अथ त्रिंशिकाविज्ञप्तिकारिकाः कृतिरियमाचार्यवसुबन्धोः । आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा ॥ १ ॥ विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च । तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् ॥ २ ॥ असंविदितकोपादिस्थानविज्ञप्तिकं च तत् । सदा स्पर्शमनस्कारवित्सञ्ज्ञाचेतनान्वितम् ॥ ३ ॥ उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत् । तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत् ॥ ४ ॥ तस्य व्यावृतिरर्हत्वे तदाश्रित्य प्रवर्तते । तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ ५ ॥ क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा । आत्मदुष्ट्यात्ममोहात्ममानात्मस्नेहसञ्ज्ञितैः ॥ ६ ॥ यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत् । न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥ ७ ॥ द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या । विषयस्योपलब्धिः सा कुशलाकुशलाद्वया ॥ ८ ॥ सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ । सम्प्रयुक्ता तथा क्लेशैरूपक्लेशैस्त्रिवेदना ॥ ९ ॥ आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह । समाधिधीभ्यां नियताः श्रद्धाथ ह्रिरपत्रपा ॥ १० ॥ अलोभादि त्रयं वीर्यं प्रश्रब्धिः साप्रमादिका । अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः ॥ ११ ॥ मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः । म्रक्षः प्रदाश ईर्ष्यार्थ मात्सर्यं सह मायया ॥ १२ ॥ शाठ्यं मदोऽविहिंसाह्रीरत्रपा स्त्यानमुद्धवः । आश्रद्धमथ कौसीद्यं प्रमादो मुषिता स्मृतिः ॥ १३ ॥ विक्षेपोऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च । वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा ॥ १४ ॥ पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः । विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ १५ ॥ मनोविज्ञानसम्भूतिः सर्वदासञ्ज्ञिकादृते । समापत्तिद्वयान्मिद्धान्मूर्छनादप्यचित्तकात् ॥ १६ ॥ विज्ञानपरिणामोऽयं विकल्पो यद्विकल्प्यते । तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम् ॥ १७ ॥ सर्वबीजं हि विज्ञानं परिणामस्तथा तथा । यात्यन्योन्यवशाद्येन विकल्पः स स जायते ॥ १८ ॥ कर्मणो वासना ग्राहद्वयवासनया सह । क्षीणे पूर्वविपाकेऽन्यद्विपाकं जनयन्ति तत् ॥ १९ ॥ येन येन विकल्पेन यद्यद्वस्तु विकल्प्यते । परिकल्पित एवासौ स्वभावो न स विद्यते ॥ २० ॥ परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः । निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या ॥ २१ ॥ अत एव स नैवान्यो नानन्यः परतन्त्रतः । अनित्यतादिवद्वाच्यो नादृष्टेऽस्मिन् स दृश्यते ॥ २२ ॥ त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् । सन्धाय सर्वधर्माणां देशिता निःस्वभावता ॥ २३ ॥ प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः । न स्वयम्भाव एतस्येत्यपरा निःस्वभावता ॥ २४ ॥ धर्माणां परमार्थश्च स यतस्तथतापि सः । सर्वकालं तथाभावात्सैव विज्ञप्तिमात्रता ॥ २५ ॥ यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति । ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते ॥ २६ ॥ विज्ञप्तिमात्रमेवेदमित्यपि हयुपलम्भतः । स्थापयन्नग्रतः किञ्चित्तन्मात्रे नावतिष्ठते ॥ २७ ॥ यदालम्बनं विज्ञानं नैवोपलभते तदा । स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात् ॥ २८ ॥ अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः ॥ २९ ॥ स एवानस्रवो धातुरचिन्त्यः कुशलो ध्रुवः । सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः ॥ ३० ॥ त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः । कृतिरियमाचार्यवसुबन्धोः ।