यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः । तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम् ॥ १ ॥ सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते । तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः ॥ २ ॥ न कर्म स्वकतोत्सर्गात्ज्ञव्यक्तात्मकता मलाः । प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः ॥ ३ ॥ रूपस्कन्धो हि नेत्राद्या दशायतनधातवः । धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः ॥ ४ ॥ मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः । आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते ॥ ५ ॥ योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः । बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान् ॥ ६ ॥ षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः । रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः ॥ ७ ॥ स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः । स्वात्मना नित्यमवियोगात्समत्वं चित्तचैतसाम् ॥ ८ ॥ तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् । ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्षणम् ॥ ९ ॥ अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् । नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः ॥ १० ॥ धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः । ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात् ॥ ११ ॥ धर्मस्कन्धप्रमाणं तु सत्यादेरेकशः कथा । तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः ॥ १२ ॥ सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः । प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते ॥ १३ ॥ क्लिष्टमेव हि विज्ञानं द्रष्टव्यं जन्मनि श्रयात् । खधातुः पृथगाकाशाद्रूपायतनसंग्रहात् ॥ १४ ॥ नभः खलु नभो धातोरासन्नो हेतुरेष तु । भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः ॥ १५ ॥ प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत् । ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि ॥ १६ ॥ सनिदर्शन आद्यार्थः मूर्ताः सप्रतिघा दश । अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः ॥ १७ ॥ शेषास्त्रिधा इह सर्वेऽपि रूपधातौ चतुर्दश । रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः ॥ १८ ॥ सास्रवानास्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः । सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा ॥ १९ ॥ निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात् । मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्निरूपिका ॥ २० ॥ विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् । तस्मादन्यत्त्रिभिः ध्याने प्रथमे चासमाहितम् ॥ २१ ॥ द्वाभ्यामव्यग्रमेकेन चक्षुःश्रोत्रत्वगाश्रयम् । द्वाभ्यां तदुपरिव्यग्रमेकेनैव समाहितम् ॥ २२ ॥ उच्छिन्नशुभबीजस्य दर्शनं सविकल्पकम् । कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः ॥ २३ ॥ कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः । द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम् ॥ २४ ॥ नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् । क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम् ॥ २५ ॥ त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च । न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम् ॥ २६ ॥ प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः । प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः ॥ २७ ॥ एतद्विपर्ययात्मान्द्यात्क्लेशरोगाभिभूतितः । ज्ञातपूर्वेषु विस्मृतिः संप्रजायते ॥ २८ ॥ दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा । स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये ॥ २९ ॥ विज्ञानानां तु पञ्चानां यदेकेनानुभूयते । तत्स्मर्यतेऽपि चान्येन तेन खल्वितरैरपि ॥ ३० ॥ द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह । व्यारूप्यरूपनिवृतेः स्मर्यतेऽष्टाभिरेव तत् ॥ ३१ ॥ रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेण यत् । कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत् ॥ ३२ ॥ रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् । आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः ॥ ३३ ॥ आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् । कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा ॥ ३४ ॥ चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः । अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा ॥ ३५ ॥ स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः । दश सावयवा मूर्ताः त एव दश संचिताः ॥ ३६ ॥ रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः । दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा ॥ ३७ ॥ पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः । अमूर्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा ॥ ३८ ॥ चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् । द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्विषयात्मकाः ॥ ३९ ॥ त्रयोऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः । न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम् ॥ ४० ॥ सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः । सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते ॥ ४१ ॥ चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते । पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरनितीरणात् ॥ ४२ ॥ समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते । क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः ॥ ४३ ॥ चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् । आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः ॥ ४४ ॥ एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः । अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा ॥ ४५ ॥ अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् । प्रदीपादिप्रभावश्चेत्न समं तत्समुद्भवात् ॥ ४६ ॥ सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शनात् । सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत् ॥ ४७ ॥ न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः । विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः ॥ ४८ ॥ नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः । विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः ॥ ४९ ॥ त्रयाणां त्रीण्यपि स्वानि तनोर्विज्ञानमप्यधः । मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम् ॥ ५० ॥ सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः । सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः ॥ ५१ ॥ अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः । ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः ॥ ५२ ॥ स्वात्म्यगोचरकार्याणामेकत्वादेकधातुता । चक्षुरादिद्विभावेऽपि द्व्युत्पत्तिः कर्मत्रित्वशात् ॥ ५३ ॥ असाधारणवैशिष्ट्यादैश्वर्यादान्तरङ्गयतः । सत्यप्यनेकहेतुत्वे विज्ञानं तैर्विशेष्यते ॥ ५४ ॥ नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा । सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः ॥ ५५ ॥ प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः । तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः ॥ ५६ ॥ घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् । पश्चिमस्याश्रयोऽतीतः पञ्चानां तैः सहापि च ॥ ५७ ॥ निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा । अनास्रवेण मार्गेंण चक्षुर्धातुर्निरुध्यते ॥ ५८ ॥ अनागम्यं तु निश्रित्य गन्धधातुर्निरुध्यते । मनोधातुरनागम्यं यदि वा सप्तनिश्रयात् ॥ ५९ ॥ अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः । धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत् ॥ ६० ॥ चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः । कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति ॥ ६१ ॥ तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च । पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा ॥ ६२ ॥ रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् । तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन ॥ ६३ ॥ चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च । परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते ॥ ६४ ॥ न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ । गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः ॥ ६५ ॥ कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि । तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम् ॥ ६६ ॥ आर्यस्तु कामवैराग्यं करोत्यनुशयानपि । चतुरः परिजानाति पर्यादत्तेऽपि च त्रयम् ॥ ६७ ॥ परिजानन्मनोधातुमारूप्येभ्यो विरज्यते । जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा ॥ ६८ ॥ परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ । आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान् ॥ ६९ ॥ परिजानन्सुखं योगी प्रजहाति तदेह च । शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु ॥ ७० ॥ द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः । अन्यत्र धर्मधात्वर्धाच्छड्बाह्या नेन्द्रियात्मकाः ॥ ७१ ॥ द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः । संक्षेपेणाभिधास्यन्ते धर्मा निर्वचनादयः ॥ ७२ ॥ नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च । यस्मान्नान्यद्द्वयं कार्यात्सुखादिनवकत्रयम् ॥ ७३ ॥ नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः । त्रयाणां वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः ॥ ७४ ॥ विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः । कायेन्द्रियाद्विशिष्टत्वं द्वयोर्नेत्रेन्द्रियादिवत् ॥ ७५ ॥ ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते । स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः ॥ ७६ ॥ स्वगोचरोपलब्ध्यादावीशित्वमपरे विदुः । स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः ॥ ७७ ॥ क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु । फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः ॥ ७८ ॥ सत्त्वाख्या सत्त्ववैचित्र्यं धृतिः क्लेशोद्भवश्च यैः । मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता ॥ ७९ ॥ स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश । स्वर्गापवर्गहेतुत्वात्तदन्यद्वेन्द्रियाष्टकम् ॥ ८० ॥ छन्दं वीर्याङ्गभूतत्वात्स्पर्शो वित्त्यनुबृंहणात् । संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात् ॥ ८१ ॥ श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये । प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् ॥ ८२ ॥ संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम् । कालान्तरफलोत्पादसंदेहाभ्यां न चेतना ॥ ८३ ॥ नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् । नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः ॥ ८४ ॥ न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः । जात्यादयो न पारार्थ्यात्निष्क्रियत्वान्न निर्वृतिः ॥ ८५ ॥ कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः । सुखं च सुमनस्ता च सातं शारीरमानसम् ॥ ८६ ॥ वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम् ॥ ८७ ॥ षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् । तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके ॥ ८८ ॥ दौर्मनस्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा । नवाभ्यासप्रहेयाणि द्विधा पञ्च न तु त्रयम् ॥ ८९ ॥ पूर्वं क्रमोद्भवैः कामे विपाको लभ्यते द्वयम् । अन्यैः षट्सप्त वाष्टौ वा षड्रूपे अन्त्ये तु जीवितम् ॥ ९० ॥ म्रियमाणैर्निरोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे । दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा ॥ ९१ ॥ आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः । एकादशभिराप्तिस्तु फलस्यान्त्यस्य हानितः ॥ ९२ ॥ स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा ॥ ९३ ॥ कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते । समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते ॥ ९४ ॥ रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः । अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते ॥ ९५ ॥ सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मनोऽन्विताः । त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः ॥ ९६ ॥ कामिनः खलु दुःखेन तद्रागी दुर्मनस्तया । ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा ॥ ९७ ॥ प्रीत्याभाह्वाधरोद्भूतौ शुभैः स शुभमूलकः । शैक्षाभ्यां मोक्षमार्गस्थौ अशैक्षोऽर्हन् स्वमार्गगः ॥ ९८ ॥ उपेक्षायुर्मनोयुक्तोऽवश्यं त्रयसमन्वितः । चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः ॥ ९९ ॥ स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः दुःखी युक्तस्तु सप्तभिः । एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान् ॥ १०० ॥ त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि । बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः ॥ १०१ ॥ अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः । त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ १०२ ॥ सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः । त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ १०३ ॥ प्रज्ञाविमुक्तनामार्हत्कायसाक्ष्युभयाह्वयाः । अक्षैकादशकोपेता यदि वाष्टादशान्विताः ॥ १०४ ॥ कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः । त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः ॥ १०५ ॥ द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः । दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः ॥ १०६ ॥ बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः । युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः ॥ १०७ ॥ अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः । सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः ॥ १०८ ॥ अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः । द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम् ॥ १०९ ॥ सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः । कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु ॥ ११० ॥ एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम् । चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः ॥ १११ ॥ दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः । छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः ॥ ११२ ॥ श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा । मूलवीर्यमहिंसा च शुभभूका दशस्मृताः ॥ ११३ ॥ स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धतिः । क्लिष्टे षटशुभे तु द्वे आह्रीक्यमनपत्रपा ॥ ११४ ॥ मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः । सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश ॥ ११५ ॥ पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः । तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा ॥ ११६ ॥ भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा । तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम् ॥ ११७ ॥ यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते । तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् ॥ ११८ ॥ गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी । इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः ॥ ११९ ॥ चित्तं प्रधानमेतेषां वस्तुमात्रग्रहादिभिः । बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि ॥ १२० ॥ अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह । अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः ॥ १२१ ॥ तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः । द्वाविंशत्या सहावश्यं शुभं भवति मानसम् ॥ १२२ ॥ चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम् । दृङ्मोहमात्रयुक्तं यत्क्रोधाद्यैस्त्वधिकं वदेत् ॥ १२३ ॥ सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् । तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् ॥ १२४ ॥ साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते । ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि ॥ १२५ ॥ संप्रयुक्तः संस्कारः समता यस्य पञ्चधा । विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ ॥ १२६ ॥ विशिष्टानामसद्भावात्प्रसंगो नास्ति रूपिणाम् । संस्कारग्रहणाच्चैव खादीनां न प्रसज्यते ॥ १२७ ॥ प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश । आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते ॥ १२८ ॥ राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः ॥ १२९ ॥ श्रुतचिन्तामयानां च समापत्तिद्वयस्य च ॥ १३० ॥ निःक्लेशसंस्कृतापूर्वं शुभानां तु रजस्वताम् । आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते ॥ १३१ ॥ क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता । निवृताव्याकृता ज्ञाननिर्माणमनसां तथा ॥ १३२ ॥ निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा । अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते ॥ १३३ ॥ एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता । आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु ॥ १३४ ॥ शुभासंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी । निःसृतीच्छाप्रवृत्तित्वात्नार्यस्य आप्या प्रयोगतः ॥ १३५ ॥ निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा । शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता ॥ १३६ ॥ चेतश्चतुष्टयायोगादागमादुपपत्तितः । निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका ॥ १३७ ॥ गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः । आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते ॥ १३८ ॥ जातिः स्थितिर्जरानाशः संस्कृताङ्कचष्टतुयी । चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः ॥ १३९ ॥ शक्तिहानेर्जरासिद्धिः नान्यत्वात्परिणामिता । एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ॥ १४० ॥ सति जन्मनि तद्भावाद्द्रव्यकारित्रनाशतः । आगमादुपपत्तेश्च विनाशोऽपि सहेतुकः ॥ १४१ ॥ वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः । संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः ॥ १४२ ॥ अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् । अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात् ॥ १४३ ॥ स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् । अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते ॥ १४४ ॥ परमाणुस्वभावत्वाद्घोषैकत्वं न युज्यते । तादात्म्यं प्रतिघातित्वात्तत्सिद्धिर्वरणादिभिः ॥ १४५ ॥ स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति । क्रमवृत्तेर्न शब्देन कश्चिदर्थोऽभिधीयते ॥ १४६ ॥ न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः । यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत् ॥ १४७ ॥ प्रतिद्योत्यं यथायोगं नियतानियताश्च ते । नियतोद्भावनाद्बुद्धः सर्वज्ञ इति गम्यते ॥ १४८ ॥ सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा । तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा ॥ १४९ ॥ सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः । विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः ॥ १५० ॥ सप्त तेजोभिरेकाद्भिर्गतेऽद्भिः सप्तके पुनः । तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः ॥ १५१ ॥ आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् । आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् ॥ १५२ ॥ वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः । आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता ॥ १५३ ॥ सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् । लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते ॥ १५४ ॥ कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् । कर्माण्येतानि लोकस्य कारणं नेश्वरादयः ॥ १५५ ॥ वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः । नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः ॥ १५६ ॥ कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः । यतोऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते ॥ १५७ ॥ पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया ॥ १५८ ॥ अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता । पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः ॥ १५९ ॥ संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः । एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न ॥ १६० ॥ विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना । तदाश्रये फले चापि विज्ञेया गुणकल्पना ॥ १६१ ॥ शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः । मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते ॥ १६२ ॥ आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः । एतान्यो याति शरणं स याति शरणत्रयम् ॥ १६३ ॥ मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः । पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू ॥ १६४ ॥ सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः । त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ ॥ १६५ ॥ सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः । सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः ॥ १६६ ॥ क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा । अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः ॥ १६७ ॥ कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः । पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः ॥ १६८ ॥ अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति । सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु ॥ १६९ ॥ सद्धर्मान्तर्द्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः । भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् ॥ १७० ॥ तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः । असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः ॥ १७१ ॥ चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा । कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः ॥ १७२ ॥ प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते । सर्वे कामेषु रूपे द्वावेकोऽरूपिषु लाभतः ॥ १७३ ॥ यदिष्टफलदं कर्म कुशलं तदुदाहृतम् । विपर्ययेणाकुशलमव्याकृतमतोऽन्यथा ॥ १७४ ॥ कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् । ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात् ॥ १७५ ॥ सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् । उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् ॥ १७६ ॥ अधोऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः । युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः ॥ १७७ ॥ पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः । जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते ॥ १७८ ॥ चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते । न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते ॥ १७९ ॥ नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः । स्थिरो नापरकृच्चार्यश्चलोऽपि भवमूलयोः ॥ १८० ॥ यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते । सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते ॥ १८१ ॥ क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते । निरोधव्युत्थितादौ च सद्यः कालफलक्रिया ॥ १८२ ॥ तद्भूम्यपुनरुत्पत्तेः विपाकनियतं च यत् । तच्च दृष्टफलं विद्यात्कर्मादः परिपूरकम् ॥ १८३ ॥ कुशलस्याविचारस्य चैतसिक्येव वेदना । विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः ॥ १८४ ॥ सपाकमशुभं कृष्णं सपाकं रूपजं सितम् । शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत् ॥ १८५ ॥ चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् । आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत् ॥ १८६ ॥ नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी । अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु ॥ १८७ ॥ कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् । अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् ॥ १८८ ॥ शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् । द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः ॥ १८९ ॥ कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्तेऽपि षट्कृताः । शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः ॥ १९० ॥ या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः । प्रयोगस्तु त्रिमूलोत्थः अभिध्याद्यास्त्रिमूलजाः ॥ १९१ ॥ कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः । द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् ॥ १९२ ॥ स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः । मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम् ॥ १९३ ॥ चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् । प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च ॥ १९४ ॥ प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् । अत्यक्तान्यधनादानमदत्तादानमुच्यते ॥ १९५ ॥ परस्त्रीगमनं काममिथ्याचारो विकल्पवान् । अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः ॥ १९६ ॥ दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते । दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम् ॥ १९७ ॥ पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम् । क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत् ॥ १९८ ॥ परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः । विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका ॥ १९९ ॥ चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते । युगपद्यावदष्टाभिरशुभैश्चेतनैः सह ॥ २०० ॥ शुभैस्तु दशभिर्यावत्सार्धं नैकाष्टपञ्चभिः । विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा ॥ २०१ ॥ तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च । अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा ॥ २०२ ॥ अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः । आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः ॥ २०३ ॥ कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा । सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश ॥ २०४ ॥ दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् । तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् ॥ २०५ ॥ आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः । चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् ॥ २०६ ॥ ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा । फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः ॥ २०७ ॥ शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् । अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः ॥ २०८ ॥ सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः । मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः ॥ २०९ ॥ चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः । शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः ॥ २१० ॥ एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु । द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः ॥ २११ ॥ त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः । ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः ॥ २१२ ॥ क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः । एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते ॥ २१३ ॥ कुशलं वाथवा पापं यदतीतं ददत्फलम् । स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता ॥ २१४ ॥ संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् । कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु ॥ २१५ ॥ स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका । प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः ॥ २१६ ॥ द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् । तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु ॥ २१७ ॥ स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति । तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले ॥ २१८ ॥ द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते । तृतीया द्वयसद्भावा चतुर्थी तूभयं विना ॥ २१९ ॥ स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् । आद्या दत्तविपाकेन निरुद्धानागतादिना ॥ २२० ॥ द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा । तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते ॥ २२१ ॥ अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् । शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः ॥ २२२ ॥ बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः । बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम् ॥ २२३ ॥ यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः । महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः ॥ २२४ ॥ पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः । तदा देवमनुष्याणामभिव्यक्तिं निगच्छति ॥ २२५ ॥ स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् । प्रचिनोति तदाधारं कायं कल्पशतेन तु ॥ २२६ ॥ द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् । द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति ॥ २२७ ॥ युगान्तवायुना मेरुः वह्निना वरुणालयः । वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः ॥ २२८ ॥ कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् । बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते ॥ २२९ ॥ सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् । मरणेऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते ॥ २३० ॥ वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् । ऽसर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ ॥ २३१ ॥ त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः । तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम् ॥ २३२ ॥ सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः । तथा पारमिताश्चापि चतस्रो विनयोदिताः ॥ २३३ ॥ बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा । हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः ॥ २३४ ॥ तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात् । अतोऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः ॥ २३५ ॥ कल्पानां महतामेतदसंख्येयत्रयं मतम् । स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम् ॥ २३६ ॥ अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः । द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम् ॥ २३७ ॥ नाधोऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते । ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः ॥ २३८ ॥ तुल्येऽपि साधनोपाये तद्भेदोऽक्षादिभेदतः । भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत् ॥ २३९ ॥ करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा । परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते ॥ २४० ॥ हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा । विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात् ॥ २४१ ॥ बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः । सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः ॥ २४२ ॥ यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते । दानं हि दीयते येन स्वपरार्थाद्यपेक्षया ॥ २४३ ॥ कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः । प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत् ॥ २४४ ॥ स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन । साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे ॥ २४५ ॥ दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः । श्रद्धादिभिर्गुणैर्दाता दत्तेऽतः सत्क्रियादिभिः ॥ २४६ ॥ सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते । वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम् ॥ २४७ ॥ गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते । आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः ॥ २४८ ॥ धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे । अमेयं बोधिसत्त्वाय दानमन्यभवाय च ॥ २४९ ॥ बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् । विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतोऽर्हते ॥ २५० ॥ संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् । विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् ॥ २५१ ॥ स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु । विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत् ॥ २५२ ॥ धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः । अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् ॥ २५३ ॥ शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः । शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये ॥ २५४ ॥ दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् । तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते ॥ २५५ ॥ पुण्यं समाहितं त्वत्र भावना चित्तभावनात् । प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना ॥ २५६ ॥ पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा । शासनेऽस्मिन्समासेन शुभमूलं त्रिधेष्यते ॥ २५७ ॥ लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा । संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका ॥ २५८ ॥ अकार्यप्रवणो लोको दुःखभागी च यद्वशात् । रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् ॥ २५९ ॥ स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः । आत्तसामान्यसंज्ञाकाश्चोद्यन्तेऽनुशयादिभिः ॥ २६० ॥ रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः । षडेतेऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः ॥ २६१ ॥ रागद्वेधात्मताः सप्त दृष्टिभेदाद्दश स्मृताः । भूयोऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः ॥ २६२ ॥ कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते । प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः ॥ २६३ ॥ सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च । दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः ॥ २६४ ॥ दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः । सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः ॥ २६५ ॥ दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् । रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः ॥ २६६ ॥ प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये । रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते ॥ २६७ ॥ भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः । ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः ॥ २६८ ॥ अहं ममेति या दृष्टिरसौ सत्कायदृक्स्मृता । तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता ॥ २६९ ॥ फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते । ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः ॥ २७० ॥ अहेतावपथे चैव तद्धि शीलव्रताह्वयः । दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः ॥ २७१ ॥ सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः । दुःखाभिसमये तच्च तद्दृग्घेयैव सोऽप्यतः ॥ २७२ ॥ द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः । अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते ॥ २७३ ॥ नितीरणसमारोपविपरीतप्रवृत्तितः । विपर्यासोक्तिरेष्वेव दृग्वशात्चित्तसंज्ञयोः ॥ २७४ ॥ सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा । त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता ॥ २७५ ॥ वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः । विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः ॥ २७६ ॥ दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः । तद्दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः ॥ २७७ ॥ काङ्क्षा पञ्च दृशोऽविद्या तद्व्यामिश्राथ केवलाः । सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम् ॥ २७८ ॥ द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः । रागप्रतिघमानास्तु परिच्छेदप्रवर्तिनः ॥ २७९ ॥ प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः । धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः ॥ २८० ॥ नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते । तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः ॥ २८१ ॥ काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला । निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः ॥ २८२ ॥ स्वभूमेरेव निर्वाणं मार्गस्थन्नवभूमिकः । तद्दृश्यविषयोऽन्योऽन्यो हेतुत्वाद्धेतुभावतः ॥ २८३ ॥ न रागः शक्त्यहेतुत्वान्न द्वेषोऽनपराधतः । नमानोऽतिप्रशान्तत्वान्न भावत्वाद्दृशोऽपराः ॥ २८४ ॥ सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः । स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः ॥ २८५ ॥ अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः । संप्रयोगिणि तु स्वस्मिन्नहीने संप्रयोगतः ॥ २८६ ॥ धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः । एतेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः ॥ २८७ ॥ स्वैरिष्टादिभिराकारैः परमाणुक्षणेष्वपि । यतोऽनुशेरते चैते ततश्चानुशया मताः ॥ २८८ ॥ आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् । धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः ॥ २८९ ॥ कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः । त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः ॥ २९० ॥ अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः । अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः ॥ २९१ ॥ चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् । सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात् ॥ २९२ ॥ प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः । शिष्याणां वादशिक्षार्थं स्थितीनां च चतुष्टयीम् ॥ २९३ ॥ एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च । मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत् ॥ २९४ ॥ स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा । अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता ॥ २९५ ॥ मानप्रतिघसंरागैर्वर्तमानोऽज्झितक्रियैः । जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि ॥ २९६ ॥ अजातैर्मानसैरेतैः सर्वत्रान्यैः स्वकाध्विकैः । सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः ॥ २९७ ॥ द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः । सदसद्धेतुता यस्मान्मध्यस्थैश्च परिग्रहात् ॥ २९८ ॥ सर्वमस्ति प्रदेशोऽस्ति सर्वं नास्तीति चापरः । अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः ॥ २९९ ॥ एभ्यो यः प्रथमो वादी भजते साधुतामसौ । तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः ॥ ३०० ॥ इच्छत्यध्वत्रयं यस्मात्कृत्यतश्च ध्रुवत्रयम् । सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः ॥ ३०१ ॥ भावाङ्कान्यथिकाख्यौ द्वाववस्थान्यथिको परः । अन्यथान्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः ॥ ३०२ ॥ कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति । तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः ॥ ३०३ ॥ बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम् । परमार्थेन संवृत्या द्वयेनापेक्षयापि च ॥ ३०४ ॥ सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् । धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत् ॥ ३०५ ॥ नासदालम्बना बुद्धिरागमादुपपत्तितः । अन्यापेक्ष्येऽथ संबन्धप्र्तिषेधोऽश्वशृङ्गयोः ॥ ३०६ ॥ रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः । सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत् ॥ ३०७ ॥ हर्षोत्पादभयोद्वेगस्मृत्युत्पत्त्यङ्गभावतः । साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत् ॥ ३०८ ॥ जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् । सतः क्रियाङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत् ॥ ३०९ ॥ द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते । मुख्यसत्ता गुणाभावाद्गौणी सत्ता न विद्यते ॥ ३१० ॥ साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् । आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् ॥ ३११ ॥ स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः । स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत् ॥ ३१२ ॥ स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् । वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम् ॥ ३१३ ॥ लोके दृष्टः सतोरेव परस्परमनुग्रहः । तद्वदेवोपघातोऽपि नाश्वशृङ्गाहिपादयोः ॥ ३१४ ॥ यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते । न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा ॥ ३१५ ॥ प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः । राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः ॥ ३१६ ॥ धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते । चितानां परमाणूनां यद्वदात्मोपलम्भने ॥ ३१७ ॥ कर्मातीतमसद्यस्य फलं भावि करोत्यसत् । व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात् ॥ ३१८ ॥ नामसल्लक्षणाभावाद्द्रव्यसत्याङ्कसिद्धितः । अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता ॥ ३१९ ॥ को विघ्नः अङ्गवैकल्यं न तत्सर्वास्तिता सदा । तत्कथं श्रूयतां सद्भ्यः दुर्बोधा खलु धर्मता ॥ ३२० ॥ वर्तमानाध्वसंपातात्सामग्र्याङ्गपरिग्रहात् । लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते ॥ ३२१ ॥ न वर्तमानता रूपमतीताजातता न च । यतोऽतो नाध्वसंचाराद्रूपात्मान्यथतेष्यते ॥ ३२२ ॥ अवस्था जायते काचिद्विद्यमानस्य वस्तुनः । तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया ॥ ३२३ ॥ परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः । यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः ॥ ३२४ ॥ अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये । प्रहीणे प्राक्प्रकारेऽपि शेषैस्तदवलम्बिभिः ॥ ३२५ ॥ धर्माः षोडश विज्ञेयाः प्रत्येकं त्रिभवात्मकाः । पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च ॥ ३२६ ॥ धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् । धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः ॥ ३२७ ॥ सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः । स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः ॥ ३२८ ॥ आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः । आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः ॥ ३२९ ॥ सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः । निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः ॥ ३३० ॥ कामाप्तं पञ्चविषयो रूपाप्तं त्वष्टगोचरः । आरुप्याप्तं दशानां तु दशानामेव चामलम् ॥ ३३१ ॥ कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः । रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते ॥ ३३२ ॥ चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः । आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः ॥ ३३३ ॥ तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च । सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते ॥ ३३४ ॥ परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः । शेषं पूर्ववदाख्येयं चतुर्थेऽपि तृतीयवत् ॥ ३३५ ॥ परिवृत्ते तु कामाप्ताश्चत्वारोऽन्यत्र पूर्ववत् । रूपाप्ते प्रथमेऽधस्तात्त्रयः स्वे खल्वपि त्रयः ॥ ३३६ ॥ आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः । परिवृत्ते त्रयोऽधस्तात्चत्वारश्च स्वधातुतः ॥ ३३७ ॥ आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते । तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च ॥ ३३८ ॥ सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते । परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः ॥ ३३९ ॥ अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत् । तृतीयवत्परावृत्ते आरूप्याद्ये निबोधयेत् ॥ ३४० ॥ स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः । रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा ॥ ३४१ ॥ तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः । परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः ॥ ३४२ ॥ अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत् । आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद्बुधः ॥ ३४३ ॥ भावनापथहातव्यो निकायः सर्वगैः सह । अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये ॥ ३४४ ॥ निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे । दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः ॥ ३४५ ॥ आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते । परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः ॥ ३४६ ॥ दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः । तद्गोचरे तु विज्ञाने निकाया अनुशेरते ॥ ३४७ ॥ कामापन्नास्त्रयो रूपाः सर्वगाभ्याससंक्षयाः । परवृत्ते तु चत्वारः कामाप्ता अनुशेरते ॥ ३४८ ॥ त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः । सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते ॥ ३४९ ॥ सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरेऽपि च । कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते ॥ ३५० ॥ त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये । तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः ॥ ३५१ ॥ संस्कृतालम्बना एव परिवृत्तेऽनुशेरते । विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्चन ॥ ३५२ ॥ दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः । भवत्यनन्तरं षड्वा तस्योर्द्ध्वं पञ्च पञ्च वा ॥ ३५३ ॥ रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् । एकं वा पञ्च वा षड्वा सप्त वा यदि वा दश ॥ ३५४ ॥ आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् । स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः ॥ ३५५ ॥ साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् । द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते ॥ ३५६ ॥ मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः । काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः ॥ ३५७ ॥ रागः स्वदृशि मानश्व द्वेषोऽन्यत्र प्रतायते । ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः ॥ ३५८ ॥ सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः । क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः ॥ ३५९ ॥ व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः । स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः ॥ ३६० ॥ अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी । तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात् ॥ ३६१ ॥ साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये । चतस्रोऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात् ॥ ३६२ ॥ शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः । संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः ॥ ३६३ ॥ नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च । द्रव्यामर्षणसामान्याद्दृशः संयोजनद्वयम् ॥ ३६४ ॥ शेषाण्यनुशयाः पञ्च पञ्चधा पञ्चधा पुनः । जगादावरभागीयमूर्ध्वभागीयमेव च ॥ ३६५ ॥ आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः । द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः ॥ ३६६ ॥ द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् । सर्वदृग्घेयभाक्त्वेऽपि त्रयमेतदुदाहृतम् ॥ ३६७ ॥ सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः । तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना ॥ ३६८ ॥ द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः । त्रिवेदनानुशायित्वाद्दृढत्वाद्बन्धनत्रयम् ॥ ३६९ ॥ द्विपक्षग्रन्थनाद्ग्रन्थाश्चत्वारः समुदाहृताः । अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा ॥ ३७० ॥ उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः । सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ॥ ३७१ ॥ मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः । शाठ्योपनाहप्रदाशमायामदविहेठनाः ॥ ३७२ ॥ म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः । मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः ॥ ३७३ ॥ एभ्योऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः । म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः ॥ ३७४ ॥ कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः । प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः ॥ ३७५ ॥ कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः । प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः ॥ ३७६ ॥ सौमनस्येन रागस्य संप्रयोगः सुखेन च । द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते ॥ ३७७ ॥ सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्दृशः । काङ्क्षा च दौर्मनस्येन शेषाणां सुमनस्तया ॥ ३७८ ॥ उपेक्षया तु सर्वेषां कामाप्तानामयं विधिः । इतोऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः ॥ ३७९ ॥ ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः । प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च ॥ ३८० ॥ मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् । द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च ॥ ३८१ ॥ मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते । आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः ॥ ३८२ ॥ आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः ॥ ३८३ ॥ समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः । क्लेशात्यन्तक्षयोऽन्त्येन संभिन्नालम्बनेन वा ॥ ३८४ ॥ असंभिन्नार्थ विषयं त्रयमेतद्द्विधेष्यते । तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम् ॥ ३८५ ॥ स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् । स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते ॥ ३८६ ॥ सत्येषु पातयित्वतं तदा कश्चित्परीक्षते । तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः ॥ ३८७ ॥ अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् । दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते ॥ ३८८ ॥ अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः । सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते ॥ ३८९ ॥ स्वभावेनाविशून्यत्वाद्धर्ममुद्रा उदाहृता । तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः ॥ ३९० ॥ गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् । स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते ॥ ३९१ ॥ प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः । क्रमेण जायते पश्चात्कौशलं स्थानसप्तके ॥ ३९२ ॥ निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् । श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः ॥ ३९३ ॥ आकारपतितं ज्ञानं ततः शमनियामकम् । भावनामयमूष्माख्यं जायते सानुवर्तकम् ॥ ३९४ ॥ ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः । ऊष्मभ्योऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः ॥ ३९५ ॥ ........नेत्वस्मिन्नुभयत्रापि पश्चिमा ॥ ३९६ ॥ भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः । आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत् ॥ ३९७ ॥ द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने । चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने ॥ ३९८ ॥ अनागतास्तु भाव्यन्ते चतस्रोऽप्यत्र निश्चयात् । मोक्षेऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः ॥ ३९९ ॥ आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः । गोत्रलाभे तु विज्ञेया सभागाकारभावना ॥ ४०० ॥ सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने । धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः ॥ ४०१ ॥ आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः । सर्वाभ्योऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने ॥ ४०२ ॥ अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् । आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने शृणु ॥ ४०३ ॥ सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः । आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः ॥ ४०४ ॥ प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः । अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात् ॥ ४०५ ॥ आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः । यथोष्मकिरणे तद्वद्द्रष्टव्यं दृष्टिवर्त्मनि ॥ ४०६ ॥ अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत् । चतस्रोऽनागतास्तद्वत्षोडशाकारभावनाः ॥ ४०७ ॥ तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये । श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च ॥ ४०८ ॥ बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः । भूतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः ॥ ४०९ ॥ आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः । अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् ॥ ४१० ॥ तिस्रस्तु नवमे विद्यात्मौलभूमिप्रवेशतः । सामन्तकप्रयोगे तु चतस्रोऽन्त्याथवा भवेत् ॥ ४११ ॥ दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव च । प्रथमां संमुखीभूतां चतस्रः खल्वनागताः ॥ ४१२ ॥ परचित्ते तृतीया तु चतस्रश्चाप्यनागताः । प्राङ्निवासाप्रमाणानामन्त्यां सर्वास्त्वनागताः ॥ ४१३ ॥ आरूप्याणां विमोक्षाणां तिसृभ्योऽन्यतमां वदेत् । संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत् ॥ ४१४ ॥ आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् । तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु ॥ ४१५ ॥ आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च । सर्वेभ्योऽन्यतराभूताश्चतस्रश्चाप्यनागताः ॥ ४१६ ॥ आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः । ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत् ॥ ४१७ ॥ अन्त्यपूर्वनिवासादौ च धर्मप्रतिसंविदि । तथापरसमाध्यादावरणायां तथैव च ॥ ४१८ ॥ आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा । सर्वाभ्योऽन्यतराभूताश्चतस्रः खल्वनागताः ॥ ४१९ ॥ ब्रूयात्तु सूक्ष्मसूक्ष्मेऽन्त्यां भूतां तिस्रस्त्वनागताः । समासेनेयमाख्याता स्मृत्युपस्थानभावना ॥ ४२० ॥ एतन्निर्वेधभागीयं चतुर्धा भावनामयम् । षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः ॥ ४२१ ॥ पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः । स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते ॥ ४२२ ॥ धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् । ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम् ॥ ४२३ ॥ एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा । अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः ॥ ४२४ ॥ क्षणोऽन्त्यो भावनामार्गात्फलमेषोऽर्थसिद्धितः ॥ ४२५ ॥ ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः । चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायकोऽपरः ॥ ४२६ ॥ पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव । तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः ॥ ४२७ ॥ षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता । सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः ॥ ४२८ ॥ परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः । एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक् ॥ ४२९ ॥ अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् । उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च ॥ ४३० ॥ तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः । न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः ॥ ४३१ ॥ यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ । भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः ॥ ४३२ ॥ यश्चानन्तर्यमार्गेऽन्त्ये वज्रौपम्याह्वयेस्थितः । तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा ॥ ४३३ ॥ तदवाप्तेरशैक्षोऽसावर्हंस्त्रैलोक्यसत्कृतः । सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः ॥ ४३४ ॥ भावनाख्यो द्विधा मार्गः समलामलभेदतः । दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः ॥ ४३५ ॥ आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् । अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः ॥ ४३६ ॥ भवाग्रं निर्मलोऽत्येति........ ॥ ४३७ ॥ सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते । शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः ॥ ४३८ ॥ विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः । आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ ॥ ४३९ ॥ तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा । क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात् ॥ ४४० ॥ क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि । दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः ॥ ४४१ ॥ सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् । सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया ॥ ४४२ ॥ बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः । वीर्यं सम्यक्प्रधानाख्यमृद्धिपादा मनस्थितिः ॥ ४४३ ॥ दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् । सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम् ॥ ४४४ ॥ छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः । ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः ॥ ४४५ ॥ प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् । कथितं बलशब्देन तदेवानभिभूतितः ॥ ४४६ ॥ बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् । प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात् ॥ ४४७ ॥ प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता । संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः ॥ ४४८ ॥ विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः । समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगोऽयम् ॥ ४४९ ॥ प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु । यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः ॥ ४५० ॥ न चित्तं राजकल्पत्वाद्गुणदोषानुवर्तनात् । व्यवहारानुकूल्यत्वात्संज्ञा ह्येतेषु नेष्यते ॥ ४५१ ॥ विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना । नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात् ॥ ४५२ ॥ क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् । नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः ॥ ४५३ ॥ नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः । नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात् ॥ ४५४ ॥ सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः । मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः ॥ ४५५ ॥ नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः । औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः ॥ ४५६ ॥ बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः । तदन्यान्यवबोध्यानि समलान्यमलान्यपि ॥ ४५७ ॥ आद्ये ध्यानेऽखिला मौलेऽनागम्ये प्रीत्यपाकृताः । द्वितीयेऽप्यपसंकल्पा द्वयोश्चास्मात्द्वयादृते ॥ ४५८ ॥ शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु । बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः ॥ ४५९ ॥ यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः । न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु ॥ ४६० ॥ अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् । तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ ॥ ४६१ ॥ त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः । मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि ॥ ४६२ ॥ बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा । धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः ॥ ४६३ ॥ मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात्स्वयम् । बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः ॥ ४६४ ॥ शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य आकरः । तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः ॥ ४६५ ॥ शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु । द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम् ॥ ४६६ ॥ शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते । मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा ॥ ४६७ ॥ पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते । मुच्यतेऽनागतं चित्तमशैक्षं क्लेशरोधतः ॥ ४६८ ॥ धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः । मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम् ॥ ४६९ ॥ विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः । आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया ॥ ४७० ॥ विरागो रागनिर्मोक्षः प्रहाणाख्योऽन्यसंक्षयः । निरोधधातुरन्यस्य सोपादानस्य वस्तुनः ॥ ४७१ ॥ दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया । विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी ॥ ४७२ ॥ संज्ञा अनित्यसंज्ञाद्या दश ताभ्योऽशुभादयः । तिस्रो मार्गविधिर्मार्गश्चतस्त्रोऽन्त्यास्त्रयी फलम् ॥ ४७३ ॥ त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः । समला निर्मलास्त्वन्या बोध्या नव भुवोऽमलाः ॥ ४७४ ॥ भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् । चतुर्थी पञ्चमी षष्ठी विद्यात्सप्तसु भूमिषु ॥ ४७५ ॥ लोकोऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति । तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः ॥ ४७६ ॥ जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया । तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः ॥ ४७७ ॥ धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् । द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम् ॥ ४७८ ॥ प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः । तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा ॥ ४७९ ॥ धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः । संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा ॥ ४८० ॥ परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम् ॥ ४८१ ॥ धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः ॥ ४८२ ॥ परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः । चत्वारि स्मृत्युपस्थानान्यतोऽन्यज्ज्ञानमिष्यते ॥ ४८३ ॥ मार्गधर्मान्वयज्ञानगोचरो नवशो धियः ॥ ४८४ ॥ पञ्चधर्मास्त्रिधात्वाप्तान्मार्गरूपान् सनातनान् । व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम् ॥ ४८५ ॥ दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः । चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तोऽन्यमनो धिया ॥ ४८६ ॥ त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि । मौलध्यानप्रयोगे च ज्ञेयानागतभावना ॥ ४८७ ॥ बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा । प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः ॥ ४८८ ॥ क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे । सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये ॥ ४८९ ॥ समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः । अतोऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः ॥ ४९० ॥ मार्गाख्ये त्वन्वयज्ञाने षड्भाव्यन्तेऽथ सप्त वा । आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः ॥ ४९१ ॥ प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः । भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना ॥ ४९२ ॥ ध्यानादीनां स्वभावादावव्याघातविसारि यत् । ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम् ॥ ४९३ ॥ यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते । अक्षोत्तमावरज्ञानबलं तन्नवधीमयम् ॥ ४९४ ॥ यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते । नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम् ॥ ४९५ ॥ यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते । नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम् ॥ ४९६ ॥ गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः । तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम् ॥ ४९७ ॥ यत्स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् । प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम् ॥ ४९८ ॥ सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् । तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते ॥ ४९९ ॥ आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश । षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा ॥ ५०० ॥ सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् । अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत् ॥ ५०१ ॥ तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति । सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा ॥ ५०२ ॥ द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् । अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम् ॥ ५०३ ॥ नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् । द्व्यपेक्षो बलशब्दोऽयं बलं त्वप्रतिघाततः ॥ ५०४ ॥ सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् । स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात् ॥ ५०५ ॥ स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् । आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः ॥ ५०६ ॥ श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः । संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा ॥ ५०७ ॥ संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः । सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा ॥ ५०८ ॥ अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः । अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः ॥ ५०९ ॥ इतरैरपि सामान्या अप्रमादादयो गुणाः । एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम् ॥ ५१० ॥ अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् । आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी ॥ ५११ ॥ प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु । अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः ॥ ५१२ ॥ विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी । आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी ॥ ५१३ ॥ तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी । तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी ॥ ५१४ ॥ अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव । प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ ॥ ५१५ ॥ कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः । संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ ॥ ५१६ ॥ ऋद्धौ श्रोत्रेऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये । ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि ॥ ५१७ ॥ चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः । सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश ॥ ५१८ ॥ षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु । यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः ॥ ५१९ ॥ स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता । ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः ॥ ५२० ॥ दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः । अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया ॥ ५२१ ॥ तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये । एका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात् ॥ ५२२ ॥ ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् । हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् ॥ ५२३ ॥ समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा । द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते ॥ ५२४ ॥ मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः । अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी ॥ ५२५ ॥ रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते । रूपस्पर्शौ मतौ रूपे स्वेशरीरेऽथ वा बहिः ॥ ५२६ ॥ अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश । आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः ॥ ५२७ ॥ तल्लाभो ध्यानवत्ज्ञेयः शुद्धकाच्च स्वतश्च तत् । स्वभूमेनैव निर्माणमधरेणापि भाषणम् ॥ ५२८ ॥ निर्मात्रैव सहैतेषां भाषणं सुगतादृते । एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम् ॥ ५२९ ॥ अधिष्ठाय तु निर्माणं भाषन्तेऽन्येन चेतसा । अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः ॥ ५३० ॥ अजय्येकमनेकेन जयिणस्तद्विपर्ययः । अव्याकृतमभिज्ञोत्थमुपपत्त्य त्वयं त्रिधा ॥ ५३१ ॥ अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते । सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः ॥ ५३२ ॥ ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः । अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम् ॥ ५३३ ॥ साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः । ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि ॥ ५३४ ॥ संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा । द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम् ॥ ५३५ ॥ सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा । चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः ॥ ५३६ ॥ भेदेन तु समापत्तिद्रव्याणि दश सप्त च । सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयापि च ॥ ५३७ ॥ तद्भेदाः खल्विमेऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः । बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम् ॥ ५३८ ॥ त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः । तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम् ॥ ५३९ ॥ सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् । ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम् ॥ ५४० ॥ आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् । अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् ॥ ५४१ ॥ अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता । प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम् ॥ ५४२ ॥ साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः । द्वितीयेऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते ॥ ५४३ ॥ तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः । क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम् ॥ ५४४ ॥ अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च । क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः ॥ ५४५ ॥ द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च । अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः ॥ ५४६ ॥ शमथस्य च । ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः ॥ ५४७ ॥ वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् । उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते ॥ ५४८ ॥ आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते । सुखोपेक्षे तृतीयेऽन्त्ये उपेक्षैव विदिष्यते ॥ ५४९ ॥ दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा । यद्भूमावविचारायामाद्यादव्याकृतं तु तत् ॥ ५५० ॥ खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः । विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः ॥ ५५१ ॥ तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः । विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः ॥ ५५२ ॥ तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः । आदौ तथा प्रयुक्तत्वात्तत्संज्ञा व्यपदिश्यते ॥ ५५३ ॥ सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् । चित्तमार्येतराकारं तदानागम्यमुच्यते ॥ ५५४ ॥ चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् । सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः ॥ ५५५ ॥ ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा । असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम् ॥ ५५६ ॥ कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा । व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च ॥ ५५७ ॥ कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये । पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता ॥ ५५८ ॥ ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् । अतोऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ ॥ ५५९ ॥ परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः । अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः ॥ ५६० ॥ युक्तार्थचोदनाद्दुःखत्राणाद्दोषानुशासनात् । शास्त्रमित्युच्यतेऽतोऽन्यज्ज्ञेयं वातिकभाषितम् ॥ ५६१ ॥ पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् । दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात् ॥ ५६२ ॥ रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते । विप्रस्यापि यतस्तस्माद्गुणवानेव मुच्यते ॥ ५६३ ॥ शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् । न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत् ॥ ५६४ ॥ क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा । द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम् ॥ ५६५ ॥ व्युत्क्रान्तकसमापत्तिरर्हतोऽकोप्यधर्मणः । तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया ॥ ५६६ ॥ धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् । शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम् ॥ ५६७ ॥ स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः । भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते ॥ ५६८ ॥ बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना । ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे ॥ ५६९ ॥ वीतरागस्य चालब्धे पूर्वसामन्तके तथा । विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना ॥ ५७० ॥ न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने । आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः ॥ ५७१ ॥ भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते । आकोप्या ................................ ॥ ५७२ ॥ आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि । ज्ञानत्रये त्रयाख्ये च न्यामेऽनागम्यवर्जिते ॥ ५७३ ॥ शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने । प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च ॥ ५७४ ॥ द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे । विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये ॥ ५७५ ॥ भावना द्विविधस्यापि नोभयस्य तु भावनाम् । अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु ॥ ५७६ ॥ द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः । अभिधर्मनयज्ञाने ज्ञेयानागतभावना ॥ ५७७ ॥ सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् । आरुप्याः कुशला मौला नाधोलोकावलम्बिनः ॥ ५७८ ॥ ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः । अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः ॥ ५७९ ॥ सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः । ध्यानान्तरे स चारोधः सद्वयोऽन्यत्र निर्द्वयः ॥ ५८० ॥ सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः । आर्याकारमतिद्योताः शून्यताद्यः समाधयः ॥ ५८१ ॥ दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् । अनिमित्तोऽमृताकारैश्चतुर्भिः संप्रवर्तते ॥ ५८२ ॥ विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः । विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः ॥ ५८३ ॥ त्रयोऽपरसमाध्याख्या शून्यताशून्यतादयः । द्वयमालम्बतेऽशैक्षं शून्यतोऽनित्यतस्तथा ॥ ५८४ ॥ क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः । एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः ॥ ५८५ ॥ समाधिभावनाध्यानं सुखाय प्रथमं शुभम् । दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः ॥ ५८६ ॥ योऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा । सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम् ॥ ५८७ ॥ चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा । मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते ॥ ५८८ ॥ व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा । प्रतिपक्षोऽयमाख्यातो दमनार्थं स्वचेतसः ॥ ५८९ ॥ सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा । मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा ॥ ५९० ॥ द्रष्टव्या वृत्तिरेतेषामाकारैः सुखितादि भिः । एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते ॥ ५९१ ॥ नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः । षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु ॥ ५९२ ॥ विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ । तावाद्यध्यानयोरन्त्ये तृतीयोऽलोभलक्षणः ॥ ५९३ ॥ चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः । निरोधाख्यसमापत्तिर्विमोक्षः कथितोऽष्टमः ॥ ५९४ ॥ तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् । व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः ॥ ५९५ ॥ कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः । अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः ॥ ५९६ ॥ सूत्रेऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम् । विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम् ॥ ५९७ ॥