(३) माहायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते । चित्तमात्रं भो जिनपुत्रा यदुत त्रैधातुकमिति सूत्रात् । चित्तं मनो विज्ञानं विज्ञप्तिश्चेति पर्यायाः । चित्तमत्र ससंप्रयोगमभिप्रेतम् । मत्रमित्यर्थप्रतिषेधार्थम् । विज्ञप्तिमात्रमेवेदमसदर्थावभासनात् । यद्वत्तैमिरिकस्यासत्केशोण्डुकादिदर्शनम् ॥ १ ॥ अत्र चोद्यते । कश्चिदर्थो नास्ति । न देशकालनियमः संतानानियमो न च । न च कृत्यक्रिया युक्ता विज्ञप्तिर्यदि नार्थतः ॥ २ ॥ किमुक्तं भवति । यदि विना रूपाद्यर्थेन रूपादिविज्ञप्तिरुत्पद्यते न रूपाद्यर्थात् । कस्मात्क्वचिद्देश उत्पद्यते न सर्वत्र । तत्रैव च देशे कदाचिदुत्पद्यते न सर्वदा । तद्देशकालप्रतिष्ठितानां सर्वेषां संतानानियम उत्पद्यते न केवलमेकस्य । यथा तैमिरिकाणां संताने केशाद्याभासो नान्येषाम् । कस्माद्यत्तैमिरिकैः केशभ्रमरादि दृश्यते तेन केशादिक्रिया न क्रियते न च तदन्यैर्न क्रियते । यदन्नपानवस्त्रविषायुधादि स्वप्ने दृश्यते तेनान्नादिक्रिया न क्रियते न च तदन्यैर्न क्रियते । गन्धर्वनगरेणासत्त्वान्नगरक्रिया न क्रियते न च तदन्यैर्न क्रियते । तस्मादसदभावावभासने देशकालनियमः संतानानियमः कृत्यक्रिया च न युज्यते । न खलु न युज्यते । यस्मात् । देशादिनियमः सिद्धः स्वप्नवत् स्वप्न इव स्वप्नवत् । कथं तावत् । स्वप्ने विनाप्यर्थेन क्वचिदेव देशे किंचिद्भ्रमरारामस्त्रीपुरूषादिकं दृश्यते न सर्वत्र । तत्रैव च देशे कदाचिद्दृश्यते न सर्वकालमिति सिद्धो विनाप्यर्थेन देशकालनियमः । प्रेतवत्पुनः । संतानानियमः (४) सिद्ध इति वर्तते । प्रेतानामिव प्रेतवत् । कथं सिद्धः समम् । सर्वैः पूयनद्यादिदर्शने ॥ ३ ॥ पूयपूर्णा नदी पूयनदी । घृतघटवत् । तुल्यकर्मविपाकावस्था हि प्रेताः सर्वेऽपि पूयपूर्णां नदीं पश्यन्ति नैक एव । यथा पूयपूर्णामेवं मूत्रपुरीषादिपूर्णां दण्डासिधरैश्च पुरुषैरधिष्ठितामित्यादिग्रहणेन । एवं संतानानियमो विज्ञप्तिनामसत्यप्यर्थे सिद्धः ॥ स्वप्नोपघातवत्कृत्यक्रिया सिद्ध इति वेदितव्यम् । यथा स्वप्ने द्वयसमापत्तिमन्तरेण शुक्रविसर्गलक्षणः स्वप्नोपघातः । एवं तावदन्यान्यैर्दृष्टान्तैर्देशकालनियमादिचतुष्टयं सिद्धम् । नरकवत्पुनः । सर्वं सिद्धमिति वेदितव्यम् । नरकेष्विव नरकवत् । कथं सिद्धम् । नरकपालादिदर्शने तैश्च बाधने ॥ ४ ॥ यथा हि नरकेषु नारकाणां नरकपालादिदर्शनं देशकालनियमेन सिद्धम् । श्ववायसायसपर्वताद्यागमनगमनदर्शनं चेत्यादिग्रहणेन । सर्वेषां च नैकस्यैव तैश्च तद्बाधनं सिद्धमसत्स्वपि नरकपालादिषु समानस्वकर्मविपाकाधिपत्यात् । तथान्यत्रापि सर्वमेतद्देशकालनियमादिचतुष्तयं सिद्धमिति वेदितव्यम् ॥ किं पुनः कारणं नरकपालास्ते च श्वानो वायसाश्च सत्त्वा नेष्यन्ते । अयोगात् । न हि ते नारका युज्यन्ते । तथैव तद्दुःखाप्रतिसंवेदनात् । परस्परं यातयतामिमे नारका इमे नरकपाला इति व्यवस्था न स्यात् । तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् । दाहदुःखं च प्रदीप्तायामयोमय्यां भूमावसहमानाः कथं तत्र परान् यातयेयुः । अनारकाणां वा नरके कुतः संभवः । कथं तावत्तिरश्चां स्वर्गसंभवः । एवं नरकेषु तिर्यक्प्रेतविशेषाणां नरकपालादीनां संभवः स्यात् । तिरश्चां संभवः स्वर्गे यथा न नरके तथा । न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते ॥ ५ ॥ ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजनलोकसुखसंवर्तनीयेन कर्मणा तत्र संभूतास्तज्जं सुखं प्रत्यनुभवन्ति । न चैव नरकपालादयो नारकं दुःखं प्रत्यनुभवन्ति । तस्मान्न तिरश्चां संभवो युक्तो नापि प्रेतानाम् ॥ तेषां तर्हि (५) नारकाणां कर्मभिस्तत्र भूतविशेषाः संभवन्ति वर्णाकृतिप्रमाणबलविशिष्टा ये नरकपालादिसंज्ञां प्रतिलभन्ते । तथा च परिणमन्ति । यद्द्विधां हस्तविक्षेपादिक्रियां कुर्वन्तो दृश्यन्ते भयोत्पादनार्थम् । यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तोऽयःशाल्मलीवने च कण्टका अधोमुखीभवन्त ऊर्द्ध्वमुखीभवन्तश्चेति । न ते न संभवन्त्येव । यदि तत्कर्मभिस्तत्र भूतानां संभवस्तथा । इष्यते परिणामश्च किं विज्ञानस्य नेष्यते ॥ ६ ॥ विज्ञानस्यैव तत्कर्मभिस्तथा परिणामः कस्मान्नेष्यते किं पुनर्भूतानि कल्प्यन्ते ॥ अपि च । कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते । तत्रैव नेष्यते यत्र वासना किं नु कारणम् ॥ ७ ॥ येन हि कर्मणा नारकाणां तत्र तादृशो भूतानां संभवः कल्प्यते परिणामश्च तस्य कर्मणो वासना तेषां विज्ञानसंतानसंनिविष्टा नान्यत्र । यत्रैव च वासना तत्रैव तस्याः फलं तादृशो विज्ञानपरिणामः किं नेष्यते । यत्र वासना नास्ति तत्र तस्याः फलं कल्प्यत इति किमत्र कारणम् ॥ आगमः कारणम् । यदि विज्ञानमेव रूपादिप्रतिभासं स्यान्न रूपादिकोऽर्थस्तदा रूपाद्यायतनास्तित्वं भगवता नोक्तं स्यात् । अकारणमेतद्यस्मात् । रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति । अभिप्रायवशादुक्तमुपपादुकसत्त्ववत् ॥ ८ ॥ यथास्ति सत्त्व उपपादुक इत्युक्तं भगवता अभिप्रायवशाच्चित्तसंतत्यनुच्छेदमायत्यामभिप्रेत्य । नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः इति वचनात् । एवं रूपाद्यायतनास्तित्वमप्युक्तं भगवता तद्देशनाविनेयजनमधिकृत्येत्याभिप्रायिकं तद्वचनम् ॥ कोऽत्र अभिप्रायः । यतः स्वबीजाद्विज्ञप्तिर्यदाभासा प्रवर्तते । द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत् ॥ ९ ॥ किमुक्तं भवति । रूपप्रतिभासा विज्ञप्तिर्यतः स्वबीजात्परिणामविशेषप्राप्तादुत्पद्यते तच्च बीजं यत्प्रतिभासा च सा ते तस्या विज्ञप्तेश्चक्षूरूपायतनत्वेन (६) यथाक्रमं भगवानब्रवीत् । एवं यावत्स्प्रष्टव्यप्रतिभासा विज्ञप्तिर्यतः स्वबीजात्परिणामविशेषप्राप्तादुत्पद्यते तच्च बीजं यत्प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रनं भगवानब्रवीदित्ययमभिप्रायः ॥ एवं पुनरभिप्रायवशेन देशयित्वा को गुणाः । तथा पुद्गलनैरात्म्यप्रवेशो हि तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति । द्वयाद्विज्ञानषट्कं प्रवर्तते । न तु कश्चिदेको द्रष्टास्ति न यावन्मन्तेत्येवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास्ते पुद्गलनैरात्म्यं प्रविशन्ति । अन्यथा पुनः । देशना धर्मनैरात्म्यप्रवेशः अन्यथेति विज्ञप्तिमात्रदेशना । कथं धर्मनैरात्म्यप्रवेशः । विज्ञप्तिमात्रमिदं रूपादिधर्मप्रतिभासमुत्पद्यते न तु रूपादिलक्षणो धर्मः कोऽप्यस्तीति विदित्वा । यदि तर्हि सर्वथा धर्मो नास्ति तदपि विज्ञप्तिमात्रं नास्तीति कथं तर्हि व्यवस्थाप्यते । न खलु सर्वथा धर्मो नास्तीत्येवं धर्मनैरात्म्यप्रवेशो भवति । अपि तु । कल्पितात्मना ॥ १० ॥ यो बालैर्धर्माणां स्वभावो ग्राह्यग्राहकादिः परिकल्पतस्तेन कल्पितेनात्मना तेषां नैरात्म्यं न त्वनभिलाप्येनात्मना यो बुद्धानां विषय इति । एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात्विज्ञप्तिमात्रव्यवस्थापनया सर्वधर्माणां नैरात्म्यप्रवेशो भवति न तु तदस्तित्वापवादात् । इतरथा हि विज्ञप्तेरपि विज्ञप्त्यन्तरमर्थः स्यादिति विज्ञप्तिमात्रत्वं न सिध्येतार्थवतीत्वाद्विज्ञप्तीनाम् ॥ कथं पुनरिदं प्रत्येतव्यमनेनाभिप्रायेण भगवता रूपाद्यायतनास्तित्वमुक्तं न पुनः सन्त्येव तानि यानि रूपादिविज्ञप्तीनां प्रत्येकं विषयीभवन्ति इति । यस्मात् । न तदेकं न चानेकं विषयः परमाणुशः । न च ते संहता यस्मात्परमाणुर्न सिध्यति ॥ ११ ॥ इति । किमुक्तं भवति । यत्तद्रूपादिकमायतनं रूपादिविज्ञप्तीनां प्रत्येकं विषयः स्यात्तदेकं वा स्याद्यथावयविरूपं कल्प्यते वैशेषिकैः । अनेकं वा परमाणुशः । संहता वा त एव परमाणवः । न तावदेकं विषयो भवत्यवयवेभ्योऽन्यस्यावयविरूपस्य क्वचिदप्यग्रहणात् । नाप्यनेकं परमाणूनां (७) प्रत्येकमग्रहणात् । नापि ते संहता विषयीभवन्ति । यस्मात्परमाणुरेकं द्रव्यं न सिध्यति ॥ कथं न सिध्यति । यस्मात् । षट्केन युगपद्योगात्परमाणोः षडंशता । षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर्युगपद्योगे सति परमाणोः षडंशता प्राप्नोति । एकस्य यो देशस्तत्रान्यस्यासंभवात् । षण्णां समानदेशत्वात्पिण्डः स्याद् अणुमात्रकः ॥ १२ ॥ अथ य एवैकस्य परमाणोर्देशः स एव षण्णाम् । तेन सर्वेषां समानदेशत्वात्सर्वः पिण्डः परमाणुमात्रः स्यात्परस्पराव्यतिरेकादिति न कश्चित्पिण्डो दृश्यः स्यात् ॥ नैव हि परमाणवः संयुज्यन्ते निरवयवत्वात् । मा भूदेष दोषप्रसङ्गः । संहतास्तु परस्परं संयुज्यन्त इति काश्मीरवैभाषिकास्त इदं प्रष्टव्याः । यः परमाणूनां संघातो न स तेभ्योऽर्थान्तरमिति । परमाणोरसंयोगात्तत्संघातेऽस्ति कस्य सः । संयोग इति वर्तते । न चानवयवत्वेन तत्संयोगो न सिध्यति ॥ १३ ॥ अथ संघाता अप्यन्योन्यं न संयुज्यन्ते । न तर्हि परमाणूनां निरवयवत्वात्संयोगो न सिध्यतीति वक्तव्यम् । सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् । तस्मात्परमाणुरेकं द्रव्यं न सिध्यति । यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते । दिग्भागभेदी यस्यास्ति तस्यैकत्वं न युज्यते । अन्यो हि परमाणोः पूर्वदिग्भागो यावदधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोरेकत्वं योक्ष्यते । छायावृती कथ वा यद्येकैकस्य परमाणोर्दिग्भागभेदो न स्यादादित्योदये कथमन्यत्र छाया भवत्यन्यत्रातपः । न हि तस्यान्यः प्रदेशोऽस्ति यत्रातपो न स्यात् । आवरणं च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते । न हि कश्चिदपि परमाणोः परभागोऽस्ति यत्रागमनादन्येनान्यस्य प्रतिघातः स्यात् । असति च प्रतिघाते सर्वेषां समानदेशत्वात्सर्वः संघातः (८) परमाणुमात्रः स्यादित्युक्तम् । किमेवं नेष्यते पिण्डस्य ते छायावृती न परमाणोरिति । किं खलु परमाणुभ्योऽन्यः पिण्ड इष्यते यस्य ते स्याताम् । नेत्याह । अन्यो न पिण्डश्चेन्न तस्य ते ॥ १४ ॥ यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्धं भवति । संनिवेशपरिकल्प एषः परमाणुः संघात इति वा ॥ किमनया चिन्तया लक्षणम् । तु रूपादि यदि न प्रतिषिध्यते । किं पुनस्तेषां लक्षणम् । चक्षुरादिविषयत्वं नीलादित्वं च । तदेवेदं संप्रधार्यते । यत्तच्चक्षुरादीनां विषयो नीलपीतादिकमिष्यते किं तदेकं द्रव्यमथ वा तदनेकमिति । किं चातः । अनेकत्वे दोष उक्तम् । एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रहौ । विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत् ॥ १५ ॥ यदि यावद्विच्छिन्नं नानेकं चक्षुषो विषयस्तदेकं द्रव्यं कल्प्यते पृथिव्यां क्रमेणेतिर्न स्याद्गमनमित्यर्थः । सकृत्पादक्षेपेण सर्वस्य गतत्वात् । अर्वाग्भागस्य च ग्रहणं परभागस्य चाग्रहणं युगपन्न स्यात् । न हि तस्यैव तदानीं ग्रहणं चाग्रहणं च युक्तम् । विच्छिन्नस्य चानेकस्य हस्त्यश्वादिकस्यैकत्र वृत्तिर्न स्याद्यत्रैव ह्येकं तत्रैवापरमिति कथं तयोर्विच्छेद इष्यते । कथं वा तदेकं यत्प्राप्तं च ताभ्यां न च प्राप्तमन्तराले तच्छून्यग्रहणात् । सूक्ष्माणां चौदकजन्तूनां स्थूलैः समानरूपाणामनीक्षणं न स्याद् । यदि लक्षणभेदादेव द्रव्यान्तरत्वं कल्प्यते नान्यथा । तस्मादवश्यं परमाणुशो भेदः कल्पयितव्यः । स चैको न सिध्यति । तस्यासिद्धौ रूपादीनां चक्षुरादिविषयत्वमसिद्धमिति सिद्धं विज्ञप्तिमात्रं भवतीति ॥ प्रमाणवशादस्तित्वं नास्तित्वं वा निर्धार्यते सर्वेषां च प्रमाणानां प्रत्यक्षं प्रमाणं गरिष्टमित्यसत्यर्थे कथमियं बुद्धिर्भवति प्रत्यक्षमिति । प्रत्यक्षबुद्धिः स्वप्नादौ यथा विनाप्यर्थेनेति पूर्वमेव ज्ञापितं सा च यदा तदा । न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतम् ॥ १६ ॥ यदा च सा प्रत्यक्षबुद्धिर्भवतीदं मे प्रत्यक्षमिति तदा न सोऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच्चक्षुर्विज्ञानस्य च तदा निरुद्धत्वादिति कथं तस्य प्रत्यक्षत्वमिष्टम् । विशेषेण तु क्षणिकस्य विषयस्य तदानीं (९) निरुद्धमेवं तद्रूपं रसादिकं वा ॥ नाननुभूतं मनोविज्ञानेन स्मर्यत इत्यवश्यमर्थानुभवेन भवितव्यं तच्च दर्शनमित्येवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतम् । असिद्धमिदमनुभूतस्यार्थस्य स्मरणं भवतीति । यस्मात् । उक्तं यथा तदाभासा विज्ञप्तिः विनाप्यर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिरुत्पद्यते तथोक्तम् । स्मरणं ततः । ततो हि विज्ञप्तेः स्मृतिसंप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनोविज्ञप्तिरुत्पद्यत इति न स्मृत्युत्पादादर्थानुभवः सिध्यति । यदि यथा स्वप्ने विज्ञप्तिरभूतार्थविषया तथा जाग्रतोऽपि स्यात्तथैव तदभावं लोकः स्वयमवगच्छेत् । न चैवं भवति । तस्मान्न स्वप्न इवार्थोपलब्धिः सर्वा निरर्थिका । इदमज्ञापकम् । यस्मात् । स्वप्नदृग्विषयाभावं नाप्रबुद्धोऽविगच्छति ॥ १७ ॥ एवं वितथविकल्पाभ्यासवासनानिद्रया प्रसुप्तो लोकः स्वप्न इवाभूतमर्थं पश्यन्न प्रबुद्धस्तदभावं यथावन्नावगच्छति । यदा तु तत्प्रतिपक्षलोकोत्तरनिर्विकल्पज्ञानलाभात्प्रबुद्धो भवति तदा तत्पृष्ठलब्धशुद्धलौकिकज्ञानसंमुखीभावाद्विषयाभावं यथावदवगच्छतीति समानमेतत् ॥ यदि स्वसंतानपरिणामविशेषादेव सत्वानामर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थविशेषात् । तदा य एष पापकल्याणमित्रसंपर्कात्सदसद्धर्मश्रवणाच्च विज्ञप्तिनियमः सत्त्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनायां च । अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः । सर्वेषां हि सत्त्वानामन्योन्यविज्ञप्त्याधिपत्येन मिथो विज्ञप्तेर्नियमो भवति यथायोगम् । मिथ इति परस्परतः । अतः संतानान्तरविज्ञप्तिविशेषात्संतानान्तरे विज्ञप्तिविशेष उत्पद्यते नार्थविशेषात् । यदि यथा स्वप्ने निरर्थिका विज्ञप्तिरेवं जाग्रतोऽपि स्यात्कस्मात्कुशलाकुशलसमुदाचारो सुप्तासुप्तयोस्तुल्यं फलमिष्टानिष्टमायत्यां न भवति । यस्मात् । मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम् ॥ १८ ॥ इदमत्र कारणां न त्वर्थसद्भावः ॥ यदि विज्ञाप्तिमात्रमेवेदं न कस्यचित्कायोऽस्ति न वाक् ॥ कथमुपक्रम्यमाणानामौरभ्रिकादिभिरुरभ्रादीनां (१०) मरणं भव्ति । अतत्कृते वा तन्मरणे कथमौरभ्रिकादीनां प्राणातिपातावद्येन योगो भवति । मरणं परविज्ञप्तिविशेषाद्विक्रिया यथा । स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात् ॥ १९ ॥ यथा हि पिशाचादिमनोवशादन्येषां स्मृतिलोपस्वप्नदर्शनभूतग्रहावेशविकारा भवन्ति । ऋद्धिवन्मनोवशाच्च । यथा सारणस्यार्यमहाकात्यायनाधिष्ठानात्स्वप्नदर्शनम् । आरण्यकर्षिमनःप्रदोषाच्च वेमचित्रपराजयः । तथा परविज्ञप्तिविशेषाधिपत्यात्परेषां जीवितेन्द्रियविरोधिनी काचिद्विक्रियोत्पद्यते यया सभागसंततिविच्छेदाख्यं मरणं भवतीति वेदितव्यम् ॥ कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः । यदि परविज्ञप्तिविशेषाधिपत्यात्सत्त्वानां मरणं नेष्यते । मनोदण्डस्य हि महासावद्यत्वं साधयता भगवतोपालिर्गृहपतिः पृष्टः । कच्चित्ते गृहपते श्रुतं केन तानि दण्डकारण्यानि मातङ्गारण्यानि कलिङ्गारण्यानि शून्यानि मेध्यीभूतानि । तेनोक्तम् । श्रुतं मे भो गौतम ऋषीणां मनःप्रदोषेणेति । मनोदण्डो महावद्यः कथं वा तेन सिध्यति ॥ २० ॥ यद्येवं कल्प्यते । तदभिप्रसन्नैरमानुषैस्तद्वासिनः सत्त्वा उत्सादिता न त्वृषीणां मनःप्रदोषान्मृता इत्येवं सति कथं तेन कर्मणा मनोदण्डः कायवाग्दण्डाभ्यां महावद्यतमः सिद्धो भवति । तन्मनःप्रदोषमात्रेण तावतां सत्त्वानां मरणात्सिध्यति ॥ यदि विज्ञप्तिमात्रमेवेदं परचित्तविदः किं परचित्तं जानन्त्यथ न । किं चातः । यदि न जानन्ति कथं परचित्तविदो भवन्ति । अथ जानन्ति । परचित्तविदां ज्ञानमयथार्थं कथं यथा । स्वचित्तज्ञानं तदपि कथमयथार्थ । अज्ञानाद्यथा बुद्धस्य गोचरः ॥ २१ ॥ यथा तन्निरभिलाप्येनात्मना बुद्धानां गोचरः । तथा तदज्ञानात्तदुभयं न यथार्थं वितथप्रतिभासतया ग्राह्यग्राहकविकल्पस्याप्रहीणत्वात् ॥ अनन्तविनिश्चयप्रभेदागाम्भीर्यायां विज्ञप्तिमात्रतायाम् । विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया । कृतेयं सर्वथा सा तु न चिन्त्या (११) सर्वप्रकारा तु सा मादृशैश्चिन्तयितुं न शक्यते । तर्काविषयत्वात् । कस्य पुनः सा सर्वथा गोचर इत्याह । बुद्धगोचरः ॥ २२ ॥ बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वाकारसर्वज्ञेयज्ञानाविघातादिति ॥ विंशतिका विज्ञप्तिमात्रतासिद्धिः । कृतिरियमाचार्यवसुबन्धोः ।