बोधिचित्तोत्पादसूत्रशास्त्र प्रथमो वर्गः अध्येषणोत्पादः नमाम्यपर्यन्ततथाअतान् गतान् जिनानहं साम्प्रतिकाननागतान् । नभःसमाक्षोभ्यधियोऽपराजितान् जनान् परित्रातुमथो महाकृपान् ॥१॥ १ । अस्ति महावैपुल्यमनुत्तरं सद्धर्ममातृकापिटकं बोधिसत्वै र्महासत्त्वैरभ्यस्तम् । तथाहि । (१) अध्येपतन्त्यभिसम्बोद्धु मनुत्तरां बोधिम् । (२) प्रेरयन्ति सत्त्वान् चित्तमुत्पादयितुं गम्भीरोदारम् । (३) प्रतिष्ठापयन्ति प्रणिधानं परिनिष्पन्नम् । (४) उत्सृजन्त्यात्मभावं धनानि च निगृह्णन्ति लोभं मात्सर्य च । (५) आचरन्ति पचस्कन्धशीलम् । विनयन्ति चापराधिनः । (६) भावयन्ति परमां क्षान्तिं द्वेषापरणनिग्रहाय (७) जनयन्ति वोर्योत्साहं सत्त्वप्रतिष्ठापनाय (८) संगृह्णन्ति ध्यानानि सत्त्वचित्तपरिज्ञानाय । (९) भावयन्ति प्रज्ञामविद्यानिरोधाय । (१०) प्रविशन्ति तथताद्वारमासङ्गप्रहाणाय । (११) प्रदर्शयान्ति गंभीरतमामलक्षणां शून्यताचर्याम् । (१२) अनुशंसन्ति पुण्यं बुद्धबीजानुच्छेदाय । इत्येवमादीनप्रमेयानुपायान् बोधिधर्मसहायभूतानि विशुद्धिमुखानि सर्वेभ्योऽनुत्तरकुशलकामेभ्यो विभज्य दर्शयामि सम्बोधयितुमनुत्तरां सम्यक्सम्बोधिम् ॥ २ । बुद्धपुत्रा बुद्धमाषितमुद्गृह्णाद्भिः सत्त्वानामर्थाय धर्म देश्यद्भि र्बुद्धपुत्रैः प्रथमं तावदनुशंसयितव्या बुद्धगुणा याञ्च्छ्रुत्वा सत्त्वाश्चित्तमुत्पादयेयुर्गवेषयितुं बुद्धप्रज्ञाम् । चित्तोत्पादहेतोर्बुद्धबीजमनुच्छिन्नं भवति । यदि भिक्षुभिक्षुण्युयासकोपासिका अनुस्मरन्ति बुद्धमनुस्मरन्ति धर्मं पुनरनुस्मरन्ति यत्तथागता बोधिसत्त्वमार्गसम्प्रस्थानकाले धर्म गवेषयितुमसंख्येयकल्पं प्रयत्नदुःखमुद्वहन्तीत्येवमनुस्मृत्या बोधिसत्त्वा नामर्थाय देशयन्ति धर्म यावदेकामपि गाथां येन धर्ममिमं श्रुत्वा बोधिसत्त्वा हितां देशनामभिनन्दत्त्यवरोपयन्ति कुशलमूलान्याचरन्ति बुद्धधर्म प्राप्रुवन्त्यनुत्तरां सम्यक्सम्बोधिम् ॥ ३ । सत्त्वानामप्रमेयाणामनादिजातिमरणदुःखोच्छेदाय बोधिसत्त्वा महसत्त्वा अभिलषन्त्यप्रमेयाणि कायचित्तानि । आचरन्ति वीर्यम् । गम्भीरमुत्पादयन्तिमहाप्रणिधानम् । अनुतिष्ठन्ति महोपायम् । उत्पादयन्ति महामैत्री महाकरूणाम् । गवेषयन्ति महाप्रज्ञामद्टष्टोष्णीषलक्षणाम् ॥ ४ । गवेषयन्त एवंविधान्महतो बुद्धधर्मान् ज्ञातव्यं यद्धर्मा अप्रमेया अपर्यन्ताः । धर्माणामप्रमेयत्वात्तत्पुण्यफलविपाकोऽप्यप्रमेयः । भगवानवोचत् । बोधिसत्त्वाश्चेदादिवोधिचित्तमुत्पादयन्ति तेषां तस्य दुर्बलस्यापि क्षणस्य पुण्यफलविपाकः कल्पकोटिशतसहस्रैरपि वक्तुं न पार्यते कथं पुअरेकदिनमेकमासमेकवर्ष यावच्छतवर्षं सम्प्रस्थितस्य चित्तस्य पुण्यफलविपाको वक्तुं पार्येत । तत्कस्य हेतोः । सर्वान्सत्त्वान्स्थापयितुमनुत्पादधर्मक्षान्तावभिसंबोधयिउमनुत्तरां सम्यक्सम्बोधिः बोधिसत्त्वचर्याया अनन्तत्वात् ॥ ५ । बुद्धत्मजा बोधिसत्त्वा आदिबोधिचित्तमुत्पादयन्ति । तथाहि । महासमुद्रो यदादौ समुदेति ज्ञातव्यः सोऽधममध्यमोत्तममूल्यानां यावद्मुल्यानां चिन्तामणिरत्नमुक्ताफलानामाकरो भवति । एषां रत्नानां महासमुद्रादुत्पत्तेः । बोधिसत्त्वस्य चित्तोत्पादा अप्येवम् । यदादिचित्तमुत्पद्यते ज्ञातव्यं तद्देवमनुष्याणां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां सर्वकुशलधर्माणां ध्यानस्य प्रज्ञायाश्चोत्पत्तेराकरः ॥ ६ । पुनस्तथाहि । त्रिसाहस्रमहासाहस्रो लोकधातुर्यदा समुदेति ज्ञातव्यं तत्र ये पंचविंशतिर्भवा स्तेषु यावन्तः सत्त्वाः सर्वान्वहति सर्वेषामाश्रयो भवत्यावासो भवति । बोधिसत्त्वस्य चित्तोत्पादा अप्येवम् । यदा तत्समुदेति सर्वेषामाश्रयो भवत्यप्रमेयाणां सत्त्वानाम् । षड्गतिषु चतुर्योनिषु ये सम्यग्मिथ्याद्टष्टयोऽभ्यस्तकुशलाभ्यस्ताकुशला रक्षितशुद्धशीलकृतचतुर्गुरुपाराजिकाः सत्कृतरत्नत्रयनिन्दितसद्धर्माः समलास्तैर्थिकाः श्रमणब्राह्मणाः क्षत्रियब्राह्मणवैश्यशूद्रास्तान् सर्वान् वहति सर्वेषामाश्रयो भवत्यावासो भवति ॥ ७ । पुनर्बोद्धिसत्त्वो मैत्री करुणां च पुरस्कृत्य चित्तमुत्पादयाति । मैत्री बोधिसत्त्वस्यापर्यन्ताप्रमेया तस्मादपर्यन्तश्चित्तोत्पादः सत्त्वधातुसमः । तथाहि । आकाशेन न किञ्चिद्यदनावृतम् । बोधिसत्त्वस्य चित्तोत्पादा अप्येवमप्रमेया अपर्यन्ता अक्षयाः । आकाशस्वाक्षयत्वात्सत्त्वा अक्षयाः सत्त्वानामक्षयत्वाद्बोधिसत्त्वस्य चित्तोत्पादा अपि सत्त्वधातुसमाः ॥ ८ । सत्त्वधातोर्नास्ति पर्यन्त इति बुद्धशासन मनुसृत्य संक्षेपत उच्यते । पूर्वदिक्पर्यन्तं सन्ति कोटिसहस्रगंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः । एवं दक्षिणपश्चिमोत्तरासु दिक्षु चतुर्षु विदिक्षूर्ध्वमध एकैकस्यां सन्ति कोटिसहस्र गंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः । अखिलास्ते चूर्णिता रजांसि भवेयु र्नेमानि रजांसि मांसचक्षुर्गोचराणि स्युः । कोटिशतसहस्र गंगानदीवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषुयावन्तः सत्त्वाः सर्वेते संगता उद्गृह्णीयुरेकं रजः । द्विगुणितकोटिशतसहस्र गंगानदिवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषु यावन्तः सत्त्वा गृह्णीयुस्ते द्वे रजसी । एवं विपरिवर्तनमाना उद्गृह्णन्तो दशदिक्ष्वेकैकस्यां कोटिसहस्र गंगानदी बालुकासमेष्व संख्येयेषु बुद्धलोकधातुषु यावत्पृथिवीभृतरजांसि पर्यन्तं नयेयुस्तथापि न पर्यन्तः सत्तवधातोः । तथाहि । कश्चित्पुरुषः केशमिकं शतधा विभज्यैकेन भागेन महासमुद्जलाज्जललवं गृह्णाति । मया सत्त्वानां विषये भाषितं तदेवमल्पं यश्चापि न मया भाषितं तद्यथा महासमुद्रजलम् । यदि नाम बुद्धोऽप्रमेयमपर्यन्तमसंख्येयं कल्पमवदानं व्याकरोति तथापि न पर्यन्तः । बोधिसत्त्वस्य चित्तोत्पादा अवृण्वन्त्येवंभूतानपि सत्त्वान्। तत्कथं बुद्धपुत्राः । स्याद्बोधिचित्तस्य पर्यन्तः ॥ ९ । यदि बोधिसत्त्वा एवंविधं भाषितं श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते न विनिवर्तिप्यन्ते न बिलयं गमिष्यन्ति ज्ञातव्यं ते ध्रुवमुत्पादयिष्यन्ति बोधिचित्तमिति । यदि हि सर्वेऽप्रेमया बुद्धा अप्रमेयमसंख्येयं कल्पं यावदनुशंसन्ति तद्गुणान् तथापि न पर्यन्तः । तत्कस्य हेतोः । बोधिचित्तस्यापरिमितत्वान्न पर्यन्तः । इत्येवमादीनप्रमेयांल्लाभान् व्याकुर्याद्येन सत्त्वाः स्स्सृण्वन्त्याचरन्तूत्पाद यन्ति बोधिचित्तम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रेऽव्येषणोत्पादोनाम प्रथमो वर्गः ॥) द्वितीयो वर्गः बोधिचित्तोत्पादः १ । बोधिसत्त्वः कथं बोधिचित्तमुत्पादयति । कैश्च प्रत्ययैः बोधि समुदागच्छति । यदि बोधिसत्त्वः परिचिनोति कल्याणमित्राणि । पूजयति बुद्धान् संगृह्णाति कुशलमूलानि । गवेपयति प्रणीतधर्मान् । भवति नित्यं सुरतचित्तः । क्षमते दुःखान्यापतितानि । भवति मैत्रः कारुणिक ऋजुचित्तः । भवति समचित्तशयः । श्रद्धयाभिनन्दति महायानम् । गवेषयति बुद्धप्रज्ञाम् । यदि पुरुषस्य सन्तिमे दशधर्मा उत्पादयत्यनुत्तरसम्यक्सम्बोद्दिचित्तम् ॥ २ । पुनश्चत्वारःप्रत्यया यैश्चित्तमुत्पादयति संग्रहीतुमनुत्तरां बोधिम् । कतमे चत्बारः । अनुविचिन्तयन्बुद्धान्बोधिचित्तमुत्पादयतीति प्रथमः । प्रत्यवेक्षमाणकायस्यादीनवान् बोधिचित्तमुत्पादयतीति द्वितीयः । दयमानः सत्त्वेषु बोधिचित्तमुत्पादयतीति तृतीयः । गवेषयन्नुत्तमं फलं बोधिचित्तमुत्पादयतीइ चतुर्थः ॥ ३ । बुद्धानुविचिन्तना पुनः पञ्चप्रकारा । अनुविचिन्तयति यद्दशदिक्ष्वतीतानागतप्रत्युत्पन्नाः सर्वे बुद्धाश्चित्तोत्पादारम्भेऽधुनाहमिवासन् क्लेशस्वभावाअन्ते चाभवन्सम्यक्सम्बुद्धा अनुत्तरा भगवन्त इति हेतो र्बोधिचित्तमुत्पादयामीति प्रथमा । अनुविचिन्तयति यत्सर्वे त्रिष्वध्वसु बुद्धा महोत्साहमुदपादयन् पृथक्पृथग्वाप्तुमनुत्तरां बोधिम् । यदि बोधिः प्राप्तव्यो धर्मो मयापि प्राप्तव्येतिहेतोरुत्पादयामि बोधिचित्तमिति द्वितीया । अनुविचिन्तयति यत्सर्वे त्रिष्वध्वसु बुद्धा उदपादयन्महाप्रज्ञां प्रत्यतिष्ठिपन्नाद्यावरणे वरचित्तं संचिन्वन्तो दुष्करचर्यामुददीधरन्नात्मानमत्यक्रमिषुस्त्रिधातुम् । अहमप्येवमात्मानमुद्धरेयमिति हेतोरुत्पादयामि बोधिचित्तमिति तृतीता । अनुविचिन्तयति यत्सर्वे त्रिष्वध्वनु बुद्धा लोकनायकाः पारंगता जातिजरामरणक्लेशमहासमुदात् । अहमपि पुरुषः पारं ब्रजेयमिति हेतोरत्पादयामि बोधिचित्तमिति चतुर्थी । अनुविचिन्तयति यत्सर्वे त्रिप्वध्वसु बुद्धा उदपादयन्महावीर्यमुदसृजन्नात्मभावं जीवितं धनानि चामार्गयन्सर्वज्ञताम् । अहमपि साम्प्रतमनुसरेयं बुद्धानिति हेतोरुत्पादयामि बोधिचित्तमिति पंचमी ॥ ४ । कायस्यादीनवप्रत्यवेक्षा बोधिचित्तोत्पादाय पुनः पंचप्रकारा । आत्मानं प्रत्यवेक्षते यत्कायेऽस्मिन्नुभये पञ्चस्कन्धाश्चतुर्महाभूतानि कुर्वन्त्यप्रमेयाण्यशुभकर्माणीतिकामयते तत्परित्यागमिति प्रथमा । आत्मानं प्रत्यवेक्षते यत्कायेऽस्मिन्नवच्छिद्राणि येभ्यः स्रवन्ति दुर्गन्धिमलामेध्यानीति कुरुते तं प्रत्यनादरमितिद्वितीया । आत्मानं प्रत्यवेक्षते यत्कायेऽस्मिल्लोभद्वेषमोहा अप्रमेयाः क्लेशा निर्दहन्ति कुशलचित्तमिति कामयते निर्वापयितुमिति तृतीया । आत्मानं प्रत्यवेक्षते यत्कायोऽयं फेनबुद्बुदवत्क्षणंक्षणमुत्पद्यते निरुध्यते तेन धर्माः प्रहातव्या इति कामयते प्रहातुमिति चतुर्थी । आत्मानं प्रत्यवेक्षते यत्कायोऽयमविद्यावृततया सर्वदा करित्यशुभकर्माणि संसरति षड्गतिषु न चास्य लाभ इति पंचमी । ५ । उत्तमफलगवेषणा बोधिचित्तोत्पादाय पुनः पंचप्रकारा । पश्यति तथागतानां भास्वरनिर्मलां सल्लक्षणानुव्यञ्जननिष्पत्तिं यां संगच्छतः क्लेशा व्यपगता भवन्तीति संगृह्णतीति प्रथमा । पश्यति तथागतानां धर्मकायं नित्यमवस्थितं परिशुद्धं निष्कलंकमिति संगृह्णतीति द्वितीया । पश्यति तथागतानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिशुद्धधर्मस्कन्धामिति संगृह्णतीति तृतीया । पश्यति तथागतानां दश बलानि चत्वारि वैशरद्यानि महाकरुणां त्रीणि स्मृत्युपस्थानानीति संगृह्णतीति चतुर्थी । पश्यति तथागतानां सर्वज्ञतां कृपां सत्त्वेषु यन्मैत्रीकरुणाभ्यां समावृत्य विभ्रान्तान्नयति सर्वान्सन्मार्गमिति संगृह्णतीति पञ्चमी ॥ ६ । कृपा सत्त्वेषु बोधिचित्तोत्पादाय पुनः पञ्चप्रकारा । पश्यति सत्त्वानविद्यया विनिबद्धानिति प्रथमा । पश्यति सत्वान्नानादुःखपर्यवस्थितानिति द्वितीया । पश्यति सत्त्वन्संगृह्णतोऽकुशलकर्माणीति तृतीया । पश्यति सत्त्वान्कुर्वतो गुरुतराणि दुश्चरितानीति चतुर्थी । पश्यतिसत्त्वाननाचरतः सम्यग्धर्ममिति पञ्चमी ॥ ७ । अविद्याबन्धनं पुनश्चतुःप्रकारम् । पश्यति सत्त्वान्मोहरागविभ्रान्तान्वेदयतो महाकृच्छ्रदुःखानीति प्रथमम् । पश्यति सत्त्वानश्रद्दधानान्हेतुफलयोः कुर्वतोऽशुभकर्माणीति द्वितीयम् । पश्यति सत्त्वानुत्सृजतः सम्यग्धर्मं श्रद्दधानान्मृषामार्गमिति तृतीयम् । पश्यति सत्त्वान्क्लेशनद्यां मज्जतश्चतुःप्रवाहेषून्मज्जत इति चतुर्थम् ॥ ॰ ८ । नानादुःखपर्यवस्थानं पुनश्चतुःप्रकारम् । पश्यति सत्त्वान्बिभ्यतो जातिजराव्याधिमरणेभ्यो विमोक्षमगवेषयतः कर्माणि पुनः कुर्वत इति प्रथमम् । पश्यति सत्त्वाञ्च्छोकपरिदेवदौर्मनस्यदुःखितान्नित्यमविश्रान्तकर्मण इति द्वितीयम् । पश्यति सत्त्वान्प्रियवियोगदुःखमूढानुपायासक्तानिति तृतीयम् । पश्यति सत्त्वानप्रियसंयोगदुःखितान्नित्यमतिक्रान्तभेदेर्ष्यानपि कृताप्रियानिति चतुर्थम् ॥ ९ । अकुशलसंग्रहःपुनश्चतुःप्रकारः । पश्यति सत्त्वान्कामारागात्कुर्वतोऽशुभानिति प्रथमः । पश्यति सत्त्वाञ्जानतोऽपि कामानां दुःखोत्पादकतमनुत्सृजतः कामानिति द्वितीयः । पश्यति सत्त्वान्सुखं कामयतोऽपि शीलपादविमुखानिति तृतीयः । पश्यति सत्त्वान्दुःखमनभिनन्दतोऽपि चरतोऽविरतं दुःखायेति चतुर्थः ॥ १० । गुरुतरपापाचारः पुनश्चतुःप्रकारः । पश्यति सत्त्वानपराध्यतोगुरुशीलं भयेऽपि प्रमादिन इति प्रथमः । पश्यतिसत्त्वान्कुर्वतोऽत्यन्ताशुभानि पञ्चानन्तर्यकर्माणि द्रोहावृतत्वेन नोत्पादयतो ह्रियमपत्रपांचेति द्वितीयः । पश्यति सत्त्वान्निन्दतो महायानवैपुल्यसद्धर्मान्वाल्यपरिगृहीतान्समुद्गतमदमानानिति तृतीयः । पश्यति सत्त्वान्बुद्धिमतोऽप्युच्छिन्दतः कुशलमूलान्यथापि मानिनो न कदाप्यनुशोचत इति चतुर्थः ॥ ११ । सम्यग्धर्मानाचरणं पुनश्चतुःप्रकारम् । पश्यति सत्त्वानष्टाक्षणेषु न शृण्वतः सद्धर्ममजानतश्चरितुं कुशलमिति प्रथमम् । पश्यति सत्त्वान्बुद्धोत्पादे नापितं सद्धर्मं शृण्वतोऽपि न गृह्णत इति द्वितीयम् । पश्यति सत्त्वानुद्गृह्णत स्तैर्थिकवादान्कुर्वत आत्मक्लमथानुयोगान्नित्यमपगच्छतो विमोक्षादिति तृतीयम् । दृश्यति सत्त्वांल्लब्धं नैवसंज्ञानासंज्ञां नाम समाधि निर्वाणमिवोद्गृह्णतः कुशलविपाकान्ते पुनश्च्यवतस्तिसृतिषु दुर्गतिष्विति चतुर्थम् ॥ १२ । बोधिसत्त्वः पश्यति सत्त्वानविद्ययाकर्माणि कुर्वतो दीर्घरात्रं वेदयतो दुःखानि परित्यजतःसद्धर्मं विस्मरतो निःसरणमार्गनित्येवं कारणादुत्पादयति महामैत्रीं करूणां प्रदीप्तशिरस्राणवच्च गवेषयत्यनुत्तरां सम्यग्यम्बोधिं सर्वान्सत्त्वा केशदुःखितानहमुद्धरामि निरवशेषमिति । बुद्धात्मजाः संक्षेपेण मेयदमुक्तम् । वादिकर्मिको बोधिसत्त्वः सकारणं चित्तमुत्पादयतीति । विस्तरेण चेदुच्येत न तस्य परिमाणं न तस्य पर्यन्तः ॥ (इति बोधिचित्तोत्पादसुत्रशास्त्रे बोधिचित्तोत्पादो नाम द्वितीयो वर्गः ॥) तृतियो वर्गः प्रतिधानम् १ । बोधिसत्त्वः कथमुत्पादयति बोधिम् । कया कर्मचर्यया परिपूरयति बोधिम् । उत्पादितचित्तो बोधिसत्त्वः शुविदर्शनाभूमि मधिष्ठितो द्टढ्मादावुत्पादयति सम्यक्प्रणिधानं संग्रहीतुं सर्वानप्रमेयान्सत्त्वान् । गवेषयाम्यहमनुत्तरां बोधिं पारत्रातुं निरवशेपं प्रापयितुमनुपधिनिर्वाणम् । तस्माच्चित्तोत्पादादरभ्य महाकरुणायाः करुणाचित्तेनोत्पादयति दशोत्तरणि सम्यक्प्रणिधानानि ॥ २ । कतमानि दश । कामये यन्मया पुरा जन्मनीहचानेन कायेन यदवरोपितं कुशलमूलं तदुत्सृजाम्यपर्मन्तेभ्यः सर्वसत्त्वेभ्यः । परिणामयामि च सर्वाननुत्तरायां बोधौ । क्षणं क्षणं प्रणिधानमेतन्मे संवर्द्धेत जातौ जातौ च जायेत नित्यं चित्तानुबद्धं न कदापि विस्म्रियेत धारण्या च परिक्ष्येत । कामये यदहं परिणाम्य महाबोधावनेन कुशलमूलेन सर्वजातिनिवासेषु नित्यं पूजयेयं सर्वबुद्धान्न कदाप्यबुद्धक्षेत्रेषु संभवेयम् । कामये यदहमुत्पद्य बुद्धक्षेत्रे षूपगच्छेयं बुद्धानुपतिष्ठेयं बुद्धाञ्छायेव शरीरमनुगतः क्षणमपि न दूरीभवेयं बुद्धेभ्यः । कामये यदहमुपगतो बुद्धांस्तै र्यथाकामं ममार्थाय देशितेन धर्मेण निष्पादयेयं बोधिसत्त्वपंचाभिज्ञानानि । कामये यदहं निष्पाद्य बोधिसत्त्वपंचाभिज्ञानानि संवृतिसत्यं विज्ञप्तिप्रसृतं प्रतिबुध्य परमार्थसत्यं भृतस्वमावं परिज्ञाय प्राप्नुयां सम्यग्धर्मज्ञानम् । कामये यदहं प्राप्य सम्यग्धर्मज्ञानमविश्रान्तचित्तेन देशयेयं सत्त्वेभ्यो निदर्शयितुमुपदेशहितानबबोधयितुं च तान्सर्वान् । कामये यदहमबबोध्य सर्वान्सत्त्वान्बुद्धानुभावेन गच्छेयं दशदिक्षु निरवशेषेषु लोकधातुषु पूजतितुं बुद्धाञ्छ्रोतुं सद्दर्मान् संपरिग्रहीतुं सत्त्वान् । कामये यदहं बुद्धक्षेत्रेषु सद्धर्ममुद्गृह्यानुप्रवर्तेयं परिशुद्धं धर्मचक्रम् । दशदि कथातुषु सर्वेसत्त्वा मम देशनां श्रुत्वा मम नामाकर्ण्य परित्यजन्तु सर्वान्क्लेशानु दयन्तु बोधिचित्तम् । कामये यदहं सर्वसत्त्वेषु बोधिचित्तमुत्पाद्य नित्यं परिपालुयितुं परिहरेयमलाभं प्रपच्छेयमप्रमेयसुखान्युत्सृजेयं जीवितं धनानिचोद्धरेयं सत्त्वानुद्वहेयं सद्धर्मम् । कामये यदहं सद्धर्ममुदूढय चरित्वापि सद्धर्मं चित्तेन नाचरेयम् । यथा सत्त्वा आचरितधर्माणोऽपि नाचरितधर्माणो न च नाचरितधर्माणः । विनेतुं वान्नोत्सृजेयं सम्यक्प्रणिधानम् । इतीमे समुत्पादितचित्तानां बोधिसत्त्वानां सम्यग्महाप्रणिधानानि । इमानि दशमहाप्रणिधानानि सर्वसत्त्वधातुषृद्गृह्णन्ति गंगानदीबालकासमानि प्रणिधानानि । यदि च सत्त्वानां समाप्तिः स्यान्मम धानानामपि समाप्तिर्भवेत् । नच खलु सत्त्वानां समाप्तिस्तेन मम प्रणिधानानामपि न समाप्तिः ॥ ३ । पुनः खलु दानं बोधिहेतुः सर्वसत्त्वानुग्राहकत्वात् । शीलं बोधिहेतुः दशलप्राप्त्या मूलप्रणिहितपरिपूरकत्वात् । क्षान्तिर्बोध्हेतुर्द्वत्रीशल्लक्षणाशीत्यनुप्यञ्जनसंप्रापकत्वात् । वीर्यं बोधिहेतुः कुशलाचारवर्धकतया सोत्साहं सत्त्वपरिपाचकत्वात् । ध्यानं बोधिहेतुर्बोधिसत्त्वानां सम्यगात्मसंयमनेन सत्त्वचित्तचर्याववोधकत्वात् । प्रज्ञा बोधिहेतुर्निरवशेपं धर्मभावलक्षणाववोधकत्वात् । संक्षेपत उच्यते षडिमाः पारमिता बोधेः सम्यघेतुः । चत्वारो ब्रह्मविहाराः सप्तविशद्बोधिपाक्षिका धर्मा सहस्रशः कुशलाचाराः सहकारिणः पूरयितारः । यदि बोधिसत्त्व आचरति षट्पारमितास्तदनुसृत्य चरति चर्यां क्रमेणोपैत्यनुत्तरां सम्यक्सम्बोधिम् ॥ ४ । बुद्धात्मजा बोधि गवेषयद्भिर्न प्रमदितव्यम् । प्रमादाचरणेन विनश्यतिकुशलमूलम् । बोधिसत्त्वो दमयति षडिन्द्रियाणि न प्रमाद्यति चेदाचरितुं शक्नोति षट्पारमिताः । बोधिसत्त्वश्चित्तमुत्पाद्य प्रतिष्ठापयति स्थैर्यं संप्रतिष्ठापयति द्टढं प्रणिधानम् । प्रणिहितं प्रतिष्ठाप्य न कदापि प्रमाद्यति न च भवति कुसीदो न च दीर्घसूत्रः । तत्कस्य हेतोः । प्रणिहितमधिष्ठितः पंचवस्तून्युद्गृह्णाति । द्टढयति चित्तमिति प्रथमम् । अतिक्राम्यति क्लेशानिति द्वितीयम् । निरुणद्धि विचिन्त्य प्रमादचित्तमिति तृतीयम् । भिनत्ति पंचनीवरणानीति चतुर्थम् । सोत्साहमाचरति षट्पारमिता इति पंचमम् । तथाचानुशंसितं भगवता तथागतै र्महाप्राज्ञै र्भहाप्राज्ञै र्भगवद्भि व्याख्यातेषु गुणेषु क्षान्तिप्रज्ञापुण्यवलानामधिगमेषु प्रणिधानबलमुत्तममिति ॥ ५ । कथं प्रतिष्ठापयति प्रणिधानम् । यदि कश्चिदायाति बहुबिधं याचितुं तदहं ददामि यावन्नोत्पादयामि क्षणमपि मात्सर्यचित्तम् । क्षणमपिनिमेषमप्युत्पादय न्नशुभचित्तं दानप्रत्ययेन चेद्गवेषयामि शुभविपाकं तदहं प्रतारयामि दशदिक्षु भगवतोऽप्रमेयानापर्यन्तानसंख्येयान् प्रत्पुत्पन्नांस्तथागताननागतेऽश्वन्यपि न पूरयेयं ध्रुवमनुत्तरां सम्यक्सम्बोधिम् । यद्यहंधारयामि शीलं यावदुत्सृजन्नप्यात्मभावं (जीवितं) प्रतिष्ठापयामि परिशूद्धं चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते नानुशोचामि । यद्यमाचरामि क्षान्तिं परेणाक्रान्तः प्रत्यंगं विभज्यमानोऽपि च्छिद्यमानोऽप्युत्पादयामि नित्यं मैत्रीं प्रणिदधामि यन्नाचरेयं द्वेषम् । यद्यहमाचरामि वीर्यमुपलभ्य शीतोष्णराजदस्युजलाग्निसिंहव्याघ्रवृकनिर्जकान्तारान् द्टढिकरोमि चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते । यद्यहं भावयामि ध्यानं बाह्यै र्वस्तुभिः क्लिश्यमानोऽपि व्याकुलचित्तौऽप्यनुबध्नामि स्मृतिं कर्मस्थाने । क्षणमपि न कदाचिदुत्पादयाम्यधर्म्यां विक्षेपसंज्ञाम् । यद्यहं भावयामि प्रज्ञां सर्वधर्मास्तथताभूतान्पश्यन्परिगृह्णपि । कुशलाकुशलेषु संस्कृतासंस्कृतेषु जातिमरणनिर्वाणेषु नोत्पादयामि द्वैतद्टष्टिम् । यद्यहं निमेषमपि क्षणमप्यनुशोचन्द्विषन् प्रतिनिवर्तमानः संज्ञां विक्षिपन् द्वैतद्टष्टिमुत्पादयञ्छिलक्षान्तिवीर्यध्यानप्रज्ञाभिः शुभविपाकं गवेषयामि तदहं प्रतारयामि दशदिग्लोकधातुष्वप्रमेयानपर्यन्तानसंख्येयान् प्रत्युत्पन्नांस्तथागतान् । अनागतेऽध्वन्यपि न खलुपूरयेयमनुत्तरां सम्यक्संबोधिम् । ६ । बोधिसत्त्वो दशमहाप्रणिधानै र्गृह्णाति सद्धर्मचर्याम् । षण्महा प्रणिधानै र्दमयति प्रामदचित्तम् । सोत्साहं वरति वीर्यम् । आचरति षत्पारमिताः परिपूरयत्यनुत्तरां सम्यक्संबोधिम् ॥ (इति बोधिचित्तोत्पादसुत्रशात्रे प्रणिधानं नाम तृतीयो वर्गः ॥) चतुर्थो वर्गः दानपारमिता १ । बोधिसत्त्वः कथं दानं ददाति । दानमात्मपरोभयलाभाय चेदेवंविधं दानं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि ददाति तस्माद्दानम् । दानमुत्सृजन्नित्यमुत्पादयत्यात्मवित्तेषु त्यागचित्तम् । याचकेषु मातापितृगुरुकल्याणमित्रेष्विवोत्पादयत्यादरचित्तम् । जनयति मातापितृगुरुकल्याणमित्रसंज्ञाम् । पुत्र इवोत्पादयति दरिद्रेषु हीनेषु करुणाचित्तम् । जनयति पुत्रसंज्ञाम् । यथाप्रार्थितं वितरत्यादरेण मुदितचित्तेनेत्युच्यते बोधिसत्त्वस्यादिदानचित्तम् ॥ २ । दानचर्याहेतोः प्रसरति यशः । यत्र व कचिज्जायते भवन्त्यस्य प्रभृतानि धनानीत्यस्यात्मलाभः । तर्पयन्सत्त्वानां चित्तं शिक्षयति विनयति विदधाति तानविमत्सरानित्येष परलाभः । वितरन्नलक्षणं महादानं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्येष उभयलाभः । दानचर्याहेतोः प्राप्नोति वर्तिपदम् । उपसंगृह्णात्यप्रमेयान्सर्वसत्त्वान्यावदाप्राप्ते र्बुद्धत्वस्याक्षयधर्मकोशभ्येत्येवं निष्पादयति बोधिमार्गम् ॥ ३ । दानं त्रिविधम् । प्रथमं धर्मदानं द्वितीयमभयदानं तृतीयमामिपदानम् । धर्मदानमुद्बोधयति लोकाञ्छीलग्रहणाय प्रव्रज्याचित्तचरणाय । मिथ्याद्टष्टेः प्रहाणाय देशयति शाश्वतोच्छेदौ, चतुरः विपर्यासान् पापानामादीनवं च, विभज्य प्रकाशयति परमार्थमनुशंसति वीर्यगुणान्भाषते प्रमादात्ययपापमित्युच्यते धर्मदानम् । यदि सत्त्वो विभेति नृपात्संहाद्व्याब्राद्वृकाज्जलादग्ने र्दस्योश्चौराद्वा बोधिसत्त्वो दृष्टे तत्परित्रायतित्यमयदानम् । आत्मनो वित्तानि यावद्रत्नं हस्तिनमश्वं रथं वस्राणि धान्यं वाससी पेयं खाद्यं यावत्कवलमात्रमेकसूत्रं प्रभूतमल्पं वा वितरन्न मात्सर्यं कुरुते । यथाप्रार्थितं तर्पयति याचकानित्यामिषदानम् ॥ ४ । आमिषदानं पुनः पञ्चविधम् । प्रथमं सरलचित्तदानं द्वितीयं श्रद्धा चित्तदानं तृतीयं यथाकालदानं चतुर्थं स्वहस्तेन दानं पंचमं यथाधर्मदानम् ॥ ५ । अदातव्यं दानं पुनः पंचप्रकारम् । अधर्मेणोपार्जितं धनं न दातव्यं स्यापरिशूद्धत्वात् । मद्यं न दातव्यं परेभ्यो विषं च सत्त्वानां विक्षेपसत्त्वात् । मृगयोपकरणानि न दातव्यानि परेभ्यस्सत्त्वानां क्लेशकरत्वात् । न दातव्याः परेभ्यस्सत्त्वानां हिसकत्वात् । गीतं स्त्रियश्च न दातव्याः परेभ्यश्चित्तपवित्रताया दूषकत्वात् । संक्षेपत उच्यते । यन्न यथाधर्मं यच्च विक्षेपकरं विक्षेपकरं सत्त्वानां तन्न दातव्यं परेभ्यः । शिष्टं सर्वं यत्सुखयति सत्त्वांस्तदुच्यते यथाधर्मदानम् ॥दानरिचिर्लभते पंचबिधं कीर्तिकुशललाभम् । सामीप्यं लभते सर्वसतामिति प्रथमः । सर्वे सत्त्वास्तं द्रष्टुमभिलषन्तीति द्वितीयः । जनकायं प्रविष्टः सत्क्रियते जनैरिति तृतीयः । प्रसरन्नस्य यशोवर्णः श्रूयते दशसु दिक्ष्विति चतुर्थः । भवति बोधेः सम्यगुत्तमो हेतुरिति पंचमः ॥ ६ । बोधिसत्त्वः सर्वदातेत्युच्यते । सर्वदानं न बहुधनं किन्तु दानचित्तम् । यथाधर्मं धनमुपार्ज्योपादाय यद्ददाति तदुच्यते सर्वदानं परिशुद्धचित्तेन यदशाठयदानं तदुच्यते सर्वदानम् । दरिद्रान्द्टष्ट्रा दयाचित्तेन यद्ददाति तदुच्यते सर्वदानम् । दुःखितान्द्टष्ट्रा करुणाचित्तेन यद्ददाति तदुच्यते सर्वदानम् । दरिद्रोऽल्पधनोऽपि यद्ददाति तदुच्यते सर्वदानम् । स्पृहणीयानि रत्नजातान्युदारचित्तेन यद्ददाति तदुच्यते सर्वदानम् । अपश्यञ्छीलाशीलं क्षेत्राक्षेत्रं यद्ददाति तदुच्यते सर्वदानमपश्यश्ण्छिलाशीलं क्षेताक्षेत्रं यद्ददाति तदुच्यते सर्वदानम् । अगवेषयन्देवमानुपकल्याणसुखानि यद्ददाति तदुच्यते सर्वदानम् । गवेषयन्ननुत्तरां बोधि यद्ददाति तदुच्यते सर्वदानम् । दित्सया दानकाले प्रदाय यन्नानुशोचति तदुच्यते सर्वदानम् ॥ ७ । यदि पुष्पाणि ददाति लभते धारणीसप्तबोधिपुष्पाणि । यदि गन्धं ददाति लभते शीलसमाधिप्रज्ञाः । (शीलसमाधिप्रज्ञाधूपं प्रज्वाल्य) धूपयति चात्मानम् । यदि फलं ददाति लभते पूरयति चानास्रवफलम् । यद्याहारं ददातिकायवाग्रू पवलसुखसम्पन्नोभवति । यदि वस्त्राणि ददाति लभतेऽवदातं रूपमपनयत्याह्रीक्यमनपत्राप्यम् । यदि प्रदीपं ददाति बुद्धचक्षुर्लभते भास्वरं सर्वधर्मस्वभावानाम् । यदि हस्त्यश्वरथयानानि ददाति लभतेऽनुत्तरं यानमृद्धिंच । यद्यलङ्कारान्ददाति लभतेऽशीत्यनुव्यञ्जनानि । यदि रत्नानि ददाति लभते द्वात्रिंशन्महापुरुषलक्षणानि । परिश्रमेण [सत्त्व-]सेवां यद्याचरति लभते दशवलानि चतुर्वैशरद्यानि । संक्षेपत उच्यते । राष्ट्रं नगरं दारान्पुत्राञ्छिर श्चक्षुर हस्तपादौ यावत्सर्वकायं ददात्यन्तरा चित्रमात्सर्यं प्राप्तमनुत्तरां बोधिं परिनिर्वापयितुं सत्त्वान् । बोधिसत्त्वो महासत्त्व आचरन्दानचर्यां भवत्यवित्तद्टष्टि र्दानादानयोरलक्षणत्वात्ततस्मात्पूरयति दानपारमिताम् ॥ (इति बोधिचित्तोत्पादसृत्रशास्त्रे दानपारमिता नाम चतुर्थो वर्गः ॥) पंचमो वर्गः शीलपारमिता १ । बोधिसत्त्वः कथमाचरतिशीलम् । शीलमात्मपरोभयलाभाय चेदेवंविधं शिलं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयतेविनेतुं सत्त्वानपर्हतुं दुःखान्याचरति तस्माच्छीलम् । शीलमाचरन्सर्वाणि पवित्रयति कायवाङ्मनःकर्माणि । अकुशलचर्यासु परिहरति चित्तम् । सम्यक्प्रभवति चावज्ञापयितुं दुष्कृतं शीलविधातं च । क्षुद्रेष्वपि पातकेषु चित्तेन विभेति नित्यमित्युच्यते बोधिसत्त्वस्यादिशीलचित्तम् । २ । शीलाचरणहेतोः सर्वान् परित्यजति पापात्ययान् कुशलावासेपूत्पद्यते नित्यमित्यस्यात्मलाभः । शिक्षयति सत्त्वानकर्तुं दुष्कृतमिति परलाभः । चरित्वाबोधये शीलं परिणाम्य सत्त्वेष्वात्मना सलाभिनः करोतित्युभवलाभः । शीलाचरणहेतोर्लभते वैराग्यं यावत्क्षपयत्यास्रवान्परिपूरयति चानुत्तरां सम्यक्सम्बोधिमिति निष्यादयति बोधिमार्गम् ॥ ३ । शीलं तावत्त्रिविधम् । प्रथमं कायशीलं द्वितीयं वाक्शीलं तृतीयं चित्तशीलम् । उद्गृह्णन्कायशीलं साकल्येन परिहरतिहिंसास्तैन्यकाममिथ्याचारान् । विरतः प्राणातिपाताद्विरतोऽदत्तादानाद्विरतोऽब्रह्मचर्यान्नपुनर्विदधाति प्राणातिपातादीनां हेतुप्रत्यायांन्स्तेषामुपायांश्च न च प्रहरतो सत्त्वान्दण्डेन काष्ठेनेष्टिकया प्रस्तरेण वा । परकीयमर्थजातं परकीयं भोग्यजातं यावत्तृणमात्रमपि पत्रमात्रमपि नादत्तमादत्ते न च खलु पुनः कदाचिदपिमोहकं रूपं निरिक्षते । चतुर्षु सादरीभवतीर्यापथेष्वित्युच्यते कायशीलम् ॥ ४ । उद्गृह्णन्वाक्शीलं साकल्येन प्रजहाति मृषावादं पैशुन्यं पारुष्यं सम्भिन्नप्रलापम् । न कदापि प्रतारयति न च संगतान्भिनत्ति नाभ्याख्याति न च कृत्रिमां वाचमुदाहरति नापि लोकाप्रासादकमुपायमारचयति भाषते विश्वस्तं मधुरमकपटं भाषते नित्यहितम् । शिक्षयति कुशलमाचरितुमित्युच्यते वाक्शीलम् ॥ ५ । उद्गृह्णंश्चित्तशीलं निरुणद्धि लोभद्वेषमिथ्याद्टष्टीः । नित्यं विदधाति मृदुचित्तम् । नात्ययानाचरति । श्रद्धधाति पापकर्मणामशूभं फलं भवतीति भवनाबलेन नाशुभान्यचरति । क्षुद्रेष्वपि पारेषु जनयति गुरुतर (पाप)संज्ञाम् । अज्ञानतः कुर्वन्पापानि विभेति पश्चात्तत्पत्ते सत्त्वेषु नोत्पादयति द्वेषम् । द्टष्ट्वा सत्त्वानुत्पादयति स्नेहचित्तम् । कृतं जानाति प्रत्युपकरोप्यविमत्सरचित्तः । पुण्याचरणे छन्दं जनयन्नित्यं शिक्षयति जनान् । नित्यंभावयति मैत्रीचित्तम् । करुणायतेसर्वेष्वित्युच्यते चित्तशीलम् ॥ ६ । एतेषां दशकुशलकर्मपथानां पंचाकारो लाभः निगृह्यते दुश्चरितमिति प्रथमः । उत्पद्यते कुशलचित्तमिति द्वितीयः । निरुध्यन्ते क्लेशा इति तृतीयः । परिपूर्यते विशुद्धचित्तमिति चतुर्थः । समेधते शीलमिति पंचमः ॥ ७ । कुशलमचरन्पुरुषो न चरति चेत्प्रमादमधिगच्छति सम्यक्स्मृतिम् । विविनक्ति कुशलाकुशलम् । ज्ञातव्यमेवंविधः प्रभवति पुरुषो ध्रुवमाचरितुं दशकुशलकर्माणि । चतुरशीतिसहस्राण्यम्प्रमेयाणि शीलाङ्गानि दशकुशलेष्वेव शीलेष्वन्तर्भवन्ति । सन्तीमानि दशकुशलशीलानि सर्वकुशलशीलमूलानि । प्रहाणात्कायवाक्चित्तशूभानां निरोधात्सर्वाकुशलधर्माणामुच्यते शीलमिति ॥ ८ । शीलं पंचविधम् । प्रथमं प्रातिमोक्षशीलम् । द्वितीयं ध्यानसहचरशीलम् । तृतीयमनास्रवशीलम् । चतुर्थमिन्द्रियदमनशीलम् । पंचममविज्ञप्तिशीलम् । चतुरुदीरितज्ञप्तिकर्मणोपाध्यादवाप्तमुच्यते प्रातिमोक्षशीलम् । चतुर्मौलध्यानचतुरसमापत्तिध्यानमुच्यते ध्यानशीलम् । मौलचतुर्ध्यानप्रथमध्यानासमापत्तिरुच्यतेऽनास्रवशीलम् । दमन्निन्द्रियाणि विदधाति सम्यक्स्मृतिचित्तम् । पश्यञ्छृण्वन्बुध्यञ्जानब्रू पशब्दगन्धरसस्प्रष्टव्यानि नोत्पादयत्यसंप्रजन्यमित्युच्यत इन्द्रियदमनशीलम् । उत्सृजत्यात्मभावमनागतेऽध्वन्यकर्तुं पुनरशुभमित्युच्यतेऽविज्ञप्तिशीलम्। ९ । बोधिसत्त्व आचरति शीलं श्रावकप्रत्येकबुद्धावेणिकम् । अवेणिकत्वादुच्यते कुशलशीलग्रहणम् । कुशलशीलग्रहणत्वात्करोति सर्वसत्त्वांल्लाभिनः गृह्णन्मैत्रीचित्तशीलं परित्रायते सुखयितुं सत्त्वान् । गृह्णन् करुणाचित्तशीलं क्षमते सर्वदुःखान्युद्धर्तुं विपत्तिः । गृह्णन्मुदिताचित्तशीलं नन्दत्यकुशीदत्वाच्च कुशलान्याचरति । गृह्णन्नुपेक्षाचित्तशीलं शवुमित्रयोर्भवतिउ समः परिहर्तुं रागद्वेषम् । गृह्णाति दानशीलं शिक्षयितुं सान्त्वयितुं च सर्वसत्त्वात् । गृह्णन् क्षान्तिशीलं भवति नित्यं मृदुचित्तो द्वेषावरणबप्रहीणत्वात् । गृह्णन्वीर्यशीलं वर्धयति प्रतिदिनं कुशलकर्माण्यप्रतिनिवर्तनात् । गृह्णन्श्यानशीलं प्रजहाति रागमकुशलं वर्धयितुध्यानाङ्ःानि । गृह्णन् प्रज्ञाशीलं बहु शृणोति कुशलमूलं (तत्प्रति) अतृप्तेः । गृह्णाति कल्याणमित्रसंग्रहशीलं परिपूरयितुं बोधिमनुत्तरं मार्गम् । गृह्णात्यकल्याणभित्रपरित्यागशीलं परित्यक्तुं त्रिविधं दुश्चरितमष्टौ भयस्थानानी ॥ १० । बोधिसत्त्वो गृह्णन्परिशुद्धशीलं न प्रतिष्ठितो भवति कामधातौ न च रूपधातौ नापि च प्रतिष्ठितो भवत्यरूपधाताविति परिशुद्धशीलम् । परिहरति रागरजास्यपनयति द्वेषावग्णं निरुणद्ध्यविद्यावरणमिति परिशुद्धशीलम् । परिहारति द्वावन्तौ शाश्वतं चोच्छेदं चाप्रतिलौमहेतुप्रत्ययेनेति परिशुद्धशीलम्। न स्पृशति रूपवेदनासंज्ञासंस्कारविज्ञानानि प्रज्ञप्तिलक्षणानीति परिशुद्धशीलम् । न बध्नाति हेतौ नोत्पादयति द्टष्टीर्न प्रतिष्ठापयति विचिकित्साकौकृत्ये इति परिशुद्धशीलम् । न प्रतिष्ठापयति रागद्वेषमोहास्त्रीण्यकुशलमूलानीति परिशुद्धशीलम् । न प्रतिष्ठापयत्यात्ममानं मदमानमभिमानं मानातिमानं महामानं मृदुः कुशलस्निग्धो भवतीति परिशुद्धशीलम् । नेञ्जति लाभालाभनिन्दाप्रशंसायशोऽयशसुखदुःखेषु नानुलिप्यते लोकसत्ये शून्ये प्रज्ञतौ भवति चानुगतः परमार्थसत्यमिति परिशुद्धशीलम् । अक्लेशमपरितापं शान्तं विमुक्तिलक्षणमिदंशीलम् । संक्षेपत उच्यते कायजीवित निरपेक्षोऽनित्यसंज्ञादर्शनेनोत्पादयति वैराग्यं सोद्योगं कुशलमूलं भावयन्नभ्युत्साहेन वीर्यमाचरतीति परिशूद्धशीलम् । बोधिसत्त्वस्य शीलमाचरतो न भवति परिशूद्धचित्तद्टष्टिः संज्ञाविमुक्तिहेतोरितीयं शीलपारमिता ॥ (इति बोधिचित्तात्पादसुइत्रशास्त्रे शीलपारमिता नाम पंचमो वर्गः ॥) षष्ठो वर्गः क्षान्तिपारमिता १ । बोधिसत्त्वः कथमाचरति क्षान्तिम् । क्षान्तिरात्मपरोभयलाभाय चेदेवंविधा क्षान्तिर्निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हर्तुं दुःखान्याचरति तस्मात्क्षान्तिम् । क्षान्तिमाचरतश्चितं विनीतं भवति । सत्त्वानामुपेक्षते बलवन्मदमानं (स्वयं) न चाचरति । पश्यन्तुद्वृत्तानुत्पादयति करुणाम् । मृदुलमुदीरयन्देशयति कुशलचर्याम् । विभज्य दर्शयति यो द्वेपो या च क्षान्तिर्यश्च तयोर्विपाक इतीदं बोधिसत्त्वस्यादिक्षान्तिचित्तम् ॥ २ । क्षान्त्याचरणहेतोः पापकं विदुरी भवति । कायचित्तं प्रशान्तं भवतीत्यस्यात्मलाभः । विनयति सत्त्वाननुवर्तते सर्वानिति परलाभः । चरित्वा महतीमनुत्तरां क्षान्ति सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । क्षान्तिचर्याहेतोर्लभते जनमतं यावल्लभते बुद्धस्य शोभनोत्तमानि लक्षणानुव्यञ्जनानीति निष्पादयति बोधिमार्गम् ॥ ३ । क्षान्तिस्त्रिविधा । तद्यथा कायक्षान्तिर्वाक्क्षान्ति र्मनःक्षान्तिश्चेति । का नाम कायक्षान्तिः । यदि कश्चनाक्रोशति निन्दति ताडयति यावताहरति तत्सर्वं क्षमते । पश्यन्सत्त्वानत्राणे भये च व्यतिहरति तैरात्मानं न च श्राम्यतीति कायक्षान्तिः ॥ ४ । का नाम वाक्क्षान्तिः । आक्रोशकं पश्यन्न प्रत्याक्रोशति निःशब्दं क्षमते । आकोशकमकारणमप्युपगतं विलोकयन्मधुरया गिरा सम्प्रतीच्छति । मृपैव दूष्यमाणो निर्निमित्तमभ्याख्यातः सर्वं क्षमत इति वाक्क्षान्तिः ॥ ५ । का नाम मनःक्षान्ति । द्वेषिणमवलोकयन्नोद्गृह्णाति द्वेपचितं कोपितो न विकरोत्यात्मचित्तम् । निन्दापकीर्तिष्वति चित्ते भवति निवैर इति मनःक्षान्ति ॥ ६ । ताडितं जगति द्विविधम् । उचितमनुचित्तं च । सत्यपराधे संदिहानेन केन चिज्जनेन ताडितः क्षमेतामृतमिवोद्गृह्णीयादादरमुत्पादयेत्ताडयितरि । कस्मात् । साधु शीलं शिक्षयन्मां चिकित्सति पापादपनयति । यद्यनुचितमेव मामपकरोति मामपहन्ति तदा चिन्तयेन्न कृतो मयापराधोऽतीतकर्मणामेवैतत्कारितं तेन सोढव्यमेच । पुनरेवं विभावयेद्यत्वारि भूतानीमानि पञ्चस्कंघप्रत्ययैरभिसंहतानि यानि ताडयन्ते ताडयन्ति च । पुनरेवं पश्येद्यत्स पुरुषोऽज्ञ इवोन्मत्त इवेति मया करुणायितव्यं किमुत न क्षन्तव्यम् ॥ ७ । आक्रोशो द्विविधः । उचितोऽनुचितश्च । उचितमुक्तं चेन्मयापत्रप्तव्यम् । अनुचितमुक्तं चेन्मवा न किंचिदपि कर्तव्यम् । धवनिरिव वायुरिव चातिगच्छन्नापकरोति मामिति सोढव्यम् । द्विष्टोऽप्येवमेव सोढव्यः । कुपितो मयि मया सोढव्यः । अहं चेत्तं प्रतिकुप्येयं दुर्गतिमधिगच्छेयमनागतेऽध्वनि वेदयेयं महादुःखम् । प्रत्ययैरेभिर्मम कायश्चेद्भिद्येत विशीर्येत मया नोत्पादनीयो द्वेपः । प्रत्ययानामतीतकर्मणामेतदिति गम्भीरं प्रत्यवेक्षणीयं करूणाचरणीया मैत्री च । करुणायितव्यं सर्वेषु । यद्येहं न प्रभवाम्येवमल्पमपि दुःखं सोढुं न च शक्नोमि दमयितुं स्वचित्तं तत्कथमहं प्रभविष्यामि विनेतुं सत्त्वान्विमोचयितुं सर्वानकुशलधर्मान्पूरयितुमनुत्तरं फलम् ॥ ८ । यो हि धीमान्सुखेन क्षान्तिमाचरति लभते स आकारवैशिष्ट्यम् । बहुधनौ भवति जनास्तमवलोक्य मुदिता भवन्ति सुखिताश्च भवन्ति सुखिताश्च भवन्ति मानयन्त्यनु वर्तन्ते च । पुरुषं चेद्विकलाङ्गं पश्येद्वीभत्सदर्शनं विकलेन्द्रियमकिञ्चनं जानियात्तदिदं द्वेपप्रत्ययैः कारितम् । एभिः प्रत्ययै धींमानाचरेद्गम्भीरां क्षान्तिम् ॥ ९ । क्षान्त्युत्पादप्रत्ययस्य सन्तीमानि दश वस्तूनि । आत्मनि नात्मलक्षणं पश्यतीति प्रथमम् । न जातिमेदं मनसि करोतीति द्वितीयम् । प्रतिनिवर्तते मदमानादिति तृतीयम् । अपकुर्वन्तं न प्रत्ययकरोतीति चतुर्थम् । अनित्यलक्षणं पश्यतीति पंचमम् । मैत्री करुणा चाचरतीति षष्ठम् । न चित्तेन प्रमाद्यतीति सनमम् । उपेक्षते क्षुत्पिपासादुःखदुःखादीनीत्यष्टमम् । द्वेपं प्रजहातीति नवमम् । प्रज्ञा भावयतीति दशमम् । पुरुषश्चेदिमानि पूरयति दश वस्तृमि ज्ञातव्यं शक्नोति स पुरुषः क्षान्तिमाचरितुम् ॥ १० । बोधिसत्त्वो महासत्त्वः परिशुद्धायां यदाचरति चरमायां क्षान्तौ प्रविशते शून्यतामलक्षणमप्रणिहितमसंस्कृतम् । न च द्टष्टिज्ञानप्रणिहितसंस्कृतैः संपरिष्वक्तो भवति नापि च शून्यतालक्षणाप्रणिहितासंस्कृतेषु रज्यति । दृष्टिज्ञानप्रणिहितसंस्कृतं सर्वमेवशून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । यदि विशति संयोजनपरिक्षयं यदि विशति शान्तं निर्वाणमसंपृक्तजातिमरणं न चास्य रागो भवति संयोजनक्षये न च शान्ते न निर्वाणे । संयोजनजातिजरामरणं सर्वं शून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । भावो न स्वतो जायते न परतो जायते न द्वाभ्यां जायते । अपि च नास्त्युपादो न चोच्छेदो न च विनाशो न चाविनाशो न क्षय इत्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । न कृताकृतं नासंगो न भेदो न निष्पत्तिर्न चर्या नोत्पादवीर्यं न करणोत्पाद इत्येवंविधा क्षान्तिरनुत्पादक्षान्तिः । बोधिसत्त्वो यदाचरत्येवंविधां क्षान्ति लभते व्याकरणक्षान्तिम् । बोधिसत्त्व आचरति क्षान्तिं भावलक्षणशून्यतां सत्त्वाभावहेतौस्ततः पूरयाते क्षान्तिपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे क्षान्तिपारमिता मान षष्ठो वर्गः ॥) सप्तमो वर्गः वीर्यपारमिता १ । बोधिसत्त्वः कथमाचरति वीर्यम् । वीर्यमात्मपरोभयलाभायचेदेवंविधं वीर्यं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानापर्हतुं दुःखान्याचरति तस्माद्वीर्यम् । वीर्यमाचरन्सर्वाध्वसु सर्वदोत्साहचर्यया संगृह्णाति परिशूद्धं ब्रह्मचर्यं परिहरति कौसीद्यं न च चित्तेन प्रमाद्यति । कृच्छ्रेष्वहितापक्षवस्तुषु सर्वदास्य वीर्यवत्तया चित्तं नान्ततः प्रत्यावर्तत इति बोधिसत्त्वस्यादि वीर्यचित्तम् ॥ २ । वीर्याचरणेन लभते लोकचरं लोकोत्तरमनुत्तरं सद्धर्ममित्यस्यात्मलाभः । शिक्षयति सत्त्वान्येनाचरंत्यभ्युत्साहेन कुशलमिति परलाभः । चरित्वा बोधेः सम्यघेतुं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । वीर्यचर्याहेतोर्लभते परमपरिशुद्धं सत्फलमतिक्रम्य च भूमी र्यावच्छीघ्रं पूरयति सम्बोधिमिति निष्पादयति बोधिमार्गम् ॥ ३ । वीर्यं द्विविधम् । गवेपयत्यनुत्तरं मार्गमिति प्रथमम् । परित्रातुं दुःखाद्विपुलाभिलापेण वीर्यं जनयतीति द्वितीयम् । पूरयन्बोधिसत्त्वो दशानुस्मृतीरुत्पादयति बोधिचित्तम् । आचरति वीर्यम् । का दशानुस्मृतयः । प्रथमा बुद्धानुस्मृतिरप्रमेयपुण्या । द्वितीया धर्मानुस्मृतिरचिन्त्यविमुक्तिः । तृतीया संघानुस्मृतिः परिशुद्धतया निष्कलंका । चतुर्थी महामैत्र्यनुस्मृतिः सत्त्वव्यवस्थापनाय । पंचमीमहाकरुणानुस्मृतिर्दुःखतः परित्राणाय । षष्ठी सम्यक्समाधिस्कन्धानुस्मृतिरनुरोचयितुं कुशलाचरणाय । सप्तमी मिथ्यासमाधिस्कन्धानुस्मृतिरुद्धर्तुं (सत्त्वान् कुशल-)मूलं प्रत्यानयनय । अष्टमी प्रेतानुस्मृतिः क्षुत्पिपासोष्णताक्लेशमयी । नवमी तिर्यगनुस्मृति दीर्घदुःखवेदनात्मिका । दशमी नरकानुस्मृतिर्दाहनभर्जनवेदनात्मिका । बोधिसत्त्व एवं भावयति दशानुस्मृतीस्त्रिरत्नपुण्यानि । भावयेयमहं सम्यक्समाधि मैत्री करुणां (तत्र) सत्त्वानारोचयेयमहं मृषा ध्यायतस्त्रिदुर्गतिदुःखादुद्धरेयं नित्यमहं परिरक्षयेयमित्येवं चिन्तयति । संचिन्तयन्नविक्षितं दिवानक्तं भावयति सोत्साहं न च विश्राम्यतीति सम्यक्स्मृतिता वीर्यं समुदेति ॥ ४ । वीर्यं पुन र्बोधिसत्त्वस्य चतुर्विधम् । तथाहि । चतुःसम्यक्प्रधान [प्रहाण]मार्गमाचरतोऽनुत्पन्नानामकुशलानां धर्माणां पुनरनुत्पादः । उत्पन्नानां पुनरकुशलानां धर्माणां शीघ्रं सम्प्रहाणम् । अनुत्पन्नानां कुशलानां धर्माणामुपायेन समुत्पादः । उत्पन्नानां कुशलानां धर्माणां परिपूरणं संवर्द्धनं च । एवं बोधिसत्त्व आचरति चत्वारि सम्यक्प्रधानानि न च विश्राम्यतीत्युच्यते वीर्यम् । ५ । वीर्यं क्षपयति सर्वक्लेशधातून्सम्प्रवर्धयति बोधेरनुत्तरायाः सम्यघेतुम् । कायचित्तमहादुःखान्यखिलान्यपि सहमानो बोधिसत्त्वोऽवस्थापयितुममिलपति सत्त्वान्न च विश्राम्यतीत्युच्यते वीर्यम् ॥ ६ । बोधिसत्त्वः विगतकल्मपोऽचाटुकुटिलः पर्यवसितमिथ्यावीर्य आचरति सम्यग्वीर्यम् । तथाहि । आचरति श्रद्धां दानं शीलं क्षान्तिं ध्यानं प्रज्ञां मैत्री करुणां मुदितामुपेक्षाम् । साभिलाषं करोग्यकरवं करिष्यामीति विश्वस्तचित्तः सर्वदाचरति वीर्यम् । नानुतापोऽस्य कुशलधर्मेषु । प्रदीप्तशिर इव परित्रायते सत्त्वान्न च चित्तं परावर्तयतीत्युच्यते वीर्यम् ॥ ७ । कायजीवितनिरपेक्षोऽपि बोधिसत्त्वः परित्रातुं (सत्त्वान्) दुःखेभ्यः परिपालयतुं सद्धर्मं कायमपेक्षते नोपेक्षत ईर्यापथं सर्वदा भावयितुं कुशलधर्मान् । कुशलधर्माचरणकाले न चित्तेन कुसीदो भवति । कायजीवितविधातेऽपि धर्मं न परित्यजतीति बोधिसत्त्वो बोधिमार्गं चरन्सोत्साहमाचरति वीर्यम् । कुसीदः पुरुषोऽसमर्थो नैककालं सर्वं ददाति न च शीलमुद्गृणायि न च क्षमते दुःखानि न चाचरत्यभ्युत्साहेन वीर्यम् । न च समाधौ स्मृतिसंप्रजन्यचित्तो भवति न च कुशलाकुशलं विविनक्ति । तेनोच्यते धीर्यमुपादाय षट्पारमिताः संप्रवर्धन्त इति । बोधिसत्त्वो महासत्त्वः संप्रवर्धयति चेद्वीर्यं लभतेऽचिरात्सम्यक्संवोधिम् ॥ ८ । बोधिसत्त्वो महानिष्पत्त्युत्पादेन पुनश्चतुर्विधं वीर्यं जनयति । तन्न प्रथममुत्पादयति महानिष्पत्तिं द्वितीयं संगृह्णाति शूरंगमं तृतीयमाचरति कुशलमूलं चतुर्थं विनयति सत्त्वान् । कथं बोधिसत्त्वोमहानिष्पत्तिमुत्पादयति । जातिमरणेषु क्षमतेऽस्य चित्तं न च गणयति कल्पसंख्यामप्रमेयेष्वपर्यन्तेषु नियुतकोटिशतसहस्रगंगानदीबालुकावदसंख्येयेषु कल्पेषु बुद्धमार्गमुद्ग्रहीष्याम्यक्लान्तचित्त इत्यकुसीदस्य [महा]निष्पत्तिवीर्यम् । बोधिसत्त्वः संगृह्णञ्छूरंगमं जनयति वीर्यं त्रिसाहस्रमहासाहस्रोऽयं लोकधातुः परिपूर्णोऽन्निनेति द्रष्टुं बुद्धं श्रोतुं धर्म स्थापयितुं सत्त्वान्कुशलधर्मेष्वतिक्रामत्येतमग्निं विनेतुं सत्त्वान् संप्रतिष्ठापयति चित्तं महाकरुणायामिति शूरंगमवीर्यम् । बोधिसत्त्व आचरन्कुशलंमूलं जनयति वीर्यम् । उत्पादितानि सर्वाणि कुशलमूलानि परिणामयत्यनुत्तरायां सम्यक्संबोधौ परिपूरयितुं सर्वज्ञतामिति कुशलमूलाचरणवीर्यम् । बोधिसत्त्वः विनयन्सत्त्वाञ्जनयति वीर्यम् । अप्रमेयाः सत्त्वभावा अपर्यन्ता आकाशधातुसमा अपरिसंख्येयाः । बोधिसत्त्वः प्रणिदधाति यन्निर्वापयितव्यान्ते यथा न कश्चनावशिष्यते । निर्वापयितुं सोत्साहमाचरति वीर्यमिति [सत्त्व-]विनयवीर्यम् ॥ ९ । संक्षेपत उच्यते । बोधिसत्त्वो भावयति मार्गसहायां पुण्यसहायामनुत्तरां प्रज्ञाम् । संगृह्णन्बुद्धधर्मानुत्पादयति वीर्यम् । अपर्यन्ता बुद्धगुणाअप्रमेयाः । बोधिसत्त्वस्य महासत्त्वस्य महानिष्पत्युत्पादेन जनितं वीर्यमप्येषमपर्यन्तमप्रमेयम् । बोधिसत्त्वो महासत्त्वो वीर्यमाचरन्नविरक्तचित्तोभवत्युद्धर्तुं दुःखानीति पूरयति वीर्यपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे वीर्यपारमिता मान सप्तमो वर्गः ॥) अष्टमो वर्गः ध्यामपारमिअता १ । बोधिसत्त्वः कथमावरति ध्यानम् । ध्यानमात्मपरोभयलाभाय चेदेवंविधं ध्यानं निष्पाद्यति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखान्यचरति तस्माद्ध्यानम् । योगावचरः स्वचित्तं संगृह्णन् सर्वविक्षेपैख्यवहितो गच्छन्तिष्ठन्निषीदञ्छयानो वा स्मृतिमभिमुखीमुपस्थापयति । पश्यत्यनुलोभं प्रतिलोभं कपालं शीर्ष कशेरुकां बाह्कुर्परमुरः पर्शकां श्रोणि कटं जान्वधरं गुणौ । अनुस्मरत्यानपानमिति बोधिसत्त्वस्यादिध्यानचित्तम् ॥ २ । ध्यानचर्याहेतोर्न प्राप्नोत्यकुशलानि सदास्य नन्दति चित्तमित्यस्यात्मलाभः । विनयन्सत्त्वानाचारयति सम्यक्स्मृतिमिति परलाभः । चरित्वा परिशुद्धं समाधिं वीताकुशलवितर्कविचारः सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । ध्यानचर्या हेतोर्लभतेऽष्टौ विमोक्षान्यावच्छ्ररंगमवजसमाधिमिति निष्पादयति बोधिमार्गम् ॥ ३ । ध्यानं त्रिभिर्धर्मैरुपजायते । के वयः । प्रथमः श्रुतमयी प्रज्ञा । द्वितीयश्चिन्तामयी प्रज्ञा । तृतीयो भावनामयी प्रज्ञा । त्रिभिरेभिर्धर्मैः क्रमेणोपजायन्ते सर्वसमाधयः ॥ ४ । का नाम श्रुतमयी प्रज्ञा । यथा यथा धर्माञ्चणोति तथा तथस्य चित्त्ं प्रीतं भवति सुखितम् । पुनरेवमनुस्मरति सन्त्यानन्तर्यविमोक्षादयो बुद्धधर्माः । इमे धर्मा बहुश्रतेनावाप्यन्ते । एवमनुस्म्मृत्य सर्वदा धर्मगवेषणाकालेऽस्योत्तरोत्तस्मुत्साहः संप्रवर्धतेऽहोरात्रं धर्मश्रवणेऽस्याभिरुचिर्भवति न च क्लान्तिर्नाप्यस्यतुप्तिरिति श्रुतमयी प्रज्ञा । ५ । का नाम चिन्तामयी प्रज्ञा । चिन्तयति सर्वे संस्कृतधर्मास्तथतालक्षणाः । तथा हि । अनित्या दुःखाः शून्या अनात्मानोऽशुचयः क्षणं क्षणमुत्पद्यन्ते निरुध्यन्तेऽचिरं पमोहाग्निना ज्वलिताः संवर्द्धयन्ति पश्चिमं दुःखमहास्कन्धम् । मायावन्मृषेव भाघ इत्सर्वेषु संस्कृतधर्मेषु जनयति संवेगम् । समधिकोत्साहं गच्छति बुद्धप्रज्ञाम् । चिनयति यत्तथागताप्रज्ञाचिन्त्यापरिमेया महाबलापराजिता प्राप्तापगतभयस्पर्शां महानगरी न च पुनरावर्तते दुःखेभ्योऽप्रमेयेभ्यः सत्त्वानपरित्रायते । एवं जानाति बुद्धस्याप्रमेयां प्रःयां पश्यति संस्कृतधर्माणामपरिमेयदु। कामयते गवेषयितुमनुत्तरं महायानमिति चिन्तामयी पज्ञा ॥ ६ । का नाम भावनामयी प्रज्ञेत्युच्यते । त्यजति रागमकुशलांश्च धर्मान् । तेनोपजायन्तेऽस्य वितर्कविचारप्रीतिसुखानि विशति प्रथमं ध्यानम् । क्षपयतो वितर्कविचारन् प्रसन्नभ्यन्तरस्तैकाग्रचित्तस्यावितर्कविचारः समाधिरस्योपजायते सप्रीति शुखं विशति द्वितीयं ध्यानम् । प्रीति परित्यज्योपेक्षासंस्कारवान् स्मृतिसंप्रजन्यचित्तः काये शुखं वेदयक्षार्याभिलापेपेक्षार्हां नित्यमनुस्मरन्सुखां वेदनां विशति तृतीयं ध्यानं प्रजहाति दुःखं प्रजहाति शुखं निरुणद्धि शोकं प्रीति विशत्यदुःखम्शुखमुपेक्षास्मृतिपरिशूद्धं चतुर्थं ध्यानम् । अत्येतिसर्वं रूपलक्षणम् । निरुणद्धि सर्वं प्रतिघलक्षणं नानुस्मरति विषभागलक्षणं तेन जानत्याकाशमनन्तम् । ततः प्रविशत्यकाशमरूपध्यानायतनम् । अत्येति सर्वमाकाशलक्षणं तेन जानाति विज्ञानमनन्तम् । ततप्रविशति विज्ञानम्रूपध्यानायतनम् । अत्येति सर्वं विज्ञानलक्षणं तेन जानात्याकिंचन्यम् । तेन जानन्नेवसंज्ञानास्ंज्ञास्पर्शं ततः प्रविशति नैव संज्ञानासंज्ञायतनम् । सर्वधर्मान्केवलमनुस्मरञ्चरति न च रज्यति गवेषयत्यनुत्तरं महायानम् । पूरयत्यनुत्तरां सम्यक्सम्बोधिमिति भावनामयी प्रःया । बोधिसत्त्वः श्रुतेन चिन्तया भावनया च संगृह्णाति चित्तम् । ततः पूरयति [षड्] अभिज्ञा[स्तिस्रो] विद्याः समाधि ध्यानपारमिताम् ॥ ७ । ध्यायन्बोधिसत्त्वः पुनराचरति दशधर्माञ्छ्रावकप्रत्येकबुद्धावेणिकान् । के देश । ध्यायन्नैरात्म्यमवाप्नोति तथागतध्यानानीति प्रथमः ध्यान्न च सक्तो न च रक्तो न च भवति क्लिष्टचित्तो न च गवेषयत्यात्मसुखमिति द्वितीयः । ध्यायन्नवाप्नोत्युद्धिकर्माणि परिःयातुं सत्त्वानां चित्तचर्यामिति तृतीयः । ध्यान्प्रजानाति जनकायचित्तानि परित्रायते च सर्वसत्त्वानिति चतुर्थः । ध्यायान्नाचरति महाकरुणां छिनत्ति सत्त्वानां क्लेशग्रन्थिमिति पंचमः । ध्यायन्ध्यानसमाधिं सम्यग्जानाति प्रमेशनिर्गममतिक्राम्यति त्रिधातुमिति षष्टः । ध्यायन्नित्यमुलभते वशितामवाप्नोति कुशलधर्मानिति सप्तमः । ध्यायञ्चितं शान्तंभवति निर्वृत्तं यानद्वयस्यातिक्राम्यति सर्वाणि ध्यानानीत्यष्टमः । ध्यायन्नित्यं विशति प्रज्ञां लोकमतिक्रम्यावप्नोति तत्पदमिति नवमः । ध्यायन्प्रतिष्ठापयति सद्धर्मं निरन्तरं संवर्द्धयति त्रिरत्नं येन भवत्यनुच्छिन्नमिति दशमः । भवति चैवंविधं ध्याअं श्रावकप्रत्येकबुधावेनीकम् ॥ ८ । ज्ञातुं पुनः सर्वसत्त्वानां क्लिष्टचित्तानि संगृह्णाति सर्वध्यानसमाधिधर्मान् चित्तस्थैर्यं विधातुम् । ध्यायान्प्रतिष्ठापयति चित्तसमतामित्युच्यते ध्यानम् । एवं समता ह्यानं समं शून्यतयाक्षणतयाप्रणिहिततयाक्रियया । शून्यता खल्वलक्षणाप्रणिहिताक्रियाभिः समा तेन सत्त्वा अपि समाः । यतः सत्त्वाः । यतः सत्त्वाः समास्तेन धर्मा अपि समाः । इति विशत्येवंविधां समतामिति ध्यानम् ॥ ९ । पुनर्बोधिसत्त्वो लोकमनुचरन्नपि न च भवति लोकसक्तः प्रजहात्यष्टौ लोकधर्मान्विनाशयति सर्वग्रन्थिं त्यजति जनावासं रोचतेऽस्य विविक्तायतनम् । एवं ध्यानमाचरतश्चित्तं संप्रतिष्ठितं भवति प्रजहाति संसारकर्माणि ॥ १० । पुनर्बोधिसत्त्वस्य ध्यानमाचरत ऋद्धिर्भवति प्रज्ञोपायो मतिः कथं भवत्यृद्धि कथं प्रज्ञा । पश्यति चेद्रूपलक्षणं शृणोति शब्दं जानाति परचित्तं स्मरत्यतीतं प्राप्नोति सर्वबुद्धलोकधातून्तदस्यार्द्धिः । रूपं जानाति चेद्धर्मस्वभावं जानाति शब्दगंन्धरसस्प्रष्टव्यचित्तसंस्काराः स्वभावालक्षणाः शान्ताःपरिनिर्वृतास्त्रिष्वध्वसु समा इति । आकाशलक्षणं जानाति बुद्धलोकधातुमपरिप्राप्तनिरोधमितिप्रज्ञा । कथमुपायः कंथ मतिः । ध्यानसमाधिमनुविशन्नुत्पादयति महामैत्रीं करुणां न जहाति प्राणिधानं वज्रमिव भवति चास्य चित्तमवलोकयन्बुद्धलोकधातु निष्पादयति बोधिमार्गमित्युपायः । चित्तं सर्वथास्यभवति शान्तम् । न चात्मान च पुद्गल इति चिन्तयति सर्वधर्मान्मूलस्वभावाविक्षेपान् । पश्यति बुद्धलोकधातुमाकाशलक्षणं यन्निष्पन्नं तत्पश्यति शान्तं निर्वाणमिति मतिः । इति बोसित्वश्चरन्ध्यानमृद्धि प्रज्ञामुपायं मति च विभज्य चतुर्वस्तून्याचरत्यवाप्तोत्यनुत्तरां सम्यक्सम्बोधिम् । बोधिसत्त्वो महासत्त्वो ध्यानमाचरन्नोपलभतेऽकुशलचित्तमक्षोम्यधर्मतया परिपूरयति ध्यानपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे ध्यानपारमिता नामाष्टमो वर्गः ।) नवमि वर्गः प्रज्ञापारमिता १ । बोधिसत्त्वः कथं भावयति प्रज्ञाम् । प्रज्ञा ह्यात्मपराभयलाभायचेदेवंविधा प्रज्ञा निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि भावयति तस्मात्प्रज्ञाम् । भावयन्प्रज्ञां शिक्षते सर्वलोकधातुवस्तूनि । प्रजहाति लोभद्वेपमोहान् प्रतिष्ठापयति महामैत्रीम् । करुणायमान उपकरोति सत्त्वान् । नित्यं परित्रातुमिच्छंस्तेषां परिणायको भवति । विभज्य देशयति सदसन्मार्गं कुशलाकुशलाश्च विपाकानिति बोधिसत्त्वस्यादिप्रज्ञाचित्तम् ॥ २ ॥ प्रज्ञाभावनाहेतोः प्रजहात्यविद्याम् । अपाकुरुते क्लेशावरणं ज्ञेयावरणमित्यस्यात्मलाभः । विनयन्सत्त्वान्परिसान्त्वयतीति परलाभ। चरित्त्वानुत्तरां बोधिं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । प्रज्ञाभावनया प्राप्नोति प्रथमां भूमि यावत्सर्वज्ञतामिति निष्पादयति बोधिमार्गम् ॥ ३ । प्रज्ञां भावयन्बोधिसत्त्वःक्रमेण प्रतिष्ठापयति विशति चित्तानि । कानि विशतिः । (१) कुशलकामानुत्पादयतोऽस्य कल्याणमित्रानुत्सर्गचित्तम् । (२) मदमानं परित्यजतोऽस्याप्रमादचित्तम् । (३) अनुचरतः सिक्षापदानि प्रीतं धर्मश्रवणचित्तम् । (४) धर्माञ्छृण्वतोऽविश्रान्तं कुशलचिन्ताचित्तम् । (५) भावयतश्चतुरि ब्रह्मविहारान्सम्यग्ज्ञानचित्तम् । (६) पश्यतोऽशूचिचर्यां ततः श्राम्यतः परित्यागचित्तम् । (७) पश्यत आर्यसत्यानि पोडशाकारं चित्तम् । (८) पश्यतो द्वादशाङ्गप्रतीत्यसमुत्पादं भावयतः प्रज्ञाचित्तम् । (९) शृण्वतः पारमिताः तत्संग्रहकामचित्तम् । (१०) अनित्यदुःखानात्मतां पश्यतः शान्तं निर्वाणं चित्तम् । (११) पश्यतः शून्यमलक्षणमप्रणिहितं निष्क्रियचित्तम् । (१२) पश्यतः स्कन्धधात्वायतनानि भूय आदीनवचित्तम् (१३)क्लेशाञ्जयतोऽसहचरचित्तम् । (१४) पालयतः कुशलधर्मानात्मसहचरचितम् । (१५) निवारयतोऽकुशलधर्मान्प्रहाणचित्तम् । (१६) आचरतः सम्यग्धर्मं विपुलचित्तम् । (१७) आचरतो यानद्वयमपि नित्यमुपेक्षाचित्तम् । (१८) शृण्वन्बोधिसत्त्वपिटकं प्रमोदानुसरणचित्तम् । (१९) स्वलाभपरलाभावनुसंवर्धयतः सर्वकुशलकर्मचित्तम् । (२०) गृह्णतः सुचरितं सर्वबुद्धधर्मगवेषणाचित्तम् ॥ ४ । पुनःखलु प्रज्ञां भवयतो बोधिसत्त्वस्य भवन्ति दशधर्माः कुशलचिन्ताचित्ताः श्रावकप्रत्येकबुद्धावेणिकाः । के दश । (१)विभज्य चिन्तयति समाधिप्रज्ञामूलम् । (२)चिन्तयन्न परित्यजति शाश्वतोच्छेदान्तद्वयम् । (३) चिन्तयति प्रतीत्यसमुत्पादधर्मान् । (४) चिन्तयति न सत्त्वो नात्मा न पुद्गलो न जीव इति । (५) चिन्तयति न सन्ति त्रिष्वध्स्वातीतानागतप्रत्युत्पन्नधर्माः । (६) चिन्तयत्यनुत्पन्नमपि कर्म नोच्छिनत्ति हेतुफलम् । (७) चिन्तयं धर्मान् शून्यनप्य कुसीदश्चावरोपयति कुशलम् । (८) चिन्तयत्यलक्षणं न च प्रतिनिवर्तते निर्वापयितुं सत्त्वान् । (९) चिन्तयन्नप्यप्रणिहितं न जहाति गवेषयितुं बोधिम् । (१०) चिन्तयन्नप्यकृतं न परिहरति प्रकाशयितुं सांभोगिकं कायम् ॥ ५ । पुनः खलु बोधिसत्त्वस्य द्वादश भवन्ति कुशलावतारधर्ममुखानि (१) शून्यतादिसमाधिष्ववतारकुशलोऽपि न (तान्) गृह्णाति । (२) ध्यानसमाधिष्ववतारकुशलोऽपि न यथाध्यानं तत्रोपपद्यते । (३) ऋद्धिज्ञानेष्ववतारकुशलोऽपि नानास्रवान् धर्मान् लभते । (४) अध्यात्मपर्यवेक्षणधर्मेष्ववतारकुशलोऽपि न तेषु निश्चयमनुप्राप्नोति । (५) सर्वसत्त्वशून्यताद्टष्टाववतारकुशलोऽपि नोपेक्षते महामैत्रीम् । (६) सर्वसत्त्वानात्मताद्टष्टववतारकुशलोऽपि नोपेक्षते महाकरुणाम् । (७) दुर्गयुपपत्तावतारकुशलोऽपि न स कर्मनिमित्तं तत्रोपपद्यते। (८) वैराग्यावतारकुशलोऽपि न वैराग्यधर्मान् प्रतिलभते । (९) कामसुखपरित्यागावतारकुशलोऽपि नोपेक्षते धर्मसुखम् । (१०) प्रपंचमतवादपरित्यागावतारकुशलोऽपि नोपेक्षते उपायद्टष्टीः । (११) बह्वादीनवाः संस्कृत धर्मा इत्यनुचिन्तनावतारकुशलोऽपि नोपेक्षते संस्कृतम् । (१२) परमपरिशुद्धेष्वसंस्कृतधर्मेष्ववतारकुशलोऽपिनासंस्कृते प्रतिष्ठितो भवति । बोधिसत्त्वश्चेत्सर्वकुशलावतारधर्ममुखान्याचरति सम्यग्जानाति शून्यतां त्रिष्वध्वसु ब किचिदिति ॥ ६ । यदि चैवं पश्यति पश्यति त्रिष्वध्वसु शून्यतां प्रज्ञाबलहेतोः । यदि चावरोपितानि त्रिष्वध्वसु तथागतैरप्रमेयाणि पुण्यान्यखिलं परिणामयत्यनुत्तरायां बोधौ तदेवं बोधिसत्त्वः संपश्यति त्रिष्वध्वसूपायम्। पुनरपि पश्यन्नतीतान्धर्मान्क्षपिताननागतान्नागतान्सदैवाचरतिकुशलं पराक्रमते न च कुसदो भवति । अनुत्पन्नानपि पश्यन्नगतान्धर्मान्पराक्रमते कामयते बोधिम् । क्षणं क्षणं निरुध्यमानान्पश्यन्नपि प्रत्युत्यन्नान्धर्मान् बोधिमुपगन्तुं न चास्य चित्तविस्मृतिरित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपायम् । निरुद्धमतीतं नागतमनागतमस्थिरं प्रत्युत्पन्नम् । अपि च पश्यन्धर्माञ्चित्तचैत्तानुत्पद्यमानान्निरुध्यमानान्विशीर्यमाणान्पूयमानान्नोपेक्षते संग्रहीतुंकुशलमूलानि । उपचरति बोधिधर्मानित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपामम् । ७ । पुनः खलु बोधिसत्त्वः पश्यति सर्वं कुशलमकुशलमात्मानमनात्मानं भूतमभूतं शून्यमशून्यं संवृतं परमार्थं सम्यक्समाधि मिथ्यासमाधि संस्कृतमसंस्कृतं सास्रवमनास्रवं कृष्णधर्मं शुक्लधर्मं जातिमरणं निर्वाणं धर्मधातुस्वभावमेकलक्षणमलक्षणम् । न च तत्र धर्मा इत्युच्यतेऽलक्षणमिति । अपि नाम कश्चन धर्मो योह्यलक्षणो नामेत्युच्यते सर्वधर्ममुद्राक्षयामुद्रा । आसु मुद्रासु न मुद्रालक्षणमित्युच्यते सत्यं भूतं प्रज्ञोपायः प्रज्ञापारमिता । उत्पादितबाधिचेत्तेन बोधिसत्त्वेनैवं शिक्षिओतव्यमेवं भावयितव्यम् । एवं भावयन्नवाप्नोत्यनुत्तरां सम्यक्सम्बोधिम् । बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञां भावयतो न चित्तं चरति धर्मतायाः परिशुद्धत्वात् । एवं परिपूरयति प्रज्ञापारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे प्रज्ञापारमिता नाम नवमो वर्गः ॥ दशमो वर्गः तथाताधर्ममुखं १ । कुलपुत्रेण कुलदुहित्रा वा चरता षट्पारमिता गवेषयतानुत्तरां सम्यक्संबोधिं प्रहातव्याः सप्त धर्माः । कतमे सप्त । प्रथमं प्रजहात्यकल्पाणमित्राणि । अकल्याणमित्राणि शिक्षयन्ति परिहर्तमनुत्तरां श्रद्धामुदात्तं संकल्पमनुत्तमं वीर्यं समुच्चेतुं च संक्लिष्टाचारान् । द्वितीयं प्रजहाति स्त्रीरूपं कामरागं पृथग्जनैर्विविक्तो भवत्यसहचरः । तृतीयं पश्यन्नात्मानमाभासं प्रजहात्यसद्ग्राहं स्नेहबहुमानानुरागांश्चिरं स्थास्यतीति । चतुर्थं प्रजहाति द्वेषप्रतिधमौद्धत्यं मानमीर्ष्वामसूयां यतो जयते कलहः प्रतिहन्यते कुशलचित्तम् । पञ्चमं प्रजहाति प्रमादं मदमानं कौसीद्यं स्वकं परित्तकुशलं च येनावजानाति परान् । षष्ठं प्रजहाति तैर्थिकागमं काव्यानि न चाबुद्धभाषितानि प्रशंसति । सप्तमं नोपगच्छति मिथ्याद्टष्टिमसम्यग्द्टष्टिम् । एवमिमे सप्तधर्माः प्रहातव्याः । उक्तं भगवता न पश्यामि तथान्यान्धर्मान्य आवृण्वन्ति बुद्धमार्गं यथेमे सप्तधर्माः। अतएव बोधिसत्त्वेन प्रहातव्याः ॥ २ । अचिरमनुत्तरां सम्बोधिमभिसम्बोद्धुकामेनाचरितव्याः सप्तधर्माः । के सप्त । प्रथमंबोधिसत्त्वेनोपगन्तव्यानि कल्पाण मित्राणि । कल्पाणमित्राणि बुद्धा बोधिसत्त्वाश्च । श्रावका अपि बोधिसत्त्वं गम्भीरधर्मकोशे पारमितासु संप्रतिष्ठापयन्तो भवन्ति बोधिसत्त्वस्य कल्पाणमित्राणि । द्वितीयं बोधिसत्त्वेनोपचरितव्याः प्रव्रजिता आरण्यकधर्माश्च । मातृग्रामः प्रहातव्यः कामरागश्च । विविक्तेन भवितव्यं पृथग्जनैरसहचरेण । तृतीयं बोधिसत्त्वेन द्रष्टव्यः कायो मलभूमिवदशुचिसंश्रयः केवलं वातश्लेष्मपित्तलोहितकमरागार्हो दिने दिने मरणोन्मुखोऽनादरबुद्ध्या परिहर्तव्यः सोत्साहं भावयितव्यो मार्गः । चतुर्थं बोधिसत्त्वेन नित्यं चरितव्या शान्तिः क्षान्तिर्गुरुकरणीया मृदुताच । शिक्षयितव्याः क्षान्तौ स्थापयितव्याश्च जनाः । पंचमं बोधिसत्त्वेनाचरितव्यं वीर्यमुत्पादयितव्या ह्रीरपत्रपा च पूजयितव्य उपाध्यायः करुणायितव्या दीना दुःखितान्द्टष्ट्रा स्वकायेन परिग्रहीतव्यं तद्दुःखम् । षष्ठं बोधिसत्त्वेनभावयितव्यं विपुलं महायानबोधिसत्त्वपिटकं ग्रहीतव्या धारयितव्या वाचयितव्या धर्म्मा बुद्धानुशंसिताः । सप्तमं बोधिसत्त्वेनोपगन्तव्यं भावयितव्यं परमार्थसत्यम् । तथाहि । भूतलक्षणमेकलक्षणमलक्षणं बोधिसत्त्वश्चेत्कामयते शीघ्रमभिसम्बोधिमभ्युपगन्तव्या एवमिमे सप्त धर्माः । ३ । पुनः खलु पुरुषः प्राप्तिहेतोरुत्पादयति चेद्बोधिचित्तमप्रमेयमसंख्येयं कल्पं संगृह्णति मैत्रींकरुणां मुदितामुपेक्षां दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाम् । ज्ञातव्यं न स पुरुषः प्रज्ञहाति जातिमरणम् । न च गच्छति बोधिम् । तत्कस्य हेतोः । [बोधि-]चित्तप्राप्तिरप्यस्ति प्राप्तिद्टष्टिः स्कन्धधात्वायतनद्टष्टिरात्मद्टष्टिः पुद्गलद्टस्टिः सत्त्वद्टष्टि जीर्वद्टष्टि मैत्रीकरुणामुदितोपोक्षादानशीलक्षान्तिवीर्यध्यानप्रज्ञादिद्टष्टिः । संक्षेपत उच्यते । बुद्धधर्मसंघद्टष्टिर्निर्वाणद्टष्टिरेवं यत्किञ्चत्प्राप्तव्यद्टष्टिः सर्वमेष आसङ्ग । चित्तासंग एवोच्यते मिथ्याद्टष्टिः । कस्मात् । पुरुषा मिथ्याद्टष्टयश्चकवत्परिवर्तन्ते त्रिघातौ सदैव परिहीयन्ते विमुक्तेः । अयमेप आसंगः । न चैवं कदापि निर्मुच्यते। न चाप्नुवन्त्ययनुत्तरां सम्यक्सम्बोधिम् ॥ ४ । पुरुषश्चेदुत्पादयति बोधिचित्तं द्रष्टव्यं चित्तं शून्यलक्षणम् । किचित्तं कथं च शून्यलक्षणम् । चित्तं नाम मनोविज्ञानमेवं विज्ञानस्कन्धो मन आयतनं मनो धातुः । चित्तं शून्यलक्षणं न चित्तं चित्तलक्षणं न च कर्तृ। कस्मात् । या चित्तलक्षणशून्यता सा न च कर्त्री न च कारयित्री । यदि कश्चित्कर्त्तैव नास्ति न तर्हि कर्तृलक्षणम् । यदि बोधिसत्त्वो जानात्येवं धर्मान्सर्वधर्मेष्वनासक्तो भवति । अनासक्तिहेतो र्न जानातिकुशलाकुशलफलविपाक इति आचरितायां मैन्त्र्यां जानाति नास्त्यात्मा । अचरितायां करुणायां न सत्त्वाः । आचरितायां मुदितायां न जीवः । आचरितायामुपेक्षायां न पुद्गलः । आचरन्नपि दानं न पश्यति दानवस्तु । आचरन्नपि शीलं न पश्यति चित्तविशुद्धिम् । आचरन्नपि क्षान्तिं न पश्यति सत्त्वान् । आचरन्नपि वीर्यं न जहाति रागचितम् । आचरन्नपि ध्यानं परित्यजति नाकुशलचित्तम् । भावयतोऽपि प्रज्ञां न च काचिचित्तभावना । सर्वलंबना सर्वप्रज्ञा न चासङ्गोऽस्य प्रज्ञायाम् । न च प्रज्ञावाप्तिर्न च प्रज्ञा द्टष्टिः । य आचरत्येवमाचरति प्रज्ञाम् । न चतस्याचरितं भवति किंचित न चापि नाचरितं भवति किंचित् । अन्तः परिशुद्धोऽपि स विनेतुं सत्त्वनाचरति षट्पारमिताः । य अचरत्येवं भावयति चित्तं क्षणमवरोपितकुशलस्यापि तस्य पुण्यफलविपाकोऽप्रमेयोऽपर्यन्तः । असंख्येयैः कल्पकोटिशतसहस्रैरपि न तस्यान्तः । अवाप्नोति सोऽनायासेनानुत्तरां सम्यक्सम्बोधिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रेतथताधर्ममुखं नाम दशमो वर्गः ॥) एकदशो वर्गः शून्यालक्षणं १ । एकस्मिन्समये भगवान्पुरा विहरति स्मवेणुवने कलन्दकनिवापे महता [भिक्षु]संघेन सार्द्धमप्रमेयेण । अथ भगवान्देशयितुं सद्धर्ममामन्त्रयति स्म महासंघम् । भगवानवोचत् । सर्वधर्मा निःस्वभावाः शून्या निःसारा अश्रद्धेयाः सर्वलोकैः । तत्कस्य हेतोः । रूपं न बन्धो न मोक्षः । वेदना संज्ञा संस्काराविज्ञानं न बन्धो न मोक्षः । रूपलक्षणं त्यजति च लक्षणं वेदनासंज्ञासंस्कारविज्ञानन्यलक्षणानि त्यजन्ति च क्षणानि । चक्षूरूपश्रोत्रशब्दघ्राणगन्धजिह्वारसकायस्प्रष्टव्यमनोधर्मा अप्येवम् । न ते ग्राह्या नोपेक्ष्या न समला न विमला जगता नानुगता न प्रतिगता नाभाखरा न भाखरा न मोहो न प्रज्ञा न चैपोऽन्तो न सोऽन्त नापि च मध्यस्रोत इतिचोच्यते न बन्धः ॥ २ । बन्धाभावाच्छून्यम् । शून्यमुच्यतेऽलक्षणम् । अलक्षणमपि शून्यमित्युच्यते शून्यम् । शून्यमुच्यतेऽक्षणमक्षणमपि शून्यमित्युच्यते शून्यम् । शून्यक्षणमपि शून्यमित्युच्चते शून्यम् । शून्यतायांन कुशकं न चा कुशलं न चापि शून्यलक्षणमित्युच्यते शून्यम् । बोधिसत्त्वो यद्येवं जानाति स्कन्धधात्वायतनस्वभावं न चगृह्णातीत्युच्यते धर्मक्षान्तिः । बोधिसत्त्व एवंविधक्षान्तिहेतोः प्राप्नोत्व्याकरणक्षान्तिम् ॥ ३ । बुद्धपुत्रास्तथाहि बोधिसत्त्वो लिखत्याकाशे तथागतस्य द्वादशङ्ःप्रवचनानि । अतीतेष्वप्रमेयेषु कल्पेषु परिनिर्वृतेषु बुद्धधर्मेषु पुरुषो धर्मं गवेषयन्न किचिदपि पश्यति न च शृणोति सत्त्वा विपरिवर्तन्ते कुर्वन्तोऽप्रमेयाण्यकुशलानि । पुनरन्यतः परिशुद्धप्रज्ञजनाः करुणायन्ते सत्वेषु गवेषयन्ति बुद्धधर्मान्गत्वा पश्यन्त्याकाशे लिखितानि लेखस्पष्टतयावगच्छन्ति वाचयन्ति गृह्नन्ति धारयन्ति यथाभाषितमाचरन्ति विभज्य प्रकाशयन्त्युपकुर्वन्ति सत्त्वान् । यश्च लिखत्याकाशे यश्च जानात्याकाशाक्षराणि स नु चिन्तयितुं शक्यो यश्च वा प्रकाशयति देशयत्याचरति गृह्णाति धारयति नयाते सत्त्वान्विमोचयति वन्धम् ॥ ४ । बुद्धपुत्रा उक्तं भगवता । अतीतेऽध्वनि गवेषयन्वोधिमार्गं मया लब्धानि बुद्धकोटित्रयस्त्रिशदष्टानवतिबुद्धशतसहस्राणि । सर्वेषां कालेऽहमासं चक्रवर्त सर्वे चारागितास्तेपूजितास्ते बुद्धाश्च बुद्धपुत्राश्च प्राप्तव्यहेतोर्न च मया प्राप्तं व्याकरणम् । पुनर्लब्धानि प्रत्येकबुद्धकोटिचतुरशीतिशतसहस्राणि प्रत्येकबुद्धनवतिशतसहस्राणि च । सवऽपि चतुर्भिः परिष्कारै र्यावज्जीवं पूजिताः । पुनः खलु लब्धानि द्वापष्टिबुद्धशतसहस्राणि एकषप्टयुत्तरद्वादशबुद्धशतानि च । सर्वेषां कालेऽहमासं चकवर्ती । आरागिताश्चते यावज्जिवं पूजिताश्च ते । परिनिर्वृतेषु तेषु कारिताः सप्तरत्नमयाः स्तूपा धृतपूजित [बुद्ध]शरीराः । अथ पुनर्लोकमागता बुद्धा आमन्त्रिता मयाध्येपिताः प्रावर्तयन्धर्मचक्रम् । पूजिताश्चैवं बुद्धानां शतानि सहस्राणि शतसहस्राणि शतसहस्राणि कोटयश्च । ते च तथागताः शून्यधर्मेषु धर्मलक्षणमवोचन् । प्राप्तव्यहेतो र्न मया प्राप्तं व्याकरणम् ॥ ५ । एवं विपरिवर्तमानस्य मे तावज्जातो दीपंकरस्तथागतः । अपश्यं तं भगवन्तमशृण्वं धर्मम् । लब्धा च सर्वानुत्पादा धर्मक्षान्तिस्तदा लब्धं व्याकरणम् । दीपंकरेण तथागतेन शून्यधर्मेषु भाषितं धर्मलक्षणम् । परित्रातान्यप्रमेयसत्त्वसहस्राणि न तथापि भाषितं किञ्चिन्न च परित्रातः कश्चित् । लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु भाषितं लेखितं प्रकाशितम् । लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु भाषितं लेखितं प्रकाशितं शिक्षितमामोदितं सर्वश्च वेदितमाचरितमपि च न प्रकाशितं नापि वेदितं न चाप्याचरितम् । एवं धर्माः स्वभावलक्षणेन शून्याः लेखनमपि शून्यम् । योऽभिजानाति सोऽपि शून्यः । योऽभाषत सोऽपि शून्यः । यश्च जनाति सोऽपि शून्यः । आदिः शून्यमनागतं शून्यं प्रत्युत्पन्नं शून्यम् । बोधिसत्त्वः संगृह्णन्दश कुशलोपायवलसहस्राणि सोत्साहोऽकुसीदो पुण्यपरिपूरितो लभतेऽनुत्तरां सन्यक्सम्बोधिम् ॥ ६ । नूनमसुकरमचिन्त्यं यदुच्यते धर्माभावे धर्माभावे धर्मलक्षणं प्राप्तव्याभावे प्राप्तिधर्माः । बुद्धगोचरमिदमेवंवस्त्वप्रमेययैतबुद्धप्रज्ञया केवलं ज्ञातुंशक्यम् । न च ज्ञातुं शक्यं चिन्तया । अचिरोत्पादितचित्तो बोधिसत्त्वः श्रद्धाचित्तेनानुशंसति बोधिमारोचयति च । श्रद्धाहेतोः क्रमेण बुद्धभाषितेषु विशति । का नाम श्रद्धा । श्रद्धया पश्यति चतुरार्यसत्यानि निरुणद्धि क्लेशान्मिथ्याद्टष्टिसंयोजनानि । प्राप्नोत्यर्हत्वम् । पश्यति द्वादशप्रत्ययं द्वादशाङ्ःं प्रतीत्यसमुत्पादम् । निरुध्यन्ते चास्याविद्याजनिताः संस्कारा लभते प्रत्येकबुद्धताम् । श्रद्धया चरति चतुरो ब्रह्मचिहारान् षट्पारमिताः प्राप्नोत्यनुत्तारां सम्यक्सम्बोधिमित्युच्यते श्रद्धाक्षान्तिः ॥ ७ । सत्त्वा अनादिमति जातिमरणलक्षणे सक्ता न पश्यन्ति धर्मस्वभावम् । प्रथमं द्रष्टव्यं यदेप स्वकायः पंचस्कन्धः प्रज्ञायते सत्त्व इति । तन्न नात्मा न सत्त्वः तत्कस्यहेतोः तत्रात्मा चेदात्मात्मवशस्तिष्ठेत् । सत्त्वास्तु जातिहराव्याधिमरणैः सदाक्रान्ता नात्मवशास्तिष्ठन्ति । ज्ञातव्यं तेन नात्मा । अनात्मत्वान्न कर्ता । अकर्तृत्वान्नोपादाता । धर्मस्वभावः परिशुद्धः । नित्यं तिष्ठति भूतकोटिः । एवमपरिपूरितप्रत्यवेक्षणोच्यतेऽन्वयक्षान्तिः । बोधिसत्त्वश्चरित्वा श्रद्धाक्षान्ति मन्वयक्षान्ति चाचिरं पुरयत्यनुत्तरां धर्मक्षान्तिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे शून्यालक्षणं नामैकादशो वर्गः ॥) द्वादशो वर्गः पुण्यपरिग्रहः १ । बोधिसत्त्वस्यालक्षणचित्तमाचरितस्यापि चित्तं न कर्ममु प्रतिष्ठितं भवति । कर्मलक्षणानि जानन्नपि करोति कर्माणि । कुशलमूलमाचरितुं बोधिममिसम्बोद्धुं न परित्यजति संस्कृतम् । सत्वार्थं चरन्महाकरुणां नाधितिष्ठत्यसंस्कृतम् । सर्वबुद्धसम्यक्प्रज्ञार्थं न परित्यजति जातिमरणं निर्वापयितुमपर्यन्तान्सत्त्वाननुपधिनिर्वाणधातौ नाधितिष्ठति निर्वाणमित्युच्यते बोधिसत्त्वस्य महासत्त्वस्य गम्भीरं चित्तमभिसम्बोद्धमनुत्तरां सम्यक्सम्बोधिम् ॥ २ । बुद्धपुत्रा बोधिसत्त्वः परिपूरति दश धर्मान्न च प्रत्यावर्ततेऽनुत्तरायाः सम्यक्सम्बोधेः । कतमे दश । पथमं बोधिसत्त्वो गम्भीरमुत्पादयति बोधिचित्तं सत्त्वानपि शिक्षयत्युत्पादयितुं चित्तम् । द्वितीयं नित्यमभिनन्दन्तथागतं प्रियदानेन पूजयति गम्भीरं चवरोपयति कुशलमूलम् । तृतीयं धर्मान्गवेषयितुं गौरवचित्तेन पूजयति धर्मगुरून्धर्मः शृण्वन्न च परिश्राग्यति । चतुर्थं पश्यन्भिक्षुसंघं भिन्नं द्विधाविभक्तं परम्परं विवदमानं भण्डनं कुर्वाणं गवेपयत्युपायं संगमयति च । पञ्चमं पश्यन्नाष्ट्रे वर्धमानान्यशुभानि क्षीयमाणान्बुद्धधर्मान्देशयति तथा वाचयति यावदेकामपि गाथां येनानुच्छिन्नो भवति धर्मः । एकचित्तं परिपालयति धर्मं न च गणयति कायजीवितम् । षष्ठं परित्रायते सत्त्वान्पश्यन्मीतान्दुःखितान्ददाति चाभयम् । सप्तमं जनयति चर्योत्साहं गवेषयति चैवं महायाअनं वैपुल्यमतिगम्भीरं सूत्रधर्मं बोधिसत्त्वपिटकम् । अष्टमं लब्ध्वेमान्धर्मान्धारयति वाचयति पर्यवाप्नोतियथाभाषितमाचरति यथाभाषितमवतिष्ठते । नवमं धर्ममधितिष्ठन्नुत्साहयति बहुतरसत्त्वान्प्रवेष्टुं धर्मे । दशमं धर्मे प्रवेश्य प्रकाशयन्संदर्शयंल्लाभप्रामोद्यववोधयति सत्त्वान् । बोधिसत्त्वः परिपूर्येमान्दाशधर्माननुत्तराया बोधे र्न प्रतिनिवर्तते ॥ ३ । बोधिसत्त्वेनाचरितव्यमेवमिदंसूत्रम् । अचिन्त्यं खल्वेवंविधं सूत्रं यज्जनयति सर्वमहामैत्रीकरुणाबीजम् । इदं सूत्रं चित्तमुत्पादयितुं नयति चावबोधयति च बद्धसत्त्वान् । इदं सूत्रमुत्पादहेतु र्बोधिमभिसंप्रस्थितानाम् । इद सूत्रं परिपूरकं सर्वबोधिसत्त्वानामक्षोम्यचर्यायाः । इदं सूत्रमतीतानागतप्रत्युत्पन्नबुद्धैरनुपरिगृहीतम् । कुलपुत्राः कुलदुहितरश्चेत्कामयन्ते संग्रहीतुमनुत्तरां बोधि देशयितव्यमेवं रूपं सूत्रम् । जंबूद्वीपेऽनुच्छेदाय [बुद्धधर्माणां] अप्रयेया अपर्यन्ताः सत्त्वाः शृण्वन्त्विदं सूत्रम् । कुलपुत्राः कुलदुहितरश्चेच्छृण्वन्तीदं सूत्रं लभन्तेऽचिन्त्यमतीतीक्ष्णं महाप्रज्ञाव्यूहमप्रमेयं च पुण्यफलविपाकम् । तत्कस्य हेतोः । इदं सूत्रं विवृणोत्यप्रमेयं सुपरिशुद्धं प्रज्ञानेन्नं करोति बुद्धविजं निरन्तरमनुच्छिन्नम् । परिपालयति सत्त्वानप्रमेयदुःखदुःखितान् । अवभासयति सर्वमविद्यामोहान्धकारम् । भिनत्ति चतुरो मारान्मारकर्माणि च । नाशायति सर्व तीर्थिकाणां मिथ्याद्टष्टिम् । निर्वापयति सर्वं क्लेशमहाज्वनलम् । अपनयति [अविद्या-]प्रत्ययजनितान्संस्कारान् । छिनत्ति लोभं मात्सर्यं शीलभेदं द्वेषं कौसीद्यं विक्षेपं मूढतां (च) षड्गुरुव्याधीन् । अपनयति कर्मावरणं विपकावरणं क्लेशावरणं द्टष्ट्यावरणमविद्यावरणं ज्ञानावरणंभावानावरणम् । संक्षेपत उच्यते । इदं सूत्रं निर्वापयति निरवशेषं सर्वाकुशलधर्मान् । समेधयति सर्वकुशलधर्माग्निस्कन्धम् । कुलपुत्राः कुलदुहितरश्चेत्सूत्रमिदं श्रुत्वारोचयन्त्यनुमोदयन्त्याश्चर्यचित्तमुत्पादयन्ति ज्ञातव्यं तैः पूजिता अप्रमेया बुद्धाः । गम्भीरमवरोपितं कुशलमूलम् । तत्कस्य हेतोः अस्य सूत्रस्य त्रिष्वध्वसु बुद्धैराचरितत्वाद्यः खलु (मार्गा-)वचरः शृणोति चेदं सूत्रं स्वात्मानं धन्यं मन्यते । लभते च महाकुशललाभम् । यः कश्चिल्लिखतीदं वाचयतीदं सूत्रं ज्ञातव्यं स पुरुषः प्राप्नोत्यप्रमेयमपर्यन्तं पुण्यफलविपाकम् । तत्कस्य हेतोः । अस्य सूत्रस्यापर्यन्ता लम्बनत्वादप्रमयमहाप्रणिधानोत्पादकत्वात्सर्वसत्त्वानुग्राहकत्वादनुत्तरसम्बोधिनिष्पादकत्वाल्लब्धः पुण्यफलविपाकोऽप्येवयमेयः । यदि कश्चिदवबुध्यार्थं तथाचरति यथा सर्वबुद्धैरसंख्येयेषु कल्पेष्वक्षयप्रज्ञया भाषितं तस्य पुण्यफलविपाकोऽप्यक्षयो भवति । यस्मिन्प्रदेशे धर्मशास्ता देशयतीदं सूत्रं ज्ञातव्यं तस्मिन्प्रदेशे स्तूपः कारयितव्यः । कस्मात् । सम्यग्धर्मस्य तत्र जनितत्वात् । एदं सूत्रं यस्मिन्देशे नगरै ग्रामे विहारे कुटयां वा भवति ज्ञातव्यं तत्र भवति [३ तथागतस्य] धर्मकायः । यदि पुरुषः पूजयति गन्धपुष्पैः संगीतेन वितानेन चमरच्छत्रैर्गीतैः स्तौत्रैर्नमस्कारैः ज्ञातव्यं स पुरुष बुद्धबीजं बहुलिकरोति कि पुनर्वक्तव्यं यो निरवशेषं गृह्णति धारयति सूत्रमिदम् । स पुरुषः पूरयति पुण्यप्रज्ञानिष्पत्तिमनागतेऽध्वनि लभते व्याकरणं प्राप्नित्यनुत्तरां सम्यक्सम्बोधिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे पुण्यपरिग्रहो नाम द्वादशो वर्गः ॥) परिनिष्ठितं बोधिचित्तोत्पादसूत्रशास्त्रम् ॥