अभिधर्मकोशभाष्यम् प्रथमं कोशस्थानम् ओं नमो बुद्धाय यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार । तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥ प्रज्ञामला सानुचराभिधर्मः तत्प्राप्तये यापि च यच्च शास्त्रम् । तस्यार्थतोऽस्मिन् समनुप्रवेशात्स चा श्रयोऽस्येत्यभिधर्मकोशम् ॥ १.२ ॥ धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः । क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥ सास्रवानास्रवा धर्माः संस्कृता मार्गवर्जिताः । सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते ॥ १.४ ॥ अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः ॥ १.५ ॥ प्रतिसंख्यानिरोधो यो विसंयोगः पृथक्पृथक् । उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया ॥ १.६ ॥ ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् । स एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः ॥ १.७ ॥ ये सास्रवा उपादानस्कन्धास्ते सरणा अपि । दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते ॥ १.८ ॥ रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च । तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ॥ १.९ ॥ रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधः रसः । षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम् ॥ १.१० ॥ विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः । महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥ भूतानि पृथिविधातुरप्तेजोवायुधातवः । धृत्यादिकर्मसंसिद्धा खरस्नेहोष्णतेरणाः ॥ १.१२ ॥ पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया । आपस्तेजश्च वायुस्तु धातुरेव तथापि च ॥ १.१३ ॥ इन्द्रियार्थास्त एवेष्टा दशायतनधातवः । वेदनानुभवः संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥ चतुर्भ्योऽन्ये तु संस्कारस्कन्धः एते पुनस्त्रयः । धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतै ॥ १.१५ ॥ विज्ञानं प्रतिविज्ञप्तिः मन आयतनं च तत् । धातवः सप्त च मताः षड्विज्ञानान्यथो महः ॥ १.१६ ॥ षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः । षष्ठाश्रयप्रसिद्धयर्थं धतवोऽष्टादश स्मृताः ॥ १.१७ ॥ सर्वसंग्रह एकेन स्कन्धेनायतनेन च । धातुना च स्वभावेन परभाववियोगतः ॥ १.१८ ॥ जातिगोचरविज्ञानसामान्यादेकधातुता । द्वित्वेऽपि चक्षुरादीनां शोभार्थ तु द्वयोद्भवः ॥ १.१९ ॥ राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः । मोहेन्द्रियरूचित्रैधात्तिस्त्रः स्कन्धादिदेशनाः ॥ १.२० ॥ विवादमूलसंसारहेतुत्वात्क्रमकारणात् । चैत्तेभ्यो वेदनासंज्ञे पृथक्स्कन्धौ निवेशितौ ॥ १.२१ ॥ स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्क्रमः पुनः । यथौदारिकसंक्लेसभाजनाद्यर्थधातुतः ॥ १.२२ ॥ प्राक्पञ्च वार्त्तमानार्थ्यात्भौतिकार्थ्याच्चतुष्टयम् । दूराशुतरवृत्त्यान्यत्यथास्थानं क्रमोऽथवा ॥ १.२३ ॥ विशेषणार्थं प्राधान्यब्दहुधर्माग्रसंग्रहात् । एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥ धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः । तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥ शास्त्रप्रमाणा इत्येके स्कन्धादीनां कथैकशः । चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥ तथान्येऽपि यथायोगं स्कन्धायतनधातवः । प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥ छिद्रमाकाशधात्वाख्यमालोकतमसी किल । विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः ॥ १.२८ ॥ सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश । रूपिणः अव्याकृता अष्टौ त एवारूपशब्दकाः ॥ १.२९ ॥ त्रिधान्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश । विना गन्धरसघ्राणजिव्हाविज्ञानधातुभिः ॥ १.३० ॥ आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः । सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः ॥ १.३१ ॥ सवितर्कविचारा हि पञ्च विज्ञानधातवः । अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः ॥ १.३२ ॥ निरूपणानुस्मरणविकल्पेनाविकल्पकाः । तौ प्रज्ञामानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥ सप्त सालम्बनाश्चित्तधातवः अर्धं च धर्मतः । नवानुपात्ता ते चाष्टौ शब्दश्च अन्ये नव द्विधा ॥ १.३४ ॥ स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः । धर्मधात्वेकदेशश्च संचिता दश रूपिणः ॥ १.३५ ॥ छिनत्ति छिद्यते चैव बाह्यं धातु चतुष्टयम् । दह्यते तुलयत्येवं विवादो दग्धृतुल्ययोः ॥ १.३६ ॥ विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः । न शब्दः अप्रतिघा अष्टौ नैःष्यन्दिक विपाकजाः ॥ १.३७ ॥ त्रिधान्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः । चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥ द्वादशाध्यात्मिकाः हित्वा रूपादीन् धर्मसंज्ञकः । सभागः तत्सभागाश्च शेषाः यो न स्वकर्मकृत् ॥ १.३९ ॥ दश भावनया हेयाः पञ्च च अन्त्यास्त्रयस्त्रिधा । न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम् ॥ १.४० ॥ चक्षुश्च धर्मधातोश्च प्रदेशौ दृष्टिः अष्टधा । पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥ चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् । विज्ञानं दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥ उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात् । चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा ॥ १.४३ ॥ त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् । चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः ॥ १.४४ ॥ तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः । अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥ न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः । विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥ तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् । कायविज्ञानमधरस्वभूमि अनियतं मनः ॥ १.४७ ॥ पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः । धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥ अभिधर्मकोशभाष्ये धातुनिर्देशो नाम प्रथमं कोशस्थानं समाप्तमिति । ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ लिखापितमिदं श्रीलामावाकेनेति । द्वितीयं कोशस्थानम् चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल । चतुर्ण्णां पञ्चकाष्टानां संक्लेशव्यवदानयोः ॥ २.१ ॥ स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् । स्त्रीत्वपुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥ निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः । जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥ आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा । उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥ चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च । संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥ प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः । चतुर्दश तथान्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥ दुःखेन्द्रियमशाता या कायिकी वेदना सुखम् । शाता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥ अन्यत्र सा सौमनस्यमशाता चैतसी पुनः । दौर्मनस्यमुपेक्षा तु मध्या उभयी अविकल्पनात् ॥ २.८ ॥ दृग्भावनाशैक्षपथे नव त्रीणि अमलं त्रयम् । रूपीणि जीवितं दुःखे सास्रवाणि द्विधा नव ॥ २.९ ॥ विपाको जीवितं द्वेधा द्वादश अन्त्याष्टकादृते । दौर्मनस्याच्च तत्त्वेकं सविपाकं दश द्विधा ॥ २.१० ॥ मनोऽन्यवित्तिश्रद्धादीनि अष्टकं कुशलं द्विधा । दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधा अन्यदेकधा ॥ २.११ ॥ कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये । दुःखे च हित्वा आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥ मनोवित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता । नव भवनया पञ्च त्वहेयान्यपि न त्रयम् ॥ २.१३ ॥ कामेष्वादौ विपाको द्वे लभ्यते नोपपादुकैः । तेः षड्वा सप्त वा अष्टौ वा षड्रूपेषु एकमुत्तरे ॥ २.१४ ॥ निरोधयत्युपरमान्नारूप्ये जीवितं मनः । उपेक्षां चैव रूपेऽष्टौ कामे दश नवाष्टौ वा ॥ २.१५ ॥ क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च । नवाप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः ॥ २.१६ ॥ एकादशभिरर्हत्त्वमुक्तं त्वेकस्य संभवात् । उपेक्षजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥ चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान् । सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान् ॥ २.१८ ॥ अष्टाभिः एकादशभिस्त्वाज्ञाज्ञाते न्द्रियान्वितः । आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥ सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः । युक्तः बालस्तथारूप्ये उपेक्षायुर्मनःशुभैः ॥ २.२० ॥ बहुभिर्युक्त एकान्नविंशत्यामलवर्जितैः । द्विलिङ्गः आर्यो रागी एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥ कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः । कायेन्द्रियी नवद्रव्यः दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥ चित्तं चैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः । प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥ वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः । मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥ श्रद्धाप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा । मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥ मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः । क्लिष्टे सदैव अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥ क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः । मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः ॥ २.२७ ॥ सवितर्कविचारत्वात्कुशले कामचेतसि । द्वांविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥ आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः । क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥ निवृतेऽष्टादश अन्यत्र द्वादशाव्याकृते मताः । मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥ कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः । ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम् ॥ २.३१ ॥ अह्रीरगुरुता अवद्ये भयादर्शित्व मत्रपा । प्रेम श्रद्धा गुरुत्वं ह्रीः ते पुनः कामरूपयोः ॥ २.३३ ॥ वितर्कचारा वौदार्यसूक्ष्मते मान उन्नतिः । मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥ चित्तं मनोऽथ विज्ञानमेकार्थं चित्तचैतसाः । साश्रया लम्बनाकाराः संप्रयुक्ताश्च पञ्चधा ॥ २.३४ ॥ विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता । आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥ नामकायादयश्चेति प्राप्तिर्लाभः समन्वयः । प्राप्त्यप्राप्ती स्वसंतान पतितानां निरोधयोः ॥ २.३६ ॥ त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका । स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा ॥ २.३७ ॥ त्रिधा नशैक्षाशैक्षाणामहेयानां द्विधा मता । अव्याकृताप्तिः सहजा अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥ निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा । अक्लिष्टाव्याकृताप्राप्तिः सातीताजातयोस्त्रिधा ॥ २.३९ ॥ कामाद्याप्तामलानां च मार्गस्याप्राप्तिरिष्यते । पृथग्जनत्वं तत्प्राप्तिभूसंचाराद्विहीयते ॥ २.४० ॥ सभागता सत्त्वसाम्यमासंज्ञिकमसंज्ञिषु । निरोधश्चित्तचैत्तानां विपाकः ते बृहत्फलाः ॥ २.४१ ॥ तथासंज्ञिसमापत्तिः ध्यानेऽन्त्ये निःसृतीच्छया । शुभा उपपद्यवेद्यैव नार्यस्य एकाध्विकाप्यते ॥ २.४२ ॥ निरोधाख्या तथैवेयं विहारार्थं भवाग्रजा । शुभा द्विवेद्यानियता च आर्यस्य आप्या प्रयोगतः ॥ २.४३ ॥ बोधिलभ्या मुनेः न प्राक्चतुस्त्रिंशत्क्षणाप्तितः । कामरूपाश्रये भूते निरोधाख्यादितो नृषु ॥ २.४४ ॥ आयुर्जीवितमाधार ऊष्मविज्ञायोर्हि यः । लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥ जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः । जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना ॥ २.४६ ॥ नामकायादयः संज्ञावाक्याक्षरसमुक्तयः । कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः तथा ॥ २.४७ ॥ सभागता सा तु पुनर्विपाकोऽपि आप्तयो द्विधा । लक्षणानि च निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥ कारणं सहभूश्चैव सभागः संप्रयुक्तकः । सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥ स्वतोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः । भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥ चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च । चित्तानुवर्त्तिनः कालफलादिशुभतादिभिः ॥ २.५१ ॥ सभागहेतुः सदृशाः स्वनिकायभुवः अग्रजाः । अन्योऽन्यं नवभूमिस्तु मार्गः समविशिष्टयोः ॥ २.५२ ॥ प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः । संप्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रयाः ॥ २.५३ ॥ सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः । विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥ सर्वत्रगः सभागश्च द्वयध्वगौ त्र्यध्वगास्त्रयः । संस्कृतं सविसंयोग फलं नासंस्कृतस्य ते ॥ २.५५ ॥ विपाकफलमन्त्यस्य पूर्वस्याधिपतं फलम् । सभाग सर्वत्रगयोर्निष्यन्दः पौरुषं द्वयोः ॥ २.५६ ॥ विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः व्याकृतोद्भवः । निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया ॥ २.५७ ॥ यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् । अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥ वर्त्तमानाः फलं पञ्च गृण्हन्ति द्वौ प्रयच्छतः । वर्त्तमानाभ्यतीतौ द्वौ एकोऽतीतः प्रयच्छति ॥ २.५९ ॥ क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् । विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥ चित्तचैताः तथान्येऽपि संप्रयुक्तकवर्जिताः । चत्वारः प्रत्यया उक्ताः हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥ चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः । आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥ निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः त्रयः । जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥ चतुर्भिश्चत्तचैत्ता हि समापत्तिद्वयं त्रिभिः । द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥ द्विधा भूतानि तद्धेतुः भौतिकस्य तु पञ्चधा । त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत् ॥ २.६५ ॥ कुशलाकुशलं कामे निवृतानिवृतं मनः । रूपारूप्येष्वकुशलादन्यत्र अनास्रवं द्विधा ॥ २.६६ ॥ कामे नव शुभाच्चित्ताच्चित्तानि अष्टाभ्य एव तत् । दशभ्योऽकुशलं तस्माच्चत्वारि निवृतं तथा ॥ २.६७ ॥ पञ्चभ्योऽनिवृतं तस्मात्सप्त चित्तान्यनन्तरम् । रूपे दशैकं च शुभात्नवभ्यस्तदनन्तरम् ॥ २.६८ ॥ अष्टाभ्यो निवृतं तस्मात्षट्त्रिभ्योऽनिवृतं पुनः । तस्मात्षटेवामारूप्ये तस्य नीतिः शुभात्पुनः ॥ २.६९ ॥ नव चित्तानि तत्षण्णां निवृतात्सप्त तत्तथा । चतुर्भ्यः शैक्षमस्मात्तु पञ्च अशैक्षं तु पञ्चकात् ॥ २.७० ॥ तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः । प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥ विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम् । चतुर्धाव्याकृतं कामे रूपे शिल्पविवर्जितम् ॥ २.७२ ॥ क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः शुभे । त्रयाणां रूपजे शैक्षे चतुर्णां तस्य शेषिते ॥ २.७३ ॥ अभिधर्मकोशे इन्द्रियनिर्द्देशो नाम द्वितीयं कोशस्थानं समाप्तमिति । श्रीलामावाकस्य तृतीयं कोशस्थानम् ओं नमो बुद्धाय । नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः । कामधातुः स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥ ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक्पृथक् । ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥ आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः । निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥ नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः । अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥ नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः । विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥ विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत् । भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥ अनिच्छावसनान्नान्ये चतस्रः स्थितयः पुनः । चत्वारः सास्रवाः स्कन्धाः स्वभूमावेव केवलम् ॥ ३.७ ॥ विज्ञानं न स्थितिः प्रोक्तं चतुष्कोटि तु संग्रहे । चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥ चतुर्धा नर तिर्यञ्चः नारका उपपादुकाः । अन्तराभवदेवाश्च प्रेता अपि जरायुजाः ॥ ३.९ ॥ मृत्युपपत्तिभवयोरन्तरा भवतीह यः । गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥ व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः । प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम् ॥ ३.११ ॥ सहैकत्र द्वयाभावातसन्तानाद्द्वयोदयात् । कण्ठोक्तेश्चास्ति गन्धर्वात्पञ्चोक्तेः गतिसूत्रतः ॥ ३.१२ ॥ एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः । स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥ सजातिशुद्धदिव्याक्षिदृश्यः कर्मर्द्धिवेगवान् । सकलाक्षः अप्रतिघवाननिवर्त्यः स गन्धभुक् ॥ ३.१४ ॥ विपर्यस्तमतिर्याति गतिदेशं रिरंसया । गन्धस्थानाभिकामोऽन्यः ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥ संप्रजानन् विशत्येकः तिष्ठत्यप्यपरः अपरः । निष्क्रामत्यपि सर्वाणि मूढोऽन्यः नित्यमण्डजः ॥ ३.१६ ॥ गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् । कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥ नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥ यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः । परलोकं पुनर्याति इत्यनादिभवचक्रकम् ॥ ३.१९ ॥ स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः । पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः ॥ ३.२० ॥ पूर्वक्लेशा दशाविद्या संस्काराः पूर्वकर्मणः । संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम् ॥ ३.२१ ॥ प्राक्षडायतनोत्पादात्तत्पूर्वं त्रिकसंगमात् । स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥ वित्तिः प्राक्मैथुनात्तृष्णा भोगमैथुनरागिणः । उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥ स भविष्यत्भवफलं कुरुते कर्म तत्भवः । प्रतिसंधिः पुनर्जातिः जरामरणमा विदः ॥ ३.२४ ॥ आवस्थिकः किलेष्टोऽयं प्राधान्या त्त्वङ्गकीर्तनम् । पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥ क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु फलं तथा । फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥ क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः । वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः ॥ ३.२७ ॥ हेतुरत्र समुत्पादः समुत्पन्नः फलं मतम् । विद्याविपक्षो धर्मोऽन्योऽविद्यामित्रानृतादिवत् ॥ ३.२८ ॥ संयोजनादिवचनात्कुप्रज्ञा चेन्न दर्शनात् । दृष्टेस्तत्संप्रयुक्तत्वात्प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥ नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट्संनिपातजाः । पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाव्हय ॥ ३.३० ॥ विद्याविद्येतरस्पर्शाः अमलक्लिष्टशेषिताः । व्यापादानुनयस्पर्शौ सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥ तज्जाः षड्वेदनाः पञ्च कायिकी चैतसी परा । पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥ कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः । त्रयाणामुत्तरः ध्यानद्वये द्वादश कामगाः ॥ ३.३३ ॥ स्वोऽष्टालम्बनमारूप्यो द्वयोः ध्यानद्वये तु षट् । कामाः षण्णां चतुर्णा स्वः एकस्यालम्बनं परः ॥ ३.३४ ॥ चत्वारोऽरूपिसामन्ते रूपगाः एक ऊर्ध्वगः । एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥ उक्तं च वक्ष्यते चान्यतत्र तु क्लेशा इष्यते । बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥ तुषितण्डुलवत्कर्म तथैवौषधि पुष्पवत् । सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये ॥ ३.३७ ॥ उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः । त्रिधान्ये त्रय आरूप्ये आहारस्थितिकं जगत् ॥ ३.३८ ॥ कवडीकार आहारः कामे त्र्यायतनात्मकः । न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥ स्पर्शंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु । मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥ निर्वृत्तिश्च इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् । द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम् ॥ ३.४१ ॥ छेदसंधान वैराग्यहानिच्युत्युपपत्तयः । मनोविज्ञान एवेष्टाः उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥ नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये । क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥ अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः । सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥ तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः । लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥ अपामेकादशोद्वेधं सहस्राणि च विंशतिः । अष्टलक्षौच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥ तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् । लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥ समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः । ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥ अश्वकर्णो विनितको निमिन्धरगिरिः ततः । द्वीपाः बहिश्चक्रवाडः सप्त हैमाः स आयसः ॥ ३.४९ ॥ चतूरत्नमयो मेरुः जलेऽशीतिसहस्रके । मग्नाः ऊर्ध्व जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥ अर्धार्धहानिरष्टासु समोच्छ्रायघनाश्च ते । शीताः सप्तान्तराण्येषामाद्याशीतिसहस्रिका ॥ ३.५१ ॥ आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः । अर्धार्धेनापराः शीताः शेषं बाह्यो महोदधेः ॥ ३.५२ ॥ लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु । जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥ सार्धत्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत् । पार्श्वत्रयं तथास्य एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥ गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः । सार्धे द्वे मध्यमस्य अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥ देहा विदेहाः कुरवः कौरवाश्चामरावराः । अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥ इहोत्तरेण कीटाद्रि नवकाद्धिमवान् ततः । पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥ अधः सहस्रैर्विशत्या तन्मात्रोऽवीचिरस्य हि । तदूर्ध्वं सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥ कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी । तेषां चतुर्दिशं शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥ अर्धेन मेरोश्चन्द्रार्कौ पञ्चाशत्सैकयोजनौ । अर्धरात्रोऽस्तंगमनं मध्यान्ह उदयः सकृत ॥ ३.६० ॥ प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा । हेमन्तानां चतुर्थे तु हीयते अहर्विपर्ययात् ॥ ३.६१ ॥ लवशो रात्र्यहर्वृद्धी दक्षिणोत्तरगे रवौ । स्वच्छाययार्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥ परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः । षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥ करोटपाणयस्तासु मालाधारास्सदामदाः । महाराजिकदेवाश्च पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥ मेरुमूर्ध्नि त्रयस्त्रिंशाः स चाशीतिसहस्रदिक् । विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥ मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् । पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥ सार्धद्विशतपार्श्वोऽत्र वैजयन्तः बहिः पुनः । तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥ विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् । पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥ तत ऊर्ध्व विमानेषु देवाः कामभुजस्तु षट् । द्वंद्वालिंङ्गनपाण्याप्तिवसितेक्षितमैथुनाः ॥ ३.६९ ॥ पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः । संभवत्येषु संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥ कामोपपत्तयस्तिस्त्रः कामदेवाः समानुषाः । सुखोपपत्तयस्तिस्त्रो नवत्रिध्यानभूमयः ॥ ३.७१ ॥ स्थानात्स्थानदधो यावत्तावदूर्ध्वं ततस्ततः । नोर्ध्व दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥ चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् । ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥ तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः । तत्सहस्रं त्रिसाहस्रः समसंवर्तसंभवः ॥ ३.७४ ॥ जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः । द्विगुणोत्तरवृद्धया तु पुर्वगोदोत्तराव्हयाः ॥ ३.७५ ॥ पादबृद्धया तनुर्याव त्सार्धक्रोशो दिवौकसाम् । कामिनां रूपिणां त्वादौ योजनार्धं ततः परम् ॥ ३.७६ ॥ अर्धार्धवृद्धि ऊर्ध्व तु परीत्ताभेभ्य आश्रयः । द्विगुणद्विगुणा हित्वानभ्रकेभ्य स्त्रियोजनम् ॥ ३.७७ ॥ सहस्रामायुः कुरुषु द्वयोरर्धार्धवर्जितम् । इहानियतमन्ते तु दशाब्दाः आदितोऽमितम् ॥ ३.७८ ॥ नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् । कामेऽधराणां तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥ द्विगुणोत्तरमुर्ध्वानामुभयं रूपिणां पुनः । नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥ आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् । महाकल्पः परीत्ताभात्प्रभृत्यधर्मधस्ततः ॥ ३.८१ ॥ कामेदेवायुषा तुल्या अहोरात्रा यथाक्रमम् । संजीवादिषु षट्सु आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥ अर्धं प्रतापने अवीचावन्तःकल्पं परं पुनः । कल्पं तिरश्चां प्रेतानां मासान्हा शतपञ्चकम् ॥ ३.८३ ॥ वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः । अर्वुदा द्विंशतिगुणप्रतिवृद्धयायुषः परे ॥ ३.८४ ॥ कुरुबाह्योऽन्तरामृत्युः परमाण्वक्षरक्षणाः । रूपनामाध्वपर्यन्ताः परमाणुरणुस्तथा ॥ ३.८५ ॥ लोहाप्शशा विगोच्छिद्ररजोलिक्षास्तदुद्भवाः । यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥ चतुर्विशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् । धनुः पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥ तेऽष्टौ योजनमित्याहुः विंशं क्षणशतं पुनः । तत्क्षणः ते पुनः षष्टिर्लवः त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥ त्रयो मुहूर्त्ताहोरात्रमासाः द्वादशमासकः । संवत्सरः सोनरात्रः कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥ संवर्त्तकल्पो नरकसंभवात्भाजनक्षयः । विवर्तकल्पः प्राग्वायोर्यावन्नरक संभवः ॥ ३.९० ॥ अन्तः कल्पोऽमितात्यवद्दशवर्षायुषः ततः । उत्कर्षा अपकर्षाश्च कल्पा अष्टा दशापरे ॥ ३.९१ ॥ उत्कर्ष एकः तेऽशीतिसहस्राद्यावदायुषः । इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥ विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम् । ते ह्यशीतिर्महाकल्पः तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥ बुद्धत्वमपकर्षे हि शताद्यावत्तदुद्भवः । द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः ॥ ३.९४ ॥ चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् । सुवर्णरूप्यताम्रायश्चक्रिणः तेऽधरक्रमात् ॥ ३.९५ ॥ एकद्वित्रिचतुर्द्वीपाः न च द्वौ सह बुद्धवत् । प्रत्युद्यानस्वयंयान कलहास्त्रजितः अवधाः ॥ ३.९६ ॥ देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः । प्रागासन् रूपिवत्सत्त्वाः रसरागात्ततः शनैः ॥ ३.९७ ॥ आलस्यात्संनिधिं कृत्वा साग्रहैः क्षेत्रपो भृतः । ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥ कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः । दिवसान् सप्त मासांश्च वर्षाणि च यथाक्रमम् ॥ ३.९९ ॥ संवर्तन्यः पुनस्तिस्त्रो भवन्त्यग्न्यम्बुवायुभिः । ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥ तदपक्षालसाधर्म्यात्न चतुर्थेऽस्त्यनिञ्जनात् । न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥ सप्ताग्निना अद्भिरेका एवं गतेऽद्भिः सप्तके पुनः । तेजसा सप्तकः पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥ अभिधर्मकोशभाष्ये लोकनिर्देशो नाम तृतीयं कोशस्थानं समाप्तमिति । श्रीलामावाकस्य यदत्र पुण्यम् । चतुर्थं कोशस्थानम् ओं नमो बुद्धाय । कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् । चेतना मानसं कर्म तज्जं वाक्कायकर्मणी ॥ ४.१ ॥ ते तु विज्ञप्त्यविज्ञप्ती कायविज्ञप्तिरिष्यते । संस्थानं न गतिर्यस्मात्संस्कृतं क्षणिकं व्ययात् ॥ ४.२ ॥ न कस्यचिदहेतोः स्याथेतुः स्याच्च विनाशकः । द्विग्राह्यं स्यात्न चाणौ तत्वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥ त्रिविधामलरूपोक्तिवृद्धयकुर्वत्पथादिभिः । क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥ स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् । अनास्रवं यत्र जातः अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥ नैःष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा । समाधिजौ पचयिकानुपात्ताभिन्नभूतजा ॥ ४.६ ॥ नाव्याकृतास्त्यविज्ञप्तिः त्रिधान्व्यतशुभं पुनः । कामे रूपेऽप्यविज्ञप्तिः विज्ञप्तिः सविचारयोः ॥ ४.७ ॥ कामेऽपि निवृता नास्ति समुत्थानमसद्यतः । परमार्थशुभो मोक्षः स्वतो मूलह्य्रपत्रपाः ॥ ४.८ ॥ संप्रयोगेण तद्युक्ताः समुत्था नात्क्रियादयः । विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे ॥ ४.९ ॥ समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् । प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥ प्रवर्तकं दृष्टिहेयं विज्ञानमुभयं पुनः । मानसं भावनाहेयं पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥ प्रवर्तके शुभादौ हि स्यात्त्रिधाप्यनुवर्तकम् । तुल्यं मुनेः शुभं यावत्नोभयं तु विपाकजम् ॥ ४.१२ ॥ अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा । संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥ अष्टधा प्रातिमोक्षाख्यः द्रव्यतस्तु चतुर्विधः । लिङ्गतो नामसंचारात्पृथक्ते चाविरोधिनः ॥ ४.१४ ॥ पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् । उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥ शीलं सुचरितं कर्म संवरश्चोच्यते पुनः । आद्ये विज्ञप्त्यविज्ञप्तो प्रातिमोक्षक्रियापथः ॥ ४.१६ ॥ प्रातिमोक्षान्विता अष्टौ ध्यानजेन तदन्वितः । अनास्रवेणार्यसत्त्वाः अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥ अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ । संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥ प्रातिमोक्षस्थितो नित्यमत्यागा द्वर्तमानया । अविज्ञप्त्यान्वितः पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥ तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा । अतीताजातया आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥ समाहीतार्यमार्गस्थौ तौ युक्तौ वर्तमानया । मध्यस्थस्यास्ति चेदादौ मध्यया ऊर्ध्वं द्विकालया ॥ ४.२१ ॥ असंवरस्थः शुभयाशुभया संवरे स्थितः । अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥ विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः । अतीतया क्षणादूर्ध्वमात्यागात्नास्त्यजातया ॥ ४.२३ ॥ निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः । असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ ४.२४ ॥ विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः । त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥ ध्यानजो ध्यानभूम्यैव लभ्यते अनास्रवस्तया । आर्यया प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥ यावज्जीवं समादानमहोरात्रं च संवृतेः । नासंवरोऽस्त्यहोरात्रं न किलैवं प्रगृह्यते ॥ ४.२७ ॥ काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता । उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात् ॥ ४.२८ ॥ शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् । चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥ अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न । उपासकत्वोपगमात्संवृतुक्तिस्तु भिक्षुवत् ॥ ४.३० ॥ सर्वे चेत्संवृता एकदेशकार्यादयः कथम् । तत्पलनात्किल प्रोक्ताः मृद्वादित्वं यथा मनः ॥ ४.३१ ॥ बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः । निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ४.३२ ॥ मिथ्याचारातिगर्ह्यत्वात्सौकर्यादाक्रियाप्तितः । यथाभ्युपगमं लाभः संवरस्य न संतते ॥ ४.३३ ॥ मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे । प्रतिक्षेपणसावद्यान्मद्यादेव अन्युगुप्तये ॥ ४.३४ ॥ सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते । मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रव संवरौ ॥ ४.३५ ॥ संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः । असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥ असंवरस्य क्रियया लाभोऽभ्युपगमेन वा । शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥ प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः । उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥ पतनीयेन चेत्येके सद्धर्मान्तधितोऽपरे । धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥ भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् । तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥ असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः । वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥ कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः । प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥ नृणामसंवरो हित्वा शण्ढ पण्डद्विधाकृतीन् । कुरूंश्च संवरोऽप्येवं देवानां च नृणां त्रयः ॥ ४.४३ ॥ कामरूपजदेवानां ध्यानजः अनास्रवः पुनः । ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥ क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् । पुण्यापुण्यमनिञ्जं च सुखेवेद्यादि च त्रयम् ॥ ४.४५ ॥ कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् । तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥ सुखवेद्यं शुभं ध्यानादातृतीयाततः परम् । अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥ अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः । अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥ स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः । संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥ नियतानियतं तच्च नियतं त्रिविधं पुनः । दृष्टधर्मादिवेद्यत्वात्पञ्चधा कर्म केचन ॥ ४.५० ॥ चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः । सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा ॥ ४.५१ ॥ यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् । नान्यवेद्यकृदप्यार्यः कामेऽग्रे वास्थिरोऽपि न ॥ ४.५२ ॥ द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः । दृष्टधर्मफलं तच्च निकायो ह्येक एव सः ॥ ४.५३ ॥ तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् । गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥ दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः । तद्भूम्यत्यन्तवैराग्यात्विपाके नियतं हि यत् ॥ ४.५५ ॥ ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः । तेषु कारापकारास्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥ कुशलस्यावितर्कस्य कर्मणो वेदना मता । विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु ॥ ४.५७ ॥ चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः । भयोपघातवैषम्यशोकैश्च अकुरुकामिनाम् ॥ ४.५८ ॥ वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे । कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम् ॥ ४.५९ ॥ अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् । कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥ धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके । या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥ नवमे चेतना या सा कृष्णशुक्लक्षयाय च । शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥ अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः । दृग्धेयं कृष्णमन्ये अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥ अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् । मौनत्रयं त्रिधा शौचं सर्व सुचरितत्रयम् ॥ ४.६४ ॥ अशुभं कायकर्मादि मतं दुश्चरित त्रयम् । अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥ विपर्ययात्सुचरितं तदौदारिकसंग्रहात् । दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥ अशुभाः षडविज्ञप्तिः द्विधैकः तेऽपि कुर्वतः । द्विविधाः सप्त कुशलाः अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥ सामन्तकास्तु विज्ञप्तिः अविज्ञप्तिर्भवेन्न वा । विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥ तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः । कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥ वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः । परस्त्रीगमनाभिध्यादत्तादानसमापनम् ॥ ४.७० ॥ मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते । सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥ समं प्राक्च मृतस्यास्ति न मौलः अन्याश्रयोदयात् । सेनादिष्वेककार्यत्वात्सर्वे कर्त्तृवदन्विताः ॥ ४.७२ ॥ प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् । अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥ अगम्यगमनं काममिथ्याचारश्चतुर्विधः । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥ चक्षुः श्रोतमनश्चित्तैरनुभूतं त्रिभिश्च यत् । तद्दष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥ पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने । पारूष्यमप्रियं सर्व क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥ अतोऽन्यत्क्लिष्टमित्यन्ये लपनागीतनाट्यवत् । कुशास्तवच्च अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥ व्यापादः सत्त्वविद्वेषः नास्तिदृष्टिः शुभाशुभे । मिथ्यादृष्टिः त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥ मूलच्छेदस्त्वसद्दृष्टया कामाप्तोत्पत्तिलाभिनाम् । फलहेत्वपवादिन्या सर्वथा क्रमशः नृषु ॥ ४.७९ ॥ छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः । संधिः काङ्क्षास्तिदृष्टिभ्यां नेहानन्तर्यकारिणः ॥ ४.८० ॥ युगपद्यावदष्टाभिरशुभैः सह वर्तते । चेतना दशभिर्यावच्छुभैः नैकाष्टपञ्चभिः ॥ ४.८१ ॥ भिन्नप्रलापपारूष्यव्यापादा नरके द्विधा । समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः ॥ ४.८२ ॥ सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाशुभाः । शुभास्त्रयस्तु सर्वत्र संमुखीभावलाभतः ॥ ४.८३ ॥ आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते । संमुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ४.८४ ॥ सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः । दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥ लोभजं कायवाक्कर्म मिथ्याजीवः पृथक्कृतः । दुःशोधत्वात्परिष्कारलोभोत्थं चेत्न सूत्रतः ॥ ४.८६ ॥ प्रहाणमार्गे समले सफलं कर्म पञ्चभिः । चतुर्भिरमले अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥ अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत् । चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥ अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् । अव्याकृतस्य द्वे त्रीणि त्रीणी चैते शुभादयः ॥ ४.८९ ॥ सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः । मध्यमा द्वे अजातस्य फलानि त्रीण्यनागताः ॥ ४.९० ॥ स्वभूमिधर्माश्चत्वारि त्रीणि द्वे वान्यभूमिकाः । शैक्षस्य त्रीणि शैक्षाद्याः अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥ धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् । ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥ त्रीणि चत्वारि चैकं च दृग्घेयस्य तदादयः । ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥ अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् । अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥ एकं जन्माक्षिपत्येकमनेकं परिपूरकम् । नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥ आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः । कौरवासंज्ञित्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥ त्रिषु द्विपेष्वानन्तर्य शण्ढा दीनां तु नेष्यते । अल्पोपकारालज्जित्वात्शेषे गतिषु पञ्चसु ॥ ४.९७ ॥ संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः । अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः ॥ ४.९८ ॥ तदवद्य मृषावादस्तेन भेत्ता समन्वितः । अवीचौ पच्यते कल्पमधिकैरधिका रुजः ॥ ४.९९ ॥ भिक्षुर्दृक्चरितो वृत्ती भिनत्ति अन्यत्र बालिशान् । शास्तृमार्गान्तरक्षान्तौ भिन्नः न विवसत्यसौ ॥ ४.१०० ॥ चक्रभेदः स च मतः जम्बूद्वीपे नवादिभिः । कर्मभेदस्त्रिषु द्विपेषु अष्टभिरधिकैश्च सः ॥ ४.१०१ ॥ आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ । सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥ उपकारिगुणक्षेत्रनिराकृतिविपादनात् । व्यञ्जनान्तरितोऽपि स्यात्माता यच्छोणितोद्भवः ॥ ४.१०३ ॥ बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति । नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥ संघभेदे मृषावादो महावद्यतमो मतः । भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥ दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् । बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥ आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् । क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥ बोधिसत्त्वः कुतो यावत्यतो लक्षण कर्मकृत् । सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥ जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः । चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥ एकैकं पुण्यशतजमसंख्येयत्रयान्त्यजाः । विपश्यी दीपकृदत्नशिखी शाक्यमुनिः पुरा ॥ ४.११० ॥ सर्वत्र सर्व ददतः कारूण्याद्दानपूरणम् । अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥ तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम् । पुण्यं क्रियाथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥ दीयते येन तद्दानं पूजानुग्रहकाम्यया । कायवाक्कर्म सोत्थानं महाभोग्यफलं च तत् ॥ ४.११३ ॥ स्वपरार्थोभयार्थाय नोभयार्थाय दीयते । तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥ दाता विशिष्टः श्रद्धाद्यैः सत्कृत्यादि ददाति अतः । सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥ वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्वि वा । प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः ॥ ४.११६ ॥ गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते । अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य च अष्टमम् ॥ ४.११७ ॥ मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने । बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥ पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः । एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥ संचेतनसमाप्तिभ्यां निष्क्रौकृत्य विपक्षतः । परिवाराद्विपाकाच्च कर्मोपचित्तमुच्यते ॥ ४.१२० ॥ चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवदगृण्हति । कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥ दौःशील्यमशुभं रूपं शीलं तद्विरतिः द्विधा । प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥ दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् । समाहितं तु कुशलं भावना चित्तवासनात् ॥ ४.१२३ ॥ स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना । चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥ धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना । पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥ योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा । लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥ सावद्या निवृता हीनाः क्लिष्टाः धर्माः शुभामलाः । प्रणीताः संस्कृतशुभा सेव्याः मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥ अभिधर्मकोशे कर्मनिर्द्देशो नाम चतुर्थ कोशस्थानमिति ॥ पञ्चमं कोशस्थानम् ओं नमो बुद्धाय मूलं भवस्यानुशयाः षड्रागः प्रतिघस्तथा । मानोऽविद्या च दृष्टिश्च विचिकित्सा च ते पुनः ॥ ५.१ ॥ षड्रागभेदात्सप्तोक्ताः भवरागो द्विधातुजः । अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥ दृष्टयः पञ्च सत्कायमिथ्यान्तग्रहदृष्टयः । दृष्टिशीलव्रतपरामर्शाविति पुनर्दशः ॥ ५.३ ॥ दशैते सप्तासप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः । यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥ चत्वारो भावनाहेयाः त एवाप्रतिघाः पुनः । रूपधातौ तथारूप्ये इत्यष्टानवतिर्मताः ॥ ५.५ ॥ भवाग्रजाः क्षान्तिवध्य दृग्घेया एव शेषजाः । दृग्भावनाभ्यामक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥ आत्मात्मीयध्रुवोच्छेदनास्तिहीना ग्रदॄष्टयः । अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥ ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते । कारणाभिनिवेशोऽतो दूःखदृग्घेय एव सः ॥ ५.८ ॥ दृष्टित्रयाद्विपर्यासचतुष्कं विपरीततः । नितीरणात्समारोपात्संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥ सप्त मानाः नवविधास्त्रिभ्यः दृग्भावनाक्षयाः । वधादिपर्यवस्थानं हेयं भावनया तथा ॥ ५.१० ॥ विभवेच्छा न चार्यस्य संभवन्ति विधादयः । नास्मिता दृष्टिपुष्टत्वात्कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥ सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा । विमतिः सह ताभिश्च याविद्यावेणिकी च या ॥ ५.१२ ॥ नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः । प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥ मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला । निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥ स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः । तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥ न रागस्तस्य वर्ज्यत्वात्न द्वेषोऽनपकारतः । न मानो न परामर्शौ शान्तशुद्ध्यग्रभावतः ॥ ५.१६ ॥ सर्वत्रगा अनुशयाः सकलामनुशेरते । स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥ नानास्रवोर्ध्वविषयाः अस्वीकाराद्विपक्षतः । येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥ ऊर्ध्वमव्याकृताः सर्वे कामे सत्कायदर्शनम् । अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः ॥ ५.१९ ॥ कामेऽकुशलमूलानि रागप्रतिघमूढयः । त्रीण्यकुशलमूलानि तृष्णाविद्या मतिश्च सा ॥ ५.२० ॥ द्विधोर्ध्ववृत्तेर्नातोऽन्यौ चत्वार्येवेति बाह्यकाः । तृष्णादृङ्मानमोहास्ते ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥ एकांशतो व्याकरणं विभज्य परिपृच्छ्य च । स्थाप्यं च मरणोत्पत्ति विशिष्टात्मान्यतादिवत् ॥ ५.२२ ॥ रागप्रतिघमानैः स्यदतीतप्रत्युपस्थितैः । यत्रोत्पन्नाप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥ सर्वत्रानागतैरेभिर्मानसैः स्वाध्विके परैः । अजैः सर्वत्र शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥ सर्वकालास्तिता उक्तत्वात्द्वयात्सद्विषयात्फलात् । तदस्तिवादात्सर्वास्तिवादा इष्टाः चतुर्विधाः ॥ ५.२५ ॥ ते भावलक्षणावस्थान्यथान्यथिकसंज्ञिताः । तृतीयः शोभनः अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥ किं विघ्नं तत्कथं नान्यतध्वायोगः तथा सतः । अजातनष्टता केन गम्भीरा खलु धर्मता ॥ ५.२७ ॥ प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः । प्राक्प्रहीणे प्रकरे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥ दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः । स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥ स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः । आरूप्यजास्त्रिधात्वात्पत्रयानास्रवगोचराः ॥ ५.३० ॥ निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः । अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥ द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः । मोहाकाङ्क्षा ततो मिथ्यादृष्टिः सत्कायदृक्ततः ॥ ५.३२ ॥ ततोऽन्तग्रहणं तस्माच्छीलामर्शः ततो दृशः । रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्र इत्यनुक्रमः ॥ ५.३३ ॥ अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात् । अयोनिशो मनस्कारात्क्लेशः संपूर्णकारणः ॥ ५.३४ ॥ कामे सपर्यवस्थानाः क्लेशाः कामस्रवो विना । मोहेन अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥ अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः । अत एकीकृताः मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥ तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् । नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥ यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनात् । उपादानानि अविद्या तु ग्राहिका ने ति मिश्रिता ॥ ५.३८ ॥ अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते । अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥ आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥ संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः । द्रव्यामर्शन सामान्यद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥ एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः । ईर्ष्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥ पञ्चधावरभागीयं द्वाभ्यां कामानतिक्रमः । त्रिभिस्तु पुनरावृत्तिः मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥ अगन्तुकामतामार्गविभ्रमो मार्गसंशयः । इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥ पञ्चधैवोर्ध्वभागीयं द्वौ रागौ रूप्यरूपिजौ । औद्धत्यमानमोहाश्च विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥ येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः । क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥ आह्रीक्यमनपत्रप्यमीर्ष्यामात्सर्यमुद्धवः । कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥ क्रोधम्रक्षौ च रागोत्था आह्रीक्यौद्धत्यमत्सराः । म्रक्षे विवादः अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥ कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये । अन्ये च षट्क्लेशमलाः माया शाठ्यं मदस्तथा ॥ ५.४९ ॥ प्रदाश उपनाहश्च विहिंसा चेति रागजौ । मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥ दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् । तत्राह्रीक्यानपत्राप्यस्त्यानामिद्धोद्धवा द्विधा ॥ ५.५१ ॥ तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मलाः । कामेऽशुभाः त्रयो द्विधा परेणाव्याकृतास्ततः ॥ ५.५२ ॥ माया शाठ्यं च कामाद्यध्यानयोः ब्रह्मवञ्चनात् । स्त्यानौद्धत्यमदा धातुत्रये अन्ये कामधातुजाः ॥ ५.५३ ॥ समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः । उपक्लेशाः स्वतन्त्राश्च षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥ सुखाभ्यां संप्रयुक्तो हि रागः द्वेषो विपर्ययात् । मोहः सर्वैः असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥ दौर्मनस्येन काङ्क्षा अन्ये सौमनस्येन कामजाः । सर्वेऽप्युपेक्षया स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥ दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् । उपनाहः प्रदाशश्च मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥ माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा मदः । सुखाभ्यां सर्वगोपेक्षा चत्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥ कामे निवरणानि एकविपक्षाहारकृत्यतः । द्वयकेता पञ्चता स्कन्धविघातविचिकित्सनात् ॥ ५.५९ ॥ आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् । आलम्बनप्रहाणाच्च प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥ प्रहाणाधारभूतत्त्व दूषणाख्यश्चतुर्विधः । प्रतिपक्षः प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥ वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः । भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥ सकृत्क्षयः विसंयोगलाभस्तेषां पुनः पूनः । प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥ परिज्ञा नव कामाद्यप्रकारद्वयसंक्षयः । एका द्वयोः क्षये द्वे ते तथोर्ध्वं तिस्र एव ताः ॥ ५.६४ ॥ अन्या अवरभागीयरूपसर्वास्रवक्षयाः । तिस्रः परिज्ञाः षट्क्षान्तिफलं ज्ञानस्य शेषिताः ॥ ५.६५ ॥ अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा । अष्टौ सामन्तकस्यैका मौलारूप्यत्रयस्य च ॥ ५.६६ ॥ आर्यमार्गस्य सर्वाः द्वे लौकिकस्य अन्वयस्य च । धर्मज्ञानस्य तिस्रस्तु षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥ अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः । हेतुद्वयसमुद्घातात्परिज्ञा धात्वतिक्रमात् ॥ ५.६८ ॥ नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः । भावनास्थः पुनः षडिभरेकया वा द्वयेन वा ॥ ५.६९ ॥ तासां संकलनं धातुवैराग्यफललाभतः । एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥ समाप्तः परिज्ञाप्रसङ्गः ॥ अभिधर्मकोशेऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्तमिति ॥ श्रीलामावाकस्य यदत्र पुण्यम् । षष्ठं कोशस्थानम् ओं नमो बुद्धाय ॥ क्लेशप्रहाणामाख्यातं सत्यदर्शनभावनात् । द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः ॥ ६.१ ॥ सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा । निरोधमार्ग इति एषां यथाभिसमयं क्रमः ॥ ६.२ ॥ दुःखा स्त्रिदूःखतायोगाद्यथायोगमशेषतः । मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥ यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् । घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥ वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते । नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥ व्यपकर्षद्वयवतः नासंतुष्टमहेच्छयोः । लब्धे भूयःस्पृहातुष्टिरलब्धेच्छा महेच्छता ॥ ६.६ ॥ विपर्यासात्तद्विपक्षौ त्रिधात्वाप्तामलौ च तौ । अलोभः आर्यवंशाश्च तेषां तुष्टयात्मकास्त्रयः ॥ ६.७ ॥ कर्मान्तेन त्रिभिर्वृत्तिः तृष्णोत्पादविपक्षतः । ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥ तत्रावतारोऽशुभया चानापानस्मृतेन च । अधिरागवितर्काणां शंकला सर्वारागिणाम् ॥ ६.९ ॥ आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः । पादास्थ्न आकपालार्धत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥ अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात् । अलोभो दशभूः कामदृश्यालम्बा नृजाशुभा ॥ ६.११ ॥ आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा । कामाश्रया न बाह्यानां षड्विधा गणनादिभिः ॥ ६.१२ ॥ आनापानौ यतः कायः सत्त्वाख्यौ अनुपात्तकौ । नैःष्यन्दिकौ नाधरेण लक्ष्येते मनसा च तौ ॥ ६.१३ ॥ निष्प्रन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् । कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥ प्रज्ञा श्रुतादिमयी अन्ये संसर्गालम्बनाः क्रमः । यथोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥ स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः । आनित्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥ तत ऊष्मगतोत्पत्तिः तच्चतुःसत्यगोचरम् । षोडशाकारमूष्मभ्यो मूर्धानः तेऽपि तादृशाः ॥ ६.१७ ॥ उभयाकरणं धर्मेण अन्यैरपि तु वर्धनम् । तेभ्यः क्षान्तिः द्विधा तद्वत्क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥ कामाप्तदुःखविषया त्वधिमात्रा क्षणं च सा । तथाग्रधर्माः सर्वे तु पञ्चस्कन्धाः विनाप्तिभिः ॥ ६.१९ ॥ इति निर्वेधभागीयं चतुर्धा भावनामयम् । अनागम्या न्तरध्यानभूमिकं द्वे त्वधोऽपि वा ॥ ६.२० ॥ कामाश्रयाणि अग्रधर्मान् द्वयाश्रयान् लभतेऽङ्गना । भूमित्यागात्त्यजत्यार्यस्तानि अनार्यस्तु मृत्युना ॥ ६.२१ ॥ आद्ये द्वे परिहाण्या च मौलेस्तत्रैव सत्यदृक् । अपूर्वाप्तिर्विहीनेषु हानी द्वे असमन्वितिः ॥ ६.२२ ॥ मूर्धलाभी न मूलच्छित्क्षान्तिलाभ्यनपायगः । शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्त्रीण्यपीतरः ॥ ६.२३ ॥ आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः । प्राक्तेभ्यो मोक्षभागीयं क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥ श्रुतचिन्तामयं त्रीणि कर्माणि आक्षिप्यते नृषु । लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥ कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः । शेषे दुःखेऽन्वयक्षान्तिज्ञाने सत्यत्रये तथा ॥ ६.२६ ॥ इति षोडशचित्तोऽयं सत्याभिसमयः त्रिधा । दर्शनालम्बकार्याख्यः सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥ क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् । अदृष्टदृष्टेर्दृङ्ग्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥ मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ । अहीनभावनाहेयौ फलाद्युअप्रतिपन्नकौ ॥ ६.२९ ॥ यावत्पञ्चप्रकारघ्नौ द्वीतीयेऽर्वाङ्नवक्षयात् । कामाद्विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥ षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः । श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥ फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यतः । नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥ नवप्रकारा दोषा हि भूमौ भूमौ तथा गुणाः । मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥ अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः । त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः ॥ ६.३४ ॥ आपञ्चमप्रकारघ्नो द्वितीयप्रतिपन्नकः । क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥ क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः । तृतीयप्रतिपन्नश्च सोऽनागामि नवक्षयात् ॥ ६.३६ ॥ सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः । ऊर्ध्वस्त्रोताश्च स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥ स प्लुतोऽर्धप्लुतः सर्वच्युतश्च अन्यो भवाग्रगः । आरूप्यगश्चतुर्धान्यः इह निर्वापकोऽपरः ॥ ६.३८ ॥ पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः । तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥ ऊर्ध्वस्त्रोतुरभेदेन सप्त सद्गतयो मताः । सदसद्वृत्त्यवृत्तिभ्यां गताप्रत्यागतेश्च ताः ॥ ६.४० ॥ न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः । स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥ आकीर्यते चतुर्थ प्राक्निष्पत्ति क्षणमिश्रणात् । उपपत्तिविहारार्थ क्लेशभीरुतयापि च ॥ ६.४२ ॥ तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः । निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥ आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः । नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः ॥ ६.४४ ॥ तत्क्षयाप्त्या क्षयज्ञानमाशैक्षोऽर्हन्नसौ तदा । लोकोत्तरेण वैराग्यं भवाग्रातन्यतो द्विधा ॥ ६.४५ ॥ लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा । लोकोत्तरेण चेत्येके त्यक्ते क्लेशासमन्वयात् ॥ ६.४६ ॥ भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः । अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥ ध्यानात्सामन्तकाद्वान्त्यो मुक्ति मार्गस्त्रिभूजये । नोर्ध्वं सामन्तकातार्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥ विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् । शान्ताद्युदाराद्याकाराः उत्तराधरगोचराः ॥ ६.४९ ॥ यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः न चेत् । क्षयज्ञानमशैक्षो वा दृष्टिः सर्वस्य सार्हतः ॥ ६.५० ॥ श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम् । एकान्नवतिस्तानि मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥ चतुष्फलव्यवस्था तु पञ्चकारणसंभवात् । पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥ ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना । लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम् ॥ ६.५३ ॥ ब्राह्मण्यं ब्रह्मचक्रं च तदेव ब्रह्मवर्तनात् । धर्मचक्रं तु दृङ्मार्गः आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥ कामे त्रयाप्तिः अन्त्यस्य त्रिषु नोर्ध्व हि दृक्पथः । असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥ षडर्हन्तो मताः तेषां पञ्च श्रद्धाधिमुक्तिजाः । विमुक्तिः सामयिक्येषामकोप्याकोप्यधर्मणः ॥ ६.५६ ॥ अतोऽसमयमुक्तोऽसौ दृष्टिप्राप्तान्वयश्च सः । तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥ गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः न पूर्वकात् । शैक्षानार्याश्च षड्गोत्राः संचारो नास्ति दर्शने ॥ ६.५८ ॥ परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः । अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥ म्रियते न फलभ्रष्टः तदकार्य करोति न । विमुक्त्यानन्तर्यपथा नवाकोप्ये अतिसेवनात् ॥ ६.६० ॥ दृष्टयाप्ततायामेकैकः अनास्रवाः नृषु वर्धनम् । अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षट्यतः ॥ ६.६१ ॥ सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् । द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥ प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः । पुद्गलाः सप्त षट्त्वेते द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥ निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः । समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥ अशैक्षपरिपूर्णत्वं द्वाभ्यां मार्गः समासतः । विशेषमुक्त्यानन्तर्यप्रयोगाख्य श्चतुर्विधः ॥ ६.६५ ॥ ध्यानेषु मार्गः प्रतिपत्सुखा दुःखान्यभूमिषु । धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥ अनुत्पादक्षयज्ञाने बोधिः तादनुलोम्यतः । सप्तत्रिंशत्तु तत्पक्ष्याः नामतो द्रव्यतो दश ॥ ६.६७ ॥ श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे । प्रश्रब्धिशीलसंकल्पाः प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥ वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः । प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६.६९ ॥ आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः । भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥ अनास्रवाणि बोध्यङ्गमार्गाङ्गानि द्विधेतरे । सकलाः प्रथमे ध्याने अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥ द्वितीयेऽन्यत्र संकल्पात्द्वयोस्तद्द्वयवर्जिताः । ध्यानान्तरे च शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु ॥ ६.७२ ॥ कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः । त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥ लाभो मार्गाभिसमये बुद्धतत्संघयोरपि । धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥ मार्गश्च द्रव्यतस्तु द्वे श्रद्धा शीलं च निर्मलाः । नोक्ता विमुक्तिः शैक्षाङ्गं बद्धत्वात्सा पुनर्द्विधा ॥ ६.७५ ॥ असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता । साङ्गः सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥ विमुच्यते जायमानसशैक्षं चित्तमावृतेः । निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥ असंस्कृतैव धात्वाख्या विरागो रागसंक्षयः । प्रहाणधातुरन्येषां निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥ निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः विरज्यते । सर्वैर्जहाति यैः एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥ अभिधर्मकोशे मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति ॥ सप्तमं कोशस्थानम् नमो बुद्धाय ॥ नामला क्षान्तयो ज्ञानं क्षयानुत्पादधीर्न दक् । तदन्योभयथार्या धीः अन्या ज्ञानं दृशश्च षट् ॥ ७.१ ॥ सास्रवानास्रवं ज्ञानमाद्यं संवृतिज्ञापकम् । अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥ सांवृतं सर्वविषयं कामदुःखादिगोचरम् । धर्माख्यमन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥ ते एव सत्यभेदेन चत्वारि एते चतुर्विधे । अनुत्पादक्षयज्ञाने ते पुनः प्रथमोदिते ॥ ७.४ ॥ दुःखहेत्वन्वयज्ञाने चतुर्भ्यः परचित्तवित् । भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेत्ति तत् ॥ ७.५ ॥ त धर्मान्वयधीपक्ष्यमन्योऽन्यं दर्शनक्षणौ । श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥ क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः । न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥ स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात् । प्रयोगकृतकृत्यत्वहेतूपचयतो दश ॥ ७.८ ॥ धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे । त्रिधातुप्रतिपक्षस्तत्कामधातोऽस्तु नान्वयम् ॥ ७.९ ॥ धर्मज्ञानान्वयज्ञानं षोडशाकारमन्यथा । तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥ तथा परमनोज्ञानं निर्मलं समलं पुनः । ज्ञेयस्वलक्षणाकारमेकैकद्रव्यगोचरम् ॥ ७.११ ॥ शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते । नामलः षोडशभ्योऽन्य आकारः अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥ द्रव्यतः षोडशाकाराः प्रज्ञाकारः तया सह । आकारयन्ति सालम्बाः सर्वमाकार्यते तु सत् ॥ ७.१३ ॥ त्रिधाद्यं कुशलान्यन्यानि आद्यं सर्वासु भूमिषु । धर्माख्यं षट्सु नवसु त्वन्वयाख्यं तथैव षट् ॥ ७.१४ ॥ ध्यानेष्वन्यमनोज्ञानं कामरूपाश्रयं च तत् । कामाश्रयं तु धर्माख्यमन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥ स्मृत्युपस्थानमेकं धीर्निरोधे परचित्तधीः । त्रीणि चत्वारि शेषाणि धर्मधीगोचरो नव ॥ ७.१६ ॥ नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम् । चतुर्णां दश नैकस्य योज्या धर्माः पुनर्दश ॥ ७.१७ ॥ त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा । सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥ एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे । द्वितीये त्रिभिः ऊर्ध्वस्तु चतुर्ष्वेकैकवृद्धिमान् ॥ ७.१९ ॥ यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने । अनागतानि तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥ अतोऽभिसमयान्त्याख्यं तदानुत्पत्तिधर्मकम् । स्वाधोभूमि निरोधेऽन्त्यं स्वसत्याकारं यात्निकम् ॥ ७.२१ ॥ षोडशे षट्सरागस्य वीतरागस्य सप्त तु । सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥ सप्तभूमिजयाभिज्ञाकोप्याप्त्याकीर्णभाविते आनन्तर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥ शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना । आनन्तर्यपथे षण्णां भवाग्रविजये तथा ॥ ७.२४ ॥ नवानां तु क्षयज्ञाने अकोप्यस्य दश भावना । तत्संचरेऽन्त्यमुक्तौ च प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥ यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते । सास्रवाश्च क्षयज्ञाने लब्धपूर्वं न भाव्यते ॥ ७.२६ ॥ प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने । प्रतिपक्षविनिर्धावभावने सास्रवस्य तु ॥ ७.२७ ॥ अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः । स्थानास्थाने दश ज्ञानानि अष्टौ कर्मफले नव ॥ ७.२८ ॥ ध्यानाद्यक्षाधिमोक्षेषु धातौ च प्रतिपत्सु तु । दश वा संवृतिज्ञानं द्वयोः षट्दश वा क्षये ॥ ७.२९ ॥ प्राङिनविसच्युतोत्पादबलध्यानेषु शेषितम् । सर्वभूमिषु केनास्य बलमव्याहतं यतः ॥ ७.३० ॥ नारायणबलं काये संधिष्वन्ये दशाधिकम् । हस्त्यादिसप्तकबलं स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥ वैशारद्यं चतुर्धा तु यथाद्यदशमे बले । द्वितीयसप्तमे चैव स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥ महाकृपा संवृतिधीः संभाराकारगोचरैः । समत्वादाधिमात्र्याच्च नानाकरणमष्टधा ॥ ७.३३ ॥ संभारधर्मकायाभ्यां जगतश्चार्थचर्यया । समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥ शिष्यसाधारणा अन्ये धर्माः केचित्पृथग्जनैः । अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥ संवृतिज्ञानमरणा ध्यानेऽन्त्ये अकोप्यधर्मणः । नृजा अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥ तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत्तथा । धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥ तिस्रो नामाथवाग्ज्ञानमविवर्त्यं यथाक्रमम् । चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥ वाङ्मार्गालम्बना चासौ नव ज्ञानानि सर्वभूः । दश षड्वार्थसंवित्सा सर्वत्र अन्ये तु सांवृतम् ॥ ७.३९ ॥ कामध्यानेषु धर्मे वित्वाचि प्रथमकामयोः । विकलाभिर्न तल्लाभी षडेते प्रान्तकोटिकाः ॥ ७.४० ॥ तत्षड्विधं सर्वभूम्यनुलोमितम् । वृद्धिकाष्ठागतं तच्च बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥ ऋद्धिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये । ज्ञात साक्षीक्रियाभिज्ञा षड्विधा मुक्तिमार्गधीः ॥ ७.४२ ॥ चतस्रः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम् । क्षयाभिज्ञा बलं यद्वत्पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥ स्वाधोभूविषयाः लभ्या उचितास्तु विरागतः । तृतीया त्रीप्युपस्थानानि आद्यं श्रोत्रद्धिर्चक्षुषि ॥ ७.४४ ॥ अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः । तिस्रो विद्याः अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥ अशैक्ष्यन्त्या तदाख्ये द्वे तत्संतानमुद्भवात् । इष्टे शैक्षस्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥ आद्या तृतीया षष्ठी च प्रातिहार्याणि शासनम् । अग्य्रमव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥ ऋद्धिः समाधिः गमनं निर्माणं च गतिस्त्रिधा । शास्तुर्मनोजवा अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥ कामाप्तं निर्मितं बाह्यं चतुरायतनं द्विधा । रूपाप्तं द्वे तु निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥ यथाक्रमं ध्यानफलं द्वे यावत्पञ्च नोर्ध्वजम् । तल्लाभो ध्यानवत्शुद्धात्तत्स्वतश्च ततोऽपि ते ॥ ७.५० ॥ स्वभूमिकेन निर्माणं भाषणं त्वधरेण च । निर्मात्रैव सहाशास्तुः अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥ मृतस्याप्यस्त्यधिष्ठानं नास्थिरस्य अपरे तु न । आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥ अव्याकृतं भावनाजं त्रिविधं तूपपत्तिजम् । ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥ दिव्यश्रोत्राक्षिणी रूपप्रसादौ ध्यानभूमिकौ । सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥ दुरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति । मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥ द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खड्गदैशिकाः । अन्यदप्युपपत्त्याप्तं तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥ चेतोज्ञानं तु तत्त्रेधा तर्कविद्याकृतं च यत् । जानते नारका आदौ नृणां नोत्पत्तिलभिकम् ॥ ७.५६ ॥ अभिधर्मकोशे ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥ अष्टमं कोशस्थानम् ओं नमो बुद्धाय ॥ द्विधा ध्यानानि चत्वारि प्रोक्तास्तदुपपत्तयः । समापत्तिः शुभैकाग्य्रं पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥ विचारप्रीतिसुखवत्पूर्वपूर्वाङ्गवर्जितम् । तथारूप्याः चतुस्कन्धाः अधोभूमिविवेकजाः ॥ ८.२ ॥ विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः । नारूप्ये रूपसद्भावः रूपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥ आकाशानन्त्यविज्ञाननत्याकिंचन्यसंज्ञकाः । तथाप्रयोगात्मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः ॥ ८.४ ॥ इति मौलं समापत्तिद्रव्यमष्टविधं त्रिधा । सप्त आस्वादनवच्छुद्धानास्रवाणि अष्टमं द्विधा ॥ ८.५ ॥ आस्वादनासंप्रयुक्तं सतृष्णं लौकिकं शुभम् । शुद्धकं तत्तदास्वाद्यं लोकत्तरमनास्रवम् ॥ ८.६ ॥ पञ्चाद्ये तर्कचारौ च प्रीतिसौख्यसमाधयः । प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥ तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः । चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥ द्रव्यतो दश चैकं च प्रस्रब्धि सुखमाद्ययोः । श्रद्धा प्रसादः प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥ क्लिष्टेष्व सत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः । उपेक्षास्मृतिशुद्धिश्च केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥ अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् । वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥ सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते । सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥ कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् । द्वितीयादौ तदाद्याप्तमक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥ अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः । अनास्रवं तु वैराग्यात्क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥ तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् । उत्पद्यते तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥ क्लिष्टात्स्वं शुद्दकं क्लिष्टमेवं चाधरशुद्धकम् । च्युतौ तु शुद्धकात्क्लिष्टं सर्वं क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥ चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम् । क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥ द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् । गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टै कलङ्घिताः ॥ ८.१८ ॥ व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा । स्वाधोभूम्याश्रया एव ध्यानारूप्याः वृथाधरम् ॥ ८.१९ ॥ आर्याकिंचन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः । सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥ न मौलाः कुशलारूप्याः सास्रवाधरगोचराः । अनास्रवेण हीयन्ते क्लेशाः सामन्तकेन च ॥ ८.२१ ॥ अष्टौ सामन्तकान्येषां शुद्धादुःखासुखानि हि । आर्य चाद्यं त्रिधा केचिततर्क ध्यानमन्तरम् ॥ ८.२२ ॥ त्रिधा अदुःखासुखंतच्च महाब्रह्मफलं च तत् । सवितर्कविचारोऽधःसमाधिः परतोऽद्वयः ॥ ८.२३ ॥ आनिमित्तः समाकारैः शून्यतानात्मशून्यतः । प्रवर्तते अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥ शुद्धामलाः निर्मलास्तु ते विमोक्षमुखत्रयम् । शून्यताशुन्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥ आलम्बेते अशैक्षं द्वौ शून्यतश्चाप्यनित्यतः । आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥ सास्रवाः नृषु अकोप्यस्य सप्तसामन्तवर्जिताः । समाधिभावना ध्यानं सुभमाद्यं सुखाय हि ॥ ८.२७ ॥ दर्शनायाक्ष्यभिज्ञेष्टा धीभेदाय प्रयोगजाः । वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥ अप्रमाणानि चत्वारि व्यापादादिविपक्षतः । मैत्र्यद्वेषः अपि करुणा मुदिता सुमनस्कता ॥ ८.२९ ॥ उपेक्षालोभः आकारः सुखिता दुःखिता वत । मोदन्तामिति सत्त्वाच्च कामसत्त्वास्तु गोचरः ॥ ८.३० ॥ ध्यानयोर्मुदिता अन्यानि षट्सु केचित्तु पञ्चसु । न तैः प्रहाणं नृष्वेव जन्यन्ते त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥ अष्टौ विमोक्षाः प्रथमावशुभा ध्यानयोर्द्वयोः । तृतीयोऽन्त्ये स चालोभः शुभारूप्याः समाहिताः ॥ ८.३२ ॥ निरोधस्तु समापत्तिः सूक्ष्मसूक्ष्मादनन्तरम् । स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥ कामाप्तदृश्यविषयाः प्रथमाः ये त्वरूपिणः । तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥ अभिभ्वायतनान्यष्टौ द्वयमाद्यविमोक्षवत् । द्वे द्वितीयवतन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥ दश कृत्स्नानि अलोभाष्टौ ध्यानेऽन्त्ये गोचरः पुनः । कामाः द्वे शुद्धाकारूप्ये स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥ निरोध उक्तः वैराग्यप्रयोगाप्तं तु शेषितम् । त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥ हेतुकर्मबालाद्धात्वोरारुप्योत्पादनं द्वयोः । ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥ सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः । धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥ काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयायं कथितोऽभिधर्मः । यद्दुर्गुहीतं तदिहास्मदागः सद्धर्मनीतौ मुनयः प्रमाणम् ॥ ८.४० ॥ निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा । अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥ गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधूर्धरेषु च । जगत्यनाथे गणघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥ इति कण्ठगतप्राणं विदित्वा शासनं मुनेः । बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥ अभिधर्मकोशे समापत्तिनिर्देशो नामाष्टमकोशस्थानमिति ॥