नमो बुद्धाय । [अभ्यर्चन] शास्त्रस्यास्य प्रणेतारमभ्यर्ह्य सुगतात्मजं [।] वक्तारं चास्मदादिभ्यो यतिष्येऽर्थविवेचने ॥ [शास्त्रशरीर] तत्रादितः शास्त्रशरीरं व्यवस्थाप्यते । लक्षणं ह्यावृतिस्तत्वं प्रतिपक्षस्य भावना । तत्र च स्था फलप्राप्तिर्यानानुत्तर्यमेव च ॥ इत्येते सप्तार्था ह्यस्मिं च्छास्त्रे उपदिश्यन्ते । यदुत लक्षणमावरणं तत्वं प्रतिपक्षस्य भावना । तस्यामेव च प्रतिपक्षभावनायामवस्था फलप्राप्तिश्च यानानुत्तत्यञ्च सप्तमोऽर्थः । [छप्तेरि. लक्षणपरिच्छेद] [१. अभूतपरिकल्प; a. सदसल्लक्सण] तत्र लक्षणमारभ्याह । अभूतपरिकल्पोऽस्ति द्वयन् तत्र न विद्यते । शून्यता विद्यते त्वत्र तस्यामपि स विद्यते ॥ १.१ (म्व्भ्१८) तत्राभूतपरिकल्पो ग्राह्यग्राहकविकल्पः । द्वयं ग्राह्यं ग्राहकञ्च । शून्यता तस्याभूतपरिकल्पस्य ग्राह्यग्राहकभावेन विरहितता । तस्यामपि स विद्यत इत्यभूतपरिकल्पः । एवं यद्यत्र नास्ति तत्तेन शून्यमिति यथाभूतं समनुपश्यति यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानातीत्यविपरीतं शून्यतालक्षणमुद्भावितं भवति । न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते । सत्वादसत्वात्सत्वाच्च मध्यमा प्रतिपच्च सा ॥ १.२ न शून्यं शून्यतया चाभूतपरिकल्पेन च । न चाशून्यं द्वयेन ग्राह्येन ग्राहकेण च । सर्वं संस्कृतं चाभूतपरिकल्पाख्यम् । असंस्कृतं च शून्यताख्यम् । विधीयते निर्दिश्यते सत्वादभूतपरिकल्पस्य असत्वाद्द्वयस्य सत्वाच्च शून्यताया अभूतपरिकल्पे तस्यां चाभूतपरिकल्पस्य सा च मध्यमा प्रतिपत् । यत्सर्वम् । नैकान्तेन शून्यं नैकान्तेनाशून्यम् । एवमयं पाठः प्रज्ञापारमितादिष्वनुलोमितो भवति सर्वमिदं न शून्यं नापि चाशून्यमिति । [b. स्वलक्षण] एवमभूतपरिकल्पस्य सल्लक्षणमसल्लक्षणं च ख्यापयित्वा । स्वलक्षणं ख्यापयति । अर्थसत्वात्मविज्ञप्तिप्रतिभासं प्रजायते । विज्ञानं नास्ति चास्यार्थस्तदभावात्तदप्यसत् ॥ १.३ तत्रार्थप्रतिभासं यद्रूपादिभावेन प्रतिभासते । सत्वप्रतिभासं यत्पञ्चेन्द्रियत्वेन स्वपरसन्तानयोर्[।] आत्मप्रतिभासं क्लिष्टं मनः । आत्ममोहादिसंप्रयोगात् । विज्ञप्तिप्रतिभासं षड्विज्ञानानि [।] नास्ति चास्यार्थ इति । अर्थसत्वप्रतिभासस्यानाकारत्वात् । आत्मविज्ञप्तिप्रतिभासस्य च वितथप्रतिभासत्वात् । (म्व्भ्१९) तदभावात्तदप्यसदिति । यत्तद्ग्राह्यं रूपादिपञ्चेन्द्रियं मनः षड्विज्ञानसंज्ञकं चतुर्विधं तस्य ग्राह्यस्यार्थस्याभावात्तदपि ग्राहकं विज्ञानमसत् । अभूतपरिकल्पत्वं सिद्धमस्य भवत्यतः । न तथा सर्वथाभावात् । यस्मान्न तथास्य भावो यथा प्रतिभास उत्पद्यते । न च सर्वथाभावो भ्रान्तिमात्रस्योत्पादात् । किमर्थं पुनस्तस्याभाव एव नेष्यते । यस्मात् । तत्क्षयान्मुक्तिरिष्यते ॥ १.४ अन्यथा न बन्धो न मोक्षः प्रसिध्येदिति संक्लेशव्यवदानापवाददोषः स्यात् । [c. संग्रहलक्षण] एवमभूतपरिकल्पस्य स्वलक्षणं ख्यापयित्वा संग्रहलक्षणं ख्यापयति । अभूतपरिकल्पमात्रे सति यथा त्रयाणां स्वभावानां संग्रहो भवति । कल्पितः परतन्त्रश्च परिनिष्पन्न एव च । अर्थादभूतकल्पाच्च द्वयाभावाच्च देशितः ॥ १.५ अर्थः परिकल्पितः स्वभावः । अभूतपरिकल्पः परतन्त्रः स्वभावः । ग्राह्यग्राहकाभावः परिनिष्पन्नः स्वभावः । [d. असल्लक्षणानुप्रवेशोपायलक्षण] इदानीं तस्मिन्नेवाभूतपरिकल्पेऽसल्लक्षणानुप्रवेशोपायलक्षणं परिदीपयति । (म्व्भ्२०) उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते । नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते ॥ १.६ विज्ञप्तिमात्रोपलब्धिं निश्रित्यार्थानुपलब्धिर्जायते । अर्थानुपलब्धिं निश्रित्य विज्ञप्तिमात्रस्याप्यनुपलब्धिर्जायते । एवमसल्लक्षणं ग्राह्यग्राहकयोः प्रविशति । उपलब्धेस्ततः सिद्धा नोपलब्धिस्वभावता । उपलभ्यार्थाभावे उपलब्ध्ययोगात् । तस्माच्च समता ज्ञेया नोपलम्भोपलम्भयोः ॥ १.७ उपलब्धेरुपलब्धित्वेनासिद्धत्वादभूतार्थप्रतिभासतया तूपलब्धिरित्युच्यतेऽनुपलब्धिस्वभावापि सती [e. प्रभेदलक्षण] तस्यैवेदानीमभूतपरिकल्पस्य प्रभेदलक्षणं ख्यापयति । अभूतपरिकल्पश्च चित्तचैत्तास्त्रिधातुकाः । कामरूपारूप्यावचरभेदेन । [f. पर्यायलक्षण] पर्यायलक्षणं च ख्यापयति । तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः ॥ १.८ तत्रार्थमात्रे दृष्टिर्विज्ञानम् । अर्थविशेषे दृष्टिश्चैतसा वेदनादयः । [ग्. प्रवृत्तिलक्षण] प्रवृत्तिलक्षणं च ख्यापयति । (म्व्भ्२१) एकं प्रत्ययविज्ञानं द्वितीयमौपभोगिकम् । उपभोगपरिच्छेदप्रेरकास्तत्र चैतसाः ॥ १.९ आलयविज्ञानमन्येषां विज्ञानानां प्रत्ययत्वात्प्रत्ययविज्ञानम् । तत्प्रत्ययं प्रवृत्तिविज्ञानमौपभोगिकम् । उपभोगो वेदना । परिच्छेदः संज्ञा । प्रेरकाः संस्कारा विज्ञानस्य चेतनामनस्कारादयः । [ह्. संक्लेशलक्सण] संक्लेशलक्षणं च ख्यापयति। छादनाद्रोपणाच्चैव नयनात्संपरिग्रहात् । पूरणात्त्रिपरिच्छेदादुपभोगाच्च कर्षणात् ॥ १.१० निबन्धनादाभिमुख्याद्दुःखनात्क्लिश्यते जगत् । तत्र च्छादनादविद्यया यथाभूतदर्शनविबन्धनात् । रोपणात्संस्कारैर्विज्ञाने कर्मवासनायाः प्रतिष्ठापनात् । नयनाद्विज्ञानेनोपपत्तिस्थानसंप्रापणात् । संपरिग्रहान्नामरूपेणात्मभावस्य । पूरणात्षडायतनेन । त्रिपरिच्छेदात्स्पर्शेन । उपभोगाद्वेदनया । कर्षणात्तृष्णया कर्माक्षिप्तस्य पुनर्भवस्य [।] निबन्धनादुपादानैर्विज्ञानस्योत्पत्त्यनुकूलेषु कामादिषु । आभिमुख्याद्भवेन कृतस्य कर्मणः पुनर्भवे विपाकदानायाभिमुखीकरणात् । दुःखनाज्जात्या जरामरणेन च परिक्लिश्यते जगत् । सोऽयम् । त्रेधा द्वेधा च संक्लेशः सप्तधाभूतकल्पनात् ॥ १.११ त्रेधा संक्लेशः । क्लेशसंक्लेशः कर्मसंक्लेशः जन्मसंक्लेशश्च । तत्र क्लेशसंक्लेशोऽविद्यातृष्णोपादानानि । कर्मसंक्लेशः संस्कारा भवश्च । जन्मसंक्लेशः शेषाण्यङ्गानि । द्वेधा संक्लेशः । हेतुसंक्लेशः फलसंक्लेशश्च । (म्व्भ्२२) तत्र हेतुसंक्लेशः क्लेशकर्मस्वभावैरङ्गैः फलसंक्लेशश्च शेषैः । सप्तधा संक्लेशः सप्तविधो हेतुः । विपर्यासहेतुः । आक्षेपहेतुः इ उपनयहेतुः । परिग्रहहेतुः । उपभोगहेतुः । आकर्षणहेतुः । उद्वेगहेतुश्च । तत्र विपर्यासहेतुरविद्या । आक्षेपहेतुः संस्काराः । उपनयहेतुर्विज्ञानम् । परिग्रहहेतुर्नामरूपषडायतने । उपभोगहेतुः स्पर्शवेदने । आकर्षणहेतुस्तृष्णोपादानभवाः । उद्वेगहेतुर्जातिजरामरणे । सर्वश्चैष संक्लेशोऽभूतपरिकल्पात्प्रवर्तत इति । [अभूतपरिकल्पपिण्डार्थ] पिण्डार्थः पुनरभूतपरिकल्पस्य नवविधं लक्षणं परिदीपितं भवति । सल्लक्षणम् । असल्लक्षणं स्वलक्षणम् । संग्रहलक्षणं [।] असल्लक्षणानुप्रवेशोपायलक्षणम् । प्रभेदलक्षणम् । पर्यायलक्षणम् । प्रवृत्तिलक्षणम् । संक्लेशलक्षणञ्च । [२. शून्यता] एवमभूतपरिकल्पं ख्यापयित्वा यथा शून्यता विज्ञेया तन्निर्दिशति । लक्षणं चाथ पर्यायस्तदर्थो भेद एव च । साधनं चेति विज्ञेयं शून्यतायाः समासतः ॥ १.१२ [a. सून्यतालक्षण] कथं लक्षणं विज्ञेयम् । द्वयाभावो ह्यभावस्य भावः शून्यस्य लक्षणम् । द्वयग्राह्यग्राहकस्याभावः । तस्य चाभावस्य भावः शून्यतया (म्व्भ्२३) लक्षणमित्यभावस्वभावलक्षणत्वं शून्यतायाः परिदीपितं भवति । यश्चासौ तदभावस्वभावः स । न भावो नापि चाभावः । कथं न भावो यस्मात्द्वयस्याभावः । कथं नाभावो यस्मात्द्वयाभावस्य भावः । एतच्च शून्यताया लक्षणम् । तस्मादभूतपरिकल्पान् न पृथक्त्वैकलक्षणम् ॥ १.१३ पृथक्त्वे सति धर्मादन्या धर्मतेति न युज्यते । अनित्यतादुःखतावत् । एकत्वे सति विशुद्ध्यालम्बनं ज्ञानं न स्यात्सामान्यलक्षणञ्च । एतेन तत्त्वान्यत्वविनिर्मुक्तं लक्षणं परिदीपितं भवति । [b. सून्यतापर्याय] कथं पर्यायो विज्ञेयः । तथता भूतकोटिश्चानिमित्तं परमार्थता । धर्मधातुश्च पर्यायाः शून्यतायाः समासतः ॥ १.१४ [c. शून्यतापर्यायार्थ] कथं पर्यायार्थो विज्ञेयः । अनन्यथाविपर्यासतन्निरोधार्यगोचरैः । हेतुत्वाच्चार्यधर्माणां पर्यायार्थो यथाक्रमम् ॥ १.१५ अनन्यथार्थेन तथाता नित्यन् तथैवेति कृत्वा [।] अविपर्यासार्थेन भूतकोटिः विपर्यासावस्तुत्वात् । निमित्तनिरोधार्थेनानिमित्तं सर्वनिमित्ताभावात् । आर्यज्ञानगोचरत्वात्परमार्थः । परमज्ञानविषयत्वाद्[।] आर्यधर्महेतुत्वाद्धर्मधातुः । (म्व्भ्२४) आर्यधर्माणान् तदालम्बनप्रभवत्वात् । हेत्वर्थो ह्यत्र धात्वर्थः । [d. शून्यताप्रभेद] कथं शून्यतायाः प्रभेदो ज्ञेयः । संक्लिष्टा च विशुद्धा च । इत्यस्याः प्रभेदः । कस्यामवस्थायां संक्लिष्टा कस्यां विशुद्धा । समला निर्मला च सा । यदा सह मलेन वर्तते तदा संक्लिष्टा । यदा प्रहीणमला तदा विशुद्धा । यदि समला भूत्वा निर्मला भवति कथं विकारधर्मिणीत्वादनित्या न भवति । यस्मादस्याः अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यते ॥ १.१ आगन्तुकमलापगमान्न तु तस्याः स्वभावान्यत्वं भवति । [षोडशविधा शून्यता] अयमपरः प्रभेदः षोडशविधा शून्यता । अध्यात्मशून्यता । बहिर्धाशून्यता । अध्यात्मबहिर्धाशून्यता । महाशून्यता । शून्यताशून्यता । परमार्थशून्यता । संस्कृतशून्यता । असंस्कृतशून्यता । अत्यन्तशून्यता । अनवराग्रसून्यता । अनवकारशून्यता । प्रकृतिशून्यता । लक्षणशून्यता । सर्वधर्मशून्यता । अभावशून्यता । अभावस्वभावशून्यता च । सैषा समासतो वेदितव्या । भोक्तृभोजनतद्देहप्रतिष्ठावस्तुशून्यता । (म्व्भ्२५) तच्च येन यथा दृष्टं यदर्थंतस्य शून्यता ॥ १.१७१ तत्र भोक्तृशून्यता (।) आध्यात्मिकान्यायतनान्यारब्धा भोजनशून्यता बाह्यानि । तद्देहस्तयोर्भोक्तृभोजनयोर्यदधिष्ठानं शरीरं [।] तस्य शून्यताध्यात्मबहिर्धाशून्यतेत्युच्यते । प्रतिष्ठावस्तु भाजनलोकः [।] तस्य विस्तीर्णत्वाच्छून्यता महाशून्यतेत्युच्यते । तच्चाध्यात्मिकायतनादि येन शून्यं दृष्टं शून्यताज्ञानेन [।] तस्य शून्यता शून्यताशून्यता । यथा च दृष्टं परमार्थाकारेण तस्य शून्यता परमार्थ शून्यता । यदर्थं च बोधिसत्वः प्रपद्यते तस्य च शून्यता । किमर्थञ्च प्रपद्यते । शुभद्वयस्य प्राप्त्यर्थम् । कुशलस्य संस्कृतस्यासंस्कृतस्य च । सदा सत्वहिताय च । अत्यन्तसत्वहितार्थम् । संसारात्यजनार्थञ्च । अनवराग्रस्य हि संसारस्य शून्यतामपश्यन् खिन्नः संसारं परित्यजेत । कुशलस्याक्षयाय च ॥ १.१८ निरुपधिशेषे निर्वाणेऽपि यन्नावकिरति नोत्सृजति तस्य शून्यता (।) (म्व्भ्२६) अनवकारशून्यतेत्युच्यते । गोत्रस्य च विशुद्ध्यर्थम् । गोत्रं हि प्रकृतिः स्वाभाविकत्वात् । लक्षणव्यञ्जनाप्तये । महापुरुषलक्षणानां सानुव्यञ्जनानां प्राप्तये । शुद्धये बुद्धधर्माणां बोधिसत्वः प्रपद्यते ॥ १.१९ बलवैशारद्यावेणिकादीनाम् । एवन् तावच्चतुर्दशानां शून्यतानां व्यवस्थानं वेदितव्यम् । का पुनरत्र शून्यता । पुद्गलस्याथ धर्माणामभावः शून्यतात्र हि । तदभावस्य सद्भावस्तस्मिन् सा शून्यतापरा ॥ १.२० पुद्गलधर्माभावश्च शून्यता । तदभावस्य च सद्भावः [।] तस्मिन् यथोक्ते भोक्त्रादौ सान्या शून्यतेति [।] शून्यतालक्षणख्यापनार्थं द्विविधामन्ते शून्यतां व्यवस्थापयति । अभावशून्यतामभावस्वभावशून्यतां च । पुद्गलधर्मसमारोपस्य तच्छून्यतापवादस्य च परिहारार्थं यथाक्रमम् । एवं शून्यतायाः प्रभेदो विज्ञेयः । [e. शून्यतासाधन] कथं साधनं विज्ञेयम् । संक्लिष्टा चेद्भवेन्नासौ मुक्ताः स्युः सर्वदेहिनः । विशुद्धा चेद्भवेन्नासौ व्यायामो निष्फलो भवेत् ॥ १.२१ यदि धर्माणां शून्यता आगन्तुकैरुपक्लेशैरनुत्पन्ने (म्व्भ्२७)ऽपि प्रतिपक्षे न संक्लिष्टा भवेत्संक्लेशाभावादयत्नत एव मुक्ताः सर्वसत्वा भवेयुः । अथोत्पन्नेऽपि प्रतिपक्षे न विशुद्धा भवेत्मोक्षार्थमारम्भो निष्फलो भवेत् । एवं च कृत्वा । न क्लिष्टा नापि वाक्लिष्टा शुद्धाशुद्धा न चैव सा । कथं न क्लिष्टा नापि चाशुद्धा । प्रकृत्यैव । प्रह्हास्वरत्वाच्चित्तस्य । कथं नाक्लिष्टा न शुद्धा । क्लेशस्यागन्तुकत्वतः ॥ १.२२ एवं शून्यताया उद्दिष्टः प्रभेदः साधितो भवति । [शून्यतापिण्डार्थ] तत्र शून्यतायाः पिण्डार्थः । लक्षणतो व्यवस्थानतश्च वेदितव्यः । तत्र लक्षणतोऽभावलक्षणतो भावलक्षणतश्च । भावलक्षणं पुनर्भावाभावविनिर्मुक्तलक्षणतश्च । तत्वान्यत्वविनिर्मुक्तलक्षणतश्च । व्यवस्थानं पुनः पर्यायादिव्यवस्थानतो वेदितव्यम् । तत्रैतया चतुःप्रकारदेशनया शून्यतायाः स्वलक्षणम् । कर्मलक्षणम् । संक्लेशव्यवदानलक्षणम् । युक्तिलक्षणं चोद्भावितं भवति । विकल्पत्रासकौशीद्यविचिकित्सोपशान्तये । मध्यान्तविभागे ।क्षणपरिच्छेदः प्रथमः ॥ ॥ (म्व्भ्२८) [छप्तेरि१. आवरणपरिच्छेद] [१. व्याप्यादिपञ्चावरण] आवरणमधिकृत्याह । व्यापिप्रादेशिकोद्रिक्तसमादानविवर्जनंि । द्वयावरणमाख्यातम् । तत्र व्यापि क्लेशज्ञेयावरणं बोधिसत्वगोत्रकाणां कं साकल्यात् । प्रादेशिकं क्लेशावरनं श्रावकादिगोत्रकाणाम् । उद्रिक्तं तेषामेव रागादिचरितानाम् । समं समभागचरितानाम् । संसारादानत्यागावरणं बोधिसत्वगोत्रकाणामप्रतिष्ठितनिर्वाणावरणादित्येतद्यथायोगमुभयेषामावरणमाख्यातम् । बोधिसत्वगोत्रकानां श्रावकादिगोत्रकाणां च । [२. प्रयोगनवसंयोजनावरण] पुनर् नवधा क्लेशलक्षणम् ॥ इ१.१ संयोजनान्यावरणम् । नव संयोजनानि (।) क्लेशावरणम् । कस्यैतस्यावरणम् । उद्वेगसमुपेक्षयोः । तत्त्वऽदृष्टेश्च । अनुनयसंयोजनं संवेगस्यावरणं [।] प्रतिघसंयोजनम् (म्व्भ्२९) उपेक्षीयाः । तेन हि प्रतिकूलमपि प्रतिघवस्तु उपेक्षितुं न शक्नोति । शेषानि तत्त्वदर्शनस्यावरणम् । कथं कृत्वा । तानि हि यथाक्रमम् । सत्कायदृष्टेस्तद्वस्तुनोऽपि च ॥ इ१.२ निरोधमार्गरत्नेषु लाभसत्कार एव च । संलेखस्य परिज्ञाने । संयोजनान्यावरणं भवंति । मानसंयोजनं हि सत्कायदृष्टिपरिज्ञाने भवत्यावरणम् । अभिसमयकाले सान्तरव्यन्तरास्मिमानसमुदाचारवशेन तदप्रहाणात् । अविद्यासंयोजनं सत्कायदृष्टिवस्तुपरिज्ञाने । तेनोपादानस्कन्धापरिज्ञानात् । दृष्टिसंयोजनं निरोधसत्यपरिज्ञाने । सत्कायान्तग्राहदृष्टिभ्यां तदुत्त्रासात्[।] मिथ्यादृष्ट्या चापवादात् । परामर्शसंयोजनं मार्गसत्यपरिज्ञाने । अन्यथाग्रशुद्धिपरामर्षणात् । विचिकित्सासंयोजनं रत्नत्रयपरिज्ञाने तद्गुणानभिश्रद्धानात् । ईर्ष्यासंयोजनं लाभसत्कारपरिज्ञाने तद्दोषादर्शनात् । मात्सर्यसंयोजनं संलेखपरिज्ञाने परिष्काराध्यवसानात् । [३. बोधिसत्त्वावरण] [a. दशशुभादिष्वावरणम्] शुभादौ दशधापरम् ॥ इ१.३ अपरं पुनरावरणम् । दशविधे शुभादौ वेदितव्यम् । किन् तदावरणं के च शुभादयः । अप्रयोगोऽनायतनेऽयोगविहितश्च यः । नोत्पत्तिरमनस्कारः संभारस्याप्रपूर्णता ॥ इ१.४ गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता । (म्व्भ्३०) प्रतिपत्तेश्च वैधुर्यं कुदुष्टजनवासता ॥ इ१.५ दौष्ठुल्यमवशिष्टत्वं त्रयात्प्रज्ञाविपक्वता । प्रकृत्या चैव दौष्ठुल्यं कौशीद्यं च प्रमादिता ॥ इ१.६ सक्तिर्भवे च भोगे च लीनचित्तत्वमेव च । अश्रद्धानधिमुक्तिश्च यथारुतविचारणा ॥ इ१.७ सद्धर्मेऽगौरवं लाभे गुरुता कृपता तथा । श्रुतव्यसनमल्पत्वं समाध्यपरिकर्मिता ॥ इ१.८ एतदावरणम् । के शुभादयः । शुभं बोधिः समादानन् धीमत्त्वाभ्रान्त्यनावृती । नत्यत्रासोऽमत्सरित्वं वशित्वं च शुभादयः ॥ इ१.९ एषां शुभादीनां कस्य कत्यावरणानि ज्ञेयानीत्याह । त्रीणि त्रीणि च एतेषां ज्ञेयान्यावरणानि हि । कुशलस्य त्रीण्यावरणानि । अप्रयोगोऽनायतनप्रयोगोऽयोनिशःप्रयोगश्च । बोधेस्त्रीणि कुशलस्यानुत्पत्तिरमनसिकरणम् । अपरिपूर्णसंभारता च । समादानं बोधिचित्तोत्पादः । तस्य त्रीणि गोत्रवैधुर्यं कल्याणमित्रवैधुर्यम् । परिखेदचित्तता च । धीमत्वं बोधिसत्वता । तस्याः प्रज्ञाने त्रीण्यावरणानि प्रतिपत्तिवैधुर्यं कुजनवासः । दुष्टजनवासश्च । तत्र कुजनो मूर्खजनः [।] दुष्टजनः प्रतिहतः । अभ्रान्तेस्त्रीणि विपर्यासदौष्ठुल्यम् । क्लेशाद्यावरणत्रयादन्यतमावशिष्टता । विमुक्तिपरिपाचिन्याः (।) प्रज्ञाया अपरिपक्वता च । आवरणप्रहाणमनावरणम् । तस्य त्रीणि सहजं दौष्ठुल्यम् । कौशीद्यं प्रमादश्च । परिणतेस्त्रीणि यैरन्यत्र चित्तं परिणामयति । नानुत्तरस्यां सम्यक्संबोधौ [।] (म्व्भ्३१) भवसक्तिर्भोगसक्तिर्लीनचित्तता च । अत्रासस्य त्रीणि [।] असंभावना पुद्गले । अनधिमुक्तिर्धर्मे । यथारुतविचारणार्थे । अमात्सर्यस्य त्रीणि सद्धर्मेऽगौरवम् । लाभसत्कारपूजायां गौरवं सत्वेष्वकारुण्यं च । वशित्वस्य त्रीणि यैर्विभुत्वं न लभते [।] श्रुतव्यसनं धर्मव्यसनसंवर्तनीयकर्मप्रभवनात् । अल्पश्रुतत्वम् । समाधेरपरिकर्मितत्वं च । [b. दश कारणानि] तत्पुनरेतदावरणं शुभादौ यत्रार्थे दश कारणानि तदर्थाधिकारेण वेदितव्यम् । दशकारणानि [।] उत्पत्तिकारणं तद्यथा चक्षुरादयश्चक्षुर्विज्ञानस्य । स्थितिकारणं तद्यथा चत्वार आहाराः सत्वानाम् । धृतिकारणं यद्यस्याधारभूतम् । तद्यथा भाजनलोकः सत्वलोकस्य । अभिव्यक्तिकारणम् । तद्यथा [।] आलोको रूपस्य । विकारकारणम् । तद्यथाग्न्यादयः पाक्यादीनाम् । विश्लेषकारणं तद्यथा दात्रादयः च्छेद्यादीनाम् । परिणतिकारणम् । तद्यथा सुवर्णकारादयः सुवर्णादीनां कटकादिभावेन परिणतौ । संप्रत्ययकारणम् । तद्यथा धूमादयोऽग्न्यादीनाम् । संप्रत्यायनन्कारणम् । तद्यथा हेतुः प्रतिज्ञायाः [।] प्राप्तिकारणम् । तद्यथा मार्गादयो निर्वाणादीनाम् । एवमुत्पत्त्यावरणं शुभे द्रष्टव्यं तस्योत्पादनीयत्वात् । स्थित्यावरणं बोधौ तस्या अकोप्यत्वाद्[।] धृत्यावरणं समादाने बोधिचित्तस्याधारभूतत्वाद्[।] अभिव्यक्त्यावरणं धीमत्वे तस्य प्रकाशनीयत्वात् । विकारावरणमभ्रान्तौ तस्या (म्व्भ्३२) भ्रान्तिपरिवृत्तित्वेन विकारत्वात् । विश्लेषावरणमनावरणे तस्यावरणविसंयोगत्वात्[।] परिणत्यावरणं नतौ बोधौ चित्तपरिणतिलक्षणत्वात् । संप्रत्ययावरणमत्रासे । असंप्रत्ययेन त्रसनात् । संप्रत्यायनावरणममत्सरित्वे धर्मामत्सरित्वेन परसंप्रत्यायनात् । प्राप्त्यावरणं वशित्वे तस्य विभुत्वप्राप्तिलक्षणत्वात् । कारणं दशधोत्पत्तौ स्थितौ धृत्यां प्रकाशने । विकारविश्लेषनतिप्रत्ययप्रायणाप्तिषु ॥ चक्षुराहारभूदीपवह्न्यादिस्तदुदाहृतिः । दात्रशिल्पज्ञताधूमहेतुमार्गादयोऽपरे ॥ बोधिप्राप्तुकामेनादित एव तावत्कुशलमूलमुत्पादयितव्यम् । ततः कुशलमूलबलाधानेन बोधिः प्राप्तव्या । तस्याः पुनः कुशलमूलोत्पत्तेर्बोधिचित्तं प्रतिष्ठा [।] तस्य बोधिचित्तस्य बोधिसत्व आश्रयः [।] तेन पुनरुत्पादितबोधिचित्तेन कुशलमूलबलाधानप्राप्तेन बोधिसत्वेन विपर्यासं प्रहाय अविपर्यास उत्पादितव्यः । ततो दर्शनमार्गेऽविपर्यस्ते भावनामार्गे सर्वावरणानि प्रहातव्यानि । प्रहीणावरणेन सर्वाणि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि । ततः परिणामनाबलाधानेन गम्भीरोदारधर्मदेशनासु नोत्त्रसितव्यम् । तथानुत्त्रस्तमानसेन धर्मेषु गुणदर्शिना परेषां ते धर्मा विस्तरेण संप्रकाशयितव्यास्[।] ततः स बोधिसत्व एवं विचित्रगुणबलाधानप्राप्तः क्षिप्रम् (म्व्भ्३३) अनुत्तरां सम्यक्संबोधिमनुप्राप्तवान् सर्वधर्मवशितामनुप्राप्नोतीत्येषोऽनुक्रमः (।) शुभादीनां [।] [४. बोधिपक्ष्यपारमिताभूमिष्वावरणम्] पक्ष्यपारमिताभूमिष्वन्यदावरणं पुनः ॥ इ१.१० [a. बोधिपक्ष्येष्वावरणम्] बोधिपक्ष्येषु तावत् । वस्त्वकौशलकौसीद्यं समाधेर्द्वयहिनता । अरोपणाथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता ॥ इ१.११ स्मृत्युपस्थानेषु वस्त्वकौशलमावरणम् । सम्यक्प्रहाणेषु कौसीद्यं [।] ऋद्धिपादेषु समाधेर्द्वयहीनता [।] परिपूर्या च च्छन्दवीर्यचित्तमीमान्सानामन्यतमवैकल्यात् । भावनया च प्रहाणसंस्कारवैकल्यात् । इन्द्रियेषु मोक्षभागीयानामरोपणम् । बलेषु तेषामेवेन्द्रियाणां दौर्बल्यं विपक्षव्यवकिरणात् । बोध्यङ्गेषु दृष्टिदोषः तेषां दर्शनमार्गप्रभावितत्वात् । मार्गाङ्गेषु दौष्ठुल्यदोषः । तेषां भावनामार्गप्रभावितत्वात् । [b. पारमितास्वावरणम्] पारमितास्वावरणम् । (म्व्भ्३४) ऐश्वर्यस्याथ सुगतेः सत्वात्यागस्य चावृतिः । हानिवृद्ध्योश्च दोषाणां गुणानामवतारणे ॥ इ१.१२ विमोचनेऽक्षयत्वे च नैरन्तर्ये शुभस्य च । नियतीकरणे धर्मसंभोगपरिपाचने ॥ इ१.१३ अत्र दशानां पारमितानां यस्याः पारमितायाः यत्फलं तदावरणेन तस्या आवरणमुद्भावितं भवति । तत्र दानपारमितायाः ऐश्वर्याधिपत्यावरणमावरणम् । शीलपारमितायाः सुगत्यावरणं क्षान्तिपारमितायाः सत्वापरित्यागावरणम् । वीर्यपारमिताया दोषगुणहानिवृद्ध्यावरणम् । ध्यानपारमिताया विनेयावतारणावरणम् । प्रज्ञापारमितायाः विमोचनावरणम् । उपायकौशल्यपारमिताया दानाद्यक्षयत्वावरणम् । बोधिपरिणामनया तदक्षयत्वात् । प्रणिधानन्पारमितायाः सर्वजन्मसु कुशलनैरन्तर्यप्रवृत्त्यावरणं [।] प्रणिधानवशेन तदनुकूलोपपत्तिपरिग्रहाद्[[] बलपारमितायास्तस्यैव कुशलस्य नियतीकरणावरणम् । प्रतिसंख्यानभावनाबलाभ्यां विपक्षानभिभवात् । ज्ञानपारमितायाः आत्मपरयोर्धर्मसंभोगपरिपाचनावरणमावरणम् । अयथारुतश्रुतार्थावबोधात् । [c. भूमिष्वावरणम्] भूमिषु पुनर्यथाक्रमम् । सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च । (म्व्भ्३५) निष्परिग्रहतार्थे च सन्तानाभेद एव च ॥ इ१.१४ निःसंक्लेशविशुद्ध्यर्थेऽनानात्वार्थ एव च । अहीनानधिकार्थे च चतुर्धावशिताश्रये ॥ इ१.१५ धर्मधातावविद्येयमक्लिष्टा दशधावृतिः । दशभूमिविपक्षेण प्रतिपक्षास्तु भूमयः ॥ इ१.१६ धर्मधातौ दशविधे सर्वत्रगाद्यर्थे यदक्लिष्टमज्ञानं तद्दशसु बोधिसत्वभूमिष्वावरणं यथाक्रमं तद्विपक्षत्वात् । यदुत सर्वत्रगार्थे प्रथमया हि भूम्या धर्मधातोः सर्वत्रगार्थं प्रतिविध्यति [।] येनात्मपरसमतां प्रतिलभते । द्वितीययाग्रार्थं [।] येनास्यैवं भवति तस्मात्तर्ह्यस्माभिः समानेऽभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति । तृतीयया तन्निष्यन्दाग्रार्थम् । येन धर्मधातुनिष्यन्दस्य श्रुतस्याग्रतां विदित्वा तदर्थं त्रिसाहस्रमहासाहस्रप्रमाणायामप्यग्निखदायामात्मानं प्रक्षिपेत् । चतुर्थ्या निष्परिग्रहतार्थन् तथा हि धर्मतृष्णापि व्यावर्तते । पञ्चम्या सन्तानाभेदार्थं दशभिश्चित्ताशयविशुद्धिसमताभिः । षष्ठ्या निःसंक्लेषविशुद्ध्यर्थं प्रतीत्यसमुत्पादे (।) नास्ति स कश्चिद्धर्मो यः संक्लिश्यते वा विशुध्यते वेति प्रतिवेधात् । सप्तम्यानानात्वार्थं निर्निमित्ततया सूत्रादिधर्मनिमित्तनानात्वासमुदाचाराद्[।] अष्टम्याहीनानधिकार्थमनुत्पत्तिकधर्मक्षान्तिलाभात्संक्लेशे व्यवदाने वा (म्व्भ्३६) कस्यचिद्धर्मस्य हानिवृद्ध्यदर्शनाच्[।] चतुर्धा वशिता निर्विकल्पवशिता क्षेत्रपरिशुद्धिवशिता ज्ञानवशिता कर्मवशिता च [।] तत्र प्रथमद्वितीयवशिताश्रयत्वं धर्मधातावष्टम्यैव भूम्या प्रतिविद्धति । ज्ञानवशिताश्रयत्वं नवम्यां प्रतिसंविल्लाभात् । कर्मवशिताश्रयत्वं दशम्यां यथेच्छं निर्माणैः सत्वार्थकरणात् । [५. अवरणसमास] समासेन पुनः । क्लेशावरणमाख्यातं ज्ञेयावरणमेव च । सर्वाण्यावरणानीह यत्क्षयान्मुक्तिरिष्यते ॥ इ१.१७ अस्य हि द्विविधस्यावरणस्य (।) क्षयात्सर्वावरणेभ्यो मुक्तिरिष्यते । [आवरणपिण्डार्थ] आवरणानां पिण्डार्थः । महदावरणं यद्व्यापि । प्रतन्वावरणं यत्प्रादेशिकम् । प्रयोगावरणं यदुद्रिक्तम् । प्राप्त्यावरणं यत्समम् । प्राप्तिविशेषावरणं यदादानविवर्जने । सम्यक्प्रयोगावरणं यन्नवधाक्लेशावरणम् । हेत्वावरणं यच्छुभादौ दशविधहेत्वर्थाधिकाराति तत्वप्रवेशावरणं यद्बोधिपक्ष्येषु । शुभानुत्तर्यावरणं यत्पारमितासु । तद्विशेषगत्यावरणं यद्भूमिषु । संग्रहावरणं यत्समासतो द्विविधम् ॥ मध्यान्तविभागे आवरणपरिच्छेदो द्वितीयः ॥ ः ॥ (म्व्भ्३७) [छप्तेरिइ१. तत्त्वपरिच्छेद] तत्वमधिकृत्याह । मूललक्षणतत्वमविपर्यासलक्षणम् । फलहेतुमयन् तत्वं सूक्ष्मौदारिकमेव च ॥ इइ१. १ प्रसिद्धं शुद्धिविषयं संग्राह्यं भेदलक्षणम् । कौशल्यतत्वं दशधा आत्मदृष्टिविपक्षतः ॥ इइ१.२ इत्येतद्दशविधं तत्वं यदुत मूलतत्वं लक्षणतत्वम् । अविपर्यासतत्वम् । फलहेतुतत्वम् । औदारिकसूक्ष्मतत्वम् । प्रसिद्धतत्वम् । विशुद्धिगोचरतत्वम् । संग्रहतत्वं] प्रभेदतत्वम् । कौशल्यतत्वञ्च । तत्पुनर्दशविधं दशविधात्मग्राहप्रतिपक्षेण वेदितव्यम् । तद्यथा स्कन्धकौशल्यम् । धातुकौशल्यमायतनकौशल्यम् । प्रतीत्यसमुत्पादकौशल्यम् । स्थानास्थानकौशल्यमिन्द्रियकौशल्यमध्वकौशल्यं सत्यकौशल्यं यानकौशल्यम् । संस्कृतासंस्कृतकौशल्यं च । [१. मूलतत्त्व] तत्र मूलतत्वम् । स्वभावस्त्रिविधः परिकल्पितः परतन्त्रः परिनिष्पन्नश्च । तत्रान्यतत्वव्यवस्थापनात् । किमत्र स्वभावत्रये तत्वमिष्यते । (म्व्भ्३८) असच्च नित्यं सच्चाप्यतत्वतः सदसत्तत्वतश्चेति स्वभावत्रय इष्यते ॥ इइ१.३ परिकल्पितलक्षणं नित्यमसदित्येतत्परिकल्पितस्वभावे तत्वमविपरीतत्वात्[।] परतन्त्रलक्षणं सच्च न च तत्वतो भ्रान्तत्वादित्येतत्परतन्त्रस्वभावे तत्वम् । परिनिष्पन्नलक्षणं सदसत्तत्वतश्चेत्येतत्(।) परिनिष्पन्नस्वभावे तत्वम् । [२. लक्सणतत्त्व] लक्षणतत्वं कतमत् । समारोपापवादस्य धर्मपुद्गलयोरिह । ग्राह्यग्राहकयोश्चापि भावाभावे च दर्शनम् ॥ इइ१.४ यज्ज्ञानान्न प्रवर्तेत तद्धि तत्वस्य लक्षणम् । पुद्गलधर्मयोः समारोपापवाददर्शनं यस्य ज्ञानान्न प्रवर्तते । तत्परिकल्पितस्वभावे तत्वलक्षणम् । ग्राह्यग्राहकयोः समारोपापवाददर्शनं यस्य ज्ञानान्न प्रवर्तते । तत्परतन्त्रस्वभावे तत्वलक्षणम् । भावाभावसमारोपापवाददर्शनं यस्य ज्ञानान्न प्रवर्तते । तत्परिनिष्पन्नस्वभावे तत्वलक्षणम् । एतन्मूलतत्वे लक्षणमविपरीतं लक्षणतत्वमित्युच्यते । [३. अविपर्यासतत्त्व] अविपर्यासतत्वं नित्यादिविपर्यासप्रतिपक्षेणानित्यदुःखशून्यानात्मता मूलतत्वे यथाक्रमं [।] कथं च तत्रानित्यतादिता वेदितव्या । असदर्थो ह्यनित्यार्थ उत्पादव्ययलक्षणः ॥ इइ१.५ समलामलभावेन मूलतत्वे यथाक्रमम् । (म्व्भ्३९) त्रयो हि स्वभावा मूलतत्वं [।] तेषु यथाक्रमम् असदर्थो ह्यनित्यार्थ उत्पादव्ययार्थः समलामलतार्थश्च । दुःखमादानलक्ष्माख्यं संबन्धेनापरं मतम् ॥ इइ१.६ मूलतत्वे यथाक्रमं दुःखमुपादानतः पुद्गलधर्माभिनिवेशोपादानात् । लक्षणतस्त्रिदुःखतालक्षणत्वात् । संबन्धतश्च दुःखसंबन्धात्[।] तत्रैव मूलतत्वे यथाक्रमं वेदितव्यम् । अभावश्चाप्यतद्भावः प्रकृतिः शून्यता मता । परिकल्पितलक्षणं न केनचित्प्रकारेणास्तीत्यभाव एवास्य शून्यता परतन्त्रलक्षणं तथा नास्ति यथा परिकल्प्यते न तु सर्वथा नास्तीति तस्यातद्भावः (।) शून्यता [।] परिनिष्पन्नलक्षणं शून्यतास्वभावमेवेति प्रकृतिरेवास्य शून्यता । अलक्षणं च नैरात्म्यं तद्विलक्षणमेव च ॥ इइ१.७ स्वलक्षणञ्च निर्दिष्टम् । परिकल्पितस्य स्वभावस्य लक्षणमेव नास्तीत्यलक्षणमेवास्य नैरात्म्यं [।] परतन्त्रस्यास्ति लक्षणं न तु यथा परिकल्प्यत इति तद्विलक्षणमस्य लक्षणन्नैरात्म्यम् । परिनिष्पन्नस्तु स्वभावो नैरात्म्यमेवेति प्रकृतिरेवास्य नैरात्म्यमिति त्रिविधे मूलतत्वे त्रिविधानित्यता परिदीपिता असदर्थानित्यता उत्पादभङ्गानित्यता समलनिर्मलानित्यता च । त्रिविधा दुःखता उपादानदुःखता लक्षणदुःखता संबन्धदुःखता (म्व्भ्४०) च । त्रिविधा शून्यता अभावशून्यता अतद्भावशून्यता स्वभावशून्यता च त्रिविधं नैरात्म्यमलक्षणनैरात्म्यम् । विलक्षणनैरात्म्यं स्वलक्षणनैरात्म्यं च । [४. फलहेतुतत्त्व] फलहेतुमयन् तत्वं तत्रैव मूलतत्वे दुःखसमुदयनिरोधमार्गसत्यत्वं [।] कथं त्रिविधं मूलतत्वं दुःखादिसत्यत्वं [।] यतस्तदनित्यादिलक्षणम् । दुःखसत्यमतो मतं त्रिविधेन समुदयार्थेन समुदयसत्यं [।] त्रिविधः समुदयार्थः । वासनाथ समुत्थानमविसंयोग एव च ॥ इइ१.८ वासनासमुदयः परिकल्पितस्वभावाभिनिवेशवासना समुत्थानसमुदयः कर्मक्लेशाः । अविसंयोगसमुदयः । तथताया आवरणाविसंयोगः । त्रिविधेन निरोधेन निरोधसत्यं [।] त्रिविधो निरोधः । स्वभावद्वयनोत्पत्तिर्मलशान्तिद्वयं मतम् । स्वभावानुत्पत्तिर्ग्राह्यग्राहकयोरनुत्पत्तिर्मलशान्तिद्वयं च प्रतिसंख्यानिरोधतथताख्यमित्येष त्रिविधो निरोधो यदुत स्वभावनिरोधो द्वयनिरोधः । प्रकृतिनिरोधश्च । मार्गसत्यं त्रिविधे मूलतत्वे कथं व्यवस्थाप्यते । परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृतावयं [॥] इइ१.९ (म्व्भ्४१) मार्गसत्यं समाख्यातम् । परिकल्पितस्य परिज्ञाने परतन्त्रस्य परिज्ञाने प्रहाणे च । परिनिष्पन्नस्य परिज्ञाने प्राप्तिसाक्षात्करणे च एवमत्र परिज्ञाप्रहाणसाक्षात्क्रियायां मार्गसत्यव्यवस्थानमिति वेदितव्यं [।] [५. औदारिकसूक्ष्मतत्त्व] औदारिकसूक्ष्मतत्वं पुनः संवृतिपरमार्थसत्यं तन्मूलतत्वे कथं वेदितव्यम् । प्रज्ञप्तिप्रतिपत्तितस् तथोद्भावनयोदारम् । त्रिविधा हि संवृतिः प्रज्ञप्तिसंवृतिः । प्रतिपत्तिसंवृतिः । उद्भावनासंवृतिश्च । तया संवृतिसत्यत्वं मूलतत्वे यथाक्रमं वेदितव्यम् । परमार्थन् तु एकतः ॥ इइ१.१० परमार्थसत्यम् । एकस्मात्परिनिष्पन्नादेव स्वभावाद्वेदितव्यम् । स पुनः कथं परमार्थः । अर्थप्राप्तिप्रपत्त्या हि परमार्थस्त्रिधा मतः । अर्थपरमार्थस्तथता परमस्य ज्ञानस्यार्थ इति कृत्वा । प्राप्तिपरमार्थो निर्वाणं परमोऽर्थ इति कृत्वा प्रतिपत्तिपरमार्थो मार्गः परमोऽस्यार्थ इति कृत्वा [।] कथमसंस्कृतं च (।) संस्कृतं च (।) परिनिष्पन्नः (।) स्वभाव उच्यते । निर्विकराविपर्यासपरिनिष्पत्तितो द्वयम् ॥ इइ१.११ असंस्कृतमविकारपरिनिष्पत्त्या परिनिष्पन्नम् । संस्कृतं मार्गसत्यसंगृहीतमविपर्यासपरिनिष्पत्त्या पुनर्ज्ञेयवस्तुन्य्(म्व्भ्४२) अविपर्यासात् । [६. प्रसिद्धतत्त्व] प्रसिद्धतत्वं मूलतत्वे कथं व्यवस्थाप्यते । द्विविधं हि प्रसिद्धतत्वम् । लोकप्रसिद्धं युक्तिप्रसिद्धं च । तत्र । लोकप्रसिद्धमेकस्मात् परिकल्पितस्वभावात् । यस्मिन् वस्तुनि संकेतसंस्तवानुप्रविष्टया बुद्ध्या सर्वेषां लौकिकानां दर्शनतुल्यता भवति । पृथिव्येवेयं नाग्नी रूपमेवेदं न शब्द इत्येवमादि । त्रयाद्युक्तिप्रसिद्धकम् । यत्सतां युक्तार्थपण्डितानां तार्किकाणां प्रमाणत्रयं निश्रित्योपपत्तिसाधनयुक्त्या प्रसिद्धं वस्तु । [७. विशुद्धिगोचरतत्त्व] विशुद्धिगोचरतत्वं द्विविधं क्लेशावरणविशुद्धिज्ञानगोचरम् । ज्ञेयावरणविशुद्धिज्ञानगोचरं च । तदेतत् । विशुद्धिगोचरं द्वेधा एकस्मादेव कीर्तितम् ॥ इइ१.१२ परिनिष्पन्नादेव स्वभावान्न ह्यन्यस्वभावो विशुद्धिज्ञानद्वयगोचरो भवति । [८. संग्रहतत्त्व] कथं त्रिविधे मूलतत्वे संग्रहतत्वं वेदितव्यम् । निमित्तस्य विकल्पस्य नाम्नश्च द्वयसंग्रहः । यथायोगं पञ्च वस्तून्यारभ्य निमित्तविकल्पयोः परतन्त्रेण (म्व्भ्४३) संग्रहः नाम्नः परिकल्पितेन । सम्यग्ज्ञानसतत्वस्य एकेनैव च संग्रहः ॥ इइ१.१३ तथतासम्यग्ज्ञानयोः परिनिष्पन्नेन स्वभावेन संग्रहः । [९. प्रभेदतत्त्व] प्रभेदतत्वं मूलतत्वे कथं वेदितव्यम् । सप्तविधं प्रभेदतत्वं प्रवृत्तितत्वम् । लक्षणतत्वम् । विज्ञप्तितत्वं सन्निवेशतत्वम् । मिथ्याप्रतिपत्तितत्वम् । विशुद्धितत्वं सम्यक्प्रतिपत्तितत्वञ्च । (तत्र प्रवृत्तितत्वादित्रिविधम् । अनवराग्रेष्वेति संसारः तथताचित्तसंक्लेशात्सत्वाः संक्लिश्यन्त इति सर्वं दुःखादिसत्यं च यथासंख्यं) यैव च सन्धिनिर्मोचनसूत्रे सप्तविधा तथता निर्दिष्टा । तत्र । प्रवृत्तितत्वं द्विविधम् । मूलतत्वं वेदितव्यम् । परिकल्पितपरतन्त्रलक्षणम् । यथा प्रवृत्तितत्वं तथा । सन्निवेशकुपन्नता । सन्निवेशमिथ्याप्रतिपत्तितत्वे अपि तथैव द्विविधं मूलतत्वम् । एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता ॥ इइ१.१४ लक्षणतत्वादीनि चत्वार्येकं मूलतत्वं परिनिष्पन्नलक्षणम् । (म्व्भ्४४) [१०. कौशल्यतत्त्व] कौशल्यतत्वं दर्शनप्रतिपक्षेणेत्युक्तम् । कथमेषु स्कन्धादिषु दशविधमात्मदर्शनम् । एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने । आधिपत्यार्थनित्यत्वे क्लेशशुद्ध्याश्रयेऽपि च ॥ इइ१.१५ योगित्वामुक्तमुक्तत्वे आत्मदर्शनमेषु हि । एष दशविध आत्मासद्ग्राहः स्कन्धादिषु प्रवर्तते । यस्य प्रतिपक्षेण दशविधं कौशल्यं यदुतैकत्वग्राहो हेतुत्वग्राहो भोक्तृत्वग्राहः । कर्तृत्वग्राहः । स्वतन्त्रग्राहः इ अधिपतित्वग्राहो नित्यत्वग्राहः । संक्लिष्टव्यवदानत्वग्राहो योगित्वग्राहः । अमुक्तमुक्तत्वग्राहश्च । कथमिदं दशविधं कौशल्यतत्वं मूलतत्वेऽन्तर्भवति । यतस्त्रिषु स्वभावेषु ते स्कन्धादयोऽन्तर्भूताः । कथमन्तर्भूताः । परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते ॥ इइ१.१६ त्रिविधं रूपं परिकल्पितं रूपं यो रूपस्य परिकल्पितः स्वभावः । विकल्पितं रूपं यो रूपस्य परतन्त्रः (।) स्वभावस्तत्र हि रूपविकल्पः क्रियते । धर्मतारूपं यो रूपस्य परिनिष्पन्नः स्वभावः । यथा रूपमेवं वेदनादयः स्कन्धाः धात्वायतनादयश्च योज्याः । एवन् त्रिषु स्वभावेषु स्कन्धादीनामन्तर्भावाद्दशविधं कौशल्यतत्वं मूलतत्व एव द्रष्टव्यम् । उक्तमिदं यथा दशविधात्मदर्शनप्रतिपक्षेण स्कन्धादिकौशल्यं [।] स्कन्धाद्यर्थस्तु नोक्तः । स इदानीमुच्यत् (म्व्भ्४५) [a. स्कन्धार्थ] अनेकत्वाभिसंक्षेपपरिच्छेदार्थ आदितः । आदितस्तावत्स्कन्धास्ते त्रिविधेनार्थेन वेदितव्याः । अनेकत्वार्थेन यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः । अभिसंक्षेपार्थेन तत्सर्वमैकध्यमभिसंक्षिप्येति । परिच्छेदार्थेन च रूपादिलक्षणस्य पृथक्त्वव्यवस्थानात् । राश्यर्थो हि स्कन्धार्थ एवं च लोके राश्यर्थो दृष्ट इति । [b. धात्वर्थ] ग्राहकग्राह्यतद्ग्राहबीजार्थश्चापरो मतः ॥ इइ१. १७ कतमोऽपरो धातुस्तत्र ग्राहकबीजार्थः चक्षुर्धात्वादयः [।] ग्राह्यबीजार्थो रूपधात्वादयस्[।] तद्ग्राहबीजार्थश्चक्षुर्विज्ञानधात्वादयः । [c. आयतनार्थ] वेदितार्थपरिच्छेदभोगायद्वारतोऽपरम् । किमपरमायतनम् । तत्र वेदितोपभोगायद्वारार्थेन षडाध्यात्मिकान्यायतनानि । अर्थपरिच्छेदोपभोगायद्वारार्थेन षड्बाह्यानि । [d. प्रतीत्यसमुत्पादार्थ] प्रतीत्यसमुत्पादार्थः । पुनर्हेतुफलायासानारोपानपवादतःिइ इइ१.१८ हेतुफलक्रियाणामसमारोपानपवादार्थः प्रतीत्यसमुत्पादार्थः । तत्र हेतु स नारोपः संस्कारादीनां विषमहेतुकल्पनात् । (म्व्भ्४६) हेत्वपवादो निर्हेतुकत्वकल्पनात्फलसमारोपः सात्मकानां संस्कारादीनामविद्यादिप्रत्ययप्रवृत्तिकल्पनात् । फलापवादो न सन्त्यविद्यादिप्रत्ययाः संस्कारादय इति कल्पनात् । क्रियासमारोपोऽविद्यादीनां संस्काराद्युत्पत्तौ व्यापारकल्पनात्क्रियापवादो निःसामर्थ्यकल्पनात्तदभावादसमारोपानपवादो वेदितव्यः । [e. स्थानास्थानार्थ] अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः । संप्राप्तिसमुदाचारपारतन्त्र्यार्थतोऽपरम् ॥ इइ१. १९ स्थानास्थानं सप्तविधपारतन्त्र्यार्थेन वेदितव्यम् । तत्रानिष्टे पारतन्त्र्यं दुश्चरितेनानिच्छतोऽपि दुर्गतिगमनादिष्टे पारतन्त्र्यं सुचरितेन सुगतिगमनात् । विशुद्धौ पारतन्त्र्यं पञ्च निवरणान्यप्रहाय यावत्सप्तबोध्यङ्गान्यभावयित्वा दुःखस्यान्ताकरणात्समोत्पत्तौ पारतन्त्र्यं द्वयोरपूर्वाचरमयोस्तथागतयोश्चक्रवर्तिनोश्चैकस्मिन् लोकधातावनुत्पादादाधिपत्ये पारतन्त्र्यं स्त्रियाश्चक्रवर्तित्वाद्यकरणात्संप्राप्तौ पारतन्त्र्यं स्त्रियाः प्रत्येकानुत्तरबोध्यनभिसंबोधात्समुदाचारे पारतन्त्र्यं दृष्टिसंपन्नस्य वधाद्युपक्रमासमुदाचारात्पृथग्जनस्य च समुदाचाराद्विस्तरेण बहुधातुकसूत्रानुसारादनुगन्तव्यम् । [f. इन्द्रियार्थ] इन्द्रियं पुनर्द्वाविंशतिविधम् । ग्रहणस्थानसंधानभोगशुद्धिद्वयार्थतः । (म्व्भ्४७) ग्रहणार्थेन यावद्विशुद्धिद्वयार्थेन तेषु तदाधिपत्याद्रूपादिविषयग्रहणे हि चक्षुरादीनां षण्णामाधिपत्यं स्थाने जीवितेन्द्रियस्य तदाधिपत्येनामरणात् । कुलसन्धाने स्त्रीपुरुषेन्द्रिययोरपत्यप्रसवाधिपत्यादुपभोगे वेदनेन्द्रियाणां कुशलाकुशलकर्मफलोपभोगात् । लौकिकविशुद्धौ श्रद्धादीनाम् । लोकोत्तरविशुद्धौ अनाज्ञातमाज्ञास्यामीन्द्रियादीनाम् । [ग्. अध्वार्थ] फलहेतूपयोगार्थनोपयोगात्तथापरम् ॥ इइ१.२० किमपरमध्वत्रयं यथायोगं फलहेतूपयोगार्थेनातीतोऽध्वा फलहेत्वनुपयोगार्थेनानागतोऽध्वा हेतूपयोगफलानुपयोगार्थेन प्रत्युत्पन्नोऽध्वा वेदितव्यः । [ह्. चतुःसत्यार्थ] वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः । तच्छमप्रतिपक्षार्थयोगादपरमिष्यते ॥ इइ१.२१ किमपरं सत्यचतुष्टयम् । तत्र दुःखसत्यं वेदनासनिमित्तार्थेन यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति कृत्वा वेदनानिमित्तं पुनर्वेदनास्थानीया धर्मा वेदितव्याः । तन्निमित्तप्रतिपत्तितः समुदयसत्यं दुःखसत्यनिमित्तं या प्रतिपत्तिः । तयोः शमार्थेन निरोधसत्यम् । प्रतिपक्षार्थेन मार्गसत्यम् । [१. यानत्रयार्थ] गुणदोषाविकल्पेन ज्ञानेन परतः स्वयं [।] निर्याणादपरं ज्ञेयम् । (म्व्भ्४८) यानत्रयं यथायोगम् । तत्र निर्वाणसंसारयोर्गुणदोषज्ञानेन परतः (।) श्रुत्वा निर्याणार्थेन श्रावकयानम् । तेनैव स्वयमश्रुत्वा परतो निर्याणार्थेन प्रत्येकबुद्धयानम् । अविकल्पेन ज्ञानेन स्वयं निर्याणार्थेन महायानं वेदितव्यम् ॥ [ज्. संस्कृतासंस्कृतार्थ] सप्रज्ञप्तिसहेतुकात् । निमित्तात्प्रशमात्सार्थात्पश्चिमं समुदाहृतम् ॥ इइ१.२२ संस्कृतासंस्कृतं तत्र सप्रज्ञप्तिर्नामकायादयः हेतुर्बीजसंगृहीतमालयविज्ञानम् । निमित्तं प्रतिष्ठादेहभोगसंगृहीतम् । प्रवृत्तिविज्ञानसंगृहीताश्च मनौद्ग्रहविकल्पः । एतत्सप्रज्ञप्तिसहेतुकं निमित्तं ससंप्रयोगं संस्कृतं वेदितव्यम् । तत्र मनो यन्नित्यं मन्यनाकारम् । उद्ग्रहः पञ्चविज्ञानकायाः विकल्पो मनोविज्ञानं (।) तस्य विकल्पकत्वादसंस्कृतं पुनः प्रशमश्च निरोधः । प्रशमार्थश्च तथता तत्र प्रशमो निरोधो मार्गश्च यश्च प्रशमो येन चेति कृत्वा प्रशमार्थः तथता प्रशमस्यार्थ इति कृत्वा तथताया मार्गालम्बनत्वात् । मार्गस्य प्रशमत्वन् तेन प्रशमनात् । इत्येतेनार्थेन स्कन्धादिषु ज्ञानं स्कन्धादिकौशल्यं वेदितव्यम् । [तत्त्वपिण्डार्थ] तत्वस्य पिण्डार्थः । समासतो द्विविधं तत्वम् । आदर्शतत्वम् । दृश्यतत्वं च तत्रादर्शतत्वं मूलतत्वं तत्र शेषाणां दर्शनात् । (म्व्भ्४९) दृश्यतत्वं नवविधं निरभिमानदृश्यतत्वम् । अविपर्यासदृश्यतत्वम् । श्रावकयाननिर्याणदृश्यतत्वम् । महायाननिर्याणदृश्यतत्वम् । औदारिकेण परिपाचनात् । सूक्ष्मेण च विमोचनात्परवादिनिग्रहदृश्यतत्वम् । दृष्टान्तसन्निश्रयेण युक्त्या निग्रहात् । महायानाभिद्योतनदृश्यतत्वम् । सर्वाकारज्ञेयप्रवेशदृश्यतत्वम् । अवितथतथताभिद्योतनदृश्यतत्वम् । आत्मग्राहवस्तुसर्वाभिसन्धिप्रवेशदृश्यतत्वं च ॥ ः ॥ मध्यान्तविभागशास्त्रे तत्वपरिच्छेदस्तृतीयः ॥ ः ॥ (म्व्भ्५०) [छप्तेरिव्. प्रतिपक्षभावनावस्थाफलपरिच्छेद] [१.प्रतिपक्सभावना] प्रतिपक्षभावना बोधिपक्ष्यभावना सेदानीं वक्तव्या । [a. चत्वारि स्मृत्युपस्थानानि] तत्र तावदादौ । दौष्ठुल्यात्तर्षहेतुत्वाद्वस्तुत्वादविमोहतः । चतुःसत्यावताराय स्मृत्युपस्थानभावना ॥ इव्.१ कायेन हि दौष्ठुल्यं प्रभाव्यते । तत्परीक्षया दुःखसत्यमवतरति । तस्य सदौष्ठुल्यसंस्कारलक्षणत्वात् । दौष्ठुल्यं हि संस्कारदुःखता । तया सर्वं सास्रवं वस्त्वार्या दुःखतः पश्यन्तीति । तृष्णाहेतुर्वेदना तत्परीक्षया समुदयसत्यमवतरति । आत्माभिनिवेशवस्तु चित्तं तत्परीक्षया निरोधसत्यमवतरत्यात्मोच्छेदभयापगमात् । धर्मपरीक्षया सांक्लेशिकवैयवदानिकधर्मासंमोहात् । मार्गसत्यमवतरत्यतः (।) आदौ चतुःसत्यावताराय स्मृत्युपस्थानभावना व्यवस्थाप्यते । [b. चत्वारि सम्यक्प्रहाणानि] ततः सम्यक्प्रहाणभावना यस्मात् । परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा । तदपायायवीर्यं हि चतुर्धा संप्रवर्तते ॥ इव्.२ स्मृत्युपस्थानभावनया विपक्षे प्रतिपक्षे च सर्वप्रकारं परिज्ञाते विपक्षापगमाय प्रतिपक्षोपगमाय च वीर्यञ्चतुर्धा संप्रवर्तते । उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणायेति विस्तरः । (म्व्भ्५१) [c. चत्वार ऋद्धिपादाः] कर्मण्यता स्थितेस्तत्र सर्वार्थानां समृद्धये । पञ्चदोषप्रहाणाष्टसंस्कारासेवनान्वया ॥ इव्.३ तस्यां तदपायायवीर्यभावनायां चित्तस्थितेः (।) कर्मण्यता चत्वार ऋद्धिपादाः सर्वार्थसमृद्धिहेतुत्वात्स्थितिरत्र चित्तस्थितिः समाधिर्वेदितव्यः । अतः सम्यक्प्रहाणानन्तरमृद्धिपादाः । सा पुनः कर्मण्यता पञ्चदोषप्रहाणायाष्टप्रहाणसंस्कारभावनान्वया वेदितव्या । [पंच दोसाः] कतमे पञ्च दोषा इत्याह । कौसीद्यमववादस्य संमोषो लय उद्धतः । असंस्कारोऽथ संस्कारः पञ्च दोषा इमे मताः ॥ इव्.४ तत्र लयौद्धत्यमेको दोषः क्रियते । अनभिसंस्कारो लयौद्धत्यप्रशमनकाले दोषः । अभिसंस्कारः प्रशान्तौ [।] [अष्ट प्रहाणसंस्काराः] एषां प्रहाणाय कथमष्टौ प्रहाणसंस्कारा व्यवस्थाप्यन्ते । चत्वारः कौसीद्यप्रहाणाय च्छन्दव्यायामश्रद्धाप्रस्रब्धयस्ते पुनर्यथाक्रमं वेदितव्याः । आश्रयोऽथाश्रितस्तस्य निमित्तं फलमेव च । आश्रयश्छन्दो व्यायामस्य । आश्रितो व्यायामस्तस्याश्रयस्य च्छन्दस्य निमित्तं श्रद्धा संप्रत्यये (।) सत्यभिलाषात्तस्याश्रितस्य व्यायामस्य फलं प्रस्रब्धिरारब्धवीर्यस्य समाधिविशेषाधिगमाच्(म्व्भ्५२) छेषाश्चत्वारः प्रहाणसंस्काराः स्मृतिसंप्रजन्यचेतनोपेक्षाश्चतुर्णां दोषाणां यथासंख्यं प्रतिपक्षास्ते पुनः स्मृत्यादयो वेदितव्या यथाक्रमम् । आलम्बनेऽसंमोषो लयौद्धत्यानुबुद्ध्यना । तदपायाभिसंस्कारः शान्तौ प्रशठवाहिता ॥ इव्.५ स्मृतिरालम्बनेऽसंप्रमोषः संप्रजन्यं स्मृत्यसंप्रमोषे सति लयौद्धत्यानुबोधः । अनुबुध्य तदपगमायाभिसंस्कारश्चेतना । तस्य लयौद्धत्यस्योपशान्तौ सत्यां प्रशठवाहिता चित्तस्योपेक्षा [।] [d. पञ्चेन्द्रियाणि] ऋद्धिपादानामनन्तरं पञ्चेन्द्रियाणि श्रद्धादीनि तेषां कथं व्यवस्थानम् । रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः । आलम्बनेऽसंमोषाविसारविचयस्य च ॥ इव्.६ आधिपत्यत इति वर्तते । ऋद्धिपादैः कर्मण्यचित्तस्यारोपिते मोक्षभागीये कुशलमूले च्छन्दाधिपत्यतः प्रयोगाधिपत्यतः । आलम्बनासंप्रमोषाधिपत्यतः । अविसाराधिपत्यतः । प्रविचयाधिपत्यतश्च । यथाक्रमं पञ्च श्रद्धादीनीन्द्रियाणि वेदितव्यानि । [e. पञ्च बलानि] तान्येव श्रद्धादीनि बलवन्ति बलानीत्युच्यन्ते । तेषां पुनर्बलवत्वं विपक्षस्य हि संलेखद् । (म्व्भ्५३) यदा तान्यश्रद्धादिभिर्विपक्षैर्न व्यवकीर्यन्ते । कस्माच्छ्रद्धादीनां पूर्वोत्तरनिर्देशः । यस्मात् पूर्वस्य फलमुत्तरम् । श्रद्दधानो हि हेतुफलं वीर्यमारभते । आरब्धवीर्यस्य स्मृतिरुपतिष्ठते । उपस्थितस्मृतेश्चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति । अवरोपितमोक्षभागीयस्येन्द्रियाण्युक्तान्यथ निर्वेधभागीयानि किमिन्द्रियावस्थायां वेदितव्यान्याहोस्विद्बलावस्थायाम् । द्वौ द्वौ निर्वेधभागीयाविन्द्रियाणि बलानि च ॥ इव्.७ उष्मगतं मूर्धानश्चेन्द्रियाणि । क्षान्तयो लौकिकाश्चाग्रधर्मा बलानि । [f. सप्त बोध्यङ्गानि] बलानन्तरं बोध्यङ्गानि तेषां कथं व्यवस्थानम् । आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम् । चतुर्थमनुशंसाङ्गन्निःक्लेशाङ्गं त्रिधा मतम् ॥ इव्.८ दर्शनमार्गे बोधावङ्गानि बोध्यङ्गानि । तत्र बोधेराश्रयाङ्गं स्मृतिः । स्वभावाङ्गं धर्मविचयः । निर्याणाङ्गं वीर्यम् । अनुशन्साङ्गं प्रीतिः । असंक्लेशाङ्गं त्रिधा प्रस्रब्धिसमाध्युपेक्षाः । किमर्थं पुनरसंक्लेशाङ्गं त्रिधा देशितं (म्व्भ्५४) निदानेनाश्रयेणेह स्वभावेन च देशितम् । असंक्लेशस्य निदानं प्रस्रब्धिर्दौष्ठुल्यहेतुत्वात्संक्लेशस्य । तस्याश्च तत्प्रतिपक्षत्वादाश्रयः समाधिः । स्वभावौपेक्षा [।] [ग्. अष्ट मार्गाङ्गानि] बोध्यङ्गानन्तरं मार्गाङ्गानि तेषां कथं व्यवस्थानम् । परिच्छेदोऽथ संप्राप्तिः परसंभावना त्रिधा [॥] इव्.९ विपक्षप्रतिपक्षश्च मार्गस्याङ्गं तदष्टधा । भावनामार्गेऽस्य परिच्छेदाङ्गं सम्यग्दृष्टिर्लौकिकी लोकोत्तरपृष्ठलब्धा यया स्वाधिगमं परिच्छिनत्ति । परसंप्रापणाङ्गं सम्यक्संकल्पः सम्यग्वाक्च । ससमुत्थानया वाचा तत्प्रापणात् । परसंभावनाङ्गं त्रिधा सम्यग्वाक्कर्मान्ताजीवास्तैर्हि यथाक्रमम् । दृष्टौ शीलेऽथ संलेखे परविज्ञप्तिरिष्यते ॥ इव्.१० तस्य सम्यग्वाचा कथासांकथ्यविनिश्चयेन प्रज्ञायां संभावना भवति । सम्यक्कर्मान्तेन शीलेऽकृत्याकरणात्सम्यगाजीवेन संलेखे धर्मेण मात्रया च चीवराद्यन्वेषणात् । विपक्षप्रतिपक्षाङ्गं त्रिधैव सम्यग्व्यायमस्मृतिसमाधयः । एषां हि यथाक्रमम् । क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता । त्रिविधो हि विपक्षः क्लेशो भावनाहेयः । उपक्लेशो लयौद्धत्यं (म्व्भ्५५) विभुत्वविपक्षश्च वैशेषिकगुणाभिनिर्हारविबन्धः तत्र प्रथमस्य सम्यग्व्यायामः प्रतिपक्षस्तेन मार्गभावनात् । द्वितीयस्य सम्यक्स्मृतिः शमथादिनिमित्तेषु सूपस्थितस्मृतेः लयौद्धत्याभावात् । तृतीयस्य सम्यक्समाधिः ध्यानसन्निश्रयेणाभिज्ञादिगुणाभिनिर्हारात् । [ह्. प्रतिपक्षभावनाप्रभेद] सैषा प्रतिपक्षभावना समासेन त्रिविधा वेदितव्या । अनुकूला विपर्यस्ता सानुबन्धा विपर्यया ॥ इव्.११ अविपर्यस्तविपर्यासानानुबन्धा च भावना । विपर्यस्तापि अविपर्यासानुकूलाविपर्यस्ता विपर्यासानुबन्धा अविपर्यस्ता विपर्यासनिरनुबन्धा च यथाक्रमं पृथग्जनशैक्षाशैक्षावस्थासु । बोधिसत्वानान् त्व् आलम्बनमनस्कारप्राप्तितस्तद्विशिष्टता ॥ इव्.१२ श्रावकप्रत्येकबुद्धानां हि स्वासन्तानिकाः कायादयः आलम्बनम् । बोधिसत्वानां स्वपरसान्तानिकाः श्रावकप्रत्येकबुद्धा अनित्यादिभिराकारैः कायादीन्मनसिकुर्वन्ति । बोधिसत्वास्त्वनुपलम्भयोगेन । श्रावकप्रत्येकबुद्धाः स्मृत्युपस्थानादीनि भावयन्ति यावदेव कायादीनां विसंयोगाय । बोधिसत्वा न विसंयोगाय । नाविसंयोगाय । यावदेवाप्रतिष्ठितनिर्वाणाय । उक्ता प्रतिपक्षभावना । (म्व्भ्५६) [२. तत्रावस्था] तत्रावस्था कतमा । हेत्ववस्थावताराख्या प्रयोगफलसंज्ञिता । कार्याकार्यविशिष्टा च । उत्तरानुत्तरा च सा ॥ इव्.१३ अधिमुक्तौ प्रवेशे च निर्याणे व्याकृतावपि । कथिकत्वेऽभिषेके च संप्राप्तावनुशन्सने ॥ इव्.१ कृत्यानुष्ठा उद्दिष्टा । तत्र हेत्ववस्था या गोत्रस्थस्य पुद्गलस्यावतारावस्था उत्पादितबोधिचित्तस्य प्रयोगावस्था चित्तोत्पादादूर्धमप्राप्ते फले । फलावस्था प्राप्ते । सकरणीयावस्था शैक्षस्य । अकरणीयावस्था अशैक्षस्य । विशेषावस्थाभिज्ञादिगुणविशेषसमन्वागतस्य । उत्तरावस्था श्रावकादिभ्यो भूमिप्रविष्टस्य बोधिसत्वस्य । अनुत्तरावस्था बुद्धस्य तत ऊर्धमवस्थाभावादधिमुक्त्यवस्था बोधिसत्वानां सर्वस्यामधिमुक्तिचर्याभूमौ । प्रवेशावस्था प्रथमायां भूमौ निर्याणावस्था तदुत्तरासु षट्सु भूमिषु । व्याकरणावस्था अष्टम्यां भूमौ कथिकत्वावस्था नवम्यामभिषेकावस्था दशम्याम् । प्राप्त्यवस्था बुद्धानान् धर्मकायः । अनुशन्सावस्था सांभोगिकः कायः । कृत्यानुष्ठानावस्था निर्माणकायः । सर्वाप्येषा बहुविधावस्थाभिसमस्य वेदितव्या । धर्मधातौ त्रिधा पुउअः । अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्हतः ॥ इव्.१५ तत्राशुद्धावस्था हेत्ववस्थामुपादाय यावत्प्रयोगादशुद्धशुद्धावस्था (म्व्भ्५७) शैक्षाणाम् । विशुद्धावस्था अशैक्षाणाम् । पुद्गलानां व्यवस्थानं यथायोगमतो मतम् । अतोऽवस्थाप्रभेदाद्यथायोगं पुद्गलानां व्यवस्थानं (।) वेदितव्यमयं गोत्रस्थोऽयमवतीर्ण इत्येवमादि । उक्तावस्था [।] [३. फलप्राप्ति] फलप्राप्तिः कतमा । भाजनत्वं विपाकाख्यं बलन् तस्याधिपत्यतः ॥ इव्.१६ रुचिर्वृद्धिर्विशुद्धिश्च फलमेतद्यथाक्रमम् । भाजनत्वं यः कुशलानुकूलो विपाकः । बलं या भाजनत्वाधिपत्यात्कुशलस्याधिमात्रता । रुचिर्या पूर्वाभ्यासात्कुशलरुचिः । वृद्धिर्या प्रत्युत्पन्ने कुशलधर्माभ्यासात्कुशलमूलपरिपुष्टिः । विशुद्धिर्यदावरणप्रहाणम् । एतद्यथाक्रमं फलं पञ्चविधं वेदितव्यम् । विपाकफलमधिपतिफलन्निष्यन्दफलं पुरुषकारफलं विसंयोगफलञ्च । उत्तरोत्तरमाद्यञ्च तदभ्यासात्समाप्तितः ॥ इव्.१७ आनुकूल्याद्विपक्षाच्च विसंयोगाद्विशेषतः । उत्तरानुत्तरत्वाच्च फलमन्यत्समासतः ॥ इव्.१८ उत्तरोत्तरफलं गोत्राच्चित्तोत्पाद इत्येवमादि परंपरया वेदितव्यम् । आदिफलं प्रथमतो लोकोत्तरधर्मप्रतिलम्भः । अभ्यासफलं तस्मात्परेण शैक्षावस्थायाम् । समाप्तिफलमशैक्षाधर्माः । आनुकूल्यफलमुपनिषद्भावेनोत्तरोत्तरफलमेव वेदितव्यम् । विपक्षफलं प्रहाणमार्गो यदेवादिफलम् । प्रतिपक्षोऽभिप्रेतः । विसंयोगफलं निरोधसाक्षात्क्रिया अभ्यासफलं समाप्तिफलं च क्लेशविसंयोगः (म्व्भ्५८) शैक्षाशैक्षाणां यथाक्रमम् । विशेषफलमभिज्ञादिको गुणविशेषः । उत्तरफलं बोधिसत्वभूमयस्तदन्ययानोत्तरत्वादनुत्तरफलं बुद्धभूमिः । एतानि चत्वारि अभ्याससमाप्तिफलप्रभेद एव एतदन्यत्फलं समासनिर्देशतो व्यासतस्त्वपरिमाणम् । [प्रतिपक्षभावनापिण्डार्थ] तत्र प्रतिपक्षभावनायाः पिण्डार्थः । व्युत्पत्तिभावना निर्लेखभावना परिकर्मभावना । उत्तरसमारम्भभावना । श्लिष्टभावना दर्शनमार्गश्लेषात् । प्रविष्टभावना उत्कृष्टभावना आदिभावना मध्यभावना पर्यवसानभावना । सोत्तरा भावना निरुत्तरा च भावना यालम्बनमनस्कारप्राप्तिविशिष्टा ॥ अवस्थानां पिण्डार्थः । भव्यतावस्था गोत्रस्थस्य । आरम्भावस्था यावत्प्रयोगात् । असुद्धावस्था अशुद्धशुद्धावस्था विशुद्धावस्था । सालंकारावस्था । व्याप्त्यवस्था दशभूमिव्यापनात् । अनुत्तरावस्था च ॥ फलानां पिण्डार्थः संग्रहतः तद्विशेषतः पूर्वाभ्यासतःनुत्तरोत्तरनिर्हारतः । उद्देशतो निर्देशतश्च । तत्र संग्रहतः । पञ्च फलानि । तद्विशेषतः शेषाणि । पूर्वाभ्यासतः विपाकफलम् । उत्तरोत्तरनिर्हारतस्तदन्यानि चत्वारि । उद्देशतः उत्तरोत्तरफलादीनि चत्वारि निर्देशतः आनुकूल्यफलादिनि षट् । तेषामेव (म्व्भ्५९) चतुर्णां निर्देशात् ॥ मध्यान्तविभागे प्रतिपक्षभावनावस्थाफलपरिच्छेदश्चतुर्थः ॥ ः (म्व्भ्६०) [छप्तेर्व्. यानानुत्तर्यपरिच्छेद] [१. त्रिविधानुत्तर्य] यानानुत्तर्यमिदानीं वक्तव्यम् । तदुच्यते । आनुत्तर्यं प्रपत्तौ हि पुनरालम्बने मतम् । समुदागम उद्दिष्टम् । त्रिविधमानुत्तर्यं महायाने येनैतदनुत्तरं यानं प्रतिपत्त्यानुत्तर्यम् । आलम्बनानुत्तर्यम् । समुदागमानुत्तर्यञ्च । [२. प्रतिपत्त्यानुत्तर्य] तत्र प्रतिपत्त्यानुत्तर्यं दशपारमिताप्रतिपत्तितो वेदितव्यम् । प्रतिपत्तिस्तु षड्विधा ॥ व्.१ तासु पारमितासु । परमाथ मनस्कारे अनुधर्मेऽन्तवर्जने । विशिष्टा चाविशिष्टा च । इत्येषा षड्विधा प्रतिपत्तिर्यदुत परमा प्रतिपत्तिः । मनस्कारप्रतिपत्तिरनुधर्मप्रतिपत्तिः । अन्तद्वयवर्जिता प्रतिपत्तिः विशिस्ता प्रतिपत्तिः । अविशिष्टा च प्रतिपत्तिः । [a. परमा प्रतिपत्तिः] तत्र । (म्व्भ्६१) परमा द्वादशात्मिका ॥ व्.२ औदार्यमायतत्वं च अधिकारोऽक्षयात्मता । नैरन्तर्यमकृच्छ्रत्वं वित्तत्वं च परिग्रहः ॥ व्.३ आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता । इत्येषा द्वादशविधा परमा मता । यदुतौदार्यपरमता आयतत्वपरमता अधिकारपरमता अक्षयत्वपरमता नैरन्तर्यपरमता अकृच्छ्रत्वपरमता । वित्तत्वपरमता परिग्रहपरमता । आरम्भपरमता प्रतिलम्भपरमता निष्यन्दपरमता निष्पत्तिपरमता च । तत्रौदार्यपरमता सर्वलौकिकसंपत्त्यनर्थित्वेनोत्कृष्टतया च वेदितव्या । आयतत्वपरमता त्रिकल्पासंख्येयपरिभावनात् । अधिकारपरमता सर्वसत्वार्थक्रियाधिकारात् । अक्षयत्वपरमता महाबोधिपरिणामनयात्यन्तमपर्यादानान्नैरन्तर्यपरमतात्मपरसमताधिमोक्षात्सर्वसत्वदानादिभिः पारमितापरिपूरणादकृच्छ्रत्वपरमतानुमोदनामात्रेण परदानादीनांपरमितापरिपूरणात् । वित्तत्वपरमता । गगनगञ्जसमाध्यादिभिर्दानादिपरिपूरणात्परिग्रहपरमता निर्विकल्पज्ञानपरिगृहीतत्वात् । आरम्भपरमताधिमुक्तिचर्याभूमावधिमात्रायां क्षान्तौ प्रतिलम्भपरमता प्रथमायां भूमौ । निष्यन्दपरमता । तदन्यास्वष्टासु भूमिषु । निष्पत्तिपरमता दशम्यां भूमौ तथागत्यां च । बोधिसत्वनिष्पत्त्या बुद्धनिष्पत्त्या च । ततश्च परमार्थेन दश पारमिता मताः ॥ व्.४ यत एषा द्वादशविधा परमता एतासु संविद्यते । ततः परमा (म्व्भ्६२) इत्यनेनार्थेन दश पारमिताः । कतमा दशेत्येकेषां तन्नामव्युत्पादनार्थमुच्यते । दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता । प्रणिधानं बलं ज्ञानमेताः पारमिता दशेति ॥ व्.५ किमासां प्रत्येकं कर्म । अनुग्रहोऽविघातश्च कर्म तस्य च मर्षणम् । गुणवृद्धिश्च सामर्थ्यमवतारविमोचने । अक्षयत्वं सदा वृत्तिर्नियतं भोगपाचने ॥ व्.६ इत्येतदासां कर्म यथाक्रमम् । दानेन हि बोधिसत्वः सत्वाननुगृह्णाति । शीलेनोपघातं परेषां न करोति । क्षान्त्या परैः कृतमुपघातं मर्षयति । वीर्येण गुणान् वर्धयति । ध्यानेन र्द्ध्यादिभिरावर्ज्यावतारयति । प्रज्ञया सम्यगववाददानाद्विमोचयति । उपायकौशल्यपारमितया महाबोधिपरिणामनाद्दानादीनक्षयान् करोति । प्रणिधानपारमितयानुकूलोपपत्तिपरिग्रहात् । सर्वजन्मसु बुद्धोत्पादारागणतो दानादिषु सदा प्रवर्तते बलपारमितया प्रतिसंख्यानभावनाबलाभ्यां नियतं दानादिषु प्रवर्तते । विपक्षानभिभवात् । ज्ञानपारमितया यथारुतधर्मसंमोहापगमाद्दानाद्याधिपतेयधर्मसंभोगञ्च प्रत्यनुभवति । सत्वांश्च परिपाचयति । उक्ता परमा प्रतिपत्तिः । [b. मनसिकारप्रतिपत्ति] (म्व्भ्६३) मनसिकारप्रतिपत्तिः कतमा । यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया । बोधिसत्वस्य सततं प्रज्ञया त्रिप्रकारया ॥ व्.७ दानादीन्यधिकृत्य यथाप्रज्ञप्तानां सूत्रादिधर्माणां महायाने मनसिकरणमभीक्ष्णं श्रुतचिन्ताभावनामय्या प्रज्ञया मनसिकारप्रतिपत्तिः । सा त्रिप्रकारया प्रज्ञया मनसिक्रिया कं गुणंकरोति । धातुपुष्ट्यै प्रवेशाय चार्थसिद्ध्यै भवत्यसौ । श्रुतमय्या प्रज्ञया मनसिकुर्वतो धातुपुष्टिर्भवति । चिन्तामय्या तस्य श्रुतस्यार्थं भावेन प्रविशति । भावनामय्यार्थसिद्धिं प्राप्नोति भूमिप्रवेशपरिशोधनात् । संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः ॥ व्.८ सा पुनर्मनसिकारप्रतिपत्तिः । दशभिर्धर्मचरितैः परिगृहीता वेदितव्या कतमद्दशधा धर्मचरितम् । लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत् ॥ व्.९ महायानस्य लेखनं पूजनं परेभ्यो दानं परेण वाच्यमानस्य श्रवणम् । स्वयं च वाचनम् । उद्ग्रहणम् । परेभ्यो देशनं ग्रन्थस्यार्थस्य वा स्वाध्यायनम् । चिन्तनं भावनञ्च । अमेयपुण्यस्कन्धं हि चरितन् तद्दशात्मकम् । (म्व्भ्६४) कस्मान्महायान एव धर्मचरितमत्यर्थं महाफलन् देश्यते सूत्रेषु न पुनः श्रावकयाने । द्वाभ्यां कारणाभ्याम् । विशेषादक्षयत्वाच्च । कथं विशेषात् । कथमक्षयत्वात् । परानुग्रहतोऽशमात् ॥ व्.१० परानुग्रहवृत्तित्वाद्विशिष्टत्वम् । परिनिर्वाणेऽप्यशमात् । अनुपरमाद्  अक्षयत्वं वेदितव्यम् । उक्ता मनसिकारप्रतिपत्तिः । [c. अनुधर्मप्रतिपत्ति] अनुधर्मप्रतिपत्तिः कतमा । अविक्षिप्ताविपर्यासप्रणता चानुधार्मिकी । इत्येषा द्विविधानुधर्मप्रतिपत्तिः । यदुताविक्षिप्ता चाविपर्यासपरिणता च । [अविक्षेपपरिणता] तत्र षड्विधविक्षेपाभावादविक्षिप्ता । तत्र षड्विधो विक्षेपः । प्रकृतिविक्षेपः । बहिर्धाविक्षेपः । अध्यात्मविक्षेपः निमित्तविक्षेपः दौष्ठुल्यविक्षेपः मनसिकारविक्षेपश्च । स एष किंलक्षणो वेदितव्य इत्यत आह । व्युत्थानं विषये सारस्तथास्वादलयोद्धतः । व्.११ संभावनाभिसन्धिश्च मनस्कारेऽप्यहंकृतिः । (म्व्भ्६५) हीनचित्तंच विक्षेपः परिज्ञेयो हि धीमता ॥ व्.१२ इत्येवंलक्षणः षड्विधो विक्षेपो यो बोधिसत्वेन परिज्ञेयः । तत्र व्युत्थानं समाधितः पञ्चभिर्विज्ञानकायैः प्रकृतिविक्षेपः विषये विसारो बहिर्धाविक्षेपः । समाधेरास्वादना लयौद्धत्यं चाध्यात्मविक्षेपः । संभावनाभिसन्धिः निमित्तविक्षेपः । तन्निमित्तं कृत्वा प्रयोगात् । साहंकारमनस्कारता दौष्ठुल्यविक्षेपः । दौष्ठुल्यवशेनास्मिमानसमुदाचारात् । हीनचित्तत्वम् । मनसिकारविक्षेपः हीनयानमनसिकारसमुदाचारात् । [अविपर्यासपरिणता] तत्राविपर्यासो दशविधे वस्तुनि वेदितव्यः । यदुत । व्यञ्जनार्थमनस्कारेऽविसारे लक्षणद्वये । अशुद्धशुद्धावागन्तुकत्वेऽत्रासितानुन्नतौ ॥ व्.१३ तत्र । संयोगात्संस्तवाच्चैव वियोगादप्यसंस्तवात् । अर्थसत्वमसत्वञ्च व्यञ्जने सोऽविपर्ययः ।] व्.१४ संयोगे सति व्यञ्जनानामविच्छिन्नोच्चारणतया अस्य चेदं नामेति संस्तवात्सार्थकत्वं विपर्ययान्निरर्थकत्वमिति । यदेवन्दर्शनं सोऽविपर्यासो व्यञ्जने वेदितव्यः । कथमर्थेऽविपर्यासः । द्वयेन प्रतिभासत्वं तथा चाविद्यमानता ज् अर्थे स चाविपर्यासः सदसत्वेन वर्जितः ॥ व्.१५ द्वयेन ग्राह्यग्राहकत्वेन प्रतिभासते तदाकरोत्पत्तितः । तथा (म्व्भ्६६) च न विद्यते । यथा प्रतिभासत इति । अर्थे यद्दर्शनं स तत्राविपर्यासः अर्थस्य सत्वेन वर्जितो ग्राह्यग्राहकाभावादसत्वेन वर्जितः । तत्प्रतिभासभ्रान्तिसद्भावात् । तज्जल्पभावितो जल्पमनस्कारस्तदाश्रयः मनस्कारेऽविपर्यासो द्वयप्रख्यानकारणे ॥ व्.१६ ग्राह्यग्राहकजल्पपरिभावितो जल्पमनस्कारस्तस्य ग्राह्यग्राहकविकल्पस्याश्रयो भवतीत्ययं मनस्कारेऽविपर्यासः । कतमस्मिन्मनस्कारे ग्राह्यग्राहकसंप्रख्यानकारणे स ह्यसौ जल्पमनस्कारोऽभिलापसंज्ञापरिभावितत्वात्ग्राह्यग्राहकविकल्पाश्रयो वेदितव्यः । मायादिवदसत्वञ्च सत्वं चार्थस्य तन्मतं [।] सोऽविसारेऽविपर्यासो भावाभावाविसारतः ॥ व्.१७ यत्तदर्थस्यासत्वं सत्वं चानन्तरमुक्तम् । तन्मायादिवन्मतं यथा माया न हस्त्यादिभावेनास्ति न च नैवास्ति । तद्भ्रान्तिमात्रास्तित्वात् । एवमर्थोऽपि न चास्ति यथा संप्रख्याति ग्राह्यग्राहकत्वेन न च नैवास्ति तद्भ्रान्तिमात्रास्तित्वात् । आदिशब्देन मरीचिस्वप्नोदकचन्द्रादयो दृष्टान्ता यथायोगं वेदितव्या इति यन्मायाद्युपमार्थे दर्शनादविसारं चेतसः पश्यति सोऽविसारेऽविपर्यासस्तेन भावाभावयोश्चित्तस्याविसरणात् । (म्व्भ्६७) सर्वस्य नाममात्रत्वं सर्वकल्पाप्रवृत्तये । स्वलक्षणेऽविपर्यासः । सर्वमिदं नाममात्रम् । यदिदं चक्षूरूपं यावन्मनोधर्मा इति यज्ज्ञानं सर्वविकल्पानां प्रतिपक्षेण अयं स्वलक्षणेऽविपर्यासः । कतमस्मिन् स्वलक्षणे । परमार्थे स्वलक्षणे ॥ व्.१८ संवृत्या तु नेदं नाममात्रमिति गृह्यते । धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । सामान्यलक्षणं तस्मात्स च तत्राविपर्ययः ॥ व्.१९ न हि धर्मनैरात्म्येन विना कश्चिद्धर्मो विद्यते । तस्माद्धर्मधातुः सर्वधर्माणां सामान्यं लक्षणमिति । यदेवंज्ञानमयं सामान्यलक्षणेऽविपर्यासः । विपर्यस्तमनस्काराविहानिपरिहाणितः । तदशुद्धिर्विशुद्धिश्च स च तत्राविपर्ययः ॥ व्.२० विपर्यस्तस्मनस्काराप्रहाणन् तस्य धर्मधातोरविशुद्धिस्तत्प्रहाणं विशुद्धिरिति यदेवंज्ञानमयमविशुद्धौ विशुद्धौ चाविपर्यासो यथाक्रमम् । धर्मधातोर्विशुद्धत्वात्प्रकृत्या व्योमवत्पुनः । द्वयस्यागन्तुकत्वं हि स च तत्राविपर्ययः ॥ व्.२१ धर्मधातोः पुनराकाशवत् । प्रकृतिविशुद्धत्वात् । द्वयमप्येतदागन्तुकमविशुद्धिरु विशुद्धिश्च पश्चादिति । यदेवंज्ञानमयमागन्तुकत्वेऽविपर्यासः । (म्व्भ्६८) संक्लेशश्च विशुद्धिश्च धर्मपुद्गलयोर्न हि । असत्वात्त्रासतामानौ नातः सोऽत्राविपर्ययः ॥ व्.२२ न हि पुद्गलस्य संक्लेशो न विशुद्धिर्नापि धर्मस्य । यस्मान्न पुद्गलोऽस्ति न धर्मो यतश्च न कस्यचित्संक्लेशो न व्यवदानमतो न संक्लेशपक्षे कस्यचिद्धानिः न व्यवदानपक्से कस्यचिद्विशेषः । यतस्त्रासो वा स्यादुन्नतिर्वेत्ययमत्रासेऽनुन्नतौ चाविपर्यासः । [दश वज्रपदानि] एते च दशाविपर्यासा दशसु वज्रपदेषु यथाक्रमं योजयितव्याः । दश वज्रपदानि । सदसत्ता अविपर्यसः । आश्रयो मायोपमता अविकल्पनता प्रकृतिप्रभास्वरता संक्लेशो व्यवदानम् । आकाशोपमता अहीनता अविशिष्टता च । वज्रपदानां शरीरव्यवस्थानम् । स्वभावतः । आलम्बनतः । अविकल्पनतः । चोद्यपरिहारतश्च । तत्र स्वभावतः त्रयः स्वभावाः । परिनिष्पन्नपरिकल्पितपरतन्त्राख्या आद्यैस्त्रिभिः पदैर्यथाक्रमम् । आलम्बनतः । त एव अविकल्पनतो येन च न विकल्पयति निर्विकल्पेन ज्ञानेन यच्च न विकल्पयति प्रकृतिप्रभास्वरताम् । तदनेन ज्ञेयज्ञानव्यवस्थानं यथाक्रमं वेदितव्यम् । यदुत त्रिभिः स्वभावैरविकल्पनतया च । चोद्यपरिहारतः । शिष्टानि पदानि तत्रेदं चोद्यम् । यद्येते परिकल्पितपरतन्त्रलक्षणा धर्मा न संविद्यन्ते । कथमुपलभ्यन्ते । अथ संविद्यन्ते धर्माणां प्रकृतिप्रभास्वरता न (म्व्भ्६९) युज्यते । तन्मायोपमतया परिहरति । यथा मायाकृतं न विद्यत उपलभ्यते च यदि प्रकृतिप्रभास्वरता धर्माणां तत्कथं पूर्वं संक्लेशः पश्चाद्व्यवदानम् । अस्य परिहारः । संक्लेशव्यवदानमाकाशोपमतया वेदितव्यम् । यथाकाशं प्रकृतिपरिशुद्धं संक्लिश्यते । व्यवदायते चेति । यद्यप्रमेयबुद्धोत्पादे सत्यप्रमेयाणां सत्वानां क्लेशापशमः । तत्कथं न संसारसमुच्छेदो न निर्वाणवृद्धिर्भवति । तस्याहीनाविशिष्टतया परिहारः । अप्रमेयत्वात्सत्वधातोर्व्यवदानपक्षस्य च । द्वितीयं शरीरव्यवस्थानम् । यत्र या च यतो भ्रान्तिरभ्रान्तिर्या च यत्र च । भ्रान्त्यभ्रान्तिफले चैव पर्यन्तश्च तयोरिति ॥ सदसत्ताविपर्यासः आश्रयो माययोपमा । अकल्पना प्रकृत्या च भास्वरत्वं सदैव हि ॥ संक्लेशो व्यवदानं चाकाशोपमता तथा । अहीनानधिकत्वञ्च दश वज्रपदानि हि ॥ उक्तानुधर्मप्रतिपत्तिः । [d. अन्तद्वयवर्जने प्रतिपत्तिः] अन्तद्वयवर्जने प्रतिपत्तिः कतमा या रत्नकूटे मध्यमा प्रतिपत्तिरुपदिष्टा । कस्यान्तस्य वर्जनादसौ वेदितव्या । पृथक्त्वैकत्वमन्तश्च तिर्थ्यश्रावकयोरपि । समारोपापवादान्तो द्विधा पुद्गलधर्मयोः ॥ व्.२३ विपक्षप्रतिपक्षान्तः शाश्वतोच्छेदसंज्ञितः । ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा ॥ व्.२४ विकल्पद्वयतान्तश्च स च सप्तविधो मतः । भावाभावे प्रशाम्येऽथ शमने त्रास्यन्तद्भये ॥ व्.२५ (म्व्भ्७०) ग्राह्यग्राहेऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च । अजन्मसमकालत्वे स विकल्पद्वयान्तता ॥ व्.२६ तत्र रूपादिभ्यः । पृथक्त्वमात्मन इत्यन्तः । एकत्वमित्यन्तः तत्परिवर्जनार्थं मध्यमा प्रतिपत् । या नात्मप्रत्यवेक्षा । यावन्न मानवप्रत्यवेक्षा आत्मदर्शने हि जीवस्तच्छरीरम् । अन्यो जीवोऽन्यच्छरीरमिति भवति दर्शनम् । नित्यं रूपमिति तीर्थिकान्तः । अनित्यमिति श्रावकान्तः । तत्परिवर्जनार्थं मध्यमा प्रतिपद्या रूपादीनां न नित्यप्रत्यवेक्षा नानित्यप्रत्यवेक्षा । आत्मेति पुद्गलसमारोपान्तः नैरात्म्यमित्यपवादान्तः प्रज्ञप्तिसतोऽप्यपवादात् । तत्परिवर्जनार्थं मध्यमा प्रतिपद्यदात्मनैरात्म्ययोर्मध्यं निर्विकल्पं ज्ञानम् । भूतं चित्तमिति धर्मसमारोपान्तः अभूतमित्यपवादान्तः । तत्परिवर्जनार्थं मध्यमा प्रतिपद्यत्र न चित्तं न चेतना न मनो न विज्ञानम् । अकुशलादयो धर्माः संक्लेश इति विपक्षान्तः । कुशलादयो व्यवदानमिति प्रतिपक्षान्तस्तत्परिवर्जनार्थं मध्यमा प्रतिपद्योऽस्यान्तद्वयस्यानुपगमोऽनुदाहारोऽप्रव्याहारः । अस्तीति शाश्वतान्तस्तयोरेव पुद्गलधर्मयोर्नास्तीत्युच्छेदान्तस्तत्परिवर्जनार्थं मध्यमा प्रतिपद्यदनयोर्द्वयोरन्तयोर्मध्यम् । अविद्या ग्राह्या ग्राहका चेत्यन्तः । एवं विद्या संस्कारा असंस्कृतं च तत्प्रतिपक्षः । यावज्जरामरणं ग्राह्यं ग्राहकं चेत्यन्तस्तन्निरोधो ग्राह्यो ग्राहको वेत्यन्तो येन मार्गेण तन्निरुध्यते । एवं ग्राह्यग्राहकान्तो (म्व्भ्७१) द्विधा कृष्णशुक्लपक्षभेदेन तत्परिवर्जनार्थं मध्यमा प्रतिपद्विद्या चाविद्या चाद्वयमेतदिति विस्तरेण विद्याविद्यादीनां ग्राह्यग्राहकत्वाभावात् । त्रिविधः संक्लेशः । क्लेशसंक्लेशः । कर्मसंक्लेशः । जन्मसंक्लेशश्च । तत्र क्लेशसंक्लेशस्त्रिविधः । दृष्टिः रागद्वेषमोहनिमित्तं पुनर्भवप्रणिधानं च । यस्य प्रतिपक्षो ज्ञानशून्यता ज्ञानानिमित्तं ज्ञानाप्रणिहितं च । कर्मसंक्लेशः । शुभाशुभकर्माभिसंस्कारः यस्य प्रतिपक्षो ज्ञानानभिसंस्कारः । जन्मसंक्लेशः । पुनर्भवजातिः जातस्य चित्तचैत्तानां प्रतिक्षणोत्पादः । पुनर्भवप्रबन्धश्च यस्य प्रतिपक्षो ज्ञानाजातिः ज्ञानानुत्पादो ज्ञानास्वभावता च । एतस्य त्रिविधस्य संक्लेशस्यापगमो व्यवदानम् । तत्र ज्ञानशून्यतादिभिः । ज्ञेयशून्यतादयो धर्मा एतेन त्रिविधेन संक्लेशेन यथायोगं यावन्न शून्यतादयः क्रियन्ते । प्रकृत्यैव शून्यतादयो धर्मधातोः प्रकृत्यसंक्लिष्टत्वात्तेन यदि धर्मधातुः संक्लिश्यते वा विशुध्यते वेति कल्पयत्ययमन्तः । प्रकृत्यसंक्लिष्टस्य संक्लेशविशुद्ध्यभावादेतस्यान्तस्य परिवर्जनार्थम् । मध्यमा प्रतिपत् । यन्न शून्यतया धर्माञ्छून्यां करोति । अपि तु धर्मा एव शून्या इत्येवमादि । अपरः सप्तविधो विकल्पद्वयान्तस्तद्यथा भावेऽपि विकल्पोऽन्तः। अभावेऽपि पुद्गलोऽस्ति यस्य विनाशाय शून्यता (म्व्भ्७२) नैरात्म्यमपि वा नास्तीति कल्पनात् । तदेतस्य विकल्पद्वयान्तस्य परिवर्जनार्थमियं मध्यमा प्रतिपत् । न खलु पुद्गलविनाशाय शून्यता अपि तु शून्यतैव शून्या पूर्वान्तशून्यता । अपरान्तशून्यता इत्येवमादिविस्तरः । शाम्येऽपि विकल्पोऽन्तः । शमनेऽपि विकल्पोऽनतः प्रहेयप्रहाणकल्पनया शून्यतायास्त्रसनादेतस्य विकल्पद्वयान्तस्य परिवर्जनार्थमाकाशदृष्टान्तः । त्रास्येऽपि विकल्पोऽन्तस्ततश्च त्रास्याद्भयेऽपि परिकल्पितरूपादित्रसनात्(।) दुःखभीरुतया एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं चित्रकरदृष्टान्तः । पूर्वको दृष्टान्तः श्रावकानारभ्यायं तु बोधिसत्वान् । ग्राह्येऽपि विकल्पोऽन्तः ग्राहकेऽपि एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं मायाकारदृष्टान्तः । विज्ञप्तिमात्रज्ञानकृतं ह्यर्थाभावज्ञानम् । तच्चार्थाभावज्ञानम् । तदेव विज्ञप्तिमात्रज्ञानं निवर्तयति । अर्थाभावे विज्ञप्त्यसंभवादित्येतदत्र साधर्म्यम् । सम्यक्त्वेऽपि विकल्पोऽन्तः मिथ्यात्वेऽपि भूतप्रत्यवेक्षां सम्यक्त्वेन कल्पयतो मिथ्यात्वेन वा एतस्यान्तद्वयस्य परिवर्जनार्थम् । काष्ठद्वयाग्निदृष्टान्तः । यथाकाष्ठद्वयाद्(म्व्भ्७३) अनग्निलक्षणादग्निर्जायते । जातश्च तदेव काष्ठद्वयं दहत्येवमसम्यक्त्वलक्षणाया यथाभूतप्रत्यवेक्षायाः सम्यक्त्वलक्षणमार्यं प्रज्ञेन्द्रियं जायते जातं च तामेव भूतप्रत्यवेक्षां विभावयतीत्येतदत्र साधर्म्यं न चासम्यक्त्वलक्षणापि भूतप्रत्यवेक्षा मिथ्यात्वलक्षणा सम्यक्त्वानुकूल्यात् । व्यापृतावपि विकल्पोऽन्तः । अव्यापृतावपि ज्ञानस्य बुद्धिपूर्वां क्रियां निःसामर्थ्यं वा कल्पयतः । एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थम् । तैलप्रद्योतदृष्टान्तः । अजन्मत्वेऽपि विकल्पोऽन्तः समकालत्वेऽपि यदि प्रतिपक्षस्यानुत्पत्तिं वा कल्पयति संक्लेशस्यैव वा दीर्घकालत्वमेतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं द्वितीयस्तैलप्रद्योतदृष्टान्तः । उक्तान्तद्वयपरिवर्जने प्रतिपत्तिः । [e. विशिस्टा चाविशिष्टा च प्रतिपत्तिः] विशिष्टा चाविशिष्टा च प्रतिपत्तिः । कतमा । विशिष्टा चाविशिष्टा च ज्ञेया दशसु भूमिषु । यस्यां भूमौ या पारमितातिरिक्ततरा सा तत्र विशिष्टा सर्वासु च सर्वत्र समुदागच्छतीत्यविशिष्टा । उक्तं प्रतिपत्त्यानुत्तर्यम् । [३. आलम्बनानुत्तर्य] आलम्बनानुत्तर्यम् । कतमत् । व्यवस्थानं तथा धातुः साध्यसाधनधारणा ॥ व्.२७ अवधारप्रधारा च प्रतिवेधः प्रतानता । (म्व्भ्७४) प्रगमः प्रशठत्वं च प्रकर्षालम्बनं मतम् ॥ व्.२८ इत्येतत् । द्वादशविधमालम्बनम् । यदुत धर्मप्रज्ञप्तिव्यवस्थानालम्बनं धर्मधात्वालम्बनं साध्यालम्बनं साधनालम्बनम् । धारणालम्बनमवधारणालम्बनम् । प्रधारणालम्बनम् । प्रतिवेधालम्बनम् । प्रतानतालम्बनम् । प्रगमालम्बनम् । प्रशठत्वालम्बनं प्रकर्षालम्बनं च । तत्र प्रथमं ये पारमितादयो धर्मा व्यवस्थाप्यन्ते । द्वितीयन् तथता तृतीयचतुर्थे ते एव यथाक्रमं धर्मधातुप्रतिवेधेन पारमितादिधर्माधिगमात् । पञ्चमं श्रुतमयज्ञानालम्बनम् । षष्ठम् । चिन्तामयस्यावगम्य धारणात् । सप्तमं भावनामयस्य प्रत्यात्मं धारणात् । अष्टमं प्रथमायां भूमौ दर्शनमार्गस्य । नवमं भावनामार्गस्य यावत्सप्तम्यां भूमौ । दशमं तत्रैव लौकिकलोकोत्तरस्य मार्गस्य । प्रकारशो धर्माधिगमात् । एकादशमष्टम्यां भूमौ द्वादशं नवम्यादिभूमित्रये तदेव हि प्रथमद्वयम् । तस्यान् तस्यामवस्थायां तत्तदालम्बनं नाम लभते । उक्तमालम्बनम् ॥ [४. समुदागमानुत्तर्य] समुदागमः कतमः । अवैकल्याप्रतिक्षेपोऽविक्षेपश्च प्रपूरणा । समुत्पादो निरूढिश्च कर्मण्यत्वाप्रतिष्ठिता । निरावरणता तस्याप्रस्रब्धिसमुदागमः ॥ व्.२९ इत्येष दशविधः समुदागमः । तत्र प्रत्ययावैकल्यम् । गोत्रसमुदागमः । (म्व्भ्७५) महायानाप्रतिक्षेपोऽधिमुक्तिसमुदागमः । हीनयानाविक्षेपश्चित्तोत्पादसमुदागमः । पारमितापरिपूरणा प्रतिपत्तिसमुदागमः । आर्यमार्गोत्पादो नियामावक्रान्तिसमुदागमः । कुशलमूलनिरूढिः दीर्घकालपरिचयात्सत्वपरिपाकसमुदागमः [।] चित्तकर्मण्यत्वं क्षेत्रपरिशुद्धिसमुदागमः । संसारनिर्वाणाप्रतिष्ठता अविनिवर्तनीयभूमिव्याकरणलाभसमुदागमः संसारनिर्वाणाभ्यामविनिवर्तनात् । निरावरणता बुद्धभूमिसमुदागमः । तदप्रस्रब्धिर्बोधिसंदर्शनसमुदागमः [॥] [शास्त्रनामव्याख्यान] इत्येतच् छास्त्रं मध्यविभागं हि मध्यमाप्रतिपत्प्रकाशनात्मध्यान्तविभागमप्येतन्मध्यस्यान्तयोश्च प्रकाशनात् । आद्यपरवर्जितस्य मध्यस्य वा । गूढसारार्थमेव च । तर्कस्यागोचरत्वात्परवादिभिरभेद्यत्वाच्च यथाक्रमम् । महार्थं चैव । स्वपराधिकारात् । सर्वार्थम् । यानत्रयाधिकारात् । सर्वानर्थप्रणोदनम् ॥ व्.३० (म्व्भ्७६) क्लेशज्ञेयावरणप्रहाणावाहनात् । [यानानुत्तर्यपिण्डार्थ] आनुत्तर्यस्य पिण्डार्थः । समासतस्त्रिविधमानुत्तर्यं प्रतिपत्तिः (।) प्रतिपत्त्याधारः प्रतिपत्तिफलं चैव । सा च प्रतिपत्तिर्यादृशी परमा । येन च यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया (व्. ७ ब्) इत्येवमादिना । यथा येन प्रकारेणाविक्षेपपरिणता च शमथभावनया अविपर्यासपरिणता च विपश्यनाभावनया। यदर्थं च मध्यमया प्रतिपदा निर्याणार्थम् । यत्र च दशसु भूमिषु (व्. २७ ) । विशिष्टा चाविशिष्टा च (व्. २७ ) । अविपर्यासानां पिण्डार्थः । व्यञ्जनाविपर्यासेन शमथनिमित्तं प्रतिविध्यति । अर्थाविपर्यासेन विपश्यनानिमित्तं प्रतिविध्यति । मनस्काराविपर्यासेन विपर्यासनिदानं परिवर्जयति । अविसाराविपर्यासेन तन्निमित्तं सुगृहीतं करोति । स्वलक्षणाविपर्यासेन तत्प्रतिपक्षेणाविकल्पं मार्गं भावयति । सामान्यलक्षणाविपर्यासेन व्यवदानप्रकृतिं प्रतिविध्यति । अशुद्धिशुद्धिमनस्काराविपर्यासेन तदावरणप्रहीणाप्रहीणतां प्रजानाति । तदागन्तुकत्वाविपर्यासेन संक्लेशव्यवदानं यथाभूतं प्रजानाति । अत्रासानुन्नत्यविपर्यासेन निरावरणे निर्याति । आनुत्तर्यपरिच्छेदः पञ्चमः ॥ (म्व्भ्७७) ॥ समाप्तो मध्यान्तविभागः ॥ ॥ व्याख्यामिमामुपनिबध्य यदस्ति पुण्यं पुण्योदयाय महतो जगतस्तदस्तु । ज्ञानोदयाय च यतोऽभ्युदयं महान्तं बोधित्रयं च न चिराज्जगदश्नुवीत ॥ इति ॥ मध्यान्तविभागकारिकाभाष्यं समाप्तम् ॥ ॥ कृतिराचार्यभदन्तवसुबन्धोः ।