अभिधर्मदीपः विभाषाप्रभावृत्तिसहितः । प्रथमोऽध्यायः । प्रथमः पादः । ओं स्वस्ति । नमः सर्वज्ञाय । यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः । अत्र षष्ठीसमासपरिग्रहे सति मार्गसत्यं प्रधानम् । तथा चोक्तम्- "मार्गविदहं मार्गस्य ..........." इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यो मार्गं प्रदर्शितवानिति । समाहारलक्षणद्वन्द्वपरिकल्पे तु चतुर्णामप्यार्यसत्यानां प्राधान्यम् । तथा चोक्तम्- "इदं दुःखसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु धर्मचक्षुरुदपादि" इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यश्चत्वार्यार्यसत्यानि प्रदर्शितवानिति । तत्र दुःखसत्यमेकविधमभिनिर्वृत्तिस्वाभाव्यात् । तथा चोक्तम्- "दुःखा हि भिक्षवो भवाभिनिर्वृत्तिः" इति । जात्याद्यष्टप्रकारं वा फलभूता (<पृष्ठ २>) वा पञ्चोपादानस्कन्धाः । अथवा पौर्वान्तिकं पञ्चाङ्गमपरान्तिकं द्व्यङ्गं तदुभयमभिसमस्य सप्ताङ्गम् । समुदयसत्यमेकविधं तृष्णानिर्देशात् । द्विविधं कर्मक्लेशात्मकत्वात् । पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसंग्रहात्, हेतुभूता वा पञ्चोपादानस्कन्धाः । निरोधसत्यमेकप्रकारमप्रतिसन्धिजन्मनिरोधात् । सत्यद्वयप्रहान्णभेदाद्द्विविधम्, सोपधिनिरुपधिशेषधातुभेदाद्वा । त्रिप्रकारं वा प्रहाणविरागनिरोधधातुभेदात् । चतुष्प्रकारं वा चतुष्फलभेदात् । मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात् । द्विप्रकारं वा सास्रवानास्रभेदात्, दर्शनभावनाभेदाद्वा । त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात्चतुष्प्रकारं वा प्रयोगामार्गादिभेदात् । प्रतिपद्भेदाद्वा । अष्टप्रकारं सम्यग्दृष्ट्याद्यङ्गभावात् । इत्येतानि चत्वार्यार्यसत्यानि परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानीति भगवान् प्रदर्शयामास नरामरेभ्यस्तेषां सत्यदर्शनभव्यत्वात्तदर्थमुद्भूतत्वात् । अतस्तानेव मार्गप्रदर्शनकर्मणाभिप्रेतान् । अतस्तेषु संप्रदानाभिधायिनी चतुर्थी । (<पृष्ठ ३>) तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम् ॥ अभिधर्मदीप १ ॥ ऽतम्ऽ इति यः प्रतिविशिष्टविशेषणपरिछिन्नयच्छब्दचोदनया परिगृहीतः स तच्छब्देन पूर्वप्रकृतापेक्षोपजनितयच्छब्दसंबन्धेन संस्पृश्यते । संश्चासौ पन्थाश्च सत्पथः । अथवा सतां पन्थाः सत्पथः । तं सत्पथं जानीत इति सत्पथज्ञः ।ऽतं सत्पथज्ञं प्रणिपत्यऽ इति कायवाङ्मनस्कर्मभिरभ्यर्थ्येत्यर्थः । ऽबुद्धम्ऽ इति विशिष्टविशेषणपरिच्छिन्नोऽपि बुद्धानुसारिपुद्गलप्रतिपत्त्यर्थं साक्षात्प्रतीतपदार्थकेन नाम्नापदिश्यते बुद्ध इति । अत्र बुद्धशब्दस्य प्रसिद्धिः बुधेरकर्मकत्वविवक्षायां कर्तरि क्तो भवति । सर्वे वा ज्ञानार्था गत्यर्था इति कर्मकर्तरि क्तविधानम् । अभिधानलक्षणत्वाच्च कृत्तद्धितसमासानामचोद्यम् । दृष्टं चेदं बुद्ध इत्यभिधानं कर्तरि लोके प्रयुज्यमानम् । तद्यथा निद्राविगमे पदार्थानुबोधेऽविद्यानिरासे च विबुद्धः प्रबुद्धो देवदत्त इति । एवं भगवानप्यविद्यानिद्राविगमात्, सर्वार्थावबोधाच्च बुद्धो विबुद्धः प्रबुद्ध इत्युच्यते । यथा वा परिपाकविशेषात्स्वयमेव बुद्धं पद्ममेवं भगवानपि प्रज्ञादिगुणप्रकर्षपरिपाकाद्बुद्धो विबुद्धः प्रबुद्ध इति । सर्वशिष्टप्रयोगाच्च । दृष्टो ह्यत्र शिष्टप्रयोगः । यथोक्तं व्यासेन । "एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्" इति । तस्मादशिष्टचोद्येष्वनादरः । अत्र पुनः श्लोकस्य पूर्वार्धे परार्थसंपादकं वैशारद्यद्वयं प्रदर्शितम् । तृतीये पादे स्वार्थसम्पद्द्योतकं वैशारद्यद्वयमाविष्कृतम् । न ह्यक्षीणास्रवः (<पृष्ठ ४>) शक्तो मार्गमाख्यातुमिति । न चासम्यक्संबुद्धः सर्वधर्मानभिसंबोद्धुमलमिति । कथं पुनरेत दिगात्मानो वैशेषिकपरिकल्पिता असत्त्वादेव नैव नित्याः नानित्याः । असत्त्वं पूर्वमाविष्कृतम् । सांख्यीयमपि प्रधानं न नित्यम् । कुतः ? त्रैगुण्यस्य सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते । तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः ॥ अभिधर्मदीप २ ॥ यदि सत्त्वादयो गुणाः नान्यथा भवन्ति ह्रासवृद्धिभावेन, न तर्हि किञ्चित्तेभ्यो व्यक्तमुत्पद्यते । अथान्यथा भवन्ति, अनित्यास्तर्हि प्राप्नुवन्ति । कर्मवशाददोष इति चेत्, अत्र ब्रूमः । न कर्म स्वकतोत्सर्गात् यदि प्रतिपुरुषं कर्माणि बुद्धिपूर्वाण्यबुद्धिकृतानि वा प्रधाने विद्यन्ते साधारणप्रधानकल्पनावैयर्थ्यं तर्हि प्राप्तमिति । किञ्च, ज्ञव्यक्तात्मकता मलाः । प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः ॥ अभिधर्मदीप ३ ॥ यदि तानि कर्माणि पुरुषात्मकानि नन्वेवं सति मोक्षाभावः प्राप्नोति । पुरुषनित्यत्वे कर्मनित्यत्वप्रसङ्गात् । चशब्दात्पुरुषकर्तृत्वादिदोषाश्च ।ऽद्वितीयेऽन्येऽप्युपप्लवाः ।ऽ प्राधानात्मकपक्ष एते च दोषाः प्रसजन्त्यन्येऽपि चोपप्लवाः साधारणत्वादकृताभ्यागमानिर्मोक्षप्रसङ्गात् । तस्मात्त्रीण्येव च सर्वज्ञाभिहितान्यसंस्कृतानि नित्यानीति सिद्धम् । व्याख्याताः अष्टौ पदार्थाः- संस्कृताः पञ्च, त्रयश्चासंस्कृताः । एतावच्चैतत्सर्वं यदुत संस्कृतं चासंस्कृतं चेति । तच्चैतदायतनधातुव्यवस्थानेन व्यवस्थाप्यते । (<पृष्ठ ५>) द्वादश खल्वायतनानि । चक्षुरादीनि धर्मायतनान्तानि । अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुर्यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरिति । तत्र तावत् रूपस्कन्धो हि नेत्राद्या दशायतनधातवः । धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः ॥ अभिधर्मदीप ४ ॥ मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः । इति । कः पुनरायतनधात्वर्थः ? तदुच्यते । आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते ॥ अभिधर्मदीप ५ ॥ तदुक्तं भवति- चित्तचैतसिकाख्यमायमेतानि तन्वन्तीत्यायतनानि । यस्मात्सप्त चित्तधातवश्चत्वारश्चारूपिणः स्कन्धा एभ्यश्चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्तिं वा प्रत्यायन्ते तस्मादायतनानि । धात्वर्थस्तु गोत्रार्थः । तदुक्तं भवति- एकस्मिंञ्च्छरीरपर्वतेऽष्टादश (<पृष्ठ ६>) धर्मगोत्राणि- इति । ध्रुवद्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते । आकाशं च सर्वभूतभौमिकरूपाधारमिति तदप्यत्रास्तीति । स्वलक्षणधारणाद्वा तद्धातुत्वम् । अथ कस्माद्द्वादशायतनान्यष्टादश च धातवः पृथङ्निरुच्यन्ते ? नन्वन्यतरनिर्देशाद्गतार्थमेतदिति । अत्रोच्यते । योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः । बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान् ॥ अभिधर्मदीप ६ ॥ स्कन्धेषु हि दृश्यमानेषु योगिनोरसर्वज्ञेयप्रतिबिम्बकान्युपतिष्ठन्ति । धातुष्वपि सप्तचित्तधातुप्रतिबिम्बकानि सादृश्याद्दुरवधाराणि भवन्ति । धातुस्कन्धव्यवस्था चायतनेषूक्तेष्वभिहितकारणा भवन्ति सुलक्षा चेति धातुदेशना । तदूर्ध्वं स्कन्धप्रज्ञप्तिः । यथोक्तम्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम् । त्रयाणां सन्निपातात्स्पर्शः । सहजा वेदना चेतना" इति । तस्मादायतनानि धातूनां योनिः, धातवः स्कन्धानामिति । ऽबुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान् ।ऽ सप्त विज्ञानधातवो हि देश्यमाना बुद्ध्यैकत्वग्राहं निवर्तयन्ति । पिण्डैकात्मग्राहं च निवर्तयन्ति । वैभाषाः पुनराहुः- "रूपसंमूढानामायतनदेशना । चित्तचैत्तसंमूढानां स्कन्धदेशना । रूपचित्तसंमूढानां धातुदेशना । तीक्ष्णेन्द्रियाणां वा स्कन्धदेशना । मध्येन्द्रियाणामायतनदेशना । मृद्विन्द्रियाणां धातुदेशना । एवं संक्षिंप्तमप्यविस्तररुचीनाम् ।" अथवाऽबुद्ध्यैकत्वादिधीहान्यै धातूंश्चाष्टादशोक्तवान् ।ऽ ये खलु बुद्ध्यैकत्वमध्यवसिता (<पृष्ठ ७>) मनसश्चेतनायां वा रूपचित्तैकत्वं वा तेषां ममत्व बुद्धिनिरासार्थमष्टादशधातूनुक्तवानिति । कः पुनरयं षड्भ्यो विज्ञानकायेभ्योऽन्यो मनोधातुः ? न खलु कश्चिदन्यः । किं तर्हि ? षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः । (<पृष्ठ ८>) स्वविषयालम्बनक्रियापेक्षया विज्ञानान्तरोत्पादनादिशक्त्यपेक्षया चैकस्य विज्ञानस्य त्रिधा निर्देशः क्रियते-ऽमनश्चित्तं विज्ञानं चऽ इत्यनागतस्यातीतस्यापि भूतभाविन्या संज्ञया व्यपदेशः । एवं सति "अष्टादशधातवस्त्रैयध्विकाः" इत्यभिधर्मग्रन्थोऽप्यनुलोमितो भवति । सूत्रेऽपि चोक्तम्- "यत्पुनस्तद्भवति चित्तमिति वा मन इति वा" इति विस्तरः । तदेवं व्याचक्षाणेन भवता नित्यं करणं मनोऽनित्यश्चात्मा कर्ताऽ इति प्रतिषिद्धं भवति । अथ कस्मात्तदेव चक्षुर्विज्ञानादीनां पञ्चानामप्याश्रयत्वेन नोक्तमिति ? अत्र ब्रूमः- रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः ॥ अभिधर्मदीप ७ ॥ चक्षुरादीनामसाधारणत्वादिति । अथ यदुक्तम्-ऽससंप्रयोगा सहसंग्रहेण इति । कौ पुनरिमौ संग्रहसंप्रयोगावित्येतदपदिश्यते । स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः । (<पृष्ठ ९>) क्षणपरमाणुजातिसंख्यानां प्रत्येकं यथायोगं संग्रहो वेदितव्यः । कस्मात्? स्वात्मना नित्यमवियोगात् तस्माद्द्रव्यात्मसंग्रहः । सच्छब्दनिमित्तं हि सतो भावः सत्ता द्रव्यं प्रकृत्यर्थः । द्रव्यात्मसंग्रहः प्रत्ययार्थः, सत्क्रिया वोपचारसत्तारूपा । वैशेषिकसत्ता तु नोभयमर्थान्तरत्वात् । न ह्यर्थान्तरं स्वात्मोपपद्यते । किञ्च, स्वातन्त्र्यात् । निरुक्त्यपभ्रंशाच्च । नहि घटेन सत्तोत्पाद्यते । आवरणाभावात्तन्नित्यत्वाभ्यु पगमाच्च । निरुक्त्यपि भ्रश्यते- सत्तायोगात्सन्ती ति । स्यान्माल्यादिवत्सत्तावान्वा क्रियावदिति । यस्त्वयं संग्रवस्त्वादिषु संग्रहः प्रोक्तः स कादाचित्कत्वाद्गौणो मन्तव्यो न मुख्यः । संप्रयोगस्तु समत्वं चित्तचैतसाम् ॥ अभिधर्मदीप ८ ॥ पञ्चभिः समालम्बने प्रयुज्यन्त इति । सम्प्रयुक्ताश्चित्तचैतसा एव धर्मा नान्य इति ॥ अथ य एते सूत्रान्तरेषु स्कन्धायतनधातुसंशब्दिता धर्माः श्रूयन्ते ते किमेष्वेव संग्रहं गच्छन्ति, आहोस्विन्नेति ? अत्रोच्यते । तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् । ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्षणम् ॥ अभिधर्मदीप ९ ॥ तत्र तावच्छीलस्कन्धादीनां पञ्चानां स्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः । शेषाः संस्कारस्कन्धेन । दश कृत्स्नायतनान्यप्यलोभस्वाभाव्यादष्टानां धर्मायतनेन । सपरिवाणाणि तु मनोधर्मायतनाभ्यां पञ्चस्कन्धस्वभावत्वात् । (<पृष्ठ १०>) अन्त्ये द्वे कृत्स्नायतने चतुःस्कन्धस्वभावत्वात्, मनोधर्मायतनाभ्याम् । धातूनामपि षड्धातवः । तेभ्यश्चत्वारः स्प्रष्टव्यधातूनाम्, पञ्चमो रूपधातूनां, षष्ठः सप्तभिश्चित्तधातुभिः ॥ अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् । रूपस्कन्धस्य दशस्वायतनधातुषु रूपिषु संग्रहो वेदितव्यः । धर्मायतनधातुप्रदेशेन त्रयाणामपि स्कन्धानां यथायोगधर्मायतनधातुभ्याम् । अन्त्यस्य तु मनआयतनस्य सप्तभिश्चित्तधातुभिरिति ॥ अथ कस्मादसंस्कृतं स्कन्धैरसंगृहीतम् ? ब्रूमः । नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः ॥ अभिधर्मदीप १० ॥ आदिशब्दान्निष्क्रियत्वस्कन्धलक्षणवियुक्तत्वाच्चेति ॥ धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः । ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात् ॥ अभिधर्मदीप ११ ॥ अशीतिः खल्ववतरणसहस्राणि यैर्विनेयाः सन्मार्गमवतार्यन्ते ॥ (<पृष्ठ ११>) किं पुनस्तेषामेकैकस्य प्रमाणम् ? ब्रूमः । अत्राचार्याणां भेदंगता बुद्धयः । केचिदाहुः धर्मस्कन्धप्रमाणं तु सत्यादेरेकशः कथा । सत्यध्यानसमाधिसमापत्तिविमोक्षप्रतीत्यसमुत्पादस्कन्धादीनामेकशः कथा धर्मस्कन्धः । रागादिचरितप्रतिपक्षो धर्मस्कन्ध इत्याचार्यकम् । तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः ॥ अभिधर्मदीप १२ ॥ येषां तावद्वाक्स्वभावं बुद्धवचनं तेषामशीतिधर्मस्कन्धसहस्त्राणि रूपस्कन्धैकदेशेन संगृहीतानि । येषां पुनर्नामस्वभावं तेषां संस्कारस्कन्धसंगृहीतानि । अयं त्वागमः- "जीवतो भगवतो वाङ्नाम स्वभावं बुद्धवचनं गौणमुख्यन्यायेन । परिनिर्वृतस्य तु नामस्वभावमेव, न वाक्स्वभावम्, ब्रह्मस्वरत्वान्मुनीन्द्रस्य, लोकवाचां तत्सादृश्यानुपपत्तेः ॥" कस्मात्पुनरेते षड्धातवः पृथगुच्यन्ते ? यस्मादेते (<पृष्ठ १२>) सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः । प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते ॥ अभिधर्मदीप १३ ॥ एते हि षड्धातवो गर्भावक्रान्तिकाले मौलं सत्त्वद्रव्यप्रज्ञप्त्युपादानम् । कथम् ? यस्मादयं कायाख्यः समुच्छ्रायः पृथिवीधातुना खक्खटलक्षणेन सन्धारितो भूतान्तरवृत्त्युद्रेकोऽस्थिस्नायुनखदन्तरोमादिसंचयः । अब्धातुना द्रवस्नेहलक्षणेन श्लेष्मरुधिरादिमयेनाभिष्यन्दितसंश्लेषितभूतान्तरः । तेजोधातुनोष्णस्वभावेन परिपाचितक्लेददौर्गन्धः । वायुना च प्रेरणात्मकेन संचारितभोजनरसधातुविण्मूत्रश्लेष्मपित्तसंचयः । नभोधातुना च मुखनासिकाकर्णादिच्छिद्रजनितभोजनपानादिप्रवेशनिष्क्रमणक्रियः । विज्ञानधातुना वस्तूपलब्धिलक्षणेन वायुधातुक्रियाध्यासिनोत्पादितसंजनिताङ्गप्रत्यङ्गचेष्टो मौलं सत्त्वद्रव्यमित्युपचर्यते । इन्द्रियाणि चक्षुरादीनि खल्वत्र भूतग्रहणेन गृह्यन्ते, चैतसिका विज्ञानग्रहणेनेति प्राधान्याद्भूतचित्तग्रहणम् । किमर्थं पुनरेत एव धातुषट्कमुपदिष्टम् ? यस्मादस्य भेदात्ऽअस्मिमानो निवर्ततेऽ । कथम् ? षड्धातुप्रभेदादात्मदृष्टिनिरासः । तन्निरासादस्मिमानसमुद्धातः ॥ ऽसत्कायदृष्टिपुष्टत्वात्ऽ इत्यत्र पुनः क्लिष्टमेव हि विज्ञानं विज्ञानधातुरभिप्रेतम् । कस्मात्? द्रष्टव्यं जन्मनि श्रयात् । यस्मादेते षड्धातवो जन्मनो निश्रयभूतास्तस्मात् ।ऽक्लिष्टमेव विज्ञानंऽ अत्र द्रष्टव्यम् । (<पृष्ठ १३>) कः पुनरयमाकाशधातुरन्यः पुनः पृथगाकाशात्? तदुच्यते । खधातुः पृथगाकाशाद्रूपायतनसंग्रहात् ॥ अभिधर्मदीप १४ ॥ आकाशं हि धर्मायतनसंगृहीतं नित्यं च । आकाशधातुस्तु चाक्षुषो रूपायतनसंगृहीतः, आलोकतमःस्वभावो वर्णविशेषो वातायनच्छिद्राद्यभिव्यक्तरूपः । तत्पुनः नभः खलु नभो धातोरासन्नो हेतुरेष तु । भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः ॥ अभिधर्मदीप १५ ॥ उक्तं हि भगवता- "पृथिव्यप्सु निश्रिता । आपो वायौ । वायुराकाशे । आकाशं तु नित्यत्वात्स्वप्रतिष्ठितम्" इति । यदि खलु स्वप्रतिष्ठमाकाशं कस्मात्तर्ह्युंक्तम्- आकाशमालोके सति प्रज्ञायते ।" ब्रूमः । नैष दोषः । आधेयेनाधारप्रज्ञापनात् । सर्वस्य खलु संस्कृतस्य मूर्तिक्रियाप्रतिलम्भे गगनमाधारः । अथवाकाशधातुरत्राकाशशब्देनोक्तः । स हि ब्राह्मणः प्रष्टा तस्मिन्नाकाशधातावाकाशसंज्ञीत्यत एवोक्तमालोके सति प्रज्ञायते । न चाकाशमालोके सति प्रज्ञायते, (<पृष्ठ १४>) अनिदर्शनत्वात् । एष अकाशधातुर्भूतानामासन्नो निश्रयः । तानि तु तज्जस्योपादायरूपस्य । तदपि विज्ञानस्य । विज्ञानमधिचैतसिकानां विप्रयुक्तानां च धर्माणाम् । अत आकाशं त्रैलोक्यप्रतिष्ठा । तदभावे त्रैलोक्यमप्रतिष्ठितमनाधारं, न प्रज्ञायेत । तस्मादाकाशं जगदुत्पत्तिप्रलयनिमित्तं न नारायण इति सिद्धम् । गतमेतत् ॥ इदानीं वक्तव्यम् । षण्णामध्यात्मिकानां धातूनां कोऽनुक्रमः ? ब्रूमः । प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत् । ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि ॥ अभिधर्मदीप १६ ॥ प्रत्यक्षवृत्तीनि खलु चक्षुरादीनि पञ्च प्रागुक्तानि । तेभ्योऽप्यप्राप्तग्राहिणी द्वे प्रागुक्ते । तयोरपि यद्य(द्द)वीयोऽर्थं तत्प्रागुक्तम् । प्राप्तग्राहिणां तुऽपटिष्ठमितरादपिऽ यत्पटुतरं तत्प्रागुक्तमिति ॥ अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमाध्यास्य द्वितीयः पादः ॥ (<पृष्ठ १५>) प्रथमाध्याये तृतीयपादः । इदमिदानीं वक्तव्यम् । य एतेऽष्टादशधातवः, एषां कति सनिदर्शनाः कत्यनिदर्शनाः ? कति सप्रतिघाः कत्य प्रतिधाः ? कति व्याकृताः कत्यव्याकृता इति ? अत इदं प्रतायते ॥ सनिदर्शन आद्यार्थः आद्यस्य चक्षुर्धातोर्योर्थो रूपधात्वाख्यः स सनिदर्शनः । सह निदर्शनेन निर्दिष्ट इति कृत्वा । निदर्शनं वास्य संबन्धि विद्यत इति सनिदर्शनः ॥ मूर्ताः सप्रतिघा दश । सप्तचित्तधातून्धर्मधातुं च हित्वा दशान्ये मूर्ता धातवःऽसप्रतिघा दशऽ । प्रतिघो नाम प्रतिघातः । स च त्रिविधः । आवरणविषयालम्बनप्रतिघातः । तत्रावरणप्रतिघातः स्वेदेशे परस्योत्पत्तिप्रतिबन्धः । स तु मूर्तानामेव संस्थानवतां परमाणूनां दिग्देशनिर्देश्यानां धर्माणाम् । यथा हस्तोहस्तेन प्रतिहन्यते उपलो वोपलेन । विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु स्वेषु विषयेषु प्रतिघातः । यस्य यस्मिन् वृत्तिः सन्निपातलक्षणा कारित्राख्या च स तस्मिन् प्रतिहन्यते ततोऽन्यत्रावृत्तेः । आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु प्रतिघातः ॥ कः पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन्यस्य कारित्रं स तस्य विषयः । यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वमन्योन्यावरणात् । (<पृष्ठ १६>) ऽये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि तेऽ इति ? चतुष्कोटिकः । प्रथमा कोटिः- सप्तचित्तधातवोधर्मधातुप्रदेशश्च यः संप्रयुक्तः । द्वितीया- पञ्च विषयाः । तृतीया- पञ्चेन्द्रियाणि । चतुर्थी- धर्मधातुप्रदेशः संप्रयुक्तकवर्जः । ऽये विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि तेऽ इति पश्चात्पादकः- ये तावदालम्बनप्रतिघातेन विषयप्रतिघातेनापि ते स्युः । विषयप्रतिघातेन, नालम्बनप्रतिघातेन पञ्चेन्द्रियाणि । "यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्तुम् । तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥" इति भदन्तकुमारलातः । उक्ताः सप्रतिघाः ॥ कुशलादयोऽभिधीयन्ते । अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः ॥ अभिधर्मदीप १७ ॥ त एव दशाव्याकृता रूपशब्दधातुवर्जाः । तौ हि त्रिप्रकारौ कुशलाकुशलाव्याकृतौ ॥ शेषास्त्रिधा (<पृष्ठ १७>) सप्तचित्तधातवो हि त्रिप्रकाराः । धर्मधातुश्च । संप्रयुक्तस्त्रिप्रकारः, विप्रयुक्तोऽसंस्कृतश्च । यथाशास्त्रं कश्चित्त्रिप्रकारः कश्चिदेकप्रकारः संभवतो द्रष्टव्यः । कः पुनः कुशलार्थः ? शिक्षितार्थः कुशलार्थः प्रवीणवत् । विपाकहेतावौपमिको द्रष्टव्यः । एवमकुशलोऽपि अव्याकृतस्तूभयपक्षाव्याकरणादव्याकृत इत्यभिप्रायः ॥ कति कामधातुप्रतिसंयुक्ताः कति यावदप्रतिसंयुक्ता इति । तदिदमारभ्यते । इह सर्वेऽपि कामधातौ सर्वेऽप्यष्टादश विद्यन्ते । रूपधातौ चतुर्दश । रसगन्धौ सविज्ञानौ धातू हित्वा गन्धरसधातू तद्विज्ञानधातू च हित्वा । आरूप्ये त्रयोन्तिमाः ॥ अभिधर्मदीप १८ ॥ (<पृष्ठ १८>) अग्रपश्चान्तिमः स्मृतः । अन्ताश्चेत्युपसंख्यानम् । पश्चिमा मनोधातुमनोविज्ञानधातुधर्मधातव एवमारूप्यधातौ सन्ति ॥ कति सास्रवाः कत्यनास्रवाः सास्रवानास्त्रवा अन्त्यास्त्रयः अनन्तरोक्तास्तत्र सास्रवाः दुःखसमुदयसत्यसंगृहीताः । अनास्रवास्तु मार्गसत्यासंस्कृतसंगृहीताः ॥ शेषास्तु सास्रवाः । पञ्चदशधातवः सास्रवाः, आस्रवसंयोगित्वव्यवकीर्णत्वाङ्गभावेभ्यः । कोशकारस्त्वाह- "अनुशयानुशयनात्सास्रवाः ।" तदेतदब्रह्म । न । निरुक्तानुशयार्थापरिज्ञानात् । निरुक्तापरिज्ञानं तावत् । अनुशयानुशयनात्सानुशयाः । न सास्रवा न यावदोघाः । आस्रवा हि आभवाग्राद्यावदवीचिमुपादाय चित्तसन्ततिं स्त्रावयन्ति स्वयं च स्रवन्तीत्यास्रवाः । अनुशयास्त्वनुशेरते । क्लेशाः क्लिश्नन्ति । ग्रन्था ग्रथ्नन्ति । संयोजनानि संयोजयन्ति । ओघाः अपहरन्ति । इति स्वक्रियाद्वारेणैतेषु वर्गेष्वेता नैरुक्त्यसंज्ञा निविशन्त इत्येषा व्याख्यानीतिर्ज्यायसी । (<पृष्ठ १९>) अनुशयार्थोऽपि यदि पुष्ट्यर्थस्तेन मार्गनिर्वाणालम्बनेषु मिथ्यादृष्ट्यादिषु पोषोत्कर्षदर्शनात्, निर्वाणमार्गयोरपि रूपादिवत्सास्रवत्वप्रसङ्ग इति । गतमेतत् ॥ कति सवितर्काः कति सविचारा इति विस्तरः । सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा ॥ अभिधर्मदीप १९ ॥ सालम्बनानां धातूनां ये प्रथमाः पञ्च ते सवितर्काः सविचाराः ।ऽत्रयस्त्रिधाऽ । ये त्वन्त्यास्त्रयस्ते त्रेधा । सवितर्काः सविचाराः । विचारमात्राश्चावितर्काः । अविचाराश्च । कामधातौ प्रथमे च ध्याने वितर्को नैषु त्रिषु प्रकारेषु प्रविशति । स खल्ववितर्को विचारमात्रश्च ॥ अत्राह- यदि पञ्चविज्ञानकायाः सवितर्काः सविचाराः कथं तर्हि अविकल्पा इत्युच्यन्ते ? ब्रूमः निर्विकल्पगुणस्वार्थाः गुणः स्वार्थो येषां ते भवन्तिऽगुणस्वार्थाःऽ । एते हि अस्मारादनिरूपणात् । अविकल्पा इत्युच्यन्ते । एतौ हि प्रधानौ विकल्पौ त्रैयध्विकधर्मविषयौ । (<पृष्ठ २०>) योगिनां कृताकृतकर्मान्तप्रत्यवेक्षणा चित्तरक्षणे स्मृतिः प्रधानी भवति । धर्मस्वसामान्यलक्षणहेतुफलसंबन्धादिषु प्रविचयाख्यः प्रज्ञास्वभावः प्राधान्यमनुभवति । अत्र तु मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्निरूपिका ॥ अभिधर्मदीप २० ॥ ऽमनोभौमीऽति वर्तते । पञ्चानां विज्ञानकायानां जातिबधिरपुरुषरूपदर्शनवद्वृत्तिः । तत्रापि च स्मृतिः समाहिता चासमाहिता च अनुस्मृतिविकल्पः, आलम्बनाभिलपनतुल्यत्वात् । प्रज्ञा त्वसमाहितैवाभिनिरूपणा विकल्पः, समाहितायाः प्रकारविशेषनिरूपणाभावात्, पूर्वनिरूपितोपलक्षणमात्रवृत्तित्वाच्च ॥ अथैषां षण्णां विज्ञानकायानां कतरद्विज्ञानं कियद्भिः सविकल्पकम् ? तदिदमाविष्क्रियते । विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् । स्वभावविकल्पेन । तस्मादन्यत्त्रिभिः मनोविज्ञानं कामेषु त्रिभिः सविकल्पकम् । ध्याने प्रथमे चासमाहितम् ॥ अभिधर्मदीप २१ ॥ प्रथमे हि ध्याने यदसमाहितं मनोविज्ञानं तत्त्रिभिरेव । द्वाभ्यामव्यग्रं यत्पुनः समाहितंतद्द्वाभ्यामेवाभिनिरूपणविकल्पमपास्य । एकेन चक्षुःश्रोत्रत्वगाश्रयम् । यत्पुनश्चक्षुःश्रोत्रत्वगाश्रयं विज्ञानं प्रथमे ध्याने तदेकेनैव । द्वाभ्यां तदुपरिव्यग्रं द्वितीयादिषु ध्यानेषु द्वाभ्यां व्यग्रमिति वर्तते । (<पृष्ठ २१>) एकेनैव समाहितम् ॥ अभिधर्मदीप २२ ॥ अनुस्मृतिविकल्पेनैव । एवं यावद्भवाग्रम् ॥ इदमिदानीं वक्तव्यम् । कुत्र कस्य षट्प्रकारं विज्ञानं कुशलादिविकल्पकं भवति ? तदिदमभिधर्मगह्वरं प्रस्तूयते । उच्छिन्नशुभबीजस्य दर्शनं सविकल्पकम् । कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः ॥ अभिधर्मदीप २३ ॥ इह तावदुच्छिन्नकुशलमूलस्य पञ्च रूपोन्द्रियाश्रयबलोत्पन्नं दर्शकं विज्ञानं कुशलं न विद्यते, अन्यत्र कुशलमूलप्रतिसन्धानात् । कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः । द्विधाप्यकुशलं नास्ति दर्शकं च मनोविज्ञानं च यद्यपरिहाणधर्मा भवति । क्लिष्टं चार्यस्य नोत्तमम् ॥ अभिधर्मदीप २४ ॥ न चार्यस्योर्ध्वभूम्यालम्बनं क्लिष्टं विज्ञानं विकल्पकमस्ति ॥ किञ्च, नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् । न चानिवृताव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकमस्ति । क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम् ॥ अभिधर्मदीप २५ ॥ न च क्लिष्टं विज्ञानमधरभूम्यालम्बनं विकल्पकमस्ति । त्रिधेह द्वयमार्यस्य इह कुशलाकुशलाव्याकृतं दर्शकं च मनोविज्ञानं च विकल्पकमस्ति । रागिणः सशुभस्य च । अवीतरागस्याप्यनुच्छिन्नकुशलमूलस्य पृथग्जनस्य त्रिविधं द्वयमस्ति । न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम् ॥ अभिधर्मदीप २६ ॥ (<पृष्ठ २२>) विज्ञानमस्तीति ॥ इदमिदानीं वक्तव्यम् । कथमसत्यात्मनि शाश्वते तद्गुणे च संस्कारे स्मृतिहेतावसति प्रतिक्षणविनश्वरेषु च विज्ञानेषु च परस्पराकृतसंकेतेषु पूर्वानुभूतोऽर्थः स्मर्यते ? तदपदिश्यते । यद्यपि दत्तोत्तर एष वादः, तथापीदं शास्त्रानुगतमारभ्यते । प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः । प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः ॥ अभिधर्मदीप २७ ॥ प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकूलेभ्यः पूर्वविज्ञानानुभूते रूपादौ वस्तुनि स्मृतिरुत्पद्यते । आत्ममनःसंयोगात्संस्कारापेक्षा तदुत्पत्तिरिति चेत् । न । आत्ममनः- संयोगः संस्काराणां शशविषाणवदसिद्धत्वान्नित्यस्यास्यात्मनः संस्काराणामनुपपत्तेः । संस्कारसंयोगश्च सकलात्मव्यापित्वे प्रदेशवृत्त्यभ्युपगमदोषाच्च । तस्मात्सुष्ठूक्तं प्रयोगादङ्गसान्निध्यादिभ्यः स्मृतिरुत्पद्यते परमार्थसंवृत्तिविषया ॥ एतद्विपर्ययात्मान्द्यात्क्लेशरोगाभिभूतितः । ज्ञातपूर्वेषु विस्मृतिः संप्रजायते ॥ अभिधर्मदीप २८ ॥ इदमिदानीं विचार्यते । दुःखदर्शनहेयादिना पञ्च प्रकारेण विज्ञानेन यदनुभूतं तत्कतमेन स्मर्यते ? तदिदं प्रस्तूयते । दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा । स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये ॥ अभिधर्मदीप २९ ॥ सर्वाणि खलु दुःखदर्शनादिहेयानि पञ्चप्रकाराणि परम्परानुभूतं स्मरन्ति । अयं त्वत्र नियमः-ऽनान्योऽन्यं व्योघदृक्क्षये ।ऽ निरोधमार्गदर्शनप्रहातव्यानुभूतं तु नान्योऽन्यं स्मृतिप्रतिनियतालम्बनत्वात् । शेषास्तु त्रयः प्रकाराः सम्भिन्नालम्बनत्वान्न प्रतिषिध्यन्ते ॥ विज्ञानानां तु पञ्चानां यदेकेनानुभूयते । तत्स्मर्यतेऽपि चान्येन (<पृष्ठ २३>) मनोविज्ञानेनेत्यर्थः । तेन खल्वितरैरपि ॥ अभिधर्मदीप ३० ॥ मनोविज्ञानेनापि यदनुभूतं तत्षड्भिरपि स्मर्यते ॥ अथ द्वादशानां चित्तानां कोऽर्थः केनानुभूतः कतिभिः स्मर्यते ? द्वादशचित्तानि । कामावचराणि कुशलादीनि चत्वारि । रूपावचराणि त्रीण्यन्यत्राकुशलात् । एवमारूप्यावचराण्येतान्येव त्रीणि । शैक्षमशैक्षं च । स्मृतिरपि तत्संप्रयुक्ता द्वादशविधैव । तत्र किं केनानुभूतं तद्द्वादशभिरपि स्मर्यते ? कामावचरकुशलानुभूतं तद्द्वादशविधया स्मरति । एवमकुशलेन । तन्निवृताव्याकृतानुभूतमष्टविधया स्मरति । कामावचर्या सर्वया । रूपारूप्यावचर्ययान्यत्र निवृताव्याकृतानिवृताव्याकृतायाः शैक्षाशैक्षाभ्यां च । एवमनिवृताव्याकृतेन । रूपावचरकुशलानुभूतं सर्वाभिः स्मरति । तन्निवृताव्याकृतानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तदनिवृताव्याकृतानुभूतं दशभिरन्यत्रारूप्यावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । आरूप्यावचरः कुशलानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तन्निवृताव्याकृतानुभूतं नवभिरन्यत्र कामावचरं निवृताव्याकृतानिवृताव्याकृताभ्याम् । रूपावचराच्चानिवृताव्याकृतात् । एवमनिवृताव्याकृतेन । शैक्षानुभूतमेकादशभिरन्यत्रकामावचरनिवृताव्याकृतादेवमशैक्षेणेति । संक्षेपार्थस्त्वयं श्लोकैः प्रदर्श्यते । द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह । व्यारूप्यरूपनिवृतेः स्मर्यतेऽष्टाभिरेव तत् ॥ अभिधर्मदीप ३१ ॥ कामधातौ निवृताव्याकृतानिवृताव्याकृताभ्यां यदनुभूतं तदष्टाभिः स्मर्यते । रूपारूप्यावचरे द्वे निवते हित्वा । शेक्षमशैक्षं चैवमनिवृताव्याकृतेन । रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेण यत् । कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत् ॥ अभिधर्मदीप ३२ ॥ कामावचरनिवृताव्याकृते हित्वा । (<पृष्ठ २४>) रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् । आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः ॥ अभिधर्मदीप ३३ ॥ यत्खलु रूपधातौ अनिवृताव्याकृतेनानुभूतं तदारूप्याव्याकृते हित्वा तदन्यैर्दशभिः स्मर्यते ॥ आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् । कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा ॥ अभिधर्मदीप ३४ ॥ गतमेतदौपोद्घातिकं प्रकरणम् । प्रकृतमेवाभिधीयताम् ॥ य एतेऽष्टादशधातव एषां कति सालम्बनाः कत्यनालम्बनाः कत्युपात्ताः कत्यनुपात्ताः कति संचिताः कत्यसंचिताः ? तदिदमारभ्यते । चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः । सालम्बना इति वर्तते । शेषास्त्वनालम्बना विषयाग्रहणात् ॥ अमूर्ता ध्वनिना सार्धमनुपात्ताः य एते सप्तचित्तधातवो धर्मधात्वर्धेन सहोक्तास्ते शब्देन सहानुपात्ताः । अतोऽन्ये नव द्विधा ॥ अभिधर्मदीप ३५ ॥ ये सन्तानाधिरोहिणः प्रत्युत्पन्नाश्चक्षुरादयस्तदविनिर्भागिणश्च रूपादयः । शेषास्त्वनुपात्ताः । निश्चेतनत्वादनात्मभावपर्यापन्नत्वाच्च । शेषा ये बाह्याः कायेन्द्रियसंतानव्यतिरेकवर्तिनस्तेऽनुपात्ता इति सिद्धम् ॥ कति भूतानि कति भौतिकाः ? तत्राप्युच्यते । स्पृश्यं द्विधा अत्र भूतानि चत्वारि भौतिकं च गुरुत्वादिसप्तप्रकारम् । (<पृष्ठ २५>) सधर्मांशाः सह ता नव भौतिकाः । सह धर्मधात्वंशेनाविज्ञप्त्याख्येनऽसह ता नव भौतिकाःऽ ॥ एवं कति मूर्ताः ? दश सावयवा मूर्ताः शेषास्त्वमूर्ताश्चक्षुर्विज्ञानधात्वादयः । त एव दश संचिताः ॥ अभिधर्मदीप ३६ ॥ परमाणुसंघाता इत्यर्थः । त एवाष्टौ चक्षुर्विज्ञानधात्वादयो हित्वा शेषा दश संचिताः ॥ कति च्छेत्तारः कति च्छेद्याः, कति दग्धारः कति दाह्याः, कति तोलयितारः कति तोल्याः ? तदिदमत्रोच्यते । रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः । दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा ॥ अभिधर्मदीप ३७ ॥ ऽवाऽ शब्दो मतविकल्पार्थः । केषाञ्चित्तेजोधातुरेव दग्धा गुरुत्वमेव तोल्यम् ॥ कति विपाकजाः कत्यौपचयिकाः ? पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः । (<पृष्ठ २६>) विपाककारणहेत्वधीनजन्मत्वात्नैष्यन्दिकानि चक्षुरादीनि पञ्च न विद्यन्ते । मृतस्य विपाकजव्यतिरिक्ततन्निष्यन्दाभावात् । तत्र विपाकहेतोर्जाता विपाकजाः, मध्यपदलोपं कृत्वा गोरथवत् । अमूर्ता नौपचयिकाः सप्तचित्तधातवो धर्मधातुश्चामूर्ता नैष्यन्दिकविपाकजास्तु विद्यन्ते सभागविपाकहेतुबलोत्पत्तेः । त्रिधा शेषाः रूपधात्वाद्याश्चत्वारस्त्रिप्रकारा ये कायेन्द्रियसहवर्तिनस्ते त्रिधा । बाह्याः ते द्विधा । ध्वनिर्द्विधा ॥ अभिधर्मदीप ३८ ॥ शब्दस्तु विपाकजो नास्तीत्यागमः । युक्तिरपीच्छातस्तत्प्रवृत्तेः ॥ इदानीमिदमुच्यते । यश्चक्षुर्धातुना समन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानर्धातुना चक्षुधातुनापि सः ? आह । नात्रैकांशः । यस्मात् चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् । (<पृष्ठ २७>) चक्षुर्धातुं तावल्लभते न चक्षुर्विज्ञानधातुम् । कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः, आरूप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः । स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना । द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । ततश्च्युतश्चाधस्तादुपपद्यमानः । उभाभ्यामपि- आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभाभ्याम्- एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतः चक्षुर्विज्ञानधातुनापि सः ? चतुष्कोटिकाः । प्रथमा- द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । द्वितीया- कामधातावलब्धविहीनचक्षुः । तृतीया- कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् । चतुर्थी- एतानाकारान् स्थापयित्वा ॥ गतमेतत् । प्रकृतमिदानीमनुवर्त्यताम् । कत्याध्यात्मिकाः कति बाह्याः ? द्वादशाध्यात्मिका ज्ञेयाः पञ्चेन्द्रियात्मिकः सप्तचित्तधातवश्च, अहंकारसन्निश्रयत्वात् । "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः ।" इति । बाह्याष्षड्विषयात्मकाः ॥ अभिधर्मदीप ३९ ॥ कति दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ? तदारभ्यते । त्रयोऽन्त्यास्त्रिविधाः मनोधातुर्मनोविज्ञानधातुर्धर्मधातवस्त्रिप्रकाराः । अष्टाशीत्यनुशयसहचरिष्णवस्तत्प्राप्तयश्च दर्शनहेयाः । (<पृष्ठ २८>) शेषा भावनापथसंक्षयाः । ये सास्रवाः । ये त्वनास्रवास्तेऽप्रहेया निर्दोषत्वात् ॥ न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम् ॥ अभिधर्मदीप ४० ॥ पृथग्जनत्वमिति चेत् । न । तस्यानिवृताव्याकृतत्वात, समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात् । आपायिकं च कायवाक्कर्मरूपस्वभावं तदप्यार्यमार्गविरोधित्वाद्विहीनं न तु प्रहीणं तस्मादुभयं न दर्शनहेयं सत्येष्वविप्रतिपत्तेः । दुःखधर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्च । पञ्चविज्ञानकाया अविकल्पकास्तेऽपि न दर्शनहेयाः ॥ कति सभागाः कति तत्सभागाः ? सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः । धर्मधातुवर्ज्या अन्ये धातवो द्विधा । सभागास्तत्सभागाश्च ॥ कः पुनः सभागार्थः को वा तत्सभागार्थः ? सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते ॥ अभिधर्मदीप ४१ ॥ (<पृष्ठ २९>) यः स्वक्रियां भजते स सभाग इत्युच्यते । यः स्वक्रियाविरहितः स तत्सादृश्यमात्रभजमानत्वात्तत्सभाग इत्याख्यायते । अत्र सभागस्त्रिविधः । अध्वसु स्वक्रियाभेदेन वाच्यः । एवं तत्सभागः क्रियाविरहितो वाच्यः । अनुत्पत्तिधर्मकं चतुर्थमिति काश्मीराः ॥ कति दृष्टिः कति न दृष्टिः ? चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते । चक्षुस्तावल्लोकेऽपि दृष्टिरिति प्रतीतम् । धर्मधातोरपि प्रदेशो दृष्टिस्वभावोऽष्टविधः क्लिष्टाक्लिटप्रज्ञात्मकः । शेषस्तु न दृष्टिः । पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरनितीरणात् ॥ अभिधर्मदीप ४२ ॥ नितीरिका हि दृष्टयो विचारणाश्रयात् । सा त्वविकल्पिका जडस्वभावा । अत्यल्पमिदमुच्यते । मनोविज्ञानभौम्यनिरासादिसंप्रयुक्ता न दृष्टिरित्युपसंख्यातव्यम् ॥ कथं पुनरेताः प्रज्ञाः पश्यन्ति ? तदिदमाविष्क्रियते । समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते । क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः ॥ अभिधर्मदीप ४३ ॥ (<पृष्ठ ३०>) यथा समेघायां तिमिरपटलावगुण्ठितचन्द्रनक्षत्रचक्रप्रायां रजन्यां रूपाणि दृश्यन्ते तथा क्लिष्टाः पञ्चदृष्टयो ज्ञेयं पश्यन्ति । यथा तु विगतरजांसि निशाकरकिरणांशुकावगुण्ठितायां त्रियामायां रूपाणि दृश्यन्ते, तथा लौकिकी सम्यग्दृष्टिः पश्यति । यथा तु मेघपटलावगुण्ठिते दिवाकरकिरणानुद्भासिते दिवसे रूपाणि दृश्यन्ते तद्वच्छैक्षी दृष्टिः पश्यति । यथा तु द्रव्यकनकरसावसेकपिञ्जरदिनकरकिरणप्रोत्सारिततिमिरसंचये दिवसे चक्षुष्मतो देवदत्तस्य रूपं चक्षुरीक्षते, तथा बुद्धानामर्हतां प्रज्ञाचक्षुरविद्याक्लेशोपक्लेशमलदूषिकातिमिरपटलवर्जितं ज्ञेयं पश्यतीति । अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः ॥ (<पृष्ठ ३१>) प्रथमाध्याये चतुर्थपादः । आह । यदुक्तम्- चक्षुर्दर्शनमष्टप्रकारा च प्रज्ञा दृष्टिरिति । अथ विज्ञानं पश्यत्यथ न पश्यति ? यदि पश्यति दशधर्मा दृष्टिस्वभावा भवन्ति । अथ न पश्यति दार्ष्टान्तिकपक्षस्तर्ह्युज्झितो भवति । देवा एनं ग्रहीष्यन्ति ग्रहीतव्यं चेन्मंस्यन्ते । यत्तूक्तं दशधर्मा दृष्टिस्वभावाः प्राप्नुवन्तीत्यत्र विज्ञानस्य मुख्यदर्शनकल्पनाप्रतिषेधमुपरिष्टात्करिष्यामः । इदं तु वक्तव्यम् । चक्षुश्चक्षुर्विज्ञानप्रज्ञासामग्रीणां कः पश्यति ? कुतः संशय इति चेत् । सर्वत्र दोषदर्शनात् । यदि तावच्चक्षुः पश्यति यावत्कायः स्पृशति ततो युगपत्सर्वविषयोपभोगप्रसंगः । अथ चक्षुर्विज्ञानं पश्यति कस्तर्हि विजानाति ? व्यवहितमपि किं न पश्यति, अप्रतिघत्वात्? अथ प्रज्ञा पश्यति श्रोत्रविज्ञानादिष्वपि प्रज्ञा विद्यत इति तत्रापि दर्शनप्रसंगः । अथ चक्षुरादिसामग्री पश्यति सापि खलु चक्षुरादिसामग्र्यङ्गव्यतिरिक्ता स्वभावक्रियाभावान्न विद्यते । चक्षुरादिसामग्र्यङ्गानामपि प्रत्येकं दर्शनशक्तिक्रियाभावोऽन्धशतवदित्यसत्त्वम् । सर्वसामग्रीणां सर्वकार्यकरणापत्तित्वात्, विशेषाभावात् । हेतुप्रत्ययसामग्रीं प्रतीत्य क्रियामात्रं विज्ञानमुत्पद्यत इति चेत् । न । जनिकर्तृभावे जन्मक्रियास्वातन्त्र्यानुपपत्तेः, नश्यादिवत् । हेतुप्रत्ययानां परतन्त्राणां स्वात्मन्यवस्थितानां निरात्मकानां निरात्मककरणशक्त्ययोगात् । किञ्च, विज्ञेयाभावे विज्ञानानुपपत्तेः, दाह्यदहनवत् । किञ्च, विज्ञानक्रियाश्रिताभावे तदभावाच्चित्रकुड्यवत् । जन्मनाशयोर्द्धर्मिधर्मत्वे विरुद्धानामन्यतरोपपत्तिर्विनाशस्य वा सजातिहेतुत्वप्रसंगः । यज्जात्यनुवृत्तिस्तद्बीजमिति चेत् । न । कुशलाकुशलादिचित्तनिरोधे बीजत्वानुपपत्तेः, सामग्रीपक्षोत्सर्गात्सांख्यमताभ्युपगमदोषाच्च । तेषामपि प्रधानाख्याद्बीजादेकस्मान्निरपेक्षात्सर्वं संभवति । निमित्तान्तरापेक्षा शक्तशक्तेरिति चेत् । न । अक्षणिकत्वदोषात् । सर्वसामग्र्यङ्गबीजाभ्युपगमे कार्यस्वभावादिवैचित्र्यप्रसंगः । तस्मान्निर्दोषः पक्षो वक्तव्यः । सोऽयं प्रक्रम्यते । (<पृष्ठ ३२>) चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् । आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः ॥ अभिधर्मदीप ४४ ॥ चक्षुर्द्रव्यं हि द्रष्टृस्वभावम् । तस्य हेतुप्रत्ययसामग्रीपरिग्रहप्रबोधितशक्तेः रूपदर्शनक्रियामात्रमुत्पद्यते । द्रव्यक्रिययोश्चान्यत्वं सिद्धसाध्यमानरूपत्वान्निरपेक्षसापेक्षव्यपदेशित्वाच्च द्रष्टव्यम् । तत्र चक्षुर्मूर्तिक्रियावद्विज्ञानाधिष्ठितं दर्शनक्रियामारभते । न विज्ञानशून्यम् । यथैव चक्षुर्विज्ञानमालोचनाधिष्ठितक्रियं विजानाति, न केवलम्, परम्परानुग्रहबलाद्ध्यनयोः प्रदीपादिप्रत्ययान्तरपरिगृहीतयोर्युगपदेकस्मिन् विषये वृत्तिलाभो भवति । यस्त्वेतदतिपत्यैवं कल्पयति-ऽकारणभूताभ्यां प्रागुत्पन्नाभ्यां चक्षूरूपाभ्यां कार्यभूतं विज्ञानं सहैकस्मिन् काले नावतिष्ठतेऽ इति तस्य सक्षाद्विषयानुभवनाभावादनुमानागमाभावप्रसंगः । अनुभवज्ञाने चासति मनोविज्ञानस्मृतिगोचराभावादनुत्पत्तिप्रसंगः । नियतविषयस्मरणाभावाच्च । तस्माद्विज्ञानं नियताश्रयालम्बनलब्धप्रतिष्ठं सहकारिकारणसामग्रीसन्निपातोपजनितक्रियं साक्षाद्विषयमुपलभते । चक्षुरप्यालोचयति प्रदीपस्तत्कालमेवावभासयति । य एते विज्ञानचक्षूरूपादयः स्वहेतुसामग्रीप्रबोधितशक्तयः ते विषयप्रतिविज्ञप्त्यालोचनावभासनाख्यां युगपत्सौधीं सौधीं वृत्तिं प्रतिपद्यन्त इति युक्तिमती नीतिः । तस्मात्सत्स्वप्यन्येषु प्रत्ययेषु दर्शनक्रियायाश्चक्षुषः प्राधान्यात्, तदेवाञ्जसा पश्यतीत्युच्यते । यथा वा देवदत्तः स्थालीजलज्वलनतण्डुलादिषु सत्स्वपि पाके प्रवर्तमाने स्वस्यामधिश्रयणोदकासेचनतण्डलावपनदर्वीपरिघट्टनाचामनिस्रावणक्रियायां लब्धसामर्थ्यः साधनसन्नियोगे च परप्राप्तैश्वर्यो देवदत्तः प्राधान्यात्पचतात्युच्यते । यदा पुनस्तण्डुलानां (<पृष्ठ ३३>) विक्लेदो विवक्षितः पाको वा तदा जलानलयोः प्राधान्याद्व्यपदेशो भवत्यम्बु क्लेदयत्यग्निः पचतीति । तस्मात्सामग्र्यां सत्यां दर्शने प्रवर्तमाने प्राधान्याच्चक्षुः पश्यतीत्युच्यते । कथं प्राधान्यमिति चेत्? तत्प्रकर्षे दर्शनप्रकर्षात् । तुल्ये हि प्रथमध्यानचक्षुर्विज्ञाने द्वितीयादिषु चक्षुष्प्रकर्षाद्दर्शनप्रकर्षो दृश्यत इति । तस्माद्युक्तम्- "चक्षुः पश्यति नयनं पश्यति मनसि तु भक्त्या प्रज्ञावृत्तिरुपचर्यते मनसा पश्यति" इति । तत्रयदुक्तं कोशकारेण- "किमिदमाकाशं खाद्यते । सामग्रयां हि सत्यां दृष्टमित्युपचारः प्रवर्तते । तत्र कः पश्यति ?" इति । तदत्र तेत भदन्तेन सामग्र्यङ्गक्रियापहरणं ? क्रियते । अभिधर्मसंमोहाङ्कस्थानेनात्माप्यङ्कितो भवत्ययोगशून्यताप्रपाताभिमुख्यत्वं प्रदर्शितमिति ॥ किं पुनरेकेनापि चक्षषा पश्यति, आहोस्विद्द्वाभ्यामेवेति ? नात्र नियमः । यस्मात् (<पृष्ठ ३४>) एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः । इति द्विचन्द्रदर्शनादेर्विज्ञानस्य .......... ॥ प्राप्तग्राहीणि आहोस्विदप्राप्तग्राहीणीति ? तदुच्यते । अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा ॥ अभिधर्मदीप ४५ ॥ घ्राणरसनकायेन्द्रियाणि प्राप्तग्राहीणीत्यर्थः ॥ अत्र काणादः पश्यति । नाप्राप्तग्राहीणीन्द्रियाणि । चक्षुषो हि रश्मिर्गत्वा पश्यति । श्रोत्रं त्र सर्वगतं प्राप्यैव सर्वं श्रृणोति । तं प्रतीदमुच्यते । अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् । यावता हि कालेन देवदत्तः स्वपाणितललेखां पश्यति तावतैव चन्द्रलेखाम् । न चायं गतिमतां धर्मः । गतिमन्तो हि देवदत्तादयो दूरं चिराद्गच्छन्त्यासन्नं क्षिप्रमिति । न । प्रदीपवत्तत्सिद्धेः । प्रदीपादिप्रभावश्चेत् यथा खलु यावता कालेन प्रदीपो नेदिष्ठं रूपमभिव्यनक्ति तावता दविष्ठं तद्वदिति । तत्र प्रत्यवस्थानम्- न समं तत्समुद्भवात् ॥ अभिधर्मदीप ४६ ॥ (<पृष्ठ ३५>) यदि प्रदीपो गच्छेत्, तत्राप्येष दोषः प्रसज्येत । प्रभादिमध्यान्तेषु च तापविशेषदर्शनात्तदेकत्वासिद्धिः । तस्य पुनः प्रतीत्य युगपत्सर्वप्रदीपप्रभामुपादाय रूपपरमाणूनामुत्पत्तिस्तस्यैष दोषो नास्ति ॥ सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शनात् । यद्यप्राप्तग्राहि चक्षुः ब्रह्मलोके ब्रह्माणं कस्मान्न पश्यति ? तत्रेदमुच्यते । नायस्कान्तवत्तत्सिद्धेः । यथा तुल्येऽप्यप्राप्ताकर्षणे न प्राचीनोऽयस्कान्तो मणिरुदीचीनमयः समाकर्षति तद्वदिति ॥ अत्र पुनर्विन्ध्यवासी पश्यति सर्वगतत्वमिन्द्रियाणाम् । तं प्रतीदमुच्यते । सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत् ॥ अभिधर्मदीप ४७ ॥ को ह्यनुन्मत्तो ब्रूयात्तिलेषु तैलं सर्वगतमस्तीति ? तद्वक्चक्षुःश्रोत्राद्यधिष्ठानेभ्यो बहिरिन्द्रियाणि कः कल्पयेदमूढचेताः ? इदं वक्तव्यम् । यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानानि एकभौमानि, आहोस्तिदन्यभौमिकान्यपि ? सर्वेषामनियमः । तत्र कामधातूपपन्नस्य तावत्स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभौमम् । तस्यैवास्य ध्यानचक्षुषा स्वरूपाणि पश्यतः कायरूपे स्वभूमिके द्वयं प्रथमाद्ध्यानात् । प्रथमध्यानभूमीनि पश्यतो रूपाण्यपि तत्रत्यानि । द्वितीयध्यानचक्षुषा समीक्षमाणस्य कायरूपे स्वभूमिके, चक्षुर्द्वितीयाद्ध्यानात्, विज्ञानं प्रथमात् । प्रथमध्यानभूमीनि पश्यतो विज्ञानरूपे प्रथमाद्ध्यानात्, कायः कामावचरः, चक्षुर्द्वितीयाद्ध्यानात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे द्वितीयध्यानभूमिके कायः कामावचारो विज्ञानं प्रथमध्यानात् । एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो विज्ञातव्यम् । प्रथमध्यानोपपन्नस्य स्वेन चक्षुषा स्वानरूपाणि पश्यतः सर्वं स्वभूमिकम् । अधराणि रूपाणि पश्यतस्त्रयं स्वभूमिकं रूपाणि कामावचराणि । द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुर्द्वितीयात् । कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके, कामावचराणि रूपाणि, चक्षुर्द्वितीयात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकमेवं तृतीयादिध्यानचक्षुषा योज्यम् । द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथासंभवं द्रष्टव्यम् ॥ (<पृष्ठ ३६>) नियतस्त्वयम्- न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः । विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः ॥ अभिधर्मदीप ४८ ॥ पञ्चभौमानि कायचक्षूरूपाणि द्वयोः सवितर्कसविचारयोर्भूम्योश्चक्षुर्विज्ञानम् । तत्र यद्मूमिकः कायस्तद्भूमिकमूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधोभौमिकम् । यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वास्य रूपं गोचरी भवति नोर्ध्वभूमिकम् । एवं चक्षुर्विज्ञानं नाधरिमे चक्षुषि संमुखीभवति । अस्य तु चक्षुर्विज्ञानस्य रूपं सर्वतो विषयीभवति । कायस्याप्युभे रूपविज्ञाने सर्वतो भवत इति ॥ एवं नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः । विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः ॥ अभिधर्मदीप ४९ ॥ घ्राणादीनां पुनः त्रयाणां त्रीण्यपि स्वानि कायगन्धादिविषयविज्ञानानि स्वभूमिकान्येव । उत्सर्गस्यायमपवादः क्रियते । तनोर्विज्ञानमप्यधः । कायस्पृष्टव्ये स्वभूमिके एव । कायविज्ञानं तु केषाञ्चिदधरभूमिकम् । यथा द्वितीयादिध्यानोपपन्नानामिति । मनस्त्वनियतं समापत्त्युपपत्तिकालेषु कायस्य सर्वतो भावात् । त्रैकालिकाध्वनिर्मुक्तसर्वधर्मविषयित्वात् ॥ किमर्थं पुनरयमल्पार्थः सुमहाग्रन्थसन्दर्भविधिरारभ्यत इति ? (<पृष्ठ ३७>) कोशकृदाचष्टे- नह्यत्र किञ्चित्फलमुत्प्रेक्ष्यत इति । तं प्रतीदं फलमादर्श्यते । तत्र खलु योगिवैश्वरूप्यं प्रदर्शितम् ॥ अभिधर्मदीप ५० ॥ एतद्वैश्वरूप्यं योगिनां यदन्यतः कायोऽन्यतश्चक्षुरन्यतः रूपमन्यतो विज्ञानं गृहीत्वा पश्यन्ति । विभूनि च शरीराणि निर्माय मनोजवया ऋद्ध्या गत्वा बुद्धा भगवन्तो यथेच्छं लोकधात्वन्तरेषु विनेयानां बुद्धकार्यं कुर्वंति । दिव्याभ्यां चक्षुःश्रोत्राभ्यां रूपाणि दृष्ट्वा शब्दांश्च श्रुत्वा यथेच्छं युगपदनेकानि पाञ्चगतिकानि शरीराणि निर्मायानेकगतिधात्वन्तरेषु विनेयकार्यं कुर्वन्तीति । गतमेतत्प्रासङ्गिकं प्रकरणम् ॥ इदमधुना वाच्यम् । स्कन्धोपादानस्कन्धयोः कः प्रतिविशेषः ? तदुच्यते । स्कन्धास्त्रिभिः सत्यैः संगृहीताः । यस्मात् सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः । सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः ॥ अभिधर्मदीप ५१ ॥ कारणैरिति वाक्याध्याहारः । तस्मादुपादानस्कन्धाः सत्यद्वयसंगृहीताः । निरोधसत्यं तु स्कन्धलक्षणानुपपत्तेः स्कन्धलक्षणव्यतिरिक्तमिति द्रष्टव्यम् ॥ अध्वाद्याः स्कन्धपर्यायाः अध्वानस्कन्धाः संस्कृताः कथावस्त्वित्येवमादयः । धर्माद्या वस्तुनः सतः । (<पृष्ठ ३८>) सत्वस्तु धर्मो द्रव्यमायतनं धातुरित्येवमादयः । ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः ॥ अभिधर्मदीप ५२ ॥ दुःखं लोको भवः समुदय इत्येवमादिभिर्नामभिः शब्दयन्ते ॥ अथ कस्माच्चक्षुःश्रोत्रघ्राणानां द्वित्वे सत्येकधातुता ? तदारभ्यते- स्वात्म्यगोचरकार्याणामेकत्वादेकधातुता । चक्षुरादिद्विभावेऽपि त्रयाणामपि खल्वेतेषामेकस्वभावत्वादेकगोचरत्वादेककार्यत्वाच्च द्वित्वेऽपि सत्येकाधिपत्यं चैकधातुता च निर्वर्तेते । द्व्युत्पत्तिः कर्मत्रित्वशात् ॥ अभिधर्मदीप ५३ ॥ ये तु कथयन्ति "शोभार्थं तु द्वयोद्भवः" इति तेषां श्लीपदगण्डप्रभृतीनामतिशोभार्थमुत्पत्तिरित्यापन्नम् ॥ (<पृष्ठ ३९>) इदमिदानीं वाच्यम् । चक्षुरादिकारणसामग्रीसन्निधाने सति चक्षुर्विज्ञानोत्पत्तौ कस्माच्चक्षुःश्रोत्रादिविज्ञानमित्युच्यते ? तत्र विसर्जनं क्रियते- असाधारणवैशिष्ट्यादैश्वर्यादान्तरङ्गयतः । सत्यप्यनेकहेतुत्वे विज्ञानं तैर्विशेष्यते ॥ अभिधर्मदीप ५४ ॥ चक्षुरादीन्द्रियविशेषाद्विज्ञानविशेषो दृष्टः । चक्षुरादीनां च चतुर्भिः कारणैरीशित्वं दृष्टम् । असाधारणकारणत्वेन चान्तरङ्ग्य इति ॥ अत्राह । अथ कस्मात्सर्वपदार्थानां द्रव्यस्वभावत्वे निर्वाणमेव परमार्थतो द्रव्यमित्युच्यते यतो धर्मधातुरेव तद्योगाद्द्रव्यवानित्याख्यायते । कस्माच्च सर्वसंस्कृतानां क्षणिकत्वे सति त्रय एवान्त्या धातवः क्षणिका इत्युच्यन्ते ? तदुभयं प्रदर्श्यते । नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा । सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः ॥ अभिधर्मदीप ५५ ॥ (<पृष्ठ ४०>) प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः । तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः ॥ अभिधर्मदीप ५६ ॥ किं पुनरेते चक्षुरादयस्तुल्यं विषयं गृह्णन्ति, आहोस्विन्न्यूनमविकं वा ? तदाविष्क्रियते- घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् । द्वयोश्चक्षुःश्रोत्रयोरनियम इत्याख्यातं भवति ॥ किंपुनरेषां चक्षुर्विज्ञानादीनां सहज एवाश्रयः, आहोस्विदतीतोऽपि ? तदुच्यते । पश्चिमस्याश्रयोऽतीतः मनोविज्ञानस्य क्रियावतो नित्यमाश्रयोऽतीतः । पञ्चानां तैः सहापि च ॥ अभिधर्मदीप ५७ ॥ पञ्चानां विज्ञानकायानां तैः सहापि चातीतश्चेतिऽचऽशब्दात् । एवं चतुष्कोटिक आरभ्यते । ये धर्मा विज्ञाननिश्रयाः समनन्तरा अपि ते ? प्रश्नश्चतुष्कोटिकः । निश्रय एव चक्षुरादयः । समनन्तरा एव वेदनादयः । उभयं समनन्तरनिरुद्धं विज्ञानम् । नोभयमेतानाकारान् स्थापयित्वा ॥ इदमिदानीमभिधर्मसर्वस्वं कोशकारकस्मृतिगोचरातीतं वक्तव्यम् । अथैषामष्टादशानां धातूनां कतमं निश्रयं निश्रित्यानास्रवेण मार्गेण कतमो धातुर्निरुध्यते ! (<पृष्ठ ४१>) निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा । अनास्रवेण मार्गेंण चक्षुर्धातुर्निरुध्यते ॥ अभिधर्मदीप ५८ ॥ नवसु भूमिषु खल्वनास्रवो मार्गः । चक्षुर्धातुस्तु पञ्चभूमिकः । तत्र प्रज्ञाविमुक्तस्यालब्धध्यानस्यार्यस्यानागम्यं निश्रित्य चक्षुर्धातुर्निरुध्यते । निरोधमार्गज्ञानात्मकस्य त्रिधातुप्रतिपक्षत्वाद्ध्यानलाभिनः पुनश्चतुरो निश्रयान्निश्रित्य ध्यानान्तरिकायाः प्रथमेन ग्रहणात् ॥ अनागम्यं तु निश्रित्य गन्धधातुर्निरुध्यते । ध्यानालाभिनस्तन्निरोधात् । मनोधातुरनागम्यं यदि वा सप्तनिश्रयात् ॥ अभिधर्मदीप ५९ ॥ चत्वारि ध्यानानि त्रींश्चारूप्यान्, तस्य त्रैधातुकत्वात् ॥ अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः । निरुध्यत इति वर्तते । तस्य कामप्रथमध्यानसमापन्नत्वात् । धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत् ॥ अभिधर्मदीप ६० ॥ धर्मधातुः खलु कश्चित्कामावचर एव यथा प्रतिघादयः । कश्चित्कामे प्रथमध्यानयोर्यथा वितर्कविचारादयः । कश्चित्कामे प्रथमद्वितीयध्यानयोर्यथा प्रीतिः । कश्चित्कामे तृतीयध्यानयोर्यथा सुखेन्द्रियम् । कश्चित्त्रैधातुको यथा जीवितेन्द्रियादयः । अत उच्यतेऽयथायोगं विनिर्दि शेत् । एवमन्यानपि धातूननेनैव यथोक्तेन न्यायेनऽयथायोगं विनिर्दिशेत्ऽ इति ॥ इदमिदानीमन्यद्वक्तव्यम् । यदा पृथग्जनश्चक्षुर्धातुं रूपाप्तं परिजानाति तदा कतमाद्धातोर्वैराग्यमाप्नोति ? कति च कुत्रत्याननुशयान् जहाति ? कानि च संयोजनानि पर्यादाय जहाति ? तदाविष्क्रियते- चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः । कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति ॥ अभिधर्मदीप ६१ ॥ तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च । पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा ॥ अभिधर्मदीप ६२ ॥ अनुशयानां हि धातुपरिच्छेदो न संयोजनानाम् । (<पृष्ठ ४२>) रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् । सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साख्यं रूपधातुपर्यापन्नम् । तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन ॥ अभिधर्मदीप ६३ ॥ अनुशयत्रयं कतरदार्यो जहाति भवरागमानाविद्याख्यम् ? भावनाप्रहातव्यं संयोजनं तु न धातुपरिच्छिन्नमिति न किञ्चित्तदा जहाति ॥ चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च । परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते ॥ अभिधर्मदीप ६४ ॥ न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ । गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः ॥ अभिधर्मदीप ६५ ॥ कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि । तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम् ॥ अभिधर्मदीप ६६ ॥ कामावचराच्छट्त्रिंशदनुशयाञ्जहाति । त्रीणि च संयोजनानि प्रतिघसंयोजनमीर्ष्यामात्सर्यसंयोजने च । गन्धरसधातूपरिजानन् पृथग्जनः ॥ आर्यस्तु कामवैराग्यं करोत्यनुशयानपि । चतुरः परिजानाति प्रतिघकामरागमानाविद्याख्यान् भावनाहेयान् ॥ पर्यादत्तेऽपि च त्रयम् ॥ अभिधर्मदीप ६७ ॥ प्रतिघेर्ष्यामात्सर्यसंयोजनाख्यम् ॥ परिजानन्मनोधातुमारूप्येभ्यो विरज्यते । आर्य इति वर्तते । जहात्यनुशयांस्त्रींश्च रागमानाविद्याख्यान् । पर्यादत्ते त्रयं तथा ॥ अभिधर्मदीप ६८ ॥ एतदेव ॥ (<पृष्ठ ४३>) परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ । आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान् ॥ अभिधर्मदीप ६९ ॥ तस्यास्तदुपर्यभावात् । परिजानन्सुखं योगी प्रजहाति तदेह च । शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु ॥ अभिधर्मदीप ७० ॥ सुखेन्द्रियस्य ततीयाध्यानादुपर्यभावादकृत्स्नधातून्न क्लेशाञ्जहाति ॥ गमतेतत्प्रयोजनागतं प्रकरणम् । प्रकृतमेवोच्यताम् । अथैषां धातूनां के कति विज्ञानविज्ञेयाः ? तदारभ्यते- द्विविज्ञेयाः गुणाः पञ्च पञ्चरूपादिगुणाख्या धातवश्चक्षुरादिविज्ञानमनोविज्ञानविज्ञेयाः । शेषा मनोविज्ञानविज्ञेयाः ॥ कति हेतुः कति न हेतुः ? तदाख्यायते- हेतुः सर्वे क्षराक्षराः । सर्वधर्मा हि कारणहेतुस्वभावाः । क्षरास्तु यथायोगं चिन्त्याः ॥ कतीन्द्रियात्मकाः ? कति नेन्द्रियस्वभावाः ? तदाविष्क्रियते- अन्यत्र धर्मधात्वर्धाच्छड्बाह्या नेन्द्रियात्मकाः ॥ अभिधर्मदीप ७१ ॥ अर्थादायातमाध्यात्मिकाः सर्वे धातवः । बाह्याः पञ्चरूपशब्दगन्धरसस्पर्शधर्मधातोश्चार्धं नेन्द्रियस्वभावं जीवितेन्द्रियश्रद्धादिसुखादिपञ्चकवर्जमिति । अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमोऽध्यायः । द्वितीयोऽध्यायः प्रथमः पादः । द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः । संक्षेपेणाभिधास्यन्ते धर्मा निर्वचनादयः ॥ अभिधर्मदीप ७२ ॥ चक्षुरादीन्याज्ञातावीन्द्रियपर्यन्तानि खल्विन्द्रियाणि एतावानिन्द्रियग्रामो न भूयान्नाल्पीयान् । उक्तं हि भगवता- "द्वाविंशतिरिन्द्रियाणि कतमानि द्वाविंशतिः ? चक्षुरिन्द्रियं श्रोत्रेन्द्रियं यावदाज्ञातावीन्द्रियम्" इति । तस्येन्द्रियराशेर्निर्वचनानुक्रमधातुभूम्यादिप्रकारभेदाः संक्षेपेणाभिधायिष्यन्त इति ॥ किं पुनर्द्रव्यतो द्वाविंशतिरिन्द्रियाण्यथ नामतः ? तदिदमाख्यायते- नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च । यस्मान्नान्यद्द्वयं कार्यात्सुखादिनवकत्रयम् ॥ अभिधर्मदीप ७३ ॥ कायेन्द्रियप्रदेश एव हि कश्चित्स्त्रीपुरुषेन्द्रियाख्यं लभते, विशिष्टक्लिष्टविज्ञानसंन्निश्रयभूतत्वात् । श्रद्धादीनां च नवानां समुदायेषु त्रिष्वनाज्ञातमाज्ञास्यामीन्द्रियादित्रयाख्याः ॥ अन्ये पुनः पश्यन्ति- (<पृष्ठ ४५>) नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः । त्रयाणां वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः ॥ अभिधर्मदीप ७४ ॥ यत्खलु संवृतिसत्यस्य लक्षणं तत्तेषां नास्ति क्रियापौरुष्यद्वारेण तच्छब्दप्रवृत्तेः, लौकिकाग्रधर्मवत् । सार्थकत्वात्तन्नाम्नोऽर्थवत्तत्खल्वेतन्नाम्नेति ॥ स्त्रीपुरुषेन्द्रियस्यापि- विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः । कायेन्द्रियाद्विशिष्टत्वं द्वयोर्नेत्रेन्द्रियादिवत् ॥ अभिधर्मदीप ७५ ॥ यथैव हि चक्षुरादीनि कायेन्द्रियविशिष्टानि विशिष्टबुद्धिजनकत्वादाधिपत्यविशेषाच्च, तद्वदनयोरपीति ॥ कः पुनरिन्द्रियार्थस्तदारभ्यते- ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते । केषु पुनरर्थेषु केषामीशित्वम् ? वयं तावत्पश्यामः- स्वार्थव्यक्तिषु पञ्चानां चक्षुरादीनां पञ्चानां स्वार्थप्रकाशनक्रियायामाधिपत्यं समविषममार्गालोचनादित्यर्थः । चतुर्णां त्वर्थयोर्द्वयोः ॥ अभिधर्मदीप ७६ ॥ जीवितमनस्त्रीपुरुषेन्द्रियाणां प्रत्येकमर्थद्वये । तत्र तावज्जीवितेन्द्रियस्य निकायसभागसंबन्धसन्धारणयोः । मनैन्द्रियस्यापि संक्लेशव्यवदानयोः । यथोक्तम्- "चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते चित्तव्यवदानहेतोर्विशुद्ध्यन्ते" (<पृष्ठ ४६>) इति । पुनर्भवसंबन्धवशिभावानुवर्तनयोर्वा । पुनर्भवसंबन्धे तावद्यथोक्तम्- "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरत्संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वा ।" तथा "विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेत्" इति । वशिभावानुवर्तने यथोक्तम्- "चित्तेनायं लोको नीयते" इति विस्तरः । स्त्रीपुरूषेन्द्रिययोरपि सत्त्वोत्पत्तिविकल्पनयोराधिपत्यम् । सत्त्वोत्पत्तौ तावत्, प्रायस्तदधीनत्वात्तदुत्पत्तेः । सत्त्वविकल्पेऽपि तद्वशात् । प्राथमकल्पिकानां च सत्त्वानां चेष्टा स्त्रीपुरुषस्वराचारादिविकल्पभेदात् । स्वगोचरोपलब्ध्यादावीशित्वमपरे विदुः । पौराणाः पुनराचार्याः कथयन्ति- "चक्षुरादीनां पञ्चानां प्रत्येकं चतुर्ष्वर्थेष्वाधिपत्यम् । चक्षुःश्रोत्रयोस्तावदात्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् । आत्मभावपरिकर्षणे, दृष्ट्वा श्रुत्वा च विषयविवर्जनात् । चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरूत्पत्तौ । रूपदर्शनशब्दश्रवणयोश्चासाधारणकारणत्वे । घ्राणजिह्वाकायानां त्वात्मभावशोभायां (<पृष्ठ ४७>) पूर्ववत् । आत्मभावपरिकर्षणे, तैः कबडीकाराहारपरिभोगात् । अन्यत्प्राग्वत् । चतुर्णां पुनः स्त्रीपुरुषजीवितमनैन्द्रियाणां द्वयोरर्थयोः । स्त्रीपुरुषेन्द्रिययोस्तावत्- सत्त्वभेदसत्त्वविकल्पयोः । सत्त्वभेदः स्त्रीपुरुष इति । विकल्पभेदोऽपि संस्थानवचनगमनादि प्राग्वत् । संक्लेशव्यवदानयोर्वा । तद्वियुतविकल्पानां संवरासंवरादीनि न भवन्ति । तद्वतां तु संवरफलप्राप्तिः । जीवितेन्द्रियमनैन्द्रिययोरप्यर्थद्वये पूर्ववत् ॥ स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः ॥ अभिधर्मदीप ७७ ॥ कोशकारादयः पुनराहुः- "स्वार्थोपलब्धावेव चक्षुरादीनां पञ्चानामाधिपत्यम् ।" तदेतद्वैभाषिकीयमेव किञ्चिद्गृहीतम् । नात्र किञ्चित्कोशकारकस्य स्वकर्षस्वकं दर्शनम् । वैभाषैरेव स्वार्थोपलब्धिरुक्तेति ॥ दार्ष्टान्तिकस्य हि सर्वमप्रत्यक्षम् । पञ्चानां विज्ञानकायानामतीतविषयत्वाद्यदा (<पृष्ठ ४८>) खलु चक्षूरूपे विद्येते तदा विज्ञानमसत् । यदा विज्ञानं सत्, चक्षूरूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तेश्च ॥ क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु । सुखादीनामपि पञ्चानामिन्द्रियाणां रागादिक्लेशोत्पत्तावाधिपत्यम् । यथोक्तम्- "वेदनाप्रत्यया तृष्णा" इति । "सुखायां वेदनायां रागोऽनुशेते" इति विस्तरः । श्रद्धादीनां पुनरष्टानां सर्वगुणोत्पत्तौ प्रभुत्वमिति । वैभाषाः पुनराहुः "संक्लेशवेदनाभिः" । तथा ह्युक्तम्- "सुखायां वेदनायां रागोऽनुशेते" इति विस्तरः । व्यवदाने श्रद्धादीनां पञ्चानां तैः क्लेशान् विष्कम्भ्य मार्गोत्पादनात् । यथोक्तम्- "श्रद्धेषीकासंपन्नो बलधैर्यस्मृतिदौवारिकसंपन्नः समाहितचित्तो विमुच्यते प्रज्ञाशस्त्रेणार्यश्रावकः सर्वाणि संयोजनानि संछिनत्ति" इत्यादि । (<पृष्ठ ४९>) अनाज्ञातमाज्ञास्यामीन्द्रियादीनां तु त्रयाणामुत्तरोत्तराङ्गभावे निर्वाणे चाधिपत्यमिति ॥ कः पुनरेषामिन्द्रियाणामनुक्रमः ? ब्रूमः- फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः ॥ अभिधर्मदीप ७८ ॥ प्राक्कर्म फलं तावदष्टौ विपाकजत्वात्तस्मात्तानि पूर्वमुक्तानि । तस्मिन् विपाके सति संक्लेशसुखादिभिः । पञ्चभिर्मार्गसंभारश्रद्धादिभिः । विशुद्धिरनास्रवैस्त्रिभिः ॥ कस्मात्पुनर्द्वाविंशतिरेव यथा परिकीर्तितान्युक्तानि न भूयांसि नाल्पीयांसीति ? तदपदिश्यते- सत्त्वाख्या सत्त्ववैचित्र्यं धृतिः क्लेशोद्भवश्च यैः । मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता ॥ अभिधर्मदीप ७९ ॥ सत्त्वाख्या खलु प्रवर्तते चक्षुरादिषु मनःपर्यन्तेषु षट्सु । एतद्धि मौलसत्त्वद्रव्यम् । सत्त्ववैचित्र्यं द्वाभ्यां स्त्रीपुरुषेन्द्रियाभ्याम् । धृतिर्जीवितेन्द्रियेण । क्लेशोद्भवः पञ्चभिर्वेदनाभिः । मार्गोपायः श्रद्धादिभिः । फलप्राप्तिस्त्रिभिरन्त्यैः । इत्येतस्मादेषामिन्द्रियता मता ॥ (<पृष्ठ ५०>) स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश । स्वर्गापवर्गहेतुत्वात्तदन्यद्वेन्द्रियाष्टकम् ॥ अभिधर्मदीप ८० ॥ तत्र स्पर्शाश्रयश्चक्षुरादीनि षडिन्द्रियाणि । प्रादुर्भावः स्त्रीपुरुषेन्द्रियाम्याम् । आधारो जीवितेन्द्रियेण । संभोगो वेदनाभिः पञ्चभिः । अतस्तावच्चतुर्दशोक्तानि । स्वर्गोपपत्तिनिमित्तानि श्रद्धादीनि पञ्च । अपवर्गकारणानि त्रीण्यनाज्ञातमाज्ञास्यामीन्द्रियादीनि अत एतावन्त्येव ॥ यद्याधिपत्यार्थ इन्द्रियार्थः कस्माच्छन्दस्पर्शमनस्कारसंज्ञाचेतनामहाभौमानां सत्याधिपत्ये नेन्द्रियत्वम् ? उक्तं हि भगवता- "छन्दमूलकाः सर्वधर्माः स्पर्शजातीयाः मनस्कारप्रभावाः ।" संज्ञाचेतनयोश्च संक्लेशव्यवदानयोराधिपत्यमुक्तमेव कुशलचेतनायाश्च । एवं क्लेशानामपि संसारहेतुप्रवर्तने आधिपत्यम् । निर्वाणस्य च धर्माग्र्यत्वे कस्मान्नेन्द्रियत्वम् ? तदिदमुच्यते- छन्दं वीर्याङ्गभूतत्वात्स्पर्शो वित्त्यनुबृंहणात् । संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात् ॥ अभिधर्मदीप ८१ ॥ छन्दो हि कर्तुकामता सा च वीर्याङ्गभूता । वीर्यं तु साक्षात्क्रिययाभिसंबध्यते । तदेवेन्द्रियमुक्तम् । स्पर्शोऽपि "स्पर्शप्रत्यया वेदना" इति तदुत्पत्तौ परिक्षीणशक्तिः । संज्ञापि प्रायोऽपि (प्रायो) लोकव्यवहारपतिता । सा प्रज्ञया परमार्थैकरसयाभिभूतेति नेन्द्रियमुक्ता ॥ श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये । प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् ॥ अभिधर्मदीप ८२ ॥ (<पृष्ठ ५१>) योनिशो मनसिकारः खलु श्रद्धादीनां सङ्गीभवति । अयोनिशो मनसिकारोऽपि वेदनादीनां रागादिसंप्रयुक्तानामिति सोऽपि नेन्द्रियम् ॥ संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम् । अधिमोक्षोऽपि श्रद्धोपकारीति नेन्द्रियम् ॥ कालान्तरफलोत्पादसंदेहाभ्यां न चेतना ॥ अभिधर्मदीप ८३ ॥ चेतनायाः खल्वपि कालान्तरेण फलमिति तस्य नासति फले शक्तिराविर्भवति । लोकोपि तस्याः फलसत्त्वाविनाशं दृष्ट्वा विप्रतिपन्नः । कश्चिद्ब्रूते निर्हेतुकं फलमिति कश्चिदीश्वरकृतं कश्चिददृष्टादिहेतुकमिति । चेतनायाः फलमनभिव्यक्तमिति । ईशित्वं भगवता जानानेनाप्यतस्तस्यास्त्रैलोक्यकारणत्वेऽपि सति चेतना नेन्द्रियेषु व्यवस्थापिता ॥ कुशलमहाभौमेभ्योऽपि नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् । नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः ॥ अभिधर्मदीप ८४ ॥ अप्रमादस्तावद्वीर्यस्य भाण्डागारिकस्थानीयः । वीर्यं कुशलान् धर्मानुपाजेयति सतान् रक्षति । ह्रीरपि वैशारद्यसपत्नभूता नववधूरिवाप्रगल्भा । तस्याः कुत आधिपत्यम् ? उपेक्षापि श्रद्धाभिभूता । अलोभश्व वीर्यविरोधीति नेन्द्रियम् ॥ न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः । प्रस्रब्धिः खलु वेदनायाः वृत्तिप्राधान्येनाभिभूता । सापि नेन्द्रियम् । अकुशलानामपि धर्माणां विनिन्द्यत्वात्तु नास्रवाश्चण्डालराजवत् ॥ विप्रयुक्तानामपि जात्यादयो न पारार्थ्यात् परतन्त्रा हि जात्यादयो धर्माः परिचारकवत्तेषां कुतः प्रभुत्वम् ? (<पृष्ठ ५२>) निष्क्रियत्वान्न निर्वृतिः ॥ अभिधर्मदीप ८५ ॥ निर्वाणमपि निष्क्रियमसत्फलं सत्क्रियाश्च धर्माः फलवन्त आधिपत्ययुक्ता इति भगवता निर्वाणं नेन्द्रियं व्यवस्थापितमिति । नात्र किञ्चिदुपसंख्येयं नाप्यपनेयमिति ॥ लक्षणमिदानीमिन्द्रियाणां वक्तव्यम् । तत्र चक्षुरादीनामुक्तम् । जीवितश्रद्धादीनां संप्रयुक्तविप्रयुक्तेषूच्यमानेषु वक्ष्यते । दुःखादीनां त्वधुनोच्यते । कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः । बाधनमिति वर्तते ॥ सुखं च सुमनस्ता च सातं शारीरमानसम् ॥ अभिधर्मदीप ८६ ॥ सातमिति प्रह्लादनापर्यायः । वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम् ॥ अभिधर्मदीप ८७ ॥ तृतीये ध्याने मानसं सातं सुखमित्युदाहृतं भगवता पञ्चेन्द्रियसुखातिशयत्वात् । सौमनस्यं तु प्रीतिस्वभावं सा च तृतीयध्याने नास्तीति सुखं च तत्रोक्तमिति ।.......... ......... भौमं तदपदिश्यते- षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् । (<पृष्ठ ५३>) अनाज्ञातमाज्ञास्यामीन्द्रियं षट्षु भूमिषु, चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरिकायां च । तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके ॥ अभिधर्मदीप ८८ ॥ आज्ञेन्द्रियमाज्ञातावीन्द्रियं च नवसु भमिषु- आस्वेव षट्षु त्रिषु चाद्यास्वारूप्यभूमिषु ॥ अथ कानि द्वाविंशतिरिन्द्रियाणि कानि र्कि प्रहातव्यानि ? दुदाह्रियते- दौर्मनस्यं द्विहातव्यं दर्शनभावनाप्रहातव्यम् । मनोवित्तित्रयं त्रिधा । मनैन्द्रियं सुखसौमनस्योपेक्षाश्च दर्शनभावनाहेयाश्चाहेयाश्च । नवाभ्यासप्रहेयाणि चक्षुरादीनि जीवितावसानान्यष्टौ दुःखेन्द्रियं च । द्विधा पञ्च श्रद्धादीनि भावनाहेयान्यहेयानि च । सास्रवानास्रवात् । न तु त्रयम् ॥ अभिधर्मदीप ८९ ॥ त्रीण्यनास्रवाण्यप्रहेयान्येव निर्दोंषत्वात् ॥ यदि तर्हि श्रद्धादीनि सास्रवानास्रवत्वात्प्रहेयानि चाप्रहेयानि च द्विधा भवन्ति, त्रयमेवानास्रवम् । इदं तर्हि सूत्रं कथं नीयते ? यदुक्तं भगवता- (<पृष्ठ ५४>) "यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति ? अनास्रवाधिकारादज्ञापकमेतत् । अनास्रवाणि खल्वधिकृत्यैतदुक्तम् । यस्मादार्यपुद्गलव्यवस्थानं कृत्वा "यस्येमानि" इति भगवानवोचत् । पृथग्जनो वा द्विविधः । आभ्यन्तरश्चासमुच्छिन्नकुशलमूलः, बाह्यश्च समुच्छिन्नकुशलमूलः । तमधिकृत्योक्तम्- "बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति । "सर्वेण सर्वाणि" इति वचनाद्वाऽयस्य लौकिकान्यपि न सन्तिऽ इत्याकूतम् । बाह्यमित्यशाक्यपुत्रीयं पृथग्जनपक्षावस्थितमित्यार्यधर्मविपक्षावस्थितम् । अन्यथा ह्येवमवक्ष्यत्-ऽयस्येमानि पञ्चेन्द्रियाणि न सन्ति तमहं पृथग्जनपक्षावस्थितं वदामिऽ इति । उक्तं हि- "सन्त्रसन्ति सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि" इत्यप्रवर्तित एव धर्मचक्रे । पुनश्चोक्तम्- "यावच्चाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तङ्गमं चास्वादं चादीनवं च निःसरणं च यथाभूतं (<पृष्ठ ५५>) नाप्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकात्" इति विस्तरः । न चायमनास्रवाणां धर्माणां परीक्षाप्रकारः । वयं त्वत्रेममागमं ब्रूमः- "त्रीणीमानि श्राद्धस्य श्रद्धालिङ्गानि" इति विस्तरः । कथं कृत्वा ज्ञापकम् ? श्रद्धायां ह्यसत्यामार्याणां दर्शनकामता न भवेत् । सद्धर्मश्रोतुकामता च, विगतमात्सर्येण चेतसा अगारमध्यवस्तुकामता च । यस्य च पृथग्जनस्यैतानीन्द्रियाणि न सन्ति स सर्वथा बाह्यपृथग्जनो भवति कुशलधर्मोपनिषद्धेतुवैकल्यात् । तस्मात्सास्त्रवाणीति सिद्धम् ॥ उक्तः प्रकारभेदः । लाभ इदानीं वक्तव्यः । कतीन्द्रियाणि कस्मिन् धातौ विपाकः प्रथमतो लभ्यते ? तदिदमारभ्यते । पूर्वं क्रमोद्भवैः कामे विपाको लभ्यते द्वयम् । कामधातौ क्रमोद्भवैः - अण्डजजरायुजसंस्वेदजैः पूर्वमिन्द्रियद्वयं लभ्यते । कायेन्द्रियं जीवितेन्द्रियं च । एतद्धि द्वयं तस्मिन् शुक्रशोणितबिन्दौ प्रथमं विपाकजं भवति । क्लिष्टत्वात्तु न मनौपेक्षेन्द्रिये विपाकः । अन्यैः षट्सप्त वाष्टौ वा (<पृष्ठ ५६>) औपपादुकैः पुनः षट् । चक्षुरादीनि पञ्च जीवितेन्द्रियं च । यद्यव्यञ्जना भवन्ति यथा प्राथमकल्पिकः । सप्त पुनर्यद्येकव्यञ्जना यथा देवादिषु । अष्टौ वा यद्युभयव्यञ्जना भवन्ति यथापायेषु । एवं तावत्कामधातौ । षड्रूपे रूपधातौ पुनः षडिन्द्रियाणि विपाकः प्रथमतो लभ्यन्ते । चक्षुरादीनि पञ्च जीवितेन्द्रियं च । अन्त्ये तु जीवितम् ॥ अभिधर्मदीप ९० ॥ आरूप्ये जीवितेन्द्रियं विपाको लभ्यते । उक्तो लाभः ॥ त्यागो वक्तव्यः । सोऽयमाविष्क्रियते- म्रियमाणैर्निरोध्यन्ते त्रीण्यन्ते जीवितम्, मनः, उपेक्षा चेति । अष्टौ तु मध्यमे । रूपधातौ म्रियमाणैरष्टौ निरुध्यन्ते । तानि च त्रीणि, चक्षुरादीनि च पञ्च । दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा ॥ अभिधर्मदीप ९१ ॥ उभयव्यञ्जनैर्दश निरोध्यन्ते । तानि चाष्टौ स्त्रीपुरुषेन्द्रिये च । एकव्यञ्जनैर्नव । अव्यञ्जनैरष्टौ । सकृन्मरणे खल्वेष न्यायः । क्रमेण तु म्रियमाणैश्चत्वारि निरोध्यन्ते कायजीवितमनौपेक्षेन्द्रियाणि । न ह्येषां पृथङ्निरोधः । एप च विधिः क्लिष्टाव्याकृतचित्तस्य मरणे द्रष्टव्यः । कुशले तु चित्ते सर्वत्र श्रद्धादीनि पञ्चाधिकानि । एवमारूप्येष्वष्टौ, रूपेषु त्रयोदश । इत्येवं विस्तरेण गणयितव्यानि ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः ॥ (<पृष्ठ ५७>) द्वितीयाध्याये द्वितीयपादः । इन्द्रियप्रस्तावे सर्व इन्द्रियधर्मा विचार्यन्त इत्यतः पृच्छति । अथैषां कुशलानामिन्द्रियाणां कतरेणेन्द्रियेण कतरच्छ्रामण्यफलं प्राप्यत इति ? तदिदं प्रस्तूयते- आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः । या खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्त्रोतआपत्तिफलमन्त्यमर्हत्त्वं मध्ये सकृदागाम्यनागामिफले । तत्राद्यान्तयोः फलयोर्नवभिरिन्द्रियैर्लाभः । स्त्रोतआपत्तिफलस्य तावत्- श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामेकमनयोरानन्तर्यमार्गाद्, द्वितीयं विमुक्तिमार्गाद्वेदितव्यम् । प्रथमेन क्लेशप्राप्तिच्छेदो द्वितीयेन विसंयोगप्राप्त्याकर्षणम् । मनौपेक्षेन्द्रियाभ्यां चेति । अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्जैः, मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेन । ऽसप्ताष्टाभिश्च मध्ययोः ।ऽ सकृदागाम्यनागामिफलयोः पुनः सप्तभिरष्टाभिर्नवभिश्चेतिऽचऽशब्दात् । तत्र सकृदागामिफलं तावद्यद्यानुपूर्विको लभते, स च लौकिकेन मार्गेण तस्य सप्तभिर्लाभः । पञ्चभिः (<पृष्ठ ५८>) श्रद्धादिभिः, मनौपेक्षेन्द्रिभ्यां च । अथ लोकोत्तरेण मार्गेण तस्याष्टाभिः, आज्ञेन्द्रियमष्टमं भवति । अथ भूयोवीतरागः प्राप्नोति, तस्य नवभिर्यैरेव स्त्रोतआपत्तिफलस्य । अनागामिफलं यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य सप्तभिर्यथा सकृदागामिफलस्य । अथ लोकोत्तरेण, तस्याष्टाभिस्तथैव । अथ वीतरागः प्राप्नोति, तस्य नवभिर्यथा स्त्रोतआपत्तिफलस्य । तस्य तु निश्रयविशेषात्सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमद्भवति । यदाप्ययमानुपूर्विको नवमे विमुक्तिमार्गे ध्यानं प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं लभते । तस्य नवमे विमुक्तिमार्गे सौमनस्यमष्टमं भवति, आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव । नित्यमुभाभ्यां हि तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिराज्ञेन्द्रियं नवमं भवति ॥ यत्तर्ह्यभिधर्मे पठ्यते- "अर्हत्फलस्यैकादशभिः" इति । तत्कथमुच्यतेऽनवभिस्तस्य प्राप्तिःऽ इति ? नैव दोषः । यस्मात्- (<पृष्ठ ५९>) एकादशभिराप्तिस्तु फलस्यान्त्यस्य हानितः ॥ अभिधर्मदीप ९२ ॥ परिहाय परिहायायं समयविमुक्तोऽर्हन्निश्रयविशेषात्पुनर्लभते । कदाचित्तृतीयं ध्यानं निश्रित्य । कदाचिद्द्वितीयं प्रथमं वा । कदाचिच्चतुर्थमनागम्यं वा । इत्यतस्तिसृणां वेदनानां संभवादेकादशभिरुक्तम् ॥ अथैषां त्रयाणां कामरूपारूप्यधातूनां कतरधातुभूम्यालम्बनेन मार्गेण कतरस्य धातोः परिज्ञानं भवतीति ? तदाविर्भाव्यते । स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा ॥ अभिधर्मदीप ९३ ॥ स्वविपक्षदृशा च मार्गेणानास्रवेण परिज्ञानं भवति । तत्र स्वधातुदृशा तावद्दुःखसमुदयालम्बनेन, स्वविपक्षदृशा निरोधमार्गालम्बनेन त्रैधातुकपरिज्ञानं भवति । सास्रवेण त्वानन्तर्यमार्गेण संगृहीतेन सन्निकृष्टाधोभूमिविषयेणोर्ध्वसन्निकृष्टभूम्यालम्बनेन च विमुक्तिमार्गसंगृहीतेनाधोभूमिपरिज्ञानं भवति । आनन्तर्यमार्गाणामधोभूमिविषयत्वाद्विमुक्त्याख्यानामूर्ध्वभूम्यालम्बनत्वाच्च । अनास्रवाणां तूभयेषामेकभूमिगोचरत्वादिति । अथ कतिभीरिन्द्रियैः कामधातुपरिज्ञानं कतिभी रूपारूप्यधातुपरिज्ञानमिति ? तदिदं प्रतायते- कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते । समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते ॥ अभिधर्मदीप ९४ ॥ कामधातोस्तावत्- सास्रवैः सप्तभिः परिज्ञानं भवति प्रहाणमित्यर्थः । पञ्चभिः श्रद्धादिभिः मनौपेक्षेन्द्रियाभ्यां च । प्रायो ग्रहणात्सौमनस्येन्द्रियेणापि कस्यचित्समापत्त्यभिप्रायस्य योगिनो मौलभूमिप्रवेशात् । अनास्रवैस्त्विन्द्रियैरष्टाभिः । एभिरेव सप्तभिराज्ञेद्रियेण च । प्रायो वचनात्सौमनस्येन्द्रियेण च नवमेन ॥ रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः । (<पृष्ठ ६०>) पञ्चभिः श्रद्धादिभिः, मन इन्द्रियेण, तिसृभिर्वेदनाभिः, निश्रयविशेषादाज्ञेन्द्रियेण च ॥ अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते ॥ अभिधर्मदीप ९५ ॥ यथोक्तैर्दशभिराज्ञातवदिन्द्रियेण च । उभाभ्यां तस्य परिज्ञानमेकं वज्रोपमसमाधिसहचरम्, द्वितीयं क्षयज्ञानसहगतमिति ॥ इदमिदानीं वक्तव्यम्- कः कतिभिरिन्द्रियैः समन्वागत इति ? तत्र तावदयं नियमः- सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मनोऽन्विताः । एभिस्त्रिभिः सर्वसत्त्वाः समन्वागताः । त्वक्स्त्रीत्वव्यञ्जनैः कामे कामावचराः सत्त्वाः कायपुरुषस्त्रीन्द्रियैरेभिः पूर्वाक्तश्च । रूपिणश्चक्षुरादिभिः ॥ अभिधर्मदीप ९६ ॥ रूपिणः खलु सत्त्वाश्चक्षुरादिभिस्त्रिभिश्चोपेक्षायुर्मनोभिः ॥ कामिनः खलु दुःखेन तद्रागी दुर्मनस्तया । अवीतरागः कामधातौ दुःखदौर्मनस्याभ्यां समन्वागतः । ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा ॥ अभिधर्मदीप ९७ ॥ ऊर्ध्वजो रूपारूप्यधातुज आर्यः सुखेन समन्वागतः । अनास्रवेण शुभकृत्स्नपरीत्तशुभाप्रमाणशुभाः क्लिष्टाक्लिष्टेन ॥ प्रीत्याभाह्वाधरोद्भूतौ आभास्वरेषूपपन्नस्तदधरजश्च प्रीत्या समन्वागतः । शुभैः स शुभमूलकः । श्रद्धादिभिः पञ्चभिः कुशलैरनुच्छिन्नकुशलमूलः सर्वत्र समन्वागतः । शैक्षाभ्यां मोक्षमार्गस्थौ (<पृष्ठ ६१>) द्वाभ्यां शैक्षाभ्यामिन्द्रियाभ्यां दर्शनभावनामार्गस्थौ ॥ अशैक्षोऽर्हन् स्वमार्गगः ॥ अभिधर्मदीप ९८ ॥ अथ नियमेन कः कतिभिरिन्द्रियैः समन्वागत इति ? तदिदमुपदर्श्यते- उपेक्षायुर्मनोयुक्तोऽवश्यं त्रयसमन्वितः । एभिरेव त्रिभिः । न ह्येषामन्योन्येन विना समन्वागतः । शेषैरनियमः । तत्र तावच्चक्षुरादिभिः सप्तभिरारूप्योपपन्नो न समन्वागतः । कामधातौ च येनाप्रतिलब्धविहीनानि । सुखेन्द्रियेण चतुर्थध्यानाद्युपपन्नाः पृथग्जनाः, सौमनस्येन तृतीयाद्युपपन्नाः पृथग्जनाः, सुखेन्द्रियेण रूपारूप्योपपन्नाः, दौर्मनस्येन कामवीतरागः, श्रद्धादिभिर्निःशुभः, अनास्रवएस्त्रिभिः पृथग्जना न समन्वागताः । चतुर्भिः कायसुखवान् यः कायेन्द्रियेण सोऽवश्यं चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च । योऽपि सुखन्द्रियेण स चतुर्भिः- तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च । चक्षुष्मानपि पञ्चभिः ॥ अभिधर्मदीप ९९ ॥ (<पृष्ठ ६२>) ऽअपिऽशब्दाच्छोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् । यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिः- उपेक्षाजीवितमनोरूपेन्द्रियैश्चक्षुषा च ॥ स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः तैश्च सप्तभिः स्त्रींन्द्रियेण च । आदिग्रहणात्पुरुषेन्द्रियदौर्मनस्यश्रद्धादीनां ग्रहणं वेदितव्यम् । तद्वानपि प्रत्येकमष्टाभिः- तैश्च सप्तभिः पुरुषेन्द्रियेण चाष्टमेन । एभिश्च कायजीवितमनोभिश्चतसृभिर्वेदनाभिः, दौर्मनस्येन्द्रियेण च । श्रद्धा दिभिस्तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च । दुःखी युक्तस्तु सप्तभिः । यो दुःखेन स सप्तभिः- कायजीतिमनोभिश्चतसृभिर्वेदनेन्द्रियैर्दौर्मनस्यं हित्वा, तद्वीतरागस्य नास्तीति । एकादशभिरन्त्याभ्यां द्वाभ्यामन्त्याभ्यां युक्तोऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभिराज्ञेन्द्रियेण च । एवमाज्ञातवदिन्द्रियेण तेन तैश्चेति । सप्त षड्भिस्तदाद्यवान् ॥ अभिधर्मदीप १०० ॥ प्रथमेन त्वनास्रवेण यः समन्वागतः सोऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियैश्चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति ॥ अथ सर्वबहुभिः कियद्भिः समन्वागताः ? तदुच्यते- त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि । बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः ॥ अभिधर्मदीप १०१ ॥ अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः । त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ अभिधर्मदीप १०२ ॥ (<पृष्ठ ६३>) स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्च जीवितमनौपेक्षाभिश्च । नारकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्च पञ्च जीवितं मनश्च । तिरश्चां नास्त्युच्छेदः । य इहोच्छिनत्ति सोऽवश्यमवीचिं गच्छति । तेन नत्र नरके श्रद्धाद्या न सन्ति । पञ्च चक्षुरादीनि पञ्च च वेदा, एकं व्यञ्जनं जीवितं मनश्चेति त्रयोदश भवन्ति । स्युर्बहुभिश्चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वैकान्नविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकान्नविंशतिभिरेव समन्वागताः ॥ सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः । त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ अभिधर्मदीप १०३ ॥ तत्र सम्यक्त्वनियता आर्या इत्यर्थः । ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेण । सर्वप्रभूतैः पुनरेकान्नविंशतिभिरेकलिङ्गद्व्यमलवर्जितैः ॥ प्रज्ञाविमुक्तनामार्हत्कायसाक्ष्युभयाह्वयाः । अक्षैकादशकोपेता यदि वाष्टादशान्विताः ॥ अभिधर्मदीप १०४ ॥ सर्वाल्पैरेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण । बहुभिस्त्वष्टादशभिः, द्वे अनास्रवे दौर्मनस्यमेकं च व्यञ्जनं हित्वा ॥ कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः । अनास्रवत्रयं हित्वा दौर्मनस्यं च । तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति । एकं च व्यञ्जनं हित्वा परिशिष्टैः सप्तदशभिः समन्वागतः । त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः ॥ अभिधर्मदीप १०५ ॥ द्वे अनास्रवे हित्वैकं च व्यञ्जनम् । अत्रापि हि सत्यानि दृश्यन्ते ॥ द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः । प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मनस्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः । दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः ॥ अभिधर्मदीप १०६ ॥ शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः । (<पृष्ठ ६४>) बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः । बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति । युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः ॥ अभिधर्मदीप १०७ ॥ यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति ॥ अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः । स्वल्पैरष्टाभिः । पृथग्जनस्याष्टाः स्वल्पानि भवन्ति । पञ्च श्रद्धादीनि, जीवितं मनौपेक्षा च । बहुभिरेकादशभिरार्यस्य समन्वागमः । पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनास्रवाभ्याम्, जीवितमनौपेक्षेन्द्रियैश्चतुर्भिरनास्रवेण चैकेन । सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः ॥ अभिधर्मदीप १०८ ॥ पञ्चभिः श्रद्धादिभिः पञ्चभिः सुखादिभिः, कायमनोजीवितैश्च त्रिभिः ॥ अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः । उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः । सुखादिभिः पञ्चभिः कायजीवितमनोभिश्च । सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्चक्षुरादिभिश्चतुर्भिरेकेन च व्यञ्जनेन । द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम् ॥ अभिधर्मदीप १०९ ॥ उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्च पञ्चभिः । चक्षुरादीनामलब्धविहीनत्वादनियमः । सर्वबहुभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य । समाप्तोऽयं मत्स्यकग्रन्थसमुद्रः । (<पृष्ठ ६५>) व्याख्यात इन्द्रियाणां धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः । अधुना तु मोमांस्यते । किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह । तत्र संक्षेपेण पञ्चेमा धर्मजातयः- रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ता असंस्कृतं च । तत्रासंस्कृतं नोदेति न च व्येति । रूपिणां तु धर्माणामयं नियमः- सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः । कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु ॥ अभिधर्मदीप ११० ॥ सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते । स तु सप्तद्रव्याविनिर्भागी चतुर्भिर्भूतैस्त्रिभिश्चोपादायरूपैस्त्रिभिस्त्रिभिर्वा भूतैश्चतुर्भिश्चोपादायरूपैरविनिर्भागवर्त्यसावष्टम इति । कोशकारस्त्वाह- "सर्वसूक्ष्मो रूपसंघातः परमाणुः" इति । तेन संघातव्यतिरिक्तं रूपमन्यद्वक्तव्यम् । यदि नास्ति संघातोऽपि नास्ति । अतः सिद्धंऽसर्वसूक्ष्मं रूपपरमाणुःऽ इति ॥ (<पृष्ठ ६६>) कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहितो नवभिः ॥ एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम् । रूपधातौ बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा । कायसहगतस्तु षड्भिश्चक्षुरादिषु सप्तभिरविनिर्भागिभिः । यदा पुनस्सशब्दकः स संधातो जायते, तदा सर्वत्र यथोक्तेषु शब्दोऽधिको गणयितव्यः । अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्यजातयो विवक्ष्यन्ते । उपादायरूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानान्नास्ति चोद्यावकाशः ॥ (<पृष्ठ ६७>) अरूपिणां पुनः चित्तं चैतसिकैः सार्धं अविनिर्भागेण जायत इति वर्तते । संस्कृतं तु स्वलक्षणैः ॥ अभिधर्मदीप १११ ॥ सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम् ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्यअध्यायस्य द्वितीयः पादः ॥ (<पृष्ठ ६८>) द्वितीयाध्याये तृतीयपादः । यदुक्तं चैतसिकास्तु सहोत्पद्यन्त इति तदभिधीयताम् । के पुनस्ते चैतसिका धर्माः ? ते पञ्चप्रभेदाः- महाभौमाः, कुशलमहाभौमाः, क्लेशमहाभौमाः, अकुशलमहाभौमाः, परीत्तक्लेशमहाभौमिकाश्च । महती चित्तभूमिरेषामिति त इमे महाभौमाः । भूमिर्गतिरित्यर्थः । एव सर्वत्र विग्रहः कार्यः । तत्र तावन्महाभौमा निर्दिश्यन्ते । दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः । छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः ॥ अभिधर्मदीप ११२ ॥ एते दशधर्माः सर्वस्यां चित्तभूमौ त्रैधातुक्यामनास्रवायां च समग्रा भवन्ति । (<पृष्ठ ६९>) तत्र वेदना सुखादिस्त्रिविधोऽनुभवः । त्रिविधं संवेदितमिति पर्यायः । इष्टानिष्टोभयविपरीतविषयेन्द्रियविज्ञानसन्निपातजा धर्मयोनिः कायचित्तावस्था विशेषः प्रह्लाद्युपतापी तदुभयविपरीतश्च तृष्णाहेतुर्वेदनेत्युच्यते । निमित्तनामार्थैक्यज्ञा संज्ञा वितर्कयोनिः । चित्ताभिसंस्कारश्चेतना । चित्तव्यापाररूपा स्मृतिः । चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमाणकर्मान्ताविप्रमोषलक्षणा । छन्दः कर्तुकामता वीर्याङ्गभूतः । विषयेन्द्रियविज्ञानसन्निपातजा चित्तस्य विषयस्पृष्टिः, चैतसिकधर्मो जीवनलक्षणः स्पर्शः । (<पृष्ठ ७०>) चित्तस्य विषयेऽधिमुक्तिरधिमोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः । धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा । चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षणः । चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः । सूक्ष्मः खलु चित्तचैत्तानां विशेषो दुरवधारो रूपिणीनामेव तावदोषधीनां बहुरसानामिन्द्रियग्राह्योऽपि रसविशेषो दुरवधारः, किमङ्ग पुनरमूर्तानां (<पृष्ठ ७१>) चित्तचैतसिकानां धर्माणामेककलापवर्तिनां बुद्धिगम्यः ? स तु हेतुफलस्वभावैर्मतिमद्भिरभ्यूह्य इति ॥ कुशलमहाभौमे भवाः कुशलमहाभौमाः । ते पुनः श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा । मूलवीर्यमहिंसा च शुभभूका दशस्मृताः ॥ अभिधर्मदीप ११३ ॥ तत्र श्रद्धा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी । तद्यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः सर्वं कालुष्यमपनीयाच्छतामुत्पादयति तद्वच्चित्तसरसि जातः श्रद्धामणिरिति । अप्रमादः कुशलधर्मभावना तदवहिततेत्यर्थः । (<पृष्ठ ७२>) प्रस्रब्धिश्चित्तकर्मण्यता । कायप्रस्रब्धिरप्यस्ति । सा तु तदानुकूल्याद्बोध्यङ्गशब्दं लभते । तद्यथा प्रीतिः । प्रीतिस्थानीयाश्च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता । सम्यग्दृष्टिसंकल्पव्यायामाश्च प्रज्ञानुकूल्यात्प्रज्ञास्कन्ध इत्युक्ताः । तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता । उपेक्षा चित्तसमता चित्तानाभोगः संस्कारानिमित्ताभोगमध्युपेक्षानिमित्तप्रवणता । (<पृष्ठ ७३>) ह्रीः स्वात्मापेक्षा । अकार्यकरणे लज्जा । अपत्राप्यन्तु परापेक्षा । द्वे तु कुशलमूले अलोभाद्वेषौ । अमोहस्तु प्रज्ञास्वभावत्वान्महाभौमेषूक्त इति न गण्यते । वीर्वं कुशलाकुशलधर्मोत्पादनिरोधाभ्युत्साहः, संसारनिमग्नस्य चेतसोऽभ्युन्नतिरित्यर्थः । अविहिंसा सत्त्वाविहेठना । उक्ताः कुशलमहाभौमाः ॥ स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धतिः । क्लिष्टे षट् तत्र (<पृष्ठ ७४>) स्त्यानं कायचित्ताकर्मण्यता । प्रमादः कुशलानां धर्माणामभावना । भावनाविपक्षभूतो धर्मः । आश्रद्ध्यं चित्ताप्रसादः, चित्तकालुष्यमित्यर्थः । गुणेषु गुणवत्सु चासंप्रत्ययोऽनर्थित्वं च । कौसीद्यं चित्तस्यानभ्युत्साहः । मूढिरविद्यानुकारासंप्रख्यानरूपा । औद्धत्यं चित्तस्याव्युपशमः । उक्ताः षट्क्लेशमहाभौमाः । (<पृष्ठ ७५>) अभिधर्मे तु दश पठ्यन्ते- "आश्रद्धय्म्, कौसीद्यम्, मुषितस्मृतिता, चेतसो विक्षेपः, अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, औद्धत्यम्, प्रमादश्च" इति । तत्र मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः । क्लिष्टाक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते । तस्मात्षडेव क्लेशमहाभौमाः । अशुभे तु द्वे आह्रीक्यमनपत्रपा ॥ अभिधर्मदीप ११४ ॥ अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिकौ भवतः । तत्राह्रीक्यं ह्रीविपक्षभूतो धर्मः । अनपत्राप्यमपत्राप्यस्येति । अकार्यं कुर्वाणस्यालज्जा स्वात्मनोऽह्रीः । परेभ्योऽलज्जा अनपत्राप्यमित्यपरे । परीत्तक्लेशमहाभौमा निर्दिश्यन्ते । मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः । (<पृष्ठ ७६>) सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश ॥ अभिधर्मदीप ११५ ॥ एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते । एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमेऽध्यायेऽभिधायिष्यते ॥ कथं पुनरिदं विज्ञायते चित्तादर्थान्तरभूताश्चैतसिकाः ? चित्तमेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति । यदुक्तं भगवता- "षड्धातुरयं भिक्षवः पुरुषपुद्गलः" इत्यत्र विज्ञानधातुरेवोक्तः । तस्मान्नार्थान्तरभूताश्चैतसिका इति भदन्तबुद्धदेवः । तं प्रतीदमभिधीयते- (<पृष्ठ ७७>) पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः । तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा ॥ अभिधर्मदीप ११६ ॥ यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाद्युपादायरूपैर्विशेष्यते । नीला ग्रावाणः, नीलमुदकं मधुरा द्राक्षा मधुराः खर्जूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं मूढं रक्तं द्विष्टमित्येवमादिभिः शब्दैश्चैतसिकैर्धर्मैर्योगाद्विशेष्यते । साध्यसमत्वादयुक्तमिति चेत् । न । उक्तोत्तरत्वात् । विहितमत्र- भूतभौतिकान्यत्वचिन्तायामुत्तरमिति । तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति । इतश्च चित्तचैतसिकान्यत्वम्- भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा । तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम् ॥ अभिधर्मदीप ११७ ॥ यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम् ॥ यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते । तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् ॥ अभिधर्मदीप ११८ ॥ यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धाद्विकारोऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवणमिति । तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति । (<पृष्ठ ७८>) सूत्रेऽपि चान्यत्वमुक्तम्- "संज्ञा च वेदना च चैतसिक एष धर्मः" इति ॥ इदमिदानीं वक्तव्यम् । युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसिका धर्मा इत्युच्यन्ते ? को वा धर्मार्थः? तदपदिश्यते- गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी । इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः ॥ अभिधर्मदीप ११९ ॥ प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्य गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते । कि पुनरत्र प्रधानम् ? चित्तं प्रधानमेतेषां कुत इति चेत् । वस्तुमात्रग्रहादिभिः । वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मृत्यादिभिर्गृह्यन्ते ।ऽआदिऽग्रहणादत्रात्माभिनिवेशाद्राजस्थानीयत्वाच्च । किञ्च, बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि ॥ अभिधर्मदीप १२० ॥ उक्तं हि भगवता- "चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानहेतोर्विशुध्यन्ते" इति । तस्मात्प्रधानं चित्तम् । यथोक्तम्- "दूरङ्गममेकचरमशरीरं गुहाशयम् । ये चित्तं दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात् ॥" (<पृष्ठ ७९>) तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात् । एकचरं युगपद्द्वितीयचित्ताभावात् । अशरीरं मूर्त्यभावात्, क्रियामात्रानुमेयस्वभावत्वाच्च । गुहाशयं शरीरबलेन । तद्वृत्तिव्यक्तेरिति । तस्य धर्माः संप्रयोगिणश्चैतसिका इति । व्याख्याताः पञ्चप्रकाराश्चैत्ताः । अन्येऽपि चानियताः पठ्यन्ते- वितर्कविचारकौकृत्यमिद्धादयः । तत्रेदं वक्तव्यम् । कस्मिंश्चित्ते कति चैत्ता भवन्ति ? कामावचरं तावत्पञ्चप्रकारं चित्तम् । कुशलम्, अकुशलं द्विविधमावेणिकमन्यत्क्लेशसंप्रयुक्तं च । अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम् ॥ (<पृष्ठ ८०>) तत्र तावत्कामावचरं चित्तमवश्यं सवितर्कसविचारम् । अतस्तत् अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह । अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः ॥ अभिधर्मदीप १२१ ॥ कामावचरमनिवृताव्याकृतं चित्तं दशभिर्महामौमैर्वितर्कविचाराभ्यां च सहावश्यमुदेति ॥ तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः । सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । तत्राष्टादश चैतसिका भवन्ति । दशमहाभौमाःषट्क्लेशमहाभौमाः वितर्कविचारौ च । दृष्टिर्नाधिका पूर्ववत् । द्वाविंशत्या सहावश्यं शुभं भवति मानसम् ॥ अभिधर्मदीप १२२ ॥ दशमहाभौमाः दशकुशलमहाभौमाः वितर्कविचारौ च ॥ चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम् । यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः- दशमहाभौमाः षक्लेशमहाभौमा द्वावकुशलमहाभौमौ वितर्को विचारश्च । आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशोऽस्ति रागादिः । दृङ्मोहमात्रयुक्तं यत् (<पृष्ठ ८१>) दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेणके । ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्चिद्दृष्टिरित्युच्यते । स च महाभौमेषु पठितः । कः पुनरयं वितर्कः को वा विचारः ? वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः । विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूलः । इत्येतौ द्वौ धर्मौ कामावचरे चेतसि सर्वस्मिन्नियमेनोत्पद्येते । तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोर्धर्मयोरेकत्र चित्ते समवधानं प्रतिज्ञायते । न ह्येतल्लोके दृष्टं यद्विरुद्धयोरेकत्र सहावस्थानमिति कोशकारः । (<पृष्ठ ८२>) तत्र केचिदाहुः- सर्पिर्यथाप्सु निष्ठ्यूतं नातिश्यायते नातिविलीयते, एवं वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्युदारमित्युभयोरपि तत्र व्यापारः । एवं तर्हि निमित्तभूतौ वितर्कविचारावौदार्यसूक्ष्मतयोः प्राप्नुतो यथापश्चातश्च सर्पिषःश्यानत्वविलीनत्वयोर्न पुनस्तत्स्वभावौ । अन्ये पुनराहुः- वाक्संस्कारा वितर्कविचाराः सूत्रेऽभिहिताः । (<पृष्ठ ८३>) "वितर्क्य विचार्य वाचं भाषते नावितर्क्याविचार्य" इति । तत्र य औदार्यास्ते वितर्काः । ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात् । एकस्यान्तु जातौ मृद्वधिमात्रता युगपन्न संभवति । जातिभेदोऽप्यस्ति स तर्हि वक्तव्यः । दुर्वचो ह्यसौ । अतो मृद्वधिमात्रतया व्यज्यते । नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् । तदिदमन्धविलासिनीकटाक्षगुणोत्कीर्तनकल्पं चोद्यमारभ्यते । यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतायते । तयोर्हि यथोक्तलक्षणयोरेकस्मिंश्चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद्वृत्त्युद्रेकतालाभः । यथा विद्यविद्ययोः संशयनिर्णययोश्चेति तूष्णीमास्व । मा विद्वद्भिरवजीहसः स्वमात्मानम् । सा पुनर्दृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः । क्रोधाद्यैस्त्वधिकं वदेत् ॥ अभिधर्मदीप १२३ ॥ (<पृष्ठ ८४>) क्रोधाद्यैस्तूपक्लेशैरधिकं भवति । स च क्रोधादिरुपक्लेशोऽधिकः । क्लेशैश्च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति ॥ सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् । तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् ॥ अभिधर्मदीप १२४ ॥ यत्र मिद्धं तत्र तदेवाधिकं गणयेत् । यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उक्तस्ततः ॥ साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते । ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि ॥ अभिधर्मदीप १२५ ॥ न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते । तेन तत्र प्रतिघशाठ्यमदमायावर्ज्याश्च क्रोधादयः, आह्रीक्यानपत्राप्ये च न सन्ति । य एव प्रथमे ध्याने सन्ति त एवऽध्यानान्तरेऽ,ऽवितर्कश्च न विद्यते । पूर्वोक्ताश्च न सन्तीतिऽचऽशब्दात् । विचारश्चापि नोपरि ।ऽ ध्यानान्तरात्तूपरिविचारश्चापि नास्ति पूर्वोक्ताश्च ।ऽचऽशब्दात्माया शाठ्यं च नास्तीति गम्यते । ब्रह्मणो हि यावच्छाठ्यं पठ्यते, पर्षत्संबन्धात् । स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्र तानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्ते" इत्यप्रजानन् क्षेपमकार्षीत्- "अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्" इति । गतमिदम् ॥ (<पृष्ठ ८५>) इदं वक्तव्यम् । संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारभ्यते । संप्रयुक्तः संस्कारः समता यस्य पञ्चधा । विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ ॥ अभिधर्मदीप १२६ ॥ पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः । ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः । "यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैकाः" इति विस्तरः । यस्य पुनरेताः समता न विद्यन्ते स विप्रयुक्त इति ॥ चोदकः- कश्चिद्रूपं तर्हि विप्रयुक्तं प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते । विशिष्टानामसद्भावात्प्रसंगो नास्ति रूपिणाम् । संस्कारग्रहणाच्चैव खादीनां न प्रसज्यते ॥ अभिधर्मदीप १२७ ॥ विशिष्टेन खलु नियोगेन रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः । संस्कारग्रहणाच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम् ॥ के पुनस्ते विप्रयुक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे । नापि कृत्यम् । नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने । न वेदादिषु शास्त्रेष्विति । तदत्रोपव्याह्रीयते- प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश । आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते ॥ अभिधर्मदीप १२८ ॥ (<पृष्ठ ८६>) यत्तावत्स्वभावक्रियाभावादिति । तदत्रोभयमभिधायिष्यते । यदपि बुद्धवचने न पठ्यन्त इति । तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते । यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम् । ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवृत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्राचार्याश्वघोषप्रमुखानां च बोधिसत्त्वानां बुद्धिप्रसादविधायिनस्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरीक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति ॥ तत्र तावत् राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः ॥ अभिधर्मदीप १२९ ॥ (<पृष्ठ ८७>) प्राप्तर्नाम समन्वागमो लाभ इति पर्यायः । सर्वथा भावाञ्छब्दैरेव शब्दानाचष्टे । यथैंव खलु प्राप्तिरित्येतच्छब्दगडुमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति । तस्मादव्यभिचारि तत्प्रसाधकं लिङ्गमुच्यताम् । इमे ब्रू मः । श्रोत्रमवधत्स्व मनश्चैकाग्रतायां सन्नियुक्त्वा ।ऽधर्मवत्ता व्यवस्थितिः ।ऽ धर्माः खलु त्रिधा कुशलाः......... ............रूपेऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः । श्रुतचिन्तामयानां च समापत्तिद्वयस्य च ॥ अभिधर्मदीप १३० ॥ श्रुतचिन्तामयानामपि । सहजा पश्चाद्भवति द्वयोश्चाचित्त समापत्त्योस्सह पश्चाद्भवतीति । निःक्लेशसंस्कृतापूर्वं शुभानां तु रजस्वताम् । आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते ॥ अभिधर्मदीप १३१ ॥ अनास्रवाणां च स्कन्धानां, अनुचितानां च कुशलसास्रवाणां न पूर्वजा । एषामेव यत्तोक्तानांऽतदूर्ध्वं तु त्रिधेष्यते ।ऽ यदा तेन संमुखीभूता तदा द्विधैवेति वर्तते ॥ (<पृष्ठ ८८>) क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता । क्लिष्टाणां च स्कन्धानां त्रैयध्विकी प्राप्तिः ।ऽकुशलानां च तदन्येषांऽ तेभ्योऽनास्रवेभ्यस्तेभ्यश्चानुचित्तेभ्यः कुशलसास्रवेभ्योऽन्येषां कुशलसास्रवाणां त्रैयध्विक्येव । निवृताव्याकृता ज्ञाननिर्माणमनसां तथा ॥ अभिधर्मदीप १३२ ॥ त्रैयध्विकीति वर्तते ॥ निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा । निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव । अनागतवर्तमानालब्धस्यातीतापि ।ऽनित्यस्यान्यस्य सर्वदा ।ऽ अजा तवर्तमाना च अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम् । कदाचित्तु त्रिधेष्यते ॥ अभिधर्मदीप १३३ ॥ येन लब्धस्तस्य त्रैयध्विकीत्युक्तमेतत् । व्याख्याते प्राप्त्यप्राप्ती ॥ (<पृष्ठ ८९>) सभागता वक्तव्या । केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धोऽप्यस्ति । तत्केयं तदभ्यासगतेति ? तदिदं प्रतायते । एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता । सभागता नाम द्रव्यम् । सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम् । निकायसभाग इत्यस्य शास्त्रसंज्ञा । सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्वानां सत्त्वसभागता । सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात् । भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः । तस्यां खल्वसत्यां सर्वार्यानार्यलोकव्यवहारसंकरदोषः प्रसज्येत । तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः,ऽएकार्थरुचिहेतुःऽ इति । (<पृष्ठ ९०>) स्याच्च्यवेतोपपद्येत न च स्वसभागतां विजह्यात्, न च प्रतिलभेतेति ? चतुष्कोटिकः । प्रथमा कौटिः- यतश्च्यवते तत्रवोपपद्यमानः । द्वितीया- नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते । तृतीया- गतिसंचारात् । चतुर्थी- एतानाकारान् स्थापयित्वा । अथ पृथग्जनत्वस्यास्याश्च कः प्रतिविशेषः ? पृथग्जनसभागता खलूक्तरूपा । पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः । आप्तवचनेनापि तदन्यत्वसिद्धिः । उक्तं हि भगवता- "स चेदित्थत्वमागच्छति मनुष्याणां सभागतां प्रतिलभते" इति । न चैवं पृथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा । सिद्धा सभागता । कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेन समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसाधर्म्यं पश्यतीति ॥ (<पृष्ठ ९१>) अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते । आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु ॥ अभिधर्मदीप १३४ ॥ असंज्ञिसत्त्वेषु देवेषूपपन्नानां यच्चित्तोपच्छे दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम । येन तत्रोपपन्नानां चित्तमनागतेऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते । तत्पुनरेकान्तेन विपाकजस्वभावम् । कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः । केषु पुनस्तत्? देवनिकायेषु भवति । तदाह- "असंज्ञिषु । असंज्ञिसत्त्वा नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत् ।" किं पुनस्ते नैव कदाचित्संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च । "प्रकृष्टमपि कालं स्थित्वा सहसंज्ञोत्पादात्तेषां सत्त्वानां तस्मात्स्थानाच्च्युतिर्भवति" इति सूत्रपाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र । तदुपपन्नानामवश्यं कामावचरापरपर्यायवेदनीयकर्मसद्भावात् । यथोत्तरकौरवाणां देवोपपत्तिवेदनीयं कर्मेति ॥ (<पृष्ठ ९२>) का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते- शुभासंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी । आसंज्ञिकमव्याकृतम् । विपाकफलत्वात् । इयं तु शुभा । सा पुनरियंऽध्यानेऽन्त्येऽ चतुर्थध्यानसंगृहीतेत्यर्थः ।ऽचित्तरोधिनीऽ, यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी । चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत् । किमर्थं पुनरेतां योगिनः समापद्यन्ते ? निःसृतीच्छाप्रवृत्तित्वात् ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समापद्यन्ते मोक्षकाङ्क्षया । सा पुनरियम्- नार्यस्य आर्या हि तामपायस्थानमिव मन्यन्ते । पृथग्जनास्तु केचिन्मोक्षस्थानमिति । किं पुनरियमुपपत्त्या वा वैराग्येण वा लभ्यते ? नेत्याह । किं तर्हि ? (<पृष्ठ ९३>) आप्या प्रयोगतः ॥ अभिधर्मदीप १३५ ॥ यत्नेन तामुत्पादयतीति ॥ निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा । निरोधसमापत्तिरपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी । सा पुनरियं विहारसंज्ञापूवकेण मनसिकारेण निर्वाणसदृशं सुखमनुभवितुकामैर्योगिभिः संमुखीक्रियते ।ऽभवाग्रजाऽ चेयं समापत्तिः । शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता ॥ अभिधर्मदीप १३६ ॥ द्वयोः कालयोर्वेद्याऽद्विवेद्याऽ । उपपद्यवेदनीया चापरपर्यायवेदनीया च । अनियतवेदनीया चेयम् । यो ह्येतामुत्पाद्य परिनिर्वाति स नास्या विपाकं प्रतिसंवेदयते । तस्या हि भवाग्रे चतुस्कन्धको विपाको विपच्यते । आर्यश्चैतामुत्पादयितुं शक्नोति नानार्यः । उच्छेदभीरुत्वाच्छाश्वतदृष्टिप्रहाणादार्यमार्गवलोत्पादनाच्च । आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति । अत्र पुनः कोशकारः प्रतिजानीते- "सचित्तिकेयं समापत्तिः" इति । (<पृष्ठ ९४>) "समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते । येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति । तद्विरुद्धाश्रयापादनात्सासौ समापत्तिरिति प्रज्ञाप्यते ।" (<पृष्ठ ९५>) तदेतदबौद्धीयम् । कुतः ? चेतश्चतुष्टयायोगादागमादुपपत्तितः । निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका ॥ अभिधर्मदीप १३७ ॥ भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते । विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च । तेभ्यश्चतुर्भ्यः कतरच्चित्तं यन्निरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ? तत्र तावद्विपाकजं तत्रत्यां ............................. ".............धर्मे प्रतिपत्त्येवाज्ञामाराधयति । नापि मरणकालसमये । भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नः अभोक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति" इति । (<पृष्ठ ९६>) अत्र स्थविर उदायी स्थविरशारिपुत्रमिदमवोचत्- "मा त्वमायुष्मन्नेवं वोचः ।" स हि मन्यते स्म भावाग्रीकीयं समापत्तिर्दिव्यश्च मनोमयः कायश्चतुर्थध्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते । तदेतद्भदन्तोदायिना परिहाणिमजानानेनाभिधर्मसंमूढेन प्रत्युक्तः स भगवता परमाभिधा मकेणावसादनार्थमभिहितः- "त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा सार्धं गभ्भीरेऽभिधर्मे संलपितुं मन्यसे ?" इति निकायान्तरीयाश्चतुर्थध्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति । तेषां विना परिहाण्या सिद्धत्येतत्सूत्रम् । एतदेव तु न सिद्ध्यति- चतुर्थध्यानभूमिकाप्यसावस्तीति । कथम् ? "नवानुपूर्वसमापत्तयः" (<पृष्ठ ९७>) इति सूत्रे वचनात् । प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्तिं समापद्यन्त इति ॥ व्याख्याते समापत्ती । गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः । आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते ॥ अभिधर्मदीप १३८ ॥ आयुर्जीवितमित्यनर्थान्तरम् । उक्तं ह्यभिधर्मे- "जीवितेन्द्रियं कतरत्? त्रैधातुकमायुः" इति । तत्पुनःऽगतिप्रज्ञप्त्युपादानंऽ विपाकजस्वभावत्वात् । उक्तं हि सूत्रे- "निर्वृत्ते विपाके नारक इति संख्यां गच्छति । एवं यावन्नवसंज्ञानासंज्ञायतनोपगसंख्यां गच्छति" इति । न चान्यदिन्द्रियं विपाकजं त्रैधातुक व्याप्यस्ति यज्जन्मप्रबन्धाविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात् । तत्पुनरस्तीति कथं गम्यते ? आगमाद्युक्तितश्च । आगमस्तावदयम्- (<पृष्ठ ९८>) "आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥" सर्वं हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु । तत्त्ववश्यं विज्ञानसहवर्ति नापि चक्षुरादीन्द्रियसहवर्ति । रूपधातौ तु सर्वं कायादिपञ्चेन्द्रियसहवर्ति । न त्ववश्यं चित्तसहचरिष्ण । आरूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः । जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम् । अन्यथा हि कुशलनिवृत्ते चेतसि निर्मले वाधोभौमे तद्गतिप्रज्ञप्त्युपादानविपाकजं किं कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात्? न च शक्यं प्रतिज्ञातुमनास्रवाणामधोभूमिविज्ञानबीजं तद्गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात् । न चान्यद्विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात् । मनोधातुरिति चेत् । न । मनोविज्ञानधातोरेवावस्थान्तरे तन्नामप्रज्ञप्तेः । युक्तिरपि- चक्षुरादिवत्तदाधिपत्यविशेषात् । "समाधिबलेन कर्मजं जीवितावेधं निर्वर्त्यायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः" इति कोशकारः । तत्र किमुत्तरमिति ? न तत्रावश्यमुत्तरं (<पृष्ठ ९९>) वक्तव्यं यस्मान्नैतत्सूत्रेऽवरति, विनये न संदृश्यते, धर्मतां च विलोमयति । (<पृष्ठ १००>) तस्माद्बालवचनवदध्युपेक्ष्यमेतत् । कथं तावत्सूत्रे नावतरति, विनये न संदृश्यते ? सूत्रे ह्यक्तम्- "अस्थानमनवक शो यत्प्रहाणहेतोर्वा उपक्रमहेतोर्वा अपक्वं परिपाचयेत्, परिपक्वं वा अन्येन नयेन नयेत्" इति विस्तरः । विनयेऽपि "नियतवेदनीयं त्रिप्रकारं कर्म सदेवकेनापि लोकेन न शक्यं व्यावर्तयितुम्" इति परिग्रहः । (<पृष्ठ १०१>) अभिधर्मेऽपि सर्वापरिमितमायुराक्षिप्यते । तस्यापक्षालाः कालस्थानान्तरावस्थानादिषु नियम्यन्ते । इत्येवं तावदागमादपेतं नोत्तरार्हम् । तथापि तु युक्तिमदुत्तरमुच्यते । यदि भगवान् समाधिबलेन स्वेच्छयापूर्वं सत्त्वं सविज्ञानकं सेन्द्रियमुत्पादयेत्, स्वात्मनो वा जीवितमनाक्षिप्तं प्राक्कर्मभिर्योगबलेनाक्षिपेत्, ततो बुद्धो भगवान्नारायणीकृतः स्यातपूर्वसत्त्वनिर्माणात् । स च कारुणिकत्वान्नेव परिनिर्वायात्, शासनसम्भेदसंदेहांश्च च्छिन्द्यात् । तस्माद्वैतुलिकशास्त्रप्रवेशद्वारमारब्धं तेन भदन्तेनेत्यध्युपेक्षमेतत् । (<पृष्ठ १०२>) अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ? प्रज्ञप्त्यामुक्तम्- "अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः? चतुष्कोटिकः । प्रथमा कोटिः- आयुविंपाकस्य कर्मणः पर्यादानात् । द्वितीया- भोगविपाकस्य । तृतीया- उभयोः । तुर्थी- विषमापरिहारेण । ज्ञानप्रस्थान उक्तम्- "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह- कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं निरोधसमापत्तिं वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां रूपारुप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ॥" कः पुनरस्य भाषितस्यार्थः ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात्प्रथमम् । यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद्द्वितीयम् । सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । तस्मादस्त्यकालमृत्युः । (<पृष्ठ १०३>) सूत्र उक्तम्- "चत्वार आत्मभावप्रतिलम्भाः । अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रामति न परसंचेतना" इति चतुष्कोटिकः । आत्मसंचेतनावक्रामति कामधातौ क्रीडाप्रमोषकाणां देवानां मनःप्रदोषकाणां च देवानाम् । तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिभंवति, नान्यथा । बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात् । परसंचेतनैव क्रामति गर्भाण्डागतानाम् । उभयम्- अन्येषां कामावचराणां प्रायेण । नोभयम्- सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम् । तद्यथा नारकाणां च दर्शनमार्गमैत्रीनिरोधसमापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्टप्रभृतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्गर्भायाश्चक्रवर्तिनश्च तद्गर्भायाः ।" व्याख्यातं जीवितेन्द्रिम् ॥ संस्कृतलक्षणानीदानीं व्याख्यायिष्यन्ते । तानि पुनः कानि कियन्ति वेति ? तदुपव्याख्यायते- (<पृष्ठ १०४>) जातिः स्थितिर्जरानाशः संस्कृताङ्कचष्टतुयी । एतानि खलु चत्वारि संस्कृतलक्षणानि भगवताभिधर्मेऽभिहितानि । एतान्येव विनेयप्रयोजनवशात्सूत्रे स्थित्यन्यथात्वमेकीकृत्य त्रीण्युक्तानि । गाथायां त्वेभ्योऽङ्गद्वयं सामर्थ्याद्गम्यमानमन्तर्णीय प्रदर्श्यते । स्थितिर्हि धर्मायोगमिच्छन्ती तद्धर्ममुपगुह्यावतिष्ठते । सा च तथा प्रवर्तमाना लोकस्य चित्तोन्नतिविशेषं जनयति । ततो भगवतान्यथात्वाख्यया (<पृष्ठ १०५>) जरया सहोक्ता श्रीरिव कालकर्ण्यानुबद्धा संवेगानुकूला भविष्यतीत्येषोऽर्थविषयो दृश्यते । तस्माच्चत्वारि । इतश्च- चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः ॥ अभिधर्मदीप १३९ ॥ यदि हि धर्मस्य स्थितिर्न स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात् । अनित्यताग्रस्तस्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात् । क्रियाभावात्फलाभावः स्यात् । फलार्थश्चायमारम्भः । तस्मादास्तिकैर्नास्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम् ॥ चत्वारीति न सिद्ध्यन्ति जराभावात् । भवतु स्थितिः, जरा तु सर्वथा न युज्यते । कथम् ? उक्तं हि- "तथात्वेन जरासिद्धिरन्यथात्वेऽन्य एव सः । तस्मान्नैकस्य भावस्य जरा नामोपपद्यते ॥" (<पृष्ठ १०६>) तं प्रतीदमुच्यते- शक्तिहानेर्जरासिद्धिः उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति । तस्य यदि जरसा शक्तिर्न विहन्येत स द्वितीयमपि फलमाक्षिपेत । न च शक्नोत्याक्षेप्तुम् । तस्माद्गम्यते कश्चिज्जराख्यः शत्रुअस्तं जर्जरीकृत्योपहृतसामर्थ्यमनित्यतापिशाच्याः समर्पयतीति युक्तमुक्तम्ऽशक्तिहानेर्जरासिद्धिःऽ इति । नैतद्युक्तमुक्तं परिणामदोषप्रसङ्गात् । एवं लघ्वाचक्षाणेन भवता सांख्यीयः परिणामोऽभ्युपगतो भवति । नाभ्युपगतः, यस्मात्- नान्यत्वात्परिणामिता । अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी । सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्सर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति । कथं पुनः क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम्- यस्मादस्याजहदात्मकस्य- एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ॥ अभिधर्मदीप १४० ॥ येन खलु दार्ढ्येनोपेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद्द्वितीयमप्याक्षिपेत् । न चैनं शक्तिमन्तमनित्यता हिंस्यात् । तस्माद्गम्यतेऽन्यथीभूतोऽयमनित्यताव्याघ्रीमुखं प्रविशति । इत्येकं फलमाक्षिप्य नश्यतीत्युक्तमेतत्-ऽएककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ।ऽ न प्रसिद्ध्यति, निर्हेतुकत्वाद्विनाशस्य । ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः । कथम् ? अंकुरवत् । न विनाशस्य विनाशोऽस्ति, तस्मादहेतुकः । किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः । न च विनाशस्य हेतुरस्ति । तस्मादसौ न पश्चाद्भवतीति । तत्र यदुक्तं जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम् । अत्र प्रत्यवस्थानम्- सति जन्मनि तद्भावाद्द्रव्यकारित्रनाशतः । आगमादुपपत्तेश्च विनाशोऽपि सहेतुकः ॥ अभिधर्मदीप १४१ ॥ (<पृष्ठ १०७>) सहेतुर्विनाश इति स्थापना । कुतः ?ऽसति जन्मनि तद्भावात् ।ऽ उक्तं हि भगवता- "अस्मिन् सतीदं भवति । यावदविद्याप्रत्ययाः संस्काराः ।" सति चोत्पत्तिमति विनाशो भवति । तस्मात्सहेतुकः । यस्य पुनरहेतुकस्तस्य प्रागपि जन्मनः सोऽस्तीति जन्मैव न स्यात्, विरुद्धानामन्यतरोपपत्तेः । तयोरविरोधाद्वा तद्व्यपदेशानुपपत्तिरताद्धर्म्यं च संस्काराणामिति । धर्मनास्तित्वमात्रं विनाश इति चेत् । न । तदस्तित्वपूर्वकत्वात् । अस्तित्वपूर्वकं हि तन्नास्तित्वमिति तदपि सहेतुकम् । नास्ति किञ्चित्तदिति चेत् । न । अस्तित्वविरोधानुपपत्तेः । किञ्च, भावविरोधित्वे सत्यभावस्य भवतापत्तेः । अविरोधित्वे भावनित्यत्वप्रसंगादुभयाभावे वाङ्मात्रत्वात् । का चैषा वाचो युक्तिः सति च भवति तद्विशेष्यश्चातद्विरोधी (<पृष्ठ १०८>) च । न च किञ्चिदित्येवैषा वाचोयुक्तिरसंबद्धा । निरर्थिका चैषा वाचोयुक्तिः । अतस्ते भावाभावो वाग्वस्तुमात्रम् । प्रतिषेधसामर्थात्प्रतिषेध्यो भावोऽस्तीति चेत् । नास्ति । शशविषाणवच्छब्दो गडुमात्रत्वात्प्रतिषेधद्वयार्थानुपपत्तेश्च । किञ्च, कारित्रमात्रनाशाच्च । विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नोदेति, नश्यति । तस्मान्नानर्थवान् विनाशशब्दः । कुतश्च ? आगमादुपपत्तेश्च । उक्तं हि भगवता- "उत्पन्नानामकुशलानां धर्माणां निरोधाय" इति । तथोक्तम्- "इहैकतीयः प्राणातिपातिको भवति" इति विस्तरः । तथा- "तिस्रः संवर्तन्योऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विनश्यन्ते" इति । तथा- "जातिप्रत्ययं जरामरणम्" इति । उपपत्तिरपि । जन्मनोऽप्यहेतुकत्वप्रसंगात् । यदि खल्वसति सद्भावेऽप्यहेतुको विनाशः, जन्माप्यहेतुकं भवत्विति । तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शनात्, तत्सहेतुकत्वमिति चेत् । न । तद्विनाशे तुल्यत्वात्तस्यापि समर्थहेतुसामग्र्यन्तरसन्निधानाभ्युपगमात् । व्याख्यातानि लक्षणानि ॥ नामकायादयो वक्तव्याः । न खलु वक्तव्याः । न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति । तदुपदर्शनार्थमिदमारभ्यते । वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः । संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः ॥ अभिधर्मदीप १४२ ॥ विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंगृहीताः । वाक्तु रूपस्कन्धसंगृहीता वाग्गीर्निरुक्तिरित्यर्थः । ते च तदधीनोत्पत्तयो निरुक्त्यधीनार्थप्रवृत्तयश्च (<पृष्ठ १०९>) ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः । निरुक्तिः नाम संज्ञा । नार्थानामेकसंज्ञत्वात् । यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तद्वत्तेऽपिऽवाक्छब्दाधीनजन्मानःऽ । अतश्चोक्तम्- "वाङ्नाम्नि प्रवर्तते, नामार्थं द्योतयति ।" इति । वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति । प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वेऽपि सति तदभिधानानुपपत्तिरिति चेत् । न । शब्दभेदसंचयस्य प्रत्ययत्वे तदभिधानसामर्थ्योपपत्तेः । किञ्च, क्रियया च तदस्तित्वं निर्धार्यते । का च सेत्युच्यते । स्वार्थप्रत्यायनं क्रिया । स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः । ते पुनर्नामसंज्ञाद्यपरनामानः । तत्र नामपर्यायः संज्ञाकरणं यथा घट इति । पदपर्यायो वाक्यम् । यथा घटो दृश्यत इति । येन क्रियागुणकालविशेषा गम्यन्त इति क्वचित् । "यावद्भिरर्थवद्भिः पदैर्विवक्षितार्थपरिपूरिर्भवति तावतां समूहः पदम्" इत्याभिधर्मिकाः । व्यञ्जनपर्यायोऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूपलक्षणविमुक्तं त्रैकालिकार्थप्रत्यायनसमर्थं मनोवद प्रतिहतगमनमिति । (<पृष्ठ ११०>) न, असिद्धत्वात् । न खलु वाक्छब्दादन्ये नामादयः सिद्ध्यन्ति । वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरर्थं प्रत्याययतीति किमन्यैर्नामादिभिः परिकल्पितैः ? तत्रेदं प्रत्यवस्थीयते- अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् । शब्दो हिपरमाणुसंचयः । स प्राप्यार्थं प्रकाशयेत्, प्रदीपवत् । नाजातध्वस्तस्वर्गादिदेशस्थानर्थान् प्राप्तुं शक्नोति । तस्मात्प्रतिपद्यस्व न शब्दोऽर्थं प्रत्यायतीति । इतश्च क्रमयौगपद्यप्रत्यायनासंभवात् । कथम् ? बल्वजवत् । इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थानि संभूय रज्ज्वात्मनावस्थितानि दार्वाद्याकर्षणक्रियासामर्थ्योपेतानि भवन्ति । न चैवं वाक्यात्मानः शब्दाः बुद्ध्युपगृहोतावयवसमुदायसंक्षेपाः क्रमलब्धजन्मानः प्रत्येकमर्थप्रत्यायनसमर्थाः, नापि संभूय प्रत्याययन्ति, संभूयानवस्थानाद्बल्वजवत् । तस्मात्क्रमयौगपद्यात्प्रत्यायनासंभवान्न शब्दाः कञ्चिदर्थं प्रत्याययन्तीति सिद्धम् । इतश्च, प्रत्याय्यप्रत्यायकादिसंबन्धानुपपत्तेः । कथम् ? प्रदीपवत् । तद्यथा प्रदीपस्तमसि घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शनार्थिभिरुपादीयते न च कश्चिच्छब्दः कस्मिंश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति । तत्र तावत् । न प्रदीपस्येव प्रत्याय्यप्रत्यायकसंबन्धोऽस्ति । अकृतसंकेतस्याप्रत्यायनात् । नापि संयोगाख्यः संबन्धोऽस्ति सदसतोस्तदनुपपत्तेः । गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः । अत एवाकाशगुणत्वाच्चेति कश्चित् । तस्मात्प्रत्याय्यप्रत्यायनादिसंबन्धानुपपत्तेः यदगदिष्म न शब्दोऽर्थं प्रत्याययतीति तत्सम्यगभ्यधामेति । (<पृष्ठ १११>) सामयिकः शब्दोऽर्थप्रत्यायनलिङ्गमिति चेत् । न । साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयौगपद्यप्रत्यायनानुपपत्तेश्च । प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत् । न । तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च । संस्कार इति चेत् । न । असिद्धत्वादुक्तोत्तरत्वाच्च । यादृच्छिकसंवृत्तिशब्दमात्राभ्युपगमे वक्ष्यमाणदोषप्रसंगाच्चेति । किं पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ? अनित्यास्ते तु विज्ञेयाः तु शब्दोऽनित्यत्ववादविशेष । र्थो हेतुः । क इति चेत् । सोऽयमुच्यते- सापेक्षार्थविभावनात् ॥ अभिधर्मदीप १४३ ॥ कथम् ? ज्ञानवत् । तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयोऽपि घोषादीन् हेतूनपेक्ष्यार्थं प्रत्याययन्ति । तस्मात्सापेक्षप्रत्यायनादनित्या इति ॥ यदि तर्हि नामादयोऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते-ऽशब्दोऽर्थं प्रत्याययतिऽ इति ? तदत्राभिधीयते- स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् । अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते ॥ अभिधर्मदीप १४४ ॥ आञ्जसा हि वाङ्नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः । नाम त्वर्थं द्योतयतीति प्रतिवर्णानुवर्तिनो वाक्खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयार्थं प्रत्याययतीत्यपदिश्यते । न त्वर्थः शब्दवाच्यो द्योत्यो वा । इतश्च न शब्दोऽर्थं प्रत्याययति । यस्मात्- परमाणुस्वभावत्वाद्घोषैकत्वं न युज्यते । "एदैतौ कण्ठतालव्यौ" इति प्रतिज्ञायते । न चैकस्याणुवचनस्य विश्लिष्टस्थानद्वये वृत्तिरुपपद्यते । परमाणुसंघातस्य तूपपद्यते । परमाणवोऽपि प्रत्येकं न प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति । समुदायोऽपि मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्यध्यवसीयते । (<पृष्ठ ११२>) न चार्थान्तरं समुदायिभ्यः समुदायोऽस्ति । स कथमर्थं प्रत्याययिष्यतीति । अतीतवर्णसमुदायस्त्वन्त्यवर्णापेक्षो मनोबुद्ध्योपगृहीतस्वरूपः संबन्धिन्यर्थे बुद्धिमुत्पादयन् प्रत्याययतीति युक्तरूपो व्यपदेशः । अत्र मीमांसकवैय्याकरणौ प्रत्याचक्षाते । नासिद्धत्वात् । न खलु शब्दस्य परमाणुमयत्वं सिद्धम् । तस्मादनुत्तरमेतत् । तौ प्रत्यभिधीयते । तादात्म्यं प्रतिघातित्वात् प्रतिहन्यते खलु शब्दः प्राकारभित्त्यादिषु तस्मात्प्रतिघाती शब्द इति । न । असिद्धम् । सिद्धसाधनादसिद्धेः । यत्खलु भवता प्रतिघातित्वेनाप्रसिद्धं परमाणुमयत्वं साध्यत इत्यसदेतत् । तत्रेदं प्रत्यवस्थीयते । तत्सिद्धिर्वरणादिभिः ॥ अभिधर्मदीप १४५ ॥ आलाङ्गलग्राहेभ्यः सिद्धमेतद्गर्भगृहान्तर्गतेन पिहिते कवाटेऽभिहन्यमानाः पटहाः ध्माप्यमानाश्च शंखा न श्रूयन्ते । हूणनाडोनिर्घोषेण च नगरप्राकाराणि पात्यन्ते । तस्मात्सिद्धेन जाल्मजेनासिद्धस्य साधनमिदमाविष्क्रियते नासिद्धेनेति । यदप्युच्यते स्फोटः शब्दो ध्वनिः शब्दगुण इति तत्रापदिश्यते- स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति । तस्माद्ध्धनिः शब्दः स्फोट इत्यनर्थान्तरम् । यथा हस्तः करः पाणिरिति लोकप्रसिद्धमेतत् । तस्मात्- क्रमवृत्तेर्न शब्देन कश्चिदर्थोऽभिधीयते ॥ अभिधर्मदीप १४६ ॥ (<पृष्ठ ११३>) इति प्रागाविष्कृतमेतत् । तन्मा प्रमोषीः ॥ यदप्युच्यते वैयाकरणैः शब्दो बुद्धिनिर्ग्राह्य एष वैशेषिकैरपि श्रोत्रग्राह्यः, शब्दस्यान्यत्वेऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति । तयोरिदमुच्यते- न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः । यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत् ॥ अभिधर्मदीप १४७ ॥ इति । तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः । ततश्चान्ये नामादयः सर्वार्थविषया इति स्थापना । प्रतिद्योत्यं यथायोगं नियतानियताश्च ते । तत्र य आर्यया निरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयसंबन्धाः, लौकिक्याश्च केचिन्नियताभिधेया निरुच्यन्ते । उभयेऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति । ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते ह्यनियता यदृच्छिका इत्युच्यन्ते । तद्यथा डित्थडवित्थादयः । प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति । उक्तं हि भगवता- "तथागतानामुत्पादान्नामपदव्यञ्जनकायानामुत्पादो भवति" इत्येतस्मात्- नियतोद्भावनाद्बुद्धः सर्वज्ञ इति गम्यते ॥ अभिधर्मदीप १४८ ॥ ये ह्यपौरूषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव । तदवबोधाच्च भगवान्सर्वज्ञ इत्यभिधीयते । ते पुनरेते- सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा । सत्त्वाख्या ह्येते । यश्च द्योतयति स तैः समन्वागतः । न यो द्योत्यते । (<पृष्ठ ११४>) कामाप्ताः रूपाप्ताश्चैते वाक्छब्दाधीनजन्मत्वात् । नैष्यन्दिका अनिवृताव्याकृताश्चैव । यथा चैते नामादयः तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा ॥ अभिधर्मदीप १४९ ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥ द्वितीयोऽध्यायः समाप्तः ॥ (<पृष्ठ ११५>) तृतीयोऽध्यायः । चतुर्थपादः । ................ । द्वितीयं द्वितीयस्याः । तृतीयं तृतीयस्याः । वायुसंवर्तन्याश्चतुर्थध्यानं शीर्षमिति । अत्राह- चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते- सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः । विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः ॥ अभिधर्मदीप १५० ॥ चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्यन्ते तस्मान्न संवर्तनो उत्पाद्यते । प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतौ विद्येते । द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी । तृतीये ध्याने आश्वासप्रश्वासा (<पृष्ठ ११६>) वाय्वात्मकाः । इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतोऽपक्षालस्तथाभूतेन बाह्येन विनाशः । चतुर्थे तु बाह्योऽपक्षालो न प्रवर्तत इति नास्ति संवर्तनी । नित्यं तर्हि चतुर्थध्यानं प्राप्यम् । कस्मात्?ऽविमानस्य समत्वस्यऽ कर्मक्षयेनऽप्रध्वंसात्ऽ इति ॥ कथं पुनरेताः संवर्तन्यः कया वानुपूर्व्या भवन्ति ? तदुच्यते । निरन्तरं तावत्- सप्त तेजोभिरेकाद्भिर्गतेऽद्भिः सप्तके पुनः । तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः ॥ अभिधर्मदीप १५१ ॥ सप्त संवर्तन्यस्तेजोभिः भवन्ति । अष्ठमोऽपाम् । एवं सप्तको भवति । तस्मिन् सप्तकेऽतिक्रान्ते पुनस्तेजसा सप्तकः । तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया नाशो भवति । सा तु नित्यं तेजसः सप्तकपृष्ठे वायुसंवर्तनी भवति । त एते पिण्डेन भवन्ति षट्पञ्चाशत्तेजःसंवर्तन्यः, सप्ताप्संवर्तन्यः, एका वायुसंवर्तनी ॥ किं पुनस्तत्र कारणं यत्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते- (<पृष्ठ ११७>) आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् । आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् ॥ अभिधर्मदीप १५२ ॥ एवं च कृत्वा प्रज्ञप्तिभाष्यमनुलोमितं भवति- "चतुःषष्ठिःकल्पाः शुभकृत्स्नानां देवनामायुष्प्रमाणम्" इति ॥ अथ कस्मात्पृथिवीसंवर्तनी न भवति ? तदत्र कारणमुच्यते- वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः । आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता ॥ अभिधर्मदीप १५३ ॥ यथा खलु वातपित्तश्लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्निजलवायुभिर्भूरूत्साद्यते । किञ्च, एते तद्विनाशकाः .............तन्नाशाय प्रवृत्तत्वात् । किञ्च,ऽआध्यात्मिकेति सारूप्याच्चऽ । यथा चाध्यात्मिक्यस्त्रिस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्वासप्रश्वासलक्षणैस्तथा बाह्या अप्युपद्रवा वह्न्यम्भोवायुप्रकोपलक्षणा भवन्तीति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्यचतुर्थः पादः समाप्तः ॥ तृतीयोऽध्यायः समाप्तः ॥ (<पृष्ठ ११८>) चतुर्थोऽध्यायः । प्रथमः पादः । अथ यदुक्तं "सत्त्वकर्मद्विधाख्येन पूरितं वायुमण्डलम्" इत्येतदुच्यताम् । कानि तानि कियन्ति वा कर्माणीत्यतः कर्माणि प्रस्तूयन्ते । सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् । लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते ॥ अभिधर्मदीप १५४ ॥ दृश्यते खलु सत्त्वानां हीनमध्योप्कृष्टजातिपरिग्रहायामाश्रयभोगादिसम्पद्विपत्तिश्च । यच्च द्विविधस्य लोकस्य विचित्रता तत्र कर्माणि हेतुः । अतस्तेषां तत्त्वानि वक्ष्यामि । यदप्युक्तं कानि कियन्ति वेति तदुपव्याख्यायते ॥ सूत्रे द्वे कर्मणी निदिश्योक्तम्- "द्वे कर्मणी चेतना कर्म चेतयित्वा च" इति । तानि पुनस्त्रीण्युक्तानि । कथम् ? कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् । कर्माण्येतानि लोकस्य कारणं नेश्वरादयः ॥ अभिधर्मदीप १५५ ॥ एतानि खलु त्रीणि कर्माणि शुभाशुभानि द्विविधस्यापि सत्त्वभाजनलोकस्य हिताहितनिमित्तान्युत्पत्तौ च सम्पत्तौ च वैचित्र्यस्य च कारणम् । नेश्वरकालपुरुषप्रधानादयः ॥ (<पृष्ठ ११९>) तत्र तावद्यथा नेश्वरः कारणं तथा पूर्वमुल्लिखितम्, इदानीं तु विस्पष्टतरमाविष्क्रियते- वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः । यदि खल्वेको नित्यश्चेश्वरो लोकस्योत्पत्तिस्थितिप्रलयकारणं स्यात्, तेन खलु कारणानुविधायित्वात्कार्यस्यैतत्त्रयं विरुद्धं युगपत्स्यात् । न चैतद्दृष्टमिष्टं वेत्यसदेतत् । किञ्च लोकश्चाप्यविचित्रः स्यात् । युगपच्चोत्पद्येत नग्नः कपालपाणिश्च पर्यटेत्तदिच्छानुविधायी च स्यात् । न चैतदेवम् । तस्मान्नेश्वरः कारणम् । ग्रामाद्यधिपतिविशेषोत्कर्षावस्थानादीश्वरप्रसिद्धिरिति चेत् । न । ग्रामाधिकृतादिह परतन्त्रत्वानित्यत्वकार्यान्तरशक्तिविघातादिदर्शनात्, गोमयपिण्डोपमसूत्रोक्तेश्च । (<पृष्ठ १२०>) भागवतादितन्निन्दादर्शनाच्च । भागवताद्या हि महेश्वरं निन्द्यन्तो दृश्यन्ते । माहेश्वराश्च विष्णुमिति । कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत् । तत्रापदिश्यते । नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः ॥ अभिधर्मदीप १५६ ॥ यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्वर्यश्च लोकं सृजति कुम्भकारबद्धटादीन् । न । चेवं सति पूर्वपक्षोत्सर्गः कृतो भवति । यदुक्तं नित्यश्चैकश्च स्वतन्त्रः कारणमिति तद्धीनम् । तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति । तदभ्युपगमाच्चानैश्वर्यमिति । एतेन कालपुरुषप्रधानादिकारणपरिग्रहाः प्रत्यूढा वेदितव्याः । यदि खलु कर्म कारणं नेश्वरादयः कथं तर्हि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रूमः- कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः । यतोऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते ॥ अभिधर्मदीप १५७ ॥ यथोक्तम्- "विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्मदैवम् । पुण्यानि भाग्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥" (<पृष्ठ १२१>) किञ्च, यतश्च "ग्रहयोगो भुजास्पन्दः स्वप्नः पूर्णघटादयः । सूचयन्ति नृणामेते वृत्तिलाभं स्वकर्मणः ॥" इत्यतोऽपि तेषु ताच्छब्द्यं प्रयुज्यत इति ॥ कथं पुनरेषां त्रयाणां कर्मणां व्यवस्थानम् ? यद्याश्रयतः, सर्वेषां कायाश्रितत्वादेकत्वम् । स्वभावतश्चेत्, वाक्कर्मैवैकं प्राप्तम् । समुत्थानतश्चेत्, मनःकर्मैकं प्राप्तम् । सर्वेषां मनसोत्थापितत्वात् । त्रिभिरपीति वैभाषिकाः ॥ ते पुनरेते प्रथमे द्वे कर्मणी प्रत्येकं द्विप्रभेदे । कथम् ? तदपदिश्यते- पूर्वे विज्ञप्त्यविज्ञप्ती कायकर्म खलु कायविज्ञप्तिः कायाविज्ञप्तिश्च । वाक्कर्मापि वाग्विज्ञप्तिर्वागविज्ञप्तिश्च । तृतीयं तु कर्म- चेतना मानसी क्रिया ॥ अभिधर्मदीप १५८ ॥ उक्तं हि भगवता- "चेतना कर्म चेतयित्वा ।" तत्पुनस्त्रिधोक्तम्- "कायकर्म वाक्कर्म मनस्कर्म च" इति । किं स्वभावं पुनरिदं कायकर्म किं तावत्कायस्वभावम् ? यथा वाक्कर्म (<पृष्ठ १२२>) वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदाह । .............. अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः (<पृष्ठ १२३>) चतुर्थाध्याये द्वितीयपादः । ..................पराभवन्तीत्यपदिश्यते । अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता । पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः ॥ अभिधर्मदीप १५९ ॥ संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः । एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न ॥ अभिधर्मदीप १६० ॥ दृष्टिसम्पद्विशुद्धा खलु शईलसम्पत्ऽभिक्षुत्वं परमार्थतः । अन्यतरविकलस्तु संवृत्या भिक्षुर्भवति । द्व्यङ्गविकलस्तु नापि संवृत्या नानि परमार्थत इति । यदि खलु विना संवरेणाष्टौ निकाया न व्यवस्थाप्यन्ते कथं तर्हि (<पृष्ठ १२४>) भगवतोक्तैः- "एकदेशकारी, प्रदेशकारी, यद्भूयस्कारी, परिपूर्णकारी" इत्यत्राप्ययमर्थो दृश्यते ? कश्चित्खल्वकार्यैकदेशविरतिक्षमो भवति । कश्चिद्यावत्समग्रदौःशील्यविरतिक्षमः । इत्यतो भगवानकार्यैकदेशविरत्याप्युपासकत्वं (<पृष्ठ १२५>) शास्ति । न हि सर्वशीलविकलः कश्चिच्छरणगमनेच्छामात्रकेणोपासको भवति षडङ्गोषधैकद्व्यङ्गवैकल्योपयोगवदिति । अथ यदुक्तम्- "बुद्धं धर्मं संघं शरणं गच्छति" इति तत्क एते बुद्धादयः ? तदिदमभिधीयते- विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना । तदाश्रये फले चापि विज्ञेया गुणकल्पना ॥ अभिधर्मदीप १६१ ॥ द्विविधः खलु बुद्धः संवृत्या परमार्थतश्च । तत्र परमार्थतो यथोक्तं शास्त्रे- "यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ बुद्धकारकानशैक्षान्धर्माञ्छरणं गच्छति । ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम् ।" इति । तेभ्योऽपि निरावरणं ज्ञानं प्रधानं सर्वज्ञ इति लोकप्रसिद्ध एष तावत्पारमार्थिको बुद्धः । संवृत्यापिऽतदाश्रयेऽ द्वात्रिशता लक्षणैरशीत्या चानुव्यञ्जनैर्विराजिते रूपकायेऽपि बुद्धाख्येति । तत्फले च बलवैशारद्यमहाकरुणादिषु बुद्धोक्तिरिति । (<पृष्ठ १२६>) शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः । मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते ॥ अभिधर्मदीप १६२ ॥ नित्याविकृतस्वलक्षणधारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमार्थिको धर्मः । गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः । त्रीणि च पिटकानि धर्मो निर्वाणप्रापकत्वात् ॥ आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः । नवानामशैक्षाणामष्टादशानां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते । संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते । एतान्यो याति शरणं स याति शरणत्रयम् ॥ अभिधर्मदीप १६३ ॥ एतान्यथोक्तलक्षणान् बुद्धधर्मसंधान् शरणं गच्छतिऽयो याति शरणत्रयम्ऽ इति ॥ (<पृष्ठ १२७>) किं स्वभावानि पुनः शरणगमनानि ? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि ॥ कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः । तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात् । उक्तं हि भगवता- "बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥ न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥ दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं चाष्टांगिकं मार्गं क्षेमं निर्वाणगामिनम् ॥ एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥" इति । अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात् । किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात्? अन्येभ्यश्च प्रकृतिसावद्येभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षपणसावद्येभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते- मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः । (<पृष्ठ १२८>) पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू ॥ अभिधर्मदीप १६४ ॥ काममिथ्याचारो हि लोकेऽत्यर्थं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । न तथाब्रह्मचर्यम् । सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात् । आर्यश्चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितोऽपि लभते न त्वब्रह्मचर्यात् । मृषावादोऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः- "यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कौकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि" इति । मद्यपानेऽपि स्मृतिलोपो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षेपणसावद्यमपि सन्मद्यपानं कुशाग्रेणापि भगवता नाभ्यनुज्ञातम् ॥ इदमिदानीमुच्यताम् । य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रूमः- सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः । (<पृष्ठ १२९>) प्रातिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते ।ऽद्विविधेभ्योऽपिऽ सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च । त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ ॥ अभिधर्मदीप १६५ ॥ एतौ हि मौलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येतेऽतीतानागतेभ्योऽपि । चतुष्कोटिका चात्र भवति । "सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ" इति विस्तरः । प्रथमा कोटिः- प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । द्वितीयाअतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया- प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः । चतुर्थी- अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ॥ किं पुनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणैश्च ? अथास्ति कश्चिद्भेदः ? तत्र तावदवश्यं लभ्यते- सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः । सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः ॥ अभिधर्मदीप १६६ ॥ सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्चित् । अङ्गेभ्यस्तु विभाषा कश्चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततोऽन्यः । कर्मपथा हि संवराभ्याङ्गानि । कारणैरपि केनचित्पर्यायेण सर्वैः, केनचिदेकेन । (<पृष्ठ १३०>) कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्चिमेन पर्यायेण नियमोच्यते । अस्ति संवरस्थायो सर्वसत्त्वेषु संवृतो न सर्वाङ्गैर्न सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामणेरसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्च, न तु सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु सर्वाङ्गैः सर्वकारणैश्च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते । अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैर्य उपासकोपवासश्रामणेरसवरान्मृदुमध्याधिमात्रैश्चित्तैः समादत्ते । यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात् । पञ्चनियमान् कुर्वन् प्रातिमोक्षसंवरं लभते । सत्त्वाङ्गदेशकालसमयमियमाः- अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । अमुष्मादङ्गादित्यङ्गनियमः । अमुष्मिन्देश इति देशनियमः । मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः । कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । उक्तं यथा संवरो लभ्यते ॥ असंवरोऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्च न तु सर्वकारणैः, युगपन्मृद्वादिचित्ताभावात् । के पुनरसांवरिकाः ? औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुन्तिका (<पृष्ठ १३१>) मात्सिका मृगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धाश्वपाका वागुरिकाश्च । राजानो दण्डनेतारो व्यावहारिकाश्च नीतिचलिता असावरिकाः । असंवरे भवाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः ॥ उक्तमिदं येभ्यः असंवरो लभ्यते । कथं तु तल्लाभ इति नोक्तं तदा रभ्यते- क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा । अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः ॥ अभिधर्मदीप १६७ ॥ द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । क्रिययाभ्युपगमेन वा । क्रियया तत्कुलीनतत्कर्माभ्युपगमात् । अतत्कुलीनैर्वयमप्यनया जीविकया जीविष्याम इति । शेषाविज्ञप्तिलाभस्तु क्षेत्राङ्गविशेषादिति । क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । आदरेण वा समादत्ते । बुद्धमवन्दित्वा न भोक्ष्य इति । मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि । आदरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्या विज्ञप्तिरुत्पद्यते । उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः ॥ त्याग इदानीं वक्तव्यः । तत्र तावत्- कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः । पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः ॥ अभिधर्मदीप १६८ ॥ (<पृष्ठ १३२>) कामाप्तस्याष्टप्रकारसंवरस्य पञ्चभिः कारणैस्त्यागः । शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो निशात्ययेनाष्टमस्य । तान्येतान्यभिसमस्य पञ्च भवन्ति । किं पुनः कारणमेभिस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च । अन्ये पुनराहुः- चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्यागः ।"ऽतन्नऽ इति,ऽअयोगतःऽ । कः पुनरयोगः ? अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति । न ह्यवयवनाशादवयविविनाशो भवति । अवयविरूपश्च प्रातिमोक्षसंवरः । तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च । यथोक्तं भगवता- "दुःशीलो भवति पापधर्मा ।" (<पृष्ठ १३३>) सूत्रविरोधादयुक्तमिति चेदत्रोपदिशन्ति- सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु ॥ अभिधर्मदीप १६९ ॥ भगवतात्र "अभिक्षुर्भवति" इति शासनस्थित्यर्थं दुर्वृत्तविनेयावसादनार्थं चोक्तम् । यथा- "ईर्ष्यिको भवति मत्सरी शठो मायावी मिथ्यादृष्टिरित्येवमादिदोषयुक्तः कशम्बकजातीयः पापभिक्षुर्निर्वासयितव्यः ।" न च चित्ताविदूषणादभिक्षुत्वं भवति विनेयशासनार्थतत्त्वविद्भिरित्युक्तम् । तद्वदत्रापि द्रष्टव्यमिति । तस्मात्पूर्वोक्तलक्षण एव भिक्षुर्न यथाह कोशकारः । (<पृष्ठ १३४>) सद्धर्मान्तर्द्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः । अन्ये पुनर्ब्रूवते- सद्धर्मान्तर्धानेऽपि संवरत्यागो भवति । तत्तु नैवम् । यस्मादपूर्वस्तदा नोत्पद्यते । उत्पन्नस्तु यथोक्तै रेव कारणैर्विनश्यति ॥ अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते- भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् ॥ अभिधर्मदीप १७० ॥ सर्वमेव खलु ध्यानाप्तं कुशलं द्व्याभ्यां कारणाभ्यां त्यज्यते । उपपत्तित्तो वा भूमिसंचारादर्ध्वं वाधो वा । परिहाणितो वा । समापत्तेर्निकायसभागत्यागाच्चेति ॥ तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः । यथैव रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते तथैवारूप्याप्तम् । आर्यं तु कुशलं त्रिभिः कारणस्त्यज्यते । फलप्राप्तितः पूर्वको मार्गस्त्यज्यते । (<पृष्ठ १३५>) अक्षोत्तापनेन मृद्विन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । फलं फलविशिष्टो वा । एवं तावत्संवरस्त्यज्यते । असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः ॥ अभिधर्मदीप १७१ ॥ त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । यदि संवरं समापद्यते ध्यानसंवरं वा प्रतिलभते हेतुप्रत्ययबलेनसमाधिलाभात्तेनासंवरस्त्याज्यते । प्रतिद्वन्द्वबलीयस्त्वात् । मरणेन चाश्रयत्यागात् । द्विव्यञ्जनोत्पादेन चाश्रयविकोपनात् । शस्त्रजलत्यागेऽप्यकरणाशयतः संवरमन्तरेणासंवरच्छेदो नास्ति । निदानपरिवर्जनेन प्रवृद्धरोगानिवृत्तिवत् ॥ अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ? तदुच्यते- चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा । येन खल्वसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता तस्य विच्छेदात्सापि विच्छिद्यते, कुम्भकारचक्रगतिवत् । समादानत्यागादपि विच्छिद्यते । क्रियाविच्छेदादपि विच्छिद्यते । चैत्यविहारक्षेत्रादेरप्यर्थस्य विच्छेदाद्विच्छिद्यते । आयुषोऽपि कुशलमूलानामपि विच्छेदाद्विच्छिद्यते । कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः ॥ अभिधर्मदीप १७२ ॥ कामावचरं पुनः कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां त्यज्यते । कुशलमूलसमुच्छेदात्, रूपारूप्यधातूपपत्तितश्च । प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते । (<पृष्ठ १३६>) क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गः, तेनासौ सपरिवारः परित्यज्यते । नान्यथा ॥ अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ? तदपदिश्यते- सर्वे कामेषु रूपे द्वावेकोऽरूपिषु लाभतः ॥ अभिधर्मदीप १७३ ॥ कामेषु खलु सर्वशण्ढपण्डकादीनि हित्वा कुरूंश्च हित्वा । देवानामपि संवरः । इत्यतो गतिद्वये संवरासंवरौ विद्येते । नान्यत्रेति ॥ कर्माधिकारादिदानीं सू त्रोक्तोद्दिष्टानां कर्मणां निर्देशं करिष्यामः । उक्तं हि सूत्रे- "त्रीणि कर्माणि कुशलमकुशलमव्याकृतं च ।" तेषां लक्षणमिदमुच्यते- यदिष्टफलदं कर्म कुशलं तदुदाहृतम् । विपर्ययेणाकुशलमव्याकृतमतोऽन्यथा ॥ अभिधर्मदीप १७४ ॥ यत्खल्विष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात्, तत्कालमत्यन्तं वा, तत्कुशलम् । निरुक्तिरपीयम् । निरवद्यदेवमनुष्यस्त्रीरूपनिर्वर्तनाच्छिक्षितचित्रकररूपनिर्वर्तनवत् । कुशलमिव कुशलमौपमिकोऽयं शब्दनिवेशः । तद्यथा शिक्षितः पुरुषः कुशानक्षतहस्तो लुनाति स कुशल इति निरुच्यते, तद्वदन्यामपि क्रियामविकृतां संपादयन् कुशल (<पृष्ठ १३७>) इत्युच्यते ।ऽविपर्ययेणाकुशलम्ऽ उष्ट्रोलूकादिवत् ।ऽअव्याकृतमतोऽन्यथाऽ उभयविपाकानिर्वर्तनात् ॥ अन्यान्यपि त्रीणि कर्माण्युक्तानि । पुण्यमपुण्यमानेज्यं च । तत्र तावत् कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् । ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात् ॥ अभिधर्मदीप १७५ ॥ कामावचरं हि कुशलं कर्म पुण्यमकुशलमपुण्यमित्युच्यते । ऊर्ध्वभूमिकमानेज्यम् ।ऽ तदूर्ध्वं धातुद्वये शुभं कर्मानेज्यमित्युच्यते । कस्मात्पुनरेतदानेज्यमित्युक्तम् ?ऽविपाकं प्रत्यनेजनात् ।ऽ कामावचरं हि कर्म विपाकं (<पृष्ठ १३८>) प्रति कम्पते लवणोपमसूत्रण्यायेन । कथम् ? अव्यवस्थानात् । अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । तदन्यदेवनैकायिकं चान्यत्र देवनिकाये । यदेव हि प्रमाणबलवर्णसुखभोगादिसंवर्तनीयं कर्म देवेषु विपच्येत तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते । कर्मजातिचोदनेयं भगवतो विवक्षिता न द्रव्यचोदनेति । अत्राह । ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता- "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुः" इत्येवमादि ? समाध्यपक्षालांस्तेषां सन्धायैवमुक्तम् । आनेज्यान्यपि तु तान्युक्तान्यानेज्यसूत्रे, आनेज्यसंप्रेयगामिनीं प्रतिपदमारभ्य ॥ (<पृष्ठ १३९>) पुनरन्यानि त्रीणि कर्माण्युक्तानि- "सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च ।" तत्र सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् । उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् ॥ अभिधर्मदीप १७६ ॥ तत्र शुभं कर्म यावत्तृतीये ध्याने सुखवेद्यमित्युच्यते । एतावती खलु भूमिः सुखाया वेदनायाः । तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते । अकुशलं तु कर्म दुःखवेदनीयमित्युच्यते । किं पुनर्वेदनैव विपाकः ? नेत्याह । प्राधानिकोऽयं र्निर्देशः । सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम् । दार्ष्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म । आभिधार्मिकानां तु पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्च विपाक इति । कथं पुनरवेदनास्वभावं कर्म सुखवेदनीयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम् । सुखास्या वेदनीयो विपाक इति वा । किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते । किं तर्हि? अधोऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः । युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः ॥ अभिधर्मदीप १७७ ॥ (<पृष्ठ १४०>) अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधोऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने । परिनिर्वृते उपेक्षायां च स्थितः परिनिर्वाति । किञ्च,ऽयुगपत्त्रिविपाकेष्टेः ।ऽ उक्तं हि- "स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ताः" इति । अतोऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म । किञ्च,ऽध्यानान्तरविपाकतः ।ऽ नहि ध्यानान्तरे उपेक्षामन्तरेण विपाकोऽन्या वेदना विपच्यते । तत्र सुखदुःखयोरभावात् ॥ पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः । (<पृष्ठ १४१>) तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च । तत्र नियतवेदनीयं त्रिविधम् । दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं च- इत्येतत्त्रिविधं कर्म नियतवेदनीयम् । चतुर्थमनियतवेदनीयम् । तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते । उपपद्यवेदनीयं यद्द्वितीये जन्मनि । अपरपर्यायवेदनीयं तस्मात्परेण । अतः पुनश्चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते? जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते ॥ अभिधर्मदीप १७८ ॥ न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ॥ अथ कस्मिन्धातौ कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ? चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते । न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते ॥ अभिधर्मदीप १७९ ॥ सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च । नरकान्वर्जयित्वा । नरकेषु हि दृष्टधर्मवेदनीयं कुशलं नाक्षिप्यते । तत्रेष्टविपाकाभावादन्यत्त्रिविधमाक्षिप्यते । किञ्च, (<पृष्ठ १४२>) नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः । स्थिरो नापरकृच्चार्यश्चलोऽपि भवमूलयोः ॥ अभिधर्मदीप १८० ॥ यतः खलु भूमेर्विरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेद्यं कर्म नाक्षिपति । त्रिविधमन्यत्करोति । आर्यपुद्गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति । न ह्यसौ भव्यः पुनरधरिमं भूमिमायातुम् । अनियतं तु कुर्याद्दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च । परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्तुम् । किं कारणम् ? फलाद्ध्यसौ परिहीणो भवति । न चास्ति फलपरिहीणस्य कालक्रियेति । अथ किमन्तराभविकः कर्माक्षिपति नाक्षिपति ? आक्षिपतीत्याह । (<पृष्ठ १४३>) तत्र कामावचरोऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति । पञ्च गर्भावस्थाः कललार्बुदघनपेशीप्रशाखावस्थाः । पञ्च जातावस्थाः । बाल्यकौमारयुवमध्यमस्थविरावस्थाः । ता एता नियतानियतभेदेन विंशतिराक्षिप्यन्ते, एकनिकायत्वात् । अत एवान्तराभववेदनीयं कर्म नोक्तम् । उपपद्यवेदनीयेनैव तस्याक्षेपात् ॥ कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ? यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते । सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते ॥ अभिधर्मदीप १८१ ॥ यदि कर्म रौद्रेण तीव्रक्लेशानुगतेन चित्तेन कृतं भवति, यच्च घनश्रद्धासलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्यभीक्ष्णं निषेव्यते, यच्च किञ्चिद्गुणवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते ॥ अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते- क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते । निरोधव्युत्थितादौ च सद्यः कालफलक्रिया ॥ अभिधर्मदीप १८२ ॥ तत्र क्षेत्रविशेषाद्यथा द(?) क्षजातकादिषु । आशयविशेषाद्यथा बकलात(?) स्योक्षनिर्मोचनादिषु । (<पृष्ठ १४४>) कीदृशे पुनस्तत्क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो ।ऽनिरोधव्युत्थितादौ च सद्यः कालफलक्रिया ।ऽ पञ्चसु च पुद्गलेषु कृतं निरोधसमापत्त्य रणामैत्रीदर्शनमार्गादर्हत्फलाद्व्युत्थितेषु कारापकारा दृष्टधर्मवेदनीयफला भवन्ति । निरोधसमापत्तेः खलु व्युत्थितः परां शान्तिं लभते । निर्वाणसदृशधर्मानुभवनात् । अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते । एवं मैत्रीव्युत्थितस्य । स्त्रौतआपन्नस्यापि निर्मलज्ञानलाभात् । अर्हतोऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते ॥ नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दृष्टे धर्मे विपच्यत इत्यतः तद्भूम्यपुनरुत्पत्तेः दृष्टधर्मवेदनीयं संगृहीतं भवति । कीदृशं पुनरेतत्कर्म ? विपाकनियतं च यत् । तच्चैतत्कर्म विपाकनियतं द्रष्टव्यम् । तच्च दृष्टफलं विद्यात् दृष्टे धर्मे खलु तस्य विपाको विपच्यते । कतरत्पुनरेतत्? कर्मादः परिपूरकम् ॥ अभिधर्मदीप १८३ ॥ नाक्षेपकमिति ॥ विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते । स्यात्कर्मणश्चैतसिक्येव वेदना विपाको न कायिकी ? स्यात्कायिक्येव न चैतसिकी स्यादित्याह- (<पृष्ठ १४५>) कुशलस्याविचारस्य चैतसिक्येव वेदना । विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः ॥ अभिधर्मदीप १८४ ॥ कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम् । तस्याविचारस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात् । कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी ? चैतसिकं हि दौर्मनस्यं न विपाकः । यत्तर्हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः । किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः । ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते ॥ पुनश्चतुर्विधं कर्मोक्तम्- "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्ततेऽ इति । तत्र (<पृष्ठ १४६>) सपाकमशुभं कृष्णं सपाकं रूपजं सितम् । शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत् ॥ अभिधर्मदीप १८५ ॥ अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात् । कृष्णविपाकं चामनोज्ञविपाकत्वात् । रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यवकीर्णत्वात् । शुक्लविपाकं च मनोज्ञविपाकत्वात् । आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधोऽस्ति विपाकः- अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रैवोक्तमिति । "कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात् ।" सन्तानत एतद्व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्लं च, अन्योन्यविरोधात् । ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकीर्यते । कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति । अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताभावात् । आभिप्रायिकोऽप्येष शुक्लशब्दः । उक्तं तु भगवता महत्यां शून्यतायामशैक्षधर्मानारभ्य- (<पृष्ठ १४७>) "इमे ते आनन्द, धर्मा एकान्तशुक्ला एकान्तानवद्याः" इति । शास्त्रे च- "शुक्लधर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्च ।" इति । अविपाकं धात्वपतितत्वात्प्रवृत्तिविरोधाच्च । किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ? नेत्युच्यते । किं तर्हि ? चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् । आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत् ॥ अभिधर्मदीप १८६ ॥ नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी । अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु ॥ अभिधर्मदीप १८७ ॥ तत्र दर्शनमार्गे तावच्चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना द्वादशप्रकारा सा कृष्णस्य कर्मणः प्रहाणकारी । कामवैराग्यानन्तर्यमार्गेणावसेया चेतना सा कृष्णशुक्लकर्मक्षयकारी । ध्याने ध्याने त्वानन्तर्यमार्गे पश्चिमे या चेतना चतुर्विधा सा शुक्लकर्मापहन्त्री । किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ? न हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । किं तर्हि ? तदालम्बनक्लेशप्रहाणात् । अतो यावदेकोऽपि तदालम्बनः क्लेशप्रकारो (<पृष्ठ १४८>)ऽस्ति तावदस्य प्रहाणं नोपलभ्यते । तच्चैतदसत् । प्रहीणं हि तत्, न तु विहीनम् । अतः समुदाचरतीति । गतमेतत् ॥ सूत्र उक्तम्- "त्रीणि दुश्चरितानि । कायदुश्चरितं वाङ्मनोदुश्चरितम् । एवं सुचरितानि" इति । तेषां कः स्वभावः ? तत्र तावत्- कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् । सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः । अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् ॥ अभिधर्मदीप १८८ ॥ सर्वमेवाकुशलं कायकर्म कायदुश्चरितम् । एवं वाङ्मनोदुश्चरितम् । अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्चरितस्वभावानि । "अभिध्यादय एव कर्मस्वभावानि" इति स्थितिभागीयाः । तच्च न, कर्मक्लेशैकत्वदोषात् । स्थितिभागीया नाम शाक्याः स्व(श्व?) लांगूलिकद्वितीयनामानः । ते खल्वभिध्यादीनि मनस्कर्मस्वभावानीच्छन्ति । तेषां (<पृष्ठ १४९>) कर्मक्लेशैकत्वसङ्करः प्राप्नोति । कोशकारः- "कोऽत्र दोषः" ? यदि कश्चित्क्लेशः कर्मापि स्याद्वायसः सारसः स्यात् । कर्मक्लेशानां चात्यन्तस्वभावप्रभावक्रियाफलभेदभिन्नानामेकत्वपरिकल्पैः सांख्यीयादिदर्शनमभ्युपगतं स्यात् । ऽअपिऽ शब्दात्पुनरत्र सूत्रोक्तास्त्रयो वङ्कास्त्रयो दोषास्त्रयः कषाया आकृष्यन्ते । तेषां पुनरिदं लक्षणं यथाक्रमेण । शाठ्यजं कायकर्म कायवङ्क (<पृष्ठ १५०>) इत्युच्यते । कुटिलान्वयत्वात् । एवं शाठ्यजं वाङ्मनस्कर्म वाङ्मनोवङ्क इत्युच्यते । द्वेषजाः पुनस्त एव त्रयो दोषा इत्याख्यायन्ते, चित्तप्रदोषान्वयत्वात् । रागजं पुनः कायकर्म कायकषाय इत्युक्तं रञ्जनात्मकत्वात् । एवं वाङ्मनःकषायौ द्रष्टव्यौ । तानि पुनः कुशलानि कायवाङ्मनस्कर्माणि त्रीणि सुचरितानि बोद्धव्यानि । एतान्येव त्रीणि शौचेयान्युक्तानि । अशैक्षसन्ताने त्रीणि मौनेयान्युच्यन्ते । तत्र कायसुचरितं कायमौनेयं वाक्सुचरितं वाङ्मौनेयं मन एव तु मिथ्यासंकल्पोपरमान्मुनिरित्याख्यायते । तदुपरमाद्धि कायवाग्जल्पोपरमो भवति । मुनेरिदं मौनेयमिति निरुक्तिः । (<पृष्ठ १५१>) कस्मात्पुनरर्हत एव मौनेयानि ? तस्य परमार्थमुनित्वात् । स खलु सर्वक्लेशजल्पोपरमान्मुनिरित्युच्यते । एषा पुनर्मौनेयशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचेयर्निर्दिष्यते ॥ शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् । द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः ॥ अभिधर्मदीप १८९ ॥ द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौलं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवर्ज्याः । तत्र कायसुचरितस्य प्रदेशः पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः । वाक्सुचरितस्य प्रियवचनादिकः । मनःसुचरितस्य शुभा चेतना । कायदुश्चरितस्यापि परेषां जीवितभोगदारापहारप्रयोगपृष्ठाख्यः । वाग्दुश्चरितस्याप्यप्रियवचनाद्याख्यः । मनोदुश्चरितस्याप्यकुशलं मनस्कर्मै..................स्तेषां नात्यौदारिकत्वात् । यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यो मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात् । यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः । एवं यथासंभवमन्येषां द्रष्टव्यमिति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः । (<पृष्ठ १५२>) चतुर्थाध्याये तृतीयपादः । इदमिदानीं वक्तव्यम् । ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ? तत्राकुशलानां तावत्- कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्तेऽपि षट्कृताः । तत्र प्राणातिपातादत्तादानमृषावादपैशून्यपारुष्यसंभिन्नप्रलापाः । एते नावश्यं विज्ञप्तिस्वभावाः । परेण कारयतो मौलीविज्ञप्त्यभावात् । काममिथ्याचारस्तु नित्यं द्व्यात्मकः, तस्य परेणाशक्यत्वात् । तेऽपिऽषट्कृताःऽ यदा स्वयमेव प्राणातिपातादीन् षट्कर्मपथान् करोति तदा द्व्यात्मानो भवन्ति । विज्ञप्त्यविज्ञप्तिस्वभावत्वात् । कुशलानां पुनः शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः ॥ अभिधर्मदीप १९० ॥ सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति । विज्ञप्त्यधीनत्वात्समाहितशीलस्य । ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव । समाहितस्य विज्ञप्त्यभावात् । या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः । (<पृष्ठ १५३>) सामन्तकः खलु यदा तीव्रेण पर्यवस्थानेन प्रयोगमारभते, प्रसादेन वा घनरसेन तदा द्विस्वभावा । यदा मृदुना तदा विज्ञप्तिरेव । विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः । यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपीति । तीव्रेण तु प्रहारेण जीविताद्व्यपरोपयति । तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौलः कर्मपथः । द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते । प्रयोगतः फलपरिपूरितश्च । तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठीभवन्ति । यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति । यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । एवमन्येष्वपि यथासंभवं योज्यम् । अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः । सूत्रे भगवतोक्तम्- "प्राणातिपातो भिक्षवस्त्रिविधः । लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः" इति । तत्रैषां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद्द्वेषेण, केषाञ्चिन्मोहेन । सर्वेषामपि प्रयोगस्तु त्रिमूलोत्थः (<पृष्ठ १५४>) प्रयोगस्तेषामकुशलमूलत्रयाज्जातः । तत्र लोभजः प्राणातिपातस्तच्छरीरावयवार्थं मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च । द्वेषजो यथा वैरनिर्यातनार्थम् । मोहजो याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । पारसीकादीनां च धर्मबुद्ध्या मातरं पितरमभिघ्नताम् । लोभजमदत्तादानं यस्तेनार्थी तद्धरति । द्वेषजं वैरनिर्यातनार्थम् । मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद्दृष्टनिग्रहार्थम् । यथा च दुष्टब्राह्मणा आहुः- "सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृषलाः परिभुञ्जन्ते । तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु कोष्ठं वस्ते स्वं ददाति" इति । लोभजः काममिथ्याचारः परदारादिषु तत्संरागादब्रह्मचर्यम् । द्वेषजो वैरनिर्यातनार्थम् । मोहजो यथा पारसीकानां मात्रादिगमनम् । गोसवे च यज्ञे "उपहा उअदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपसगोत्रामिति ।" मृषावादादयो लोभजा द्वेषजाश्च यथा पूर्वमुक्तम् । मोहजो मृषावादो यथाह- "न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । (<पृष्ठ १५५>) प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥" इति । पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्च वेदाद्यसच्छास्त्रप्रलापः । अभिध्याद्यास्त्रिमूलजाः ॥ अभिधर्मदीप १९१ ॥ अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात्त्रिमूलजाः । उक्ताः अकुशलाः कर्मपथाः । कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः । कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम् । तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात् । केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते- द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् ॥ अभिधर्मदीप १९२ ॥ प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति । परित्यागपरुषचित्तसंमुखीभावात् ॥ स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः । (<पृष्ठ १५६>) अदत्तादानपरस्त्रीगमनाभिध्यानां लोभेन निष्ठा । मिथ्यादृशस्तु मोहेन मिथ्यादृष्टेः खलु मोहेन समाप्तिर्भवति । अधिमात्रमूढाभिहितां निष्ठापयति । तदन्येषां त्रिभिर्मतम् ॥ अभिधर्मदीप १९३ ॥ के पुनरन्ये ? मृषावादपैशुन्यसंभिन्नप्रलापाः । तेषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा ॥ अथैषां चतुर्णां काण्डानां किमधिष्ठानम् ? तदुच्यते- चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् । प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च ॥ अभिधर्मदीप १९४ ॥ तत्र सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानाः परस्त्रीगमनादयः । नामरूपाधिष्ठाना मिथ्यादृष्टिः । नामकायाधिष्ठाना मृषावादादयः ॥ कथं पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कथं यावन्मिथ्यादृष्टिरिति ? लक्षणं कर्मपथानां वक्तव्यम् । तदारभ्यते- प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् । यदि खलु हनिष्यामि हन्म्येनमिति संचिन्त्याभ्रान्तचित्तः परं जीविताद्व्यपरोपयति, (<पृष्ठ १५७>) एवं प्राणातिपातो भवति । प्राणो वा वायुः कायचित्ताश्रितो वर्तते । तमतिपातयतीति प्राणातिपातः । न, अनुपपत्तेः । विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चाभ्युपगम्यन्ते । तेषामित्थंभूतानां स्थितिशक्तिक्रियाभावे सत्यनागतानां च तुल्यातुल्यजातीयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ? अत्र सौत्रान्तिकाः परिहारमाहुः- "न । प्रदीपनिर्वापनघण्टशब्दनिरोधवत्तत्सिद्धेः ।" न, समानत्वात् । अयं त्वत्र परिहारः- हन्तुर्हेतुसामर्थ्योपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधानविधानविघ्नकरणात्प्राणातिपातोपपत्तिः । कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य (<पृष्ठ १५८>) पुद्गलस्य योऽसावेवं नामैवं गोत्र इति विस्तरः । अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाग्निस्पर्शाद्दाह इति नग्नाटाः । तेषां परदारदर्शनस्पर्शनेऽप्येष प्रसंगः । तुष्टरुष्टनग्नाटवाह्लीकनिर्ग्रन्थशिरोलुञ्चने च । (<पृष्ठ १५९>) बुद्धिपूर्वात्प्राणिवधाद्धर्मोऽपि भवतीति याज्ञिकाः । कथं विषभक्षणवत् । तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति । किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति । न । गलाम्रेडनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शनात् । पिष्टमयच्छागा हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च । किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शनात् । तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिद्दुर्गतारिष्टेषु न जीवयति । अमन्त्रपूर्वकमपि किञ्चीज्जीवयति किञ्चिन्न जीवयति । भुक्तविषस्यापेक्षिकत्वात् । किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्युपघातेऽपि पापप्रणाशनशक्त्यदर्शनात् । किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात् । जुहोत्यादिक्रियाव्यङ्ग्यो (<पृष्ठ १६०>) धर्मः इति चेत् । न । तद्रूपासिद्धत्वात्, अभिव्यक्त्यनुपपत्तेश्च । क्रियामात्रमपूर्वमिति चेत् । न । क्रियाया नित्यत्वानुपपत्तेर्निरुक्त्यनुपपत्तेश्च ॥ अत्यक्तान्यधनादानमदत्तादानमुच्यते ॥ अभिधर्मदीप १९५ ॥ अभ्रान्त्येति वर्तते । यदि बलचौर्यबुद्ध्या परद्रव्यं स्वीकरोति ॥ परस्त्रीगमनं काममिथ्याचारो विकल्पवान् । अगम्यगमनं खल्वपि काममिथ्याचारः । स च बहुप्रकारविकल्पो भवति । अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतां वा स्वामप्यनङ्गे गच्छत्यदेशे च । नियमस्थां वा । अभ्रान्त्येत्युक्तम् । अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः ॥ अभिधर्मदीप १९६ ॥ वक्तृश्रोतृबुद्ध्यपेक्षया खलु मृषावादो भवति । यदि वक्तार्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्ध्यान्यथा ब्रूते । श्रोता च तथैवावगच्छति । तदास्य मृषावादः कमपथो भवति ॥ (<पृष्ठ १६१>) ये खल्विमे माहकीमातृसूत्रा दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः- "अदृष्टे दृष्टवादितानार्यो व्यवहारः । अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादितानार्यो व्यवहारः । दृष्टश्रुतमतविज्ञाते चादृष्टादिवादितानार्यो व्यवहारः । विपर्ययेण त्वष्टावेवार्या व्यवहाराः ।" तेषां पुनरिदं लक्षणं व्याख्यायते- दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते । दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम् ॥ अभिधर्मदीप १९७ ॥ (<पृष्ठ १६२>) यत्खलु चक्षुषालोचितं चक्षुर्विज्ञानमनोविज्ञानाभ्यां चानुभूतं तद्दृष्टमित्युच्यते । यच्छ्रोत्रेण श्रोत्रमनोविज्ञानाभ्यां चानुभूतं तच्छ्रुतम् । यत्त्रिभिर्घ्राणजिह्वाकायैस्तद्विज्ञानमनोविज्ञानैश्चानुभूतं तन्मतमित्युच्यते । तेषां प्राप्यविषयग्राहित्वात्, कबडिंकाराहारविषयत्वाच्च । तत्रेष्टपर्यायवाची मतशब्दः । यत्पुनर्मनोविज्ञानेनानुभूतं तद्विज्ञातं तदध्यवसाये निश्चयपरिसमाप्तेः । गतमेतत् । प्रकृतमेवानुवर्तताम् ॥ यः कायेनान्यथात्वं प्रापयेत्, स्यान्मृषावादः ? स्यात् । तदपदिश्यते- स्यान्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । स्यात्कायेन पराक्रमेत, स्यान्न कायेन वाचा पराक्रमेत, उभयावद्येन च स्पृश्येत । स्यादृषीणां मनःप्रदोषेण प्रोषधनिदर्शनं चात्र इति । (<पृष्ठ १६३>) कथं पुनर्विज्ञप्त्या विना तत्राविज्ञप्तिः कामावचरी कर्मपथो योक्ष्यते । सति हि चित्तपरिस्पन्दे महाभूततज्जकायपरिस्पन्दोऽवश्यं भावीति कर्तव्योऽत्र यत्नः । उक्तो मृषावादः ॥ पैशुन्यं भेदकृद्वाक्यं यत्खलु क्लिष्टचित्तस्य परभेदाय वचनमभ्रान्त्या तत्पैशुन्यमित्युच्यते । पारुष्यं तु यदप्रियम् । अभ्रान्त्या क्लिष्टचित्तस्य यद्वचनं तत्पारूष्यमिति । (<पृष्ठ १६४>) क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत् ॥ अभिधर्मदीप १९८ ॥ क्लिष्टं खलु सर्वं वचनं संभिन्नप्रलापित्वम् । यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्तभिधाने त्वतलौ । कश्चासौ गुणः ? संभिन्नप्रलाप एव । स यस्यास्ति स संभिन्नप्रलापी । तद्भावः संभिन्नप्रलापित्वम् । अन्ये पुनर्ब्रुवते । यदेतन्मृषावादादित्रिबिधं वचनं ततो यदन्यत्क्लिष्टं लपनगीतनाट्यतीर्थशास्त्रादि तत्सर्वं सभिन्नप्रलापः ॥ परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः । विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका ॥ अभिधर्मदीप १९९ ॥ अभिध्या तावद्द्विषतः स्पृहा । अहो बत यत्परेषां तन्मम स्यादित्येषा विषयप्रार्थना विषमलोभाख्या अभिध्येत्युच्यते । व्यापादः खल्वपि सत्त्वपरित्यागबुध्या प्रतिघः । मिथ्यादृष्टिरपि हेतुं वा फलं वा क्रियां वा सद्वा वस्तु नाशयतः या दृष्टिर्मतिरित्येवमादि सा मिथ्यादृष्टिरित्युच्यते । (<पृष्ठ १६५>) तया पुनर्मिथ्यादृष्ट्या प्रकर्षप्राप्तया नवप्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । भावनाहेयक्लेशप्रहाणवत् । यत्तर्हि शास्त्र उक्तम्- "कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति ? कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?" नैष दोषः । अकुशलमूलाध्याहृतत्वात् । मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपचर्यते । तद्यथाग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति । (<पृष्ठ १६६>) कामावचराण्युपपत्तिलम्भिकान्येव च समुच्छिद्यन्ते, प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् । एवं ह्यूक्तं भगवता- "समन्वागतोऽयं पुरुषः कुशलैरपि धर्मैरकुशलैरपि धर्मैः" इति विस्तरः । तत्र समन्वागतोऽयं पुद्गलः कुशलैरपि धर्मैरविशेषेण द्विविधैः- प्रायोगिकैरुपपत्तिलाभिकैश्च । तेऽस्य पुद्गलस्य कुशला धर्मा अन्तर्धास्यन्ति, प्रायोगिकाः अनुपूर्वसमुच्छेदे, पूर्वं तद्विहानेः । अस्ति चास्य कुशलमूलमनुसहगतमनुपच्छिन्नमुपपत्तिलाभिकम् । तदप्यपरेण समयेन (<पृष्ठ १६७>) सर्वेण सर्वं समुच्छेत्स्यते । यस्य समुच्छेदात्समुच्छिन्नकुशलमूल इति संख्यां गमिष्यतीति । अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः । (<पृष्ठ १६८>) "सूक्ष्मं कुशलधर्मबीजं तस्मिन्नकुशले चेतस्यवस्थितं यतः पुनः प्रत्ययसामग्रीसन्निधाने सति कुशलं चित्तमुत्पद्यते" इति कोशकारः । (<पृष्ठ १६९>) युक्त्यागमविरोधात्तन्नेति दीपकारः । तत्र युक्तिविरोधस्तावद्विजातीयाद्धेतोर्विजातीय फलानुत्पत्तिदर्शनाद्यवबीजाच्छालिफलवद्योनिशो मनसिकारपरतः सद्घोषाभ्यां मिथ्यादृष्टिवच्च । (<पृष्ठ १७०>) चक्षूरूपाभ्यां विज्ञानवदिति चेत् । न । सभागहेतौ सति चक्षूरूपयोर्निमित्तकारणमात्रत्वात्, दध्युत्पत्तावातञ्चनवत् । किञ्च, विरुद्धानामन्यतरोपपत्तेश्च । न हि विरुद्धानां सुखदुःखालोकतमःप्रभृतीनां चैकत्र संभवदवस्थानं दृष्टम् । नापि परस्परं बीजफलाभिसंबन्धः । किञ्च, चित्तबीजैकत्वाभ्युपगमाच्च । अकुशलमेव हि चित्तं भवतां बीजमिष्टम् । तस्य कुशले चित्तक्षणे विरुद्धक्रिये च चित्तान्तरे बीजलेशानुपपत्तिः । (<पृष्ठ १७१>) उक्तोत्तरत्वाच्च । विस्तरेण ह्यत्रोत्तरमुक्तम् । तत्स्मर्यतामिति । आगमविरोधोऽपि, "सर्वं सर्वेण च्छेत्स्य ते" इति ...........च्यमानं बीजमवस्थितं गंस्यते । इति । व्याख्याताः सलक्षणाः कर्मपथाः ॥ कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः । तत्र सप्त कर्म च कर्मणश्च पन्था इति कर्मपथाः, त्रयस्त्वभिध्यादयः कर्मणः पन्थानो न कर्म । चेतना हि तत्संप्रयोगिणी भवति । (<पृष्ठ १७२>) संप्रयुक्तातद्वशेनगच्छत्यभिसंस्करोतीत्यर्थः । सा तु कर्मैव न कर्मपथः । न ह्यसौ त्रयाणां वशेन वर्तते । इदमुच्यते- चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते । कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते- युगपद्यावदष्टाभिरशुभैश्चेतनैः सह ॥ अभिधर्मदीप २०० ॥ एकेन तावत्सह वर्तते । विनान्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने । (<पृष्ठ १७३>) द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवद्ये । अभिध्याविष्टस्य चादत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा । त्रिभिः सह । व्यापन्नचित्तस्य परकीयप्राणिमारणापहरणे युगपत् । अभिध्याविष्टस्य तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव । चतुर्भिः सह वर्तते । भेदाभिप्रायस्य नन्दनवचने परुषवचने वा । तत्र हि मानस एको भवति वाचिकास्त्रयः । अभिध्यादिगतस्य वा तत्प्रयोगेऽन्यत्रयनिष्ठागमने । एवं पञ्चषट्सप्तभिर्योज्यम् । अष्टाभिः सह वर्तते । षट्सु प्रयोगं कृत्वा परे संप्रेषणेन स्वयं काममिथ्याचारं कुर्वतः समनिष्ठागमने । एवं तावदकुशलः ॥ शुभैस्तु दशभिर्यावत्सार्धं नैकाष्टपञ्चभिः । शुभैः खलु कर्मपथैर्यावद्दशभिः सह वर्तत इत्युत्सृष्टिः । तदपवादोयम्-ऽनैकाष्टपञ्चभिःऽ । न खल्वेकेन पञ्चभिरष्टाभिर्वा सह वर्तते । (<पृष्ठ १७४>) तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञानेषु स्थितस्यारूप्यसमापत्तिसंगृहीते च क्षयानुत्पादज्ञानसंप्रयुक्ताविज्ञानं तत्संप्रयुक्ता च प्रज्ञानदृष्टिरिति । त्रिभिः सह वर्तते । सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । यत्र संवरो नास्ति । चतुर्भिरकुशलाव्याकृतचित्तस्योपासकस्य श्रामणेरसंवरसमादाने । षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने । सप्तभिः कुशले मनोविज्ञाने तत्समादान एव । अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने । (<पृष्ठ १७५>) नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने, क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते । दशभिस्ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । सर्वा च ध्यानानास्रवसंवरसमावर्तिनी चेतनान्यत्र क्षयानुत्पादज्ञानाभ्याम् । संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यैकाङ्गविरतिसमादाने । पञ्चाष्टाभिरपि स्यात् । कुशलमनोविज्ञानस्य द्विपञ्चाङ्गसमादाने युगपत् । कस्यां पुनर्गतौ कति कुशलाश्चाकुशलाश्च कर्मपथाः संमुखीभावतः समन्वागतो वा सन्तीति ? विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा ॥ अभिधर्मदीप २०१ ॥ एते त्रयः संभिन्नप्रलापपारूष्यव्यापादा नारके संमुखीभाव तः समन्वागमतश्च विद्यन्ते । तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च । केचित्खलु ब्रुवते- अभिध्या मिथ्यादृष्टिश्चापि द्वाभ्यां प्रकाराभ्यां विद्येते । अन्ये पुनराहुः- समन्वागमत एवाभिध्यामिथ्यादृष्टी विद्येते । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च । तच्चैतदकारणम् । तत्र तावत्तृष्णाविद्याधिमात्रतमत्वादिति पूर्वमपाक्षिकः । (<पृष्ठ १७६>) अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा ॥ अभिधर्मदीप २०२ ॥ कुरौ खल्वेवमेव त्रयोऽभिध्याव्यापादमिथ्यादृष्टयः । अन्ये पुनराहुः- समान्वागमत एव न संमुखीभावतः अममापरिग्रहत्वात्, स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥ अशुभास्तु दशान्यत्र नरकोत्तरकुरुभ्यां कामधातौ द्वाभ्यां प्रकाराभ्यां दशाशुभा विद्यन्ते । सर्वत्र कुशलास्त्रयः । शुभास्तुऽत्रयःऽ । त्रयोऽनभिध्याव्यापादसम्यग्दृष्टयः सर्वत्र त्रैधातुके पञ्चस्वपि गतिषु द्वाभ्यां प्रकाराभ्यां सन्तीति । आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः ॥ अभिधर्मदीप २०३ ॥ आरूप्येषु खल्वार्याणामेवातीतानागतेनानास्रवसंवरेण समन्वागमोऽस्त्यसंज्ञिनां च । ध्यानसंवरेण यावद्भूभ्याश्रयं ह्यनास्रवशीलमार्य उत्पादितनिरोधितं कृत्वा आरूप्येषूपपन्नो भवति तेनातीतेन समन्वागतो भवति । षड्भूभ्याश्रयेणानागतेनापि, न तु संमुखीभावतः, आरूप्याणां चतुस्कन्धात्मकत्वादसंज्ञिसत्त्वानां चाचित्तकत्वात् । भूतचित्तप्रतिबद्धो हि तत्संवरसंमुखीभावः ॥ (<पृष्ठ १७७>) कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा । कुरून् हित्वा नरकांश्च । अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते । संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु । संवरसंगृहीता एव रूपधातावन्यत्रोभयथा । ते खल्वेते द्विविधा कर्मपथाः सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश ॥ अभिधर्मदीप २०४ ॥ तत्राकुशलैः सर्वैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते तदेषां विपाकफलम् । सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुष्को भवति । अदत्तादानेन भोगव्यसनी । काममिथ्याचारेण सपत्नदारः । मृषावादेनाभ्याख्यानबहुलः । पैशून्येनादृढमित्रः । पारुष्येणामनोज्ञशब्दश्रावी । संभिन्नप्रलापेनानादेयवाक्यः । अभिध्यया तीव्ररागः । व्यापादेन तीव्रद्वेषः । मिथ्यादृष्ट्या तीव्रमोहः । इतीदमेषां निष्यन्दफलम् । प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पौजस्का भवन्ति । अदत्तादानेन परीत्तफला अल्पसस्या अशनिबहुलाः । काममिथ्याचारेण रजोऽवकीर्णाः । मृषावादेन दुर्गन्धाः । पैशून्येनोत्कूलनिकूलाः । पारुष्येण दुःस्पर्शाः कण्डुकप्रायाश्च । संभिन्नप्रलापेन विषमपरिणामाः । अभिध्यया पचितफलाः । व्यापादेन कटुकर्मफलाः । मिथ्यादृष्ट्या बीजादपकृष्टफला अफला वा । इदमेषामाधिपत्यफलम् । (<पृष्ठ १७८>) तत्पुनरेतत् दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् । तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् ॥ अभिधर्मदीप २०५ ॥ यत्तेन परस्य दुःखा वेदना जनिता ततोनरकेषूपपद्यते । यदिष्टं जीवितमुपच्छिन्नं ततोऽल्पायुः । यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः । एवमन्येषामपि योज्यम् । कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम् । प्राणिवधविरत्या सेवितया देवेषूपपद्यते । सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति । तदाधिपत्येनैव बाह्या भावा महोजसो भवन्तीति । सर्वं विपर्ययेण द्रष्टव्यम् ॥ अत्र पूर्वं यानि पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ? आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः । चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् ॥ अभिधर्मदीप २०६ ॥ (<पृष्ठ १७९>) प्रहाणमार्गे समले पञ्चभिः फलैः कर्म सफलं भवति । तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा निष्यन्दफलम् । विपाकफलं स्वभूमिनियतो विपाकः । विसंयोगफलं यत्क्लेशप्रहाणम् । पुरुषकारफलं ये तद्बलसमुत्पन्ना धर्माः । न तथा सहभुवः । यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तद्बलेन हि तत्प्राप्त्युपत्तिः । अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न वर्ज्जा इति द्रष्टव्यम् । प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते । तदाधिपत्येन तत्साक्षात्करणादित्यन्ये । यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं मुक्त्वा ।ऽतद्वदन्यच्छुभाशुभम् ।ऽ अन्यदपि सास्रवं यच्छुभाशुभम्, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं कर्मं यच्चाकुशलं तदपि चतुर्भिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा ॥ ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा । शेषं पुनरनास्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाकविसंयोगफलं मुक्त्वा । फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः ॥ अभिधर्मदीप २०७ ॥ कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । अकुशला द्वे पुरुषकाराधिपतिफले । अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हित्वा ॥ शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् । (<पृष्ठ १८०>) अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । अव्याकृतमपि ह्यकुशलानां निष्यन्दफलमस्ति । यथा कामावचरे सत्कायान्तर्ग्राहदृष्टी । सर्वेषां दुःखदर्शनप्रहातव्यानां समुदयदर्शनप्रहातव्यानां च सर्वत्रगानाम् । अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः ॥ अभिधर्मदीप २०८ ॥ अव्याकृतस्य कर्मणः कुशला धर्माः द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विसंयोगफले हित्वा । अव्याकृतस्य तान्येव त्रीणि ॥ सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः । मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः ॥ अभिधर्मदीप २०९ ॥ तत्रऽसर्वेऽ इति त्रैकालिकाः । अतीतस्य कर्मणोऽतीतानागतप्रत्युत्पन्ना धर्माश्चत्वारि फलानि विसंयोगमपास्य । प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्चत्वारि फलान्येतान्येव । वर्तमानास्तु धर्मा वर्तमानस्य कर्मणः द्वे पुरुषकाराधिपतिफले । अजातस्य त्वजाता धर्मास्त्रीणि फलानि निष्यन्दविसंयोगफले हित्वा ॥ चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः । स्वभूमिका धर्माः कर्मणो यथासंभवं चत्वारि फलानि विसंयोगफलं हित्वा । अन्यभूमिका धर्माः ते चेदनास्रवास्त्रीणि, विपाकविसंयोगफले हित्वा । निष्यन्दफलं ह्यधातुपतितानामन्यभूमिकं न वार्यते । सास्रवाश्चेद्द्वे, पुरुषकाराधिपतिफले । शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः ॥ अभिधर्मदीप २१० ॥ शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले (<पृष्ठ १८१>) हित्वा । अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षास्त्रीण्येव निष्यन्दविपाकफले हित्वा ॥ अशैक्षस्य तु कर्मणः एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु । द्वे द्वे पञ्च यथासंख्यं अशैक्षस्य खलु कर्मणः शैक्षा धर्मा एकमधिपतिफलम्, अशैक्षास्त्रीणि विपाकाविसंयोगफले हित्वा । नैवशैक्षानाशंक्षा द्वे पुरुषकाराधिपतिफले । नैवशैक्षानाशैक्षाणां पुनः शैक्षा धर्मा द्वे पुरुषाकाराधिपतिफले । एवमशैक्षाः । नैवशैक्षानाशैक्षाः पञ्चफलानि । दृग्घेयस्य तु कर्मणः ॥ अभिधर्मदीप २११ ॥ त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः । दर्शनहेयस्य खलु कर्मणः दर्शनहेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा । भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् । ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः ॥ अभिधर्मदीप २१२ ॥ क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः । भावनाहेयस्य खलु कर्मणो दर्शनहेया धर्माः द्वे, पुरुषकाराधिपतिफले । भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेयास्त्रीणि, विपाकनिष्यन्दफले हित्वा । अप्रहेयस्य तु कर्मणो दर्शनप्रहातव्या धर्मा एकमधिपतिफलम् । भावनाहेया द्वे, पुरुषकाराधिपतिफले । अप्रहेयाश्चत्वारि विपाकफलं हित्वा ॥ अथ किमेकं कर्मैकं जन्माक्षिपति, अथानेकम् ? तदादर्श्यते- (<पृष्ठ १८२>) एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते ॥ अभिधर्मदीप २१३ ॥ एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते । बहुभिस्तु परिपूर्यते । तद्यथा चित्रकर एकया वर्त्या कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति । (<पृष्ठ १८३>) अथ यदुक्तं भगवता- "कर्मस्वकोऽयं भिक्षवो लोकः" इति । तत्केयं कर्मस्वकता नाम ? तदारभ्यते- कुशलं वाथवा पापं यदतीतं ददत्फलम् । स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता ॥ अभिधर्मदीप २१४ ॥ यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशलाकुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या ॥ कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्तरि भोक्तरि च कर्मस्वकताभिधीयते ? तदत्र प्रतिसमाधीयते- संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् । कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु ॥ अभिधर्मदीप २१५ ॥ स्वात्माभ्युदयविशेषार्थः खलु कर्मारभ्यते । कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्यसौष्ठवयुक्तं जन्म प्रतिलभेयेति । शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात्कर्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम् । स्कन्धसन्ताने तु विशिष्टस्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहाद्विशिष्टफलोत्पत्तिवदिति । पूर्वमेवाविष्कृतमेतदिति ॥ इदमिदानीं वक्तव्यम् । स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका । स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाकेऽवस्थित इति चतुष्कोटिका । प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः ॥ अभिधर्मदीप २१६ ॥ यदि तस्य कर्मणः फलेऽवस्थितस्तच्च कर्म विहीनं भवति ॥ (<पृष्ठ १८४>) द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् । तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु ॥ अभिधर्मदीप २१७ ॥ स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति । द्वितीया चतुष्कोटिका । तत्र प्रथमा कोटिः- तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले ॥ अभिधर्मदीप २१८ ॥ द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते । तृतीया द्वयसद्भावा चतुर्थी तूभयं विना ॥ अभिधर्मदीप २१९ ॥ तृतीया चतुष्कोटिका- स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् । स्यात्खलु कर्मणा समन्वागतो न च तस्य कर्मणः फलं वेदयते । चतुष्कोटिका । आद्या दत्तविपाकेन निरुद्धानागतादिना ॥ अभिधर्मदीप २२० ॥ द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा । तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते ॥ अभिधर्मदीप २२१ ॥ अथ यदिदं शास्त्रे योगविहितमयोगविहितं च कर्मोक्तं तस्य किं लक्षणम् ? तदभिधीयते- अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् । शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः ॥ अभिधर्मदीप २२२ ॥ यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात् । अन्ये पुनर्ब्रुवते- यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम् । विधिभ्रष्टत्वादिति । विपर्ययाद्योगविहितं द्रष्टव्यमिति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः ॥ (<पृष्ठ १८५>) चतुर्थाध्याये चतुर्थपादः । अथैतां परमगम्भीरां दुरवबोधां प्रकृतिपुरुषेश्वरादिकुदर्शनतिमिरोत्सादनकरीं कर्मस्वकतां कः स्वयमभिसंबुद्ध्य लोकानुग्रहाय प्रदर्शयतीति ? ब्रूमः । पुरुषः तु सो बोधिसत्त्वः । स पुनः किं चित्तोत्पादात्प्रभृति बोधिसत्त्वो भवति ? अथ लाक्षणिककर्माक्षेपेण, आहोस्विच्चरमभविक इति ? अत इदं प्रस्तूयते- बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः । बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम् ॥ अभिधर्मदीप २२३ ॥ यतः प्रभृति कल्याणमित्रं भगवन्तं सम्यक्संबुद्धमापद्य तदुपदर्शितदक्षिणमार्गः योनिशो मनसिकाराधिष्ठितबुद्धिः कृत्स्नं लोकमत्राणमशरणमपरायणं पञ्चगतिमहावर्ते जातिजराव्याधिमरणादिदुःखक्षाराम्भसि, कर्मराक्षसाधिष्ठिततीरे, पापमित्रकुम्भीरानुबद्धबेले, रूपादिविषयविकल्पपवनोद्धततृष्णातरङ्गे, मोहकर्णधारपरिभ्रामितबुद्धिनौके संसारमहासमुद्रे निमग्नमवलोक्य कृपाविष्टचेतास्तदभ्युद्धरणाय वीर्यबाहुमभिप्रसार्य, अविवर्त्यं चित्तमेवमुत्पादयति- (<पृष्ठ १८६>) अविद्यान्धःकारोपहतबुद्धिनयनोऽयं लोकः स मया सम्यग्दृष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः । प्रतिघभुजङ्गदंष्ट्रा विषदूषितोऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः । तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथबलेन तृष्णानिरोधसुखं लम्भयितव्यः । परामर्शभूतग्रहाविष्टोऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः । मानगिरिशिखराधिरूढबुद्धिरयं लोकः स मया कर्मस्वकताज्ञानवज्रेण मानगिरीन्विचूर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः । विचिकित्साकथंकथीभावशल्यविद्धहृदयोऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः । जराव्याधिमरणमकरदंष्ट्रान्तर्गतोऽयं लोकः स मया सर्वानर्थवियुक्तं निर्वृतिसुखं प्रापयितव्यः । श्रद्धादिगुणधनदरिद्रोऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्वर्यपदे सन्निवेशयितव्यः । इत्येतस्मादविवर्त्याद्बोधिचित्तोत्पादात्प्रभृति बौधिसत्त्वो वक्तव्य इत्याचार्यकम् ॥ यत्तर्हि शास्त्र उक्तम्- "बोधिसत्त्वः कुतः प्रभृति ? यतो लक्षणवैपाक्यं कर्म करोति" इति । नैष दोषः । यस्मादसौ- यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः । महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः ॥ अभिधर्मदीप २२४ ॥ पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः । यदा खल्वयं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियतीभतो भवति- तदा देवमनुष्याणामभिव्यक्तिं निगच्छति ॥ अभिधर्मदीप २२५ ॥ अतो ज्ञानप्रस्थानेऽस्मादवधेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः । (<पृष्ठ १८७>) स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् । प्रचिनोति तदाधारं कायं कल्पशतेन तु ॥ अभिधर्मदीप २२६ ॥ द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् । द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति ॥ अभिधर्मदीप २२७ ॥ एषा खलु धर्मता यत्त्रिभिः कल्पासंख्येयैरनिरस्तश्रद्धाशीलश्रुतत्यागप्रज्ञादिगुणधनैश्वर्यप्रयोगानां भगवतां सम्यक्संबुद्धानां पुरुषोत्तमानां धर्मकायचरणपरिसमाप्तिर्भवति । कल्पशतेन खड्गविषाणकल्पानां प्रत्येकबुद्धानाम् । षष्ठ्या कल्पैः प्रज्ञावतामग्र्याणाम् । चत्वारिंशद्भिः ऋद्धिमच्छ्रेष्ठानाम् । विंशतिभिः कल्पैः श्रुतधरप्रवराणां धर्मकायचरणपरिपूरिर्भवति । यत्पुनर्जन्मशरीरं भगवतां सम्यक्संबुद्धानां बोधेराश्रयभूतं द्वात्रिंशता महापुरुषलक्षणैः खचितमशीत्यानुव्यञ्जनैर्विराजितम्, यत्खलु दृष्ट्वा स्वविकल्पसमुत्थितप्रतिघदूषितबुद्धीनामपि (<पृष्ठ १८८>) मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति । कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते- तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि- बुद्धा हि भगवन्तः सममहीतलाक्रमणात्सुप्रतिष्ठितपादाः ॥ १ ॥ सहस्रारसनाभिकसनेमिकसर्वाकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः ॥ २ ॥ आयतहस्तपादाङ्गुलित्वाद्दीर्घाङ्गुलयः ॥ ३ ॥ दीर्घायतत्वादायतपार्ष्णिपादाः ॥ ४ ॥ तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः ॥ ५ ॥ अभिताम्राष्टापदविचित्रतनुजालावनद्धत्वादभिजातहंसराजवज्जालावनद्धपादाः ॥ ६ ॥ उच्चैः सुजातगुल्फत्वादुच्छङ्कुचरणाः ॥ ७ ॥ अनुपूर्वोपचितवृत्ततरगर्भैणेयमृगजङ्घत्वादैणेयजङ्घाः ॥ ८ ॥ प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पर्शिनः ॥ ९ ॥ परमाभिरूपनिर्गूढपुरुषनिमित्तत्वादभिजातहस्त्यश्वाजानेयवत्कोशगतवस्तिगुह्याः ॥ १० ॥ कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः ॥ ११ ॥ अनुपूर्वोर्ध्वमुखजातत्वादूर्ध्वाङ्गरोमाणः ॥ १२ ॥ सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमाणः ॥ १३ ॥ (<पृष्ठ १८९>) उत्तप्तहाटकसन्निभदृग्व्याममात्रप्रभावभासनात्सुवर्णवर्णाः ॥ १४ ॥ सुपरिकर्मीकृतरजतजातरूपश्लक्ष्णच्छवित्वाद्रजोमलानुपक्लेशनाच्च सूक्ष्मच्छवयः ॥ १५ ॥ समुपचितहस्तपादांसग्रीवत्वात्सप्तोत्सदकायाः ॥ १६ ॥ काञ्चनशिलातलश्लक्ष्णोपचितोरस्कन्धाच्चितान्तरांसाः ॥ १७ ॥ सिंहवद्विस्तीर्णसंहतोर्ध्वाङ्गत्वात्सिंहपूर्वार्धकायाः ॥ १८ ॥ अवक्रोपचितदशतालसमुच्छ्रितत्वाद्बृहदृजुगात्राः ॥ १९ ॥ समन्तोपचितमांसनिर्गूढजत्रुदेशत्वात्सुसंवृत्तस्कन्धाः ॥ २० ॥ अधस्तादुपरिष्टाच्च समदन्तविंशतित्वाच्चत्वारिंशद्दन्ताः ॥ २१ ॥ अनुन्नतावनतसमप्रमाणत्वात्समदन्ताः ॥ २२ ॥ निरन्तरावस्थितत्वादविरलदन्ताः ॥ २३ ॥ कुन्देन्दुशङ्खावभेदसितत्वाच्छक्लदन्ताः ॥ २४ ॥ श्लक्ष्णवृत्तोपचितदर्शनीयमहाहनुत्वात्सिंहहनवः ॥ २५ ॥ वातपित्तश्लेष्मानभिभूतरसहरणिरसारसप्रविभावनासदृशविज्ञानत्वाद्रसनरसाग्रप्राप्ताः ॥ २६ ॥ विस्तीर्णपेशलत्वाज्जिह्वायाः सर्वमुखमण्डलप्रतिच्छादनात्प्रभूततनुजिह्वाः ॥ २७ ॥ गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद्ब्रह्मस्वराः ॥ २८ ॥ कलविङ्कमनोज्ञभाषिणो दुन्दुभिस्वरनिर्घोषाः ॥ २९ ॥ शुक्लकृष्णप्रदेशानुपक्लिष्टलोहितराज्यविनद्धनीलोत्पलसमानवर्णत्वादभिनीलनेत्राः ॥ ३० ॥ अधरोर्ध्वावस्थितानां सम्यगवनतासंलुडितदीर्घत्वादक्षिपक्ष्माणां गोपक्ष्माणः ॥ ३१ ॥ वृत्तपरिमण्डलसमानुपूर्वोपचितदर्शनीयास्थिवज्रजातमूर्धत्वादुष्णीषालङ्कृतशिरसः शङ्खावदातप्रदक्षिणावर्तोर्णाविद्योतितभ्रूविनतत्वादूर्णाङ्कितमुखाः ॥ ३२ ॥ एतानि द्वात्रिंशन्महापुरुषलक्षणानि बुद्धानां भगवतामिति ॥ (<पृष्ठ १९०>) अशीत्यनुव्यञ्जनान्यप्युच्यन्ते । बुद्धा हि भगवन्तः अपृथुप्रमाणमृदुताम्रतुङ्गस्निग्धनखाः ॥ १ ॥ वृत्तनिरन्तरानुपूर्वोपचिताङ्गुलयः ॥ २ ॥ निर्ग्रन्थिनिर्गूढाल्पतनुशिराप्रतानाः ॥ ३ ॥ निर्गूढसमातीक्ष्णगुल्फाः ॥ ४ ॥ अविषमावक्ररक्तस्निग्धपादाः ॥ ५ ॥ मृगपतिद्विरदवृषभहंसराजप्रदक्षिणावर्तचारुगतयः ॥ ६ ॥ अलोमसाश्लेषसमप्रमाणोभयजङ्घाः ॥ ७ ॥ सुवृतसमसंहतनिर्गूढजानवः ॥ ८ ॥ कदलीस्कन्धोपमपीननिबिडाविषमानुपूर्वोपचितचारूरवः ॥ ९ ॥ अर्धचन्द्राकृतिविस्तीर्णसमुन्नतापगतरोमवक्षाणः ॥ १० ॥ श्लक्ष्णसुसंहतचतुरस्त्रनाभ्यायतकुकुन्दरसुन्दरकटीदेशाः ॥ ११ ॥ गम्भीराच्छिद्ररक्तप्रदक्षिणावर्तनाभयः ॥ १२ ॥ श्लक्ष्णालोमशाश्लथानुक्रमक्षामोदराः ॥ १३ ॥ अनाभुग्नानिभुग्नसुवत्तपष्ठकुक्षयः ॥ १४ ॥ समवतीर्णोपचितनातिदीर्घश्लक्ष्णपार्श्वाः ॥ १५ ॥ अनिम्नोपचितह्रस्ववज्रसंस्थानोपपन्नसूक्ष्मदीर्घलेखाङ्कितादृश्यारिथसन्धिचारुपृष्ठाः ॥ १६ ॥ विस्तीर्णोपचितदृढसन्धिहृदयाः ॥ १७ ॥ अविषमोन्नतविस्तीर्णोरसः ॥ १८ ॥ अनतिस्थूलोन्नतशङ्खावर्तनिभसूक्ष्मलेखापरिक्षिप्तसमरक्तस्तनाः ॥ १९ ॥ हृदयविप्रकृष्टदेशजातत्वाद्विस्तीर्णस्तनान्तराः ॥ २० ॥ मांसोपचितानतिविस्तीर्णत्वादुन्नतकक्षाः ॥ २१ ॥ स्थूलदृढसुबद्धनिमग्नसमाक्षकाः ॥ २२ ॥ अश्लक्ष्णपृथुमांसनिमग्नाविषमप्रमाणस्फिजः ॥ २३ ॥ करिकरनिभनिर्गूढसन्धिपीनकठिनश्लक्ष्णसमबाहवः ॥ २४ ॥ वर्तितश्लक्ष्णरोमशसिंहोपमदृढप्रकोष्ठाः ॥ २५ ॥ समताम्रदीर्घपाणयः ॥ २६ ॥ (<पृष्ठ १९१>) गम्भीराच्छिद्रासंकीर्णवक्रायतस्निग्धतनुताम्रपाणिलेखाः ॥ २७ ॥ सूक्ष्मयमलीकृताध्याकुलारक्ताङ्गुलिपर्वाणः ॥ २८ ॥ अनामिकापर्वाधिकप्रमाणकनीनिकाङ्गुलयः ॥ २९ ॥ अनतिबहुतनुमृदुस्निग्धसुबद्धमूलसमरोमाणः ॥ ३० ॥ स्निग्धासंकुचितानुपहतसारच्छवयः ॥ ३१ ॥ शोतोष्णस्पर्शाव्यकच्छवीव वर्णाः ॥ ३२ ॥ स्थिरनिबिडानतिस्थूलानतिकृशमांसाः ॥ ३३ ॥ जवापुष्पाभिताम्रस्वच्छस्निग्धमधुरचन्दनगन्धिरुधिराः ॥ ३४ ॥ मांसोपगूढस्थूलदृढसुशिरास्थिकाः ॥ ३५ ॥ नागग्रन्थ्यवस्थितनिर्गूढास्थिसन्धयः ॥ ३६ ॥ वज्रवदभेद्यशरीरत्वात्सुसंहननाः ।३७ ॥ चारुसुविभक्ताङ्गप्रत्यङ्गाः ॥ ३८ ॥ अनुपूर्वोपचितसुपरिमृष्टसुकुमारादीप्तस्वच्छशरीराः ॥ ३९ ॥ निर्मशकतिलकालपिल्याः ॥ ४० ॥ जरादौर्बल्यकृतापगतवलयः ॥ ४१ ॥ सिंहशय्यानुष्ठानव्यपगतकायविक्षेपाः ॥ ४२ ॥ स्वेदमलानुपक्लिष्टशुचिसौम्यच्छायाः ॥ ४३ ॥ ज्वलनमणिमहौषधिशशाङ्कसवितृसमतेजसः ॥ ४४ ॥ महीधरवरगुरुत्वोपेताः ॥ ४५ ॥ ऋतुसुखकालिन्दिकसुखसंस्पर्षाः ॥ ४६ ॥ मधुरमृदुसुरभिकुसुमचन्दनसमानरोमकूपगन्धाः ॥ ४७ ॥ अभिनवनीलोत्पलतुल्यसार्वकालिकमुखगन्धाः ॥ ४८ ॥ अद्भुतमृदुदीर्घस्निग्धपिण्डितव्यपगतशब्दनिश्वासाः ॥ ४९ ॥ अनशनकदन्नाशनातङ्कात्तु विपरिणामानुपरतधर्मदेशनाभिरप्यसञ्जितस्वरभेदाः ॥ ५० ॥ नातिसंकुचितविदारितरक्तास्याः ॥ ५१ ॥ शुचिसमाचाराः ॥ ५२ ॥ देशस्थ त्तप्तविस्पष्टपरिपूर्णव्यञ्जनाः ॥ ५३ ॥ समन्तप्रासादिकत्वादसेचनकदर्शनाः ॥ ५४ ॥ अनतिह्रस्वानतिदीर्घवृत्तोपचितत्रिवलिविभूषितकम्बुग्रीवाः ॥ ५५ ॥ समप्रमाणदृढावक्रह्रस्वविपुलचिबुकाः ॥ ५६ ॥ (<पृष्ठ १९२>) बिम्बफलाताम्रनात्यायतसमस्निग्धरुचिरौष्ठाः ॥ ५७ ॥ बन्धूकपुष्पोपमश्लक्ष्णदशनमांसाः ॥ ५८ ॥ शुचिस्निग्धस्पष्टरचनाक्षीणदन्ताः ॥ ५९ ॥ अनुपूर्ववृत्तस्निग्धतीक्ष्णसमसितदंष्ट्राः ॥ ६० ॥ सप्रयोजनदक्षिणदन्तरश्मिप्रदर्शितमुहूर्तस्मिताः ॥ ६१ ॥ अपमलमृदुताम्रस्निग्धजिह्वाः ॥ ६२ ॥ नित्योष्णश्लक्ष्णमांसजालगजतालुसमवर्णतालवः ॥ ६३ ॥ धुरोच्चायतसंगततुङ्गनासाः ॥ ६४ ॥ अघनमृदुदृढमूलस्निग्धतनुनीलकुण्डलितस्मश्रुवः ॥ ६५ ॥ अनुन्नतातीक्ष्णमांसलमार्ष्टिपिण्डितगण्डाः ॥ ६६ ॥ आदर्शसमोपचिताश्लथरुचिरकपोलाः ॥ ६७ ॥ पीनायतसमानोपहतचारुकर्णाः ॥ ६८ ॥ ललाटकर्णगण्डसन्धिश्लेषानिम्नपूर्णचन्द्राकृतिशङ्खाः ॥ ६९ ॥ विशालायतस्निग्धमधुरप्रसन्नसमनेत्राः ॥ ७० ॥ प्रहसिताञ्चिताग्रपक्ष्माणः ॥ ७१ ॥ सोम्यभ्राजिष्णुस्थिरविसन्धिदृष्टयः ॥ ७२ ॥ अपरिमितबलत्वादपगतोन्मेषनिमेषाः ॥ ७३ ॥ दीर्घासितश्लक्ष्णानुपूर्ववर्तितस्निग्धतनुभ्रुवः ॥ ७४ ॥ काञ्चनपट्टश्लक्ष्णार्धचन्द्राकृतिविपुलललाटाः ॥ ७५ ॥ परिपूर्णचन्द्रमण्डलसमवदनाः ॥ ७६ ॥ एकघनवज्रसंहतशिरस्कपालाः ॥ ७७ ॥ सुपरिपूर्णच्छत्राकृतिशिरसः ॥ ७८ ॥ श्लक्ष्णचितासंलुडितपलितदोषापनतभ्रमराभस्निग्धमृदुसुबद्धमूलसुरभिस्वस्तिकनन्द्यावर्ताकृतिकेशरचनाः ॥ ७९ ॥ ससुरासुरमनुजादिलोकानवलोकितमूर्धानः ॥ ८० ॥ अथ तदाद्यं बोधिचित्तं बोधिसत्त्वानां दाढर्येण कथमिव द्रष्टव्यम् ? नैतल्लौकिकेन वस्तुनोपपादयितुं शक्यम् । कस्मात्? यतः (<पृष्ठ १९३>) युगान्तवायुना मेरुः वह्निना वरुणालयः । वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः ॥ अभिधर्मदीप २२८ ॥ किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते - कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् । बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते ॥ अभिधर्मदीप २२९ ॥ तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव । षष्ठजं मनोधातुजमित्यर्थः । त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चिन्तामयं चेति । कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम् । बुद्धोत्पाद एव नासति बुद्धशासने । मनुष्यो वा स्त्री वोत्पादयति नान्य इति । तस्यास्य बोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुगतिव्यापिबुद्धत्वमहावृक्षाङ्कुराभिवृद्धये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान् प्रज्ञादिचतुरधिष्ठानपरिवारान्पारमिताद्यान्गुणान्वक्ष्यमाणस्वरूपान्बोधिसत्त्वः क्रमेणाभ्यस्यति । कथं पुनः क्रमेण दानादिपारमितानां परिपूरिर्भवति ? तत्र तावत्- सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् । प्रथमे खल्वसंख्येये वर्तमानो बोधिसत्त्वः न सर्वस्मै नापि सर्वं न सर्वदा ददाति । द्वितीये सर्वस्मै सर्वदा नतु सर्वम् । तृतीये सर्वै सर्वस्मै सर्वदा च प्रयच्छति । इयता दानपारमिता परिपूर्णा भवति । (<पृष्ठ १९४>) मरणेऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते ॥ अभिधर्मदीप २३० ॥ यदा पुनः प्राणपरित्यागेनापि प्राणातिपातादिशिक्षापदं न क्षोभयति, इयता शीलपारमिता परिपूर्णा वेदितव्या । क्रौञ्चादिराजदुहिताभिक्षुदृष्टान्ताश्चात्रोदाहार्याः । वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् । भगवन्तं खलु तिष्यं सम्यक्संबुद्धमेकया गाथया एकपादेन स्थित्वा सप्ताहमभिष्ठुवतः शाक्यमुनेर्वीयपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः । प्रज्ञापारमितायास्तु वज्रोपमात्समाधेरुर्ध्वं क्षयज्ञाने परिपूरिर्भवति । ऽसर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ ॥ अभिधर्मदीप २३१ ॥ (<पृष्ठ १९५>) इत्यागमः । अत्र पुनः "क्षान्तिध्यानपारमिते शीलप्रज्ञापरिवारत्वान्नार्थान्तरम्" इति वैभाषिकाः । विनयधरवैभाषिकास्तु विनये चतस्रः पारमिताः पठन्ति । अत्र पुनः केचिद्बुद्धवचने बहिष्कृतबुद्धयः प्राहुः- "न हि पिटकत्रये भगवता बोधिसत्त्वमार्ग उपदिष्टः ।" त एवं व्याहर्तव्याः । भ्रान्ता ह्यत्र भवन्तः । यस्मात् (<पृष्ठ १९६>) त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः । तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम् ॥ अभिधर्मदीप २३२ ॥ सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः । तथा पारमिताश्चापि चतस्रो विनयोदिताः ॥ अभिधर्मदीप २३३ ॥ बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा । (<पृष्ठ १९७>) हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः ॥ अभिधर्मदीप २३४ ॥ तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात् । अतोऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः ॥ अभिधर्मदीप २३५ ॥ उक्तं हि भगवता- "यद्भिक्षवः सूत्रेनावतरति, विनयेन दृश्यते, धर्मतां च विलोमयति नेदं शास्तुः शासनम्" इति कृष्णापदेशः । शुक्लापदेशोविपर्ययेण । यत्खलु सूत्रं भगवता बुद्धेन भाषितं तच्चतुर्ष्वागमेषु स्थविरमहाकाश्यपस्थविरानन्दादिभिः संगीतिकर्तृभिरूद्दानगाथाभिर्निबद्धं तदेव ग्राह्यम् । गतमेतत् । (<पृष्ठ १९८>) इदमिदानीं वक्तव्यम् । कतमेषां कल्पानामसंख्येयत्रयेण बुद्धत्वं प्राप्यते ? (<पृष्ठ १९९>) कल्पानां महतामेतदसंख्येयत्रयं मतम् । कल्पानां यदि संख्या न विद्यते कथं तर्हि त्रयमिति निर्धार्यते ? न खलु संख्या न विद्यते । किं तर्हि ? स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम् ॥ अभिधर्मदीप २३६ ॥ स्थानान्तरविशेषस्य खल्वेतन्नामासंख्येयमिति । न तु न संख्या विद्यत इत्येतद्विवक्षितम् । अथ यं शाक्यमुनिर्भगवान्सम्यक्संबुद्धो बोधिसत्त्वचर्यायामेषु त्रिष्वसंख्येयेषु कियतां बुद्धानां पर्युपासां चक्रे ? तदत्र वर्णयन्ति । प्रथमेऽसंख्येये पञ्चसप्ततिसहस्राणि । द्वितीये षट्सप्ततिम् । तृतीये सप्तसप्ततिम् । (<पृष्ठ २००>) कस्य पुनः कल्पासंख्येयस्यावसाने कतमो बुद्धो बभूव ? अत्रापि वर्णयन्ति । रत्नशिखिनि सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः । भगवति दीपङ्करे द्वितीयः । भगवति विपश्यिनि तृतीयः समाप्तः । कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनी । शाक्यमुनिर्नाम प्रथमस्यासंख्येयस्यादौ बभूव यत्र भगवता भार्गवभूतेन सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं बोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति । (<पृष्ठ २०१>) प्रभासेतुराजनि तदेव पुनर्द्रढिमानमापादितमिति ॥ कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते- अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः । द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम् ॥ अभिधर्मदीप २३७ ॥ कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति । उत्कर्षे चापकर्षे च प्रत्येकजिनानाम् । उत्कर्ष एव चक्रवर्तिनाम् ॥ चक्रवर्तिनां पुनरयं नियमः- नाधोऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते । अशीतिबर्षसहस्रायुर्भ्यश्चक्रवर्तिनामूर्ध्वमुत्पत्तिर्भवति नाध इति । ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः ॥ अभिधर्मदीप २३८ ॥ (<पृष्ठ २०२>) चतुर्विधाः खलु चक्रवर्तिनः- सौवर्णचक्राः, रूप्यचक्राः, ताम्रचक्राः, लोहितचक्राश्च स्वपुण्यप्रकर्षादिति । यथाक्रमं चैते चतुस्त्रिद्व्येकद्वीपेश्वराः ॥ अथ यदुक्तम्-ऽतस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात् ।ऽ इति । यदि तर्हि मार्गभेदो नास्ति बुद्धप्रत्येकबुद्धश्रावकानां फलभेदेनापि तर्हि न भवितव्यम् । नैष दोषः । यस्मात्- (<पृष्ठ २०३>) तुल्येऽपि साधनोपाये तद्भेदोऽक्षादिभेदतः । भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत् ॥ अभिधर्मदीप २३९ ॥ यावत्खलु कश्चिद्गुणः सम्यक्संबोधिमभिसंबुध्य भगवता देशितो विनिर्मुक्तिद्वयप्राप्तिहेतुभूतः सर्वोऽसौ पिटकत्रयानुवर्ती । तत्पुनर्विमुक्तिद्वयं (<पृष्ठ २०४>) त्रिभिः पुद्गलैः प्राप्यते । भगवता सम्यक्संबुद्धेन प्रत्येकजिनेनार्यश्रावकेण च । तेषां पुनस्तुल्ये बोधिवर्त्मनि पतितानामिन्द्रियप्रणिधानावरणभेदाद्भेदः । तद्यथा द्वयोर्मात्रोस्तुल्यं वस्तु तुल्ये क्षेत्रे प्रतिपादयतोश्चेतनाविशेषादतुल्यं (<पृष्ठ २०५>) फलं भवति, तद्वदुत्तमार्थं प्रार्थयमानानां त्रयाणामपि पुद्गलानां प्रणिधानेन्द्रियसततघननिरन्तरभावनाप्रयोगपटुत्वाभ्यासादिविशेषात्तुल्येऽपि मार्गे पतितानां कश्चित्फलविशेषो भवति । इतश्च करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा । परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते ॥ अभिधर्मदीप २४० ॥ तत्र भगवतो बुद्धस्य करुणाभावना चोद्रेकेन वर्तते भगवान्बुद्धः । स्वसंविच्चिन्ता च प्रत्येकबुद्धस्याधिक्येन वर्तते । परसंवित्परतो घोषश्च श्रावकस्य । किञ्च, परतो घोषमन्तरेणापि चरमे जन्मनि सुयोनिशोमनस्कारबलेन हेतुप्रत्ययफलावबोधोपलम्भात्, हेतुप्रत्ययबलैरशेषप्रनष्टं निश्रेयसं मार्गं प्रथममधिगम्य परत्रोपदेशादित्येवमादि ॥ (<पृष्ठ २०६>) अथ तुल्यायां विमुक्तौ स्थितानां त्रयाणामभिसमेतृणां को विशेषः ? तदुच्यते- (<पृष्ठ २०७>) हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा । विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात् ॥ अभिधर्मदीप २४१ ॥ तत्र हेतुकृतं तावद्भगवतो बुद्धस्य महत्त्वं त्रिषु कल्पासंख्येयेषु सूत्रविनयाभिधर्मालोकेन विनेयजनमनोग्रहेष्वज्ञानतिमिरोत्सादनात् । स्वभावकृतमपि बलवैशारद्यस्मृत्युपस्थानमहाकरुणादिस्वरूपत्वात् । फलकृतमपि (<पृष्ठ २०८>) सदेवकेषु लोकेष्वप्रतिहतशासनप्रतिष्ठानान्मारचतुष्टयनिर्जयनाच्चेति ॥ अथ यदेतत्सर्वसत्त्वप्रतिविशिष्टं पुरुषोत्तमस्य जन्मशरीरं तत्किमनियतकालाक्षेपम्, आहोस्विन्नियतकालाक्षेपमिति ? तदभिधीयते- बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः । नान्यस्मिन्काले । चिन्तामयेन ज्ञानेन विशिष्टतमत्वात् । तत्र पुनः- सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः ॥ अभिधर्मदीप २४२ ॥ तत्र पञ्चाशच्चेतनाः प्रयोगभूताः पञ्चाशत्पृष्ठभूताः, एकया तल्लक्षणमाक्षिपति ॥ ता पुनः पञ्चाशच्चेतनाः कतमाः ? तदुच्यते- यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते । प्रतिकर्मपथं पञ्च, मौलकर्मपथपरिशुद्धिः सामन्तकस्यवितर्कानुपघातः स्मृत्यनुपरिग्रहः, निर्वाणपरिणामनं च । ताः सर्वास्तदालम्वनाः पञ्चाशत्प्रयोगभूताः । पृष्ठेऽप्येतावत्य एव । (<पृष्ठ २०९>) अन्ये तु ब्रुवते- बुद्धा द्विशरीराधिष्ठानाः । जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः । धर्मशरीराधिष्ठानाश्चाष्टादशावेणिकबुद्धगुणालम्बनाः सामन्तकपृष्ठसंगृहीताः । अन्ये पुनराहुः- प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्या । केचिन्मन्त्रयन्ते- द्विधा समुद्राश्चत्वारो द्वीपाः षोडशनरकाः, तिर्यक्प्रेतौ षट्कामावचराविंशतीरूपारूप्याः देवाः । एतान्सर्वान् भगवान् करुणायते । एवन्तु वर्णयन्ति- सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यत्सर्वसत्त्वानां भोगैश्वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम् ॥ (<पृष्ठ २१०>) अथ यदुक्तम्-ऽदानपारमिताऽ इति । तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते । दानस्य पारमिताया निश्चयबुद्धिः सा दानपारमिता । एवं शेषास्वपि वाच्यम् । यत्पुनरुच्यते-ऽकिं साधनो वायं दानशब्दः, को वा दानस्य स्वभावःऽ इति तत्रापदिश्यते- दानं हि दीयते येन स्वपरार्थाद्यपेक्षया ॥ अभिधर्मदीप २४३ ॥ कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः । करणसाधनोऽयं दानशब्द । दीयते तेनेति दानं मानवत् । हस्तादिषु तर्हि दानप्रसंगः । अस्तु तर्हि कर्मसाधनो दीयते तदिति दानम् । सुवर्णादिषु दानप्रसंगः । भवतु को दोषः । विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात् । भवतु तर्हि करणसाधन एव । ननूक्तं हस्तादिषु प्रसंगः ? नैष दोषः । कुशलकर्मत्रयपरिग्रहात् । स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते । (<पृष्ठ २११>)ऽस्वपरार्थाद्यपेक्षयाऽ- स्वात्मपरार्थानुग्रहाद्यपेक्षया । स्वात्मानुग्रहाय परानुग्रहाय उभयानुग्रहाय ।ादिशब्दात्पूजाकाम्यया चेति । स्वभावोऽपिऽकायादिकर्माविज्ञप्तिःऽ । क्वचित्पुनः कायवाङ्मनः कर्म । ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम् । तत्पुनरेतद्दानम्- प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत् ॥ अभिधर्मदीप २४४ ॥ स्वर्गावपर्गहेतुत्वेऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः । तत्पुनरेतद्दानम्- स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन । साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे ॥ अभिधर्मदीप २४५ ॥ द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्च, उभयहितप्रतिपन्नश्च स एवंगुणयुक्तं दानं ददाति । आत्मनश्च कुशलमूलोपचयार्थं परस्य चेन्द्रियमहाभूतोपचयार्थम् । तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति । उभयार्थं यदवीतरागः संघाय ददाति । नोभयार्थं यदर्हंश्चैत्याय ददाति तच्च न दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शनार्थम् ॥ तत्पुनरेतद्दानं कथं फलतो विशिष्यते ? तदुच्यते- दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः । तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ? श्रद्धादिभिर्गुणैर्दाता दत्तेऽतः सत्क्रियादिभिः ॥ अभिधर्मदीप २४६ ॥ (<पृष्ठ २१२>) यदा दाता हेतुफलसंबन्धनिश्चये श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्च भवति निर्मत्सरी मुक्तहस्तश्च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते । अतः सत्कृत्य दानात्सत्कारलाभी भवति । स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचिं लभते । कालदानात्कालभोगान लभते । परानुपघातादनाच्छेद्यांल्लभते निरपक्षालमन्यादिभिरसाधारणान् । एतावद्दाता विशिष्यते । कथं वस्तु ? वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम् ॥ अभिधर्मदीप २४७ ॥ यदि वस्तु वर्णगन्धरसस्पर्शसम्पन्नं भवति तदा विशिष्यते । ततः सुरुपित्वं यशस्विता प्रियता सुकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम् । एवं वस्तु विशिष्ट भवति ॥ गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते । गुणाधिकं क्षेत्रं भवति । तिर्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्बुद्धस्य । यथोक्तम्- "तिर्यग्योनिगताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः स्यात् । दुःशीलाय मनुष्यभूताय दत्वा सहस्रगुणः ।" दुःखविशेषात्क्षेत्रं विशिष्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । "ग्लानाय दानं ग्लानोपस्थाय कायदानं शीतलिकावर्दलिकादिषु (<पृष्ठ २१३>) च दानम्" इति विस्तरः । उपकारित्वविशेषात् । यथा मातापित्रोरन्येषां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति । यदुक्तम्-ऽचेतनाविशेषात्फलविशेषःऽ इति । अथ कथं चेतनायाः विशेषो भवति ? ब्रूमः- आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः ॥ अभिधर्मदीप २४८ ॥ पण्यां खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते । आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठानां मृदुत्वादेः कर्मविशेषः । तत्राशयाभिप्रायः यथा- एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया कर्मपथं समाक्षिपति । प्रयोगस्तदधिष्ठानं कायवाक्कर्म । अधिष्ठानं कर्मपथः । क्षेत्रं यस्मै वस्तु प्रतिपाद्यते । पृष्ठं नाम यत्कृत्वा पुनः सकृदसकृद्वानुकरोति ॥ यदुक्तम्-ऽआर्येभ्यो दानमप्रमेयफलम्ऽ इति । अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह- धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे । अमेयं बोधिसत्त्वाय दानमन्यभवाय च ॥ अभिधर्मदीप २४९ ॥ एभ्यः पञ्चभ्यः पृथग्जनेभ्योऽपि दानमप्रमेयं भवति ॥ अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते- बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् । विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतोऽर्हते ॥ अभिधर्मदीप २५० ॥ (<पृष्ठ २१४>) यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्यमुत्तमार्थफलत्वात्भगवताष्टौ खलु दानान्युक्तानि सूत्रे "आसाद्य दानम् । भयदानम् । अदात्मे दानम् । दास्यति मे दानम् । दत्तपूर्वं मे पितृभिर्दानम् । ददाति स्वर्गार्थम् । कीत्यर्थम् । यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्यम् । यच्च त्रैधातुकवीतरागोऽर्हन्नर्हते ददाति दानमिदमग्र्यम्" इति । सूत्र उक्तम्- "सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि" इति । अथ किमिदं कृतमुपचितं वा ? तदुच्यते- संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् । विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् ॥ अभिधर्मदीप २५१ ॥ तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्वं यदृच्छया यच्च कृत्वा परिपूरिकाभिश्चेतनाभिः परिपूरितं भवति । पृष्ठतश्च दृढीकृतं भवयि । निष्कौकृत्यादिप्रतिपक्षं च भवति । तत्कर्मोपचितमुच्यते ॥ कथं चैत्तादिष्वसति प्रतिगृहीतरि पुण्योपजातिर्भवति ? ब्रूमः । (<पृष्ठ २१५>) स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु । विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत् ॥ अभिधर्मदीप २५२ ॥ तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्गुणाधिमुक्तिवशेन स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छन्ति ॥ सूत्र उक्तम्- "द्वे दाने । धर्मदानमामिषदानं च ।" तत्रामिषदानमुक्तम् । धर्मदानमुच्यते- धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः । अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् ॥ अभिधर्मदीप २५३ ॥ यथैव कुशलत्वात्त्रिकर्मस्वभावमामिषदानं नान्नपानम् । सुवर्णादिस्वभावं तत्, अव्याकृतत्वात् । तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम् । न नामकायादिस्वभावम् ॥ उक्तं दानमयं पुण्यक्रियादिवस्तु । शीलमयमारभ्यते । शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः । कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु । तत्पुनर्विज्ञप्त्यविज्ञप्तिरूपम् । अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम् । तदपिव्याख्यातं (<पृष्ठ २१६>) विस्तरशः । एतदपि शीलमयं पुण्यक्रियावस्तु महाभोगताफलं मोक्षफलं च, प्रणिधिपरिणामनविशेषात् । शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये ॥ अभिधर्मदीप २५४ ॥ तत्पुनरेतच्छीलं विशुद्धं चाविशुद्धं च भवति । तत्र विशुद्धम् दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् । तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते ॥ अभिधर्मदीप २५५ ॥ यत्खलु शीलं दौःशील्येन न विदूषितं प्राणातिपातादिनाष्टप्रकारेण, तत्समुत्थापकैश्च क्लेशोपक्लेशैर्मिथ्यादृष्ट्यादिभिरनुपहतम्, क्लेशोपक्लेशविपक्षैश्च स्मृत्युपस्थानादिभिः परिगृहेतम्, निर्वाणपरिणामितं च न संसारबीजभूतं भवति । पञ्चभिः कारणैरित्यन्ये । मौलैः कर्मपथैर्विशुद्धम्, सामन्तकैर्विशुद्धम्, वितर्कैरनुपहतम्, स्मृत्यानुपरिगृहीतम्, निर्वाणाभिमुख चेति तद्विशुद्धशीलमिष्यते । तद्विपर्ययादविशुद्धं वेदितव्यम् । व्याख्यातं शीलमयं पुण्यक्रियावस्तु ॥ भावनामयमुच्यते- पुण्यं समाहितं त्वत्र भावना चित्तभावनात् । यत्समाधिस्वभावं समाहितं पुण्यं तद्भावनेत्युच्यते । कस्मात्? (<पृष्ठ २१७>) चित्तभावनात् । यथा तैलं पुष्पैश्चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकैश्च धर्मैश्चित्तं भावितं वासितमित्युच्यते, तन्मयीकरणात् । न चैवमसमाहितमिति । समाहितमेव चित्तं भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम् । कथं पुनरेतत्पुण्यक्रियावस्तु मन्तव्यम् ? किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणोऽयं द्वन्द्वः समासोऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ? यथा न दोषस्तथास्तु । कथं च न दोषः ? तत्र तावत् । कायवाक्कर्मस्वभावत्वात्त्रिधा कुशलत्वात्पुण्यम् । कर्मात्मकत्वात्क्रिया । तत्समुत्थापिकायाश्चेतनाया अधिष्ठानात्वाद्वस्तु । या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । भावनामयं मैत्रो पुण्यं च पुण्यक्रियाश्च वस्तु । तत्संप्रयुक्तायाश्चेतनाया मैत्र्यधिष्ठानेनाभिसंस्काराणां मैत्रीसहभूचेतना शीलं च पुण्यक्रिया च । अन्ये तत्सहभुवः पुण्यमेवेति । तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वेऽपि सति प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना ॥ अभिधर्मदीप २५६ ॥ उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम् । पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम् । पुनरन्येन प्रकारत्रयेण शुभभेदो व्याख्यायते- (<पृष्ठ २१८>) पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा । शासनेऽस्मिन्समासेन शुभमूलं त्रिधेष्यते ॥ अभिधर्मदीप २५७ ॥ पुण्यभागीयं येन देवमनुष्योपपत्तिबीजं प्रतिगृह्णाति महेशाख्यैश्च कुलमहाभोगरूप्यचक्रवर्तिशक्रपुष्पकेतुब्रह्मत्वादीनां प्राप्तये फलमाक्षिपति । मोक्षभागीयं येनाविकम्प्य मोक्षाशयावस्थानादवश्यं परिनिर्वाणधर्मा भवति । निर्वेधभागीयमूष्मगतमूष्मं चतुर्विधम् ॥ अथ यदिदं लोक उच्यते लिपिमुद्रागणनासंख्येति एषां कः स्वभावः ? उच्यते- लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा । संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका ॥ अभिधर्मदीप २५८ ॥ तत्र तावल्लिपिमुद्रे योगप्रवर्तितं कायकर्मसमुत्थानमिति पञ्चस्कन्धात्मिका लिपिः । येन तु कर्मणाक्षराणि निर्वर्त्यन्ते तत्कर्म लिपिरित्युच्यते । नाम यत्खन्यते दन्तविषाणसुवर्णादिषु सा मुद्रा । नतु येन कर्मणा खन्यते तत्कर्मोच्यते । काव्यमपि योगप्रवर्तितं वाक्कर्मसमुत्थानं पञ्चस्कन्धाः । संख्यापि योगप्रवर्तितं मनस्कर्म । यन्मनसा संकलितं धर्माणां सा तु सपरिवारा चतुस्कन्धस्वभावेति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायः समाप्तः ॥ (<पृष्ठ २१९>) पञ्चमोऽध्यायः । प्रथमः पादः उक्तानि कर्माण । अथ यदयं लोकः पञ्चगति चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्गं हित्वा वामं वर्त्माश्रयति, परमप्रशान्तं च परं ब्रह्मापास्यानेकदुःखोपद्रवनीडभूते संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते- अकार्यप्रवणो लोको दुःखभागी च यद्वशात् । रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् ॥ अभिधर्मदीप २५९ ॥ ते पुनः क्लेशाः स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः । आत्तसामान्यसंज्ञाकाश्चोद्यन्तेऽनुशयादिभिः ॥ अभिधर्मदीप २६० ॥ तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाताः क्लिश्नन्तीति क्लेशाः अनुशेरत (<पृष्ठ २२०>) इत्यनुशयाः । आभवाग्रमुपादाय यावदवीचिं स्त्रवन्ति स्रावयन्ति च चित्तसन्ततिमित्यास्रवाः । आस्रवानिति पञ्चलक्षणानत्र संयोजन्तीति संयोजनानि । ग्रन्थयन्तीति ग्रन्थाः । योजयन्तीति योगाः । अपहरन्तीत्योघाः । उपाददत इत्युपादानान्येषां सामान्यनाम क्लेश इति ॥ तत्र के कियन्तो वानुशयाः ? तदवद्योत्यते- रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः । षडेतेऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः ॥ अभिधर्मदीप २६१ ॥ एते खलु षडनुशयाः संसारप्रवृत्तिहेतवः श्रेयोमार्गविवन्धिनश्च शास्त्र उक्ताः । तेषां निरुक्तिः सन्तानानुगता इत्यनुशयाः धात्रोचैलमलवत् । अनुबध्नन्तीति वानुशयाः, खवरजलचरवत् । त एते वृत्तितश्च द्रष्टव्याः, हिङ्ग्वादिभक्षणवत् । फलतश्च पारावतभुजङ्गसूकरजन्मापातनवत् । पुद्गलतश्च नन्दाङ्गुलिमालसुनक्षत्रादिवत् ॥ अथ रागादयोऽनुशयाः कथं द्रष्टव्याः ? किं रागादय एवानुशयाः, आहोस्विद्रागादीनामनुशयाः ? किञ्चातः । रागादय एवानुशयाश्चेत्सूत्रविरोधः- (<पृष्ठ २२१>) "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरत्युत्पन्नस्य कामरागपर्यवस्थानस्योत्तरनिस्सरणं यथाभूतं प्रजानाति । तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्सुसंवहतं सानुशयं प्रहीयते" इति । रागादीनामनुशया इति चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः- "कामरागानुशयस्त्रिभिरिन्द्रियैस्सप्रयुक्तः" इति । कर्मधारय एव परिगृह्यते न षष्ठीसमास इति वैभाषिकाः । ननु चोक्तं सूत्रविरोध इति । सानुशयं सानुबन्धमित्यर्थः । औपचारिको वा सूत्रेऽनुशयशब्दः (<पृष्ठ २२२>) प्राप्तौ यथा दुःखोऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः । तस्मासंप्रयुक्ता एवानुशयाः । "एवं तु साधु यथा दार्ष्टान्तिकानाम्" इति कोशकारः । कथं च दार्ष्टान्तिकानाम् ? "कामरागस्यानुशयः कामरागानुशयः । न चानुशयः संप्रयुक्तो न विप्रयुक्तः; तस्याद्रव्यान्तरत्वात् । सुप्तो हि क्लेशोऽनुशयैत्युच्यते । प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः । कः प्रबोअधः ? संमुखीभावः । कोऽयं वीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादकशक्तिः, यथा चाङ्कुरादीनां शालिफलजा (<पृष्ठ २२३>) शालिफलोत्पादनशक्तिः" इति । यत्तर्हि सूत्र एव क्लेशोऽनुशय उक्तः षट्षट्के- "सोऽस्य भवति सुखायां वेदनायां रागानुशयः" इति ? भवतीति वचनाददोषः । नासो तदैवानुशयः । कदा तर्हि ? यदा प्रसुप्तो भवति । । हेतौ वा फलोपचार एषः" इति । (<पृष्ठ २२४>) तदेतत्सौत्रान्तिकैरन्तर्गतं बुद्धवचननीतिश्रवणकौसीद्यमाविर्भाव्यते । (<पृष्ठ २२५>) कथम् ? उक्तोत्तरत्वात् । उक्तमत्र कर्मचिन्तायामुत्तरं तत्त्वसप्ततौ च । तत्स्मर्यताम् । मा प्रमोषीः । पुनश्चापदिश्यते । सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिबीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात् । नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत् । न । चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः खपुष्पमयदण्डवत् । ते पुनः रागद्वेधात्मताः सप्त दृष्टिभेदाद्दश स्मृताः । भूयोऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः ॥ अभिधर्मदीप २६२ ॥ तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते । दृष्टिभेदोऽपि सत्कायदृष्ट्यादिभेदेन पञ्चधा । रागभेदं च द्विधा वक्ष्यामः । ते पुनरेते सर्व एवानुशया यथासंभवं धात्वाकारप्रकारभेदेनाष्टानवतिर्भवन्ति । तत्र केचित्पण्डिता दर्शयन्ति । धातुभेदेन कामावचराः षड्त्रिंशद्दर्शनभावनाहेयाः । द्वात्रिंशद्दर्शनहेयाः । रूपावचरा एकत्रिंशदुभयहेयाः, अष्टाविंशतिर्दर्शनहेयाः पञ्च प्रतिघवर्ज्याः । एवमारूप्यावचराः । तत्र कथं कामावचराः षड्त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारनैयम्यभेदात् । दृष्टीनामपिधात्वाकारप्रकारभेदात्षड्त्रिंशत्वम् । प्रतिघस्य धातुनैयम्यात्पञ्चत्वम् । वयं पुनरेषां भेदं श्लोकानुगतमेव दर्शयिष्यामः । तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावनाहेयाः ? तत्र कामधातौ तावत् । प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त सप्ताष्टौ दुःखादिदर्शनहेया द्वात्रिंशत्कामधातौ भवन्ति । तेषु तेषां विप्रतिपत्तेः । एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम् ॥ (<पृष्ठ २२६>) कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते । प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः ॥ अभिधर्मदीप २६३ ॥ यथाक्रमम् । उक्तो रागभेदः । दृष्टिभेदो निर्दिश्यते- सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च । दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः ॥ अभिधर्मदीप २६४ ॥ ते पुनरेते प्रभिद्यमाना धातुप्रकाराकारभेदेनाष्टानवतिर्भवन्ति । षट्त्रिंशत्कामावचराः । एकत्रिंशद्रूपावचराः । एकत्रिंशदारूप्यावचराः । दर्शनभावनाहेयप्रकारनैयम्यात् ॥ (<पृष्ठ २२७>) कति पुनरेभ्यः कामधातौ दर्शनहेयाः कति यावद्भावनाहेयाः ? तदवद्योत्यते- दशेह दुःखदृग्घेयाः सर्वेऽपि दशेह कामधातौ दुःखे विप्रतिपन्नत्वाद्दुःखदर्शनहेयाः । सप्त हेत्वीक्षणक्षयाः । एभ्यो दशभ्यः सत्कायान्तर्ग्राहदृष्टिशीलव्रतपरामर्शत्रयं हित्वा । सप्तापवर्गदृग्घेयाः एत एव अष्टौ मार्गेक्षणक्षयाः ॥ अभिधर्मदीप २६५ ॥ सत्कायान्तर्ग्राहदृष्टी हित्वा । तेऽपि फलभूतेषु स्कन्धेषु विप्रतिपन्नत्वाद्दुःखदर्शनहेयैव । दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् । रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः ॥ अभिधर्मदीप २६६ ॥ ते दर्शनप्रहातव्यास्तेषां चतुर्णां रागादीनां यस्मादालम्बनमतस्तत्प्रहाणात्तेषामपि (<पृष्ठ २२८>) प्रहाणं स्तम्भनिपातादुपस्तम्भनिपातनवत् । ये तु रागादयश्चत्वारः स्वलक्षणक्लेशास्ते भावनाप्रहातव्या द्रष्टव्या रागप्रतिघमानाविद्याः ॥ अत्र पुनः प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये । अविद्यमाने खलु वस्तुन्येते स्कन्धेषु विपरीतसंदेहाकारग्रहणं कृत्वा प्रवर्तेते । तस्मादेते दर्शनहेये चेतोद्धाटनमात्रेण सारद्रव्यास्तित्वसंदेहापगमवत् । रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते ॥ अभिधर्मदीप २६७ ॥ यथा कामधातौ प्रोक्ताः, रूपारूप्यधात्वोरप्येवं द्रष्टव्याः । प्रतिघानुशयं वर्जयित्वा । तत्र हि शमथस्निग्धसन्तानत्वात्प्रतिघनिमित्ताभावाच्च प्रतिघानुशयो नास्ति । तत्र सत्कायान्तर्ग्राहदृष्टी एकप्रकारे दुःखदर्शनमात्रहेयत्वात् । मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्साः प्रत्येकं चतुष्प्रकाराः, चतुस्सत्यदर्शनहेयत्वात् । शीलव्रतपरामर्शो द्विप्रकारो दुःखमार्गदर्शनहेयत्वात् । रागादयः पञ्चप्रकाराः, चतुस्सत्यदर्शनभावनाहेयत्वात् । त एते कामधातौ षट्त्रिंशद्भवन्ति । रूपधातावेकत्रिंशदारूप्यधातावेकत्रिंशदिति समस्ता दशनभावनाहेया अष्टानवतिर्भवन्ति । तेभ्यः पुनरष्टाशीति दर्शनप्रहातव्याः । दश भावनाप्रहातव्याः ॥ अथ य एतेऽष्टाशीतिरनुशया दर्शनप्रहातव्याः किमेते दर्शनमार्गेणैव प्रहीयन्ते ? नेत्याह । किं तर्हि ? भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः । (<पृष्ठ २२९>) ते ह्येकान्तेनान्वयक्षान्तिवध्याः । ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः ॥ अभिधर्मदीप २६८ ॥ एवमन्यास्वपि भूमिषु येऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते । शेषास्तूभयथा । यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिबध्या अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां च भावनाहेया इति बोद्धव्यम् ॥ अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः ? तदारभ्यते - अहं ममेति या दृष्टिरसौ सत्कायदृक्स्मृता । तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता ॥ अभिधर्मदीप २६९ ॥ हेतुबलसामर्थ्यादसच्छास्त्रश्रवणाच्च पृथग्जनस्याहं ममेमि पञ्चसूपादानस्कन्धेषु य आत्मग्राहः सा सत्कायदृष्टिरित्युच्यते । सति सीदति वा काये दृष्टिर्विपरीताकारा सत्कायदृष्टिरिति निर्वचनम् । सैषात्मात्मीयाकारभेदाद्द्विप्रकारा । पुनः पञ्चस्कन्धालम्बनाः पञ्चात्मदृष्टयो भवन्ति । (<पृष्ठ २३०>) पञ्चदशात्मीयदृष्टयः । ताः समस्ता विंशतिकोटिका सत्कायदृष्टिरिति व्याख्यायते । तयोर्गृहीतस्य विपर्यासेनात्माख्यस्यासद्वस्तुनोऽसत्पुरुषसंसर्गान्नित्यत्वग्राहो वा नित्यत्वग्राहेण वा सान्तर्ग्राहदृष्टिरिति ॥ फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते । फलहेतुग्रहणे वस्तुक्रियाग्रहणं प्रत्येतव्यम् । अनेन शास्त्रप्रोक्तया मिथ्यादृष्टेः साकल्येन ग्रहणं प्रत्येतव्यम् । ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः ॥ अभिधर्मदीप २७० ॥ (<पृष्ठ २३१>) अहेतावपथे चैव तद्धि शीलव्रताह्वयः । सर्वं खलु सास्रवं वस्तु हीनार्हत्वाद्धीनम् । आदिग्रहणशब्दस्य चात्र लोपो द्रष्टव्यः । दृष्ट्यादिपरामर्शो दृष्टिपरामर्शः । चतस्रो दृष्टीः प्रत्यवरं च वस्त्वग्रतो गृह्णाति कथमग्र्येयं दृष्टिः ? येयमात्मदृष्टिः- आत्मानमहं पूजयिष्यामि वासुदेवोऽत्र पूजितो भविष्यतीति हीनपुरुषंपञ्चोपादानस्कन्धात्मकमग्रतः प्रतिपद्यते । नास्ति दत्तं यथासुखं प्रवर्तिष्यत इत्येवमादिः । अकारणे कुमार्गे च कारणमार्गग्रहणं शीलव्रतपरामर्शः । तद्यथा प्रकृतीश्वरपुरुषादिहेतुकं पञ्चोपादानस्कन्धात्मकं न तृष्णाहेतुकमित्यकारणे कारणदर्शनम् । कुमार्गं चाग्निजलप्रवेशादौ प्रकृतिपुरुषान्तरज्ञानादौ च स्वर्गापवर्गहेतुत्वम् । शीलं त्वत्राग्निहोत्रानुष्ठानं प्रतिजुहोत्याद्यास्तिस्त्रोऽन्तरङ्गक्रियाः, पश्वालम्भनाद्याः बहिरङ्गाः, तदुभयस्य यावज्जीवमनुष्ठानं शीलम् । यथोक्तम्- "जरामर्यं वैतत्सत्रं यदग्निहोत्रं जुहोति" इति । व्रतम्- आग्नेयमग्निपरिचरणं शौक्रमापो हि ष्ठाद्यनुष्ठानमपां शुक्रदैवत्यत्वात् । वार्हस्पत्यौपनिषदगोदानीयं जटावतारणम् । अथवा गोव्रतादीनि व्रतान्येभिः शुध्यते मुच्यत इत्याहुः । (<पृष्ठ २३२>) त्रयीधर्माणस्त एव ते हरिहरहिरण्यगर्भादयो न कारणमुपादानस्कन्धात्मकत्वात् । न च नित्याः, न चाग्र्या इत्येतद्विस्तरेणाविष्कृतम् । पश्वालम्भनाग्निजलप्रवेशादयश्च न स्वर्गापवर्गहेतुर्दानशीलभावनानां तद्धेतुत्वात् । इत्यतो विपरीतदर्शनमेतच्छीलव्रतपरामर्शाख्यमिति ॥ यदि तर्हि पुरुषेश्वरादिकारणद्वारेण शीलव्रतपरामर्शः प्रवर्तते, प्राप्तस्तर्हि समुदयदर्शनप्रहातव्यः ? नैतदस्ति । यस्मादसौ दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः ॥ अभिधर्मदीप २७१ ॥ (<पृष्ठ २३३>) दुःखभूतेषूपादानस्कन्धेषु हरिहरहिरण्यगर्भादिष्वकारणेषु बुद्ध्या भ्रान्तः । तस्माद्यत्रैव भ्रान्तस्तत्रैवाविपरीतदर्शनत्प्रहीयते । कापथे च (<पृष्ठ २३४>) सत्पथबुद्ध्या भ्रान्त इति सम्यक्स्वमार्गदर्शनात्प्रहीयते । इति सिद्धं द्विदर्शनहेयः शीलव्रतपरामर्शः । सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः । दुःखाभिसमये तच्च तद्दृग्घेयैव सोऽप्यतः ॥ अभिधर्मदीप २७२ ॥ यदा खल्वस्य धर्मेषु धर्ममात्रबुद्धिरुत्पन्ना भवत्यनित्याः, दुःखाः, शून्याः, अनात्मानश्च धर्मा इति तदैव सत्कायदृष्ट्यवच्छेदो भवति, तत्प्रवर्तिता चान्तर्ग्राहदृष्टिः, तत्रोपात्तस्या अपि समुद्घात इति । तत्र धर्मदर्शनमनित्याद्यन्यतमाकारं यस्माद्दुःखाभिसमयमात्राद्भवत्यत एतद्दृष्टिद्वयं दुखदर्शनहेयमेवेति सिद्धम् ॥ अथ य एते चत्वारो विपर्यासाः- "अनित्ये नित्यम्" एवमादयस्ते किं स्वभावाः ? तदारभ्यते- द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः । अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते ॥ अभिधर्मदीप २७३ ॥ तत्र तवत् । दृष्टिपरामर्शात्सुखशुचिविपर्यासौ प्रकल्प्येते । सत्कायदृष्टेरात्मदृष्टिविपर्यासः, अन्तर्ग्राहदृष्ट्यर्धात्नित्यविपर्यासः प्रकल्प्यत (<पृष्ठ २३५>) इति । ननु सत्कायदृष्टेरर्धात्प्राप्नोति ? न । दृष्ट्यन्तरत्वात् । शाश्वतदृष्टेरुच्छेददृष्टिर्दृष्ट्यन्तरम् । पुरुषमेव तु स्वतन्त्रं कर्तारं वशिनमात्मवादी मन्यमानो ममेदमित्यभ्युपगच्छति तस्मादात्मदृष्टिरेवासौ । यदि च ममेत्येतद्दृष्ट्यन्तरं स्यान्मया मह्यमित्येवमाद्यपि दृष्ट्यन्तरं स्यात् । तस्मादहंकारपर्याया एवैते द्रष्टव्याः । ननु च सर्वे क्लेशा विपर्यासाः विपरीतप्रवृतत्वात्? तत्किमुच्यते चत्वार इति ? नैष दोषः । यस्मात् नितीरणसमारोपविपरीतप्रवृत्तितः । विपर्यासोक्तिरेष्वेव दृग्वशात्चित्तसंज्ञयोः ॥ अभिधर्मदीप २७४ ॥ विपरीततो नितीरणात्समारोपादेकान्तविपर्यासाच्च । न ह्येतदन्येषां क्लेशानां समस्तमस्ति । मिथ्यादृष्ट्युच्छेददृष्टी यद्यपि नितीरयतः, एकान्तविपर्यस्ते च, न तु समारोपिके द्रव्यनाशप्रवृत्तत्वात् । शीलव्रतपरामर्शो नैकान्तविपरीतः कामवैराग्यादिसंभवात् । अन्ये क्लेशा न सन्तीरकाः । इति चत्वार एव । (<पृष्ठ २३६>) ननु च सूत्र उक्तम्- "आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि" इति द्वादश भवन्ति । नैष दोषः । नहि संज्ञाचित्ते नितीरके । तस्माच्चतुर्ष्वेव दृष्टिस्वभावेषु विपर्यासोक्तिः ।ऽदृग्वशात्चित्तसंज्ञयोःऽ तदुक्तिरिति । संज्ञा हि लोककार्यव्यवहारपतिता दर्शनवशाद्विपर्यस्तमालम्बननिमित्तमुद्गृह्णाति । चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम् । लोकेऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति ॥ अथ किं दृष्ट्यनुशयवत्मानानुशयस्यापि कश्चिद्भेदोऽस्ति ? विद्यत इत्याह । कथमित्यादर्श्यते- सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा । त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता ॥ अभिधर्मदीप २७५ ॥ तदस्य श्लोकस्य संक्षेपविस्तारव्याख्याप्रभेदोऽयमादर्यते । तत्र तावत्कर्मस्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः । प्रतिद्यमानः सप्तधा भवति मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च । एतेषां प्रपञ्चो यथा प्रकरणेषु । (<पृष्ठ २३७>) ननु पुनर्ज्ञानप्रस्थाने नवमानविधा उक्तास्तद्यथा- "श्रेयानहमस्मीति मानविधा । सदृशोऽहमस्मीति तद्दृष्टिसंनिश्रितैव मानविधा । सदृशाद्धीनोऽहमस्मीति मानविधा । अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः, नास्ति मे श्रेयो नास्ति मे सदृशो नास्ति मे हीनः" इति । तत्र श्रेयानहमस्मीति सत्कायदृष्टिसन्निश्रिता अतिमानविधा । सदृशोऽहमस्मीति तद्दृष्टिसन्निश्रितैव मानविधा । हीनोऽहमस्मीति तद्दृष्टिसन्निश्रितैवोनमानविधा । अस्ति मे श्रेयानित्यूनमानविधा । अस्ति मे सदृश इति मानविधा । अस्ति मे मान इति मानातिमानविधा । नास्ति मे श्रेयानिति मानविधा । नास्ति मे सदृश इत्यतिमानविधा । नास्ति मे हीन इत्यूनमानविधा । इति एवमेता नवमानविधास्त्रिभ्यो मानेभ्यो व्यवस्थाप्यन्ते मानामिमानोनमानेभ्यः । त एते सप्तमानाः सर्वेऽपि दर्शनभावनाहेयाः स्थविरक्षेमकसूत्रोक्तेः- "अस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानोऽप्रहीणः" इति ॥ (<पृष्ठ २३८>) किं पुनर्यद्भावनाहेयमप्रहीणं सर्वं तदार्यस्य समुदाचरति ? नेत्याह । प्रहीणमपि हि किञ्चित्समुदाचरति । तद्यथा श्रद्धादीनि पञ्चेन्द्रियाणि मिद्धं दुःखेन्द्रियं चक्षुराद्यष्टकं चेति । अप्रहीणमपि खलु किञ्चिन्न समुदाचरति । तद्यथा वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः । विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः ॥ अभिधर्मदीप २७६ ॥ येन खलु क्लेशपर्यवस्थानेन संचित्य प्राणिवधादत्तादानकाममिथ्याचारमृषावादानध्यापद्येतैतद्वधाद्यप्रहीणमपि न समुदाचरति भावनाहेयत्वात् । कौकृत्यं चाकुशलं न समुदाचरति । मानविधाश्च नव न समुदाचरन्ति । विभवतृष्णापि भावनाप्रहातव्यापि सती न समुदाचरति ।ऽचऽशब्दाद्भवतृष्णायाश्च कश्चित्प्रदेशः । अहो वताहमैरावणः स्यां नागराजा अहो वताहमसुरेन्द्रः स्यां वैमचित्रादिः । अहो वताहमुत्तरेषु कुरुषु जन्म लभेयेत्येवमादि । (<पृष्ठ २३९>) किं पुनरत्र कारणं यदेतेऽप्रहीणाः खल्वपि सन्तो नार्यस्य समुदाचरन्ति ? शून्यतायाः सुभावितत्वात्कर्मफलसंबन्धयुक्तेश्च विदितत्वात्, दृष्टिपुष्टत्वाच्च ॥ तत्र मानविधा अस्मिमानश्च सत्कायदृष्टिपुष्टाः । वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टम् । विभवतृष्णोच्छेददृष्टिपुष्टा । भवतृष्णाप्रदेशः शाश्वतदृष्टिपुष्टः । इति विधादयस्तत्पोषकक्लेशाभावादार्यस्य नोत्सहन्ते सन्तानमध्यारोढुम् । कौकृत्यमपि चाकुशलमवीतरागस्यार्यस्याप्रहीणं न चास्य तत्संभवति चिकित्सासमुत्थितत्वादिति ॥ अथानुशयाः सर्वत्रगाः कस्मात्क्लेशनिकाया व्यवस्थाप्यन्ते ? तदारभ्यते- दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः । दुःखसमुदयदर्शनप्रहातव्याः खल्वनुशयाः सर्वगाः । यस्मात् तद्दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः ॥ अभिधर्मदीप २७७ ॥ द्वयोः खलु निकाययोः दुःखसमुदयाख्ययोस्तद्दर्शनहेयाणां वक्ष्यमाणानां क्लेशानामुभयत्र लब्धप्रतिष्ठत्वात् ॥ किं पुनः सर्वे दुःखसमुदयहेयाः न हेयाः सर्वत्रगाः ? नेत्याह । किं तर्हि ? काङ्क्षा पञ्च दृशोऽविद्या तद्व्यामिश्राथ केवलाः । सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम् ॥ अभिधर्मदीप २७८ ॥ सप्तदृष्टयो द्वे विचिकित्से ताभिश्च संयुक्ताविद्या आवेणिकी च (<पृष्ठ २४०>) द्विप्रकारा इत्येकादशानुशया धातौ धातौ स्वधातुभूमिसर्वत्रगा ज्ञेयाः । सकलस्वधातुभूम्यालम्बनत्वात् । एते च परिपिण्ड्य त्रयस्त्रिंशत्सर्वत्रगा भवन्ति ॥ एते पुनः सर्वत्रगाः द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः । तिसृणामप्यविद्यानां द्वयोश्च विचिकित्सयोरेकनामत्वात् । अथ कस्माद्रागप्रतिघमाना न सर्वत्रगाः ? तदुच्यते- रागप्रतिघमानास्तु परिच्छेदप्रवर्तिनः ॥ अभिधर्मदीप २७९ ॥ एते खलु स्वलक्षणक्लेशाः प्रतिक्लेशमनवयवं चालम्ब्योत्पद्यते । तस्मान्न सर्वगाः ॥ विचिकित्साद्यास्तु प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः । धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः ॥ अभिधर्मदीप २८० ॥ (<पृष्ठ २४१>) अत्र पुनः नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते । सत्कायान्तर्ग्राहदृष्टी हित्वान्ये नव विसभागधातुसर्वत्रगाः । किं पुनरनुशया एव सर्वत्रगाः ? नेत्याह । किं तर्हि ? तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः ॥ अभिधर्मदीप २८१ ॥ ये सर्वत्रगानुशयसहभुवो वेदनादयो धर्माः, जात्यादयश्च तेऽपि सर्वत्रगास्तदेकफलत्वात् ॥ तेषां पुनरष्टानवतीनामनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ? तदारभ्यते- काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला । निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः ॥ अभिधर्मदीप २८२ ॥ निरोधमार्गदर्शनहेया मिथ्यादृष्टिविचिकित्सा तत्संप्रयुक्ता चाविद्या सहावेणिक्याविद्यया । इत्येते धातौ धातौ षडनुशया अनास्रवालम्बनाः । शेषाः सास्रवालम्बनाः ॥ अथैते निर्मलालम्बनाः कति कत्युपरममालम्ब्यन्ते, कति भूमिप्रतिपक्षं च ? तदुच्यते- स्वभूमेरेव निर्वाणं मार्गस्थन्नवभूमिकः । तद्दृश्यविषयोऽन्योऽन्यो हेतुत्वाद्धेतुभावतः ॥ अभिधर्मदीप २८३ ॥ (<पृष्ठ २४२>) स्वभूमिनिरोध एव निरोधालम्बनानां मिथ्यादृष्ट्यादीनामालम्बनम् । कामावचराणां कामावचरनिरोधः । एवं यावद्भवाग्रभूमिकानां भवाग्रस्यैव । मार्गालम्बनानां तु कामावचराणां सर्व एव स्वभूमिकाः क्लेशाः मार्ग आलम्बनम् । योऽप्यसौ रूपारूप्यप्रतिपक्षः, रूपारूप्यावचराणामप्यष्टमूमिकानां मिथ्यादृष्ट्यादीनां नवभूमि- कोऽन्वयज्ञानपक्ष्यो मार्ग आलम्बनः । किं पुनः कारणं मिथ्यादृष्ट्या निरोधः परिच्छिन्न आलम्ब्यते, न मार्गेण ? तदुच्यते ।ऽहेतुत्वाद्धेतुभावतश्च ।ऽ मार्गो हि परस्परहेतुकः, न तु निरोध इत्यस्ति विशेषः ॥ अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शो च नानास्रवालम्बना इष्यन्ते ? तत्रापदिष्यते- न रागः शक्त्यहेतुत्वान्न द्वेषोऽनपराधतः । नमानोऽतिप्रशान्तत्वान्न भावत्वाद्दृशोऽपराः ॥ अभिधर्मदीप २८४ ॥ तत्र रागस्तावद्यद्यनास्रवालम्बनः स्यान्निर्वाणाभिलाषप्रवृत्तत्वात्कुशलधर्मच्छन्दवत्, न योगिनां वर्जनीयः स्यात् । द्वेषोऽप्यपकारवस्तुन्युत्पद्यते, मोक्षस्तु सर्वदुःखोपरमादुपकारी । मानोऽप्यप्रशान्तत्वादुन्नतिलक्षणः, निर्मलास्तु धर्मास्तदपघातिनः । परामर्शी च यद्यनास्रवालम्बनौ स्यातां सम्यग्दृष्टित्वं प्रतिपद्येयाताम् । तस्मात्पूर्वोक्ता एवानुशया निर्मलगोचराः ॥ अथैतेषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगतः ? (<पृष्ठ २४३>) सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः । स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः ॥ अभिधर्मदीप २८५ ॥ द्विविधाः खलु सर्वगाः । स्वधातुभूमिसर्वगाः, विसभागधातुभूमिसर्वगाश्च । असर्वगा अपि द्विविधाः । सास्रवालम्बनाः, अनास्रवालम्बनाश्च । तत्र ते येऽनुशयाः स्वधातुभूमिसर्वत्रगास्ते सकलामेव पञ्चप्रकारां स्वधातुभूमिमालम्बनतोऽनुशेरते । ये त्वसर्वत्रगाः सास्रवालम्बनास्ते स्वभूमौ स्वनिकायमालम्बनतोऽनुशेरते । दुःखदर्शनप्रहातव्याः दुःखदर्शन प्रहातव्यमेव निकायं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेवेति ॥ आलम्बनतश्च अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः । आलम्बनतोऽनुशेरत इति वर्तते । किं कारणम् ? अन्यभूमिकस्यानास्रवस्य च वस्तुनःऽअस्वीकाराद्विपक्षत्वाऽच्च । आत्मदृष्टितृष्णाभ्यां हि स्वीकृते वस्तुन्यनुशयोऽनुशयितुमुत्सहते । अनास्रवे तु वस्तुन्यूर्ध्वभूमिके च प्रवृत्तिरेव सत्कायदृष्टितृष्णयोर्नास्तीति न तत्रानुशेरते । संप्रयोगिणि तु स्वस्मिन्नहीने संप्रयोगतः ॥ अभिधर्मदीप २८६ ॥ अनुशेरत इत्यधिकृतम् । यो येन धर्मेणानुशयः संप्रयुक्तः स तस्मिन्संप्रयोगिणि संप्रयोगतोऽनुशेरते यावदप्रहीणो भवतीतिऽतुऽ शब्दो विशिनष्टि । ततश्चेदमपि सिद्धं भवति- अनास्रवालम्बना विसभागधातुभूम्यालम्बनाश्च संप्रयोगत एवानुशेरते । सास्रवालम्बनाः स्वभूमावालम्बनतः संप्रयोगतश्चेति ॥ कुतः पुनरेतेऽनुशया उच्यन्ते ? तदुच्यते । प्रागाविष्कृतमेतत्प्रसङ्गागतं न तु सूत्रितमिति । तदिदानीं सूत्रगतं प्रदर्श्यते । धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः । एतेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः ॥ अभिधर्मदीप २८७ ॥ (<पृष्ठ २४४>) इतश्च, स्वैरिष्टादिभिराकारैः परमाणुक्षणेष्वपि । यतोऽनुशेरते चैते ततश्चानुशया मताः ॥ अभिधर्मदीप २८८ ॥ तत्र रागस्तावदिष्टाकारेण खण्डक्षीरभक्षणवत् । द्वेषस्त्वनिष्टाकारेण काञ्जिककोद्रवौदनभक्षणवदित्येवमादि । परमाणुषु क्षणेषु च सूक्ष्मेष्वेकेष्वप्यनुशेरत इत्यनुशयाः । निरुक्तन्यायेन पूर्वं वा प्राप्तिमुत्सृज्य पश्चात्समुदाचारतोऽनुशेरत इत्यनुशयाः । अन्यत्पूर्वमेव व्याख्यातमिति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ (<पृष्ठ २४५>) पञ्चमाध्याये द्वितीयपादः । अथैषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ? तदारभ्यते- आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् । धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः ॥ अभिधर्मदीप २८९ ॥ कामधातौ तावत् । सत्कायान्तर्ग्राहदृष्टी तत्संप्रयुक्ताविद्ये निवृताव्याकृते । सत्कायदृष्टिस्तावद्दानशीलभावनाभिरविरुद्धत्वात्कुशलमूलसमुच्छेदवैरोधिकत्वाच्च नाकुशला । विपरीताकारत्वान्न कुशला । तृष्णावदकुशलेति चेत् । न । तृष्णाप्रकर्षे सर्वाकार्यप्रवृत्तिदर्शना त् । अन्तर्ग्राहदृष्टिरपि जन्मोच्छेदप्रवृत्तत्वान्निर्वाणविरोधिनी संवेगानुकूला चेति नाकुशला । यथोक्तं भगवता- "येयं दृष्टिः सर्वं मे न क्षमत इतीयं दृष्टिरसंरागाय न संरागाय" इति । तथोक्तम्- इदमग्र्यं बाह्यकानां दृष्टिकृतानां यदुत नो च स्यान्न च मे स्यान्न भविष्यामि न मे भविष्यति" इति । रूपारूप्यधात्वोः (<पृष्ठ २४६>)ऽसर्वेऽपि निवृताव्याकृता मलाः ।ऽ समाधिसमापत्त्युपहतत्वात्न शक्नुवन्ति निवर्तयितुम् । कुशलास्तु धर्मा अव्याबाधफलत्वाद्विपाकं जनयितुमुत्सहन्ते ॥ कामेष्वकुशलाः शेषाः सत्कायान्तर्ग्राहदृष्टितत्संप्रयुक्ताविद्यावर्जिताः क्लेशाः कामधातावकुशलाः, सव्याबाधफलनिर्वर्तकत्वात् । एभ्यः पुनः कत्यकुशलमूलानि कति नेति ? तदुच्यते- रागद्वेषतमांस्यतः । त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः ॥ अभिधर्मदीप २९० ॥ ये धर्मा अकुशलाश्चाकुशलमूलं च दर्शनभावनाहेयाश्च पञ्चप्रकाराश्च षड्विज्ञानकायिकाश्च त एवाकुशलमूलानीष्यन्ते ॥ किं पुनर्यथाकुशलानि अनुशयानां मूलानि सन्त्येवमव्याकृतानामपि सन्तीति ? अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः । अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः ॥ अभिधर्मदीप २९१ ॥ "त्रीणि खल्वव्याकृतमूलानि, अव्याकृताविद्या तृष्णा प्रज्ञा" इति काश्मीराः । हेत्वर्थो हि मूलार्थः । अनिवृताव्याकृता च प्रज्ञा हेतुत्वेन वर्तत इत्यसावप्यव्याकृतमूलम् । विचिकित्सा नाव्याकृतमलम् । न च मानः ॥ (<पृष्ठ २४७>) चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् । चला हि विचिकित्सा प्रतिष्ठार्थश्चमूलार्थः । ऊर्ध्ववृत्तिरुन्नतलक्षणो मानः, अधोगमनवृत्तीनि च मूलानि । न चैतौ क्लेशौ षड्विज्ञानकायिकौ । तस्मादव्यापित्वान्न मूलेषु व्यवस्थाप्येते । अव्याकृताः तृष्णादृष्टिमानाविद्या इति बहिर्देशीयकाः, ध्यायिसूत्रोक्तेः । त्रयो हि ध्यायिनः- तृष्णादृष्टिमानोत्तरध्यायिभेदात् । सर्वे च तेऽविद्यावशाद्भवन्तीति चत्वार्येव इति । एतच्च न ते । कस्मात्? सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात् ॥ अभिधर्मदीप २९२ ॥ (<पृष्ठ २४८>) न खल्वेषा ध्यायित्रित्वचोदनाव्याकृतमूलनिर्देशपरा । किं परा तर्ह्येषा ? योगिनां विपत्तिध्यानाधिमोक्षव्यावृत्तिपरेति पूर्वोक्तमेव साधुः ॥ अथ यानि सूत्रे चतुर्दशाव्याकृतवस्तून्युक्तानि, किं तानि कुशलाकुशलपक्षाव्याकरणादव्याकृतवस्तूनि ? नेत्याह । किं तर्हि ? स्थापनीयत्वात् । प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः । शिष्याणां वादशिक्षार्थं स्थितीनां च चतुष्टयीम् ॥ अभिधर्मदीप २९३ ॥ त्रीणि खलु कथावस्तून्यारभ्य चत्वारि व्याकरणान्यावबुध्य चतस्रश्च स्थितीरवगम्य विगृह्य सभायां पञ्चभिरवयवैः स्वपक्षं प्रतिष्ठाप्य वादः करणीयो नातोऽन्यथा इत्यत्र विनिश्चयात् ॥ (<पृष्ठ २४९>) कानि पुनस्तानि चत्वारि व्याकरणानि ? काश्च ताश्चतस्रः स्थितयः ? तदवद्योत्यते- एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च । मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत् ॥ अभिधर्मदीप २९४ ॥ तत्रैकांशव्याकरणम्- किं यः कश्चिज्जायते सर्वोसौ म्रियते? ओमिति वाच्यम् । अथ यः कश्चिन्म्रियते सर्वोसौ जायत इति ? विभज्य व्याकर्तव्यम्- क्षीणास्रवो न जायतेऽन्यः सर्वों जायते । किं मनुष्यो विशिष्टोऽथ हीन इति ? परिपृच्छ्य व्याकर्तव्यम्- कानधिकृत्य पृच्छसि ? देवांस्तिर्यगादीन्वा ? यदि देवानारभ्य हीन इति वाच्यम् । अथ तिरश्चः श्रेष्ठ इति व्याकर्तव्यम् । किमन्यः स्कन्धेभ्यः पुरुषो वानन्य इति ? एष प्रश्नः स्थापनीयः, सदसतोरन्यानन्यत्वव्याकरणायोगात्, खपुष्पसौगन्ध्यदौर्गन्ध्यव्याकरणवत् ॥ (<पृष्ठ २५०>) स्थितयश्चतस्रो निर्दिश्यन्ते । स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा । अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता ॥ अभिधर्मदीप २९५ ॥ (<पृष्ठ २५१>) कश्चिद्धि वादी स्थानास्थाने संभवासंभवाख्ये संतिष्ठते कश्चिन्न संतिष्ठते । प्रथमः कथ्यः, द्वितीयस्त्वकथ्यः । परिकल्पे संतिष्ठते, यः परिकल्पिते दृष्टान्ते दार्ष्टान्तिकार्थे प्रसाधके संतिष्ठते, स च कथ्यो यो न सन्तिष्ठते सोऽकथ्यः । एवं प्रतिपदि ज्ञानवादितायां यः सन्तिष्ठते स कथ्यते । यस्तु न संतिष्ठते स दुर्मतिरकथ्यते । इदमिदानीं वक्तव्यम् । अथ केनानुशयेन कस्मिन्वस्तुनि संयुक्तः ? तत्र तावद्वस्तु क्षेत्रवस्त्वादिपञ्चप्रकारम् । तदिह संयोगवस्त्वधिकृतं वेदितव्यम् । तद्द्विविधमाश्रयालम्बननैयम्येन प्रकारनैयम्येन च । तत्राश्रयालम्बननैयम्येन तावच्चक्षुर्विज्ञानकायिकैरनुशयैः, रूपेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । ते च मनोधर्मायतने । एवं यावत्कायविज्ञानिकैर्यथाविषयमालम्बनतः, तत्संप्रयुक्तेषु संप्रयोगतः । मनोविज्ञानकायिकैर्द्वादशस्वायतनेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्याश्रयालम्बननियमः । प्रकारनैयम्येन तु दुःखदर्शनप्रहातव्यैः सर्वत्रगैः पञ्चसु निकायेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । असर्वत्रगैस्तु स्वनैकायिकेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्येवं सर्वत्र यथासंभवं वक्तव्यम् ॥ अथेदानीमतीतानागतप्रत्युत्पन्ननैयम्येन कः पुद्गलः कस्मिन्वस्तुनि कतमेनानुशयेन संयुक्तः ? तदिदमुद्भाव्यते- (<पृष्ठ २५२>) मानप्रतिघसंरागैर्वर्तमानोऽज्झितक्रियैः । जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि ॥ अभिधर्मदीप २९६ ॥ एते हि मानप्रतिघरागाः स्वलक्षणक्लेशाः सद्वस्तुविषयत्वात् । सामान्यलक्षणक्लेशास्तु दृष्टिविचिकित्साद्याः । अत एते मानादयोऽतीताः प्रत्युत्पन्नाश्च यस्मिन्वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन्वस्तुनि तैः संप्रयुक्तो वेदितव्यः । नह्येते सर्वस्य सर्वत्रोत्पद्यन्ते स्वलक्षणक्लेशत्वात् ॥ (<पृष्ठ २५३>) अजातैर्मानसैरेतैः सर्वत्रान्यैः स्वकाध्विकैः । सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः ॥ अभिधर्मदीप २९७ ॥ यथा प्रहीणा इति वर्तते । यस्य खलु योऽतीतः क्लेशप्रकारः प्रहीणोऽनागतोऽपि । अतो ये मानरागदयो नागता न प्रहीणास्तैः सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः । तदालम्बनानामुत्पत्तिसंभवान्मानसानां च त्रैयध्वविषयत्वात् । अतोऽन्यै रागादिभिरनागतैरनागत एव वस्तुनि संयुक्तोऽतीतैरतीत एव प्रत्युत्पन्नैः प्रत्युत्पन्न एव । मानसेभ्यो ह्यन्ये पञ्चविज्ञानकायिकाः । ततः सिद्धं भवत्यतीतप्रत्युत्पन्नैरपि मानसैरस्वाध्विकेऽपि वस्तुन्यप्रहीणैः संयुक्तः स्यान्न च केवलं मानसैरेवानागतैरेभिः सर्वत्र । किं तर्हि ? पञ्चविज्ञानकायिकैरपि । अनुत्पत्तिधर्मिकैस्तु पञ्चविज्ञानकायिकैः सर्वत्र त्रैयध्विकैर्वस्तुनि संयुक्तः, तद्विषयस्यातीतानागतप्रत्युत्पन्नत्वात् । सामान्यक्लेशैस्तु दृष्टिविचिकित्साविद्याख्यैस्त्रैयध्विकैरपि सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः, तेषां सामान्यक्लेशत्वाद्यावदप्रहीणा इत्यनुवर्तते । कथं पुनर्गम्यतेऽतीतादिषु वस्तुषु रागादय उत्पद्यन्ते तैश्च तत्र संयुक्तो भवतीति ? सूत्रादेव हि । भगवतोक्तम्- "त्रयश्छन्दरागस्थानीया धर्माः । अतीताश्छन्दरागस्थानीया धर्माः, अनागतप्रत्युत्पन्नाः । अतीतांश्छन्दरागस्थानीयान्धर्मान्प्रतीत्योत्पद्यते च्छन्दः । उत्पन्ने च्छन्दे संप्रयुक्तस्तैर्धर्मैर्वक्तव्यो (<पृष्ठ २५४>) न विसंयुक्तः ।" तथा- "यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्ने उत्पद्यतेऽनुनयो वा प्रतिघो वा ।" इत्येवमादि । कः पुनरत्र संयुज्यते ? यदा शून्याः सर्वसंस्काराः, नित्येन ध्रुवेण शाश्वतेनाविपरिणामधर्मेणात्मनात्मीयेन वा ? यथोक्तम्- "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान् प्रतिनिक्षिप्यान्यान् स्कन्धान् प्रतिसंदधातीत्यन्यत्र धर्मसंकेतात्" इति विस्तरः । (<पृष्ठ २५५>) तत्र प्रतिसमाधानम्-ऽसंयुक्ता स्कन्धसन्ततिः ।ऽ स्कन्धसन्ततौ हि स्कन्धलक्षणसन्तानैकत्वाभिमानात्, संषृत्या सत्त्वसंज्ञप्तिरित्यदोषः ॥ त्रयात्पुनरेतस्मात्- द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः । वस्तुसंयो नाख्यं द्वयं परमार्थतो विद्यते सत्त्वाख्यस्तु तृतीयोऽर्थः संवृत्या विद्यत इति । (<पृष्ठ २५६>) कुतः पुनरेतद्द्वयं परमार्थतो विद्यते ? तदुच्यते- सदसद्धेतुता यस्मान्मध्यस्थैश्च परिग्रहात् ॥ अभिधर्मदीप २९८ ॥ शुभाशुभफलं कर्मनैयम्याद्गुणदोषफलनियम्यता । किञ्च,ऽमध्यस्थैश्च परिग्रहात् ।ऽ मध्यस्था उच्यन्ते वीतक्लेशाः । तैः शुभं च शुभतोऽशुभं चाशुभतः, गुणाश्च गुणतः दोषाश्च दोषतः परिगृहीतः । तत्फलं चेष्टमिष्टतः परिगृहीतमनिष्टं चानिष्टतः । इति सिद्धं द्वयं परिनिष्पन्नं तृतीयं तूपचारत इति । युक्तं तावदिदम् । यदिदं प्रत्युक्तं वस्तुहेतुप्रत्ययात्प्रतीत्योत्पन्नं परमार्थतो विद्यते प्रत्यात्मवेदनीयत्वात्, तदालम्बनाश्च रागादयः द्रव्यतः सन्तीति । यत्पुनरिदमुक्तमतीतानागते वस्तुनि त्रैयध्विकैरनुशयैः संयुक्त इति तदेतत्साहसमाहोपुरुषिकमात्रम् । कः पुनरेतदतीतानागतादि द्रव्यतोऽभिवाञ्च्छतीत्याहाभिधार्मिकाः ॥ (<पृष्ठ २५७>) चत्वारः खल्विह प्रवचने वादिनः । कतमे चत्वारः ? तदपदिश्यते- सर्वमस्ति प्रदेशोऽस्ति सर्वं नास्तीति चापरः । अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः ॥ अभिधर्मदीप २९९ ॥ तत्र सर्वास्तिवादस्याध्वत्रयमस्ति स ध्रुवत्रयमिति । विभज्यवादिनस्तु दार्ष्टान्तिकस्य च प्रदेशो वर्तमानाध्वसंज्ञकः । वैतुलिकस्य अयोगशून्यतावादिनः (<पृष्ठ २५८>) सर्वं नास्तीति । पौद्गलिकस्यापि अव्याकृतवस्तुवादिनः पुद्गलोऽपि द्रव्यतोऽस्तीति । अत्र पुनः एभ्यो यः प्रथमो वादी भजते साधुतामसौ । तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः ॥ अभिधर्मदीप ३०० ॥ यः खल्वेष प्रथमो वादी सर्वास्तिवादाख्यः, एष खलु युक्त्यागमोपपन्नाभिधायित्वात्सद्वादी । तदन्ये बादिनो दार्ष्टान्तिकवैतुलिकपौद्गलिकाः न युक्त्यागमाभिधायिनः, तर्काभिमानिनस्ते । मिथ्यावादित्वादेते लोकायतिकवैनाशिकनग्नाटपक्षे (<पृष्ठ २५९>) प्रक्षेप्तव्याः । इत्यतश्च सर्वं सर्वगतमुपदर्शयिष्यामीति ॥ कः पुनरयं सर्वास्तिवादी साधुतां भजते ? तदिदमवद्योत्यते । एष खलु वादी इच्छत्यध्वत्रयं यस्मात्कृत्यतश्च ध्रुवत्रयम् । सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः ॥ अभिधर्मदीप ३०१ ॥ खल्वेष सर्वास्तिवादश्चतुर्धा भेदं प्रतिपन्नः । कथम् ? तदारभ्यते- भावाङ्कान्यथिकाख्यौ द्वाववस्थान्यथिको परः । अन्यथान्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः ॥ अभिधर्मदीप ३०२ ॥ तत्र भावान्यथिको भदन्तधर्मत्रातः । स ह्येवमाह- धर्मस्याध्वसु प्रवर्तमानस्यानागतादिभावमात्रमन्यथा भवति । न द्रव्यान्यथात्वम् । यथा सुवर्णस्य कटकादिसंस्थानान्तरेण क्रियमाणस्य पूर्वसंस्थाननाशे सुवर्णनाशः । क्षीरस्य वा दधित्वेन परिणमतो यथा रसवीर्यविपाकपरित्यागो न वर्णस्येति । तदेष वार्षगण्यपक्षभजमानत्वात्तद्वर्ग्य एव द्रष्टव्यः । यस्मातेषोऽवस्थितस्य द्रव्यस्य जातिलक्षणस्य समुदायरूपस्य वान्यथान्यथावस्थानलक्षणं परिणाममिच्छति । लक्षणान्यथिको भदन्तघोषक इह पश्यत्यतीतो धर्मोऽतीतलक्षणेन युक्तोऽनागतप्रत्युत्पन्नलक्षणाभ्यामवियुक्तः, एवमनागतप्रत्युत्पन्नावपि । यथा पुरुषः (<पृष्ठ २६०>) एकस्यां स्त्रियां रक्तोऽन्यास्वविरक्तः । तदस्याप्यध्वसंकरो भवत्येकस्य धर्मस्य त्रिलक्षणयोगाभ्युपगमात् । एषोऽपि पुरुषकारणि(?)वागुरायां प्रवेशयितव्यः । अवस्थान्यथिको भदन्तवसुमित्रः । स खल्वाह- धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्यान्यथान्यथास्तीति निर्दिश्यते । अवस्थान्तरविशेषविकारात्स्वभावापरित्यागाच्च । यथा निक्षेपवर्तिकैकाङ्कविन्यस्तैकेत्युच्यते, सैव शताङ्के शतं सहस्राङ्के सहस्रमिति । अन्यथान्यथिको भदन्तबुद्धदेवः । स ब्रूते । धर्मोऽध्वसु प्रवर्तमानः पूर्वापरमवेक्ष्यान्यथा चान्यथा चोच्यते । नैवास्य भावान्यथात्वं भवति द्रव्यान्यथात्वं वा । अथैका स्त्री पूर्वापरमपेक्ष्य माता चोच्यते दुहिता च । तद्वद्धर्मोऽनागतप्रत्युत्पन्नमपेक्ष्यातीत इत्युच्यते । तथेतरोऽपीतरद्वयमपेक्ष्येति । अस्याप्येकस्यातीतस्याध्वनः पूर्वोत्तरक्षणद्वयमपेक्ष्याध्वत्रित्वापत्तिदोषप्रसङ्गः । तदेभ्यश्चतुर्भ्यः सर्वास्तिवादेभ्यस्तृतीयः स्थविरवसुमित्रः पञ्चविंशतितत्त्वनिरासी परमाणुसंचयवादोन्माथीच । इत्यतोऽसावेव युक्त्यागमानुसारित्वादाप्तः प्रामाणिक इत्यध्यवसेयम् । भदन्तबुद्धदेवोऽपि तीर्थ्यपक्ष्यभजमानत्वान्न परिगृह्यते । भदन्तघोषकोऽप्यध्वसंकरवादित्वादेकैकस्याध्वनोऽध्वत्रयलक्षणभाग्भवति । (<पृष्ठ २६१>) इत्यतस्तृतीय एवापदोषः । यस्मात्- कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति । तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः ॥ अभिधर्मदीप ३०३ ॥ ये खलु भगवतोक्ताः स्वभावसिद्धास्त्रैयाध्विका धर्मा अतीतानागतप्रत्युत्पन्नास्तेषामयमाचार्यः क्रियाद्वारेणावस्थाभेदमिच्छत्यजहत्स्वरूपो हेतुसामग्रीसन्निधानप्रबोधितशक्तिः । क्रियावान् हि संस्कारो वर्तमान इत्युच्यते । स एव त्यक्तक्रियोऽतीतोऽनुपात्तक्रियोऽनागतः । इत्येवं च सति कालत्रयस्यैकाधिकरण्यमेकाधिष्ठानव्यापारपरिच्छेद्यत्वं चोपपन्नम् । अन्यथैकद्रव्यजातिनिमित्ताभावे वैयधिकरण्ये सति कालत्रयसंबन्धाभावः प्राप्नुयादिति । अत्राह चोदकः- न, अतीतानागतस्यार्थस्य प्रज्ञप्त्या व्यपदेशसिद्धेः । न, परमार्थद्रव्याभावे निरधिष्ठानप्रज्ञप्तिव्यपदेशानुपपत्तेः । वर्तमानापेक्ष्यस्तद्व्यपदेश इति चेत् । न । वर्तमानस्वरूपस्थितिशक्तिक्रियाभावे सत्त्वानुपपत्तेः, सदसतोरपेक्षासंबन्धाभावाच्च । सत्त्वलक्षणमिदानीमेव द्योत्यते अतीतादीनां पदार्थानाम्- (<पृष्ठ २६२>) बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम् । परमार्थेन संवृत्या द्वयेनापेक्षयापि च ॥ अभिधर्मदीप ३०४ ॥ यस्य खल्वर्थवस्तुनः स्वभावसिद्धस्वरूपस्याविपरीताकारया धर्मोपलक्षणया परिच्छिन्नं लक्षणमुपलक्ष्यते तत्सद्द्रव्यमित्युच्यते । तत्पुनः सत्प्रतिभिद्यमानं चतुर्विधं भवति । (<पृष्ठ २६३>) परमार्थेन यन्नित्यं स्वभावेन संगृहीतं न कदाचित्स्वमात्मानं जहाति, विशिष्टज्ञानाभिधानापौरुषेयविषयिसंबन्धं तत्परमार्थसदित्युच्यते । यत्पुनरनेकपरमार्थसत्यपृष्ठेन ब्यवहारार्थं प्रज्ञप्तिरूपतया निर्दिश्यते तत्संवृतिसत् । तद्यथा धटपटवनपुग्दलादिकम् । किञ्चिदुभयथा । तद्यथा पृथिव्यादि । किञ्चित्सत्त्वा पेक्षया पितृपुत्रगुरुशिष्यकर्तृक्रियादि ॥ अथ यदिदमुक्तं द्रव्यसन्तोऽतीतानागताध्वस्था धर्मा इति तदागमयुक्त्यनभिधानादभिधानमात्रम् । तस्मादागमयुक्तिभ्यामुपपाद्योऽयमर्थ इत्यत इदं प्रतिज्ञायते- (<पृष्ठ २६४>) सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् । धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत् ॥ अभिधर्मदीप ३०५ ॥ उक्तं हि भगवता- "अस्ति भिक्षवोऽतीतं रूपं नोचेदतीतं रूपमभविष्यन्नेमे सत्त्वा अतीते रूपे समरञ्ज्यन्तः । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्मादिमे सत्त्वा अतीते रूपे संरञ्ज्यन्ते ।" एवमनागतप्रत्युत्पन्नं चेति वाच्यम् । विभक्तिप्रतिरूपकोऽयं निपात इति चेत् । न । वर्तमानेऽपि तत्प्रसङ्गात् । क्रियावचनेन चोत्तरपदेन पूर्वस्य क्रियावचनस्यैव पदस्य सामानाधिकरण्यात् । (<पृष्ठ २६५>) पुनश्चोक्तं भगवता- "रूपमनित्यमतीतानागतम्, कः पुनर्वादः प्रत्युत्पन्नस्य ? एवंदर्शी श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षो भवत्यनागतं रूपं नाभिनन्दति । प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति । अतीतं चेद्रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत्; यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकः अतीते रूपेऽनपेक्षो भवति" इति विस्तरः । तथोक्तम्- यच्छारिपुत्र कर्माभ्यतीतं क्षीणंनिरुद्धं विगतं विपरिणतं तदस्तीति । तच्चेत्कर्म शारिपुत्र नाभविष्यन्नेहैकतीयस्तद्धेतोः तत्प्रत्ययादपाय दुर्गतिविनिपातं कायस्य भेदान्नरकेषूपपत्स्यते" इति विस्तरः । (<पृष्ठ २६६>) तदाहितचित्तभावनां सन्धाय वचनाददोष इति चेत् । न । उक्तोत्तरत्वात् । उक्तोत्तरो ह्येष वादः । किं तिलपीडकवत्पुनरावर्तसे ? किञ्च, भावनाभाव्यमानचित्तयोः स्वरूपशक्तिक्रियानुपपत्तेः पुष्टवासिततैलवत्, अन्यानन्यत्वादिवक्ष्यमाणदोषाच्च । परमार्थशून्यतासूत्रादसदिति चेत् । न । तदर्थापरिज्ञानात् । तत एवानागताद्यस्तित्वसिद्धेश्च । तत्रैतत्स्यात्- परमार्थशून्यता सूत्रे भगवता (<पृष्ठ २६७>) विस्पष्टमनागतादिनास्तित्वं प्रदर्शितम् । तत्र ह्यक्तम्- "चक्षुरूत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति विस्तरः । अतीतानागतसद्भावे चागतिगतिदोषाभ्युपगमः प्राप्नोतीति । एतच्च न । कुतः ? सूत्रार्थापरिज्ञानात् । अत एवानागताद्यस्तित्वसिद्धेश्च । सूत्रस्य तावदयमर्थः । यदुक्तम्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति तद्वेदोक्तवादविधिप्रतिषेधार्थं सांख्यमतव्युदासार्थं च । वेदे ह्यक्तम्- "पञ्चत्वमापद्यमानस्य चक्षुरादित्यादागतं पुनस्तत्रैव प्रतिविगच्छति । श्रोत्रमाकाशम् । घ्राणं पृथिवीम् । जिह्वा आपः । कायो वायुम् । मनः सलिलं सोममित्यर्थः ।" तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति विस्तरः । (<पृष्ठ २६८>) सांख्याः खल्वप्याचक्षते- "चक्षुष्प्रधानादागच्छति तत्रैव च पुनर्विगच्छति" इति । तन्निरासार्थ च भगवानवोचत्- "चक्षरुत्पद्यमानं न कुतश्चिदागच्छति ।" अदेशप्रदेशस्थाः खल्वनागतातीतपरमाण्वविज्ञप्तिसंज्ञिता धर्माः इति तदागमनगमनानुपपत्तिः । कस्तर्हि वाक्यार्थ ।- "अभूत्वा भवति । भूत्वा च प्रतिविगच्छति" इति ? द्विविधं हि चक्षुर्द्रव्यसदेव परमार्थसतो यदप्रबुद्धमुभयम्(?) । अन्यत्प्रबुद्धमनु(- द्धमु ?)पात्तक्रियम् । पूर्वं तद्धेतून्प्रतीत्य क्रियामुपादत्ते प्रबुध्यत इत्यर्थः । उपात्तक्रियं च द्वितीयम् । तद्धि क्रियामुज्झत्प्रतिविगच्छतीत्युक्तं भवति । सांख्यमतनिषेधार्थं वा । सांख्यानां खल्वेकं कारणं नित्यं स्वां जातिमजहत्तेन तेन विकारविशेषात्मना भूत्वा भूत्वान्येनान्येन कार्यविशेषात्मना परिणमतीति । तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति । चक्षुरभूत्वा वर्तमानेऽध्वनि क्षणमात्रं क्रियारूपमादय त्यक्त्वा पुनरदर्शनं गच्छति । किञ्चान्यत्, अत एवानागतास्तित्वसिद्धेः । यदुक्तमस्मिन्नेव सूत्रे चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इत्यत्रैतदादर्शितम् । सदिदं चक्षुरन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानोपाधिवशेन क्रियामुपाददानं न कुतश्चिदागच्छति । कुतः पुनस्तत्सत्त्वमिति चेत् । मुख्यसत्ताविष्टे कर्तरि शानचोविधानान्निरुध्यमानवदिति । तस्माद्दुर्विहितवेताडोत्थानवत्सौत्रान्तिकैः स्वपक्षोपघाताय सूत्रमेतदाश्रीयते । एवं तावदागमात्सिद्धमध्वत्रयास्तित्वम् । युक्तितोऽपि-ऽधीनामगोचरत्वाच्च तत्सत्त्वं वर्तमानवत् ।ऽ तदाकारया खलु बुद्ध्या यस्यार्थस्य स्वसामान्यलक्षणं परिच्छिद्यते, यश्च बुद्धोक्तनामकायधर्मकायाभ्यामभिद्योत्यते स परमार्थतो विद्यते । कथम् ? वर्तमानचक्षूरूपादिवत् । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धः खल्वकृतकैति शिष्टाः प्रतिपद्यन्ते ॥ असदालम्बनापि बुद्धिरस्तीति चेत् । अत्रापदिश्यते- (<पृष्ठ २६९>) नासदालम्बना बुद्धिरागमादुपपत्तितः । आगमस्तावत्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानं यावन्मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानम् । एतावच्चैतत्सर्वमस्ति" इत्युक्तं भगवता । तत्र मनोविज्ञानं त्रैयध्विकासंस्कृतधर्मविषयायम, पञ्चविज्ञानकायाः प्रत्युत्पन्नपञ्चविषयालम्बनाः । न तु क्वचिदसदालम्बनमुक्तं नापि तदस्तीति तद्विषयबुद्ध्यभावः । तथोक्तम्- "यदुत लोके नास्ति तदहं द्रक्ष्यामि" इति विस्तरः । (<पृष्ठ २७०>) तथा- "त्रयाणां सन्निपातः स्पर्शः । सहजाता वेदना" इति विस्तरः । एतेनाभिधानाभिधेयसंबन्धः प्रत्युक्तः । तदेवं सति सूत्रेऽस्मिन्मध्यमाप्रतिपत्प्रदर्शिता । यदुत- केनचित्प्रकारेण शून्याः संस्काराः मिथ्यापरिकल्पितेन पुरुषालयविज्ञानाभूतपरिकल्पादिना । केनचिदशून्याः, यदुत- स्वलक्षणसामान्यलक्षणाभ्यामिति । यथा कात्यायन सूत्रे- "लोकसमुदयं ज्ञात्वा या लोके नास्ति ता सा न भवति । लोकनिरोधं ज्ञात्वा या लोकेऽस्ति ता सा न भवति इतीमौ द्वावन्तौ परित्यज्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति ।" न चैतद्द्व यमस्तिनास्तित्वाख्यमेकाधिकरणं विरोधादुपपद्यते न च निरधिष्ठानम् । नापि खपुष्पशून्याधिष्ठितम् । (<पृष्ठ २७१>) युक्तिरपि । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धस्याकृतकत्वात् । नास्तिशशविषाणमित्यस्य ज्ञानस्याभिधानस्य चासद्विषयत्वमिति चेत् । तत्र ब्रूमः- अन्यापेक्ष्येऽथ संबन्धप्र्तिषेधोऽश्वशृङ्गयोः ॥ अभिधर्मदीप ३०६ ॥ योऽयं नास्ति शशविषाणादिप्रतिषेधोऽस्य तर्हि किं प्रतिषेध्यम् ? यद्यसदालम्बना बुद्धिर्नास्त्यभिधानं वा निरभेधेयमिति ? अत्रापदिश्यते ।ऽअन्यापेक्ष्येऽथ संबन्धप्रतिषेधः ।ऽ कार्यकारणादिस्त्रिविधः संबन्धोऽत्र गोविषाणादिषु पूर्वदृष्टः शशविषाणादिषु प्रतिषिद्ध्यते । शशशिरोमात्रकाकाशधातुसंबन्धदर्शनाद्यदि शशशिरस्यपि विषाणम विष्यत्तद्वदेवोपलप्स्यत । न चोपलभ्यते । तस्मात्संबन्धान्तरापेक्षं शशविषाणशब्दगडुमात्रं नञा संबन्ध्यन्तरसंबन्धबुद्ध्यपेक्षेणावद्योत्यते, न तु किञ्चिदभिधानमभिधेयं वा प्रतिषेध्यात्मना श्रीयत इति सिद्धं सर्वा बुद्धिः सद्विषयेति । एतेनाजातं ध्वस्तं च गोविषाणं प्रत्युक्तम् । गोशिरोमात्रमाकाशधातुवेष्टितं दृष्ट्वा जनिष्यते ध्वस्तं वा गोविषाणमिति द्रष्टव्यम् । त्रयोदशायतनप्रतिषेधबुद्धिविषयादस्तित्वादसदालम्बना बुद्धिरस्तीति चेत् । न । भगवतैव वाग्वस्तुमात्रमेतदिति निर्णीतत्वात् । उक्तं हि भगवता हस्ततालोपमे सूत्रे- "एतावत्सर्वं यदुत चक्षू रूपं च यावन्मनो धर्मांश्च । यः कश्चिदेतद्द्वय प्रत्याख्यायान्यद्द्वयं ज्ञेयमभिधेयं वा (<पृष्ठ २७२>) कल्पयेत्वाग्वस्तुमात्रमेवास्य स्यात् । पृष्टो वा न संप्रजानीयादुत्तरे वा संमोहमापद्येत । यथापि तदविषयत्वात् ।" इति । किञ्च, अस्तिशशविषाणाभिधानाभिधेयवन्नास्त्युक्तिरपि वाग्वस्तुमात्रं विषाणाख्याभिधेयार्थसंबन्धविहीनम् । एतेन षष्ठः स्कन्धः प्रत्युक्तः । किञ्च, पञ्चस्कन्धविषयविपरीतज्ञानप्रतिषेधात् । अलातचक्रबुद्धिप्रतिषेधवत्, द्विचन्द्रबुद्धिप्रतिषेधवच्च । उक्तं हि भगवता- "ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति" इति स्कन्धविषये चैषा नित्यात्मद्रव्यभ्रान्तिरित्यवद्योत्यते । किञ्च, नञः सदसत्प्रतिषेध्यविषयत्वानुपपत्तेश्च । सन्तं तावदर्थं न प्रतिषेद्धुं समर्थः । यदि हि सन्तमर्थं शक्नुयात्प्रतिषेद्धुं न राजानो हस्त्यश्वं बिभृयुर्न सन्ति दस्यव इत्येवं ब्रूयुः । इत्युक्ते दस्यूनामभावः स्यात् । न चैतदस्ति । अथासन्तं प्रतिषेधयति, तेनाभावप्रतिषेधाद्भाव एव स्यादिति । तस्मान्नञो न गोविषाणादिः नापि शशविषाणादिः प्रतिषिध्यते । किं तर्हि । शशाकाशधातुसंबन्धबुद्ध्यपेक्षेण गोविषाणादिद्रव्यासंबन्धबुद्धयोऽवद्योत्यन्ते । सिद्धा सदालम्बनैव बुद्धिः । एवमन्यत्रापि । रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः । सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत् ॥ अभिधर्मदीप ३०७ ॥ रूपादौ खल्वपिवस्तुन्यभ्यतीते सत्येव बुद्धिरुत्पद्यते । न ह्यसदालम्बना बुद्धिरुत्पद्यते । सदालम्बना बुद्धिरस्तीत्युपपादितम् । न च नो द्रव्यं विनश्यतीत्युक्तम् । यदेतद रूपादिद्रव्यं पूर्वानुभूतं तदेव तत्स्मृत्या गृह्यत इत्युपरिष्टादपि साधयिष्यामः । या तर्हि निरुद्धदेवदत्तानुस्मृतिर्धटानुस्मृतिर्वा सा कथं जायते ? अतीतानाग तयोर्देवदत्तघटप्रज्ञप्त्युपादानयोरिति । अत्र ब्रूमः । सापि खलु साविद्यास्यासदाकारोत्पद्यते स्थाण्वादौ पुरुषादिबुद्धिवत् । निरविद्यस्य तु शास्तुस्तत्त्वाकारा भवति रूपादिधर्ममात्रबुद्धिरेव । (<पृष्ठ २७३>) तद्यथा परचित्तविदः स्वलक्षणाकारा बुद्धिरुत्पद्यते । तत्सामर्थ्योपाधिवशेनान्यथापि जानीते । तद्वत्तत्सामर्थ्येण भाविनीं भूतां च संज्ञां रूपादिषु देवदत्तघटलक्षणां प्रतिपद्यत इति ॥ इतश्च सदतीतानागतम्- हर्षोत्पादभयोद्वेगस्मृत्युत्पत्त्यङ्गभावतः । अतीतानागतं हि मित्रममित्रं वा मनसि कृत्वा हर्षोत्पादभयादयोऽभ्युपजायन्ते । ते चानिमित्ता न भवितुमर्हन्ति । कथम् ? वर्तमानवत् । । तद्यथा सति वर्तमाने मित्रेऽमित्रे वा हर्षभयादयो भवन्ति नासतीति तद्वत् । किञ्च, साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत् ॥ अभिधर्मदीप ३०८ ॥ विद्यमानस्य खल्वनागतस्य वस्तुनोऽतीतप्रत्युत्पन्नसहकारिकारणसामग्रीगृहीतस्य शक्तिमात्रमाविर्भवति । कथम् ?ऽसदीपघटरूपवत् ।ऽ तद्यथा तमसि विद्यमानस्य घटरूपस्य स्वात्मोद्भावनशक्तिः प्रदीपादिकारणसामग्रीसन्निधाने सति भवति तद्वदिति । इतश्चास्त्यनागतम् ॥ जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् । तद्यथा अस्ति विपरिणमते वर्धते क्षीयते विनश्यतीति सति मुख्यसत्ताविष्टे कर्तरि एते पञ्च भावविकारा भवन्ति । तद्वज्जायत इत्ययमपि षष्ठः भावविकारः सति मुख्याविष्टे कर्तरि भवितुमर्हतीति । किञ्च जायमानता सत्ता नश्यता नासामानाधिकरण्ये सत्यनन्यतापत्तिसङ्करदोषप्रसङ्गात् । वैयधिकरण्याभ्युपगमे संबन्धाभावादेकत्र तद्व्यपदेशानुपपत्तिः । किञ्च, जायमानतादिक्रियाभावेऽस्तित्वायोगात् । कथम् ? शशविषाणवदिति । उपचारसत्तेति चेत् । न । मुख्यसत्तायां सत्यामुपचारसद्भावात्, वक्ष्यमाणदोषाच्च । इतश्चास्ति- सतः क्रियाङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत् ॥ अभिधर्मदीप ३०९ ॥ तद्यथा विकार्ये कर्मणि सति करणं दृष्टं काशात्कटी करोति । प्राप्ये च कर्मणि सति ग्रामं गच्छति देवदत्तः सूर्यं च पश्यतीति गमनदृशिक्रिये सति कर्मणि भवतः । तद्वन्निर्वर्त्येऽपि कर्मणि मुख्यद्रव्यास्तित्वे सति देवदत्तकर्तृका घटक्रियोपपद्यत इति ॥ सांख्यः पश्यति- विद्यमानमेव जायते । तद्यथा क्षीरे विद्यमानं दधि, कार्यकारणयोरेकत्वात् । तं प्रत्यपदिश्यते- (<पृष्ठ २७४>) द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते । यदि खलु क्षीरे दध्यादयो विकाराः सन्ति बीजे चाङ्कुरादयः शुक्रशोणिते च कललादयः, तेषां जातानां क्षीरादिवज्जन्म पुनर्न युज्यते । यथा च न युज्यते तथा पूर्वमेवाविष्कृतम् । वैशेषिको मन्यते- कपालेष्वविद्यमानं घटद्रव्यं तन्तुषु चाविद्यमानं पटद्रव्यं कपालतन्तुसंयोगादुत्पद्यते । गौण्या च कल्पनया विप्रकृता(ष्टा ?)वस्थाविषया जनिकर्तृ सत्ता व्यपदिश्यत इति । अस्याप्यवयविद्रव्यं सहावयवैः पूर्वमेव विहितोत्तरम् । यत्पुनरुक्तमुपचारसत्तया जनिकर्तोपदिश्यत इत्यत्र ब्रूमः- मुख्यसत्ता गुणाभावाद्गौणी सत्ता न विद्यते ॥ अभिधर्मदीप ३१० ॥ न हि मुख्यसत्तायां गुणाभावेऽवयवाभावे वा कारणेषु प्रागुत्पत्त्यभावे वा कार्यसत्तोपचारो युज्यते ॥ कस्मात्? साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् । तद्यथा मधुरवाग्देवदत्त इति वाचि माधुर्यगुणयुक्तस्य गुडद्रव्यस्य मधुनो वा साधर्म्यमभिलषणीयता विद्यते इत्यतो वाचि माधुर्यशब्दः प्रयुज्यते । कन्यामुखे च चन्द्रकान्तिसादृश्यं दृष्ट्वा चन्द्रशब्दः प्रयुज्यते । वाहीके च जाड्यसाधर्म्याद्गोशब्दः प्रयुज्यते- गौरयं वाहीक इत्येवमादि । न च तथा कश्चिदगुणावयवगन्धोऽपि तन्तुषु तत्संयोगे वा प्रागुत्पत्त्यभावे निरात्मनः कार्यस्यास्तीति । न च कार्यं किञ्चिदीषत्कृतमुपपद्यते । निष्ठासत्तैककालाभ्युपगमात् । प्रागव्यपदेश्यं वस्तुमात्रं विप्रकृतं जायत इति चेत् । न । उक्तोत्तरत्वात् । मम तु चन्द्रकोटीप्रकाशलक्षणो दृष्टान्तो विद्यते । आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् ॥ अभिधर्मदीप ३११ ॥ अयं हि जनिरभिनिष्क्रमणादिवचनो नासत्प्रादुर्भाववचनः । कथम् ?ऽदारकादिवत्ऽ । तद्यथा दारको मुख्यसत्ताविष्टो मातृकुक्षेर्निष्क्रमणे जायत इत्युच्यते । तद्वदत्रापीति । दार्ष्टान्तिकः खलु ब्रूते- कारणशक्तिषु निरात्मकजनिकर्त्रुपचारः प्रवर्तते । तं प्रति ब्रूमः- स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः । स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत् ॥ अभिधर्मदीप ३१२ ॥ न ह्यसतः कस्यचिच्छशविषाणादेरुत्पादो भवति नैरात्म्याविशेषसर्वासदुत्पत्तिप्रसङ्गात् । (<पृष्ठ २७५>) तद्धेतुकानां च जायमानजातनश्यत्कालेष्वात्मास्तित्वस्थितशक्तीनामनुपपत्तेः । कारणानां च कार्यात्मकत्वात्प्रागुत्पत्तेरसत्त्वम्, असत्त्वादनुपपत्तिदोषापत्तिः । कुतश्च नाभावो भावीभवति ? स्थितिशक्तिक्रियायोगात् ॥ कथमयोग इति चेत् । तदाविष्क्रियते- स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् । वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम् ॥ अभिधर्मदीप ३१३ ॥ इह खलु भवतामहेतुको विनाशः सर्वोत्पत्तिमतां नित्यसंनिहितः । तस्मिंश्च सति जन्मस्थितिशक्तिक्रिया न विद्यन्ते, विरोधात् । तास्वसतीषु कारणमपि चैव विनष्टम् । तदस्मिन्नसति किं प्रतीत्य असन्निरात्मकं वस्तु वस्तुतां यातीत्याचक्ष्व । कथं ते कार्यं कारणं वोपपद्यते ? सतां हि संज्ञासंज्ञिज्ञानज्ञेयक्रियाकारणहेतुफलादीनामन्योन्यापेक्षप्रज्ञप्तेः । अथ तवाभावो न कश्चिदस्ति भावविरोधी, कथं तर्हि स भावो नष्ट इत्युच्यते ? तस्माद्भवतो वाङ्मात्रमेतत्, मम तु विद्यमानयोरेवोपकार्युपकारकभावो युक्तः । यस्मात्- (<पृष्ठ २७६>) लोके दृष्टः सतोरेव परस्परमनुग्रहः । तद्वदेवोपघातोऽपि नाश्वशृङ्गाहिपादयोः ॥ अभिधर्मदीप ३१४ ॥ अनुग्रहोपघातयोश्च कार्यकारणसंबन्धोपचारश्च सतोरेव भवतीत्यास्तनन्धयेभ्यः प्रसिद्धमेतत्, नासतोः न च सदसतोरिति ॥ वैतुलिकः कल्पयति- यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते । यत्खलु निस्वभावं निरात्मकं हेतून्प्रतीत्य जायते तस्य खलु स्वभावो नास्ति । न हि तत्कारणेषु प्रत्येकमवस्थितं नापि भागशो नाप्यन्यत्र क्वचित् । नापि हेतुसमुदाये तद्रूपाभावात् । यच्च न क्वचिदस्ति तत्कतमेन स्वभावेनोत्पत्स्यत इति नास्ति स्वभावः । यस्य च नास्ति स्वभावः तत्कथमस्तीत्युच्यते ? तस्मादलातचक्रवन्निस्वभावत्वात्सर्वधर्मा निरात्मान इति । तं प्रत्यपदिश्यते- (<पृष्ठ २७७>) न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा ॥ अभिधर्मदीप ३१५ ॥ ब्रह्मोद्यमेतत्- यत्प्रतीत्यसमुत्पन्नं तत्संवृत्यात्मना विद्यते वनसंघादिवत् । यत्परमार्थतो विद्यते तरय प्रतीत्यावस्थाशक्तिमूर्तिक्रियादिमात्रमुत्पद्यत इति ॥ तस्य तर्हि हेतवो विद्यमानस्य कमुपकारं कुर्वन्तीति ? अत्राभिधीयते । न खलु द्रव्यस्वभावास्तित्वं प्रति कञ्चिदुपकारं कुर्वन्ति । न च स्वभावस्यापेक्ष्य प्रज्ञप्तिः । किं तर्हि ? प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः । राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः ॥ अभिधर्मदीप ३१६ ॥ तद्यथाभिजातस्य राजपुत्रस्य विद्यमानस्य मन्त्रिणः सबलसमुदयाः परिग्रहानुग्रहमात्रेणोपकुर्वन्तो राजत्वं कुर्वन्त्येवमनागतस्य वस्तुनः सतो हेतुप्रत्ययाः समेत्य लक्षणमात्रं वर्तमानाख्यमैश्वर्याधिपत्यं कुर्वन्तीत्यवबोद्धव्यम् ॥ अन्ये पुनर्वर्णयन्ति- धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते । चितानां परमाणूनां यद्वदात्मोपलम्भने ॥ अभिधर्मदीप ३१७ ॥ यथा खलु परमाणुसंचयश्चक्षुषा गृह्यते, प्रत्येकं परमाणवो न गृह्यन्ते, तथा कारणसामग्र्ये सति धर्माणां क्रियासामर्थ्यमुपजायत इति द्रष्टव्यम् । भदन्तकुमारलातः पश्यति- वातायनप्रविष्टस्यान्तःपार्श्वद्वयेऽपि त्रुटयः सन्ति । रश्मिगतस्य तु दर्शनमस्य त्रुटे रश्मिपार्श्वगास्त्वनुमेयाः । एतेन व्याख्यातं धर्माणामध्वयोर्द्वयोरस्तित्वम् । प्राप्य ज्ञानातिशयं मुनयः पश्यन्ति, तास्तु धीर्हि त्रिकजा ॥ (<पृष्ठ २७८>) यस्तु मन्यतेऽतीतं कर्माभावीभवत्यनागतं च न विद्यते तं प्रत्यपदिश्यते- कर्मातीतमसद्यस्य फलं भावि करोत्यसत् । व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात् ॥ अभिधर्मदीप ३१८ ॥ न हि भवतो वर्तमानकालास्तित्वमुपपद्यते, अतीतानागतहेतुफलाभावात्, वन्ध्याव्यन्तरपुत्रजन्मवत् ॥ अत्र प्रत्यवतिष्ठन्ते दार्ष्टान्तिकाः- न ब्रूमः सर्वथातीतं न विद्यते । किं तर्हि ? द्रव्यात्मना न विद्यते प्रज्ञप्त्यात्मना तु सदिति । तत्र प्रतिसमाधीयते- (<पृष्ठ २७९>) नामसल्लक्षणाभावाद्द्रव्यसत्याङ्कसिद्धितः । अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता ॥ अभिधर्मदीप ३१९ ॥ सोपादानं हि सर्वं प्रज्ञप्तिसत् । न च वर्तमानमुपादानमुपपद्यते । अनागताभ्यतीतस्य तस्मान्निरुपादानस्य प्रज्ञप्त्यभावादसदेतत् । यदि तर्ह्यनागतं चक्षुरादिद्रव्यं विद्यते कस्मान्न पश्यति न दृश्यते न विजानाति ? न व्यक्तं कारित्राभावादिति ॥ तदत्र कोशकारः प्रश्नयति- को विघ्नः यदि चक्षुर्विद्यते किं न पश्यति ? वयं ब्रूमः- अङ्गवैकल्यम् दृष्टं हि प्रदीपाद्यङ्गवैकल्ये वर्तमानस्यापि चक्षुषो रूपादर्शनम् । स प्रत्याचष्टे- सर्वस्य सदास्तित्वे कुतोऽङ्गवैकल्यम् ? वयमाचक्ष्महे- न तत्सर्वास्तिता सदा । त्रैयध्विकानि खल्वत्राङ्गानि विवक्षितानि । तत्र केषाञ्चिदसांनिध्यं भवति तद्वैकल्यात्कारित्रं न करोतीति । स प्रत्याचष्टे- तत्कथं (<पृष्ठ २८०>) किं लक्षणात्कारित्रं ततो वा द्रव्यात्, किमन्यदाहोस्विदनन्यदिति ? तत्र वयं प्रतिवद्मः- श्रूयतां सद्भ्यः छात्रासनमध्यास्य न हि सर्वज्ञप्रवचनगाम्भीर्यं सदेवकेनापि लोकेन शक्यं तर्कमात्रेणावबोद्धुम् । यस्मात्सोम्य- दुर्बोधा खलु धर्मता ॥ अभिधर्मदीप ३२० ॥ तथापि तु श्रूयताम् ॥ (<पृष्ठ २८१>) वर्तमानाध्वसंपातात्सामग्र्याङ्गपरिग्रहात् । लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते ॥ अभिधर्मदीप ३२१ ॥ अनागतस्य खलु धर्मस्य वर्तमानाध्वसंपातादन्तरङ्गवहिरङ्गसामग्र्याङ्गपरिग्रहात्लब्धसामर्थ्यस्य धर्मस्य यः फलाक्षेपस्तत्कारित्रमित्युच्यते । सा च वर्तमानकाला वृत्तिः कारित्रमित्याख्यायते । तत्र यो ब्रूतेऽनन्यत्कारित्रमिति तस्य द्रव्यस्वभावपरित्यागः प्रसज्यते ॥ शास्त्रे तु खलु- न वर्तमानता रूपमतीताजातता न च । यतोऽतो नाध्वसंचाराद्रूपात्मान्यथतेष्यते ॥ अभिधर्मदीप ३२२ ॥ यदि द्रव्यात्मनो नान्यथात्वं किं तर्हि हेतून् प्रतीत्य जायते ? ब्रूमः- अवस्था जायते काचिद्विद्यमानस्य वस्तुनः । तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया ॥ अभिधर्मदीप ३२३ ॥ तत्रावस्थाशक्तिप्रचयक्रियापेक्षा द्रव्यवशा शक्तिः क्रियापेक्षाकृतं सामर्थ्यम् । क्रियानागतफला । द्रव्यवृत्तिर्वेला कालो वर्तमानाख्यः । मूर्तिः परमाणुप्रचयविशेषः । सत्ता प्रबोधाख्यं प्रज्ञप्तिसत्यम् । इति सर्वमेतदन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानापेक्षासक्तस्वरूपम् ॥ (<पृष्ठ २८२>) अत्र सर्वास्तिवादविभ्रष्टिर्वैतुलिको निराह- वयमपि त्रीन् स्वभावान् कल्पयिष्यामः । तस्मै प्रतिवक्तव्यम्- परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः । यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः ॥ अभिधर्मदीप ३२४ ॥ ते खल्वेते भवत्कल्पितास्त्रयः स्वभावाः पूर्वमेव प्रत्यूढाः । एवमन्येऽप्यसत्परिकल्पाः प्रोत्सारयितव्याः । इत्येतदपरमध्वसंमोहाङ्कनास्थानं कोशकारकस्येति । गतमेतत्प्रासङ्गिकं प्रकरणम् । शास्त्रमेवानुवर्तताम् ॥ व्याख्यातमिदं यस्मिन्वस्तुनि यैः क्लेशैर्यदवस्थैर्यः संयुक्तः । इदमिदानीं वक्तव्यम् । यद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि ? यस्मि वा वस्तुनि संयुक्तोऽप्रहीणं तस्य तद्वस्तु ? यत्तावद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि । स्याद्वस्तुनि संयुक्तो न च तद्वस्त्वप्रहीणं यथा तावद्दर्शनमार्गे । (<पृष्ठ २८३>) अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये । दुःखज्ञाने उत्पन्ने समुदयज्ञाने चानुत्पन्ने दुःखदर्शनप्रहातव्यं वस्तु प्रहीणं भवति । तस्मिन्प्रहीणेऽपि समुदयदर्शनप्रहातव्योऽप्रहीणः, तदालम्बनैः सर्वत्रगैः संयुक्तः । भावनामार्गेऽपि- प्रहीणे प्राक्प्रकारेऽपि शेषैस्तदवलम्बिभिः ॥ अभिधर्मदीप ३२५ ॥ नवानां प्रकाराणां यो यः प्रकारः पूर्व प्रहीणस्तस्मिन्प्रहीणेऽपि शेषैस्तदवलम्बिभिः क्लेशैः संयुक्तो विज्ञातव्यः ॥ अथ कस्मिन्वस्तुनि कत्यनुशया अनुशेरते ? अत्र चालम्बननियम एव तावद्दर्शयितव्यः । कतमो धर्मः कतमस्य विज्ञानस्यालम्बनम् ? तत एव तद्विस्पष्टं गम्यते- अमुष्मिन्वस्तुनि इयन्तोऽनुशया अनुशेरत इति । तदिदमभिधर्मगह्वरं प्रतायते- धर्माः षोडश विज्ञेयाः प्रत्येकं त्रिभवात्मकाः । पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च ॥ अभिधर्मदीप ३२६ ॥ धर्मास्तावत्कामरूपारूप्यधातुषु प्रत्येकं पञ्चप्रकारा दुःखादिदर्शनहेया अप्रहेयाश्च निर्मला इति षोडश भवन्ति । एवं विज्ञानानि द्रष्टव्यानि ॥ तत्र तावदाभिधार्मिकोऽन्यैः पृष्टः- धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् । धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः ॥ अभिधर्मदीप ३२७ ॥ धर्मसंग्रहविज्ञाने वा पृष्टो धात्वायतनस्कन्धेषु पातयित्वा लक्षयेत् । (<पृष्ठ २८४>) ज्ञानेषु पृष्टः सत्येषु पातयित्वा लक्षयेत् । अनुशयेषु पृष्टः प्रकारेषु पातयित्वा निर्दिशेत् । एवमसंमूढो व्याकरोतीति ॥ तत्र तावत् । विज्ञानेषु षोडशधर्माश्चोद्यन्ते । कस्य विज्ञानस्य कतमे धर्मा गोचरा इति ? तदाविष्क्रियते- सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः । स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः ॥ अभिधर्मदीप ३२८ ॥ कामावचराः खलु दुःखसमुदयदर्शनभावनाप्रहातव्या धर्माः प्रत्येकं पञ्चानां विज्ञानानां गोचरीभवन्ति । कतमेषां पञ्चानाम् ? स्वेषां त्रयाणां कामावचरस्य दुःखदर्शनप्रहातव्यस्य विज्ञानस्यालम्बनम् । समुदयदर्शनप्रहातव्यस्य सर्वत्रगसंप्रयुक्तस्य । भावनाप्रहातव्यस्य कुशलस्य । एकस्य च रूपाप्तस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य चेति । एवं समुदयदर्शनभावनाप्रहातव्यावपि वक्तव्यौ ॥ एत एव त्रयो धर्माः आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः । रुपावचरो हि दुःखदर्शनप्रहातव्यो धर्मः अष्टानां विज्ञानानामालम्बनम् । स्वकत्रयस्याधरत्रयस्योर्ध्वैकस्यामलस्य च । स्वधातुकस्य त्रयस्य पूर्ववत् । अधरधातुकस्य तु कामावचरयोर्दुःखसमुदयदर्शनप्रहातव्यविसभागधात्वालम्बनयोः । भावनाप्रहातव्यस्य च कुशलस्य ऊर्ध्वैकस्यारूप्यावचरस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य च । एवं समुदयदर्शनभावनाप्रहातव्यौ वाच्यौ । आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः ॥ अभिधर्मदीप ३२९ ॥ (<पृष्ठ २८५>) आरूप्यावचरास्त एव त्रयो धर्माः, दशानां विज्ञानानामालम्बनम् । त्रैधातुकानां प्रत्येकं त्रयाणाम्, एषामेवानास्रवस्य च । इत्येवं तावत्त्रैधातुकाः दुःखसमुदयदर्शनहेयाभावनाहेयाश्च धर्मा उक्ताः ॥ सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः । सर्व एव त्रैधातुकाः निरोधमार्गदर्शनहेयाः स्वनैकायिकाधिकचित्तगोचरा विज्ञातव्याः । कामावचरो हि निरोधदर्शनप्रहातव्यो धर्मो दुःखदर्शनप्रहातव्यादिवत्पञ्चानां विज्ञानानामालम्बनम् । स्वनैकायिकस्य चानिरोधदर्शनप्रहातव्यस्येति षण्णाम् । एवं मार्गदर्शनप्रहातव्योऽपि वेदितव्यः । रूपावचरौ निरोधमार्गदर्शनप्रहातव्यौ पूर्ववदष्टानां विज्ञानानां प्रत्येकमालम्बनं स्वनैकायिकस्य चाधिकस्येति नवानाम् । एवमारूप्यावचरौ पूर्ववद्दशानां स्वनैकायिकस्य चाधिकस्येत्येकादशानामालम्बनं भवतः । उक्ताः पञ्चदशधर्माः । निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः ॥ अभिधर्मदीप ३३० ॥ त्रैधातुकानां पञ्चानां प्रकाराणां प्रत्येकं येऽन्त्यास्त्रयः प्रकारा निरोधमार्गदर्शनभावनाहेयाख्याः, तेषां नवानामनास्रवस्य चेति । एवमनास्रवा धर्मा दशानां विज्ञानानामालम्बनं भवन्ति ॥ पुनरष्येष एवार्थपिण्डः श्लोकेनावद्योत्यते- कामाप्तं पञ्चविषयो रूपाप्तं त्वष्टगोचरः । आरुप्याप्तं दशानां तु दशानामेव चामलम् ॥ अभिधर्मदीप ३३१ ॥ (<पृष्ठ २८६>) दुःखसमुदयदर्शनभावनाहेयानुशयसंप्रयुक्तं विज्ञानं त्रैधातुकमनास्रवं च पञ्चाष्टदशदशविज्ञानगोचरम् । एवमेषां षोडशानां धर्माणामेतानि षोडशचित्तानि त्रैधातुकानि पञ्चप्रकाराण्यनास्रवं च व्यवस्थाप्यानुशयकार्यं योजयितव्यम् । तत्र तावत्कामावचरदुःखदर्शनप्रहातव्या धर्मा दशानुशयाः, तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः सलक्षणानुलक्षणाः अप्राप्तिप्राप्तिप्राप्तयः । एते धर्मा विषयः पञ्चानां विज्ञानानाम्, दुःखदर्शनप्रहातव्यस्य सर्वस्य विज्ञानस्य, समुदयदर्शनहेयस्य सर्वत्रगसंप्रयुक्तस्य, भावनाहेयस्य कुशलस्याक्लिष्टस्य, द्विविधस्य कुशलसास्रवस्याव्याकृतस्य च, रूपावचरस्याक्लिष्टस्य कुशलसास्रवस्य, अक्लिष्टस्याव्याकृतस्य च कुशलस्योष्मगतादिविमोक्षाप्रमाणादिसंप्रयुक्तस्य । अव्याकृतस्य तु विपाकजस्य मनोभौमस्य सुखसौमनस्योपेक्षासंप्रयुक्तस्यानास्रवस्य च दुःखधर्मज्ञानसमुदयधर्मज्ञानतत्क्षान्तिसंप्रयुक्तस्य विज्ञानस्य । तत्रानास्रवे विज्ञाने न केचिदनुशया अनुशेरते । सास्रवे तु तत्र तावत्- कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः । रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते ॥ अभिधर्मदीप ३३२ ॥ कामाप्तदुःखदर्शनप्रहातव्ये विज्ञाने कामावचरा दुःखसमुदयभावनाहेयाः सर्वेऽनुशेरते । रूपावचरे त्वक्लिष्टे कामावचरधर्म गोचरा एव रूपावचराः सर्वत्रगाः, भावनाहेयाश्चानुशेरते ॥ चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः । आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः ॥ अभिधर्मदीप ३३३ ॥ परिवृत्ते तु खल्वालम्बनालम्बने विज्ञान इत्यर्थः । पूर्वकाः कामावचररूपावचरा यथोक्ताः । केनाधिकीभवन्ति ? कामावचरस्तावच्चतुर्थो निकायो मार्गदर्शनप्रहातव्यः । कथं कृत्वा ? यत्तद्दुःखसमुदयज्ञानं तत्क्षान्तिसंप्रयुक्तं विज्ञानं कामावचरदुःखदर्शनहेयधर्मालम्बनम् । तत्खल्वालम्बनं मार्गदर्शनहेयमिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तस्य विज्ञानस्य । (<पृष्ठ २८७>) तस्मिन्विज्ञाने तेऽनास्रवालम्बनाः संप्रयोगतोऽनुशेरते । सास्रवालम्बनाः आलम्बनतः । एवं कामावचराश्चत्वारो निकाया भवन्ति । रूपावचरे विज्ञाने सर्वत्रगसंप्रयुक्ते त्वसर्वत्रगालम्बते(?) । एवं रूपावचरास्त्रयो निकाया भवन्ति । तस्य तु चतुर्थध्यानभौमस्याक्लिष्टस्य विज्ञानस्य कामधात्वालम्बनस्योष्मगतविमोक्षाप्रमाणा शुभादिसंप्रयुक्तस्योपेक्षोपविचारसंयुक्तस्य विज्ञानस्यालम्बनम् । तत्पुनराकाशानन्त्यायतनसामन्तकेन कुशलेनालम्ब्यते । अतस्तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । उक्तं दुःखदर्शनप्रहातव्यम् । तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च । एवं समुदयदर्शनभावनाप्रहातव्ययोरपि विज्ञानयोर्थथोक्तयोर्द्रष्टव्यम् । अयं तु विशेषः । दुःखे दुःखदर्शनहेयाः सर्वे, समुदयसर्वत्रगाश्च । समुदये तु समुदयदर्शनहेयाः सर्वे, दुःखदर्शनहेयाश्च सर्वत्रगाः । अन्यत्सर्वं समानम् । सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते ॥ अभिधर्मदीप ३३४ ॥ निरोधदर्शनप्रहातव्यं तृतीयं विज्ञानम् । तत्राप्येते च त्रयो निरोधदर्शनहेयाश्च सास्रवालम्बनाः ॥ परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः । परिवृत्ते तु विज्ञाने कामावचराश्चत्वारो निकायाः, निरोधदर्शनहेयालम्बनाश्च सास्रवालम्बनाः । ये ह्यनास्रवालम्बनास्ते निर्वाणालम्बने विज्ञानेऽनुशेरते, न विज्ञानालम्बने । शेषं पूर्ववदाख्येयम् पूर्वे चत्वारो निकायाः, दुःखसमुदयमार्गभावनाहेयाश्चानुशेरत इत्यर्थः । चतुर्थेऽपि तृतीयवत् ॥ अभिधर्मदीप ३३५ ॥ चतुर्थेऽपि खलु मार्गदर्शनहेये विज्ञाने कामावचरास्त्रयो मार्गदर्शनहेयाश्च सास्रवालम्बना रूपावचराः सवत्रगा भावनाहेयाश्च ॥ परिवृत्ते तु कामाप्ताश्चत्वारोऽन्यत्र पूर्ववत् । परिवृत्ते तु खलु विज्ञाने कामावचराश्चत्वारो निरोधदर्शनहेयं (<पृष्ठ २८८>) मुक्त्वा । रूपावचरास्त्रयो दुःखसमुदयदर्शनभावनाहेयाः । आरूप्याः सर्वत्रगाः भावनाहेयाश्च । समाप्तं कामावचरं विज्ञानम् ॥ रूपाप्ते प्रथमेऽधस्तात्त्रयः स्वे खल्वपि त्रयः ॥ अभिधर्मदीप ३३६ ॥ आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः । रूपावचरे प्रथमे खलु विज्ञाने कामावचरास्त्रयो दुःखसमुदयविसभागधात्वालम्बनाः संप्रयोगतः । असर्वत्रगास्त्वालम्बनतो भावनाहेयाश्च स्वे च त्रयः । एत एवारूप्याः सर्वत्रगा भावनाहेयाश्च । परिवृत्ते त्रयोऽधस्तात् दुःखसमुदयदर्शनभावनाहेयाः । चत्वारश्च स्वधातुतः ॥ अभिधर्मदीप ३३७ ॥ मार्गदर्शनहेयाश्च दुःखसमुदयान्वयज्ञानक्षान्तिसंप्रयुक्ते विज्ञाने ॥ आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते । दुःखसमुदययोः मार्गदर्शनमिथ्यादृष्ट्यादिसंप्रयुक्तचित्तालम्बनत्वात् । तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च ॥ अभिधर्मदीप ३३८ ॥ द्वितीयेऽपि खलु कामावचररूपावचरास्त्रयो दुःखसमुदयभावनाहेयाः । आरूप्याः सर्वगा भावनाहेयाश्च ॥ सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते । यथा निर्दिष्ट इति । परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः ॥ अभिधर्मदीप ३३९ ॥ निरोधदर्शनहेया असंस्कृतालम्बनान्मुक्त्वा ॥ अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत् । कामावचराः त्रयो दुःखसमुदयभावनाहेयाख्याः, आरूप्यावचराश्चत्वारः, निरोधाख्यं मुक्त्वा ।ऽचतुर्थेऽपिऽ मार्गदर्शनहेयेऽतृतीयवत्ऽ द्रष्टव्यम् । यथा तृतीये सास्रवालम्बनाः स्वनैकायिका अधिकीभवन्ति, तथा चतुर्थेऽपि स्वे सास्रवालम्बना अधिकीभवन्ति । (<पृष्ठ २८९>) तृतीयवत्परावृत्ते चत्वारो दुःखसमुदयमार्गदर्शनभावनाहेयाख्याः रूपावचराः, कामावचरास्रयः, आरूप्यावचराश्चत्वारो निरोधदर्शनहेयं मुक्त्वा । मार्गाच्च त्रयः । समाप्तं रूपावचरम् । आरूप्याद्ये निबोधयेत् ॥ अभिधर्मदीप ३४० ॥ स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः । स्वे त्रयो दुःखसमुदयदर्शनभावनाहेयाः कामाप्ताः एत एव । रूपाप्ताश्च एत एव त्रयः । रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा ॥ अभिधर्मदीप ३४१ ॥ परावृत्तेऽपि त्रयो निरोधमार्गदर्शनहेयौ हित्वा । रूप्यारूप्याश्चत्वारो निरोधदर्शनहेयं मुक्त्वा ॥ यथा प्रथमे द्वितीये पञ्चमे च, तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः । तृतीयेऽपि खल्वेत एवऽस्वे च सास्रवार्थावलम्बिनःऽ । परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः ॥ अभिधर्मदीप ३४२ ॥ परावृत्ते खलु सर्वेऽऽरूप्यावचरा असंस्कृतालम्बनान्मुक्त्वा ॥ अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत् । कामावचररूपावचराः पूर्ववदाख्यातव्याः ।ऽचतुर्थेऽपि तृतीयवत् ।ऽ स्वे सास्रवालम्बनास्त्वत्राधिकी भवन्ति । आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद्बुधः ॥ अभिधर्मदीप ३४३ ॥ परावृत्ते खलु विज्ञाने आद्यवत्कामावचरास्त्रयः, निरोधमार्गदृग्घेयौ हित्वा । रूपावचराश्चत्वारः, निरोधदर्शनहेयं मुक्त्वा । अप्रहातव्यधर्मालम्बने विज्ञाने निरोधमार्गदर्शनहेयानास्रवालम्बनसंप्रयुक्ते । तत्र त्रैधातुकास्त्रयोऽनुशेरते । आलम्बनालम्बनं तु दुःखसमुदयमार्गदर्शनभावनाहेयेत निकायेनालम्बते । निरोधदर्शनहेयेन च सास्रवालम्बनेनालम्ब्यते । तत्र संस्कृतालम्बनाश्चत्वारो निकायाः, निरोधालम्बनं मुक्त्वा । ते हि निर्वाणालम्बने विज्ञाने नानुशेरते, विज्ञानालम्बने तु ॥ (<पृष्ठ २९०>) समाप्तानि षोडशचित्तानि । तेषु चानुशयनिदशः कृतः । अधुना चक्षुरिन्द्रियादीनां वक्तव्यः । सोऽयमुपदिश्यते- भावनापथहातव्यो निकायः सर्वगैः सह । अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये ॥ अभिधर्मदीप ३४४ ॥ चक्षुरिन्द्रिये खलु भावनाहेयाः सर्वत्रगाश्चानुशयाः कामावचररूपावचरा अनुशेरते । एवं यावत्कायेन्द्रिये चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ यावद्विस्तरेण कायविज्ञानधातौ यावद्रूपस्कन्धे वाच्यम् ॥ अधुना चक्षुरिन्द्रियालम्बने विज्ञाने वक्तव्याः- निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे । दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः ॥ अभिधर्मदीप ३४५ ॥ आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते । चक्षुरिन्द्रियालम्बने खलु विज्ञाने कामावचररूपावचराः दुःखसमुदयदर्शनभावनाप्रहातव्याः, आरूप्यावचराश्च भावनाप्रहातव्याः, सर्वत्रगाश्चानुशेरते । परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः ॥ अभिधर्मदीप ३४६ ॥ चक्षुरिन्द्रियालम्बनालम्बने तु विज्ञाने चत्वारो निकाया अनुशेरते । निरोधदर्शनहेयं हित्वा । तद्धि चक्षुरिन्द्रियालम्बनं विज्ञानं सर्वत्र संप्रयुक्तम् । तदप्यालम्बनं सर्वत्रगाणाम् । एवं त्रयः परावृत्ते । द्विष्परावृत्ते तु चक्षुरिन्द्रियं खल्वालम्बनं दुःखसमुदयधर्मज्ञानक्षान्तिसंप्रयुक्तस्य चित्तस्य । तत्पुनरालम्बनं कामावचरमार्गदर्शनप्रहातव्यम् । मिथ्यादृष्टिविचिकित्साविद्यातत्संप्रयुक्तानां विज्ञानानाम् । तेषु विज्ञानेष्वनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनास्त्वालम्बनतोऽनुशेरते । एवं चतुर्थो निकायो वर्धते मार्गदर्शनहेयः । तदेवं सति कामावचराश्चत्वारः, आरूप्यावचराश्चत्वारः, सर्वेऽभिसमस्य त्रैधातुकाश्चत्वारो भवन्ति । आकाशानन्त्यायतनस्य खलु कुशलस्य चक्षुरिन्द्रियमालम्बनम् । तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । तत्रापि सर्वत्रगसंप्रयुक्ते चेतसि असर्वत्रगा वर्धन्त इति त्रयो भवन्ति । दुःखसमुदयालम्बनज्ञानक्षान्तिसंप्रयुक्तस्य च विज्ञानस्य चक्षुरिन्द्रियमालम्बनम् । तदारुप्यमार्गदर्शनप्रहातव्यस्य मिथ्यादष्ट्यादिसंप्रयुक्त्तस्य विज्ञानस्यालम्बनम् । तत्र तेऽनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनाः आलम्बनतः । एवमारूप्यावचरा अपि चत्वारो निकाया भवन्तीति ॥ (<पृष्ठ २९१>) दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः । तद्गोचरे तु विज्ञाने निकाया अनुशेरते ॥ अभिधर्मदीप ३४७ ॥ कामापन्नास्त्रयो रूपाः सर्वगाभ्याससंक्षयाः । परवृत्ते तु चत्वारः कामाप्ता अनुशेरते ॥ अभिधर्मदीप ३४८ ॥ त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः । सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते ॥ अभिधर्मदीप ३४९ ॥ सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरेऽपि च । कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते ॥ अभिधर्मदीप ३५० ॥ तत्र तावत् । सुखेन्द्रियं सप्तविधम् । कामावचरं भावनाप्रहातव्यम्, रूपावचरं पञ्चप्रकारम्, अनास्रवं चेति । तदेतत्समासतो द्वादशविधस्य विज्ञानस्यालम्बनं भवति । कामावचरस्य चतुष्प्रकारस्य अन्यत्र निरोधदर्शनहेयात्, रूपावचरस्य पञ्चप्रकारस्य, आरूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य अनास्रवस्य च । इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्र यथायोगं कामावचराश्चत्वारो निकायाः रूपावचराः संस्कृतावलम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरत इति । तत्पुनः सुखेन्द्रियालम्बनं विज्ञानं यस्य चित्तस्यालम्बनं तच्चित्तं सुखेन्द्रिया लम्बनालम्बनम् । तस्मिन् कत्यनुशयानुशेरते ? तत्खलु सुखेन्द्रियालम्बनं (<पृष्ठ २९२>) द्वादशविधं चित्तं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव च द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शन प्रहातव्यस्य । इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्च चत्वारो निकायाः, रूपावचराश्च संस्कृतालम्बना अनुशयानुशेरत इतिऽयथायोगऽ- वचनात्,ऽअपिऽशब्दाच्च द्रष्टव्यम् ॥ त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये । तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः ॥ अभिधर्मदीप ३५१ ॥ मनैन्द्रिये खलु सर्वत्रैधातुकाः येऽपि ते निर्वाणालम्बनास्तेऽपि संप्रयोगतः । मनैन्द्रियालम्बनं खलु विज्ञानं संस्कृतालम्बनम् । अतस्तत्र संस्कृतालम्बनास्तेऽनुशया अनुशेरते । संस्कृतालम्बना एव परिवृत्तेऽनुशेरते । विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्चन ॥ अभिधर्मदीप ३५२ ॥ पूर्वनीत्या वात्र परिवृत्तेऽनुशयकार्यं बोद्धव्यम् । द्विष्परावृत्तेऽप्यत्र न कश्चिद्विशेष इति द्रष्टव्यम् ॥ अधुना षोडशानां चित्तानां कस्य चित्तस्य समनन्तरं कति चित्तान्युत्पद्यन्त इत्युपदिश्यते । दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः । भवत्यनन्तरं षड्वा तस्योर्द्ध्वं पञ्च पञ्च वा ॥ अभिधर्मदीप ३५३ ॥ कामधातूपपन्नस्य दुःखदर्शनहेयादेश्चित्तादनन्तरं स्वभूमिकानि पञ्च, षष्ठं च भावनाप्रहातव्यं प्रथमध्यानसामन्तकात् । स यदा कामधातोश्च्युत्वा रूपधातावुपपद्यते तस्य तत्रत्यानि पञ्च भवन्ति । एवमारूप्येषूपपद्यमानस्यारूप्याणि पञ्च भवन्तीति ॥ रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् । एकं वा पञ्च वा षड्वा सप्त वा यदि वा दश ॥ अभिधर्मदीप ३५४ ॥ (<पृष्ठ २९३>) तत्रऽएकम्ऽ वीतरागस्योपरिसामन्तकाद्भावनामयम् ।ऽषड्ऽ वीतरागस्य कामावचरं भावनाप्रहातव्यं निर्माणचित्तं प्रथमध्यानफलम् ।ऽपञ्चऽ स्वभौमानि ।ऽसप्त वाऽ उपरिसामन्तकाद्भावनाप्रहातव्यं कुशलं सास्रवम् ।ऽदश वाऽ रूपेभ्यः प्रच्युतस्य कामरूपेषूपपद्यमानस्येति ॥ आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् । स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः ॥ अभिधर्मदीप ३५५ ॥ रूपकामेषूपपद्यमानस्य तत्रत्यानि दश भवन्ति । स्वानि पञ्च पञ्चान्यतः । गतमेतत् ॥ इदानीं वक्तव्यम् । अथ यदिदं सानुशयं चित्तमुक्तं तत्कथम् ? इत्यत्राभिधीयते- साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् । द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते ॥ अभिधर्मदीप ३५६ ॥ द्वाभ्यां खलु प्रकाराभ्यां चित्तं सानुशयमुच्यते । साचिव्यभावेनानुशायित्वेन च । तत्र क्लिष्टं द्वाभ्यां कारणाभ्यां सानुशयं यदप्रहीणक्लेशम् । अक्लिष्टं पुनरेकधा साचिव्यभावनैवेति । तत्र क्लिष्टं चित्तमनुशयैः संप्रयुक्तैरप्रहीणैः सानुशयं तदालम्बनैश्चाप्रहीणैः । कथमिह योऽनुशयो येन चित्तेन संप्रयुक्तः स खल्वप्रहीणस्तस्मिंश्चित्तेऽनुशेते ? यावद्धि तदनुशयानुप्राप्तिविशेषेण सा चित्तसन्ततिरवष्टब्धा चाधिष्ठिता च भवति, निष्यन्दफलस्य चानागतस्य तस्यां चित्तसन्ततौ सभागहेतुरुत्पत्तये कृतास्पदो भवति, तावदसावनुशयस्तश्मिंश्चेतस्यनुशेत इत्युच्यते । तस्य पुनः क्लेशाशीविषस्य प्राप्तिद्रंष्ट्रावभङ्गे कृते विद्यमानोऽपि सन् क्लेशस्तस्मिंश्चेतस्यनर्थानुत्पादनात्सन्नपि संप्रयोगतः नानुशेत इत्युच्यते । (<पृष्ठ २९४>) नित्यं च तदालम्बनतो कारित्राकरणात्, तस्मिन्नालम्बने मार्गविदूषणाकारदूषिते आलम्बनतोऽपि नानुशेत इत्युच्यते । न तु कदाचिन्मुञ्जेशीकावदुद्धृत्य शक्यते तस्मात्क्लेशः चित्तात्पृथक्कर्तुं निर्नाशयितुं वा स्वालम्बनाद्वा विमुखीकर्तुम् । उक्तं हि- "यो धर्मो यस्य धर्मस्यालम्बनं कदाचित्स धर्मस्तस्य धर्मस्य नालम्बनम् ? आह- न कदाचित्" इति । अतस्तच्चित्तं सहायभावेन सानुशयं सहायभावस्यापरित्यागात् । न त्वनुशयभावेन सानुशयं तत्रानर्थानुत्पादनात् । कतरत्पुनश्चित्तं सानुशयम् ? त्रैधातुकं प्रत्येकं पञ्चप्रकारम् । पुनः प्रत्येकं द्विधा भिद्यते । सर्वत्रगासर्वत्रगसास्रवा नास्रवालम्बनक्लिष्टाक्लिष्टभेदैः । तत्र दुःखदर्शनप्रहातव्यं सत्कायदृष्टिसंप्रयुक्तम् । तया च सत्कायदृष्ट्या तत्संप्रयुक्तया चाविद्यया सहायभावेन चानुशयाने च सानुशयम् । शेषैः स्वनिकायिकैः समुदयदर्शनप्रहातव्यैश्च सर्वत्रगैरनुशयभावेनैव । शेषर्नोभयथा । एवं सर्वैः दुःखदर्शनप्रहातव्यंः समुदयदर्शनप्रहातव्यैश्च संप्रयुक्तं चित्तं यथायोगमभ्यूहितव्यम् । निरोधदर्शनप्रहातव्यं मिथ्यादृष्टिसंप्रयुक्तम् । तथैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैः स्वानिकायिकसास्रवालम्बनैः सर्वत्रगैश्चानुशयभावेनैव । स्वानिकायिकानास्रवालम्बनैस्तदन्यैश्च नोभयथा । एवमन्यैर्निरोधदर्शनप्रहातव्यैः मार्गदर्शनप्रहातव्यैश्च यथासंभवं वक्तव्यम् । भावनाप्रहातव्यं रागसंप्रयुक्तम् । तेनैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैर्भावनाप्रहातव्यैः सर्वत्रगैश्चानुशयैर्भावनैर्वा । अन्यैर्नोभयथा । एवमन्यद्भावनाहेयसंप्रयुक्तमपि यथायोगं वाच्यम् । अक्लिष्टन्तु स्वानिकायिकैः सर्वत्रगैश्चानुशयभावेनैव सानुशयमिति ॥ कः पुनरेषामनुशयानां प्रवृत्त्यनुक्रमः ? तदुच्यते । मोहस्तावत्सर्वक्लेशाग्रणी, तस्मात्क्लेशपुरोयायिनः । मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः । काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः ॥ अभिधर्मदीप ३५७ ॥ (<पृष्ठ २९५>) रागः स्वदृशि मानश्व द्वेषोऽन्यत्र प्रतायते । ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः ॥ अभिधर्मदीप ३५८ ॥ इह तावद्बालस्य पञ्चोपादानस्कन्धात्मके दुःखे संमुग्धस्य फलभूतान् पञ्चोपादानस्कन्धानजानतः सत्कायदृष्टिरूपजायते । सत्त्वजीवपुद्गलात्मग्राहयोगेन । ततोऽस्य तच्छाश्वतोच्छेदान्तग्राहलक्षणान्तग्राहदृष्टिः । तस्यैवं भवति- यदि तावदयं नित्योऽविकारी पुरुषः किं धर्मेण यः सुखेन नानुगृह्यते, दुःखेन वा नोत्पीड्यते । अथायमुच्छेदधर्मानित्यस्तथापि किं धर्मेणेति विचारयतः काङ्क्षोत्पद्यते । काङ्क्षाप्रवृद्ध्या मिथ्यादर्शनमावहति । तदकारणे कारणाभिनिवेशान्निहीनं चाग्रतो ग्रहणात्शीलव्रतदृष्टिपरामर्शावाकर्षति । ततोऽस्यऽरागः स्वदृशि मानश्च द्वेषोऽन्यत्र प्रतायते ।ऽ तस्य खलु मिथ्यादर्शनभूतग्रहावेध शादश्रेयसि श्रेयोबुद्ध्या प्रवृत्तस्यानग्रे चाग्र्यबुद्ध्यभिनिविष्टस्य स्वपक्षे रागो भवति परपक्षे च द्वेषः प्रवर्तते । इत्यतः तत्ऽज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमःऽ ॥ वयं तु पश्यामः सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः । कल्याणमित्रपापमित्रसंसर्गाद्धि प्रायेण श्रद्धादीनां गुणानामेषां च क्लेशानां समुदाचारप्रवृत्तिः आचार्याणामभिमतेति । स पुनरेषः- क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः ॥ अभिधर्मदीप ३५९ ॥ हेतुप्रयोगविषयबलैः कश्चित्त्रिभिरुत्पद्यते । कश्चिद्द्वाभ्यामिति । (<पृष्ठ २९६>) तत्र हेतुबलं सभागसर्वत्रगादिहेतुभावनागतोत्पत्तये वर्तमानप्राप्त्युत्सर्गे मेघिकादिनिदर्शनात् । प्रयोगबलमप्ययोनिशो मनस्कारादिसंनिधानम् । प्रत्ययबलमपरिज्ञातविषयाभासगमनं निदर्शनमर्हत्परिहाणिसूत्रमिति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः ॥ (<पृष्ठ २९७>) पञ्चमाध्याये तृतीयपादः । अथ य इमे भगवता त्रय आस्रवा आख्याताः- "कामास्रवो भवास्रवोऽविद्यास्रवश्च ।" एषां कः स्वभावः ? तदिदमारभ्यते- व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः । स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः ॥ अभिधर्मदीप ३६० ॥ सर्वे ह्येते समाना निवृताव्याकृतत्वादन्तर्मुखप्रवृत्तत्वाच्च । अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी । अविद्या खलु संसारमूलम् । उक्तं हि भगवता- "अविद्याप्रत्ययाः संस्काराः ।" तथा- "याः काश्चन दुर्गतयोऽस्मिल्लोके परत्र च । सर्वास्ता अविद्यामूलिकाः " इति । तत्र तावत्कामास्रवः एकचत्वारिंशद्द्रव्याणि । रागप्रतिघमानाः प्रत्येकं पञ्चप्रकारत्वात्पञ्चदश भवन्ति । विचिकित्साः चतस्रः । दृष्टयो द्वादश । दश पर्यवस्थानानि । इत्येतान्येकचत्वारिंशद्द्रव्याण कामास्रव इत्याख्यायते । (<पृष्ठ २९८>) भवास्रवः चतुष्पञ्चाशद्द्रव्याणि । रागमानौ विंशतिः । अष्टौ विचिकित्साः । चतुर्विंशति दृष्टयोऽविद्यां हित्वा । द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात् । अविद्यास्रवः पञ्चदशद्रव्यानि । तानि पिण्डेनाष्टोत्तरं द्रव्यशतमास्रवाणां स्वभावः । तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात् ॥ अभिधर्मदीप ३६१ ॥ कामास्रव एव खलु कामौघः कामयोगश्च । दृष्टी वर्जयित्वा । दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते । हरणश्लेषणकार्यप्रधानभूता हि दृष्टयः । यथा हि सर्वे क्लेशाः दृष्टिवर्ज्याः, अपहरन्ति श्लेषयन्ति च (<पृष्ठ २९९>) तथैवैकाकिन्योऽपि दृष्टय इति । तदेवं सति कामौघ एकान्नत्रिंशत्द्रव्याणि । रागप्रतिघमानाः पञ्चदश । विचिकित्साश्चतस्रः । दश पर्यवस्थानानीति । भवौघोऽष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिः । विचिकित्सा अष्टौ । दृष्ट्योघः षट्त्रिंशद्द्रव्याणि । अविद्यौघः पञ्चदशद्रव्याणि । एवमेव योगा द्रष्टव्याः ॥ साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये । चतस्रोऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात् ॥ अभिधर्मदीप ३६२ ॥ शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः । तत्र कामयोग एव सहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि । रागप्रतिघमानाविद्या विंशतिः । विचिकित्साश्चतस्रः । दशपर्यवस्थानानि । भवयोग एव सहाविद्यया आत्मवादोपादानम्, अष्टात्रिंशद्द्रव्याणि । रागमानाविद्यास्त्रिंशत् । विचिकित्सा अष्टौ । (<पृष्ठ ३००>) दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्युपादानं त्रिशद्द्रव्याणि । शीलव्रतोपादानं षड्द्रव्याणि । कस्मात्पुनरेतद्दृष्टिभ्यो निष्कृष्टम् ?ऽकुमार्गादिसमाश्रयात् ।ऽ मार्गप्रतिद्वन्द्वभूतं ह्येतदुभयपक्षविप्रलभ्भकं च । गृहिणोऽपि ह्यनेन विप्रलब्धाः अनशनादिभिः स्वर्गमार्गसंज्ञया । प्रव्रजिता अपीष्टविषयविवर्जने शुद्धिप्रत्यागमनादिति । ऽशेषास्त्रैधातुकाः ।ऽ दृष्टयो दृष्ट्युपादानम् । त्रैधातुकाश्च शीलव्रतपरामर्शाः परामर्शोपादानम् । कामास्रवस्तु एकधातुकः । भवास्रवस्तु द्विधातुकः । तस्मादेव तत्ऽअन्त्यम्ऽ द्वयं सार्वधातुकमेव ।ऽआत्मभावप्रवृत्तितः ।ऽ आत्मभावालम्बनप्रवृत्तं खल्वेतदिति । ते खल्वेते अनुशयाः संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः ॥ अभिधर्मदीप ३६३ ॥ संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः । नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च । द्रव्यामर्षणसामान्याद्दृशः संयोजनद्वयम् ॥ अभिधर्मदीप ३६४ ॥ शेषाण्यनुशयाः पञ्च नव खलु सयोजनानि सूत्र उक्तानि- अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्यामात्सर्यसंयोजनानि । (<पृष्ठ ३०१>) तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि यथायोगं वक्तव्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः परामर्शसंयोजनं द्वे दृष्टी । किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम् ? द्वे पुनर्दृष्टी परामर्शसंयोजनं पृथगिति ? तदुच्यते-ऽद्रव्यामर्षणसामान्याद्दृशः संयोजनद्वयम् ।ऽ अष्टादशद्रव्याणि खलु तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । द्वयोश्च नामसामान्यम् । तस्मादेतद्द्वयमेकं संयोजनमुक्तमिति । पुनरप्यन्यत्र भगवान्संयोजनम् पञ्चधा पञ्चधा पुनः । जगादावरभागीयमूर्ध्वभागीयमेव च ॥ अभिधर्मदीप ३६५ ॥ (<पृष्ठ ३०२>) आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः । तत्र पञ्च संयोजनान्यवरभागीयानि । तद्यथा- सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एते हि कामधातुहितत्वादवरभागीया इत्युच्यन्ते । अवरा हि कामधातूरेतानि च तदनुगुणानि । यस्मात् द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः ॥ अभिधर्मदीप ३६६ ॥ कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिस्त्रिभिरतिक्रान्तोऽपि पुनरावर्तते दौवारिकानुचरसाधर्म्यात् । अन्ये पुनराहुः- त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति । यदा खलु स्त्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ? तदुच्यते- (<पृष्ठ ३०३>) द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् । सर्वदृग्घेयभाक्त्वेऽपि त्रयमेतदुदाहृतम् ॥ अभिधर्मदीप ३६७ ॥ प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत् । तत्र सत्कायदृष्ट्या तत्प्रवर्तितान्तग्राहदृष्टिर्गृहीता । शीलव्रतपरामर्शेण दृष्टिपरामर्शः प्रवर्तितः । विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता । अतो हेतुग्रहणात्कार्यग्रहणं वेदितव्यम् । अथवा त्रिविधा क्लेशाः- एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्च । तत्र सत्कायदृष्ट्या एकप्रकारा गृहीताः । शीलव्रतपरामर्शेन द्विप्रकाराः । विचिकित्सया चतुष्प्रकाराः गृहीता भवन्तीति ॥ वयं ब्रूमः- सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः । तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना ॥ अभिधर्मदीप ३६८ ॥ सत्कायदृष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम् । अतस्तयोत्खातया सर्वानर्थवृक्षस्योत्सादनं भवति । मार्गस्य च सद्भूतस्य प्रत्यर्थिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः । तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति । सम्यग्दृष्ट्यादिमार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा । (<पृष्ठ ३०४>) तया प्रहीणया सम्यग्दृष्टिसंकल्पपुरःसरो मार्गो निर्विबन्धः प्रवर्तते । इत्यष्टाशीत्यनुशयप्रहाणेऽपि सति त्रयाणामेव ग्रहणम् । वैभाषाः पुनः पश्यन्ति- मोक्षान्तरायाः त्रयोद्भावनाः । यथा खलु त्रयोऽन्तराया मार्गगमने भवन्त्यगन्तुकामतान्यमार्गग्रहणं मार्गबहुत्वसंदेहाच्च मार्गगमनाप्रतिपत्तिः । एवं मोक्षगमने त्रयोऽन्तराया भवन्ति । सत्कायदृष्ट्या मोक्षादुत्त्रासं गतस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्यमार्गग्रहणात्मार्गविभ्रान्तिः । विचिकित्सा मार्गसंशये सति मार्गाप्रतिपत्तिरित्येषां मोक्षगमनान्तरायाणां प्रहाणं स्त्रोतआपन्नस्य द्योतयद्भगवान्क्लेशत्रयस्यैव ग्रहणमकार्षीदिति ॥ यथा च पञ्चविधमवरभागीयं संयोजनमुक्तवांस्तथा पञ्चोर्ध्वभागीयानिसंयोजनान्याख्यातवान् सूत्रे । द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः । पञ्च खलुर्ध्वभागीयानि संयोजनानि । तद्यथा- रूपरागः, आरूप्यरागः, औद्धत्यम्, मानोऽविद्या च । एषामप्रहीणानामूर्ध्वधातुद्वयं नातिक्रामन्ति सत्त्वाः । समाप्तः संयोजनाधिकारः । बन्धनानीदानीमुच्यन्ते । त्रीणि बन्धनानि । रागो बन्धनं द्वेषो मोहो (<पृष्ठ ३०५>) बन्धनम् । एभिस्त्रैधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम् । कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते- त्रिवेदनानुशायित्वाद्दृढत्वाद्बन्धनत्रयम् ॥ अभिधर्मदीप ३६९ ॥ त्रिवेदनावशात्खलु बन्धनत्रयमुक्तम् । तत्र सुखायां वेदनायां रागोऽनुशेरते । दुःखायां द्वेषः । अदुःखासुखायां मोहः । एते च त्रयो मूलक्लेशाः षड्विज्ञानभौमाः पञ्चप्रकाराः । तस्मादेते दृढत्वाद्बन्धनशब्देनोक्ताः ॥ पुनरन्ये भगवता सूत्रे- द्विपक्षग्रन्थनाद्ग्रन्थाश्चत्वारः समुदाहृताः । अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा ॥ अभिधर्मदीप ३७० ॥ तत्र गृही अभिध्यया विषयेषु ग्रथितस्तद्व्याघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते । प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शेन दृष्टिपरामर्शाख्येन बध्यते । इति चत्वारो भवन्ति ॥ उक्ताः क्लेशाः । (<पृष्ठ ३०६>) उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः । सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ॥ अभिधर्मदीप ३७१ ॥ ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात् । इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः । येऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः तेऽप्युपक्लेशा इत्याख्यायन्ते ॥ के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्- मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः । त इमे उच्यन्ते- शाठ्योपनाहप्रदाशमायामदविहेठनाः ॥ अभिधर्मदीप ३७२ ॥ (<पृष्ठ ३०७>) तत्र चित्तकौटिल्यं शाठ्यं चित्तस्यानृजुता वक्रीभावः । उपनाहः प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्ध्रावधानता । सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः । पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चनामाया । चित्तस्मयो मदः । सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः । सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम् । उक्ताः षट्क्लेशमलाः ॥ (<पृष्ठ ३०८>) दश पर्यवस्थानान्युच्यन्ते । म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः । मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः ॥ अभिधर्मदीप ३७३ ॥ एते ह्यनुबन्धादार्ढ्यान्नानुशयाः । न ह्येषामनुबन्धदार्ढ्यमस्त्यनुशयास्तु दृढानुबन्धाः । तस्मादेतानि कालान्तरमात्रं चित्तपर्यवस्थापनात्पर्यवस्थानानीत्युच्यन्ते । अवद्यं छादयतः चित्तापलेपो म्रक्षः, चित्तं म्रक्षयतीति म्रक्षः । परसम्पत्त्यमर्षणमीर्ष्या । अकार्यं कुर्वतः स्वात्मानमवेक्ष्यालज्जनाह्रीः । (<पृष्ठ ३०९>) परमपेक्ष्यालज्जनानपत्राप्यम् । कायाकर्मण्यता स्त्यानं तन्द्रीपर्यायवचनम् । कायचित्ताकर्मण्यता मिद्धं चित्ताभिसंक्षेपः स्वप्नाख्यः, स तु क्लिष्ट एव पर्यवस्थानम् । चित्ताव्युपशान्तिरौद्धत्यम् । परापकारनिमित्तोद्भवोऽपरित्यागयोगेन चण्डीभावः क्रोधः । स्ववस्तुन्याग्रहो मात्सर्यम्, मत्तो मा सरेदेतदिति निरुक्तिः । कुकृतभावः कौकृत्यम् । इत्येनानि दश पर्यवस्थानानि ॥ अथैषामुपक्लेशमलपर्यवस्थानानां कः कस्य रागादेर्मूलक्लेशस्य निष्यन्दः ? तदिदमारभ्यते ॥ एभ्योऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः । इमे खलूपक्लेशाः रागनिष्यन्दाः । यदुत- अह्रीक्यौद्धत्यमदमात्सर्यकुहनालपनानैमित्तिकतानैष्पेशिकता लाभेन लाभस्य निश्चिकीर्षता पापेच्छता महेच्छतेच्छस्विता कामज्ञातिजनपदवितर्कपापमित्रतादयः । (<पृष्ठ ३१०>) तत्राह्रीक्यानपत्राप्यमदा व्याख्यातलक्षणाः । लाभसत्कारयशोलोभादभूतगुणदर्शनार्थमीर्यापथविकल्पकृच्चैत्तविशेषः कुहना । लाभाद्यर्थमेव गुणप्रियालपनकृल्लपना । उपकरणार्थित्वनिमित्तदर्शनकृच्चैत्तविशेषो नैमित्तकता । परगुणवद्दोषवचननिष्पेषणकृदेव चैतसिको नैष्पेषिकता । लब्धलाभख्यापनेनान्यलाभनिश्चकीर्षणता लाभेन लाभस्य निश्चिकीर्षता । परैरभूतगुणसम्भावनेच्छा पापेच्छता । लाभसत्कारपरिवारप्रार्थना महेच्छता । लोभात्परैर्भूतगुणसम्भावनेच्छा इच्छस्विता । कामरागप्रतिसंयुक्तो वितर्कः कामवितर्कः । ज्ञातिस्नेहपरीतस्य तदावाहविवाहकृषिवणिग्राजसेवादीनां गृहसन्धारणमुपजीवनोपायानां राजतस्करादिभयप्रशमनोपायानां च वितर्काणां वितर्कः ज्ञातिवितर्कः । पर्याप्तजीवितोपकरणापरितुष्टस्य लोकमित्रता, छन्दरागापहृतचेतसस्तेषां जनपदानां भूमिरमणीयतासुभिक्षक्षेमताप्रचुरगोरसेक्षुविकारगोधूमशाल्यादीनां वितर्कणाज्जनपदवितर्कः शीलदृष्ट्याचारविपन्नानां रतिकृता संसेवा पापमित्रता । म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः ॥ अभिधर्मदीप ३७४ ॥ तत्रऽम्रक्षानपत्रपास्त्यानमिद्धाःऽ ।ऽआदिऽग्रहणाल्लयः, अमनसिकारोदनादरता, दौर्वचस्यं तन्द्री भक्तासमतेत्येवमादयः । तत्र लयोनाम दोषगुणत्यागार्जनं प्रति आत्मपरिभवजश्चित्तसंकोचः । कुशलासमन्वाहार औदासीन्ययोगेणामनसिकारः । गुणेषु गुणवत्सु चाबहुमानवृत्तिरनादरता । (<पृष्ठ ३११>) धर्मानुशास्तृषु सासूयितप्रतिमन्त्रकृद्दौर्वचस्यम् । जृम्भिकोद्गमादक्षिवर्त्मस्तम्भनिद्रास्पदः चैत्तविशेषः स्त्यानाख्या तन्द्री । कुशलपक्षानुकूलभोजनसमताप्रतिवेधश्चेतसो भक्तासमता ॥ कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः । कौकृत्यं खलु यथोक्तलक्षणं विचिकित्सासमुत्थितम् । क्रोधाद्या द्वेषनिष्यन्दाः ।ऽआदिऽशब्दादीर्ष्याक्षान्त्युपनाहप्रदाशसंरम्भादयः । तत्रेर्ष्या पूर्वोक्तलक्षणा । सह्यासहिष्णुताक्षान्तिः । रन्ध्रावधानानिवृत्तिरुपनाहः । संतोषमानस्याप्यदृढग्राहिता प्रदाशः । परान्विमर्दिषतः पाणिपादौष्ठकपोलशरीरकम्पयोनिर्भ्रान्तमनसः क्षोभः संरम्भः । निमित्तमात्रेण सातत्यविहेठनकृच्छृङ्गी । निस्तनतोऽभीक्ष्णविवादकृत्यं स्तम्भनता । काम्यान्विषयाननुस्मरतो रतिविपरीतमनसः प्रवृत्तिररतिः । चित्तापैशल्यमनार्जवता । व्यापादार्थ प्रयुक्तो वितर्को व्यापादवितर्कः । विहिंसासंप्रयुक्तो वितर्कः विहिंसावितर्कः । प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः ॥ अभिधर्मदीप ३७५ ॥ कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः । तत्र दोषप्रवणस्य गुणानभिसंमुख्यं प्रमादः । पूजार्हेष्वसंनतिः स्तम्भः । परानुरोधात्पापानुवृत्तिकृच्चैत्तो मार्द्वक्ष्यम्(?) । पराभिसन्धानाय मिथ्योपदर्शनकृच्चैत्तो माया । चित्तकौटिल्यं शाठ्यम् । क्लेशसमुत्थितः कायस्यानमनविनमनकृच्चैत्तो विजम्भिका । क्लेशकृता विविधालम्बनसंज्ञा नानात्वसंज्ञाः । अतिवीर्यभक्तासमतानिर्जातकायवैषम्याबाधः कायदौष्ठुल्यम् । कल्याणमित्राणां गुणेष्वननुशिक्षा असभागानुवर्तनता । क्लेशसमुत्था परसम्पद्वितर्कणा, परोदयप्रतिसंयुक्तो वितर्कः । इत्येवमादयो व्यामिश्रसमुत्थिता द्रष्टव्याः । प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः ॥ अभिधर्मदीप ३७६ ॥ पूर्वोक्तलक्षणः प्रदाशः परामर्शनिष्यन्दः । शाठ्यं दृष्टिसमुत्थितमिति ॥ अथ कः क्लेशः कया वेदनया संप्रयुज्यते ? तदिदमारभ्यते- (<पृष्ठ ३१२>) सौमनस्येन रागस्य संप्रयोगः सुखेन च । रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः । द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते ॥ अभिधर्मदीप ३७७ ॥ संयोग इति वर्तते । प्रतिघः खलु दुःखदौर्मनस्याभ्यां संप्रयुक्तः ॥ सर्वैर्मोहस्य मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः । वित्तिभ्यां चैतसीभ्यामसद्दृशः । मिथ्यादृष्टिर्हि दौर्मनस्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम् । काङ्क्षा च दौर्मनस्येन सांशयितो हि निश्चयाकाङ्क्षी दौर्मनस्येन संबध्यते । शेषाणां सुमनस्तया ॥ अभिधर्मदीप ३७८ ॥ शेषास्त्वनुशयाः- चतस्रो दृष्टयः, मानश्च । हर्षाकारवृत्तित्वात्सौमनस्येन संप्रयुक्ताः ॥ उपेक्षया तु सर्वेषाम् सर्वेऽप्यविशेषेणानुशया उपेक्षया संप्रयुज्यन्ते । प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति । कामाप्तानामयं विधिः । (<पृष्ठ ३१३>) कामावचराणां खल्वनुशयानामेष विधिः द्रष्टव्यः । इतोऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः ॥ अभिधर्मदीप ३७९ ॥ यस्यां यस्यां भूमौ यावन्तीन्द्रियाणि सन्ति तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ॥ उक्ताः क्लेशानामिन्द्रियसंप्रयोगः । उपक्लेशानामुच्यते- ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः । प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च ॥ अभिधर्मदीप ३८० ॥ दौर्मनस्येन खल्वीर्ष्याकौकृत्यक्रोधप्रदाशोपनाहविहिंसाः संप्रयुज्यन्ते ॥ मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् । प्रार्थ्यमानो ह्यप्रयच्छन् परस्य जह्रीयमानो दुर्मनायते । केचित्पुनः व्याचक्षते- सौमनस्येन संप्रयुज्यते लोभान्वयत्वेन हर्षाकारवर्तित्वात् । द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च ॥ अभिधर्मदीप ३८१ ॥ दौर्मनस्यसौमनस्याभ्यां मायाशाठ्यमिद्धानि संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । कदाचिद्दुर्मनाः । एवं यावत्स्वपीति ॥ मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते । तृतीये ध्याने सुखेनाधस्तात्सौमनस्येनोर्ध्वं चोपेक्षया ।ऽतुऽशब्दस्य विशेषणत्वादयं विशेषो लभ्यते । आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः ॥ अभिधर्मदीप ३८२ ॥ (<पृष्ठ ३१४>) पञ्चभिरपीन्द्रियैः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते । एषां चतुर्णां पर्यवस्थानानामकुशलमहाभूमिकत्वात्क्लेशमहाभौमिकत्वाच्च ॥ इदमिदानीं वक्तव्यम् । क एषां किं प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्यः- आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः ॥ अभिधर्मदीप ३८३ ॥ ..........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥ ..........पञ्चमोध्यायः समाप्तः ॥ (<पृष्ठ ३१५>) षष्ठोऽध्यायः प्रथमः पादः..... ..............र्वौदारिकम् । अतस्तुत्पूर्वम् । ततो वेदनास्मृत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत् । ततः चित्तस्मृत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम् । धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम् । अत एवोत्पत्तिक्रमोपि तथैव । (<पृष्ठ ३१६>) प्रायेण हि सत्त्वाः रूपाद्युपभोगरतत्वात्मोक्षविमुखा भवन्ति वेदनाभिनन्दित्वात्, सा चाभिनन्दना चित्तस्यादान्तत्वात् । तच्चादान्तत्वं रागादिभिः । श्रद्धादिभिश्च दान्तत्वं भवति । चतुष्ट्वमपि चतुर्विपर्यासप्रतिपक्षत्वात् । अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा । दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा । अनित्ये नित्यसंज्ञाविपर्यासप्रतिपक्षश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात् । अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा । धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते ।ऽआदिऽशब्दाच्चतुराहारपञ्चस्कन्धप्रतिपक्षत्वाद्यथायोगम् ॥ स तदानीं योगाचारः समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः । सम्भिन्नालम्बनं हि धर्मस्मृत्युपस्थानं त्रिचतुष्पञ्चस्कन्धालम्बनत्वात् । (<पृष्ठ ३१७>) पञ्चस्कन्धालम्बनमेव तु सामान्यालम्बनमिति निर्दिश्यते । तेन तु चत्वार्यपि स्मृत्युपस्थानान्यभिसमस्यानित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुर्भिराकारैः प्रत्यवेक्षते । ततः पुनर्योगी कायं परमाणुसंघातक्षणसन्तानभेदेन प्रभिद्य परमाणुशः क्षणशश्च निरीक्षते । कललादीनां वा बीजाद्यशुच्यङ्गानि पृथङ्मिश्रीभूतानि च योगी रूपाणि निमित्तेषु पश्यति । तदूर्ध्वं तस्यानित्यत्वादिभिः सामान्यलक्षणेन यथायोगं सर्वधर्मकजातीयत्वाधिमोक्षे सत्यहंकारममकारविष्कम्भनप्रहाणं भवति । तन्प्रहाणाद्रागादयोपि दोषाः श्रुतचिन्तामयाभ्यां ज्ञानाभ्यां विष्कम्भ्यन्ते । कतमेन पुनरत्र स्मृत्युपस्थानेन क्लेशात्यन्तक्षयो भवति ? ब्रूमः । क्लेशात्यन्तक्षयोऽन्त्येन संभिन्नालम्बनेन वा ॥ अभिधर्मदीप ३८४ ॥ (<पृष्ठ ३१८>) संसर्गस्मृत्युपस्थानेन खलुऽसंभिन्नालम्बनेन अत्यन्तक्लेशप्रहाणं क्रियते ।ऽवाऽ शब्दो विकल्पार्थः ॥ यस्मात्- असंभिन्नार्थ विषयं त्रयमेतद्द्विधेष्यते । सास्रवानास्रवभेदात् । ततः पुनः स्कन्धाननित्यादिना तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम् ॥ अभिधर्मदीप ३८५ ॥ स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् । (<पृष्ठ ३१९>) एषा च स्मृत्युपस्थानकुशलमूलनिष्ठा । तस्य खल्वनित्याकारमभ्यस्यतः सर्वसंस्कारेषु प्रतिक्षणमुदयव्ययदर्शनमुत्पद्यते,ऽचक्रभ्रमरिकादिवदिऽति । स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते ॥ अभिधर्मदीप ३८६ ॥ तस्य प्रतिक्षणमुत्पादव्ययं पश्यतः एवं भवति- कथं चैते संस्काराः सन्तानेन प्रवर्तन्ते नोच्छिद्यन्ते । स प्रतीत्यसमुत्पादं पश्यति त्रैयध्विकानां संस्काराणां हेतुफलसम्बन्धनियमावस्थितानाम् । ततः पुनः प्रतीत्यसमुत्पादम् ॥ सत्येषु पातयित्वतं तदा कश्चित्परीक्षते । तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः ॥ अभिधर्मदीप ३८७ ॥ एकैकमङ्गं सत्येषु पातयित्वानित्यतो दुःखतश्च प्रत्यवेक्ष्य अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् । दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते ॥ अभिधर्मदीप ३८८ ॥ तत्र स्वतन्त्रकर्तृविरहित्वाच्छून्यान्पश्यति स्ववशेन विना सहकारिभिः प्रत्ययैः क्रियाकरणात्, पराधीनजन्मत्वाच्चानात्मानं पश्यतिऽदृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवतेऽ ॥ तदभ्यस्यतः अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः । न ह्यत्र कश्चित्पुरुषो वा परमेष्ठी वेश्वरः स्वतन्त्रश्चैकश्च विद्यते, परतन्त्रजन्मप्रसरा एव सर्वसंस्काराः स्वसामान्यलक्षणाधिष्ठितस्वभावाः, इति परीक्ष्यमाणस्य सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते ॥ अभिधर्मदीप ३८९ ॥ यथोक्तम्- "सर्वधर्मा अनात्मानः पश्यति प्रज्ञया यदा । तदा निर्विद्यते दुःखादेष मार्गो विशुद्धये ॥ " (<पृष्ठ ३२०>) अथ कस्मादिह शून्याकारो न देशितः ? तदुच्यते- स्वभावेनाविशून्यत्वाद्धर्ममुद्रा उदाहृता । तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः ॥ अभिधर्मदीप ३९० ॥ न खलु संस्काराः स्वभावेन शून्याः पृथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धृत्यादिक्रियायाश्च प्रत्यक्षत्वात् । रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात् । तेषां च सामर्थ्यं यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शनात सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्चऽशून्याकारोऽ नोक्तः । तस्मादिहापि नोच्यते । अथवातदुक्त्या च तदुक्तेः ।ऽ अनात्माकारोक्त्या च शून्यताप्युक्ता भवति ॥ तदेवं नैरात्म्ये स्थिरमतिः गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् । स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते ॥ अभिधर्मदीप ३९१ ॥ धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः । क्रमेण जायते पश्चात्कौशलं स्थानसप्तके ॥ अभिधर्मदीप ३९२ ॥ "रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य ।" उक्तं हि भगवता-ऽसप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति" इति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥ (<पृष्ठ ३२१>) षष्ठाध्याये द्वितीयपादः । तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारन्यायेन निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् । श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः ॥ अभिधर्मदीप ३९३ ॥ आकारपतितं ज्ञानं ततः शमनियामकम् । भावनामयमूष्माख्यं जायते सानुवर्तकम् ॥ अभिधर्मदीप ३९४ ॥ तत्खलूष्मगतं प्रकर्षितत्वात्षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेर्निमित्तभूतं धूमाग्निवत् । तस्मिंश्च लब्धे शमः प्रत्यासन्नीभवति । अतस्तत्ऽशमनियामकं भावनामयम्ऽ इति । ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्पकपुष्पतिलतैलवदिति ।ऽसानुवर्तकंऽ च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते- स्कन्धमात्रकमेवेदं सत्कायदृष्टेर्वस्तुभूतं नात्रात्मास्त्यात्मीयं वा ॥ ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः । ऊष्मभ्योऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः ॥ अभिधर्मदीप ३९५ ॥ तदूर्ध्वं ततो मूर्धानस्तथैव षोडशाकाराः । तेषां पुनरयं विशेषः । (<पृष्ठ ३२२>) मिथ्यादृष्टिशक्त्युपघातित्वम्, तदुपघातात्कुशलमूलानि न समुच्छिन्दन्ति । ऊष्मभ्योऽधिको विशेषः रत्नत्रयश्रद्धाविवर्धिनश्च । तेषु खल्वधिमात्रेण बुद्धादिषु रत्नेषु त्रिष्वाकारतः प्रसादोऽभिवर्धते, न स्कन्धशः, प्रागेवोष्मगतेषु तद्बुद्धिपरितोषात् । मूर्धसू.............. (<पृष्ठ ३२३>) ........नेत्वस्मिन्नुभयत्रापि पश्चिमा ॥ अभिधर्मदीप ३९६ ॥ विन्यासे विवर्धने चैव धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं तदेव चानागतं भाव्यते ॥ भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः । न खलु स्कन्धोपरमदर्शिनः स्कन्धमतिर्भाव्यते । आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत् ॥ अभिधर्मदीप ३९७ ॥ यादृशाः प्रत्युत्पन्नास्तादृशा एवानागता भाव्यन्ते ॥ द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने । चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने ॥ अभिधर्मदीप ३९८ ॥ (<पृष्ठ ३२४>) अनागतास्तु भाव्यन्ते चतस्रोऽप्यत्र निश्चयात् । मोक्षेऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः ॥ अभिधर्मदीप ३९९ ॥ निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते ॥ आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः । गोत्राणि खलु लब्धानि निरोधसत्यतोऽत्र षोडशाप्याकारा भाव्यन्ते । गोत्रलाभे तु विज्ञेया सभागाकारभावना ॥ अभिधर्मदीप ४०० ॥ प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि । तेनात्र न विसभागाकारभावना ॥ सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने । धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः ॥ अभिधर्मदीप ४०१ ॥ मूर्धाकारविन्यासेऽनिरोधाकिरणैधनेऽ च धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते ॥ आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः । सर्वाभ्योऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने ॥ अभिधर्मदीप ४०२ ॥ (<पृष्ठ ३२५>) अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् । आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने शृणु ॥ अभिधर्मदीप ४०३ ॥ सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः । आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः ॥ अभिधर्मदीप ४०४ ॥ प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः । अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात् ॥ अभिधर्मदीप ४०५ ॥ आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः । यथोष्मकिरणे तद्वद्द्रष्टव्यं दृष्टिवर्त्मनि ॥ अभिधर्मदीप ४०६ ॥ अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत् । चतस्रोऽनागतास्तद्वत्षोडशाकारभावनाः ॥ अभिधर्मदीप ४०७ ॥ तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये । श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च ॥ अभिधर्मदीप ४०८ ॥ एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या ॥ बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः । भूतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः ॥ अभिधर्मदीप ४०९ ॥ आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः । अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् ॥ अभिधर्मदीप ४१० ॥ (<पृष्ठ ३२६>) तिस्रस्तु नवमे विद्यात्मौलभूमिप्रवेशतः । सामन्तकप्रयोगे तु चतस्रोऽन्त्याथवा भवेत् ॥ अभिधर्मदीप ४११ ॥ दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव च । प्रथमां संमुखीभूतां चतस्रः खल्वनागताः ॥ अभिधर्मदीप ४१२ ॥ परचित्ते तृतीया तु चतस्रश्चाप्यनागताः । प्राङ्निवासाप्रमाणानामन्त्यां सर्वास्त्वनागताः ॥ अभिधर्मदीप ४१३ ॥ आरूप्याणां विमोक्षाणां तिसृभ्योऽन्यतमां वदेत् । संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत् ॥ अभिधर्मदीप ४१४ ॥ आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् । तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु ॥ अभिधर्मदीप ४१५ ॥ आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च । सर्वेभ्योऽन्यतराभूताश्चतस्रश्चाप्यनागताः ॥ अभिधर्मदीप ४१६ ॥ आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः । ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत् ॥ अभिधर्मदीप ४१७ ॥ अन्त्यपूर्वनिवासादौ च धर्मप्रतिसंविदि । तथापरसमाध्यादावरणायां तथैव च ॥ अभिधर्मदीप ४१८ ॥ आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा । सर्वाभ्योऽन्यतराभूताश्चतस्रः खल्वनागताः ॥ अभिधर्मदीप ४१९ ॥ ब्रूयात्तु सूक्ष्मसूक्ष्मेऽन्त्यां भूतां तिस्रस्त्वनागताः । समासेनेयमाख्याता स्मृत्युपस्थानभावना ॥ अभिधर्मदीप ४२० ॥ निर्वेधभागीयानधिकृत्य एतन्निर्वेधभागीयं चतुर्धा भावनामयम् । (<पृष्ठ ३२७>) परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात्भावनामयं न श्रुतमयं चिन्तामयम् । कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय (<पृष्ठ ३२८>) भगवतोक्तम्- "च्युतौ बतेमौ मोहपुरुषावस्माद्धर्मविनयाद्यत्र नामानयोः मोहपुरुषयोरूष्मगतमपि नास्ति" इति । तच्चैतत्सर्वम् षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः ॥ अभिधर्मदीप ४२१ ॥ ऽषड्भौमंऽ दर्शनमार्गवतो,ऽषोडशाकारंऽ दर्शनमार्गवत्सानुपरिवर्तकम् ।ऽपञ्चस्कन्धं विनाप्तिभिः ।ऽ प्राप्तयः खलु नोष्मागतादिस्वभावाः । तत्स्वाभाव्ये (<पृष्ठ ३२९>) हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात् । न चेष्यते । सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति । आह । के पुनस्ते षोडशाकाराः येषां भावनया स्त्रोतआपन्नो भवति ? तदुच्यते । चतुर्भिराकारैरनित्यदुःखशून्यानात्माकारैः दुःखं परीक्षते । तत्र बोधिसत्त्वादृते तृष्णाचरितः प्रायोऽनित्याकारेण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितोऽनात्माकारेण । हेतुसमुदयप्रभवप्रत्ययतः समुदयम् । हेतुतः अहेतुदृष्टिचरितः । समुदयतः एककारणदृष्टिचरितः प्रभवतो नित्यकारणदृष्टिचरितः । प्रत्ययतोऽबुद्धिपूर्वकृतदृष्टिचरितः । निरोधशान्तप्रणीतनिःसरणतो निरोधम् । एभिश्चतुर्भिर्निरोधः । नास्ति मोक्ष इत्येवं दृष्टिचरितो निरोधतः शरीरादिमत इत्येवं चरितः शान्ततः । विषयसुखचरितः प्रणीततः । ध्यानादिसुखचरितो निःसरणतः । मार्गन्यायप्रतिपन्नैर्याणिकतो मार्गम् । एभिश्चतुर्भिर्मार्गः । नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः । कष्टतपोभिरित्येवं दृष्टिचरितो न्यायतः । लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः । असकृल्लौकिकमार्गपरिहाणिको नैर्याणिकतः । इत्येवमादिते(के?) समये व्यभिचरणकाले त्वेकोपि सर्वैः (<पृष्ठ ३३०>) परीक्षते । रोगगण्डशल्याघाताकारादिभिर्न तु तैरत्यन्तप्रहाणमित्यतः षोडशैवार्याकारा इत्युच्यन्ते । पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि ॥ निर्वेधभागीयेभ्यः पुनः पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः । स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते ॥ अभिधर्मदीप ४२२ ॥ (<पृष्ठ ३३१>) इति प्रागाविष्कृतमेतत् ॥ धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् । ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम् ॥ अभिधर्मदीप ४२३ ॥ लौकिकेभ्यः खल्वग्रधर्मेभ्यो निरास्रवा लोकोत्तरा धर्ममात्रेक्षणदृष्टिरुत्पद्यते । (<पृष्ठ ३३२>) सूत्र उक्तम् "लौकिकाग्रधर्मानन्तरं समं नियाममवक्रामति (<पृष्ठ ३३३>) यदवक्रान्तौ पृथग्जनभूमिं समतिक्रामति" इति । तदनन्तरं दुःखे धर्मज्ञानं (<पृष्ठ ३३४>) निश्चयात्मकम् । क्षान्त्या वा संयोगप्राप्तिं छिनत्ति ज्ञानेन विसंयोगप्राप्तिमावहतीति (<पृष्ठ ३३५>) विशेषः । एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा । द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखेऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते । एवं त्रिष्वपि सत्येषु द्रष्टव्यम् । अत्र पुनः (<पृष्ठ ३३६>) अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः ॥ अभिधर्मदीप ४२४ ॥ अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः यस्त्वसौ स्थापितः स खलु (<पृष्ठ ३३७>) क्षणोऽन्त्यो भावनामार्गात्फलमेषोऽर्थसिद्धितः ॥ अभिधर्मदीप ४२५ ॥ योगाचार्यस्य खल्वभि............... ................... स्त्रोताश्चेति पञ्चभवन्ति ॥ (<पृष्ठ ३३८>) अत्र पुनर्य एष पञ्चमः स खलु (<पृष्ठ ३३९>) ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः । शुद्धावासोपपत्तिः खलु ध्यानव्यवकिरणफला । चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायकोऽपरः ॥ अभिधर्मदीप ४२६ ॥ ऊर्ध्वगस्यानागामिनः पञ्चधा भेद उक्तः । आरूप्यगामी तु चतुर्धा निर्दिश्यते पूर्वोक्तेभ्यः अन्तरापरिनिर्वायिणमपास्य । इत्येते षड्भवन्ति । दृष्टधर्मनिर्वायकः सप्तम इहैव जन्मनि यः परिनिर्वाति ॥ पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव । एते खलु रूपोपगाः पञ्चानागामिनस्त्रयो भवन्ति । अन्तरोपपद्यपरिनिर्वायिणमू(न्नू ?)र्ध्वस्त्रोताश्च । (<पृष्ठ ३४०>) द्वितीयाद्या हि त्रयोऽनागामिनः सर्व एवोपपद्य परिनिर्वायिणो भवन्ति । अनुपपन्नानां परिनिर्वाणात् । तेषां प्रत्येकं त्रिधा भेदान्नवानागामिनो भवन्ति । कथमिति ? अन्तरापरिनिर्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिनिर्वाणभेदात् । उपपद्यपरिनिर्वायिणः उपपद्य साभिसंस्कारानभिसंस्कारभेदादूर्ध्वस्त्रोतसः प्लुतादिभेदात् । तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः ॥ अभिधर्मदीप ४२७ ॥ तेषां पुनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः । त्रयाणां तावत्कर्मतः, अभिनिर्वृत्युपपत्त्यपरपर्यायवेदनीयकर्मोपचितत्वात् । क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात् । इन्द्रियतोऽधिमात्रमध्यमृद्विन्द्रियभेदात् ॥ यदि तर्हि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिताः ? तदपदिश्यते- (<पृष्ठ ३४१>) षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता । द्वौ खल्वत्रानागामिनौ त्रिधा त्रिधा भित्त्वा षड्धा व्यवस्थापितौ । (<पृष्ठ ३४२>) तृतीयस्तूर्ध्वस्त्रोतानाकुलीकरणार्थमभेदेनैवोक्तः । इति सप्तधा देशिता सत्पुरुषगतिः । (<पृष्ठ ३४३>) कस्मात्पुनः स्त्रोतआपन्नसकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पुरुषसूत्रोद्देशे लक्षणेपि सति तदुच्यते- सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः ॥ अभिधर्मदीप ४२८ ॥ यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती । इतरयोस्तु कुशलाकुशले वृत्तिः । यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मात्तस्यैव सा गतिर्देशिता नेतरयोरिति ॥ किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह । यस्मात्- परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः । रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमनेऽस्ति संभवः । कामधातौ तु परावृत्तजन्मार्यो न धात्वन्तरं गच्छति तत्रैव जन्मनि परिनिर्वाणात् । (<पृष्ठ ३४४>) यश्चैष कामधातौ परिवृत्तजन्मार्य उक्तः एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक् ॥ अभिधर्मदीप ४२९ ॥ ऊर्ध्वधातूपपन्नः ऊर्ध्वगतिरार्य इत्यपि कृतं द्वयोरप्यनयोर्नास्तीन्द्रियसंचारो न परिहाणिः । जन्मान्तरपरिवासेनार्यमार्गस्य सन्ततौ दृढतरनिवेशात्, आश्रयविशेषलाभादार्यस्य जन्मान्तरे रूपारूप्यप्रवेशेन्द्रियसंचारपरिहाणयो न सन्ति ॥ अथ यदुक्तं ध्यानव्यवकिरणादिति तत्र कतमद्ध्यानमादौ व्यवकीर्यते ? अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् । चतुर्थे हि प्रश्रब्धिसुखोत्कटः समाधिः सर्वकर्मण्यो यतस्तत्संमुखीभावात्, आश्रयस्योपचये सत्यामृताभिवृद्धिः येन शक्नोति ध्यानानि व्यवकरितुम् । कथं पुनर्ध्यानानि व्यकीर्यन्ते ? आदौ तावदनास्रवं प्रवाहयुक्तं चतुर्थं ध्यानं समापद्यते । तस्माद्व्युत्थाय तदेव सास्रवं प्रवाहयुक्तं समापद्यते । (<पृष्ठ ३४५>) पुनश्च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा यावत्क्षण द्वये तिष्ठतीत्येष प्रयोगः । सिद्धिस्तु क्षणद्वयमिस्रणात् । यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेकं लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणान्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणान्निष्पन्ना भवति ध्यानव्यवकिरणा । किमर्थं पुनर्ध्यानव्यवकिरणम् ? तदुच्यते- उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च ॥ अभिधर्मदीप ४३० ॥ त्रिभिः कारणैर्ध्यानानि व्यवकीर्यन्ते । उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च । तत्र दृष्टिप्राप्तः उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम् । श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरूतया च । (<पृष्ठ ३४६>) असमयविमुक्तोऽप्यर्हन् दृष्टधर्मसुखविहारार्थम् । समयविमुक्तश्च क्लेशभीरुतया चेति ॥ यच्चैतद्व्यवकिरणमुक्तम्, तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः । तद्धि चतुर्थध्यानव्यवकिरणं पञ्चप्रकारं मृदुमध्याधिमात्रतर मधिमात्रतमभेदात् । अतो हेतुपाञ्चविध्यात्फलमपि पञ्चविधं भवति । एताः पुनः शुद्धावासभूमयः न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः ॥ अभिधर्मदीप ४३१ ॥ (<पृष्ठ ३४७>) भवाग्रमुपादाय ब्रह्मलोकमिन्द्रलोकं यावदवीचिमुपादाय सर्वबालपृथग्जनैरदृष्टपूर्वमन्यत्र शुद्धावासेभ्य इति । अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥ (<पृष्ठ ३४८>) षष्ठाध्याये तृतीयपादः । यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ । यः खलु निरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते । (<पृष्ठ ३४९>) निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । स खलु धर्मः कायाश्रयेणोपजायते । तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते । भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः ॥ अभिधर्मदीप ४३२ ॥ प्रथमध्यानवैराग्यादेकप्रकारमारभ्य यावद्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नकोद्रष्टव्यः ॥ यश्चानन्तर्यमार्गेऽन्त्ये वज्रौपम्याह्वयेस्थितः । (<पृष्ठ ३५०>) नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गेऽन्त्येऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः । तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा ॥ अभिधर्मदीप ४३३ ॥ तस्य वज्रोपमस्य समाधेर्बलादुत्थितं तद्बलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहैकालम्बनं भवति न वा । क्षयज्ञानस्य चतुःसत्यालम्बनत्वात् ॥ तदवाप्तेरशैक्षोऽसावर्हंस्त्रैलोक्यसत्कृतः । सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः ॥ अभिधर्मदीप ४३४ ॥ स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां पारगमनात्सब्रह्मकस्यापि लोकस्य पूजामर्हतीत्यर्हन्निरुच्यते ॥ (<पृष्ठ ३५१>) एषां पुनस्त्रयाणां मार्गाणां कतमः सास्रवो कतमो निरास्रवः ? तदुच्यते- भावनाख्यो द्विधा मार्गः समलामलभेदतः । दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः ॥ अभिधर्मदीप ४३५ ॥ आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् । अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः ॥ अभिधर्मदीप ४३६ ॥ कतमत्पुनः कतमां भूमिमत्येति ? तदपदिश्यते- भवाग्रं निर्मलोऽत्येति........ ॥ अभिधर्मदीप ४३७ ॥ (<पृष्ठ ३५२>) ..........तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च । शैक्षस्य तु षडारूप्यत्रयं हित्वा । किं पुनरत्र कारणम् ? सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते । इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगृहीतं फलमात्रमेव प्रतिलभते । यश्चाशैक्षः आरूप्यभूमिं निःश्रित्येन्द्रियाणि संचरति नियतमनागामिफलविशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम् । इत्येतत्कारणम् । यदुक्तं भगवता- "क्लेशान् प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परिपूर्णशैक्षः" इति । कियता परिपूर्णशैक्षो भवति ? (<पृष्ठ ३५३>) शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः ॥ अभिधर्मदीप ४३८ ॥ शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति । समापत्तीन्द्रियफलैः । तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात् । तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छैक्षस्य । अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्तिभ्याम् । तद्यथोभयभागविमुक्तस्य असमयविमुक्तस्येति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः ॥ (<पृष्ठ ३५४>) षष्ठाध्याये चतुर्थपादः । लौकिकलोकोत्तरदर्शनभावनाशैक्षाशैक्षमार्गभेदेनानेकविधो मार्ग उक्तः । स तु विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः । आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ ॥ अभिधर्मदीप ४३९ ॥ तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः । तस्यानन्तरमानन्तर्यमार्गः येन क्लेशाञ्जहाति । विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते (<पृष्ठ ३५५>) सन्ताने विसंयोगप्राप्तिसहायोत्पद्यते । विशेषमार्गो यस्तदूर्ध्वमन्यकुशलमूलप्राप्त्यर्थमुत्कर्षगमनलक्षणः ॥ पुनर्मार्गो भगवता मोक्षपुरप्रतिपादनात्प्रतिपच्छब्देनोक्तः "चतस्रः प्रतिपदः । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति सुखा क्षिप्राभिज्ञा । अस्ति दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा ।" तासां पुनरिन्द्रियतो भूमितश्च व्यवस्थानं तदिदं प्रदर्श्यते- तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा । क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात् ॥ अभिधर्मदीप ४४० ॥ मौलेषु खलु चतुर्षु ध्यानेषु यो मार्गः सा सुखाप्रतिपत् । सा च तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा तत्रायत्नवाहित्वात् । नैर्याणवत्सुखा तत्रायत्नवाहित्वात्शमथविदर्शनयोः साम्यात् । तत्रैव सा मृद्विन्द्रियस्य धन्धाभिज्ञा । अन्यासु तु पञ्चसु भूमिष्वनागम्यध्यानान्तरिकारूप्यत्रयसंगृहीतास्वनङ्गपरिगृहीतत्वात् । शमथविदर्शनान्यूनत्वातनागम्यध्यानान्तरिकयोरारूप्यत्रये (<पृष्ठ ३५६>) चानास्रवो मार्गः तीक्ष्णेन्द्रियस्य प्रतिपत्, दुःखा क्षिप्राभिज्ञा । मृद्विन्द्रियस्य दुःखा धन्धाभिज्ञा । कथं पुनरार्यमार्गो दुःखो भवति ? नासौ दुःखात्मकः न दुःखसंप्रयुक्तः ? नैष दोषः । यत्नवाहित्वाभिसन्धेर्विवक्षितत्वात् ॥ पुनरप्येष मार्गो बोधिपक्ष्यशब्देनोच्यते "सप्तत्रिंशद्बोधिपक्ष्या धर्माः । (<पृष्ठ ३५७>) चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारो ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गान्यष्टाङ्गो मार्गः" इति । का पुनरियं बोधिः ? क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि । दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः ॥ अभिधर्मदीप ४४१ ॥ सा पुनरेषा बोधिः क्षयानुत्पादज्ञानरूपासती पुद्गलभेदेन त्रिधा भिद्यते । (<पृष्ठ ३५८>) तिस्रो बोधयः । बुद्धप्रत्येकबुद्धश्रावकबोधयः । उत्तमनिर्वाणाङ्गभूता तद्धि तिसृणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात् । मृदुमध्याधिमात्राः सप्तत्रिंशद्बोधिपक्ष्या धर्माः मृदुमध्याधिमात्रभेदभिन्ना महायानम् । मृदुमध्याधिमात्रभेदभिन्नं बुद्धप्रत्येकबुद्धश्रावकयान मित्युच्यते । तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयःऽसप्तत्रिंशन्नामतःऽ । द्रव्यतस्त्वेकादश । श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कर्मान्ताश्च षडिति । अत इदमुच्यते- सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् । सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया ॥ अभिधर्मदीप ४४२ ॥ बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः । वीर्यं सम्यक्प्रधानाख्यमृद्धिपादा मनस्थितिः ॥ अभिधर्मदीप ४४३ ॥ कथं पुनरेकं वीर्यं चतुर्धा निर्दिश्यते ? तदपदिश्ते- दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् । सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम् ॥ अभिधर्मदीप ४४४ ॥ उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय यद्वीर्यम्, गुणानां च स्मृत्युपस्थानर्धिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीर्यं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति ॥ (<पृष्ठ ३५९>) छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः । ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः ॥ अभिधर्मदीप ४४५ ॥ छन्दमधिपतिं कृत्वा यो निष्पद्यते समाधिः स छन्दसमाधिः । कुशलमूलच्छन्दमूलकत्वात्समाध्यादिगुणनिष्पत्तेः, तस्मादसौ छन्दसमाधिरित्युच्यते । तत्प्रभवाः सर्वा गुणर्धयः । एवं वीर्यं चित्तं मीमांसामधिपतिं कृत्वा निष्पन्नः समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः । प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रस्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यचित्तमीमांसापरिग्रहः सामर्थ्यात् । कुशलधर्मच्छन्दे ह्यसति कुतस्तत्प्राप्त्यारम्भः ? आरब्धेपि च वीर्ये यदि न तत्प्रगुणमेव चित्तं भवति न कार्याभिनिष्पत्तिर्भवति । यथारणीमभिनिर्मथ्याप्यन्तरायव्युपरमो भवति पुनः शैत्यमापद्यते तद्वदिति । वीर्यानुवृत्तये चित्तमधिपतिमिष्यते । तत्प्रवणेपि चित्ते यदि सूक्ष्मान् समाध्युपक्लेशान्नोपलक्ष्य परिवर्जयति यदि समाध्यनुगुणान्, गुणांस्तु सामान्यलक्षणशक्तिक्रियानुत्तमार्थाङ्गभूतानुपलक्ष्य, प्रज्ञया नोपचिनोति तस्यान्यायारब्धवीर्ये त्रयमप्येतन्न प्रयोजननिष्पत्तये भवति । एवं छन्दवीर्यश्रद्धास्मृतिबुद्धिप्रस्रब्धिचेतनोपेक्षाख्यानामष्टाणां प्रहाणसंस्काराणां समाधिपरिग्रहसामर्थ्यं यथायोगमवगन्तव्यम् ॥ प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् । कथितं बलशब्देन तदेवानभिभूतितः ॥ अभिधर्मदीप ४४६ ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपाणि खलु पञ्चेन्द्रियाणि बोधिपक्ष्येषु व्यवस्थाप्यन्ते । बोधित्रयाधिगमे श्रद्धादीनां पञ्चानामैश्वर्याधिक्यात्, सर्वभूमीषूपलब्धेश्च । एतेषां चाधिमात्रमध्यमृदुतरतमविशेषादर्हत्प्रभृतीनां व्यवस्थानं भवति । तान्येव बोधिपक्ष्येष्विन्द्रियाण्युक्तानि, न चक्षुरादीन्याज्ञातवतेन्द्रियपर्यवसानानि । एषामेवैश्वर्यर्द्धिलिङ्गत्वात् । इहेन्द्राः द्विविधाः । चित्तेश्वराश्च धनेश्वराअश्चेत्यतः इन्द्रलिङ्गमिन्द्रियमितिकृत्वेन्द्रियाणि । (<पृष्ठ ३६०>) यथा पृथिवीश्वराणां पट्टादीनि लिङ्गानि भवन्ति यैः पृथिवीश्वरोयमिति प्रज्ञायते । यथा च पृथिवीश्वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्वराणामार्यधनसमृद्धानां च श्रद्धादीनि विष्कम्भितप्रहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति । तत्र तावच्छ्रद्धायाः स्वलक्षणं बुद्धधर्मसङ्घान् सम्भावयतश्चित्तं प्रसादमुपयाति सद्भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते । प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात्कर्मफलादिषु तत्र संभावना भवति । तथा च संभावयतो यश्चेतसः प्रसादः सा श्रद्धा नाम धर्मश्चित्तेन संप्रयुक्तः । यथादर्शादौ धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात्प्राधान्यात्सन्तानानुवृत्तेश्च चित्तव्यपदेशः । वीर्यं नाम चेतसोभ्युत्साहलक्षणं प्रयोजने वार्थिशक्यतां संभाव्य विविधमीर्यत इति वीर्यम् । स्मृतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम् । चेतस एकाग्रलक्षणं समाधीन्द्रियम् । विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते । विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति । यथा खलु विद्रुतजवनाश्वारूढः पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादीनां न शक्नोति व्यक्तिमुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति । यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति । तस्मात्कुड्य इव रङ्गस्य श्लेषः समाधिरालम्बने चित्तस्याधारः । प्रज्ञेन्द्रिसं यत्स्वसामान्यलक्षणमुपलक्षयति । यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्लष्टमिव पृष्ठ इव च लक्षयति सोपलक्षणात्(<पृष्ठ ३६१>) प्रज्ञेन्द्रियम् । यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम् । एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिनः क्लेशसंग्रामावतीर्णस्य क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्बलानीत्युच्यन्ते । बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् । प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात् ॥ अभिधर्मदीप ४४७ ॥ समानेपि बोधिपाक्षिकत्वे विशेषेणैते सप्तधर्मा बोध्यङ्गानि भवन्ति । भावनामार्गे खल्वेतेषां प्राधान्यं दृष्टसत्यस्थानत एव । धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम् । ह्लादः प्रस्रब्धिः । रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्कप्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा द्यत्कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः । उपेक्षा नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्तसमतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते । अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृतावशेषाणि चत्वारि पूर्वमेव व्याख्यातानि । तेषां पुनः सप्तानां बुद्धिर्धर्मप्रविचयलक्षणा बोधिश्च बोध्यङ्गं च । ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव ॥ तेषामपि च प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता । निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिमधिगच्छति । (<पृष्ठ ३६२>) यानि चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति । संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः ॥ अभिधर्मदीप ४४८ ॥ अङ्गतेति वर्तते । सम्यक्संकल्पसम्यग्वाक्कर्मान्ताजीवानां सम्यग्दृष्टिसम्यग्व्यायामसम्यक्स्मृतिसम्यक्समाधीनामिव मार्गानुकूल्यादङ्गत्वम् ॥ अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः- विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः । समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगोऽयम् ॥ अभिधर्मदीप ४४९ ॥ प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु । अत्र पुनः यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः ॥ अभिधर्मदीप ४५० ॥ तत्र स्मृत्युपस्थानान्यादिकर्मिकावस्थाप्रभावितानि कायादिस्वभावोपलक्षणात् । सम्यक्प्रहाणान्यूष्मगतेषु । तत्र संसारनिर्वाणयोरादीनवानुशंसदर्शने बलवद्वीर्याश्रयणात्संसारपारमुत्तरति । मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद्गुणधनदरिद्रो भवति । इन्द्रियाणि क्षान्तिष्वपायात्यन्तनिवृत्तौ तदाधिपत्यात् । बलान्यग्रधर्मेषु क्लेशानवमर्दनीयत्वात् । बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावनया निरवशेषक्लेशप्रहाणात् । नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात् । दर्शनमार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु त्रैधातुकातिक्रमणोत्पादात् । आनुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात् ॥ अथ कस्माच्चैतसिकधर्मधर्मिभूतं चित्तं बोधिपक्ष्येषु न व्यवस्थापितम् ? (<पृष्ठ ३६३>) संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु न व्यवस्थाप्यन्ते ? तदिदमनुवर्ण्यते- न चित्तं राजकल्पत्वाद्गुणदोषानुवर्तनात् । राजस्थानीयं खलु चित्तं तद्बोधिपक्ष्यैर्धर्मैर्विशोध्य मोक्षसुखमुपलभ्यते । यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति । यथोक्तम्- "चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते । चित्तव्यवदानहेतोश्च विशुद्ध्यन्ते ।" तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम् । व्यवहारानुकूल्यत्वात्संज्ञा ह्येतेषु नेष्यते ॥ अभिधर्मदीप ४५१ ॥ प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः ॥ विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना । चेतना खल्विष्टानिष्टविपाकनिर्वर्तनत्वात्मार्गशब्देनाभिधानाच्च नोच्यते । नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात् ॥ अभिधर्मदीप ४५२ ॥ मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याविद्याप्रवर्तनाच्च ॥ क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् । छन्दः खलु कर्तुकामतारूपः क्रियारम्भः प्रभाव्यते । वीर्य चानुबृंहयति । तद्वीर्यं बोधिप्रतिलम्भकर्तव्यतापरिसमाप्तेरूर्ध्वं यावदनुवर्तते । नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः ॥ अभिधर्मदीप ४५३ ॥ प्रायेण खल्वधिमोक्षोऽधिमुक्तमनस्कारेषु वर्तते । स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्तेर्दुरवधारवृत्तिः । तस्मान्नोक्तः ॥ नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः । (<पृष्ठ ३६४>) चत्वारः खल्वार्यवंशाः ह्र्यपत्राप्ये च । नवप्रव्रजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्याः । नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात् ॥ अभिधर्मदीप ४५४ ॥ वीर्यभाण्डागारिकः खल्वप्रमादः । अविहिंसा च विहेठनामात्रप्रतिपक्षत्वान्नोक्ता ॥ सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः । धर्माधिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः । मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः ॥ अभिधर्मदीप ४५५ ॥ अवेत्यप्रसादाः खलु मार्गाङ्गैकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनर्बोधिपक्ष्येषूक्ताः । नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः । सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः । तस्मान्न बोधिपक्ष्यः । औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः ॥ अभिधर्मदीप ४५६ ॥ निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः । परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावो बोधेर्बहिरङ्गभावाद्विप्रकृष्यते । तस्मात्सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः ॥ कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते- बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः । तदन्यान्यवबोध्यानि समलान्यमलान्यपि ॥ अभिधर्मदीप ४५७ ॥ बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि । तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाणाशयाश्च । बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते । उक्तं हि भगवता- (<पृष्ठ ३६५>) "अधिगतो मे पौराणो मार्गः" इति वचनात् । शास्त्रे तु बोध्यङ्गोपरि ये पठ्यन्ते सम्यग्दृष्ट्यादयो धर्मास्तेऽनास्रवा इति ॥ कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ? आद्ये ध्यानेऽखिला मौलेऽनागम्ये प्रीत्यपाकृताः । द्वितीयेऽप्यपसंकल्पा द्वयोश्चास्मात्द्वयादृते ॥ अभिधर्मदीप ४५८ ॥ शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु । बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः ॥ अभिधर्मदीप ४५९ ॥ तत्र तावन्मौले ध्याने सर्वेपि सप्तत्रिंशद्बोधिपक्ष्या विद्यन्ते । अनागम्ये तु प्रीतिवर्जिताः । तत्र प्रीतेरभावात् । वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः । द्वितीये तु ध्याने संकल्पवर्जिताः सर्वे विद्यन्ते । तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवर्ज्याः पञ्चत्रिंशत् ।ऽचऽशब्दाद्ध्यानान्तरेपि पञ्चत्रिंशत्संकल्पप्रीतिवर्जिताः । त्रिष्वारूप्येषु सम्यग्वाक्कर्मान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च । भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गवर्जिताः पञ्चविंशतिः । कामधातावपि बोध्यङ्गवर्जितास्त्रिंशद्विद्यन्त इति । ये पुनरनास्त्रवाण्येव मार्गाङ्गानीच्छन्ति तेषां तैरपि वर्जिताः शेषा बोधिपक्ष्या विद्यन्त इति । गतमेतत् ॥ इदं तु वक्तव्यम् । बोधिपाक्षिकाधिकारे- यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः । न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु ॥ अभिधर्मदीप ४६० ॥ (<पृष्ठ ३६६>) न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इर्न्द्रियान्तरविवृद्धितत्प्रथमता तासु खल्वेतासु चतसृषु तत्प्रथमतासु- अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् । तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ ॥ अभिधर्मदीप ४६१ ॥ बोधिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भोऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य लाभः ? तदिदं निर्दिश्यते- त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः । मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि ॥ अभिधर्मदीप ४६२ ॥ दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः । कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये । धर्ममात्रमिदं सर्वं द्वादशायतनमात्रमित्यर्थः । नात्र कश्चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते । न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति । एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः । तद्विन्निरोधं समागच्छतो द्रष्टव्यम् । मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्घे च । सद्भूतमार्गाख्यायी भगवान्मार्गज्ञो मार्गदेशिकः । येपि च तं मार्गं प्रतिपन्नाः श्रावकाः शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्ध्याशयसा(?)च बोधिसत्त्वसिंहाः दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्व्याकारश्रद्धास्वरूपः । सोऽयं विस्तरेणोच्यते ॥ बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा । धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः ॥ अभिधर्मदीप ४६३ ॥ स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्च मार्गः ॥ कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते- (<पृष्ठ ३६७>) मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात्स्वयम् । बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः ॥ अभिधर्मदीप ४६४ ॥ द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौणश्च । तत्राद्यो बुद्धकारका बुद्धस्याशैक्षा धर्माः । गौणस्तु तदाधारेपि शरीरे तत्फलभूतेषु चाष्टादशस्वावेणिकेषु बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम् ॥ शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य आकरः । तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः ॥ अभिधर्मदीप ४६५ ॥ उक्तं हि सूत्रे- "कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहपते शैक्षा अशैक्षाश्च । तत्राष्टादश शैक्षाः नव शैक्षाः ।" इति विस्तरः ॥ शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु । कति पुनरेषां द्रव्यतः कति नामतः ? द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम् ॥ अभिधर्मदीप ४६६ ॥ श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः । यद्धि निर्मलं तत्प्रसन्नमित्युच्यते ॥ इदमिदानीं वाच्यम् । अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या चाष्टाभिरङ्गैः समन्वागतः शैक्षः प्रातिपद इत्युक्तं दशभिरर्हन् क्षीणास्रव इति ? तदुच्यते- शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते । (<पृष्ठ ३६८>) शैक्षस्य विद्यमानापि अनाकारित्वान्नाङ्गमुच्यते । सत्यामपि हि तस्यां क्लेशबन्धनबद्धः शैक्षो न च विमोक्षो युज्यते । का पुनरियं विमुक्तिः कतिधा च ? तदपदिश्यते- मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा ॥ अभिधर्मदीप ४६७ ॥ स्वरूपभेदादपि द्विधा प्रकारभेदादपीति । स्वभावभेदात्मोक्षाधिमोक्षस्वभावा । प्रकारभेदोपि क्षराक्षरभेदात्, सामयिकी कान्ताकोप्यभेदाद्वा रागविरागाविद्याविरागभेदाच्च ॥ (<पृष्ठ ३६९>) अथ सम्यग्ज्ञानं कतमत्तदुच्यते- पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते । क्षयानुत्पादज्ञाने बोधिरित्युक्तम् । ते एव सम्यग्ज्ञानं वेदितव्यम् । कतरत्पुनश्चित्तं विमुच्यते ? किं जातनिरुद्धमथाजातनिरुद्धमथ जातमेव ? मुच्यतेऽनागतं चित्तमशैक्षं क्लेशरोधतः ॥ अभिधर्मदीप ४६८ ॥ कश्चित्खल्वाह- अनागतं खलु चित्तमुत्पाद्यमानं विमुच्यतेऽध्वविमुक्त्या सर्वमेव त्वनागतं विमुच्यते । क्लेशावरणात्सन्तानविमुक्त्या । तत्पुनरशैक्षमेव क्लेशोपक्लेशप्राप्तिविबन्धापगमात् । यदपि तद्रूपारूप्यप्रतिसंयुक्तं कर्मोपपत्तिफलं तदप्यर्हत्त्वप्राप्तिविबन्धकरं तच्च सर्वं वज्रोपमेन प्रहीयत इत्यावरणविगमात्सर्वमेवानागतमशैक्षं चित्तं विमुच्यते ॥ धर्मा एव तु परमार्थतः शिक्षन्ते । यस्मात्- (<पृष्ठ ३७०>) धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः । औष्ण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते । अग्निना काष्ठं दग्धमित्यग्निदहनव्यापारे च देवदत्तेन दग्धोस्मीत्युपचर्यते । तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षुरशैक्ष इत्युच्यते । मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम् ॥ अभिधर्मदीप ४६९ ॥ ऽतुऽशब्दान्निरुध्यमान एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात्सामर्थ्योपपत्तेः । अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः, ते ततः किमन्येऽथानन्ये ? ब्रूमः- विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः । आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया ॥ अभिधर्मदीप ४७० ॥ प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम् । कथम् ? विरागो रागनिर्मोक्षः प्रहाणाख्योऽन्यसंक्षयः । निरोधधातुरन्यस्य सोपादानस्य वस्तुनः ॥ अभिधर्मदीप ४७१ ॥ रागप्रहाणं खलु विरागधातुरित्युच्यते । तदन्येषां क्लेशोपक्लेशानां प्रहाणधातुः । तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते ॥ येन वस्तुना निर्विद्यते विरज्यतेऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्नः । कथम् ? (<पृष्ठ ३७१>) दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया । विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी ॥ अभिधर्मदीप ४७२ ॥ दुःखसमुदयक्षान्तिभिः तज्ज्ञानैश्च निर्विद्यते, नान्यैः । विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विरज्यते यैः क्लेशान् प्रजहाति । एवं चतुष्कोटिको भवति । तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्यप्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते । भावनामार्गेपि प्रयोगविमुक्तिविशेषात्मार्गसंगृहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निर्विद्धवस्त्वालम्बनत्वात्तु निर्विद्यते । द्वितीया कोटिः- विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामन्निरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्न निर्विद्यते । प्रामोद्यवस्त्वालम्बनत्वादुभयम् । वीतरागः कामेभ्यो नियाममवक्रामन् दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन् । नोभयम्- कामवीतरागो नियाममवक्रामन्निरोधमार्गधर्मज्ञानक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम् ॥ य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः । विस्तरेण तु संज्ञा अनित्यसंज्ञाद्या दश ताभ्योऽशुभादयः । तिस्रो मार्गविधिर्मार्गश्चतस्त्रोऽन्त्यास्त्रयी फलम् ॥ अभिधर्मदीप ४७३ ॥ (<पृष्ठ ३७२>) अशुभसंज्ञा मरणसंज्ञा सर्वलोकेऽनभिरतिसंज्ञा । मार्गप्रयोगस्तिसृभिराभिरुक्तः । चतसृभिश्च मार्गोऽनित्यदुःखशून्यानात्मसंज्ञाभिः । प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति ॥ कति पुनरासां सास्रवाः कत्यनास्रवाः ? त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः । समला निर्मलास्त्वन्या बोध्या नव भुवोऽमलाः ॥ अभिधर्मदीप ४७४ ॥ अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः । शेषास्तु सास्रवानास्रवाः, नवभूमिका अनास्रवा अवबोद्धव्याः ॥ भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् । चतुर्थी पञ्चमी षष्ठी विद्यात्सप्तसु भूमिषु ॥ अभिधर्मदीप ४७५ ॥ अभिधर्मदीपे विभाषाप्रभाणं वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च षष्ठोऽध्यायः ॥ (<पृष्ठ ३७३>) सप्तमोऽध्यायः प्रथमः पादः । अत्राह । भगवतोक्तस्त्रिस्कन्धोऽयं मार्गः । तत्र शीलस्कन्धः कर्माध्याये विस्तरेण व्याख्यातः । समाधिस्कन्धोऽष्टमेऽव्याये व्याख्यायिष्यते । प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः । सोऽयमारभ्य- लोकोऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति । तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः ॥ अभिधर्मदीप ४७६ ॥ कानि पुनस्तानि कियन्ति वेति ? तदुच्यते- जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया । तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः ॥ अभिधर्मदीप ४७७ ॥ जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम् । तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः ॥ तत्र तावत्- धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् । द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम् ॥ अभिधर्मदीप ४७८ ॥ (<पृष्ठ ३७४>) धर्मान्वयज्ञाने खलु धर्मान्वयाभ्यामेव विशेष्येते । दुःखादीनि तु चत्वारि स्वविषयैरेव चतुर्भिरार्यसत्यैः विशेष्यन्ते । संवृत्या परचित्तेन च संवृतिपरचित्तज्ञाने विशेष्येते । क्षयेणापुनरुत्पत्त्या च क्षयानुत्पादज्ञानद्वयं विशिष्यते । अथवा प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः । तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा ॥ अभिधर्मदीप ४७९ ॥ तत्र कामधातुविपक्षप्रतिपक्षो धर्मज्ञानम् । रूपारूप्यावचरविपक्षप्रतिपक्षोऽन्वयज्ञानम् । प्रयोगतः परचित्तज्ञानं चित्तं ज्ञास्यामीति तत्प्रयोगात् । स्वभावतः संवृतिज्ञानं पिपीलिकादिष्वपि तद्भावात् । सत्याकारैर्गोचरैश्चत्वारि (<पृष्ठ ३७५>) ज्ञानानि । कृत्यतः क्षयज्ञानं कृत्यपरिसमाप्तेः । हेतूपचयतोऽनुत्पादज्ञानं सर्वैरनास्रवैर्ज्ञानैस्तत्सभागहेतूपचयात् ॥ धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः । संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा ॥ अभिधर्मदीप ४८० ॥ तत्र धातुसंमोहो द्वाभ्यां धर्मान्वयज्ञानाभ्यां निवर्त्यते । सत्यसंमोहश्चतुर्भिः दुःखज्ञानादिभिः । अर्थसंमोहः संवृतिज्ञानेन । चित्तसंमोहः परचित्तज्ञानेन । जातिसंमोहः क्षयज्ञानेन । पुनरुत्पत्तिसंमोहोऽनुत्पादज्ञानेनेति दशैव ज्ञानानि भगवानवोचत् । नातिभूयांसि नाल्पीयांसीति ॥ अत्र पुनः परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम् ॥ अभिधर्मदीप ४८१ ॥ "दुखं परिज्ञातं समुदयो मे प्रहीणः,................ ..............मिति वादविपक्षेण वा अनारम्भिणां संसारेणैव शुद्धिरिति वादविपक्षेण प्रतिपदाकारः । लौकिकवैराग्यमार्गमारसंज्ञाविपक्षेण वा अनात्यन्तिकवैराग्यगमनविप्रलम्भात्सर्वत्राबहुमानविपक्षेण नैर्याणिकाकारः ॥ अथाकारो नाम क एष धर्मः । किं वा तेनाकार्यत इति ? तदुभयं निर्दिश्यते- धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः ॥ अभिधर्मदीप ४८२ ॥ (<पृष्ठ ३७६>) प्रज्ञा खल्वाकार इत्युच्यते । न तर्हि प्रज्ञा साकारा भवति द्वयोः प्रज्ञयोः यौगपद्याभावात् । ततश्च न सर्वे चैतसिकाः साकाराः प्राप्नुवन्ति । न खलु ब्रू मः प्रज्ञासंप्रयोगात्साकारा वैकाकारा वा । किं तर्हि ? स्ववृत्तिभिराकरणादालम्बनग्रहणादित्यर्थः । किं पुनस्तदाकार्यम् ? सदाकार्यम् । यत्किञ्चिद्द्रव्यतः प्रज्ञप्तितो वा विद्यते तदाकार्यते । चित्तचैत्तास्तु साकाराः विषयग्राहिण इत्यर्थः ॥ किं पुनर्ज्ञानं कति स्मृत्युपस्थानानि ? परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः । चत्वारि स्मृत्युपस्थानान्यतोऽन्यज्ज्ञानमिष्यते ॥ अभिधर्मदीप ४८३ ॥ परचित्तज्ञानं खलु त्रीणि वेदनाचित्तधर्माख्यानि । निरोधज्ञानं धर्मस्मृत्युपस्थानम् । परचित्तनिरोधज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि ॥ अथ कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ? मार्गधर्मान्वयज्ञानगोचरो नवशो धियः ॥ अभिधर्मदीप ४८४ ॥ (<पृष्ठ ३७७>) मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम् । मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा । धर्मज्ञानस्यान्वयज्ञानम् । अन्वयज्ञानस्य धर्मज्ञानम् । दुःखहेतुधियोर्द्वे द्वे दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परचित्तज्ञानमालम्बनम् । चतुर्णां दश संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वाण्येव दशज्ञानान्यालम्बनम् । नापरम् ॥ निरोधज्ञानं खलु नैव ज्ञानालम्बनम् ॥ पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम् । कथम् ? तदुच्यते- पञ्चधर्मास्त्रिधात्वाप्तान्मार्गरूपान् सनातनान् । व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम् ॥ अभिधर्मदीप ४८५ ॥ त्रैधातुकान् धर्मान् प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्तविप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधाकृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति । तत्र तावत्संवृतिज्ञानस्य सर्व एव दशधर्मा विषयः । धर्मज्ञानस्य पञ्च (<पृष्ठ ३७८>) कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम् । परचित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव । दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः । निरोधज्ञानस्यैकोऽसंस्कृतमेव कुशलम् । मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च । क्षयानुत्पादज्ञानयोर्नव धर्मा विषयोऽसंस्कृतमव्याकृतं मुक्त्वा ॥ इदमिदानीं वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव । अयं तु नियमः- दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः । द्वितीयक्षणे त्रिभिः संवृतिज्ञानदुःखज्ञानधर्मज्ञानैः । चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तोऽन्यमनो धिया ॥ अभिधर्मदीप ४८६ ॥ अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते । तद्यथा दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते । समुदयधर्मज्ञाने समुदयज्ञानम् । निरोधधर्मज्ञाने निरोधधर्मज्ञानम् । मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते । समुदयनिरोधमार्गान्वयज्ञानेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः । सर्वत्र तु वीतरागस्य परचित्तज्ञानं वर्धत इति वाच्यम् ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः ॥ (<पृष्ठ ३७९>) सप्तमाध्याये द्वितीयपादः । इदमिदानीं वक्तव्यम् । कस्यां भूमौ कस्यां वावस्थायां कस्य वा पुद्गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते- त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि । मौलध्यानप्रयोगे च ज्ञेयानागतभावना ॥ अभिधर्मदीप ४८७ ॥ बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा । प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः ॥ अभिधर्मदीप ४८८ ॥ बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमूलोत्पादने च प्रयोगविमुक्तिमार्गे च संवृतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या ॥ आर्यस्य तु क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे । दर्शनमार्गे खलु यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते । नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात् । सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये ॥ अभिधर्मदीप ४८९ ॥ संवृतिज्ञानं खलु दर्शनमार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वयज्ञानाख्येषु भाव्यते । न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः ॥ कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते- समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः । (<पृष्ठ ३८०>) यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवृतिज्ञानानि प्रतिपक्षः । तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम् । अतोऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः ॥ अभिधर्मदीप ४९० ॥ अत एव तदाभिसमयान्तिकं संवृतिज्ञानमित्याख्यायते । धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति । तच्चैतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते । कस्मात्पुनस्तदनुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्तिप्रतिबद्धत्वात् । दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम् । तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति । तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च । उक्ता दर्शनमार्गभावना ॥ (<पृष्ठ ३८१>) भावनामार्गे वक्तव्या । मार्गाख्ये त्वन्वयज्ञाने षड्भाव्यन्तेऽथ सप्त वा । षोडशेतु वर्तमानान्वयज्ञानचित्ते भावनावर्त्मन्यवीतरागस्य षड्भाव्यन्ते । संवृतिपरचित्तक्षयानुत्पादज्ञानानि हित्वा । वीतरागस्य तु सप्तानागतानि भाव्यन्ते परचित्तज्ञानं वर्धयित्वा । आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः ॥ अभिधर्मदीप ४९१ ॥ सरागस्यापि भावनामार्गे तस्मात्षोडशात्क्षणादूर्ध्वं यावत्कामे वीत रागो भवति तावत्सर्वेषु प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । अन्यत्र परचितक्षयानुत्पादज्ञानेभ्यः ॥ प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः । भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना ॥ अभिधर्मदीप ४९२ ॥ ध्यानचतुष्ट्वारूप्यत्रयवैराग्ये पञ्चस्वभिज्ञासु, अकोप्याप्रतिवेधे च व्यवकीर्णभाविते च ध्याने । शैक्षस्य सर्वेष्वानन्तर्यविमुक्तिमार्गेषु सप्तैव ज्ञानानि ............. । ........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य द्वितीयपादः समाप्तः ॥ (<पृष्ठ ३८२>) सप्तमाध्याये तृतीयपादः ।..... .........स्थानवस्तुहेतुविपाकप्रतिविस्तरैर्बोद्धव्यम् । तत्रातीतानागते प्रत्युत्पन्ने च तदाक्षेप्ताक्षेपवैचित्र्यं प्रतिकर्मसमादानं (<पृष्ठ ३८३>) भवति । किचिद्धि सहसा प्रत्ययवशात्क्रियते । किञ्चिद्दृष्टचेतसा । किञ्चित्पुनः समादाय क्रियते तेन कर्मणा मया जीवितव्यमिति । तथा धर्मोऽयमधर्मो वेति समादायासमादाय करोति । स्थानादिप्रविभागतश्च गाम्भीर्यं बोद्धव्यम् । तत्र स्थानमायत्युत्पत्त्यायत्तानामवकाशकारणात् । हेतुरपि येन हेतुना क्रियते । यथोक्तम्- "वस्तु स्थानाधिकरणमुच्यते । साधिकरणं वस्तु स्थानम् । तद्यथा प्राणिवधकर्मणः स्वभावः । स च प्राणी यस्य चार्थे वध्यते यया प्रत्ययसामग्र्या सर्वमेतद्वस्तु सम्भवति । कुतः ? स्थानहेतुविपाकानां पृथगुक्तेः । यस्य खल्वेतत्स्थानं यच्चास्य स्थानं क्रियते यस्य तत्कर्म हेतुः, यद्धेतुकं च तत्, अयं चास्य कर्मणो विपाकोऽयमन्यस्य" इति । तदेतदष्टज्ञानस्वभावं निरोधमार्गज्ञाने हित्वा ॥ ध्यानादीनां स्वभावादावव्याघातविसारि यत् । ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम् ॥ अभिधर्मदीप ४९३ ॥ (<पृष्ठ ३८४>) ध्यानविमोक्षसमाधिसमापत्ति ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्बलमव्याहतम् । तत्र संक्लेशादिचतुष्टयं हानविशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात् । तदेतद्ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नवज्ञानात्मकं बोद्धव्यम् ॥ यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते । अक्षोत्तमावरज्ञानबलं तन्नवधीमयम् ॥ अभिधर्मदीप ४९४ ॥ इन्द्रियपरापरज्ञानबलं यत्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रैविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानबलं नवज्ञानात्मकं निरोधज्ञानं हित्वा ॥ यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते । नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम् ॥ अभिधर्मदीप ४९५ ॥ यत्खलु सर्वसत्त्वानां हीनमध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्तिज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा ॥ यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते । नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम् ॥ अभिधर्मदीप ४९६ ॥ (<पृष्ठ ३८५>) ते पुनः पूर्वाभ्यासवासनाधातवः पूर्वजन्मसु गुणदोषविद्याशिल्पकर्माभ्यासेभ्यो या वासनास्ताः खल्विह धातवो विशेषेण बोद्धव्याः । गोत्रार्थेनावस्थानां त एवाशया इत्यवगन्तव्याः, तद्वशाच्चरतीत्युच्यते । उक्तं च भगवता- "धातुशः सत्त्वाः संस्यन्दन्ते" इति ॥ गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः । तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम् ॥ अभिधर्मदीप ४९७ ॥ यत्खलु सत्त्वोपपत्तिनिर्वर्तकेषु तत्क्षयकरेषु च धर्मेषु ज्ञानमव्याहतं तत्सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । भव्यविशेषौषधवद्द्रष्टव्यम् । मोक्षभव्यानां नानाधातूनां सत्त्वानामनेकधातूनां सर्वक्लेशप्रहाणायौषधविशेषवत्सामान्यप्रतिपक्षविशेषप्रतिपक्षं च सर्वत्र जानीते गतिहेतुं चानेन धातुरेकसन्ताने यो यद्गतचित्तस्तद्वशेन तदवतरणभव्योऽभव्यश्च भवति तत्सर्वं यथावत्प्रतिजानातीति सर्वाकारज्ञताप्युक्ता भवति । तदेतत्सफलमार्गप्रहाणाद्दशज्ञानात्मकं भवति । केचित्तु केवलमार्गग्रहणान्नवज्ञानात्मकम् ॥ (<पृष्ठ ३८६>) यत्स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् । प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम् ॥ अभिधर्मदीप ४९८ ॥ स्वपरसन्ता निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाकोऽयममुष्यस्वप्ननिमित्तध्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति । यथा खलु भव्यार्थसूचकान् स्वप्नाननेकशो दृष्ट्वा तांश्चार्थानभिनिष्पन्नान् प्रायशः सदृशानपेक्ष्य निश्चयो भवति तद्वदिति । यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति । तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता । किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्बलं संवृतिज्ञानात्मकमेव ॥ सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् । तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते ॥ अभिधर्मदीप ४९९ ॥ दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरितावतरणज्ञानपरप्रत्ययो भवति । प्रत्युत्पन्नविषयमप्येवम् । तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते । तदेतत्संवृतिज्ञानात्मकमेव ॥ आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश । अत इदानीं भगवतो विनेयकार्यं किमवशिष्टम् ? आस्रवक्षयः । तस्मिन्यज्ज्ञानं यस्य यदा यैरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित् । अतोऽस्यैव तद्बलं नान्यस्य । तत्पुनरेतत्षड्ज्ञानस्वभावं दशात्मकं वा । यद्यास्रवक्षये ज्ञानम्, षड्भवन्ति । (<पृष्ठ ३८७>) परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा । अथ सोपाये क्षये ज्ञानं दर्शनं भवति, दशज्ञानानि भवन्ति । उक्तो दशबलस्वभावः । आकारनियमो वक्तव्यः । सोऽयमुच्यते- षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा ॥ अभिधर्मदीप ५०० ॥ सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् । अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत् ॥ अभिधर्मदीप ५०१ ॥ तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति । स्थानास्थानज्ञानबलं षोडशभिराकारैः प्रवर्तते । अन्यैश्च तन्निर्मुक्तैरास्रवक्षयज्ञानबलमपि यदि सोपायं क्षयं विवक्षति तदपि षोडशाकारम् । अथ क्षयमात्रं तत्, षड्ज्ञानमयैराकारैः सर्वत्रगामिनीं प्रतिपज्ज्ञानबलं सप्तमं तदपि तथैव षोडशाकारम् । द्वयं तु पूर्वेनिवासानुस्मृतिच्युत्युपपत्तिज्ञानबलमविभक्ताकारबलम् । द्वितीयं तु कर्मविपाकज्ञानबलमष्टाकारम् । यत्तु समाधिसमापत्तिज्ञानबलं तस्य नवज्ञानस्वभावं तैरेव द्वादशभिराकारैः प्रवर्तते । अन्यद्यन्नोक्तं तदभ्यूह्यम् । किं पुनः किं गोचरम् ? सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा ॥ अभिधर्मदीप ५०२ ॥ सर्वविषयं स्थानास्थानबलम् । आस्रवक्षयज्ञानबलं निर्वाणविषयं वा चतुःसत्यविषयं वा ॥ (<पृष्ठ ३८८>) द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् । कर्मविपाकज्ञानबलं भवविषयम् । सर्वत्रगामिनी प्रतिपत्ज्ञानबलं चतुःसत्यालम्बनम् । अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम् ॥ अभिधर्मदीप ५०३ ॥ पूर्वेनिवासानुस्मृतिज्ञानबलंऽअतीताद्यद्धिऽ धातुगोचरम् ॥ नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् । च्युत्युपपत्तिज्ञानबलं रूपायतनविषयमन्यद्यदवशिष्टं तत्संस्कृतधर्मगोचरं द्रष्टव्यम् । अत्र पुनः द्व्यपेक्षो बलशब्दोऽयं बलं त्वप्रतिघाततः ॥ अभिधर्मदीप ५०४ ॥ पराभिभवापेक्षश्च सर्वाप्रतिघातित्वेन च । यत्खलु अप्रतिहतसामथ्य तद्बलमित्युच्यते । मानसं बलं दशविधं भगवतो व्याख्यातम् ॥ कायिकमप्यभिधीयते- सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् । (<पृष्ठ ३८९>) स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात् ॥ अभिधर्मदीप ५०५ ॥ नारायणं नाम बलमुच्यते । तच्च भगवतो मर्मणि मर्मणि विद्यते । नागग्रन्थिशङ्कलाशङ्कुसन्धयश्च यथाक्रमं बुद्धप्रत्येकबुद्धचक्रवर्तिनः । किं प्रमाणं पुनस्तन्नारायणं बलम् ? यत्खलु दशानामितरहस्तीनां बलं तदेकस्य गन्धहस्तिनः । एवं दशोत्तरवृत्त्या महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां वाच्यम् । ऐरावणसहस्रस्येत्यन्ये । स हि देवोद्यानयात्रासमये त्रयस्त्रिंशच्छिरसमात्मानमभिनिर्मायात्यद्भुतविचित्रोद्यानायायमानानि तावन्त्येव देवकुलान्यनेकसहस्रपरिवाराणि भूर्जपत्रवदादाय गच्छःयेष बलसमुदयस्तस्य । एवं तु वर्णयन्ति मानसबलवदनन्तं कायिकमपि बलं बुद्धानां भगवतामिति । तत्पुनः कायिकं बलं स्पृष्टव्यायतनसंगृहीतम् । गुरुत्वेन बलसंग्रहो लघुत्वेन दौर्बल्यस्येति वर्णयन्ति । स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् । आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः ॥ अभिधर्मदीप ५०६ ॥ (<पृष्ठ ३९०>) सूत्र उक्तम्- "सम्यक्सम्बुद्धस्य वत मे सत इमे धर्मास्त्वयानभिसम्बुद्धाः" इति विस्तरः । अत्र हि प्रथमद्वितीयाभ्यां स्वार्थसम्पद्भगवतोद्भाविता । पूर्वेण ज्ञानसम्पत् । द्वितीयेन प्रहाणसम्पत् । द्वाभ्यामन्याभ्यां परार्थसम्पदा दर्शिता व्यवदानसंक्लेलोद्भावनात् । कतरत्पुनर्वैशारद्यं कति ज्ञानात्मकम् ? तदुच्यते । स्थानास्थानबलरूपमाद्यम् । आस्रवक्षयज्ञानरूपं द्वितीयम् । कर्मस्वकज्ञानबलं तृतीयम् । सर्वत्रगामिनीप्रतिपत्ज्ञानबलं चतुर्थं वैशारद्यम् । तद्यावज्ज्ञानस्वभावान्येतानि वलानि तावत्स्वभावानि यथाक्रमं चत्वारि वैशारद्यानि बोद्धव्यानि । सूत्र उक्तम्- "त्रीणीमानि स्मृत्युपस्थानानि यान्यार्यः सेवते" इति विस्तरः । तेषां पुनरिदं लक्षणम्- (<पृष्ठ ३९१>) श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः । संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा ॥ अभिधर्मदीप ५०७ ॥ शुश्रूषकाशुश्रूषकादिभेदाद्विनेयानां त्रैविध्येन व्यवस्थानम् । शुश्रूषकादिवर्गत्रयाभिसन्धेः । स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि त्रीणि स्मृत्युपस्थानानि । स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाणाशुश्रषमाणतदुभययुक्तेषु विनेयसमूहेषु नानन्दो भवत्याघातो वा ॥ महाकरुणा पुनः संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः । सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा ॥ अभिधर्मदीप ५०८ ॥ यदा श्रावकस्यापि करूणा विद्यते प्रत्येकबुद्धस्यापि कस्माद्बुद्धस्यैव महाकृपेत्युच्यते ? यस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महापुरुषलक्षणविद्योतितशरीराध्यासिनी दशबलपरिगृहीता च । तस्माद्बुद्धस्यैव भगवतो महाकृपेत्युच्यते । उक्ता असाधारणगुणाः ॥ (<पृष्ठ ३९२>) श्रावकसाधारणा उच्यन्ते- अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः । अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः ॥ अभिधर्मदीप ५०९ ॥ इतरैरपि सामान्या अप्रमादादयो गुणाः । एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम् ॥ अभिधर्मदीप ५१० ॥ तत्र तावत् । अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् । आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी ॥ अभिधर्मदीप ५११ ॥ इह कश्चिदर्हन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति- कथं नाम परेऽपि इमे सन्तानालम्बनाद्क्लेशान्नोत्पादयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः । चतुर्थं ध्यानं विवृद्धिकाष्ठागतं समापद्य तथा करोति यथास्य चारविहारगतस्य सन्ताने न कश्चित्क्लेशमुत्पादयति । प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु । अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः ॥ अभिधर्मदीप ५१२ ॥ प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अर्हद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात् ॥ (<पृष्ठ ३९३>) प्रतिसंविदः खल्वपि विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी । आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी ॥ अभिधर्मदीप ५१३ ॥ तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी । तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी ॥ अभिधर्मदीप ५१४ ॥ तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु वक्ष्यमाणार्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवर्त्यं ज्ञानं सा धर्मप्रतिसंवित् । तदवद्योत्येषु पौरूषेयापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवर्त्यं ज्ञानं सार्थप्रतिसंवित् । नामकायादिवाचक एव वाक्छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो पग्रहसम्बन्धिनि यदविवर्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित् । धर्मार्थनिरुक्तिषु ध्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवर्त्यं ज्ञानं सा प्रतिभानप्रतिसंवित् । (<पृष्ठ ३९४>) त एते षड्गुणाः प्रान्तकोटिकमित्युच्यन्ते ॥ का कति भूमिकाः पुनरासां प्रतिसंविदां का वा कति ज्ञानमयी ? तदवद्योत्यते- अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव । अर्थप्रतिसंवित्सर्वासु भूमिषु कामधातौ यावद्भवाग्रे नवज्ञानस्वभावा निरोधज्ञानं वर्जयित्वा षड्ज्ञानानि निर्वाणस्यैव परमार्थत्वात्, परचित्तदुःखसमुदयमार्गज्ञानानि वर्जयित्वा । प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ ॥ अभिधर्मदीप ५१५ ॥ प्रतिभानप्रतिसंविदपि सर्वासु भूमिषु दशज्ञानमयी । तत्र कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः । धर्मप्रतिसंवित्कामधातौ चतुर्षु ध्यानेषु निरुक्तिप्रतिसंवित्कामधातौ प्रथमे च ध्याने । संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ ॥ अभिधर्मदीप ५१६ ॥ उभे अप्येते संवृतिज्ञानस्वभावे धर्मनिरुक्तिप्रतिसंविदाविति ॥ अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ (<पृष्ठ ३९५>) सप्तमाध्याये चतुर्थपादः । पृथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः । त इम उच्यन्ते- ऋद्धौ श्रोत्रेऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये । ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि ॥ अभिधर्मदीप ५१७ ॥ ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताभिज्ञेत्युच्यते । केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते । ऋद्धिपाददिव्यश्रोत्रचेतः- पर्यायपूर्वेनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साभिज्ञा । अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा । कस्मात्पुनर्विमुक्तिमार्ग एवाभिज्ञा श्रामण्यफलवत्न आनन्तर्यमार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादर्हतश्चास्रवक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात् ॥ आसां पुनः (<पृष्ठ ३९६>) चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः । सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश ॥ अभिधर्मदीप ५१८ ॥ चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा । चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा षड्ज्ञानानि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वाअथवा दशेऽति ॥ षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु । आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु । शेषा मौलीषु चतसृषु ध्यानभूष्विति । यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः ॥ अभिधर्मदीप ५१९ ॥ सर्वाः अभिज्ञाः यत्नतो लभ्यन्ते वैराग्यतश्च । तत्रानुचिता यत्नतः । उचिता वैराग्यतः । जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते । वैशेषिक्यो यत्नतः ।ऽस्वभूम्यधरगोचराऽश्चैताः । ऋद्ध्या स्वभूमिं गच्छत्यधरां च भूमिम् । निर्मितनिर्माणमप्येवम् । दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधोभूमिकं च शब्दं शृणोति । एवं परचित्तज्ञानं पूर्वेनिवासानुस्मृतिज्ञानं च । च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति ॥ कतमा पुनरासां कति स्मृत्युपस्थानानि ? स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता । ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः ॥ अभिधर्मदीप ५२० ॥ परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा । चित्तचैत्तालम्बना खल्वेषा । ऋद्धिश्रोत्रचक्षुरभिज्ञाः कायस्मृत्युपस्थानं रूपालम्बनत्वात् । ऋद्धिः खलु चतुर्बाह्यायतनालम्बना । दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने । (<पृष्ठ ३९७>) कुशलादिभेदेन तु दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः । दिव्यश्रोत्रचक्षुषी किलाव्याकृते । तच्च न । अभिज्ञानां विमुक्तिमार्गस्वभाव्याच्चक्षुःश्रोत्रविज्ञानयोश्चाविकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः । चतुर्षु ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव चक्षुःश्रोत्रं संमुखीभावं गच्छति । यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाभिज्ञेति । कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते- अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया ॥ अभिधर्मदीप ५२१ ॥ अभिज्ञाफलमत्राभिज्ञाशब्देनोक्तम् । मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाभिजानातीति । सैवाभिज्ञा निरूपकत्वात् । कति पुनरासां विद्या ? तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये । एका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात् ॥ अभिधर्मदीप ५२२ ॥ पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षात्क्रियास्तिस्रः खल्वशैक्ष्यो विद्या उच्यन्ते । कस्मादेता एव ? एत एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते । पूर्वेनिवासाभिज्ञाज्ञयापूर्वान्तसंमोहः निवर्तते । च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते । आस्रवक्षयाभिज्ञया मध्याध्वसंमोहः । (<पृष्ठ ३९८>) यद्यपि च तिस्रोऽप्यशैक्षास्तथापिऽएका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्ऽ । अन्त्या वाशैक्षी स्वभावतः सन्तानतश्च । आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते । कति पुनरासां प्रातिहार्याणि ? ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् । हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् ॥ अभिधर्मदीप ५२३ ॥ ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः । अनुशासनाप्रतिहार्यं मारेभ्योऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति ॥ का पुनरियमृद्धिः ? समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा । द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते ॥ अभिधर्मदीप ५२४ ॥ (<पृष्ठ ३९९>) ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरत्युक्तं सूत्रे । अङ्गपरिगृहीते समाधौ सति सर्वमेतत्प्रातिहार्य मृद्ध्यति । तस्मात्समाधिरेव ऋद्धिः । तस्याः फलमष्टगुणमैश्वर्यमणिमादि । (<पृष्ठ ४००>) यच्च सूत्रेऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं द्विविधं गतिश्च निर्माणं च । गतिरपि त्रिविधा । तत्र मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः । अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी ॥ अभिधर्मदीप ५२५ ॥ मनोजवाःखलु ऋद्धिर्बुद्धस्यैव । मनस इव जवस्तस्याः । यावता कालेन चक्षुर्विज्ञानं नीलं प्रतिपद्यते यावता कालेन भगवाञ्च्छरीरेण सर्वलोकान्तराणि व्याप्नोत्यनन्तर्द्धिशरीरा हि बुद्धा भगबन्तोऽनाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य । श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा । आधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते । बाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति । व्याख्यातं समाधिफलम् ॥ गमनं निर्माणमिदानीं वक्तव्म् । तद्द्विविधं कामावचरं रूपावचरं च । तत्र तावत्- रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते । रूपस्पर्शौ मतौ रूपे स्वेशरीरेऽथ वा बहिः ॥ अभिधर्मदीप ५२६ ॥ कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते । नान्यदीश्वरकर्तृत्ववादाभ्युपगमप्रसंगात् । रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात् । तत्पुनरेतत्स्वशरीरे परशरीरे च द्रष्टव्यम् । एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम् । इत्यष्टविधं निर्माणम् । किं खलु निर्माणमभिज्ञया निर्मीयते ? किं तर्हि ? (<पृष्ठ ४०१>) अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश । आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः ॥ अभिधर्मदीप ५२७ ॥ प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च ॥ कथं पुनर्निर्माणचित्तानि लभ्यन्ते ? तल्लाभो ध्यानवत्ज्ञेयः यथा खलु ध्यानानि वैराग्यत उपपत्तितः प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि । कथं पुनस्तदुत्पद्यते ? शुद्धकाच्च स्वतश्च तत् । शुद्धकाद्ध्यानादनन्तरं निर्माणचित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः । ततः खल्वपि निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । सर्वस्य च निर्मितस्य स्वभूमेनैव निर्माणमधरेणापि भाषणम् ॥ अभिधर्मदीप ५२८ ॥ न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते । भाषणं तु स्वभौमेनाधरभौमेन च । कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाषते । ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसमुत्थापकचित्तसद्भावात् ॥ किं पुनर्निर्मितनिर्मात्रोः क्रमेण वाग्भाषणं भवत्यथ युगपत्? तदुच्यते- निर्मात्रैव सहैतेषां भाषणं सुगतादृते । (<पृष्ठ ४०२>) उक्तं हि "एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः । एकस्य तूष्णीं भूतस्य सर्वे तूष्णीं भवन्ति ते ॥ " भगवतस्तु इच्छातः पूर्वं पश्चाद्युगपद्वा निर्मिता भाषन्ते । तेषां पुनः एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम् ॥ अभिधर्मदीप ५२९ ॥ अधिष्ठाय तु निर्माणं भाषन्तेऽन्येन चेतसा । ऽअधिष्ठाय तु निर्माणंऽ संस्थाप्येत्यर्थः । अन्येन चेतसा विज्ञप्तिसमुत्पादकाख्येन वाचं प्रवर्तयतीत्यतोऽपि नास्ति निर्माणान्तर्धानो दोषः । तत्पुनरेतदधिष्ठानं न केवलं जीवत एव । किं तर्हि ? अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः ॥ अभिधर्मदीप ५३० ॥ आर्यमहाकाश्यपाधिष्ठानेन तदस्थिशंकलापस्थानश्रवणात्स्थिरस्यास्थिलक्षणस्य न मांसरुधिरादीनामस्ति ॥ किं पुनरेकचित्तेनैकं निर्मितं निर्मिणोत्यथ बहून् ? अजय्येकमनेकेन जयिणस्तद्विपर्ययः । आद्याभिनिर्हारैर्बहुभिर्निर्माणचित्तैरेकं सोपादानं च निर्मितं निर्मिणोति । (<पृष्ठ ४०३>) र्जितायां त्वभिज्ञायां निर्मातुरिच्छया बहूनप्येकचित्तेन निरूपादानमपि च निर्मिणोति । तत्पुतरेतन्निर्माणचित्तं द्विविधं भावनामयमुपपत्तिप्रातिलम्भिकञ्च । तत्र अव्याकृतमभिज्ञोत्थमुपपत्त्य त्वयं त्रिधा ॥ अभिधर्मदीप ५३१ ॥ यत्खलु भावनाफलं निर्माणचित्तं तदव्याकृतं भवति । उपपत्तिप्रातिलम्भिकं तु कुशलादिना त्रिप्रकारम् । तदुपपत्तिफलं दशातिशययुक्तम् । अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते । सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः ॥ अभिधर्मदीप ५३२ ॥ यदेततदणिमादिशैक्षान्तं दशविधमैश्वर्यसुखं तदतिशययुक्तमर्हतामेवोपपद्यते ॥ यदि तर्हि त्रयाणामर्हतामेतदैश्वर्यं समानमस्ति कस्तर्हि विशेषः शास्तृशिष्ययोः ? तत्रेदमुपदिश्यते- ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः । अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम् ॥ अभिधर्मदीप ५३३ ॥ दशबलाद्यावेणिकबुद्धगुणचिन्तायां चतुष्प्रत्ययता नद्युत्तरणे गन्धहस्त्य श्वशशकदृष्टान्तैश्च विशेषान्तरं बोद्धव्यमिति ॥ अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च ज्ञानविभागो नाम सप्तमोऽध्यायः ॥ (<पृष्ठ ४०४>) अष्टमोऽध्यायः । प्रथमः पादः । व्याख्याता हि विस्तरशो विदर्शना । शमथ इदानीं वक्तव्यः । स खल्वेष शमथश्चतुर्थध्यानारूप्यसंगृहीतः । तत्र तु साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः । शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते । यस्य खलु धर्मस्याङ्गपरिगृहीततो(स्यो ?) द्रेकात्चित्तचैत्तान्यालम्बनान्तरं न प्रतिपद्यन्ते स धर्मश्चैतसिकः समाधिरित्याख्यायते । तदङ्गभेदेन चतुर्विधमिति वक्ष्यामः । तस्यां पुनश्चित्तस्थितौ ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि ॥ अभिधर्मदीप ५३४ ॥ (<पृष्ठ ४०५>) समाधिस्वभावं खलु परमार्थेन ध्यानम् । सपरिवारं तु गृह्यमाणं पञ्चस्कन्धस्बभावम् । भक्तिकल्पनया तत्सहभूष्वपि धर्मेषु ताच्छब्द्यम् ॥ संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा । प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति । द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम् ॥ अभिधर्मदीप ५३५ ॥ द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि ॥ तत्र तावत् । सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा । चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः ॥ अभिधर्मदीप ५३६ ॥ पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्तिः प्रज्ञाप्यते । चतुःपञ्चेष्वारूप्यसमापत्तिरिति ॥ भेदेन तु समापत्तिद्रव्याणि दश सप्त च । सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयापि च ॥ अभिधर्मदीप ५३७ ॥ अष्टानां खलु समापत्तिभूमीनामष्टानामेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता । एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह- तद्भेदाः खल्विमेऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः । (<पृष्ठ ४०६>) अन्येऽपि खलु समापत्तिभेदास्तदन्तर्गता एव सूत्राभिधर्मोदिता वक्ष्यन्ते । बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम् ॥ अभिधर्मदीप ५३८ ॥ भगवानेब हि सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृत्तिरिति ॥ त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते- त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः । तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम् ॥ अभिधर्मदीप ५३९ ॥ तत्र मौलानि तावद्ध्यानानि त्रैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्रवभेदात् । एवं त्रयो मौला आरूप्याः । भवाग्रं तु नास्त्यनास्रवम् । कामधातोर्भवाग्रस्य च भवमूलत्वात् ॥ सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् । ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम् ॥ अभिधर्मदीप ५४० ॥ प्रथमध्यानसामन्तं हित्वान्यानि सप्त सामन्तानि द्विप्रकाराण्यन्यत्रानास्रवात् । प्रथमध्यानसामन्तकं तु त्रिप्रकारम् । केचित्तु आस्वादनासंप्रयुक्तं नेच्छन्ति । तद्वद्ध्यानान्तरिका त्रिधेति वर्तते । यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति ॥ किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते- आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् । अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् ॥ अभिधर्मदीप ५४१ ॥ (<पृष्ठ ४०७>) यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते । तृष्णाया आस्वादपर्यायत्वात् । यत्तु न संप्रयुक्तं तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयैकफलत्वात् । यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते । क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च । तदेतच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम् । तेन हि तत्समनन्तरातीतमास्वाद्यते । येनास्वादयति तमापन्नो यदास्वादयति तस्माद्व्युत्थितः । अन्योन्यसंसर्गाद्धि तृष्णासमाध्योर्न्नामनिर्वृतिः । तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्यान नाम, अन्यथा विप्रतिषिद्धं स्यात् । न हि कश्चित्तृष्णां समापद्यते, न च समाधिनास्वादयतोति । लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते ॥ आसां पुनः समापत्तीनां ध्यानान्येवाङ्गवर्ति नारूप्याः । कति पुनः कस्य ध्यानस्याङ्गानि ? तदिदं प्रस्तूयते- अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता । प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम् ॥ अभिधर्मदीप ५४२ ॥ प्रथमे तावच्छुभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः । क्लिष्टे चत्वारि सुखं हित्वा ॥ साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः । द्वितीयेऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते ॥ अभिधर्मदीप ५४३ ॥ (<पृष्ठ ४०८>) द्वितीये कुशले ध्याने चत्वार्यङ्गानि । आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा ॥ तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः । क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम् ॥ अभिधर्मदीप ५४४ ॥ तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्च । क्लिष्टे तु द्वेऽसमाधिर्वेदनासुखम्ऽ ॥ अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च । क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः ॥ अभिधर्मदीप ५४५ ॥ चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि । अदुःखासुखावेदना उपेक्षा च स्मृतिपरिशुद्धिः समाधिश्च । क्लिष्टे तु द्वे वेदना स्थितिश्च ॥ कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ? द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च । अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः ॥ अभिधर्मदीप ५४६ ॥ द्रव्यतः खल्वेकादश भवन्ति । प्रथमे ध्यानाङ्गानि पञ्च । द्वितीयेऽध्यात्मसंप्रसादो वर्धते । तृतीये समाधिवर्ज्यानि वर्धन्ते । चतुर्थे त्वदुःखासुखावेदनेति । ननु च यत्तृतीये ध्याने सुखमुक्तं तथा प्रथमद्वितीययोः.......... (<पृष्ठ ४०९>) अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ (<पृष्ठ ४१०>) अष्टमाध्याये द्वितीयपादः । शमथस्य च । ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः ॥ अभिधर्मदीप ५४७ ॥ ध्यानसामन्तकेषु खलु विदर्शनोदृक्ता शमथो न्यूनः । आरूप्येषु सर्वत्र शमथोऽधिकवृत्तिर्विपश्यना न्यूनतरा । विपश्य पश्यतो संज्ञायामिति वचनादङ्गिन्यपि पश्चादुद्देशो भवति । ततः सिद्धं विपश्यनाः ॥ यदा खलु चत्वार्यपि ध्यानानि विपाकं प्रति नेञ्जन्ते कस्माच्चतुर्थमेवानेज्यमुच्यते ? तत्रापदिश्यते- वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् । उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते ॥ अभिधर्मदीप ५४८ ॥ त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टापक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेज्यं चतुर्थमुक्तं सूत्रे । आभिप्रायिकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे । तथाहि "सुखदुःखयोः प्रहाणात्सौमनस्यदौर्मनस्ययोश्चास्तङ्गमाच्चतुर्थं ध्यानमुपसम्पद्य विहरति" इत्युक्तम् । अभिधर्मे वितर्कविचारप्रीतिसुखान्येवेञ्जितम् ॥ (<पृष्ठ ४११>) इदमिदानीं वक्तव्यम् । इह ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । प्रीतिर्हि सौमनस्यम् । तृतीये सुखं चतुर्थे उपेक्षा । तत्किंमुपपत्तिध्यानेष्वप्येष एव वेदनानियमः ? नेत्युच्यते । किं तर्हि ? आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते । सुखोपेक्षे तृतीयेऽन्त्ये उपेक्षैव विदिष्यते ॥ अभिधर्मदीप ५४९ ॥ प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः । सुखं त्रिविज्ञानकायिकं, सौमनस्यं मनोभौममुपेक्षा चतुर्विज्ञानकायिकी । द्विंतीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् । तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति ॥ ननु च द्वितीयादिषु ध्यानेषु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् । तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नैष दोषः । स्वभूमिकप्रतिषेधात् । कुतस्तेन तर्हि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते- दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा । यद्भूमावविचारायामाद्यादव्याकृतं तु तत् ॥ अभिधर्मदीप ५५० ॥ द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति । तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान्न क्लिष्टं वीतरागत्वात् । तद्यथा कश्चिदीश्वरो दरिद्रमित्रगृहं गतः । तेनासौ सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्टं वस्तु हित्वा यत्किञ्चिद्गृह्णीते तद्वदिति । व्याख्यातस्वरूपाणि ध्यानानि ॥ (<पृष्ठ ४१२>) आरूप्याः वक्तव्याः । तदारभ्यते- खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः । विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः ॥ अभिधर्मदीप ५५१ ॥ अनन्ताकाशनिमित्तोद्ग्रहः तत्संज्ञाप्रवृत्तिनिमित्तं पश्चात्तु चतुःस्कन्धालम्बनास्तदन्यतमालम्बना अन्यधर्मालम्बना वा मनस्काराः संमुखीभावं गच्छन्ति । उक्तं हि भगवता- "सर्व्वशो रुपसंज्ञानां समतिक्रमात्प्रतिधसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमानन्त्ययायतनमुपसम्पद्य विहरति" इति । कः पुनरासां तिसृणां रूपादिसंज्ञानां विशेषः ? प्रपञ्चरूपसंज्ञाभिरत्र विशेषो बोद्धव्यः । तदस्मादागमाद्विविधाद्या रूपारूप्यस्कन्धाः संगृहीताः । तत्र समापत्तिलक्षणा चित्तानुपरिवर्तिना शीलेन वियुता शेषेनोपपत्ति लक्षणात् । त एत आरूप्याः प्रथमारूप्यसामन्तकं हित्वा विभूतरूपसंज्ञा भवन्ति । प्रथमसामन्तकं तु चतुर्थध्यानाविदूषितवृत्तित्वाद्गाढबन्ध मिति । अतस्तदेकं न विभूतरूपसंज्ञाख्यं लभते । कथं पुनर्निर्धार्यते नारूप्येषु रूपमस्तीति ? आगमाद्युक्तितश्च । (<पृष्ठ ४१३>) आगमस्तावत्- "सर्वशो रूपसंज्ञानां समतिक्रमात्" इत्याविष्कृतमिदम् । अन्यदाप्तवचनम्- "अरूपिणः सन्ति सत्त्वाः" इति । ईषद्रूपत्वादरूपिणोनुदरा कन्यावदिति चेत् । न । सर्वश इत्यपदेशात्, निःसरणोक्तेश्च । उक्तं हि "रूपाणां निःसरणमारूप्याः" इति । यथा हि "यत्किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम् ।" निरोधे खलु सर्वसंस्कृतवियोगोऽम्युपगम्यते । न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरोधित्वात् । युक्तिरपि । रूपाश्रयादीन्यवधूय स्वोद्वेगमुखेन तदाश्रयाद्दस्यूपद्रुततद्वियुक्तदेशाश्रयवत् । उक्तस्तर्ह्यारूप्येभ्यो रूपिषूपपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च । तत्र सभागविपाकहेत्वोरेव तयोरप्यस्तित्वात्कारणत्वं रूपप्रत्ययेन च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात्महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शनाच्चान्योन्यहेतुत्वसिद्धिः ॥ (<पृष्ठ ४१४>) उक्तः प्रयोगप्रथमारुप्यः । द्वितीयोऽप्युच्यते- तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः । आकाशानन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाधिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । अत्रापि पश्चाच्चतुःस्कन्धालम्बनास्तदन्यतस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति । तद्विक्षिप्तसंज्ञकः विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः ॥ अभिधर्मदीप ५५२ ॥ स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । अथवा नास्ति किञ्चिंदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतनमित्युच्यते । अनन्ताकारौदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते । अत एवाकिञ्चन्यायतनं परमोपेक्षेत्युच्यते । यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसोऽनाभोगता संतिष्ठते ॥ तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः । स खलु संक्षिप्तामपि विभुत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्टपरिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सतीं नैवसंज्ञं नासंज्ञमुपसम्पद्यते । अतो नैवसंज्ञानासंज्ञायतनं समापद्यते । न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम् । सर्वैषु चारूप्येषु आदौ तथा प्रयुक्तत्वात्तत्संज्ञा व्यपदिश्यते ॥ अभिधर्मदीप ५५३ ॥ न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति । व्याख्यातानि मौलान्यष्टौ समापत्तिद्रव्याणि ॥ (<पृष्ठ ४१५>) सामन्तकानां पुनरादिध्यानसामन्तकस्यानागम्याख्यस्य किं रूपम् ? तदपदिश्यते- सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् । चित्तमार्येतराकारं तदानागम्यमुच्यते ॥ अभिधर्मदीप ५५४ ॥ यत्खलु प्रथममौलध्यानप्रवेशोपायचित्तं सवितर्कं सविचारमुपेक्षावेदनासंप्रयुक्तं सानुपरिवर्तकं............... ......अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य द्वितीयपादः ॥ ....... (<पृष्ठ ४१६>) अष्टमाध्याये तृतीयपादः । ...... ..........व्युत्क्रान्तकसमापत्तिं, समापद्यन्ते तदपदिश्यते- चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् । सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः ॥ अभिधर्मदीप ५५५ ॥ चत्वारो हि ध्यायिनो भगवतोक्ताः । "तेषामेकः समापत्तौ विपत्तिसंज्ञी, द्वितीयो विपत्तौ सम्पत्तिसंज्ञी, तृतीयः सम्पत्तौ सम्पत्तिसंज्ञी, चतुर्थो विपत्तौ विपत्तिसंज्ञी" इति । एते हानस्थितिविशेषोत्कर्षध्यानभेददर्शनयोगात्चत्वारो भवन्ति ॥ कः पुनरयं ध्याता कानि वा ध्यानध्येयध्यानफलानि ? तदाविष्क्रियते- ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा । सर्वमेतच्चतुष्टयं पूर्वमेव विस्तरेणाभिहितम् । भवतस्तु असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम् ॥ अभिधर्मदीप ५५६ ॥ न हि तवैतच्चतुष्टयं सिद्धमौपनिषदसांख्यवैशेषिकादिपरिकल्पितप्रमातृप्रमाणप्रमेयप्रमाणफलानि पूर्वमेवोक्तदोषाणि ॥ (<पृष्ठ ४१७>) किं पुनः कर्मानुष्ठानान्मोक्षो भवति, आहोस्विज्ज्ञानानुष्ठानादिति ? तत्र ब्रूमः- कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा । व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च ॥ अभिधर्मदीप ५५७ ॥ त्रीणि खलु कर्माणि । दानशीलभावनाख्यान्यनुष्ठाय दश च ज्ञानानि धर्मस्वसामान्यलक्षणसंमोहप्रतिपक्षभूतान्यनुष्ठाय परं ब्रह्म प्राप्नोति नान्यथेति । तदेतदाविष्क्रियते- कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये । तत्र खलु पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता ॥ अभिधर्मदीप ५५८ ॥ कर्मादिचिन्तायाम् ॥ ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् । अतोऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ ॥ अभिधर्मदीप ५५९ ॥ यस्तु मन्यते पश्वाद्यालंभनादिभिः कर्मभिः भोक्तृभोग्यान्तरपरिज्ञानादिभिश्च मोक्षो भवति स वक्तव्यःऽखलीनं चर्वयति ।ऽ यस्मात् परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः । अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः ॥ अभिधर्मदीप ५६० ॥ हिंसानृतलोभादयो हि दोषाः कुगतिगमनहेतवो न स्वर्गापवर्गगमनोपायाः । शास्त्रचोदिता हिंसा नाधर्म इति चेत् । न । शास्त्रलक्षणापरिज्ञानात् । कथम् ? यस्मात् युक्तार्थचोदनाद्दुःखत्राणाद्दोषानुशासनात् । शास्त्रमित्युच्यतेऽतोऽन्यज्ज्ञेयं वातिकभाषितम् ॥ अभिधर्मदीप ५६१ ॥ यत्खलु प्रमाणत्रयविरुद्धार्थं वाक्यम्, यच्च पापकेभ्यः कर्मेभ्यः कुगतिगमनहेतुभ्यो निवारणेन त्रायते, यच्च रागद्वेषमोहाननुशास्ति तद्वाक्यं (<पृष्ठ ४१८>) शास्त्रमित्युच्यते । नान्यदिति । तस्मादन्यदनाप्तवचनम् । न । वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शनात् । प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च द्वे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति । तत्रेदं प्रत्युच्यते- पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् । दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात् ॥ अभिधर्मदीप ५६२ ॥ दृष्टं हि सामर्थ्यं पारसीकशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रैः पापनाशोऽभ्युपगभ्यते भवद्भिः, न च सर्वस्य विषमं प्रशमयन्ति; तद्गतारिष्टादिना मरणदर्शनात् । यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रेडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति । दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु । एवं मन्त्राणां विषोपशमने सामर्थ्यं भवतु । मा भूत्पापविनाशन इति । यदप्युच्यते भवद्भिः । वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवर्त्मन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति । यस्मात् । रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते । विप्रस्यापि यतस्तस्माद्गुणवानेव मुच्यते ॥ अभिधर्मदीप ५६३ ॥ तद्यथौषधं विशुद्धकोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य । तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारोऽपि मोक्षवर्त्मन्यधिक्रियते । न चतुर्वेदो रागद्वेषमोहादिदोषोररीकृतचित्तभूमिरिति । अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम् । तदिदमारभ्यते- शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् । न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत् ॥ अभिधर्मदीप ५६४ ॥ चतुर्विधं खलु शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयमेवमारुप्यमन्यत्र भवाग्रात् । तद्धि त्रिविधं विशेषभागीयं हित्वा ॥ किं पुनरेषां लक्षणम् ? (<पृष्ठ ४१९>) क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा । यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । तस्मादनास्रवमुत्पद्यते । अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ? द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम् ॥ अभिधर्मदीप ५६५ ॥ हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हानस्थितिभागीये । स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात् । विशेषभागीयस्यापि त्रीण्यन्यत्र हानभागीयात् । निर्वेधभागीयानन्तरं तदेवैकमिति ॥ व्युत्क्रान्तकसमापत्तिरर्हतोऽकोप्यधर्मणः । स खल्वेषार्हतोऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च । दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः । समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समाधौ वशित्वमिति । कथं पुनरियमुत्पाद्यते ? तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया ॥ अभिधर्मदीप ५६६ ॥ धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् । शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम् ॥ अभिधर्मदीप ५६७ ॥ ऽगत्वेऽत्यनुलोममष्टौ भूमीः समापद्य ।ऽआगम्येऽति प्रतिलोमे समापद्य ।ऽद्विधेऽति सास्रवानास्रवा ।ऽजिगीषयेऽति जयं चिकीर्षन्धर्मभूम्युत्क्रमेण जेतुकामः । शुद्धकादनास्रवंऽशुद्धकाच्च तृतीयं स्वम् ।ऽऽनिष्ठाऽ तु शुद्धादनास्रवम् । स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते । तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्यायतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रतिलोमं च समापद्यते । एष प्रयोगो व्युत्क्रान्तसमापत्तेः । (<पृष्ठ ४२०>) यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते । तां च त्रिषु द्वीपेषु समापद्यते ॥ स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः । भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते ॥ अभिधर्मदीप ५६८ ॥ भवाग्रं भवाग्रे च संमुखीक्रियते । अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्चेति । ऊर्ध्वो पपन्नो नाधरां समापत्तिं संमुखीकरोति वैयर्थ्यात् । न हि तत्रानास्रवो मार्गोऽस्ति संसारमूलत्वात् । न च विनानास्रवेण मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते । चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत् । न । युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्वानेकत्वैकत्वोपपत्तेः संसर्गिधर्मित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च..............................................ति ॥ कस्य पुनर्ध्यानस्य प्राप्त्या कतरद्भाव्यते ? तदनुक्रम्यते- बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना । यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते । ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे ॥ अभिधर्मदीप ५६९ ॥ (<पृष्ठ ४२१>) चरमभविकस्योष्मादिवर्जितेऽ.....................गिकस्वा(?)नुचितम् । तत्र ध्यानान्तरे प्रथमं सास्रवमेव भाव्यते । उचिते तु वैराग्यलब्धत्वान्न भाव्यते । ऊष्मगतादिषु तु न भाव्यते । तान्येव ध्यानान्तरसंगृहीतानि भाव्यन्ते प्रथमं नानागम्यम् ॥ वीतरागस्य चालब्धे पूर्वसामन्तके तथा । वीतरागस्यानागम्येऽप्यलब्धेऽनुचिते प्रथमं भाव्यते......................अ नागम्यसंगृहीतानि भाव्यन्ते न प्रथमार्यमार्गसादृश्यात् । विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना ॥ अभिधर्मदीप ५७० ॥ वीतरागस्य त्वार्यस्य प्रथमस्यानास्रवस्यैव भावनान्यामे वा ऽभिसमयान्तिकक्षणवर्ज्येषु अनास्रवमेव भाव्यते । शैक्षस्य च द्वाभ्यां क्षणाभ्यामक्षविवर्धने भवाग्रे च सप्तदशसु .................. । एवं नवप्रकारतयाकोप्यप्रतिवेधे तत्पृष्ठे च यत्किञ्चिद्भावनामयं संमुखीकरोत्यलब्धं तत्रानास्रवमेव प्रथमं भाव्यते नोभयभावनोच्यते ॥ न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने । आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः ॥ अभिधर्मदीप ५७१ ॥ भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते । आकोप्या ................................ ॥ अभिधर्मदीप ५७२ ॥ आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि । ज्ञानत्रये त्रयाख्ये च न्यामेऽनागम्यवर्जिते ॥ अभिधर्मदीप ५७३ ॥ शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने । प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च ॥ अभिधर्मदीप ५७४ ॥ द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे । विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये ॥ अभिधर्मदीप ५७५ ॥ भावना द्विविधस्यापि ........................सु सास्रवानास्रवस्यापि प्रथमस्य ध्यानस्य भावना भवतीति । नोभयस्य तु भावनाम् । (<पृष्ठ ४२२>) अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु ॥ अभिधर्मदीप ५७६ ॥ यद्यनागम्यं निःश्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते । यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति................भावनया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति ॥ द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः । अभिधर्मनयज्ञाने ज्ञेयानागतभावना ॥ अभिधर्मदीप ५७७ ॥ द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम............ । ध्यानं कस्य किमालम्बनमित्यत इदमनुक्रम्यते । सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् । आरुप्याः कुशला मौला नाधोलोकावलम्बिनः ॥ अभिधर्मदीप ५७८ ॥ आस्वादनास्रंप्रयुक्तः स्वभूमिकं भवमालम्बते सास्रवं वस्त्वित्यर्थः । नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णापरिच्छिन्नत्वात् । नानास्रवं कुशलत्वप्रसङ्गात् । कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् । स्वभूम्योर्ध्वभूम्यालम्बनत्वात् । अनास्रवं त्वालम्बनम् । सर्वान्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् ॥ एषाञ्च पुनस्त्रिविधानां ध्यानारूप्याणाम् ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः । अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः ॥ अभिधर्मदीप ५७९ ॥ अनास्रवेणैव ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन । कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात्, न स्वभूमौ (<पृष्ठ ४२३>) विशिष्टरतरत्वान्नोर्द्ध्वमिति । ध्यानारूप्यसामन्तकेन शुद्धकेनापि क्लेशाः प्रहीयन्तेऽधोभूमिप्रतिपक्षत्वात् ॥ पुनश्च । सर्वं समाधिं संकलय्य त्रयः समाधय उक्ताः सूत्रे- सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः । ध्यानान्तरे स चारोधः सद्वयोऽन्यत्र निर्द्वयः ॥ अभिधर्मदीप ५८० ॥ "सवितर्कः सविचारः समाधिः अवितर्को विचारमात्रोऽवितर्कोऽविचारः" इति । तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः । सततोधः सवितर्कः सविचारः समाविः । परतस्त्ववितर्कोऽविचारश्च ॥ पुनः सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः । आर्याकारमतिद्योताः शून्यताद्यः समाधयः ॥ अभिधर्मदीप ५८१ ॥ शून्यताभिधेयः समाधिरप्रणिहित अनिमित्तश्च तृतीयः ॥ (<पृष्ठ ४२४>) कतमैः पुनरेत आर्याकाराः..........................वत्षोडशभिराकारैरित्यतस्त्रयोऽप्यनित्यतादिषोडशाकारमतिद्योताः(?) । प्रत्येकं तु दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् । अनिमित्तोऽमृताकारैश्चतुर्भिः संप्रवर्तते ॥ अभिधर्मदीप ५८२ ॥ अप्रणिहितः खलु समाधिरनित्यदुःखाकाराभ्यां संप्रयुक्तश्चतुर्भिः समुदयाकारैश्चतुर्भिश्च मार्गाकारैः..............................तानात्माकाराभ्यां संप्रयुक्तः । अनिमित्तः समाधिर्निरोधाकारैश्चतुर्भिर्निरोधाकारादिभिः संप्रयुक्तः ॥ विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः । विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः ॥ अभिधर्मदीप ५८३ ॥ रागविरागाच्चेतोविमुक्तिरविद्याविरागात्प्रज्ञाविमुक्तिः । तस्य विमुक्तिद्वयस्य.................आविष्कृतानि । तत्र शून्यतायाः संप्रयुक्तः समाधिः शून्यतासमाधिः । न प्रणिधत्ते भवमित्यप्रणिहितः । दशनिमित्तापगमादनिमित्तं तदालम्बनसमाधिरनिमित्तः ॥ पुनः त्रयोऽपरसमाध्याख्या शून्यताशून्यतादयः । तेषां त्रयाणां समाधीनामुत्सर्गोपायप्रदर्शनार्थं शून्यताशून्यतादयः त्रयः समाधयोऽभिधर्मेभिहिताः । (<पृष्ठ ४२५>) द्वयमालम्बतेऽशैक्षं शून्यतोऽनित्यतस्तथा ॥ अभिधर्मदीप ५८४ ॥ क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः । शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण । अप्रणिहिताप्रणिहितोऽप्यशैक्षमप्रणिहितमनित्याकारेण । न दुःखतो न हेत्वादितोऽनास्रवस्य अतल्लक्षणत्वात् । न मार्गाकारैर्दूषणीयत्वात् । अनिमित्तानिमित्तत्वात्समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात् । न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च । ते पुनरेते समाधयः एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः ॥ अभिधर्मदीप ५८५ ॥ तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते । अकोप्यस्यार्हतः एकादशभुवश्च सप्तसामन्तकानि हित्वान्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु । पुनः समाधिभावनाध्यानं सुखाय प्रथमं शुभम् । दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः ॥ अभिधर्मदीप ५८६ ॥ "चतस्रः खलु समाधिभावनाः । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते" इति विस्तरः । कुशलं खलु (<पृष्ठ ४२६>) प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । तदधिकत्वातन्यान्यपि ज्ञेयानि । नावश्यं सम्परायसुखविहाराय, परिहीणोर्ध्वोपपन्नः परिनिर्विततदभावात् । दिव्यचक्षुरभिज्ञादर्शनाय समाधिभावना । प्रयोगजाः खलु सर्वे गुणास्त्रैधातुकानास्रवाः प्रज्ञाप्रभेदाय समाधिभावनाः ॥ योऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा । यश्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना । सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम् ॥ अभिधर्मदीप ५८७ ॥ अतश्चतुर्थमेव ध्यानमुक्तमिति ॥ अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ (<पृष्ठ ४२७>) अष्टमाध्याये चतुर्थपादः । निर्दिष्टाः समाधयः । अतः परं समाधिसन्निश्रिता गुणा निर्दिश्यन्ते । अप्रमाणाकि चत्वारि मैत्री करुणा मुदितोपेक्षा च । अप्रमाणाः, सत्त्वाधिष्ठानप्रवृत्तेरप्रमाणपुण्यनिर्वर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च । अथाप्रमाणानां कः स्वभावः ? चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा । मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते ॥ अभिधर्मदीप ५८८ ॥ अद्वेषस्वभावा मैत्री । तथा करुणा अद्वेषस्वभावा । कस्तर्ह्येतयोरप्रमाणयोर्विशेषः ? उभयोरद्वेषात्मकत्वेऽपि मैत्री सत्त्वापरित्यागवर्तिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च । करुणा ताडनपीडनाभिप्रायवर्तिनो द्वेषस्य प्रतिपक्षो दैन्याकारप्रवृत्ता च । इत्यस्ति विशेषः । "सोमनस्यस्वभावामुदिता" इति पौराणाः । उपेक्षाप्यलोभात्मकैव । एषोऽप्रमाणानां स्वभावः । कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ? (<पृष्ठ ४२८>) व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा । प्रतिपक्षोऽयमाख्यातो दमनार्थं स्वचेतसः ॥ अभिधर्मदीप ५८९ ॥ सूत्र उक्तम्- "मैत्री आसेविता भाविता बहुलीकृता व्यापादप्रहाणाय संवर्तते । करुणा विहिंसाप्रहाणाय । अरतिप्रहाणाय मुदिता कामरागव्यापादप्रहाणायोपेक्षा ॥ " वृत्तिः पुनर्द्रष्टव्या- सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा । मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा ॥ अभिधर्मदीप ५९० ॥ द्रष्टव्या वृत्तिरेतेषां आकारस्तु पुनः कथं प्रतिपत्तव्य इति । तदपदिश्यते- आकारैः सुखितादि भिः । सुखिता वत सन्तु सत्त्वा इति मनसि कुर्वन्मैत्रीं समापद्यते । दुःखिता वत सत्त्वा इति करुणाम् । मोदन्तां वत सत्त्वा इति मुदिताम् । सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते माध्यस्थ्यात् । एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते ॥ अभिधर्मदीप ५९१ ॥ (<पृष्ठ ४२९>) एभ्योऽप्रमाणेभ्य एकेनापि भावितेन ब्रह्मत्वं प्रतिलभ्यत इति ॥ किमालम्बना अप्रमाणाः, कति भूमिका वेत्यपदिश्यते- नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः । षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु ॥ अभिधर्मदीप ५९२ ॥ मैत्रीकरुणामुदितास्त्रयः कामावचरसत्त्वालम्बनाः । उपेक्षा अनियता इति । येषां तावद्भावनामयान्येतानि मुदिता च सौमनस्येन्द्रियं तेषां प्रथमद्वितीययोर्ध्यानयोर्मुदिता । नोर्ध्वं सौमनस्येन्द्रियाभावात् । अन्यानि त्रीण्यप्रमाणानि षट्सु भूमिष्वनागम्ये ध्यानान्तरे चतुर्षु ध्यानेषु । केचित्पुनः चिन्तामयान्यप्येतानि प्रमोद्यं च प्रीतेर्धर्मान्तरमिति तेषां सप्तभूमिका । प्रामोद्यस्य वेदनाद्वयसंयोगित्वात् । उक्तान्यप्रमाणानि ॥ अथ कति विमोक्षाः । विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ । (<पृष्ठ ४३०>) तावाद्यध्यानयोरन्त्ये तृतीयोऽलोभलक्षणः ॥ अभिधर्मदीप ५९३ ॥ रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । आध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयो विमोक्षः । शुभं विमोक्षं कायेण साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । तेषां द्वावशुभस्वभावौ प्रथमौ तदाकारत्वाद्भूमितश्च तौ ससामन्तकयोः प्रथमद्वितीययोर्ध्यानयोर्ध्यानान्तरे च । ससामन्तके चतुर्थे ध्याने शुभो विमोक्षः । च चालोभस्वभाव एव न त्वशुभात्मकः, तच्छुभाकारप्रवृत्तत्वात् । सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ॥ चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः । निरोधाख्यसमापत्तिर्विमोक्षः कथितोऽष्टमः ॥ अभिधर्मदीप ५९४ ॥ चत्वारोऽन्ये विमोक्षाः समाहिताः कुशला एवारूप्याः द्रष्टव्याः । संज्ञावेदितनिरोधस्त्वष्टमो विमोक्षः । वैमुख्यार्थो हि विमोक्षार्थः, निरोधसमापत्तिः; सर्वसालम्बनप्रवृत्तिवैमुख्यात् ॥ तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् । त्रिविधं हि भावाग्रिकं चित्तं संज्ञासूक्ष्मसूक्ष्माख्यभेदात् । एतद्यथाक्रममौदारिकम् । (<पृष्ठ ४३१>) अतः सूक्ष्मसूक्ष्माख्यं भवाग्रानन्तरं तां समापत्तिं समापद्यन्ते । तथा समापन्नानां तु व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः ॥ अभिधर्मदीप ५९५ ॥ सास्रवानास्रवत्वात् । तद्व्युत्थानचित्तस्य सास्रवेण चेद्व्युत्तिष्ठते भावाग्रिकेण । अनास्रवेण चेदाकिञ्चन्यायतनभूमिकेन ॥ अथैव विमोक्षाः किं विषयाः ? कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः । कामावचरं रूपावचरमेषामालम्बनं यथायोगमशुभतः शुभतश्च । अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः ॥ अभिधर्मदीप ५९६ ॥ आरूप्यविमोक्षाणां स्वभूम्यूर्ध्वभूमिकं दुःखमालम्बनं तद्धेतुनिरोधौ च । सर्वचान्वयज्ञानपक्ष्यो मार्ग ऊर्ध्वाधरभूमिसंगृहीतः, अप्रतिसंख्यानिरोधश्च । उक्ता विमोक्षाः ॥ सूत्रेऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम् । विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम् ॥ अभिधर्मदीप ५९७ ॥ सूत्रे भगवता अष्टौ अभिभवायतनान्याख्यातानि "अध्यात्मं रूपसंज्ञी (<पृष्ठ ४३२>) बहिर्धा रूपाणि पश्यति सुवर्णदुर्वर्णानि खलु रूपाणि अभिभूय जानाति, अभिभूय पश्यति, एवं संज्ञी च भवतीदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यप्रमाणानि सुवर्णदुर्वर्णानीति विस्तरो यावदिदं द्वितीयमभिभ्वायतनम् । एवमध्यात्ममरूपसंज्ञी बही रूपाणि पश्यति परीत्तान्यप्रमाणानि चेति चत्वारि । अध्यात्ममरूपसंज्ञ्येव च बहिर्धा रूपाणि पश्यति नीलपीतलौहितावदात......."............... ........... अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ अष्टमोऽध्यायः समाप्तः ॥ अभिधर्मदीपे विभाषाप्रभावृत्तिः समाप्ता ॥