस्येति वाज्रसारास्थि । वज्रसारास्थिशरीरमस्येति वज्रसारास्थिशरीरः । तद्भावः । तस्य संपदिति । वज्रसारास्थिशरीरतासंपदिति । एतत्सामासिकं सांक्षेपिकं । ये केचित्प्रसादजाताः सत्पुरुषा बुद्धं भगवन्तमस्ताविषुः स्तुवन्ति स्तोष्यंति वा । सर्वे ते एतयैव त्रिविधया संपदेति । यद्यनेका असंख्येयाः कल्पा अस्येत्यनेकासंख्येयकल्पं जीवितं । तद्यद्यधितिष्ठेयुर्बुद्धा भगवन्तः । [तिब् । ३१८ ] एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं वक्तुं च समर्थाः । तस्यानन्तप्रभेदत्वेनातिबहुत्वादित्यब्जिप्रायः । एवं च तावदिति विस्तरः । गुणाश्च ज्ञानानि च प्रभावश्(अभिधर्मकोषव्याख्या ६५१) चोपकारश्चेति द्वंद्वः । अनन्ताश्च तेऽद्भुताश्चेति पुनः कर्मधारयः । एत एव महारत्नानि । तेषामाकरास्तथागताः । अथ च पुनर्बालाः पृथग्जनाः स्वगुणदारिद्र्येणानुमानभूतेन हताधिमोक्षा हतरुचयः यावद्बुद्धं नाद्रियंते बुद्धे नादरं कुर्वन्तीत्यर्थः । श्रद्धामात्रकेणापीति । निरधिगमेनेत्यर्थः । अनियतविपाकानामिति । नियतविपाकानामलंघनीयत्वादित्यभिप्रायः । देवेषु भस्वा दैवी । अवंध्येष्टप्रकृष्टाशुस्वंतफलत्वादिति । अवंध्यफलं फलदाननैयम्येनावस्थानात् । इष्टफलं दिव्यविषयफलत्वात् । प्रकृष्टफलं प्रभूतफलत्वात् । आशुफलं दृष्टधर्मादिवेदनीयफलत्वात् । स्वन्तफलं निर्वाणाफलत्वात् । तद्भावात् । अनुत्तरं पुण्यक्षेत्रमुच्यंते तथागता इति । कारानित्युपकारान् पूजादिकान् । (विइ ।४१) यथायोगमिति । यथासंभवं । [तिब् । ३१८ ] केचिद्गुणाः श्रावकसाधारणा बुद्धानां भगवतामरणाप्रणिधिज्ञानादयः । केचित्पृथग्जनसाधारणाः अभिज्ञाध्यानाराप्यादयः । आदिशब्देन शून्यतानिमित्ताप्रणिहितादयो गृह्यन्ते । (विइ ।४२) न कस्यचित्तदालंबनो राग उत्पद्यते द्वेषो मानो वेति । तेनात्मनो दर्शनादिपरिहारात् । यथायथा च तेनाभिसमितं भवत्यरणासमाधेरभ्युत्थितेनास्य मां दृष्ट्वा राग उत्पत्स्यते अस्य द्वेषः अस्य मान अस्याप्रसाद उत्पत्स्यते इति । तथातथा व्युत्थितोऽपि तस्मात्समाधेरनुवेष्टते । परचित्तरक्षणोपायविशेषे तु तस्यारणासमाधेरुत्पत्तिमात्रसामर्थ्यादेव परेषां क्लेशो नोत्पद्यत इत्यर्थो गृह्यते । रणयतीति क्लेशयतीत्यर्थः । सुखप्रतिपदामग्रत्वाच्चतुर्थध्यानस्य तद्भूमिकैवारणा । नान्यध्यानभूमिका । परिहर्तुं न शक्नोतीति परिहाणि संभवात् । सवस्तुकाः क्लेशाः । के । रागादयो भावनाप्रहातव्याः । अवस्तुकाः क्लेशा दर्शनप्रहातव्याः । सर्वत्रगाः सकलस्वभूम्यालंबनत्वात्परसंतत्यालंबना अपि भवन्तीति । परिहर्तुमशक्याः सर्वत्रगाः । [तिब् । ३१९ ] (विइ ।४३) सर्वालंबनं तु तद् इति । सर्वमालंबत इति सर्वालंबनं । सर्वो वास्यालंबन इति सर्वालम्बनं । नारणावत्क्लेशमात्रालम्बनं । किं तर्हि । रूपाद्यालंबनमपीत्यर्थः । आरूप्यस्तु न साक्षात्प्रणिधिज्ञानेन ज्ञायन्ते । किं कारणं । यस्मात्प्रणिधिज्ञानं चतुर्थध्यानभूमिकं । वक्ष्यति च स्वधोभूमिविषयाभिज्ञा (अभिधर्मकोषव्याख्या ६५२) इति । प्रणिधिज्ञानं चाभिज्ञावत्भवतीति । निष्यन्दचरितविशेषादिति । तत्र निष्यंदो मन्दमन्दता । चरितमारूप्यसमापत्तिविहारः । तदेवं कार्येणास्यानुमानं । कारणेन च कार्यास्येति परिदीपितम् । ततः प्रच्युतानां तत्समापत्तिलाभिणां च तदुभयं प्रत्यक्षं । कार्षकनिदर्शनं चात्रेति । यथा कार्षकः फलेन बीजं प्रतिपद्यते । बीजेन वा फलमिति । यथा वा कार्षको जानीते ईदृशे क्षेत्रे ईदृशाफलं धान्यं भविष्यतीति । धान्यं वा दृष्ट्वा क्षेत्रमनुमिनोति । ईदृशमस्य क्षेत्रमिति । एवं शान्तमूर्तिं सत्त्वं दृष्ट्वा अनुमिनोति आरूप्याच्च्युतोऽयम् । आरूप्येषु चोपपत्स्यत इति । वैभाषिका इति वचनं । परेषामस्त्यनेनारूप्यज्ञानमिति सूचयति । न हि बुद्दानामस्त्यविषय इत्यभिप्रायः । [तिब् । ३१९ ] प्रणिधिपूर्वकमित्याभोगपूर्वकं । प्रणिधायाभुज्येत्यर्थः । यावांस्तत्समाधिविषय इति । यावां च्छ्रावकस्य विषयः । तावज्जानाति । प्रत्येकबुद्धस्य च यावत्स्वविषय इत्यादि । (विइ ।४३-४५) धर्मप्रतिसंविदिति । इह देशनाधर्मः । अनेकार्थो हि धर्मशब्दः । तद्यथा धर्मं वो भिक्षवो देशयिष्यामि । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयिष्यामिति, अत्र देशनाधर्मः । धर्मः कतमः । आर्याष्टांगमार्ग इत्यत्र प्रतिपत्तिधर्मः । तथा धर्मं शरणं गच्छेतेत्यत्र फलधर्मो निर्वाणमित्यादि । अविवर्त्यमिति । अशक्यं विवर्तयितुं । अकोप्यधर्ममनुष्याश्रयत्वमिति तथाशब्देनेदमेवार्थद्वयं संबध्यते । आलम्बनादीनां पृथग्वचनात् । युक्तमुक्ताभिलापितायामिति । युक्तमर्थसंबंधं । मुक्तमसक्तं । युक्तमुक्तमभिलपतीति युक्तमुक्ताभिलापी । तद्भावः । तस्यां । युक्तमुक्ताभिलापितायां । समाधौ वशी समाधिवशी । समाधिवशिनः संप्रख्यानमसंमोषः । समाधिवशिसंप्रख्यानं । [तिब् । ३२० ] तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंविदिति विशेषः । कथं । नवज्ञानस्वभावा प्रतिभानप्रतिसंवित् । या वागालम्बना । सा दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा । या मार्गालम्बना । सा मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावेत्यभिसमस्य नवज्ञानस्वभावा अन्यत्र निरोधज्ञानात् । सर्वधर्माश्चेदर्थो दश ज्ञानानीति । न हि सोऽस्ति धर्मः । यो दशानां ज्ञानानां यथासंभवं नालम्बनीभवति । निर्वाणां चेदर्थः षट्ज्ञानानीति । निरोधज्ञानस्य धर्मज्ञानादिपंचस्वभावत्वात् । (अभिधर्मकोषव्याख्या ६५३) नामकायादिवागालम्बनत्वादिति । न हि दुःखादिज्ञानमनास्रवं दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते । किं तर्हि । पंचोपादानस्कंधान् सामान्यलक्षणाकारैः । अतस्ते संवृतिज्ञानस्वभावे इति । ऊर्ध्वं नामकायभावादिति । आरूप्यधातौ धर्मप्रतिसंविन्नास्तीति । यत्र च नामकायाः । तत्रैव पदव्यञ्जनकाया इति [तिब् । ३२० ] तुल्यवार्त्ता । नामकायभाववचनेन पदव्यञ्जनकायाभावसिद्धिः । ऊर्ध्वं वितर्काभावादिति । द्वितीयध्यानादिषु । वितर्क्य विचार्य वाचं भाषत इति सूत्रं नामाद्यालम्बनत्वं पुनरासां प्रतिसंविदां समापन्नस्यापि । व्युत्थितस्यापि तत्पृष्ठलब्धैरविवर्त्यैर्ज्ञानैर्नामाद्यालम्बनत्वं । भाषणं पुनस्तत्पृष्ठेनैव । स्त्रीपुरुषाद्यधिवचन इति । आदिशब्देन कालकारकादिसंग्रहः । अधिवचनं पुनः पर्यायः । तदधिकृत्य वा वचनं तदधिवचनं । तस्यासक्ततायामिति । तस्याधिवचनस्य तस्य पदव्यञ्जनस्य वा । अत एवासां क्रमसिद्धिरिति । यतः पदव्यञ्जनानुसारेणार्थप्रतिपत्तिः । तस्यैकद्विबहुस्त्रीपुरुषाद्यधिवचनं तस्यासक्ततेत्यतः क्रमसिद्धिरिति । तस्माद्रूपमित्येवंादीति । आदिशब्देन विजानातीति विज्ञानं । चिनोतीति चित्तमित्येवमादि संग्रहतः । उत्तरोत्तरप्रतिभा प्रतिभानमिति वादन्यायेन । यथाक्रममिति । धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः । अर्थप्रतिसंविदो बुद्धवचनं । निरुक्तिप्रतिसंविदः शब्दविद्या । प्रतिभानप्रतिसंविदो हेतुविद्येति । बुद्धवचनमेवेति वैभाषिकाः । (विइ ।४६) तत्षड्विधम् इति । [तिब् । ३२१ ] किंचिच्चतुर्थं ध्यानमरणात्मकं । किंचित्प्रणिधिज्ञानात्मकं । किंचित्त्रिप्रतिसंविदात्मकं । किंचित्तद्व्यतिरिक्तं केवलं प्रान्तकोटिकमिति । तिस्रः प्रतिसंविद इति । निरुक्तिप्रतिसंविदं मुक्त्वा तत्र वितर्काभावात् । सवितर्कविचारेण तदुत्थापनं । कथं तर्ह्यविशेषेणैतदुक्तं । षडेते प्रान्तकोटिका इति । एते उच्यन्ते । निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा चौर्थध्यानभूमिका । किं तर्हि । कामधातुप्रथमध्यानभूमिकेत्यर्थः । सर्वभूम्यनुलोमितम् इति । सर्वभूम्यनुकूलितमित्यर्थः । प्रगता अन्ता कोटिरस्येति । प्रगता अन्तं प्रान्ता । प्रान्ता कोटिरस्येति प्रान्तकोटिका । चतुष्कोटिकवदिति । यथा चतुष्कोटिकश्चतुःप्रकारप्रश्नः । तद्वत् । (अभिधर्मकोषव्याख्या ६५४) (विइ ।४७-५०) ऋद्धिविषयेति विस्तरः । षडभिज्ञाः । ऋद्धिविषयज्ञानसाक्षात्क्रियादिव्यश्रोत्रचेतःपर्यागपूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा इति । सूत्रं चात्र । इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति । एको भूत्वा बहुधा भवति बहुधाभूत्वा एको भवतीति विस्तरग्रंथ ऋद्धिपादा इत्यत्र लिखितो द्रष्टव्यः । यावदियमुच्यते ऋद्धिविषयज्ञानसाक्षात्क्रियाभिज्ञेति । इह भिक्षुर्दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण उभयां च्छब्दान् शृणोति मानुषानमानुषानपि ये वा दूरे [तिब् । ३२१ ] ये वान्तिक इति । इयमुच्यते दिव्यश्रोत्रज्ञानसाक्षात्क्रियाभिज्ञा । इख भिक्षुर्दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यतीति बहुः सूत्रवद्ग्रन्थः । यावदियमुच्यते दिव्यचक्षुर्ज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुरनेकविधं पूर्वनिवासमनुस्मरतीति बहुः सूत्रवद्ग्रन्थः । यावदियमुच्यते पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुः परसत्त्वानां परपुद्गलानां वितर्कितं विचरितं मनसा मानसं यथाभूतं प्रजानाति । सरागचित्तं सरागं चित्तमिति यथाभूतं प्रजानाति । विगतरागं विगतरागमिति यथाभूतं प्रजानाति । सद्वेषं विगतद्वेषं समोहं विगतमोहं विक्षिप्तं संक्षिप्तं लीनं प्रगृहीतमुद्धतमनुद्धतमव्युपशान्तं व्युपशान्तं समाहितमसमाहितमभावितं भावितमविमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति । विमुक्तं चित्तं विमुक्तं चित्तमिति यथाभूतं प्रजानाति । इयमुच्यते चेतःपर्यायज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुरिदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । अयं दुःखसमुदयः । अयं दुःखनिरोधः । इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यम् [तिब् । ३२२ ] इति यथाभूतं प्रजानाति । तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते । भवास्रवादविदास्रवाच्चित्तं विमुच्यते । विमुक्तस्य विमुक्तोऽस्मीति ज्ञानदर्शनं भवति । क्षीणा मे जातिर्यावन्नापरमस्माद्भवं प्रजनामीति । इयमुच्यते आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा । ऋद्धिः समाधिः । ऋद्धिविषयो निर्माणं गमनं च । ऋद्धिविषये ज्ञानं । तस्य साक्षात्क्रिया संमुखीभावः । ऋद्धिविषयज्ञानसक्षात्क्रियाभिज्ञा । दिव्यं श्रोत्रं । तत्र ज्ञानं । तस्य साक्षात्क्रिया दिव्यश्रोत्रज्ञानसाक्षत्क्रिया । चेतःपर्यायो विशेषः । रक्तं द्विष्टं मूढमिति वा क्रमो वा पर्यायः । कदाचिद्रक्तं कदाचिद्द्विष्टं मूढं चेति । तत्र ज्ञानं । तस्य साक्षात्क्रिया । पूर्वेनिवासः स्कंधेग इवालुक् । तस्यानुस्मृतिः तत्र ज्ञानं । तस्य साक्षात्क्रियेति । (अभिधर्मकोषव्याख्या ६५५) च्युतिश्चोपपादश्च च्युत्युपपादौ । तयोर्ज्ञानं । तस्य साक्षात्क्रिया । आस्रवाणां क्षयः । तत्र ज्ञानं । तस्य साक्षात्क्रियाभिज्ञेति प्रत्येकमभिसंबंधः । श्रामण्यफलवदिति । यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावं । तद्वत् । चेतसि ज्ञानपंचकम् इति । चेतसि चेतःपर्यायैर्याभिज्ञा । [तिब् । ३२२ ] सा ज्ञानपंचकस्वभावेत्यर्थः । अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्तज्ञानत्वसंभवात् । सास्रवस्य च संवृतिपरचित्तज्ञानसंभवात् । बलं यद्वद् इति । यथास्रवक्षयज्ञानबलम् । आस्रवक्षयज्ञानमास्रवक्षयालम्बनमिति चेत् । षट्ज्ञानानि । निरोधज्ञानस्य धर्मान्वयक्षयानुत्पादज्ञानसंज्ञितत्वात् । संवृतिज्ञानस्य च निरोधालम्बनत्वसंभवात् । आस्रवक्षये सति यज्ज्ञानं । क्षीणास्रवसंताने तज्ज्ञानमिति चेत् । दश ज्ञानानि । क्षीणास्रवसंताने दशज्ञानसद्भावात् । एवमास्रवक्षय आलम्बनभूते याभिज्ञा । सा चेदास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा । षट्ज्ञानानि । तद्वत् । आस्रवक्षये सति याभिज्ञा । सा चेद्दश ज्ञानानि । तद्वदिति । सर्वभूमिकाप्येषेति । बलं यद्वद् इत्यनेनैव वचनेनायमर्थो लभ्यते । यस्माच्च पंचैव ध्यानचतुष्टय इत्यवधार्यते । तस्मादपीयं षष्ठ्यभिज्ञा सर्वभूमिकेति गम्यते । तिस्रस्तावन्न सन्तीति । ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा । कस्मात् । रूपालंबनत्वात् । न ह्यारूप्याणां रूपमालंबनम् । विभूतरूपसंज्ञात्वात् । रूपतीर्थाभिनिष्पाद्यत्वाद्[तिब् । ३२३ ] इति । रूपत्वद्वारनिष्पाद्यत्वात्रूपालंबनमार्गनिष्पाद्यत्वादित्यर्थः । ईदृशे रूपे ईदृशं चित्तं भवतीति न चारूप्याणां रूपमालंबनं । पूर्वेनिवासानुस्मृतिरपि नास्त्यनुपूर्वावस्थान्तरस्मरणाभिनिष्पत्तेः । यस्मादनुपूर्वमात्मनोऽवस्थान्तराणि स्मरन्तो निष्पादयन्ति । न चारूप्याणां कामावचरा धर्मा आलंबनं । वक्ष्यति हि न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इति । तानि चावस्थान्तराण्यात्मनः कामावचराण्यभिनिष्पादनकाले तस्यालम्बनमित्येतस्मात्तद्भूमिका नास्तीति । स्थानगोत्राद्यालम्बनत्वाच्च । तस्मादपि च्युतोऽमुत्रोपपन्नः । तथा हि सूत्र उक्तं । अमी नाम (अभिधर्मकोषव्याख्या ६५६) ते सत्त्वाः । यत्राहमभूवमेवंनामा एवंगोत्र एवंजातिरेवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुरेवंचिरस्थितिक एवमायुष्पर्यन्तः । योऽहं तस्माच्च्युतोऽमुत्रोपपन्नः । तस्मादपि च्युतो [ऽमुत्रोपपन्नः तस्माच्च्युत] इहोपपन्न इति साकारं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरतीति । न चारूप्याः स्थानगोत्राद्यालम्बनाः [तिब् । ३२३ ] अधोभूम्यालम्बनाश्चेत्येतस्मादपि कारणान्नारूप्यभूमिकाः । कथं परचित्तज्ञानं रूपतीर्थाभिनिष्पाद्यमित्यत आह । परचित्तं हि ज्ञातुकाम इति विस्तरः । आभुजत इति । आभोगं कुर्वतः । निमित्तमुद्गृह्येति । चित्तप्रकारं परिच्छिद्येत्यर्थः । तत्प्रातिलोम्येनेति । तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धान्यवस्थान्तराणि मनसिकरोति । विलंघ्यापि स्मरणमिति । एकं जन्म द्वे वा विलंघ्यापि व्यतिक्रम्यापि स्मरणं । शुद्धावासानां कथं स्मरणमिति । यद्यनुभूतपूर्वस्यैव स्मरणं । न हि शुद्धावासानामिहागमनमस्त्यनागामित्वात् । तेन नैषामिहानुभूतिः । नापि तत्र । पृथग्जनानां तत्रानुपपत्तेः । श्रवणेवानुभूतत्वादिति । श्रुतं हि तेन भवति । शुद्धावासा नाम देवा एवंभूता इति । द्विविधो ह्यनुभवो दर्शनानुभवः श्रवणानुभवश्च । परसंतत्यधिष्ठानेनोत्पादनमिति । ध्यानसंगृहीतं पूर्वेनिवासानुस्मृतिज्ञानं । तेन चारूप्यावचरं चित्तं न गृह्णाति । कथं च पुनः परसंतत्यधिष्ठानेनोत्पादनं । समनंतरनिरुद्धान्मनोविज्ञानात्परकीयान्निमित्तमुद्गृह्येति विस्तरः । अन्येषामिति । य आरूप्येभ्यो न प्रच्युताः । तेषां स्वसंतत्यधिष्ठानेनैवोत्पादनं पूर्वेनिवासानुस्मृतिज्ञानस्य सुकरत्वात् । ऋद्ध्यादीनामिति । ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञानां [तिब् । ३२४ ] तिसृणां यथाक्रमं लघुत्वमनसिकरणमृद्धेः प्रयोगः । शब्दमनसिकरणं दिव्यश्रोत्रस्य । आलोकमनसिकरणं दिव्यचक्षुषः । कथमेता लभ्यंत इति प्राप्तिमधिकृत्य प्रश्नः । संमुखीभावस्तु चितानामनुचितानां च प्रयोगत एव । अनुचिताः प्रयोगत इति । वैशेषिक्यो या अनुत्पादितपूर्वाः । सर्वासां तु प्रयोगेनोत्पादनमिति । याश्च वैराग्याल्लभ्यन्ते । याश्च प्रयोगतः । तासां सर्वासां । अन्यत्र शब्दादिति उच्छेदित्वाच्छब्दो न निर्मीयते । वक्ष्यति हि । कामाप्तं निर्मितं बाह्यं चतुरायतनम् इति । (अभिधर्मकोषव्याख्या ६५७) कथं तर्हीति विस्तरः । यदि चक्षुरभिज्ञा रूपायतनालम्बना कथं तर्हि च्युत्युपपादज्ञानेनामी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्येवमादि । न वाङ्मनस्कर्मसमन्वागमाश्चक्षुर्विज्ञानेन गृह्यन्ते । आदिशब्देन मिथ्यादृष्टिग्रहणम् । न तदिति । तद्वाङ्मनस्कर्मसमन्वागमादि तेन चक्षुर्ज्ञानेन न जानाति । केन तर्हीत्याह । अभिज्ञापरिवारज्ञानं तु तदिति । मानसं तदित्यर्थः । शेषे इति । पूर्वेनिवासानुस्मृत्यास्रवक्षयाभिज्ञे ते चतुःस्मृत्युपस्थानस्वभावे । [तिब् । ३२४ ] कथम् । आस्रवक्षयाभिज्ञा चतुःस्मृत्युपस्थानस्वभावा दशज्ञानस्वभावत्वत् । षट्ज्ञानस्वभावत्वेऽपि कायवेदनाचित्तस्मृत्युपस्थानान्यप्यनागतानि भाव्यन्ते । कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः । न हि द्वितीयादिध्यानभूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति । चक्षुह्श्रोत्रविज्ञानसंप्रयुक्तत्वात् । तयोश्च द्वितीयादिषु ध्यानेष्वभावात् । वक्ष्यति हि कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तदाद्याप्तम् इति । आश्रयवशेनेति विस्तरः । चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोरपि चतुर्ध्यानभूमिकत्वं । चक्षुह्श्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते । प्राधानिक एष निर्देशो बाहुलिको वेति । प्रधाने भवः प्राधानिकः । एवं बाहुलिकः । कुशला अभिज्ञाः प्रधानभूताः । अतस्तदपेक्षया निर्देशः क्रियते । कुशला प्रज्ञाभिज्ञेति । अथ वा बाहुल्येनाभिज्ञाः कुशलाः । अत एवं निर्देश इति । मुद्गादिभावेऽपि माषराशिव्यपदेशवत् । (विइ ।५१) पूर्वन्तादौ निवर्तनात् यावद्यथाक्रममिइत् । भगवद्विशेषादयस्तावदाहुः । पूर्वान्तसंमोहं पूर्वेनिवासानुस्मृत्या निवर्तयति । च्युत्युपपादाभिज्ञय [तिब् । ३२५ ] मध्यसंमोहम् । आस्रवक्षयाभिज्ञयापरान्तसंमोहं । नापरमस्माद्भवं प्रजानामीति । तेषां व्याख्यानकाराणामभिप्रायः । अतीतः प्रत्युत्पन्नोऽनागतोऽध्वेत्यध्वानुक्रमः । तस्मादेवमर्थगतिरिति । आचार्यसंघभद्रस्तु व्याचष्टे । पूर्वान्तादौ निवर्तनात् । पूर्वेनिवासाभिज्ञा हि पूर्वान्तसंमोहं व्यावर्तयति । अपरान्तसंमोहं च्युत्युपपादाभिज्ञा । मध्यसंमोहमास्रवक्षयाभिज्ञा । इत्यतश्च तिसृणामेव विद्यात्वं पूर्वयात्मपरविपद्दर्शनात्संवेगोत्पत्तेः । परया परेषामेव । तथा संविग्नस्य भूतार्थावगमात्तृतीययेति । किमत्र प्रतिपत्तव्यं । (अभिधर्मकोषव्याख्या ६५८) आचार्यसंघभद्रव्याख्यानमेव युक्तरूपं पश्यामः । आचार्यस्यापि तथैवाभिप्रायो लक्ष्यते । तथा हि पूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्र इत्युक्त्वाह । एता हि पूर्वान्तापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रममिति । कथं पुनर्गम्यतेति तिस्र एवाभिज्ञास्तिस्रो विद्या इति । यस्मादेवमाह । अशैक्षी [तिब् । ३२५ ] पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रिया विद्या । अशैक्षी च्युत्युपपादज्ञानसाक्षात्क्रिया विद्या । अशैक्ष्यास्रवक्षयज्ञानसाक्षात्क्रिया विद्येति विद्यात्रयव्यवस्थापनानुसूत्रादेव । एवं ह्याह । त्रिपिटो भवति त्रिविद्य इति । अशैक्षी विद्येति । अनास्रवत्वादित्यभिप्रायः । नैव र्त्तते पूर्वेनिवासच्युत्युपपदाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ सास्रवत्वात् । (विइ ।५२) त्रीणि प्रातिहार्याणि यथाक्रममिति । ऋद्धिविषयाभिज्ञा ऋद्धिप्रातिहार्यं । चेतःपर्यायाभिज्ञा आदेशनाप्रातिहार्यं । ईदृशं ते चित्तमिति । आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यं । यथाभूतोपदेश इत्यर्थः । प्रातिशब्दयोरादिकर्मभृशार्थत्वादिति । प्रशब्द आदिकर्मार्थः । इदमनेन कर्म प्रारब्धमिति । अतिशब्दश्च भृशार्थः अतिगत इति । तदिदमुक्तं भवति । विनेयमनसामादित आदौ अतिभृशं हरंत्येभिरिति प्रातिहार्याणि । प्रतिहतमध्यस्थानामिति । नैरुक्तं विधिमाश्रित्योक्तं । वर्णागमो वर्णविपर्ययश्चेति योज्यं । अव्यभिचारित्वाद् इति । क्लेशक्षयनान्तरीयत्वादिति । (विइ ।५३, ५४) ऋध्यतीति । संपद्यत इत्यर्थः । दूरस्यासन्नाधिमोक्षेणेति । अधिमोक्षेण निर्वृत्ता आधिमोक्षिकी । यद्दूरं । तदासन्नमधिमुच्य तेनाश्वागमनादाधिमोक्षिकीत्युच्यते । बाह्यं चतुरायतनम् इति । नाध्यात्मिकं निर्मीयते । तन्निर्माणे सत्यपूर्वसत्त्वप्रादुर्भावप्रसंगात् । स्वपरशरीरसंबद्धमिति । यत्स्वात्मा सिंहायते नागायते वा । तत्स्वशरीरसम्बद्धं । [तिब् । ३२६ ] यस्त्स्वात्मनो बहिर्निर्मीयते सिंहो नागो वा । तत्परशरीरसंबद्धं । द्विविधं तथैवेति । स्वपरशरीरसंबधं । एवं रूपधाताविति । यथा कामधातूपपन्नो द्विविधं निर्माणं निर्मिणोति । कामावचरं रूपावचरं च । तदपि द्विविधां स्वपरशरीरसंबद्धमिति चतुर्विधं । एवं रूपधातूपपन्नोऽपि चतुर्विधं निर्मिणोतीति । अष्टविधं समासतो निर्माणं । वस्त्राभरणवन्न (अभिधर्मकोषव्याख्या ६५९) समन्वागम इति । यथा च वस्त्राभरणैः स्वशरीरसंबद्धैरप्यसत्त्वसंख्यातत्वातिन्द्रियाधिष्ठानासंबन्धत्वाद्वा न समन्वागमः । तद्वत् । द्व्यायतनमिति । रूपस्प्रष्टव्यायतनं । न गन्धरसायतनं । समन्वागमाभवादित्यभिप्रायः । न शब्दायतनमुच्छेदित्वात् । अभिघातजत्वादित्यपरे । आगन्तुकत्वादित्यभिप्रायः । (विइ ।५५-५८) द्वितीयध्यानफलं त्रीणीति । अधरभूमिके च द्वे स्वभूमिकं चेति । चत्वारि पंच च योज्यानीति । तृतीयध्यानभूमिकानि चत्वारि । अधरभूमिकानि त्रीणि स्वभूमिकं चेति । चतुर्थध्यानभूमिकानि पंचादरभूमिकानि चत्वारि स्वभूमिकं चेति । द्वितीयादिध्यानफलमिति विस्तरः । [तिब् । ३२६ ] द्वितीयध्यानफलं निर्माणं यन्निर्मात्रा निर्मितं । प्रथमध्यानभूमिकान्निर्माणफलात्प्रथमध्यानफलाद्गतितो विशिष्यते । तद्द्वितीयध्यानफलं निर्माणं द्वितीयं ध्यानभूमिं गच्छति । प्रथमध्यानफलं तु तां न गच्छति । किं तर्हि । प्रथमध्यानभूमिमेवेति गमनविशेषाद्विशिष्यते । एवं तृतीयादिध्यानफलं योज्यं । ध्यानवन् लाभ इति मौलध्यानानामिव वैराग्यतो निर्माणचित्तानां लाभः । शुद्धकाद्ध्यानादनंतरं निर्माणचित्तमिति । निर्माणचित्तसंमुखीभावे यदादिं । तच्छुद्धकादुत्पद्यते । निर्माणचित्ताद्वेति द्वितीयादिप्रवाहे । निर्माणचित्तादपि शुद्धकमिति । निर्माणचित्ताद्व्युत्थाने निर्माणचित्तं च प्रवाहे । समाधिफलस्थितस्येति । समाधिनिर्माणचित्तस्थितस्य, ऊर्ध्वभूमिकस्त्विति । द्वितीयादिध्यानभूमिकः । प्रथमध्यानभूमिकेन भाष्यते । ऊर्ध्वं द्वितीयादिषु विज्ञप्तिसमुत्थापकस्य सवितर्कस्य सविचारस्य चित्तस्याभावात् । तथा ह्युक्तं । वितर्क्य विचार्य वाचं भाषत इति । निर्माणचित्ताभावान्निर्मिताभाव इति । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्यसन्तं [तिब् । ३२७ ] कथमेनं निर्मितं भाषयन्तीति अभिप्रायः । अधिष्ठायान्यवर्तनाद् इति । निर्माणचित्तेन निर्मितं निर्माय ततश्चाधिष्ठायावस्थानकामतया तिष्ठत्वेतदिति । तत उत्तरकालमन्येन विज्ञप्तिसमुत्थापकेन सवितर्कसविचारकेण चित्तेन वाचं प्रवर्तयन्ति निर्मातारः । पूर्वाभिप्रायं हि संततिरनुवर्तते । पूर्वं हि तेन चेतसि व्यवस्थापितं निर्माणं निर्मास्यामि तदधिष्ठास्यामि तद्वाचयिष्यामीति । अवस्थाद्वयेऽधिष्ठानसंभवात्पृच्छति । (अभिधर्मकोषव्याख्या ६६०) किं जीवित एवाधिष्ठानमित्यादि । आर्यमहाकाश्यपाधिष्ठानेनेति । आर्यमहाकाश्यपाधिमोक्षेणेत्यर्थः । त्रिविधं तूपपत्तिजम् इति । कदाचिद्धि देवादयः परानुग्रहार्थं परान्निर्मिण्वन्ति । कदाचिद्विहेठनार्थमित्यादि । तत्कृतं चेति विस्तरः । देवादिकृतं च स्वपरसम्बद्धं निर्माणं नवायतनिकं । कुतः । अशब्दरूप्यायतनत्वात् । यस्मादशब्दानि चक्षुरायतनरूपायतनादीनि तत्र सन्तीति । शब्दः संतानाभावान्न निर्मायते । अचित्तकत्वाच्च न मनोधर्मायतने । अचित्तको निर्मित इति कथं गम्यते । शास्त्रात् । एवं ह्याह । तन्निर्मितश्चातुर्महाभौतिको वक्तव्यो [तिब् । ३२७ ] न चातुर्महाभौतिको वक्तव्यः । आह । चतुर्महाभौतिको वक्तव्यः । उपादायरूपिको नोपादायरूपिको वक्तव्यः । आह । उपादायरूपिको वक्तव्यः । अचित्तिको वक्तव्यः । कस्य चित्तवशेन वर्तत इति वक्तव्यं । आह । निर्मातुस्चित्तवशेन वर्तत इति । यदि तर्हि नवायतनिकं निर्मीयते । इन्द्रियनिर्माणात्कथं नापूर्वसत्त्वप्रादुर्भावो भवति । सत्त्वसंख्यातानि हीन्द्रियाणीति । अत आह । इन्द्रियाविनिर्भूतत्वादिति । यस्माच्चक्षुरादिभिरिन्द्रियैः पंचभिः स्वपरशरीरसम्बद्धं निर्माणं रूपरसस्प्रष्टव्यस्वभावमविनिर्भागेनावस्थितं भवन्नवायतनिकमित्युच्यते । न त्विन्द्रियं निर्मीयत इति एष सिद्धान्तः । यत्पुनस्तदेव स्वपरशरीरसम्बद्धं निर्मिणोति तच्चतुरायतनिकमेव भवति । (विइ ।६० ब्) यथा मांधातुरान्तराभविकानां चेति । कर्मजाया ऋद्धेरेतदुदाहरणमुच्यते । (विइ ।५९) किमेते दिव्ये एवेति । किमयं दिव्यशब्दो मुख्यवृत्तिः । आहोस्विदौपचारिक इत्यभिप्रायः । यदि ह्येते दिवि भवे दिव्ये इत्यर्थो गृह्यते । मुख्यवृत्तिरयं शब्दो भवति । अथ तु दिव्ये इवेति दिव्ये इत्यौपचारिकः । यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानामिति । औपचारिकत्वे दृष्टान्तं दर्शयति । विज्ञानसहितत्वादिति । [तिब् । ३२८ ] रूपदर्शनमुखेनाभिनिर्हृतत्वान्नित्यं विज्ञानसहितमिति । सभागमेव । काणविभ्रान्ताभावादिति । काणमभ्यन्तरविकलं । विभ्रान्तं केकरं सर्वतश्च न पश्यतीति । अर्थादुक्तं भवति । दिव्यं चक्षुः पृष्ठतोऽपि पश्यति । पार्श्वतोऽपि पश्यति न त्वेवमदिव्यं चक्षुरिति । (विइ ।६०, ६१) दिव्यश्रोत्रादिकमपि चतुष्टयमिति । आदिशब्देन दिव्यं चक्षुः पूर्वेनिवासानुस्मृतिः परचित्तज्ञानं च । एतदपि दिव्यश्रोत्रादिकं चतुष्टयम् । (अभिधर्मकोषव्याख्या ६६१) उपपत्तिप्रतिलब्धमस्ति । दिव्यं चक्षुः केषामुपपत्तिप्रतिलंभिकं । कामावचराणां देवानामनागामिनां च रूपावचराणां । नारूप्यावचराणां । तत्र रूपाभावत्दृष्टिर्गमनं निर्माणं च नास्ति । नापि दिव्यं श्रोत्रं चक्षुश्चास्ति । परचित्तज्ञानमपि नास्ति । स्वपरसंतानपरिच्छेदाभावात् । पूर्वेनिवासानुस्मृतिरपि नास्ति । कामरूपावचरसत्त्ववत्तादृशस्यात्मभावस्यासमुदागमात् । अथ वा सर्वा अप्यभिज्ञा न सन्ति । कामरूपावचरसत्त्ववत्तादृशस्यात्मभावस्यासमुदागमात् । न यथा भावनाफलं कुशलमेवेति । विपरीतदृष्टान्तः । अन्यगतिस्था नित्यं जानत इति । ताभ्यां परचित्तपूर्वेनिवासानुस्मृतिभ्यां देवादिगतिस्था नित्यं जानते । [तिब् । ३२८ ] दुःखवेदनानभ्याहतत्वात् । नृणां नोत्पत्तिलाभिकम् इति । मनुष्याणामेतद्यथोक्तमृद्ध्यादिकं वैराग्यलाभिकं तर्कविद्यौइअधकर्मकृतं चास्ति । न तूपपत्तिकलाभिकमस्ति । यत्तर्हि प्रकृतिजातिस्मरा इति । प्रकृतिजातिस्मरत्वं पूर्वेनिवासानुस्मृत्या सा चोपपत्तौ भवतीति । कथम् । असावुत्पत्तिलाभिका न भवतीत्यभिप्रायः । आह । कर्मविशेषजासौ तेषामिति । तेषां बोधिसत्त्वानां कर्मविशेषनिर्वृत्ता । उपपत्तिलाभिकं हि नाम यदुपपत्तिकाल एव सर्वेषां निसर्गतो लभ्यते । न तु यत्कस्यचिदेवोपपत्तिकालादूर्ध्वं । यथा पक्षिणामाकाशगमनं । तस्मात्कर्मविशेषजासौ तेषां । कथमित्याह । त्रिविधा हीति विस्तरः । भावनाफलं यथोक्तम् । उपपत्तिप्रतिलब्धा देवादीनां । कर्मजा यथा तेषां बोधिसत्त्वानामिति । आचार्ययशोमित्रकृतायामभिधर्मकोशव्याख्यायां सप्तमं कोशस्थानं । (अभिधर्मकोषव्याख्या ६६२) ब्लन्क् (अभिधर्मकोषव्याख्या ६६३) विइइ (समापत्तिनिर्देशो नामाष्टमं कोशस्थानम्) (विइइ ।१, २) सप्तमादनन्तरमष्टमस्य कोशस्थानस्योपन्यासे संबंधं दर्शयन्नाह । ज्ञानाधिकारेणेति विस्तरः । ज्ञानाधिकारेण दशानां ज्ञानानामधिकारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञानादीनां कृतो निर्देशः अन्यस्वभावानां तु [तिब् । ३२९ ] समाध्यादीनां कर्तव्यः । सर्वगुणाश्रयत्वादिति काममारूप्या अपि गुणाश्रया भवन्ति । न सर्वगुणाश्रयाः । ध्यानानि तु सर्वगुणाश्रया इति । द्विधा ध्यानानीति कार्यध्यानानि कारणध्यानानि चेत्यर्थः । शुभैकाग्र्यम् इति । शुभानां चित्तानामैकाग्र्यं । अभेदेनेति । सर्वेषामपि लक्षणानाम् । एतल्लक्षणमत आह । समाधिस्वभावत्वादिति । ध्यानानामिति वाक्यशेषः । अथ वा अभेदेनेति समाधिमात्रग्रहणं । भेदेन पंच स्कंधास्तु सानुगम् इति । अविज्ञप्तिरूपस्कंधः । एकालम्बनता एकालम्बनत्वं चित्तानां । किं पुनः कारणं चैत्तानामप्येकालंबनत्वे एकालम्बनत्वं चित्तानामित्युच्यते । न पुनरेकालम्बनता चित्तचैत्तानामित्युच्यते । प्राधान्यात्चित्तान्येवैकालम्बनानि समाधिरिति । अवस्थाविशेषत्वाच्चित्रगुर्वावत् । वैभाषिक आह । न चित्तान्येव समाधिः । येन तु तान्येकाग्रानि वर्तन्ते समाहितानि । स धर्मः समाधिः । यथा वैशेषिकनये शुक्लगुणयोगाच्छुक्लः पटः । स एव गुणोऽस्य [तिब् । ३२९ ] शौक्लमित्युच्यते । तद्वत् । ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं । किमिदमुच्यते येन तु तान्येकाग्राणि वर्तन्ते । स धर्मः समाधिरिति । द्वितीयस्य तस्मादविक्षेप इति चेत् । यद्येतत्स्याद्द्वितीयस्य चित्तस्य तस्मात्समाधेः (अभिधर्मकोषव्याख्या ६६४) [अविक्षेपः । कस्मिन्नालम्बने] न विक्षेपोऽस्मिन्नालम्बन इति । संप्रयुक्ते समाधिवैयर्थ्यं । यत्प्रथमं चित्तं समाधिसंप्रयुक्तं । तस्मिन् संप्रयुक्ते समाधिवैयर्थ्यं । तत्र कारित्रं समाधिर्न करोति द्वितीये करोतीति कृत्वा । किं च यत एव च कारणात्समाधिरेकाग्रतालक्षणोऽभिप्रेतः । तत एव च कारणात्चित्तानामेकालंबनत्वं किं नेष्यते । किं समाधिना अर्थान्तरभूतेनेत्यभिप्रायः । न । दुर्बलत्वात्समाधेः । न महाभूमिकत्वात्समाधेः सद्भावात्सर्वस्य चित्तस्यैकाग्र्यताप्रसंगः । यच्चित्तं दुर्बलेन समाधिना संप्रयुज्यते । न तदेकाग्रं भवति । यत्पुनर्बलवता । तच्चित्तमेकाग्रमिति । सत्यपि महाभूमिकत्वे समाधेर्न सर्वचित्तानामेकाग्रताप्रसंगः । चित्तान्येवेति विस्तरः । चित्तान्येवैकाग्राणि समाधिर्नार्थांतरभूत इति । तथा ह्यधिचित्तं शिक्षेति । अधिचित्तं शिक्षा कतमा । चत्वारि ध्यानानीति सर्वं । तथा चित्तपरिशुद्धिप्रधानं चत्वार्येव ध्यानानि । इत्युक्तानि । [तिब् । ३३० ] लिखितमिदं सूत्रम् ऋद्धिपादाः समाधयः इत्यत्र । यथा ह्यधिशीलं शिक्षा शीलमेव । न तस्मादन्या । अधिप्रज्ञां च शिक्षा प्रज्ञैव । न तस्या अन्या । एवमधिचित्तं शिक्षा चित्तमेव । न तस्मादन्या । न चित्तव्यतिरिक्तसमाधिरस्तीत्यर्थः । अधिचित्तं हि शिक्षा समाधिरिष्यते । यथा चास्मिन्नेव सूत्रे शीलपरीशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानमित्युक्ते । न शीलपरिशुद्धिः शीलादन्या । एवं दृष्टिपरिशुद्धिः विमुक्तिपरिशुद्धिश्च । तथैव चित्तपरिशुद्धिरपि न चित्तादन्या । चित्तपरिशुद्धिर्हि चतुर्ध्यानलक्षणसमधिरिति । एवं तर्हीति । यदि समाधिस्वभावानि ध्यानानि सर्वसमाधिध्यानप्रसंगः । कुशलक्लिष्टाव्याकृतनामपि समाधीनां ध्यानप्रसंगः । समाधेर्महाभूमिकत्वात् । न । प्रकर्षयुक्त इति विस्तरः । नैतदेवं प्रकर्षयुक्ते समाधौ ध्याननामविधानत् । भास्करवत् । तद्यथा य एव प्रकर्षेण भासं करोति । स एव भास्करः । [तिब् । ३३० ] न खद्योतकादिः । तद्वत् । स हीति विस्तरः । स ह्यंगसमायुक्तः समाधिः शमथविपश्यनाभ्यां युगनद्धाभ्यामिवाश्वाभ्यां रथो वहतीति युगनद्धवाही । तद्भावात्दृष्टधर्मसुखविहार उक्तः सूत्रे । सुखा च प्रतिपदिति । अंगसमायुक्त एव समाधिः । सुखा च प्रतिपदित्युक्त इति वर्तते । सुतरां तेन ध्यायन्ति सुखत्वात् । क्लिष्टय कथं ध्यानत्वमिति । यदि कुशलांगसमायुक्तः समाधिर्ध्यानं । क्लिष्टस्यास्वादनासंप्रयुक्तस्य कथं ध्यानत्वयुक्तम् (अभिधर्मकोषव्याख्या ६६५) इति वाक्यशेषः । त्रिविधं ध्यानम् आस्वादनासंप्रयुक्तं शुद्धकमनास्रवम् इति वचनात् । मिथ्योपनिध्यानादिति । मिथ्यानितीरणादित्यर्थः । अतिप्रसंग इति । कामरागपर्यवस्थितेनापि चेतसा मिथ्योपनिध्यानात्तत्प्रसंगः । न । तत्प्रतिरूप एवेति विस्तरः । नैतदेवमतिप्रसंग इति । तत्प्रतिरूप एव हि नातिबहुविलक्षणे क्लिष्टे ध्यानमिति संज्ञासंनिवेशः । पूतिबीजवत् । यथा किंचिदबीजं पाषाणाद्यत्यन्ततज्जातिविलक्षणं न पूतिबीजमित्युच्यते । किं तर्हि । बीजजातीयमेवोपहतं यद्भवति । तस्मिन्नेव संज्ञासंनिवेशः पूतिबीजमिति । उक्तानि चाकुशलान्यपि ध्यानानीति । स कामरागपर्यवस्थितः [तिब् । ३३१ ] कामरागपर्यवस्थानमन्तरीकृत्वा ध्यायति प्रध्यायतीति विस्तरः । अनेन कामरागादिपर्यवस्थानस्यापि ध्यानत्वे सति न दोष इति दर्शयति । धूमाग्निवदिति । यथा धूमोऽत्रेति धूमवचनेनाग्निरप्युक्तो भवति साहचर्यात् । न विनाग्निना धूमो भवतीति । अनेनैव चाविनाभावित्वेन धूमस्याभ्यर्हितत्वं । यत्र हि धूमः । तत्राग्निः । न तु यत्राग्निः । तत्र धूमः । तथा ह्ययोगुडांगारादिष्वग्निरेव गृह्यते । न धूमः । अस्माच्चाभ्यर्हितत्वाद्धूमस्य पूर्वनिपातो वासुदेवार्जुनवत् । अन्यथा हि द्वंद्वेऽपीत्यग्निशब्दस्य पूर्वनिपातः स्यात् । कथं पुनः साहचर्येण हि प्रीतिसुखवान् विचारो विना वितर्केण नास्ति । यथा ध्यानान्तरविचारः । न प्रीतिसुखवानित्यवितर्कः । नैवमयं विचारः । विशेषितो ह्ययं विचारः । प्रीतिसुखसहपठितः । विचारप्रीतिसुखवद् इति । प्रीतिसुखवता विचारेण प्रीतिसुखेन च संप्रयुक्तं प्रथमं ध्यानमित्यर्थः । यदि पुनर्वितर्कप्रीतिसुखवदिति सूत्रं क्रियेत को दोषः स्यात् । न शक्यमेवं कर्तुं । पूर्वपूर्वांगवर्जितम् इति वक्ष्यति । वितर्कवर्जितं द्वितीयं ध्यानम् [तिब् । ३३१ ] इति ध्यानान्तरमपि द्वितीयं ध्यानं प्राप्नोति । किं च चत्वार्यंगानि प्रथमध्याननिर्देशावसानेऽनेनानुक्रमेणोक्तानि । सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरतीति । तत्र विचारप्रीतिसुखसमाधयः प्रथमे ध्याने भवंति । एभिश्चतुर्भिरंगैर्वितर्केण च सर्वप्रथमोक्तेन पंचांगमुच्यते । द्वितीयं पुनरुच्यते । अवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरतीति । (अभिधर्मकोषव्याख्या ६६६) चतुर्णामेषां पूर्वांगेन विचारलक्षणेन वर्जितमिति । तृतीयमप्येवमुच्यते । स प्रीतेर्विरागादुपेक्षको विहरति विस्तरेण यावत्सुखविहारीति । तृतीयं ध्यानमुपसंपद्य विहरतीति । प्रीतिलक्षणेनापरेणांगेन वर्जितमिति । चतुर्थं पुनरेवमुच्यते । स सुखस्य च प्रहाणाद्विस्तरेण यावददुःखासुखमुपेक्षास्मृतिपरिशुद्दं चतुर्थं ध्यानमुपसंपद्य विहरतीति । सुखेनाप्यंगेन वर्जितं समाधिरेवात्र केवलमवशिष्यत इत्यत एव सूत्रं कृतं विचारप्रीतिसुखवद् इति । (विइइ ।२-४) एषामपि चोपपत्तय उक्ता इति । आरूप्यधातुरस्थान उपपत्त्या चतुर्विध इति वचनात् । अनुपरिवर्तकरूपाभावदिति । ध्यानानास्रवसंवराभावाद्[तिब् । ३३२ ] इत्यर्थः । विवेक इति । विविच्यते अनेनेति विवेकः । येन मार्गेणेति । आनंतर्यमार्गेण विमुक्तिमार्गेणापि वा तदेककार्यत्वात् । वैराग्यगमनादिति । तद्वैमुख्यगमनादित्यर्थः । विभूतरूपसंज्ञाख्या इति । विभूता रूपसंज्ञास्येति विभूतरूपसंज्ञः । विभूतरूपसंज्ञा इत्याख्या एषामिति विभूतरूपसंज्ञाख्याः । साध्यं तावदेतदिति । निकायान्तरीयाः । यदि हि स्याधि स्यादिति वैभाषिकाः । आपिंगलवदिति । यथा ईषत्पिंगल आपिंगलः । एवमीषद्रूपा आरूप्या इति । कथं तदभावे तत्सण्वरौ कायवाक्संवरौ भविष्यतः । न चासति भूते आरूप्यावचरे संवरभौतिकमारूप्यावचरं युज्यते । अनास्रवसंवरवच्चेत् । तत्रैतत्स्यात् । यथा न संत्यनास्रवाणि भूतानि । अस्ति चानास्रवसंवरो भौतिकं रूपम् । एवमिहापि नारूप्यावचराणि भूतानि स्युः । अथ वारूप्यावचरसंवरः स्यात्भौतिकं रूपमिति । तच्च न । सास्रवभूतसद्भावात्सास्रवाणि [तिब् । ३३२ ] भूतानि संति । तान्यारूप्येषु भवेयुः । अनास्रवाणि तु भूतानि न संति । अतोऽनास्रवसंवरो यत्र जातः । तत्रत्यानि सास्रवाण्युपादाय भवतीत्यकल्पनेयमसाम्यात् । समापत्तावपि तत्प्रतिषेध उक्त इति । अनेनैवोपपत्तिरूपप्रतिषेधेन समापत्तावपि रूपप्रतिषेध उक्तो भवति । नात्र यत्नांतरमनुष्ठेयं । कथं । यदि कायवाक्संवरमात्रं । (अभिधर्मकोषव्याख्या ६६७) कथं तदभावे तत्संवरो भविष्यति । न चासति भूते भौतिकं युज्यते । अनास्रवसंवरवच्चेत् । न । सास्रवभूतसद्भावादिति । सर्वशो रूपसंज्ञानां समतिक्रमादिति वचनात् । समापत्तावपि तत्प्रतिषेध उक्त इत्यपरे । तदेवं नारूप्यसमापत्तिषु नारूप्योपपत्तिषु रूपमस्तीति दर्शितं भवति । परिमाणाल्पत्वाच्चेत् । अथ मतं । परमाणुमात्रं रूपमस्ति । अतस्त ईषद्रूपा इष्यन्त इति । उदकजंतुकेष्वप्यणुत्वाददृश्यरूपेषु प्रसंगः आरूप्यप्रसंग इत्यर्थः । अच्छताच्चेत् । तत्रैतद्स्याद्रूपस्याच्छत्वादारूप्या इति । अन्तराभवरूपावचरेष्वपु प्रसंगः । अन्तराभवरूपावचरा हि वज्रमयेष्वपि पर्वतेष्वच्छत्वादसज्जमाना [तिब् । ३३३ ] गच्छंति । तेष्वारूप्यप्रसंगः । समापत्तिवत्तदुपपत्तिविशेषादिति । यथैव ह्याकाशानन्त्यादिसमापत्तयो विशिष्टतमाः । एवमुपपत्तिविशेषोऽपि तासामभ्युपगन्तव्योऽच्छाच्छतरतम इति । अतः समापत्तिवदुपपत्तिविशेषोऽप्यच्छतरतम इति । तदेवारूप्यं स्यात् । यदि चारूप्योपपत्तिरूपस्याधरभूमिकेनेन्द्रियेणाच्छतरत्वादग्रहणमित्यारूप्या उच्यंते । ध्यानोपपत्तिरूपस्यापि चेति विस्तरः । एष संभवो ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेनेन्द्रियेणाग्रहणं । कथं । प्रथमध्यानभूमिकेनेन्द्रियेण द्वितीयभूमिकस्याग्रहणं । एवं यावत्तृतीयध्यानभूमिकेनेन्द्रियेण चतुर्थध्यानभूमिकस्य रूपस्याग्रहणं । ऊर्ध्वभूमिकस्याच्छतरतमत्वात् । तदेवं ध्यानोपपत्तिरूपस्य चाधरभूमिकेनेन्द्रियेणाग्रहणात्कस्तत्र विशेषः । आरूप्यधातौ यदच्छतरतमाभ्यां सामान्येऽपि त एवारूप्या इष्यंग्ते न रूपावचराः । तस्मान्न तत्र रूपं । अथ मतं द्वयोर्धात्वोरन्वर्था संज्ञा । कामगुणप्रभावितः कामधातुः । रूपप्रभावितो रूपधातुरिति । नारूप्यधातोर्[तिब् । ३३३ ] अन्वर्था संज्ञा । किं तर्हि यादृच्छिकी ति । कात्र युक्तिः । द्वयोर्धात्वोरन्वर्था संज्ञा । नारूप्यधातोरिति । युक्त्या प्रतिषिध्य नारूप्यधातौ रूपमस्तीति आगमं परिगृह्याशंकितं वार्यते । तत्र रूपप्रसिद्ध्यार्थमायुरूष्मणोरिति विस्तरः । आरूप्येषु रूपास्तित्वसिद्धिरिति चेदित्येतत्पदं प्रत्येकं योज्यं । कथम् । आयुरूष्मणोः संसृष्टवचनाद्रूपास्तित्वसिद्धिरिति चेत् । तत्रैतत्स्यात्सूत्र उक्तं । यच्चायुष्मन् कौष्ठिल आयुर्यच्चोष्मकं संसृष्टाविमौ धर्मौ । न विसंसृष्टाविति विस्तरः । अतस्तत्रायुषि सत्यूष्मणा भवितव्यं । ऊष्मा च रूपमिति सिध्यति । नडकलापीद्वयवन्नामरूपयोर्(अभिधर्मकोषव्याख्या ६६८) अन्योन्यनिश्रितवचनात् । आरूप्येषु रूपास्तित्वसिद्धिरिति चेत् । सूत्र उक्तं । तद्यथायुष्मन् शारिपुत्र द्वे नडकलाप्यावाकाशे उच्छ्रिते स्यातां । ते अन्योन्यनिश्रिते अन्योन्यं निश्रित्य तिष्ठेयाताम् । तत्र कश्चिदेकामपनयेत् । द्वितीया निपतेत् । द्वितीयामपनयेत् । एका निपतेत् । एवमायुष्मन् शारिपुत्र नामं च रूपं चान्योन्यनिश्रितं । अन्योन्यं निश्रित्य तिष्ठतीति विस्तरः । विज्ञानप्रत्ययं नामरूपमिति वचनात् । तस्मादारूप्येषु रूपास्तित्वसिद्धिरिति चेत् । [तिब् । ३३४ ] प्रतीत्यसमुत्पादसूत्र उक्तं । आरूप्यप्रसिद्धिक्षणे विज्ञानप्रत्ययं नामरूपमिति वचनात्तस्मादारूप्येषु रूपमस्तीति सिध्यति । अन्यत्र रूपादिति विस्तरः । सूत्र उक्तं । रूपोपगं भिक्षवो विज्ञानं तिष्ठति । इति रूपालम्बनरूपप्रतिष्ठं । यः कश्चिद्भिक्षव एवं वदेत् । अहमन्यत्र रूपाद्वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानस्यागतिं वा गतिं वा वदामीति । तस्य तद्वाग्वस्त्वेव स्यादिति । अस्मादपि चागमादारूप्येषु रूपमस्तीति सिध्यत्येवं चेत् । तन्न । संप्रधार्यत्वात् । आहोस्वित्सर्वमिति । कामरूपारूप्यावचरं । अयमत्राभिप्रायार्थः । कामावचरमेवायुः संधायैवमुक्तमिति । तथा ह्युक्तं । आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन इति । न चारूप्यधातौ कायोऽस्ति । कुत एव कायनिधनं । रूपधातौ तु यद्यपि कायोऽस्ति । न तु कायनिधनं प्रज्ञायत इति । यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं । तदपि कामरूपावचरमेव संधायोक्तमिति लक्ष्यते । द्वयसंभवे ह्यन्योन्याश्रितत्वं संभवति । [तिब् । ३३४ ] यच्च विज्ञानप्रत्ययं नामरूपमिति । विज्ञानं प्रत्ययोऽस्येति विज्ञानाप्रत्ययं नामरूपमित्येवं षष्ठीबहुव्रीहिसमासे । किमत्र सर्वविज्ञानं कामावचरसंस्कारप्रत्ययं यावदारूप्यावचरसंस्कारप्रत्ययं नामरूपस्य प्रत्ययः । आहोस्वित्सर्वं नामरूपं विज्ञानप्रत्ययमिति । वयं ब्रूमो विज्ञानप्रत्ययं मामरूपमित्येवं सर्वस्य नामरूपस्य विज्ञानं प्रत्यय इत्यवधार्यते । न तु सर्वं विज्ञानं नामरूपस्य प्रत्यय इत्यवधार्यते । किंचिद्विज्ञानं नाम्न एव प्रत्ययो यदारूप्यावचरसंस्कारप्रत्ययं । किंचिन्नामरूपस्य यत्कामरूपावचरसंस्कारप्रत्ययं । तदिदमुक्तं भवति । प्रत्यय एव विज्ञानमस्य नामरूपस्य । न त्वस्यैव समुदितस्य नामरूपस्य प्रत्यय इति । संभवं प्रत्येवमुच्यते । तथा ह्युपपादुकानां विज्ञानप्रत्ययं षडायतनमेव भवति । न नामरूपमनिष्पन्नषडायतनावस्था हि पंच स्कंधा नामरूपम् (अभिधर्मकोषव्याख्या ६६९) इत्याख्यायन्ते । सूत्रं चैतमेवार्थं द्योतयति । विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदपि तु तन्नामरूपं कललत्वाय संमूर्छेत् । न भदन्त । विज्ञानं चेदानन्दावक्राम्य क्षिप्रमेवापक्रामेदपि तु तन्नामरूपमित्थव्ताय प्रज्ञायेत । [तिब् । ३३५ ] नो भदन्त । विज्ञानं चेदानन्द दहरस्य कुमारस्य कुमारिकाया वा उच्छिद्येत विनश्येन्न भवेदपि तु तन्नामरूपं वृद्धिं विपुलतामापद्येत । नो भदन्त । तदनेनापि पर्यायेण वेदितव्यं । यद्विज्ञानस्य प्रत्ययं नामरूपं । नामरूपप्रत्ययं च विज्ञानमिति विस्तरः । किमत्र सर्वैरेतै रूपादिभिर्विना तत्प्रतिषेध आगतिगतिप्रतिषेधः । तत्र पूर्वस्माल्लोकादंतराभवसंतत्या इहोपपत्तिरागतिः । अंतराभवसंतत्या पुनरस्माल्लोकात्परलोक उपपत्तिर्गतिः । आहोस्विदेकेनापि रूपादीनामन्यतममेव । वयं ब्रूमः । सर्वैर्विना तत्प्रतिषेध इति । अविशेषवचनान्न संप्रधार्यमिति चेत् । स्यादेषा बुद्धिरविशेषेणेदं सूत्रवचनं । यच्चायुष्मन्महाकौष्ठिल आयुरिति विस्तरेण यावद्रूपोपगं विज्ञानं तिष्ठतीत्यनेन सूत्रवचनेन विशेषितं कामावचरं रूपावचरं वायुः संधायोक्तं यावत्सर्वैरेव तैर्विना रूपादिभिस्तत्प्रतिषेध इति । अत्रोच्यते । अस्तिप्रसंगः । बाह्यस्यापि ह्यूष्मण आयुषा विनाभावो न प्राप्नोतीत्यविशेषवचनात् । न ह्येवं विशेषितं यच्चायुष्मन् कौष्ठिल आयुर्यच्चोष्मा आध्यात्मिक इत्यादि । [तिब् । ३३५ ] बाह्यस्यापि च रूपस्य काष्ठकुड्यादेरसत्त्वसंख्यातस्य विज्ञानाश्रितत्वं प्राप्नोत्यविशेषवचनात् । चतुर्विज्ञानस्थितिवच्चेति विस्तरः । यथा चतसृणां विज्ञानस्थितीनामविशेषवचनादारूप्यधातौ तव रूपास्तित्वम् । एवं तवाहारचतुष्कवचनाद्रूपारूप्यधातौ कवडीकाराहारप्रसंगः । एवं हि सूत्रं पठ्यते । चत्वार आहारा भूतानां सत्त्वानां स्थितये संभवैषिणां चानुग्रहाये । कतमे चत्वारः । कवडीकाराहारः औदारिकः सूक्ष्मः । स्पर्शो द्वितीयः । मनःसंचेतना तृतीयः । विज्ञानमाहारश्चतुर्थ इति । एवमाहारचतुष्कवचनात्सत्त्वानां स्थित्यार्थम् अविशेषेण । कामावचराणामित्यविशेषितत्वात्तव रूपारूप्यधात्वोरपि कवडीकाराहारप्रसंगः । अतिक्रम्येति विस्तरः । तत्र निकायान्तरीयस्यैतत्स्यात् । अस्त्यस्योत्सर्गस्यापवाधः । अतिक्रम्य देवान् कवडीकाराहारभक्षानिति वचनात् । उदायिसूत्रादिषु भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहारभक्षानन्यतमस्मिन् दिव्ये मनोमयकाय उपपद्यत इति । प्रीत्याहारवचनाच्चेति । भवति भिक्षवः स समयो यदयं लोकः संवर्तते । संवर्तमाने लोके यद्भूयसा सत्त्वा [तिब् । ३३६ ] आभास्वरे (अभिधर्मकोषव्याख्या ६७०) देवनिकाये उत्पद्यन्ते । तत्र भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्यहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्तीत्येवमादिषु सूत्रेषु वचनादप्रसंगः कवडीकाराहारस्य । यद्येवमारूप्येष्वपि रूपस्याप्रसंगः । किं कारणमपवादात् । कथं । रूपाणां निःसरणमारूप्या इत्येकं सूत्रमपवादः । ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्या इति द्वितीयम् । अरूपिणः सन्ति सत्त्वा इति तृतीयं । सर्वशो रूपसंज्ञानां समतिक्रमादिति चतुर्थम् । सति हि रूप इति । यद्यारूप्यसमापत्त्युपपत्तिषु रूपं स्यात् । सति हि रूपे स्वं रूपमवश्यं संजानीरन्निति सर्वशो रूपसंज्ञानां समतिक्रमादिति वचनं नोक्तं स्यात् । उक्तं तु । अतोऽपि न तत्र रूपमस्ति । औदारिकमिति विस्तरः । तत्रैतत्स्यात् । [तिब् । ३३६ ] औदारिकमधोभूमिकं रूपमभिसंधायोक्तं । ये ते शान्ता विमोक्षा इति विस्तरेण । अत्र ब्रूमः । कवडीकाराहारेऽपि तुल्यं । कथं । अतिक्रम्य देवान् कवडीकाराहारभक्षानित्यौदारिकमधोभूमिकं कवडीकाराहारमभिसंधायोक्तं न रूपावचरं कवडीकाराहारं सूक्ष्ममिति । यदि चाधोभूम्यौदारिकरूपनिःसरणादारूप्या इत्युच्यन्ते । ध्यानानामपि चाधोभूमिनिःसरणत्वादारूप्यत्वप्रसंगः । कथं । कामावचरौदारिकरूपनिःसरणं प्रथमं ध्यानम् । एवमुत्तरोत्तरौदारिकरूपनिःसरणं । यावच्चतुर्थध्यानमित्यारूप्यत्वप्रसंगः । वेदनादिनिःसरणं च किं नोक्तं । यद्यधोभूमिकौदारिकनिःसरणात्सत्यपि स्वभूमिकरूपे आरूप्या इत्युच्यन्ते । वेदनादिनिःसरणादारूप्या अवेदना इति किं नोच्यन्ते । सत्यामपि स्वभूमिवेदनायां । आदिशब्देन यावदविज्ञाना इति किं नोच्यन्ते । सत्यपि स्वभूमिविज्ञान इति । किं कारणम् । अधोभूमिकवेदनादिनिःसरणात् । अधोभूम्यौदरिकवेदनादिनिःसरणातित्यर्थः । रूपजातिं तु कृत्स्नामतिक्रान्ता । [तिब् । ३३७ ] या काचिद्रूपजातिः औदारिकी वा सूक्ष्मा वा आध्यात्मिकी वा बाह्या वा । तां सर्वामतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ । न वेदनादिजातिं न वेदनां सर्वामतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ । अदुःखासुखवेदनास्तित्वात् । आदिशब्देन यावद्विज्ञानं वक्तव्यं । अतो रूपाणां निःसरणमुक्तं । न वेदनादिनिःसरणं । तस्मादेवंवादिनामस्माकं न भवत्ययं प्रसंगः । अधोभूमिकवेदनादिनिःसरणात् । वेदनादिनिःसरणं च किं नोक्तमिति । आह । यदि रूपाणां निःसरणमारूप्याः । यत्तर्ह्युक्तं सूत्रे नाहं भवेन भवस्य निःसरणं वदामीति । तत्कथं रूपभवस्यारूप्यभवेन (अभिधर्मकोषव्याख्या ६७१) निःसरणं । भवेनभवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात् । तेनैव भवेन तस्यैव भवस्यानिःसरणातेवमुक्तम् । असर्वानत्यन्तनिःसरणाच्च । असर्वनिःसरनं । न हि रूपभवेन कामभवस्य निःसरणमिति । आरूप्यभवस्यापि तेन निःसरणं भवति । न चात्यन्तनिःसरणं कामभवात्तेन भवति । पुनरागमनात् । तथारूप्यभवेन [तिब् । ३३७ ] रूपभवस्य निःसरणं । न कामभवस्य । न चात्यन्तनिःसरणं रूपभवानामारूप्यभवेन । उक्तं यथा वर्तत इति । निकायं जीवितं चात्र निश्रिता चित्तसंततिर् इत्यादि । त्रय इति पुल्लिंगनिर्देशः । आरूप्या इत्यभिसंबंधनात् । तथाप्रयोगादिति । प्रयोगकाले आकाशादीन्यालम्बनानि भवन्ति अन्यदा त्वन्येऽपि धर्मा यथासंभवमालम्बनानीति दर्शयति । मांद्यात्तु न संज्ञानाप्यसंज्ञक इति । चतुर्थ आरूप्यः कस्मान्न संज्ञीत्युच्यते । नाप्यसंज्ञ इति । मांद्यात् । तुशब्देन तस्याकारोऽन्तर्नीतरूपो वेदितव्यः । येन हि कारणेन स चतुर्थ आरूप्यो नैवसंज्ञानासंज्ञायतनमित्युच्यते । तदेव कारणमित्युच्यते । मान्द्यादिति । प्रयोगस्त्वस्यैवं सूचितो भवति । अन्वर्थसंज्ञाकरणात् । अत एवाह । यद्यपि तत्राप्येवं प्रयुज्यत इत्यादि । संज्ञा गण्डः गण्डवद्गण्डः । एवं यावच्छल्यः । असंज्ञकः संमोहमिति । संज्ञाया अभावो हि संमोहकारणं । इत्यर्थः । शीयतेति संज्ञासमुच्छेदादित्यभिप्रायः । एतच्छान्तमेतत्प्रणीतं । किं । तदित्याह । यदुत नैवसंज्ञानासंज्ञायतनमिति । संज्ञामान्द्यमभिप्रीयते । अत्र प्रश्नयितव्यम् । कस्मात्तु तैस्तदेवं गृह्यत इति । तैरिति तत्समापत्तिभिः । तदिति नैवसंज्ञानासंज्ञायतनं । [तिब् । ३३८ ] एवं गृह्यत इति नैवसंज्ञानासंज्ञेति गृह्यत इत्यर्थः । तदेवं परिप्रश्ने विगृहीतस्यावश्यमिदं वक्तव्यं जायते । मृदत्वात्संज्ञानां । नैवसंज्नानासंज्ञायतनमुच्यते इत्येतदेवोक्तं । (विइइ ।५, ६) समापत्तिद्रव्याणि मौलानीति । शखास्तेषां नोपनश्यन्त इत्यभिप्रायः । कथं सप्त त्रिविधानीत्याह । आस्वादनवच्छुद्धानास्रवाणीति । अनास्रवं नास्तीति संज्ञमान्द्यात् । यदास्वादयति । तस्माद्व्युत्थित इति । शुद्धकात् । येनास्वादयति । तत्समापन्न इति । आस्वादनासंप्रयुक्तं । (विइइ ।७, ८) यथान्त चतुरङ्गसेना नांगेभ्योऽर्थांतरभूता । एवं पंचांगध्यानं (अभिधर्मकोषव्याख्या ६७२) नार्थान्तरमिति स्वमतं दर्शयति । प्रीत्यादय इति । पूर्वोक्ताः प्रीतिसुखचित्तैकाग्रताः । अध्यात्मसंप्रसादश्चेति । चतुरंगं द्वितीयम् । तृतीये पंच पेक्षेति । संस्कारोपेक्षात्र गृह्यते । या प्रीतिरनाभोगलक्षणा । स्मृतिरुपेक्षानिमित्तस्यासंप्रमोषः । स्मृत्यसंप्रमोषे संप्रज्ञानता संप्रज्ञानं । चतुर्थे उपेक्षापरिशुद्धिः । उपेक्षायाः परिशुद्धिरुपेक्षापरिशुद्धिः । [तिब् । ३३८ ] अधोभूमिकपक्षालविगमात् । अष्टावपक्षाला अपक्षीयन्ते । एवं स्मृतिपरिशुद्धिः । (विइइ ।९) प्रथमध्यानिकानीति । प्रथमध्याने भवानि । अत एवोच्यत इति । यस्माद्द्वितीयादिष्वध्यात्मसंप्रसादादयो वर्धन्ते । कथं । चतुष्कोटिकं । स्यात्प्रथमे ध्याने न द्वितीये । स्याद्द्वितीये न प्रथमे । स्यादुभयोः । स्यान्नोभयोः । एवं सर्वाणि ध्यानांगानि परस्परं योज्यानि । कथं । यान्यंगानि प्रथमे ध्याने । तृतीयेऽपि तानि । चतुष्कोटिकं । प्रथमा कोटिः वितर्कविचारप्रीतिसुखानि । द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि । तृतीया समाधिः । चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः । यान्यंगानि प्रथमे ध्याने । चतुर्थेऽपि तानि । चतुष्कोटिकम् । प्रथमा कोटिर्वितर्कविचारप्रीतिसुखानि । द्वितीया अदुःखासुखा वेदना उपेक्षापरिशुद्धिः । स्मृतिपरिशुद्धिश्च । तृतीया समाधिः । चतुर्थी उक्तनिर्मुक्ता धर्माः [तिब् । ३३९ ] यान्यंगानि द्वितीये ध्याने । तृतीयेऽपि तानि । चतुष्कोटिकं । प्रथमा कोटिरध्यात्मसंप्रसादप्रीतिसुखानि । द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि । तृतीया समाधिः । चतुर्थी उक्तनिर्मुक्तधर्माः । यान्यंगानि द्वितीये ध्याने । चतुर्थेऽपि वा तानि । चतुष्कोटिकं । प्रथमा कोटिरध्यात्मसंप्रसादप्रीतिसुखानि । द्वितीया तदंगानि समाधिं हित्वा । तृतीया समाधिः । चतुर्थी उक्तनिर्मुक्ता धर्माः । यान्यंगानि तृतीये ध्याने चतुर्थेऽपि तानि । चतुष्कोटिकं । प्रथमा कोटीः समाधिवर्ज्यानि तदंगानि । द्वितीयाप्येवं । तृतीया समाधिः । चतुर्थी उक्तनिर्मुक्ता धर्माः । एतच्च तदेकावचरं नाम । कस्मात्तृतीये ध्याने सुखं द्रव्यान्तरमुच्यत इति । कथमुच्यते । तान्येतान्यष्टादशध्यानांगानि भवन्तीति विस्तरेणोक्त्वा पुनराह । नामत एवं । (अभिधर्मकोषव्याख्या ६७३) द्रव्यतो दश चैकं च द्रव्यत एतान्येकादश भवन्ति । प्रथमध्यानिकानि पंच । द्वितीयेऽध्यात्मसंप्रसादो वर्धते । तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानीतिवचनात् । सुखेंद्रिययोगादिति । सुखेंद्रियसंभवात् । नास्त्येव चैतसिकं सुखेंद्रियं त्रिष्वपि हि ध्यानेषु । किं तर्हि । कायिकम् [तिब् । ३३९ ] एव सुखमंगव्यवस्थापितं । समाहितावस्थांतरालसमुदाचारात् । दार्ष्टांतिकानां किलैष पक्षः । तेषां हि न द्विभूमिकमेव सुखेन्द्रियं । कामप्रथमध्यानभूमिकमिति । किं तर्हि । चतुर्भूमिकमपि सुखेन्द्रियं भवति । कामावचरं यावत्तृतीयध्यानभूमिकमिति । अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम् । आभिधार्मिकाणामरघट्टेनेव चक्षुर्विज्ञानादिकमधस्तादूर्ध्वमाकृष्यत इति । तदेवमस्येष्टं भवति । चक्षुर्विज्ञानादिकं द्वितीयादिध्यानभूमिकमपि भवतीति । अध्यारोपित एष पाठ इति । योऽयं चैतसिकमिति पाठः । सुखं च कायेन प्रतिसंवेदयत इति स्वशब्देन वचनाच्चेति । तृतीयध्याननिर्देश एवमुक्तं । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानमान् । सुखं च कायेन प्रतिसंवेदयते । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति । यदि हि तच्चैतसिकं स्यात्कथं तत्कायेन प्रतिसंवेद्येत् । मनः कायेनेति । मनः समुदायेनैवमुक्त्वा । को गुण इति । सुखं च मनसा प्रतिसंवेदयति । सुखं च कायेन प्रतिसंवेदयत इत्येवं वा वक्तव्यं स्यादित्यभिप्रायः । चतुर्थे ध्याने प्रश्रब्धिभूयस्त्वेऽपि सुखावचनाच्चेति । चतुर्थे ध्याने प्रश्रब्धिसुखं भूयो भवति बहुतरं भवति । ध्यानान्तरेभ्यश्चतुर्थस्य प्रश्रब्धतरत्वात् । तद्भूयस्त्वे [तिब् । ३४० ]ऽपि सुखस्यावचनं । चतुर्थे ध्याने सुखं नोच्यते । तस्य सुखस्यावचनात् । वेदनासुखमेव तत्तृतीये ध्याने गम्यते । न चतुर्थे सुखा वेदनास्तीति तत्र नोच्यत इत्यभिप्रायः । सुखवेदनानुकूला प्रश्रब्धिः सुखमिति चेत् । स्यान्मतं । प्रथमद्वितीययोर्ध्यानयोः । सुखवेदनानुकूला प्रश्रब्धिः । तद्द्वयोः सुखमित्युक्त्वा चतुर्थे ध्याने प्रश्रब्धिः सुखवेदनानुकूला न भवतीति नोक्ता । यद्येवं तृतीये प्रश्रब्धिसुखावचनं कस्मात् । तृतीयध्यानप्रश्रब्धिरपि सुखवेदनानुकूला भवति । तत्र प्रश्रब्धिसुखं कस्मान्नोक्तं । वेदनासुखमेव हि तत्र भवद्भिर्व्यवस्थापितं । न प्रश्रब्धिः सुखं । द्विःसुखपाठात् । उपेक्षोपहतत्वादिति चेत् । स्यान्मतं । तृतीये ध्यान उपेक्षा कर्मण्यतालक्षणा भवति । तयोपहता प्रश्रब्धिरिति नोच्यते इति । न । उपेक्षयैव (अभिधर्मकोषव्याख्या ६७४) तद्वृद्धेः । नैतदेवं । उपेक्षयैव तु तत्र तृतीये ध्याने प्रश्रब्धिसुखवृद्धेः । न ह्युपघातहेतुनैव वृद्धिर्युज्यत इति । कथमुपेक्षयैव तद्वृद्धिरित्यतो ब्रवीति । पूर्विकाभ्यां तद्विशेषादिति । पूर्विकाभ्यां हि प्रथमद्वितीयध्यानप्रश्रब्धिभ्यां । [तिब् । ३४० ] तृतीयध्यानप्रश्रब्धिर्विशिष्टा । पूर्विकाभ्यां ध्यानाभ्यां तृतीयस्य विशिष्टत्वात् । यस्मिन् समय इति विस्तरः । यस्मिन् समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरति । पंचास्य धर्मास्तस्मिन् समये प्रहीयन्ते । पंच धर्मा भावनापरिपूरिं गच्छन्ति । अध्यात्मसंप्रसादः प्रीतिः प्रश्रब्धिः सुखं [प्रज्ञा] समाधिश्चेति । प्रश्रब्धिसुखयोरनन्यत्वे कथमेषां पंचत्वं स्यात् । अर्थान्तरत्वे च सति कायिकमेव सुखं त्रिष्वपि ध्यानेष्विति सिद्धं भवति । समापन्नस्य कथं कायविज्ञानमिति । अत्रोच्यते । समाधिविशेषजेन प्रश्रब्धिनाम्ना सुखवेदनीयेन सुखवेदनानुकूलेन वायुना कायस्फरणात्कायध्मापनात् । किं । कायविज्ञानं भवत्येवेति । बहिर्विक्षेपात्समाधिभ्रंश इति चेत् । यदि मन्येत काय्विज्ञानोत्पत्त्या बहिर्विक्षेपाद्बाह्यविषयविक्षेपात्समाधिभ्रंश इति । न । समाधिजस्येति विस्तरः । नैतदेवं भविष्यतीति । कस्मात् । समाधिजस्यांतःकायसंभूतस्याबहिर्जभूतस्येत्यर्थः । कायसुखस्य कायविज्ञानसंप्रयुक्तस्य वेदितसुखस्य समाध्यनुकूलत्वान्नास्मात्समाधिभ्रंश इत्यर्थः । न । [तिब् । ३४१ ] अत एवेति । न कायविज्ञानकाले व्युत्थितः स्यात् । अत एव कारणात्समाध्यनुकूलत्वादित्यर्थः । तत्संमुखीभावान्तरं हि पुनरुपतिष्ठते समाधिरित्यभिप्रायः । कामावचरेण कायविज्ञानेन रूपावचरस्य स्प्रष्टव्यस्याग्रहणाद्रूपावचरमेतत्कायविज्ञानं न कामावचरम् । अत एव तत्संप्रयोगि सुखं ध्यानांगं न सिध्यति । प्रश्रब्धिज्ञानस्योत्पत्तेरिति । रूपावचरस्याः कामावचरेण [कायविज्ञानेन] कायेन्द्रियेण समधिबलाधानतः । तद्धि कायेन्द्रियं समाहितस्य तामवस्थां गतं । यदूर्ध्वभूमिकस्य कायविज्ञानस्याश्रयो भवतीति । अनास्रवे अपीति । स्प्रष्टव्यं च प्रश्रब्धिलक्षणं तदालंबनं च कायविज्ञानं स्प्रष्टव्यकायविज्ञानेऽनास्रवे अपि स्यातां । किं कारणमित्याह । मा भूत्किंचिदंगं सास्रवं किंचिदनास्रवमिति चेत् । यद्येवं मन्येत । कायिकप्रश्रब्धिसंबोध्यंगवचनादिष्टे । यापि कायप्रश्रब्धिः । तदपि प्रश्रब्धिसंबोध्यंगमभिज्ञायै संबोधये निर्वाणाय संवर्तते । यापि (अभिधर्मकोषव्याख्या ६७५) चित्तप्रश्रब्धिर्यावदेव स्प्रष्टव्यानि संबोध्यंगमभिज्ञायै संबोधये निर्वाणाय संवर्तत इति वचनात् । बोध्यंगवचनादिष्टे [तिब् । ३४१ ] स्प्रष्टव्यकायविज्ञाने अनास्रवे इति । बोध्यंगानुकूलत्वादिति चेत् । अथैवं परिह्रियेत । यस्मात्कायिकी प्रश्रब्धिर्बोध्यंगानुकूला । तस्माद्बोध्यंगमित्युपचर्यते न तु बोध्यंगमिति । अनास्रवत्वमप्येवं । अनास्रवत्वानुकूलत्वात्ते स्प्रष्टव्यकायविज्ञाने अनास्रवे इत्युपचर्येते । न त्वनास्रवे एवेति । एवमनयोरनास्रवत्वं । सास्रवा धर्मा इति विस्तरः । सास्रवा धर्माः कतमे । यावदेव चक्षुर्यावन्ति एव रूपाणि यावदेव चक्षुर्विज्ञानं । यावद्यावानेव कायो यावन्त्येव स्प्रष्टव्यानि यावदेव कायविज्ञानमिति । अस्य सूत्रस्य विरोध इति एवं चेन्मन्येत । तन्न । अन्यस्प्रष्टव्यकायविज्ञानाभिसंधिवचनात् । तत्प्रश्रब्धिव्यतिरिक्तानां स्प्रष्टव्यानां कायविज्ञानव्यतिरिक्तानां च कयविज्ञानानामभिसंधिवचनात् । न चानास्रव इति विस्तरः । नन्वनास्रवेऽनास्रववव्यवस्थाने किंचिदंगं सास्रवं किंचिदनास्रवं स्यादिति । यद्येष दोष इति मन्येत । तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात् । तदितरस्यानास्रवत्वात् । अत्रोच्यते । अयौगपद्यात्को दोष इति । [तिब् । ३४२ ] यदा सास्रवमंगं समुदाचरति । न तदानास्रवं समुदाचरति । यदानास्रवमंगं । न तदा सास्रवमित्यदोष एषः । सुखप्रीत्यसमवधानात् । सुखस्य कायिकस्य प्रीतेश्च मानस्याः असमवधानादयौगपद्यात् । न पंचांगं प्रथमं ध्यानं स्यादिति चेत् । यद्येवं मन्येत । न स दोषः । कस्मात् । संभवं प्रत्युपदेशाद्वितर्कविचारवत् । यथा सवितर्कं सविचारं प्रथमं ध्यानमिति पर्यायेण वितर्कविचारौ भवतः । एवं सुखप्रीती अपि संभवं प्रत्युपदेशाददोष एष इति । साध्यमिति चेत् । वितर्कविचारौ पर्यायेण भवत इति साध्यमिति । आह । सिद्धं । कथमित्याह । वितर्कविचारयोर्विरोधादिति । यद्यौदारिकता चित्तस्य । सूक्ष्मता नास्ति । यदि सूक्ष्मता । औदारिकता नास्तीति । विरोधाद्वितर्कविचारयोरयौगपद्यं । दोषवचनाच्चेति । आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्या भवाग्राद्वितर्कविचारौ स्यातामित्यादि । केषांचित्पाठो भवति दोषावचनाच्चेति । अस्मवधानेन च न कश्चिद्दोष उच्यत इत्यर्थः । द्वित्रिचतुरंगापकर्षेणेति । द्व्यङ्गापकर्षेण द्वितीयध्यानव्यवस्थानं । तत्र वितर्कविचारयोरभावत् । [तिब् । ३४२ ] त्र्यंगापकर्षेण तृतीयध्यानव्यवस्थानं । तत्र प्रीतिरपि नास्तीति । चतुरंगापकर्षेण (अभिधर्मकोषव्याख्या ६७६) चतुर्थध्यानव्यवस्थानं । तत्र सुखमपि नास्तीति । न तु संज्ञादीनामंगत्वमुक्तमिति । न हि संज्ञादीनां ध्यानान्तरेष्वपकर्सोऽस्तीति । किमर्थं पंचानामेवांगत्वं । यद्ययमर्थो नाभिप्रेत इति । यद्युपकरत्वात्पंचानामेवांगत्वं । तन्न । वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरुपकरत्वात् । न हि । तथा वितर्कविचारावुपकरौ यथा स्मृतिप्रज्ञे इष्टे । सूपस्थितस्मृतेर्यथाभूतंप्रजानतो लयौद्धत्याद्यभावतः । तस्माद्विचार्यमेतदिति । योगाचारभूमिदर्शनेन विचार्यमेतदिति तत्र कौतूहलं पातयत्याचार्यः । अयं चात्रार्थसंक्षेपो द्रष्टव्यः । किं पुनरधिकृत्य वितर्कादय एवांगत्वेन व्यवस्थापिताः सत्स्वन्येषु धर्मेषु । तावद्भिः । प्रतिपक्षानुशंसतदुभयाश्रयांगपरिसमाप्तेः । आरूप्येष्वंगव्यवस्थानं नास्ति । शमथैकरसतामुपादाय । तदुक्तं प्रतिपक्षांगमुपदाय । अनुशंसाङ्गमुपादाय । तदुभयसंनिश्रयांगं चोपादाय । प्रथमे तावद्ध्याने वितर्को विचारश्च प्रतिपक्षांगं । तभ्यां कामव्यापादविहिंसावितर्कप्रहाणात् । प्रीतिः सुखं चानुशंसांगं । [तिब् । ३४३ ] वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात् । चित्तैकाग्रता तदुभयसंनिश्रयांगं । संनिश्रयबलेन वितर्कादिप्रवृत्तेरिति । तथा द्वितीये ध्यानेऽध्यात्मसंप्रसादः प्रतिपक्षांगं । तेन वितर्कविचारप्रतिपक्षणात् । प्रीतिसुखे चित्तैकाग्रता च शेषे अंगे पूर्ववत् । तृतीये ध्याने उपेक्षास्मृतिसंप्रजन्यं च प्रतिपक्षांगः । तैः प्रीतिप्रतिपक्षणात् । सुखं चित्तैकाग्रता च शेषे अंगे यथाक्रमं पूर्ववत् । चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षांगं । ताभ्यां ध्यानेषु सुखप्रतिपक्षणात् । अदुःखसुखा वेदना अनुशंसांगं । चित्तैकाग्रता तदुभयसंनिश्रयांगमिति । श्रद्धा प्रसाद इति । श्रद्धैव प्रसादः श्रद्धाप्रसादः । कथमसति द्रव्यान्तरत्वे चैतसिकत्वमिति । वितर्कादीनां । अवस्थाविशेषोऽपि हि नाम चेतसश्चैतसिको भवति । चेतसि भवत्वात् । पर्येषकमनोजल्पावस्था वितर्कः । प्रत्यवेक्षकमनोजल्पावस्था विचारः । वाक्समुत्थापिकावस्था चित्तस्य वितर्कः । तदन्यावस्था विचार इति भगवद्विशेषः । अविक्षिप्तावस्था समाधिः । [तिब् । ३४३ ] प्रशान्तवाहितावस्था चित्तस्याध्यात्मसंप्रसाद इति । न वै सुखं ध्यानेषु सौमनस्यं युज्यत इति । तुल्यसुखवेदनास्वाभाव्ये मानसत्वेऽपि सति । कस्मात्सौमनस्यं सुखमिति नोच्यते । अस्ति (अभिधर्मकोषव्याख्या ६७७) कारणं । इयं हि प्रीतिरनुपशांता । तया हि तत्समाहितमपि चित्तं क्षिप्यत इवोन्नम्यत इव सामोदं सहासं विप्लुतमिव व्यवस्थाप्यते । तद्यदोपशांतं भवति । तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुखमित्युच्यते । (विइइ ।१०) क्लेशाविविक्तत्वादिति । तद्भूमिकैः क्लेशैरविविक्तत्वादित्यर्थः । क्लेशाविलत्वादिति । क्लेशैरप्रसन्नत्वादित्यर्थः । क्लिष्टसुखसम्भ्रमितत्वादिति । क्लिष्टेन सुखेन संभ्रमितत्वात् । स्मृतिः संप्रजन्यं च न भवतः । क्लेशमलिनत्वादिति । तद्भूमिकैः क्लेशैर्मलिनत्वात् । उपेक्षायाः स्मृतेश्च परिशुद्धिर्नास्ति । कुशलमहाभूमिकत्वादनयोरिति । प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके पठिते । श्रद्धाप्रमादः प्रश्रब्धिरुपेक्षा ह्रिरपत्रपा मूलद्वयमहिंसा च वीर्यं च कुशलं सदेति वचनात् । किं पुनरेते पूर्वस्मिन् पक्षे क्लिष्टेष्वपि ध्यानेषु भवतः । न च भवत इत्याह । कस्मादेतन्नोक्तं । अनुक्तसिद्धत्वात् । कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोरपरिग्रहाद्भवत एव ते इत्यपरे । (विइइ ।११) श्वासे इति । [तिब् । ३४४ ] आश्वासप्रश्वासौ । द्वित्वप्रदर्शनार्थं चात्र द्विवचननिर्देशः । वितर्कविचारप्रीतिसुखैरकंपनीयत्वादिति । यथा पूर्वकाणि त्रीणि ध्यानानि वितर्कादिभिः । कंप्यते प्रथमं ध्यानं वितर्कविचाराभ्यां कंप्यते । द्वितीयं प्रीत्या । तृतीयं सुखेन । नैवमेभिश्चतुर्थं कंप्यते । यथा निवाते दीपो न कंप्यते वायुना । तद्वदित्युक्तं सूत्र इत्यपर आहुः । अष्टापक्षालमुक्तत्वात् । (विइइ ।१३) आद्याप्तम् इति । आद्यध्यानसंगृहीतं । निर्माणचित्तवदिति । यथाधरभूमिकं निर्माणचित्तं तद्भूमिकं निर्माणं निर्मातुकामा निर्मातारः संमुखीकुर्वन्ति । तद्वत् । न कुशलं हीनत्वादिति । तद्धि प्रथमध्यानभूमिकं कुशलं द्वितीयध्यानभूमिकान्निहीनं निकृष्टम् । अतो न संमुखीकुर्वन्ति । प्रयोजनेन हि ते प्रथमध्यानभूमिकं संमुखीकुर्वन्ति । न बहुमानेन । सविपाकं च तत्कुशलं । न च तद्विपाकेन तेऽर्थिन इति कुशलचित्तसंमुखीकरणे यत्नं न कुर्वन्ति । (विइइ ।१४) वैराग्येणोपपत्तित इति । वैराग्येणोपपत्तितो वेति । वाशब्दो लुप्तनिर्देशः । अधोभूमिवैराग्याद्(अभिधर्मकोषव्याख्या ६७८) वा असमन्वागतस्तेन शुद्धकं प्रतिलभते ध्यानमारूप्यं वा । कामवैराग्यात्प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारमन्यत्र निर्वेधभागीयात् । एवं यावदाकिंचन्यायतनवैराग्याद्[तिब् । ३४४ ] भवाग्रं प्रतिलभते । अधोभूम्युपपत्तितो वा । उपरिष्टादधरायां भूमावुपपद्यमानस्तल्लभते । अन्यत्र भवाग्रादिति । तस्याधोभूमिवैराग्यत एव लाभः । प्रयोगतो निर्वेधभागीयमिति । तस्य वैराग्योपपत्तिकृतः स लाभो न भवति । परिहाणितोऽपि हानभागीयमिति । स्थितिभागीयात्परिहीयमाणो हानभागीयं लभते । अत एवोच्यत इति । यस्मात्परिहीणो पि हानभागीयं लभते । एवं परिहाण्या चोपपत्त्यापि चेति योज्यं । कथं । स्याच्छुद्धकं परिहाण्या लभेत परिहाण्या विजह्यात् । स्याच्छुद्धकं ध्यानमुपपत्त्या लभेत उपपत्त्या विजह्यादिति । आह । स्यात् । कथमित्याह । हानभागीयं प्रथमं ध्यानमिति । ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकं । विशेषेण ब्रह्मलोके उपपद्यमान इति वचनात् । ब्रह्मलोकवैराग्येण त्यज्यत इति । यस्मात्प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात् । तद्भूमिकक्लेशमिव त्यजति । अतो ब्रह्मलोकवैराग्येण त्यज्यत इत्युच्यते । एवं तावत्प्रथमस्य प्रश्नस्य विवर्जनं । ब्रह्मलोकवैराग्यपरिहाण्या लभते । यदि ब्रह्मलोकवैराग्यपरिहाण्या परिहीयते पुनस्तद्धानभागीयं प्रतिलभते । तद्भूमिकक्लेशवत् । [तिब् । ३४५ ] कामधातुवैराग्यपरिहाण्या त्यज्यते । यदा कामधातुवैराग्यात्परिहीयते । तदा शुद्धकं त्यज्यते । उपरिष्टाद्ब्रह्मलोक उपपद्यमानो लभत इति । द्वितीयादिभ्यो ब्रह्मलोक उपपद्यमानो हानभागीयं तद्भूमिकक्लेशवदेव लभते । तस्मात्कामधातावुपपद्यमानो विजहातीति । तस्माद्ब्रह्मलोकात्कामधातावुपपद्यमानो विजहातीति । इन्द्रियसंचारतोऽपि शैक्षाशैक्षमिति । श्रद्धाविमुक्तो दृष्टिप्राप्तायां शैक्षं लभते । समयविमिक्तोऽप्यकोप्यप्रतिवेधे अशैक्षं लभते । नावश्यम् । आनुपूर्विकेनालाभादिति । यद्यानुपूर्विकोऽनागम्यसंनिश्रयेण नियाममवक्रामति न लभते । (विइइ ।१५, १६) स्वभूमिके शुद्धानास्रवे इति । व्युत्थानकाले प्रवाहे च । द्वितीयतृतीयध्यानभूमिके चेति । मिश्रकामिश्रकानुलोमसमापत्तौ व्युत्क्रान्तकसमापत्तौ च । सप्त स्वभूमिके शुद्धकानास्रवे इति । पूर्ववद्विज्ञानाकाशानंत्यायतनभूमिके च । तथैव प्रतिलोमसमापत्तौ । भवाग्रं शुद्धकमेवानास्रवाभावादिति । मांद्यादनास्रवं नास्तीत्युक्तं । अनुलोमसमापत्तौ तु व्युत्थानकाले तद्भवति । तृतीयचतुर्थप्रथमध्यानभूमिके चेति । अमिश्रकमिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालेषु । [तिब् । ३४५ ] (अभिधर्मकोषव्याख्या ६७९) आकाशानंत्यायतनचतुर्थध्यानभूमिकानि चत्वारीति । तेष्वेव कालेषु । त्रीणीत्यनास्रवाभावात् । एवमन्यध्यानारूप्यादनंतरं दश द्रव्याणि योज्यानीति । तद्यथा तृतीयध्यानादनन्तरं दश । स्वभूमिके द्वे शुद्धकानास्रवे । चतुर्थध्यानाकाशानंत्यायतनभूमिकानि चत्वारि । तथैव च प्रथमद्वितीयध्यानभूमिकानि चत्वारीति । चतुर्थध्यानादनन्तरं दश । स्वभूमिके द्वे शुद्धकानास्रवे । आकाशविज्ञानानंत्यायतनभूमिकानि चत्वारि । द्वितीयतृतीयध्यानभूमिकानि चत्वारीति । आकाशानंत्यायतनादनन्तरं दश । स्वभूमिके द्वे । विज्ञानाकिंचन्यायतनभूमिकानि चत्वारि । तृतीयचतुर्थध्यानभूमिकानि चत्वार्युत्पद्यन्त इत्येवं दश भवन्ति । अन्वयज्ञानानन्तरं चेति विस्तरः । इदं व्युत्पाद्यते । ऊर्ध्वाधरभूम्यालंबनत्वाद्ध्यानानमस्ति प्रसंग इति कृत्वा । तस्याधराश्रयालम्बनत्वादिति । यमात्तद्धर्मज्ञानमधराश्रयकामधात्वाश्रयमधरालम्बनं कामदुःखाद्यालम्बनं । तस्याधराश्रयालम्बनत्वान्न धर्मज्ञानानन्तरमारूप्यान् समापद्यन्ते । शेषं यथैवानास्रवादिति । स्वभूमिके च शुद्धानास्रवे उत्पद्येते । ऊर्ध्वादधोभूमिके च [तिब् । ३४६ ] यावत्तृतीयादिति । प्रणिधायेति विस्तरः । यदि कश्चिदेवं बुद्धिमुत्पाद्यार्धरात्रे चन्द्रोदये चन्द्रास्तमये वा मया प्रबोद्धव्यमिति स्वपेत् । स पूर्वाभिप्रायानुवर्तनात्संतततेः तस्मिन्नेव काले प्रबुध्यते । यथास्यैवं प्रणिधाय सुप्तः । तस्याभिप्रेते काले प्रबोधो भवति । तद्वदेतत् । सर्वथा नोत्पद्यत इति । नापि स्वभूमिकं नाप्यधरभूमिकमुत्पद्यत इत्यर्थः । समापत्तिकालं प्रत्येतदुक्तमिति । शुद्धकात्क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति । कथं । तथा शुद्धात्क्लिष्टं वापि स्वभूमिकं । क्लिष्टात्स्वं शुद्धकं क्लिष्टमित्येवं । च्युतिकाले तु मरणभवे । उपपत्तिलाभिकाच्छुद्धकादिति विस्तरः । उपपत्तिध्यानेषु यदुपपत्तिलाभिकं कुशलसमाहितं । तदपि शुद्धकं ध्यानमित्युच्यते । अत इदमुच्यते । च्युतिकाले त्व् इति विस्तरेण । किं कारणं । असमाहितत्वान्मरणभवस्य । न हि तदानीं शुद्धकं समापत्तिध्यानमस्तीति । अतः सर्वभूमिकं क्लिष्टमुत्पद्यत इति । स्वभूमिकाधरोर्ध्वभूमिकं प्रतिसंधिचित्तं क्लिष्टमसमाहितमुत्पद्यत इत्यर्थः । नोर्ध्वभूमिकं । क्लिष्टसद्भावे सति तत्रोपपत्त्यसंभवात् । (अभिधर्मकोषव्याख्या ६८०) (विइइ ।१७, १८) अन्यत्र विशेषभागीयाद्[तिब् । ३४६ ] इति । इत ऊर्ध्वभूम्यभावात् । तस्मादनास्रवमुत्पद्यत इति निर्वेधभागीयात् । हानस्थितिभागीये इति । हानभागीयं प्रवाहकाले । स्थितिभागीयं विशेषगमनकाले । अन्यत्र हानभागीयादिति । विशेषभागीयाद्धीयमानस्य स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात् । तदेवैकमिति । तदेव निर्वेधभागीयं प्रवाहयोगेन । (विइइ ।१९) आकृष्टा इत्यनुक्रमेणेति । अनुलोमानुक्रमेण प्रतिलोमानुक्रमेण च । (विइइ ।२०) विधीयत इति क्रियत इत्यर्थः । स्थाप्यत इति वा । किं कारणं । निहीनत्वात् । आर्याकिंचन्यसांमुख्याद् इति । आर्यमनास्रवं । अनास्रवस्याकिंचन्यायतनस्य सांमुख्यात्संमुखीभावात् । भवाग्रे जातस्यास्रवप्रहाणं भवति । तुशब्दोऽपवादार्थं द्योतयति । स्वस्याभावादिति । भावाग्रिकस्यानास्रवस्य मार्गस्याभावादित्यर्थः । तस्य चाभ्यासादिति । तस्याकिंचन्यायतनस्यानास्रवस्याभ्यासात्संनिकृष्टत्वात् । (विइइ ।२१) तृष्णापरिच्छिन्नत्वाद्भूमीनामिति । या यस्यां भूमौ । तस्यामेव भूमावनुशयनात् । तया सा भूमिः परिच्छिन्ना भवति । अन्यथा हि तस्योत्तरत्वमेव न सिध्येदेकभूमिस्थानान्तरवत् । अत एवौत्तराधर्येऽपि स्थानान्तराणां त्रयाणां त्रयाणामष्टानां [तिब् । ३४७ ] चैकभूमिता सिध्यति । तृष्णाव्यतिहारयोगात् । नानास्रवं कुशलत्वप्रसंगादिति । तत्प्रार्थना हि कुशलो धर्मच्छन्द इति । न मौलाः कुशलारूप्याः सास्रवाधरगोचरा इति । मौलग्रहणं सामन्तकनिरासार्थं । आरूप्यसामन्तकानि ह्यधरां सास्रवां भूमिमालंबते । कुशलग्रहणमास्वादनासंप्रयुक्तनिरासार्थं । उभयकुशलग्रहणार्थं च । यदि ह्यारूप्या इत्येवोच्येत आस्वादनासंप्रयुक्ता मौला आरूप्या न सास्रवाधरगोचरा इति संभाव्येरन् । अनास्रवा एवारूप्या एवमिति गृह्येरन् । आरूप्यग्रहणं ध्याननिरासार्थं । ध्यानानि हि मौलानि अपि सास्रवाधरवस्त्वालम्बनानि भवन्ति । समन्तालोचनत्वाद्ध्यानानां । सास्रवग्रहणमनास्रवनिवृत्त्यार्थम् । अनास्रवा ह्यधरा धर्मा मौलानां कुशलानामारूप्यानामालम्बनानि संभवन्ति । अधरग्रहणमूर्ध्वविशेषणार्थं । ऊर्ध्वभूमिकसास्रवालम्बनसंभवात् । अनास्रवं त्वालम्बनमित्युद्ग्राह्य दर्श्यति सर्वान्वयज्ञानपक्ष इति । सर्व इति नवभूमिक इन्द्रियगोत्रादिभेदाभिन्नोऽपि गृह्यते । अन्वयज्ञानपक्ष इति पक्षग्रहणेन दुःखाद्यन्वयज्ञानक्षान्तयः तत्सहभुवश्(अभिधर्मकोषव्याख्या ६८१) च गृह्यन्ते । [तिब् । ३४७ ] न धर्मज्ञानपक्षः । कामदुःखाद्यालम्बनत्वेन विप्रकृष्टत्वात् । नाधोभूमिनिरोधः । अधोभूमिग्रहणप्रसंगादिति । व्याख्यातमेतत्पुरस्तात् । (विइइ ।२२) अनास्रवेण हीयन्ते क्लेशा इति । ध्यानारूप्याणां योऽनास्रवः संभवति । तेन यथासंभवं क्लेशाः प्रहीयन्ते । कतमेनानास्रवेण मौलेन । वक्ष्यते हि सामन्तकेन चेति । अपवादरूपेण सामन्तकेन शुद्धकेन क्लेशाः प्रहीयन्त इत्यधिकृतं । कुत एव क्लिष्टेनेति । क्लिष्टेन क्लेशप्रहाणं नैव संभवतीत्यभिप्रायः । किं कारणं शुद्धकेन क्लेशा न प्रहीयन्त इत्याह । वीतरागत्वान्नाध इति विस्तरः । अधरभूमिवीतरागत्वान्न शुद्धकेनाधरभूमिकाः प्रहीयन्ते । कुत एव क्लिष्टेन । तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ । तस्यैव प्रथमध्यानस्य यावन्नैवसंज्ञानासंज्ञायतनस्य । तदप्रतिपक्षत्वात्तस्याप्रतिपक्षस्तदप्रतिपक्षः । तद्भावः । तस्मात् । तदप्रतिपक्षत्वान्न स्वभूमौ क्लेशाः प्रहीयन्ते । न हि भवेन भवस्य निःसरणमस्ति । विशिष्टतरत्वान्नोर्ध्वमिति । नोर्ध्वभूमिकाः [तिब् । ३४८ ] क्लेशाः अधरभूमिकेन शुद्धकेन प्रहीयन्ते । विशिष्टतरत्वात्क्लेशानां । न च न्यूनमाश्रित्य विशिष्टानां प्रहाणं युज्यते । इत्यनेन शुद्धकेनापि क्लेशा न प्रहीयन्ते । कुत एव क्लिष्टेनेति सिद्धमेतत् । शुद्धकेनापीत्यपिशब्दादनास्रवेणापीति । संभवतस्त्वेतदुक्तं । अत एवोच्यते । अधोभूमिप्रतिपक्षत्वातिति । कामावचरा हि क्लेशाः प्रथमध्यानसामन्तकेन प्रहीयन्ते । प्रथमध्यानभूमिका द्वितीयध्यानसामन्तकेन । एवं यावदाकिंचन्यायतनभूमिका नैवसंज्ञानासंज्ञायतनसामन्तकेनेति । (विइइ ।२२) येन तत्प्रवेश इति । येन सामन्तकेन तेषां मौलानां ध्यानारूप्याणां प्रवेशः । किं तान्यपि त्रिविधानीति । आस्वादनासंप्रयुक्तादिभेदात् । तथैव च तेषु वेदनेति । प्रथमयोर्ध्यानयोः प्रीतिः । तृतीये सुखं । चतुर्थ उपेक्षेत्युक्तं । किमेवं सामन्तकेषु । उपेक्षेन्द्रियसंप्रयुक्तानि च यत्नवाह्यत्वादिति । अनाभिसंस्कारवाही मार्गः प्रीतिसुखाभ्यां संप्रयुज्यते । तानि च सामन्तकानि यत्नवाह्यानि साभिसंस्कारवाह्यानीत्यत उपेक्षेन्द्रियसंप्रयुक्तानि । [तिब् । ३४८ ] पुनरधोभूम्युद्वेगानपगमात्प्रीतिसुखयोरयोग इति । अतोऽप्युपेक्षेन्द्रियसंप्रयुक्तानि । वैराग्यपथत्वाच्च । नास्वादनासंप्रयुक्तानीति । यदि ह्यास्वादनासंप्रयुक्तानि स्युर्वैराग्यमार्गो न स्यात् । न हि तृष्णासंप्रयुक्तो मार्गः क्लेशप्रहाणाय (अभिधर्मकोषव्याख्या ६८२) भवति । अथ वायमभिसंबन्धः । उपेक्षेंद्रियसंप्रयुक्तानि च यत्नवाह्यत्वात् । अधोभूम्युद्वेगानपगमाद्वैराग्यपथत्वाच्चेति द्वाभ्यां कारणाभ्यां नास्वादनासंप्रयुक्तानीति । पूर्ववद्वक्तव्यं शेषं । यद्यपि सामन्तकचित्तेन संधिबन्ध इति । अष्टास्वपि ध्यानारूप्येषु यस्य यत्सामन्तके । तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन संधिबन्ध इत्येष सिद्धान्तः इति । अत इदमुच्यते । यद्यपि सामन्तकचित्तेनेति विस्तरः । आस्वादनासंप्रयुक्तमप्यनागम्यमिति । अनागम्यस्य पटुत्वात् । यथा हि तदनास्रवमपि संभवति । तथास्वादनासंप्रयुक्तमपीत्यभिप्रायः । मौलप्रतिस्पर्धित्वादास्वादनासमुत्पत्तिसद्भावादिति आचार्यसंघभद्रः । (विइइ ।२३) ध्यानविशेषत्वादिति । तदेव मौलं प्रथमं ध्यानं वितर्कापगन्माद्विशिष्टं [स] ध्यानान्तरमित्युच्यते [तिब् । ३४९ ] इत्यर्थः । विशेषाभावादिति । यथा प्रथमे ध्याने विशेषो भवति । क्वचिद्वितर्कविचारौ । क्वचिद्विचार एवेति । न तथा द्वितीयादिष्विति । अतो ध्यानेषु न व्यवस्थाप्यते ध्यानान्तरम् । अत एव दुःखा प्रतिपदिति । अत एव हि संस्कारवाहित्वात् । वितर्कमात्रप्रतिषेधादिति । अतर्कं ध्यानमन्तरं इति वचनात् । (विइइ ।२४, २५) तदालम्बनः समाधिरानिमित्त इति । अनिमित्ते भव आनिमित्तः । दशाकार इति । अनित्यदुःखाकारौ द्वौ । समुदयाकारश्चत्वारो मार्गाकारश्चत्वार इत्येते दशाकाराः । अनित्यदुःखतद्धेतुभ्य उद्वेगादिति । अनित्याद्दुःखात्तद्धेतोश्च । तस्य दुःखस्य हेतोश्च समुदयादुद्वेगात् । किं । अप्रणिहितः । अकृतसंस्कार इत्यर्थः । मार्गस्य कोलोपमतयावश्यत्याज्यत्वात् । कोल उच्यते उडुपः । स उपमास्येति कोलोपमः । मार्गः । तद्भावः । तया । कोलोपमतया मार्गस्यावश्यत्याज्यत्वं । तस्मादप्रणिहित इत्यधिकृतः । यथा हि कोलमाश्रित्य नदीमुत्तरन्न कोलनिष्ठो भवति । तस्यावश्यत्याज्यत्वात् । एवं मार्गमाश्रित्य न मार्गनिष्ठो भवति । तस्यावश्यत्याज्यत्वात् । तदाकार इति । तद्दशाकारो [तिब् । ३४९ ] यथोक्तः । तदतिक्रमाभिमुखत्वादिति । तस्य मार्गस्यातिक्रमेऽभिमुखत्वात् । अनेनावश्यत्याज्यत्वमस्य दर्शयति । अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्यनुक्तमप्येतद्गम्यत एव । शून्यतानात्मताभ्यां तु नोद्वेग इति । शून्यानात्माकाराभ्यां तु नोद्वेगो योगिनो भवति । यद्यपि हि दुःखसत्यं शून्यानात्माकाराभ्यामाकार्यते । न तु ताभ्यां तस्माद्दुःखादुद्वेगः । कस्मात् । निर्वाणसामान्यात् । निर्वाणमपि शून्यानात्मलक्षणं । शून्यतानात्मते हि सर्वधर्माणां लक्षणम् (अभिधर्मकोषव्याख्या ६८३) इति । न च ताभ्यां तस्मान्निर्वाणादुद्वेगः । तस्मान्न तदाकारोऽप्रणिहितसमाधिरिति । लौकिका एकादशस्विति । कामधातावनागम्ये ध्यानान्तरे ध्यानारूप्येषु चेति । यत्र मार्ग इति । कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु भूमिषु । मोक्षद्वारत्वादिति । द्वारार्थो मुखार्थ इति दर्शयति । (विइइ ।२५, २६) शून्यताद्यालम्बनत्वात्तन्नामेति । शून्यताप्रणिहितानिमित्तालम्बनत्वात् । शून्यताशून्यतेति नाम । अप्रणिहिताप्रणिहितेति । आनिमित्तानिमित्त इति च । शून्यतश्चाप्यनित्यत इति । यथासंख्येन । शून्यताशून्यता [तिब् । ३५० ] हि शून्यताकारेणाशैक्षं शून्यतासमाधिमालम्बते नायमात्मीयमिति । नानात्माकारेण । आह । किमत्र कारणं यच्छून्यताशून्यतासमाधिः शून्यताकार एव । न पुनरनात्माकारोऽपि शून्यतावदिति । अत्रोच्यते । शून्यताकारप्रवृत्तशून्यतापृष्ठोत्पाद्यत्वात् । आह । किमर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठेनोत्पत्तिर्न पुनरनात्माकारप्रवृत्तशून्यतापृष्ठेनेति । अत्रोच्यते । तदुत्पत्त्यानुकूल्यात् । स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस्तस्य शून्यताशून्यतासमाधेरुत्पत्तावानुकूल्येनावतिष्ठते । नानात्माकारः । न ह्येवमनात्मदर्शनमुद्वेजयति यथा शून्यदर्शनं । दृष्टेष्वपि ह्यनात्मतो भवेष्वभिरतिरस्ति संसारे शून्यदर्शनाभावात् । तद्यथाध्वगस्यासंबंधादध्वगदर्शनादपि प्रीतिः । एकाकिनस्तु तच्छून्यत्वादप्रीतिरिति । तद्वत् । अनित्याकारेणेति । दशानामाकाराणां । न दुःखत इति विस्तरः । न दुःखत आकारयंत्यनास्रवस्यातल्लक्षणत्वात् । आर्यप्रतिकूलतया हि दुःखमिष्यते । न हेतुसमुदयप्रभवप्रत्ययाकारैरनास्रवस्यातल्लक्षणत्वादेवानास्रवस्यासमुदयादिलक्षणत्वादित्यर्थः । न मार्गाकारैर्[तिब् । ३५० ] दूषणीयत्वादिति । सोऽशैक्षः समाधिर्दूषयितव्यो न च मार्गाकारा दूषणरूपा इति । अतो न मार्गाकारैस्तं समाधिमालम्बते । निरोधाकारैस्तु नैव सम्बन्ध इति । न तैश्चिन्त्यते । पारिशेष्यादनित्याकारेणैव । असंख्येयाक्षयम् इत्यप्रतिसंख्यानिरोधमित्यर्थः । अशैक्षस्यानिमित्तस्य समाधेरप्रतिसंख्यानिरोधमालम्बते । शान्ततः शान्तोऽयमिति । कथं तस्याप्रतिसंख्यानिरोधः । अशैक्षादानिमित्तात्समाधेर्व्युत्थितस्य तदनन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति अन्ये चानास्रवाः । यदि ते नोत्पन्नाः । स्युः । अशैक्षा (अभिधर्मकोषव्याख्या ६८४) आनिमित्तक्षणा उत्पन्नाः स्युः । तेषां सास्रवाणामन्यानास्रवाणां चोत्पत्तिकाले तेषामशैक्षाणामानिमित्तक्षणानामप्रतिसंख्यानिरोधो लभ्यते । प्रत्ययवैकल्यात् । तमप्रतिसंख्यानिरोधमालम्बते शान्ताकारेण । अनास्रवस्य प्रतिसंख्यानिरोधाभावात् । न प्रतिसंख्यानिरोधमालम्बते । कस्मात्पुनरनास्रवस्य प्रतिसंख्यानिरोधो नास्ति । अप्रतिकूलत्वात् । यद्धि प्रतिकूलमार्याणां । तत्संयोगस्य विसंयोगाय यतस्ते यतन्ते । विसंयोगश्च प्रतिसंख्यानिरोधः । अतोऽनास्रवस्य न प्रतिसंख्यनिरोधः । किं चाशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात् । [तिब् । ३५१ ] अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात् । तत्प्रोत्साहनेनैव तद्विदूषणमभिलषंस्तदप्रतिसंख्यानिरोधमेवालम्बते । शत्रूपग्रहेण हि लोके मार्योपघातः क्रियमाणो दृश्यत इति । न निरोधप्रणीतनिःसरणाकारैरिति । निरोधः साधारणाः । न निरोध इति । तद्भावः । तस्मात् । अनित्यतानिरोधसधारणत्वादयमप्रतिसंख्यानिरोधो न निरोधाकारेणाकार्यते । अन्यथा हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात् । निरोधाकारेण ह्यनित्यतानिरोधेनैव दूषित एवासावप्रतिसंख्यानिरोधः स्यात् । तद्दूषणेन नाशैक्ष आनिमित्तसमाधिदूषितः स्यादित्यभिप्रायः । न प्रणीताकारेण । अव्याकृतत्वादप्रतिसंख्यानिरोधस्य । कुशलं हि प्रणीतं नाव्याकृतम् । अतो न प्रणीताकारेणालम्बते । अविसंयोगाच्चाप्रतिसंख्यानिरोधस्य । न निःसरणाकारेण तमालम्बते । संक्लेशवियोगो हि संक्लेशनिःसरणमिष्यते । यस्मान्नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति । तथा हि सत्यप्यप्रतिसंख्यानिरोधे केषांचित्कुशलाकुशलानां धर्माणां तैः संप्रयुक्त एव तत्प्राप्त्यविच्छेदात् । आर्यमार्गद्वेषित्वाद्[तिब् । ३५१ ] इति । कथं द्विषति । शून्यतादिभिराकारैस्तद्वैमुख्यात् । अकोप्यस्येति । अकोप्यधर्मणः । तस्य तीक्ष्णेन्द्रियत्वात्तदुत्पादने सामर्थ्यमस्ति । नान्यस्यार्हतः । तेभ्यो दृष्टधर्मसुखविहारत्वादासंगास्पदभूतेभ्योऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थमपरसमाधीन् समापद्यन्ते । (विइइ ।२७, २८) विस्तर इति । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय वर्तते । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते । अस्ति समाधिभावनासेविता भाविता बहुलीकृता प्रज्ञाप्रभेदाय संवर्तते । अस्ति समाधिभावना (अभिधर्मकोषव्याख्या ६८५) आसेविता भाविता बहुलीकृता आस्रवक्षयाय संवर्तत इति सूत्रं । तत्रासेविता निषेवणभावनया । भाविता विपक्षप्रहाणतया । बहुलीकृता विपक्षदूरीकरणतया । आह । दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तत इत्युक्तं । न च दिव्यचक्षुरभिज्ञासमाधिभावना । अत्रोच्यते । अयं फले हेतूपचारः । यस्य हेतोः समाधिभावनाया दिव्यचक्षुरभिज्ञाफलं । तत्र फले हेतूपचारः । ज्ञानदर्शनाय समाधिभवनेति । येषां पुनरयं पक्षः । षड्विधा मुक्तिमार्गधीर् इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षडभिज्ञा इति । तेषामचोद्यमेवैतत् । तेषां विमुक्तिमार्गाणां समाहितत्वात् । पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानामित्यवगन्तव्यं । दिव्यचक्षुःश्रोत्रविज्ञानयोरभिज्ञत्वेनाभीष्टत्वात् । तदादिकत्वात् । अन्योन्योऽपीति । उदाहरणत्वरूपोक्तत्वात् । नावश्यं संपरायसुखविहारायेति । संपरायोऽनागतं जन्म । तत्र सुखविहारः । तस्मै नावश्यमेतत्भवति । कस्मादित्याह । परिहीणानां प्रथमध्यानात् । ऊर्ध्वोपपन्नानां द्वितीयादिषु । परिनिर्वृतानां च । संपरायसुखविहारस्याभावात् । ज्ञानदर्शनायेति ज्ञानाय दर्शनाय चेति समासः । तत्र [तिब् । ३५२ ] ज्ञानं मनोविज्ञानसंप्रयुक्ता प्रज्ञा । अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्येवमादिविकल्पाद्दर्शनं चक्षुर्विज्ञानसंप्रयुक्ता प्रज्ञा अविकल्पिका । त्रैधातुका अनास्रवा इति । त्रैधातुका अशुभानापानस्मृत्यरणाप्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः । अनास्रवाः विमोक्षसुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः । अत्र तु समाधिसंप्रयोगात्प्रायोगिकानां [तिब् । ३५२ ] गुणानां समाधिभावनेत्युपचारः । प्रज्ञाप्रभेदायेति । प्रज्ञाविशेषकर्षाय । आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति । आत्मन उपनायिका आत्मनो देशिकेत्यर्थः बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निःक्रान्तो जम्बुमूले प्रथमं ध्यानमुत्पादितवान् । बोधिमूले च देवपुत्रमारं भंक्त्वा प्रथमे यामे दिव्यं चक्षुरुत्पादितवान् । तेन दिव्येन चक्षुषा सत्त्वांश्च्युत्युपपत्तिसंकटस्थानभिवीक्ष्य तत्परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तिः संमुखीकृतवान् । तेऽस्य प्रायोगिका गुणाः प्रज्ञाप्रभेदाय जायन्ते । ततस्तृतीये यामे चतुर्थं ध्यानं निश्रित्य नियाममवक्रम्य यावद्वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति । यस्माच्चैवमात्मोपनायिका धर्मदेशना । अतश्(अभिधर्मकोषव्याख्या ६८६) चतुर्थ एव । वज्रोपमोऽन्त्ये यो ध्यान इति । (विइइ ।२९-३१) अप्रमाणसत्त्वालम्बनादिति । अप्रमाणसंज्ञाकरणे कारणमेतत् । यथासंख्यमिति । व्यापादबहुलानां तत्प्रहाणाय मैत्री । विहिंसाबहुलानां तत्प्रहाणाय करुणा । अरतिबहुलानां तत्प्रहाणाय मुदिता । कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति । कामरागप्रतिपक्षत्वे को विशेष इति । कामरागबहुलात्[तिब् । ३५३ ] प्रतिचिन्ता । मतापितृपुत्रज्ञातिरागस्योपेक्षेति । यथैवसंबद्धाः पुरुषाः । एवमेवैते इत्युपेक्षेत्यभिप्रायः । तस्य लोभाकृष्टत्वादिति । यस्माल्लोभाकृष्टो व्यापादः । तस्माल्लोभप्रतिपक्षरूपतां भजत इत्यभिप्रायः । उभयस्वभावात्त्वसौ युज्यत इति । अलोभस्वभावा चाद्वेषस्वभावा च युज्यत इत्यर्थः । किं कारणम् । रागद्वेषयोः प्रतिपक्षत्वात् । अतस्तु नैको धर्म उभयस्वभाव इति ग्रहीतव्यं । किं तर्हि । अलोभाद्वेषयोरुपेक्षाशब्दो वर्तत इति । सुखिता बत सत्त्वा इति । संत्वित्यभिप्रायः । दुःखिता बत सत्त्वा इति । दुःखिता दुःखाद्विमुच्यंतामित्यभिप्रायः । तथा हि व्याख्यास्यते । व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते । अतस्तत्प्रतिपक्षत्वमुक्तं । कथमिति दर्शस्यति । कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलप्रमाणसदृशानि विद्यन्ते । प्रयोगालम्बनाकारस्वभावसादृश्यात्मौलैः सदृश्यानि भवन्ति । तैरप्रमाणैस्त्रिभिस्तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैः । मैत्री विहिंसाबहुलानां तत्प्रहाणाय । माध्यस्थ्यादिति । अपक्षपातिवेनाप्यनुनीतो नापि प्रतिहत इत्यर्थः । अश्रद्धतामिति विस्तरः । असुखवतां । सुखमस्तीत्यधिमोक्षात्कथं न विपरीतत्वं भवति । संत्वित्यभिप्रायादिति । सुखिताः संत्वित्यभिप्रायात् । न विपरीतत्वमित्यभिप्रायः । आशयस्याविपरीतत्वाद्वेति । आशयः कुशला धर्माः सुखिता बत सत्त्वा इत्येते चित्तचैत्ताः सपरिवाराः । अस्याशयस्याविपरीतत्वान्न विपरीतत्वं [तिब् । ३५३ ] भवति । कथं पुनराशयस्याविपरीतत्वमित्याह । अधिमुक्तिसंज्ञानादिति । अधिमुक्तेः संज्ञानमधिमुक्तिसंज्ञानं । तस्मात् । यस्मात्तामधिमुक्तिं तथैव संजानीते । आधिमोक्षिकोऽयं मनस्कार इति परिच्छिनत्ति । अकुशलत्वमिति । विपरीतग्रहणतः । न । कुशलत्वात् । नैतदेवं । कस्मात् । कुशलमूलत्वात् । कथं पुनः कुशलमूलमित्याह । व्यापादादिप्रतिपक्षत्वात् । अद्वेषस्वभावत्वात्मैत्री व्यापादप्रतिपक्षः । दुःखापनयनाकारत्वाच्च करुणा (अभिधर्मकोषव्याख्या ६८७) दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति । मुदिता चरतेः प्रतिपक्षः सौमनस्यारूपत्वात् । उपेक्षा च माध्यस्थ्यात्कामरागव्यापादयोः प्रतिपक्ष इति । तदालंबनानामिति । कामावचरसत्त्वालंबनानामित्यर्थः । तद्भाजनेन भाजनगतं दर्शितमिति । स्थानेन स्थानीयसत्त्वलोको दर्शित इत्यर्थः । समाहितासमाहितमौलप्रयोगग्रहणादिति । षट्पंचदशभूमिकत्वात्त्रयाणामपि कारणमुच्यते संभवतः । तत्रासमाहितः कामधातुः । प्रयोगाः सामन्तकानीति संभवतो योज्यं । षट्भूमिकव्यावस्थानेऽनागम्यं सामन्तकमपीष्यते [तिब् । ३५४ ] सामन्तकान्यपि प्रयोगभूतानि गृह्यन्ते । किं मौलानीति । मौलध्यानभूमिकत्वादिति । मौलशुद्धकध्यानभूमिकत्वादित्यर्थः । न हि शुद्धकैर्मौलध्यानैः क्लेशाः प्रहीयन्त इत्युक्तं प्राक् । अधिमुक्तिमनस्कारत्वान्न तैः क्लेशाः प्रहीयन्ते । तत्त्वमनस्कारेण हि क्लेशप्रहाणं । सत्त्वालम्बनत्वाच्च न तैः प्रहाणं । धर्मसामान्यलक्षणमनस्कारेण हि क्लेशप्रहाणमिति सिद्धान्तः । कथं तर्हीत्याह । तत्प्रयोगेण त्विति विस्तरः । मैत्र्यादिप्रयोगेण व्यापादादिविष्कंभणात् । तत्प्रतिपक्षत्वमुक्तमिति । व्यापादादिप्रतिपक्षत्वमुक्तं । विष्कम्भणप्रहाणानि तनीत्यर्थः । प्रहीणदूरीकरणाच्चेति । यस्मादानन्तर्यमार्गैर्लौकिकैर्लोकोत्तरैर्वा मार्गैर्व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते । अतस्तत्प्रतिपक्षत्वमुक्तं । कथमिति दर्शयति । कामधातुभूमिकान्यनागम्यभूमिकानि च मैत्र्यादिनि त्रीणि [तिब् । ३५४ ] मौलाप्रमाणसदृशानि संविद्यन्ते । प्रयोगालम्बनाकारस्वभावसादृश्यान्मौलैः सदृशानि भवन्ति । तैरप्रमाणैस्त्रिभिस्तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैरानन्तर्यमार्गैः प्रजहाति । बलवत्प्रत्ययलाभेऽपीति । व्यापादादिप्रत्ययलाभेऽपि बलवति सति तैः क्लेशैरनाधृष्यो भवति । संमुखीभावतः । अधिमात्र इति । मित्रपक्षे । परममित्रे हि सुकरा मैत्री । स्फरतीति । व्याप्नोति । पूर्वपुण्याफलसंदर्शनादिति । पूर्वपुण्यफलसंदर्शनात्समुच्छिन्नकुशलमूलेऽपि पुद्गले शक्यं गुणग्राहिणानेन भवितुं पुण्यमनेन कृतमासीद्येनास्य रूपादिसंपदिति । प्रत्येकबुद्धे च दोषग्राहिणा नूनमनेनापुण्यं कृतमासीद्येनास्यैवं रूपादिवैकल्यमिति । अपि एव दुःखाद्विमुच्येरन्नित्यधिमुच्यमानः करुणायां (अभिधर्मकोषव्याख्या ६८८) प्रयुज्यते । अप्येवाभिप्रमोदेरन्नित्यधिमुच्यमानो मुदितायां प्रयुज्यते । मुदितया न समन्वागत इति । तृतीयचतुर्थयोः सौमनस्याभावात् । (विइइ ।३२-३४) अष्टौ विमोक्षा इति । यथासूत्रं । कथम् । अष्टौ विमोक्षाः । कतमेऽष्टौ । रूपी रूपाणि पश्यतीत्ययं प्रथमो विमोक्षः । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि [तिब् । ३५५ ] पश्यतीत्ययं द्वितीयो विमोक्षः । शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्ययं तृतीयो विमोक्षः । सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तंगमात्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमनन्तमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति । तद्यथा देवा आकाशानन्त्यायतनोपगाः । अयं चतुर्थो विमोक्षः । पुनरपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानंतं विज्ञानमनंतं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति । तद्यथा देवा विज्ञानानंत्यायतनोपगाः । अयं पंचमो विमोक्षः । पुनरपरं सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति । तद्यथा देवा आकिंचन्यायतनोपगाः । अयं षष्टो विमोक्षः । पुनरपरं सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति । तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः । अयं सप्तमो विमोक्षः । पुनरपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञानिरोधं कायेन साक्षात्कृत्वोपसंपद्य [तिब् । ३५५ ] विहरति । अयमष्टमो विमोक्ष इति । रूपी रूपाणीति । स्वात्मनि रूपाणि विभाव्य बहिरपि रूपाणि पश्यति । विनीलकाद्यालम्बनत्वात् । अशुभावन्नयो वेदितव्य इति । अधिरागस्य वर्णरागादिप्रतिपक्षमारभ्य संभवतो विस्तरेण योज्यं । अलोभा दशभूः कामदृश्यालम्बा नृजाशुभेति । यथासंख्यमिति । कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यानभूमिको विमोक्षः । प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीयध्यानभूमिको विमोक्षः । एतौ च द्वौ पुनर्दूरीभावप्रतिपक्षौ वेदितव्यौ । आह । द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते । चक्षुर्विज्ञानाभावात् । यो हि यस्माद्विषयाद्विरक्तः । नियतमसौ तद्ग्राहकादपि विज्ञानाद्विरक्तः । द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि नास्तीति । अतो वर्णवीतरागास्त इति सिद्धं । शुभारूप्या इति शुद्धकानास्रवाः । (अभिधर्मकोषव्याख्या ६८९) अन्यदाप्यसमाहिताः संतीति । आरूप्येषु विपाकजांश्चित्तचैत्तानभिसंधायोच्यते । [तिब् । ३५६ ] पूर्वस्मिंस्तु पक्षे मरणभवावस्थायामेवासमाहिता आरूप्या इति दर्शयति । सामन्तकविमुक्तमार्गा अपि विमोक्षाख्यां लभन्त इति । किमंग मौला इत्यपिशब्दार्थः । नानन्तर्यमार्ग इति विस्तरः । यस्मादधरभूमिवैमुख्याद्विमोक्षा इत्युच्यन्ते । तस्मादानन्तर्यमार्गा न विमोक्षाख्यां लभन्ते । अधरालम्बनत्वात् । विमुक्तिमार्गास्तु लभन्ते । ऊर्ध्वालम्बनत्वात् । निरोधस्तु समापत्तिः । अष्टम इति वाक्यशेषः । संज्ञावेदितवैमुख्यादिति । संज्ञावैमुख्याद्वेदितवैमुख्याच्च विमोक्षः । सर्वसंस्कृताद्वा वैमुख्याद्विमोक्षः । समापत्त्यावरणविमोक्षणाद्विमोक्ष इति । समापत्त्यावरणविमोक्षवैमुख्याद्विमोक्ष इति । तत्र समापत्त्यावरणं यस्मिन्नावरणे चित्ताकर्मण्यता त्रैधातुकवीतरागा अपि संतः प्रथममपि मौलं ध्यानं नोत्पादयन्ति । यथायोगमिति । द्वयोर्विनीलकाद्यमनोज्ञं रूपमालम्बनं । तृतीयस्य मनोज्ञमालम्बनमिति । तद्धेतुनिरोधौ चेति । तस्य दुःखस्य [तिब् । ३५६ ] समुदयनिरोधौ । सर्वश्चान्वयज्ञानपक्ष इति । ऊर्ध्वाधः स्वभूमिक इत्यर्थः । अप्रतिसंख्यानिरोधश्चेति । अप्रतिसंख्यानिरोधश्चारूप्याविमोक्षाणामालम्बनमिति वक्तव्यं । ये त्वरूपिणस् तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचरा इत्यत्रवचनात् । आह । कतमः पुनरप्रतिसंख्यानिरोधस्तेषामालम्बनम् । अत्रोच्यते । अशैक्षस्यानिमित्तस्य समाधेरप्रतिसंख्यानिरोधमालम्बन्ते । ते च सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु कामधातावनागम्ये ध्यानान्तरेषु ध्यनारूप्येषु चाष्टास्विति । सोपसंख्यानं शास्त्रमिति शास्त्रलक्षणं दर्शितं भवति । आकाशं चैकस्येति । वक्तव्यमाकाशानंत्यायतनविमोक्षस्यालम्बनं । द्वितीयध्यानभूमिकवर्णरागाभावादिति । द्वितीयध्यानभूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावादित्यर्थः । तदभावः कायिकविज्ञानाभावात् । सुखमण्डेञ्जितत्वाच्च । सुखस्य मण्डः । सर्वसुखस्योपरिस्थं सुखमित्यर्थः । तेनेञ्जितत्वात्कम्पितत्वात् । न तृतीये ध्याने विमोक्षो व्यवस्थाप्यते । [तिब् । ३५७ ] यदि तृतीयध्यानभूमिको वर्णरागो नास्ति । कस्माच्छुभं (अभिधर्मकोषव्याख्या ६९०) विमोक्षमुत्पादयतीति । अत आह अशुभया लीनां संततिं प्रमोदयितुं जिज्ञासनार्थं वेति । विमोक्षादीनामिति । आदिशब्देनाभिभ्वायतनाद्युपग्रहः । क्लेशदूरीकरणार्थं । विमोक्षादीनं दूरिभावप्रतिपक्षत्वात् । समापत्तिवशित्वार्थं च । तच्च समापत्तिवशित्वमरणादिगुणाभिनिर्हाराय भवति । आर्यायाश्च र्द्धेः । किं । अभिनिर्हारायेति प्रकृतं । सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनीति । तत्र वस्तुपरिणामं । यद्वस्तु यथाधिमुच्यते । तथैव तद्भवति । यथा सुवर्णस्य मृत्करणं । तथाधिमोक्षादधिष्ठानं स्थिरस्य वस्तुनः । इमं तु कालमवतिष्ठतामिति तथायुषा उत्सर्गः । आदिशब्देन सुमेरोः परमाणौ प्रवेश इत्येवमन्यच्च सूत्रे द्रष्टव्यं । कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं । नान्येषामिति । कथं तृतीयस्य साक्षात्करणमुक्तं । शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति । अष्टमस्यापि । संज्ञावेदितनिरोधं [तिब् । ३५७ ] कायेन साक्षात्कृत्वोपसंपद्य विहरतीति । अत्र साक्षात्कृत्वेति प्रत्यक्षीकृत्वेत्यर्थः । उपसंपद्य विहरतीति तां समापद्य समापत्तिं विहरतीत्यर्थः । अत्रोच्यते । प्रथमद्वितीयाभ्यां विमोक्षाभ्यां तृतीयस्य विमोक्षस्य प्राधान्यात् । रूपिविमोक्षावरणसाकल्यप्रहाणादाश्रयपरिवृत्तितस्तृतीयस्य साक्षात्करणमुक्तम् । एवमष्टमस्यापि प्राधान्यात् । आरूप्याविमोक्षावरणसाकल्यप्रहाणादाश्रयपरिवृत्तितः साक्षात्करणमुक्तं । धातुभूमिपर्यन्तावस्थितत्वाच्चेति । चतुर्थं ध्यानं रूपधातुभूमिपर्यंतावस्थितं । भवाग्रमप्यारूप्यधातुभूमिपर्यन्तावस्थितं । (विइइ ।३५) एवमधिमात्राणीति । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानीति विस्तरः यावदिदं द्वितीयमभिभ्वायतनम् । अध्यात्ममरूपसंज्ञि एवमेवेति । कथम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानीति पूर्ववद्यावदिदं तृतीयमभिभ्वायतनं । तथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पशय्ति अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववद्यावदिदं तृतीयमभिभ्वायतनं । तथा अध्यात्ममरूपसंज्ञी पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववत्यावादिदं चतुर्थमभिभ्वायतनमित्येतानि चत्वारीति । अरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि [तिब् । ३५८ ] पश्यतीति । कथम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा उमकापुष्पं संपन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासं (अभिधर्मकोषव्याख्या ६९१) तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यति । एवंसंज्ञी च भवतीदं पंचममभिभ्वायतनं । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि । तद्यथा कर्णिकारपुष्पं वाराणसेयं वा वस्त्रं पीतमिति विस्तरः । इदं षष्ठमभिभ्वायतनं । अध्यात्ममरूपसंज्ञी रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि । तद्यथा बंधूकपुष्पं संपन्नं वाराणसेयं वा वस्त्रं लोहितमिति विस्तरः । इदं सप्तममभिभ्वायतनं । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति अवदातान्यवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि । तद्यथा उशनस्तारका संपन्नं वा वाराणसेयं वस्त्रमवदातम् [तिब् । ३५८ ] इति विस्तरः । इदमष्ट्ममभिभ्वायतनमिति । मूर्धकानि चत्वारीमानि चात्यारीत्यष्टौ भवन्ति । द्वयमाद्यविमोक्षवद् इति । यथा रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति । एवमाद्ये अभिभ्वायतने । तयोर्ह्येकमात्मगतं रूपं पश्यन् बहिर्गतं पश्यति । तथा ह्येतत्पठ्यते । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानीति विस्तरः । द्वितीयमपि तथैव । अयं तु विशेषो बहिर्धा रूपाणि पश्यत्यधिमात्राणीति । किं च यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचरवर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश्च । तथेमे प्रथमे अभिभ्वायतने वेदितव्ये । द्वे द्वितीयवद् इति । यथाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्येवंलक्षणो द्वितीयो विमोक्षः । एवंलक्षणे एवं तृतीयचतुर्थे अभिभ्वायतने । ते अपि ह्येवं पठ्येते । अध्यात्ममरूपसंज्ञीबहिर्धा रूपाणि पश्यति परीत्तानीति तृतीयः पठ्यते । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणीति चतुर्थः पठ्यते । किं च यथा द्वितीयो विमोक्षः द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः [तिब् । ३५९ ] कामावचररूपालंबनश्च । तथा तृतीयं चतुर्थं चाभिभ्वायतनं । अन्यानि पुनः शुभविमोक्षवद् इति । यथा शुभो विमोक्षश्चतुर्थध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश्च । तथा नीलपीतलोहितावदाताभिभ्वायतनानि । केवलं त्विह वर्णचतुष्टयं विभज्य गृह्यते । शुभस्य च विमोक्षस्यालोभः स्वभावः । एवमेषामपि । यथायं शुभो विमोक्षः सपरिवारग्रहणात्पंचस्कंधस्वभावः । तथैव तान्यपीत्यवगन्तव्यं । तैर्विमोक्षमात्रम् (अभिधर्मकोषव्याख्या ६९२) इति । नालम्बनाभिभवनं । कथं चाभिभ्वायतनैरालंबनाभिभवनमित्यत आह । यथेष्टमधिमोक्षादिति । यथेष्टं तैर्नीलपीताद्यधिमोक्षात् । क्षणेन नीलं क्षणेन पीतमित्यादि । अमनोज्ञस्य वा विनीलकादेर्मनोज्ञाधिमोक्षात् । क्लेशानुत्पादाच्चेति । शुभतोऽपि च सांक्लेशिकं वस्त्वाकारयतः क्लेशानुत्पत्तेस्तैरभिभ्वायतनैरालंबनाभिभवनं भवति । (विइइ ।३६) निरन्तरकृत्स्नस्फरणादिति । निरन्तरं कृत्स्नानां पृथिव्यादीनां स्फरणाद्व्यापनात्तस्मात्कृत्स्नायतनानीत्य्[तिब् । ३५९ ] उच्यन्ते । कामावचरं रूपायतनमिति । पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया आपस्तेजश्च वायुश्च धातुरेव तथापि चेति वचनात् । वायौ स्प्रष्टव्यायतनमित्येक इति । ये वायौ रूपायतनं नेच्छन्ति । त आहुः । वायौ स्प्रष्टव्यायत्नमालम्बनमिति । विमोक्षप्रावेशिकानीति । प्रवेशा एव प्रावेशिकानि । इति स्वार्थवृद्धिविधानात् । प्रवेशे भवानि वा । उत्तरोत्तरविशिष्टत्वादिति । यस्माद्विमोक्षेभ्य उत्तराण्यभिभ्वायतनानि विशिष्टानि । अभिभ्वायतनेभ्य उत्तराणि कृत्स्नायतनानि विशिष्टानीति । तदुक्तं भवति । विमोक्षानुत्पाद्याभिभ्वायतनान्युत्पादयति । अभिभ्वायतनान्युत्पाद्य कृत्स्नायतनान्युत्पादयतीति । स्थापयित्वा निरोधविमोक्षमिति । तस्यैकान्तेनार्यसंतानिकत्वात् । (विइइ ।३७) उचितानुचितत्वादिति । उचितानि वैराग्यलाभिकानि । अनुचितानि प्रायोगिकानि । शेषम् इति विस्तरः । किं पुनः शेषं । प्रथमास्त्रयो विमोक्षाः अभिभ्वायतनान्यष्टौ । कृत्स्नायतनान्यष्टौ । एतन्मनुष्याश्रयमेव । किं कारणम् । उपदेशसामर्थ्येनोत्पादनात् । अन्यत्र देवादिषूपदेशभावात् । (विइइ ।३८) कथं [तिब् । ३६० ] रूपारूप्यधात्वोरारूप्यध्यानविशेषोत्पादनमिति । आरूप्यधातौ रूपधातौ वा यस्यां भूमावुपपन्नः । तदूर्ध्वं यदारूप्यं ध्यानं च । तत्ततो विशिष्यते इत्यारूप्यध्यानविशेषाः । तस्यारूप्यध्यानविशेषय कथमुपदेशमन्तरेण भवतीति । यतः शेषं मनुष्याश्रयमेव । उपदेशसामर्थ्येनोत्पादनादित्युक्तम् । अतोऽनेन संबन्धेन पृष्टं । कथं रूपारूप्यधात्वोरिति विस्तरः । हेतुबालाच्चासन्नाभीक्ष्णाभ्यासादिति । आसन्नाभ्यासादभीक्ष्णाभ्यासाच्च । कथं कृत्वा । कश्चिदारूप्यसमापत्तिं समापद्य ततश्च परिहायानन्तरमेव रूपधातावुपपद्यते । आरूप्यसमापत्तिलक्षणस्य सभागहेतोर्बलीयस्त्वात्तस्य रूपधातावारूप्यसमापत्तिरुत्पत्स्यते । अभीक्ष्णाभ्यासादपि । यदि कश्चिदारूप्यसमापत्तिम् (अभिधर्मकोषव्याख्या ६९३) अभीक्ष्णं समापद्य ततश्च परिहाय रूपधातावुपपद्यते । तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर्बलीयस्त्वाद्रूपधातावारूप्यसमापत्तिरुत्पद्यते । एवं विज्ञानानन्त्यायतनसमापत्तेर्[तिब् । ३६० ] अपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनामुत्पादनं । एवं तदूर्ध्वोपपन्नस्य । कर्मबलाच्च । रूपधातावुपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला संततिरवतिष्ठते । न ह्यधस्तादवीतरागेणोर्ध्वमारूप्यधातौ शक्यमुपपत्तुमिति । एवमारूप्येष्वाकाशानन्त्यायतनोपपन्नस्य कर्मभलात् । ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला संततिरवतिष्ठते । न ह्यधस्तादवीतरागेणोर्ध्वं शक्यमुपपत्तुमिति । एताभ्यां च हेतुकर्मबलाभ्यां । कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनं । हेतुबलाच्चासन्नाभीक्ष्णाभ्यासात् । कर्मबलाच्चोर्ध्वभूमिकस्येति विस्तरेण योज्यं । धर्मतयापि चेति । कथं धर्मता नाम । केचित्तावत्सौत्रान्तिका आहुः । एषामेव धर्माणामुद्भूतवृत्तीनां पूर्वध्यानवासनाधिपत्यात्तदुत्पत्तावुपदेशमन्तरेण ध्यानोत्पत्तावानुगुण्यं धर्मता प्रकृतिः स्वभाव इत्यर्थः । वैभाषिका अपि केचिदाहुः । पौर्वजान्मनिकात्सभागहेतोः निष्यन्दफलं ध्यानोत्पादनं । तदुपदेशमन्तरेणान्यतो धर्मतेति । [तिब् । ३६१ ] कुशलानां धर्माणामुद्भूतवृत्तित्वादिति । तत्र संवर्तनीकाले कुशलानां कर्मपथानामित्यर्थः । वृत्तिस्तेषामेव धर्माणां यत्कारित्रम् । उद्भूता उत्कृष्टा वृत्तिरेषामित्युद्भूतवृत्तयः । तद्भावः । तस्मात् । एतदुक्तं भवति । तेषां कुशलानां प्रकर्षेणात्मलाभात्तदुत्पत्त्यानुगुण्येनात्मलाभात्तदुपदेशमन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिरिति । (विइइ ।३९) इम ईदृशा धर्माणां प्रकारा इति । सास्रवानास्रवाणां धर्मानां धातुभूम्यालंबनाकारादिप्रकारा यथायोगमित्यर्थः । धातारस्तस्य वक्तारः प्रतिपत्तार एव चेति । तस्यागमाधिगमात्मकस्य सद्धर्मस्य यथासंख्यमागमस्य ये वक्तारः । तेऽस्य धातारः । अधिगमस्य च ये प्रतिपत्तारः । तेऽस्य धातार इति । अधिगमस्यैवमिति । वर्षसहस्रमवस्थानमिति । आगमस्य तु भूयांसं कालमिति । वर्षसहस्रादूर्ध्वमपीत्यर्थः । एष एव पक्षो युक्त इति पश्यामः । (विइइ ।४०) योऽयमिति विस्तरः । योऽयमिहाभिधर्मकोशलक्षणेऽभिधर्म (अभिधर्मकोषव्याख्या ६९४) उक्तः । किम् । एष एव शास्त्रोऽभिधर्मो ज्ञानप्रस्थानादिलक्षणो देशितः अत इदमुच्यते । काश्मीरवैभाषिकनीतिसिद्ध इति विस्तरः । कश्मीरे [तिब् । ३६१ ] भवाः काश्मीराः । विभाषया दीव्यन्ति वैभाषिका इति व्याख्यातमेतत् । सन्ति काश्मीरा न वैभाषिकाः । ये विनयविदादयः सौत्रान्तिका भदन्तादयः । सन्ति वैभाषिका न काश्मीराः । ये बहिर्देशका वैभाषिका इत्युभयविशेषणं । तेषां नीत्या यः सिद्धोऽभिधर्मः । स प्रायेणेह मया देशितः । अर्थादुक्तं भवति । अन्यनीतिसिद्धोऽपि देशित इति यद्दुर्गृहीतं काश्मीरवैभाषिकनयेनान्यनयेन वा । तदिह वचने ऽस्मदागो ऽस्मदपराधः । किं कारणमित्याह । सद्धर्मनीतौ मुनयः प्रमाणम् इति । सद्धर्मस्यागमाधिगमलक्षणस्य नीतौ वर्णने मुनयो बुद्धा भगवन्तो बुद्धपुत्राश्चार्यशारद्वतीपुत्रादयः प्रमाणं सर्वाकारसर्वधर्मावबोधे आप्ता इत्यर्थः । (विइइ ।४१-४३) निमीलिते शास्तरि लोकचक्षुषीति । परिनिर्वृते भगवति लोकस्य चक्षुर्भूते मार्गामार्गसंदर्शके । अनेनान्धभूततां लोकस्य दर्शयति । क्षयं गते साक्षिजने च भूयसेति । साक्षाद्द्रष्टरि साक्षी मार्गामार्गज्ञो भगवानिति योऽधिगततत्त्वो भगवतः साक्षिजनः सहायभूतः । तस्मिन् परिनिर्वाणे क्षीणे । [तिब् । ३६२ ] अविद्यान्धेन्- आदृष्टतत्त्वैर्निरवग्रहैर् निरंकुशैः स्वयं दृष्टिकतया कुतर्क्- आपन्नैर्भवधिर्भगवतः शासनं ग्रन्थतश्चार्थतश्च्ऽ (अभिधर्मकोषव्याख्या ६९५) आकुलं कृतं । गते हि शांतिं परमां स्वयंभुवि इत्यादि पूर्वश्लोकोक्तस्यार्थस्य हेतुरूपोऽयं द्वितीयः श्लोक उपन्यस्यते । बुद्धबुद्धपुत्रेषु हि परिनिर्वृतेष्व् अनाथे जगति शासनान्तर्धानहेतुभिः । दृष्ट्यादिभिर् मलैर् दोषैर् निरंकुशैः स्वैरं यथेच्छम् इह लोके । अद्य संप्रति चर्यते । भावसाधनमेतत् । ततश्च एवं कण्ठगतं प्राणं कण्ठगतप्राणमिवेत्यर्थः । तद् विदित्वा बलकालं च मलानां दोशाणां विदित्वा न प्रमाद्यं मुमुक्षुभिर् इति भावसाधनमिति । (अभिधर्मकोषव्याख्या ६९६) ब्लन्क् (अभिधर्मकोषव्याख्या ६९७) इx (पुद्गलविनिश्चयः) किं खल्वतोऽन्यत्र मोक्षो नास्तीति । न प्रमाद्यं मुमुक्षुभिर् इति वचनादयमेव मोक्षोपायः । नास्त्यतोऽन्यो मोक्षोपायः । तदत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्यर्थादुक्तमाचार्येन । चोदकः पृच्छति । किं खल्वत इति विस्तरः । अत्रोच्यते । नास्तीति । किं कारणमित्याह । वितथात्मदृष्टिनिविष्टत्वादिति । वितथायामात्मदृष्टौ निविष्टाः कुतीर्थ्या वितथात्म [तिब् । ३६२ ] दृष्टिनिविष्टाः । तद्भावः । तस्मात् । नास्त्यन्यत्र मोक्ष इति । स्तोत्रकारेणाप्येषोऽर्थ उक्तः । साहंकारे मनसि न शमं याति जन्मप्रबन्धो नाहंकारश्चलति हृदयादात्मदृष्टौ च सत्यां । अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्ग इति । साधनं चात्र । नास्ति कपिलोलूकादीनां मोक्षः । वितथात्मदृष्टिनिविष्टत्वात् । अदृष्टतत्त्वपुरुषवत् । आत्मग्राहप्रभवाश्च क्लेशाः इति यथोक्तं । यानि वा पुनरिहैकत्यानां श्रमणब्राह्मणानां पृथग्लोके दृष्टिगतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः । आत्मदृष्टौ च सत्यामात्मस्नेहादयः क्लेशाः प्रवर्तन्ते । स्कंधसंतान एवेदमात्माभिधानमिति । आत्मेत्यभिधानमात्मप्रज्ञप्तिरित्यर्थः । नान्यस्मिन्नभिधेये स्कंधसंतानव्यतिरिक्ते कल्पित इत्यर्थः । कस्मादेवमित्याह । प्रत्यक्षानुमानाभावादिति । प्रत्यक्षस्यानुमानस्य चाभावान्न तस्यास्तित्वमित्यभिप्रायः । आगमस्यानुमानान्तर्भावादपृथग्वचनं । तेषां प्रत्यक्षमुपलब्धिरिति । [तिब् । ३६३ ] प्रत्यक्षमित्युपलब्धिविशेषणं । प्रत्यक्षं तदुपलब्धिः प्रत्यक्षत उपलब्धिरित्यर्थः । अथ वा प्रत्यक्षं प्रमाणमुपलब्धिरुपलभ्यतेऽनयेत्युपलब्धिः । असत्यंतराय इति । असत्युपलब्धिविघ्नेऽतिसंनिकर्षातिविप्रकर्षादिके तेषां । षण्णां विषयाणामिति । रूपशब्दगन्धरसस्प्रष्टव्यायतनानां (अभिधर्मकोषव्याख्या ६९८) धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य चागमविकल्पातीतस्येति । मनसश्च । किं । प्रत्यक्षमुपलब्धिः । समनन्तरनिरुद्धं हि मनोऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते । रक्तं वा द्विष्टं वा सुखसंप्रयुक्तं वा दुःखसंप्रयुक्तं वा इत्येवमादि स्वसंवेद्यतयेत्यपरे । तदेतद्द्विविधं प्रत्यक्षं ग्राह्यगतं ग्राहकगतं चेति । अनुमानं चेति विस्तरः । यत्र प्रत्यक्षस्याप्रवृत्तिः । तत्रानुमानतस्तदुपलब्धिः । तद्यथा पंचानामिंद्रियाणामिति । चक्षुरिंद्रियादीनां । सति कारणे क्षेत्रोदकादिके । कारणान्तरस्य बीजलक्षणस्याभावे कार्यस्यांकुराख्यस्याभावो दृष्टः । भावे च तस्य बीजस्य पुनर्भवोऽंकुरस्य दृष्टः । तद्यथांकुरस्येति दृष्टांतोपन्यासः । एवं दृष्टान्तमुपन्यस्य दार्ष्टांतिकमुपदर्शयन्नाह । सत्येव वाभासप्राप्त इति विस्तरः । विद्यमान एव संमुखीप्राप्ते विषये रूपादिके मनस्कारे च तज्जे कारणे । विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः । पुनश्च भावः । केषामिति [तिब् । ३६३ ] यथासंख्यं दर्शयति । अन्धबधिरादीनामभावः । अनन्धबधिरादीनं च भाव इति । आदिशब्देनोपहतानुपहतघ्राणेन्द्रियादीनां ग्रहणम् । अतस्तत्रापि कारणांतरस्य कस्यापि अनिर्भिन्नरूपस्याभावो भावश्च यथासंख्यमेव निश्चीयते । किं पुनस्तदित्याह । यच्च तत्कारणान्तरमपेक्ष्यते । तदिन्द्रियं । चक्षुरादिकमित्यभिप्रायः । साधनं चात्र । कारणान्तरसहितः स्वकार्यजनकः । पंचविज्ञानकायजनकसंमतो विषयमनस्कारलक्षणो भावः । कदाचिदेव स्वकार्यनिर्वर्तकत्वात् । कदाचिदेव स्वकार्यनिर्वर्तकं । तत्कारणांतरसहितस्वकार्यजनकं । तद्यथांकुरजनकं क्षेत्रोदकं । बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं कदाचिदेव स्वकार्यनिर्वर्तकं । बीजसद्भावावस्थायामंकुरनिर्वर्तकत्वात् । बीजसद्भावावस्थायां च स्वकार्यजनकत्वात् । तथा च स विषयमनस्कारलक्षणो भावः । स ह्यनंधाबधिराद्यावस्थायां तस्य पंचविज्ञानकायलक्षणस्य स्वकार्यस्य जनको भवति । अन्धबधिराद्यावस्थायां चाजनकः । तस्मादसौ कारणान्तरसहितः स्वकार्यजनक इति । तदिन्द्रियमिति । कथं तदिन्द्रियमिति परिच्छिद्यते । कारणांतरमत्रास्तीत्येतावदेव हि परिच्छिद्यते । न तु तदिन्द्रियमिति । [तिब् । ३६४ ] सिद्धमेवैतत् । महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वादस्त्येव चक्षुरादिकमिन्द्रियं चक्षुर्विज्ञानादिकारणमिति । सर्वेषामविवादाच्च । न चैवमात्मतोऽस्तीति नास्त्यात्मेति निगमयति । उक्तं ह्येवमर्थतः साधनं । नास्त्यात्मा । प्रमाणेनानुपलभ्यमानत्वात् । अत्यन्ताभाववदिति । अस्त्यनुमानम् । अतो (अभिधर्मकोषव्याख्या ६९९) सिद्धो हेतुरिति चेत् । न । तस्याभिधेयत्वात् । यदि हि तदस्ति । तदुच्यतां । न वान्मात्रेणासिद्धोऽयं हेतुरिति प्रत्यवस्थातव्यमिति । यत्तर्हि वात्सीपुत्रीया इति विस्तरः । वात्सीपुत्रीया अर्यसांमतीयाः । अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुरनैकांतिक इति दर्शयति । न हि वात्सीपुत्रीयाणां मोक्षो नेष्यते । बौद्धत्वात् । अथ वा प्राक्पक्षविरोधसापक्षालोऽयं पक्षो नास्त्यात्मेत्यनेन दर्शयति । स्वपक्षो हि वात्सीपुत्रीयो निकाय इति । विचार्यं तावदेतदिति । तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्यदोष एष इत्यभिप्रायः । किं वेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित अचार्य आह । रूपादिवद्भावान्तरं चेद्द्रव्यतः । यदि यथा रूपादिः शब्दादेर्भावान्तरमभिप्रीयते । द्रव्यतः पुद्गल इत्युपगतो भवति । [तिब् । ३६४ ] भिन्नलक्षणं रूपं शब्दादित्यादि । क्षीरादिवत्समुदायश्चेत्प्रज्ञप्तितः । यथा क्षीरगृहसेनादिकं रूपरसगंधस्प्रष्टव्येभ्यः । तृणकाष्ठेष्टीकादिभ्यः हस्त्यश्वरथादिभ्यश्च न भावान्तरमिष्यते । किं तर्हि । तेषामेव समुदायमात्रमित्येवं चेत् । प्रज्ञप्तितः पुद्गल इत्युपगतो भवति । न हि रूपादिभ्यस्टृणादिभ्यो हस्त्यादिभ्यो वा क्षीरगृहसेनेति वा कश्चिद्भावोऽस्ति । किं चातः कश्चातो दोष इत्यर्थः । यदि तावद्द्रव्यत इति पक्षः आश्रीयते । स पुद्गलो भिन्नस्वभावत्वात्भिन्नस्वलक्षणत्वात्स्कंधेभ्योऽन्यो वक्तव्यः । न स्कन्धसमुदायमात्रः । इतरेतरस्कंधवत् । यथा रूपादिस्कन्धाद्वेदनास्कन्धोऽन्यो भिन्नलक्षणत्वात् । एवं स्कंधेभ्यः पुद्गलः स्यात् । अरूपस्कन्धादिलक्षणत्वात्पुद्गलस्य । कारणं चास्य वक्तव्यं । यदि संस्कृत इत्यभिप्रायः । असंस्कृतो वा । अतस्तीर्थिकदृष्टिप्रसंगः । अतोऽसंकृतत्वात्वात्सीपुत्रीयाणां तीर्थिकदृष्टिः प्रसज्यते । निःप्रयोजनत्वं चेति । वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः [तिब् । ३६५ ] फलं । चर्मोपमश्चेत्सोऽनित्यः । खतुल्यश्चेदसत्फलम् इत्यर्थः । इदमन्धवंचनमनुन्मीलितार्थमिति । अन्धमिवान्धं । कस्मात् । यस्मादनुन्मीलितार्थमव्यंजितार्थमित्यर्थः । [इत्यतः] स्कंधानालंब्येति गृहीत्वेत्यर्थः । यथा रूपादीन् गृहीत्वापेक्ष्य क्षीरप्रज्ञप्तिः । न रूपादिव्यतिरिक्तं क्षीरमस्तीति । यदि तथा पुद्गल इति प्रज्ञप्तिरसत्पुद्गलः प्राप्नोतीत्यर्थः । स्कंधान् प्रतीत्येति । यदि स्कंधान् प्रतीत्य प्राप्येति । स एव दोषः । तेष्वेव स्कंधेषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्यर्थः अथ वा (अभिधर्मकोषव्याख्या ७००) पुद्गलप्रज्ञप्तेः स्कंधाः प्रत्ययो न पुद्गलः । पुद्गलस्तु तथैव प्रज्ञप्तिसन्निति । स एव दोषः । यथेन्धनमुपादायाग्निः प्रज्ञप्यत इति । द्रव्यसन् पुद्गलः । नान्यो नानन्य इति । स्वमुपादानमुपादाय प्रज्ञप्यमानत्वात् । यो हि भावो नान्यो नानन्य इति स्वमुपादाय प्रज्ञप्यमानः । स द्रव्यसंस्तद्यथाग्निरिति वात्सीपुत्रीयाभिप्रायः । अत एव चाह । यदि ह्यन्यः स्यादिति विस्तरेण । लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति । शाश्वतप्रसंगात्ति । असंस्कृतवत् । उच्छेदप्रसंगाद्[तिब् । ३६५ ] इति । स्कंधवत् । अप्रदीप्तं काष्ठादिकमिन्धनमिति विस्तरः । अनेनासिद्धतां दृष्टान्तस्य दर्शयति । अन्यत्वमेव ह्यग्नीन्धनयोरिष्यते । तेन हि तदिध्यते दह्यते चेति । तेनाग्निना । तदिन्धनमिध्यते । दीप्यत इत्यर्थः । दह्यते भस्मीक्रियते । संततिविकारापादनात् । भस्मतापादनादित्यर्थः । इध्यते दह्यते चेति पर्यायावित्यपरे । तच्चोभयमष्टद्रव्यकमिति । इन्धनं चाग्निश्चैतदुभयमप्यष्टद्रव्यकं । चेत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपं यावत्स्प्रष्टव्यमिति । कामेऽष्टद्रव्यकोऽशब्द इति सिद्धान्तात् । भिन्नकालत्वादिति । पूर्वमिन्धनं पश्चादग्निः । भिन्नकालयोश्चान्यत्वं दृष्टं बीजांकुरयोः । अनित्यश्च प्राप्नोतीति । उत्पत्तिमतो रूपादेरनित्यत्वदर्शनात् । तत्रैव काष्ठादौ प्रदीप्त इति । तदुभयलक्षणे समुदाये । तयोरपि सिद्धमन्यत्वं लक्षणभेदादिति । तयोरप्यग्नीन्धनयोरेवंलक्षणयोः सिद्धमन्यत्वं लक्षणभेदात् । पृथिवीधात्वादीनां लक्षणान्यत्वात् । भिन्नलक्षणानां ह्यन्यत्वं दृष्टं रूपवेदनादीनां । उपादयार्थस्तु वक्तव्य इति । अनन्यत्वादित्यभिप्रायः । न हि तत्तस्य कारणमिति । [तिब् । ३६६ ] न हि तदिन्धनं भूतत्रयलक्षणं । तस्योष्णलक्षणस्याग्नेः कारणं युज्यते । सहजत्वात् । सव्येतरगोविषाणवत् । नापि तत्प्रज्ञप्तेरिति । अग्निप्रज्ञप्तेः । यद्याश्रयार्थ इति । इन्धनमुपादाय इन्धनमाश्रित्येत्यर्थः । सहभावोऽर्थो वेति । सहोत्पादार्थः । इन्धनं सहभूत्वेनागृह्येत्यर्थः । आश्रयसहभूताः प्राप्नुवन्तीति । आश्रयभूताः सहभूताश्च प्राप्नुवंतीत्यर्थः । स्कंधतः स्पष्टमन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः । तदभाव इति । स्कंधाभावे । अन्यभूतस्वभावत्वादिति । पृथिवीधात्वादिस्वभावत्वात् । अन्यदपीति न केवलमौष्ण्यमुष्णम् । अन्यदपि तत्प्रदीप्ताग्निसंबन्धं भूम्यादिकमुष्णं सिध्यति । अतो यथा तस्यान्यत्वे न दोषः । तथास्यपीति । ततश्चावक्तव्य इति । तत्पक्षलोपः (अभिधर्मकोषव्याख्या ७०१) स्यात् । काष्ठादिकमिति । काष्ठतृणगोमयादिकम् । अवक्तव्यमिति पुद्गलः । अनिर्भिन्नत्वान्नपुंसकलिंगता । किं ते जातमिति यथा । न वक्तव्यं प्राप्नोतीति । पंचविधं ज्ञेयमिति कथं तर्हि वक्तव्यमित्याह । नैव हि तदतीतादिभ्यः पंचमं नापंचमं वक्तव्यमिति । रूपस्यापीति विस्तरः । रूपस्यापि प्रज्ञप्तिर्वक्तव्या । चक्षुरादिषु सत्सु तस्योपलम्भात्तानि चक्षुरादीन्युपादाय रूपं प्रज्ञप्यत इति । प्रतिविभावयतीत्युपलक्षयति । [तिब् । ३६६ ] तदुपादानत्वात् । न तु वक्तव्यो रूपाणि वा नो वेति । अतल्लक्षणत्वदवक्तव्यत्वाच्च । एवं यावद्धर्मो वा नो वेति । क्षीरं प्रतिविभावयत्युदकं चेति । उदाहरणद्वयं । तदेवं वक्तव्यं । चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं प्रतिविभावयति चक्षुर्विज्ञेयं क्षीरं वक्तव्यं । नो तु वक्तव्यं । रूपाणि वा नो वेति सर्वं । तथैतदपि वक्तव्यं । चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्योदकं प्रतिविभावयति । चक्षुर्विज्ञेयमुदकं वक्तव्यं । नो तु वक्तव्यं । रूपाणि वा नो वेति सर्वं । मा भूत्क्षीरोदकयोश्चतुष्ट्वप्रसंग इति । रूपाणीति यद्युच्येत् । यावत्स्प्रष्टव्यानीति यद्युच्येत क्षीरस्योदकस्य वा चतुष्ट्वं प्रसज्येत् । चतुःप्रकारं क्षीरमुदकं वा प्राप्नोतीत्यर्थः । शब्द आगंतुकत्वान्नात्राधिकृतः । अतो यथा रूपादीन्येव समस्तानि समुदितानि क्षीरमित्युदकमिति वा प्रज्ञप्यते । तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धं । रूपाणि पुद्गलोपलब्धेः कारणमिति रूपाण्युअलभमानः पुद्गलमुपलभत इति । कोऽनयोः पक्षयोर्विशेषः । [तिब् । ३६७ ] पूर्वस्मिन् पक्षे रूपाणां कारणत्वमधिक्रियते । द्वितीये न तु कारणत्वं । किं तर्हि । रूपाण्युपादाय पुद्गलोपलब्धिरिति । तत्र रूपाणं यदि कारणत्वमिष्यते । स च पुद्गलस्तेभ्यो रूपेभ्योऽन्यो न वक्तव्य इति । इदं तर्हि वः प्रसज्यते । रूपमपीति विस्तरः । यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः । आलोकचक्षुर्मनस्कारा अपि रूपोपलब्धेः कारणं भवन्ति । तदपि रूपं तेभ्य आलोकादिभ्योऽन्यन्न वक्तव्यं भवद्भिः । तेषां तदुपलब्धिकारणत्वात् । तेषामालोकादीनां रूपोपलब्धिकारणत्वात् । रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति । तयैवैकयोपलब्ध्योपलभ्यमानत्वात् । रूपान्तरवत् । रूप एव वा तत्प्रज्ञप्तिः । पुद्गलप्रज्ञप्तिः प्राप्नोतीति (अभिधर्मकोषव्याख्या ७०२) वर्तते । कुतः । तत एव हेतोः । इदं च रूपमिति विस्तरः । उपलब्धेरेकत्वे रूपपुद्गलयोः परिच्छेदो न प्राप्नोतीति । अथैवं न परिच्छिद्यते । इदं रूपमयं पुद्गल इति । कथमुभयं प्रतिज्ञायते । रूपमेव हि प्रतिज्ञातव्यं स्यात् । तदुपलब्धिसद्भावात् । एवं यावद्धर्मेभ्यो वक्तव्यमिति । कथं । यच्चोच्यते । श्रोत्रविज्ञेयान् शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति कोऽस्य वाक्यस्यार्थः किं तावच्छब्दः पुद्गलोपलब्धेः [तिब् । ३६७ ] कारणं भवन्ति । आहोस्विच्छब्दानुपलभमानः पुद्गलमुपलभत इति । यदि तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति । स च तेभ्योऽन्यो न वक्तव्यः । एवं तर्हि शब्दोऽप्यालोकश्रोत्रमनस्कारेभ्योऽन्यो न वक्तव्यः । तेषां तदुपलब्धिकारणत्वात् । अथ शब्दानुपलभमानः पुद्गलमुपलभते । किं तयैवोपलब्ध्योपलभते । आहोस्विदन्यया । यदि तयैव शब्दादभिन्नस्वभावः पुद्गलः प्राप्नोति । शब्द एव वा तत्प्रज्ञप्तिः । अयं च शब्दोऽयं पुद्गल इति कथमिदं परिच्छिद्यते । अथैवं न परिच्छिद्यते । कथमिदं परिज्ञायते । शब्दोऽप्यस्ति पुद्गलोऽप्यस्तीति । उपलब्धिवशेन हि तस्यास्तित्वं प्रज्ञायते । अनया दिशा यावद्धर्मेभ्यो योजयितव्यं । नीलादिव पीतमिति । यदा परिच्छेदेन नीलमुपलभ्यते । न तदा पीतमुपलभ्यते । पश्चात्तूपलभ्यत इति । अन्ययोपलब्ध्योपलभ्यते । तच्च नीलात्पीतमन्यदिति प्रतीतं । तथा च पुद्गलोऽन्ययोपलभ्योपलभ्यत इति । रूपादन्यः प्राप्नोति । एवं क्षणादपि क्षणान्तरमन्यदित्युदाहार्यम् । एवं यावद्धर्मेभ्यो वक्तव्यमिति । कथम् । अथान्यया भिन्नकालोपलम्भादन्यः शब्दः प्राप्नोति । यथा भेरीशब्दान्मृदांगशब्दः । क्षणादिव च क्षणान्तरं । यथापूर्वमुक्तं । नीलादिव पीतं [तिब् । ३६८ ] क्षणादिव क्षणान्तरमिति । भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्यान्यत्वं दर्शितमेव । अथान्ययेति विस्तरेण यावद्धर्मेभ्यो योज्यं । आह रूपपुद्गलवदिति विस्तरः । यथा रूपपुद्गलयोरन्यानन्यत्वमवक्तव्यमेवं तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यमित्येवं यदि ब्रूयात् । तेन तर्हि संस्कृतमप्यवक्तव्यं भवति तदुपलब्धिलक्षणं संस्कृतमप्येतदवक्तव्यमिति । सिद्धान्तभेदः । योऽयं सिद्धान्तः पुद्गल एवावक्तव्य इति । अयं भिद्यते । संस्कृतमप्यवक्तव्यमिति कृत्वा । यदि चायमिति विस्तरः । यद्येवं रूपाणि नो वेति न वक्तव्यः किं तर्हि एतद्भगवतोक्तं रूपमनात्मेति । यावद्विज्ञानमनात्मेति । एवं हि ब्रुवतो वक्तव्य एव पुद्गलो नावक्तव्य इति दर्शितं भवति । (अभिधर्मकोषव्याख्या ७०३) शब्दादिवदिति । न रूपविज्ञानेनोपलभ्यते पुद्गलः । तदनालम्बनप्रत्ययभूतत्वात् । शब्दवत् । आदिशब्देनात्र गन्धवद्रसवदित्यादि योज्यम् । एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वमस्य [तिब् । ३६८ ] वक्तव्यम् । एषा हि दिक् । अनेन चोपन्यासेन धर्मिविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्यवगन्तव्यं । द्वयं प्रतीत्येति । द्वयं प्रतीत्य न तु त्रयं प्रतीत्येति । अत इदमुत्सूत्रमिति । चक्षुर्भिक्षो हेतुरिति विस्तरः । हेतुरासन्नः प्रत्ययः । विप्रकृष्टस्तु प्रत्यय एव । जनको हेतुः । प्रत्ययस्त्वालम्बनमात्रमित्यपरे । पर्यायावेतावित्यपरे । रूपादन्यः पुद्गल इति पक्षप्रसंगः । श्रोत्रविज्ञानविज्ञेयत्वाच्छब्दवत् । तथा शब्दादन्यः पुद्गल इति पक्षप्रसंगः । चक्षुर्विज्ञानविज्ञेयत्वाद्रूपवत् । इति एवमन्येभ्यो योज्यमिति । रूपशब्दाभ्यामन्यः पुद्गल इति पक्षप्रसंगः । घ्राणविज्ञेयत्वात् । गन्धवत् । इत्येषा दिग्योजनं प्रतीति । स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात्पुद्गलेन प्रत्यनुभवन्तीत्युक्तं भवति । मनश्चैषां प्रतिसरणमिति । अनुषंगेनेदमुक्तं । नेदमुदाहरणं । तथापि तु मनश्चैषामिन्द्रियाणां प्रतिसरणमिति तदपेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ [तिब् । ३६९ ] कारणं भवन्तीत्यर्थः । न वा पुद्गलो विषय इति । यदि सूत्रं प्रमाणीक्रियते । ततः किमित्याह । न चेद्विषयः । यदि न कस्यचिद्विज्ञानस्य विषय न तर्हि विज्ञेयः । ततश्च पंचविधं ज्ञेयमिति स्वसिद्धान्तो बाध्यते । यद्येवं सूत्रे वचनान्नान्यदन्यस्य गोचरविषयं प्रत्यनुभवतीति पंचानां चक्षुरादीनां प्रमाणीक्रियते । स्वविषयाव्यभिचारः । स्वविषयाव्यभिचारे च न चक्षुर्विज्ञानादिभिर्विज्ञेयः पुद्गलः । तदेवं सति मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति । षडिमानीन्द्रियाणि नानागोचराणीति विस्तरेण सूत्रे वचनात् । कुक्कुरपक्षिशृगालशिशुमारसर्पमर्कटाः षट्प्राणकाः केनचिद्बद्धा मध्ये ग्रन्थिं कृत्वोत्सृष्टाः । ते स्वकं स्वकं गोचरविषयमाकांक्षन्ते । ग्रामाकाशाश्मशानोदकान्तवल्मीकवनाकांक्षणात् । एवमेव षडिमानीन्द्रियाणि स्वकं स्वकं गोचरविषयमाकांक्षन्ते । इत्येवमुपमात्र क्रियते । अथ सत्यपि सूत्रवचने मनैन्द्रियस्य व्यभिचारः । एवं चक्षुरादीनामपीन्द्रियाणां व्यभिचारः । व्यभिचारे च चक्षुर्विज्ञानादिभिर्विज्ञेयः पुद्गलो भविष्यतीति । अत्र [तिब् । ३६९ ] ब्रूमः । न तत्रेति विस्तरः । तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियमेव चक्षुरादिकमिन्द्रियं कृत्वोक्तं । किं कारणं । चक्षुरादीनां (अभिधर्मकोषव्याख्या ७०४) पंचानामिन्द्रियाणां दर्शनाद्याकांक्षणासंभवात् । यस्मादेषां दर्शनश्रवणाद्याकांक्षणं न संभवति रूपस्वभावत्वात् । तद्विज्ञानानां च । चक्षुरादिविज्ञानानां च दर्शनाद्याकांक्षासंभवात् । कस्मादेषां दर्शनश्रवणाद्याकांक्षणं न संभवति । अविकल्पकत्वात् । तदाधिपत्याध्याहृतं तु मनोविज्ञानमिन्द्रियमित्युक्तमिन्द्रियमिवेति कृत्वा । कथं ज्ञायते तदाधिपत्याध्याहृतं तदिति । यदि हि चक्षुरादिद्वारेण चक्षुर्विज्ञानादि नोत्पन्नं स्यात् । कथमन्यथा विकल्पकं मनोविज्ञानमुत्पन्नं स्यात् । इत्यतो ज्ञायते । तदाधिपत्याध्याहृतमिति । तन्मनोविज्ञानं चक्षुरादीन्द्रियभूतं स्वकं स्वकं गोचरविषयं रूपादिकमाकांक्षतीति । यच्च तत्केवलमिति विस्तरः । नैव तदन्येषां चक्षुरादीनां विषयमाकांक्षति यन्मनाधिपत्याध्याहृतं । किं तर्हि । स्वविषयमेव धर्मायतनमेवालम्बत इति । अतो नास्त्येष दोषः । यद्येवं मनैन्द्रियस्याप्य्[तिब् । ३७० ] अव्यभिचारः प्राप्नोतीति यदुक्तमिति । न पुद्गलः । किम् । अभिज्ञेयः परिज्ञेयश्चेति । तस्माद्विज्ञेयोऽप्यसौ पुद्गलो न भवति । ननु चासावर्थादभिज्ञेयः परिज्ञेयश्च न भवतीत्युक्तः । न त्वर्थो विज्ञेयः इति । अत आह । प्रज्ञाविज्ञानयोः समानविषयत्वादिति । विज्ञेयमपि हि चक्षुरादिकं भवति । न केवलमभिज्ञेयं परिज्ञेयं चेति । अनात्मनेति । चक्षुषा चक्षुर्विज्ञानेनेत्यर्थः । नीतार्थं च सूत्रं प्रतिसरणमुक्तमिति । चत्वारीमानि भिक्षवः प्रतिसरणानि । कतमानि चत्वारि । धर्मः प्रतिसरणं न पुद्गलः । अर्थः प्रतिसरणं न व्यंजनं । नीतार्थसूत्रं प्रतिसरणं न नेयार्थं । ज्ञानं प्रतिसरणं न विज्ञानमिति । प्रज्ञप्तिमनूपपतित इति । यत्रैव प्रज्ञप्तिः कृता आत्मेति व्यवहारार्थं तामेवात्मेत्यभिनिविष्ट इत्यर्थः । नास्तीह सत्त्व आत्मा चेति । इदमिहोदाहरणं पुद्गलो नोपलभ्यत इत्येतच्च । न विद्यते सोऽपि कश्चिद् इतीदं वाप्युदाहरणं । योग्यपि नास्ति यः शून्यतामभ्यस्यातीति । आत्मदृष्टिर्भवति यावज्जीवदृष्टिरिति प्रथमा आदिनवो निर्विशेषो भवति । तीर्थिकैर्[तिब् । ३७० ] इति द्वितीयः । उन्मार्गप्रतिपन्नो भवतीति तृतीयः । शून्यतायाम् (अभिधर्मकोषव्याख्या ७०५) अस्य चित्तं न प्रस्कन्दति यावन्नाधिमुच्यत इति चतुर्थः । आर्यधर्मा अस्य न व्यवदायन्त इति पंचमः । न तर्हि तेषां बुद्धः शास्तेति । बुद्धवचनमेषां न प्रमाणमित्यभिप्रायात् । न किलैतद्बुद्धवचनमिति । केनाप्यध्यारोपितान्येतानि सूत्राणीत्यभिप्रायः । सर्वनिकायान्तरेष्विति ताम्रपर्णीयनिकायादिषु । न च सूत्रं बाधते न च सूत्रान्तरं बाधते । न च सूत्रान्तरं विरोधयति । न धर्मतां बाधत इति प्रतीत्यसमुत्पादधर्मतां । सर्वधर्मा अनात्मान इति । न चैत आत्मस्वभावाः । न चैतेष्वात्मा विद्यत इति अनात्मानः सर्वधर्माः । द्वयं प्रतीत्येति । चक्षू रूपाणि यावन्मनो धर्मानिति । [न पुद्गलो न धर्मा इति] । नात्मा स्कंधायतनधातव इति वचने यत्कश्चित्पूर्वं नो तु वक्तव्यं रूपाणि वा नो वेत्युक्तम् । अपोढमपास्तं तद्भवति आत्मनोऽन्यत्वात् । तस्मात्सर्व एवान्मात्मन्यात्मग्राह इति । नातोऽन्योऽस्तीति दर्शयति । यद्येवमिति विस्तरः । यदीमानेव पंचोपादानस्कन्धान् समनुस्मरन्तः समन्वस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा न पुद्गलं । कस्मादाह रूपवानहं [तिब् । ३७१ ] बभूवातीतेऽध्वनीति । अहमिति वचनात्पुद्गल उच्यते इति दर्शयति । एवमनेकविधं ये समनुस्मरन्ति । त एवमनुस्मरन्तीति वाक्याध्याहारः । अपाठ एव चात्र शरणं स्यादिति । अहमिति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसंगः स्यादित्यर्थः । विंशतिकोटिका हि सत्कायदृष्टिः पठ्यते । रूपमात्मेति समनुपश्यति । रूपवन्तमात्मानम् । आत्मीयं रूपं । रूपे आत्मेत्येवं यावद्विज्ञानं वक्तव्यं । राशिधारादिवदिति । राशिवद्धारावच्च । आदिशब्देन पानकादिग्रहणं । एकस्मिन् क्षणे समवहितानां बहूनां राशिः । बहुषु क्षणेषु समवहितानां धारा । राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति धारादृष्टान्तेन बहुत्वे सति रूपवेदनादीनां स्कंधानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति । कथमिदं गम्यत इति । बुद्धाख्यायाः संततेरिदं सामर्थ्यं । यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टं । न पुनः पुद्गलस्येति । उच्यते । अतीतादिवचनात् । ये चाभ्यतीता (अभिधर्मकोषव्याख्या ७०६) इति विस्तरेणोक्त उपसंहारः । तस्मात्स्कंधसंतान एव बुद्धाख्या । न पुद्गल इति । भारं च वो भिक्षवो देशयिष्यामीति विस्तरः । [तिब् । ३७१ ] भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च । तच्छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । भारः कतमः । पंचोपादानस्कंधाः । भारादानं कतमत् । तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी । भारनिक्षेपणं कतमत् । यदस्या एव तृस्णायाः पौनर्भविक्या नन्दीरागसहगतायाः तत्रतत्राभिनन्दिन्याः अशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमोऽस्तंगमः भारहारः कतमः । पुद्गल इति स्याद्वचनीयं । योऽसावायुष्मानेवंनामा एवंजन्य एवंगोत्रः एवमाहारः एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुरेवंचिरस्थितिक एवमायुष्मन्त इति । भारं हरतीति भारहारः । पुद्गल इत्यभिप्रायः । छेदमुदाहरणम् । अत एवाह । न हि भार एव भारहार इति । भारादानस्यापि यथोक्तलक्षणस्य स्कंधासंग्रहप्रसंगाच्च । पुद्गलवदस्कंधसंग्रहप्रसंगः । न चैवमिष्यते । तस्माद्भारादानवन्न स्कंधेभ्योऽर्थान्तरभूतः पुद्गलः । इत्यर्थमेव चेति विस्तरेण सर्वमुक्त्वा वक्तव्यं मान्यथेति । यदि द्रव्यसन् स्यात्पुद्गलः भारहारः कतमः पुद्गल इति स्याद्वचनीयमित्येतावदेवोक्तं स्यात्तत्र सूत्रे । परेण स न विभक्त्व्यः स्यात् । योऽसावायुष्मानिति विस्तरेण यावदायुःपर्यन्त इति । [तिब् । ३७२ ] प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्येतत्परेण विशेषणमित्यभिप्रायः । स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते । मान्यथा विज्ञायि नित्यो वावक्तव्यो वा द्रव्यसत्पुद्गल इति । स्कंधानामिति विस्तरः । तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कंधाः । ते भाव इति कृत्वोक्ताः । उत्तरे ये पीड्यन्ते । ते भारहार इति कृत्वोक्ता इति । उपपादुकत्वादिति । उपपदने साधुकारित्वादित्यर्थः । पुद्गलस्य सत्येष्वनन्तर्भावादिति । यस्माद्यथापरिकल्पितस्य पुद्गलस्य सत्येषु दुःखादिसु नानन्तर्भावः । न हि पुद्गलो दुःखं यावन्मार्ग इति । अतो न सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिक मिथ्यादृष्टिः । या हि दृष्टिर्यस्मिन् सत्ये विप्रतिपन्ना । तत्सत्यदर्शनात्तस्याः प्रहाणं भवेत् । तथा दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावान्नापि भावनाप्रहातव्या । भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यम् (अभिधर्मकोषव्याख्या ७०७) एव वस्तु दुःकं समुदयं वालंबत इत्येवं तस्या भावनाप्रहातव्यत्वं युज्यते । न च पुद्गलस्तयोरंतर्भूत इत्यतो भावनाप्रहातव्या सा न भवति । अथ वा न कदाचिदपि दृष्टिर्भावनाप्रहातव्येति नासौ भावनाप्रहातव्या । एकतिलैकतण्डुलवदेकराश्येकवचनवच्चेति । यथा [तिब् । ३७२ ]ऽष्टद्रव्यकत्वेऽप्येकतिल एकतण्डुल इति चोच्यते । तथा एको राशिरेकवचनमिति । तद्वदेकः पुद्गल इति । उत्पत्तिमत्त्वाभ्युपगमादिति । उत्पद्यत इति वचनादुत्पत्तिमत्त्वमस्याभ्युपगतं भवति । ततश्च संस्कृत इति वक्तव्यो भवद्भिः । स्कन्धान्तरोपादानादिति । नास्य संस्कृतत्वमाप्द्यत इति अभिप्रायः । यथा हि याज्ञिको जात इति विद्योपादानादुच्यते । न चासौ भूतार्थेन जातः । तद्वदिति सर्वं योज्यं । कारकस्तु नोपलभ्यत इति विस्तरः । कर्मणः कारको नोपलभ्यते । कीदृशोऽसाविति । आह । य इमांश्चैहिकां स्कन्धान्निक्षिपति त्यजत्यन्यांश्च पारत्रिकान् स्कंधान् प्रतिसंदधाति उपसंगृह्णाति । द्रव्यसन्नवस्थित इति । अन्यत्र धर्मसंकेतादिति प्रतीत्यसमुत्पादलक्षणान्तेनाह यदुतास्मिन् सतीति । उपादत्त इति फाल्गुन न वदामीति । अहं चेदेवं वदेयमुपादत्त इति । अत्र ते कल्पः स्याद्वचनाय को नु भदन्त उपादानमुपादत्त इति । तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्तेति । तस्यापि तथेति । प्रतिक्षणमपूर्वोत्पत्तिरेवेत्यर्थः । यदि पुद्गलः । सोऽसिद्ध इत्येवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति । शरीरविद्यालिंगवच्चेति । विद्या च लिंगं च विद्यालिंगं । शरीरं च विद्यालिंगं च शरीरविद्यालिंगं । [तिब् । ३७३ ] तयोरिव शरीरविद्यालिंगवत् । स्कन्धपुद्गलयोरन्यत्वमापद्यते । यथोपादेयाया विद्याया लिंगाच्च शरीरस्य अन्यत्वं । एवमुपादेयात्स्कन्धात्पुद्गलस्यान्यत्वमुपादातृत्वादित्यभिप्रायः । जीर्णं तं शरीरान्तरमेव व्याधितं चेति प्रतिक्षणमन्यत्वमवस्थानादित्यभिप्रायात् । तत्र यदुक्तं जीर्णो जातो व्याधितो जात इत्यसिद्धो दृष्टान्त इति दर्शयति । अथापि स्यादवस्थितस्य शरीरस्यावस्थान्तरनिर्वृत्ताववस्थान्तरप्रादुर्भाव इति । तच्च नाप्रतिषिद्धो हि सांख्येयः परिणामवादः पूर्वस्मिन् कोशस्थाने । कथम् । स एव हि धर्मी न संविद्यते । यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्पेत । तदेव चेदं तथेत्यपूर्विका वाचोयुक्तिरिति । भूतानि चत्वारि रूपं चैकमिति । रूपं कतमत् । चत्वारि महाभूतानीत्य्(अभिधर्मकोषव्याख्या ७०८) आदि । पाक्षिक एव दोष इति एकस्मिन् पक्षे अयं दोषवाद इत्यर्थः । भूतमात्रिकपक्ष इति स्थविरबुद्धदेवपक्षे नास्मत्पक्ष इत्यर्थः । तथापि त्विति । भूतमात्रिकपक्षेऽपि भूतेभ्यो रूपं नान्यत् । भूतमात्रिकपक्षेऽपि भूतेभ्यो रूपवत्स्कन्धेभ्यो नान्यः पुद्गल इत्युपगतं भवतीति स्वसिद्धान्तः परित्यागः स्यादित्यभिप्रायः । कस्माद्[तिब् । ३७३ ] भगवता स जीवः । तच्छरीरमन्यो वेति न व्याकृतमिति । अयमेषामभिप्रायः । यदि स्कन्धेषु पुद्गलोपचारः कस्माच्छरीरमेव जीव इति नोक्तमिति । पूर्वकैरेवेति स्थविरनागसेनादिभिः । बहुवोल्लका इति । बहुप्रलापा इति । इतराह । यदि पुद्गलो नावक्तव्यः कस्मान्नोक्तो नास्त्येवेति । स च तद्देशनाया अक्षम इति । नैरात्म्यदेशनाया अयोग्य इत्यर्थः । पूर्वमेवं संमूढ इति । सत्कायदृष्टिसहगतेन मोहेन । भूयस्या मात्रया संमोहमापद्येतेति उच्छेददृष्टिसहगतं दृष्ट्यन्तरमुत्पादयेदित्यभिप्रायः । अत एवाह । अभून्मे आत्मा स मे एतर्हि नास्तीति । आह चात्रेति । भदन्तकुमारलातः दृष्टिदंष्ट्रावभेदं चेति विस्तरः । दृष्टिरेव दंष्ट्रा । तयावभेदम् अपेक्ष्य देशयन्ति बुद्धा भगवन्तो धर्मं नैरात्म्यं तत्प्रतिपक्षेण । भ्रंशं च कर्मणामपेक्ष्य कृतविप्रणाशमपेक्ष्य । पुद्गलास्तित्वमिव दर्शयन्तोऽन्यथा देशयन्ति । व्याघ्रि पोतापहारवद् इति । यथा व्याघ्री नातिनिष्ठुरेण दन्तग्रहणेन स्वपोतमपहरति नयति । मास्य दंष्ट्रया शरीरं क्षतं भूदिति । नाप्यतिशिथिलेन दन्तग्रहणेन तमपहरति मास्य भ्रंशपातोऽस्मिन् विसये भूदिति । युक्तेनैव ग्रहणेनापहरतीत्यर्तः । अपहरतीत्यपरे [तिब् । ३७४ ] पठन्ति स्थानान्तरादपहरत्यपनयतीत्यर्थः । तथार्थदर्शने कारणं दर्शयन्नाह । आत्मास्तित्वम् इति विस्तरः । आत्मास्तित्वं प्रतिपन्नश् (अभिधर्मकोषव्याख्या ७०९) चेत्कश्चिद् दृष्टिदंष्ट्रया सत्कायदृष्टिलक्षणया भिन्नः स विनेयजनः स्यात् । अप्राप्य संवृतिगतिं धर्मसंकेतमजानानः । कुशलपोतस्य कुशलकर्मणो व्याघ्रीपोतभूतस्य भ्रंशं कुर्यात् । नास्ति कर्मणः फलमिति । प्राज्ञप्तिक इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः । संवृतिसन्नपि पुद्गलो नास्तीति कश्चिद्गृह्णीयादित्यतो नास्तीति नावोचत् । सति त्वस्तीति नाह किम् इति । यदि भूतार्थेन पुद्गलोऽस्ति किमिति कृत्वा भगवानस्ति पुद्गल इति न ब्रवीति । न हि रूपमस्तीति वचने दोषो भवति तस्यास्तित्वात् । निर्ग्रन्थश्रावकचटकवदिति । निर्ग्रन्थश्रावकेण चटकं जीवन्तं गृहीत्वा भगवान् पृष्टः । किमयं चटको जीवति न वेति । तस्यायमभिप्रायः यदि श्रमणो गौतम आदिशेज्जीवतीति । स तन्निपीडनेन मारयित्वा दर्शयेत् । यदि पुनर्भगवानेवमादिशेन्मृत इति । स तं जीवन्तमेव दर्शयेत् । कथं नामायमज्ञ इति लोको जानीयादिति तस्याभिन्वेशः । भगवता तु तस्याशयं विदित्वा न व्याकृतं । त्वच्चित्तप्रतिबद्धमेवैतज्जीवति वा न वेति चेत्येवाभिहितं । तद्वद्[तिब् । ३७४ ] एतन्न व्याकृतमिति । तुल्यार्थो ह्येष चतुष्क इति । शाश्वतो लोकोऽशाश्वतो लोक इत्यनेन चतुष्केन अन्तवान् लोकोऽनंतवानित्ययं चतुष्कस्तुल्यार्थः । यद्येवं कथं चतुर्दशाव्याकृतवस्तूनि भवंति । शाश्वतो लोक इत्येकचतुष्कः । अन्तवानिति द्वितीयश्चतुष्कः । भवति तथागत इति तृतीयश्चतुष्कः । स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति द्विकः । त्रयश्चतुष्काः एकश्च द्विक इति चतुर्दशाव्याकृतवस्तूनीति । पर्यायरूपत्वव्यावस्थानेऽपि चतुर्दशत्वं भवतीत्यदोषः । त्वमेवैतत्पृच्छसीति । अन्तवानिति यं पृष्टवान् । कथं । किं नु सर्वो लोकोऽनेन मार्गेण निर्यास्यतीति अनेन अन्तवानिति अशाश्वत इति च पृष्टं भवति । आहोस्विदेकदेशो लोकस्येत्यनेनान्तवांश्चानन्तवांश्चेति (अभिधर्मकोषव्याख्या ७१०) शाश्वतश्चाशाश्वतश्चेति च पृष्टं भवति । जीवन्तं पुद्गलमस्तीति व्याकरोतीति । तत्त्वान्यत्वेनावक्तव्यं सन्तमेव पुद्गलं व्याकरोतीत्यभिप्रायः । शाश्वतदोषप्रसंगादिति वात्सिपुत्रीयवचनं । इदं तर्हि कस्माद्व्याकरोतीति विस्तरेणाचार्यवचनं । सार्वज्ञमित्यण्भावप्रत्ययो यौवनमिति यथा । न वक्तव्यं पश्यति वा न वेति । पश्यति न पश्यति न वक्तव्यमित्यर्थः । शनैःशनैरवक्तव्यं क्रियताम् [तिब् । ३७५ ] इति । सर्वज्ञो वा भगवान्न वेति न वक्तव्यमिति । शनैःशनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपपरिहारार्थं । सत्यतः स्थितित इति । स्थितिरूपेणेत्यर्थः । दृष्टिस्थानमुक्तमिति । मिथ्यादृष्टिस्थानमुक्तमित्यभिप्रायः । आचार्य आह । अस्तीत्यपि दृष्टिस्थानमुक्तमिति । सत्कायदृष्टिस्थानमुक्तमित्यर्थः । उक्तोत्तर एष पक्ष इति । कथं च न । प्रतिक्षेपात् । सूत्र एव हि प्रतिक्षिप्तं भगवतेति विस्तरेण यावदपदृष्टान्ता एत इति । किमिदमुपादायेत्यारभ्यैतदपरेषां व्याख्यानं । स्वमतेन तु यथा संसरति । तथा दर्शयन्नाह । यथा तु क्षणिकोऽग्निरिति विस्तरः । क्षणिकोऽग्निः प्रसिद्धः । स च देशांतरोत्पत्तिसंतत्या संचरतीत्युच्यते । तथा सत्त्वाख्यस्कन्धसमुदायस्तृष्णोपादानः । तृष्णा उपादानमस्येति तृष्णोपादानः । क्षणिकोऽपि संतत्या संसरतीति । सुनेत्रो नाम शास्तेति । सप्तसूर्योदयसूत्रेऽयमेव भगवानृषिः सुनेत्रो नाम बभूवेति । अन्यत्वात्स्कंधानमिति । क्षणिकत्वे सत्यन्यत्वादित्यभिप्रायः । एकसंतानतां दर्शयतीति । यस्मात्सुनेत्रो बुद्धसंतान एवासीत् । अतः स एवाहमित्यभेदोपचारः । [तिब् । ३७५ ] यथा स एवाग्निर्यः पूर्वं दृष्टो दहन्नागत इति । संतानव्र्ट्त्या स एवेत्युच्यते । तद्वत् । सैषां स्यात्सत्कायदृष्टिरिति । सैषां तथागतानामात्मात्मीयाकारा सत्कायदृष्टिः स्यात् । दृढतरात्मात्मीयस्नेहपरिगाहितबंधनानामिति । आत्मदृष्टावात्मीयदृष्टौ च सत्यामात्मस्नेह आत्मीयस्नेहश्च भवति । इत्यतो रागो बन्धनमिति कृत्वा दृढीकृतबन्धनानां सतां मोक्षो दूरीभवेत् । नैव भवेदित्यभिप्रायः । य एकेषां पुद्गलग्राह इति वात्सीपुत्रीयाणाम् । एकेषां सर्वनास्तिग्राह इति । मध्यमकचित्तानामित्यभिप्रायः । स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषाद्(अभिधर्मकोषव्याख्या ७११) इति । स्मृतेर्विषयोऽनुभूतोऽर्थः । तत्र संज्ञा सान्वयो हेतुरस्येति स्मृतिविषयसंज्ञान्वयश्चित्तविशेषः । किंचिदेव चित्तं । न सर्वमित्यर्थः । तस्मात्स्मरणं भवति प्रत्यभिज्ञानं वा । एवमुभयविशेषणे कृते पृच्छति कीदृशाच्चित्तविशेषादिति । आह । तदाभोग इति विस्तरः । तस्मिन् स्मर्तव्य आभोगस्तदाभोगः । यत्र तेन सदृशाः संबंधिनश्च संज्ञादयो ये ते विद्यन्तेऽस्येति तदाभोगसदृशसंबंधिसंज्ञादिमांश्चित्तविशेषः । आदिग्रहणेन प्रणिधाननिबन्धाभ्यासादिग्रहणं । [तिब् । ३७६ ] आश्रयविशेषश्च शोकतश्च व्याक्षेपतश्चादिरेषामिति आश्रयविशेषशोकव्याक्षेपादीनि । तैरनुपहतप्रभावश्चित्तविशेषः । स एवमनेन दर्शितो भवति । तस्मादीदृशाच्चित्तविशेषात्स्मृतिर्भवति । तदिदमुक्तं भवति । तदाभोगवतः यदि तत्राभोगः क्रियते । सदृशसंज्ञादिमतः यत्र सादृश्यात्स्मृतिर्भवति । सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं धूमादिदर्शनात्स्मृतिर्भवति । प्रणिधाननिबंधाभ्यासादिमतश्च यत्र प्रणिधानमत्र काले स्मर्तव्यमभ्यासो वास्य तत्स्मर्तव्यादि । आश्रयविशेषादिभिरनुपहतप्रभावत्वादिति । व्याधिलक्षणेनाश्रयविशेषेण शोकेन व्याक्षेपेणान्यत्र कार्ये । आदिशब्दगृहीतैश्च कर्मविद्यादिभिः । तादृशोऽपीति विस्तरः । तदाभोगयावत्संज्ञादिमाननुपहतप्रभावोऽपीत्यर्थः । अतदन्वय इति । अस्मृतिविषयसंज्ञान्वय इत्यर्थः । भावयितुमुत्पादयितुं । अन्यादृश इति । अतदाभोगयावत्संज्ञादिमाननुपहतप्रभावो वा । अन्यस्य चित्तविशेषादन्यस्य । न । असंबंधादिति । देवदत्तयज्ञदत्तचेतसोरकार्यकारणभावेनासंबंधाद्[तिब् । ३७६ ] इत्यर्थः । यथैकसांतानिकयोश्चेतसोः कार्यकारणभावात्संबंधो । नैवं देवदत्तयज्ञदत्तचेतसोः संबन्धः । इत्यनेन दृष्टान्तदार्ष्टान्तिकयोरसाम्यं दर्शयति । तत्र यदि परेणैवं साधनमभिधीयते । न देवदत्तानुभवचित्तानुभूतमर्थं तत्स्मरणचित्तं स्मरति । अन्यत्वात् । यज्ञदत्तचित्तवदिति । तदसाधनं । हेतोः स्वयमनिश्चितत्वात्प्रत्यक्षविरोधेन च पूर्वपक्षसापक्षालत्वात् । अथ देवदत्तानुभवचित्तानुस्मरणचित्तयोरन्यत्वप्रतिज्ञायामिदं दूषणमुद्ग्राह्येत् । तददूषणं दृष्टबाधायां दूषणानुपपत्तेः । भवत्सिद्धान्तेऽपि हि देवदत्तानुभवचित्तानुभूतमर्थं तत्स्मरणचित्तं स्मरतीति । न च ब्रूमोऽन्येन चेतसा दृष्टमन्यतन्यत्स्मरतीति । न यत्किंचिदन्यत्(अभिधर्मकोषव्याख्या ७१२) स्मरतीत्यभिप्रायः । दर्शनचित्तात्स्मृतिचित्तमन्यदेवोत्पद्यत इति । विद्यमानकारणत्वाद्विद्यमानबीजांकुरवदित्यर्थः । स्मरणादेव च प्रत्यभिज्ञानमिति । स्मरणे सति प्रत्यभिज्ञानं । तदेवेदं यन्मया दृष्टमिति स्मरणात् । यत्तर्हीति । यदि चित्तविशेष एव स्मरति । यत्तर्हि चैत्रः स्मरतीति तत्कथमिति वाक्याध्याहारः । स चापि तस्येति विस्तरः । स चापि चैत्राभिधानः । संस्कारसमूहसंतानस्तस्य गवाख्यस्य देशांतरविकारोत्पत्तौ [तिब् । ३७७ ] देशान्तरोत्पत्तौ विकारोत्पत्तौ च कारणभावं चेतसिकृत्वा । किं । स्वामीत्युच्यते । न तु पुद्गलं । कार्यकारणभावापेक्षोऽयं व्यवहारः । न पुद्गलापेक्ष इत्यभिप्रायः । अत एवाह । न तु कश्चिदिति विस्तरः । एवं को विजानातीति विस्तरः । असत्यात्मनि क एवं विजानाति । विजानातीति कोऽर्थः । विज्ञानेन विषयं गृह्णाति । किं तद्ग्रहणमन्यद्विज्ञानत् । विज्ञानं तर्हि करोति । उक्तः सः । यस्तत्करोति । विज्ञानहेतुरिन्द्रियार्थमनस्काराः । चित्तविशेष इति तन्न वक्तव्यं । इन्द्रियादिहेत्वन्तरयोगात् । अत एव चोच्यते यथायोगमित्येष विशेष इति । यत्तर्हि चैत्रो विजानातीत्युच्यते । ततो हि चैत्राख्यात्संतानाद्भवदृष्टोच्यते । असत्यात्मनि कस्येदं विज्ञानं । किमर्थैषा षष्ठी । स्वाम्यर्था । यथा कस्य कः स्वामीति विस्तरेण यावत्क्व च पुनर्विज्ञानं विनियोक्तव्यं यत एतस्य स्वामी मृग्यते । विज्ञातव्येऽर्थे । किमर्थं विनियोक्तव्यं । विज्ञानार्थम् । अहो सूक्तानि सुखैधितानां । तदेव हि नाम तदर्थं विनियोक्तव्यमिति । कथं च विनियोक्तव्यं । उत्पादनत आहोस्वित्संप्रेषणतः । विज्ञानगत्ययोगादुत्पादनतः । [तिब् । ३७७ ] हेतुरेव तर्हि स्वामीति विस्तरेण यावद्यो ह्येव हेतुर्विज्ञानस्य तस्यैवासौ । यश्चापि स चैत्राभिधान इति विस्तरेण यावन्न तत्रापि हेतुभावं व्यतीत्यास्ति स्वामिभाव इति । आदिशब्देन को वेदयते कस्य वेदना । कः संजानीते कस्य संज्ञेत्येवमादि । एषा दिगिति । योऽप्याह । भावस्य भवित्रपेक्षादिति वैयाकरणः । तेन भवितव्यमिति । विज्ञात्रा भवितव्यं पुद्गलेनेत्यभिप्रायः । गच्छतिगमनाभिधानवदिति । यथा ज्वाला गच्छति शब्दो गच्छतीति गच्छतिशब्दाभिधानं । यथा ज्वालायाः शब्दस्य वा गमनम् । एवं देवदत्तो गच्छति देवदत्तस्य गमनम् । अनेन दृष्टान्तेन विजानाति देवदत्त इति सिध्यति । सादृश्येनात्मलाभादिति । कारणसादृश्येन कार्यात्मलाभात् । अकुर्वदपि किंचिदिति । परिस्पन्दमकुर्वदपीत्यर्थः । तदाकारतेति । नीलादिविषयाकारतेत्यर्थः । विज्ञाने कारणभावादिति । (अभिधर्मकोषव्याख्या ७१३) विज्ञानं विज्ञानान्तर्स्य कारणम् । अतो विज्ञानान्तरमुत्पादाद्विजानातीत्युच्यते । कारणे कर्तृशब्दनिवेशादिति । कारणं कर्तृभूतमिति कृत्वा । तद्यथा नादस्य कारणं घण्टेति घण्टा रौतीत्युच्यते । तद्वत् । [तिब् । ३७८ ] प्रदीप इति । अर्चिषां संताने प्रदीप इति उपचर्यते । एक इवेति कृत्वा । स देशान्तरेषूत्पद्यमानः संतानरूपः प्रदीपदेशान्तरेषूत्पद्यमानः । तंतं देशं गच्छतीत्युच्यते । एवं चित्तानां संताने विज्ञानमित्युपचर्यते । एकमिवेति कृत्वा । तत्संतानरूपं विज्ञानं विषयान्तरेषूत्पद्यमानं तंतं विषयं विजानातीत्युच्यते । संतानेन विज्ञानोत्पत्त्या विजानातीत्यभिप्रायः । यथा वा रूपं भवतीति विस्तरः । यथा भवितू रूपस्य भावाज्जनितुर्जातेः स्थातुः स्थितेरनर्थान्तरत्वम् । एवं विज्ञानेऽपि स्यात् । विज्ञातुर्विज्ञानस्य भावादनर्थान्तरत्वं । व्यतिरिक्तस्य भावस्यानुपलब्धेः । वैशेषिकसूत्रानुसाराद्वा । नात्मन इति । यदि नात्मनो विज्ञानमुत्पद्यते विज्ञानलक्षणस्याविशेषात्तादृशमेव विज्ञानमुत्पद्येत । यदि त्वात्मनः तस्याभिप्रायविशेषाद्विशिष्टं ज्ञानमुत्पद्येतेत्यभिप्रायः । न च क्रमनियमेनेति । कस्माच्च न क्रमनियमेनोत्पद्यते । अनियमेनापि ह्युत्पद्यते गोबुद्धेरनन्तरं स्त्रीभुद्धिः । स्त्रीबुद्धेर्महिषभुद्धिः । कस्माद्गोबुद्धिरेवानन्तरं नोत्पद्यते । अंकुरकाण्डपत्त्रादिवदिति । अंकुरात्काण्ड एवोत्पद्यते [तिब् । ३७८ ] न पत्त्रादि । काण्डात्पत्त्रमेवोत्पद्यते न पुष्पाद्यंकुरादि वा । तद्वत् । निकामध्यानसमाहितानामिति । निकामेन पर्याप्तेन समाप्तेन ध्यानेन समाहितानाम् । सदृशकायचित्तोत्पत्तौ सदृशस्य कायस्य चित्तस्य चोत्पत्तौ । स्वयंव्युत्थानमिति । न परोपक्रमेणेत्यभिप्रायः । एवमनेन कस्मान्न नित्यं सदृशमेवोत्पद्यत इत्य्यत्पृष्टं । तद्विसर्जनं । यत्तु पृष्टं न च क्रमनियमेनेति । तद्दर्शयन्नाह । क्रमोऽपि हि चित्तानां नियतमेवेति । अभीष्टमेवैतत् । गोत्रविशेषादिति भावनाविशेषात् । स्त्रीचित्तादिति विस्तरः । स्त्रीचित्तात्स्त्र्यालम्बनाच्चित्तादनन्तरं तस्याः स्त्रियाः कायस्तत्कायः । तत्कायस्य विदूसाणायै यदि परिव्राजकस्यान्यस्य वा साधोश्चित्तमुत्पन्नं भवति । तत्पतिपुत्रादिचित्तं वा । तस्याः पतिपुत्रादयः । आदिशब्देन दुहित्रादयो गृह्यन्ते । तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तं । तद्वान्यतरद्यदिदं तस्मात्स्त्रीचित्तादनन्तमुत्पन्नं भवति । पुनश्च कालान्तरेण संततिपरिणामेन स्त्रीचित्तमुत्पद्यते । तत्पश्चादुत्पन्नं स्त्रीचित्तं (अभिधर्मकोषव्याख्या ७१४) समर्थं भवति तत्कायविदूषणाचित्तोत्पादने तत्स्त्रीकायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा समर्थं । कस्मादित्य्[तिब् । ३७९ ] आह । तद्गोत्रत्वादिति । तद्कायविदूसणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजमस्येति तद्गोत्रं । चित्तं तस्य भावः । तस्मात् । तज्जातीयत्वादित्यभिप्रायः । अन्यथेत्यतद्गोत्रं । अथ पुनः पर्यायेणेति विस्तरः । पर्यायेणायुगपत् । स्त्रीचित्तात्तत्कायविदूषणाचित्तं ततस्तत्पतिचित्तं ततस्तत्पुत्रचित्तं तत एव च तद्दुहितृचित्तं तत एव च तदुपकरणादिचित्तमुत्पन्नं भवति । ततः स्त्रीचित्तादनंतरोत्पन्नेभ्यश्चित्तेभ्यो यद्बहुतरं प्रवाहतः पटुतरं शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य । तदेव चित्तमुत्पद्यते । तद्भावनाया बलीयस्त्वात्तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्तरत्वात् । अन्यत्रेति विस्तरः । तत्कालप्रत्युपस्थितस्तत्कालिकः कायप्रत्ययविशेषो बाह्यप्रत्ययविशेषश्च । तस्मादन्यत्र तस्मादृत इत्यर्थः । तदेव ह्युपपद्यते यस्य कायो बाह्यो वा प्रत्ययविषय उप्तिष्ठते । सैव बलीयसीति । या बहुतरस्य पटुतरस्य आसन्नतरस्य वाभिहिता सैव बलीयसि भावना । कस्मान्नित्यं न फलति न हि तच्चित्तं निवर्तते । वर्तत इतीतरेण चोदित आह । स्थित्यन्यथात्वलक्षणत्वात् । [तिब् । ३७९ ] स्थितेरन्यथात्वं लक्षणमस्येति स्थित्यन्यथात्वलक्षणं । तद्भावात् । तस्य चान्यथात्वस्य संस्कृतलक्षणस्य । अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य चित्तान्तरस्योत्पत्तावानुगुण्यान्नित्यं न फलति तदेवेत्यर्थसंबन्धः । एवं ह्याहुरिति स्थविरराहुलः । सर्वाकारम् इति सर्वप्रकारं । यावन्तो मयूरचन्द्रकस्य वर्णसंनिवेशादिप्रकाराः । तेषां कारणम् इदमस्य कारणं येनैवं वर्णः एवं संनिवेशः एवं स्निग्धतेति । एवमादिभिराकारैर् न ज्ञेयं न ज्ञातुं शक्यं । कैः । असर्वज्ञैः श्रावकप्रत्येकबुद्धादिभिः । सर्वज्ञबलं हि तत्ज्ञानं सर्वविद्बलं हि तज्ज्ञानं । येन तत्कारणं ज्ञायत इत्यभिप्रायः । प्राग्(अभिधर्मकोषव्याख्या ७१५) एवरूपिणां चित्तभेदानामिति । रूपकारणमपि सर्वथा ज्ञातुमशक्यं किमरूपिणामित्यर्थः । एकीयस्तीर्थिक इति वैशेषिकः । मनःसंयोगविशेषापेक्षत्वादिति चेत् । स्यान्मतं तुल्येऽप्यात्मप्रभवत्वे चित्तोत्पत्तेरात्मा कदाचित्कर्हिचिन्मनःसंयोगविशेषमपेक्षते । इत्यतो न नित्यं तादृशमेव चित्तमुत्पद्यते न च क्रमनियमेनांकुरकाण्डपत्त्रादिवदिति । न । अन्यसंयोगासिद्धेः । [तिब् । ३८० ] नैतदेवं । कस्मात् । ताभ्यामात्ममनोभ्यामन्यस्य संयोगस्यासिद्धेः । न हि संयोगो नाम भावः कश्चिदस्माकं सिद्धोऽस्ति । संयोगिनोश्चेति विस्तरः । अभ्युपगतेऽपि संयोगे संयोगिनोश्चेति विस्तरः । लोकप्रसिद्धयोः काष्ठयोरन्ययोर्वा कयोश्चित् । परिच्छिन्नत्वात्परिच्छिन्नदेशदृष्टत्वादित्यर्थः । लक्षणव्याख्यान्दे चेति । वैशेषिकतंत्रे संयोगलक्षणनिर्देशात् । ततः किमात्मनः परिच्छेदप्रसंगः । परिच्छिन्नदेशत्वप्रसंगः । यत्रात्मा । न तत्र मनः । यत्र मनः । न तत्रात्मेति । अनेनानुमानागमापत्तितो धर्मिविशेषविपर्ययोऽस्य पक्षस्य संदर्शितो भवति । मनसा संयोग आत्मन इति । आत्मा धर्मी । तस्य विशेषः सर्वगत्वं । तद्विपर्ययोऽसर्वगतत्वमिति । ततो मनःसंचारादात्मनः संचारप्रसंगादिति । ततो लक्षणादप्राप्तिपूर्विका प्राप्तिः संयोग इति मनःसंचाराद्यंयं शरीरप्रदेशं मनः संचरति । ततस्तत आत्मा संचरत्यपैतीति प्रसज्यते । तद्यथा यंयं पृथिवीप्रदेशं पुरुषः संचरति । ततस्तत आतपोऽपसर्पति । तथा च सति निःक्रियत्वमस्य बाधितं भवतीति । स एव प्रतिज्ञादोषः । विनाशस्य वा । प्रसंग इति वर्तते । आत्मन इति च । यत्रयत्र मनः संचरति । तत्रतत्रात्मा विनश्यतीति । स एव चात्र प्रतिज्ञादोषः । आत्मनो नित्यत्वनिवृत्तेः । प्रदेशसंयोग [तिब् । ३८० ] इति चेत् । स्यान्मतमात्मना प्रदेशेन संयोगो मनसः । आत्मनो वा प्रदेशेन मनसा सह संयोगः । यस्मिं छरीरप्रदेशे मनोऽवस्थितं भवति । तद्गतेनात्मप्रदेशेन मनो न संयुज्यते । प्रदेशान्तरेणान्यपार्श्वतः संयुज्यते । तस्ंादप्राप्तिपूर्वकत्वेऽपि संयोगस्याप्राप्तेनैवात्मप्रदेशेन मनः संयुज्यत इति । तन्न । तस्यैव तत्प्रदेशत्वायोगात् । न ह्यात्मनोऽन्यप्रदेश विद्यंते । न चैवात्मैवात्मनः प्रदेशो युज्यते । अस्तु वा संयोग इति विस्तरः । अभ्युपेत्यापि संयोगं तथापि निर्विकारत्वादविशिष्टे मनसि कथं संयोगविशेषः । कथं विशिष्टः संयोगो भवति । यते एवमुक्तं मनःसंयोगविशेषापेक्षत्वादिति । बुद्धिविशेषापेक्षत्वादिति चेत् । स एवोपरि चोद्यते कथं बुद्धिविशेष इति । कस्मान्न नित्यमीदृशमेवोत्पद्यते चित्तमविशिष्टे आत्मनीति । कारणविशेषाद्धि कार्यविशेष (अभिधर्मकोषव्याख्या ७१६) इष्यते शंखपटहादिशब्दवत् । संस्कारविशेषापेक्षादात्ममनःसंयोगादिति चेत् । स्यान्मतं नित्यमविशिष्टेऽप्यात्मनि मनसि च संस्कारविशेषापेक्षाद् आत्ममनसोः संयोगाद्बुद्धिविशेष इति । तदुक्तं भवति । संस्कारविशेषाद्भावनाविशेषलक्षणादात्ममनःसंयोगविशेषः । तद्विशेषाद्बुद्धिविशेष इति । अत्र ब्रूमः । चित्तादेवास्त्विति विस्तरः । अयमिहाचार्यस्याभिप्रायः । [सान्तर्भवश्चित्तमस्तीत्यविवादः] मम तव च चित्तमस्तीत्यविवादः । [तिब् । ३८१ ] संस्कारविशेषोऽप्यस्ति भावनाविशेषलक्षणो योऽसौ वासना बीजमिति वास्माभिर्व्यवस्थाप्यते । भावान्तरं न वेति तुविशेषः । तस्माच्चित्तादेव संस्कारविशेषापेक्षाद्बुद्धिविशेषोऽस्तु । किमात्मना तत्संयोगेन वा कल्पितेनेति । न हि किंचिदिति विस्तरः । कुहकेनैकतरेण वैद्येन कस्मैचित्ग्लानायौषधं ददानेन चिन्तितं । इदमौषधं सुलभं । विदितं चास्य सपरिजनस्य ग्लानस्य । एतेन चौषधेनास्य ग्लानस्य ग्लानोपशमो भवेत् । तदेवं मामवधूयान्येऽपि करिष्यन्ति । ततश्च ममार्थलाभो न भविष्यति । इति चिन्तयित्वा तदभिमंत्र्य फूः स्वाहा फूः स्वाहेति जनस्य दर्शितम् । अनेन मन्त्रेणेदमौषधं सिध्यतीति । तत्र यथा कुहकवैद्यफूःस्वाहानामौषधकार्यसिद्धौ सामर्थ्यं नास्ति । औषधस्यैव तु सामर्थ्यम् । एवमात्मनो बुद्धिविशेषोपत्तौ नास्ति सामर्थ्यं । चित्तस्यैव सामर्थ्यमिति । सत्यात्मनि तयोः संभव इति चेत् । स्यान्मतं । सत्यात्मनि तयोः संस्कारचित्तयोः संभवः । इत्यतोऽस्त्यात्मेति । अत्र ब्रूमो वाङ्मात्रं । नात्र काचिद्युक्तिरस्तीति । आश्रयः स इति चेत् । स्यान्मतम् । आत्माश्रयस्तयोरिति । यथा कः कस्याश्रय इति । आश्रयरूपेणोदाहरणं मृग्यते । तमस्याश्रयार्थमयुक्तं दर्शयन्नाह । न हि ते [तिब् । ३८१ ] इति विस्तरः । ते संस्कारचित्ते । चित्रबदरादिवत् । यथा कुड्ये चित्रमाधार्यं बदरं च कुण्डे । आदिशब्देन भाजने भोजनमित्यादि । नैव ते संस्कारचित्ते तत्रात्मन्याधेये । धार्ये । नापि स कुड्यकुण्डादिवदाधारो युक्तः । नापि स आत्मा कुड्यवत्कुण्डवच्चाधारो युक्तः । आदिशब्देन भाजनादिग्रहणं । किं करणमित्याह । प्रतिघातियुतत्वदोषादिति प्रतिघातित्वदोषाद्युतत्वदोषाच्च । सप्रतिघत्वप्रसंगात्पृथग्दशत्वप्रसंगाच्चेत्यर्थः । यथा चित्रबदरयोः कुड्यकुण्डयोश्चाधार्याधारभावे प्रतिघातित्वं युतत्वं च दृष्टे । एवमेतेषामपि स्यात् । अनिष्टं चैतत् । अतोऽनात्माश्रयः । यथा न गन्धाधिभ्योऽन्या पृथिवी । तथा बुद्ध्यादिभ्योऽन्य आत्मेति । (अभिधर्मकोषव्याख्या ७१७) को हि सत्पुरुषो गंधादिभ्योऽन्यां पृथिवीं निधारयति । न हि पृथिवी कतमेत्युक्ते रूपगन्धरसस्पर्शेभ्योऽन्या दर्शयितुं शक्यते यथा रूपं गन्धादिभ्योऽन्यदिति । यदि न गंधादिभ्योऽन्या पृथिवी । कथमयं व्यपदेशः पृथिव्यां गन्धादय इति । अन्येन ह्यन्यस्य व्यपदेशो दृष्टः । चैत्रस्य कम्बल इति । अत उच्यते । व्यपदेशस्तु इति विस्तरः । [तिब् । ३८२ ] विशेषणार्थमित्यबादिभ्यो विशेषणार्थमित्यर्थः । कथमिति प्रतिपाद्यति । ते ह्येवेति विस्तरः । ते ह्येवेत्येवकारस्तद्व्य्तिरिक्तपृथिवीद्रव्यनिवृत्त्यर्थः । ते एव गन्धादयः । तदाख्याः पृथिव्याख्याः । यथा विज्ञायेरन् । तथा विशेषणार्थं व्यपदेश इत्यभिसंबन्धः । नान्य इति । नाबाद्याख्याः । पृथिव्याख्येभ्योऽन्ये विज्ञायेरन्नित्यर्थः । काष्ठप्रतिमायाः शरीरव्यपदेशवदिति । यथा काष्ठप्रतिमायाः शरीरमिति व्यपदिश्यते । अन्याभ्यो मृन्मयादिविशेषणार्थं । न च काष्ठप्रतिमायाः शरीरमन्यत् । एवमिहापि व्यपदेशः स्यात् । न च गन्धादिभ्योऽन्या पृथिवीति । संस्कारविशेषापेक्षत्व इत्यात्ममनःसंयोगस्य । यो हि बलिष्ठ इति । संस्कारविशेषः । तेनान्येषां संस्कारविशेषाणां प्रतिबन्धः । स एव बलिष्ठः कस्मान्नित्यं न फलतीत्याचार्यवचनं । स एव पुनराह । योऽस्य न्यायो यः संस्कारस्य न्यायो विनाशः प्रतिबन्धो वा । सोऽस्तु भावनाया बीजात्मिकायाः । आत्मा तु निरर्थको निःप्रयोजनः कल्प्यते । संस्कारार्था हि तत्कल्पना स्यात् । तस्य च संस्कारस्य यत्कार्यं । तद्भावनयैव क्रियत इति । स्मृत्यादीनामिति विस्तरः । स्यान्मतं । स्मृतिसंस्कारेच्छाद्वेषादीनां [तिब् । ३८२ ] गुणपदार्थत्वात्तस्य च गुणपदार्थस्यावश्यद्रव्याश्रितत्वाद्द्रव्याश्रयश्च गुणवानित्येवं लक्षणोपदेशात् । न चैषामन्य आश्रयः पृथ्व्यादिको युज्यतेऽपरप्रत्यक्षत्वाधिभिः । कारणैः । अतो य एषामाश्रयः । स आत्मा । तस्मादस्त्यात्मेति । न । असिद्धेः । नैतदेवं । कस्मात् । स्मृत्यादीनां गुणपदार्थत्वासिद्धेः । विद्यमानं द्रव्यमिति । यत्स्वलक्षणतो विद्यमानं । तद्द्रव्यं । षट्द्रव्याणि श्रामण्यफलानीति । रूपस्कन्धादीनि पंच स्कन्धानि श्रामण्यफलान्यसंस्कृतं च षष्ठमिति षट्द्रव्याणि भवन्ति । नाप्येषामिति । स्मृत्यादिनं । परीक्षितो ह्याश्रयार्थ इति । यथा कः कस्याश्रयः । न हि ते चित्रबदरादिवदाधार्य इति विस्तरेण । (अभिधर्मकोषव्याख्या ७१८) एते प्रकारा इति । गौरादिप्रकाराः । स्कंधेष्वयमित्यहंकराः । न त्वहंकार इति । न त्वहमित्येवमाकरः प्रत्यय इत्यर्थः । इदं पुनस्तदेवायातमिति । किमर्थैषा षष्ठी । स्वाम्यर्था । यथा कः कस्यो स्वामी । यथा गोश्चैत्रः कथमसौ तस्याः स्वामी । तदधीनो हि तस्यावाहधोहादिषु [तिब् । ३८३ ] विनियोगः । क्व च पुनरहंकारो विनियोक्तव्यो यत एतस्य स्वामि मृग्यते । अहंकर्तव्येऽर्थे । किमर्थं विनियोक्तयः । अहंकारार्थम् । अहो सूक्तानि सुखैधितानां । स एव हि नाम तदर्थं विनियोक्तव्य इति । कथं च विनियोक्त्व्यः । उत्पादनतः आहोस्वित्संप्रेषणतः । अहंकारगत्ययोगादुत्पादनतः । हेतुरेव तर्हि स्वामि प्राप्नोति । फलमेव च स्वं । यस्माद्धेतोराधिपत्यं फले । फलेन च तद्वान् हेतुरिति । य एवास्य हेतुरहंकारस्य । तस्यैवयमिति । पुष्पितो वृक्ष इति दृष्टान्तो यत्र सिद्धान्ते वृक्षावयवी नेष्यते । विजातीयचतुर्महाभूतकायारम्भानभीष्टे । यत्र तु वृक्षावयव्यस्ति । तत्र द्वितीयो दृष्टान्तः । फलितं वनमिति । न हि वनं नाम किंचिदस्ति । यथा यस्मिन् वने फलमुत्पन्नं तत्फलितमिति उच्यते । यथा यस्मिन्नाश्रये षडायतनलक्षणे सुखमुत्पन्नं दुःखं वा । स सुखितो दुःखितो वा । तथोक्तमिति । यथा आश्रयः षडायतनं तथोक्तं । तद्विकारविकारित्वादाश्रयाश्चक्षुरादय इति । अथ पंचस्कन्धकं भवानुदाहरतीत्यधिकृतं । स एव कर्तेति । स एव पंचस्कन्धलक्षणः कर्ता । [तिब् । ३८३ ] नात्मा । इति सिद्धो नः पक्षः । तत्रापि स्वातंत्र्यं नास्तीति दर्शयन्नाह । त्रिविधं चेदं कर्मेति विस्तरः । कायस्य चित्तपरतंत्रा वृत्तिः चित्तप्रवर्तित्वात्कायकर्मणः । चित्तस्यापि काये वृत्तिः स्वकारणप्रर्तंत्रा । [मनोधर्म]मनस्कारादिपरतंत्रत्वात् । तस्याप्येवं तस्य चित्तकारणस्य स्वकारणपरतंत्रा वृत्तिरिति । नास्ति कस्यचिदपि स्वातंत्र्यं कायस्य चित्तस्य चित्तकारणस्यान्यस्य वा । प्रत्ययपरतंत्रा हि सर्वे भावाः । चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः । द्वाभ्यामन्ये तु जायन्त इति वचनात् । आत्मनोऽपि च निरपेक्षस्य बुद्धिविशेषाद्युत्पत्तावकारणत्वाभ्युपगमान्न स्वातंत्र्यं सिध्यति । तस्मान्नैवं लक्षण इति । स्वतंत्रः कर्तेति । एवं तर्हि कर्तेत्याह । यत्तु यस्य प्रधानकारणं । तत्(अभिधर्मकोषव्याख्या ७१९) तस्य कर्तेत्युच्यते । प्राधान्ये तत्प्रतीत्योत्पत्तेः । स एवमपि कर्ता न युज्यते । प्रधानकारणभावेनापि न युज्यत इत्यर्थः । तस्याकारणत्वमुपदर्शयन्नाह । स्मृतितो हि छन्द इति विस्तरः । पूर्वस्मर्तव्येऽऋथे स्मृतिरुत्पद्यते । स्मृतेश्छन्दः कर्तुकामता । छन्दाद्वितर्कश्चेतनाविशेषोऽभिसंस्कारलक्षणः । प्रज्ञाविशेषो वा योगाचारनयेन । वैभाषिकनयेन त्वभिरूपणविकल्पलक्षणः । [तिब् । ३८४ ] वितर्कात्प्रत्यत्नो वीर्यं । प्रयत्नाद्वायुः । ततो वायोः कर्म देशान्तरोत्पत्तिलक्षणमिति । किमत्रात्मा कुरुते । विज्ञाने प्रतिषेधादिति । यैवोपलब्धिः । तदेव विज्ञानं । विज्ञाने चात्मनः सामर्थ्यं प्रतिषिद्धं । चित्तादेवास्तु संस्कारविशेषापेक्षात् । न हि किंचिदात्मन उपलभ्यते समर्थ्यम् । औषधकार्यसिद्धाविव कुहकवैद्यफूःस्वाहानामिति । यथा तथोक्तमिति तद्विकारविकारित्वादाश्रयाश्चक्षुरादय इति । तदाश्रितादित्यात्माश्रितात् । उक्तोत्तरैषा वाचोयुक्तिरिति । यथा कः कस्याश्रयः । न हि ते चित्रबदरादिवदाधार्ये । नापि स कुड्यकुण्डादिवदाधारो युक्तः । प्रतिघातित्वयुक्तत्वादिदोषान्न वै स एवमाश्रयः । कथं तर्हीति विस्तरः । तदाहितं हि तदिति । तेन बीजेनाहितं तत्सामर्थ्यमित्यर्थः । यथोक्तमिति स्थविरराहुलेन । यद्गुरु यच्चासन्नम् इति विस्तरः । एकस्मिन् संताने चत्वारि कर्माणि । गुरु आसन्नमभ्यस्तं पूर्वकृतं च । एषां चतुर्णां गुरुकर्म पूर्वकमिति त्रिभ्यस्तत्पूर्वं विपच्यते । आसन्नाभ्यस्तपूर्वकृतानाम् [तिब् । ३८४ ] अप्यासन्नं पूर्वमिति तत्पूर्वं द्वाभ्यां विपच्यते । अभ्यस्तपूर्वकृतयोश्चाभ्यस्तं पूर्वमिति एकस्मात्पूर्वं विपच्यते । असत्स्वेतेषु पूर्वजन्मकृतं विपच्यते अपरपर्यायवेदनीयं । अक्लिष्टानामिति । कुशलानामनिवृताव्याकृतनां च । विक्लित्तिविशेषजादिति । भूम्युदकसम्बन्धात्फलस्य सूक्ष्मो विकारो विक्लित्तिः । तस्या विशेषः । स एवातिप्रकृष्टः । तस्माज्जातो विकारविशेषः । तस्मात् । फलान्तरमुत्पद्यते । कीदृशाद्विकारविशेषादिति दर्शयन्नाह । यो हि तत्र भूतप्रकारङ्कुरं निवर्तयति । स तस्य बीजमिति । तस्यांकुरस्य बीजं । नान्यो भूतप्रकारः । न पूर्वबीजावस्थो भूतप्रकार इत्यर्थः । भविन्या तु संज्ञयेति । ओदनं पचति सक्तुं पिनष्टीति यथा भाविन्या संज्ञया व्यपदेशः । एवं पूर्वकोऽपि (अभिधर्मकोषव्याख्या ७२०) संतानः अविक्लिन्नबीजावस्थः बीजमित्याख्यायते भाविन्यानया संज्ञयेति । सादृश्याद्वेति । विक्लिन्नविशेषजेन भूतविकारविशेषेण सदृशः । स पूर्वकः संतान इति कृत्वा बीजमित्याख्यायते । एवमिहापीति विस्तरः । यदि सद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज्जातः कुशलसास्रवश्चित्तविकार उत्पद्यते । असद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज्जातः अकुशलो वा चित्तविकार [तिब् । ३८५ ] उत्पद्यते । तस्माद्तद्विपाकान्तरमुत्पद्यते । नान्यथेति समानमेतत् । यथा न फलादेव फलान्तरमुत्पद्यते । किं तर्हि । विकारविशेषात् । एवं न विपाकादेव विपाकान्तरमुत्पद्यते । किं तर्हि । चित्तविकारविशेषादुत्पद्यते इति । तुल्यमेतत् । फले रक्तः केसर इति । फलाभ्यन्तरे केसरः । यत्र बीजपूरकरस आम्लोऽवतिष्ठते । न च स तस्मात्पुनरन्य इति । न रसरक्तः केसरस्तस्मादुक्तात्केसरात्पुनरुपजायते । किं तर्हि । प्राकृत एवारक्तः केसरसुपजायत इत्यर्थः । इदमत्रोदाहरणं । यथा लाक्षारसरक्तमातुलुंगपुष्पफलाद्रक्तकेसरान्न रक्तं केसरान्तरं पुनर्भवति । एवं कर्मजाद्विपकान्न पुनर्विपाकान्तरमिति । आह चात्र । चित्तं ह्येतदनन्तबीजसहितं संतानतो वर्तते । तत्तद्बीजमुपैति पुष्टिमुदिते स्वे प्रत्यये चेतसि । । तत्पुष्टं द्रुमलब्धवृत्ति फलदं कालेन संपद्यते । रंगस्येव हि मातुलुंगकुसुमेऽन्यस्तस्य तत्केसरे । ॥ पुनराह । कर्पासबीजे पुष्पे च मातुलुंगस्य रंजिते । । लाक्षया जायते रक्तं यथा कर्पासकेसरं । ॥ तस्मिन्नस्तमिते रंगे संतानाद्भावितक्रमात् । । कर्मण्यस्तमिते चैव भावनातः फलोदय । ॥ इति । कर्मेति सर्वं । तद्भावनां कर्मभावनां । तस्या भावनाया वृत्तिलाभं त्वद्वृत्तं लाभं । ततस् तद्वृत्तिलाभात् । (अभिधर्मकोषव्याख्या ७२१) फलम् इत्येतच्चतुष्टयं नियमेन [तिब् । ३८५ ] यदृच्छया । बुद्धादन्यः श्रावकादिः सर्वथा सर्वाकारं न प्रजानाति । अर्थादुक्तं भवति । बुद्ध एव तत्सर्वं सर्वथा प्रजानातीति । इत्येतामिति विस्तरः । इतिकरणः समाप्त्यर्थः । प्रदर्शनार्थो वा । एतां बुद्धानां प्रवचनधर्मतां सुविहितेन हेतोर्मार्गेण हेतुमार्गेण शुद्धां निरवद्यां निशाम्य दृष्ट्वा । अंधास्तीर्थ्याः । यथाभूतदर्शनवैकल्यात् । कुत्सिता दृष्टिः कुदृष्टिः । तस्याश्चेष्टितानि कुदृष्टिचेष्टितानि । विविधानि कुदृष्टिचेष्टितानेषामिति विविधकुदृष्टिचेष्टिताः स्वर्गापवर्गहेतावप्रतिपन्न मिथ्याप्रतिपन्नाश्चेत्यर्थः । तेषामेवंविधानां तीर्थ्यानां कपिलोलूकादीनां मतं दर्शनमपविध्य त्यक्त्वा यांति संसारान्निर्वाणमिति वाक्याध्याहारः । के ते सत्त्वाः प्रज्ञाचक्षुष्मन्त आर्यश्रावकाः । अथ वा तामेव प्रवचनधर्मतां यान्ति प्रतिपद्यन्त इत्यर्थः । प्रवचनधर्मता पुनरत्र नैरात्म्यं बुद्धानुशासनि वा । अन्य आहुः । प्रवचनं सूत्रादिद्वादशांगवचोगतम् । तस्य धर्मता स्वाख्यातता युक्त्युपेतत्वात् । निर्वाणप्रवणता च निर्वाणद्योतनात् । यथोक्तं सर्व इमे धर्मा निर्वाणप्रवणाः निर्वाणप्राग्भाराः निर्वाणमेवाभिवदन्तो [तिब् । ३८६ ]ऽभिवदन्तीति । अनात्मसंज्ञिनश्च निर्वाणे शान्तसंज्ञाः संतिष्ठन्ते । आत्मोच्छेदाशंकापगमादिति । तदेवमनन्धा एव यान्ति । नान्धाः । अन्धास्तु भ्रमन्त्येव संसारार्णवे नैरात्म्यमपश्यन्तः । तद्दर्शयन्नाह इमां हीति विस्तरः । इयं निरात्मता । निर्वाणमेव पुरं निर्वाणपुरं । तस्यैका वर्तिनीति निर्वाणपुरैकमार्गो नान्यो मार्ग इत्यर्थः । तथागत एवादित्यो गंभीरधर्माभिप्रकाशकत्वादादित्यभूतस्तथागतः । तस्य वचांसि तान्येवांशवः । तैर्भास्वती आलोकवती तथागतादित्यवचोऽंशुभास्वति । आर्याणां सहस्रैर्वाहितेत्यार्यसहस्रवाहिता । विवृतामपीति । तामिमां निर्वाणपुरैकवर्तिनीं तथागतादित्यवचोऽंशुभास्वतीं विवृतामपि निरात्मतां । प्रज्ञाचक्षुषो विशदस्याभावादविद्याकोशपटलपर्यवनद्धनेत्रत्वाद्वा मन्दचक्षुः तीर्थिको वात्सीपुत्रीयोऽपि वा नेक्षते । त्रयश्चेह मार्गगुण वर्ण्यन्ते । (अभिधर्मकोषव्याख्या ७२२) तद्यथैकायनताभिप्रेतदेशप्रायणात् । सालोकता यतो निःशंको गच्छति । यातानुयातता च परिमर्दितस्थाणुकण्टकादित्वात् । [तिब् । ३८६ ] येन सुखं गच्छति । तत्साधर्म्येणेयं निरात्मतावर्तिनी द्रष्टव्या । चतुर्भिश्च कारणैर्मार्गो न विद्यते । सत्वानुतमस्कतया । प्रकाशितोऽप्यादित्येन अवाहिततया । बहुपुरुषवाहितोऽप्यावृततया । विवृतोऽपि द्रष्टुर्मन्दचक्षुष्कतयेति । तेषामिहैकमेव कारणमस्य मार्गस्यादर्शन उक्तं । यतो द्रष्टुर्दोषेणैवायं मार्गो न दृश्यते । न मार्गदोषेणेति । यत एष मन्दचक्षुरेतं न पश्यतीत्यवगन्तव्यम् । इति दिङ्मात्रमेवेदम् इति । सर्वमिति यथोक्तं । दिगेव दिङ्मात्रमेवकारार्थो मात्रशब्दः । दिक्प्रमाणमस्येति दिङ्मात्रमिति वा । महतोऽभिधर्मशास्त्रादल्पमिदम् उपदिष्टं मयेति वाक्यशेषः । केषाम् । सुमेधसां । मतिमतामित्यर्थः । तादर्थ्ये षष्ठि । किंवदित्याह । व्रणदेशो विषस्येव स्वसामर्थ्यविसर्पिण इति । यथा विसं स्वसामर्थ्याद्व्रणदेशं प्राप्य सर्वेष्वङ्गप्रत्यङ्गेष्वत्यन्तं विसर्पतीति मत्वा केनचित्तस्य व्रणदेशः कृतः । कथं नामेदं विसर्पतीति । एवं सुमेधसः स्वसामर्थ्यविसर्पित्वाद्विषस्थानियाः । इत्यतस्तेषां सुमेधसामुद्घटितज्ञानां प्राज्ञानामिदमुपदिष्टं मया । कथम् । अल्पेन ग्रन्थेन महदभिधर्मशास्त्रं । काश्मीरवैभाषिकनीतिसिद्धम् अर्थतः प्रतिपद्येरन्निति । अपरे पुनर्व्याचक्षते । इति दिङ्मात्रमेवेदमिति इदमेव नैरात्म्यप्रतिवेधमधिकृत्योक्तमिति । काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयायं [तिब् । ३८७ ] कथितोऽभिधर्म इत्यनेनैवार्थस्याभिहितत्वादिति । समाप्तश्चाष्टमकोशस्थानसंबद्ध एव पुद्गलविनिश्चयः । (अभिधर्मकोषव्याख्या ७२३) नानाभिधर्मार्थकरंडभूतम् एतद्विवृ । । । । । । । । । । । । । रः प्रसूततृष्नायमृतमद्भृतयोनिभूतम् । व्याख्यापदार्ककिरणैः स्फुटितं मदीयैः शास्त्राम्बुजं बुधजनभ्रमरा भजन्ताम् ॥ योऽधित्य सर्वशास्त्राणि विद्वद्यशा यशोमित्रः । । स इमां कृतवान् व्याख्यां व्याख्यास्वन्यास्वसंतुष्टः । ॥ तेन श्रीभारतीभर्तः परमार्थागमा व्याख्या । इयं देवरूपस्य देवकल्पस्य कल्पिता ॥ आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायामष्टमं कोशस्थानं समाप्तमिति । ग्रंथकारसंख्या २५००० । शुभं