प्रथमं कोशस्थानम् [००१।०३-००१।०७] ओं नमो बुद्धाय यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार । तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥ [००१।०८] शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति । [००१।०९-००१।१०] बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः । [००१।१०] सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । [००१।१०-००१।११] अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् । [००१।११-००१।१२] तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् । [००१।१२] अतोऽसौ सर्वथासर्वहतान्धकारः । [००१।१३] प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः । क्लिष्टसंमोहात्यन्तविगमात् । [००१।१४] न तु सर्वथा । [००१।१४-००१।१५] तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् । [००१।१५-००१।१६] इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति । [००१।१७] संसारो हि जगदासङ्गस्थानत्वात्दुरुत्तरत्वाच्च पङ्कभूतः । [००१।१७-००१।२०] तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवानिति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य । [००१।२०] यथार्थमविपरीतं शास्तीति यथार्थशास्ता । [००१।२०-००१।२१] अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति । [००१।२१-००१।२२] यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति । [००१।२२-००२।०१] तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि । [००२।०१] शिष्यशासनाच्छास्त्रम् । [००२।०१-००२।०२] कतमच्छास्त्रमित्याह अभिधर्मकोशम् [००२।०२] कोऽयमभिधर्मो नाम । [००२।०३] प्रज्ञाऽमला सानुचराऽभिधर्मः (१-२ ) [००२।०४] तत्र प्रज्ञा धर्मप्रविचयः। अमलेति अनास्रवा । सानुचरेति सपरिवारा । [००२।०४-००२।०५] एवमनास्रवः पञ्चस्कन्धकोऽभिधर्म इत्युक्तं भवति । [००२।०५] एष तावत्पारमार्थिकोऽभिधर्मः । [००२।०६] सांकेतिकस्तु [००२।०७] तत्प्राप्तये यापि च यच्च शास्त्रम् । (१-२ ) [००२।०८-००२।०९] यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा । [००२।०९-००२।१०] यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते । [००२।१०] निर्वचनं तु स्वलक्षणधारणाद्धर्मः । [००२।१०-००२।११] तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः । [००२।१२] उक्तोऽभिधर्मः । इदं तु शास्त्रं कथमभिधर्मकोशम् । [००२।१३-००२।१४] तस्यार्थतोऽस्मिन् समनुप्रवेशात् स चाश्रयो स्येत्यभिधर्मकोशम् (१-२ -२ ) ॥ १.२ ॥ [००२।१५-००२।१६] स हि शास्त्रसंज्ञकोऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति । [००२।१६] अथवा सोऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य । [००२।१७] ततो ह्येतन्निराकृष्टम् । अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् । [००२।१८-००२।१९] किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्योऽभिधर्मकोशं वक्तुमाद्रियत इति ॥ [००२।१९] आह् । [००२।२०-००२।२३] धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः । क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥ [००२।२४] यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः । [००२।२४-००३।०१] क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवेऽस्मिनन् । [००३।०१-००३।०२] अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः । [००३।०२] नहि विनाऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति । [००३।०३-००३।०४] स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः । [००३।०५] कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह [००३।०६] सास्रवाऽनास्रवा धर्माः (१-४ ) [००३।०७] एष सर्वधर्माणां समासनिर्द्देशः । [००३।०७-००३।०८] तत्र कतमे सास्रवा धर्मा इत्याह [००३।०८-००३।०९] संस्कृता मार्गवर्जिताः । सास्रवाः (१-४ -४ १) [००३।१०] मार्गसत्यं वर्जयित्वाऽन्ये संस्कृता धर्माः सास्रवाः । किं कारणम् । [००३।११] आस्रवास्तेषु यस्मात्समनुशेरते (१-४ २-४ ) ॥ १.४ ॥ [००३।१२-००३।१३] कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः । [००३।१३-००३।१४] यथाऽत्र नानुशेरते तत्पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः । [००३।१४] उक्ताः सास्रवाः । [००३।१५] अनस्रवाः कतमे । [००३।१६] अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । (१-५ -५ ) [००३।१७] कतमत्त्रि विधम् । [००३।१८] आकाशं द्वौ निरोधौ च (१-५ ) [००३।१९] कतमौ द्वौ । प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च । [००३।१९-००३।२०] इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः । [००३।२०] किं कारणम् । नहि तेष्वास्रवा अनुशेरत इति । [००३।२१] यदेतत्त्रिविधमसंस्कृतमुद्दिष्टम् [००३।२२] तत्राकाशमनावृतिः (१-५ ) ॥ १.५ ॥ [००३।२३] अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः ॥ [००३।२४] प्रतिसंख्यानिरोधो यो विसंयोगः (१-६ -६ १) [००४।०१] यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः । [००४।०१-००४।०२] दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः । [००४।०२] प्रतिसंख्यानिरोधः । [००४।०२-००४।०३] मध्यपदलोपात्गोरथवत् । [००४।०४] किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः । नेत्याह । [००४।०५] किं तर्हि । [००४।०६] पृथक्पृथक् । (१-६ २) [००४।०७] यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि । [००४।०७-००४।०८] अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क्करणात्सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत । [००४।०८-००४।०९] सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् । [००४।०९-००४।१०] यत्तर्ह्युक्तम् "असभागोनिरोध" इत्यस्य कोऽर्थः । [००४।१०-००४।११] नास्य कश्चित्सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत्सभागोऽस्तीति । [००४।११] उक्तः प्रतिसंख्यानिरोधः ॥ [००४।१२] उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया (१-६ -६ ) ॥ १.६ ॥ [००४।१३-००४।१४] अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद्योऽन्यो निरोधः सोऽप्रतिसंख्यानिरोधः । [००४।१४] न ह्यसौ प्रतिसंख्यया लभ्यते । किं तर्हि । प्रत्ययवैकल्यात् । [००४।१४-००४।१६] यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् । [००४।१६-००४।१७] न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति । [००४।१७] अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात्प्राप्यते । [००४।१८] चतुष्कोटिकं चात्र भवति । सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते । [००४।१९] तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् । [००४।१९-००४।२०] सन्ति येषामप्रतिसंख्यानिरोध एव । [००४।२०] तद्यथाऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् । सन्ति ते येसामुभयम् । [००४।२१] तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् । सन्ति येषां नोभयम् । [००४।२१-००४।२२] तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति । [००४।२२] उक्तं त्रिविधमसंस्कृतम् ॥ [००४।२३] यत्तूक्तं "संस्कृता मार्गवर्जिताः । [००४।२३-००४।२४] सास्रवा" इति कतमे ते संस्कृताः । [००४।२५] ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् । (१-७ -७ ) [००४।२६] रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः । [००४।२७] समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः । नह्येकप्रत्ययजनितं किञ्चिदस्तीति । [००४।२७-००५।०१] तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् । [००५।०२] त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (१-७ -७ ) ॥ १.७ ॥ [००५।०३] त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्तेऽनितयत्येति वा । [००५।०३-००५।०४] कथा वावायं तस्या वस्तु नाम । [००५।०४] सार्थकवस्तुग्रहणात्तु संस्कृन्तं कथावस्तूच्यते । [००५।०४-००५।०५] अन्यथा हि उरकरणग्रन्थो विरुध्येत । [००५।०५] "कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि ।" [००५।०५-००५।०६] निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् । [००५।०६] तदेषामस्तीति सनिःसाराः । [००५।०६-००५।०७] सहेतुकत्वात्सवस्तुकाः । [००५।०७] हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः । [००५।०७-००५।०८] इत्येते संस्कृतधर्मौअर्यायाः । [००५।०८] त एव पुयः संस्कृता धरमाः । [००५।०९] ये सास्रवा उपादानस्कन्धास्ते (१-८ -८ १) [००५।१०] अतः किं दिद्धम् । [००५।१०-००५।११] य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः । [००५।११] अनास्रवाः संस्कारा इति तत्र उपादानानि क्लेशाः । [००५।११-००५।१२] तत्संभूतत्वादुपादानस्कन्धाः ॥ [००५।१२] त्रुणतुपाग्निवत् । तद्धिधेयत्वाद्वा राजपुरूपवत् । [००५।१२-००५।१३] उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् । [००५।१३-००५।१४] त एव सास्रवा धर्मा उच्यन्ते । [००५।१५] सरणा अपि । (१-८ २) [००५।१६] रण्सा हि क्लेशाः । आत्मपारव्यावाधनात् । स्तदनुशयितत्वात्सरणाः । सास्रववत् । पुनः [००५।१७] दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (१-८ -८ ) ॥ १.८ ॥ [००५।१८] आर्याणां प्रतिकूलत्वाद्दुःखम् । समुदेत्यस्माद्दुःखमिति समुदयः । [००५।१८-००५।१९] लक्ष्यत इति लोकः । [००५।१९] दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् । भवतीति भवः [००५।२०] इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः [००५।२१] पञ्च रूपादयः स्कन्धा इत्युक्तम् । तत्र [००५।२२] रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च । (१-९ -९ ) [००५।२३] पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण । [००५।२३-००५।२४] पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः । [००५।२५] अविज्ञप्तिश्चेति । एतावान् रूपस्कन्धः [००५।२६] तत्र य एते पञ्च रूपादयोऽर्था उक्ताः । [००५।२७] तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (१-९ -९ ) ॥ १.९ ॥ [००६।०१-००६।०२] रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः । [००६।०२-००६।०३] यथोक्तं भगवता "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय" रूप प्रसाद इति विस्तरः । [००६।०३-००६।०४] यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः । [००६।०४-००६।०५] चक्षुर्विज्ञानाद्याश्रया इत्यर्थः । [००६।०५] एवं कृत्वा प्रकरणग्रण्थोऽप्यनुवृत्तो भवति । "चक्षुः कतमत् । [००६।०५-००६।०६] चक्षुर्विज्ञानाश्रयो रूपप्रसाद" इति विस्तरः । [००६।०६] निर्द्दिष्टानि पञ्चेन्द्रियाणि । [००६।०७] अर्थाः पञ्चा निर्द्देश्याः । तत्र तावत्] [००६।०८] रूपं द्विधा [००६।०९] वर्णः संस्थानं च । तत्र वर्णश्चतुर्विधो नीलादिः । तद्भेदा अन्ये । [००६।०९-००६।१०] सम्स्थानमष्टविधं दीर्घदि विसातान्तम् । [००६।१०] तदेव रूपायतनं पुनरुच्यते । [००६।११] विम्शतिधा [००६।१२-००६।१३] तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलमुन्नतमवनतं सातं विसातमभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति । [००६।१३-००६।१४] केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति । [००६।१४] तत्र सातं समस्थानम् । विसातं विषम स्थानम्ल्महिका नीहारः । आतपः सूर्यप्रभा । [००६।१४-००६।१५] आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा । [००६।१६] छाया यत्र रूपाणां दर्शनम् । विपर्ययादन्धकारम् । [००६।१६-००६।१७] शेषं सुगमत्वान्न विपञ्चितम् । [००६।१७] अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः [००६।१७-००६।१८] नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् । [००६।१८] अस्ति संस्थानतो न वर्णतः । [००६।१८-००६।१९] घादीनां प्रदेषः कायविज्ञप्तिस्वभावः । [००६।१९] अस्त्युभयथा । परिशिष्टं रूपायतनम् । [००६।१९-००६।२०] आतपालोकावेव वर्णतो विद्येते इत्यपरे । [००६।२०] "दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद" इति । [००६।२१] कथं पुनरेकं द्रव्यमुभयथा विद्यते । अस्त्युभयस्य तत्र प्रज्ञानात् । [००६।२१-००६।२२] ज्ञानार्थो ह्येष विदिर्न सत्तार्थः । [००६।२२] कायविज्ञप्तावपि तर्हि प्रसङ्गः । उक्तं रूपायतनम् ॥ [००६।२३] शब्दस्त्वष्टविधः । [००६।२४] उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः । [००६।२४-००६।२५] पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति । [००६।२५-००६।२६] तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः । [००६।२६] अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः । [००६।२६-००६।२७] सत्त्वाख्यो वाग्विज्ञप्तिषब्दः । [००६।२७] असत्त्वाख्योऽन्यः [००६।२७-००६।२८] उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे । [००६।२८] तद्यथा हस्तमृदङ्गसंयोगज इति । [००६।२८-००७।०१] स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति । [००७।०१] उक्तः शब्दः ॥ [००७।०२] रसः । [००७।०३] षोढ [००७।०४] मधुराम्ललवणकटुकतित्तकषायभेदात् । [००७।०५] चतुर्विधो गन्धः [००७।०६] सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् । त्रिविधस्तु शास्त्रे । [००७।०६-००७।०७] "सुगन्धो दुर्गन्धः समगन्ध" इति । [००७।०८] स्पृश्यमेकादशात्मद्कम् ॥ १.१० ॥ [००७।०९] स्प्रष्टव्यमेकादशद्रव्यस्वभावम् । [००७।०९-००७।१०] चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति । [००७।१०] तत्र भूतानि पश्चाद्वक्ष्याम्ः । [००७।१०-००७।११] श्लक्ष्णत्वं मृदुता । [००७।११] कर्कशत्वं परुषता । गुरुत्वं येन भावास्तुल्यन्ते । लघुत्वं विपर्ययात् । [००७।११-००७।१२] शीतमुष्णाभिलाषकृत् । [००७।१२] जिघत्सा भोजनाभिलाषकृत् । कारणे कार्योपचारात् । यथा [००७।१३-००७।१४] "बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना । सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं" ॥ इति । [००७।१५] तत्र रूपधातौ जिघत्सापिपासे न स्तः । शेषमस्ति [००७।१५-००७।१६] यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते । [००७।१६] शीतमुपघातकं नास्ति । [००७।१६-००७।१७] अनुग्राहकं किलास्ति । [००७।१८-००७।१९] यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति । [००७।१९] कदाचिद्बहुभिर्यदा न व्यवच्छेदः । [००७।१९-००७।२०] तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात्पश्यतः । [००७।२०] एवं श्रोत्रादिविज्ञानं वेदितव्यम् । [००७।२१] कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके । [००७।२१-००७।२२] चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना । [००७।२२] सर्वैरेकादशभिरित्यपरे । [००७।२२-००७।२३] ननु चैवं समस्तालम्बनत्वात्सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः । [००७।२३-००७।२४] आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः । [००७।२५] इदं विचार्यते । [००७।२५-००७।२६] कायजिह्वेन्द्रिययोर्युगपद्विषयप्राप्तौ सत्यां कतरद्विज्ञानं पूर्वमुत्पद्यते । [००७।२६] यस्य विषयः पटीयान् । [००७।२६-००७।२७] समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते । [००७।२७] भोक्तुकामतावर्जितत्वात्सस्न्ततेः । [००७।२७-००७।२८] उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणम् । [००७।२९] अविज्ञप्तिरिदानीं वक्तव्या । सेयमुच्यते [००८।०१-००८।०२] विक्षिप्ताचित्तकस्यापि योऽनुबण्धः शुभाशुभः । महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥ [००८।०३] विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि ॥ [००८।०३-००८।०४] अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि । [००८।०४] अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते । [००८।०५] योऽनु बन्ध इति यः प्रवाहः । शुभाशुभ इति कुशलाकुशलः । [००८।०५-००८।०६] कुशलाकुशले प्राप्तिवाहोऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति । [००८।०७] हेत्वर्थ उपादायार्थ इति वैभाषिकाः । जननादिहेतुभावात् । [००८।०७-००८।०८] स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः । [००८।०८-००८।०९] रूपक्रियास्वभावापि सती विज्ञप्तिवत्परं न विज्ञापयतीत्यविज्ञप्तिः । [००८।०९-००८।०९ उच्यत इति आचार्यवचनं दर्शयति । [००८।०९-००८।१०] समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः । [००८।११] महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि । [००८।१२] भूतानि पृथिवीधातुरप्तेजोवायुधातवः [००८।१३] इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद्धातवश्चत्वारि महाभूतान्युच्यन्ते । [००८।१४] महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् । [००८।१४-००८।१५] अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् । [००८।१५-००८।१६] ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह [००८।१७] धृत्यादिकर्मसंसिद्धाः [००८।१८] धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः । [००८।१८-००८।१९] व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् । [००८।१९] इदमेषां कर्म । स्वभावस्तु यथाक्रमं [००८।२०] खरस्नेहोस्णतेरणाः ॥ १.१२ ॥ [००८।२१] खरः पृथिवीधातुः । स्नेहोऽब्धातुः । उष्णता तेजोधातुः । [००८।२२] ईरणा वायुधातुः । ईर्यतेऽनया भूतस्रोतो देशान्तरोत्पादनात्प्रदीपेरणवदितीरणा । [००८।२३] "वायुधातुः कतमो लघुसमुदीरणत्वम्" इति प्रकारणेषु निर्दिष्टं सूत्रे च । [००८।२३-००८।२४] तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु । [००८।२४-००८।२५] अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंणाऽस्य स्वभावोऽभिव्यक्तः । [००८।२६] कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः । [००९।०१] पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया । [००९।०२] तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति । यथा पृथिवी एवं [००९।०३] आपस्तेजश्च [००९।०४] वर्णसंस्थानमेवोच्यते लोकसंज्ञया । [००९।०५] वायुस्तु धातुरेव [००९।०६] य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते । [००९।०७] तथपि च ॥ १.१३ ॥ [००९।०८] यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि । [००९।०८-००९।०९] नीलिका वात्या मण्डलिका वात्येति ॥ [००९।१०] कस्मात्पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते । रौपणात् । [००९।१०-००९।११] उक्तं भगवता "रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते ॥ [००९।११-००९।१२] केन रुप्यते । [००९।१२] पाणिस्पर्शेनापि स्पृष्टो रूप्यत" इति विस्तरः । रूप्यते बाध्यत इत्यर्थः । [००९।१३] तथा ह्यर्थवर्गीयेषूक्तम् [००९।१४-००९।१५] "तस्य चेत्कामयानस्य च्छन्दजातस्य देहिनः । ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते ॥" [००९।१६] रूपस्य पुनः का बधना । विपरिणामोत्पादना । [००९।१६-००९।१७] प्रतिघातो रूपेणेत्यपरे । [००९।१७] परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् । [००९।१७-००९।१८] न वै परमाणुरूपमेकं पृथग्भूतमस्ति । [००९।१८] सञ्घातस्थं तु तद्रूप्यत एव । [००९।१८-००९।१९] अतीतानागतं तर्हि रूपं न प्राप्नोति । [००९।१९] तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् । [००९।१९-००९।२०] अविज्ञप्तिस्तर्हि न प्राप्नोति । [००९।२०] सापि विज्ञप्तिरूपणाद्रूपिता भवति । [००९।२०-००९।२१] वृक्षप्रचलने च्छायाप्रचलनवत् । [००९।२१] नाविकारात् । [००९।२१-००९।२२] विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद्वृक्षाभावे च्छायाऽभाववत् । [००९।२२-००९।२३] आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात्रूपत्वप्रसङ्गः । [००९।२३] विषमोऽयमुपन्यासः । [००९।२३-००९।२४] अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते । [००९।२४-००९।२५] न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति । [००९।२५-००९।२६] इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति । [००९।२६-०१०।०१] च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् । [०१०।०१] सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता । युज्यते । [०१०।०२] निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधोऽभ्युपगम्यते । [०१०।०२-०१०।०३] अतो न भवत्येष परिहारः । [०१०।०३-०१०।०४] अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः । [०१०।०४] कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः । [०१०।०५] न त्वेवमविज्ञप्तिः । [०१०।०५-०१०।०६] तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति । [०१०।०७] य एव रूपस्कन्धस्वभावा उक्ताः [०१०।०८] इन्द्रियार्थस्त एवेष्टा अशायतनधातवः । [०१०।०९] आयतनव्यवस्थायां दशायतनानि । [०१०।०९-०१०।१०] चक्षुरायतनं रूपायतनं यावत्कायायतनं स्प्रष्टव्यायतनमिति । [०१०।१०-०१०।११] धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत्कायधातुः स्प्रष्टव्यधातुरिति । [०१०।११] उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् । [०१०।१२=०१०१२] वेदनादयो वक्तव्यः । [०१०।१२] तत्र [०१०।१३] वेदनाऽनुभवः [०१०।१४] त्रिविधोऽनुभवो वेदनास्कन्धः । सुखो दुःखो , दुःखासुखश्च । [०१०।१४-०१०।१५] स पुनर्भिद्यमानः षड्वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति । [०१०।१६] संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥ [०१०।१७-०१०।१८] यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः । [०१०।१८] स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् ॥ [०१०।१९] चतुर्भ्योऽन्ये तु संस्कारस्कन्धः [०१०।२०] रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्योऽन्ये तु संस्काराः संस्कारस्कन्धः। [०१०।२०-०१०।२१] भगवता तु सूत्रे षट्चेतनाकाया इत्युक्तं प्राधान्यात् । [०१०।२१-०१०।२२] सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना । [०१०।२२-०१०।२३] अत एवोक्तं भगवता "संस्कृतमभिसंस्करोति । [०१०।२३] तस्मात्संस्कारा उपादानस्कन्ध इत्युच्यत" इति [०१०।२३-०१०।२५] अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्। [०१०।२५-०१०।२६] उक्तं च भगवता "नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति । [०१०।२६] एवमप्रहाये" त्युक्तम् । [०११।०१] तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो "भ्युपगन्तव्यः । [०११।०२] एते पुनस्त्रयः । [०११।०३] वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां [०११।०४] धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः ॥ १.१५ ॥ [०११।०५] इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते । [०११।०६] विज्ञानं प्रतिविज्ञप्तिः [०११।०७] विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते । [०११।०७-०११।०८] स पुनः षड्विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति । [०११।०८-०११।०९] य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां [०११।१०] मन आयतनं च तत् । [०११।११] धातुव्यवस्थायां स एव [०११।१२] धातवः सस्प्त च मताः [०११।१३] कतमे सप्त । [०११।१४] षड्विज्ञानान्यथो मनः ॥ १.१६ ॥ [०११।१५] चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च । [०११।१५-०११।१६] एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति । [०११।१६-०११।१७] अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः । [०११।१७-०११।१८] वेदना दयः स्कन्धास्त्रयो "विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड्विज्ञानधातवो मनोधातुश्चेति ॥ [०११।१९] ननु च षड्विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् । [०११।१९-०११।२०] अथ को "यं पुनस्तेभ्यो "न्यो मनोधातुः न खलु कश्चिदन्यः । [०११।२०] किं नर्हि । तेषामेव [०११।२१] षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः । [०११।२२] यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत । [०११।२२-०११।२३] तद्यथा स एव पुत्रो "न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति । [०११।२३-०११।२५] एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते । [०११।२५] यद्यप्येवं तथापि [०११।२६] षष्ठाश्रयप्रसिद्ध्यर्थ धातवो "षादश्स्मृताः ॥ १.१७ ॥ [०११।२७] पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः । [०११।२८] षष्ठस्य मनोविज्ञानधातोराश्रयो "न्यो नास्ति । [०११।२८-०११।२९] अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः । [०११।२९-०१२।०१] एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति । [०१२।०१] अर्हतस्तर्हि चरमं चित्तं न मनो भविष्यति । [०१२।०२] नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति । न । [०१२।०२-०१२।०३] तस्यापि मनोभावेनावस्थितत्वात् । [०१२।०३] अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः ॥ [०१२।०४] तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः । [०१२।०४-०१२।०५] उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् । [०१२।०५] समासतस्तु ज्ञातव्यः [०१२।०६-०१२।०७] सर्वसंग्रह एकेन स्कन्देह्नायतनेन च धातुना च [०१२।०८] रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः । [०१२।०८-०१२।०९] स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः । [०१२।१०] स्वभावेन [०१२।११] न परभावेन । किं कारणम् । [०१२।१२] परभाववियोगतः ॥ १.१८ ॥ [०१२।१३] वियुक्तो हि परभवेन धर्मः । तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते । [०१२।१३-०१२।१४] तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् । [०१२।१५] तत्स्वभावत्वात् । नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् । [०१२।१५-०१२।१६] यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात्सांकेतिको वेदितव्यः । [०१२।१७] ननु चैकविंशत्या धातुभिर्भवितव्यम् । चक्षुषो द्वित्वात्श्रोत्रघ्राणयोश्च । [०१२।१८] न भवितव्यम् । यस्मात् । [०१२।१९-०१२।२०] जातिगोचरविज्ञानसामान्यादेकधातुता द्वित्वे "पि चक्षुरदीनं [०१२।२१] त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् । [०१२।२१-०१२।२२] गोचरसामान्यमुभयो रूपविषयत्वात् । [०१२।२२] विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् । तस्मदेक एव चक्षुर्धातुः । [०१२।२३] एवं श्रोत्रघ्राणयोरपि योज्यम् । [०१२।२४] शोभार्थं तु द्वयोद्भवः ॥ १.१९ ॥ [०१२।२५] एकधातुत्वे "पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् । [०१२।२५-०१३।०१] अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात्महद्वैरुप्यं स्यादिति । [०१३।०२] उक्ताः स्कन्धायतनधातवः [०१३।०३] इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति । [०१३।०४] राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः । [०१३।०५-०१३।०७] ऽयत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यमौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात्सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् । [०१३।०७-०१३।०८] तत्रातीतं रूपमनित्यतानिरुद्धम् । [०१३।०८] अनागतमनुत्पन्नम् । प्रत्युत्पन्नमुत्पन्नानिरुद्धम् । [०१३।०९] आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा [०१३।०९-०१३।१०] औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा । [०१३।१०] आपेक्षिकत्वादसिद्धमिति चेत् । न । [०१३।१०-०१३।११] अपेक्षाभेदात् । [०१३।११] यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् । हीनं क्लिष्टम् । [०१३।१२] प्रणितमक्लिष्टम् । दूरमतीतानागतम् । अन्तिकं प्रत्युत्पन्नम् । [०१३।१२-०१३।१३] एवं यावत्विज्ञानम् । [०१३।१३] अयं तु विशषः । औदारिकं पञ्चेन्द्रियाश्रयं सूक्ष्मं मानसम् । [०१३।१३-०१३।१४] भूमितो वेति वैभाषिकाः । [०१३।१४] भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यं सूक्ष्ममन्यत् । [०१३।१५] हीनममनापं प्रणीतं मनापम् । दूरमदृश्यदेशम् । अन्तिकं दृश्यदेशम् । [०१३।१५-०१३।१६] अतीतादीनां स्वशब्देनाभि हितत्वात् । [०१३।१६] एवं वेदनादयोऽपि वेदितव्याः । [०१३।१७] दूरान्तिकत्वं तु तेषामाश्रयवशात् । औदारिकसूक्ष्मत्वं तु पूअर्ववदिति ॥ [०१३।१८] चित्तचैत्तायद्वारार्थ आयतनार्थः । [०१३।१८-०१३।१९] निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि । [०१३।१९] विस्तृण्वन्तीत्यर्थः । गोत्रार्थो धात्वर्थः । [०१३।१९-०१३।२१] यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । [०१३।२१] आकरास्तत्र गोत्राण्युअच्यन्ते । [०१३।२१-०१३।२२] त इमे चक्षुरादयः कस्याकराः । [०१३।२२] स्वस्या जातेः । सभागहेतुत्वात् । [०१३।२२-०१३।२३] असंस्कृतं तर्हि न धातुः स्यात् । [०१३।२३] चित्तचित्तानां तर्हि जातिवाचको "यं धातुशब्द इत्यपरे । [०१३।२३-०१३।२४] अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति । [०१३।२४-०१३।२५] यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति । [०१३।२५] अनेकद्रव्यसमूहत्वात्राशिपुद्गलवत् । न । [०१३।२६] एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् । न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् । [०१३।२७] न ह्येकस्यास्ति राशित्वमिति । कार्यभारोद्वहनार्थः स्कन्धार्थ इत्यपरे । [०१३।२७-०१३।२८] प्रच्छेदार्थो वा । [०१३।२८] तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति । तदेतदुत्सूत्रम् । [०१३।२९] सूत्रं हि राश्यर्थमेव ब्रवीति "यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि"ति विस्तरः [०१३।३०] प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते । [०१३।३०-०१४।०१] सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति । [०१४।०१] न शक्यमेवं विज्ञातुम् । [०१४।०१-०१४।०२] "तत्सर्वमैकध्यमभिसंक्षिप्ये"ति वचनात् । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः [०१४।०२-०१४।०३] रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति । [०१४।०३-०१४।०४] बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् । [०१४।०४] न । [०१४।०४-०१४।०५] एकशः समग्राणां कारणभावात्विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् । ०१४०५-०१४०५] विभाषायां तूच्यते "यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते । [०१४।०६] स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः । [०१४।०६-०१४।०७] अथ नापेक्षते । [०१४।०७] स आह । परमाणुरेको धातुरेकमायतनमेकः स्कन्ध" इति । [०१४।०७-०१४।०८] भवति हि प्रदेशे "पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति । [०१४।०९] किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते । आह । विनेयानां [०१४।१०] मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः ॥ १.२० ॥ [०१४।११] त्रयः प्रकारास्त्रैधम् । त्रिप्रकारः किल सत्त्वानां मोहः । [०१४।११-०१४।१२] केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः । [०१४।१२] केचिद्रूप एव । केचिद्रूपचित्तयोः । इन्द्रियाण्यपि त्रिविधानि । [०१४।१३] तीक्ष्णमध्यमृद्विन्द्रियत्वात् । रूचिरपि त्रिविधा । [०१४।१३-०१४।१४] संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् । [०१४।१४] तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति ॥ [०१४।१५-०१४।१६] किं पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक्स्कन्धीकृते इत्याह [०१४।१७-०१४।१८] विवादमूलसंसारहेतुत्वात्क्रमकारणात् । चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ ॥ १.२१ ॥ [०१४।१९] द्वे विवादमूले । कामाध्यवसानं दृष्ट्यध्यवसानं च । [०१४।१९-०१४।२०] तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू । [०१४।२०-०१४।२१] वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति । [०१४।२१] संसारस्यापि ते प्रधानहेतू । वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति । [०१४।२२-०१४।२३] यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततोऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् । [०१४।२३] एतच्च त्रेधो पपादयिष्यामः । [०१४।२४] स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात् [०१४।२५] तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते अर्थायोगात् । [०१४।२५-०१५।०१] नहि तद्रूपं नापि यावद्विज्ञानमिति । [०१५।०१] नचापि षष्ठः स्कन्धो वक्तुं शक्यते । कुतः । अर्थायोगात् । [०१५।०२] "राश्यर्थो हि स्कन्धार्थ" इत्युक्तम् । [०१५।०२-०१५।०३] नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् । [०१५।०३-०१५।०४] संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनम् । [०१५।०४-०१५।०५] नचोभयथा "प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् । [०१५।०५-०१५।०६] यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे । [०१५।०६-०१५।०७] तेषां धात्वायतनेष्वप्येष प्रसङ्गः । [०१५।०७] उक्तः स्कन्धानामन्यः प्रकारः ॥ [०१५।०८] क्रमः पुनः । [०१५।०९] यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः ॥ १.२२ ॥ [०१५।१०] रूपं हि सप्रतिघत्वात्सर्वौदारिकम् । अरुपिणां वेदना प्रचारौदारिकतया । [०१५।१०-०१५।११] तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति । [०१५।११] द्वाभ्यां चौ दारिकतरा संज्ञा । [०१५।११-०१५।१२] विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् । [०१५।१२-०१५।१३] अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् । [०१५।१३] तद्गर्द्धः संज्ञाविपर्यासात् । [०१५।१४] तद्विपर्यासः क्लेशैश्चित्तमच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः । [०१५।१४-०१५।१५] भाजनाद्यर्थेन वा । [०१५।१५] भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः । धातुतो वा । [०१५।१६] कामगुणरूपप्रभावितो हि कामधातुः । वेदनाप्रभावितानि ध्यानानि । [०१५।१६-०१५।१७] संज्ञाप्रभाविताः त्रयः आरूप्याः । [०१५।१७] संस्कारमात्रप्रभावितं भवाग्रम् । [०१५।१७-०१५।१८] एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः । [०१५।१८-०१५।१९] अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः । [०१५।१९-०१५।२०] अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते । [०१५।२०-०१५।२१] यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥ [०१५।२२] आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः । [०१५।२३] तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः । तेषां च पुनः षण्णाम् । [०१५।२४] प्राक्पञ्च वार्त्तमार्थ्यात् [०१५।२५] चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात्पूर्वमुक्तानि । मनस्त्वनियतविषयम् [०१५।२५-०१६।०१] किञ्चिद्वर्त्तमानविषयं किञ्चित्व्यध्वानध्रविषयम् । [०१६।०२] भौतिकार्थ्याच्चतुष्टयम् । [०१६।०३] प्रागिति वर्त्तते । पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि । भौतिकविषयत्वात् । [०१६।०३-०१६।०४] कायस्य त्वनियतो विषयः [०१६।०४] कदाचिद्भूतानि कदाचिद्भौतिकं कदाचिदुभयम् । [०१६।०५] दूराशुतरवृत्त्याऽन्यत् [०१६।०६] शेषं पुनरितस्माद्यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् । चक्षुःश्रोत्रं हि दूरविषयम् । [०१६।०७] तत्पूर्वमुक्तं द्वयात् । तयोरपि चक्षुषो दूरतरे वृत्तिः । [०१६।०७-०१६।०८] पश्यतोऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत्पूर्वमुक्तम् । [०१६।०८] घ्राणस्य तु नास्ति दूरे वृत्तिः । जिह्वायाश्च । [०१६।०९] तयोराशुतरवृत्तित्वात्घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् । [०१६।१०] यथास्थानं क्रमोऽथवा ॥ १.२३ ॥ [०१६।११] अथवा अस्मिन् शरीरे चक्षुषोऽधिष्ठानमुपारिष्टात्निविष्टम् । तस्मादधः श्रोत्रस्य । [०१६।१२] तस्मादधो घ्राणस्य । तस्मात्जिह्वायाः तक्याः स्यास्य बहुल्येन । [०१६।१२-०१६।१३] मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् । [०१६।१४] किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते । [०१६।१४-०१६।१५] सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह [०१६।१६-०१६।१७] विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् । एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥ [०१६।१८] कथं विशेषणार्थम् । [०१६।१८-०१६।१९] यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति । [०१६।१९-०१६।२०] चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते । [०१६।२०-०१६।२१] अथवा रूपायतनस्य प्राधान्यात् । [०१६।२१] तद्धि सप्रतिघत्वाच्च । पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते । [०१६।२२] सनिदर्शनत्वाच्च । [०१६।२२-०१६।२३] इदमिहामुत्रेति निरूपणात्लोकेऽपि च तद्रूपमिति प्रतीतं नान्यानि । [०१६।२३] विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि । [०१६।२३-०१७।०१] अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् । [०१७।०१] अतः सामान्येनाभिधानं क्रियते धर्मशब्देन । [०१७।०२] अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति । [०१७।०२-०१७।०३] विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे ॥ [०१७।०४-०१७।०५] अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंेभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः [०१७।०५] एभिरेव संग्रहो न व्यतिरेकः । तत्र तावत् [०१७।०६-०१७।०७] धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः । तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥ [०१७।०८] येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि । [०१७।०९] येषां नामस्वभावं तेषां संस्कारस्कन्धेन ॥ [०१७।१०] किं पुनर्धर्मस्कन्धस्य प्रमाणम् । [०१७।११] शास्त्रप्रमाण इत्येके [०१७।१२] एके तावताहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति । [०१७।१२-०१७।१३] तच्च षट्सहस्राणि । [०१७।१३] अपरे पुनराहुः [०१७।१४] स्कन्धादीनं कथैकशः । [०१७।१५-०१७।१७] स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति । [०१७।१८] चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥ [०१७।१९] एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् । रागद्वेषमोहमानादिचरितभेदेन । [०१७।२०] तेषां प्रतिपक्षेण भगवताऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि । [०१७।२०-०१७।२१] यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि । [०१७।२२-०१७।२३] तथाऽन्येऽपि यथायोगं स्कन्धायतनधातवः । प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥ [०१७।२४-०१७।२६] येऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्तेऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंच्छास्त्रे संप्रधर्य । [०१७।२६-०१८।०२] तत्र तावत्पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः । [०१८।०२-०१७।०२] शेषाः संस्कारस्कन्धेन । [०१८।०२-०१८।०३] दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन । [०१८।०३] सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् । [०१८।०४] तथाऽभिभ्वायतनानि । [०१८।०४-०१८।०५] आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात्मनोधर्मायतनाभ्याम् । [०१८।०५-०१८।०६] पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन । [०१८।०६] सपरिवाराणि तु शब्दो मनोधर्मायतनैः । [०१८।०७] द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् । [०१८।०७-०१८।०८] नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् । [०१८।०८] एवं बहुधातुकेऽपि द्वाषष्टिर्धातवो देशिताः । [०१८।०८-०१८।०९] तेषां यथायोगं संग्रहो वेदितव्यः ॥ [०१८।१०-०१८।११] य इमे तत्र षड्धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् । [०१८।११-०१८।१२] तत्किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वमच विज्ञानं विज्ञानधातुः। [०१८।१२] नेत्याह । किं तर्हि । द्वारवातायनमुखनासिकादिषु [०१८।१३] छिद्रमाकाशधात्वाख्यम् [०१८।१४] छिद्रमित्युच्यमानं किं वेदितव्यम् । [०१८।१५] आलोकतमसी किल । [०१८।१६] नहि छिद्रमालोकतमोभ्यामन्यद्गृह्यते । [०१८।१६-०१८।१७] तस्मात्किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः । [०१८।१७-०१८।१८] स एव चाघसामन्तकं रूपमित्युच्यते । [०१८।१८] अघं किल चित्तस्थं रूपम् । अत्यर्थं घातात् । [०१८।१८-०१८।१९] तस्य तत्सामन्तकमिति । [०१८।१९] अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे । [०१८।२०] विज्ञानधातुर्विज्ञानं सास्रवं [०१८।२१] कस्मादनास्रवं नोच्यते । यस्मादिमे षड्धातव इष्टाः । [०१८।२२] जन्मनिश्रयाः ॥ १.२८ ॥ [०१८।२३] एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत्च्युतिचित्तसाधारणभूताः [०१८।२३-०१८।२४] अनास्रवास्तु धर्मा नैवमिति । [०१८।२४-०१८।२५] तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति । [०१८।२६] ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः । [०१९।०१] सनिदर्शन एकोऽत्र रूपं [०१९।०२] स हि शक्यते निदर्शयितुमिदमिहामुत्रेति । उक्तं भवति अनिदर्शनाः शेषा इति ॥ [०१९।०३] कति सप्रतिघाः कत्यप्रतिघाः । [०१९।०४] सपरतिघा दश । [०१९।०५] रूपिणः । [०१९।०६] य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः । [०१९।०६-०१९।०७] प्रतिघो नाम प्रतिघातः स च त्रिविधः । [०१९।०७] आवरणविषयालम्बनप्रतिघातः । [०१९।०७-०१९।०८] तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः । [०१९।०८] यथा हस्तो हस्ते प्रतिहन्यते उपले वा । उपलोऽपि तयोः । [०१९।०९] विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु । [०१९।०९-०१९।१०] यथोक्तं प्रज्ञप्ता"वस्ति चक्षुर्जले प्रतिहन्यते न स्थले । [०१९।१०] यथा मत्स्यानाम् । [०१९।१०-०१९।११] अस्ति स्थले न जले । [०१९।११] प्रायेण मनुष्याणाम् । अस्त्युभयत्र । [०१९।११-०१९।१२] शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् । [०१९।१२] अस्ति नोभयत्र । एतानाकारान् स्थापयित्वा । [०१९।१२-०१९।१३] अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा । [०१९।१३] तद्यथा तितीलोलूकादीनाम् । दिवा न रात्रौ । [०१९।१३-०१९।१४] प्रायेण मनुष्याणाम् । [०१९।१४] रात्रौ दिवा च । श्वशृगालतुरगद्वीपिमार्जारादीनाम् । नोभयत्र । [०१९।१४-०१९।१५] एतानाकारान् स्थापयित्वे"त्ययं विशयप्रतिघातः । [०१९।१५-०१९।१६] आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु । [०१९।१६] कः पुनर्विषयालम्बनयोर्विशेषः । [०१९।१६-०१९।१७] यस्मिन् यस्य कारित्रं स तस्य विषयः । [०१९।१७] यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । [०१९।१७-०१९।१८] कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते । [०१९।१८] तस्मात्परेणाप्रवृत्तेः । [०१९।१८-०१९।१९] निपातो वाऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः [०१९।१९-०१९।२०] तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् । [०१९।२०-०१९।२१] ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः [०१९।२१] प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः । [०१९।२२] द्वितीया पञ्च विषयाः । तृतीया पञ्चेन्द्रियाणि । [०१९।२२-०१९।२३] चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः । [०१९।२३-०१९।२४] ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति । [०१९।२४] पश्चात्पादकः । ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते । [०१९।२५-०१०।२५] स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन । [०१९।२५] पञ्चेन्द्रियाणि । [०२०।०१-०२०।०२] "यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् । तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि"ति [०२०।०३] भदन्तकुमारलातः । उक्ताः सप्रतिघा अप्रतिघाश्च ॥ [०२०।०४] एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता । [०२०।०५] अव्याकृता अष्टौ [०२०।०६] कतमे अष्टौ । य एते सप्रतिघा दशोक्ताः । [०२०।०७] त एवारूपशब्दकाः ॥ १.२९ ॥ [०२०।०८] पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च । [०२०।०८-०२०।०९] एतेऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः । [०२०।०९] विपाकं प्रत्यव्याकरणादित्यपरे । एवमनास्रवेऽपि प्रसङ्गः ॥ [०२०।१०] त्रिधाऽन्ये [०२०।११] अन्ये दश धातवः कुशलाकुशलाव्याकृताः । [०२०।११-०२०।१२] तत्र सप्त धातवोऽलोभादिसंप्रयुक्ता कुशलाः । [०२०।१२] लोभादिसंप्रयुक्ता अकुशलाः । अन्ये अव्याकृताः । [०२०।१२-०२०।१३] धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः । [०२०।१३-०२०।१४] लोभादिस्वभावसंप्रयुक्तसमुत्थोऽकुशलः [०२०।१४] अन्योऽव्याकृतः । [०२०।१४-०२०।१५] रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ । [०२०।१५] तदन्याव्याकृतौ । उक्तः कुशलादिभावः । [०२०।१६] एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः । [०२०।१७] कामधात्वाप्ताः सर्वे [०२०।१८] आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः । [०२०।१९] रुपे चतुर्दश । [०२०।२०] रूपधातौ चतुर्दश धातवः । [०२०।२१] विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ॥ १.३० ॥ [०२०।२२] तत्र हि गन्धरसौ न स्तः । [०२०।२२-०२०।२३] तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः । [०२०।२३] ततो घ्राणजिह्वाविज्ञाने अपि न स्तः । [०२०।२३-०२०।२४] आलम्बनाभावात् । [०२०।२४] एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः । कवडीकाराहारत्वात् । [०२०।२५] यो नाहारस्वभावः स तत्रास्ति । गन्धरसयोरप्येष प्रसङ्गः । [०२०।२५-०२०।२६] नास्ति विनाऽभ्यवहारेण गन्धरसयोः परिभोगः । [०२०।२६-०२१।०१] अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन । [०२१।०१-०२१।०२] तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् । [०२१।०२] अन्ये पुनराहुः । [०२१।०२-०२१।०३] ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते । [०२१।०३] प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायोऽनुगृह्यते । [०२१।०३-०२१।०४] अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति । [०२१।०४] एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् । [०२१।०५] अस्ति प्रयोजनम् । [०२१।०५-०२१।०६] ताभ्यां हि विनाऽ श्रयशोभैव न स्यादिति व्यवहार्श्च । [०२१।०६-०२१।०७] यद्येतत्प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् । [०२१।०७] नानिन्द्रियमधिष्ठानं संभवति । पुरुषेन्द्रियाधिष्ठानवत् । [०२१।०७-०२१।०८] युक्तस्तदसंभवो निष्प्रयोजनत्वात् । [०२१।०८-०२१।०९] घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम् [०२१।०९] अतोऽस्य विनाऽपीन्द्रियेण युक्तः संभवः । [०२१।०९-०२१।१०] निःप्रयोजनाऽपीन्द्रियाभिनिर्वृत्तिर्भवति । [०२१।१०] यथा गर्भे नियतमृत्यूनाम् । स्यान्नाम निःप्रयोजना न तु निर्हेतुका । [०२१।११] कश्च हेतुरिन्द्रियोत्पत्तेः । इन्दरियसतृष्णस्य कर्मविशेषः । [०२१।११-०२१।१२] यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति । [०२१।१२] न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः । [०२१।१३] पुरुषेन्द्रैयमपि वा किं न निवर्त्तते । अशोभाकरत्वात् । [०२१।१३-०२१।१४] कोशगतवस्तिगुह्यानां किं न शोभेत । [०२१।१४] न च प्रयोजनवशादुत्पत्तिः । किं तर्हि । [०२१।१४-०२१।१५] कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः । [०२१।१५] सूत्रं तर्हि विरुध्यते । [०२१।१५-०२१।१६] "अविकला अहीनेन्दरिया" इति । [०२१।१६] यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति कोऽत्र विरोधः । [०२१।१६-०२१।१७] इतरथा हि पुरुशेन्द्रियस्यापि स्यात्प्रसङ्गः । [०२१।१७] एवं तुवर्णयन्ति । [०२१।१७-०२१।१८] स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ । [०२१।१८] आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन । [०२१।१९] पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति । तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति । [०२१।२०] आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः । [०२१।२१-०२१।२२] रूपवीतरागाणां तत्रोपपत्तिरतोऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संभवन्ति ॥ [०२१।२३] कति सास्रवाः कत्यनास्रवाः । य एते मनोधर्ममनोविज्ञानधातव उक्ताः [०२१।२४] सास्रवानास्रवा एते त्रयः [०२१।२५] ये मार्गसत्यासंस्कृतसंघृहीतास्तेऽनास्रवा अन्ये सास्रवाः । [०२१।२६] शेषास्तु सास्रवाः ॥ १.३१ ॥ [०२२।०१] पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः ॥ [०२२।०२] कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः । [०२२।०३] सवितर्कविचारा हि पञ्च विज्ञानधातवः । [०२२।०४] नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः । अवधारणार्थो हिशब्दः । [०२२।०५] अन्त्यास्त्रयस्त्रिप्रकाराः [०२२।०६] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः एते त्रयस्त्रिप्रकाराः । [०२२।०६-०२२।०८] तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः । [०२२।०८] ध्यानान्तरेऽवितर्का विचारमात्राः । [०२२।०८-०२२।०९] द्वितीयाद्ध्यानात्प्रभृत्याभवाग्रादवितर्का अविचाराः । [०२२।०९-०२२।१०] सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः । [०२२।१०-०२२।११] वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात्विचारसंप्रयोगाच्च । [०२२।११] कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति । [०२२।११-०२२।१२] स कथं वक्तव्यः । [०२२।१२] अविचारो वितर्कमातरः । द्वितीयविचाराभावात्वितर्कसंप्रयोगाच्च । [०२२।१३] अत एवोच्यते "स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः । [०२२।१४] सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः । [०२२।१४-०२२।१५] अवितर्को विचारमात्रो वितर्कः । [०२२।१५] अवितर्का अविचारा असंप्रयुक्ताः । अविचारो वितर्कमात्रो विचार" इति । [०२२।१६] शेषा उभयवर्जिताः ॥ १.३२ ॥ [०२२।१७] दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् ॥ [०२२।१८] यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते । [०२२।१९] निरूपणानुस्मरणविकल्पेनाविकल्पकाः । [०२२।२०] त्रिविधः किल विकल्पः । स्वभावाभिनिरूपणानुस्मरणविकल्पः । [०२२।२०-०२२।२१] तदेषां स्वभावविकल्पोऽस्ति । [०२२।२१] नेतरौ । तस्मादविकल्पका इत्युच्यन्ते । [०२२।२१-०२२।२२] यथा एकपादकोऽश्वोऽपादक इति । [०२२।२२] तत्र स्वभावविकल्पो वितर्कः । स चैत्तेषु पश्चान्निर्देक्ष्यते । [०२२।२२-०२२।२३] इतरौ पुनः किंस्वभावौ । [०२२।२३] यथाक्रमं [०२२।२४] तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥ [०२२।२५] मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते । असमाहिता व्यग्रेत्युच्यते । [०२२।२५-०२२।२६] सा ह्यभिनिरूपणाविकल्पः । [०२२।२६] मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः । [०२२।२७] कति सालम्बनाः कत्यनालम्बनाः । [०२३।०१] सप्त सालम्बनाश्चित्तधातवः [०२३।०२-०२३।०३] चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् । [०२३।०४-०२१।०४] अर्धं च धर्मतः । [०२३।०५] सालम्बनं यच्चैतसिकस्वभावम् । [०२३।०५-०२३।०६] शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तकोऽनालम्बना इतिसिद्धम् । [०२३।०७] कत्युपात्ताः कत्यनुपात्ताः । [०२३।०८] नवानुपात्ताः । [०२३।०९] कतमे नव । ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् । [०२३।१०] ते चाष्टौ शब्दश्च [०२३।११] इमे ते नवानुपात्ताः । सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च । [०२३।१२] अन्ये नव द्विधा ॥ १.३४ ॥ [०२३।१३-०१३।१३] उपात्ता अनुपात्ताश्च । [०२३।१३] तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः । [०२३।१४] अतीतानागता अनुपात्ताः । [०२३।१४-०२३।१५] रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः । [०२३।१५-०२३।१६] अन्येऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च । [०२३।१६] उपात्तमिति कोऽर्थः । [०२३।१६-०२३।१७] यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् । [०२३।१७] यल्लोके सचेतनमित्युच्यते । [०२३।१८] कति धातवो भूतस्वभावाः कति भौतिकाः । [०२३।१९] स्प्रष्टव्यं द्विविधं [०२३।२०] भूतानि भौतिकं च । तत्र भूतानि चत्वारि । भौतिकं श्लक्ष्णत्वादि सप्तविधम् । [०२३।२१] भूतेषु भवत्वात् । [०२३।२२] शेषा रूपिणो नव भौतिकाः । [०२३।२३] पञ्चेन्द्रियधातवश्च चत्वारो विषयाः । एते नव धातवो भौतिका एव । [०२३।२४] धर्मधात्वेकदेशश्च [०२३।२५] अविज्ञप्तिसंज्ञको भौतिकः । [०२३।२५-०२४।०१] शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा । [०२४।०१-०२३।०१] "भूतमात्रं दशायतनानी"ति भदन्त्ब्दुद्धदेवः । [०२४।०१-०२४।०२] तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात्सूत्रे । [०२४।०२] तेषां स्प्रष्टव्यत्वात् । [०२४।०२-०२४।०३] न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण । [०२४।०३-०२४।०५] उक्तं च सूत्रे "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघमेवं यावत्कायः [०२४।०५-०२४।०६] रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् । [०२४।०६-०२४।०७] शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् । [०२४।०७] एवं गन्धरसाः । [०२४।०७-०२४।०८] स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि"ति । [०२४।०९] स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् । [०२४।०९-०२४।१०] यत्तर्हि सूत्रे उक्तं "यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि"ति [०२४।१०-०२४।११] तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः । [०२४।११-०२४।१२] षड्धातुरयं भिक्षो पुरुष"इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् । [०२४।१२] पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च । [०२४।१२-०२४।१३] न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् । [०२४।१३-०२४।१४] "संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ इति सूत्रे वचनात्सरागचित्तादि वचनाच्च । [०२४।१५] तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् । [०२४।१६] कति संचिताः कत्यसंचिताः । [०२४।१७] संचिता दश रूपिणः ॥ १.३५ ॥ [०२४।१८] पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः । [०२४।१८-०२४।१९] परमाणुसंघातत्वात्शेषा न संचिता इति सिद्धं भवति ॥ [०२४।२०-०२४।२१] अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते । [०२४।२२] छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् । [०२४।२३] रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् । छेदो नाम क एष धर्मः । [०२४।२३-०२४।२४] संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् । [०२४।२४] न कायेन्द्रियादीनि च्छिद्यन्ते । [०२४।२४-०२४।२५] निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् । [०२४।२५] न हीन्द्रियाणि द्विधा भवन्ति । [०२४।२५-०२४।२६] छिन्नस्याङ्गस्य निरिन्द्रियत्वात् । [०२४।२६] न चापि च्छिन्दन्ति । मणिप्रभावदन्धत्वात् । [०२४।२६-०२४।२७] यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् । [०२५।०१] दह्यते तुलयत्येवं [०२५।०२] तदेव दह्यते तदेव तुलयति । नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् । न शब्द उछेदित्वात् । [०२५।०३] विवादो दग्धृतुल्ययोः ॥ १.३६ ॥ [०२५।०४] केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च [०२५।०४-०२५।०५] केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति । [०२५।०६-०२५।०७] कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः । [०२५।०७] आह । [०२५।०८] विपाकजौपचयिकाः पञ्चाध्यात्मम् । [०२५।०९-०२५।१०] अध्यात्मं तावत्पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च । [०२५।१०] नैःष्यन्दिका न सन्ति । तद्व्यतिरिक्तनिष्यन्दाभावात् । [०२५।१०-०२५।११] तत्र विपाकहेतोर्जाताः विपाकजाः । [०२५।११] मध्यपदलोपात्गोरथवत् । [०२५।११-०२५।१२] फलकालप्राप्तं वा कर्म विपाक इत्युच्यते । [०२५।१२] विपच्यत इति कृत्वा । तस्माज्जाता विपाकजाः । [०२५।१२-०२५।१३] फलं तु विपक्तिरेवेति विपाकः । [०२५।१३] भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः । [०२५।१३-०२५।१४] "षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्"इति । [०२५।१४-०२५।१५] आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः । [०२५।१५] ब्रह्ंचर्येण चेत्येके । अनुपघातमात्रं तु तेन स्यान्नोपचयः । [०२५।१५-०२५।१६] विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा । [०२५।१६-०२५।१७] शब्द औपचयिको नैःष्यन्दिकश्चास्ति । [०२५।१८] विपाकजः । [०२५।१९] न शब्दः [०२५।२०] किं कारणम् । ईहातः प्रवृत्तेः । [०२५।२०-०२५।२१] यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं "पारुष्यविरतेः सुभावितत्वाद्ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति । [०२५।२१] तृतीयाऽसौ परंपरेत्येके । [०२५।२२] कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति । पञ्चम्यसौ परंपरेत्यपरे । [०२५।२२-०२५।२४] कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति । [०२५।२४-०२५।२५] एवं तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति । [०२५।२५] यदि शब्दवद्युक्तिविरोधः स्यात् । [०२५।२६] अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः ॥ १.३७ ॥ [०२५।२७] कतमेऽष्टौ । सप्त चित्तधातवो धर्मधातुश्च । नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः । [०२६।०१] विपाकजा विपाकहेतुजनिताः । औपचयिका न सन्त्यप्रतिघानां सञाभावात् । [०२६।०२] त्रिधाऽन्ये [०२६।०३] अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः । [०२६।०३-०२६।०४] ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि । [०२६।०५] द्रव्यवानेकः [०२६।०६] असंस्कृतं हि सारत्वाद्द्रव्यम् । तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः । [०२६।०७] क्षणिकाः पश्चिमास्त्रयः । [०२६।०८] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः । [०२६।०८-०२६।०९] ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते । [०२६।०९-०२६।१०] अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः । [०२६।१०-०२६।११] तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च । [०२६।११] शेषास्तत्सहभुवो धर्मधातुः ॥ [०२६।१२-०२५।१२] इदं विचार्यते । [०२६।१२-०२६।१३] यश्चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनाऽपि सः । [०२६।१३] यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुनाऽपि सः । आह । [०२६।१४] चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥ [०२६।१५] पृथक्तावत्स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना । [०२६।१५-०२६।१६] कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः । [०२६।१६] आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः । [०२६।१६-०२६।१७] स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना । [०२६।१७-०२६।१८] द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः । [०२६।१८-०२६।१९] सहापि स्यादुभयेन समन्वागमं प्रतिलभते । [०२६।१९] आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभयेन । [०२६।२०] एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनाऽपि सः । [०२६।२१] चतुष्कोटिकः । प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः । [०२६।२२] द्वितीया कामधातावलब्धविहीन चक्षुः । [०२६।२२-०२६।२३] तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् । [०२६।२३-०२६।२४] चतुऋथ्येतानाकारान् स्थापयित्वा । [०२६।२४-०२६।२५] एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ । [०२६।२५] एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति । [०२७।०१] कत्याध्यात्मिका धातवः कति बाह्याः । [०२७।०२] द्वादशाध्यात्मिकाः [०२७।०३] कतमे द्वादश । [०२७।०४] हित्वा रूपादन् [०२७।०५] षड्विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः । [०२७।०५-०२७।०६] रूपादयस्तु षड्विषयधातवो बाह्याः । [०२७।०६] आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा । [०२७।०६-०२७।०७] अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते । [०२७।०८] "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः" [०२७।०९-०२६।०९] इत्युक्तम् । [०२७।०९] चित्तस्य चान्यत्र दमनमुक्तं भगवता । [०२७।१०] "चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्" इति । [०२७।११] अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् । [०२७।११-०२७।१२] चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद्बाह्यत्वम् । [०२७।१२-०२७।१३] एवं तर्हि षड्विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति । [०२७।१३] न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति । [०२७।१३-०२७।१४] यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते । [०२७।१४-०२७।१५] अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः । [०२७।१५] इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः । [०२७।१५-०२७।१६] यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्याततीतेऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत । [०२७।१७] नहि लक्षणस्याध्वसु व्यभिचारोऽस्तीति ॥ [०२७।१८] कति धातवः सभागाः कति तत्सभागाः । एकान्तेन तावत् [०२७।१९] धर्मसंज्ञकः । [०२७।२०] सभागः [०२७।२१-०२७।२२] यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते । [०२७।२२-०२७।२३] न च सोऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा । [०२७।२३-०२७।२४] तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते "सर्वधर्मा अनात्मान" इति । [०२७।१४-०२७।२५] तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् । [०२७।२५-०२७।२६] स पुनश्चित्तक्षणोऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति । [०२७।२६] तस्माद्धर्मधातुअर्नित्यं सभागः । [०२७।२७] तत्सभागाश्च शेषाः [०२७।२८] सभागश्चेति चशब्दः । कोऽयं तत्सभागो नाम । [०२८।०१] यो न स्वकर्मकृत् ॥ १.३९ ॥ [०२८।०२] उक्तं भवति यः स्वकर्मकृत्स सभाग इति । [०२८।०२-०२८।०३] तत्र येन चक्षुषा रूपाण्यपश्यत्पश्यति द्रक्ष्यति वा तदुच्यते सभागमचक्षुः । [०२८।०३-०२८।०४] एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् । [०२८।०४] तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् । [०२८।०४-०२८।०५] यद्दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि । [०२८।०५-०२८।०६] पाश्चात्त्यानां पुनः पञ्चविधम् । [०२८।०६] तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च । [०२८।०७] एवं यावत्कायो वेदितव्यः । मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् । [०२८।०७-०२८।०८] रूपाणि च यानि चक्षुषाऽपशायत्पश्यति द्रक्ष्यति वा तानि सभागानि । [०२८।०८] तत्सभागानि चतुर्विधानि । [०२८।०९] यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि । [०२८।०९-०२८।१०] एवं यावत्स्प्रष्टव्यानि । [०२८।१०] स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि । [०२८।१०-०२८।११] यदेकस्य चक्षुः सभागं तत्सर्वेषाम् । [०२८।११] एवं तत्सभागमपि । [०२८।११०-०२८११] तथ यावन्मनः । [०२८।११-०२८।१२] रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् । [०२८।१२] किं कारणम् । [०२८।१२-०२८।१३] अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवोऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु । [०२८।१३-०२८।१४] नतु संभवोऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् । [०२८।१४] अतोऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् । [०२८।१५] रूपस्य तु साधारणत्वातनेकसन्तानवशेन । [०२८।१५-०२८।१६] यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः । [०२८।१६] भवतु शब्द एवम् । [०२८।१६-०२८।१८] गन्धादयस्तु य एकेन गृह्यन्ते न तेऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः । [०२८।१८] अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् । [०२८।१८-०२८।१९] अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि । [०२८।२०] न त्वेवं चक्षुरादयः । तस्मान्देषां रूपादिवदतिदेशः । [०२८।२०-०२८।२१] चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः । [०२८।२२] सभाग इति कोऽर्थः । [०२८।२२-०२८।२३] इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः । [०२८।२३] स एषामस्तीति सभागः । स्पर्शसमानकार्यत्वाद्वा । [०२८।२३-०२८।२४] ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात्तत्सभागाः । [०२८।२५] कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः । रूपिणस्तावत् [०२८।२६] दश भावनया हेयाः पञ्च च [०२८।२७] विज्ञानधातवः । [०२८।२८] अन्त्यास्त्रयस्त्रिधा । [०२८।२९] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च । एते त्रयो धातवः पाठानुपूर्व्याऽन्त्यास्त्रिप्रकाराः । [०२९।०१] अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः । [०२९।०१-०२९।०२] शेषाः सास्रवा भावनाहेयाः । [०२९।०२] अनास्रवा अहेयाः । [०२९।०२-०२९।०३] ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म । [०२९।०३-०२९।०४] आर्यमार्गविरोधित्वात्न तद्दऋशनप्रहातव्यम् । [०२९।०४] एष हि संक्षेपः । [०२९।०५] न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःजं [०२९।०६] नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् । [०२९।०६-०२९।०७] अक्लिष्टव्याकृतं च पृथग्जनत्वम् । [०२९।०७] समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत्रूपं कायवाक्कर्म । [०२९।०८] तस्मान्न दर्शनप्रहातव्यम् । [०२९।०८-०२९।०९] सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च । [०२९।१०] नाप्यषष्टजम् ॥ १.४० ॥ [०२९।११] षष्ठमुच्यते मन आयतनम् । [०२९।११-०२९।१२] तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् ॥ [०२९।१३] अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः । [०२९।१४] चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः [०२९।१५] कतमः स इत्याह [०२९।१६] अष्टधा । [०२९।१७-०२९।१८] पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग्दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः । तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति । [०२९।१९-०२९।२०] लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा । [०२९।२०-०२९।२१] शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी । [०२९।२१-०२९।२२] समेघामेघरत्रिन्दिवरूपदर्शनवत्क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् । [०२९।२२] अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते । [०२९।२३] यस्मात् । [०२९।२४] पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥ [०२९।२५] सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् । न चैवं पञ्चविज्ञानसहाजा प्रज्ञा । [०३०।०१] तस्माद्सौ न दृष्टिः । अत एव चान्याऽपि क्लिष्टाऽक्लिष्टा वा प्राज्ञा न दृष्टिः । [०३०।०२] चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः । रूपालोचनार्थेन । यस्मात् [०३०।०३] चक्षुः पश्यति रूपाणि [०३०।०४] यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनोऽपि पश्येत् । न वै सर्वं चक्षुः पश्यति । किं तर्हि । [०३०।०५] सभागं [०३०।०६] सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति । [०३०।०६-०३०।०७] एवं तर्हि तदेव चक्षुराश्रितं विज्ञानं पश्यतीत्यस्तु । [०३०।०८] न तदाश्रितम् । [०३०।०९] विज्ञानं [०३०।१०] पश्यतीति शस्यमविज्ञातुम् । किं कारणम् । [०३०।११] दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥ [०३०।१२] यस्मात्किल रूपं कुड्यादिव्यवहितं न दृश्यते । [०३०।१२-०३०।१३] यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात्कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् । [०३०।१३-०३०।१४] नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति । [०३०।१४] किं खलु नोत्पद्यते । [०३०।१४-०३०।१६] यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात्युज्यते । [०३०।१६-०३०।१७] किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत्यत आवृतं न पश्येत् । [०३०।१७] सप्रतिघत्वात् । [०३०।१७-०३०।१८] काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते । [०३०।१८] सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् । [०३०।१९] किं तर्हि । [०३०।१९-०३०।२०] यत्रालोकस्याप्रतिबन्ध आवृतेऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् । [०३०।२०-०३०।२१] यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते । [०३०।२१] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वे"ति । [०३०।२१-०३०।२२] तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा "मनसा धर्मान् विज्ञाये" त्याह । [०३०।२२-०३०।२३] न च मनो धर्मान् विजानाति । [०३०।२३] अतीतत्वात् । किं तर्हि । मनोविज्ञानम् । [०३०।२३-०३०।२४] आश्रितकर्म वा आश्रयस्योपचर्यते । [०३०।२४] यथा मञ्चाः क्रोशन्तीति । [०३०।२४-०३०।२५] यथा च सूत्र उक्तं "चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि"ति । [०३०।२५] न च तानि चक्षुषा विज्ञायन्ते । [०३०।२५-०३०।२७] उक्तं च सूत्रे "चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय" इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति । श् [०३०।२७] दर्शने तत्र द्वाराख्या । नह्येतद्युज्यते । चक्षुर्दार्शनमरूपाणां दर्श्नायेति । [०३१।०१] यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः । [०३१।०१-०३१।०२] यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति । [०३१।०२-०३१।०३] तद्यथा काचित्प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि । [०३१।०३] अन्ये पुनराहुः । [०३१।०३-०३१।०४] "यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः काऽन्या दृशिक्रिये"ति वक्तव्यम् । [०३१।०४] तदेतदचोद्यम् । [०३१।०४-०३१।०५] यदि हि विज्ञानं विजानातीतीष्यते । [०३१।०५] न च तत्र कर्तृक्रियाभेदः । एवमत्रापि । [०३१।०५-०३१।०६] अपरे पुनर्ब्रुवते । [०३१।०६-०३१।०७] "चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते । [०३१।०७] यथा नादस्याश्रयभावात्घण्टा नदतीत्युच्यते" इति । [०३१।०७-०३१।०८] ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति । [०३१।०८] न प्राप्नोति । [०३१।०८-०३१।०९] तद्विज्ञानं दर्शनमिति रुढं लोके । [०३१।०९] तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् । [०३१।०९-०३१।१०] विभाषायामप्युक्तं "चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत" इति । [०३०।१०-०३१।११] तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति । [०३१।११] विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते । [०३१।१२] यथा सूर्यो दिवसकर इति । अत्र सौत्रान्तिका आहुः । किमिदमाकाशं खाद्यते । [०३१।१३] चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । तत्र कः पश्यति को वा दृश्यते । [०३१।१४] निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च । [०३१।१४-०३१।१५] तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते । [०३१।१५] चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् । [०३१।१५-०३१।१६] उक्तं हि भगवता "जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि"ति । [०३१।१६-०३१।१७] एष तु काश्मीरवैभाषिकाणां सिद्धान्तः । [०३१।१७-०३१।१८] चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति । [०३१।१९] तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् । [०३१।२०] नात्र नियमः । [०३१।२१] उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् । [०३१।२२] उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः । [०३१।२२-०३१।२३] तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति । [०३१।२३-०३१।२४] एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति । [०३१।२४] नैकतरान्यथीभावात् । [०३१।२४-०३१।२५] न चाश्रयविच्छेदाद्विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद्रौपवदिति । [०३१।२६-०३१।२७] यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः । [०३२।०१] चक्षुःश्रोत्रमनोऽप्राप्तविषयं [०३२।०२] तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति । दूराच्छब्दं शृणोति । [०३२।०२-०३२।०३] सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत । [०३२।०३] घ्राणादिवत् । [०३२।०३-०३२।०४] यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च । [०३२।०४-०३२।०५] कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति । [०३२।०५] प्राप्तविषयत्वेऽपि चैतत्समानम् । [०३२।०५-०३२।०६] कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा । [०३२।०६-०३२।०७] यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः । [०३२।७-०३२०७] सहभूगन्धाद्यग्रहणात् । [०३२।०७] एवं चक्षुषोऽप्यप्राप्तः स्यान्न तु सर्वः । [०३२।०७-०३२।०८] मनस्त्वरूपित्वात्प्राप्तुमेवाशक्तम् । [०३२।०८] केचित्पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते । [०३२।०९] कर्णभ्यन्तरेऽपि शब्दश्रवणात् । शेषं तु घ्राणजिह्वाकायाख्यम् । [०३२।१०] त्रयमन्यथा ॥ १.४३ ॥ [०३२।११] प्राप्तविषयमित्यर्थः । घ्राणं कथं प्राप्तविषयम् । निरुच्छ्वासस्य गन्धाग्रहणात् । [०३२।१२] केयं प्राप्तिर्नाम । निरन्तरोत्पत्तिः । [०३२।१२-०३२।१३] किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न । [०३२।१३-०३१।१३] न स्पृशन्तीति काश्मीरकाः । [०३२।१३] किं कारणम् । [०३२।१३-०३२।१४] यदि तावत्सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि । [०३२।१४] अथैकदेशेन सावयवाः प्रसज्येरन् । [०३२।१५] निरवयवाश्च परमाणवः । कथं शब्दाभिनिश्पत्तिर्भवति । [०३२।१५-०३२।१६] अत एव यदि हि स्पृशेयुर्हस्तो हस्तेऽभ्याहतः सज्येतो पलश्चोपले । [०३२।१६-०३२।१७] कथं चितं प्रत्याहतं न विशीर्यते । [०३२।१७] वायुधातुसंधारितत्वात् । [०३२।१७-०३२।१८] कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित्संधारणाय यथा विवर्त्तन्यामिति । [०३२।१८-०३२।१९] कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते । [०३२।१९] तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् । [०३२।२०] अपिख्लु संघाताः सावयवत्वात्स्पृशन्तीत्यद्वीषः । [०३२।२०-०३२।२१] एवं च कृत्वाऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् । [०३२।२१-०३२।२२] किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह"कारणं प्रति । [०३२।२२-०३२।२३] कदाचित्स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते । [०३२।२३] कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति । [०३३।०१] कदाचित्स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः । [०३३।०१-०३३।०२] कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज" इति । [०३३।०२] यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः । [०३३।०३] न स्पृशन्ति । निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः । भदन्तमतं चैष्टव्यम् । [०३३।०४] अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत । [०३३।०४-०३३।०५] यतः सप्रतिघा इष्यन्ते । [०३३।०५] नच परमाणुभ्योऽन्ये संघाता इति । [०३३।०५-०३३।०६] त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते । [०३३।०६-०३३।०७] यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः । [०३३।०७] नो चेत्स्पृष्टस्याप्यप्रसङ्गः ॥ [०३३।०८-०३३।०९] किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य । [०३३।०९-०३३।१०] यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः । [०३३।११] त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् । [०३३।१२] यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति । [०३३।१३] चक्षुःश्रोत्राभ्यां त्वनियमः । कदाचिदल्पीयांसो यदा वालाग्रं पश्यति । [०३३।१३-०३३।१४] कदाचित्समा यदा द्राक्षाफतं पश्यति । [०३३।१४-०३३।१५] कदाचित्भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण । [०३३।१५] एवं श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् । [०३३।१५-०३३।१६] मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते । [०३३।१६] कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः । [०३३।१७] चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः । [०३३।१७-०३३।१८] अच्छचर्मावच्छादितास्तु न विकीर्यन्ते । [०३३।१८-०३३।१९] अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे । [०३३।१९] न चान्योऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् । [०३३।१९-०३३।२०] श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः । [०३३।२०] घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् । [०३३।२०-०३३।२१] आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि । [०३३।२१] जिह्वेन्द्रियपरमाण्वोऽर्धचन्द्रवत् । [०३३।२१-०३३।२२] वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् । [०३३।२२-०३३।२३] कायेन्द्रियपरमाणवः कायवदवस्थिताः । [०३३।२३] स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् । पुरुषेन्द्रियपरमाणवोऽङ्गुष्ठवत् । [०३३।२४] तत्र चक्षुरिन्द्रियपरमाणवः कदाचित्सर्वे सभागा भवन्ति कदाचित्तत्सभागाः । [०३३।२४-०३३।२५] कदाचिदेके सभागाः एके तत्सभागाः । [०३३।२५] एवं यावज्जिह्वेन्द्रियपरमाणवः । [०३३।२५-०३३।२६] कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति । [०३३।२६-०३३।२७] प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति । [०३३।२७-०३४।०१] सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत । [०३४।०१] न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति । [०३४।०१-०३४।०२] संचिताश्रयालम्बनत्वात्पञ्चानां विज्ञानकायानाम् । [०३४।०२] अत एवानिदर्शनः परमाणुरदृश्यत्वात् ॥ [०३४।०३-०३४।०४] य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयोऽपि । [०३४।०५] नेत्याह । [०३४।०५-०३४।-५] किं तर्हि । [०३४।०६] चरमस्याश्रयोऽतीतः [०३४।०७] मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः । [०३४।०८-०३४।०७] पञ्चानां सहजश्च तैः ॥ १.४४ ॥ [०३४।०९] अतीतश्चेति चशब्दः । [०३४।०९-०३४।१०] तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत्कायविज्ञानस्य कायः । [०३४।१०] अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः । [०३४।११] अत एवोच्यते "यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये"ति । [०३४।१२] चतुष्कोतिकः । प्रथमा कोतिश्चक्षुः । द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः । [०३४।१३] तृतीया समनन्तरातीतं मनः । चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः । [०३४।१३-०३४।१४] एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् । [०३४।१४] मनोविज्ञानस्य पूर्वपादकः । [०३४।१४-०३४।१५] यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः । [०३४।१५] स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन । [०३४।१५-०३४।१६] समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति । [०३४।१७-०३४।१८] किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः । [०३४।१९] तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः । [०३४।२०] धातव इत्यधिकारः । [०३४।२०-०३४।२१] चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात्न तु रूपादीनां विकारेण तद्विकारः । [०३४।२२] तस्मात्साधीयस्तदधीनत्वत्त एवाश्रया न रूपादयः । [०३४।२३-०३४।२४] किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् । [०३४।२४] न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति । [०३४।२४-०३४।२५] य एते चक्षुरादय आश्रया एषाम् । [०३४।२६] अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥ [०३४।२७] कथमसाधारणत्वम् । न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते । [०३४।२७-०३४।२८] रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति । [०३४।२८] एवं यावत्कायो वेदितव्यः । [०३४।२९] तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः । [०३४।२९-०३४।३०] यथा भेरीशब्दो यवाङ्कुर इति । [०३५।०१-०३५।०२] अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि । [०३५।०२] आह । सर्वेषां भेदः । [०३५।०३] कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकं भवति । [०३५।०४-०३५।०५] तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि । [०३५।०६-०३५।०७] द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् । [०३५।०७-०३५।०६] प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् । [०३५।०८-०३५।१०] द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् । [०३५।१०-०३५।११] एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् । [०३५।११-०३५।१२] प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकम् । [०३५।१२-०३५।१३] द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् । [०३५।१३-०३५।१४] कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् । [०३५।१४-०३५।१५] द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् । [०३५।१५] एवं तृतीयध्यानचक्षुषा योज्यम् । [०३५।१६-०३५।१७] द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् । [०३५।१७] अयं तु नियमः । [०३५।१८] न कायस्याधरं चक्षुः । [०३५।१९] पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि । [०३५।२०] द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च । [०३५।२०-०३५।२१] तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् । [०३५।२१-०३५।२२] यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति । [०३५।२३] ऊध्र्वं रूपं न चक्षुषः । [०३५।२४] न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते । [०३५।२५] विज्ञानं च [०३५।२६] ऊर्ध्व न चक्षुषो रूपवत् । [०३६।०१] अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥ [०३६।०२] अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च । [०३६।०३] कायस्य चोभे रूपविज्ञाने सर्वतो भवतः । यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम् [०३६।०४] तथा श्रोत्रं [०३६।०५-०३६।०६] "न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः । विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥"इति [०३६।०७] विस्तरेण योज्यम् । [०३६।०८] त्रयाणां तु सर्वमेव स्वभूमिकम् । [०३६।०९] घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव । [०३६।०९-०३६।१०] इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते । [०३६।११] कायविज्ञानमधरस्वभूमि [०३६।१२] कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति । [०३६।१२-०३६।१३] कायविज्ञानं तु केषाञ्चित्स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नाम् । [०३६।१३-०३६।१४] केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति । [०३६।१५] अनियतं मनः ॥ १.४७ ॥ [०३६।१६-०३६।१७] कदाचित्कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् । [०३६।१७-०३६।१९] पञ्चभूमिकेऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते । [०३६।१९-०३६।२०] अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते । [०३६।२०] अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः । [०३६।२१] इदमिदानीं विचार्यते । [०३६।२१-०३६।२२] अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः । [०३६।२२] आह । [०३६।२३] पञ्च बाह्या द्विविज्ञेयाः [०३६।२४-०३६।२५] रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते । [०३६।२५] एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति । [०३६।२६-०३६।२७] शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति । [०३७।०१] एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः । [०३७।०१-०३७।०२] न कश्च्त्सकलोऽस्ति नित्यो धातुरपि तु [०३७।०३] नित्या धर्मा असंस्कृताः । [०३७।०४] तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः । [०३७।०५] कतीन्द्रियं कति नेन्द्रियम् । [०३७।०६] धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥ [०३७।०७] द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे । [०३७।०७-०३७।११] चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयमुपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियमनाज्ञातमाज्ञास्यामीन्दरियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति । [०३७।११-०३७।१२] आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति । [०३७।१२] सालम्बनत्वात् । [०३७।१२-०३७।१३] तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् । [०३७।१३-०३७।१४] द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः । [०३७।१४-०३७।१५] सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेशिति पश्चाद्वक्ष्यति । [०३७।१५-०३७।१६] शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥ [०३७।१७] अभिधर्मकोशभाष्ये धातुनिर्देशो नाम [०३७।१८] प्रथमं कोशस्थानं समाप्तमिति । [०३७।१९-०३७।२१] ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निर्होध एवंवादीउ महाश्रमणः ॥ [०३७।२२] लिखापितमिदं श्रीलामावाकेनेति । द्वितीयं कोशस्थानम् ===================================================================== [०३८।०२] ओं नमो बुद्धाय । ===================================================================== [०३८।०३] उक्तानीन्द्रियाणि । कः पुनरिन्द्रियार्थः । "इदि परमैश्वर्ये" । [०३८।०३-०३८।०४] तस्य इन्दन्तीति इन्द्रियाणि । [०३८।०४] अत आधिपत्यार्थ इन्द्रियार्थः । कस्य चैषां क्वाधिपत्यम् । [०३८।०५] चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं [०३८।०६] चक्षुःश्रोत्रयोस्तावत्प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् । [०३८।०६-०३८।०७] आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् । [०३८।०७] आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् । [०३८।०८] चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ । [०३८।०८-०३८।०९] रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे । [०३८।०९] घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् । [०३८।०९-०३८।१०] आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् । [०३८।१०] घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ । [०३८।११] गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति । [०३८।१२] द्वयोः किल । [०३८।१३] चतुर्णां [०३८।१४] स्त्रीपुरुषजीवितमनैन्द्रियाणाम् । द्वयोरर्थयोः प्रत्येकमाधिपत्यम् । [०३८।१४-०३८।१५] स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः । [०३८।१५] तत्र सत्त्वभेदः स्त्रि पुरुष इति । [०३८।१५-०३८।१६] सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् । [०३८।१६] संस्लेशव्यवदानयोरित्यपरे । [०३८।१७-०३८।१८] तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति । [०३८।१९] जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः । [०३८।१९-०३८।२०] मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः । [०३८।२०-०३८।२२] तत्र पुन्र्भवसंबन्धे यथोक्तं "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे"ति । [०३८।२२] वशिभावानुवर्त्तने यथोक्तं "चित्तेनायं लोको नीयत" इति विस्तरः । [०३८।२२-०३८।२३] यत्पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां [०३८।२४] पञ्चकाष्टानं संक्लेशव्यवदानयोः ॥ २.१ ॥ [०३८।२५] आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे । रागादीनां तदनुशायित्वात् । [०३८।२५-०३९।०१] श्रद्धादीनां व्यवदाने । [०३९।०१] तै र्व्यवदायते । व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपरे । [०३९।०१-०३९।०२] "यस्मात्सुखितस्य चित्तं समाधीयते" । [०३९।०२-०३९।०३] दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः । [०३९।०३] अपरे पुनराहुः । [०३९।०३-०३९।०४] नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् । [०३९।०४] विज्ञाने तु तयोराधिपत्यम् । [०३९।०४-०३९।०५] नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वाऽस्ति । [०३९।०५] यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत । [०३९।०५-०३९।०६] तस्मान्नैवमेषामिन्द्रियत्वम् । [०३९।०६] कथं तर्हि । [०३९।०७] स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् । [०३९।०८] चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् । [०३९।०८-०३९।०९] मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् । [०३९।०९] अत एतानि षट्प्रत्येकमिन्द्रियम् । [०३९।०९-०३९।१०] ननु चार्थानामप्यत्राधिपत्यम् । [०३९।१०] नाधिपत्यम् । अधिकं हि प्रभुत्वमाधिपत्यम् । [०३९।१०-०३९।११] चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् । [०३९।११-०३९।१२] सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः । [०३९।१२] न रूपस्य । तद्वि पर्ययात् । एवं यावत्मनसो धर्मेषु योज्यम् । [०३९।१३] स्रीत्व पुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥ [०३९।१४] कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक्व्यवस्थाप्येते । नार्थन्तरभूते । [०३९।१४-०३९।१५] कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते । [०३९।१५-०३९।१६] यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् । [०३९।१६] तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः । [०३९।१६-०३९।१७] एतद्धि स्त्रिया स्त्रीत्वम् । [०३९।१७] पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः । एतद्धि पुंसः पुंस्त्वम् । [०३९।१८-०३९।१९] निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः । जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥ [०३९।२०] निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् । [०३९।२०-०३९।२१] तथाहि सुखायां वेदनायां रागोऽनुशेते दुःखायां प्रतिघोऽदुःखासुखायामविद्येत्युक्तं सूत्रे । [०३९।२१-०३९।२२] व्यवदाने श्रद्धादीनां पञ्चानाम् । [०३९।२२] तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते । [०३९।२३] अत एतेऽपि प्रत्येकमिन्द्रियमिष्टाः । [०४०।०१] आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा । [०४०।०२] उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥ [०४०।०३] प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः । [०४०।०३-०४०।०४] तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् । [०४०।०४] आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे । [०४०।०५] नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आदिशब्दोऽन्यपर्यायद्योतनार्थः । [०४०।०६] कतमोऽन्यः पार्यायः । दर्श्नहेयक्लेशपरिहाणं प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् । [०४०।०७] भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य । दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य । [०४०।०८] विमुक्तिप्रीतिसुखसंवेदनादिति । [०४०।०८-०४०।०९] आधिपात्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् । [०४०।०९-०४०।१०] अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् । [०४०।१०] वागादीनां च । वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् । [०४०।११] वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् । न खलूपसंख्यातव्यम् । यस्मादिहेष्टम् [०४०।१२-०४०।१३] चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च । संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥ [०४०।१४] तत्र चित्ताश्रयः षडिन्द्रियाणि । एतच्च षडायतनं मौलं सट्त्वद्रव्यम् । [०४०।१४-०४०।१६] तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः । [०४०।१६] व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः । [०४०।१६-०४०।१७] अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् । [०४०।१८-०४०।१९] प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः । चतुर्दश तथाऽन्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥ [०४०।२०] मतविकल्पार्थो वाशब्दः । अपरे पुनराहुः । प्रवृत्तेरश्रयः षडिन्द्रियाणि । [०४०।२०-०४०।२१] उत्पत्तिः स्त्रीपुरुषेन्द्रिये । [०४०।२१] तत उत्पत्तेः । स्थितिर्जीवितेन्द्रियम् । तेनावस्थानात् । [०४०।२१-०४०।२२] उपभोगो वेदनाभिः । [०४०।२२] अत एतानि चतुर्दशेन्द्रियाणि । तेनैव प्रकारेण निवृत्तेरन्यानि । [०४०।२२-०४०।२३] श्रद्धदीनि हि निवृत्तेराश्रयाः । [०४०।२३-०४०।२४] आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियमुपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि । [०४०।२४] अत एव चईषामेषोऽनुक्रमः । [०४०।२५] वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् । [०४०।२५-०४०।२६] पाणिपादस्य चादानविहरणादनन्यत्वात् । [०४०।२६-०४०।२७] तदेव हि तदन्यथाऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते । [०४०।२७] विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् । [०४०।२७-०४०।२८] पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् । [०४०।२८] वायुना च तत्प्रेरणात् । [०४१।०१] उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत्सौख्यमिति । [०४१।०१-०४१।०३] कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत । [०४१।०३-०४१।०४] सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् ॥ [०४१।०५] तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः । [०४१।०५-०४१।०६] जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः । [०४१।०६] श्रद्धादीनां चैत्तेषु करिष्यते । [०४१।०६-०४१।०७] सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः । [०४१।०७] सोऽयं क्रियते । [०४१।०८] दुःखेन्द्रियमशाता या कायिकी वेदना [०४१।०९] अशातेत्युपधातिका दुःखेत्यर्थः । [०४१।१०] सुखम् । [०४१।११] शाता [०४१।१२] सुखेन्द्रियं कायिकी शात वेदना । शातेत्यनुग्राहिका सुखेत्यर्थः । [०४१।१३] ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥ [०४१।१४] तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् । [०४१।१४-०४१।१५] नहि तत्र कायिकी वेदनाऽस्ति । [०४१।१५] पञ्चविज्ञानकायाभावात् । [०४१।१६] अन्यत्र सा सौमनस्यं [०४१।१७-०४१।१८] तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् । [०४१।१८-०४१।१९] तृतीये तु ध्याने प्रीतिवीतरागत्वात्सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् । [०४१।१९] प्रीतिर्हि सौमनस्यम् । [०४१।२०] अशाता चैतसी पुनः । [०४१।२१] दौर्मनस्यमुपेक्षा तु मध्या [०४१।२२] नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते । सोपेक्षेन्द्रियम् । [०४१।२२-०४१।२३] किं कायिकी चैतसिकीत्याह । [०४१।२४] उभयी [०४१।२५] किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते । [०४२।०१] अविकल्पनात् ॥ २.८ ॥ [०४२।०२] चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् । [०४२।०२-०४१।०३] विषयवशादर्हतामप्युत्पत्तेः । [०४२।०३] अतस्तयोरिन्द्रियत्वेन भेदः । [०४२।०३-०४२।०४] उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियं क्रियते । [०४२।०४-०४२।०५] अन्यथा च कायिकं सुखमनुगृह्णात्यन्यथा चैतसिकम् । [०४२।०५] एवं दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् । [०४२।०५-०४२।०६] उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः । [०४२।०७] दृग्भावनाऽसैक्षपथे नव त्रीणि [०४२।०८] मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च । [०४२।०८-०४२।०९] तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते । [०४२।०९-०४२।१०] दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियमशैक्षमार्गे आज्ञातावीन्द्रियमिति । [०४२।१०] किं कारणम् । [०४२।१०-०४२।११] दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः । [०४२।११-०४२।१२] भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् । [०४२।१२] अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः । [०४२।१२-०४२।१३] सोऽस्यास्तीति आज्ञातावी । [०४२।१३] आज्ञातमवितुं शीलमस्येति वा । क्षयानुत्पादिज्ञानलाभात् । [०४२।१४] "दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति" तथाभूतस्येन्रियमाज्ञातावीन्रियम् । [०४२।१५-०४२।१६] स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि । [०४२।१६-०४२।१७] तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् । [०४२।१८] अमलं त्रयम् । [०४२।१९] अनास्रवमित्यर्थः । मलानामास्रवपर्यायत्वात् । [०४२।२०] रूपीणि जीवितं दुःखे सास्रवाणि [०४२।२१] रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि । [०४२।२२] रूपीणि पुनः सप्त चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् । [०४२।२३] द्विधा नव ॥ २.९ ॥ [०४२।२४-०४२।२५] मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि । [०४२।२५] अनास्रवाण्येव श्रद्धादीनीत्येके । [०४२।२५-०४२।२७] उक्तं हि भगवता "यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति । [०४२।२७] नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् । [०४२।२७-०४२।२८] तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह । [०४२।२८] पृथग्जनो वा द्विविधः । [०४३।०१] आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः । [०४३।०२] तमधिकाऋत्याह "बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति । [०४३।०२-०३२।०४] उक्तं च सूत्रे "सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी" त्यप्रवर्त्तित एव धर्मचक्रे । [०४३।०४] तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि । [०४३।०५-०४३।०७] पुनश्चोक्तं "यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि"ति विस्तरः । [०४३।०७] न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः ॥ [०४३।०८] कतीन्द्रियाणि विपाकः कति न विपाकः । एकान्तेन तावत् [०४३।०९] विपाको जीवितं [०४३।१०] अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः । [०४३।११] शास्त्र उक्थं "कथमायुःसंस्कारान् स्थापयति । [०४३।११-०४३।१३] अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत्प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते । [०४३।१४-०४३।१५] स तस्मात्व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति । [०४३।१५] तस्य यत्भोगविपाकं तदायुर्विपाकं भवति । [०४३।१५-०४३।१६ येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति । [०४३।१६-०४३।१७] त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषम् । [०४३।१७] स भावनाबलेनाकृष्य प्रतिसंवेदयत" इति । [०४३।१७-०४३।१८] कथमायुःसंस्कारा नुत्सृजति । [०४३।१८] तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यत् [०४३।१९] यन्मे आयुर्विपाकं तत्भोगविपाकं भवत्विति तस्य तथा भवति । [०४३।२०] भदन्तघोषकस्त्वाह । [०४३।२०-०४३।२१] तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषोऽनुकूलानि वैहोधिकानि च । [०४३।२१-०४३।२२] एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति । [०४३।२२] एवं तु भवितव्यम् । [०४३।२२-०४३।२४] समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति । [०४३।२४] तस्मान्न तज्जीवितेन्द्रियं विपाकं ततोऽन्यत्तु विपाकः । [०४३।२५] प्रश्नात्प्रश्नान्तरमुपजायते । किमर्थमायुःसंस्कारानधितिष्ठन्ति । [०४३।२५-०४३।२६] परहितार्थं शासन्स्थित्यर्थं वा । [०४३।२६] ते ह्यात्मनः क्षीणमायुः पश्यन्ति । [०४३।२७] न च तत्रान्यं शक्तं पश्यन्ति । अथ किमर्थमुत्सृजन्ति । [०४४।०१] अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् । यथोक्तं [०४४।०२-०४४।०३] "सुचीर्णे ब्रह्मचर्येऽस्मिन्मार्गे चैव सुभाविते । तुष्ट आयुःक्षयात्भवति रोगस्यापगमे यथा ॥" [०४४।०४] इति । अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् । [०४४।०५] मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः । [०४४।०६] तस्य हि समाधौ वशित्वम् । क्लेशैश्चानुपस्तब्धा सन्ततिः । [०४४।०६-०४४।०७] सूत्र उक्तम् "भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्" । [०४४।०७-०४४।०८] तेषां को विशेषः । [०४४।०८] न कश्चिदित्येके । तथा ह्युक्तम् "जीवितेन्द्रियं कतमत् । [०४४।०८-०४४।०९] त्रैधातुकमायुरि"ति । [०४४।०९] पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे । [०४४।१०] यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः । [०४४।१०-०४४।११] यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति । [०४४।११-०४४।१२] बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् । [०४४।१२] नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति । [०४४।१२-०४४।१३] न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके । [०४४।१३-०४४।१४] बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् । [०४४।१४] अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे । [०४४।१४-०४४।१५] किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च । [०४४।१५-०४४।१६] मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः । [०४४।१६] त्रैमास्यमेव नोध्र्वं विनेयकार्याभावात् । [०४४।१७-०४४।१८] यच्चापि तत्प्रतिज्ञातम् "एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी"ति । [०४४।१८] तस्यापि संपादनार्थम् । [०४४।१८-०४४।१९] स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः । [०४४।१९] बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति । [०४४।१९-०४४।२०] निष्ठितमानुषङ्गिकम् ॥ [०४४।२१] प्रकृतमेवारभ्यते । [०४४।२२] द्वेधा द्वादश [०४४।२३] कतमानि द्वादश । [०४४।२४] अन्त्याष्टकादृते । [०४४।२५] दौर्मनस्याच्च [०४४।२६] अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा । [०४४।२७-०४५।०१] जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च । [०४५।०१] तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः । शेषाणि विपाकः । [०४५।०२] मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः । [०४५।०२-०४५।०३] ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् । [०४५।०३] शेषाणि विपाकः । [०४५।०३-०४५।०४] जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् । [०४५।०४-०४५।०५] यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते "त्रीणि कार्याणि । [०४५।०५-०४५।०६] सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे"ति संप्रयोगवेदनीयतामधिकृत्योक्तम् । [०४५।०६-०४५।०७] दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् । [०४५।०७] यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः । [०४५।०७-०४५।०८] सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः । [०४५।०८] यथेच्छसि तथाऽस्तु । [०४५।०८-०४५।०९] संप्रयोगेऽपि न दोषः विपाकेऽपि न दोषः । [०४५।०९] अगत्या ह्येतदेवं गम्येत । [०४५।०९-०४५।१०] का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति । [०४५।१०] दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च । [०४५।१०-०४५।११] नचैवं विपाकः । [०४५।११] सौमनस्यमप्येवं न स्याद्विपाकः । [०४५।११-०४५।१२] यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् । [०४५।१३] सौमनस्यमप्येवम् । [०४५।१३-०४५।१४] यदि सौमनस्यं विपाकः स्यात्पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् । [०४५।१४] वीतरागाणां तर्हि दौर्मनस्यासंभवात् । [०४५।१४-०४५।१५] न चैवं विपाकः । [०४५।१५] सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् । यादृशं तादृशमस्तु । [०४५।१६] सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य । [०४५।१६-०४५।१७] सर्वथाऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः । [०४५।१७-०४५।१८] तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य । [०४५।१८] मनैन्द्रियमुभयोरुभयस्य । [०४५।१८-०४५।१९] सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य । [०४५।१९] दुःखेन्द्रियमकुशलस्य । [०४५।१९-०४५।२०] सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः । [०४५।२०] नत्विन्द्रियस्य कुशलाक्षेपात् । गतमेतद् । [०४५।२१] इदं नु वक्तव्यम् । कतीन्द्रियाणि सविपाकानि कत्यविपाकानि । [०४५।२१-०४५।२२] यदेतत्दौर्मनस्यमनन्तरोक्तं [०४५।२३] तत्त्वेकं सविपाकम् । [०४५।२४] तदेकं सविपाकमेव । तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः । [०४५।२४-०४५।२५] नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् । [०४५।२५] अतो नास्त्यविपाकं दौर्मनस्यम् । [०४५।२६] दश द्विधा ॥ २.१० ॥ [०४५।२७] सविपाकान्यविपाकानि च । कतमानि दश । [०४६।०१] मनोऽन्यवित्तिश्रद्धादीनि [०४६।०२] अन्यवित्तिग्रहणात्दौर्मनस्यादन्यत्वेदितं गृह्यते । [०४६।०२-०४६।०३] श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः । [०४६।०३-०४६।०४] तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः । [०४६।०४] अनास्रवा अव्याकृताश्चाविपाकाः । [०४६।०४-०४६।०५] दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् । [०४६।०५] श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि । [०४६।०६] अन्यदविपाकमिति सिद्धम् । [०४६।०७] कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि । एकान्तेन तावत् । [०४६।०८] अष्टकं कुशलं [०४६।०९] पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि । [०४६।१०] द्विधा । [०४६।११] दौर्मनस्यम् । [०४६।१२] कुशलं चाकुशलं च । [०४६।१३] मनोऽन्या च वित्तिस्त्रेधा [०४६।१४] कुशलाकुशलाव्याकृतानि । [०४६।१५] अन्यदेकधा ॥ २.११ ॥ [०४६।१६] किञ्चिदन्यत् । जीविताष्टमं चक्षुरादि । एतदव्याकृतमेव ॥ [०४६।१७] कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् । [०४६।१८] कामाप्तममलं हित्वा । [०४६।१९] कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् । [०४६।१९-०४६।२०] एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा । [०४६।२०] तद्ध्यप्रतिसंयुक्तमेव । [०४६।२१] रूपाप्तं स्त्रीपुमिन्द्रिये । [०४६।२२] दुःखे च हित्वा [०४६।२३] अमलं चेति वर्त्तते । दुःखे इति दुःखदौर्मनस्ये । [०४६।२३-०४६।२४] तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः । [०४६।२४] कथमिदानीं पुरुषास्त उच्यन्ते । [०४६।२५] क्वोच्यन्ते । सूत्रे । [०४६।२५-०४६।२६] "अस्थानमनवकाशो यत्स्त्री ब्रह्मत्वं कारयिष्यति । [०४६।२६] नेदं स्थानं विद्यते । स्थानमेतत्विद्यते यत्पुरुष" इति । [०४६।२६-०४६।२७] अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति । [०४६।२७-०४६।२८] दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ । [०४६।२८] दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च । [०४७।०१-०४७।०१] आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥ [०४७।०२] स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते । किमवशाइष्यते । [०४७।०२-०४७।०३] मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च । [०४७।०३] एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि । [०४७।०४] कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि । [०४७।०५] मनोवित्तित्रयं त्रेधा [०४७।०६] कतमद्वित्तित्रयम् । सुखसौमनस्योपेक्षाः । [०४७।०७] द्विहेया दुर्मनस्कता । [०४७।०८] दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् । [०४७।०९] नव भावनया । [०४७।१०] हेयानीत्यधिकारः । जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव । [०४७।११] पञ्च त्वहेयान्यपि [०४७।१२] श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि । सास्रवानास्रवत्वात् । [०४७।१३] न त्रयम् ॥ २.१३ ॥ [०४७।१४] त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् । नहि निर्दोषं प्रहाणार्हम् । [०४७।१५] उक्तः प्रकारभेदः । [०४७।१६] लाभ इदानीं वक्तव्यः । [०४७।१६-०४७।१७] कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते । [०४७।१८] कामेष्वादौ विपाको द्वे लभ्यते [०४७।१९] कायेन्द्रियं जीवितेन्द्रियं च । ते पुनः [०४७।२०] नोपपादुकैः । [०४७।२१] उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् । कस्मान्न मनौपेक्षेन्द्रिये । [०४७।२२] प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् । अथोपपादुकैः कति लभ्यन्ते । [०४७।२३] तैः षड वा [०४७।२४] यद्यव्यञ्जना भवन्ति । यथा प्राथमकल्पिकाः । कतमानि षट् । [०४७।२४-०४७।२५] चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि । [०४८।०१] सप्त वा [०४८।०२] यद्येकव्यञ्जना भवन्ति । [०४८।०२-०४८।९२] यथा देवादिषु । [०४८।०३] अष्टौ वा [०४८।०४] यद्युभयव्यञ्जना भवन्ति । किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति । [०४८।०४-०४८।०५] भवन्त्यपायेषु [०४८।०५] एवं तावत्कामधातौ । अथ रूपधातावारूप्यधातौ च कथमित्याह । [०४८।०६] षड्रूपेषु [०४८।०७] कामप्रधानत्वात्कामधातुः कामा इति निर्दिश्यते । [०४८।०७-०४८।०८] रूपप्रधानत्वाद्रूपधातू रूपाणीति । [०४८।०८-०४८।०९] सूत्रेऽप्युक्तं "येऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या" इति । [०४८।०९] तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते । [०४८।०९-०४८।१०] यान्येव कामधातावव्यञ्जनैअरुपपादुकैः [०४८।११] एकमुत्तरे ॥ २.१४ ॥ [०४८।१२] रूपधातोरारूप्यधातुरुत्तरः । समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् । [०४८।१३] तस्मिनेकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् । [०४८।१४] उक्तो लाभः । [०४८।१५] त्याग इदानीं वक्तव्यः । कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति [०४८।१६] निरोधयत्युपरमान्नारूप्ये जीवितं मनः । [०४८।१७] उपेक्षां चैव रूपेऽष्टौ [०४८।१८] रूपधातौ म्रियल्माणोऽष्टौ निरोधयति । तानि च त्रीणि चक्षुरादीनि पञ्च । [०४८।१८-०४८।१९] सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च । [०४८।२०] कामे दश नवाष्टौ वा ॥ २.१५ ॥ [०४८।२१] कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति । [०४८।२१-०४८।२२] तानि चाष्टौ स्त्री पुरुषेन्द्रिये च । [०४८।२२] एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ । सकृन्मरण एष न्यायः । [०४८।२३] क्रममृत्यौ तु चत्वारि । [०४८।२४] क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति । कायजीवितमनौपेक्षेन्द्रियाणि । [०४८।२५] नह्येषां पृथग्निरोधः । एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः । [०४८।२६] यदा तु कुशले चेतसि स्थितो म्रियते तदा [०४९।०१] षुभे सर्वत्र पञ्च च । [०४९।०२] कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति । [०४९।०२-०४९।०३] श्रद्धादीनि च पञ्चाधिकानि । [०४९।०३] एषां कुशले चेतस्यवश्यंभावः । [०४९।०३-०४९।०४] एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् । [०४९।०५] इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते । [०४९।०५-०४९।०६] अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते । [०४९।०७] नवाप्तिरन्त्य फलयोः [०४९।०८] नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः । के पुनरन्त्ये । स्रोत आपत्तिफलमर्हत्त्वं च । [०४९।०९] के मध्ये । सकृदागामिफलमनागामिफलं च । [०४९।०९-०४९।१०] तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः । [०४९।१०-०४९।११] आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे । [०४९।११-०४९।१२] उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् । [०४९।१२-०४९।१३] अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः । [०४९।१४] सप्ताष्ट्नवभिर्द्वयोः ॥ २.१६ ॥ [०४९।१५] सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः । [०४९।१५-०४९।१६] कथं कृत्वा । [०४९।१६-०४९।१७] सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः । [०४९।१७] पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति । [०४९।१७-०४९।१८] अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः । [०४९।१८] आज्ञेन्द्रियमष्टमं भवति । [०४९।१८-०४९।१९] अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य । [०४९।१९-०४९।२०] अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः । [०४९।२१] यथा सकृदागामिफलस्य । [०४९।२१-०४९।२२] अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव । [०४९।२२] अथ वीतरागः प्राप्नोति तस्य नवभिः । [०४९।२२-०४९।२३] यथा स्रोत आपत्तिफलस्य । ०४९२३-०४९२३] अयं तु विशेषः । [०४९।२३-०४९।२४] सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति । [०४९।२४] निश्रयविशेषात् । [०४९।२४-०४९।२६] यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । [०४९।२६] तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमम् । [०४९।२६-०४९।२७] भवत्यानन्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः । [०४९।२७-०४९।२८] अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः । [०४९।२८] आज्ञेन्रियं नवमं भवति । [०४९।२८-०५०।०१] यत्तर्ह्यभिधर्म उक्तं "कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति" । [०५०।०१-०५०।०२] तत्कथं नवभिरित्युच्यते । [०५०।०२] नवभिरेव तत्प्राप्नोति । [०५०।०३] एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् । [०५०।०४-०५०।०५] अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् । [०५०।०५-०५०।०६] नतु खलु संभवोऽस्ति सुखादीनामेकस्मिन् काले । [०५०।०६] कथमनागाभिनोऽप्येष प्रसङ्गो न भवति । [०५०।०६-०५०।०७] नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते । [०५०।०७-०५०।०८] तद्वैराग्यस्य द्विमार्गप्रापणात् । [०५०।०९] इदं विचार्यत् कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति । [०५०।१०] तत्र [०५०।११] उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥ [०५०।१२-०५०।१३] य एषामुपेक्षादीनामन्यतमेन समन्वागतः सोऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव । [०५०।१३] नह्येषामन्योऽय्नेन विना समन्वागमः । शेषैस्त्वनियमः । [०५०।१३-०५०।१४] स्यात्समन्वागतः स्यादसमन्वागतः । [०५०।१४-०५०।१५] तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः । [०५०।१५] कामधातौ च येनाप्रतिलब्धविहीनानि । [०५०।१५-०५०।१६] कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः । [०५०।१६] स्त्रीन्द्रियेण रूपारूप्योपपन्नः । कामधतौ येनाप्रतिलब्धविहीनम् । [०५०।१६-०५०।१७] एवं पुरुषेन्द्रियेण । [०५०।१७] सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः । [०५०।१८] सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव । [०५०।१८-०५०।१९] दुःखेन्द्रियेण रूपारूप्योपपन्नः । [०५०।१९] दौर्मनस्येन कामवीतरागः । [०५०।१९-०५०।२०] श्रद्धादिभिः समुच्छिन्नकुशलमूलः । [०५०।२०] आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः । [०५०।२०-०५०।२१] आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः । [०५०।२१] आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः । [०५०।२२] अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः । [०५०।२३] चतुर्भिः सुख कायाभ्यां [०५०।२४-०५०।२५] यः सुखेन्द्रियेण समन्वागतः सोऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च । [०५०।२५] यः कायेन्द्रियेण सोऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च । [०५१।०१] पञ्चभिश्चक्षुरादिमान् । [०५१।०२] यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च् [०५१।०२-०५१।०३] एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् । [०५१।०४] सौमनस्यी च [०५१।०५] यश्चापि सौमनस्येन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः । [०५१।०६] द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति । [०५१।०७] क्लिष्टेन तृतीयध्यानभूमिकेन । [०५१।०८] दुःखी तु सप्तभिः । [०५१।०९] यो दुःखेन्द्रियेण सोऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः । [०५१।१०] स्त्रीन्द्रियादिमान् ॥ २.१८ ॥ [०५१।११] अष्टाभिः [०५१।१२] यः स्त्रीन्द्रियेण समन्वागतः सोऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच । [०५१।१३] आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः । [०५१।१३-०५१।१४] तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति । [०५१।१४] तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण । एवं दौर्मनस्येन्द्रियेण । [०५१।१४-०५१।१५] श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च । [०५१।१६] एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः । [०५१।१७] आज्ञात इन्द्रियमाज्ञातेन्द्रियम् । [०५१।१७-०५१।१८] य आज्ञातेन्द्रियेण समन्वागतः सोऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च । [०५१।१९] एवमाज्ञा तावीन्द्रियेणापि । तैरेव दशभिराज्ञातावीन्द्रियेण च । [०५१।२०] आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥ [०५१।२१] कतमैस्त्रयोदशभिः । [०५१।२१-०५१।२२] मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च ॥ [०५१।२३] अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः । [०५१।२४] सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः । [०५१।२५] युक्तः [०५१।२६] समुच्छिन्नकुशमूलो निःशुभः । स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । [०५१।२६-०५२।०१] पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च । [०५२।०१] वेदना हि वित्वेदयत इति कृत्वा । वेदनं वा वित् । [०५२।०२] यथा संपदनं संपत् । यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः [०५२।०३] बालस्तथारूप्ये [०५२।०४] बाल इति पृथग्जनस्याख्या । कतमैरष्टाभिः । [०५२।०५] उपेक्षायुर्मनःशुभैः ॥ २.२० ॥ [०५२।०६] उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च ॥ [०५२।०६-०५२।०७] एकान्तकुशलत्वात्श्रद्धादीनि शुभग्रहणेन गृह्यन्ते । [०५२।०७] आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः । न । [०५२।०७-०५२।०८] अष्टाधिकाराद्द्वालाधिकाराच्च ॥ [०५२।०९] अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः । [०५२।१०] बहुभिर्युक्त एकान्नविंाशत्याऽमलवर्जितैः । [०५२।११] अना स्रवणि त्रीणि वर्जयित्वा । स पुनः । [०५२।१२] द्विलिङ्गः [०५२।१३] द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः । कश्चापरः । [०५२।१४] आर्यो रागी [०५२।१५] अवीतरागोऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः । [०५२।१६] एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥ [०५२।१७] एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा । आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् । [०५२।१७-०५२।१८] उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः । [०५२।१९] इदमिदानीं विचार्यते । [०५२।१९-०५२।२०] किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति । [०५२।२०] सन्तीत्याह । [०५२।२०-०५२।२१ सर्व इमे धर्माः पञ्च भवन्ति । [०५२।२१] रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च । [०५२।२२] तत्रासंस्कृतं नैवोत्पद्यते । रूपिणां तु धर्माणामयं नियमः । [०५२।२३] कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः । [०५२।२४] सर्वसूक्ष्मो हि रूपसंघातः परमाणुरित्युच्याते । यतो नान्यतरो विज्ञायेत । [०५२।२४-०५२।२५] स काम घातावशब्दकोऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः। [०५२।२५-०५३।०१] अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि । [०५३।०१-०५३।०२] सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा । [०५३।०२] तत्र तावत् [०५३।०३] कायेन्द्रियी नवद्रव्यः [०५३।०४] कायेन्द्रियमत्रास्तीति सोऽयं कायेन्द्रियी । तत्र नवद्रव्याणि । तानि चाष्टौ कायेन्द्रियं च । [०५३।०५] दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥ [०५३।०६] अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि । [०५३।०६-०५३।०७] तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् । [०५३।०७-०५३।०८] सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते । [०५३।०८-०५३।०९] अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपि य उपात्तमहाभूतहेतुकः । [०५३।०९-०५३।१०] कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा । [०५३।१०-०५३।११] यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः । [०५३।११] सूचीतूनी कलापस्पर्शवत्सक्तुलवणचूर्णरसवच्च । [०५३।११-०५३।१२] कथं पुनस्तेषु शेषास्तित्वं गम्यते । [०५३।१२] कर्मतः संग्रहघृतिपक्तिव्यूहनात् । [०५३।१२-०५३।१३] प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावातप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे । [०५३।१३-०५३।१४] अव्यति भेदेऽपि तु स्याच्छैत्यातिशयः । [०५३।१४] शब्दवेदनातिशयवत् । [०५३।१४-०५३।१५] बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपरे । [०५३।१५] "सन्त्यस्मिन् दारुस्कन्धे विविधा धातव"इति वचनात् । [०५३।१५-०५३।१६] कथं वायौ वर्णसद्भावः । [०५३।१६] श्रद्धानीय एषोऽर्थो नानुमानीयः । [०५३।१६-०५३।१७] संस्पन्दतो गन्धग्रहणात्तस्य वर्णाव्यभिचारात् । [०५३।१७-०५३।१८] रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात्न पुनरुच्यन्ते । [०५३।१९] किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् । किं चातः । [०५३।१९-०५३।२०] यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति । [०५३।२०-०५३।२१] अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् । [०५३।२१] तस्यापि परमाणुसंचितत्वात् । [०५३।२१-०५३।२२] गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च । [०५३।२२-०५३।२३] शीतेनापि क्वचित्जिघत्सया पिपासया च । [०५३।२३] अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति । [०५३।२३-०५३।२४] चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् । [०५३।२४-०५३।२५] किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् । [०५३।२५-०५३।२६] एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् । [०५४।०१] अत्र पुनर्जातिद्रव्यं गृह्यते । भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् । [०५४।०१-०५४।०२] कः पुनर्यत्स एवं विकल्पेन वक्तुम् । [०५४।०२] च्छन्दतोऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः । [०५४।०३] उक्तो रूपिणां सहोत्पादनियमः । शेषाणां वक्तव्यस्तत्र तावत् । [०५४।०४] चित्तं चैत्ताः सहवश्यम् । [०५४।०५] नह्येते विनाऽन्योन्यं भवितुमुत्सहन्ते । [०५४।०६] सर्वं संस्कृतलक्षणैः । [०५४।०७] सहावश्यमिति वर्त्तते । [०५४।०७-०५४।०८] यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते । [०५४।०९] प्राप्त्या वा । [०५४।१०-०५४।४१०] प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः । [०५४।११] चैत्ता इत्युच्यन्ते । क इमे चैत्ताः । [०५४।१२] पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥ [०५४।१३-०५४।१४] पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च । [०५४।१४] भूमिर्नाम गतिविशयः । [०५४।१४-०५४।१५] यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते । [०५४।१५-०५४।१६ तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति । [०५४।१६] के पुनः सर्वत्र चेतसि । [०५४।१७-०५४।१८] वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः । मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥ [०५४।१९] इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति । तत्र वेदना त्रिविधोऽनुभवः । [०५४।२०] सुखो दुःखोऽदुःखा सुखश्च । चेतना चित्ताभिसंस्कारो मनस्कर्म । [०५४।२०-०५४।२१] संज्ञा संज्ञानं विषयनिमित्तोद्रूह । [०५४।२१] च्छन्दः कर्त्तृकामता । [०५४।२१-०५४।२२] स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः । [०५४।२२] मतिः प्रज्ञा धर्मप्रविचयः । [०५४।२२-०५४।२३] स्मृतिरालम्बनासंप्रमोषः । [०५४।२३] मनस्कारश्चेतस आभोगः । अधिमोक्षोऽधिमुक्तिः । [०५४।२३-०५४।२४] समाधिश्चित्तस्यैकाग्रता । [०५४।२४] सूक्ष्मो हि चित्तचैत्तानां विशेषः । [०५४।२४-०५४।२५] स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत्किं पुनः क्षणेषु । [०५४।२५-०५५।०२] रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः । [०५५।०२-०५५।०३] कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति । [०५५।०३] के पुनस्त इति । [०५५।०४-०५५।०५] श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा । मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥ [०५५।०६] इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति । तत्र श्रद्धा चेतसः प्रसादः । [०५५।०६-०५५।०७] सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे । [०५५।०७] अप्रमादः दुशलानां धर्माणां भावनाः । [०५५।०७-०५५।०८] का पुनस्ते भ्योऽन्या भावना । [०५५।०८] या तेष्ववहितता । [०५५।०८-०५५।०९] चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति । [०५५।०९] प्रश्रब्धिश्चित्तकर्मण्यता । ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता । [०५५।०९-०५५।१०] न खलु नोक्ता । [०५५।१०] सा तु यथा कायिकी वेदना तथा वेदितव्या । [०५५।१०-०५५।११] कथं सा बोध्यङ्गेषु योक्ष्यते । [०५५।११] तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या । [०५५।११-०५५।१२] कथं सा बोध्यङ्गमितयुच्यते । [०५५।१२] बोध्यङ्गानुकूल्यात् । [०५५।१२-०५५।१३] सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति । [०५५।१३] अस्ति पुनः स्वचितन्यत्राप्येवं दृश्यते । अस्तीत्याह । [०५५।१३-०५५।१४] तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता । [०५५।१४-०५५।१५] प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् । [०५५।१५-०५५।१६] सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः । [०५५।१६-०५५।१७] नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते । [०५५।१७-०५५।१८] एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते । [०५५।१८] उपेक्षा चित्तसमता चित्तानाभोगता । कथमिदानीमेतद्योक्ष्यते । [०५५।१८-०५५।१९] "तत्रैव चित्ते आभोगात्मको मनस्कारोऽनाभोगात्मिका चोपेक्षे"ति । [०५५।१९-०५५।२०] ननु चोक्तं "दुर्ज्ञान एषां विशेष" इति । [०५५।२०] अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते । [०५५।२०-०५५।२१] इदं तु खल्वतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति । [०५५।२१] अन्यत्राभोगोऽन्यत्रानाभोग इति कोऽत्र विरोधः । [०५५।२१-०५५।२२] न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति । [०५५।२२-०५५।२३] एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सोऽस्यापि वेदितव्यः । [०५५।२३] ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते । [०५५।२३-०५५।२४] मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ । [०५५।२४] अमोहोऽप्यस्ति स तु प्रज्ञात्मकः । [०५५।२४-०५५।२५] प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते । [०५५।२५] अविहिंसा अविहेठना । वीर्यं चेतसोऽभ्युत्साहः । [०५६।०१] उक्ताः कुशला महाभूमिकाः । [०५६।०२] महती भूमिर्महाभूमिः । [०५६।०२-०५६।०३] क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति । [०५६।०३] के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति । [०५६।०४] मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः । [०५६।०५] क्लिष्टे सदैव [०५६।०६] तत्र मोहो नामाविद्याऽज्ञानमसंप्रख्यानम् । [०५६।०६-०५६।०७] प्रमादः कुशलानां धर्माणामभावनाऽप्रमाद विपक्षो धर्मः । [०५६।०७] कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः । [०५६।०७-०५६।०८] आश्रद्ध्यं चेतसोऽप्रसादः श्रद्धाविपक्षः । [०५६।०८] स्त्यानं कतमत् । [०५६।०८-०५६।०९] या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता । [०५६।०९] कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे । [०५६।१०] कथं चैतसिको धर्मः कायिक इत्युच्यते । यथा कायिकी वेदना । [०५६।१०-०५६।११] औद्धत्यं पुनश्चेतसोऽव्युपशमः । [०५६।११] इतीमे षट्क्लेशमहाभूमिकाः । [०५६।११-०५६।१२] ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते । [०५६।१२-०५६।१३] "आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे" ति । [०५६।१४] प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः । का पुनरत्रेष्टिः । [०५६।१४-०५६।१६] मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात्न क्लेशमहाभूमिका एवावधार्यन्ते । [०५६।१६] यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् । [०५६।१७] स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता । समाधिरेव क्लिष्टो विक्षेप इत्येवमादि । [०५६।१८-०५६।१९] अत एवोच्यते "ये महाभूमिकाः क्लेशमहाभूमिका अपि त" इति । [०५६।१९] चतुष्कोटिकः । प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च । [०५६।१९-०५६।२०] द्वितीयाऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च । [०५६।२०-०५६।२१] तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः । [०५६।२१] चतुर्थ्येतानाकारान् स्थापयित्वेति । [०५६।२१-०५६।२२] केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति । [०५६।२२] तेषामन्यथा चतुष्कोटिकः । [०५६।२२-०५६।२३] स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः । [०५६।२३-०५६।२४] एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् । [०५६।२४-०५६।२५] क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति । [०५६।२५-०५६।२६] कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः । [०५६।२६] नह्येते जातु सहचरिष्णुतां जहीतः । [०५६।२६-०५६।२७] तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः । [०५६।२७] अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति । [०५६।२८] एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र ॥ [०५७।०१] अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥ [०५७।०२-०५७।०३] अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते । [०५७।०३] तयोश्च पश्चाल्लक्षणं वक्ष्यते । [०५७।०४-०५७।०५] क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः । मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः ॥ २.२७ ॥ [०५७।०६-०५७।०७] परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् । [०५७।०७] एषां तु निर्देक्श उपक्लेशेषु करिष्यते । [०५७।०८] उक्ता इमे पञ्चप्रकाराश्चैत्ताः । [०५७।०८-०५७।०९] अन्येऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः । [०५७।०९] तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति । [०५७।१०] कामावचरं तावत्पञ्चविधं चित्तम् । कुशलमकुशलम् । [०५७।१०-०५७।११] तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च । [०५७।११-०५७।१२] अव्याकृतं द्विविधं निवृताव्याकृतमनिवृताव्याकृतं च । [०५७।१२] तत्र तावत्कामावचरचित्तमवश्यं सवितर्कं सविचारम् । अतोऽत्र [०५७।१३] सवितर्कविचारत्वात्कुशले कामचेतसि । [०५७।१४] द्वाविंशतिश्चैतसिकाः [०५७।१५] अवश्यं भवन्ति । दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च । [०५७।१६] कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥ [०५७।१७] नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति । [०५७।१७-०५७।१८] यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति । [०५७।१८] किमिदं कौकृत्यं नाम । कुकृतस्य भावः कौकृत्यम् । [०५७।१९] इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः । [०५७।१९-०५७।२१] तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभोऽशुभ इति । [०५७।२१-०५७।२२] लोकेऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति । [०५७।२२] स्थानभूतं च कौकृत्यं विप्रतिसारस्य । [०५७।२२-०५७।२३] फले वा हेतूपचारोऽयम् । [०५७।२३-०५७।२४] यथोक्तं "षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि"ति । [०५७।२४] यत्तर्हि अकृतालम्बनं तत्कथं कौकृत्यम् । अकृतेऽपि कृताख्या भवति । [०५८।०१] न मया साधु कृतं यन्न कृतमिति । कतमत्कौकृत्यं कुशलम् । [०५८।०१-०५८।०२] यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा । [०५८।०२] विपर्ययादकुशलं कौकृत्यम् । [०५८।०२-०५८।०३] तदेतदुभयमप्युभयाधिष्टानम् । [०५८।०४] आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः । [०५८।०५] यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः । [०५८।०५-०५८।०६] दश महाभूमिकाः षट्क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च । [०५८।०६-०५८।०७] आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशोऽस्ति रागादिः । [०५८।०७-०५८।०८] दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेणिके । [०५८।०८] ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति । न भवन्ति । [०५८।०८-०५८।०९] यस्मान्महाभूमिक एव कश्चित्प्रज्ञाविशेषो दृष्टिरित्युच्यते । [०५८।०९-०५८।१०] तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा । [०५८।११] क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥ [०५८।१२-०५८।१३] यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति । [०५८।१३-०५८।१४] स च क्लेशः आवेणिकोक्ताश्च विंशतिः । [०५८।१४-०५८।१५] क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति । [०५८।१५] कौकृत्येनाप्येकविंशतिः । [०५८।१५-०५८।१६] तदेव कौकृत्यमेकविंशतितमं भवति । [०५८।१६] समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः । [०५८।१६-०५८।१७] अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः । [०५८।१८] निवृतेऽष्टदश [०५८।१९-०५८।१८] सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । [०५८।१९-०५८।२०] तत्राष्टादश चैत्ताः । [०५८।२०] दश महाभूमिकाः षट्क्लेशमहाभूमिकाः वितर्कविचारौ च । [०५८।२०-०५८।२१] दृष्टिः पूर्ववदेव नाधिका भवति । [०५८।२२] अय्नत्र द्वादशाव्याकृते मताः । [०५८।२३] निवृतादन्यदव्याकृतमनिवृताव्याकृतम् । तत्र द्वादश चैत्ता इष्टाः । [०५८।२३-०५८।२४] दश महाभूमिका वितर्कविचारौ च । [०५८।२४] बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति । [०५८।२४-०५८।२५] तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति । [०५८।२६] मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥ [०५८।२७] सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् । [०५८।२७-०५९।०१] अतो तत्र तत्स्यात्तत्राधिकं तद्वेदितव्यम् । [०५९।०१-०५९।०२] यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि । [०५९।०२] य एव कामधातौ चैत्तानां नियम उक्तः [०५९।०३] कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः । [०५९।०४] अतो यथोक्तात्कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत्किञ्चिदकुशलम् । [०५९।०५] प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च । अन्यत्सर्व तथैव । [०५९।०६] य एव प्रथमे ध्याने न सन्ति त एव [०५९।०७] ध्यानान्तरे वितर्कश्च [०५९।०८] नास्ति । शेषं तथैव । [०५९।०९] विचारश्चाप्यतः परम् ॥ २.३१ ॥ [०५९।१०-०५९।११] ध्यानान्तरात्परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च । [०५९।११] माया शाठ्यं चेत्यपिशब्दात् । शेषं तथैव । [०५९।११-०५९।१२] ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् । [०५९।१२-०५९।१३] स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते" इति । [०५९।१३-०५९।१४] अप्रजानन् क्षेपमकार्षीत् । [०५९।१४-०५९।१५] "अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि"ति । [०५९।१५] उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥ [०५९।१६] इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते । [०५९।१६-०५९।१७] आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् । [०५९।१८] अह्रीरगुरुता [०५९।१९-०५९।२०] गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः ॥ [०५९।२१] अवद्ये भयादर्शित्वमत्रपा । [०५९।२२] अवद्यं नाम यद्विगर्हितं सद्भिः । तत्राभयदर्शिताऽनपत्राप्यम् । [०५९।२२-०५९।२३] भयमत्रानिष्टं फलं भीयतेऽस्मादिति । [०५९।२३-०५९।२४] कथमिदं विज्ञातव्यमभयस्य दर्शनमभयदर्शिता आहोस्वित्भयस्यादर्शनम् । [०५९।२४] किं चातः । [०५९।२४-०५९।२५] अभयस्य दर्शनं चेत्प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते । [०५९।२५] नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता । किं तर्हि । [०५९।२५-०५९।२६] यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति । [०५९।२६] अन्ये पुनराहुः । [०५९।२६-०६०।०१] आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षयाऽनपत्राप्यमिति । [०६०।०१] एवमपि द्वे अपेक्षे युगपत्कथं सेत्स्यतः । [०६०।०१-०६०।०३] न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् । [०६०।०३-०६०।०४] अस्ति या परमपेक्षमाणस्य प्रवर्त्तते साऽनपत्राप्यम् । [०६०।०४] विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् । [०६०।०४-०६०।०५] प्रतहमेन तावत्कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः । [०६०।०५] अवद्येष्वभयदर्शिअताऽपत्राप्यम् । [०६०।०६] द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने । [०६०।०७] प्रेम्णो गौरवस्य च किं नानाकारणम् । [०६०।०८] प्रेम श्रद्धा । [०६०।०९] द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च । तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु । [०६०।०९-०६०।१०] अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु । [०६०।१०] स्याच्छ्रद्धा नप्रेम । [०६०।१०-०६०।११] दुःधसमुदयालम्बना श्रद्धा । [०६०।११] स्यात्प्रेम न श्रद्धा । क्लिष्टं प्रेम । [०६०।११-०६०।१२] उभयं निरोधमार्गालम्बना श्रद्धा । [०६०।१२] नोभयमेतानाकारान् स्थापयित्वा । [०६०।१२-०६०।१३] पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु । [०६०।१३] गौरवं न प्रेम अन्यगुरुषु । उभयं स्वगुरुषु । [०६०।१३-०६०।१४] नोभयमेतानाकारान् स्थापयित्वा । [०६०।१४] श्रद्धा हि नाम गुणसंभावना । तत्पूर्विका च प्रियता प्रेम । [०६०।१५] तस्मान्न सैव प्रेमेत्यपरे । [०६०।१६] गुरुत्वं ह्रीः । [०६०।१७] गौरवं हि नाम सप्रतीशता । तत्पूर्विका च लज्जा ह्रीः । [०६०।१७-०६०।१८] अतो न गौरवमेव ह्लीरित्यपरे । [०६०।१९] ते पुनः कामरूपयोः ॥ २.३२ ॥ [०६०।२०] आरूप्यधातौ प्रेमगौरवे न स्तः । [०६०।२०-०६०।२१] ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते । [०६०।२१] द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च । एवं सप्रतीशताऽपि । [०६०।२१-०६०।२२] तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः । [०६०।२२] ते चेह प्रेमगौरवे अभिप्रेते । [०६०।२३] वितर्कविचारयोः किं नानाकारणम् । [०६०।२४] वितर्कचारा वौदार्यसूक्ष्मते । [०६०।२५] कस्य । चेतस इति पश्चाद्वक्ष्यति । चित्तौदारिकता वितर्कः । चित्तसूक्ष्मता विचारः । [०६०।२५-०६०।२६] कथं पुनः अनयोरेकत्र चित्ते योगः । [०६०।२६] केचिदाहुः । [०६०।२६-०६१।०१] यथाऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः । [०६१।०१-०६१।०३] एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ । [०६१।०३-०६१।०४] आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् । [०६१।०४-०६१।०५] नचौदारिकसूक्ष्मातया जातिभेदो युकतः ॥ [०६१।०५] अन्ये पुनराहुः । [०६१।०५-०६१।०६] वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः । [०६१।०६] "वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये"ति । [०६१।०६-०६१।०७] तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः । [०६१।०७-०६१।०८] यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति । [०६१।०८-०६१।०९] न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् । [०६१।०९] एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति । [०६१।१०] जातिभेदो ।प्यस्ति । स तर्हि वक्तव्यः । दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते । [०६१।११] नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रतवात् । [०६१।११-०६१।१२] नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे । [०६१।१२] कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् । [०६१।१३] भूमितस्तत्पञ्चाङ्गयुकतं न क्षणतः ॥ [०६१।१४] मानमदयोः किं नानाकारणम् । [०६१।१५-०६१।१६] मान उन्नतिः । मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥ [०६१।१७] येन केनचित्परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः । [०६१।१७-०६१।१८] मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् । [०६१।१८] यथा मद्यज एवं रागजः । [०६१।१८-०६१।१९] संप्रहऋशणविशेषो मद इत्यपरे । [०६१।२०] उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते । [०६१।२१] प्रवचन एताभिः सद्व्यवहारात् । [०६१।२२] चित्तं मनोऽथ विज्ञानमेकार्थं [०६१।२३] चिनोतीति चित्तम् । मनुत इति मनः । विजानातीति विज्ञानम् । [०६१।२३-०६२।०१] चित्तं शुभाशुभैर्धातुभिरिति चित्तम् । [०६२।०१] तदेवाश्रयभुतं मनः । आश्रितभूतं विज्ञानमित्यपरे । [०६२।०१-०६२।०२] यथा चित्तं मनो विज्ञानमित्येकोऽर्थः । [०६२।०२] एवम् । [०६२।०३] चित्तचैतसाः । [०६२।०४] साश्रया लम्बनाकाराः संपरयुक्ताश्च । [०६२।०५] एकोऽर्थः । त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् । [०६२।०५-०६२।०६] सालम्बना विषयग्रहणात् । [०६२।०६] साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् । [०६२।०६-०६२।०७] सम्प्रयुक्ताः समं प्रयुक्तत्वात् । [०६२।०७] केन प्रकारेण समं परयुक्ता इत्याह [०६२।०८] पञ्चधा ॥ २.३४ ॥ [०६२।०९] पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः । केयं समता । [०६२।०९-०६२।१०] यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति । [०६२।१०] निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः । [०६२।११-०६२।१२] विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता । आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥ [०६२।१३] नामकायादयश्चेति [०६२।१४] इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते । [०६२।१५] तत्र तावत् [०६२।१६] प्रप्तिर्लाभः समन्वयः । [०६२।१७] द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः । [०६२।१८] विपर्ययादप्राप्तिरिति सिद्धम् । कस्य पुनरिमे प्राप्त्यप्राप्ती । [०६२।१९] प्राप्त्यप्राप्ती स्वसंतान पतितानां [०६२।२०] न परसंतानपतितानाम् । नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् । [०६२।२१] न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः । एष तावत्संस्कृतेषु नियमः । [०६२।२१-०६२।२२] असंस्कृतेषु पुनः प्राप्त्यप्राप्ती [०६२।२३] निरोधयोः ॥ २.३६ ॥ [०६२।२४] सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः । [०६२।२४-०६२।२५] अत एव हि चोत्तमभिधर्मे "अनास्रवैर्धर्मः कः समन्वागतः । [०६२।२५] आह । [०६२।२५-०६२।२६] सर्वसत्त्वा" इति । [०६२।२६-०६३।०१] प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः । [०६३।०१-०६३।०२] आकाशेन तु नास्ति कश्चित्समन्वागतः । [०६३।०२] तस्मादस्य नासति प्राप्तिः । [०६३।०२-०६३।०३] यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः । [०६३।०३] प्राप्तिर्नामास्ति किञ्चित्भावान्तर्मिति । कुत एतत् । [०६३।०४] आह सूत्रात् । [०६३।०४-०६३।०५] सूत्रे ह्युस्तं "स एषां दशानामशैक्षाणां धर्मणामुत्पादात्प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण" इति विस्तरः । [०६३।०६] तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च । किं कारणम् । [०६३।०७] सूत्र वचनात् । "राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत" इति विस्तरः । [०६३।०८] वशित्वमत्र समन्वागमशब्देनोक्तम् । तस्य तेषु रत्नेषु वशित्वं कामचार इति । [०६३।०९] अत्र वशित्वं समन्वागमोऽन्यत्र पुनर्द्रव्यान्तरमिति । कुत एतत्कः पुनरेवमयोगः । [०६३।१०-०६३।११] अयमयोगः यदस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद्रागद्वेषादिवद्वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् । [०६३।११] तस्मात्द्रव्यधर्मासंभवादयोगः । [०६३।११-०६३।१२] उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् । [०६३।१२] असंस्कृतस्य न स्यात् । [०६३।१२-०६३।१३] ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् । [०६३।१३] सहजप्राप्तिहेतुका चेत् । [०६३।१३-०६३।१४] जातिरिदानीं किङ्करी जातिजातिर्वा । [०६३।१४-०६३।१५] सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात्प्राप्त्यभेदात् । [०६३।१५] यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः । [०६३।१५-०६३।१६] तस्मान्नोत्पत्तिहेतुः प्राप्तिः । [०६३।१६] कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति । किं तर्हि । [०६३।१६-०६३।१७] व्यवस्था हेतुः । [०६३।१७-०६३।१८] असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद्व्यवस्थानम् । [०६३।१८-०६३।१९] प्रहीणाप्रहीण क्लेशताविशेषादेतत्भवितुमर्हति । [०६३।१९-०६३।२०] एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति । [०६३।२०] प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् । आश्रयविशेषादेतत्सिध्यति । [०६३।२१-०६३।२२] आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति । [०६३।२२-०६३।२३] अतोऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते । [०६३।२३] उपहतवीजभावे वा लौकिकेन मार्गेण । [०६३।२४] विपर्ययादप्रहीणक्लेशः । [०६३।२४-०६३।२५] यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते । [०६३।२५-०६३।२६] कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति । [०६३।२६-०६३।२७] तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात्समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः । [०६३।२७-०६४।०१] तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः । [०६४।०१-०६४।०२] न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः । [०६४।०२-०६४।०३] येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते । [०६४।०३-०६४।०५] तस्माद्वीजमेवात्रानपोद्धृतमनुपहतं परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद्द्रव्यम् । [०६४।०५] किं पुनरिदं बीजं नाम । [०६४।०५-०६४।०६] यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात्पारंपर्येण वा । [०६४।०६] सन्ततिपरिणामविशेषात् । कोऽयं परिणामो नाम । [०६४।०६-०६४।०७] सन्ततेरन्यथात्वम् । का चेयं सन्ततिः। [०६४।०७] हेतुफलभूतस्त्रैयध्विकाः संस्काराः । [०६४।०७-०६४।०८] यत्तूक्त "लोभेन समन्वागतोऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि"ति । [०६४।०८-०६४।०९] तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः । [०६४।०९-०६४।१०] यावद्धि तस्याधिवासकोऽविनोदको भवति तावत्भव्यस्तानि भावयितुम् । [०६४।१०-०६४।११] एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः । [०६४।११] तस्य च प्रतिषेधोऽसमन्वागम इति । [०६४।११-०६४।१२] द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति । [०६४।१२] किं कारणम् । एष हि नः सिद्धान्त इति । सा किलैषा प्रप्तिः [०६४।१३] त्रैयध्विकानां त्रिविधा [०६४।१४] अतीतानां धर्माणामतीताऽपि प्राप्तिरस्त्यनागत्याऽपि प्रत्युत्पन्नाऽपि । [०६४।१४-०६४।१५] एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा । [०६४।१६] षुभादीनां षुभादिका । [०६४।१७] कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः । [०६४।१८] स्वधातुका तदाप्तानां [०६४।१९] ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः । [०६४।१९-०६४।२०] कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् । [०६४।२१] अनाप्ता नां चतुर्विधा ॥ २.३७ ॥ [०६४।२२] अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः । समासेन त्रैधातुकी चानास्रवा च । [०६४।२३-०६४।२४] तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च । [०६४।२४] मार्गसत्यस्यानास्रवैव । सेयं समस्य चतुर्विधा भवति । [०६४।२५] शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः । [०६५।०१] स निर्दिश्यते [०६५।०२] त्रिधा नशैक्षाऽशैक्षाणां [०६५।०३] नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च । [०६५।०३-०६५।०४] तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः । [०६५।०४] सास्रवाणां तावत्नैवशैक्षानाशैक्षी प्राप्तिः । [०६५।०४-०६५।०५] अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य । [०६५।०५-०६५।०६] तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी । [०६५।०६-०६५।०७] दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः । [०६५।०७] अहेयानां तु भेदः । स निर्दिश्यते [०६५।०८] अहेयानां द्विधा मता । [०६५।०९-०६५।१०] अप्रहेयाधर्मा अनास्रवाः । तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य । [०६५।१०-०६५।११] तस्यैवार्यमार्गप्राप्तस्यानास्रवाऽहेया मार्गसत्यस्य च । [०६५।१२] यदुक्तं "त्रैयध्विकानां त्रिविधे" ति तस्योत्सर्गस्यायमपवादः [०६५।१३] अव्याकृताप्तिः सहजा [०६५।१४] अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा । दुर्बलत्वात् । [०६५।१४-०६५।१५] तेनतेषामतीतानामतीतैव यावत्प्रत्युत्पन्नानां प्रत्युत्पन्नैव । [०६५।१५-०६५।१६] किं सर्वस्यैवानिवृताव्याकृतस्य । [०६५।१६] न सर्वस्य । [०६५।१७] अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥ [०६५।१८] द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा । [०६५।१८-०६५।१९] तेषां हि बलवत्त्वात्प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात्सहजा प्राप्तिः । [०६५।१९-०६५।२०] शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या त्यर्थमभ्यस्तस्येच्छन्ति । [०६५।२१] किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह [०६५।२२] निवृतस्य च रूपस्य [०६५।२३-०६५।२४] निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः । [०६५।२५-०६५।२६] यथाऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित्प्राप्तिभेदोऽस्ति । [०६५।२६] अस्तीत्याह । [०६५।२७] कामे रूपस्य नाग्रजा । [०६५।२८] कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति । [०६५।२८-०६५।२९] सहजा चास्ति पश्चात्कालजा च । [०६५।३०] किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः । नेत्याह । किं तर्हि । [०६६।०१] अक्लिष्टाव्याकृताऽप्राप्तिः [०६६।०२] अप्राप्तिरनिवृताव्याकृतैव सर्वा । अध्वभेदेन पुनः [०६६।०३] साऽतीताजातयोस्त्रिधा ॥ २.३९ ॥ [०६६।०४] प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना । [०६६।०४-०६६।०५] अतीतानागतयोस्तु त्रैयध्विकी । [०६६।०६] कामाद्याप्तामलानां च [०६६।०७] त्रिविधेति वर्त्तते । कामाप्तानां कामरूपारूप्यावचरी । [०६६।०७-०६६।०८] एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः । [०६६।०८] तथाहि । [०६६।०९] मार्गस्याप्राप्तिरिष्यते । [०६६।१०] पृथग्जनत्वम् [०६६।११] "पृथग्जनत्वं कतमत् । आर्यधर्माणामलाभ" इति शास्त्रपाठः । [०६६।११-०६६।१२] अलाभश्च नामाप्राप्तिः । [०६६।१२] नच पृथग्जनत्वमनास्रवं भवितुमर्हति । [०६६।१२-०६६।१३] कतमेषामार्यधर्माणामलाभः । [०६६।१३] सर्वेषामविशेषवचनात् । स तु यो विना लाभेनालाभः । [०६६।१३-०६६।१४] अन्यथा हि चुद्धोऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् । [०६६।१४-०६६।१५] एवशब्दस्तर्हि पठितव्यः । [०६६।१५] न पठितव्यः । एकपदान्यपि ह्यवधारणानि भवन्ति । [०६६।१५-०६६।१६] तद्यथा अब्भक्षो वायुभक्ष इति । [०६६।१६] दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे । [०६६।१६-०६६।१७] न च तद्योगा दनार्यत्वप्रसङ्गः । [०६६।१७] तदलाभस्यात्यन्तं हतत्वात् । [०६६।१७-०६६।१८] ते तर्हि त्रिगोत्रा इति कतमेषामलाभः । [०६६।१८] सर्वेषाम् । एवं तर्हि स एव दोषः । पुनः स एव परिहारः । [०६६।१८-०६६।१९] यत्नस्तर्हि व्यर्थः । [०६६।१९] एवं तु साधु यथा सौत्रान्तिकानाम् । कथं च सौत्रान्तिकानाम् । [०६६।२०] "अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि"ति । [०६६।२१] अथेयमप्राप्तिः कथं विहीयते । यस्य या धर्मस्य प्राप्तिरसौ [०६६।२२] तत्प्राप्तिभुसंचाराद्विहीयते ॥ २.४० ॥ [०६६।२३-०६६।२४] यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च । [०६६।२४] एवमन्येषामपि योज्यम् । [०६६।२४-०६६।२५] विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते । [०६६।२५-०६६।२६] किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः । [०६६।२६] उभयोरप्युभयं भव्तीत्याहुः । [०६६।२६-०६६।२७] ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् । [०६६।२७] नानवस्थाप्रसङ्गः । परस्परसमन्वागमात् । [०६६।२७-०६७।०१] आत्मना तृतीयो हि धर्म उत्पद्यते । [०६७।०१] स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च । [०६७।०१-०६७।०२] तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च । [०६७।०२-०६७।०३] प्राप्तिप्राप्त्युत्पादात्पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था । [०६७।०३-०६७।०४] एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते । [०६७।०४-०६७।०५] तासां च पुनस्तिस्रोऽनुप्राप्तय इति षड्भवन्ति । [०६७।०५-०६७।०६] तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति । [०६७।०६-०६७।१०] एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति । [०६७।१०] अत्युत्सवो वतायं प्राप्तीनां वर्त्तते । [०६७।११] केवलं तु अप्रतिघातिन्यो यतोऽवकाशमाकाशे लभन्ते । [०६७।११-०६७।१२] इतरथा ह्याकाशेऽप्यव काशो न स्यात्द्वितीयस्य प्राणिनः ॥ [०६७।१३] अथ केयं सभागता । [०६७।१४] सभागता सत्त्वसाम्यं [०६७।१५] सभागता नाम द्रव्यम् । सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा । [०६७।१६] सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्त्वानां सत्त्वसभागता । [०६७।१६-०६७।१७] प्रतिसत्त्वं सर्वेषु भावात् । [०६७।१७-०६७।१८] भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता । [०६७।१८-०६७।२०] पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यातन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्च । [०६७।२०-०६७।२१] एवं स्कन्धादि बुद्धिप्रज्ञप्तय्योऽपि योज्याः । [०६७।२१] स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति । [०६७।२२] चतुष्कोटिकः । प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः । [०६७।२२-०६७।२३] द्वितीया नियाममव्क्रामन् । [०६७।२३] स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते । [०६७।२४] तृतीया गतिसंचारात् । चतुर्थ्येतानाकारान् स्थापयित्वा । [०६७।२५] यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन । [०६७।२६] नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते । [०६७।२६-०६८।०२] नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात्नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः । [०६८।०२] अपिचासत्त्वसभागताऽपि किं नेष्यते । [०६८।०३-०६८।०४] शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात्तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते । [०६८।०४-०६८।०५] वैशेषिकाश्चैवं द्योतिता भवन्ति । [०६८।०५] तेषामपि ह्येष सिद्धान्तः । [०६८।०५-०६८।०६] सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति । [०६८।०६] अयं तु तेषां विशेषः । [०६८।०६-०६८।०७] स एकोऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता । [०६८।०७-०६८।०८] अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः । [०६८।०८-०६८।०९] उस्तं हि भगवता "स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि"ति । [०६८।०९] उक्तमेतन्नतूक्तं द्रव्यान्तरमिति । का तर्हि सा । [०६८।०९-०६८।१०] त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् । [०६८।१०-०६८।११] तत्त्वेतन्न वर्णयन्ति । [०६८।१२] अथ किमिदमासंज्ञिकं नाम । [०६८।१३] आसंज्ञिकमसंज्ञिषु । [०६८।१४] निरोधश्चित्तचैत्तानां [०६८।१५-०६८।१७] असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते । [६८१।७-०६८१७] नदीतोयसंनिरोधवत् । [०६८।१७] तत्पुनरेकान्तेन [०६८।१८] विपाकः [०६८।१९] कस्य विपाकः । असंज्ञिसमापत्तेः । कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः । [०६८।२०] ते बृहत्फलाः ॥ २.४१ ॥ [०६८।२१] बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् । [०६८।२२] किं पुनस्तेनैव कदाचिअत्संशिनो भवन्ति । भवन्त्युपपत्तिकाले च्युतिकाले च । [०६८।२३-०६८।२४] "प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात्च्युतिर्भवती"ति सूत्रे पाथः । [०६८।२४-०६८।२५] ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र । [०६८।२५-०६८।२६] पूर्वसमापत्तिसंस्कारपरिक्षयातपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति । [०६८।२६-०६८।२७] येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति । [०६८।२७] यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् । [०६८।२८] अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती । [०६८।२८-०६८।२९] असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च । [०६८।२९] केयमसंज्ञिसमापत्तिः । [०६८।२९-०६८।३०] यथैवासंज्ञिकमुक्तं "निअरोधश्चित्तचैत्तानामि"ति । [०६९।०१] तथाऽसंज्ञिसमापत्तिः [०६९।०२] असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः । [०६९।०२-०६९।०३] साऽपि चित्तचैत्तानां निरोधः । [०६९।०३] एतावत्तथाशब्देनान्वाकृष्यते । सा तु समापत्तिः । [०६९।०४] ध्यानेऽन्त्ये [०६९।०५] अन्त्यध्यानं चतुर्थं तत्पर्यापन्नाऽसौ नान्यभुमिका । किमर्थमेनां समापद्यन्ते । [०६९।०६] निःसृतीच्छया । [०६९।०७] निःसरणमेषां मन्यन्ते । अतो मोक्षकामतया समापद्यन्ते । [०६९।०७-०६९।०८] आसंज्ञिकं विपाकत्वातव्याकृतमिति सिद्धम् । [०६९।०८] इयं तु [०६९।०९] शुभा [०६९।१०] कुशलैवासंज्ञिसमापत्तिः । तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः । कुशला सती [०६९।११] उपपद्यवेद्यैव [०६९।१२] उपपद्यवेदनीयैव । न दृष्टधर्मपर्यायवेदनीया नापि अनियता । [०६९।१२-०६९।१३] योऽप्येनामुत्पाद्य परिहीयते सोऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति । [०६९।१३-०६९।१४] अत एव तल्लाभी नियामं नावक्रामति । [०६९।१४] सेयं पृथग्जनस्यैवेष्यते । [०६९।१५] नार्यस्य [०६९।१६] नह्यार्यामसंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः। [०६९।१६-०६९।१७] निःसरणसंज्ञिनो हि तां समापद्यन्ते । [०६९।१७-०६९।१८] अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् । [०६९।१८] अन्येऽपि अतावन्न प्रतिलभन्ते । किं कारणम् । [०६९।१८-०६९।१९] एषा ह्युचिताऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च । [०६९।२०] एकाध्विकाप्यते ॥ २.४२ ॥ [०६९।२१] एककालिकेत्यर्थः । वर्त्तमानकालिकैव लभ्यते [०६९।२१-०६९।२२] यथा प्रातिमोक्षसंवरः । [०६९।२२-०६९।२३] लब्धया तु द्वितईयादिषु क्षणेष्वतीतयाऽपि समन्वागतो भवति यावन्न त्यजति । [०६९।२३] अचित्तक त्वान्नानागता भाव्यते । [०६९।२४] निरोधसमापत्तिरिदानिं कतमा । [०७०।०१] निरोधाख्या तथैवेयं [०७०।०२] यथैवासंज्ञिमापत्थिः । तथाशब्देन कः प्रकारो गृह्यते । "निरोधश्चित्तचैत्तानामि"ति । [०७०।०३] अयं त्वस्या विशेषः । इयं [०७०।०४] विहारार्थं [०७०।०५] शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते । [०७०।०५-०७०।०६] तां तु निःसरणसंज्ञा पूर्वकेण । [०७०।०६] सा खल्वपि चतुर्थध्यानभूमिका । इयं तु [०७०।०७] भवाग्रजा । [०७०।०८] नैवसंज्ञानासंज्ञायतनभूमिकैव । सा चेयं [०७०।०९] शुभा [०७०।१०] कुशलैव न क्लिल्ष्टा नाव्याकाऋता । कुशला सती [०७०।११] द्विवेद्याऽनियता च । [०७०।१२] द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च । [०७०।१२-०७०।१३] अनियता च विपाकं प्रति कदाचिन्न विपच्यते । [०७०।१३-०७०।१४] यदीह परिनिअर्वायात्तस्या हि भवाग्रे चतुःस्कन्धको विपाकः । [०७०।१४] सा चेयमेकान्तेन [०७०।१५] आर्यस्य [०७०।१६-०७०।१७] नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः । [०७०।१७] आर्यस्यापि चेयं न वैराग्यलभ्या । [०७०।१८] किं तर्हि । [०७०।१९] आप्या प्रयोगतः ॥ २.४३ ॥ [०७०।२०] प्रयोगलभ्यैवेयम् । न चातीता लभ्यते नाप्यनागत भाव्यते । [०७०।२०-०७०।२१] चित्तबलेन तद्भावनात् । [०७०।२१] किं भगवतोऽपि परायोगिकी । नेत्याह । [०७०।२२] बोधिलभ्या मुनेः [०७०।२३-०७०।२४] क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम । [०७०।२४] इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः । [०७०।२५] तस्मादेषां सर्ववैराग्यलाभिकम् । [०७०।२५-०७०।२६] कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति । [०७०।२७-०७१।०१] सिध्यत्युत्पादितायामिव तस्यां वशित्वात्प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः । [०७१।०१] अथ कस्मादेवं नेष्यते । [०७१।०१-०७१।०२] एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति । [०७१।०२-०७१।०३] "निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत"इति । [०७१।०४] न प्राक् [०७१।०५] नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः । किं कारणम् । [०७१।०६] चतुस्त्रिंशत्क्षणाप्तितः । [०७१।०७] चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः । [०७१।०७-०७१।०९] सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् । [०७१।०९] त एते चतुस्त्रिंशत्भवन्ति । [०७१।०९-०७१।१०] आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति । [०७१।१०-०७१।११] अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति । [०७१।११-०७१।१२] किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् । [०७१।१२-०७१।१३] व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः । [०७१।१३] सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् । [०७१।१३-०७१।१४] कथं तर्हि "न तावत्भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय" इति । [०७१।१४-०७१।१५] अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः । [०७१।१५-०७१।१६] पूर्वमेव तु वर्णयन्ति काश्मीराः । [०७१।१६] यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः । [०७१।१७] कामरूपाश्रये भूते [०७१।१८] उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते । [०७१।१८-०७१।१९] ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते । [०७१।१९-०७१।२०] स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः । [०७१।२०-०७१।२२] स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव" इति । [०७१।२२] अत उभे अप्येते कामरूपाश्रये । [०७१।२२-०७१।२३] तत्रापि त्वयं विशेषः । [०७१।२४] निरोधाख्यादितो नृषु ॥ २.४४ ॥ [०७१।२५] निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः । [०७१।२६] किमतोऽप्यस्ति परिहाणिः । अस्तीत्याह । [०७१।२६-०७२।०१] अन्यथा हि न्दायि सूत्रं विरुध्येत । [०७२।०१-०७२।०२] "इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च । [०७२।०२-०७२।०५] सोऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते । [०७२।०५-०७२।०६] स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाती"ति । [०७२।०६-०७२।०७] अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता । [०७२।०७] इयं च समापत्तिर्भावाग्रिकी । [०७२।०८] तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः । [०७२।०८-०७२।०९] चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति । [०७२।०९] तेषां विनापि परिहाण्या सिध्यत्येतत् । [०७२।१०] एतदेव तु न सिध्यति । चतुर्थध्यानभूमिकाऽप्यसावस्तीति । किं कारणम् । [०७२।११] "नवानुपूर्वसमापत्तय" इति सूत्रे वचनात् । [०७२।११-०७२।१२] यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति । [०७२।१२] प्राथमकल्पिकं प्रत्येष नियमः । [०७२।१२-०७२।१३] प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते । [०७२।१३] एवमनयोः समापत्त्योर्भूमितोऽपि विशेषः । [०७२।१४] चतुर्थध्यानतयाऽग्राभूमिकत्वात् । [०७२।१४-०७२।१५] प्रयोगतोऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् । [०७२।१५] संतानतोऽपि पृथग्जनार्यसंतानत्वात् । [०७२।१५-०७२।१६] फलतोऽप्यासंज्ञिकभवाग्रफलत्वात् । [०७२।१६-०७२।१७] वेदनीयतोऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् । [०७२।१७] प्रथमोत्पादनतोऽपि द्विधातुमनुष्योत्पादनात् । [०७२।१७-०७२।१८] कस्मात्पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते । [०७२।१८-०७२।१९] तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् । [०७२।१९] वेदनादिज्ञानेऽपि परचित्तज्ञानवचनवत् । [०७२।१९-०७२।२०] कथमिदानीं बहुकालं निरुद्धाच्चित्तात्पुनरपि चित्तं जायते । [०७२।२०-०७२।२१] अतीतस्याप्यस्तित्वातिष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् । [०७२।२१] अपरे पुनराहुः । [०७२।२१-०७२।२२] कथं तावद्रूपोपपन्नानां चिरनिरुद्धेऽपि रूपे पुनरपि रूपं जायते । [०७२।२२] चित्तादेव हि तज्जायते न रूपात् । [०७२।२२-०७२।२३] एवं चित्तमप्यस्मादेव सेन्द्रियात्कायाज्जायते न चित्तात् । [०७२।२३-०७२।२४] अन्योन्यबीजकं ह्येतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः । [०७२।२४-०७२।२५] भदन्तवसुमित्रस्त्वाह परिपृच्छायां "यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि"ति । [०७२।२६] ति । भदन्तघोषक आह तदिदं नोपपद्यते । [०७२।२६-०७२।२७] "सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः । [०७२।२७-०७२।२८] स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता । [०७२।२८] अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् । अथापि स्यात् । [०७३।०१] यथा वेदनाप्रत्यया तृष्णे"त्युक्तम् । [०७३।०१-०७३।०२] सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति । [०७३।०२] तस्याविशेषितत्वात् । [०७३।०२-०७३।०३] अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् । [०७३।०४] तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः । [०७३।०४-०७३।०५] कथमचित्तिकायाः समापत्तित्वम् । [०७३।०५] महाभूतसमतापादनात् । [०७३।०५-०७३।०६] समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः । [०७३।०६] किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः । [०७३।०७] द्रव्यत इत्याह । चित्तोत्पत्तिप्रतिबन्धनात् । न । समापत्तिचित्तेनैव तत्प्रतिबन्धनात् । [०७३।०८-०७३।०९] समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति । [०७३।०९] तद्विरुद्धाश्रयापादनात् । [०७३।०९-०७३।११] याऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात्भवति व्युत्थितस्येति संस्कृताऽसौ समापत्तिः प्रज्ञप्यते । [०७३।११] अथवा आश्रयस्यैव तथा समापादनं समापत्तिः । [०७३।११-०७३।१२] एवमासंज्ञिकमपि द्रष्टव्यम् । [०७३।१२-०७३।१३] चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति । [०७३।१३] व्याख्याते समापत्ती ॥ [०७३।१४] जीवितं कतमत् । [०७३।१५] आयुर्जीवितम् [०७३।१६] एवं ह्युक्तमभिधर्मेऽजीवितेन्रियं कतमत् । त्रैधातुकमायुरि"ति । [०७३।१६-०७३।१७] एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति । [०७३।१८] आधार ऊष्मविज्ञानयोर्हि यः । [०७३।१९] इदमुक्तं भगवता [०७३।२०-०७३।२१] "आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन" इति ॥ [०७३।२२] तद्य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः । [०७३।२२-०७३।२३] तस्येदानीमायुषः क आधारभूतः । [०७३।२३-०७३।२४] एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते । [०७३।२४] यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः । [०७३।२५] आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् । [०७३।२५-०७३।२६] ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते । [०७३।२६] मा भूत्सर्वं विज्ञानमामरणाद्विपाक इति । [०७३।२७] ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य । [०७३।२७-०७३।२८] एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् । [०७३।२८] तस्य पुनः कर्माधारो भविष्यति । [०७३।२८-०७४।०१ न वै लभ्यते कामचारो यत्क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति । [०७४।०२] उक्तं चात्र । किमुक्तम् । [०७४।०२-०७४।०३] "मा भूत्सर्वं विज्ञानमामरणाद्विपाक" इति । [०७४।०३] तस्मादस्त्येव तयोराधारभूतमायुः । [०७४।०३-०७४।०४] नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् । [०७४।०४] किं तर्हि । त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः । [०७४।०५-०७४।०६] यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत्सोऽवतिष्ठते तदायुरित्युच्यते । [०७४।०६-०७४।०७] सस्यानां पाककालावेधवत्क्षिप्तेषुस्थितिकालावेधवच्च । [०७४।०७-०७४।०८] यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद्भवतीति । [०७४।०८-०७४।०९] तस्य तदेकत्वात्प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च । [०७४।०९-०७४।१०] वायुना तत्प्रतिबन्ध इति चेत् । [०७४।१०] अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् । [०७४।१०-०७४।११] एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति । [०७४।१२] अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि । [०७४।१२-०७४।१३] प्रज्ञप्तावुक्तम् "आयुःक्षयान्मरणं न पुण्यक्षयादि"ति । [०७४।१३] चतुष्कोटिः । [०७४।१३-०७४।१४] प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् । [०७४।१४] द्वितीया भोगविपाकस्य । तृतीयोभयोः । [०७४।१४-०७४।१५] चतुर्थी विषमापरिहारेण । [०७४।१५] आयुरुत्सर्गाच्चेति वक्तव्यक्म् । न वक्तव्यम् । आयुःक्षयादेव तन्मरणम् । [०७४।१६] प्रथमकोट्यन्तर्गमात् । [०७४।१६-०७४।१७] क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् । [०७४।१७] तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् । [०७४।१७-०७४।१८] ज्ञानप्रस्थानेऽप्युक्तम् "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । [०७४।१८] सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् । [०७४।१९] आह । [०७४।१९-०७४।२०] कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् । [०७४।२०-०७४।२१] समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्" । [०७४।२१] कोऽस्य भाषितस्यार्थः । [०७४।२१-०७४।२२] यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात्प्रथमम् । [०७४।२२-०७४।२३] यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात्द्वितीयम् । [०७४।२३-०७४।२४] सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । [०७४।२४] तस्मादस्त्यकालमृत्युः । [०७४।२४-०७४।२५] सूत्र उक्तम् "चत्वार आत्मभावप्रतिलम्भाः । [०७४।२५] अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने"ति । [०७४।२६] चतुष्कोटिकः । [०७४।२६-०७४।२७] आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च । [०७४।२७-०७४।२८] तेषां हि प्रहर्षमनःोप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिर्भवति नान्यथा। [०७४।२८] दुद्धानां चेति वक्तव्यम् । [०७५।०१] स्वयंमृत्युत्वात् । परसंचेतनैव क्रमते गर्भाण्डगतानाम् । [०७५।०१-०७५।०२] उभयमप्येषां कामावचराणां प्रायेण । [०७५।०२-०७५।०६] नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः। [०७५।०६-०७५।०७] अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंचेतना । [०७५।०७-०७५।०८] नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे"ति । [०७५।०८-०७५।०९] अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति । [०७५।०९-०७५।१०] ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति । [०७५।१०] पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः । [०७५।११] क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तोऽपि प्रतीयते । यदाह । [०७५।११-०७५।१२] "तद्यथा देवा ब्रह्मकायिकाः । [०७५।१२] इयं प्रथमा सुखोपपत्तिरिति । क्वचित्पर्यन्तेनादिरपि प्रतीयते । [०७५।१३] यदाह । तद्यथा देवा आभास्वराः । इयं द्वितीया सुखोपपत्तिरि"ति [०७५।१३-०७५।१४] अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः । [०७५।१४-०७४।१५] एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते । [०७५।१५-०७५।१६] स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः । [०७५।१६] यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् । [०७५।१६-०७५।१७] सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति । [०७५।१७-०७५।१८] तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन । [०७५।१८] उक्तं जीवितम् ॥ [०७५।१९] लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥ [०७५।२०] एतानि हि संस्कृतस्य चत्वारि लक्षणानि । [०७५।२०-०७५।२१] यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते । [०७५।२१] विपर्ययादसंस्कृतः । [०७५।२१-०७५।२२] तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति । [०७५।२२-०७५।२३] ननु "त्रीणिमानि संस्कृत लक्षणानी"ति सूत्र उक्तम् । [०७५।२३] चतुर्थमप्यत्र वक्तव्यं स्यात् । किं चात्र नोक्तम् । आह । [०७५।२४] स्थितिः । यत्तर्हि "इदं स्थित्यन्यथात्वमि"ति । [०७५।२४-०७५।२५] जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति । [०७५।२५-०७६।०१] ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् । [०७६।०१-०७६।०२] जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति । [०७६।०२-०७६।०३] जराऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् । [०७६।०३] तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः । [०७६।०३-०७६।०४] तत एक एनं गहनादाकर्षेत्द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति । [०७६।०४-०७६।०५] स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती । [०७६।०५-०७६।०६] अतोऽसौ संस्कृतलक्षणं न व्यवस्थापिता । [०७६।०६] असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् । [०७६।०६-०७६।०७] अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे । [०७६।०७] किं प्रयोजनम् । [०७६।०८-०७६।०९] एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति । [०७६।०९] अतश्चत्वार्येव संस्कृत लक्षणानि । [०७६।०९-०७६।१०] तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् । [०७६।१०] भवन्त्येव । [०७६।११] जातिजात्यादयस्तेषां [०७६।१२] तेषामपि चत्वार्यनुलक्षणानि भवन्ति । [०७६।१२-०७६।१३] जातिजातिः स्थितिस्थितिः जराजरा अनित्यताऽनित्यता इति । [०७६।१३] ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च । [०७६।१४] तेषां पुनरन्यजात्यादिप्रसङ्गात् । न प्राप्नोति । यस्मात् । [०७६।१५] तेऽष्टधर्मैकवृत्तयः । [०७६।१६] तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः । किमिदं वृत्तिरिति । कारित्रं पुरुषकारः । [०७६।१७] जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते । [०७६।१८] सार्धं लक्षणानुलक्षणैरष्टाभिः । [०७६।१८-०७६।१९] तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति । [०७६।१९] जातिजातिः पुन स्तामेव जातिम् । [०७६।१९-०७६।२०] तद्यथा किल काचित्कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि । [०७६।२०-०७६।२१] तद्वत्स्थितिरप्यात्मानं वर्जयित्वाऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् । [०७६।२१-०७६।२२] एवं जराऽनित्यते अपि यथायोग्यं यज्ये । [०७६।२२] तस्माना भवत्यनवस्थाप्रसङ्गः । [०७६।२२-०७६।२३] तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः । [०७६।२३-०७६।२४] नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथाऽभिव्यज्यन्ते । [०७६।२४] किं कारणम् । प्रमाणाभावात् । [०७६।२४-०७६।२५] नह्येषां द्रव्यतोऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति । [०७६।२६-०७६।२७] यत्तर्हि सूत्र उक्तं "संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपी" ति । [०७६।२७] ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः । अर्थश्च प्रतिशरण मुक्तं भगवता । [०७६।२८] कः पुनरस्यार्थः । [०७६।२८-०७६।२९] अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते । [०७६।२९-०७७।०२] तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह "त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि" । [०७७।०२] न तु क्षणस्य । नहि क्षणस्योत्पादादयः प्रज्ञायन्ते । [०७७।०३] नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति । [०७७।०३-०७७।०४] अथ एवात्र सूत्रे "संस्कृतस्योत्पादोऽपि प्रज्ञायत" इत्युक्तम् । [०७७।०४-०७७।०५] पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त । [०७७।०५-०७७।०६] मैवं विज्ञायि संस्कृतस्य वस्तुनोऽस्तित्वे लक्षणानि जलवलाकावत्साध्वसादुत्वे वा कन्यालक्षणवदिति । [०७७।०६-०७७।०७] तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः । [०७७।०७] स एव प्रवाहोऽनुवर्त्तमानः स्थितिः । [०७७।०७-०७७।०८] तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् । [०७७।०८-०७७।०९] एवं च कृत्वोक्तं "विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती"ति । [०७७।१०] आह चात्र [०७७।११-०७७।१२] "जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः । स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता ॥" [०७७।१३-०७७।१४] "जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः । स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष" इति ॥ [०७७।१५-०७७।१६] "क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् । न च व्येत्येव तेनास्य वृथा तत्परिकल्पना ॥" [०७७।१७] तस्मात्प्रवाह एव स्थितिः । एवं च कृत्वाऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति । [०७७।१८] "स्थितिः कतमा । उत्पन्नानां संस्काराणामविनाश" इति । [०७७।१८-०७७।१९] नहि क्षणस्योत्पन्नस्याविनाशोऽस्तीति । [०७७।१९] यदपि च ज्ञानप्रस्थान उक्तम् "एकस्मिंश्चित्ते क उत्पादः । [०७७।२०] आह । जातिः । को व्ययो मरणम् । किं स्थित्यन्यथात्वं जरे"ति । [०७७।२०-०७७।२१] तत्रापि निकायसभागचित्तं युज्यते । [०७७।२१-०७७।२२] प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विनाऽपि द्रव्यान्तरकल्पनया । [०७७।२२] कथमिति । [०७७।२३] प्रतिक्षणमभूत्वाभाव उत्पादः । भूत्वाऽभावो व्ययः । [०७७।२३-०७७।२४] पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः । [०७७।२४] तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति । यदा तर्हि सदृशा उत्पद्यन्ते । [०७७।२४-०७७।२५] न ते निर्विशेषा भवन्ति । [०७७।२५] कथमिदं ज्ञायते । [०७७।२५-०७७।२६] क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः । [०७७।२६-०७७।२७] नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते । [०७७।२७-०७७।२९] अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात्स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति । [०७७।२९] न वै संस्कृतस्य स्थितिरेवोच्यते । [०७८।०१] लक्षणमपि तु स्थित्यन्यथात्वम् । [०७८।०१-०७८।०२] अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः । [०७८।०२-०७८।०४] समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता "संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सोऽन्यथा चान्यथा च भवती"ति । [०७८।०४-०७८।०५] किमत्र द्रव्यान्तरैर्जात्यादिभिः कथमिदानीं स एव धर्मो लक्ष्यस्तस्यैव लक्षणं योक्ष्यते । [०७८।०५-०७८।०८] कथं तावन्महापुरुषलक्षणानि महापुरुषान्नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर्नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि । [०७८।०८-०७८।०९] यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् । [०७८।०९] स एवात्र न्यायः स्यात् । [०७८।०९-०७८।१०] नच संस्कृतानां रूपादीनां तावत्संस्कृतत्वं लक्ष्यते । [०७८।१०-०७८।११] गृह्णतापि स्वभावं यावत्प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः । [०७८।११-०७८।१२] तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते । [०७८।१२] अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः । [०७८।१२-०७८।१३] किमयुक्तं स्यात् । [०७८।१३-०७८।१४] एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् । [०७८।१४] कारित्रकालभेदात् । अनागता हि जातिः कारित्रं हि करोति । [०७८।१४-०७८।१६] यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा । [०७८।१६] इदं तावदिह संप्रधार्यं भवेत् । [०७८।१६-०७८।१७] किमनागतं द्रव्यतोऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् । [०७८।१७-०७८।१८] सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् । [०७८।१८-०७८।२०] उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् । [०७८।२०-०७८।२१] स्थित्यादयोऽपि च युगपत्कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः । [०७८।२१-०७८।२२] यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति । [०७८।२२-०७८।२४] किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा योऽपि हि ब्रूयात्स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते । [०७८।२४] अथाप्येवं ब्रूयातेष एव हि नः क्षणो यावतैतत्सर्वं समाप्यत इति । [०७८।२५-०७८।२६] एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत्स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति । [०७८।२६] कुत एतत् । स्थितेर्बलीयस्त्वात् । पुनः केनावलीयस्त्वम् । [०७८।२६-०७८।२७] यदैनां सह धर्मेणानित्यता हन्ति । [०७८।२७] कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् । [०७८।२८] स्थतुर्युक्तमनुत्सोढुम् । [०७८।२८-०७८।२९] नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् । [०७८।२९] शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् । [०७८।२९-०७९।०१] अतो न युक्तं यन्नोत्सहते । [०७९।०१] को वाऽत्र प्रतिबन्धः । ते एव जराऽनित्यते । [०७९।०१-०७९।०२] यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् । [०७९।०२-०७८।०४] निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् । [०७९।०४-०७९।०५] स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् । [०७९।०५-०७९।०६] स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः । [०७९।०६] स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशोऽनित्यता । [०७९।०७] जरा तु खलु सर्वथात्वेन न तथा । पूर्वापरविशेषात्विपरिणामाच्च । [०७९।०७-०७९।०८] अतस्तदन्यथात्वेऽन्य एव । [०७९।०८] उक्तं हि [०७९।०९-०७९।१०] "तथात्वेन जराऽसिद्धिरन्यथात्वेऽन्य एव सः । तस्मानैकस्य भावस्य जरा नामोपपद्यते"॥ [०७९।११-०७९।१२] योऽप्याह निकायान्तरीयो "विनाश कारणं प्राप्यानित्यता विनाशायती"ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा । [०७९।१२-०७९।१५] ततेवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात्स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत । [०७९।१५-०७०।१६] तस्मात्प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति । [०७९।१७] अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते । यस्मात् [०७९।१८] जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना ॥ २.४६ ॥ [०७९।१९] नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति । [०७९।१९-०७९।२०] हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः । [०७९।२०-०७९।२१] सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः । [०७९।२१] किं च भोः सर्वं विद्यमानमुपलभ्यते । [०७९।२२] सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते । [०७९।२२-०७९।२३] जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति । [०७९।२३-०७९।२४] एवं यावदनित्यता यथायोगं वक्तव्या । [०७९।२४] तेन तर्ह्यनात्मत्वमप्येष्टव्यमनात्मबुद्धि-सिद्ध्यर्थम् । [०७९।२४-०७९।२६] संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्व-सत्तादयोऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् । [०७९।२६-०७९।२७] षष्टीविधानार्थं च रूपस्य संयोग इति । [०७९।२७] एषा च षष्टो कथं कल्प्यते । [०७९।२७-०७९।२८] रूपस्य स्वभाव इति । [०७९।२८] तस्मात्प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति । [०७९।२८-०८०।०१] स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः । [०८०।०१-०८०।०२] तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत माऽन्यः प्रत्यायीति । [०८०।०२-०८०।०३] तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति । [०८०।०३-०८०।०४] एवं स्थित्यादयोऽपि यथायोगं वेदितव्याः । [०८०।०४] यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते । [०८०।०५] जायतित्यभूत्वा भवति । असंस्कृतं च नित्यमस्तीति न जायते । [०८०।०५-०८०।०६] यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् । [०८०।०६-०८०।०८] यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वेऽप्यसमर्थाः स्युः । [०८०।०८] सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः । [०८०।०९-०८०।१०] नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते । [०८०।१०-०८०।११] तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः । [०८०।११] उक्तानि लक्षणानि ॥ [०८०।१२] नामकायादयः कतमे । [०८०।१३] नामकायादयः संज्ञावाक्याक्षरसमुक्तयः । [०८०।१४] आदिग्रहणेन पदव्यञ्जनकायग्रहणम् । तत्र संज्ञाकरणं नाम । [०८०।१४-०८०।१५] तद्यथा रूपं शब्द इत्येवमादिः । [०८०।१५-०८०।१६] वाक्यं पदं यावताऽर्थपरिसमाप्तिस्तद्यथा "अनित्या वत संस्कारा" इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते । [०८०।१६-०८०।१७] व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि । [०८०।१७] ननु चाक्षराण्यपि लिप्यवयवानां नामानि । [०८०।१७-०८०।१८] न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः । [०८०।१९] कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि । [०८०।१९-०८०।२०] एषां च संज्ञादीनां समुक्तयो नामादिकायाः । [०८०।२०] उच समवाये पठन्ति । तस्य समुक्तिरित्येतद्रूपं भवति । [०८०।२१] योऽर्थः समवाय इति सोऽर्थः समुक्तिरिति । [०८०।२१-०८०।२२] तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि । [०८०।२२-०८०।२३] पदकायः तद्यथा "सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि" त्येवमादि । [०८०।२३-०८०।२४] व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि । [०८०।२४-०८०।२५] ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति । [०८०।२५] कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते । नैते वाक्स्वभावाः । [०८०।२५-०८०।२६] घोषो हि वाक्नच घोषामात्रेनार्थाः प्रतीयन्ते । [०८०।२६] किं तर्हि । [०८०।२६-०८०।२८] वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग्येन तु घोषेणार्थः प्रतीयते स घोषो वाक् । [०८०।२८] केन पुनर्घोषेणार्थः प्रतीयते । [०८०।२८-०८१।०१] योऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः । [०८१।०२-०८१।०३] "वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु । नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि"ति ॥ [०८१।०४-०८१।०५] योऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति । [०८१।०५-०८१।०६] तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात्सिध्यतीति किमर्थरं नाम कल्पयित्वा । [०८१।०६] इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति । [०८१।०६-०८१।०७] किं तावदुत्पादयत्याहोस्वित्प्रकाशयति । [०८१।०७] यद्युत्पाद यति । [०८१।०७-०८१।०९] घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति । [०८१।०९] अथ प्रकाशयति । [०८१।०९-०८१।११] घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति । [०८१।११] न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् । [०८१।१२] न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् । [०८१।१२-०८१।१३] कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् । [०८१।१३-०८१।१४] एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्योऽपि तमेवैकं शृणोति सोऽप्यर्थं प्रतिपद्येत । [०८१।१४-०८१।१५] अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति । [०८१।१५-०८१।१६] अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् । [०८१।१६] एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः । [०८१।१६-०८१।१८] व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुं नोत्सहन्त इति व्यञ्जयापि वाक्नैवोत्पादिका न प्रकाशिका युज्यते । [०८१।१८-०८१।१९] अथाप्यर्थसहजं नाम जात्यादिवदिष्यते । [०८१।१९] एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् । [०८१।१९-०८१।२१] अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यातसंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् । [०८१।२१-०८१।२२] यदप्युक्तं भगवता [०८१।२३] "नामसंनिशारिता गाथा गाथानां कविराश्रयः" इति [०८१।२४-०८१।२५] अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते । [०८१।२५] पङ्क्तिवच्चित्तानुपूर्व्यवच्च । [०८१।२६] अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना । [०८१।२६-०८१।२७] तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः । [०८१।२७-०८१।२८] सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः । [०८१।२८] नहि सर्व धर्मास्तर्कगम्या भवन्तीति । [०८२।०१-०८२।०२] अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् । [०८२।०२] आह [०८२।०३] कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः । [०८२।०४] कामाप्ता रूपाप्ताश्चेति । आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे । [०८२।०५] सत्त्वाख्या एते । यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते । [०८२।०५-०८२।०६] नैःष्यन्दिका अनिवृताव्याकृताश्च । [०८२।०६-०८२।०७] यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च । [०८२।०८] तथा ॥ २.४७ ॥ [०८२।०९] सभागता सा तु पुनर्विपाकोऽपि [०८२।१०] न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी । [०८२।११] आप्तयो द्विधा । [०८२।१२] प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च । [०८१।१३] लक्षणानि च । [०८१।१४] द्विधेति वर्त्तते प्राप्तिवत् । [०८२।१५] निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥ [०८२।१६] द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव । शेषमेषां वक्तव्यमुक्तम् । [०८२।१७] शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः । कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् । [०८२।१८] कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता । सर्वसंस्कृटसहभूत्वात् ॥ उक्ता विप्रयुक्ताः ॥ [०८२।१९-०८२।२०] यक्तूक्तं "जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" इति क इमे हेतवः केच प्रत्ययाः । [०८२।२१-०८२।२२] कारणं सहभूश्चैव सभागः संप्रयुक्तकः । सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥ [०८२।२३] षडिमे हेतवः । [०८२।२३-०८२।२४] कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति । [०८२।२४] तत्र [०८२।२५] स्वतोऽन्ये कारणं हेतुः [०८२।२६] संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति । [०८२।२७] अविघ्नभावावस्थानात् । [०८२।२७-०८३।०२] ननु च येऽस्याजानत उदपत्स्यन्तास्रवा जानतोऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति । [०८३।०२] उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् । [०८३।०३] भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् । [०८३।०३-०८३।०४] तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति । [०८३।०४-०८३।०६] यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ । [०८३।०६-०८३।०७] असन्तोऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः । [०८३।०७-०८३।०८] असमर्थेऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः । [०८३।०८-०८३।०९] यस्तु प्रधानः कारणहेतुः स उत्पादनेऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयोऽङ्कुरादीनामिति । [०८३।१०-०८३।११] यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत्सर्वे तद्भाजो भवन्तीति । [०८३।११-०८३।१२] तस्येदमचोद्यम् । [०८३।१२] यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति । [०८३।१३] सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे । [०८३।१३-०८३।१४] तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् । [०८३।१४] कथं कृत्वा । [०८३।१४-०८३।१६] तेन ह्यालम्बनात्मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् । [०८३।१६] एवमन्यस्यापि प्रतिपत्तव्यम् । एषा हि दिक् । [०८३।१६-०८३।१७] उक्तः कारणहेतुः । [०८३।१८] सहभूर्ये मिथःफलाः । [०८३।१९] मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा । कथम् । [०८३।२०] भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥ [०८३।२१] चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः । चित्तं चित्तानुवर्त्तिनां धर्माणां तेऽपि तस्य । [०८३।२२] संस्कृतलक्षणानि लक्ष्यस्य सोऽपि तषाम् । [०८३।२२-०८३।२३] एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् । [०८३।२३-०८३।२४] विनापि चान्योन्यफलत्वेन धर्मोऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् ॥ [०८३।२५] के पुनरेते चित्तानुवर्त्तिनो धर्माः । [०८३।२६] चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च । [०८३।२७] चित्तानुवर्त्तिनः [०८३।२८] सर्वेचित्तसंप्रयुक्ताः । ध्यानसंवरोऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च । [०८३।२८-०८४।०१] एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते । [०८४।०१] कथमेते चित्तमनुपरिवर्त्तन्ते । समासतः [०८४।०२] कालफलादिशुभतादिभिः ॥ २.५१ ॥ [०८४।०३] कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च । [०८४।०३-०८४।०४] फलादिभिरेकफलविपाकनिःष्यन्दतया । [०८४।०४] पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः । [०८४।०५] शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया । [०८४।०५-०८४।०६] एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते । [०८४।०६-०८४।०७] तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः । [०८४।०७-०८४।०८] दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् । [०८४।०८] तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः । [०८४।०८-०८४।०९] स्वान्यनुलक्षणानि स्थापयित्वा । [०८४।०९] चतुर्दशेत्यपरे । दश महभूमिकाः स्वान्येव च लक्षणानीति । [०८४।०९-०८४।१०] तदेतन्न वर्णयन्ति । [०८४।१०] प्रकरणग्रन्थो ह्येवं विरुध्येत । [०८४।१०-०८४।११] "स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । [०८४।११-०८४।१३] सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । [०८४।१३] सत्कायदृष्टेक्श्च हेतुर्यदेतत्स्थापितमि" ति । [०८४।१३-०८४।१५] ये तर्हि "तत्संप्रयुक्तानां च धर्माणा मि" त्येतन्न पथन्ति तैरप्येतत्पथितव्यमर्थतो वैवं बोद्धव्यमिति काश्मीराः । [०८४।१५] यक्तावत्सहभूहेतुना हेतुः सहभ्वपि तत् । [०८४।१५-०८४।१६] स्यात्तु सहाभूर्न सहभूहेतुना हेतुः । [०८४।१६] धर्मस्यानुलक्षणानि । तानि चान्योन्यम् । [०८४।१६-०८४।१९] अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित्सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् । [०८४।१९-०८४।२०] न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति । [०८४।२०] सर्वमप्येतत्स्यात् । [०८४।२०-०८४।२१] किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत्कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति । [०८४।२२] तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च । [०८४।२२-०८४।२४] संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित्पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति । [०८४।२४] इतस्तर्हि भावाभावयोस्तद्वत्त्वात् । [०८४।२४-०८४।२५] एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर्हेतुकाः । [०८४।२५-०८४।२६ यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति । [०८४।२६-०८५।०१] सहभुवां च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः । [०८५।०१] स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् । [०८५।०२-०८५।०३] अथ एवाह एवं तर्ह्यविनिर्भाविणोऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः । [०८५।०३-०८५।०४] त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति । [०८५।०४] मीमांस्यं तावदेतत् । [०८५।०४-०८५।०६] किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित्पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका । [०८५।०६-०८५।०७] एषामपि नामान्येऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः । [०८५।०८] सभागहेतुः कतमः । [०८५।०९] सभागहेतुः सदृशाः [०८५।१०-०८५।११] सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् । [०८५।१२] चत्वारस्तु न रूपस्येत्यपरे । न्यूनत्वात् । [०८५।१२-०८५।१३] कललं कललादीनां दशानामवस्थानामर्वुदायोऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे । [०८५।१३-०८५।१४] अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् । [०८५।१४-०८५।१५] बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् । [०८५।१५-०८५।१६] ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते "अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति" रिति । [०८५।१७] किं पुनः सर्वे सदृशानां सभागहेतः । नेत्याह । किं तर्हि । [०८५।१८] स्वनिकायभुवः । [०८५।१९] स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः । [०८५।१९-०८५।२०] पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत्भावनाप्रहातव्यः । [०८५।२०] नव भूमयः । [०८५।२०-०८५।२१] कामधातुरष्टौ च ध्यानारूप्याः । [०८५।२१] तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् । [०८५।२१-०८५।२२] एवं यावत्भावनाहेया भावनाहेयानाम् । [०८५।२२-०८५।२४] तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत्भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् । [०८५।२४] तेऽपि न सर्वे । किं तर्हि । [०८५।२५] अग्रजाः । [०८५।२६] पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः । अनागता नैव सभागहेतुः । [०८५।२७] एवमतीते कुत एतताह । शास्त्रात् । "सभागहेतुः कतमः । [०८५।२७-०८६।०२] पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः । [०८६।०२] एवमतीतान्यतीतप्रत्युत्पन्नानाम् । [०८६।०२-०८६।०३] अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्" । [०८६।०३-०८६।०४] इदपि शास्त्रं "यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः । [०८६।०४] आह । [०८६।०४-०८६।०५] न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः । [०८६।०५-०८६।०६] यस्तु मन्यते अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं "न कदाचिन्न हेतुरि"ति । [०८६।०६-०८६।०८] तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात्भवति । [०८६।०८-०८६।१०] इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित्स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति । [०८६।१०] कस्मादेवमाह । [०८६।१०-०८६।११] यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् । [०८६।११] यथा चेह तथा तत्रेति । [०८६।११-०८६।१२] एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत । [०८६।१२-०८६।१३] तस्मात्पूर्वक एवात्र परिहारः साधुः । [०८६।१३-०८६।१५] यत्तर्हीदमुक्तम् "अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि"ति । [०८६।१५-०८६।१६] अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत्कर्त्तव्यमर्थतोऽपि चैवं बोद्धव्यमिति । [०८६।१६-०८६।१८] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता" इति । [०८६।१८] हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च । [०८६।१८-०८६।१९] फलं पुरुषकारफलमधिपतिफलं च । [०८६।१९] आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् । [०८६।१९-०८६।२०] ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् । [०८६।२०-०८६।२१] इष्यत एवावस्थां प्रति न द्रव्यम् । [०८६।२१] अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् । [०८६।२१-०८६।२२] किं पुनः स्याद्यदि विपाकहेतुवदनागतोऽपि सभागहेतुः स्यात् । [०८६।२२] शास्त्रे तस्य ग्रहणं स्यात् । [०८६।२२-०८६।२३] स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः । [०८६।२३] नैतदस्ति । [०८६।२३-०८६।२४] निःष्यन्दफलेन हि सफलः सभागहेतुः । [०८६।२४] तच्चानागतस्यायुक्तं पूर्वपश्चिमताऽभावात् । [०८६।२४-०८६।२५] न चोत्पन्नमनागतस्य निष्यन्दो युज्यते । [०८६।२५] यथाऽतीतं वर्त्तमानस्य । मा भूद्धेतोः पूर्वं फलमिति । [०८६।२६] नास्त्यनागतः सभागहेतुः । विपाकहेतुरपि एवमनागतो न प्रप्नोति । [०८६।२६-०८६।२७] वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमताऽभावात् । [०८६।२७] नैतदस्ति । [०८६।२८-०८६।२९] सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत । [०८६।२९] नचान्योन्यनिःष्यन्दता युक्तिमतीति । [०८७।०१] नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते । [०८७।०१-०८७।०२] भिन्नलक्षणात्वाद्धेतुफलयोः । [०८७।०२-०८७।०३] तस्मादवस्थाव्यव्स्थितमेव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतोऽपि न वार्यते । [०८७।०४] यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः । [०८७।०५] अन्योऽन्यं नवभूमिस्तु मार्गः [०८७।०६] सभागहेतुरित्यधिकारः । [०८७।०६-०८७।०७] अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्योऽन्यं सभागहेतुः । [०८७।०७] किं कारणम् । [०८७।०७-०८७।०८] आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् । [०८७।०८-०८७।०९] अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति । [०८७।०९] स पुनः । [०८७।१०] समविशिष्टयोः ॥ २.५२ ॥ [०८७।११] न्यूनस्य हेतुर्भवति । [०८७।११-०८७।१२] तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य । [०८७।१२-०८७।१३] अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् । [०८७।१३] दर्शनभावनाऽशैक्ष्यमार्गास्त्रिध्येकेषाम् । [०८७।१३-०८७।१४] तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः । [०८७।१४] तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव । [०८७।१४-०८७।१५] तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च । [०८७।१५-०८७।१६] धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य । [०८७।१६-०८७।१७] कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा । [०८७।१७] इन्द्रियतो हेतूपचयतश्च । [०८७।१७-०८७।१८] तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः । [०८७।१८-०८७।१९] यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः । [०८७।२०] किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति । नेत्याह । [०८७।२०-०८७।२१] लौकिका अपि हि [०८७।२२] प्रयोगजास्तयोरेव [०८७।२३] समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य । यथा कतमे इत्याह [०८७।२४] श्रुतचिन्तामयादिकाः । [०८७।२५-०८७।२६] एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् । [०८७।२६-०८७।२७] तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् । [०८७।२७] भावनामयाभावात् । [०८७।२७-०८७।२८] रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् । [०८७।२८] भावनामया भावनामयानामेव । [०८७।२८-०८७।२९] आरूप्यावचराभावनामया भावनामयानामेव । [०८७।२९-०८८।०१] तेषामपि नवप्रकारभेदात्मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः । [०८८।०१-०८८।०२] उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः । [०८८।०२] क्लिष्टा अप्येवम् । [०८८।०२-०८८।०३] अनिवृताव्याकृतास्तु चतुर्विधाः । [०८८।०३] विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च । [०८८।०३-०८८।०४] ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् । [०८८।०५] तत्र नोत्तरध्यानफलमधरध्यानफलस्य । [०८८।०५-०८८।०६] नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति । [०८८।०६-०८८।०७] तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति । [०८८।०७-०८८।०८] अत एव चाहुः स्यादुत्पन्नोऽनास्रवोऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्। [०८८।०८-०८८।०९] सर्वं च विशिष्टं न्यूनस्य न हेतुः । [०८८।०९-०८८।१०] स्यादेकसन्ताननियतः पूर्वप्रतिलब्धोऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः । [०८८।१०-०८८।११] स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः । [०८८।११-०८८।१२] स्यात्पूर्वोत्पन्नोऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः । [०८८।१२] स्यादविमात्रो न्यूनस्य । [०८८।१२-०८८।१४] तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति । [०८८।१४] उक्तः सभागहेतुः । [०८८।१५] संप्रयुक्तकहेतुस्तु चित्तचैत्ताः । [०८८।१६] एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः । [०८८।१६-०८८।१७] एकाकारा लम्बनास्तर्हि । [०८८।१७] एवमपि स एव प्रसङ्गः । एककालास्तर्हि । [०८८।१७-०८८।१८] एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् । [०८८।१८] तस्मात्तर्हि [०८८।१९] समाश्रयाः ॥ २.५३ ॥ [०८८।२०] समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः । [०८८।२०-०८८।२२] समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः । [०८८।२२] इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः । [०८८।२२-०८८।२३] यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः । [०८८।२३] अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः । [०८८।२४] अन्योन्यफलार्थेन सहभूहेतुः । सहसार्थिकान्योन्यबलमार्गप्रयाणवत् । [०८८।२४-०८८।२५] पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः । [०८८।२५-०८८।२६] तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् । [०८८।२६-०८८।२७] एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः । [०८८।२७] उक्तः संप्रयुक्तकहेतुः । [०८९।०१] सर्वत्रगहेतुः कतमः । [०८९।०२] सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः । [०८९।०३] स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः । [०८९।०४] तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः । [०८९।०४-०८९।०५] क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक्व्यवस्थाप्यते । [०८९।०५-०८९।०६] निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते । [०८९।०६-०८९।०७] किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः । [०८९।०७-०८९।०८] सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः । [०८९।०८-०८९।०९] तथा प्रकारणेषूक्तं "दर्शनप्रहातव्यहेतुकाः धर्माः कतमे । [०८९।०९] क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति । [०८९।०९-०८९।१०] अव्याकृतहेतुका धर्माः कतमे । [०८९।१०] अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति । [०८९।१०-०८९।१३] दुःखसत्यं स्यात्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्य"मिति । [०८९।१३] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "स्याद्धर्मोऽकुशलोऽकुशलहेतुक एव । [०८९।१४-०८९।१५] स्यादार्यपुद्गलः कामवैराग्यात्परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती"ति । [०८९।१५] अप्रहीणहेतुमेतत्संधायोक्तम् । [०८९।१५-०८९।१६] दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः । [०८९।१६] उक्तः सर्वदगहेतुः । [०८९।१७] विपाकहेतुः कतमः । [०८९।१८] विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥ [०८९।१९] अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः । विपाकधर्मत्वात् । [०८९।१९-०८९।२०] कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति । [०८९।२०] दुर्बलत्वात् । पूति बीजवत् । [०८९।२१] कस्मान्नानास्रवाः । तृष्णानभिष्यन्दितत्वात् । अनभिष्यन्दितसारबीजवत् । [०८९।२१-०८९।२२] अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः । [०८९।२२] शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति । [०८९।२३] साराभिष्यन्दितबीजवत् । [०८९।२३-०८९।२४] कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः । [०८९।२४] किं चातः । [०८९।२४-०८९।२५] यदि विपाकस्य हेतुर्विपाकहेतुः "वीपाकजं चक्षुरि"ति एतन्न प्राप्नोति । [०८९।२५-०८९।२६] अथ विपाक एव हेतुर्विपाकहेतुः "कर्मणो विपाक" इत्येतन्न प्राप्नोति । [०८९।२६] नैष दोषः । "उभयथापि योग" इत्युक्तं प्राक् ॥ [०८९।२६-०८९।२७] अथ विपाक इति कोऽर्थः । [०८९।२७] विसदृशः पाको विपाकः । अन्येषां तु हेतूनां सदृशः पाकः । [०८९।२७-०९०।०१] एकस्योभयथेति वैभाषिकाः । [०९०।०१] नैव तु तेषां पाको युक्तः । [०९०।०१-०९०।०२] पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः । [०९०।०२-०९०।०३] न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति । [०९०।०३] न चापि सभागहेत्वादीनां फलपर्यन्तोऽस्ति । [०९०।०३-०९०।०४] पुनः पुनः कुशलाद्यासंसारफलत्वात् । [०९०।०४] कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च । [०९०।०५] द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च । [०९०।०५-०९०।०६] चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥ [०९०।०६-०९०।०७] रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः । [०९०।०७-०९०।०८] द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः । [०९०।०८-०९०।०९] चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते । [०९०।०९] पञ्चस्कन्धक एकफलः समाहिते ॥ [०९०।०९-०९०।१०] आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः । [०९०।१०-०९०।११] चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च । [०९०।११-०९०।१२] अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् । [०९०।१२] यस्य मन आयतनं तस्य द्वे मनोधर्मायतने । [०९०।१२-०९०।१३] एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि । [०९०।१३-०९०।१४] एवं यस्य रूपगन्धरसायतनानि । [०९०।१४] यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि । [०९०।१५] एवं यस्य श्रोत्रग्राणजिह्वायतनानि । [०९०।१५-०९०।१६] अस्ति तत्कर्म यस्य पञ्च षट्सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते । [०९०।१६-०९०।१७] विचित्राविचित्रफलत्वात्कर्मणो बाह्यबीजवत् । [०९०।१७] तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति । [०९०।१७-०९०।१८] तद्यथा पद्मदाडिमन्यग्रोधादीनाम् । [०९०।१८] कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् । [०९०।१९] एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते । [०९०।१९-०९०।२०] न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति । [०९०।२०-०९०।२१] एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् । [०९०।२१-०९०।२२] न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात्समनन्तरक्षणस्य । [०९०।२२] प्रवाहापेक्षो हि विपाकहेतुः । [०९०।२३] अथ क एषां हेतूनामध्वनियमः । [०९०।२३-०९०।२४] उक्त एषामर्थतोऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते । [०९०।२५] सर्वत्रगः सभागश्च द्वयध्वगौ [०९०।२६] अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः । उक्तं चात्र कारणम् । [०९०।२७] त्र्यध्वगा स्त्रयः । [०९०।२८] सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः । कारणहेतुस्तु कालनियमानुपदर्शनात् । [०९०।२९] सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः । उक्ता हेतवः । [०९०।३०] किं पुनस्तत्फलं यस्यैते हेतवः । [०९१।०१] संस्कृतं सविसंयोग फलं [०९१।०२] फलं धर्माः । कतमे । "संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे"ति शास्त्रम् । [०९१।०२-०९१।०४] एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत्फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः । [०९१।०४] संस्कृतस्यैव धर्मस्य हेतुफले भवतः । [०९१।०५] नासंस्कृतस्य ते ॥ २.५५ ॥ [०९१।०६] किं कारणम् । षड्विधहेत्वसंभवात्पञ्चविधफलासंभवाच्च । [०९१।०६-०९१।०७] कस्मात्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते । [०९१।०७-०९१।०८] यास्मात्स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् । [०९१।०८] कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् । [०९१।०९] तद्बलेन प्राप्तेः । प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति । [०९१।०९-०९१।१०] तस्यामेव तस्य सामर्थ्यान्न विसंयोगः । [०९१।१०] अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे । [०९१।१०-०९१।११] कथमस्य प्राप्तौ सामर्थ्यम् । [०९१।११] उत्पादनात् । कथं विसंयोगे । प्रपणात् । [०९१।११-०९१।१२] तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः । [०९१।१२] फलं चास्य विसंयोगः । [०९१।१२-०९१।१३] अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः । [०९१।१३] उत्पत्त्यनावरणभावेन कारणहेतुः । [०९१।१३-०९१।१४] न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् । [०९१।१४] नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् । [०९१।१५] उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः । कथमुक्तम् । [०९१।१६] "ये हेतवो ये प्रत्यया रूपस्योत्पादाय तेऽप्यनित्याः । [०९१।१७] अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यति" [०९१।१८] एवं यावद्धि विज्ञानमिति । [०९१।१८-०९१।१९] एवं तर्हि विज्ञानस्यालमबनप्रत्ययोऽप्यसंस्कृतं न प्राप्नोति । [०९१।१९] उत्पादायेत्यवधारणात् । प्राप्नोति । [०९१।२०] "ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या" [०९१।२१] इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति । [०९१।२१-०९१।२३] ननु च हेतवोऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः । [०९१।२३-०९१।२४] उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः । [०९१।२४] यद्यपि नोक्तो नतु प्रतिषिद्धः । [०९१।२४-०९१।२५] सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति । [०९१।२६] अथ कोऽयं विसंयोगो नाम । ननु चोक्तं प्राक्"प्रतिसंख्यानिरोध" इति । [०९१।२७-०९२।०१] तदानीं "प्रतिसंख्यानिरोधः कतमो यो विसंयोग" इत्युक्तमिदानीमिसंयोगःकथमः । [०९२।०१] यः प्रतिसंख्यानिरोध इत्युच्यते । [०९२।०१-०९२।०२] तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने । [०९२।०२] तस्मादन्यथा तत्स्वभावो यक्तव्यः । [०९२।०२-०९२।०३] आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः । [०९२।०३] एतावक्तु शक्यते वक्तुं नित्यं कुशलं चास्ति द्रव्यान्तरम् । [०९२।०३-०९२।०४] तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति । [०९२।०४] सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः । [०९२।०५] नहि तद्रूपवेदनादियत्भावान्तरमस्ति । किं तर्हि । स्प्रष्टव्याभावमात्रमाकाशम् । [०९२।०६] तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः । [०९२।०६-०९२।०७] उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः । [०९२।०७-०९२।०८] विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो ।प्रतिसंख्यानिरोधः । [०९२।०८-०९२।०९] तद्यथा निकायसभागशेषस्यान्तरामरणे । [०९२।०९] निकायान्तरीयाः पुनराहुः । [०९२।०९-०९२।१०] अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतोऽसौ प्रतिसंख्यानिरोधः । [०९२।१०-०९२।११] यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतोऽसावप्रतिसंख्यानिरोध इति । [०९२।१२] सोऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ । [०९२।१२-०९२।१३] य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे । [०९२।१३-०९२।१४] अस्यां तु कल्पनायामनित्योऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् । [०९२।१४-०९२।१५] ननु च प्रतिसंख्यानिरोधोऽप्यनित्यः प्राप्नोति । [०९२।१५] प्रतिसंख्यापूर्वकत्वात् । [०९२।१५-०९२।१६] न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः । [०९२।१६] किं तर्हि । [०९२।१६-०९२।१७] पूर्वमेव स तेषामनुत्पादोऽस्ति । [०९२।१७-०९२।१८] विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति । [०९२।१८-०९२।१९] एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः । [०९२।१९-०९२।२१] यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते "पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त" इति । [०९२।२१-०९२।२२] प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते । [०९२।२२] अस्त्येतदेवम् । [०९२।२२-०९२।२४] किं तु तदालम्बनक्लेशप्रहाणात्दुःखस्य प्रहाणमुक्तं भगवता "यो रूपे च्छन्दरागस्तं प्रजहीत । [०९२।२४-०९२।२५] च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद्विज्ञानमि"ति । [०९२।२५] एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते । [०९२।२६] अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत । अत्राप्येष नयः । [०९२।२७-०९२।२९] अथवाऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत्प्रत्युत्पन्नम् । [०९२।२९-०९३।०१] तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितोऽनागतस्योत्पत्तये । [०९३।०१] तस्य प्रहाणात्तदपि प्रहीणं भवति । [०९३।०१-०९३।०२] यथा विपाकक्षयात्कर्मं क्षीणं भवति । [०९३।०२-०९३।०३] अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावातत्यन्तमनुत्पादः प्रहाणम् । [०९३।०३-०९३।०४] अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् । [०९३।०४] नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति । [०९३।०४-०९३।०६] यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता "ये केचिद्धर्माः संस्कृता वाऽसंस्कृता वा विरागस्तेषामग्र आख्यायते" इति कथमसतामसन्नग्रो भवितुमर्हति । [०९३।०६-०९३।०७] न वै नास्त्येवासंस्कृतमिति ब्रूमः । [०९३।०७] एतत्तु तदीदृशं यथाऽस्माभिरुक्तम् । [०९३।०७-०९३।०८] तद्यथा अस्ति शब्दस्य प्रागभावोऽस्ति पश्चादभाव इत्युच्यते । [०९३।०८] अथ च पुनर्नाभावो भावः सिध्यति । [०९३।०८-०९३।०९] एवमसंस्कृतमपि द्रष्टव्यम् । [०९३।०९-०९३।१०] अभावोऽपि च कश्चित्प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सोऽग्र इति प्रशंसां लब्धुमर्हति । [०९३।१०] विनेयानां तस्मिन्नुपच्छन्दनार्थम् । [०९३।११] यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् । नहि ततु किञ्चिदस्तीति । [०९३।१२] कस्तावदयं सत्यार्थः । ननु चाविपरीतार्थः । [०९३।१२-०९३।१४] उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति कोऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् । [०९३।१४-०९३।१५] उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति । [०९३।१५-०९३।१६] यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् । [०९३।१६-०९३।१७] एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः । [०९३।१७] यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् । [०९३।१७-०९३।१८] किं च पुनः स्यात् । [०९३।१८] वैभाषिकपक्षः पालितः स्यात् । [०९३।१८-०९३।१९] देवता एनं पालयिष्यन्ति पालनीयं चेत्मंस्यते । [०९३।१९] अभूतं तु परिकल्पितं स्यात् । किं कारणम् । [०९३।१९-०९३।२०] नहि तस्य रूपवेदनादिवत्स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म । [०९३।२०-०९३।२१] अमुष्य च वस्तुनोऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते । [०९३।२१-०९३।२२] नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् । [०९३।२२] प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति । [०९३।२२-०९३।२३] भावान्तरत्वेऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते । [०९३।२४] तस्य तर्हि प्राप्तिनियमे को हेतुः । [०९३।२४-०९३।२५] "दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि"त्युक्तं सूत्रे । [०९३।२५] तत्र कथमभावस्य प्राप्तिः स्यात् । [०९३।२५-०९३।२६] प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात्प्राप्तं निर्वाणमित्युच्यते । [०९३।२६-०९३।२७] आगमश्चाप्यभावमात्रं द्योतयति । [०९३।२७] एवं ह्याह । [०९३।२७-०९४।०१] "यत्स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमोऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादोऽप्रादुर्भावः । [०९४।०१-०९४।०२] एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण" मिति । [०९४।०२-०९४।०३] किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतोऽप्रादुर्भाव इति । [०९४।०३] असमर्थामेतां सप्तमीं पश्यामः । किमुक्तं भवति । [०९४।०४-०९४।०५] नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् । [०९४।०५-०९४।०६] अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः । [०९४।०६-०९४।०७] अयं च दृष्टान्त एवं सूपनीतो भवति । [०९४।०८] "प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस" इति । [०९४।०९] यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतोऽपि चेतसो विमोक्ष इति । [०९४।०९-०९४।१०] अभिधर्मेऽपि चोक्तम् "अवस्तुका धर्माः कतमे । [०९४।१०] असंस्कृता धर्मा" इति । [०९४।१०-०९४।११] अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति । [०९४।११] नास्यायमर्थः । [०८९।४११-०९४११] कस्तर्हि । [०९४।११] पञ्चविधवस्तु । [०९४।११-०९४।१२] स्वभाववस्तु यथोक्तं "यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने"ति । [०९४।१२] आलम्बनवस्तु । [०९४।१२-०९४।१३] यथोक्तं "सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे"ति । [०९४।१३] संयोगवस्तु । [०९४।१३-०९४।१४] यथोक्तं "यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मिन्नि"ति । [०९४।१४-०९४।१५] हेतुवस्तु यथोक्तं "सवस्तुका धर्माः कतमे । [०९४।१५] संस्कृता धर्मा" इति ॥ परिग्रहवस्तु । [०९४।१५-०९४।१६] यथोक्तं "क्षत्रवस्तु गृहवस्त्वि"ति । [०९४।१६-०९४।१७] तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः । [०९४।१७] तस्य तु हेतुफले न विद्येते इति । गतं तावदेतत् । [०९४।१८] अथैषां फलानां कतमत्फलं कस्य हेतोः । [०९४।१९] विपाकफलमन्त्यस्य [०९४।२०] विपाकहेतुरन्त्येऽभिहितत्वातन्त्यः । तस्य विपाकफलम् । [०९४।२१] पूर्वस्याधिपतं फलम् । [०९४।२२] कारणहेतुः पूर्वमुक्तत्वात्पूर्वः । तस्याधिपजं फलम् । [०९४।२२-०९४।२३] अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् । [०९४।२३-०९४।२४] एतदेव अङ्गीभावोऽपि चास्ति कारणहेतोस्तद्यथा "पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् । [०९४।२४-०९४।२५] श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् । [०९४।२५-०९४।२६] श्रुत्वा द्रष्टुकामतोत्पत्ते" रित्येवमादि योज्यम् । [०९४।२७] सभाग सर्वत्रगयोर्निष्यन्दः [०९४।२८] सदृशफलत्वादनयोर्निःष्यन्दफलम् । [०९५।०१] पौरुषं द्वयोः ॥ २.५६ ॥ [०९५।०२] सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् । पुरुषभावव्यतिरेकात्पुरुषकारः पुरुषमेव । [०९५।०३] तस्य फलं पौरुषम् । कोऽयं पुरुषकारो नाम । यस्य धर्मस्य यत्कारित्रम् । [०९५।०४] पुरुषकार इव हि पुरुषकारः । तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति । [०९५।०५] किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव । [०९५।०५-०९५।०६] अन्येषामप्यस्त्यन्यत्र विपाकहेतोः । [०९५।०६-०९५।०७] यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति । [०९५।०७] न चैवं विपाकः । तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् । [०९५।०७-०९५।०८] यथा कर्षकाणां सस्यमित्यपरे । [०९५।०९] किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् । [०९५।१०] विपाकोऽव्याकृतो धर्मः । [०९५।११] अनिवृताव्याकृतो हि धर्मः विपाकः । असत्त्वाख्योऽपि स्यादत आह । [०९५।१२] सत्त्वाख्यः [०९५।१३] औपचयिकोऽपि स्यात्नैःष्यन्दिकोऽप्यताह । [०९५।१४] व्याकृतोद्भवः । [०९५।१५] कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् । [०९५।१५-०९५।१६] तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः । [०९५।१६] एतद्विपाकस्य लक्षणम् । [०९५।१६-०९५।१७] कस्मादसत्त्वाख्योऽर्थः कर्मजो न विपाकः । [०९५।१७] साधारणत्वात् । अन्योऽपि हि तत्तथैव परिभोक्तुं समर्थः । [०९५।१८] असाधारणस्तु विपाकः । नह्यन्यकृतस्य कर्मणोऽन्यो विपाकं प्रतिसंवेदयते । [०९५।१८-०९५।१९] अधिपतिफलं कस्मात्प्रतिसंवेदयते । [०९५।१९] साधारणकर्मसंभूतत्वात् । [०९५।२०] निःष्यन्दो हेतुसदृशः । [०९५।२१] हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् । तद्यथा सभागसर्वत्रगहेत्वोः । [०९५।२१-०९५।२२] यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते । [०९५।२२-०९५।२३] यस्मात्भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः । [०९५।२३-०९५।२४] यस्य तु प्रकारतोऽपि सादृश्यं सोऽभ्युपगम्यत एव सभागहेतुः । [०९५।२४-०९५।२५] अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते । [०९५।२५] प्रथमा कोटिरसर्वत्रगः सभागहेतुः । [०९५।२५-०९५।२६] द्वितीयाऽन्यनैकायिकः सर्वत्रगहेतुः । [०९५।२६] तृतीयैकनैकायिकः सर्वत्रगहेतुः । [०९५।२६-०९५।२७] चतुर्थ्यतानाकारान्स्थापयित्वेति । [०९६।०१] विसंयोगः क्षयो धिया ॥ २.५७ ॥ [०९६।०२] क्षयो निरोधः । धीः प्रज्ञा । तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति । [०९६।०३] यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् । [०९६।०४-०९६।०५] तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि । [०९६।०५-०९६।०६] प्रतिसंख्यानिरोधस्तु यद्वलात्प्राप्यत इति वक्तव्यम् । [०९६।०७-०९५।६०७] अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥ [०९६।०८] पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् । [०९६।०८-०९६।०९] पुरुषाधिपतिफलयोः किं नाना कारणम् । [०९६।०९] कर्तुः पुरुषकारफलम् । अकर्तुरप्यधिपतिफलम् । [०९६।१०] तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च । अन्येषामधिपतिफलमेव । [०९६।११] अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा । [०९६।१२] वर्तमानाः फलं पञ्च गृह्णन्ति [०९६।१३] नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् । कारणहेतुरप्येवम् । [०९६।१३-०९६।१४] स तु नावश्यं सफल इति नोच्यते । [०९६।१५] द्वौ प्रयच्छतः । [०९६।१६] सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः । [०९६।१६-०९६।१७] समानकालमेव ह्यनयेः फलदानग्रहणम् । [०९६।१८] वर्त्तमानाभ्यतीतौ द्वौ [०९६।१९] फलं प्रयच्छतः सभागसर्वत्रगहेतू । युक्तं तावद्यदतीताविति । [०९६।१९-०९६।२०] अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः । [०९६।२०] समनन्तरनिवर्त्तनात् । [०९६।२०-०९६।२१] निवृत्ते तु फले तौ चाभ्यतीतौ भवतः । [०९६।२१] फलं चापि दत्तं न पुनस्तदेव दत्तः । [०९६।२१-०९६।२२] अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः । [०९६।२२-०९६।२३] प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति । [०९६।२३-०९६।२४] द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते । [०९६।२४] एवं तु वक्तव्यम् । [०९६।२४-०९६।२५] स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु । [०९६।२५] चतुर्थ्यतानाकारान् स्थापयित्वा । [०९६।२६] अकुशलस्य तु प्रथमा कोटिः । [०९६।२६-०९६।२८] कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात्परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । [०९६।२८] एवं तु वक्तव्यम् । [०९६।२८-०९६।२९] स्यात्ता एव परिहीयमाणस्य । [०९६।२९] तृतीया कामावीतरागस्य शेषास्ववस्थासु । [०९६।२९-०९७।०१] चतुर्थ्यतानाकारान् स्थापयित्वा । [०९७।०१-०९७।०२] एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् । [०९७।०२] अनिवृताव्याकृतस्य पश्चात्पादकः । [०९७।०२-०९७।०३] यास्तावत्ददाति प्रतिगृह्णात्यपि सः । [०९७।०३] स्यात्प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः । [०९७।०३-०९७।०४] सालम्बननियमेन तु क्षणशः । [०९७।०४] कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति । चतुष्कोक्टिकः । [०९७।०५] प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति । [०९७।०६] द्वितीया विपर्ययात् । तृतीया कुशलचित्तानन्तरं कुशलमेव । [०९७।०६-०९७।०७] चतुर्थ्यतानाकारान् स्थापयित्वा । [०९७।०७] एवमकुशलादयोऽपि योज्याः । कथं पुनः फलं प्रतिगृहीतं भवति । [०९७।०८] तस्य बीजभावोपगमात् । [०९७।०९] एकोऽतीतः प्रयच्छति ॥ २.५९ ॥ [०९७।१०] विपाकहेतुरतीत एव फलं प्रयच्छति । यस्मान्न सह वा समनन्तरो वाऽस्ति विपाकः । [०९७।११] पुनरन्ये चतुर्विधं फलमाहुः । प्रतिष्ठाफलम् । [०९७।११-०९७।१२] यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः । [०९७।१२] प्रयोगफलम् । यथाऽशुभाया यावदनुत्पादज्ञानम् । [०९७।१३] सामग्रीफलम् । यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि । भावनाफलम् । [०९७।१३-०९७।१४] यथा रूपावचरस्य चित्तस्य निर्माणम् । [०९७।१४-०९७।१५] एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् । [०९७।१५] उक्ता हेतवः फलानि च ॥ [०९७।१६-०९७।१७] तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः । [०९७।१७-०९७।१८] के पुनः शेषाः । [०९७।१८] विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति । [०९७।१८-०९७।१९] एते चतुर्विधा धर्माः । [०९७।२०-०९७।२१] क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् । विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥ [०९७।२२] क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते । [०९७।२२-०९७।२३] विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव । [०९७।२३-०९७।२४] शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते । [०९७।२४-०९७।२५] प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते । [०९७।२६] कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह [०९७।२७] चित्तचैत्ताः [०९७।२८] अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह । [०९७।२९] तथाऽन्येऽपि संप्रयुक्तकवर्जिताः । [०९७।३०-०९८।०१] प्रयुक्तकहेतुनैकेन वर्जिताः अन्येऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः । [०९८।०१] तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च । [०९८।०१-०९८।०२] शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् । [०९८।०२] एकहेतुसंभूतो नास्ति धर्मः ॥ समाप्तो हेतुविस्तरः ॥ [०९८।०३] प्रत्ययाः कतमे । [०९८।०४] चत्वारः प्रत्यया उक्ताः [०९८।०५] क्ववोक्ताः । सूत्रे । "चतस्रः प्रत्ययताः । [०९८।०५-०९८।०६] हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे"ति । [०९८।०६] प्रत्ययजातिः प्रत्ययता । तत्र [०९८।०७] हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥ [०९८।०८] कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः । [०९८।०९] चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः । [०९८।१०] अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः । [०९८।१०-०९८।११] समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः । [०९८।११] अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः । [०९८।१२-०९८।१३] तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित्कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः । [०९८।१४-०९८।१५] अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः । [०९८।१५] अल्पबहुतरोत्पत्तेरिति भदन्तः । [०९८।१५-०९८।१६] कदाचिद्धि महतो रूपादल्पमुत्पद्यते । [०९८।१६] तद्यथा पलालराशेर्भस्म । कदाचिदल्पाद्वहूत्पद्यते । [०९८।१६-०९८।१७] तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति । [०९८।१७-०९८।१८] ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः । [०९८।१८-०९८।१९] कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये । [०९८।१९] अस्ति जात्यन्तरं प्रति न स्वजातिम् । [०९८।१९-०९८।२०] नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा । [०९८।२०-०९८।२१] किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति । [०९८।२१] नैतदस्ति । [०९८।२१-०९८।२२] सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात्प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् । [०९८।२३] सन्तानसभागिकास्तु मन्यन्ते "स्वजातेरेव समनन्तरप्रत्ययः । [०९८।२३-०९८।२४] तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे"ति विस्तरः । [०९८।२४-०९८।२६] यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति । [०९८।२६] तदेतन्न वत्स्र्यते । [०९८।२६-०९८।२७] प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत्चित्तविप्रयुक्ता अपि संस्काराः । [०९८।२७-०९८।२९] अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत्संमुखीभावात् । [०९८।२९] कस्मादनागतो नेष्यते समनन्तरप्रत्ययः । [०९८।२९-०९९।०१] व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरताऽभावात् । [०९९।०१-०९९।०२] कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति । [०९९।०२] अतीतसांप्रतानुमानात् । [०९९।०२-०९९।०३] अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः । [०९९।०४] इदं चापि संप्रत्येवञ्जातीयकं कर्म । [०९९।०४-०९९।०५] तस्मादतोऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति । [०९९।०५] नचान्यत्ज्ञानमानुमानिकं भवति । [०९९।०५-०९९।०७] यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति । [०९९।०७-०९९।०८] एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वाऽपरान्तं न जानीयात् । [०९९।०८] अन्ये पुनराहुः । [०९९।०८-०९९।१०] फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषोऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति । [०९९।१०-०९९।११] नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी । [०९९।११] तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः । [०९९।१२] "अचिन्त्यो हि बुद्धानां बुद्धिविषय" इत्युक्तं भगवता । [०९९।१२-०९९।१३] अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः । [०९९।१४] एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति । [०९९।१५] यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते । [०९९।१५-०९९।१६] तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति । [०९९।१६] कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः । [०९९।१७] अन्यचित्तासंबन्धनात् । [०९९।१७-०९९।१८] ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात्मनोऽपि चरमं चित्तं न प्राप्नोति । [०९९।१८-०९९।१९] आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः । [०९९।१९-०९९।२०] कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति । [०९९।२०-०९९।२१] कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते । [०९९।२१-०९९।२२] ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते । [०९९।२२] चतुष्कोटिकः । [०९९।२२-०९९।२३] प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः । [०९९।२३-०९९।२४] द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः । [०९९।२४-०९९।२५] तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था । [०९९।२५-०९९।२६] चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च । [०९९।२६-०९९।२७] ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते । [०९९।२७] चतुष्कोटिकः । [०९९।२७-१००।०१] ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये । [१००।०१-१००।०२] कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते । [१००।०२] चित्तान्तराव्यवहितत्वात् ॥ उक्तःः समनन्तरप्रत्ययः ॥ [१००।०३] आलम्बनं सर्वधर्माः । [१००।०४] यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् । श्रोत्रविज्ञानस्य शब्दः । [१००।०४-१००।०५] ग्राणविज्ञानस्य गन्धः । [१००।०५] जिह्वाविज्ञानस्य रसः । कायविज्ञानस्य स्प्रष्टव्यम् । [१००।०५-१००।०६] मन्नोविज्ञानस्य सर्वधर्माः । [१००।०६] यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्। [१००।०७] अनालम्ब्यमानोऽपि तथालक्षणत्वाद् । [१००।०७-१००।०८] यथाऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति । [१००।०८-१००।०९] त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः । [१००।०९] किमाश्रयनियमेनापि नियताः । ओमित्याह । [१००।०९-१००।१०] उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः । [१००।१०] अतीता अप्याश्रयसहिता इत्यपरे ॥ [१००।११] उक्त आलम्बनप्रत्ययः ॥ [१००।१२] कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥ [१००।१३] य एव कारणहेतुः स एवा धिपतिप्रत्ययः । [१००।१३-१००।१४] अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्ययः । [१००।१४-१००।१५] आलम्बनप्रत्ययोऽपि सवन्धर्माः अधिपतिप्रत्ययोऽपीति किमस्त्याधिक्यम् । [१००।१५] न जातु सहभुवो धर्मा आलम्बनं भवन्ति । [१००।१५-१००।१६] भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् । [१००।१६] अधिकस्य वा प्रत्ययः । [१००।१६-१००।१७] सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य । [१००।१७] स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः । [१००।१७-१००।१८] स्यात्स्वभावः स्वभावस्य परभावोऽपि । [१००।१८] स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य । [१००।१९-१००।१८] अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति । [१००।१९-१००।२०] हेतुप्रत्ययस्तावत्पञ्चविध उक्तः । [१००।२०] तत्र [१००।२१] निरुध्यमाने कारित्रं द्वी हेतू कुरुतः । [१००।२२] निरुध्यमानं नाम वर्क्तमानम् । निरोधाभिमुखत्वात् । [१००।२२-१००।२३] तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः । [१००।२३] सहोत्पन्नेऽपि फले तयोर्व्यापारः । [१००।२४] त्रयः । [१००।२५] जायमाने [१००।२६] जायमानं नामानागतमुत्पादाभिमुखम् । [१००।२६-१००।२७] तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति । [१००।२७] एवं तावद्धेतुप्रत्ययः । [१०१।०१] ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥ [१०१।०२-१०१।०३] येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ । [१०१।०३-१०१।०४] समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् । [१०१।०४] आलम्बनप्रत्ययो निरुध्यमाने । वर्त्तमानैश्चित्तचैतैर्ग्रहणात् । [१०१।०४-१०१।०५] अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥ [१०१।०६] उक्ताः सकारित्राः प्रत्ययाः ॥ [१०१।०७] अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते । [१०१।०८] चतुर्भिश्चत्तचैत्ता हि [१०१।०९] तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः । [१०१।०९-१०१।१०] समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः । [१०१।१०] आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च । [१०१।१०-१०१।११] अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः । [१०१।१२] समापत्तिद्वयं त्रिभिः । [१०१।१३] निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति । नहि ते आलम्बिके । [१०१।१३-१०१।१४] हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः । [१०१।१४-१०१।१५] सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः । [१०१।१५] समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् । [१०१।१५-१०१।१६] अधिपतिप्रत्ययः पूर्ववत् । [१०१।१६] चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे । [१०१।१६-१०१।१७] चित्तोत्पत्तिविबन्धकत्वात्न समनन्तरप्रत्ययः । [१०१।१८] द्वाभ्यामन्ये तु जायन्ते [१०१।१९-१०१।२०] अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव । [१०१।२०-१०१।२१] आह तु "प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति । [१०१।२१] कोऽत्र हेतुः । यदि खलु हेतुकृतां सिद्धिं मन्यसे । [१०१।२२] ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति । [१०१।२३] अपिच [१०१।२४] नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥ [१०१।२५] यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् । [१०१।२६] दृश्यते च भावानां क्रमसंभवः । [१०१।२६-१०१।२७] स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति । [१०१।२७] च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् । [१०१।२७-१०२।०१] स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् । [१०२।०१-१०२।०२] कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् । [१०२।०२-१०२।०४] तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् । [१०२।०४-१०२।०५] योगपद्येऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् । [१०२।०५] यथाच्छन्दमुत्पादनादि ति चेत् । न । [१०२।०५-१०२।०६] तेषां पश्चाद्विशेषाभावात् । [१०२।०६] कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः । [१०२।०६-१०२।०८] यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् । [१०२।०८-१०२।०९] यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमोऽस्तु तस्मै तादृशायेश्व्राय । [१०२।०९] सुगीतश्चायं तमारभ्य श्लोको भवति । [१०२।१०] "यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । [१०२।११] मांसशोणितमज्जादो यत्ततो रुद्र उच्यत" इति । [१०२।१२-१०२।१३] एकं खल्वपि जगतः कारणं परिगृह्णताऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् । [१०२।१३] सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् । [१०२।१४] कारणेभ्योऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् । [१०२।१४-१०२।१५] सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् । [१०२।१५] अथादिसर्ग ईश्वरहेतुकः । [१०२।१५-१०२।१६] तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग । [१०२।१६] एवं प्रधानेऽपि यथायोगं वाच्यम् । [१०२।१६-१०२।१७] तस्मान्न लोकस्यैकं कारणमस्ति । [१०२।१७] स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति । [१०२।१७-१०२।१८] अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति । [१०२।१९] गतमेतद्यत्तु खलु तदुक्तं "द्वाभ्यामन्ये तु जायन्त" इति । [१०२।२०] अथ कथं भूतानि भूतानां हेतुप्रत्ययः । [१०२।२१] द्विधा भूतानि तद्धेतुः [१०२।२२] भूतहेतुरित्यर्थः । सभागसहभूहेतुभ्यां [१०२।२३] भौतिकस्य तु पञ्चधा । [१०२।२४] भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः । कथम् । [१०२।२५] "जननान्निःश्रयात्स्थानादुपस्तम्भोगवृंहणात्" [१०२।२६] सोऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः । [१०२।२६-१०२।२७] जननहेतुस्तेभ्य उत्पत्तेः । [१०२।२७-१०२।२८] निश्रयहेतुर्जातस्य भूतानुविधायित्वात्पुरुषकारफलादाचार्यादिनिःश्रयवत् । [१०२।२८] प्रतिष्ठाहेतुराधारभावात् । चित्रकृत्यवत् । [१०३।०१] उपस्तम्भहेतुरनुच्छेदहेतुत्वात् । [१०३।०१-१०३।०२] एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति । [१०३।०३] त्रिधा भौतिकमन्योन्यम् । [१०३।०४] हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात्न सर्वदा गण्यते । [१०३।०४-१०३।०५] तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म । [१०३।०५] नान्यदुपादायरूपम् । [१०३।०५-१०३।०६] सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य । [१०३।०६] विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः । [१०३।०७] भूतानामेकधैव तत् ॥ २.६५ ॥ [१०३।०८] भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः । [१०३।०९-१०३।१०] अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति । [१०३।१०] स इदानीं वक्तव्यः । [१०३।१०-१०३।११] तत्र तावत्समासेन द्वादश चित्तानि । [१०३।११] किमर्थमित्याह [१०३।१२] कुशलाकुशलं कामे निवृतानिवृतं मनः । [१०३।१३] कामधातौ चत्वारि चित्तानि । [१०१।१३] कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च । [१०३।१४] रूपारूप्येष्वकुशलादन्यत्र [१०३।१५] रूपधातावकुशलं नास्ति । त्रीणि सन्ति । एवमारूप्यधातौ । [१०३।१५-१०३।१६] इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति । [१०३।१७] अनास्रवं द्विधा ॥ २.६६ ॥ [१०३।१८] शैक्षमशैक्षं च । एवमेतानि द्वादश चित्तानि भवन्ति । तत्र [१०३।१९] कामे नव शुभाच्चित्ताच्चित्तानि [१०३।२०] अनन्तरमिति पश्चाद्वक्ष्यति । [१०३।२०-१०३।२१] कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते । [१०३।२१] स्वभूमिकानि चत्वारि । रूपावचरे द्वे । [१०३।२१-१०३।२२] समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् । [१०३।२२] आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले । [१०३।२२-१०३।२३] अतिविप्रकृष्टत्वात्न कुशलम् । [१०३।२३] आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे । [१०३।२३-१०३।२४] आश्रयाकारालम्बनप्रतिपक्षदूरताभिः । [१०३।२४] शैक्षमशैक्षं चेति । [१०३।२५] अष्टाभ्य एव तत् । [१०३।२६] तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते । [१०३।२६-१०३।२७] स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् । [१०३।२७] कुशलाच्च व्युत्थानकाले । [१०३।२७-१०३।२८] निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् । [१०३।२८] शैक्षाशैक्षाभ्यां च व्युत्थानकाले । [१०४।०१] दशभ्योऽकुशलं [१०४।०२-१०४।०३] शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते । [१०४।०४] तस्माच्चत्वारि । [१०४।०५] अकुशलाच्चित्तात्समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव । [१०४।०५-१०४।०६] यथाऽकुशलमुक्तं कामधातौ [१०४।०७] निवृतं तथा ॥ २.६७ ॥ [१०४।०८] दशभ्य एव समनन्तरम् । तस्माच्च पुनश्चत्वार्येव । [१०४।०९] पञ्चभ्योऽनिवृतं [१०४।१०] काम इति वर्त्तते । अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते । [१०४।१०-१०४।११] स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् । [१०४।१२] तस्मात्सप्त चित्तान्यनन्तरम् । [१०४।१३] अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि । रूपावचरे द्वे । [१०४।१३-१०४।१४] कुशलं निर्माणचित्तादनन्तरम् । [१०४।१४] क्लिष्टं प्रतिसन्धिकाले । [१०४।१४-१०४।१५] आरूप्यावचरं च क्लिष्टं प्रतिसन्धिकाल एव । [१०४।१६] रूपे दशैकं च शुभात् [१०४।१७] रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते । [१०४।१७-१०४।१८] आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा । [१०४।१९] नवभ्यस्तदनन्तरम् ॥ २.६८ ॥ [१०४।२०] रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते । [१०४।२०-१०४।२१] कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा । [१०४।२२] अष्टाभ्यो निवृतं [१०४।२३] निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते । [१०४।२३-१०४।२४] कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा । [१०४।२५] तस्मात्षट् [१०४।२६] रूपावचरान्निवृताव्याकृतादनन्तरं षट् । [१०४।२६-१०४।२७] स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा । [१०४।२८] त्रिभ्योऽनिवृतं पुनः । [१०४।२९] रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव । [१०५।०१] तस्मात्षट् [१०५।०२] स्वभूमिकानि त्रीणि । कामावचरे च क्लिष्टे । आरूप्यावचरं च । [१०५।०२-१०५।०३] यथा रूपधातावनिवृताव्याकृतमुक्तम् । [१०५।०४] एवमारूप्ये तस्य नीतिः । [१०५।०५] ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः । [१०५।०५-१०५।०६] तस्मादपि च षडेवोत्पद्यन्ते । [१०५।०६] स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि । [१०५।०७] शुभात्पुनः ॥ २.६९ ॥ [१०५।०८] नव चित्तानि [१०५।०९] आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते । [१०५।०९-१०५।१०] कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा । [१०५।११] तत्षण्णां [१०५।१२] आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात्कुक्शलाच्छैक्षाशैक्षाभ्यां च । [१०५।१३] निवृतात्सप्त [१०५।१४-१०५।१५] आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् । [१०५।१६] तत्तथा । [१०५।१७] तदपि सप्तभ्य एवोत्पद्यते । कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा । [१०५।१८] चतुर्भ्यः शैक्षम् । [१०५।१९] त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च । [१०५।२०] अस्मात्तु पञ्च [१०५।२१] तान्येव चत्वार्यशैक्षं च । [१०५।२२] अशैक्षं तु पञ्चकात् ॥ २.७० ॥ [१०५।२३] अत एवानन्तरोक्तात् । [१०५।२४] तस्माच्चत्वारि चित्तानि [१०५।२५] तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते । [१०५।२५-१०५।२६] त्रैधातुकानि कुशलान्यशैक्षं च ॥ [१०५।२६] समाप्तानि द्वादश चित्तानि ॥ [१०५।२७] पुनः क्रियन्ते [१०६।०१] द्वादशैतानि विंशतिः । [१०६।०२] कथं कृत्वा । [१०६।०३] प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥ [१०६।०४] त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते । प्रायोगिकं चोपपत्तिलाभिकं च [१०६।०५] विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् । [१०६।०६] चतुर्धाऽव्याकृतं कामे [१०६।०७] भित्त्वेति वर्त्तते । कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते । [१०६।०७-१०६।०८] विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च । [१०६।०९] रूपे शिल्पविवर्जितम् ॥ २.७२ ॥ [१०६।१०] रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा । तत्र शिल्पाभावात् । [१०६।१०-१०६।११] एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति । [१०६।११-१०६।१२] षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते । [१०६।१२] ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति । [१०६।१३] रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् । शैल्पस्थानिकस्य तु शब्दोऽपि । [१०६।१३-१०६।१४] एतानि मनोविज्ञानान्येव । [१०६।१४] पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः । [१०६।१५-१०६।१६] ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे । [१०६।१७] एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् । [१०६।१७-१०६।१८] कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते । [१०६।१८-१०६।१९] स्वभूमिकानि सप्ताऽन्यत्राभिज्ञाफलात् । [१०६।१९] रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च । तत्पुनरष्टचित्तानन्तरम् । [१०६।१९-१०६।२०] स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [१०६।२०-१०६।२१] उपपत्तिप्रतिलम्भिकानन्तरं नव । [१०६।२१-१०६।२२] स्वभूमिकानि सप्तऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे । [१०६।२२] तत्पुनरेकादशानन्तरम् । [१०६।२२-१०६।२३] स्वेभ्यः सप्तभ्यः पूर्ववत्रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [१०६।२३] अकुशल निवृत्ताव्याकृतानन्तरं सप्त । [१०६।२४] स्वान्येव पूर्ववत् । ते पुनश्चतुर्दशचित्तानन्तरम् । [१०६।२४-१०६।२५] स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्योऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् । [१०६।२५-१०६।२६] आरुप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् । [१०६।२६] ऐर्यापथिकविपाकजानन्तरमष्टौ । [१०६।२६-१०६।२७] स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे । [१०६।२७-१०६।२८] ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् । [१०६।२८] शैल्पस्थानिकानन्तरं षट् । स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् । [१०६।२९] तत्पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् । [१०७।०१] अभिज्ञाफलानन्तरं द्वे । स्वं चाभिज्ञाफलमेव । रूपावचरं च प्रायोगिकम् । [१०७।०१-१०७।०२] तदप्यस्मादेव द्वयात् । [१०७।०३] रूपावचराणामिदानीं षण्णां वक्षामः । प्रायोगिकानन्तरं द्वादश । [१०७।०३-१०७।०५] कामावचरे कुशले अभिज्ञाफलं च स्वानि षटारुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च । [१०७।०५] तत्पुनर्दशचित्तानन्तरम् । [१०७।०५-१०७।०७] कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्योऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [१०७।०७] उपपत्तिप्रतिलम्भिकानन्तरमष्टौ । [१०७।०७-१०७।०८] कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलातारुप्यावचरं क्लिष्टम्। [१०७।०८-१०७।०९] तत्पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् । [१०७।०९] क्लिष्टानन्तरं नव । [१०७।०९-१०७।१०] कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् । [१०७।१०] तत्पुनरेकादशचित्तानन्तरम् । [१०७।११-१०७।१२] कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्योऽन्यत्राभिज्ञाफलातारूप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् । [१०७।१२-१०७।१३] ऐर्यापथिकानन्तरं सप्त । [१०७।१३-१०७।१४] कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् । [१०७।१४-१०७।१५] तत्पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् । [१०७।१५] एवं विपाकजं वक्तव्यम् । अभिज्ञाफलानन्तरं द्वे । [१०७।१५-१०७।१६] स्वे एव प्रायोगिकाभिज्ञाफले । [१०७।१६] तदप्याभ्यामेव । [१०७।१७] आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः । प्रायोगिकानन्तरं सप्त । [१०७।१७-१०७।१८] रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च । [१०७।१८] तत्पुनः षट्चित्तानन्तरम् । [१०७।१८-१०७।१९] रूपावचरात्प्रायोगिकात्स्वेभ्यस्त्रिभ्योऽन्यत्र वीपाकजात्शैक्षाशैक्षाभ्यां च । [१०७।१९-१०७।२०] उपपत्तिप्रातिलम्भिकानन्तरं सप्त । [१०७।२०] स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि । [१०७।२०-१०७।२१] तत्पुनश्चतुर्भ्यः स्वेभ्य एव । [१०७।२१] क्लिष्टानन्तरम्ष्टौ । [१०७।२१-१०७।२२] स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे । [१०७।२२] तत्पुनर्दशानन्तरम् । [१०७।२२-१०७।२३] स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः । [१०७।२३] विपाकजानन्तरं षट् । [१०७।२४] स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि । [१०७।२४-१०७।२५] तत्पुनश्चतुर्भ्यः स्वेभ्य एव । [१०७।२५] शैक्षानन्तरं षट् । [१०७।२५-१०७।२६] त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च । [१०७।२६] तत्पुनश्चतुर्भ्यः । [१०७।२६-१०७।२७] प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च । [१०७।२७] अशैक्षानन्तरं पञ्च । यथा शैक्षानन्तरं शैक्षमेकं हित्वा । [१०७।२७-१०७।२८] तत्पुनः पञ्चभ्यः । [१०७।२८] त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति । [१०८।०१-१०८।०२] किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् । [१०८।०२-१०८।०३] ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि । [१०८।०३-१०८।०४] निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः । [१०८।०४-१०८।०५] एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते । [१०८।०५] विगुणत्वात् । [१०८।०५-१०८।०६] तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः । [१०८।०६-१०८।०७] कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात्शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते । [१०८।०७-१०८।०८] अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते । [१०८।०८-१०८।०९] रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते । [१०८।०९] पटुत्वात् । [१०८।०९-१०८।१०] आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यतेऽपटुत्वादिति ॥ [१०८।११] त्रयो मनस्काराः ॥ स्वलक्षणमनस्कारः । [१०८।११-१०८।१२] तद्यथा "रूपणालक्षणं रूप"मित्येवमादि । [१०८।१२] सामान्यलक्षणमनस्कारः । षोडशाकारसंप्रयुक्तः । [१०८।१२-१०८।१३] अधिमुक्तिमनस्कारः । [१०८।१३-१०८।१४] अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु । [१०८।१४-१०८।१६] त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारमेवं सति युतमिदं भवति "अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती"ति । [१०८।१६] सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति । तस्मात्तु त्रिविधमित्यपरे । [१०८।१७] अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति । [१०८।१८] अतः पारंपर्यमभिसंधायोक्तम् "अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती"ति । [१०८।१९] आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे । [१०८।१९-१०८।२१] स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् । [१०८।२१] अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् । [१०८।२१-१०८।२२] नहि कामावचरः शक्योऽतिविप्रकृष्टत्वात् । [१०८।२२-१०८।२३] नच तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् । [१०८।२३] नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति । [१०८।२३-१०८।२४] नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्योऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति । [१०८।२५-१०८।२६] तद्यथा "सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण"मिति तत्संमुखी करिष्यति । [१०८।२६] तदेतन्न वर्णयन्ति । [१०८।२६-१०८।२७] अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् । [१०८।२७-१०८।२८] आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा । [१०८।२८] शेषासु स्वभूमिकमेव । [१०८।२८-१०८।२९] कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः । [१०८।२९] भावनामयो नास्ति । [१०८।३०] रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः । चिन्तामयो नास्ति । [१०८।३०-१०८।३१] यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते । [१०८।३१-१०९।०१] आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ । [१०९।०१-१०९।०२] तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावोऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः । [१०९।०२] प्रयोगप्रतिबद्धत्वात् । [१०९।०२-१०९।०३] मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः । [१०९।०३] पटुत्वादिति ॥ [१०९।०४] यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः । [१०९।०५] क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः [१०९।०६] कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः । [१०९।०६-१०९।०७] तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च । [१०९।०८-१०९।०९] अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्परिहाणितश्च । [१०९।०९] आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च । [१०९।१०] रूपावचरेऽपि क्लिल्ष्टे षण्णां लाभः । [१०९।१०-१०९।११] रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् । [१०९।११-१०९।१२] आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः । [१०९।१२] आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः । [१०९।१२-१०९।१३] परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च । [१०९।१४] शुभे । [१०९।१५] त्रयाणां रूपजे [१०९।१६-१०९।१७] रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः । [१०९।१८] शैक्षे चतुर्णां [१०९।१९] तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य । [१०९।२०] आर्यमार्गेण कामरूपधातुवैराग्ये । [१०९।२१] तस्य शेषिते ॥ २.७३ ॥ [१०९।२२] शेषं कृतं शेषितम् । [१०९।२२-१०९।२३] यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य । [१०९।२३] अन्ये पुनरभेदेनाहुः । [१०९।२४-१०९।२५] "क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः । षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु ॥" [१०९।२६] तत्र सप्तानां कुशले चित्त इति वक्तव्यम् । [१०९।२६-११०।०२] कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात्कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् । [११०।०२] संग्रहश्लोकः । [११०।०३-११०।०४] "उपपत्तिसमापत्तिवैराग्यपरिहाणिषु । कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः" ॥ [११०।०४] इति । [११०।०५] ॥समाप्तः प्रत्ययप्रसङ्गः ॥ ===================================================================== [११०।०६] अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम [११०।०७] द्वितीयं कोशस्थानं [११०।०८] समाप्तमिति । ===================================================================== [११०।०९] श्रीलामावाकस्य ===================================================================== तृतीयं कोशस्थानम् ===================================================================== [१११।०२] ओं नमो दुद्धाय । [१११।०३] इदमिदानीं वक्तव्यम् । कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः । [१११।०३-१११।०४] तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते [१११।०५] नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः । [१११।०६] कामधातुः [१११।०७] चतस्रो गतयः । [१११।०७-१११।०९] षट्च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन । [१११।०९] स एष कति स्थानानीत्याह [१११।१०] स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥ [१११।११] स्थानानीति वाक्यशेषः संबध्यते । अष्टौ महानरकाः । [१११।११-१११।१२] संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनोऽवीचिश्चेति । [१११।१२] चत्वारो द्वीपाः । [१११।१२-१११।१३] जम्बूद्वीपः पूर्वविदेहोऽवरगोदानीयः उत्तरकुरुश्च । [१११।१३-१११।१४] षट्चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि । [१११।१४-१११।१५] कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् । [१११।१५] एतस्माच्च कामधातोः [१११।१६] ऊर्ध्वं सप्तदशस्थानो रूपधातुः [१११।१७] कथमित्याह [१११।१८] पृथक्पृथक् [१११।१९] ध्यानं त्रिभूमिकं तत्र [१११।२०] प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि । [१११।२१] चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥ [१११।२२] तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः । [१११।२२-१११।२३] द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः । [१११।२३-१११।२४] तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः । [१११।२४-१११।२५] चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः । [१११।२५-१११।२६] सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः । [१११।२६-१११।२७] ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति । [११२।०१] आरूप्यधातुरस्थानः [११२।०२] नह्यरूपिणां धर्मानां स्थानमस्ति । [११२।०२-११२।०३] अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः । [११२।०३] स तु [११२।०४] उपपत्त्या चतुर्विधः । [११२।०५] उपपत्तिभेदेन चतुर्विध आरूप्यधातुः । [११२।०५-११२।०६] यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति । [११२।०६] नत्वेषां देशकृतमौत्तराधर्य भिद्यते । [११२।०७] यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति । [११२।०७-११२।०८] पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवोऽभिनिर्वर्त्तते । [११२।०९-११२।१०] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते । [११२।११] निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥ [११२।१२] निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः । [११२।१३] रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः । [११२।१४] दुर्बलत्वात् । तस्याः केन बलवत्त्वम् । समापत्तिविशेषजत्वात् । [११२।१४-११२।१५] सा हि समापत्तिर्विभूतरूपसंज्ञा । [११२।१५] तत एव तर्हि बलवत्त्वात्प्रवर्त्तिष्यते किं पुनर्निश्रयेण । [११२।१५-११२।१६] इदं चापि वक्तव्यम् । [११२।१६-११२।१७] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते । [११२।१७] तदेव द्वयमन्योऽन्यम् । [११२।१८] रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् । दुर्बलत्वात्तयोः । [११२।१८-११२।१९] तत्रेदानीं केन बलवत्त्वाम् । [११२।१९] समापत्तिविशेषजत्वात् । [११२।१९-११२।२०] तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा । [११२।२०-११२।२१] तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यं निश्रय इति सौत्रान्तिकाः । [११२।२१-११२।२३] अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः । [११२।२३] हेतोस्तद्विमुखत्वादिति । [११२।२४] अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते । स्वलक्षणधारणाद्धातुः । [११२।२५-११२।२६] कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत्मरिचपानकवच्च । [११२।२६] नात्र रूपमस्तित्यरूपः । [११२।२७] अरूपस्य भाव आरुप्यम् । रूपणीयो वा रूप्यः । [११२।२७-११२।२८] न रूप्योऽरूप्यस्तद्भाव आरूप्यम् । [११२।२८] तत्प्रतिसंयुक्तो धातुरारूप्यधातुः । [११२।२८-११३।०१] कामानां धातुः कामधातुः कामान् यो दधाति । [११३।०१] एवं रूपारूप्यधातू वेदितव्यौ । कोऽयं कामो नाम । [११३।०१-११३।०२] समासातः कवडीकाराहार मैथुनोपसंहितो रागः । [११३।०३-११३।०४] "न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः । तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्" ॥ इति [११३।०५] गाथाभिधानान् । अजीवक आर्यशारिपुत्रं प्रत्याह [११३।०६-११३।०७] "न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् । भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सोऽकुशलान् वितर्कान्" । [११३।०८] आर्यशारिपुत्र आह [११३।०९-११३।१०] ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः । शास्ताऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि"॥ [११३।११-११३।१२] किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः । [११३।१२] नेत्याह । किं तर्हि । येषु कामरूपारुप्यरागा अनुशेरते । [११३।१३] के पुनरमी कामरूपारूप्यरागाः । [११३।१३-११३।१४] ये कामरूपारूप्यधातुष्वनुशेरते । [११३।१४] इदमिदानीं तदश्ववन्धीयम् । कस्यायमश्वबन्धो यस्यायमश्वः । [११३।१४-११३।१५] कस्यायमश्वः । [११३।१५] यस्यायमश्वबन्धः । इत्युभयमपि न ज्ञायते । नेदमश्वबन्धीयम् । [११३।१५-११३।१६] कृतनिर्देशानि हि स्थानानि कामधातौ । [११३।१६] तेष्ववीतरागस्य यो रागः स कामरागः । [११३।१७] यत्रानुशेते सोऽपि धर्मः कामप्रतिसंयुक्तः । [११३।१७-११३।१८] एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ । [११३।१८] असमाहितभूमिको वा रागः कामरागः । [११३।१८-११३।१९] ध्यानारूप्येषु रागो रूपारूप्यरागः । [११३।१९] निर्माणचित्ते कथं कामरागः । [११३।१९-११३।२०] श्रुत्वा परिहाय च तदास्वादनात् । [११३।२०] निर्माणवशेन वा निर्मायक चित्तोऽपि रागः । गन्धरसनिर्माणाद्वा । [११३।२१] तस्य कामवचरत्वम् । रूपावचरेण तयोरनिर्माणात् । किं पुनरेकमेव त्रैधातुकम् । [११३।२२] त्रैधातुकानामन्तो नास्ति । यावदाकाशं तावन्तो धातवः । [११३।२२-११३।२३] अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः । [११३।२३-११३।२४] प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणेऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् । [११३।२५] कथमवस्थानं लोकधतूनाम् । [११३।२५-११३।२७] तिर्यक्सूत्र उक्तं तद्यथा "ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् । [११३।२७-११३।२८] एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च । [११३।२८-११३।२९] यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि"ति । [११३।२९] नतूक्तमूर्ध्वमधश्चेति । [११४।०१] ऊर्ध्वमप्यध्होऽपीत्यपरे । निकायान्तरपाठाद् । अकनिष्ठादूर्ध्वं पुनः कामधातुः । [११४।०२] कामधातोश्चाधः पुनरकनिष्ठाः । यश्चैकस्मात्कामधातोर्वीतरागः स सर्वेभ्यः । [११४।०३] एवं रूपारूप्येभ्यः । [११४।०३-११४।०४] यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् । [११४।०४-११४।०५] य एते त्रयो धातव उक्ताः । [११४।०६] नरकादिस्वनामोक्ता गतयः पञ्च तेषु [११४।०७] नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति । [११४।०७-११४।०८] स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः । [११४।०८] कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः । [११४।०८-११४।०९] रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः । [११४।०९] किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते । [११४।१०] सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः । यास्तु पञ्च गतयः । [११४।११] ताः । [११४।१२] अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥ [११४।१३] अनिवृताव्याकृता एव गतयः । अन्यथा हि गतिसंभेदः स्यात् । [११४।१३-११४।१४] सत्त्वाख्या एव च नचान्तराभवस्वभावाः । [११४।१४-११४।१५] प्रज्ञ्यप्तिपूक्तम् "चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः । [११४।१५] किमसंबृहीतम् । [११४।१६] अन्तराभव" इति । धर्मस्कन्धेऽपि चोक्तम् "चक्षुर्धातुः कतमः । [११४।१६-११४।१८] चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयोऽन्तराभविकश्चे"ति । [११४।१८-११४।१९] सूत्रेऽपि च बहिष्कृतोऽन्तराभवो गतिभ्यः । [११४।१९] कस्मिन् सूत्रे । [११४।१९-११४।२०] "सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव" इति । [११४।२०-११४।२१] अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः । [११४।२१] अथ एव चानिवृताव्याकृताः सिध्यन्ति । [११४।२२] तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् । काश्मीराश्च सूत्रं पठन्ति । [११४।२२-११४।२४] स्थविरशारिपुत्रेणोक्तं "नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति । [११४।२४-११४।२५] तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते । [११४।२६-२२४।२६] निर्वृत्ते विपाके नारक इति संख्यां गच्छति । [११४।२६-११४।२७] तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य" इति । [११४।२७] अतोऽप्यनिवृताव्याकृता एव गतयः । [११४।२७-११५।०१] प्रकरणाग्रन्थस्तर्हि परिहार्यो "गतिषु सर्वेऽनुशया अनुशेरत" इति । [११५।०१-११५।०२] प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव । [११५।०२-११५।०३] ग्रामग्रहणे ग्रामोपचार ग्रहणवत् । [११५।०३] कुशलक्लिष्टा अपीत्यपरे । [११५।०३-११५।०४] यक्तूक्तम् "कर्मभवस्य ताभ्यो बहिष्करणा"दिति । [११५।०४] नावश्यं पृथग्वचनाद्बहिष्कृतो भवति । [११५।०४-११५।०५] तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ । [११५।०५] न च दृष्टयो न क्लेशाः । [११५।०५-११५।०६] एवं कर्मभवोऽपि गतिश्च स्यात् । [११५।०६] पृथक्चास्य वचनं स्यात्गतिहेतुज्ञापनाऋथम् । [११५।०७] अन्तराभवेऽप्येष प्रसङ्गः । नायोगात् । गच्छन्ति तामिति गतिः । [११५।०७-११५।०८] नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् । [११५।०८] आरूप्या अपि गतिर्न भविष्यन्ति । [११५।०९-०१५।०९] च्युतिदेश एवोत्पादात् । [११५।०९-११५।१०] एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् । [११५।१०] यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् । [११५।१०-११५।११] यतर्हि स्थविरशारिपुत्रेणोक्तं "निर्वृत्ते विपाके नारक इति संख्यां गच्छती"ति । [११५।११-११५।१२] निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति । [११५।१२-११५।१३] यत्तर्ह्यक्तं "तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य" इति । [११५।१३-११५।१४] गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् । [११५।१४-११५।१५] अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः । [११५।१५] ताश्च विपाकस्वभावा एवेत्येके । [११५।१५-११५।१६] औपचयिकस्वभावा अपीत्यपरे । [११५।१७] अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः [११५।१८] नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः । [११५।१९] विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥ [११५।२०] विज्ञानस्थितयः सप्त [११५।२१-११५।२२] सूत्रे उक्तः "रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः । [११५।२२] इयं प्रथमा विज्ञानस्थितिः । कतमे पुनस्ते तदेकत्या देवाः । [११५।२३] कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः" । [११५।२३-११५।२४] नानात्वेन काय एषामिति नानात्वकायाः । [११५।२४] अनेकवर्णलिङ्गसंस्थानत्वात् । [११५।२४-११५।२५] नानात्वेन संज्ञा नानात्वसंज्ञा । [११५।२५-११५।२४] सैषामस्तीति नानात्वसंज्ञिनः । [११५।२५] सुखदुःखादुःखासुखसंज्ञित्वात् । [११५।२५-११५।२७] रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः । [११५।२७] इयं द्वितीया विज्ञानस्थितिः । [११५।२७-११५।२८] ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति । [११५।२८-११५।२९] ब्रह्मणोऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः । [११५।२९-११५।३१] अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः । [११५।३१-११६।०२] यदिदमुक्तं सूत्रे "तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि"ति । [११६।०२] अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति । [११६।०२-११६।०३] कथं तमद्राक्षुः । [११६।०३] आभास्वरस्था इत्येके । [११६।०३-११६।०५] ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः । [११६।०५] अन्तराभवस्था अद्राक्षुरित्यपरे । [११६।०६] तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति । [११६।०६-११६।०७] कथं तेषामेवं भवति स्म "इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि"ति । [११६।०८-११६।०९] तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव । [११६।०९-११६।१०] रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः । [११६।१०] इयं तृतीया विज्ञानस्थितिः । [११६।१०-११६।११] अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् । [११६।११-११६।१२] अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् । [११६।१२-११६।१३] तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः । [११६।१३] सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः । [११६।१४-११६।१५] ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति । [११६।१५-११६।१६] सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति । [११६।१६-११६।१७] यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति । [११६।१७] ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः । [११६।१७-११६।१८] न तेषां तेन सुखेनास्ति परिखेदः । [११६।१८] किं कारणम् । [११६।१८-११६।१९] शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते । [११६।१९-११६।२०] सूत्र उक्तं "यथा ते नानात्वसंज्ञिनः । [११६।२०-११६।२२] तत्र ये सत्त्वा आभास्वरे देवनिकायेऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते । [११६।२२] सहैवैषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽर्वागागमिष्यतीति । [११६।२३-११६।२४] तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति । [११६।२४-११६।२५] मा भैष्ट माऋषाः मा भैष्ट मार्षाः । [११६।२५] पूर्वमप्येषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽत्रैवान्तर्हिते"ति । [११६।२६-११६।२७] अतोऽर्चिष आगमव्यपगमसंज्ञित्वात्भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति । [११६।२७-११६।२८] रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः । [११६।२८] इयं चतुर्थी विज्ञानस्थितिः । [११६।२८-११७।०१] तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः । [११७।०१] एकत्वसंज्ञिनः सुखसंज्ञित्वात् । [११७।०१-११७।०२] तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः । [११७।०२-११७।०३] द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः । [११७।०३-११७।०४] आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः । [११७।०४] काऽत्र विज्ञानस्थितिः । [११७।०४-११७।०५] तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् । [११७।०५] शेषं कस्मान्ना विज्ञानस्थितिः । प्[११७०५] यस्मात् [११७।०६] शेषं तत्परिभेदवत् । [११७।०७] किं पुनः शेषम् । दुर्गतयश्चतुर्थ ध्यानं भवग्रं च । [११७।०७-११७।०८] अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः । [११७।०८] कः पुनः परिभेदः येन विज्ञानं परिभिद्यते [११७।०८-११७।०९] तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् । [११७।०९] चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च । [११७।१०] भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् । पुनराह । [११७।१०-११७।११] यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामताऽसौ विज्ञानस्थितिरुक्ता । [११७।११-११७।१२] अपायेषु चोभयं नास्हि । [११७।१२-११७।१३] चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति । [११७।१४] एताश्च सप्त विज्ञानस्थितयो यथोक्ताः । [११७।१५] भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥ [११७।१६] एषु हि सत्त्वा आवसन्ति स्वेच्छया । [११७।१७] अनिच्छावसनान्नान्ये [११७।१८] के पुनरन्ये । अपायाः । तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते । [११७।१९] नत्विच्छया वसन्ति । अतस्तेन सत्त्वावासा बन्धनस्थानवत् । [११७।१९-११७।२०] अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र [११७।२१] चतस्रः स्थितयः पुनः । [११७।२२] कतमाश्चतस्रः । रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति । [११७।२३] तासां कः स्वभावः । ता हि यथाक्रमम् । [११७।२४] चत्वारः सास्रवाः स्कन्धाः [११७।२५] ते पुनः [११७।२६] स्वभूमावेव [११७।२७] नान्यत्र भूमौ । किं कारणम् । प्रतिष्टा हि स्थितिः । [११७।२७-११७।२८] न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात्प्रतितिष्ठतीति । [११७।२८-११७।२९] कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति । [११७।२९] स्थातुः परिहारेण स्थितिविधानात् । [११८।०१] नहि स्थातैव स्थितिरुच्यते । [११८।०१-१२८।०१] यथा न राजैव राजासनमिति । [११८।०१-११८।०२] यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः । [११८।०३] नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः । [११८।०३-११८।०४] यत्तर्हि सूत्र उक्तं "विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति । [११८।०४-११८।०५] यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि"ति । [११८।०५] तत्कथम् । [११८।०५-११८।०६] "सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता" इति तत्कथम् । [११८।०६-११८।०७] एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः । [११८।०७-११८।०८] प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति । [११८।०८] तस्माच्चतसृषु विज्ञानस्थितिषु [११८।०९] केवलम् ॥ ३.७ ॥ [११८।१०] विज्ञानं न स्थितिः प्रोक्तं [११८।११] अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः । [११८।११-११८।१३] वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास । [११८।१३-११८।१४] ये धर्माः सहवर्त्तिनो विज्ञानस्य तेऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः । [११८।१५-११८।१६] अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त । [११८।१६] नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त । [११८।१७] चतुष्कोटि तु संग्रहे । [११८।१८] संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् । [११८।१८-११८।१९] स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि । [११८।१९] प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् । [११८।१९-११८।२०] द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः । [११८।२०-११८।२१] तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा । [११८।२२] यच्चैतत्गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः । [११८।२३] चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥ [११८।२४] अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः । योनिर्नाम जातिः । [११८।२५] युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः । अण्डजा योनिः कतमा । [११८।२६] ये सत्त्वा अण्डेभ्यो जायन्ते । तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः । [११८।२७] जरायुजा योइः कतमा । ये सत्त्वा जरायोर्जायन्ते । [११८।२७-११८।२८] तद्यथा हस्त्यश्वगोमहिषखरवराहादयः । [११८।२८] संस्वेदजा योनिः कतमा । [११८।२८-११८।२९] ये सत्त्वा भूसंस्वेदाज्जायन्ते । [११८।२९] तद्यथा कृमिकीटपतङ्गमशकादयः । उपपादुका योनिः कतमा । [११९।०१] ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते । [११९।०१-११९।०२] अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते । [११९।०२] तद्यथा देवनारकान्तराभविकादयः । [११९।०३] अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह [११९।०४] चतुर्धा नर तिर्यञ्चः [११९।०५] मनुष्याश्चतुर्विधाः । [११९।०५-११९।०७] अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत्पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि । [११९।०७] जरायुजा यथेदानीम् । [११९।०७-११९।०८] संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः । [११९।०८] उपपादुकाः पुनः प्राथमकल्पिकाः । [११९।०८-११९।०९] एवं तिर्यञ्चोऽपि चतुर्विधाः । [११९।०९] त्रिविधा दृश्यन्त एव । उपपादुकास्तु नागसुपर्णि प्रभृतयः । [११९।१०] नारका उपपादुकाः । [११९।११] अन्तराभवदेवाश्च [११९।१२] सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव । [११९।१३] प्रेता अपि जरायुजाः ॥ ३.९ ॥ [११९।१४] अपिशब्दादप्युपपादुका इति । आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते [११९।१५] "पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् । [११९।१६] भक्षयामि जनित्वा तान्नास्ति तृप्तिस्तथापि मे ॥" [११९।१७] कतमा योनिः सर्वसाध्वी । उपपादुका । [११९।१७-११९।१८] अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वेऽपि जरायुर्जां योर्नि भजते । [११९।१८-११९।१९] एवं हि क्रियमाणे महान्तमर्थं पश्यति । [११९।१९-११९।२१] ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मेऽवतरणार्थं चक्रवर्त्तिवंश्योऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् । [११९।२१-११९।२३] इतरथा ह्यप्रज्ञायमानकुलगोत्रः कोऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथाऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति । [११९।२४] अपरे त्वाहुः । [११९।२४-११९।२६] शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान्मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतोऽन्तर्धीयते । [११९।२६-११९।२७] आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः । [११९।२७] प्रश्नात्प्रश्नान्तरमुपजायते । [११९।२७-१२०।०२] यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे "उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि"ति । [१२०।०२] नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः । [१२०।०२-१२०।०३] भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति । [१२०।०४] कतमा योनिः सर्ववह्वी । उपपादुकैव । [१२०।०४-१२०।०५] सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति । [१२०।०६] कोऽयमस्तराभावो नाम । [१२०।०७] मृत्यूपपत्तिभवयोरन्तरा भवतीह वः । [१२०।०८-१२०।०९] मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावोऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सोऽन्तराभव इत्युच्यते । [१२०।०९] गत्यन्तरालत्वात् । [१२०।०९-१२०।१०] कथमयं जातश्च नाम नचोपपन्नो भवति । [१२०।११] गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥ [१२०।१२] उपपत्तिगतो ह्युपपन्न इत्युच्यते । पदेर्गत्यर्थत्वात् । [१२०।१२-१२०।१३] नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः । [१२०।१३] कः पुनरसौ देशो गन्तव्यः । [१२०।१३-१२०।१४] यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च । [१२०।१४-१२०।१५] विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः । [१२०।१५] तदेतन्नेष्यते । किं कारणम् । युक्तितश्च आगमतश्च । [१२०।१५-१२०।१६] तत्र तावत्युक्तिं निश्रित्योच्यते । [१२०।१७] व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः । [१२०।१८-१२०।१९] सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य । [१२०।१९-१२०।९२०] तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः । [१२०।२०-१२०।२१] विच्छिन्नोऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात्प्रतिबिम्बस्य । [१२०।२१] एवं मरणभवादुपपत्तिभवस्य स्यात् । [१२०।२२] प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम् ॥ ३.११ ॥ [१२०।२३] प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् । [१२०।२३-१२०।२४] सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति । [१२०।२४] कथं तावदसिद्धम् । [१२०।२५] सहैकत्र द्वयाभावात् [१२०।२६] तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च । [१२०।२६-१२०।२७] न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् । [१२०।२७-१२०।३०] तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्योऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता । [१२०।३०-१२१।०१] छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः । [१२१।०१-१२१।०२] उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तोऽस्य तत्र प्रादुर्भावः । [१२१।०२] अथवा "सहैकत्र द्वयाभावादि"ति कतमस्य द्वयस्य । [१२१।०२-१२१।०३] आदर्शतलस्येन्दुप्रतिबिम्बकस्य च । [१२१।०३-१२१।०४] अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् । [१२१।०४-१२१।०५] तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते । [१२१।०५] अतो नास्त्येव तत्किञ्चित् । [१२१।०५-१२१।०६] सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति ॥ [१२१।०६] अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः । [१२१।०६-१२१।०७] एवं तावन्दसिद्धत्वात् । [१२१।०७] कथमसाम्यादनिदर्शनं भवति । [१२१।०८] असन्तानाद् [१२१।०९] नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात्सहभावाच्च । [१२१।१०] यथा मरणस्योपपत्तिभवः । [१२१।१०-१२१।११] सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च । [१२१।१२] द्वयोदयात् । [१२१।१३] द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति । [१२१।१३-१२१।१४] बिम्बाच्चादर्शा च्चेति यत्प्राधानं कारणं तदाश्रित्योत्पद्यते । [१२१।१४-१२१।१६] नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतोऽप्ययमसमानो दृष्टान्तः । [१२१।१६] न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति । [१२१।१६-१२१।१७] यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते । [१२१।१७-१२१।१८] एवं तावद्युक्तितो नेष्यते । [१२१।१८] न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः । तस्मादस्त्येवान्तराभवः । [१२१।१९] कण्ठोक्तेश्चास्ति [१२१।२०] सूत्र उक्तं "सप्त भवाः । [१२१।२०-१२१।२१] नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव इति । [१२१।२१] नैतत्सूत्रं तैराम्नायते । इतस्तर्हि [१२१।२२] गन्धर्वात् [१२१।२३] "त्रयाणां स्थानानां संमुखीभावात्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । [१२१।२३-१२१।२४] माता कल्या स्पि भवति ऋतुमती च । [१२१।२४] मातापितरौ रक्तौ भवतः सनिपतितौ च । [१२१।२५] गन्धर्वश्च प्रत्युपस्थितो भाती"ति । अन्तराभवं हित्वा कोऽन्यो गन्धर्वः । [१२१।२६] एतदपि नैव तैराम्नायते । कथं तर्हि । "स्क्न्धभेदश्च प्रत्युपस्थितो भवती"ति । [१२१।२७] यद्येवमाश्वलायनसूत्रं कथं नीयते । [१२१।२७-१२१।२८] "जानन्त भवन्तो योऽसौ गन्धर्वः प्रत्युपस्थितः । [१२१।२८] क्षत्रियो वाऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा । [१२१।२८-१२२।०१] यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या" इति । [१२२।०२] नहि स्कन्धभेदस्यागमनं युज्यते । अथैतदपि न पठच्यते । इतस्तर्हि । [१२२।०३] पञ्चोक्तेः । [१२२।०४] "पञ्चानागामिन" इत्युक्तं भगवता । [१२२।०४-१२२।०५] अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति । [१२२।०५-१२२।०६] असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् । [१२२।०६] अन्तरा नाम देवाः सन्तीत्येके । [१२२।०७] उपपद्यादयोऽपि हि नाम देवा एवं सति प्रसज्यते । तस्मान्येयं कल्पना साध्वी । [१२२।०८] इतश्च [१२२।०९] गतिसूत्रतः ॥ ३.१२ ॥ [१२२।१०] "सप्त सत्पुरुषगतयः" इत्यत्र सूत्रे । अन्तरापरिनिर्वायिणस्त्रय उक्ताः । [१२२।१०-१२२।११] कालदेशप्रकर्षभेदेन । [१२२।११-१२२।१२] तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः । [१२२।१२] तद्यथाऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः । [१२२।१२-१२२।१३] तद्यथाऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः । [१२२।१३-१२२।१४] नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला ॥ [१२२।१४] अन्ये पुनराहुः । [१२२।१५-१२२।१६] आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी । [१२२।१६-१२२।१७] स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा । [१२२।१७] तेन त्रिविधो भवतीति । [१२२।१७-१२२।१८] प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति । [१२२।१८] द्वितीयो देवसमृद्धिं चानुभूय । [१२२।१८-१२२।१९] तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य । [१२२।१९-१२२।२१] उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वेऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते । [१२२।२१] देशगतिविशेषाभावात् । [१२२।२१-१२२।२२] आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् । [१२२।२२] न च पठ्यते । [१२२।२३-१२२।२४] "ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् । संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः ॥ [१२२।२५] इत्येतस्यायुर्दानगाथायाम् । तस्मादेतदपि सर्वं कल्पनामात्रम् । [१२२।२६] अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते । [१२२।२६-१२३।०१] किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च । [१२३।०१-१२३।०२] येषां तु तावदयमागमः प्रमाणं तेषामागमतोऽपि सिद्धोऽन्तराभवः । [१२३।०२-१२३।०३] यत्तर्हि सूत्र उत्तम् "अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित" इति । [१२३।०३] तत्कथमिति । [१२३।०४] स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः । [१२३।०४-१२३।०५] कालल्ं कृत्वाऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः । [१२३।०५-१२३।०६] अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते । [१२३।०६] अतोऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति । [१२३।०७-१२३।०८] इदमिदानीं कथं नीयते "पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत" इति । [१२३।०८] अन्यां गतिमगत्वेत्यभिप्रायः । [१२३।०८-१२३।०९] उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् । [१२३।०९] अथ यथारुतं कल्प्यते । पञ्चैव कृत्वा नैकमिति प्राप्नोति । [१२३।०९-१२३।१०] क्रियानन्तरं च । [१२३।१०] न कालान्तरं जीवित्वा को वाऽन्तराभवस्योपपद्यमानत्वं नेच्छति । [१२३।१०-१२३।११] अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते । [१२३।११] अभिमुखत्वात् । [१२३।११-१२३।१२] न च ब्रूम उपपन्नो भवतीति । [१२३।१२] इयं तर्हि गाथा कथं नीयते [१२३।१३-१२३।१४] "उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज । वासोऽपि हि नास्ति तेऽन्तरा पाथेयं च न विद्यते तवे" ति ॥ [१२३।१५] अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः । [१२३।१५-१२३।१६] अथवाऽन्तराभवेऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति । [१२३।१६-१२३।१७] अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् । [१२३।१७] तुल्य एष भवतोऽप्यनुयोगः । [१२३।१७-१२३।१८] तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् । [१२३।१८-१२३।१९] ज्ञापकं हि नामागतिका गतिरिति । [१२३।२०] अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवोऽभिनिवर्त्तते । [१२३।२१] एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः । [१२३।२२] येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये । [१२३।२२-१२३।२३] अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति । [१२३।२३-१२३।२५] एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिकोऽन्तराभवोऽभिनिर्वर्त्तते इति नारकोऽन्तराभवः कुक्षिं निर्दहेत् । [१२३।२५-१२३।२६] पूर्वकालभवेऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः । [१२३।२६] अस्तु वा प्रज्वलितः । [१२३।२६-१२३।२७] स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् । [१२३।२७-१२३।२८] अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः । [१२३।२८-१२४।०१] प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च । [१२४।०१-१२४।०२] अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः । [१२४।०३] यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् । [१२४।०३-१२४।०४] निमित्तमात्रं तत्तिर्यग्योनेश्चिरव्यावृत्तत्वात् । [१२४।०४] तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति । [१२४।०५-१२४।०६] "करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः । अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः" ॥ [१२४।०७] नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण । [१२४।०७-१२४।०८] अत एव यमलयोर्यः पश्चात्प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति । [१२४।०८] धर्मसूत्रविभाष्यं कथं नीयते । [१२४।०९-१२४।१०] "वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् । मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति" ॥ [१२४।११] नैतदवश्यनेतव्यम् । नह्येतत्सूत्रं न विनयः नाभिधर्मः । काव्यमेतत् । [१२४।११-१२४।१२] कवीनां च काव्यं समायोजयतां केचित्भावाः समारोपिता गच्छन्ति । [१२४।१२] अथवा नेतव्यमेव । [१२४।१२-१२४।१३] यथाऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सोऽपि गाथामकार्षीदिति । [१२४।१३-१२४।१४] रूपावचरोऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति । [१२४।१४] अपत्राप्योत्सदत्वात् । [१२४।१४-१२४।१५] बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा । [१२४।१५] अन्यो नग्नः । [१२४।१५-१२४।१६] कामधातोरनपत्राप्योत्सदत्वात् । [१२४।१७] अथ कोऽयं पूर्वकालभवो नाम । [१२४।१८] स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥ [१२४।१९] भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः । स एव चतुर्धा भिद्यते । अन्तराभवो यथोक्तः । [१२४।२०] उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः । [१२४।२०-१२४।२१] तस्मात्परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः । [१२४।२१] चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते । [१२४।२२] स चायमन्तराभवः । [१२४।२३] सजातिशुद्धदिव्याक्षिदृश्यः [१२४।२४] समानजातीयैरेवान्तराभविकैर्दृश्यते । [१२४।२४-१२५।०१] येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति । [१२५।०१] उपपत्तिक्षुषा तु न दृश्यते । जात्यर्थमच्छत्वात् । [१२५।०१-१२५।०२] देवान्तराभविकः सर्वान् पश्यति । [१२५।०२] मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे । [१२५।०३] कर्मर्द्धिवेगवान् । [१२५।०४] ऋद्धिराकाशगमनम् । कर्मणा ऋद्धिः कर्मर्द्धिः । तस्या वेगः कर्मर्द्धिवेगः शीग्रता । [१२५।०५] सोऽस्यास्तीति कर्मर्द्धिवेगवान् । येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् । [१२५।०५-१२५।०६] कर्मणोऽस्य बलीयस्त्वात् । [१२५।०७] सकलाक्षः [१२५।०८] समग्रपञ्चेन्द्रियः । [१२५।०९] अप्रतिघवान् [१२५।१०] प्रतिघातः प्रतिघः । सोऽस्यास्तीति प्रतिघवान् । न प्रतिघवानप्रतिघवान् । [१२५।१०-१२५।११] वज्रादिभिरप्यनिवार्यत्वात् । [१२५।११-१२५।१२] तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते । [१२५।१२] यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा । [१२५।१३] अनिवर्त्यः [१२५।१४] नहि कदाचिन्मनुष्यान्तराभवोऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा । [१२५।१४-१२५।१५] नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यं नान्यस्यामिति । [१२५।१६] किं पुनरन्तराभवोऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते । ओमित्याह । न त्वौदारिकम् । [१२५।१७] किं तर्हि । [१२५।१८] स गन्धभुक् ॥ ३.१४ ॥ [१२५।१९] अत एव गन्धर्व इत्युच्यते । धातूनामनेकार्थत्वात् । ह्रस्वत्वं शकन्धुकर्कन्धुवत् । [१२५।१९-१२५।२०] अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः । [१२५।२०] कियन्तं कालमवतिष्ठते । नास्ति नियम इति भदन्तः । [१२५।२१] यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः । एकनिकायसभागत्वात् । [१२५।२१-१२५।२२] इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत । [१२५।२२-१२६।०१] यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत । [१२६।०१-१२६।०२] किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् । [१२६।०२] नैतदागतं सूत्रे शास्त्रे वा । [१२६।०२-१२६।०३] एवं तु युज्यते । [१२६।०३] गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति । [१२६।०३-१२६।०५] ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति । [१२६।०५-१२६।०७] अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र । [१२६।०७-१२६।०८] तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् । [१२६।०८-१२६।०९] अत एव चोक्तं भगवता "अचिन्त्यः सत्त्वानां कर्मविपाक" इति । [१२६।०९] सप्ताहं तिष्ठतीति भदन्तवसुमित्रः । [१२६।०९-१२६।१०] यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते । [१२६।१०] सप्त सप्ताहानीत्यपरे । [१२६।१०-१२६।११] अल्पं कालमिति वंभाषिकाः । [१२६।११-१२६।१२] स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति । [१२६।१२] नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति । [१२६।१२-१२६।१३] तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति । [१२६।१३-१२६।१४] अथानियातं ततोऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे । [१२६।१४-१२६।१५] तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनामृक्षानां हेमन्ते चाक्ष्वानाम् । [१२६।१५-१२६।१७] गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस्स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति । [१२६।१७-१२६।१८] न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् । [१२६।१९] स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतोऽन्तराभवः [१२६।२०] विपर्यस्तमतिर्याति गतिदेशं रिरंसया । [१२६।२१] स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थोऽपि स्वमुपपत्तिदेशं प्रेक्षते । [१२६।२१-१२६।२२] तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि । [१२६।२२-१२६।२३] विपर्ययात्प्रतिघः । [१२६।२३-१२६।२४] एवं पठच्यते प्रज्ञप्तौ "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति । [१२६।२४-१२६।२५] स ताभ्यां विपर्यस्तो रन्तुकामतया तं देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते । [१२६।२५-१२६।२६] तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षोऽभिनिविशते । [१२६।२६-१२६।२७] ततोऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति । [१२६।२७-१२६।२८] स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी । [१२७।०१] अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति । [१२७।०१-१२७।०२] न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात् । [१२७।०२-१२७।०३] अथः स्त्रीभूतः पुरुषभूतो वाऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात्गर्भ आप्यायमानो नपुंसकं भवतीति" । [१२७।०३] इदं विचार्यते । [१२७।०३-१२७।०५] किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित्भूतान्तराण्येव कर्मभिर्जायन्ते । [१२७।०५] तान्युपश्रित्येति । तान्येवेत्येके । [१२७।०५-१२७।०६] अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति । [१२७।०६-१२७।०७] वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते । [१२७।०७-१२७।०८] एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति "मातापित्रशुचिकललसंभुतस्ये"ति । [१२७।०८-१२७।०९] तथा "दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त" इति । [१२७।०९] भूतान्तराण्येवेत्यपरे । तद्यथापर्णक्रिमेः । [१२७।०९-१२७।१०] अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति । [१२७।१०-१२७।११] एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते । [१२७।११] अन्यत्र तु यथायोगं वक्तव्यमित्याहुः । [१२७।११-१२७।१२] तत्र चायं योगो दृश्यते [१२७।१३] गन्धस्थानाभिकामोऽन्यः [१२७।१४-१२७।१५] संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात्गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् । [१२७।१५] उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् । [१२७।१५-१२७।१६] कथं नरकेषु स्थानाभिलाषः । [१२७।१६] विपर्यस्तबुद्धित्वात् । [१२७।१६-१२७।१७] स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् । [१२७।१७-१२७।१८] तत्र उष्णाभिलाषाद्धावति । [१२७।१८-१२७।१९] पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति । [१२७।१९-१२७।२०] यदवस्थस्तदुपपत्तिसंवर्त्तनीयं कर्माकार्षीत्तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः । [१२७।२०-१२७।२१] तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन्मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् । [१२७।२२] ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥ [१२७।२३-१२७।२४] "ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः । ऋषीणामभिवक्तारः संयतानां तपस्विनाम्" इति ॥ [१२७।२५] गाथाभिधानात् । [१२७।२६] यदुक्तं "विपर्यस्तमतिर्याती"ति । [१२७।२६-१२७।२७] किमवश्यं सर्वोऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति । [१२७।२७] नित्याह । किं तर्हि । चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः । कतमाश्चतस्रः । [१२८।०१] संप्रजानन् विशत्येकः [१२८।०२] तिष्ठति निष्क्रामति सा संप्रजानन् । [१२८।०३] तिष्ठत्यप्यपरः । [१२८।०४] संप्रजानन्निति वर्त्तते । प्रविशत्यपीत्यपिक्षब्दात् । [१२८।०५] अपरः । [१२८।०६] निष्क्रामत्यपि [१२८।०७] संप्राजानन् प्रविशति तिष्ठत्यपि । [१२८।०८] सर्वाणि मूढोऽन्यः [१२८।०९-१२८।१०] कश्चित्पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि । [१२८।१०] एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः । [१२८।११] श्लोकबन्धानुगुण्यतः । [१२८।१२] नित्यमण्डजः ॥ ३.१६ ॥ [१२८।१३] अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति । कथमण्डाज्जातो गर्भं प्रविशति । [१२८।१४] योऽपि जनिष्यते सोऽप्यण्दजः । अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते । [१२८।१५] तद्यथा "संकृतमभिसंस्करोती"ति सूत्रे ओदनं पचतीति सक्तुं पिनष्टीति लोके । [१२८।१६] तस्मान्नैष दोषः । [१२८।१७] कथं पुनरसंप्रजानन्मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् । [१२८।१८-१२८।१९] अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते । [१२८।१९] वातो वाति देवो वर्षति । [१२८।१९-१२८।२१] शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति । [१२८।२१-१२८।२२] तिष्ठतोऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति । [१२८।२२-१२८।२३] महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वाऽभिरोहामि कूटागारं वा पर्यङ्क वेति । [१२८।२३] तथा तिष्ठामि निर्यामीति । [१२८।२३-१२८।२४] एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति । [१२८।२४-१२८।२५] संप्रजानंस्तु सम्यक्प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति । [१२८।२५-१२८।२६] नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते । [१२८।२६] अत्र पुनरपदिश्यते । [१२८।२७] गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् । [१२८।२८] चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च । यथाक्रममित्यन्ते वक्ष्यति । [१२८।२८-१२८।२९] तत्र प्रथमा चक्रवर्त्तिनः । [१२८।२९] स हि प्रविशत्येव संप्रजानन्न तिष्ठति नापि निष्क्रामति । [१२८।३०] प्रत्येकबुद्धस्तिष्ठत्यपि । बुद्धो निष्क्रामत्यपि । अत्रापि भाविन्या संज्ञया निर्देशः । [१२९।०१] कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥ [१२९।०२] विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा । [१२९।०२-१२९।०३] विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया । [१२९।०३] विशद पुण्यकर्मज्ञानानां तृतीया । [१२९।०३-१२९।०४] त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् । [१२९।०४] शेषाणां चतुर्थीति सिद्धं भवति । [१२९।०५] अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते । [१२९।०५-१२९।०६] यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति । [१२९।०६] स एष प्रतिषिध्यते [१२९।०७] नात्मास्ति [१२९।०८] कीदृश आत्मा य इमान्निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते । [१२९।०९] स तदृशो नास्त्यन्तर्व्यापारपुरुषः । [१२९।०९-१२९।११] एवं तूक्तं भगवता "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् । [१२९।११-१२९।१२] तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः "। [१२९।१२] कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते । [१२९।१३] स्कन्धमात्रं तु [१२९।१४] यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः । [१२९।१४-१२९।१५] एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति । [१२९।१६] क्लेशकर्माभिसंस्कृतम् । [१२९।१७] अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥ [१२९।१८] क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः । [१२९।१८-१२९।१९] क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति । [१२९।१९-१२९।२०] तद्यथा प्रदीपः क्षणिकोऽपि संतत्या देशान्तरमिति नास्त्येष दोषः । [१२९।२०-१२९।२१] तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति । [१२९।२१] स पुनः [१२९।२२] यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः । [१२९।२३] परलोकं पुनर्याति [१२९।२४] नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् । [१२९।२४-१२९।२५] अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति । [१२९।२५] केन क्रमेण । [१३०।०१-१३०।०२] "कललं प्रथमं धवति कललाज्जायतेऽर्बुदः । अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥ [१३०।०३-१३०।०४] घनात्प्रशाखा जायन्ते केशरोमनखादयः । इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥ [१३०।०५] इत्यार्याः । [१३०।०५-१३०।०६] एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः । [१३०।०६-१३०।०८] तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात्मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति । [१३०।०८-१३०।०९] सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात्प्रच्युतो दुःखं संपरिवर्त्त्यते । [१३०।०९-१३०।१५] यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति । [१३०।१६] स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते । [१३०।१६-१३०।२०] अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति । [१३०।२०-१३०।२१] तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति । [१३०।२१-१३०।२२] सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत्परलोकं पुनर्याति । [१३०।२३] इत्यनदिभवचक्रकम् ॥ ३.१९ ॥ [१३०।२४-१३०।२५] एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् । [१३०।२५-१३०।२६] आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् । [१३०।२७-१३०।२८] दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः । [१३०।२८-१३१।०१] नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः । [१३१।०१] तस्मान्नास्त्येव संसारस्यादिः । अन्तस्तु हेतुक्षयात्युक्तः । [१३१।०१-१३१।०२] हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति । [१३१।०३] य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः [१३१।०४] स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः । [१३१।०५-१३१।०६] तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च । [१३१।०६-१३१।०७] त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि । [१३१।०७-१३१।०८] कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते । [१३१।०९] पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ [१३१।१०] अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते । [१३१।१०-१३१।११] शेषाण्यष्टौ मध्ये । [१३१।११] किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति । नेत्याह । कस्य तर्हि । [१३१।१२] परिपूरिणः ॥ ३.२० ॥ [१३१।१३-१३१।१४] परीपूरोऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सोऽत्र पुद्गलोऽभिप्रेतो न तु योऽन्तराल एव म्रियते । [१३१।१४] नापि रूपारुप्यावचरः । [१३१।१४-१३१।१५] तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः । [१३१।१५-१३१।१६] "विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि"ति वचनात् । [१३१।१६-१३१।१८] यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः । [१३१।१८] सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् । [१३१।१९] अथ क इमेऽविद्यादयः । [१३१।२०] पूर्वक्लेशा दशाऽविद्या [१३१।२१] या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते । [१३१।२१-१३१।२२] साहचर्यात्तद्वशेन तेषां समुदाचाराच्च । [१३१।२२] राजागमनवचने तदनुयात्रिका गमनसिद्धवत् । [१३१।२३] संस्काराः पूर्वकर्मणः । [१३१।२४] दशेति वर्त्तते । [१३१।२४-१३१।२५] पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः । [१३१।२६] संधिस्कन्धास्तु विज्ञानं [१३१।२७] मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् । [१३२।०१] नामरूपमतः परम् ॥ ३.२१ ॥ [१३२।०२] प्राक्षडायतनोत्पादात् [१३२।०३-१३२।०४] संधिचित्तात्परेण यावत्षडायतनं नोत्पद्यते साऽवस्था नामरूपं तावत्षडायतनमित्युच्यते । [१३२।०४-१३२।०५] प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् । [१३२।०६] तत्पूर्वं त्रिकसंगमात् । [१३२।०७-१३२।०८] उत्पन्ने षडायतने सावस्था तावत्षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः । [१३२।०९] स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥ [१३२।१०] त्रयाणां संनिपातात्स्पर्शो भवति । [१३२।१०-१३२।११] स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति साऽवस्था स्पर्श इत्युच्यते । [१३२।११] परिच्छेदसामर्थ्ये सति [१३२।१२] वित्तिः प्राक्मैथुनात् [१३२।१३] वेदनावस्था यावन्मैथुनरागो न समुदाचरति । [१३२।१४] तृष्णा भोगमैथुनरागिणः । [१३२।१५] कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते । [१३२।१६] उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥ [१३२।१७-१३२।१८] यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते । [१३२।१८] तथा च परिधावन् [१३२।१९] स भविष्यत्भवफलं कुरुते कर्म तत्भवः । [१३२।२०] स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य भवः । [१३२।२१] तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति । योऽसौ [१३२।२२] प्रतिसंधिः पुनर्जातिः [१३२।२३] यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः । ततूर्ध्वं [१३२।२४] जरामरणमा विदः ॥ ३.२४ ॥ [१३२।२५] जातेः परेण यावदेदनावस्था जरामरणम् । [१३२।२५-१३२।२७] यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि । [१३२।२७] स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते । [१३३।०१] क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च । कथं क्षणिकः । [१३३।०१-१३३।०२] एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति । [१३३।०२-१३३।०३] तद्यथा लोभवशेन प्राणिनं जीविताद्व्यपरोपयेत् । [१३३।०३] यो मोहः साऽविद्या । या चेतना ते संस्काराः । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । [१३३।०४] विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् । [१३३।०४-१३३।०५] नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् । [१३३।०५] षड्डायतनाभिनिपातः स्पर्शः । स्पर्शानुभवनं वेदना । [१३३।०५-१३३।०६] यो लोभः स तृष्णा । [१३३।०६] तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् । [१३३।०६-१३३।०७] तत्समुत्थितं कायवाक्कर्म भवः । [१३३।०७-१३३।०८] तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति । [१३३।०८] पुनराहुः । [१३३।०८-१३३।०९] क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु "प्रतीत्यसमुत्पादः कतमः । [१३३।०९] सर्वे संस्कृता धर्मा" इति । [१३३।०९-१३३।१०] आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः । [१३३।१०] स एव प्राकर्षिकः । एषां कतमोऽयमभिप्रेतो भगवतः । [१३३।११] आवस्थिकः किलेष्टोऽयं [१३३।१२] यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म । [१३३।१३] प्राधान्यत्त्वङ्गकीर्तनम् । [१३३।१४-१३३।१५] अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः । [१३३।१५-१३३।१६] किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा "प्रतीत्यसमुत्पादः कतमः । [१३३।१६] सर्वे संस्कृता धर्मा" इति । [१३३।१६-१३३।१७] अभिप्रायिकः सूत्रे लाक्षणिकोऽभिधर्मः । [१३३।१७-१३३।१८] तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः । [१३३।१८] किमर्थं पुनः सूत्रे सत्त्वाख्य एव । [१३३।१९] पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥ [१३३।२०] अत एव च त्रिकाण्डः । [१३३।२०-१३३।२१] तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीतेऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति । [१३३।२२] अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागतेऽध्वनीति विस्तरः । [१३३।२३] मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति । [१३३।२४-१३३।२६] एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत्भवश्च । [१३३।२६-१३४।०२] तथाहि सूत्र एवोक्तं "यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक्प्रज्ञया दृष्टा भवन्ति । [१३४।०२] स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीतेऽध्वनी"ति विस्तरः । [१३४।०३] तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे । [१३४।०३-१३४।०४] तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः । [१३४।०५] क्लेशकर्मवस्तूनि । तत्र [१३४।०६] क्लेशास्त्रीणि [१३४।०७] त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि । [१३४।०८] द्वयं कर्म [१३४।०९] अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च । [१३४।१०] सप्त वस्तु [१३४।११] सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि । [१३४।१२] क्लेशकर्माश्रयत्वात् । यथा च वस्तु सप्ताङ्गानि [१३४।१३] फलं तथा । [१३४।१४] सप्तैवाङ्गानि फाभूतानि । शेषाणि पञ्च हेतुभूतानि । [१३४।१४-१३४।१५] कर्मक्लेशस्वभावभूतत्वात् । [१३४।१५] किं पुनः कारणं मध्ये फलहेतू विशालितौ । [१३४।१५-१३४।१६] वस्तुनः पञ्चधा भेदात् । [१३४।१६] क्लेशस्य द्विधा । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् । [१३४।१७] अतीतेऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति । [१३४।१८] फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥ [१३४।१९] मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्योऽनुमानुमिति नोक्तः । [१३४।२०] पुनरपरात्मकं हि यत्नं मा कार्यमिति । [१३४।२०-१३४।२२] यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् । [१३४।२२-१३४।२३] अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः । [१३४।२३] नोपसंख्यातव्यम् । यस्मादुपदर्शितोऽत्र भगवता [१३४।२४-१३४।२५] क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः । वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः ॥ ३.२७ ॥ [१३४।२६] क्लेशात्क्लेशो जायते तृष्णाया उपादानम् । क्लेशात्कर्म । [१३४।२६-१३५।०१] उपादानात्भवोऽविद्यायाश्च संस्कारा । [१३५।०१] कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः । [१३५।०१-१३५।०२] वस्तुनो वस्तुविज्ञानानामरूपं यावत्स्पर्शाद्वेदना जातेश्च जरामरणम् । [१३५।०२-१३५।०३] वस्तुनः क्लेशो वेदनाया स्तृष्णेति । [१३५।०३-१३५।०४] यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्याऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति । [१३५।०४-१३५।०५] वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् । [१३५।०५-१३५।०६] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती"ति वचनात् । [१३५।०६] अन्यथा हि किमस्य सामर्थ्यं स्यात् । [१३५।०७] अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे । अविद्याहेतुकश्चायोनिशोमनस्कारः । [१३५।०८] स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे । [१३५।०८-१३५।०९] कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भावः । [१३५।०९] यदि संप्रयोगतः । तृष्णाऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः । [१३५।१०] सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति । [१३५।११-१३५।१२] यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णाऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् । [१३५।१२] अन्यः पुनराह । [१३५।१२-१३५।१३] अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे । [१३५।१३] स चापि स्पर्शकाले निर्दिष्टः । [१३५।१३-१३५।१४] "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज" इति । [१३५।१४] वेदनाकाले चावश्यमविद्यया भवितव्यम् । [१३५।१५] "अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे"ति सूत्रान्तरात् । [१३५।१६-१३५।१७] अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् । [१३५।१७-१३५।१८] नचाप्यनवस्थाप्रसङ्गः । [१३५।१८-१३५।१९] तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति । [१३५।१९] तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् । न वक्तव्यम् । कथमनुच्यमानं गम्यते । [१३५।२०] युक्तितः । कया युक्त्या । [१३५।२०-१३५।२१] नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः । [१३५।२१-१३५।२२] नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या । [१३५।२२] अतिप्रसङ्ग एवं प्राप्नोति । [१३५।२२-१३५।२३] यौवत्युक्त्या संभवति तावदनुक्तं गम्यत इति । [१३५।२३-१३५।२४] तस्मान्न भवत्ययं परिहारः । [१३५।२४] अचोद्यमेव त्वेतद् । [१३५।२४-१३५।२५] अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः । [१३५।२५] नचापरिपूर्णो निर्देश इति । किं कारणम् । [१३५।२६-१३५।२७] प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतोऽत्रार्थस्य विवक्षितत्वात् । [१३५।२७] एतस्य च पूर्वमेवोत्तत्वात् । [१३६।०१] पूर्वापरान्तमध्येषु संमोह विनिवृत्तये" । [१३६।०२-१३६।०३] उक्तं भगवता "प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः । [१३६।०३] शास्त्रतस्तावन्न कश्चित् । [१३६।०३-१३६।०४] उभ्यं हि सर्वे संस्कृता धर्मा इति । [१३६।०४] कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते । [१३६।०४-१३६।०५] कथं तावदकृता एवानागताः संस्कृता उच्यन्ते । [१३६।०५] आभिसम्स्कारिकया चेतनया चेतितत्वात् । [१३६।०५-१३६।०६] अनास्रवाः कथम् । [१३६।०६] तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति । निर्वाणेऽपि प्रसङ्गः । [१३६।०७-१३६।०८] तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः । [१३६।०८] सूत्राभिप्रायस्त्वयमुच्यते । [१३६।०९] हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् । [१३६।१०-१३६।११] हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् । [१३६।११] एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति । हेतुफलभवात् । [१३६।११-१३६।१२] न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् । [१३६।१२-१३६।१३] यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत्पितृपुत्रवच्च । [१३६।१३-१३६।१४] स्थविरपूर्णाशः किलाह स्यात्प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति । [१३६।१४] चतुष्कोटिकः । [१३६।१५] प्रथमा कोटिरनागता धर्माः । द्वितीयाऽर्हतश्चरमाः । [१३६।१५-१३६।१६] तृतीया तदन्येऽतीतप्रत्युपन्ना धर्माः । [१३६।१६] चतुर्थ्य संस्कृता धर्मा इति । अत्र तु सौत्रान्तिका विज्ञापयन्ति । [१३६।१६-१३६।१७] किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः । [१३६।१७] सूत्रार्थ इत्याह । [१३६।१७-१३६।१८] यदि सूत्रार्थो नैष सूत्रार्थः । [१३६।१८] कथं कृत्वा । [१३६।१८-१३६।१९] यत्तावदुक्तमा "वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी" त्येतदुत्सूत्रम् । [१३६।१९] सूत्रेऽन्यथा निर्देशाद् । [१३६।२०] "अविद्या कतमा । यत्तत्पूर्वान्तेऽज्ञानमि"ति विस्तरेण । [१३६।२०-१३६।२१] यच्च नीतार्थं न तत्पुनर्नेयं भवतीति नैष सूत्रार्थः । [१३६।२१] न वै सर्वं निर्देशतो नीतार्थं भवति । [१३६।२१-१३६।२२] यथाप्रधानं चापि निर्देशाः क्रियन्ते । [१३६।२२-१३६।२३] तद्यथा हस्तिपदोपमे "पृथिवीधातुः कतमः" इत्यधिकृत्याह "केशा रोमाणी"ति । [१३६।२३] सन्ति च तत्रान्येऽपि रूपादयः । एवमत्रापि यथाप्रधानं निर्देशः स्यात् । [१३६।२४] औपसंहार एषः । नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते । [१३६।२४-१३६।२५] यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते । [१३६।२५-१३६।२६] न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः । [१३६।२६-१३७।०१] एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः । [१३७।०१-१३७।०२] ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः । [१३७।०२] सोऽपि निर्दिष्ट एवेति । [१३७।०२-१३७।०४] यद्व "पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात्भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् । [१३७।०४] जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः । [१३७।०५-१३७।०६] यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् । [१३७।०६-१३७।०७] सत्यपि च पञ्चस्कन्धकेऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः । [१३७।०७] किं तर्हि अविद्याहेतुका एव । [१३७।०७-१३७।०८] तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति । [१३७।०८] यथानिर्देशमेव सूत्रार्थः । [१३७।०९] यदप्युक्तं "हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक" इति । [१३७।१०] एतदप्युत्सूत्रम् । सूत्रेऽन्यथा निर्देशात् । "प्रतीत्यसमुत्पादः कतमः । [१३७।१०-१३७।१२] यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति याऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद" इति । [१३७।१२] ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः । [१३७।१३] अतो येयं धर्मता य एष नियमः । अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा । [१३७।१४] एष प्रतीत्यसमुत्पादो न हेतुरेव । [१३७।१४-१३७।१५] यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते । [१३७।१५-१३७।१६] प्रतीत्यसमुत्पन्ना धर्माः कतमे । [१३७।१६] अविद्या यावज्जातिः जरामरणम् ।" [१३७।१६-१३७।१७] तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते । [१३७।१७] असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः । [१३७।१८] "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते"ति वचनात् । [१३७।१८-१३७।१९] तदेतदभिप्रायवशादेवं च न चैवम् । [१३७।१९] कथं तावदेवं कथं वा नैवम् । [१३७।१९-१३७।२१] यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् । [१३७।२१-१३७।२२] अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित्भावान्तरं नित्यमस्तीति । [१३७।२२-१३७।२३] नैतदेवमिति प्रतिषेद्धव्यम् । [१३७।२३] किं कारणम् । उत्पादस्य संस्कृतलक्षणत्वात् । [१३७।२३-१३७।२४] न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते । [१३७।२४-१३७।२५] उत्पादश्च नामोत्पत्तुर्भवतीति कोऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत । [१३७।२५-१३७।२६] पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति । [१३८।०१] अथ प्रतीत्यसमुत्पाद इति कः पदार्थः । [१३८।०१-१३८।०२] प्रतिः प्राप्त्यर्थ एति गत्यर्थः । [१३८।०२] उपसर्गवशेन धात्वर्थपरिणामात्प्राप्येति योऽर्थः सोऽर्थः प्रतीत्येति । [१३८।०३] पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः । [१३८।०३-१३८।०४] तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः । [१३८।०४] न युक्त एष पदार्थः । किं कारणम् । [१३८।०४-१३८।०५] एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति । [१३८।०५] तद्यथा स्नात्वा भुङ्क्त इति । [१३८।०५-१३८।०६] नचासौ पूर्वमुत्पादात्कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते । [१३८।०६-१३८।०७] नचाप्यकर्तु कास्ति क्रियेति । [१३८।०७] आह चात्र [१३८।०८-१३८।०९] "प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते । सह चेत्क्त्वा न सिद्धोऽत्र पूर्वकालविधानत" इति ॥ [१३८।१०] नैष दोषः । इदं तावद्यं प्रष्टव्यः शाब्दिकः । [१३८।१०-१३८।११] किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहोऽनागते इति । [१३८।११] किं चातः । यदि वर्त्तमान उत्पद्यते । [१३८।११-१३८।१२] कथं वर्त्तमानो यदि नोत्पन्नः । [१३८।१२] उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः । [१३८।१२-१३८।१३] अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति । [१३८।१३-१३८।१४] अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति । [१३८।१४] किमवस्थश्चोत्पद्यते । उत्पादाभिमुखोऽनागतः । [१३८।१४-१३८।१५] तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते । [१३८।१५-१३८।१६] अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया । [१३८।१६-१३८।१७] न चात्र भवितुरर्थात्भूतिमन्यां क्रियां पश्यामः । [१३८।१७] तस्मादच्छलं व्यवहारेषु । एष तु वाक्यार्थः । [१३८।१७-१३८।१८] अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति योऽर्थः सोऽर्थः प्रतीत्यसमुत्पाद इति । [१३८।१९] आह चात्र [१३८।२०-१३८।२३] "असन्नुत्पद्यते यद्वत्प्रत्येत्यपि तथाऽथ सन् । उत्पन्न उत्पद्यत इत्यनिष्ठाऽसन् पुराऽपि वा ॥ सहकालेऽपि च क्त्वाऽस्ति दीपं प्राप्य तमो गतम् । आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते ॥" [१३८।२४] अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति । [१३८।२४-१३८।२५] प्रतिर्वीप्सार्थः । [१३८।२५] इतौ साधव इत्या अनवस्थायिनः । उत्पूर्वः पदिः प्रादुर्भावार्थः । [१३८।२६-१३८।२७] तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति । [१३८।२७] एषा तु कल्पनाऽत्रैव कल्प्यते । [१३८।२७-१३८।२८] इह कथं भविष्यति "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति"ति । [१३८।२८-१३९।०१] किमर्थं पुनर्भगवान् पर्यायद्वयमाह "अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते" इति । [१३९।०१-१३९।०२] अवधारणार्थम् । [१३९।०२-१३९।०३] यथाऽन्यत्राह "अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा" इति । [१३९।०३] अङ्गपरंपरां वा दर्शयितुम् । [१३९।०३-१३९।०४] अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति । [१३९।०४] जन्मपरंपरां वा । [१३९।०४-१३९।०५] पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति । [१३९।०५-१३९।०६] साक्षात्पारंपर्येण प्रत्ययभावं दर्शयति । [१३९।०६] कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित्पारंपर्येणेति । [१३९।०७] अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे । [१३९।०७-१३९।०८] नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात्प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति । [१३९।०८-१३९।०९] अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति । [१३९।०९] अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः । [१३९।१०-१३९।११] सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् । [१३९।११-१३९।१२] अतस्तां कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत्भवति नान्यस्मिन् । [१३९।१२-१३९।१३] यदुता "विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति"ति । [१३९।१४] अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः । अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते । [१३९।१५] तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः । [१३९।१५-१३९।१६] स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे । [१३९।१६] यावत्कारणस्रोतस्तावत्कार्यस्रोतो भवति । [१३९।१६-१३९।१७] कारणस्यैवचोत्पादात्कार्यमुत्पद्यत इति । [१३९।१७-१३९।१८] उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक्स्थितिं पश्चादुत्पोआदम् । [१३९।१८-१३९।१९] पुनराह "अस्मिन् सतीदं भवती"ति "कार्ये सति कारणस्य विनाशो भवती"ति । [१३९।१९-१३९।२०] स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् । [१३९।२०-१३९।२१] यस्मादस्योत्पादादिदमुत्पद्यत इति । [१३९।२१] एष चेत्सूत्रार्थोऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत । [१३९।२१-१३९।२२] पूर्वं च तावत्कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति । [१३९।२२-१३९।२३] एवं हि साधुः क्रमो भवति । [१३९।२३-१३९।२४] इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य । [१३९।२४] तस्मान्नैष सूत्रार्थः । [१३९।२४-१३९।२५] कथं पुन "र्विद्याप्रत्ययाः संस्कारा यावत्जातिप्रत्ययं जरामरणामि"ति । [१३९।२५] आभिसंबन्धमात्रं दर्शयिष्यामः । [१३९।२५-१४०।०२] बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजाननात्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंततिस्तां तां गतिं गच्छति । [१४०।०२-१४०।०३] ज्वालागमनयोगेनान्तराभवसंबन्धात् । [१४०।०३] तदन्यसंस्काराप्रत्ययं विज्ञानम् । [१४०।०३-१४०।०४] एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे "विज्ञानं कतमत् । [१४०।०४] षड्विज्ञानकाया" इति । [१४०।०५-१४०।०६] विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् । [१४०।०६] विभङ्गे महानिदानपर्याये चैवं निर्देशात् । [१४०।०६-१४०।०७] "तथा नामरूपपरिपाकात्क्रमेण षडायतनम् । [१४०।०७] ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव" इति । [१४०।०७-१४०।०८] त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः । [१४०।०८] ततस्त्रिविधा वेदना । तत्स्तृष्णा । [१४०।०८-१४०।०९] दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा । [१४०।०९] सुखायामदुःखासुखायां च रूपतृष्णा । [१४०।०९-१४०।१०] अदुःखासुखायामारुप्यतृष्णा । [१४०।१०] तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् । [१४०।१०-१४०।११] तत्र कामाः पञ्च कामगुणाः । [१४०।११] दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे । शीलं दौःशील्यविरतिः । [१४०।१२] व्रतं कुक्कुरगोव्रतादीनि । यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः । [१४०।१३-१४०।१४] ब्राह्मणपाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् । [१४०।१४] आत्मवादः पुनरात्मभावः । [१४०।१४-१४०।१५] आत्मेति वादोऽस्मिन्नित्यात्मवादः । [१४०।१५] आत्मदृष्ट्यस्मिमानावित्यपरे । कथमनयोरात्मवादत्वम् । [१४०।१५-१४०।१६] "आभ्यामात्मे"ति वचनात् । [१४०।१६] आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते । [१४०।१६-१४०।१७] प्रज्ञप्तिमात्रकस्योपादानात् । [१४०।१७-१४०।१८] यथोक्त "मात्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा" इति । [१४०।१८-१४०।१९] तेषामुपादानं तेषु यश्छन्दरागः । [१४०।१९] एवं हि भगवता सर्वत्राख्यातम् "उपादानं कतमत् । [१४०।१९-१४०।२०] योऽत्रच्छन्दरागं" इति । [१४०।२०] उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते । तद्भवः । [१४०।२०-१४०।२१] "यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये"ति सूत्रात् । [१४०।२१-१४०।२२] भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन । [१४०।२२] अनागतं जन्म जातिः पञ्चस्कन्धिका । [१४०।२२-१४०।२३] जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे । [१४०।२३] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती"ति । [१४०।२४] केवलस्येत्यात्मीयरहितस्य । महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य । [१४०।२५] समुदयो भवतीति प्रदुर्भावः । स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः । [१४०।२६] अथाविद्येति कोऽर्थः । या न विद्या । चक्षुरादिष्वपि प्रसङ्गः । [१४०।२६-१४०।२७] विद्याया अभावस्तर्हि । [१४०।२७] एवं सति न किञ्चित्स्यात् । [१४०।२७-१४०।२८] न चैतत्युक्तम् । [१४०।२८] तस्मात् [१४१।०१] विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत् ॥ ३.२८ ॥ [१४१।०२-१४१।०३] यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः । [१४१।०३] ऋतं चोच्यते सत्यम् । [१४१।०३-१४१।०४] तद्विपक्षभूतं वाक्यमनृतं भवति । [१४१।०४] अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः । [१४१।०४-१४१।०५] एवमविद्याऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् । [१४१।०५] कुत एतत् । प्रत्ययभावेनोपदेशात् । अपि च [१४१।०६] संयोजनादिवचनात् [१४१।०७] संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु । [१४१।०७-१४१।०८] न चाभावमात्रं तथा भवितुमर्हति । [१४१।०८] न चापि चक्षुरादयः । तस्माद्धर्मान्तरमेवाविद्या । [१४१।०८-१४१।०९] यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः । [१४१।०९] एवमविद्याऽप्यस्तु । [१४१।१०] कुप्रज्ञा चेन्न दर्शनात् । [१४१।११] कुत्सिता हि प्रज्ञ क्लिष्टा । सा च दृष्टिस्वभावा इति नाविद्या युज्यते । [१४१।११-१४१।१२] या तर्हि न दृष्टिः सा भविष्यति । [१४१।१२] साऽपि भवितुं नार्हति । किं कारणम् । [१४१।१३] दृष्टेस्तत्संप्रयुक्तत्वात् [१४१।१४] अविद्या चेत्प्रज्ञाऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत । [१४१।१४-१४१।१५] द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् । [१४१।१५] इतश्च [१४१।१६] प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥ [१४१।१७] "रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती"त्युक्तं सूत्रे । [१४१।१८] न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति । [१४१।१८-१४१।१९] यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या । [१४१।१९] किं पुनरेवं नेष्यते । [१४१।२०] क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति । [१४१।२०-१४१।२१] अतोऽसौ तस्या उपक्लेश इति । [१४१।२१] यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते । [१४१।२१-१४१।२२] किं तदवश्यं रागपर्यवस्थितं भवति । [१४१।२२] उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते । [१४१।२२-१४१।२३] तां पुन्र्भावनां व्यावर्तयतो विमुच्यते । [१४१।२३-१४१।२४] एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः । [१४१।२४] को हि परिकल्पयन् वार्यते । जात्यन्तरमेव त्वविद्यां वर्णयन्ति । [१४१।२५] योऽपि मन्यते "सर्वक्लेशा अविद्ये"ति तस्याप्यत एव व्युदासः । [१४१।२५-१४२।०१] सर्वक्लेशस्वभावाऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत । [१४२।०१-१४२।०२] अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात्चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् । [१४२।०२-१४२।०३] अथ मतं विशेषणार्थं तथोक्तमिति । [१४२।०३] प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् । [१४२।०३-१४२।०४] भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः । [१४२।०४] सत्यवन्न कर्मफलानामसंप्रख्यानम् । [१४२।०४-१४२।०५] एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति । [१४२।०५-१४२।०६] यदि यन्न संप्रख्यानं संप्रख्यानाभावेऽपि तथैव दोषो यथा अविद्यायाम् । [१४२।०६-१४२।०७] अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् । [१४२।०७] तदिदं तथैव न ज्ञायते किं तदिति । [१४२।०७-१४२।०८] एवञ्जातीयकोऽपि धर्माणां निर्देशो भवति । [१४२।०८] तद्यथा "चक्षुः कतमत् । यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय" इति । [१४२।०९] अस्मीति सत्त्वमयताऽविद्येते भदन्तधर्मत्रातः । का पुनरस्मिमानादन्या मयता । [१४२।१०-१४२।१२] याऽसौ सूत्र उक्ता "सोऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात्परिज्ञानान्निश्छायो निवृत" इति । [१४२।१२] अस्त्येषा मयता । सा त्वियमविद्येति कुत एतत् । [१४२।१३] यत एषा नान्यः क्लेशः शक्यते वक्तुम् । ननु चान्यो मान एव स्यात् । [१४२।१३-१४२।१४] अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते । [१४२।१४] तस्मात्तिष्ठत्वेतत् । [१४२।१५] अथ नामरूपमिति कोऽर्थः । रूपं विस्तरेण यथोक्तम् । [१४२।१६] नाम त्वरूपिणः स्कन्धाः [१४२।१७] किं कारणम् । नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम । कतमस्य नाम्नो वशेन । [१४२।१८] यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि । [१४२।१९] एतस्य पुनः केन नामत्वम् । तेषु तेष्वर्थेषु तस्य नाम्नो नमनात् । [१४२।१९-१४२।२०] इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे ॥ [१४२।२१] षडायतनमुक्तम् । [१४२।२२] स्पर्शो वक्तव्यः । [१४२।२३] ष्पर्शाः षट् [१४२।२४] चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति । ते पुनः [१४३।०१] संनिपातजाः । [१४३।०२] त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् । [१४३।०२-१४३।०३] युक्तं तावत्पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः । [१४३।०३] सहजत्वात् । [१४३।०३-१४३।०४] मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः । [१४३।०४-१४३।०५] अयमेव तेषां संनिपातो यः कार्यकारणभावः । [१४३।०५] एककार्यार्थो वा संनिपातार्थः । [१४३।०५-१४३।०६] सर्वे च ते त्रयोऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति । [१४३।०६] अत्र पुनराचार्याणां भेदं गता बुद्धयः । [१४३।०६-१४३।०८] केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः" इति । [१४३।०८-१४३।०९] केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "षट्षट्को धर्मपर्यायः कतमः । [१४३।१०] षडाध्यात्मिकान्यायतनानि । षट्बाह्यान्यायतनानि । षट्विज्ञानकायाः । [१४३।१०-१४३।११] षट्स्पर्शकायाः । [१४३।११] षट्वेदनाकायाः । षट्तृष्णाकाया" इति । [१४३।११-१४३।१२] अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग्देशिताः । [१४३।१२-१४३।१३] तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः । [१४३।१३] न वै पृथिग्निर्देशात्पृथग्भावो भवति । [१४३।१३-१४३।१४] मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति । [१४३।१४-१४३।१५] नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् ॥ [१४३।१५-१४३।१६] न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् । [१४३।१६-१४३।१७] यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् । [१४३।१७] तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति । [१४३।१८-१४३।१९] न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् । [१४३।१९-१४३।२०] अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके । [१४३।२०-१४३।२१] ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति "इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श" इति । [१४३।२१] न वा एवं पठन्ति । [१४३।२१-१४३।२२] किं तर्हि । [१४३।२२-१४३।२३] संगतेः संनिपातात्समवायादिति पठन्ति कारणे व कार्योपचारोऽयमिति ब्रुवन्ति । [१४३।२३] अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन । [१४३।२३-१४३।२४] अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः । [१४३।२४] तेषां प्न्नां षण्णां स्पर्शानां [१४३।२५] पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाह्वय ॥ ३.३० ॥ [१४३।२६] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते । [१४३।२६-१४४।०१] सप्रतिघेन्द्रियाश्रयत्वात् । [१४४।०१] मनः संस्पर्शः षष्ठः सोऽधिवचनस्पर्श इत्युच्यते । [१४४।०१-१४४।०२] किं कारणमधिवचनमुच्यते नाम । [१४४।०२] तत्किलास्याधिकमालम्बनमतोऽधिवचनसंस्पर्श इति । [१४४।०२-१४४।०४] यथोक्तं "चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती"ति । [१४४।०४] एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः । [१४४।०५] अपरे पुनराहुः । वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् । [१४४।०६] अतस्तदेवाधिवचनम् । [१४४।०६-१४४।०७] तेन संप्रयुक्तः स्पर्शोऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः । [१४४।०७] पुनस्त एव षट्स्पर्शास्त्रयो भवन्ति । [१४४।०८] विद्याविद्येतरस्पर्शाः [१४४।०९] विद्यासंस्पर्शोऽविद्यासंस्पर्शः । ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति । [१४४।०९-१४४।१०] एते पुनर्यथाक्रमं वेदितव्याः । [१४४।११] अमलक्लिष्टशेषिताः । [१४४।१२-१४४।१३] अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टोऽविद्यासंस्पर्शो विद्याऽविद्याभ्यां संप्रयुक्तत्वात् । [१४४।१३] शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् । कः पुन शेषः । [१४४।१४] कुशलसास्रवोऽनिवृताव्याकृतश्च । [१४४।१४-१४४।१५] पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात्द्वौ सोपर्शौ भवतः । [१४४।१६] व्यापादानुनयस्पर्शौ [१४४।१७] व्यापादानुनयाभ्यां संप्रयोगात् । पुनः सर्वसंग्रहेण [१४४।१८] सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥ [१४४।१९] सुखवेदनीयः स्पर्शो दुःखवेदनीयोऽदुःखासुखवेदनीयश्च । सुखवेदनादिहितत्वात् । [१४४।२०] अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् । किं तत् । वेदितम् । [१४४।२०-१४४।२१] सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति [१४४।२१-१४४।२२] एवं दुःखादुःखासुखवेदनीयावपि योज्यौ । [१४४।२२] त एते षोडश स्पर्शा भवन्ति । उक्तः स्पर्शः ॥ [१४४।२३] वेदना वक्तव्या । तत्र यः पूर्वं षड्विधः स्पर्श उक्तः [१४४।२४] तज्जाः षड्वेदनाः [१४४।२५] चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः । तासां पुनः [१४५।०१] पञ्च कायिकी चैतसी परा । [१४५।०२] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते । [१४५।०२-१४५।०३] रूपीन्द्रियाश्रितत्वात् । [१४५।०३] मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते । चित्तमात्राश्रितत्वात् । [१४५।०३-१४५।०४] अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित्समानकालम् । [१४५।०४-१४५।०५] समानकालमिति वैभाषिकाः । [१४५।०५] अन्योन्यं सहभूहेतुत्वात् । [१४५।०५-१४५।०६] कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति । [१४५।०६] कथं च न सिध्यति । असामर्थ्यात् । [१४५।०६-१४५।०७] जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञाऽविशिष्टम् । [१४५।०७-१४५।०८] यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति । [१४५।०८] अन्योन्यजनकप्रसङ्गत्तर्हि । इष्टत्वाददोषः । [१४५।०९] इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् । [१४५।०९-१४५।१०] इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् । [१४५।१०-१४५।११] "चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श" इति वचनात् । [१४५।११-१४५।१२] जनकधर्मातिक्रमाव्चायुक्तम् । [१४५।१२-१४५।१३] यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात्भिन्नकालः प्रसिद्धः । [१४५।१३-१५३।१४] तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात्मनोविज्ञानमित्येवमादि । [१४५।१४-१४५।१५] अन्यथा परंपरापेक्षत्वात्कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित्पश्चाद्विशेषाभावात् । [१४५।१५-१४५।१६] नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः । [१४५।१६] सहभावोऽपि तु सिद्धः । [१४५।१६-१४५।१८] तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् । [१४५।१८-१४५।१९] पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः ॥ [१४५।१९] यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः । [१४५।२०] स्पर्शादुत्तरकालं वेदनेत्यपरे । इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् । [१४५।२०-१४५।२१] सोऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति । [१४५।२१-१४५।२२] एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः । [१४५।२२] नैष दोषः । [१४५।२२-१४५।२३] पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति । [१४५।२४] इदमयुक्तं वर्त्तते । किमत्रायुक्तम् । [१४५।२४-१४५।२५] यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति । [१४५।२५-१४५।२६] कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदनाऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति । [१४५।२६-१४६।०१] अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् । [१४६।०१-१४६।०२] तस्माच्च यत्पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः । [१४६।०२] प्रत्ययवैधुर्यादित्येवं सति को दोषः । महाभूमिकनियमो भिद्यते । [१४६।०३] "सर्वत्र चित्ते दशमहाभूमिका" इति । क्व चैष नियमः सिद्धः । शास्त्रे । [१४६।०३-१४६।०४] सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः । [१४६।०४-१४६।०५] उक्तं हि भगवता "सूत्रान्तप्रतिशरणैर्भवितव्यमि" ति । [१४६।०५-१४६।०६] न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति । [१४६।०६] कस्तर्हि महाभूमिकार्थः । तिस्रो भूमयः । [१४६।०६-१४६।०७] सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः पुनश्तिस्र कुसला भूमिः अकुशलाऽव्याकृता भुमिः । [१४६।०७-१४६।०८] पुनस्तिस्रः । [१४६।०८] शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः । [१४६।०८-१४६।०९] तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः । [१४६।०९-१४६।१०] ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः । [१४६।१०] ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः । [१४६।१०-१४६।११] ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे । [१४६।११] अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः । [१४६।११-१४६।१२] इदानीं पूर्वं न पठ्यन्ते स्म । [१४६।१२-१४६।१४] यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने"ति । [१४६।१४-१४६।१५] सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् । [१४६।१५-१४६।१६] समनन्तरेऽपि चायं सहशब्दो दृष्टस्तद्यथा "मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती" त्यज्ञापकमेतत् । [१४६।१६-१४६।१८] यत्तर्हि सूत्र उक्तं "या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् । [१४६।१८] संप्रधार्यं तावदेतत्क एष सम्सृष्टार्थः । [१४६।१८-१४६।२०] तत्र हि सूत्र एवमुक्तं "यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती"ति । [१४६।२०-१४६।२१] तन्न विज्ञायते किं तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति । [१४६।२१] आयुरुष्मणोः साहभाव्ये संसृष्टवचनात्सिद्धः क्षणनियमः । [१४६।२२] यच्चापि सूत्र उक्तं "त्रयाणां संनिपातः स्पर्शः" इति । [१४६।२२-१४६।२३] तत्कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति । [१४६।२३-१४६।२४] तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या । [१४६।२४] अलमतिप्रसङ्गिया कथया । प्रकृतमेवानुक्रम्यताम् ॥ [१४६।२५] उक्ता समासेन चैतसिकी वेदना ॥ [१४६।२६] पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥ [१४६।२७] सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते । [१४६।२७-१४६।२८] पुनः संधिकरणं चात्र द्रष्टव्यम् । [१४६।२८] अष्टादशमनो पविचाराः कतमे । [१४६।२८-१४७।०१] षट्सौमनस्योपचिराः षट्दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः । [१४७।०१] कथमेषां व्यवस्थानम् । यदि स्वभावतः । [१४७।०२] त्रयो भविष्यन्ति । सौमनस्यदौर्मनस्योपेक्षाविचाराः । [१४७।०२-१४७।०३] अथ संप्रयोगतः । [१४७।०३] एको भविष्यति । सर्वेषां मनः संप्रयुक्तत्वात् । अथालम्बनतः । [१४७।०३-१४७।०४] षट्भविष्यन्ति । [१४७।०४] रूपादिषड्विषयालम्बनत्वत् । त्रिभिरपि स्थापना । [१४७।०४-१४७।०५] तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् । [१४७।०५-१४७।०६] त्रयो धर्मोपविचारा उभयथा । [१४७।०६] मनोपविचारा इति कोऽर्थः । [१४७।०६-१४७।०७] मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति । [१४७।०७] विषयेषु वा मन उपविचारयन्तीत्यपरे । [१४७।०८] वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् । [१४७।०८-१४७।०९] कस्मात्कायिकी वेदना न मनोपविचारः । [१४७।०९-१४७।१०] नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिकाऽविकल्पकत्वादित्ययोगः । [१४७।१०] तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् । [१४७।१०-१४७।११] आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति । [१४७।१२] यदि मनोभूमिका एवैते । [१४७।१२-१४७।१३] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः । [१४७।१३] कथम् । [१४७।१३-१४७।१४] पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं "मनोभूमिका ह्येते । [१४७।१४-१४७।१५] तद्यथाऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे"ति । [१४७।१५-१४७।१६] अपि तु "दृष्ट्वा यावत्स्पृष्ट्वे"ति वचनात् । [१४७।१६-१४७।१७] अचोद्यमेवैतत् । येऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति तेऽपि मनोपविचाराः । [१४७।१७-१४७।१८] इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः । [१४७।१८-१४७।१९] यथा तु यक्ततरं तथोक्तं योऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सोऽपि मनोपविचारः । [१४७।२०] यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः । [१४७।२०-१४७।२१] किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात्यावदुपेक्षास्थानीयमेव । [१४७।२१-१४७।२२] अस्ति संतानं नियमय्य न त्व्बालम्बनम् ॥ [१४७।२३-१४७।२४] अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः । [१४७।२४] आह [१४७।२५] कामे स्वालम्बनाः सर्वे [१४७।२६] आमधातौ सर्वेऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् । तेषामेव [१४८।०१] रूपी द्वादशगोचरः । [१४८।०२] रूपधातुर्द्वादशानामालम्बनं षट्गन्धरसोपविचारानपास्य । तत्र तयोरभावात् । [१४८।०३] त्रयाणामुत्तरः [१४८।०४] गोचर इति वर्तते । आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् । [१४८।०४-१४८।०५] तत्र रूपाद्यभावात् ॥ [१४८।०५] उक्ताः कामप्रतिसंयुकताः । [१४८।०६] रूपप्रतिसंयुक्ता वक्तव्याः । तत्र तावत् [१४८।०७] ध्यानद्वये द्वादश [१४८।०८] दौर्मनस्योपविचारानपास्य । ते च द्वादश [१४८।०९] कामगाः ॥ ३.३३ ॥ [१४८।१०] कामान् गच्छन्तीति कामगाः । कामधातुमालबन्त इत्यर्थः । [१४८।१०-१४८।११] दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः । [१४८।११] कथमेतत्गम्यते । एवमेतत्गम्यत इति । [१४८।१२] स्वोऽष्टालम्बनम् [१४८।१३] स एव रूपधातुस्तेषं स्वः । स एव रूपधातुस्तेषां स्वः । [१४८।१३-१४८।१४] स्वोऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा । [१४८।१५] आरूप्यो द्वयोः [१४८।१६] धर्मोपविचारयोरालम्बनम् । [१४८।१७] ध्यानद्वये तु षट् । [१४८।१८] तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये । तेषां पुनरालम्बनं [१४८।१९] कामाः षण्णां [१४८।२०] कामधातुः षण्णामप्यालम्बनम् । [१४८।२१] चतुर्णां स्वः [१४८।२२] रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् । [१४८।२३] एकस्यालम्बनं परः ॥ ३.३४ ॥ [१४८।२४] आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् । उक्ता रूपप्रतिसंयुक्ताः । [१४९।०१] आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते । [१४९।०२] चत्वारोऽरूपिसामन्ते [१४९।०३] आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् । [१४९।०३-१४९।०४] तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः । [१४९।०४] ते च [१४९।०५] रूपगाः [१४९।०६] चतुर्थं हि ध्यानमेषामालम्बनम् । [१४९।०६-१४९।०८] येषां तत्व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः । [१४९।०९] एक ऊर्ध्वगः । [१४९।१०] एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः । [१४९।११] एको मौले [१४९।१२] मौले पुनरारूप्ये धर्मोपविचार एवैकोऽस्ति नान्यः । स चापि [१४९।१३] स्वविषयः [१४९।१४] आरुप्यधात्वालम्बन एव । [१४९।१४-१४९।१५] नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात्प्रतिवेदविष्यामः । [१४९।१५] एते च मनोपविचाराः [१४९।१६] सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥ [१४९।१७] नास्ति कश्चिदनास्रवः । कः कतिभिः समन्वागतः । [१४९।१७-१४९।२१] कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः । [१४९।२१-१४९।२२] चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः । [१४९।२२] द्वितीयध्यानभूमिकैरष्टाभिः । [१४९।२३] तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् । अनया वर्त्तन्या शेषमनुगन्तव्यम् । [१४९।२४-१४९।२५] ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः । [१४९।२५] अपर आह । [१४९।२५-१५०।०१] अस्त्येवं मनोपविचाराणां वैभाषिकीयोऽर्थः । [१५०।०१] सूत्रार्थस्त्वन्यथा दृश्यते । [१५०।०१-१५०।०२] नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् । [१५०।०२-१५०।०३] अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः । [१५०।०३] किं तर्हि । सांक्लेशिका यैर्मनो विषयानुपविचरतीति । [१५०।०३-१५०।०४] कथं चोपविचरति । [१५०।०४-१५०।०५] अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट्सातता विहारा भवन्ति । [१५०।०५-१५०।०७] चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजाननेवं यावन्मनसा धर्मान् विज्ञायेति । [१५०।०७-१५०।०८] नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति । [१५०।०८-१५०।०९] पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति । [१५०।०९] गर्धनैष्क्रम्याश्रितभेदेन । [१५०।१०] तद्भेदस्य शास्त्रा गमितत्वात् । [१५०।१०-१५०।११] तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः । [१५०।११] एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् । [१५०।११-१५०।१२] शेषाण्यङ्गानि पुनर्नोच्यन्ते । [१५०।१२] किं कारणम् । यस्मात् [१५०।१३] उक्तं च वक्ष्यते चान्यत् [१५०।१४] किञ्चिदत्राङ्गमुक्तं किञ्चित्पश्चद्वक्ष्यते । तत्र विज्ञानं तावदुक्तं [१५०।१५] "विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि"ति । [१५०।१६] षडायतनमप्युक्तं [१५०।१७] "तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय" इति । [१५०।१८] संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते । तृष्णोपादानानि क्लेशकोशस्थाने । [१५०।१९] स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक्ज्ञापितम् । [१५०।२०] अत्र तु क्लेश इष्यते । [१५०।२१] बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥ [१५०।२२] किमस्य वीजादिभिः साधर्म्यम् । [१५०।२२-१५०।२३] तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात्क्लेशकर्मवस्तूनाम् । [१५०।२३-१५१।०१] यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः । [१५१।०१-१५१।०२] यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः । [१५१।०२-१५१।०३] यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत्क्लेशकर्मवस्तूनां हेतुर्भवन्ति । [१५१।०३-१५१।०६] यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत्क्लेशो बीजादिवद्वेदितव्यः । [१५१।०७] तुषितण्डुलवत्कर्म तथैवौषधिपुष्पवत् । [१५१।०८] तुषौऽस्यास्तीति तुषी । तुषस्थानीयः क्लेश उक्तः । [१५१।०८-१५१।०९] इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते । [१५१।०९-१५१।१०] सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते । [१५१।१०-१५१।११] यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि । [१५१।१२] सिद्धान्नपानवद्वस्तु [१५१।१३-१५१।१४] पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु । [१५१।१४] नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते । [१५१।१४-१५१।१५] यदि हि प्रवर्धेत मोक्षो न स्यात् । [१५१।१५-१५१।१६] न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति । [१५१।१६] यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च । [१५१।१६-१५१।१७] ते च व्याख्याताः । [१५१।१८] तस्मिन् भवचतुष्टये ॥ ३.३७ ॥ [१५१।१९] उपपत्तिभवः क्लिष्टः [१५१।२०] एकान्तेन । कतमेन क्लेशेन । [१५१।२१] सर्वक्लेशै स्वभूमिकैः । [१५१।२२] यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः । [१५१।२२-१५१।२३] नहि स क्लेशोऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः । [१५१।२३-१५१।२४] क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः । [१५१।२४-१५१।२५] यद्यपि साऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते । [१५१।२५] पूर्वावेधात् । [१५१।२५-१५१।२६] अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः । [१५१।२७] त्रिधाऽन्ये [१५१।२८] अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः । [१५२।०१] अथैषां भवानां कतमः किंप्रतिसंयुक्तः । [१५२।०२] त्रय आरूप्ये [१५२।०३] अन्तराभवं वर्जयित्वा । [१५२।०३-१५२।०४] नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवोऽभिनिर्वर्तेत । [१५२।०४-१५२।०५] कामरूपधात्वोरपरिसंख्यानात्सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति । [१५२।०५-१५२।०६] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण । [१५२।०७] अथ कथं सत्त्वानां स्थितिभवतीत्याह [१५२।०८] आहारस्थितिकं जगत् ॥ ३.३८ ॥ [१५२।०९-१५२।१०] एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो "यदुत सर्वस्त्त्वा आहारस्थितिका" इति सूत्रपदम् । [१५२।१०] के पुनराहाराः । चत्वार आहाराः । [१५२।१०-१५२।११] कवडीकाराहारः प्रथमः । [१५२।११] औदारिकः सूक्ष्मश्च । [१५२।११-१५२।१२] सूक्ष्मोऽन्तराभविकानां गन्धाहारत्वात् । [१५२।१२] देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् । [१५२।१२-१५२।१३] तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् । [१५२।१३] सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् । [१५२।१३-१५२।१४] स्पर्शो द्वितीयः । [१५२।१४] मनःसंचेतना तृतीयः । विज्ञानमाहारश्चतुर्थः । [१५२।१५] तत्र पुनः [१५२।१६] कवडीकार आहारः कामे [१५२।१७] न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः । स च [१५२।१८] त्र्यायतनात्मकः । [१५२।१९] कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः । [१५२।१९-१५२।२०] कवडीकृत्याभ्यवहरणात् । [१५२।२०] मुखनासिकाग्रासव्यवच्छेदतः । [१५२।२०-१५२।२१] च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् । [१५२।२१] बाहुल्येन किलैष निर्देशः । [१५२।२१-१५२।२२] यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः । [१५२।२२] स्नानाभ्यङ्गवदिति । [१५२।२२-१५२।२३] कस्मान्न रूपायतनमाहारः । [१५२।२३] तदपि कवडीकृत्याभ्यवह्रियते । [१५२।२४] न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥ [१५२।२५] आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते । [१५२।२५-१५२।२६] रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति । [१५२।२६] कुत एवान्यान्यविषत्वात् । [१५३।०१-१५३।०२] यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् । [१५३।०२-१५३।०३] मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् । [१५३।०४] स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु । [१५३।०५] स्पर्शस्त्रिकसंनिपातजः । [१५३।०५-१५३।०६] चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते । [१५३।०६] किमर्थं नानास्रवाणि । [१५३।०६-१५३।०७] यस्मात्भवापोषणार्थ आहारार्थः । [१५३।०७] तानि च भावक्षयायोत्थितानीति वैभाषिकाः । [१५३।०७-१५३।०९] अपि तु सूत्र उक्तं "चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये"ति । [१५३।०९] न चैवमनास्रवा धर्मा इति नाहाराः । [१५३।१०] भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते । अथ संभवैषिणः कतमे । [१५३।११] मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥ [१५३।१२] निर्वृत्तिश्च [१५३।१३] अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता । [१५३।१३-१५३।१४] स एव मनोनिर्जातत्वात्मनोमय उक्तः । [१५३।१४] शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् । [१५३।१४-१५३।१५] संभवैषणशीलत्वात्संभवैषी । [१५३।१५] गन्धर्वणात्गन्धर्वः । उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः । [१५३।१५-१५३।१६] "अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत" इति सूत्रपदात् । [१५३।१६-१५३।१८] "तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्" इति सूत्र चतुःकोटिकात् । [१५३।१८] प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसोऽनागामिनः । [१५३।१८-१५३।१९] द्वितीयान्तरापरिनिर्वायिणः । [१५३।१९] तृतीयाऽर्हताम् । चतुर्थ्येतानाकारान् स्थापयित्वा । [१५३।१९-१५३।२०] भूतावाऽर्हन्तः संभवैषिणः सतृष्णाः । [१५३।२१] अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय । [१५३।२१-१५३।२२] सर्वेऽप्युभयथेति वैभाषिकाः । [१५३।२२] कवडीकाराहारोऽपि हि तद्रागिणां पुनर्भवाय संवर्तते । उक्तं हि । [१५३।२३-१५३।२४] भगवता "अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय" इति । [१५३।२४] मनःसंचेतनाऽपि चेह स्थितये दृश्यते । [१५३।२४-१५३।२६] एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ । [१५३।२६-१५३।२७] तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति । [१५३।२७-१५४।०२] पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति । [१५४।०२-१५४।०४] संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात्स्थलमभिरुह्य सिकतास्थलेऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रेऽवतरन्ति । [१५४।०४-१५४।०५] तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति । [१५४।०५] तदेतन्न वर्णयन्ति सौत्रान्तिकाः । [१५४।०५-१५४।०६] मा भूत्परकीयेणाहारेणाहार इति । [१५४।०६] एवं तु वर्णयन्ति । [१५४।०६-१५४।०७] येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति । [१५४।०७-१५४।०८] येषां तु मुष्यते तानि पूतीभवन्ति । [१५४।०८] तस्याः स्पर्शावस्थायाः स्मरन्तीति । [१५४।०९] अथ कस्माच्चत्वार एवाहाराः । [१५४।०९-१५४।१०] ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः । [१५४।१०] यद्यप्येतदेवं तथापि प्रधान्येनोक्तम् [१५४।११] इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् । [१५४।१२] द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम् ॥ ३.४१ ॥ [१५४।१३] आश्रयो हि सेन्द्रियः कायः । तस्य पुष्टये कवडीकाराहाराः । [१५४।१३-१५४।१४] आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः । [१५४।१४] अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् । [१५४।१४-१५४।१६] मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् । [१५४।१६] अतश्चत्वार उक्ताः । [१५४।१६-१५४।१७] पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् । [१५४।१७] उत्तरौ मातृस्थानीयौ जनकत्वादिति । [१५४।१८] यः कश्चित्कवडीकारः सर्वः स आहारः । [१५४।१८-१५४।१९] स्यात्कवडीकारो नाहार इति चतुष्कोटिकम् । [१५४।१९-१५४।२०] प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः । [१५४।२०] द्वितीया कोटिस्त्रय आहाराः । [१५४।२०-१५४।२१] तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः । [१५४।२१-१५४।२२] चतुर्थ्येतानाकारान् स्थापयित्वा । [१५४।२२-१५४।२३] एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि । [१५४।२३-१५४।२४] स्यात्स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः । [१५४।२४] स्यादन्यभूमिकाननास्रवांश्च । [१५४।२४-१५४।२५] योऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सोऽप्याहार एव । [१५४।२५] आपातेऽनुग्रहात् । [१५४।२५-१५४।२६] द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः । [१५४।२६] अथ कस्यां गतौ कत्याहाराः । [१५४।२७] सर्वासु सर्वे । एवं योनिष्वपि । कथं नरकेषु कवडीकार आहारः । [१५४।२७-१५४।२८] प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् । [१५४।२८-१५५।०१] यद्यूपघातकोऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च "कवडीकार आहारः कतमः । [१५५।०१-१५५।०३] यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापनाऽनुयापनेति विस्तरेण यावद्विज्ञानम् ।" [१५५।०३] उपचयाहाराभिसंधिवचनादविरोधः । [१५५।०३-१५५।०४] अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् । [१५५।०४] सोऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति । [१५५।०४-१५५।०५] अपितु प्रत्येकनरकेषु मनुष्यवत्कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् । [१५५।०५-१५५।०७] उक्तं भगवता "यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् । [१५५।०७] अतो दानादिदं दानं महाफलतरमि"ति । [१५५।०७-१५५।०८] कोऽयं जम्बूषण्डगतो नाम पृथग्जनः । [१५५।०८] जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके । [१५५।०८-१५५।०९] तदेतन्न युक्तमेकमिति वचनात् । [१५५।०९] कश्चात्र विशेषः । [१५५।०९-१५५।१०] स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात्नाल्पीयसो वीतरागानिति । [१५५।१०] संनिकृष्टो बोधिसत्त्व इत्यपरे । [१५५।११] तदेतन्न वर्णयन्ति "बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य" इति । [१५५।११-१५५।१२] अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः । [१५५।१२-१५५।१३] नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा । [१५५।१३-१५५।१४] जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः । [१५५।१४] बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते । [१५५।१४-१५५।१५] स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति । [१५५।१५-१५५।१६] अनन्तेभ्योऽपि हि स तेभ्यो विशिष्यमाणः । [१५५।१६] शतग्रहणं तु पूर्वाधिकारात् । [१५५।१६-१५५।१७] इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव । [१५५।१७-१५५।१८] अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् । [१५५।१८-१५५।१९] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः । [१५५।२०] इदमिदानीं वक्तव्यम् । कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह [१५५।२१] छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः । [१५५।२२] मनोविज्ञान एवेष्टाः [१५५।२३-१५५।२४] कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च । [१५५।२४] एते षट्धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र । [१५५।२४-१५५।२५] उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः । [१५५।२५] वेदनायां तु [१५६।०१] उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥ [१५६।०२] च्युतिरेव च्युतमुपपत्तिरुद्भवः । [१५६।०२-१५६।०३] एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् । [१५६।०३] इतरे हि वेदने पट्व्यौ । न च पटुविज्ञाने च्युत्युपपत्ती युज्येते । [१५६।०३-१५६।०४] तत्रापि च मनोविज्ञानेऽपि [१५६।०५] नैकाग्राचित्तयोरेतौ [१५६।०६] च्युतोद्भवाविति वर्तते । नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा । [१५६।०६-१५६।०७] विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च । [१५६।०७-१५६।०८] नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत । [१५६।०८-१५६।०९] यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात्प्रच्यवेत नान्यथा । [१५६।०९-१५६।१०] उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् । [१५६।११] मरणभवस्त्रिप्रकार इत्युक्तम् । अर्हस्तु [१५६।१२] निर्वात्यव्याकृतद्वये । [१५६।१३] ऐर्यापथिके विपाकचित्ते वा । अस्ति चेत्कामधातौ विपाक उपेक्षा । [१५६।१३-१५६।१४] नास्ति चेदैर्यापथिक एव । [१५६।१४] किमर्थमव्याकृट एव नान्यस्मिन् । [१५६।१४-१५६।१५] तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् । [१५६।१६] अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते । [१५६।१६-१५६।१७] सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते । [१५६।१७] यदि तु क्रमेण च्यवते ततः [१५६।१८] क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥ [१५६।१९] अधोनृसुरगाजानां [१५६।२०] अधो गच्छन्तीत्यधोगा अपायगामिनः । नृन् गच्छन्तीति नृगा मनुष्यगामिनः । [१५६।२०-१५६।२१] सुरान् गच्छन्तीति सुरगा देवगामिनः । [१५६।२१-१५६।२२] तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते । [१५६।२२] न पुनर्जायन्त इत्यजा अर्हन्तः । तेषामपि हृदये विज्ञानं निरुध्यते । [१५६।२३] मूर्ध्नीत्यपरे । [१५६।२३-१५६।२४] कायेन्द्रियस्य तेषु निरोधात्कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति । [१५६।२४-१५६।२५] एवं च पुनः क्रमेण मरणम् । [१५६।२५] प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते । [१५६।२६] मर्मच्छेदस्त्वबादिभिः । [१५६।२७] शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति । [१५६।२७-१५७।०१] ते ह्येतदुच्यन्ते मर्माणीति । [१५७।०१-१५७।०३] तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते । [१५७।०३-१५७।०४] कस्मान्न पृथिवीधातुना । [१५७।०४] चतुर्थदोषाभावात् । वातपित्तश्लेष्माणो हि त्रयो दोषाः । [१५७।०४-१५७।०५] ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति । [१५७।०५] भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे । [१५७।०५-१५७।०६] देवेषु नास्ति मर्मच्छेदः । [१५७।०६] किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति । [१५७।०७-१५७।०९] वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मनाऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः । [१५७।०९] एतानि तु व्यभिचारीणि । [१५७।०९-१५७।१०] पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते । [१५७।१०-१५७।११] वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते । [१५७।११-१५७।१२] सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता । [१५७।१२-१५७।१३] त्रयो राशयः । [१५७।१३-१५७।१४] सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति । [१५७।१४] तत्र पुनः [१५७।१५] सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥ [१५७।१६] "सम्यक्त्वं कतमत् । [१५७।१६-१५७।१७] यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व"मिति सूत्रम् । [१५७।१७] आर्याः कतमे । [१५७।१८] येषामनास्रवो मार्ग उत्पन्नः । आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः । [१५७।१८-१५७।१९] आत्यन्तिकविसंयोगप्राप्तिलाभात् । [१५७।१९-१५७।२०] एते हि क्लेशक्षये नियतत्वात्सम्यक्त्वनियताः मोक्षभागीयलाभिनोऽप्यवश्यं परिनिर्वाणधर्माण इति । [१५७।२०] कस्मान्न सम्यक्त्वे नियताः । [१५७।२१] ते हि मिथ्यात्वेऽपि नियता भवेयुः । [१५७।२१-१५७।२२] न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः । [१५७।२२] मिथ्यात्वं कतमत् । [१५७।२२-१५७।२३] नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् । [१५७।२३] तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः । [१५७।२३-१५७।२४] नियतेभ्योऽन्येऽनियता इति सिद्धम् । [१५७।२४] प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च । [१५७।२५] उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः । [१५७।२६-१५७।२७] तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः । लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥ [१५८।०१] त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति । [१५८।०१-१५८।०२] यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् । [१५८।०२-१५८।०४] कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः । [१५८।०४] तस्योपरिष्टात् [१५८।०५] अपामेकादशोद्वेधं सहस्राणि च विंशतिः ॥ [१५८।०६] मण्डलमिति वर्त्तते । [१५८।०६-१५८।०७] तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति । [१५८।०७] तत्भवत्यषां मण्डलम् । [१५८।०७-१५८।०८] तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि । [१५८।०८] कथं ता आपो न तिर्यङ्ग्विस्रवन्ति । [१५८।०८-१५८।०९] सत्त्वानां कर्माधिपत्येन । [१५८।०९-१५८।१०] यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके । [१५८।१०] कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः । [१५८।१०-१५८।१२] ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन । [१५८।१२] तत्भवत्यषां मण्डलम् । [१५८।१३] अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥ [१५८।१४] किं च शेषम् । त्रयो लक्ल्षाः सहस्राणि च विंशतिः । [१५८।१४-१५८।१५] सा काञ्चनमयी मही भवत्यपामुपरिष्टातुक्तो जलकाञ्चनमण्डलोच्छ्रायः । [१५८।१६-१५८।१७] तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् । लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥ [१५८।१८] समानं ह्येतदुभयं विस्तारतः । [१५८।१९] समन्ततस्तु त्रिगुणं [१५८।२०-१५८।२१] समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् । [१५८।२१-१५८।२२] यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात्संनिविष्टं [१५८।२३-१५८।२४] तत्र मेरुर्युगन्धरः । ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥ [१५९।०१] अश्वकर्णो विनितको निमिन्धरगिरिः [१५९।०२] इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः । मध्ये सुमेरुः । [१५९।०२-१५९।०३] शेषाः सुमेरुपरिचायावस्थिताः । [१५९।०३-१५९।०४] तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः । [१५९।०५] ततः । [१५९।०६] द्वीपाः [१५९।०७] ततो बहिश्चत्वारो द्वीपाः । तेभ्यः पुनः [१५९।०८] बहिश्चक्रवाडः [१५९।०९] तेन चातुर्द्विपकश्चक्रीकृतः । तेषां तु [१५९।१०] सप्त हैमाः स आयसः ॥ ३.४९ ॥ [१५९।११] युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः । [१५९।१२] चतूरत्नमयो मेरुः [१५९।१३] सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु । [१५९।१३-१५९।१४] यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते । [१५९।१४-१५९।१५] जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति । [१५९।१५-१५९।१६] तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति । [१५९।१७] अथ कथं तेषां संभवः । [१५९।१७-१५९।१८] काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति । [१५९।१८-१५९।१९] ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति । [१५९।१९-१५९।२०] एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति । [१५९।२०-१५९।२१] न तु खलु यथा सांख्यानां परिणामः । [१५९।२१] कथं च सांख्यानां परिणामः । [१५९।२१-१५९।२२] अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति । [१५९।२२] कश्चात्र दोषः । [१५९।२२-१५९।२३] स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत । [१५९।२३-१५९।२४] कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति । [१५९।२४] तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः । [१५९।२४-१५९।२५] एवमप्ययुक्तम् । [१५९।२५] किमत्रायुक्तम् । तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः । [१५९।२५-१५९।२६] एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात्प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते । [१५९।२६-१५९।२७] त एते पर्वताश्च भवन्ति द्वीपाश्च । [१५९।२७] ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः [१६०।०१] जलेऽशीतिसहस्रके । [१६०।०२] मग्नाः [१६०।०३] काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः । [१६०।०४] ऊर्ध्वं जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥ [१६०।०५] इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः । [१६०।०६] अर्धार्धहानिरष्टासु [१६०।०७] जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि । [१६०।०७-१६०।०९] ततोऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः । [१६०।१०] समोच्छ्रायघनाश्च ते । [१६०।११] यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः । [१६०।१२] शीताः सप्तान्तराण्येषां [१६०।१३-१६०।१४] एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य । [१६०।१४-१६०।१५] तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते । [१६०।१६] तासां च पुनः [१६०।१७] आद्याशीतिसहस्रिका ॥ ३.५१ ॥ [१६०।१८] सुमेरुयुगन्धरान्तरं प्रथमा शीता । अशीतिर्योजनसहस्राणि वैपुल्येन । [१६०।१९] आभ्यन्तरः समुद्रोऽसौ [१६०।२०] द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च । तदाऽसौ शीताऽभ्यन्तरः समुद्रः [१६०।२१] त्रिगुणः स तु पार्श्वतः । [१६०।२२] अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् । [१६०।२२-१६०।२३] पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत्सहस्राणि लक्षद्वयं च । [१६१।०१] अर्धार्धेनापराः शीताः [१६१।०२-१६१।०३] युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत्योजनसहस्राणि । [१६१।०३-१६१।०४] ततोऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति । [१६१।०४] यावदर्धत्रयोदशशतानि सप्तमी शीता । [१६१।०४-१६१।०५] दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् । [१६१।०६] शेषं बाह्यो महोदधेः ॥ ३.५२ ॥ [१६१।०७] किं शेषम् । निमिन्धरचक्रवाडयोरन्तरम् । [१६१।०७-१६१।०८] तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य । [१६१।०८] स खलु विस्तारेण योजनानां [१६१।०९] लक्षत्रयं सहस्राणि विंशतिर्द्वे च [१६१।१०] तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु । [१६१।११] तत्र तु । [१६१।१२] जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥ [१६१।१३] साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः । [१६१।१३-१६१।१५] तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति ॥ [१६१।१५] नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः । [१६१।१६] सार्धत्रियोजनं त्वेकं [१६१।१७] च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि । अत एव ह्यसौ शकटाकृतिः । [१६१।१८] प्राग्विदेहोऽर्धचन्द्रवत् । [१६१।१९] इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः । सोऽर्धचन्द्र इवाभिनिर्वृत्तः । [१६१।१९-१६१।२०] परिमाणतस्तु [१६१।२१] पार्श्वत्रयं तथाऽस्य [१६१।२२] यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे । [१६१।२३] एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥ [१६१।२४] चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि । [१६१।२५] गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः । [१६२।०१-१६२।०२] इतः पश्चिमेन सुमेरुपार्श्वेऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन । [१६२।०२] मण्डलश्चासौ पूर्णचन्द्रवत् । [१६२।०३] सार्धे द्वे मध्यमस्य [१६२।०४] मध्यमस्यार्धतृतीये योजनसहस्रे । [१६२।०५] अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥ [१६२।०६] इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः । [१६२।०६-१६२।०७] सोऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः । [१६२।०७] कृत्यापीठिकावत् । [१६२।०७-१६२।०८] सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे । [१६२।०८] तथाऽन्यानि स्तोकमपि नाधिकम् । [१६२।०८-१६२।०९] यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि । [१६२।१०] तेषां खलु द्वीपानामन्तरालेऽन्तरद्वीपा अभिनिर्वृत्ताः । [१६२।१०-१६२।११] के पुनस्ते कति चेत्याह [१६२।१२-१६२।१३] देहा विदेहाः कुरवः कौरवाश्चामरावराः । अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥ [१६२।१४] तत्र देहविदेहौ पूर्वविदेहपरिवारौ । कुरुकौरवौ उत्तरकुरोः । [१६२।१४-१६२।१५] गाठोत्तरमन्त्रिणावपरगोदानीयस्य । [१६२।१५] चामरावरौ जम्बूद्वीपस्य । सर्वे मनुष्यैरावासिताः । [१६२।१५-१६२।१६] एको राक्षसैरित्यपरे । [१६२।१७] इहोत्तरेण कीटाद्रिनवकाद्धिमवान् [१६२।१८-१६२।१९] इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः । [१६२।२०] ततः । [१६२।२१] पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥ [१६२।२२-१६२।२३] तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक्यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च । [१६२।२३-१६२।२४] तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः । [१६२।२४] पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः । [१६२।२४-१६२।२५] दुर्गमं च मनुअष्याणामनृद्धिमताम् । [१६२।२५-१६२।२६] तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः । [१६२।२६-१६२।२७] तत्फलाधिकारेण वा जम्बूद्वीप इति । [१६२।२८] नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च । [१६३।०१] अधः सहस्रैविंशत्या तन्मात्रोऽवीचिरस्य हि । [१६३।०२-१६३।०३] अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति । [१६३।०३-१६३।०४] दुःखनिरन्तरत्वादवीचिः । [१६३।०४-१६३।०५] अन्येषु सान्तरं दुःखं तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति । [१६३।०५-१६३।०६] अत एव संजीवः । [१६३।०६] नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे । [१६३।०६-१६३।०७] अन्येष्वपि सुखा वेदना विपाको नास्ति । [१६३।०७] नैः ष्यन्दिकी न वार्यते । [१६३।०८] तदूर्ध्वं सप्त नरकाः [१६३।०९] तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः । [१६३।०९-१६३।१०] प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च । [१६३।१०] अवीचिपार्श्वेष्वित्यपरे । ते पुनः [१६३।११] सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥ [१६३।१२] उक्तं हि भगवता [१६३।१३-१६३।१४] "इत्येते नरका अष्टावाख्याता दुरतिक्रमाः । रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥ [१६३।१५-१६३।१६] चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशोऽसिताः । अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः ॥ [१६३।१७-१६३।१८] तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता । अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे"ति । [१६३।१९] षोडशोत्सदाः कतमे । [१६३।२०] कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी । [१६३।२१] तेषां चतुर्दिशम् । [१६३।२२] द्वारे द्वारे तेषां चत्वार उत्सदाः । कुकूलं जानुमात्रम् । [१६३।२२-१६३।२३] यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् । [१६३।२४-१६३।२५] कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति । [१६३।२५-१६४।०१] क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् । [१६४।०१-१६४।०२] असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति । [१६४।०२-१६४।०३] अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् । [१६४।०३-१६४।०४] तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः । [१६४।०४-१६४।०५] अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति । [१६४।०५-१६४।०६] तदेतत्क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते । [१६४।०६-१६४।०८] चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते । [१६४।०९] तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः । [१६४।०९-१६४।१०] सा हि महानरकस्य परिखेवोत्पन्ना । [१६४।१०] त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते । [१६४।११] अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते । नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते । [१६४।१२] नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे । [१६४।१३] प्रश्नात्प्रश्नान्तरमुपजायते । [१६४।१३-१६४।१४] किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति । [१६४।१४] नेत्येके । कथमिदानीं चेष्टन्ते । [१६४।१४-१६४।१५] सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् । [१६४।१५] यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं [१६४।१६-१६४।१७] "क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये । दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा" इति ॥ [१६४।१८-१६४।१९] ये ते यमेनानुशिष्टाः सत्त्वान्नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति । [१६४।१९] सत्त्वसंख्याता इत्येके । तस्येदानीं कर्मणः क्व विपाकः । [१६४।२०-१६४।२१] तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः । [१६४।२१] कथमग्निना न दह्यन्ते । अग्नेर्नूनं कर्मभिः कृतावधित्वात् । [१६४।२१-१६४।२२] भूतविशेषनिर्वृत्तेर्वा । [१६४।२३] इमे तावदुष्णा अष्टौ महानरका उच्यन्ते । [१६४।२४] शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥ [१६४।२५] अन्ये शीतनरका अष्टौ । [१६४।२५-१६५।०१] तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च । [१६५।०१-१६५।०२] तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि । [१६५।०२] तेऽप्यस्यैव जम्बूद्वीपस्याधस्तात्महानरकाणां तिर्यक् । [१६५।०२-१६५।०३] कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः । [१६५।०३-१६५।०४] धान्यराशिवदधो विशाला हि द्वीपाः । [१६५।०४] अत एव महासमुद्रोऽनुपूर्वनिम्नः । [१६५।०४-१६५।०५] इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः । [१६५।०५-१६५।०६] प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः । [१६५।०६] बहूनां सत्त्वानां द्वयोरेकस्य वा । [१६५।०६-१६५।०७] तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वाऽधश्च भावात् । [१६५।०७-१६५।०८] एष तावन्नरकभाजनानां संनिवेशः । [१६५।०८] तिर्यञ्चः स्थलजलाकाशगोचराः । [१६५।०८-१६५।०९] तेषां किल मूलं स्थानं महासमुद्रस्ततोऽन्यत्र विसृता इति । [१६५।०९] प्रेतानां यमो राजा । [१६५।०९-१६५।१०] तस्य जम्बूद्वीपस्याधस्तात्पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततोऽन्यत्र विसृताः । [१६५।११] केचित्प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति । शेषा यथा प्रेतावदाने । [१६५।१२] अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ । वायौ । [१६५।१२-१६५।१३] वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत्सुमेरुं परिवर्तन्ते । [१६५।१३-१६५।१४] चन्द्रार्कताराणां वोर्ध्वचारः । [१६५।१४] कियद्वीप्रकृष्टावितश्चन्द्रार्कौ । [१६५।१५] अर्धेन मेरोश्चन्द्रार्कौ । [१६५।१६] युगन्धरगिरेर्मूर्ध्ना समं वहतः । किं प्रमाणौ । यथाक्रमं [१६५।१७] पण्चाशत्सैकयोजनौ । [१६५।१८] पञ्चाशत्योजनानि चन्द्रमण्डलस्य प्रमाणम् । [१६५।१८-१६५।१९] सैकानि पञ्चाशत्सूर्यमण्दलस्य प्रमाणम् । [१६५।१९] एकपञ्चाशदित्यर्थः । [१६५।१९-१६५।२०] तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः । [१६५।२०-१६५।२१] सूर्यविमानस्याधस्तात्वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च । [१६५।२१-१६५।२२] चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च । [१६५।२२-१६५।२३] प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् । [१६५।२३] चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः । [१६५।२३-१६५।२४] किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत्कृत्यं करोति । [१६५।२४] नेत्याह । किं तर्हि । तेषु । [१६५।२५] अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् ॥ ३.६० ॥ [१६५।२६-१६५।२७] यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः । [१६५।२७] एवमन्येष्वपि योज्यम् । सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ । [१६५।२८] तत्र पुनः [१६६।०१] प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा । [१६६।०२] वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः । [१६६।०३] हेमन्तानां चतुर्थे तु हीयते [१६६।०४] सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते । अन्त्यनवम्यामिति वर्त्तते । [१६६।०४-१६६।०५] फाल्गुनमासस्य द्वितीयपक्षनवम्याम् । [१६६।०६] अहर्विपर्ययात् ॥ ३.६१ ॥ [१६६।०७] यदा रात्रिर्वर्धते तदा दिवसो हीयते । यदा रात्रिर्हीयते तदा दिवसो वर्धते । [१६६।०८] कियत्या मात्रया वर्धते । [१६६।०९] लवशो रात्र्यहर्वृद्धी [१६६।१०] लवं लवं रात्रिर्वर्धते दिवसो वा । ते च हानिवृद्धी यथाक्रमं [१६६।११] दक्षिणोत्तरगे रवौ । [१६६।१२] जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः । [१६६।१३] शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते । किं तत्र कारणम् । [१६६।१४] स्वच्छाययाऽर्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥ [१६६।१५-१६६।१६] यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति । [१६६।१६-१६६।१७] ततोऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः । [१६६।१७-१६६।१८] वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः । [१६६।१८-१६६।१९] अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति । [१६६।१९] देवाश्चातुर्महाराजकायिकाः । किमेतान्येव तेषां स्थानानि । [१६६।२०] विमानवासिनामेतानि । भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि । [१६६।२०-१६६।२१] कति चास्य परिषण्डाः कियत्यो वा । [१६६।२२] परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः । [१६६।२३]। दशयोजनसहस्राण्युद्गम्यैका । एवं यावच्चतुर्थी । ताभिः सुमेरोरर्धमाक्षिप्तम् । [१६६।२४] ताश्च ततो यथासंख्यं [१६७।०१] षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥ [१६७।०२] प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता । [१६७।०३] द्वितीयाऽष्टौ तृतीया चत्वारि चतुर्थी द्वे । [१६७।०४] करोटपाणयस्तासु मालाधारास्सदामदाः । [१६७।०५] महाराजिकदेवाश्च [१६७।०६] प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति । [१६७।०६-१६७।०७] द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः । [१६७।०७] सर्व एते चतुर्महाराजकायिकाः । [१६७।०७-१६७।०८] चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च । [१६७।०८-१६७।०९] अतस्तस्यां महाराजकायिका देवा इत्युक्तम् । [१६७।०९] यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं [१६७।१०] पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥ [१६७।११] युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः । अत एवैष देवनिकायः सर्वेषां महिष्ठः । [१६७।१२] मेरुमूर्ध्नि त्रयस्त्रिंशाः [१६७।१३] अथ कियान्मेरुमूर्धा । [१६७।१४] स चाशीतिसहस्रदिक् । [१६५।१५] एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् । [१६७।१५] अन्ये पुनराहुः । [१६७।१५-१६७।१६] स विंशतिसहस्रदिक् । [१६७।१६] चत्वारि पार्श्वन्यस्य चतस्रो दिशः । [१६७।१६-१६७।१७] एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात्परिक्षेपेणाशीतिरिति ॥ [१६७।१७] तस्य च [१६७।१८] विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥ [१६७।१९] सूमेरुमूर्ध्नो विदिशः कोणाः । [१६७।१९-१६७।२०] तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति । [१६७।२०] तस्य च मेरुमूर्ध्नः [१६७।२१-१६७।२२] मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् । पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥ [१६७।२३-१६७।२४] सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरं दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् । [१६७।२४-१६७।२५] प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता । [१६७।२५-१६७।२६] तच्च भूमितलं तूलपिचुवत्मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी । [१६८।०१] सार्धद्विशतपाश्र्वोऽत्र वैजयन्तः [१६८।०२-१६८।०४] शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् । [१६८।०४] इयं तावन्नगरस्याभिरामता । [१६८।०५] बहिः पुनः । [१६८।०६] तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥ [१६८।०७] तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः । [१६८।०८] चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च । तैस्तन्नगरं बहिरलङ्कृतम् । [१६८।०९] विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् । [१६८।१०-१६८।११] एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति । [१६८।१२] वहिरेव नगरस्य पार्श्वे [१६८।१३] पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥ [१६८।१४] पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः । [१६८।१४-१६८।१५] तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः। [१६८।१५-१६८।१६] पञ्चाशत्योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति । [१६८।१६-१६८।१७] तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् । [१६८।१७] युक्तं तावदनुवातम् । [१६८।१७-१६८।१८] प्रतिवातं तु कथम् । [१६८।१८] वृक्षानतिक्रमं संधायोक्तमित्येके । [१६८।१८-१६८।१९] नहि नाम स्प्रतिवातं वातो वाति । [१६८।१९-१६८।२०] तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात्प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति । [१६८।२०-१६८।२१] मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति । [१६८।२१-१६८।२२] किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते । [१६८।२२] नात्र नियमः । [१६८।२३] उभयथापि ह्याचार्येष्टिः । यत्तर्हि भगवतोक्तं [१६८।२४-१६८।२५] "न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा । सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती"ति । [१६९।०१] मानुष्यकं पुष्पगन्धं संधायोक्तम् । तद्धि प्रतीतं लोके । [१६९।०१-१६९।०३] न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति "योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति । [१६९।०३-१६९।०४] सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति । [१६९।०४] एष तावत्त्रिदशानां भाजनसंनिवेशः । [१६९।०५] ततऊर्ध्वं विमानेषु देवाः [१६९।०६] त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः । [१६९।०६-१६९।०७] ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः । [१६९।०८] इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते । [१६९।०९] कामभुजस्तु षट् । [१६९।१०] तेषां तु षट्कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः । [१६९।१०-१६९।११] तद्यथा चतुर्महाराजकायिका यावत्परनिर्मितवशवर्तिनः । [१६९।११] ते पुनः [१६९।१२] द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः ॥ ३.६९ ॥ [१६९।१३] द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् । [१६९।१३-१६९।१४] चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् । [१६९।१४] तेषां तु वायुनिर्मोक्षात्दाहविगमः शुक्राभावात् । [१६९।१४-१६९।१५] आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् । [१६९।१५-१६९।१६] पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् । [१६९।१६-१६९।१७] स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या । [१६९।१७] कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः । [१६९।१७-१६९।१८] यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः । [१६९।१८-१६९।१९] यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता । [१६९।१९-१६९।२०] कियत्प्रमाणो जायते । [१६९।२१] पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः । [१६९।२२] संभवत्येषु [१६९।२३] यथासंख्यं षट्सु देवनिकायेषु । ते तु क्षिप्रमेवाभिवर्धन्ते । [१६९।२४] संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥ [१७०।०१] रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते । [१७०।०१-१७०।०२] सर्वे देवा आर्यभाषाभाषिणः । [१७०।०२] तदत्र कामधातौ वेदितव्याः [१७०।०३] कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः । [१७०।०४] कथं कृत्वा । [१७०।०४-१७०।०५] सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति । [१७०।०५] तद्यथा मनुष्यास्तदेकत्याश्च देवाः । ते पुनश्चत्वारो देवनिकायाः । [१७०।०६] सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति । [१७०।०६-१७०।०७] तद्यथा देवा निर्माणरतयः । [१७०।०७-१७०।०८] सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति । [१७०।०८] तद्यथा देवाः परनिर्मितवशवर्त्तिनः । [१७०।०८-१७०।१०] ता एता यथोत्पन्नपरिभोगित्वात्यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते । [१७०।१०] रूपधातौ तु [१७०।११] सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः ॥ ३.७१ ॥ [१७०।१२] त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः । [१७०।१२-१७०।१४] ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति । [१७०।१४] अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः । [१७०।१४-१७०।१५] ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् । [१७०।१६-१७०।१७] यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् । [१७०।१७] नैतत्सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् । अपि तु [१७०।१८] स्थानात्स्थानादधो यावत्तावदूर्ध्वं ततस्ततः । [१७०।१९-१७०।२०] जम्बूद्वीपात्प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत्पुनस्तस्मादूर्ध्वं स्थानान्तरम् । [१७०।२०-१७०।२१] तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि । [१७०।२१-१७०।२२] तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानं तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् । [१७०।२३] ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति । [१७०।२३-१७०।२४] एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् । [१७०।२५] तस्मादूर्ध्वं न पुनः स्थानमस्ति । अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते । [१७०।२५-१७०।२६] अघनिष्ठा इत्यपरे । [१७०।२६] अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति । [१७०।२७] किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति [१७१।०१] नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥ [१७१।०२] ऋद्ध्या वा त्रायस्त्रिंशा यामान् । गच्छेयुः । [१७१।०२-१७१।०३] पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन । [१७१।०३] एवं शेषाः । [१७१।०३-१७१।०४] आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् । [१७१।०४] यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् । [१७१।०४-१७१।०५] अत एव तेनास्वेन कायेनागच्छन्ति । [१७१।०५-१७१।०६] किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः । [१७१।०७] अथैषां यामादिविमानानां कियत्प्रमाणम् । [१७१।०७-१७१।०८] चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके । [१७१।०८] द्विगुणोत्तरमित्यपरे । प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः । [१७१।०८-१७१।०९] द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः । [१७१।०९] तृतीयं यावान् द्विसाहस्रः । [१७१।०९-१७१।१०] चतुर्थं यावांस्रिसाहस्र इत्येके । [१७१।१०] प्रथमादीनि साहस्रादिपरिमाणानि । [१७१।१०-१७१।११] चतुर्थं त्वपरिमाणमित्यपरे । [१७१।१२] अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा । [१७१।१३-१७१।१४] चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् । ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥ [१७१।१५-१७१।१७] सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत्परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः । [१७१।१८] तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः । [१७१।१९] तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः । [१७१।२०] तत्सहस्रं त्रिसाहस्रः [१७१।२१] तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः । [१७१।२१-१७१।२२] एष हि कृत्स्नः [१७१।२३] समसंवर्तसंभवः ॥ ३.७४ ॥ [१७१।२४] समं संवर्तते समं विवर्तते । संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते । [१७१।२५-१७१।२६] किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति । [१७१।२६] अस्तीत्याह । तत्र तावत् [१७१।२७] जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः । [१७१।२८] जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः [१७२।०१] द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः ॥ ३.७५ ॥ [१७२।०२-१७२।०३] पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् । [१७२।०४] पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् । [१७२।०५] कामिनां [१७२।०६] पादः क्रोशस्य चतुर्थो भगः । [१७२।०६-१७२।०८] तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनामध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् । [१७२।०९] रुपिणां त्वादौ योजनार्धं [१७२।१०] रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् । [१७२।११] ततः परम् ॥ ३.७६ ॥ [१७२।१२] अर्धार्धवृद्धिः [१७२।१३] त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणोऽध्यर्धं परीत्ताभानां द्वे योजने । [१७२।१४-१७२।१५] उर्ध्वं तु परीत्ताभेभ्य आश्रयः । द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्यऽस्त्रियोजनम् ॥ ३.७७ ॥ [१७२।१६] अप्रमाणाभानां चत्वारि योजनानि । आभास्वराणामष्टौ । [१७२।१६-१७२।१७] एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः । [१७२।१७-१७२।१८] अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् । [१७२।१८-१७२।१९] तस्मात्परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् । [१७२।२०] एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः । अस्तीत्याह । [१७२।२१] सहस्रमायुः कुरुषु [१७२।२२] वर्षाणाम् । [१७२।२३] द्वयोरर्धार्धवर्जितम् । [१७२।२४] द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् । [१७२।२४-१७२।२५] अर्धतृतीये वर्षशते पूर्वविदेहानाम् । [१७३।०१] इहानियतम् [१७३।०२] जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित्भूयो भवति कदाचिदल्पीयः । [१७३।०३] अन्ते तु दशाब्दाः [१७३।०४] अब्दः संवत्सरः । अन्ते हीयमानं दश वर्षाण्यायुर्भवति । [१७३।०५] आदितोऽमितम् ॥ ३.७८ ॥ [१७३।०६] आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति । [१७३।०६-१७३।०७] सहस्रादिसंख्यया परिमातुं न शक्यते । [१७३।०८] उक्तं मनुष्याणां देवानां वक्तव्यम् । [१७३।०८-१७३।०९] तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते । [१७३।१०-१७३।११] नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् । कामेऽधराणां [१७३।१२-१७३।१३] यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् । [१७३।१४] तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥ [१७३।१५-१७३।१६] तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् । [१७३।१७] द्विगुणोत्तरमूर्ध्वानामुभयं [१७३।१८] ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च । कथं कृत्वा । [१७३।१८-१७३।१९] यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् । [१७३।१९-१७३।२०] तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः । [१७३।२०] एवं यामादीनां यथाक्रमम् । [१७३।२०-१७३।२१] मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् । [१७३।२१-१७३।२२] तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् । [१७३।२२] युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् ॥ [१७३।२२-१७३।२३] कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा । [१७३।२३-१७३।२४] पुष्पाणां संकोचविकासात्कुमुदबन्धु वत्शकुनीनां कूजनाकूजनात्मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् । [१७३।२५] उक्तमायुः कामिनाम् । [१७४।०१] रूपिणां पुनः । [१७४।०२] नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥ [१७४।०३] येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः । येषां योजनं तेषां कल्पम् । [१७४।०३-१७४।०५] एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् । [१७४।०६] आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् । [१७४।०७] आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् । [१७४।०८] विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि । [१७४।०८-१७४।०९] आकिञ्चन्यायतने तस्मादधिकं विंशतिः । [१७४।०९] भवाग्रे तस्मादधिकं विंशतिः । [१७४।०९-१७४।१०] एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत्षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् । [१७४।११-१७४।१२] कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः । [१७४।१३] महाकल्पः परीत्ताभात्प्रभृत्यर्धमधस्ततः ॥ ३.८१ ॥ [१७४।१४] परीत्ताभादेव निकायात्प्रभृति महाकल्पेनायुः वेदितव्यम् । [१७४।१४-१७४।१५] तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् । [१७४।१५] कथं कृत्वा । [१७४।१५-१७४।१७] यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः । [१७४।१७-१७४।१८] एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् । [१७४।१९] उक्तं सुगतावायुः प्रमाणम् । [१७४।२०] दुर्गताविदानीं वक्तव्यम् । तत्र तावत् [१७४।२१-१७४।२२] कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् । संजीवादिषु षट्सु [१७४।२३-१७४।२४] यावत्षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः । [१७४।२४-१७४।२५] संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च । [१७४।२६] आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥ [१७४।२७-१७४।२८] तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् । [१७४।२८] कथं कृत्वा । [१७४।२८-१७४।२९] यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवम् । [१७४।२९-१७५।०१] तेन यावत्द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः । [१७५।०१-१७५।०२] यत्त्रायस्त्रिंशानामायुः प्रमाणं तत्कालसूत्रे महानरके एकं रात्रिन्दिवम् । [१७५।०२-१७५।०३] तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणम् । [१७५।०३-१७५।०४] एवमन्येष्वपि यथायोगं योज्यं यावत्परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् । [१७५।०५] अर्धं प्रतापने [१७५।०६] प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् । [१७५।०७] अवीचावन्तःकल्पं [१७५।०८] तिरश्चां तु नियमो नास्ति । [१७५।०९] परं पुनः । [१७५।१०] कल्पं तिरश्चां [१७५।११] परमायुस्तिरश्चामन्तरकल्पं तत्पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् । [१७५।११-१७५।१३] उक्तं हि भगवता "अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा" इति विस्तरः । [१७५।१४] प्रेतानां मासाह्ना शतपञ्चकम् ॥ ३.८३ ॥ [१७५।१५] यो मनुष्याणां मासः स प्रेतानामहोरात्रः । [१७५।१५-१७५।१६] तेनाहोरात्रेण पञ्च वर्षशतान्यायुः । [१७५।१६] शीतनरकेष्वायुषः किं प्रमाणम् । [१७५।१७-१७५।१८] वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः । अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ३.८४ ॥ [१७५।१९-१७५।२०] उपमानमात्रेण तेष्वायुराख्यातं भगवता "तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः । [१७५।२०-१७५।२२] ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् । [१७५।२२] न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि । [१७५।२२-१७५।२४] यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म" इति । [१७५।२५] एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न । [१७५।२६] सर्वत्रास्ति [१७६।०१] कुरुबाह्योऽन्तरामृत्युः [१७६।०२] उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति । अन्येषु नावश्यम् । [१७६।०३] पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया । [१७६।०३-१७६।०५] तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् । [१७६।०६-१७६।०७] योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः । [१७६।०८] तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते । [१७६।०९] परमाण्वक्षरक्षणाः । [१७६।१०] रूपनामाध्वपर्यन्ताः [१७६।११] रूपस्यापचीयमानस्य पर्यन्तः परमाणुः । [१७६।११-१७६।१२] कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति । [१७६।१२] क्षणस्य पुनः किं प्रमाणम् । [१७६।१२-१७६।१३] समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति । [१७६।१३-१७६।१४] बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः । [१७६।१५] परमाणुरणुस्तथा ॥ ३.८५ ॥ [१७६।१६-१७६।१७] लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः । यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥ [१७६।१८] एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् । सप्त परमाणवोऽणुः । [१७६।१८-१७६।१९] सप्ताणवो लोहरजः । [१७६।१९] तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः । [१७६।१९-१७६।२०] तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः । [१७६।२०] तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः । [१७६।२०-१७६।२१] सप्त यूका यवः । [१७६।२१-१७६।२२] सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् । [१७६।२२] पार्श्वाकृतास्तु । [१७७।०१] चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् । [१७७।०२] धनुः [१७७।०३] व्यासेनेत्यर्थः । [१७७।०४] पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥ [१७७।०५] मनुषां पञ्च शतानि क्रोशः । क्रोशमात्रं च ग्रामादि रण्यमिष्टम् । [१७७।०६] तेऽष्टौ योजनमित्याहुः । [१७७।०७] उक्तं योजनस्य प्रमाणम् । वर्षस्येदानीमुच्यते । [१७७।०८] विंशं क्षणशतं पुनः । [१७७।०९] तत्क्षणः [१७७।१०] क्षणानां विंशं शतमेकस्तत्क्षणः । [१७७।११] ते पुनः षष्टिर्लवः । [१७७।१२] तत्क्षणाः षष्टिर्लव इत्युच्यते । [१७७।१३] त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥ [१७७।१४] त्रयो मुहूर्त्ताहोरात्रमासाः [१७७।१५] त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः । [१७७।१५-१७७।१६] कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा । [१७७।१६] त्रिदशाहोरात्रा मासः । [१७७।१७] द्वादशमासकः । [१७७।१८] संवत्सरः सोनरात्रः [१७७।१९-१७७।२०] चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः । [१७७।२०] संवत्सरेण हि षडूनरात्रा निपात्यन्ते । कथं कृत्वा । [१७७।२१] "हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते । शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥" [१७७।२३] उक्तं वर्षप्रमाणम् । [१७८।०१] कल्पस्येदानीं वक्तव्यम् । [१७८।०२] कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥ [१७८।०३] अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति । तत्र तावत् [१७८।०४] संवर्त्तकल्पो नरकासंभवात्भाजनक्षयः । [१७८।०५] नरकेषु हि सत्त्वासंभवात्प्रभृति यावत्भाजनसंक्षयः । द्वे हि संवर्त्तन्यौ । [१७८।०५-१७८।०६] गतिसंवर्तनी धातुसंवर्तनी च । [१७८।०६] पुनर्द्वे संवर्तन्यौ । सत्त्वसंवर्तनी भाजनसंवर्तनी च । [१७८।०७] भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते । स आरम्भः संवर्तकल्पस्य । [१७८।०८] यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् । [१७८।०८-१७८।०९] यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत्प्रतिपन्नं वक्तव्यम् । [१७८।०९-१७८।१०] यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति । [१७८।१०-१७८।११] यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते । [१७८।११-१७८।१२] एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या । [१७८।१२] महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते । [१७८।१२-१७८।१३] मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति । [१७८।१३-१७८।१६] स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात्व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति । [१७८।१६-१७८।१७] तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते । [१७८।१७] कालं कृत्वा ब्रह्मलोक उपपद्यन्ते । [१७८।१७-१७८।१८] यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या । [१७८।१८-१७८।१९] एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः । [१७८।१९-१७८।२०] यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या । [१७८।२०-१७८।२१] औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते । [१७८।२१] तत्र वैराग्याभावात् । [१७८।२१-१७८।२२] एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते । [१७८।२२-१७८।२४] यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या । [१७८।२४-१७८।२५] एवं यावत्परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः । [१७८।२५-१७८।२६] यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या । [१७८।२६-१७८।२८] ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति । [१७८।२८-१७९।०१] तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते । [१७९।०१-१७९।०२] यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या । [१७९।०२-१७९।०४] ततः शून्ये भाजने इत एव सामन्तकात्सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत्पृथिवीं सुमेरुं च निःशेषं दहन्ति । [१७९।०४-१७९।०५] तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत्परैति । [१७९।०५] तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् । [१७९।०५-१७९।०६] नहि विसभागा अपक्षालाः क्रमन्ते । [१७९।०६] तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् । [१७९।०६-१७९।०७] कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति । [१७९।०७-१७९।०८] एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति । [१७९।०८-१७९।०९] नरकेषु सत्त्वानां च्युत्यनुत्पादात्प्रभृति यावत्भाजनानां संक्षय एष कालः । [१७९।१०] विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः ॥ ३.९० ॥ [१७९।११] थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते । [१७९।१२-१७९।१४] तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत्पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते । [१७९।१४-१७९।१५] तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् । [१७९।१५] यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् । [१७९।१६] ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते । [१७९।१६-१७९।१७] ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च । [१७९।१७-१७९।१८] प्रथमं तु ब्राह्म विमानमुत्पद्यते । [१७९।१८] ततो यावत्यामीयं ततो वायुमण्डलादीनि । [१७९।१८-१७९।१९] इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या । [१७९।१९-१७९।२०] अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते । [१७९।२०-१७९।२१] अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते । [१७९।२१] ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु । [१७९।२१-१७९।२२] क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते । [१७९।२२-१७९।२३] धर्मता ह्येषा यत्पश्चात्संवर्तते तत्पूर्वं विवर्त्तते । [१७९।२३-१७९।२४] यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति । [१७९।२४-१७९।२५] यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति । [१७९।२६] अन्तःकल्पोऽमितात्यावद्दशवर्षायुषः [१७९।२७-१८०।०१] विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति । [१८०।०१-१८०।०२] अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति । [१८०।०२] सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः । [१८०।०३] ततः । [१८०।०४] उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे ॥ ३.९१ ॥ [१८०।०५] तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति । कथं कृत्वा । [१८०।०६] तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति । [१८०।०७] पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति ॥ एवं द्वितीयोऽन्तरकल्पः । [१८०।०७-१८०।०८] एवं यावदष्टादश । [१८०।०९] उत्कर्ष एकः [१८०।१०] एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः । [१८०।१०-१८०।११] दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते । [१८०।११] अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति । [१८०।१२] तेऽशीतिसहस्राद्यावदायुषः । [१८०।१३-१८०।१४] नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति । [१८०।१५] इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥ [१८०।१६] इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति । [१८०।१६-१८०।१७] यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं [१८०।१८] विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् । [१८०।१९] विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते । [१८०।१९-१८०।२०] यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते । [१८०।२०-१८०।२२] तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्याऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति । [१८०।२२-१८०।२३] ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति । [१८०।२४] ते ह्यशीतिर्महाकल्पः [१८०।२५] एतन्महाकल्पस्य प्रमाणम् । कल्पः किंस्वभावः । पञ्चस्कन्धस्वभावः । [१८०।२५-१८१।०१] यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत" इति । [१८१।०१] तत्कतमेषां कल्पानाम् । [१८१।०१-१८१।०२] य एव महाकल्पो निर्दिष्टः । [१८१।०३] तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥ [१८१।०४] बुद्धत्वम् [१८१।०५] संख्येयानां कल्पानां त्रयेण । [१८१।०५-१८१।०६] कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते । [१८१।०६] नैअदेवं वेदितव्यम् । किं तर्हि । [१८१।०६-१८१।०७] "षष्टिः स्थानान्तराण्यसंख्येयमि"ति मुक्तकसूत्रं पठ्यते । [१८१।०७] कतमानि षष्टिः । एको ह्यद्वितीयः प्रथमं स्थानान्तरम् । [१८१।०८] एककानां दशको द्वितीयम् । दश दशकानि शतं तृतीयम् । दश शतानि सहस्रम् । [१८१।०९] दश सहस्राणि प्रभेदः । दश प्रभेदा लक्षम् । [१८१।०९-१८१।१०] दश लक्षा अतिलक्षः । [१८१।१०] दशातिलक्षाः कौटिः । दश कौट्यो मध्यः। दश मध्या अयुतम् । [१८१।११] शायुता महायुतम् । दश महायुता नियुतम् । दश नियुता महानियुतम् । [१८१।११-१८१।१२] दश महानियुताः प्रयुतम् । [१८१।१२] दश प्रयुता महाप्रयुतः । दश महाप्रयुताः कङ्करः । [१८१।१२-१८१।१३] दश कङ्करा महाकङ्करः । [१८१।१३] दश महाकङ्करा विस्वरः । दश विस्वरा महाविस्वरः । [१८१।१३-१८१।१४] दश महाविस्वरा अक्षोभ्यः । [१८१।१४] दशाक्षोभ्या महाक्षोभ्यः । दश महाक्षोभ्या विवाहः । [१८१।१५] दश विवाहा महाविवाहः । दश महाविवाहा उत्सङ्गः । दशोत्सङ्गा महोत्सङ्गः । [१८१।१६] दश महोत्सङ्गा वाहनः । दश वाहनानि महावाहनम् । [१८१।१६-१८१।१७] दश महावाहनानि तटिभः । [१८१।१७] दश तिटिभा महातिटिभः । दश महातिटिभा हेतुः । [१८१।१७-१८१।१८] दश हेतवो महाहेतुः । [१८१।१८] दश महाहेतवः करभः । दश करभा महाकरभः । [१८१।१८-१८१।१९] दश महाकरभा इन्द्रः । [१८१।१९] दशेन्द्रा महेन्द्रः । दश महेन्द्राः समाप्तम् । दश समाप्तानि महासमाप्तम् । [१८१।२०] दश महासमाप्तानि गतिः । दश गतयो महागतिः । दश महागतयो निम्बरजः । [१८१।२०-१८१।२१] दश निम्बरजांसि महानिम्बरजः । [१८१।२१] दश महानिम्बरजांसि मुद्रा । दश मुद्रा महामुद्रा । [१८१।२१-१८१।२२] दश महामुद्राः बलम् । [१८१।२२] दश बलानि महाबलम् । [१८१।२२-१८१।२३] दश महाबलानि सज्ञा । [१८१।२३] दश संज्ञा महासंज्ञा । दश महासंज्ञा विभूतः । दश विभूता महाविभूतः । [१८१।२३-१८१।२४] दश महाविभूता बलाक्षम् । [१८१।२४] दश बलाक्षा महाबलाक्षम् । दश महाबलाक्षाण्यसम्ख्यम् । [१८१।२५] अष्टकं मध्याद्विस्तृतम् । [१८१।२५-१८२।०१] इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते । [१८२।०१] ततो व्यावृत्य पुनर्गण्यन्ते । [१८२।०१-१८२।०२] एवं त्रीणि असंख्येयानीत्युच्यन्ते । [१८२।०२] न तु नैव परिसंख्यातुं शक्यन्त इति । [१८२।०३] किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते । [१८२।०४] किमेतदेव भविष्यति । [१८२।०४-१८२।०५] महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः । [१८२।०६] यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते । [१८२।०६-१८२।०७] परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात्परित्रातुं शक्नुयामिति । [१८२।०७-१८२।०८] क एषां परार्थेन स्वार्थः । [१८२।०८] एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् । [१८२।०८-१८२।०९] इदानीमेतच्छ्राद्धास्यते । [१८२।०९] सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः । [१८२।०९-१८२।११] कारुणिकैस्तु श्रद्धितमेवैतत्यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते । [१८२।११-१८२।१२] तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् । [१८२।१२-१८२।१५] यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् । [१८२।१५-१८२।१६] गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत्परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति । [१८२।१६] न ते पुनः स्वार्थमन्यं पश्यन्ति । आह चात्र [१८२।१७-१८२।२०] "हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः । श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥" [१८२।२१] किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः । [१८२।२२] अपकर्षे हि शताद्यावत्तदुद्भवः । [१८२।२३-१८२।२४] अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते । [१८२।२४] कस्मान्नोत्कर्षकाले । तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति । [१८३।०१] कस्मान्न शतात् । [१८३।०१-१८३।०२] तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति । [१८३।०२-१८३।०३] तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च । [१८३।०३] अपकर्षस्याधस्तात्प्रत्यवरा आयुरादयः किटभूतत्वात्कषाया उच्यन्ते । [१८३।०४] द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् । द्वाभ्यां कुशलपक्षवीपत्तिः । [१८३।०४-१८३।०५] कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात्गृहिप्रव्रजितपक्षयोर्वा । [१८३।०५-१८३।०६] एकेनात्मभाववीपत्तिः । [१८३।०६] प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् । [१८३।०७] अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः । [१८३।०८] द्वयोः प्रत्येकबुद्धानाम् । [१८३।०९] उत्कर्षेऽयपकर्षेऽपि । द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च । [१८३।१०] तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते । [१८३।१०-१८३।११] पृथग्जनपूर्विणोऽपि सन्तीत्यपरे । [१८३।११] येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते । [१८३।११-१८३।१४] तथाहि पूर्वयोगं पठन्ति "पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत्प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात्प्रत्येकबोधिमभिसंबन्द्धा" इति । [१८३।१४] नचार्याः सन्तः कष्टानि तपांसि तप्येरन् । [१८३।१४-१८३।१५] खड्गविषाणकल्पाः पुनरेकविहारिणः । [१८३।१५] तेषां प्रत्येकबुद्धानां [१८३।१६] खड्गः कल्पशतान्वयः ॥ ३.९४ ॥ [१८३।१७-१८३।१८] महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति । [१८३।१८] विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः । [१८३।१८-१८३।१९] ते ह्येकमात्मानं दमयन्ति नान्यान् । [१८३।१९] किं पुनरत्र कारणम् । [१८३।१९-१८३।२०] नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् । [१८३।२०] शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् । [१८३।२१] नापि निष्करुणाः । सत्त्वानुग्रहार्थमृद्धेराविष्करणात् । [१८३।२१-१८३।२२] नापि सत्त्वानामभव्यत्वात् । [१८३।२२] तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते । किं तर्हि । [१८३।२२-१८३।२३] पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात्नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् । [१८३।२४] अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् । [१८३।२४-१८३।२५] गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् । [१८४।०१] अथ चक्रवर्त्तिनः कदोत्पद्यन्ते । [१८४।०२] चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् । [१८४।०३] अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः । [१८४।०३-१८४।०४] तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् । [१८४।०४-१८४।०५] राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः । [१८४।०५] ते पुनश्चतुर्विधाः । [१८४।०६] सुवर्णरूप्यताम्रायश्चक्रिणः [१८४।०७] सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति । [१८४।०७-१८४।०८] प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थोऽधमः । [१८४।०९] तेऽधरक्रमात् ॥ ३.९५ ॥ [१८४।१०] एकद्वित्रिचतुर्द्वीपाः [१८४।११] यस्यायसं चक्रं स एकद्वीपाधिपतिः । यस्य ताम्रमयं स द्वयोः । [१८४।११-१८४।१२] यस्य रूप्यमयं स त्रयाणाम् । [१८४।१२] यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः । एष प्राज्ञप्तिको निर्देशः । [१८४।१३] सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् । [१८४।१३-१८४।१६] "यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती"ति । [१८४।१७] एवं चैते चक्रवर्तिन उत्पद्यन्ते । [१८४।१८] न च द्वौ सह बुद्धवत् । [१८४।१९-१८४।२०] सूत्र उक्त" मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः । [१८४।२०-१८४।२१] यथा तथागत एवं चक्रवर्त्तिनावि"ति । [१८४।२१] इदमत्र संप्रधार्यम् । [१८४।२१-१८४।२२] किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति । [१८४।२२-१८४।२३] नान्यत्र बुद्धा उत्पद्यन्ते इत्येके । [१८४।२३] किं कारणम् । [१८४।२३-१८४।२४] मा भूत्भगवतः शक्तिव्याघातः इति । [१८४।२४] एक एव हि भगवान् सर्वत्र शक्तः । [१८४।२४-१८४।२५] यत्र बुद्ध एको न शक्तः स्याद्विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति । [१८४।२५-१८४।२७] उक्तं च सूत्रे "स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेतस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय । [१८४।२७-१८४।२८] एवं च पृष्टः किं व्याकुर्याः । [१८४।२८-१८५।०१] स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय । [१८५।०१] तत्कस्य हेतोः । [१८५।०१-१८५।०३] संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतमस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत" इति । [१८५।०३-१८५।०४] यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे "यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत" इति । [१८५।०४] आभिप्रायिक एष निर्देशः । [१८५।०४-१८५।०५] कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् । [१८५।०५-१८५।०६] अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः । [१८५।०६] सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः । किं कारणम् । [१८५।०७] बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते । [१८५।०७-१८५।०९] न चैकत्र बहूनां बुद्धानां युगपत्योग उत्पत्तुं न चास्ति तदुत्पत्तौ कक्श्चित्प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते । [१८५।०९-१८५।१०] अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् । [१८५।१०-१८५।११] कथं चेह बुद्धो व्याप्रियते । [१८५।११-१८५।१३] अस्य पुद्गलस्येदमिन्द्रियमियता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति । [१८५।१३-१८५।१५] यत्त्विदं सूत्रमत्रोपनीत "मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि"ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित्सर्वानिति । [१८५।१५-१८५।१६] चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः । [१८५।१६] सहोत्पत्तिप्रतिषेधात्बुद्धवत् । [१८५।१६-१८५।१७] अथैतत्क्षम्यते इदं तु कस्मान्न क्षम्यते "पुण्यस्तु बुद्धानां लोक उत्पाद" इति । [१८५।१७-१८५।१८] यदि बहूनां बहुषु स्यान्न दोषः स्यात् । [१८५।१८] भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च । [१८५।१८-१८५।१९] अथैङ्कस्मिन्नपि कस्मात्द्वौ तथागतौ न सहोत्पद्येते । [१८५।१९] प्रयोजनाभावात्प्रणिधानवशाच्च । [१८५।१९-१८५।२१] एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोकेऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति । [१८५।२१] आदराभित्वरार्थं च । [१८५।२२-१८५।२३] एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वाऽनाथा भूमेति । [१८५।२४] अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति । यथाक्रमं [१८५।२५] प्रत्युद्यानस्वयंयान कलहास्त्रजितः [१८५।२६] यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति । [१८५।२६-१८६।०१] इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च । [१८६।०१-१८६।०२] तान् देवः समनुशास्तु । [१८६।०२] वयं देवस्यानुयात्रिका भविष्याम इति । [१८६।०२-१८६।०३] यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति । [१८६।०३-१८६।०४] यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात्प्रह्वीभवन्ति । [१८६।०४-१८६।०५] यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति । [१८६।०५] सर्वे तु चक्रवर्तिनः [१८६।०६] अवधाः ॥ ३.९६ ॥ [१८६।०७-१८६।०८] शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति । [१८६।०८] अत एव ते नियतं देवेषूत्पद्यन्ते । [१८६।०८-१८६।०९] सूत्र उक्तं "राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति । [१८६।१०-१८६।११] तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये"ति । [१८६।११] कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते । [१८६।१२] न वै कश्चित्परकीयेणोत्पद्यते । [१८६।१२-१८६।१३] येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति । [१८६।१३-१८६।१४] किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः । [१८६।१४] अन्योऽपि विशेषोऽस्ति । [१८६।१४-१८६।१५] तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् । [१८६।१५] तत्र तु [१८६।१६] देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः । [१८६।१७] देशस्थतराणि बुद्धानां लक्षणानि । [१८६।१७-१८६।१८] उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः । [१८६।१९] किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् । नेत्याह । [१८६।२०] किं तर्हि । [१८६।२१] प्रागासन्नुपिवत्सत्त्वाः [१८६।२२] प्रथमकल्पिका मनुष्या रूपावचरा इवासन् । [१८६।२२-१८६।२४] सूत्र उक्तं "ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती"ति । [१८६।२५] रसरागात्ततः शनैः ॥ ३.९७ ॥ [१८६।२६] आलस्यात्सन्निधिं कृत्वा साग्रहैः क्षेत्रपो भृतः । [१८६।२७] तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः । [१८६।२७-१८७।०१] तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च । [१८७।०१-१८७।०२] तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः । [१८७।०२] स आरम्भः कवडीकाराहारस्य । [१८७।०२-१८७।०३] तेषां तदाहाराभ्यासात्खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः । [१८७।०३-१८७।०४] ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ । [१८७।०४-१८७।०५] सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् । [१८७।०५] तत्रापि गृद्धास्तदप्यन्तर्हितम् । वनलता प्रादुर्भूता । [१८७।०५-१८७।०६] तत्रापि गृद्धाः साऽप्यन्तर्हिता । [१८७।०६] अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः । [१८७।०६-१८७।०८] तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् । [१८७।०८-१८७।०९] तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः । [१८७।०९-१८७।१०] एष आरम्भः कामिनां कामभूतग्रहावेशस्य । [१८७।१०-१८७।११] ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म । [१८७।११] अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् । [१८७।१२] अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः । [१८७।१२-१८७।१३] तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म । [१८७।१३-१८७।१४] ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः । [१८७।१४] प्रथम आरम्भश्चौर्यस्य । [१८७।१४-१८७।१५] तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः । [१८७।१५-१८७।१६] तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना । [१८७।१६-१८७।१७] महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना । [१८७।१७] एष आरम्भो राजपरंपरायाः । [१८७।१७-१८७।१८] तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना । [१८७।१८-१८७।१९] अथान्यतमस्य राज्ञो लोभात्सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म । [१८७।२०] ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति [१८७।२१] ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥ [१८७।२२-१८७।२३] तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति । [१८७।२३] अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च । [१८७।२४] दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति । कथं भवतीत्याह [१८७।२५] कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः । [१८७।२६] त्रिभिरन्तरकल्पस्य निर्याणं भवति । शस्त्रेण रोगेण दुर्भिक्षेण च । [१८७।२६-१८८।०२] अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः । [१८८।०२-१८८।०३] तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति । [१८८।०३-१८८।०५] तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठं वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति । [१८८।०५] तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति । [१८८।०५-१८८।०६] पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति । [१८८।०६-१८८।०७] तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते । [१८८।०७-१८८।०८] पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः । [१८८।०८] कथं च चञ्चः । [१८८।०९] द्वाभ्यां कारणाभ्याम् । य इदानीं समवायः स तदानीं चञ्च इत्युच्यते । [१८८।०९-१८८।१०] समुद्गोऽपि चञ्चः । [१८८।१०-१८८।११] ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति । [१८८।११] अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते । [१८८।१२] कथं श्वेतास्थि । द्वाभ्यां कारणाभ्याम् । [१८८।१२-१८८।१४] तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति । [१८८।१४] कथं शलाकावृत्तिः । द्वाभ्यां कारणाभ्याम् । [१८८।१४-१८८।१७] ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति । [१८८।१७] एवं वर्णयन्ति । [१८८।१७-१८८।१९] येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति । [१८८।२०] अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति [१८८।२१] दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम् ॥ ३.९९ ॥ [१८८।२२] शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति । रोगः सप्त मासांश्च दिवसांश्च । [१८८।२३] दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः । [१८८।२३-१८८।२४] तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति । [१८८।२४-१८८।२५] व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च । [१८८।२५] यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यं यथायोगमिति । [१८८।२६] अथ कतीमाः संवर्तन्यः । [१८९।०१] संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः । [१८९।०२] एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी । [१८९।०२-१८९।०३] सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी । [१८९।०४] ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते । [१८९।०४-१८९।०५] अत्र तु केचितीर्थङ्करा इच्छन्ति । [१८९।०५] परमाणवो नित्यास्ते तदानीं शिष्यन्त इति । कस्मात्त एवमिच्छन्ति । [१८९।०६] मा भूदबीजकः स्थूलानां प्रादुर्भाव इति । [१८९।०६-१८९।०७] ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् । [१८९।०७] सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति । [१८९।०७-१८९।०८] "वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त" इति महीशासकाः सूत्रे पठन्ति । [१८९।०८-१८९।०९] एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति । [१८९।०९] किं तर्हि ॥ [१८९।०९-१८९।१०] स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः । [१८९।१०] एवं यावत्परमाणुभ्यः । [१८९।१०-१८९।११] किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् । [१८९।११] न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् । [१८९।११-१८९।१२] किं पुनः कारणं त एवमिच्छन्ति । [१८९।१२] नहि विजातीयात्संभवो युक्त इति । कस्मान्न युक्तः । [१८९।१२-१८९।१३] अनियमो हि स्यात् । [१८९।१३] शक्तिनियमान्नैवं भविष्यति । शब्दपाकजोत्पत्तिवत् । [१८९।१३-१८९।१४] चित्रो हि गुणधर्मो द्रव्यं तु नैवम् । [१८९।१४-१८९।१५] समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति । [१८९।१५] इदमयुक्तं वर्तते । [१८९।१५-१८९।१६] किमत्रायुक्तं यदसिद्धं साधनायोदाह्रियते । [१८९।१६] किमत्रासिद्धम् । [१८९।१७] अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति । [१८९।१७-१८९।१८] त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते । [१८९।१८] पिपीलिकापङ्क्तिवत् । कथं गम्येत । [१८९।१८-१८९।१९] एकतन्तुसंयोगे पटस्यानुपलम्भात् । [१८९।१९] को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः । [१८९।१९-१८९।२०] अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः । [१८९।२०] समूहमात्रं च पटः स्यात् । कश्च तन्तुभ्योऽन्यः पटभागः । [१८९।२०-१८९।२१] अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् । [१८९।२१-१८९।२२] मध्यपरभागानामिन्द्रियेणासंनिकर्षात् । [१८९।२२-१८९।२३] क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् । [१८९।२३-१८९।२४] तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् । [१८९।२४] भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् । [१८९।२४-१८९।२६] चित्ररूपादित्वे विजातीयारम्भोऽपि स्यातचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा । [१८९।२६] क्रियाऽपि चित्रेत्यतिचित्रम् । [१८९।२६-१८९।२७] तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः । [१८९।२७-१९०।०२] परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः । [१९०।०२] तेषां परमाणुवदेकः देशोऽतीन्द्रियः । [१९०।०२-१९०।०३] रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः । [१९०।०३-१९०।०४] द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति । [१९०।०४-१९०।०५] अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचितिमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति । [१९०।०६-१९०।०७] चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः । [१९०।०७-१९०।०८] पाकजोत्पत्तौ घटपरिज्ञनं संस्थानसामान्यात्पङ्क्तिवत् । [१९०।०८] चिह्नमपश्यतः परिज्ञानाभावात् । [१९०।०८-१९०।०९] को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः । [१९०।१०] अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति । [१९०।११] ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥ [१९०।१२] त्रीणि संवर्तनीशीर्षाणि । तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते । [१९०।१३] अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते । [१९०।१३-१९०।१४] वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते । [१९०।१४] यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते । [१९०।१४-१९०।१६] किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते । [१९०।१७] तदपक्षालसाधम्र्यात् [१९०।१८] प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः । [१९०।१८-१९०।१९] ते च मनसः परिदाहकत्वादग्निकल्पाः । [१९०।१९] द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः । [१९०।२०] अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात्दुःखेन्द्रियस्य निरोध उक्तः सूत्रे । [१९०।२१] तृतीये ध्याने आश्वासप्रश्वासाः । ते च वायव एव । [१९०।२१-१९०।२२] इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्यां ध्यानोपपत्तौ तथाभूतो बाह्य इति । [१९०।२२-१९०।२३] कस्मात्पृथिवीसंवर्तनी न भवति । [१९०।२३-१९०।२४] पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति । [१९०।२४] अथ चतुर्थध्याने कथं न संवर्तनी । [१९०।२५] न चतुर्थेऽस्त्यनिञ्जनात् । [१९०।२६] चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता । [१९०।२६-१९०।२७] अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी । [१९०।२७] शुद्धावासप्रभावादित्यपरे । [१९०।२७-१९१।०१] नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति । [१९१।०१-१९१।०२] नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति । [१९१।०३] न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥ [१९१।०४] नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् । किं तर्हि । [१९१।०४-१९१।०५] विच्छिन्नस्थानान्तरं तारकावत् । [१९१।०५] तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा । [१९१।०५-१९१।०६] स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् । [१९१।०६] केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति । निरन्तरं तावत् [१९१।०७] सप्ताग्निना [१९१।०८] सप्त संवर्तन्यस्तेजसा भवन्ति । ततः । [१९१।०९] अद्भिरेका [१९१।१०] सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति । [१९१।११] एवं गतेऽद्भिः सप्तके पुनः । [१९१।१२] तेजसा सप्तकः [१९१।१३] एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति । [१९१।१४] पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥ [१९१।१५] पश्चादेकावायुसंवर्तनी भवति । किं कारणम् । [१९१।१५-१९१।१७] यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी । [१९१।१७-१९१।१८] एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति "चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि"ति । [१९१।१९-१९१।२०] "ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतोह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमण" ॥ इति । [१९१।२१] अभिधर्मकोशभाष्ये लोकनिर्देशो नाम [१९१।२२-१९१।२३] तृतीयं कोशस्थानं समाप्तमिति । चतुर्थं कोशस्थानम् ===================================================================== [१९२।०२] ओं नमो बुद्धाय । [१९२।०३] अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत्केन कृतम् । [१९२।०३-१९२।०४] न खलु केनचिद्बुद्धिपूर्वकं कृतम् । [१९२।०४] किं तर्हि । सत्त्वानां [१९२।०५] कर्मजं लोकवैचित्र्यं [१९२।०६-१९२।०७] यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि । [१९२।०७-१९२।०८] कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः । [१९२।०८-१९२।०९] अव्यामिश्रकारिणां तु देवानामुभयेऽपि रम्याः । [१९२।०९] किं पुनस्तत्कर्मेत्याह [१९२।१०] चेतना तत्कृतं च तत् । [१९२।११] सूत्र उक्तं "द्वे कर्मणी चेतना कर्म चेतयित्वा चे"ति । [१९२।११-१९२।१२] यत्तच्चेतयित्वा चेतनाकृटं च तत् । [१९२।१२] ते एते द्वे कर्मणी त्रीणि भवन्ति । कायवाङ्मनस्कर्माणि । [१९२।१२-१९२।१३] कथमेषां कर्मणां व्यवस्थानम् । [१९२।१३] किमाश्रयतः आहोस्वित्स्वभावतः समुत्थानतो वा । [१९२।१३-१९२।१४] आश्रयतश्चेदेकं कायकर्म प्राप्नोति । [१९२।१४] सर्वेषां कायाश्रितत्वात्स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति । [१९२।१५] वचसः कर्मस्वभावत्वात् । समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति । [१९२।१५-१९२।१६] सर्वेषां मनः समुत्थितत्वात् । [१९२।१६] यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः । तत्र पुनः [१९२।१७] चेतना मानसं कर्म [१९२।१८] चेतना मनस्कर्मे ति वेदितव्यम् । [१९२।१९] तज्जं वाक्कायकर्मणी ॥ ४.१ ॥ [१९२।२०] यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये । [१९२।२१] ते तु विज्ञप्त्यविज्ञप्ती [१९२।२२] ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये । तत्र तु [१९२।२३] कायविज्ञप्तिरिष्यते । [१९२।२४] संस्थानं [१९२।२५] चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः । गतिरित्यपरे । [१९२।२५-१९२।२६] प्रस्यन्दमानस्य हि कायकर्म नोऽप्रस्यन्दमानस्येति । [१९२।२६] त उच्यन्ते [१९३।०१] न गतिर्यस्मात्संस्कृतं क्षणिकं [१९३।०२] कोऽयं क्षणो नाम । आत्मलाभोऽनन्त्रविनाशी । सोऽस्यास्तीति क्षणिकम् । [१९३।०३] दण्डकवत् । सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते । [१९३।०४] तस्यायुक्ता देशान्तरसंक्रान्तिः । तस्मान्न गतिः कायकर्म । [१९३।०४-१९३।०५] स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् । [१९३।०५] सिद्धमेवैतत्विद्धि । कुतः । संस्कृतस्यावश्यम् । [१९३।०६] व्ययात् ॥ ४.२ ॥ [१९३।०७] अकस्मिको हि भावानां विनाशः । किं कारणम् । कार्यस्य हि कारणं भवति । [१९३।०८] वनाशश्चाभावः । यश्चाभावस्तस्य किं कर्तव्यम् । [१९३।०८-१९३।०९] सोऽसावाकस्मिकोक्विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात्पश्चादपि न स्याद्भावस्य तुल्यत्वात् । [१९३।०९-१९३।१०] तथान्यथीभूतः । [१९३।१०] न युक्तं तस्यैव । न्यथात्वम् । न हि स एव तस्माद्विलक्षणो युज्यते । [१९३।१०-१९३।११] दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः । [१९३।११-१९३।१२] न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति । [१९३।१२-१९३।१३] न च सर्वस्याकस्मिको विनाशः कथं तावत्भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते । [१९३।१३] तेषां पुनरदर्शनात् । [१९३।१३-१९३।१४] संप्रधार्यं तावदेतत् । [१९३।१४-१९३।१५] किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते । [१९३।१५-१९३।१६] यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति । [१९३।१६] तस्मादनुमानसाध्योऽयमर्थः । किं पुनरत्रानुमानम् । [१९३।१६-१९३।१७] उक्तं तावतकार्यत्वादभावस्येति । [१९३।१७] पुनः [१९३।१८] न कस्यचिदहेतोः स्यात् [१९३।१९] यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् । [१९३।१९-१९३।२०] क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते । [१९३।२०-१९३।२१] यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति । [१९३।२१] तदयुक्तम् । बुद्ध्योरसमवधानात् । [१९३।२१-१९३।२२] न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा । [१९३।२२-१९३।२४] यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् । [१९३।२४-१९३।२५] अन्त्ययोश्च कथं योऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् । [१९३।२५] न ह्यभावः कारणं भवितुमर्हति । [१९३।२५-१९३।२६] न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः । [१९३।२७] सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन । [१९४।०१-१९४।०२] यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ [१९४।०३] हेतुः स्याच्च विनाशकः । [१९४।०४] हेतुरेव च विनाशकः स्यात् । कथं कृत्वा । [१९४।०४-१९४।०६] घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा । [१९४।०६-१९४।०७] न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति । [१९४।०७-१९४।०८] ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः । [१९४।०८-१९४।०९] क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः । [१९४।०९-१९४।१०] यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति । [१९४।१०-१९४।११] तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतोऽन्ते न पुनः संतानं संतनोति । [१९४।११-१९४।१२] इदमत्राग्निसंयोगाः कुर्वन्ति । [१९४।१२-१९४।१४] तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः । [१९४।१४] गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् । [१९४।१५] गत्यभावे च "संस्थानं कायविज्ञप्ति"रिति सिद्धम् । [१९४।१५-१९४।१६] नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः । [१९४।१६] एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते । [१९४।१६-१९४।१७] तमेवापेक्ष्याल्पीयसि ह्रस्वमिति । [१९४।१७] चतुर्दिशं भूयसि चतुरस्रमिति । [१९४।१७-१९४।२७] सर्वत्र समे वृत्तमिति । [१९४।१८] एवं सर्वम् । [१९४।१८-१९४।१९] तद्यथाऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति । [१९४।१९-१९४।२०] न तु खलु जात्यन्तरमस्ति संस्थानम् । [१९४।२०] यदि हि स्यात् [१९४।२१] द्विग्राह्यं स्यात् [१९४।२२-१९४।२३] चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् । [१९४।२३] न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति । [१९४।२३-१९४।२४] यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् । [१९४।२४] स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात्भवति । [१९४।२४-१९४।२५] स तु साहचर्यात्भवति न तु साक्षात्ग्रहणम् । [१९४।२५-१९४।२६] यथाऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति । [१९४।२६-१९५।०१] युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित्स्प्रष्टव्यं क्वचित्संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् । [१९५।०१-१९५।०२] अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् । [१९५।०२] वर्णेऽपि स्यात्वर्णवद्धा संस्थानेऽप्यनियमेन स्यात् । [१९५।०२-१९५।०३] नचैवं भवति । [१९५।०३] अयुक्तमस्य स्प्रष्टव्यात्स्मरणम् । [१९५।०३-१९५।०४] चित्रास्तरणेवाऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् । [१९५।०४] तच्चायीउक्तं वर्णवत् । [१९५।०४-१९५।०५] तस्मान्नास्ति द्रव्यतः संस्थानम् । [१९४।०६] यच्चापि किञ्चित्सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते । [१९५।०७] न चाणौ तत् [१९५।०८] न च संस्थानं परमाणौ विद्यते दीर्घादि । [१९५।०८-१९५।०९] तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः । [१९५।०९-१९५।१०] अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति । [१९५।१०] सोऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् । [१९५।१०-१९५।११] सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते । [१९५।११] न च संस्थानावयवानां वर्णादिवत्स्वभावः सिद्ध इति कुत एषां संचयः । [१९५।१२] यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् । [१९५।१२-१९५।१४] ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि । [१९५।१४-१९५।१६] यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति । [१९५।१६] पङ्क्तिसेनापरिकल्पवत् । इत्थं चैतदेवम् । [१९५।१७] यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति । [१९५।१८-१९५।१९] अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति । [१९५।१९] संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति । नतु पुनर्द्रव्यतः । [१९५।२०] तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति । [१९५।२०-१९५।२१] कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री । [१९५।२१] एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये । [१९५।२२-१९५।२३] यत्तर्हि "चेतना कर्म चेतयित्वा चे"त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति । [१९५।२३] तथा चेतयित्वा पश्चात्क्रिया चेतनोत्पद्यते । [१९५।२३-१९५।२४] यया कायः प्रेर्यते साऽसौ चेतयित्वा कर्मेत्युच्यते । [१९५।२४-१९५।२५] एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते । [१९५।२५-१९५।२६] अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति । [१९५।२६-१९५।२७] यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् । [१९५।२७-१९५।२८] चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत्नै वं भविष्यति । [१९५।२८] चेतनाविशेषेण तदाक्ष्पविशेषात् । [१९५।२८-१९६।०१] साऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते । [१९६।०१] जडत्वात् । [१९६।०१-१९६।०२] द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् । [१९६।०३] वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥ [१९६।०४] वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः । अविज्ञप्तिः पूर्वमेवोक्ता । [१९६।०४-१९६।०५] साऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः । [१९६।०५] अभ्युपेत्याकरणमात्रत्वात् । [१९६।०५-१९६।०६] अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च । [१९६।०६-१९६।०७] अस्तीति वैभांषिकाः । [१९६।०७] कथं ज्ञायते । [१९६।०८] त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः । [१९६।०९] त्रिविधं रूपमुक्तं सूत्रे । "त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति । [१९६।०९-१९६।१०] अस्ति रूपं सनिदर्शनं सप्रतिघम् । [१९६।१०] अस्ति रूपमनिदर्शनं सप्रतिघम् । [१९६।१०-१९६।११] अस्ति रूपमनिदर्शनमप्रतिघमि"ति । [१९६।११] अनास्रवं च भगवता रूपमुक्तम् । "अनास्रवाः धर्माः कतमे । [१९६।१२-१९६।१३] यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्नो नोत्पद्यतेऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने । [१९६।१३] इम उच्यन्तेऽनास्रवा धर्मा" इति । [१९६।१३-१९६।१४] न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् । [१९६।१४] वृद्धिरपि चोक्ता । [१९६।१४-१९६।१७] "एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् । [१९६।१७] एवं निरौपधिकैरि"ति ॥ [१९६।१७-१९६।१८] न चाविज्ञप्तिमन्तरेणान्यमनसोऽप्ति पुण्यस्याभिवृद्धिर्युज्यते । [१९६।१८-१९६।१९] अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ । [१९६।१९] नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते । [१९६।२०] तस्य कर्यणोऽकृतत्वात् । कृतेऽपि च तस्याः स्वभावविशेषादिति । [१९६।२०-१९६।२२] उक्तं च भगवता "धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि"ति । [१९६।२२] न त्वरूपीत्युक्तम् । [१९६।२२-१९६।२३] तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत । [१९६।२३] अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण । [१९६।२३-१९६।२४] समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् । [१९६।२४-१९६।२६] यत्तर्हीदमुक्तं "तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक्संकल्पः सम्यक्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः । [१९६।२६-१९६।२७] पूर्वमेव चास्य सम्यक्वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता" इति । [१९६।२७-१९६।२८] लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् । [१९६।२८-१९७।०१] प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ । [१९७।०१-१९७।०२] न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्कोऽप्ययं भिक्षुः स्यात्भिक्षुणी वेति । [१९७।०२] सेतुश्च सूत्रे विरक्तिरुक्ता । दौःशील्यविवन्धत्वात् । [१९७।०२-१९७।०३] न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः । [१९७।०३-१९७।०४] अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् । [१९७।०४] नैवं त्वेतत् । किं कारणम् । यत्तावदुक्तं "त्रिविधरूपोक्तेरि" ति । [१९७।०४-१९७।०५] तत्र योगाचारा उपदिशन्ति । [१९७।०५] ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते । [१९७।०६] चक्षुरिन्द्रियाविषयत्वातनिदर्शनम् । देशानावरणत्वादप्रतिघमिति । अथ मतम् । [१९७।०७] कथमिदानीं तत्रूपमिति । एतदविज्ञप्तौ समानम् । [१९७।०७-१९७।०८] यदप्युक्तमनास्रवरूपोक्तेरिति तदेव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः । [१९७।०९] अर्हतो यद्रूपं बाह्यं चेत्यपरे । आस्रवाणामनिश्रयत्वात् । [१९७।०९-१९७।१०] यत्तर्हि सूत्र उक्तं "सास्रवा धर्माः कतमे । [१९७।१०] यावदेव चक्षुर्यवदेव रूपाणी"ति विस्तरः । [१९७।१०-१९७।११] तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् । [१९७।११] पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् । किं स्यात् । [१९७।१२] लक्षणसंकरः स्यात् । [१९७।१२-१९७।१३] यथा तत्सास्रवं तथा न कदाचिदनास्रवमिति कोऽत्र संकरः । [१९७।१३-१९७।१५] यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु"र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि"ति विस्तरः । [१९७।१५-१९७।१९] यदप्युक्तं "पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति "धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति ।" [१९७।१९-१९७।२०] "इदमभिसंधायोक्तं" भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यमिति । [१९७।२०-१९७।२१] अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसोऽपि संतानान्तरस्य परिणामः सेत्स्यतीति । [१९७।२१] एतदविज्ञप्तौ स्मानम् । [१९७।२१-१९७।२३] कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति । [१९७।२३-१९७।२४] अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति । [१९७।२४-१९७।२५] अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् । [१९७।२५-१९७।२६] औपधिकेऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे । [१९७।२६-१९८।०१] यत्तर्हि सूत्र उक्तं "यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य" इत्यत्र तदानीं दातुः कश्चेतनाविशेषः । [१९८।०१-१९८।०२] तस्मात्संततिपरिणामविशेष एव न्याय्यः । [१९८।०२-१९८।०३] यदप्युक्तं "कारयतः कथं कर्मपथाः सेत्स्यन्ती"ति तत्राप्येवं वर्णयन्ति । [१९८।०३-१९८।०५] तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्तेऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः । [१९८।०५-१९८।०६] सोऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते । [१९८।०६] कार्ये कारणोपचारात् । [१९८।०६-१९८।०७] कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति । [१९८।०७-१९८।०८] उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः । [१९८।०८-१९८।०९] हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति । [१९८।०९] न त्वियता कर्मपथः परिसमाप्यते । [१९८।१०] मा भूदहतेऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति । [१९८।११] स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् । [१९८।११-१९८।१३] क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः । [१९८।१३] न खलु कश्चित्प्रद्वेषः । [१९८।१३-१९८।१४] किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः । [१९८।१५-१९८।१६] यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः । [१९८।१६] चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः । उक्तं चात्र । [१९८।१७] किमुक्तम् । "विज्ञप्त्यभावादि"त्येवमादि । तदभावादविज्ञप्तेरभावः । [१९८।१७-१९८।१८] यदप्युक्तं "धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि"ति । [१९८।१८-१९८।१९] तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् । [१९८।१९] यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति । [१९८।१९-१९८।२०] अङ्गं तावदाचक्ष्व । [१९८।२०] कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति । [१९८।२०-१९८।२१] किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते । [१९८।२१] नेत्याह । किं तर्हि । [१९८।२२] तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते । [१९८।२२-१९८।२३] यस्याः प्रतिलम्भाद्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते । [१९८।२३-१९८।२४] अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते । [१९८।२४-१९८।२७] यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते । [१९८।२७-१९९।०१] अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति । [१९९।०१] अपरस्त्वाह । तदक्रियामात्रमत्राङ्गमुक्तं स्यात् । [१९९।०१-१९९।०२] यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् । [१९९।०२-१९९।०३] नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते । [१९९।०३-१९९।०४] तद्याथाऽष्टौ लोकधर्माः लाभोऽलाभः यशोऽयशः निन्दा प्रशंसा सुखं दुःखमिति । [१९९।०४] नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् । [१९९।०५-१९९।०६] प्रातिमोक्षसंवरोऽपि स्यात्यया चेतनया विधिपूर्वं कृत्वाऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति । [१९९।०६] अन्यचित्तोन संवृतः स्यादिति चेत् । न । [१९९।०७-१९९।०९] तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात्सेतुभावोऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणातित्यर्थमेव च तस्याः समादानम् । [१९९।०९-१९९।१०] यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात्न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् । [१९९।१०-१९९।११] अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः । [१९९।१२-१९९।१३] यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तं तत्किं विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि । [१९९।१३] अन्यान्येव सा महाभूतान्युपादायोत्पद्यते । [१९९।१४] न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते । [१९९।१४-१९९।१५] किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते । [१९९।१५-१९९।१६] सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय । [१९९।१६] किं पुनस्तदिति । [१९९।१७] क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥ [१९९।१८] प्रथमात्क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते । [१९९।१९] तान्यस्या आश्रयार्थेन भवन्ति । प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन । [१९९।२०] प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् । [१९९।२०-१९९।२१] चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ । [१९९।२२] अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म । [१९९।२३] स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् । [१९९।२४-१९९।२५] कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय । [१९९।२६] अनास्रवं यत्र जातः [१९९।२७-२००।०१] अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् । [२००।०१] धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः । [२००।०२] तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये । [२००।०३] अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥ [२००।०४] नैःष्यन्दिकी च सत्त्वाख्या [२००।०५] किञ्च [२००।०६] निष्यन्दोपात्तभूतजा । [२००।०७] नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति । [२००।०७-२००।०८] असमाहितभूमिकाया एष प्रकारः । [२००।०९] समाधिजौपचयिकानुपाताभिन्नभूतजा ॥ ४.६ ॥ [२००।१०] ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा । [२००।१०-२००।१२] सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत्संभिन्नप्रलापात् । [२००।१२] किं कारणम् । [२००।१३] चित्तवत्भूताभेदात् । [२००।१३-२००।१४] प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति । [२००।१४] विज्ञप्तिस्तु नैःष्यन्दिकी । उपात्ता तु कायिकी । [२००।१४-२००।१६] किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न । [२००।१६] किञ्चातः यदि बाधित्वोत्पद्यते । न । [२००।१६-२००।१७] विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति । [२००।१७] अथाबाधित्वा । [२००।१७-२००।१८] कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति । [२००।१८-२००।१९] अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति । [२००।१९-२००।२०] एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् । [२००।२०] तन्महाभूतैरभिव्यापनात् । [२००।२०-२००।२१] अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् । [२००।२१] शुषिरत्वात्कायस्यास्ति तेषामवकाशः । [२००।२२] तत्खल्वेतत्कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् । [२००।२२-२००।२३] चेतना चेतयित्वा चेति । [२००।२३] चेतयित्वा पुनर्द्विधा । कायवाक्कर्म चेतना च । [२००।२३-२००।२४] कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च । [२००।२४-२००।२५] एवं वाक्कर्म चेतना चेति पञ्चविधं भवति । [२००।२५] तत्र पुनरविज्ञप्तिर्द्विधा । कुशलाऽकुशला च । [२००।२६] नाव्याकृतास्त्यविज्ञप्तिः [२००।२७] किं कारणम् । [२००।२७-२००।२८] अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धेऽपि तस्मिन्ननुवध्नीयात् । [२०१।०१] त्रिधाऽन्यत् [२०१।०२] अन्यत्कर्म त्रिविधम् । कुशलाकुशलाव्याकृतम् । किं तदन्यत् । विज्ञप्तिश्चेतना च । [२०१।०३] अशुभं पुनः । [२०१।०४] कामे [२०१।०५] अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् । नान्यत्र । [२०१।०५-२०१।०६] अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च । [२०१।०६-२०१।०७] कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् । [२०१।०७] तत्र [२०१।०८] रूपेऽप्यविज्ञप्तिः [२०१।०९] कामेऽपीत्यपिशब्दात् । आरूप्येषु नास्ति भूताभावात् । [२०१।०९-२०१।१०] यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ । [२०१।१०] इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् । [२०१।११] न । तस्या धात्वपतितत्वात् । [२०१।११-२०१।१२] आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् । [२०१।१२] सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये । [२०१।१३] विभूतरूपसंज्ञत्वात् । दौःशील्यप्रतिपक्षेण शीलम् । तच्च दौःशील्यं कामावचरम् । [२०१।१४] आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे । [२०१।१४-२०१।१५] अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः [२०१।१६] विज्ञप्तिः सविचारयोः ॥ ४.७ ॥ [२०१।१७] विज्ञप्तिस्तु सविचारयोरेव भूम्योः । कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् । [२०१।१८] कामेऽपि निवृता नास्ति [२०१।१९] निवृता तु विज्ञप्तिः कामधातावपि नास्ति । ब्रह्मलोक एवास्ति । [२०१।१९-२०१।२०] महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते । [२०१।२०-२०१।२१] स हि स्वपर्षन्मध्ये आयुष्मतोऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् । [२०१।२१-२०१।२२] तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् । [२०१।२२] अन्ये पुनराहुः । [२०१।२२-२०१।२३] द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता । [२०१।२३] न कुशला न क्लिष्टा । किं कारणम् । [२०१।२४-२०१।२५] न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् । [२०१।२५] न्यूनत्वात्प्रहीणत्वच्च । पूर्वमेव तु वर्णयन्ति । [२०१।२५-२०१।२६] किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति । [२०२।०१] समुत्थानमसद्यतः । [२०२।०२] सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते । [२०२।०२-२०२।०३] तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते । [२०२।०३] दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् । [२०२।०४] तच्च कामधातौ निवृतव्याकृतं नास्ति । [२०२।०५] किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् । नेत्याह । [२०२।०६] किं तर्हि । चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च । [२०२।०७] तत्र तावत् । [२०२।०८] परमार्थशुभो मोक्षः [२०२।०९] निर्वाणं हि सर्वदुःखव्युपशमः । ततः परमक्षेमत्वात्परमार्थेन कुशलमारोग्यवत् । [२०२।१०] स्वतो मूलह्यर्पत्रपाः ॥ ४.८ ॥ [२०२।११] त्रीणि कुशलमूलानि । [२०२।११-२०२।१२] ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् । [२०२।१२] पथ्यौषधवत् । [२०२।१३] संप्रयोगेण तद्युक्ताः [२०२।१४-२०२।१५] तैरेव कुशलमूलह्यर्पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् । [२०२।१६] समुत्था नात्क्रियादयः । [२०२।१७-२०२।१८] कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः । [२०२।१९] औषधपानीयसंभूतधात्रीक्षीरवत् । [२०२।१९-२०२।२०] प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् । [२०२।२०-२०२।२१] तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च । [२०२।२१] यथा च कुशलमुक्तं ततो [२०२।२२] विपर्ययेणाकुशलं [२०२।२३] कथं कृत्वा । संसारः परमार्थेनाकुशलः । सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् । [२०२।२४] अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः । तत्संप्रयुक्ता धर्माः संप्रयोगतः । [२०२।२४-२०२।२५] तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः । [२०३।०१] एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा । संसाराभ्यन्तरत्वात् । [२०३।०२] परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते । [२०३।०३] इष्टविपाकं च कुक्शलमित्युच्यते । यदि तु परमार्थेनाव्याकृतं मृग्यते तत् । [२०३।०४] परमाव्याकृते ध्रुवे ॥ ४.९ ॥ [२०३।०५] द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते । आकाशमप्रतिसंख्यानिरोधश्च । [२०३।०५-२०३।०६] इदं विचार्यते । [२०३।०६-२०३।०७] यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् । [२०३।०७] कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु । [२०३।०७-२०३।०९] समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् । [२०३।०९-२०३।१०] दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः । [२०३।१०] कर्त्तव्योऽत्र यत्नः । यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति । [२०३।११-२०३।१२] किं तर्हि भगवतोक्तं "ततोऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त" मित्येवमादि । [२०३।१२] अविरुद्धमेतत् । [२०३।१३] समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् । [२०३।१४] द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च । तत्रैव क्षणे तद्भावात् । [२०३।१५] प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥ [२०३।१६] हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् । तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् । [२०३।१७] किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् । [२०३।१७-२०३।१८] तेन हि विनाऽसौ मृतस्येव न स्यादा क्षिप्ताऽपि सती । [२०३।१८] अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति । [२०३।१८-२०३।१९] स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् । [२०३।१९] तत्र च [२०३।२०] प्रवर्तकं दृष्टिहेयं विज्ञानम् [२०३।२१] दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् । [२०३।२१-२०३।२२] तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् । [२०३।२२] न त्वनुवर्तकम् । [२०३।२२-२०३।२३] बहिर्मुखचित्तस्य क्रियाकाले तदभावात् । [२०३।२३] तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् । किं स्यात् । [२०३।२३-२०३।२४] अभिधर्मोबाधितः स्यात् । [२०३।२४] विद्याऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् । [२०३।२४-२०३।२५] साध्य एष पक्षः । [२०३।२५] भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः । समानचित्तोत्थापितत्वात् । [२०४।०१] नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति । अथवा पुनर्भवन्तु । नैवं शक्यम् । [२०४।०२] नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि । किं कारणम् । [२०४।०२-२०४।०३] अक्लिष्टस्य धर्मस्य विद्याऽविद्याभ्यामविरोधात् । [२०४।०३-२०४।०४] अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः । [२०४।०५] उभयं पुनः ॥ [२०४।०६] मानसं भावनाहेयम् । [२०४।०७] भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति । प्रवर्त्तकं चानुवर्तकं च । [२०४।०८] पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥ [२०४।०९] पञ्च विज्ञानकाया अनुवर्तका एव । तदिदं चतुष्कोटिकं भवति । [२०४।०९-२०४।१०] प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् । [२०४।१०] अनुवर्तका एव पञ्च विज्ञानकायाः । [२०४।१०-२०४।११] उभयं भावनाहेयं मनोविज्ञानम् । [२०४।११] नोभयमनास्रवम् । किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति । [२०४।१२] नायमेकान्तम् । [२०४।१३] प्रवर्तके शुभादौ हि स्यात्त्रिधाऽप्यनुवर्तकम् । [२०४।१४] कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् । [२०४।१५] एवमकुशले चाव्याकृते च । [२०४।१६] तुल्यं मुनेः [२०४।१७] बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् । कुशले कुशलमव्याकृते चाव्याकृतम् । [२०४।१८] शुभं यावत् [२०४।१९] कुशलं वा भवत्यनुवर्तकमव्याकृतेऽपि प्रवर्तके । [२०४।१९-२०४।२०] न तु कदाचित्कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति । [२०४।२०] आम्नायमाना हि बुद्धानां देशनेति । [२०४।२०-२०४।२१] नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः । [२०४।२१-२०४।२२] कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् । [२०४।२२] उक्तं हि सूत्रे [२०४।२३-२०४।२४] "चरन् समाहितो नागस्तिष्ठन्नागः समाहितः । स्वपन् समाहितो नागो निषण्णोऽपि समाहित" इति । [२०४।२५-२०४।२६] अनिच्छयाऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः । [२०४।२६-२०४।२७] मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् । [२०४।२७] तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् । [२०५।०१] नोभयं तु विपाप्कजम् ॥ ४.१२ ॥ [२०५।०२] विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् । [२०५।०२-२०५।०३] किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथाऽनुवर्तकम् । [२०५।०३] किं चातः । [२०५।०३-२०५।०४] यथा प्रवर्तकं चेत् । [२०५।०४] इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति । [२०५।०५] सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् । [२०५।०५-२०५।०६] न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् । [२०५।०६-२०५।०७] यथानुवर्तकं चेतकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति । [२०५।०७] यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् । [२०५।०७-२०५।०८] भावना हेयान्तरितत्वात् । [२०५।०८] यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् । [२०५।०९] हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् । [२०५।०९-२०५।१०] अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति । [२०५।१०] एवं वक्तव्यम् । अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति । [२०५।११] अवसितः प्रसङ्गः । [२०५।१२] सा तु पूर्वोक्ता । [२०५।१३] अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा । [२०५।१४] संवरश्चासंवरश्च । ताभ्यां चेतरो नैवसंवरो नासंवरः । [२०५।१४-२०५।१५] दौःशील्यप्रसरस्य संवरणं संरोधः संवरः । [२०५।१५] तत्र पुनः [२०५।१६] संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥ [२०५।१७] त्रिविधः संवरः । प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् । [२०५।१७-२०५।१८] ध्यानसंवरो रूपावचरं शीलम् । [२०५।१८] अनास्रवसंवरोऽनास्रवं शीलम् । तत्र पुनः [२०५।१९] अष्टधा प्रातिमोक्षाख्यः [२०५।२०-२०५।२१] भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च । [२०५।२१-२०५।२२] एषोऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते । [२०५।२२] नामत एषोऽष्टविधः । [२०५।२३] द्रव्यतस्तु चतुर्विधः । [२०५।२४] भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च । [२०५।२४-२०५।२५] इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः । [२०५।२५] प्रतिनियतलक्षणत्वात् । [२०५।२५-२०५।२६] भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ । [२०५।२६-२०५।२७] उपासकसंवरादुपासिकासंवरो नान्यः । [२०५।२७] कथं ज्ञायते । [२०६।०१] लिङ्गतो नामसंचारात् [२०६।०२] लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते । [२०६।०२-२०६।०३] लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति । [२०६।०३] कथं कृत्वा । [२०६।०३-२०६।०४] परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः । [२०६।०४-२०६।०५] श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः । [२०६।०५] उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति । [२०६।०५-२०६।०६] न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे । [२०६।०६-२०६।०७] तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः । [२०६।०८-२०६।१०] य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्योऽन्य उच्यन्ते पञ्चदश विंशतिवत्दीनारशतेरवच्च आहोस्वित्पृथगेव ते सकला जायन्ते । [२०६।१०] आह । [२०६।११] पृथक् [२०६।१२] अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते । [२०६।१२-२०६।१३] त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः । [२०६।१३] एवं शेषाः । को नु तासां विशेषः । [२०६।१३-२०६।१४] निदानविशेषाद्विशेषः । [२०६।१४] कथं कृत्वा । [२०६।१४-२०६।१७] यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः । [२०६।१७-२०६।१८] एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् । [२०६।१८] न चैतदिष्टम् । तस्मात्पृथगेव ते संवराः । [२०६।१९] ते चाविरोधिनः ॥ ४.१४ ॥ [२०६।२०] ते च त्रयोऽपि सह वर्तन्ते । नोत्तरसंवरसमादानात्पुर्वकस्य त्यागः । [२०६।२०-२०६।२१] मा भूत्भिक्षुसंवरपरित्यागादनुपासक एवेति । [२०६।२२] कथं चायमुपासको भवति कथमुपवासस्थो यावत्भिक्षुः । [२०६।२३-२०६।२४] पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् । उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥ [२०६।२५] यथासंख्यमनुदेशो वेदितव्यः । [२०६।२५-२०७।०१] पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति । [२०७।०१-२०७।०२] प्राणातिपाताददत्तादानात्काममिथ्याचारात्मृषावादात्सुरामैरेयमद्यपानाच्च । [२०७।०२-२०७।०३] अष्टाभ्यो विरतिसमादानादुपवासस्थः । [२०७।०३-२०७।०४] प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च । [२०७।०४-२०७।०५] दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति । [२०७।०५] एभ्य एव जातरूपरजतप्रतिग्रहाच्च । [२०७।०५-२०७।०६] नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति । [२०७।०६-२०७।०७] सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात्भिक्षुरित्युच्यते । [२०७।०७] स एष प्रातिमोक्षसंवरः । [२०७।०८] शीलं सुचरितं कर्म संवरश्चोच्यते [२०७।०९] विषमकर्मणां विरतिसमादानाच्छीलम् । शीतलत्वादिति निरुक्तिः । [२०७।१०] "सुखशीलसमादानं कायो न परिदह्यत" इति [२०७।११] गाथावचनात् । विद्वत्प्रशस्तत्वात्सुचरितम् । क्रियास्वभावत्वात्कर्म । [२०७।११-२०७।१२] ननु चाविज्ञप्तिरक्रियेत्युच्यते । [२०७।१२] सा कथं क्रिया भाति । [२०७।१२-२०७।१३] न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते । [२०७।१३] सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति । [२०७।१४] क्रियाहेतुत्वात्क्रियाफलत्वाच्चेत्यपरे । संवर इति कायवाचोः संवरणात् । [२०७।१४-२०७।१५] एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते । [२०७।१६] पुनः । [२०७।१७] आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः ॥ ४.१६ ॥ [२०७।१८] संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते । [२०७।१८-२०७।१९] पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः । [२०७।१९] स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् । [२०७।१९-२०७।२०] प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात्कर्मपथ इत्युच्यते । [२०७।२०] मौलसंगृहीतत्वात् । [२०७।२०-२०७।२१] द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः । [२०७।२१] पृष्ठं च न मौलः कर्मपथः । [२०७।२२] अथैषां संवराणां केन कः समन्वागतः । [२०७।२३] प्रातिमोक्षान्विता अष्टौ [२०७।२४] प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थोऽष्टमः । [२०८।०१] किं खलु बाह्यकानां समादानशीलं नास्ति । अस्ति नतु प्रातिमोक्षसंवरः । [२०८।०१-२०८।०२] किं कारणम् । [२०८।०२] नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते । भवसंनिश्रितत्वात् । [२०८।०३] ध्यानजेन तदन्वितः । [२०८।०४] ध्यानाद्ध्याने वा जातो ध्यानजः । यो ध्यानेन समन्वागतः सोऽवश्यं ध्यानसंवरेण । [२०८।०५] सामन्तकमप्यत्र ध्यानं कृत्वोच्यते । यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते । [२०८।०६] अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति । [२०८।०७] अनास्रवेणार्यसत्त्वाः [२०८।०८] आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः । ते पुनः शैक्षाशैक्षाः । [२०८।०८-२०८।०९] यदुक्तं "सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि"ति । [२०८।१०] कतमो तौ । एषामेव त्रयाणाम् [२०८।११] अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥ [२०८।१२] ध्यानसंवरोऽनास्रवसंवरश्च । न प्रातिमोक्षसंवरः । किं कारणम् । [२०८।१२-२०८।१३] अन्यचित्ताचित्तकस्याप्यनुवृत्तेः । [२०८।१३] पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते । [२०८।१४] कस्यामवस्थायामित्याह [२०८।१५] अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ । [२०८।१६] अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते । [२०८।१७] ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् । [२०८।१७-२०८।१८] अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते ॥ [२०८।१८-२०८।१९] प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः । [२०८।१९] द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः । [२०८।२०] तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः । [२०८।२०-२०८।२१] चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः । [२०८।२१-२०८।२२] एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् । [२०८।२२] यत्तर्हि भगवतोक्तं [२०८।२३-२०८।२४] "कायेन संवरः साधु साधु वाचाऽथ संवरः । मनसा संवरः साधु साधु सर्वत्र संवरः । इति । [२०८।२५] यच्चोक्तं "चक्षुरिन्द्रियेण संवरसंवृतो विहरती"ति । [२०८।२५-२०८।२६] एतौ मनैन्द्रियसंवरौ किंस्वभावौ । [२०८।२६] नैतावविज्ञप्तिशीलस्वभावौ । किं तर्हि । [२०९।०१] संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥ [२०९।०२-२०९।०३] प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरोऽपि स्मृतिसंप्रज्ञानस्वभाव इति । [२०९।०३] इन्द्रियसंवरोऽपि । [२०९।०४] इदं विचार्यते । [२०९।०४-२०९।०५] कः कतमया विज्ञप्त्याऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति । [२०९।०५] तत्र [२०९।०६] प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया । [२०९।०७] अविज्ञप्त्याऽन्वितः [२०९।०८-२०९।०९] यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर्न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः । [२०९।१०] पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥ [२०९।११][ प्रथमात्क्षणादूर्ध्वमतीतयाऽपि समन्वागतः । [२०९।११-२०९।१२] अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् । [२०९।१२] यथा प्रातिमोक्षसंवरस्थ उक्तः [२०९।१३] तथैवासंवरस्थोऽपि [२०९।१४-२०९।१५] असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः । [२०९।१५] क्षणादूर्ध्वमतीतयाऽपि । [२०९।१६] ध्यानसंवरवान् सदा । [२०९।१७] अतीताजातया [२०९।१८-२०९।१९] ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् । [२०९।१९] प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते । [२०९।२०] आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥ [२०९।२१] आर्यस्तु पुद्गलोऽप्येवमनास्रव्या । अयं तु विशेषः । [२०९।२१-२०९।२२] स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् । [२१०।०१] समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया । [२१०।०२-२१०।०३] तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ । [२१०।०३-२१०।०४] संवरासंवरस्थानां तावदेष वृत्तान्तः । [२१०।०५] अथेदानीं मध्यस्थस्य । [२१०।०६] मध्यस्थस्यास्ति चेदादौ मध्यया [२१०।०७] यो नैव संवरे नासंवरे स्थितः स मध्यस्थः । [२१०।०७-२१०।०८] तस्य नावश्यमविज्ञप्तिरस्ति । [२१०।०८] यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः । [२१०।०९] वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद् [२१०।१०] ऊर्ध्वं द्विकालया ॥ ४.२१ ॥ [२१०।११] प्रथमात्क्षणादूर्ध्वमतीतया वर्तमानया च । आत्यागादिति वर्तते । [२१०।११-२१०।१२] किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति । [२१०।१३] भवन् कदा कियन्तं वा कालमित्याह [२१०।१४-२१०।१५] असंवरस्थः शुभयाऽशुभया संवरे स्थितः । अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥ [२१०।१६-२१०।१८] येन प्रसादवेगेनासंवरस्थस्य कुशलाऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशलाऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती । [२१०।१८-२१०।१९] स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतयाऽपि । [२१०।१९] अविज्ञप्त्यधिकारः समाप्तः । [२१०।२०] विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः । [२१०।२१] सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः । [२१०।२२] अतीतया क्षणादूर्ध्वमात्यागात् [२१०।२३] प्रथमात्क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति । [२१०।२४] नास्त्यजातया ॥ ४.२३ ॥ [२११।०१] अनागतया तु विज्ञप्त्या न कश्चित्समन्वागतः । [२११।०२] निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः । [२११।०३] अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः । [२११।०४] दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति । किङ्कृतं तस्या दौर्बल्यम् । [२११।०५] चित्तकृतम् । चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् । नैतदेवम् । [२११।०५-२११।०६] जडा हि विज्ञप्तिः परतन्त्रा च । [२११।०६] न चैवं चित्तम् । [२११।०६-२११।०७] सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति । [२११।०८] असंवरस्थ इत्युक्तम् । कोऽयमसंवरो नाम । [२११।०९] असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः ॥ ४.२४ ॥ [२११।१०] असंवरस्येमे पर्यायशब्दाः । तत्र कायवाचोरसंवरणादसंवरः । [२११।१०-२११।११] सद्भिः कुत्सितत्वादनिष्टफलत्वाद्दुश्चरितम् । [२११।११] शीलविपक्षाद्दौःशील्यम् । कायवाक्कर्मत्वात्कर्म । [२११।१२] मौलसंगृहीतत्वात्कर्मपथः । स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् । [२११।१३] तत्र तावत् । [२११।१४] विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः । [२११।१५-२११।१७] मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः । [२११।१८] त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥ [२११।१९-२११।२०] अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् । [२११।२०-२११।२१] उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् । [२११।२२] अथैते संवराः कथं लभ्यन्ते । [२११।२३] ध्यानजो ध्यनभूम्यैव लभ्यते [२११।२४-२११।२५] यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरोऽपि सहभूतत्वात् । [२११।२६] अनास्रवस्तया । [२११।२७] आर्यया [२११।२८] तयैव ध्यानभूम्याऽनास्रवया लभ्यमानयाऽनास्रवः संवरो लभ्यते । [२११।२८-२११।३०] तत्र षट्ध्यानभूमयोऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः । [२१२।०१] प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥ [२१२।०२] प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते । यद्येनं परो विज्ञपयति असौ च परम् । [२१२।०३] स पुनः संघाद्वा पुद्गलाद्वा । संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये । [२१२।०४] दशविधा उपसंपदिति विनयविभाषिकाः । तस्य ऊपसंग्रहणार्थमादिशब्दः । [२१२।०४-२१२।०९] स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानामेहिभिक्षुकया यशःप्रभृतीनां शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः । [२१२।०९-२१२।१०] स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः । [२१२।११] यावज्जीवं समादानमहोरात्रं च संवृतेः । [२१२।१२-२१२।१३] सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानमुपवाससंवरस्याहोरात्रमित्येष नियमः । [२१२।१३] किं कारणम् । द्वौ हि कालपर्यन्तौ । [२१२।१३-२१२।१४] अहोरात्रपर्यन्तो जीवितपर्यन्तश्च । [२१२।१४] अहारोत्राणां पौनरुक्त्येन पक्षादयः । कालो नाम क एष धर्मः । [२१२।१५] संस्कारपरिदीपनाधिवचनमेतत् । आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते । [२१२।१६] तमोऽवस्था रात्रिः । युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः । [२१२।१७] विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च । [२१२।१७-२१२।१९] अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ । [२१२।१९-२१२।२०] इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म । [२१२।२०] इदमिदानीं संप्रधार्यम् । [२१२।२०-२१२।२२] किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रकेऽपि संवरसमादानेन संनियोजनार्थमिति । [२१२।२२] कुतस्त्वेतदेवं तर्क्यते । [२१२।२२-२१२।२३] अहोरात्रात्परेणापि संवरोत्पत्तौ युक्त्यविरोधात् । [२१२।२३-२१२।२४] तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः । [२१२।२४] असंवरस्येदानीं कः कालनियमः । [२१२।२५] नासंवरोऽस्त्यहोरात्रं [२१२।२६] यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः । किं कारणम् । [२१३।०१] न किलैवं प्रगृह्यते ॥ ४.२७ ॥ [२१३।०२-२१३।०३] न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति । [२१३।०३] कुत्सितत्वात्कर्मणः । [२१३।०३-२१३।०४] एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति । [२१३।०४] यावज्जीवमप्यस्य लाभो न स्यात् । [२१३।०४-२१३।०६] यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन । [२१३।०६] उपवाससंवरस्तु समादानबलाधानादनात्यन्तिकेऽप्याशये लभ्यत एव । [२१३।०७] संवरार्थित्वात् । [२१३।०७-२१३।०८] यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सोऽवश्यं लभेत । [२१३।०८] न त्वेददृष्टमिति नैवं व्यवस्थाप्यते । [२१३।०९] अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः । [२१३।०९-२१३।१०] स एव तु पापक्रियाभिसंधिरसंवरः । [२१३।१०] सानुबन्धो यतः कुशलचित्तोऽपि तद्वानुच्यते । [२१३।१०-२१३।११] तस्यानिराकृतत्वात् । [२१३।१२] अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः । [२१३।१३-२१३।१४] काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता । उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात् ॥ ४.२८ ॥ [२१३।१५] काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य । [२१३।१५-२१३।१६] यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् । [२१३।१६-२१३।१७] अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् । [२१३।१७-२१३।१८] नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वाऽन्यत्र स्थास्यात् । [२१३।१८-२१३।१९] अगौरवस्य हि संवरो नोत्पद्यते । [२१३।१९] दातुश्च वचनमनुब्रुवीत । न पूर्वं न युगपत् । [२१३।१९-२१३।२०] एवं ह्यसौ परस्मात्गृहीतो भवति । [२१३।२०] अन्यथा हि दानग्रहणं न सिध्येत् । [२१३।२०-२१३।२१] समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः । [२१३।२१] निर्भूषेण च । आजस्रिकमभ्यलङ्कारं मुक्त्वा । [२१३।२२] आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति । [२१३।२२-२१३।२३] आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत्पुनः सूर्योदयात् । [२१३।२३-२१३।२४] अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः । [२१३।२४-२१३।२५] एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते । [२१३।२५] अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् । [२१३।२५-२१३।२६] यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे । [२१३।२६-२१३।२७] अल्पकुशलमूलानां कुशलमूलपोषणात्पोषध इति वा । [२१४।०१-२१४।०२] "पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधोऽयमि"ति । [२१४।०३] किमर्थं पुनरष्टाङ्गन्युपादीयन्ते । यस्मात् [२१४।०४] शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् । [२१४।०५] चत्वार्येकं तथा त्रीणि [२१४।०६] चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः । प्रकृतिसावद्यविरतित्वात् । [२१४।०७] एकमप्रमादाङ्ग मद्यपानाद्विरतिः । समात्तशीलोऽपि मद्यपः प्रमाद्येत । [२१४।०७-२१४।०८] त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः । [२१४।०८] संवेगानुगुणत्वात् । [२१४।०८-२१४।०९] किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् । [२१४।१०] स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥ [२१४।११] मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् । [२१४।११-२१४।१२] उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् । [२१४।१२] मत्तस्य च दौःशील्यमदूरं भवेत् । [२१४।१२-२१४।१४] काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् । [२१४।१४] तदभावादुभयं न स्यादिति । [२१४।१४-२१४।१५] केचित्तु खल्वकालभोजनात्प्रतिविरतिमेवोपवासं मन्यन्ते । [२१४।१५] तस्य शेषाण्यष्टाङ्गानीति । [२१४।१५-२१४।१६] नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा । [२१४।१६] एवं तु सति सूत्रपाठो न युज्येत । [२१४।१६-२१४।१८] अकालभोजनाद्विरति मुक्त्वा "अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय" इति । [२१४।१८] कस्तर्हि सोऽन्य उपवासो यस्येमान्यङ्गानि । समुदायस्यावयवा अङ्गानि । [२१४।१९-२१४।२०] यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथाऽष्टाङ्ग उपवासो द्रष्टव्यः । [२१४।२०-२१४।२१] अकालभोजनात्प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च । [२१४।२१-२१४।२२] धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः । [२१४।२२-२१४।२३] नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति । [२१४।२३-२१४।२४] पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् । [२१४।२५] किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि । [२१४।२६] अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न । [२१४।२७-२१५।०१] अनुपवासकोऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा । [२१५।०१] अन्यत्राज्ञानात् । [२१५।०१-२१५।०४] सूत्र उक्तं "यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय । [२१५।०४] इयता उपावासको भवती"ति । तत्किं शरणगमनादेवोपवासको भवति । [२१५।०५] भवतीति बहिर्देशकाः । न विना संवरेणेति काश्मीराः । यत्तर्हि सूत्र उक्तम् । [२१५।०६] नास्त्यत्र विरोधः । यस्मादस्योत्पद्यते तत एव [२१५।०७] उपासकत्वोपगमात्संवृत् [२१५।०८] उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते । [२१५।०८-२१५।०९] "यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि"ति । [२१५।०९-२१५।१०] प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् । [२१५।१०] लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम् [२१५।११] उक्तिस्तु भिक्षुवत् ॥ ४.३० ॥ [२१५।१२-२१५।१३] यथैवं भिक्षुर्लब्धसंवरोऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासकोऽपि न तु विना संवरेणोपासकोऽस्ति । [२१५।१४] सर्वे चेत्संवृता एकदेशकार्यादयः कथम् । [२१५।१५-२१५।१६] यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः । [२१५।१७] तत्पालनात्किल प्रोक्ताः [२१५।१८] यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः । सर्वे तु समं संवरस्थाः । [२१५।१९] इदमुत्सूत्रं वर्तते । किमत्रोत्सूत्रम् । [२१५।१९-२१५।२०] उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात्प्राणतिपातमित्याहेति । [२१५।२०] न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः । [२१५।२१] तत्रैव चोपासकलक्षणोपदेशो नान्यत्र । [२१५।२१-२१५।२२] यत्र त्वेष पाठो "यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि"ति । [२१५।२२-२१५।२३] तत्र ते दृष्टसत्या "अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म । [२१५।२३] जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु"मिति । [२१५।२३-२१५।२४] न त्वेष लक्षणोपदेशः संवरस्य । [२१५।२४] प्राणापेतं तु न क्वचित्पठ्यते । [२१५।२४-२१६।०१] कश्चैतदपरिस्फुटार्थं पठेत् । [२१६।०१] एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते । [२१६।०२] कुतो विसर्जनमावेणिकधर्माणाम् । [२१६।०२-२१६।०३] को ह्यपासकसंवरं जाननेतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति । [२१६।०३-२१६।०४] उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते । [२१६।०४-२१६।०५] "कियता भदन्तोपासक एकदेशकारी भवति यावत्परिपूर्णकारी भवति ।" [२१६।०५-२१६।०६] यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् । [२१६।०६-२१६।०७] कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति । [२१६।०७] शास्तृप्रज्ञप्तिवशात् । [२१६।०८] उपासकत्वादिप्रतिनियमोऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् । [२१६।०८-२१६।०९] विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः । [२१६।०९-२१६।१०] सर्वेषां तु संवराणाम् । [२१६।११] मृद्वादित्वं यथा मनः ॥ ४.३१ ॥ [२१६।१२] मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् । [२१६।१२-२१६।१३] एवं च कृत्वाऽर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यात्पृथग्जनस्याधिमात्रः । [२१६।१३-२१६।१४] किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः । [२१६।१४] न स्यादन्यत्राज्ञानात् । [२१६।१५] यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति । [२१६।१६-२१६।१७] बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः । निर्वाणं चेति शरणं यो याति शारणत्रयम् ॥ ४.३२ ॥ [२१६।१८-२१६।२०] यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति । [२१६।२०] के पुनस्ते । क्षयज्ञानादयः सपरिवाराः । [२१६।२०-२१६।२१] रूपकायस्य पूर्वं पश्चाच्चाविशेषात् । [२१६।२१] किं सर्वबुद्धानथैकम् । लक्षणतः सर्वबुधान् । [२१६।२१-२१६।२२] मार्गस्याविलक्षाणत्वात् । [२१६।२२-२१६।२३] यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति । [२१६।२३] अभेदत्वात् । [२१६।२४] किं सर्वसंघानथैकम् । लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् । [२१६।२४-२१६।२६] यत्तु सूत्र उक्तं "योऽप्यसौ भविष्यत्यनागतेऽध्वनि संघो नाम तमपि शरणं गच्छतमि "ति । [२१६।२६] तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् । [२१६।२६-२१६।२७] यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् । [२१६।२७-२१६।२८] स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् । [२१६।२८-२१६।२९] यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति । [२१६।२९-२१७।०१] आश्रयविपादनात्तेऽपि विपादिता भवन्तीति वैभाषिकाः । [२१७।०१] शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति । [२१७।०१-२१७।०२] किं तर्हि । [२१७।०२] बुद्धकरका इति । अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् । [२१७।०२-२१७।०३] अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् । [२१७।०४] यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति । [२१७।०४-२१७।०५] एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति । [२१७।०५-२१७।०६] यो बुद्धं शरणं गच्छति सोऽष्टादशावेणिकान्बुद्धर्मानित्यपरे । [२१७।०६-२१७।०७] किंस्वभावानि शरणगमनानि । [२१७।०७] वाग्विज्ञप्तिस्वभावानि । कः पुनः शरणार्थः । [२१७।०७-२१७।०८] त्राणार्थः शरणार्थः । [२१७।०८] तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् । उक्तं हि भगवता [२१७।०९-२१७।१०] "बहवः शरणं यान्ति पर्वतांश्च वनानि च आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥ [२१७।११-२१७।१२] न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ [२१७।१३-२१७।१४] यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥ [२१७।१५-२१७।१६] दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥ [२१७।१७-२१७।१८] एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥"इति । [२१७।१९] एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि । [२१७।२०-२१७।२१] किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितमुपासकस्य तु काममिथ्याचारात् । [२१७।२२] मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः । [२१७।२३] काममिथ्याचारो हि लोकेऽत्यन्तं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । [२१७।२४] न तथाऽब्रह्मचर्यम् । [२१७।२४-२१७।२५] सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् । [२१७।२५-२१७।२६] आर्याश्चाकरणसंवरं काममिथ्याचारात्प्रतिलभन्ते । [२१७।२६-२१८।०१] जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत्परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति । [२१८।०१-२१८।०२] अक्रियानियमो ह्यकरणसंवरः । [२१८।०२-२१८।०३] य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्योऽपि संवरः प्रतिलब्धोऽथ न । [२१८।०३] प्रतिलब्धो मा भूत्प्रादेशिकसंवरलाभ इति । [२१८।०३-२१८।०४] कथं संवरक्षोभो न भवति । [२१८।०४] यस्मात् [२१८।०५] यथाभ्युपगमं लाभः संवरस्य न संततेः ॥ ४.३३ ॥ [२१८।०६] यथा ह्येषामभ्युपगमस्तथा संवरलाभः । कथं चैषामभ्युपगमः । [२१८।०६-२१८।०७] काममिथ्याचाराद्विरमामीति । [२१८।०७-२१८।०८] न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः । [२१८।०९-२१८।१०] अथ कस्मात्मृषावादाद्विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः । [२१८।१०] एभिरेव च त्रिभिः कारणैः । [२१८।११] "मृषावादातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।" [२१८।१२] मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे । [२१८।१३-२१८।१५] सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमोऽप्यात्मनि माविष्कुर्यादिति । [२१८।१५-२१८।१६] किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् । [२१८।१७] प्रतिक्षेपणसावद्यान्मद्यादेव [२१८।१८] किं कारणं मद्यादेव नान्यस्मात् । [२१८।१९] अन्यगुप्तये ॥ ४.३४ ॥ [२१८।२०] मद्यं पिवतोऽन्यान्यप्यङ्गान्यगुप्तानि स्युः । [२१८।२०-२१८।२१] कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते । [२१८।२१] प्रकृतिसावद्यलक्षणाभावात् । [२१८।२१-२१८।२२] प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते । [२१८।२२] शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् । [२१८।२२-२१८।२३] क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति । [२१८।२३-२१८।२४] न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति । [२१८।२४] प्रकृतिसावद्यं मद्यमिति विनयधराः । [२१८।२४-२१८।२५] "कथं भदन्त ग्लान उपस्थातव्यः । [२१८।२५-२१८।२६] प्रकृतिसावद्यमुपालिन् स्थापयित्वा" इत्युक्तं भगवता । [२१८।२६] शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् । [२१८।२७-२१८।२८] इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि" त्यतः प्रकृतिसावद्यमिति ज्ञायते । [२१८।२८] आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् । [२१८।२९] प्राणिवधादिवत् । कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति । नेत्याभिधार्मिकाः । [२१९।०१-२१९।०२] उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात् । [२१९।०२] अत एव कुशाग्रपानप्रतिषेधः । [२१९।०३] आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् । [२१९।०३-२१९।०४] अल्पकस्याप्यपानमनियमाद्विषवत् । [२१९।०४] दुश्चरितवचनं प्रमादस्थानत्वात् । [२१९।०४-२१९।०५] अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् । [२१९।०५] अत्यासेवितेन दुर्गतिगमनाभिधानम् । [२१९।०५-२१९।०६] तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा । [२१९।०६-२१९।०७] सुरामैरेयमद्यप्रमादस्थानमिति कोऽर्थः । [२१९।०७] सुरा अनासवः । मैरेयं द्रवासवः । [२१९।०७-२१९।०८] ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् । [२१९।०८-२१९।०९] पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् । [२१९।०९-२१९।१०] प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् । [२१९।१०] सर्वप्रमादास्पदत्वादिति । [२१९।११-२१९।१२] य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ । [२१९।१२] नेत्याह । किं तर्हि । [२१९।१३] सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते । [२१९।१४] वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः । [२१९।१५] सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः । [२१९।१५-२१९।१७] उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते । [२१९।१७] सत्त्वाधिष्टानप्रवृत्तत्वात्नातीतानागतेभ्यः । तेषामसत्त्वसंख्यातत्वात् । [२१९।१८] मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ ॥ ४.३५ ॥ [२१९।१९-२१९।२१] मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्योऽपि । [२१९।२१] अत एव चतुष्कोटिकं क्रियते । [२१९।२१-२१९।२२] सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः । [२१९।२२-२१९।२३] प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । [२१९।२३-२१९।२४] द्वितीयाऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । [२१९।२४] तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः । [२२०।०१] चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति । [२२०।०१-२२०।०२] नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् । [२२०।०२-२२०।०३] अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् । [२२०।०४-२२०।०५] अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः । [२२०।०५] नियतं तावत्लभ्यते । [२२०।०६] संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः । [२२०।०७] सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चितङ्गेभ्यस्तु विभाषा । [२२०।०७-२२०।०८] कश्चित्सर्वेभ्यो लभ्यते । [२२०।०८] भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततोऽन्यः । [२२०।०८-२२०।०९] कर्मपथा हि संवरस्याङ्गानि । [२२०।०९] कारणैरपि केनचित्पर्यायेण सर्वैः केनचिदेकेन । केन तावत्सर्वैः । [२२०।१०] यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते । केनै केन । [२२०।१०-२२०।११] यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते । [२२०।११-२२०।१२] पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः । [२२०।१२-२२०।१३] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते । [२२०।१३-२२०।१४] अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः । [२२०।१४] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । [२२०।१५] अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च । [२२०।१५-२२०।१६] यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते । [२२०।१६] अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः । [२२०।१६-२२०।१७] य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते । [२२०।१७-२२०।१८] यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति । [२२०।१८-२२०।१९] यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् । [२२०।१९-२२०।२०] पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते । [२२०।२०] सत्त्वाङ्गदेशकालसमयनियमात् । [२२०।२०-२२०।२१] अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । [२२०।२१] अमुष्मादङ्गादित्यङनियमः । अमुस्मिन देश इति देशनियमः । [२२०।२२] मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । [२२०।२२-२२०।२३] सुचरितमात्रं तु स्यात्तथा गृह्णतः । [२२०।२३] कथमशक्येभ्यः संवरलाभः । [२२०।२३-२२०।२४] सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । [२२०।२४-२२०।२५] यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् । [२२०।२५] शक्याशक्यानामितरेतरसंचारात् । [२२०।२५-२२०।२६] एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः । [२२०।२६] नैवं भविस्यति । [२२०।२६-२२१।०१] यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारेऽपि न स्याताम् । [२२१।०१] न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् । [२२१।०१-२२१।०२] को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् । [२२१।०२-२२१।०४] यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः । [२२१।०४] तस्मात्पूर्वक एव परिहारः साधुः । [२२१।०४-२२१।०६] एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत । [२२१।०६] सर्वेषां सत्त्वेभ्यो लाभात् । [२२१।०६-२२१।०७] यदि हि तेऽप्यभविष्यं स्तेभ्योऽपि तेऽलप्स्यन्त । [२२१।०७] उक्तं यतः संवरो लभ्यते । [२२१।०८] असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥ [२२१।०९] असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च । [२२१।०९-२२१।१०] नास्ति हि विकलेनासंवरेणासंवरिकः । [२२१।१०] न तु सर्वकारणैर्युगपत्मृद्वादिचित्तासंभवात् । [२२१।१०-२२१।१२] यो मृदुना चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या । [२२१।१२-२२१।१३] एवं मध्याधिमात्रेण योज्यम् । [२२१।१३-२२१।१५] तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च । [२२१।१५-२२१।१६] राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात्तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा । [२२१।१६-२२१।१७] उरभ्रान् घ्नन्तीति औरभ्रिकाः । [२२१।१७] एवमन्येऽपि योज्याः । [२२१।१७-२२१।१८] युक्तस्तावत्संवरस्य सर्वसत्त्वेभ्यो लाभः । [२२१।१८] सर्वसत्त्वहिताध्याशयेन ग्रहणात् । [२२१।१८-२२१।२०] औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते । [२२१।२०] मात्रादीनपि हि त उरभ्रीभूतान् हन्युः । [२२१।२०-२२१।२१] न हि तावत्ते त एव इति विद्वांसो हन्युः । [२२१।२१-२१२।२२] आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् । [२२१।२२-२२१।२३] यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात्सर्वथा न हन्युरिति इन स्यात्तेभ्य्योऽसंवरः । [२२१।२३-२२२।०१] कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः । [२२२।०१] एतन्मात्रादिषु समानम् । [२२२।०१-२२२।०२] कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति । [२२२।०२] यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च । [२२२।०३] कथमस्य पूर्वङ्गेभ्योऽसंवरः स्यात् । आशयस्याविपन्नत्वात् । [२२२।०३-२२२।०४] मूकोऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति । [२२२।०४-२२२।०५] यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते । [२२२।०५] सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः । [२२२।०५-२२२।०७] यथा भ्युपगमं विकलोऽपि स्यात्प्रादेशिकोऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः । [२२२।०७] तन्मात्रशील दौःश्लील्यप्रतिबन्धात् । [२२२।०८] उक्तमिदमसंवरस्य येभ्यो लाभः । कथं तु लाभ इति नोक्तम् । तत इदमुच्यते । [२२२।०९] असंवरस्य क्रियया लाभोऽभ्युपगमेन वा । [२२२।१०] द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । [२२२।१०-२२२।११] वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः । [२२२।११] वयमप्यनया जीविकया जीविष्याम इति । [२२२।१२] शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥ [२२२।१३] क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते । [२२२।१३-२२२।१४] यथौपधिकेषु पुण्यक्रियावस्तुषु । [२२२।१४-२२२।१५] अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि । [२२२।१५-२२२।१६] आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्याविज्ञप्तिरुत्पद्यते । [२२२।१६-२२२।१७] उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः । [२२२।१८] त्याग इदानीं वक्तव्यः । तत्र तावत् [२२२।१९-२२२।२०] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः । उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥ [२२२।२१] दाम्यन्त्यनेनेति दमः संवरोऽभिप्रेतस्तेनेन्द्रियदमनात् । [२२२।२१-२२२।२२] चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः । [२२२।२२] स्थापयित्वोपवासम् । [२२२।२२-२२२।२४] शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात्युगपदु भयव्यञ्जनप्रादुर्भावात्कुशलमूलसमुच्छेदाच्च । [२२२।२४] उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च । [२२२।२४-२२२।२५] तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति । [२२२।२५-२२२।२६] किं पुनः कारणमेभिः कारणैस्त्यागो भवति । [२२२।२६-२२२।२७] समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च । [२२३।०१] पतनीयेन चेत्येके [२२३।०२] अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति । [२२३।०३] सद्धमन्तिर्धितोऽपरे । [२२३।०४] सद्धर्मस्यान्तर्धानादित्यपरे । [२२३।०४-२२३।०५] यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति । [२२३।०६] धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥ [२२३।०७] काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति । [२२३।०७-२२३।०८] न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः । [२२३।०८] किं कारणम् । न ह्येकदेशक्षोभात्कृत्स्न संवरत्यागो युक्त इति । [२२३।०९] नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः । किं तर्हि । [२२३।०९-२२३।१०] द्वयमस्य भवति शीलं दौःशील्यं च । [२२३।१०] यथा कस्यचिद्धनं स्यादृणं च । [२२३।१०-२२३।११] आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति । [२२३।१२] यत्तर्हि भगवतोक्तम् "भिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् ।" [२२३।१३] कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति । [२२३।१३-२२३।१४] परमार्थभिक्षुत्वं संधायैतदुक्तम् । [२२३।१४] इदमभिसाहसं वर्तते । किमत्राभिसाहसम् । [२२३।१४-२२३।१५] यत्भगवता नीतार्थं पुनरन्यथा नीयते । [२२३।१५] दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते । [२२३।१५-२२३।१६] कथमेत नीतार्थम् । [२२३।१६] एष हि विनये निर्देषः । "चतुर्विधो भिक्षुः । [२२३।१७] संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात्भिक्षुः । [२२३।१७-२२३।१८] अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि"ति । [२२३।१८-२२३।२१] न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत्यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तोऽनुयोग "स्तद्यथा तालो मस्तकाच्छिन्नोऽभव्योऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु" मित्युपमां कुर्वता । [२२३।२१] कः पुनरूपमार्थः । [२२३।२१-२२३।२२] एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति । [२२३।२२-२२३।२४] स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः । [२२३।२३-२२४।०२] यस्य चैकग्रासपरिभोगोऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगोऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तम् । [२२४।०३-२२४।०४] "नाशयत कारण्डवकं कशम्बकमपकर्षत । अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्"इति ॥ [२२४।०५] तस्य कीदृशो भिक्षुभावः । यादृशस्तादृशोऽस्तु । अस्ति तु भिक्षुभावः । [२२४।०५-२२४।०६] तथाहि "चत्वारः श्रमणा न पञ्चमोऽस्ति चुन्दे"ति [२२४।०७] भगवानवोचत् [२२४।०८-२२४।०९] "मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी" अस्त्येतदुक्तम् । [२२४।०९-२२४।१०] स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् । [२२४।१०-२२४।११] यदि हि दौःशील्यादभिक्षुः स्यात्शिक्षादत्तको न स्यात् । [२२४।११] न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति । [२२४।११-२२४।१२] यस्तु पाराजिकः सोऽवश्यमभिक्षुः । [२२४।१२-२२४।१३] कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना । [२२४।१३-२२४।१४] यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते । [२२४।१४-२२४।१५] तीव्रानपत्राप्यविपादितत्वात्संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया । [२२४।१५] तथा ह्यसौ निक्षिप्तशिक्षोऽपि न प्रव्राज्यते । [२२४।१५-२२४।१६] कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतोऽपि भिक्षुर्नमोऽस्तु तस्मै तादृशाय भिक्षुत्वाय । [२२४।१७] सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति । [२२४।१७-२२४।१८] लब्धस्य तु नास्ति त्यागः । [२२४।१९] अथ ध्यानानास्रवसंवरयोः कथं त्यागः । [२२४।२०] भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् । [२२४।२१] सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते । [२२४।२१-२२४।२२] उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् । [२२४।२३] यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते [२२४।२४] तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥ [२२४।२५] अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते । [२२४।२५-२२५।०१] फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते । [२२५।०१] इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । [२२५।०१-२२५।०२] फलं फलविशिष्टो वा । [२२५।०२] एवं तावत्संवरास्त्यज्यन्ते । [२२५।०३] असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः । [२२५।०४] त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । [२२५।०४-२२५।०५] यदि संवरं समादत्ते ध्यानसंवरं वा लभते । [२२५।०५] हेतुप्रत्ययबलेन समाधिलाभात् । तेनासंवश्छिद्यते । [२२५।०५-२२५।०६] प्रतिद्वन्द्वबलीयस्त्वात् । [२२५।०६] मरणेनाश्रयत्यागात् । द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति । [२२५।०६-२२५।०७] शस्त्रजालत्यागेऽप्यकरणाशयतः । [२२५।०७] संवरमन्तरेणासंवरच्छेदो नास्ति । [२२५।०७-२२५।०८] निदानपरिवर्जनेऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् । [२२५।०९-२२५।१०] य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् । [२२५।१०] असंवरमित्येके । त्यागाशयस्यानात्यन्तिकत्वात् । [२२५।१०-२२५।११] प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे । [२२५।११-२२५।१२] तल्लाभस्य विज्ञप्त्यधीनत्वात् । [२२५।१३] अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते । [२२५।१४] वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥ [२२५।१५-२२५।१६] येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्साऽपि च्छिद्यते । [२२५।१६] कुम्भकारचक्रेषुगतिवत् । आदानत्यागादपि च्छिद्यते । [२२५।१७] यदि समादानं त्यजत्यलं समादानेनेति । [२२५।१७-२२५।१८] क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः । [२२५।१८] अर्थविच्छेदादपि विच्छिद्यते । कतमस्यार्थस्य । [२२५।१८-२२५।१९] चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः । [२२५।१९-२२५।२०] आयुषोऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते । [२२५।२०-२२५।२१] यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते । [२२५।२२] कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः । [२२५।२३] कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते । [२२५।२३-२२५।२४] कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा । [२२५।२५] प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥ [२२६।०१] क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । [२२६।०१-२२६।०२] यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा । [२२६।०३] अथ केषां सत्त्वानामसंवरो भवति केषां संवरः । [२२६।०४] नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् । [२२६।०५] कुरुंश्च [२२६।०६] मनुष्यगतावेवासंवरो नान्यत्र । [२२६।०६-२२६।०७] तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा । [२२६।०८] संवरोऽप्येवं देवानां च [२२६।०९] संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः । [२२६।०९-२२६।१०] शण्ढादीनां संवरो नास्तीति कथं गम्यते । [२२६।१०] सूत्राद्विनयाच्च । [२२६।१०-२२६।१२] सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती"ति । [२२६।१२-२२६।१३] विनयेऽपि तद्रूपो नाशयितव्य उक्तः । [२२६।१३] किं पुनः कारणमेषां संवरो नास्ति । [२२६।१३-२२६।१४] उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च । [२२६।१४] असंवरस्तर्हि कस्मान्नास्ति । [२२६।१४-२२६।१५] पापेऽप्यस्थिराशयत्वात् । [२२६।१५] यत्रैअव च संवरस्तत्रासंवरोऽपि प्रतिद्वन्द्वभावात् । [२२६।१५-२२६।१६] उत्तरकोरवाणां समादानसमाध्यभावात्पापक्रियाशयाभावाच्च संवरासंवराभावः । [२२६।१६-२२६।१७] आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद्यद्विपादनाच्च संवरासंवरौ स्याताम् । [२२६।१८-२२६।२०] अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरोऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति । [२२६।२०-२२६।२१] यत्तर्हि सूत्र उक्तम् "अण्डजो भिक्षवो नागोऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती"ति । [२२६।२२] सुचरितमात्रं तत्तेषां न संवरः । तस्मादेवमनुष्याणामेव संवरः । तत्र पुनः [२२६।२३] नृणां त्रयः ॥ ४.४३ ॥ [२२६।२४] मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते । [२२६।२५] कामरूपजदेवानां ध्यानजः [२२६।२६] ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति । [२२६।२७] अनास्रवः पुनः । [२२७।०१] ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥ [२२७।०२-२२७।०३] अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा । [२२७।०३] आरूप्योपपन्नानामपि तेषां तु समन्वागमतोऽस्ति न संमुखीभावतः । [२२७।०४] अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते । [२२७।०५] त्रीणि कर्माणि । कुशलं कर्माकुशलमव्याकृतं कमेति । तत्र [२२७।०६] क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् । [२२७।०७] इदं कुशलादीनां लक्षणम् । [२२७।०७-२२७।०८] क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् । [२२७।०८-२२७।०९] तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः । [२२७।०९-२२७।१०] ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत्वेदितव्यम् । [२२७।१०] अव्याकृतमित्यर्थः । पुनः [२२७।११] पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम् ॥ ४.४५ ॥ [२२७।१२] त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च । पुनः त्रीणि । [२२७।१२-२२७।१३] सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च । [२२७।१३] तत्र तावत् [२२७।१४] कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् । [२२७।१५] शुभमिति वर्तते । रूपारूप्यावचरं कुशलं कर्मानेञ्जम् । [२२७।१५-२२७।१६] ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता । [२२७।१६-२२७।१७] "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि । [२२७।१७] समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् । [२२७।१८] आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे । [२२७।१८-२२७।१९] आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य । [२२७।१९] किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् । [२२७।२०] तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥ [२२७।२१] कामावचरं हि विपाकं प्रति कम्पते । कथं कम्पते । अव्यवस्थानात् । [२२७।२१-२२७।२२] अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते । [२२७।२२] अन्यदेवनैकायिकं चान्य देवनिकाये । [२२७।२२-२२७।२४] यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते । [२२७।२४-२२७।२५] रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते । [२२७।२५-२२८।०१] तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते । [२२८।०१] अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके । [२२८।०२] यश्च लोकतोऽर्थः प्रसिद्धः किं तत्र यत्नेन । कृतः पुण्यादीनां कर्मणां निर्देशः । [२२८।०३] सुखवेदनीयादीनां कर्तव्यः । स एष क्रियते । [२२८।०४] सुखवेद्यं शुभं ध्यानादातृतीयात् [२२८।०५] कुशलं कर्म सुखवेदनीयं यावत्तृतीयाद्ध्यानात् । [२२८।०५-२२८।०६] एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि । [२२८।०७] अतः परम् [२२८।०८] अदुःखासुखवेद्यं तु [२२८।०९] शुभमिति वर्तते । [२२८।०९-२२८।१०] तृतीयध्यानात्परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदनाऽभावात् । [२२८।११] दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥ [२२८।१२] अकुशलं कर्म दुःखवेदनीयम् । इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् । [२२८।१२-२२८।१३] न चैषां वेदनैव फलम् । [२२८।१३] किं तर्हि । ससंभारा । [२२८।१४] अधोऽपि मध्यमस्त्येके । [२२८।१५] अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधोऽप्यस्ति । [२२८।१६] किं कारणम् । [२२८।१७] ध्यानान्तरविपाकतः । [२२८।१८] इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः । [२२८।१८-२२८।१९] तत्र सुखदुःखयोरभावात् । [२२८।१९] ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके । [२२८।१९-२२८।२०] नैव तस्य वेदना विपाक इत्यपरे । [२२८।२०] तदेतदुच्छास्त्रम् । [२२८।२०-२२८।२१] शास्त्रे हि पठितं "स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत । [२२८।२१] स्यात्कुशलस्यावितर्कस्य कर्मण" इति । [२२८।२२] अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥ [२२८।२३] यतश्चोक्तं सूत्रे "स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । [२२८।२३-२२८।२४] स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः । [२२८।२४-२२८।२५] अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता" इत्यतोऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् । [२२८।२५-२२९।०१] नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः । [२२९।०१] किमिदानीं तत्कुक्शलमाहोस्विदकुशलम् । [२२९।०१-२२९।०२] दुर्बलं तु तत् । [२२९।०२-२२९।०३] एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीया" "दिष्ट-विपाकं च कुशल" मित्यस्य विरोधः । [२२९।०३] बाहुलिक एष निर्देशो द्रष्टव्यः । [२२९।०३-२२९।०४] कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते । [२२९।०४-२२९।०५] सुखवेदनायै हितं सुखवेदनोयं सुखोऽस्य वेदनीय इति वा । [२२९।०५] कश्च वेदनीयः । यो विपाकः । [२२९।०५-२२९।०६] स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते । [२२९।०६] स्नानीयकपायवत् । [२२९।०६-२२९।०७] एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् । [२२९।०७] अपि च । [२२९।०८-२२९।०९] स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः । संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥ [२२९।१०] स्वभाववेदनीयता वेदनानाम् । स्वभावेनैव वेदनीयत्वात् । [२२९।१०-२२९।११] संप्रयोगवेदनीयता स्पर्शस्य । [२२९।११] "सुखवेदनीयः स्पर्शः" इति । आलम्बनवेदनीयता विषयाणाम् । [२२९।११-२२९।१३] यथोक्तं "चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी"त्येवमादि । [२२९।१३] वेदनया हि तामालम्बमानः प्रतिसंवेदयते । [२२९।१३-२२९।१४] विपाकवेदनीयता कर्मणः । [२२९।१४] "दृष्टधर्मवेदनीयं कर्मे"ति विस्तरः । संमुखीभाववेदनीयता । [२२९।१५-२२९।१६] यथोक्तं "यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत" इति । [२२९।१६-२२९।१७] नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदनाऽस्ति स यां तां वेदयते । [२२९।१७] संमुखीकुर्वस्तु तां वेदयत इत्युच्यते । [२२९।१७-२२९।१८] अतो विपाकस्य वेदनीयत्वात्कर्माप्युच्यते सुखवेदनीयमित्येवमादि । [२२९।१९] नियतानियतं तच्च [२२९।२०] तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् । [२२९।२०-२२९।२१] नावश्यवेदनीयमनियतम् । [२२९।२२] नियतं त्रिविधं पुनः । [२२९।२३] दृष्टधर्मादिवेद्यत्वात् [२२९।२४-२२९।२५] दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन । [२२९।२६] पञ्चधा कर्म केचन ॥ ४.५० ॥ [२२९।२७] अपरे पुनः पञ्चविधं कर्मेच्छन्ति । अनियतवेदनीयं द्विधा कृत्वा । [२२९।२७-२३०।०१] विपाकेन नियतमनियतं चेति । [२३०।०१] तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते । [२३०।०१-२३०।०२] उपपद्यवेदनीयं द्वितीये जन्मनि । [२३०।०२] अपरपर्यायवेदनीयं तस्मात्परेण । [२३०।०२-२३०।०४] जन्मान्तरेऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे । [२३०।०४] मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति । [२३०।०४-२३०।०५] तदेवं नेच्छन्ति वैभाषिकाः । [२३०।०५-२३०।०६] अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् । [२३०।०६-२३०।०७] यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति । [२३०।०८] चतुष्कोटिकमित्यन्ये [२३०।०९] दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति । अस्ति कर्मावस्थानियतं न विपाके नियतम् । [२३०।१०] यत्कर्म दृष्टधर्मादिवेदनीयं विपाकेऽनीयतम् । अस्ति विपाके नियतं नावस्थायाम् । [२३०।११] यत्कर्मानियतवेदनीयं विपाके नियतम् । [२३०।११-२३०।१२] अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् । [२३०।१२] अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् । [२३०।१३] तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च । एवं यावदनियतवेदनीयम् । [२३०।१४] नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति । [२३०।१४-२३०।१५] स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् । [२३०।१५-२३०।१६] स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ । [२३०।१६] एषां च पुनश्चतुर्णां कर्मणाम् । [२३०।१७] निकायाक्षेपणं त्रिभिः । [२३०।१८] नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते । [२३०।१९] कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ । [२३०।२०] सर्वत्र चतुराक्षेपः । [२३०।२१-२३०।२२] सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् । [२३०।२२] अस्योत्सर्गस्यायमपवादः । [२३०।२३] शुभस्य नरके त्रिधा ॥ ४.५१ ॥ [२३०।२४] नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य । [२३०।२४-२३०।२५] तत्रेष्टविपाकाभावात् । [२३०।२६] यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् । [२३०।२७-२३०।२८] यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति । [२३०।२८] किमन्यत्करोति । [२३१।०१] नान्यवेद्यकृदप्यार्यः [२३१।०२] थर इति वर्तते । [२३१।०२-२३१।०३] आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति । [२३१।०३-२३१।०४] न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः । [२३१।०५] कामेऽग्रे वाऽस्थिरोऽपि न ॥ ४.५२ ॥ [२३१।०६-२३१।०७] परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् । [२३१।०७] किं कारणम् । फलाद्धि स परिहीणो भवति । [२३१।०७-२३१।०८] न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः । [२३१।०९] किमन्तराभवेऽप्यस्ति कर्मण आक्षेपः । अस्तीत्याह । [२३१।१०] द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः । [२३१।११] गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति । कथं कृत्वा । [२३१।११-२३१।१२] पञ्च हि गर्भावस्थाः । [२३१।१२] कललार्वुदपेशीघनप्रशाखावस्थाः । पञ्च जातावस्थाः । [२३१।१२-२३१।१३] बालकुमारवमध्यवृद्धावस्थाः । [२३१।१३] तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च । [२३१।१४] एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च । [२३१।१५] दृष्टधर्म फलं तच्च [२३१।१६] तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् । [२३१।१७] किं कारणम् । [२३१।१८] निकायो ह्येक एव सः ॥ ४.५३ ॥ [२३१।१९-२३१।२०] एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः । [२३१।२०] अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् । [२३१।२०-२३१।२१] उपपद्यवेदनीयेन च तस्याक्षेपात् । [२३१।२२] कीदृशं कर्म नियतं वेदितव्यम् । [२३१।२३-२३१।२४] तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् । गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥ [२३१।२५-२३२।०१] यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् । [२३२।०१] तत्र गुणक्षेत्रं त्रीणि रत्नानि । [२३२।०१-२३२।०२] पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः । [२३२।०२-२३२।०३] तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते । [२३२।०३] पितरौ पुनर्माता च पिता च । [२३२।०४] तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् । [२३२।०५] अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् । [२३२।०६] दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः । [२३२।०७] दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति । [२३२।०७-२३२।०८] यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते । [२३२।०८] आशयविशेषाद्वा । [२३२।०८-२३२।०९] यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः । [२३२।०९] अथवा [२३२।१०] तद्भूम्यत्यन्तवैराग्यात् [२३२।११-२३२।१२] तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततोऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते । [२३२।१२] तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह [२३२।१३] विपाके नियतं हि यत् ॥ ४.५५ ॥ [२३२।१४] यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः । [२३२।१४-२३२।१५] यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतोऽत्यन्तवैराग्यासंभवात् । [२३२।१५-२३२।१६] यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् । [२३२।१७] कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते । आह । [२३२।१७-२३२।१८] बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च । [२३२।१९-२३२।२०] ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः । तेषु कारापकारस्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥ [२३२।२१] निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते । निर्वाणसदृशत्वात्समापत्तेः । [२३२।२२] स हि गतप्रत्यागत एव निर्वाणाद्भवति । [२३२।२२-२३२।२३] अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते । [२३२।२३-२३२।२५] मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते । [२३२।२५-२३२।२६] दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते । [२३२।२६-२३२।२७] अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते । [२३२।२७-२३३।०१] अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते । [२३३।०१-२३३।०३] शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति । [२३३।०४] विपाकः पुनर्वेदनाप्रधानः । तदिदानीं विचार्यते । [२३३।०४-२३३।०५] स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी । [२३३।०५-२३३।०६] स्यात्कायिक्येव न चैतसिकी स्यादित्याह [२३३।०७-२३३।०८] कुक्शलस्यावितर्कस्य कर्मणो वेदना मता । विपाकश्चैतसिक्येव [२३३।०९] अवितर्कं कर्म ध्यानान्तरात्प्रभृति यावत्भवाग्रे । [२३३।०९-२३३।१०] तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । [२३३।१०] कस्मान्न कायिकी । [२३३।१०-२३३।११] तस्या अवश्यं सवितर्कविचारत्वात् । [२३३।१२] कायिक्येवाशुभस्य तु ॥ ४.५७ ॥ [२३३।१३] अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी । [२३३।१३-२३३।१५] तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् । [२३३।१६] यत्तर्हि सत्त्वानां चित्तक्षेपो भवति । कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन । [२३३।१७] चित्तक्षेपो मनश्चित्ते । [२३३।१८] मनोविज्ञान इत्यर्थः । नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते । अविकल्पकत्वात् । [२३३।१९] स च कर्मविपाकजः । [२३३।२०] स चैष चित्तक्षेपः सत्त्वानां कर्मजः । [२३३।२०-२३३।२३] ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निं वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते । [२३३।२४] भयोपघातवैषम्यशोकैश्च [२३३।२५] कथं तावद्भयेन । [२३३।२५-२३३।२६] अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति । [२३३।२६] तेभ्यो भीतानां चित्तं क्षीप्यते । कथमुपघातेन । [२३३।२६-२३४।०१] अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति । [२३४।०१] कथं महाभूतवैषम्येण । [२३४।०१-२३४।०२] वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते । [२३४।०२] कथं शोकेन । यथा वासिष्ठीप्रभृतीनाम् । [२३४।०२-२३४।०३] यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः । [२३४।०३] कथं न चैतसिकी वेदना विपाकः प्राप्नोति । [२३४।०३-२३४।०४] नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः । [२३४।०४-२३४।०५] तस्माज्जातमतो विपाकजम् । [२३४।०५-२३४।०६] कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते । [२३४।०६] एवं चेदं चतुष्कोटिकं युज्यते । [२३४।०६-२३४।०७] अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः । [२३४।०७] क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य । [२३४।०७-२३४।०८] क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् । [२३४।०८] उभयं क्षिप्तचित्तस्य क्लिष्टम् । [२३४।०९] नोभयं स्वस्थचित्तस्याक्लिष्टम् । [२३४।१०] कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते । [२३४।११] अकुरुकामिनाम् ॥ ४.५८ ॥ [२३४।१२] अकुरुणां कामिनाम् । देवेष्वपि हि देव । उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु । [२३४।१३] नारकास्तु नित्यं क्षिप्तचित्ता एव । [२३४।१३-२३४।१५] ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा । [२३४।१५] हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः । [२३४।१५-२३४।१६] आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् । [२३४।१६-२३४।१७] न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् । [२३४।१७] न भयेन । पञ्चभयसमतिक्रमात् । नोपघातेन । [२३४।१७-२३४।१८] मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् । [२३४।१८] न शोकेन । धर्मताभिज्ञत्वात् । [२३४।१९] पुनस्त्रयो वङ्का उक्ताः सूत्रे । कायवङ्कोक्वाग्वङ्को मनोवङ्कः । त्रयो दोषाः । [२३४।२०] कायदोषो वाग्दोषो मनोदोषः । त्रयः कषायाः । [२३४।२०-२३४।२१] कायकषायो वाक्कषायो मनः कषायः इति । [२३४।२१] तत्र यथाक्रमं वेदितव्याः । [२३४।२२] वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे । [२३४।२३] शठ्यजं कायकर्म कायवङ्क इत्युक्तम् । कुटिलान्वयत्वात् । एवं वाङ्मनोवङ्कौ । [२३४।२४] द्वेषजं कायकर्म कायदोष इत्युक्तम् । चित्तप्रदोषान्वयत्वात् । एवं वाङ्मनोदोषौ । [२३४।२५] रागजं कायकर्म कायकषाय इत्युक्तम् । राञ्जनान्वयत्वात् । एवं वाङ्मनःकषायौ । [२३४।२६] कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम् ॥ ४.५९ ॥ [२३५।०१] "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति कर्म शुक्लं शुक्लविपाकम् । [२३५।०१-२३५।०२] अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । [२३५।०२-२३५।०३] अस्ति कर्माकृष्णमशुक्लमविपाकम् । [२३५।०३] यत्तत्कर्म कर्मक्षयाय संवर्तत" इति । तत्र [२३५।०४-२३५।०५] अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् । कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥ [२३५।०६] अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात्कृष्णविपाकं चामनोज्ञविपाकत्वात् । [२३५।०७] रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् । [२३५।०७-२३५।०८] शुक्लविपाकं च मनोज्ञविपाकत्वात् । [२३५।०८] आरुप्याप्तं कस्मान्नोच्यते । [२३५।०८-२३५।०९] यत्र किल द्विविधोऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च । [२३५।०९-२३५।१०] त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति । [२३५।१०] तदपि तूक्तं सूत्रान्तरे । [२३५।१०-२३५।११] "कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत्कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्" । [२३५।११-२३५।१२] संतानत एतद्व्यवस्थापितं न स्वभावतः । [२३५।१२-२३५।१३] न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत्कृष्णं च स्यात्शुक्लं चान्योन्यविरोधात् । [२३५।१३-२३५।१४] ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति । [२३५।१४] नावश्यमकुशलं कुशलेन व्यवकीर्यते । [२३५।१५] कामधातौ तस्य बलवत्त्वात् । कुक्शलं तु व्यवकीर्यते । दुर्बलत्वादिति । [२३५।१६] अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । [२३५।१६-२३५।१७] तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताऽभावात् । [२३५।१७-२३५।१८] आभिप्रायिको ह्येषोऽशुक्ल शब्दः । [२३५।१८-२३५।१९] उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य "इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या" इति । [२३५।१९] शास्त्रे च । [२३५।१९-२३५।२०] "शुक्ला धर्माः कतमे । [२३५।२०] कुशला धर्मा अनिवृताव्याकृताश्चे"ति । [२३५।२०-२३५।२१] अविपाकं धात्वपतितत्वात्प्रवृत्तिविरोधाच्च । [२३५।२२] किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते । [२३५।२३] नेत्युच्यते । किं तर्हि । [२३६।०१-२३६।०२] धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके । या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥ [२३६।०३-२३६।०४] दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म । [२३६।०५] नवमे चेतना या सा कृष्णशुक्लक्षयाय च । [२३६।०६-२३६।०७] नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय । [२३६।०८] शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥ [२३६।०९-२३६।१०] ध्यानाद्व्यानाद्वैराग्यं कुर्वतो योऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय । [२३६।१०-२३६।११] किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन । [२३६।११-२३६।१२] नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । [२३६।१२] किं तर्हि । तदालम्बनक्लेशप्रहाणात् । [२३६।१२-२३६।१३] अतो यावदेकोऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते । [२३६।१४] अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः । [२३६।१५-२३६।१६] अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति । [२३६।१६-२३६।१८] नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतोऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् । [२३६।१९] दृग्धेयं कृष्णमन्ये [२३६।२०] अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् । [२३६।२१] अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥ [२३६।२२] अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् । किं तदन्यत् । भावनाप्रहातव्यम् । [२३६।२२-२३६।२३] तद्धि कुशलं चाकुशलं चेति । [२३६।२३-२३६।२४] सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च । [२३६।२४] तत्र [२३७।०१-२३७।०२] अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् । मौनत्रयम् [२३७।०३] अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये । [२३७।०३-२३७।०४] अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति । [२३७।०४] किं कारणम् । चित्तं हि परमार्थमुनिः । [२३७।०४-२३७।०५] तत्किल कायवाक्कर्मभ्यामनुमीयत इति । [२३७।०५] अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म । [२३७।०५-२३७।०६] चित्ता विज्ञप्त्यभावात् । [२३७।०६] विरमार्थेन च मौनम् । अतो मन एव विरतं मौनमित्युच्यते । [२३७।०७] कस्मादशैक्षमेव नान्यत् । अर्हतः पर्मार्थमुनित्वात् । [२३७।०७-२३७।०८] सर्वक्लेशजल्पोपरतेः । [२३७।०८] त्रीणि शौचेयानि उक्तानि सूत्रे । कायशौचेयं वाक्शौचेयं मनःसौचेयं च । [२३७।०९] तदेतत् । [२३७।१०] त्रिधा शौचं सर्वं सुचरितत्रयम् ॥ ४.६४ ॥ [२३७।११] सर्वं कायसुचरितं कायशौचम् । सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् । [२३७।११-२३७।१२] दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा । [२३७।१२-२३७।१३] एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् । [२३७।१३] त्रीणि दुश्चरितान्युक्तानि । तत्र [२३७।१४] अशुभं कायकर्मादि मतं दुश्चरित त्रयम् । [२३७।१५] अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् । [२३७।१६] अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥ [२३७।१७-२३७।१८] अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च । [२३७।१८] अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः । [२३७।१८-२३७।१९] संचेतनीयसूत्रे वचनात् । [२३७।१९] एवं तु सति कर्मक्लेशयोरैक्यं स्यात् । [२३७।१९-२३७।२०] किं स्याद्यदि कश्चित्क्लेशोऽपि कर्म स्यात् । [२३७।२०] नैतदस्ति । सूत्रं विरुद्धं स्यात् । [२३७।२०-२३७।२१] सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः । [२३७।२१-२३७।२२] अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् । [२३७।२३] विपर्ययात्सुचरितम् [२३७।२४] इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्याऽव्यापादसम्यग्दृष्टयश्च । [२३७।२४-२३८।०२] परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् । [२३८।०२] तन्मूलत्वात् । यानि चैतानि दुश्चरितसुचरितान्युक्तानि [२३८।०३-२३८।०४] तदौदारिकसंग्रहात् । दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥ [२३८।०५-२३८।०६] तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्योऽकुशला दुश्चरितेभ्यः । [२३८।०६-२३८।०७] किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् । [२३८।०७-२३८।०८] अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्योऽपि बन्धानादिः । [२३८।०८] तस्य नात्यौदारिकत्वात् । [२३८।०८-२३८।०९] यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् । [२३८।१०] वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव । [२३८।१०-२३८।११] मनोदुश्चरितस्य च प्रदेशचेतना । [२३८।११-२३८।१२] कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना । [२३८।१३] एषां च कर्मपथानाम् [२३८।१४] अशुभाः षडविज्ञप्तिः [२३८।१५-२३८।१६] अकुशलाः षट्कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः । [२३८।१६] परेण कारयतो मौलविज्ञप्त्यभावात् । [२३८।१७] द्विधैकः [२३८।१८-२३८।१९] काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् । [२३८।१९] नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति । [२३८।२०] तेऽपि कुर्वतः । [२३८।२१-२३८।२२] तेऽपि षट्कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात्मरणे त्वविज्ञप्तिरेव । [२३८।२३] कुशलानां पुनः कर्मपथानां [२३८।२४] द्विविधाः सप्त कुशलाः [२३८।२५] कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च । [२३८।२५-२३८।२६] विज्ञप्त्यधीनत्वात्समादानशीलस्य । [२३९।०१] अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥ [२३९।०२] ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते । [२३९।०२-२३९।०३] ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् । [२३९।०४] सामन्तकास्तु विज्ञप्तिः [२३९।०५] कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् । [२३९।०६] अविज्ञप्तिर्भवेन्न वा । [२३९।०७-२३९।०८] यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् । [२३९।०९] विपर्ययेण पृष्ठानि [२३९।१०] सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति । [२३९।१०-२३९।११] तानि अवश्यमविज्ञप्तिस्वभावानि । [२३९।११] विज्ञप्तिस्तु भवेन्न वा । [२३९।११-२३९।१२] यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात्विज्ञप्तिरन्यथा न स्यात् । [२३९।१२-२३९।१३] अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् । [२३९।१३-२३९।१६] यदा तावदिह कश्चित्पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत्प्रयोगः । [२३९।१६-२३९।१७] येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथः । [२३९।१७-२३९।१८] द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च । [२३९।१८-२३९।१९] तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति । [२३९।१९-२३९।२१] यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । [२३९।२१] एवमन्येष्वपि यथासंभवं योज्यम् । [२३९।२१-२३९।२२] अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः । [२३९।२३] इदमत्र वक्तव्यम् । [२३९।२३-२३९।२४] किं तावत्मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते । [२३९।२४] किं चातः । [२३९।२४-२३९।२५] यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति । [२३९।२५-२४०।०१] न चेष सिद्धान्तः । [२४०।०१] अथ मृते । [२४०।०१-२४०।०२] यदुक्तं "येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथ" इति तना वक्तव्यम् । [२४०।०३] यच्चापीदं शास्त्र उक्तं "स्यात्प्राणी हतः प्राणातिपातश्चानिरुद्धः । [२४०।०३-२४०।०६] स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध" इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयोऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् । [२४०।०६] यथा न दोषस्तथाऽस्तु । कथं च न दोषः । [२४०।०६-२४०।०७] मौल एवात्र प्रयोगशब्देनोक्त इति । [२४०।०७] विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति । [२४०।०७-२४०।०८] कथं च न भवितव्यम् । [२४०।०८] असामर्थ्यत् । अविज्ञप्तिरिदानीं कथं भवति । [२४०।०८-२४०।१०] तस्मात्प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात्कर्मत्पथोऽप्यन्यस्य प्रयोगः पृष्ठं च भवति । [२४०।१०] प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः । [२४०।१०-२४०।१४] यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात्परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थमनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरनभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति । [२४०।१४] एवमन्येष्वपि यथायोगं योज्यम् । [२४०।१४-२४०।१५] न त्वभिध्यादयः प्रयोगा युज्यन्ते । [२४०।१५] नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति । क्रियानारम्भात् । [२४०।१६-२४०।१७] सूत्र उक्तं "प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि"रिति । [२४०।१७-२४०।१८] तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् । [२४०।१८] नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा । [२४०।१९] प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥ [२४०।२०] प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः । [२४०।२०-२४०।२२] तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय । [२४०।२२] द्वेषजो यथा वैरनिपीडनार्थम् । [२४०।२२-२४०।२३] मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । [२४०।२३-२४०।२४] दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति । [२४०।२४] पारसीकानां च । ते ह्येवमाहुः । [२४०।२५] "मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या"विति । [२४०।२५-२४१।०१] ये चान्येऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति । [२४१।०१-२४१।०२] यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः । [२४१।०२-२४१।०३] लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशोऽर्थं वा आत्मसुकृतपरित्राणाय वा । [२४१।०३] द्वेषजं यद्वैरनिपीडनार्थम् । [२४१।०३-२४१।०४] मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् । [२४१।०४-२४१।०५] दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः "सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते । [२४१।०५-२४१।०६] तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे" ति । [२४१।०७] न चैशामपरस्वसंज्ञा भवति । यच्च मिथ्यादृष्टिप्रवर्त्तितम् । [२४१।०७-२४१।०८] लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय । [२४१।०८-२४१।०९] द्वेषजो वैरनिपीडनार्थम् । [२४१।०९] मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे । [२४१।१०] योथोक्तं "ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति । [२४१।१०-२४१।११] उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा"मिति । [२४१।११-२४१।१२] ये चाहु "रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम" इति । [२४१।१२-२४१।१३] मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् । [२४१।१३] मोहजो मृषावादो यथाह । [२४१।१४-२४१।१७] "न नर्मयुक्तमनृतं हि नास्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानी"ति । [२४१।१८] यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः । पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः । [२४१।१९] यष्चच वेदाद्यसच्छास्त्रप्रलापः । [२४१।२०] अभिध्यादयः कथं लोभजाः । [२४१।२१] तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः । [२४१।२२] लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः । [२४१।२२-२४१।२३] उक्ता कुशलाः कर्मपथाः । [२४१।२४] कुशलाः कथमित्याह [२४१।२५] कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥ [२४१।२६] सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः । [२४१।२६-२४१।२७] कुषलचित्तसमुत्थितत्वात् । [२४१।२७-२४२।०१] तस्य च अवश्य मलोभादिभिः संप्रयोगात्तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः । [२४२।०१] मौलाद्विरतिः मौलः । [२४२।०१-२४२।०२] पृष्ठाद्विरतिः पृष्ठः । [२४२।०२-२४२।०३] तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च । [२४२।०३] अयं प्रयोगः । [२४२।०३-२४२।०४] तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः । [२४२।०४-२४२।०५] तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् । [२४२।०६] यदुक्तं "न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे"त्यथ कस्य केन निष्ठा । [२४२।०७] वधव्यापादपारुष्यनिष्ठा द्वेषेण [२४२।०८] एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः । [२४२।०८-२४२।०९] परित्यागपरुषचित्तसंमुखी भावात् । [२४२।१०] लोभतः । [२४२।११] परस्त्रीगमनाभिध्याऽदत्तादानसमापनम् ॥ ४.७० ॥ [२४२।१२] लोभेन काममिथ्याचाराभिध्याऽदत्तादानानां समाप्तिः । [२४२।१३] मिथ्यादृष्टेस्तु मोहेन [२४२।१४] अधिमात्रभूतो हि तां निष्ठापयति । [२४२।१५] शेषाणां त्रिभिरिष्यते । [२४२।१६] के पुनः शेषाः । मृषावादपैशुन्यसंभिन्नप्रलापाः । [२४२।१६-२४२।१७] एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा [२४२।१८-२४२।१९] य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं [२४२।२०] सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥ [२४२।२१] सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानां परस्त्रीगमनादयः । [२४२।२१-२४२।२२] नामरूपाधिष्ठामिथ्यादृष्टिः । [२४२।२२] नामकायाधिष्ठाना मृषावादादयः । [२४२।२३-२४२।२४] यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न । [२४२।२५] समं प्राक्च मृतस्यास्ति न मौलः [२४२।२६-२४२।२७] अत एवोच्यते "स्यात्प्रयोगं कुर्यात्फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते । [२४२।२७] आह । [२४२।२७-२४३।०२] स्यात्यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या"दिति किं पुनस्तत्कारणं नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः । [२४३।०३] अन्याश्रयोदयात् । [२४३।०४] थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नोऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः । [२४३।०५] तस्य प्रयोक्तृत्वात्कर्मपथेन योगो न युक्तः । [२४३।०५-२४३।०६] यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति । [२४३।०७] सेनादिष्वेककार्यत्वात्सर्वे कत्तृवदन्विताः ॥ ४.७२ ॥ [२४३।०८] यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् । [२४३।०८-२४३।०९] अर्थतो हि तेऽयोन्यं पयोक्तारो भवन्ति । [२४३।०९-२४३।११] यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात्यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति । [२४३।१२-२४३।१३] कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते । [२४३।१४] प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् । [२४३।१५] यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा । [२४३।१६] इयता प्राणातिपातो भवति । [२४३।१६-२४३।१७] यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति । [२४३।१७-२४३।१८] योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं भवति । [२४३।१८] कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति । [२४३।१९] प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते । तमभिपातयति । [२४३।१९-२४३।२०] यथा प्रदीपं निरोधयति घण्टास्वनं वा । [२४३।२०] जीवितेन्द्रियं वा प्राणास्तन्निरोधयति । [२४३।२०-२४३।२१] यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा । [२४३।२२] कस्य तज्जीवितं यस्तदभावान्मृतो भवति । [२४३।२२-२४३।२३] कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः । [२४३।२३] उक्तं तु भगवता [२४३।२४-२४३।२५] "आयुरुष्माऽथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन" ॥ इति । [२४३।२६] तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति । [२४३।२६-२४३।२७] अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो यथाऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः । [२४३।२७-२४४।०१] तेषां परदारदर्शनेऽप्येष प्रसङ्गः । [२४४।०१-२४४।०३] निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् । [२४४।०३] वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् । [२४४।०३-२४४।०४] कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् । [२४४।०४] परेणाग्निं स्पर्शयतस्तेनादाहवत् । [२४४।०४-२४४।०५] अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात्पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति । [२४४।०६] उक्तः प्राणातिपातः । [२४४।०७] अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥ [२४४।०८] अभ्रान्त्येति वर्तते । [२४४।०८-२४४।०९] यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमातियताऽदत्तादानं भवति । [२४४।०९-२४४।१०] स्तूपादपहरतो बुद्धाद दत्तादानम् । [२४४।१०] सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति । [२४४।१०-२४४।११] येषां सम्रक्ष्यमित्यपरे । [२४४।११-२४४।१२] अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात्परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः । [२४४।१३] अगम्यगमनं काममिथ्याचारश्चतुर्विधः । [२४४।१४] चतुष्प्रकारमगम्यगमनं काममिथ्याचारः । [२४४।१४-२४४।१५] अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा । [२४४।१५-२४४।१६] अनङ्गे वा गच्छति स्वामपि भार्यामपाने मुखे वा । [२४४।१६] अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा । [२४४।१७] अकाले वा गच्छति । कः पुनः अकालः । [२४४।१७-२४४।१८] गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा । [२४४।१८] यदि भर्तुरनुज्ञया सनियमा भवतीत्येके । अभ्रान्त्येति वर्तते । [२४४।१८-२४४।१९] यदि स्वसंज्ञी परस्त्रियं यायात्न स्यात्कर्मपथः । [२४४।१९-२४४।२०] यद्यन्यः परस्त्रीसंज्ञयाऽन्यामभिगच्छेत्परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके । [२४४।२०-२४४।२१] अन्यत्र प्रयोगान्न स्यात्प्राणाति पातवदित्यपरे । [२४४।२१] भिक्षुणीं गच्छतः कस्यान्तिकात्काममिथ्याचारः । [२४४।२१-२४४।२२] विषयस्वामिनः । [२४४।२२] तस्य हि तन्न मर्षणीयम् । तस्यापि सनियमा स्वभार्येव तु सा न गम्या । [२४४।२३] कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षाऽन्ततो राज्ञः । [२४४।२४] अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥ [२४४।२५-२४५।०१] यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः । [२४५।०१] अनभिज्ञे किं स्यात् । [२४५।०१-२४५।०२] संभिन्नप्रलापः स्यात् । [२४५।०२] वाक्यमित्युच्यते । [२४५।०२-२४५।०३] कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः । [२४५।०३] पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति । पूर्वे तु वर्णाः प्रयोगः । [२४५।०४] अर्थाभिज्ञ इत्युच्यते । [२४५।०४-२४५।०५] कि तावदभिज्ञातार्थे श्रोतरि आहोस्वितभिज्ञातुं समर्थे । [२४५।०५] किं चातः । [२४५।०५-२४५।०६] यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात्कर्मपथः । [२४५।०६-२४५।०७] अथाभिज्ञातुं समर्थे । [२४५।०७] एवं दोषो न भवति । [२४५।०७-२४५।०८] कथं चाभिज्ञातुं समर्थोऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने । [२४५।०८] यथा न दोषस्तथाऽस्तु । [२४५।०९] षोदश व्यवहाराः सूत्र उक्ताः । [२४५।०९-२४५।११] "अदृष्टे दृष्टवादिता अश्रुतेऽमतेऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद्विज्ञातेऽविज्ञातवादिता इतीमेऽनार्या अष्टौ व्यवहाराः । [२४५।११-२४५।१२] दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट्ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः । [२४५।१२-२४५।१३] तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् । [२४५।१४-२४५।१५] चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् । तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥ [२४५।१६] यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् । यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् । [२४५।१६-२४५।१७] यन्मनो विज्ञानेन तत्विज्ञातम् । [२४५।१७] यत्घ्राणजिह्वाकायविज्ञानैस्तन्मतम् । किं कारणम् । [२४५।१८] गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि । अत एतेषु मताख्येति वैभाषिकाः । [२४५।१९] किमत्र ज्ञापकम् । सूत्रं युक्तिश्च । [२४५।१९-२४५।२१] सूत्रं तावत्"तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति । [२४५।२१-२४५।२२] अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा । [२४५।२२] नो भदन्त । [२४५।२२-२४५।२४] ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त । [२४५।२४-२४५।२५] अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु"क्तम् । [२४५।२५-२४५।२६] अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते । [२४५।२६-२४५।२७] अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात्गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः । [२४५।२७] सूत्रं तावज्ज्ञापकमन्यार्थत्वात् । [२४५।२७-२४५।२८] न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म । [२४५।२८] किं तर्हि । [२४५।२८-२४६।०१] अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते । [२४६।०१] किं पुनर्डृष्टं किं च यावद्विज्ञातम् । केचित्तावदाहुः । [२४६।०१-२४६।०२] "यत्पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् । [२४६।०२] यत्परत आगमितं तच्छ्रुतम् । [२४६।०२-२४६।०३] यत्स्वयं युक्त्यनुमानतो रुचितं तन्मतम् । [२४६।०३-२४६।०४] यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि"ति । [२४६।०४] एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते । [२४६।०५] श्रुता मता विज्ञाता इति वा । [२४६।०५-२४६।०६] षष्ठोऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः । [२४६।०६] तस्माद्युक्तिंरप्येषा युक्तिर्न भवति । [२४६।०६-२४६।०७] पूर्वाचार्या एवमाहुः । [२४६।०७] यद्दृष्टं यत्प्रत्यक्षीकृतं चक्षुषा । श्रुतं यच्छ्रोत्रेण परतश्चाखरितम् । [२४६।०८] मतं यत्स्वयं चिन्तितम् । विज्ञातं यत्प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् । [२४६।०९] प्रसङ्गेन शास्त्रं प्रवर्तयताम् । यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः । [२४६।१०] स्यात् । अत एवोच्यते । "स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । [२४६।११] स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । [२४६।११-२४६।१२] स्यात्कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत । [२४६।१३] स्यातृशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे"ति । [२४६।१३-२४६।१४] यद्युभयथाऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति । [२४६।१५] कर्तव्योऽत्र यत्नः । गतो मृषावादः । [२४६।१६] पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने । [२४६।१७] यत्क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत्पैशुन्यम् । [२४६।१७-२४६।१८] अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च । [२४६।१९] पारुष्यमप्रियं [२४६।२०] वचनत् । क्लिष्टचित्तस्येति वर्तते । अर्थाभिज्ञे अभ्रान्त्येति च । [२४६।२०-२४६।२२] यत्क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत्विवक्षितं तत्पारुष्यम् । [२४६।२३] सर्वं क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥ [२४६।२४] वाक्यमित्यधिकारो वर्तते । सर्वं क्लिष्टं वचनं संभिन्नप्रलापः । [२४६।२४-२४६।२५] सैव संभिन्नप्रलापिता । [२४६।२५] तद्योगेन हि संभिन्नप्रलापी भवति । [२४७।०१] अतोऽन्यत्क्लिष्टमित्यन्ये [२४७।०२] अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत्क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे । [२४७।०३] लपनागीतनाट्यवत् । [२४७।०४] कुशास्त्रवच्च [२४७।०५-२४७।०६] तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित्गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति । [२४७।०६] कुक्शास्त्राणि च तद्दृष्टयोऽपि गदन्ति । [२४७।०६-२४७।०७] एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः । [२४७।०७-२४७।०८] कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः । [२४७।०८-२४७।०९] नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि । [२४७।०९-२४७।१०] तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे । [२४७।११] अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥ [२४७।१२-२४७।१३] अहो वत यत्परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा साऽभिध्या कर्मपथः । [२४७।१३-२४७।१४] सर्वैव कामावचरी तृष्णाभिध्येत्यपरे । [२४७।१४-२४७।१५] तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे "सोऽभिध्यां लोके प्रहाये" त्येवमादि । [२४७।१५-२४७।१६] यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे । [२४७।१६-२४७।१७ मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति । [२४७।१८] व्यापादः सत्त्वविद्वेषः [२४७।१९] सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः । [२४७।२०] नास्तिदृष्टिः शुभाशुभे । [२४७।२१] मिथ्यादृष्टिः [२४७।२२] शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः । [२४७।२२-२४७।२४] तद्यथा "नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोकेऽहन्त" इति । [२४७।२४-२४७।२५] सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति । [२४७।२५] आदिमात्रं तु श्लोके दर्शितम् । एवंलक्षणा एते दश कर्मपथाः । [२४८।०१] कर्मपथा इति कोऽर्थः । [२४८।०२] त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥ [२४८।०३] अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः । [२४८।०३-२४८।०४] तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति । [२४८।०४] तद्वशेन तथाभिसंस्करणात् । [२४८।०४-२४८।०६] सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात्कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति । [२४८।०६] कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः । [२४८।०७] असरूपाणामप्येकशेषसिद्धेः । [२४८।०७-२४८।०८] एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः । [२४८।०८-२४८।०९] प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः । [२४८।०९-२४८।०९-] यथौदारिकं च ग्रहणादित्युक्तं प्राक् । [२४८।०९-२४८।१०] येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः । [२४८।१०-२४८।११] ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः । [२४८।११] त एव हि प्रष्टव्याः । [२४८।१२] अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः । [२४८।१२-२४८।१३] इतरेतरावाहनाद्वा । [२४८।१३-२४८।१४] य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः । [२४८।१५] मूलच्छेदस्त्वसद्दृष्ट्या [२४८।१६] कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया । [२४८।१६-२४८।१७] यत्तर्हि शास्त्र उक्तं "कतमान्यधिमात्राण्यकुशलमूलानि । [२४८।१७-२४८।१८] यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती"ति । [२४८।१८-२४८।२०] अकुशलमूलाध्याहृतत्वात्मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते । [२४८।२१] कतमेषां कुशलमूलानां समुच्छेदो भवति । [२४८।२२] कामाप्तोत्पत्तिलाभिनाम् । [२४८।२३] कामावचराणि कुशलमूलानि समुछिद्यन्ते । [२४८।२३-२४८।२४] रूपारूप्यावचरैरसमन्वागतत्वात् । [२४८।२४] प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । [२४८।२४-२४८।२५] "इयताऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती"ति । [२४८।२५-२४९।०१] तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् । [२४९।०१] संततेस्तदभाजनत्वापादनात् । [२४९।०१-२४९।०२] उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते । [२४९।०२] प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् । [२४९।०२-२४९।०३] किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते [२४९।०४] फलहेत्वपवादिन्या [२४९।०५-२४९।०६] या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति । [२४९।०६-२४९।०७] आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे । [२४९।०७-२४९।०८] सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया । [२४९।०८] संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके । [२४९।०८-२४९।०९] एवं तु वर्णयन्ति । [२४९।१०] सर्वथा [२४९।११] नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते । दर्शनप्रहातव्यवदित्येके । [२४९।११-२४९।१२] एवं तु वर्णयन्ति । [२४९।१३] क्रमशः [२४९।१४] नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । [२४९।१४-२४९।१५] भावना हेयक्लेशवत्यावदधिमात्राधिमात्रया मृदुमृदूनीति । [२४९।१५-२४९।१६] एवमयं ग्रन्थः पालितो भवति । [२४९।१६] "कतमान्यणुसहगतानि कुशलमूलानि । आह । [२४९।१६-२४९।१८] यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात्विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती"ति । [२४९।१८] अस्य तर्हि ग्रन्थस्य को नयः । [२४९।१८-२४९।१९] "कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि । [२४९।१९-२४९।२०] यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती"ति । [२४९।२०] समाप्तिमेतत्संधायोक्तम् । तैनिरवशेषच्छेदात् । [२४९।२०-२४९।२१] एकोऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति । [२४९।२१-२४९।२२] दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके । [२४९।२२] एवं तु वर्णयन्त्युभयथेति । [२४९।२२-२४९।२३] पूर्वं संवरं विजहाति पश्चात्कुशलमूलानि समुच्छिनत्तीत्येके । [२४९।२३] एवं तु वर्णयन्ति । [२४९।२३-२४९।२४] यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति । [२४९।२४] अथ कुशलमूलानि समुच्छिद्यन्ते [२४९।२५] नृषु ॥ ४.७९ ॥ [२४९।२६] मनुष्येष्वेव नापायेषु । क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् । [२४९।२६-२४९।२७] न देवेषु कर्मफल प्रत्यक्षत्वात् । [२४९।२७] त्रिषु द्वीपेषु नोत्तरकुरौ । अपापाशयत्वात्जम्बूद्वीप एवेत्यपरे । [२४९।२८] तेषामयं ग्रन्थो विरुध्यते । "जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । [२५०।०१] एवं पूर्वविदेहको गोदानीयक" इति । तानि पुनः [२५०।०२] छिनत्ति स्त्री पुमान् [२५०।०३] स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात् न स्त्रीत्यपरे [२५०।०३-२५०।०४] अयं ग्रन्थो विरुध्येत [२५०।०४-२५०।०५] "यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत" इति [२५०।०५] तेषामपि तृष्णाचरितो न समुच्छिनत्ति [२५०।०५-२५०।०६] चलाशयत्वात् [२५०।०६] कस्तर्हि [२५०।०७] दृष्टिचरितः [२५०।०८] दृढगूढपापाशयत्वात् अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात् [२५०।०८-२५०।०९] आपायिकवच्च [२५०।०९] किंस्वभावः कुशलमूलसमुच्छेदः [२५०।१०] सोऽसमन्वयः [२५०।११] यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते । [२५०।११-२५०।१२] तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते । [२५०।१२-२५०।१३] तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः [२५०।१४] संधिः काङ्क्षास्तिदृष्टिभ्याम् । [२५०।१५] यदाऽस्य हेतुफले विचिकित्सा चोत्पद्यते । अष्टिदृष्टिर्वा सम्यक्दृष्टिरित्यर्थः । [२५०।१६] तदा पुनः तत्प्राप्तिसमुत्पादात्प्रतिसंधितानि कुशलमूलान्युच्यन्ते । [२५०।१६-२५०।१७] नवप्रकाराणां युगपत्प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् । [२५०।१७-२५०।१८] स पुनस्तेषां प्रतिसंधिः [२५०।१९] नेहानन्तर्यकारिणः ॥ ४.८० ॥ [२५०।२०] अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् । [२५०।२०-२५०।२२] तमेव संधायोक्तम् "अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति" इति । [२५०।२२-२५०।२४] उपपद्यमानोऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः । [२५०।२४-२५०।२५] एवं यः स्वबलेन परबलेन । [२५०।२५] पुनराह । [२५०।२५-२५०।२६] य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति । [२५०।२६] य आशयप्रयोगविपन्नः स भेदात्कायस्येति । [२५०।२६-२५१।०१] एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति । [२५१।०१] स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति । [२५१।०२] चतुष्कोटिकम् । प्रथमा कोटिः पूरणादयः । द्वितीयाऽजातशत्रुः । तृतीया देवदत्तः । [२५१।०३] चतुर्थ्येतानाकारान् स्थापयित्वा । [२५१।०३-२५१।०४] कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः । [२५१।०४] आनन्तर्यकारिणां तु तत्र वाऽन्यत्र वा नरके । [२५१।०५] कर्मपथप्रसङ्ग एवायं वर्तते । [२५१।०५-२५१।०६] तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति । [२५१।०७] युगपद्यावदष्टाभिरशुभैः सह वर्तते । [२५१।०८] चेतना [२५१।०९] एकेन तावत्सह वर्तते । [२५१।०९-२५१।१०] विनाऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने । [२५१।१०] द्वभ्यां सह वर्तते । [२५१।१०-२५१।११] व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वाऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा । [२५१।१२] त्रिभिः सह वर्तते । व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् । [२५१।१२-२५१।१३] न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति । [२५१।१३-२५१।१४] अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः । [२५१।१४-२५१।१५] अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव । [२५१।१५] चतुर्भिः सह वर्तते । [२५१।१५-२५१।१६] भेदाभिप्रायस्यानृत वचने परुषवचने वा । [२५१।१६] तत्र हिमानस एको भवति वाचिकास्त्रयः । [२५१।१६-२५१।१७] अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने । [२५१।१७] एवं पण्चषट्सप्तभिर्यो जयितव्या । [२५१।१७-२५१।१८] अष्टाभिः सह वर्तते । [२५१।१८] षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने । [२५१।१९] एवं तावदकुशलैः । [२५१।२०] दशभिर्यावच्छुभैः [२५१।२१] कुशलैः पुनः कर्मपथर्यावत्दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वाऽपवादं करोति [२५१।२२] नैकाष्टपञ्चभिः ॥ ४.८१ ॥ [२५१।२३] एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते । तत्र द्वाभ्यां सह वर्तते । [२५१।२३-२५२।०१] कुशलेषु पञ्चसु विज्ञानेषु । [२५२।०१] आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः । [२५२।०१-२५२।०२] त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । [२५२।०२-२५२।०३] चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने । [२५२।०३] षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने । [२५२।०३-२५२।०४] सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने । [२५२।०५] नवभिः कुशलेषु पञ्चषु विज्ञानेषु । [२५२।०५-२५२।०६] तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते । [२५२।०६-२५२।०७] दशभिस्ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । [२५२।०७-२५२।०९] सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतनाऽन्यत्र क्षयानुत्पादज्ञानाभ्यां संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने । [२५२।०९-२५२।१०] पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् । [२५२।११-२५२।१२] कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा । [२५२।१३] भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा । [२५२।१४] इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति । [२५२।१४-२५२।१५] संमुखीभावतः समन्वागमभावतश्च । [२५२।१५] परिदेवनात्संभिन्नप्रलापः । परस्परपरितापनात्पारुष्यं रुक्षसंतानतया । [२५२।१६] परस्परद्वेषाद्व्यापादः । [२५२।१७] समन्वागमतोऽभिध्यामिथ्यादृष्टी । [२५२।१८] न संमुखीभावतः । रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च । [२५२।१८-२५२।१९] कर्मक्षयेण मरणान्न प्राणातिपातः । [२५२।१९-२५२।२०] द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः । [२५२।२०] अत एव न पैशुन्यं नित्यभिन्नत्वाच्च । [२५२।२१] कुरौ त्रयः ॥ ४.८२ ॥ [२५२।२२] समन्वागमत इति वर्तते । अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः । [२५२।२३-२५२।२४] अममापरिग्रहत्वात्स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च । [२५२।२५] सप्तमः स्वयमप्यत्र [२५२।२६] असंभिन्नप्रलापः संमुखीभावतोऽप्यस्ति । ते हि क्लिष्टचित्ताः कदाचित्गायन्ति । [२५३।०१] अपापाशयत्वात्न प्राणतिपातादयः । [२५३।०१-२५३।०२] नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात्प्रयोजनाभावाच्च । [२५३।०२] कथमेषामब्रह्मचर्यम् । [२५३।०२-२५३।०३] ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति । [२५३।०३-२५३।०४] गम्या चेत्वृक्षश्छादयति तां ते गच्छन्ति । [२५३।०४] अगम्या चेन्न छादयति तां ते न गच्छन्ति । [२५३।०५] कामेऽन्यत्र दशाशुभाः । [२५३।०६] स्वयमपीति वर्तते । [२५३।०६-२५३।०७] नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतोऽपि विद्यन्ते । [२५३।०७] तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः । [२५३।०७-२५३।०८] मनुष्येष्वसंवरसंगृहीता अपि । [२५३।०८] यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति । [२५३।०८-२५३।०९] देवा अपि शिरोमध्यच्छेदात्भ्रियन्त इत्यपरे । [२५३।०९] उक्ता अशुभाः । [२५३।१०] शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः ॥ ४.८३ ॥ [२५३।११-२५३।१२] पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्याऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते । [२५३।१३] आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त [२५३।१४] कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव । [२५३।१४-२५३।१६] आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् । [२५३।१६] असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् । [२५३।१६-२५३।१७] यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति । [२५३।१८] पञ्च भूम्याश्रयेण त्वनागतेन । [२५३।१९] शेषिते । [२५३।२०] संमुखीभावतश्चापि हित्वा सनरकान् कुरुन् ॥ ४.८४ ॥ [२५३।२१] शेसः कृतः शेषितः । योऽन्यो धातुः शेषितो गतिर्वा । [२५३।२१-२५३।२२] तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतोऽपि संविद्यन्तेऽन्यत्र नरकोत्तरकुरुभ्यः । [२५३।२२-२५३।२३] ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा । [२५३।२३-२५३।२४] त एते दशाकुशलाः कर्मपथाः कुशलाश्च [२५३।२५] सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः । [२५३।२६] अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते । तदेषां विपाकफलम् । [२५४।०१-२५४।०५] स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदोऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः । [२५४।०५] तस्या मोहभूयस्त्वात् । इदमेषां निःष्यन्दफलम् । [२५४।०५-२५४।०६] अल्पमप्यायुर्मनुष्येषु कुशलफलम् । [२५४।०६] तत्कथं प्राणातिपातस्य निःष्यन्दफलं भवति । [२५४।०६-२५४।०७] नोच्यते तदेवायुस्तस्य फलम् [२५४।०७] किं तर्हि । तेनाल्पायुर्भवतीति । [२५४।०७-२५४।०८] अतोऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् । [२५४।०८-२५४।०९] प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति । [२५४।०९-२५४।१२] अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजोऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्याऽल्पफला अफला वा । [२५४।१२] इदमेषामधिपतिफलम् । [२५४।१३] किं तेनैव कर्मणाऽयमिहाल्पायुर्भवत्यथान्येन । तेनेवेत्येके । [२५४।१३-२५४।१४] तद्विपाकफलमिदं निष्यन्दफलमिति । [२५४।१४] तत्र प्रयोगेणेह मौलेल्नेत्येके । [२५४।१४-२५४।१५] परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति । [२५४।१५] यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च । [२५४।१६] सादृश्यविशेषात्तु तथोक्तम् । [२५४।१६-२५४।१७] किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते । [२५४।१७-२५४।१८] प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतोऽस्य [२५४।१९] दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥ [२५४।२०] परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति । [२५४।२०-२५४।२१] मारणन्निःष्यन्दफलेनाल्पायुर्भवति । [२५४।२१] ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति । [२५४।२३] एवमन्येष्वपि योज्यम् । [२५४।२३-२५४।२४] एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यं प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते । [२५४।२४-२५४।२५] स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् । [२५४।२५-२५४।२६] यद्भगवता "मिथ्यावांिमथ्याकर्मान्तो मिथ्याजीव" इत्युक्तं कोऽयमन्यस्ताभ्यां मिथ्याजीवः । [२५४।२६] नायमन्योऽस्ति । तदेव तु [२५५।०१] लोभजं कायवाक्कर्म मिथ्याजीवः [२५५।०२] द्वेषमोहजौ तु कायवाक्कर्मान्तौ । स चैष ताभ्यां [२५५।०३] पृथक्कृतः । [२५५।०४] दुःशोधत्वात् [२५५।०५] हारी हि लोभधर्मः । तत्समुत्थात्कर्मणश्चित्तं न सुरक्ष्यम् । [२५५।०५-२५५।०६] अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः । [२५५।०६] आह चात्र [२५५।०७-२५५।०८] "दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना । आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने"ति ॥ [२५५।०९] परिष्कारलोभोत्थं चेत् [२५५।१०] यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् । [२५५।१०-२५५।११] नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत् [२५५।१२] न सूत्रतः ॥ ४.८६ ॥ [२५५।१३] शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि । [२५५।१४] किं कारणम् । मिथ्यविषयपरिभोगात् । गतमेतत् । [२५४।१५] यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत्कर्म कतिभिः फलैः प्रहाणम् । [२५५।१६] प्रहाणमार्गे समले सफलं कर्म पञ्चभिः । [२५५।१७] प्रहाणार्थं मार्गः प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः । [२५५।१८] तस्मिन्सास्रवे यत्कर्म तत्पञ्चभिः फलैः सफलम् । [२५५।१८-२५५।१९] तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः । [२५५।१९] निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः । [२५५।१९-२५५।२०] विसंयोगफलं विसंयोग एव । [२५५।२०] यत्तत्प्रहाणम् । [२५५।२०-२५५।२१] पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथाऽधिमुक्तिमार्गस्तत्सहभुवश्च । [२५५।२१] यच्चानागतं भाव्यते तच्च प्रहाणम् । [२५५।२१-२५५।२२] अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः । [२५५।२३] चतुर्भिरमले [२५५।२४] अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा । [२५५।२५] अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥ [२५६।०१-२५६।०२] यच्चान्यत्प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा । [२५६।०३] अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् । [२५६।०४] प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा । [२५६।०५] चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥ [२५६।०६] अनुक्रममिति पश्चाद्वक्ष्यति । [२५६।०६-२५६।०७] कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । [२५६।०७] अकुशला द्वे पुरुषकाराधिपतिफले । [२५६।०७-२५६।०८] अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा । [२५६।०८] अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् । [२५६।१०] यथाक्रममित्यर्थः । अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । [२५६।११] अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । [२५६।११-२५६।१२] अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । [२५६।१२-२५६।१३] अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् । [२५६।१४] अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः ॥ ४.८९ ॥ [२५६।१५] अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् । [२५६।१५-२५६।१६] अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा । [२५६।१६-२५६।१७] अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् । [२५६।१७] अव्याकृता धर्मा एतान्येव त्रीणि । [२५६।१८] सर्वेऽतीतस्य चत्वारि [२५६।१९] सर्व इति त्रैयध्विकाः । [२५६।१९-२५६।२०] अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि । [२५६।२०] विसंयोगफलल्ं हित्वा । [२५६।२१] मध्यमस्याप्यनागताः । [२५६।२२] प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्चत्वाति फलान्येतान्येव । [२५६।२३] मध्यमा द्वे [२५६।२४] प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले । [२५६।२५] अजातस्य फलानि त्रिण्यनागताः ॥ ४.९० ॥ [२५७।०१] अनागतस्यानागतानि त्रीणि फलानि । निःष्यन्दविसंयोगफले हित्वा । [२५७।०२] स्वभूमिधर्माश्चत्वारि [२५७।०३] स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा । [२५७।०४] त्रीणि द्वे वाऽन्यभूमिकाः । [२५७।०५] अन्यभूमिका धर्मा अनास्रवाश्चेत्त्रीणि फलानि । विपाकविसंयोगफले हित्वा । [२५७।०६] धात्वपतितत्वात् । सास्रवाश्चेत्द्वे पुरुषकाराधिपतिफले । [२५७।०७] शैक्षस्य त्रीणि शैक्षाद्याः [२५७।०८] शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा । [२५७।०८-२५७।०९] अशैक्षा अप्येवम् । [२५७।०९] नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा । [२५७।१०] अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥ [२५७।११] धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् । [२५७।१२] अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् । [२५७।१२-२५७।१३] अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा । [२५७।१३] नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले । [२५७।१४] ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥ [२५७।१५-२५७।१६] शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले । [२५७।१६] अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षाः पञ्च फलानि । [२५७।१७] त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः । [२५७।१८] दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा । [२५७।१९] भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् । [२५७।२०] ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥ [२५७।२१] भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले । [२५७।२१-२५७।२२] भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा । [२५७।२२] अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा । [२५७।२३] अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् । [२५७।२४] अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् । [२५७।२४-२५८।०१] भावनाहेया द्वे पुरुषकाराधिपतिफले । [२५८।०१] अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा । [२५८।०१-२५८।०२] पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्येऽपि ज्ञापनार्थम् । [२५८।०२] एष हि पेयालधर्मः । [२५८।०३] कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते । [२५८।०३-२५८।०४] शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् । [२५८।०४] तस्य किं लक्षणम् । [२५८।०५] अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥ [२५८।०६] क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके । [२५८।०७] विधिभ्रष्टमपीत्यपरे । [२५८।०७-२५८।०८] येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि । [२५८।०८] तच्चान्यथा विदधाति । तदयुक्तविधानादयोगविहितमिति । [२५८।०८-२५८।०९] कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे । [२५८।०९] उभाभ्यामन्यन्नोभयथा । [२५८।०९-२५८।१०] नैवयोगविहितं नायोगविहितम् । [२५८।११] किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि । [२५८।११-२५८।१२] तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् । [२५८।१२] एष हि सिद्धान्तः । [२५८।१३] एकं जन्माक्षीपत्येकम् [२५८।१४] एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या । [२५८।१४-२५८।१५] तत्र हि लब्धे जात इत्युच्यते । [२५८।१५-२५८।१६] यत्तर्हि स्थविरानिरुद्धेनोक्तं "सोऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात" इति । [२५८।१७] तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत्पुण्यं कृतवान् । [२५८।१७-२५८।१८] तत उत्थानं दर्शयति स्म । [२५८।१८-२५८।१९] यथा मनुष्यो दीनारोत्थोऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति । [२५८।१९] अपरे त्वाहुः । [२५८।१९-२५८।२०] तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित्किञ्चित्फलं परिगृहीतमिति । [२५८।२०-२५८।२१] अनेकेनाप्येकमाक्षिप्यते मा भूत्खण्डशो निकायसभागस्याक्षेप इति । [२५८।२२] एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म । [२५८।२३] अनेकं परिपूरकम् । [२५८।२४] यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति । [२५८।२४-२५८।२६] तथा हि तुल्ये मानुष्ये कश्चित्सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः । [२५८।२६] न च केवलं कर्मैवाक्षेपकं जन्मनः । किं तर्हि । [२५८।२७] अन्यदपि सविपाकम् । सर्वथा तु [२५९।०१] नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥ [२५९।०२] अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते । [२५९।०२-२५९।०३] कर्मासहभूतत्वात् । [२५९।०३] प्राप्तिभिश्च कर्मणोऽनेकफलत्वात् । [२५९।०४] त्रिण्यावरणान्युक्तानि भगवता । कर्मावरणं क्लेशावरणं विपाकावरणं च । [२५९।०४-२५९।०५] तेषां कः स्वभावः । [२५९।०६-२५९।०७] आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः । कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥ [२५९।०८] पञ्चानन्तर्याणि कर्मावरणम् । [२५९।०८-२५९।०९] तद्यथा मातृवधः पितृवधोऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् । [२५९।०९] तीव्रक्लेशता क्लेशावरणम् । द्विविधो हि क्लेशः । [२५९।१०] तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च योऽधिमात्रः । तत्र यस्तीव्रः स आवरणम् । [२५९।११] यथा शण्ठादीनाम् । [२५९।११-२५९।१२] शक्तो ह्यधिमत्रवेगोऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहोऽप्याजस्रिकः । [२५९।१२-२५९।१३] आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते । [२५९।१३] तस्य मृदुं प्रतीत्य मध्य उपजायते । मध्यं प्रतीत्याधिमात्रः । [२५९।१४-२५९।१५] तस्मातेवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च । [२५९।१५] कस्यैतान्यावरणानि । [२५९।१५-२५९।१७] आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानामन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः । [२५९।१७-२५९।१९] यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि । [२५९।१९] क्लेशावरणं चैषां सर्वजघन्यम् । ततः कर्मावरणम् । [२५९।१९-२५९।२०] ताम्यां हि द्वितीयेऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः । [२५९।२१] आनन्तर्याणीति कोऽर्थः । [२५९।२१-२५९।२२] नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि । [२५९।२२] न तिरस्कर्तुमित्यर्थः । [२५९।२२-२५९।२३] न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः । [२५९।२३] तद्भाव आनन्तर्यम् । [२५९।२४] यस्य धर्मस्य योगात्सोऽनन्तरो भवति । श्रामण्यवत् । [२५९।२५] अथैषामावरणानां कतमत्कस्यां गतौ वेदितव्यम् । एकान्तेन तावत् [२६०।०१] त्रिषु द्वीपेष्वानन्तर्य [२६०।०२] नोत्तरकुरौ नान्यासु गतिषु । कुत एवान्यत्र धातौ । तेत्ष्वपि स्त्रिपुरुषाणामेव । [२६०।०३] शण्डा दीनां तु नेष्यते । [२६०।०४] किं कारणम् । तदेवासंवराभावे कारणमुद्दिष्टम् । अपि च [२६०।०५] अल्पोपकारालज्जित्वात् [२६०।०६] यथाक्रमं मातापित्रोस्तेषां च । अल्पोपकारौ किलैषां मातापितरौ । [२६०।०६-२६०।०७] विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च । [२६०।०७-२६०।०८] तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् । [२६०।०८] अत एव तिर्यवप्रेतानामपि नेष्यते । [२६०।०९] पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः । [२६०।०९-२६०।१०] मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् ॥ [२६०।१०] उक्तं कर्मावरणम् ॥ [२६०।११] शेषे गतिषु पञ्चसु ॥ ४.९७ ॥ [२६०।१२] के पुनः शेषे । क्लेशविपाकावरणे । मनुष्येषु विपाकावरणम् । [२६०।१२-२६०।१३] कौरवा देवेष्वसंज्ञिसत्त्वाः । [२६०।१३] किंस्वभावान्यानन्तर्याणि । [२६०।१३-२६०।१४] चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः । [२६०।१४-२६०।१५] अनुपक्रमधर्माणो हि तथागताः । [२६०।१५] हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् । [२६०।१५-२६०।१६] भिद्यते वाऽनेनेति कृत्वा । [२६०।१७] संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः । [२६०।१८] अक्लिष्टाव्याकृतो धर्मः [२६०।१९] असामग्री नान चित्तविप्रयुक्तः संस्कारोऽनिवृताव्याकृतः संघभेदः । [२६०।१९-२६०।२०] स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः । [२६०।२०] किं तर्हि । [२६०।२१] संघस्तेन समन्वितः ॥ ४.९८ ॥ [२६०।२२] यो हि भिन्नस्तस्य भेदो न भेत्तुः । अथ भेत्ता केन समन्वागतः । [२६०।२३] सदवद्यमृषावादस्तेन भेत्ता समन्वितः । [२६०।२४] संघभेदावद्येन भेत्ता समन्वागतः । तत्पुनर्मृषावादः । [२६०।२४-२६०।२५] स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती । [२६०।२५] स च तेनावद्येन समन्वागतो भेत्ता । [२६१।०१] अवीचौ पच्यते कल्पन् [२६१।०२] अन्तरकल्पमवीचौ महानरके विपच्यते । अन्यैस्तु नावश्यमवीचौ । [२६१।०२-२६१।०३] अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते । [२६१।०३-२६१।०४] किं तु तैस्तस्य भवति । [२६१।०५] अध्हिकैरधिका रुजः ॥ ४.९९ ॥ [२६१।०६-२६१।०७] सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते । [२६१।०७-२६१।०८] कः पुनरेष संघं भनत्ति । [२६१।०९] भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति । [२६१।१०] भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः । स च दृष्टिचरित एव न तृष्णाचरितः । [२६१।११] ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् । क्व भिनत्ति । [२६१।१२] अत्र भगवान् संनिहितस्ततः । [२६१।१३] अन्यत्र [२६१।१४] नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् । तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च । [२६१।१५] कान् भिनत्ति । [२६१।१६] बालिशान् । [२६१।१७] पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् । तानपि न क्षान्तिलाभिन इत्यपरे । [२६१।१७-२६१।१८] कियता भिन्नः संघो भवति । [२६१।१९] शास्तृमार्गान्तरक्षान्तौ भिन्नः [२६१।२०-२६१।२१] यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः । [२६१।२१] कियन्तं कालं भिन्न आस्ते । तामेव रात्रिं [२६१।२२] न विवसत्यसौ ॥ ४.१०० ॥ [२६१।२३] अपर्युषित एव हि संघभेदे संघोऽवश्यं प्रतिसंधीयते । योऽयं संघभेद उक्तः [२६१।२४] चक्रभेदः स च मतः [२६१।२५] धर्मचक्रं हि तदा भगवतो भिन्नं भवति । मार्गप्रवृत्तिविष्ठापनात् । [२६१।२५-२६१।२६] अत एव चक्रादश्चोच्यते संघभेदश्च । [२६१।२६] क्व पुनश्चक्रभेदो भवति । [२६२।०१] जम्बूद्वीपे [२६२।०२] नान्येषु द्वीपेषु । कतिभिर्भिक्षुभिः । [२६२।०३] नवादिभिः । [२६२।०४] नवादिं कृत्वा । परेणानियमः । अष्टौ भिक्षयः संघो भवति । नवमो भेत्ता । [२६२।०४-२६२।०५] अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् । [२६२।०५] एवं भिन्नो भवति । [२६२।०५-२६२।०६] अन्यस्तु संघभेदः कर्मभेदाद्भवति । [२६२।०६] यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति । स चैष [२६२।०७] कर्मभेदस्त्रिषु द्वीपेषु [२६२।०८] येष्वेव शासनम् । कतिभिर्भिक्षुभिः [२६२।०९] अष्टाभिरधिकैश्च सः ॥ ४.१०१ ॥ [२६२।१०] चक्रभेदस्तु षट्सु कालेषु न भवति । कतमेषु । [२६२।११-२६२।१२] आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ । सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥ [२६२।१३] आदावचिरप्रवर्तिते धर्मचक्रे । अन्ते परिनिर्वाणकाले भगवतः । [२६२।१३-२६२।१४] एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति । [२६२।१४-२६२।१५] मध्येऽप्यर्बुदात्पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति । [२६२।१५-२६२।१६] युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति । [२६२।१६] भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् । [२६२।१६-२६२।१७] उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् । [२६२।१७-२६२।१८] सीमायामबद्धायां यावत्सीमा न बद्धा भवति । [२६२।१८-२६२।१९] एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति । [२६२।१९] न च पुनः सर्वेषां बद्धानां चक्रभेदः । कर्माधीनत्वात् । [२६२।२०] कस्मात्मातृवधादिष्वानन्तर्यं नान्यत्र । [२६२।२१] उपकारियुणक्षेत्रनिराकृतिविपादनात् । [२६२।२२] मातापितृवधे तावदुपकारिणो निराकरणात् । कथं तावुपकारिणौ । [२६२।२२-२६२।२३] आत्मभावस्य तत्प्रभवत्वात् । [२६२।२३] किं तयोर्निराकरणम् । परित्यागः । गुणक्षेत्रत्वादर्हद्वधादानन्तर्यम् । [२६२।२४-२६२।२५] यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात्पितुर्वा तत्रैकस्मिन्नाम्नायो [२६३।०१] व्यञ्जनान्तरितोऽपि स्यात् [२६३।०२] अत एवोच्यते "स्यात्पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् । [२६३।०२-२६३।०३] आनन्तर्यावद्येन च स्पृश्येत । [२६३।०३] स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति । [२६३।०३-२६३।०४] स्यात्स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीमानन्तर्यावद्येन च स्पृश्येत । [२६३।०४-२६३।०५] स्यात्पितुर्व्यञ्जनं परिवृत्तं स्यादि"ति । [२६३।०५] अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् । [२६३।०५-२६३।०६] कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् । [२६३।०७] माता यच्छोणितोद्भवः ॥ ४.१०३ ॥ [२६३।०८] यस्याः शोणितादसावुद्भूतः सत्त्वः साऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या । [२६३।०९] सा ह्यापायिका पोषिका संवर्धिका च । [२६३।०९-२६३।१०] यदि मातरि प्रयोगं कृत्वाऽन्यां मारयेन्न स्यादानन्तर्यम् । [२६३।१०] अमातृप्रयोगेण मारयेत्तथापि न स्यात् । [२६३।१०-२६३।११] मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च । [२६३।११-२६३।१२] एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः । [२६३।१२] विज्ञप्तिस्त्वानन्तर्यमेव । [२६३।१३] तस्य कर्मणो बलीयस्त्वात् । परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः । [२६३।१४-२६३।१५] अनर्हत्संज्ञयाऽपि अर्हद्घाते भवत्यानन्तर्यमहं हन्मीत्याश्रयावधारणात् । [२६३।१५] यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् । [२६३।१६] इदमवदानं कथं नीयते "गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते । [२६३।१६-२६३।१७] यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि"ति । [२६३।१७] द्वाभ्यां कारणाभ्यामिति वक्तव्यम् । [२६३।१८] द्वाभ्यां वा मुखाभ्यां परिभाषितः । [२६३।१८-२६३।१९] किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् । [२६३।१९] वधाभिप्रायस्य स्यात् । [२६३।२०] बुद्धे न ताडनेच्छस्य [२६३।२१] यदि ताडनाभित्राय उत्पादयेन्न स्यात् । यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात् [२६३।२२] प्रहारान्नोर्ध्वमर्हति । [२६३।२३] स्यादानन्तर्यमिति वर्तते । नहि तेन तत्र प्रयोगः कृतः । [२६३।२३-२६३।२४] किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् । [२६३।२५] नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥ [२६४।०१-२६४।०२] अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् । [२६४।०३] एषामानन्तर्याणां कतमत्महासावद्यम् । [२६४।०४] संघमेदे मृषावादो महावद्यतमो मतः । [२६४।०५-२६४।०६] यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात्स सर्वेषां दुश्चरितानां महावद्यतमः । [२६४।०६] किं कारणम् । [२६४।०६-२६४।०७] तथागतधर्मशरीरप्रहारितत्वात्लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् । [२६४।०७-२६४।१०] संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत्पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः । [२६४।१०-२६४।११] शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः । [२६४।११-२६४।१३] यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तमानन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः । [२६४।१३-२६४।१४] त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः । [२६४।१४-२६४।१५] अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् । [२६४।१६] सुचरितानां पुनः कतमत्महाफलतमम् । [२६४।१७] भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥ [२६४।१८] कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा । [२६४।१८-२६४।१९] तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः । [२६४।१९] विपाकफलं चाधिकृत्यैतदुक्तम् । [२६४।१९-२६४।२१] विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् । [२६४।२१] अत एव लोक इत्युक्तम् । [२६४।२२] किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते । आनन्तर्यसभागैरप्यवश्यमुपपद्यते । [२६४।२३] नत्वनन्तरमेवेत्यपरे । कतमानि तानीत्याह [२६४।२४-२६४।२५] दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् । बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥ [२६५।०१] आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् । [२६५।०२] एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमं सभागानि । [२६५।०२-२६५।०४] यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात्नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति । [२६५।०४-२६५।०५] अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति । [२६५।०५] कतमेषु त्रिसु । [२६५।०६] क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥ [२६५।०७] मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते । [२६५।०७-२६५।०८] तद्विपाकभूम्यतिक्रमात् । [२६५।०८] यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते । [२६५।०८-२६५।१०] अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म । [२६५।१०] अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव । [२६५।१०-२६५।११] यदुक्तं "बोधिसत्त्वस्य मारण"मिति [२६५।१२] बोधिसत्त्वः कुतो यावत् [२६५।१३] कुत उपादाय बोधिसत्त्वोवक्तव्यः । [२६५।१४] यतो लक्षण कर्मकृत् । [२६५।१५-२६५।१६] यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति । [२६५।१६] कथं कृत्वा । स हि तस्मात्कालात्प्रभृति नित्यं भवति । [२६५।१७] सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥ [२६५।१८] प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः । [२६५।१८-२६५।१९] तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः । [२६५।१९] विकलान्यक्षाण्यस्येति व्यक्षः । [२६५।२०] न व्यक्षोऽव्यक्षः अविकलेन्द्रियः इत्यर्थः । पुरुष एव न स्त्री कुत एव शण्ढादिः । [२६५।२१] जातिस्मरश्च भवति । सर्वस्यां जातौ निवर्तत इति निवृत् । न निवृदनिवृत् । [२६५।२२] अनिवर्तक इत्यर्थः । [२६५।२२-२६५।२३] सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् । [२६५।२३] यत्तल्लोक उच्यते "अपणक्रीतो दास" इति । [२६५।२३-२६५।२६] बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः । [२६५।२६-२६५।२७] यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् । [२६६।०१-२६६।०२] जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः । चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥ [२६६।०३] जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति । नान्यत्र । [२६६।०३-२६६।०४] जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् । [२६६।०४] पुरुष एव न स्त्री । [२६६।०४-२६६।०५] संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् । [२६६।०५-२६६।०६] कल्पशते च शेष आक्षिपति न बहुभवेसु । [२६६।०६-२६६।०७] भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् । [२६६।०७-२६६।०९] अत एव चोक्त "मितोऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे"ति । [२६६।०९-२६६।११] ततः प्रभृति प्रकृतिजातिस्मरत्वात्प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः । [२६६।११] तेषां च लक्षणानाम् [२६६।१२] एकैकं पुण्यशतजम् [२६६।१३] किं पुण्यस्य परिमाणम् । [२६६।१३-२६६।१४] संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत्सर्वसत्त्वानां भोगफलमित्येके । [२६६।१४-२६६।१५] यावत्सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोकोऽभिनिवर्तत इत्यपरे । [२६६।१५] बुद्धा एव च तत्परिमाणज्ञा इत्यपरे । [२६६।१५-२६६।१६] अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास । [२६६।१६-२६६।१७] प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् । [२६६।१८] अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् । [२६६।१८-२६६।१९] प्रतिलोमानुक्रमेण यथाक्रमम् । [२६६।२०] असंख्येयत्रयान्त्यजाः । [२६६।२१] विपश्यी दीपकृद्रत्नशिखी [२६६।२२] रत्नशिखिनि सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः । दीपङ्करे भगवति द्वितीयः । [२६६।२३] विपश्यिनि तथागते तृतीयः । सर्वेषां तु तेषां [२६६।२४] शास्यमुनिः पुरा ॥ ४.११० ॥ [२६६।२५] शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव । [२६६।२५-२६७।०२] यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतमेवंप्रकार एवाहं बुद्धो भवेयमिति नोऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव । [२६७।०३] अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते । [२६७।०४] सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् । [२६७।०५-२६७।०६] यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति । [२६७।०७] अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥ [२६७।०८-२६७।०९] यदाऽयमवीतरागोऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदाऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः । [२६७।१०] तिष्यस्तोत्रेण वीर्यस्य [२६७।११-२६७।१२] तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया [२६७।१३-२६७।१६] "न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये । न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् । पुरुषवृषभस्त्वत्तुल्योऽन्यो महाश्रमणः कुत" इति ॥ [२६७।१७] तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः । [२६७।१८] धीसमाध्योरनन्तरम् । [२६७।१९-२६७।२०] बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात्पारमिताः । [२६७।२१] सूत्र उक्तं "त्रीणि पुण्यक्रियावस्तूनि । [२६७।२१-२६७।२२] दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि"ति । [२६७।२२] कथमेतत्त्रयं पुण्यक्रियावस्तु । [२६७।२३] पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥ [२६७।२४] पुण्यमप्येतत्त्रयं क्रियाऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु । [२६७।२४-२६८।०१] तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः । [२६८।०१-२६८।०२] तत्र दानमये तावत्पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति । [२६८।०२-२६८।०३] तत्समुत्थापिका चेतना पुण्यं च क्रिया च । [२६८।०३] तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । [२६८।०४] भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु । [२६८।०४-२६८।०६] तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात्तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च । [२६८।०६-२६८।०७] अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि । [२६८।०७] एषां संपादनार्थं पुण्यप्रयोगारम्भादिति । [२६८।०७-२६८।०८] कुशलचेतनापरमार्थेन पुण्यक्रिया । [२६८।०८] तस्या एतानि वस्तूनीत्यपरे । [२६८।०९] किमिदं दानं नाम । यदपि दीयते दद्दानम् । इह तु [२६८।१०] दीयते येन दद्दानं [२६८।११] भवति स्म । रागादिभिरपि दीयते । न चात्र तदिष्टम् । अतो विशेषणार्थमाह [२६८।१२] पूजानुग्रहकाम्यया । [२६८।१३] परेषां पूजानुग्रहकामताभ्यां येन दीयते । किं पुनस्तत्स्याद्येन दीयते । [२६८।१४] कायवाक्कर्म सोत्थानं [२६८।१५] किं पुनस्तदुत्थानम् । येन कलापेन तदुत्थाप्यते । आह चात्र [२६८।१६-२६८।१७] शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् । तत्क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥" इति । [२६८।१८] महाभोग्यफलं च तत् ॥ ४.११३ ॥ [२६८।१९] तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् । स्वभावे चैष मयड्वेदितव्यः । [२६८।२०] तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति । तत्खल्वेतद्दानं [२६८।२१] स्वपरार्थोभयार्थाय नोभयार्थाय दीयते । [२६८।२२-२६८।२३] तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय । [२६८।२३] परेषां तेनानुग्रहाभावात् । [२६८।२३-२६९।०१] यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय । [२६९।०१-२६९।०२] तेन तेषामनुग्रहात् । [२६९।०२] नात्मनोऽर्थाय । तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् । [२६९।०२-२६९।०३] यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय । [२६९।०३-२६९।०४] यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय । [२६९।०४-२६९।०५] तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते । [२६९।०५] सामान्येन दानं महाभोग्यफलमुक्तम् । [२६९।०६] तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥ [२६९।०७] तत्र तावत् [२६९।०८] दाता विशिष्टः श्रद्धाद्यैः [२६९।०९] श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति । [२६९।०९-२६९।१०] तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते । [२६९।१०] स च तादृशो दाता [२६९।११] सत्कृत्यादि ददाति [२६९।१२] सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति । [२६९।१३] अतः । [२६९।१४] सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥ [२६९।१५] अतोऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति । [२६९।१५-२६९।१६] सत्कारलाभी भवति । [२६९।१६] उदारेषु च भोगेषु रुचिं लभते । [२६९।१६-२६९।१७] कालेल्न च भोगान् लभते नातिक्रान्तिकालेन । [२६९।१७] अनाच्छेद्यांश्च भोगान् लभते । [२६९।१७-२६९।१८] नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते । [२६९।१८-२६९।१९] उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः । [२६९।२०] अथ वस्तु कथं विशिष्यते । [२६९।२१] वर्णादिसम्पदा वस्तु [२६९।२२] विशिष्टमिति वर्तते । [२६९।२२-२६९।२३] यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति । [२६९।२३] एवं वस्तु विशिष्यते । तादृशं वस्तु दत्त्वा किं भवति । यथाक्रमम् [२६९।२४-२६९।२५] सुरूप्त्वं यशस्वि वा । प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः ॥ ४.११६ ॥ [२६९।२६] वर्णसम्पन्नं दत्त्वा सुरूपो भवति । गन्धसंपन्नं दत्त्वा यशस्वी भवति । [२६९।२६-२७०।०१] गन्धवद्यशसो दिक्षु विधारणात् । [२७०।०१] रससंपन्नं दत्त्वा प्रियो भवति । रस इव स्वादुः । [२७०।०१-२७०।०३] स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य । [२७०।०४] अथ क्षेत्रं कथं विशिप्यते । [२७०।०५] गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते । [२७०।०६] गतिविशेषातावद्विशिष्यते । [२७०।०६-२७०।०७] तथा ह्युक्तं भगवता "तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः । [२७०।०७-२७०।०८] दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण" इति । [२७०।०८] दुःखविशेषा द्विशिष्यते । तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु । [२७०।०९] ग्लाने दानं ग्लानोपस्थापके दानम् । [२७०।०९-२७०।११] शीतलिकादिषु च दानमुक्त्वोक्तमे" भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि"ति । [२७०।१२-२७०।१३] उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणामृष्यमृगजातकाद्युदाहरणात् । [२७०।१३] गुणविशेषाद्यथा" शीलवते दत्त्वा शतसहस्रगुणो विपाक" इत्येवमादि । [२७०।१४] सर्वेषां तु दानानाम् [२७०।१५] अग्रं मुक्तस्य मुक्ताय [२७०।१६] "यद्वीतरागो वीतरागाय दत्त्वाऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता । [२७०।१७] बोधिसत्त्वस्य च [२७०।१८] यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्तेऽभ्यादानमग्रम् । [२७०।१९] तत्स्थापयित्वा यानि भगवतोऽन्यान्यष्टौ दानान्युक्तानि तेषाम् [२७०।२०] अष्टमम् ॥ ४.११७ ॥ [२७०।२१] अग्रमिति वर्तते । कतमान्यष्टौ । [२७०।२१-२७०।२४] आसाद्य दानं भयदानमदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति । [२७०।२४] तत्रासाद्य दानं यतासन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः । [२७०।२५] भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति । [२७०।२५-२७०।२६] शेषं सुगमत्वान्न विभक्तम् । [२७०।२६] स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वाऽप्रमेयविपाकः । [२७०।२७] ततोऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे । अपितु [२७१।०१-२७१।०२] मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने । बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥ [२७१।०३] एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्योऽप्यप्रमेया फलतो दक्षिणा भवति । [२७१।०३-२७१।०४] तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः । [२७१।०४-२७१।०५] धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः । [२७१।०५] उपकारिपक्षे । [२७१।०५-२७१।०७] स हि महाकल्याणमित्रमविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता । [२७१।०८] कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट्कारणानि ज्ञेयानि । तद्यथा [२७१।०९-२७१।१०] पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः । एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥ [२७१।११] पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया । क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते । [२७१।१२] अधिष्ठानं कर्मपथः । प्रयोगस्तदर्थं कायवाक्कर्म । [२७१।१२-२७१।१३] चेतना यया कर्मपथं निष्ठापयति । [२७१।१३-२७१।१४] आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति । [२७१।१४] कस्यचित्पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते । [२७१।१४-२७१।१५] विपाकनैयम्येनावस्थानात् । [२७१।१५] कस्यचित्क्षेत्रवशेनैव । [२७१।१५-२७१।१६] तत्रैव क्षेत्रे पुनरधिष्ठानवशात्गुरु संपद्यते नान्यथा । [२७१।१६] यथा माताइत्रोः प्राणातिपातात्न त्वेवमदत्तादानादिकात् । [२७१।१६-२७१।१७] एवमन्यदपि योज्यम् । [२७१।१७-२७१।१८] यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् । [२७१।१८] यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् ॥ [२७१।१९] कृतं चोपचितं च कर्मोच्यते । कथं कर्मोपचितं भवति । पञ्चभिः करणैः । [२७१।२०-२७१।२१] संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः । परिवाराद्विपाकाच्च कर्मोपचितमुच्यते ॥ ४.१२० ॥ [२७१।२२] कथं संचेनतः । संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् । [२७१।२२-२७१।२३] कथं समापत्तितः । [२७१।२३] कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः । [२७१।२३-२७१।२४] कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः । [२७१।२४-२७१।२५] तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितं समाप्ते तूपचितम् । [२७१।२५] कथं निष्कौकृत्यविपक्षतः । [२७१।२५-२७२।०१] निर्विप्रतिसारं च तत्कर्म भवति निष्प्रतिपक्षं च । [२७२।०१] कथं परिवारतः । [२७२।०१-२७२।०२] अकुशलं चाकुशलपरिवारं च भवति । [२७२।०२] कथं विपाकतः । विपाकदान नियतं भवति । [२७२।०३] एवं कुशलमपि योज्यम् । अतोऽन्यथा कर्म कृतं भवति नोपचितम् । [२७२।०४] चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् । [२७२।०४-२७२।०५] तत्रासत्युपभोक्तरि कथं पुण्यं भवति । [२७२।०५-२७२।०६] द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते । [२७२।०७] चैत्ये त्यागान्वयं पुण्यं [२७२।०८] परिभोगान्व्यं पुण्यं नास्ति । कथं तत्राप्रतिगृह्णति कस्मिंश्चित्पुण्यम् । [२७२।०८-२७२।०९] किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति । [२७२।०९] कस्यचिदप्यनुग्रहाभावात् । इदमकारणम् । [२७२।१०] यदि हि पुण्यं परानुग्रहादेव स्यात्मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् । [२७२।११] तस्मादेष्टव्यं चैत्यैऽपि पुण्यम् । [२७२।१२] मैत्र्यादिवदगृह्णति । [२७२।१३-२७२।१४] यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीतेऽपि गुणवति तद्भक्तिकृतं स्वचित्तात्पुण्यं भवति । [२७२।१४-२७२।१५] दानमानक्रिया तर्हि व्यर्था प्राप्नोति । [२७२।१५] न । तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् । [२७२।१५-२७२।१६] यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म । [२७२।१६-२७२।१७] शत्रुसंज्ञया तस्मिन्मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते । [२७२।१७] नाभिप्रायमात्रेण । [२७२।१७-२७२।१८] तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते । [२७२।१९] न भक्तिमात्रेण । [२७२।१९-२७२।२०] यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति । [२७२।२१] कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥ [२७२।२२-२७२।२३] कुक्षेत्रेऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् । [२७२।२३-२७२।२४] एवं कुक्षेत्रेऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् । [२७२।२४-२७३।०१] क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा । [२७३।०१] गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥ [२७३।०२] शीलमयं वक्तव्यम् । तदुच्यते [२७३।०३] दौःशीत्लमशुभं रूपं शीलं तद्विरतिः [२७३।०४] अकुशलं हि रूपं दौःशील्यमुच्यते । तस्माद्विरतिः शीलम् । सा पुनर्विरतिः [२७३।०५] द्विधा । [२७३।०६] यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणमविज्ञप्तिः । [२७३।०६-२७३।०७] न च केवलं दौःशील्याद्विरतिः शीलम् । [२७३।०७] किं तर्हि । [२७३।०८] प्रतिक्षिप्ताच्च बुद्धेन [२७३।०९-२७३।१०] यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् । [२७३।१०] समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते ॥ [२७३।१०-२७३।११] उक्तं तमासेन शीलम् ॥ [२७३।१२] विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥ [२७३।१३] तत्तु शीलं चतुर्गुणं भवति । विपर्ययादविशुद्धम् । अथ कथं चतुर्गुणमित्याह [२७३।१४] दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् । [२७३।१५] दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन । हेतुनाऽप्यनुपहतं भवति । [२७३।१६] लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति । [२७३।१६-२७३।१७] स्मृत्युपस्थानसंनिश्रितत्वात्समाश्रितं च भवति । [२७३।१७] नोपपत्तिविशेषाश्रितम् । [२७३।१७-२७३।१८] निर्वाणपरिणामितवात् । [२७३।१८] पञ्चभिः कारणैः इत्यपरे । [२७३।१८-२७३।१९] मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्याऽनुपरिगहीतं निर्वाणपरिणामितं चेति । [२७३।१९-२७३।२०] चतुर्विधं शीलमित्यपरे । [२७३।२०] भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात्पाल्यते । [२७३।२०-२७३।२१] आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् । [२७३।२१-२७३।२२] बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् । [२७३।२२] परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति ॥ गतं शीलम् ॥ [२७३।२३] समाहितं तु कुशलं भावना [२७३।२४] किमिदं समाहितं नाम । समाधिस्वभावं सहभू यत् । किमर्थमेतत्भावनेत्युच्यते । [२७४।०१] चित्तवासनात् ॥ ४.१२३ ॥ [२७४।०२] तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति । गुणैस्तन्मयीकरणात्संततेः । [२७४।०२-२७४।०३] पुष्पैस्तिलभावनावत् । [२७४।०३] दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् । [२७४।०३-२७४।०४] अथ शीलं भावना च [२७४।०५] स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना । [२७४।०६] दानमपि स्वर्गाय शीलं प्राधान्यात् । शीलमपि विसंयोगाय । भावना तु प्राधान्यात् । [२७४।०७] सुत्र उक्तं "चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती"ति । [२७४।०७-२७४।०८] कतमत्तद्ब्राह्मपुण्यम् । [२७४।०८] यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति वैभाषिकाः । [२७४।०९] पूर्वाचार्यास्तु व्याचक्षते । [२७४।१०] चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥ [२७४।११] यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् । [२७४।११-२७४।१२] ब्रह्मपुरोहितानां कल्पायुष्कत्वात् । [२७४।१२] निकायान्तरे गाथां पठन्ति [२७४।१३] "ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत" इति । [२७४।१४] आमिषदानमुक्तम् । धर्मदानं वक्तव्यम् । तदिदमुच्यते । [२७४।१५] धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना । [२७४।१६] सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् । [२७४।१६-२७४।१७] अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति । [२७४।१७-२७४।१८] क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः । [२७४।१८] उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः [२७४।१९] पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥ [२७४।२०-२७४।२१] पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति । [२७४।२१-२७४।२३] यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात्खलविलेषु बीजास्तित्वम् । [२७४।२३-२७४।२४] निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः । [२७५।०१] यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः । [२७५।०२-२७५।०३] योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा । लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥ [२७५।०४] योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् । त्रिधा कर्मेति कायवाङ्मनस्कर्म । [२७५।०४-२७५।०५] तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् । [२७५।०५] गणना काव्यं च वाक्कर्म । [२७५।०६] इत्येतानि पञ्चस्कन्धस्वभावानि । संख्या मनस्कर्म । यन्मनसा संकलनं धर्माणाम् । [२७५।०७] धर्माणामिदानीं केचित्पर्याया उच्यन्ते । [२७५।०८] सावद्या निवृता हीनाः क्लिष्टा धर्माः [२७५।०९] क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः । [२७५।१०] शुभामलाः । [२७५।११] प्रणीताः [२७५।१२] कुशलानास्रवाणां प्रणीता इति पर्यायः । [२७५।१२-२७५।१३] हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति । [२७५।१४] संस्कृतशुभाः सेव्याः [२७५।१५] कुसलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं भवति । [२७५।१६] कस्मादसंस्कृतं न सेव्यम् । अनभ्यसनीयत्वादफलत्वाच्च । फलर्थं हि सेवा भवति । [२७५।१७] सोत्तरा अन्ये सर्वधर्माः । [२७५।१८] मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥ [२७५।१९] नहि निर्वाणाद्विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् । ===================================================================== [२७५।२०-२७५।२१] अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति ॥ पञ्चमं कोशस्थानम् ===================================================================== ओं नमो बुद्धाय ===================================================================== [२७७।०३] "कर्मजं लोकवैचित्र्य" मित्युक्तम् । [२७७।०३-२७७।०४] तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति । [२७७।०४] अतो वेदितव्याः [२७७।०५] मूलं भवस्यानुशयाः [२७७।०६] क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति । [२७७।०६-२७७।०९] मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारमरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति । [२७७।१०] कति चेमेऽनुशयाः । समासेन षट् । कतमे [२७७।११] षड्रागः प्रतिघस्तथा । [२७७।१२] मानोऽविद्या च दृष्टिश्च विचिकित्सा च [२७७।१३] अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् । [२७७।१३-२७७।१४] एतच्च पश्चात्प्रवेदयिष्यामः । [२७७।१५] ते पुनः ॥ ५.१ ॥ [२७७।१६] षड्रागभेदात्सप्तोक्ताः [२७७।१७] त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः । [२७७।१७-२७७।१९] कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति । [२७७।१९-२७८।०१] कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित्कामरागस्यानुशयः कामरागनुशयः । [२७८।०१] किं चातः । [२७८।०१-२७८।०२] कामराग एवानुशयश्चेत्सूत्रविरोधः । [२७८।०२] "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति । [२७८।०२-२७८।०३] उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति । [२७८।०३-२७८।०४] तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत"इति । [२७८।०४-२७८।०६] कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः "कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त" इति । [२७८।०६] कामराग एवानुश्य इति वैभाषिकाः । [२७८।०६-२७८।०७] एवं यावद्विचिकित्सैवानुशय इति । [२७८।०७] ननु चोक्तमेवं सूत्रविरोध इति । नास्ति विरोधः । सानुशयं सानुबन्धमित्यर्थः । [२७८।०८] औपचारिको वा सूत्रेऽनुशयशब्दः प्राप्तौ । यथा दुःखोऽग्निरिति । [२७८।०८-२७८।०९] लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः । [२७८।०९] तस्मात्संयुक्ता एवानुशयाः । कथमिदं गम्यते । [२७८।१०] अनुशयानां [२७८।११] "चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्" । [२७८।१२-२७८।१३] यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः । [२७८।१३] अथ विप्रयुक्तैरप्येवं स्यात् । [२७८।१३-२७८।१४] कुशलं न कदाचिदुपलभ्येत । [२७८।१४] तेषां नित्यं संनिहितत्वात् । उपलभ्यते च । अतः [२७८।१५-२७८।१६] "कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः" इति । [२७८।१७-२७८।१८] तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति । [२७८।१८] क्लेशकृतमेवेच्छति । एवं तु साधु यथा सौत्रान्तिकानाम् । [२७८।१९] कथं च सौत्रान्तिकानाम् । कामरागस्यानुशयः कामरागानुशय इति । [२७८।१९-२७८।२०] न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् । [२७८।२०] प्रसुप्तो हि क्लेशोऽनुशय उच्यते । [२७८।२१] प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः । असंमुखीभूतस्य बीजभावानुबन्धः । [२७८।२२] कः प्रबोधः । संमुखीभावः । कोऽयं वीजभावो नाम । [२७८।२२-२७८।२३] आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः । [२७८।२३-२७८।२४] यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति । [२७८।२४-२७९।०१] यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते । [२७९।०१-२७९।०३] यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के "सोऽस्य भवति सुखायां वेदनायां रागानुशय" इति । [२७९।०३] भवतीति वचनान्नासौ तदैवानुशयः । कदा तर्हि भवति । [२७९।०३-२७९।०४] यदा प्रसुप्तो भवति । [२७९।०४] हेतौ वा तदुपचार एष द्रष्टव्यः । तिष्ठतु प्रसङ्गः । शास्त्रं प्रवर्त्तताम् । [२७९।०५] य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति । [२७९।०६] कोऽयं भवरागः । [२७९।०७] भवरागो द्विधातुजः । [२७९।०८] रूपारूप्यधातुजो रागो भवरागः कृटः । किं कारणमेवं कृतः । [२७९।०९] अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥ [२७९।१०] समापत्तिरागो हि तेषां प्रायेण । स चान्तर्मुखप्रवृत्तस्तस्मात्भवरागः । [२७९।११] उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति । [२७९।११-२७९।१२] आत्मभाव एव तु भवः । [२७९।१२-२७९।१३] ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् । [२७९।१३] अतः स रागो भवराग इत्युक्तः । [२७९।१३-२७९।१४] पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते । [२७९।१४] कथं कृत्वा । [२७९।१५-२७९।१६] दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः । दृष्टिशीलवृतपरामर्शाविति पुनर्दश ॥ ५.३ ॥ [२७९।१७] षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति । [२७९।१७-२७९।१८] पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च । [२७८।१८-२७८।१९] यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानोऽविद्या विचिकित्सा । [२७९।१९-२७९।२०] एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते । [२७९।२०-२७९।२१] कामावचराः षट्त्रिंशद्रूपावचरा एकत्रिंशतारूप्यावचरा एकत्रिंशत् । [२७९।२१] कथं कृत्वा । [२७९।२१-२७९।२२] समासतो ह्येतेऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च । [२७९।२२-२७९।२३] तत्र तावत्कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् । [२७९।२३] कतमे त इत्याह [२८०।०१-२८०।०२] दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः । यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥ [२८०।०३] य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति । [२८०।०४] एभ्य एव सप्त समुदयदर्शनप्रहेयाः । [२८०।०४-२८०।०५] सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा । [२८०।०५] अष्टौ मार्गदर्शनहेयाः । [२८०।०५-२८०।०६] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा । [२८०।०६] इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः । [२८०।०७] सत्यानां दर्शनमात्रेण प्रहाणात् । [२८०।०८] चत्वारो भावनाहेयाः [२८०।०९] तद्यथा रागः प्रतिघो मानोऽविद्या च । [२८०।०९-२८०।१०] दृष्टसत्यस्य पश्चात्मार्गाभ्यासेन प्रहाणात् । [२८०।१०] तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया । [२८०।१०-२८०।११] एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति । [२८०।११] दुःखसमुदयनिरोधमार्गदर्शनहेया । [२८०।११-२८०।१२] एवं दृष्टिपरामर्शो विचिकित्सा च । [२८०।१२] शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः । [२८०।१३-२८०।१४] रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च । [२८०।१४] कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद्भावनाहेयाः । [२८०।१४-२८०।१५] ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः । [२८०।१५-२८०।१७] ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति । [२८०।१८] त एवाप्रतिघाः पुनः । [२८०।१९] रूपधातौ [२८०।२०] पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति । [२८०।२१] यथा रूपधातौ [२८०।२२] तथारूप्ये [२८०।२३] एकत्रिंशदनुशया भवन्ति । [२८०।२४] इत्यष्टानवतिर्मताः ॥ ५.५ ॥ [२८०।२४-२८०।२५] त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् । [२८१।०१] य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते । [२८१।०२] नेत्याह । किं तर्हि । [२८१।०३] भवाग्रजाः क्षान्तिवध्या दृग्घेया एव [२८१।०४] ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः । [२८१।०५] शेषजाः । [२८१।०६] दृग्भावनाभ्याम् [२८१।०७] क्षान्तिवध्या इति वर्तते । [प्२८।१०७-२८१०८] शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः । [२८१।०९] अक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥ [२८१।१०] सर्वासु भूमिषु येऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः । [२८१।१०-२८१।११] नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे । [२८१।१२-२८१।१४] तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानामहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । [२८१।१३-२८१।१४] न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् । [२८१।१४-२८१।१५] तस्मात्कामप्रतिसंयुक्ता एव ता अप्रहीणा इति । [२८१।१५-२८१।१६] दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः । [२८१।१७] दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत्कस्तासां स्वभावः । [२८१।१८-२८१।१९] आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः । अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥ [२८१।२०] आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः । सीदतीति सत् । [२८१।२०-२८१।२१] चयः कायः संघातः स्कन्ध इत्यर्थः । [२८१।२१] सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः । [२८१।२२] नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता । एतत्पूर्वको हि तेष्वात्मग्रहः । [२८१।२३] सत्काये दृष्टिः सत्कायदृष्टिः । [२८१।२३-२८१।२४] सर्वैव सास्रवालम्बना दृष्टिः सत्काये । [२८१।२४] आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता । [२८१।२४-२८२।०१] यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति । [२८२।०१-२८२।०३] यथोक्तं "ये केचिद्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति । [२८२।०३] तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वाऽन्तग्राहदृष्टिः । [२८२।०४] शाश्वतोच्छेदान्तग्रहणात् । सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः । [२८२।०४-२८२।०५] सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता । [२८२।०५-२८२।०६] अतिशयवत्त्वात्दुर्गन्धक्षतवत् । [२८२।०६] एषा ह्यपवादिका अन्यास्तु समारोपिकाः । हीने अग्रदृष्टिर्दृष्टिपरामर्शः । [२८२।०७] किं हीनम् । सर्वं सास्रवम् । आर्यैः प्रहीणत्वात् । तस्याग्रतो ग्रहणं दृष्टिपरामर्शः । [२८२।०८] दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः । [२८२।०८-२८२।०९] अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः । [२८२।०९] तद्यथा महेश्वरो न हेतुर्लोकानाम् । [२८२।०९-२८२।१०] तं च हेतुं पश्यति प्रजापतिमन्यं वा । [२८२।१०-२८२।११] अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति । [२८२।११-२८२।१२] शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति । [२८२।१२-२८२।१३] अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः । [२८२।१३] सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः । [२८२।१३-२८२।१४] कस्मादयं न समुदयदर्शनप्रहातव्यः । [२८२।१४-२८२।१५] यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य । [२८२।१५] तद्यस्मात्स [२८२।१६-२८२।१७] ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते । कारणाभिनिवेशोऽतो दुःखदृग्घेय एव सः ॥ ५.८ ॥ [२८२।१८] दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते । [२८२।१८-२८२।१९] तस्मात्तत्कृतोऽपि कारणाभिनिवेशस्तत एव प्रहीयते । [२८२।१९-२८२।२०] यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सोऽपि दुःखदर्शनप्रहातव्य एव । [२८२।२०] एष हि शास्त्रपाठः । [२८२।२०-२८२।२२] "ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति । [२८२।२२-२८२।२३] अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः" इति विस्तरः । [२८२।२३-२८२।२४] किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः । [२८२।२४] दुःखे विप्रतिपन्नत्वात् । [२८२।२४-२८२।२५] सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् । [२८२।२५-२८२।२६] कीदृशो वाऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः । [२८२।२६] यो मार्गदर्शनप्रहातव्यालम्बनः । [२८२।२६-२८२।२७] सोऽपि हि नाम दुःखे विप्रतिपन्नः । [२८२।२७-२८२।२८] यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वाऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति । [२८३।०१] अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह । [२८३।०१-२८३।०२] सोऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति । [२८३।०२-२८३।०३] तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति । [२८३।०३-२८३।०४] यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः । [२८३।०४] तस्मात्परीक्ष्य एषोऽर्थः । [२८३।०५] यदुक्तं "नित्यात्मविपर्यासादि"ति । किमेतावेव द्वौ विपर्यासौ । [२८३।०५-२८३।०६] चत्वारो विपर्यासाः । [२८३।०६] अनित्ये नित्यमिति । दुःखे सुखमिति । अशुचौ शुचीति । [२८३।०६-२८३।०७] अनात्मन्यात्मेति । [२८३।०७] अथैतद्विपर्यासचतुष्कं किंस्वभावम् । [२८३।०८] दृष्टित्रयाद्विपर्यासचतुष्कं [२८३।०९] अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः । [२८३।०९-२८३।१०] दृष्टिपरामर्शात्सुखशुचिविपर्यासौ । [२८३।१०] सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः । सकलेत्यपरे । [२८३।१०-२८३।११] कथमात्मीयदृष्टिर्विपर्यासः । [२८३।११] कथं च न विपर्यासः । विपर्याससूत्राद् । [२८३।११-२८३।१३] आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात्ममेति दृष्ट्यन्तरं स्यात् । [२८३।१३] मया मह्यमित्येतदपि स्यात् । [२८३।१४] कस्मादन्ये क्लेशा न विपर्यासाः । [२८३।१४-२८३।१५] यस्मात्त्रिभिः कारणैर्विपर्यासानां व्यवस्थानं कतमैस्त्रिभिः । [२८३।१६] वीपरीततः । [२८३।१७] नितीरणात्समारोपात् [२८३।१८] एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च । [२८३।१८-२८३।१९] उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके । [२८३।१९] अभावमुखप्रवृत्तत्वात् । [२८३।१९-२८३।२०] शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् । [२८३।२०-२८३।२१] अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः । [२८३।२१-२८३।२२] यत्तर्हि सूत्रे उक्त "मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास" इति । [२८३।२२] दृष्टिरेवात्र विपर्यासः । [२८४।०१] संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥ [२८४।०२] दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ । [२८४।०२-२८४।०३] वेदनादयोऽपि कस्मान्नोक्ताः । [२८४।०३] लोकप्रसिद्ध्या । [२८४।०३-२८४।०४] लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति । [२८४।०४-२८४।०५] त एते विपर्यासाः सर्वेऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति । [२८४।०५] दर्शनप्रहेयत्वात्दृष्टीनां ससंप्रयोगाणाम् । द्वादश विपर्यासाः । [२८४।०५-२८४।०६] अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः । [२८४।०६] एवं यावदनात्मन्यात्मेति । [२८४।०६-२८४।०७] तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः । [२८४।०७-२८४।०८] दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः । [२८४।०८-२८४।०९] इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति । [२८४।०९] तदेतन्नेच्छन्ति वैभाषिकाः । [२८४।१०] यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते । [२८४।१०-२८४।११] सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते । [२८४।११-२८४।१२] न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति । [२८४।१२-२८४।१३] सूत्रेऽपि चोक्तं "यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । [२८४।१३-२८४।१४] यावत्तस्य तस्मिन् समये योऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत" इति विस्तरः । [२८४।१४-२८४।१६] तस्माद्दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् । [२८४।१६] यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं [२८४।१७-२८४।१८] "विपर्यासे च संज्ञानां चित्तं ते परिदह्यते" । निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् ॥ [२८४।१९] तस्मात्सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे । [२८४।१९-२८४।२०] तेऽपि चार्यसत्यानां यथाभूतपरिज्ञानात्प्रहीयन्ते । [२८४।२०-२८४।२१] न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः । [२८४।२२] अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य । मानस्याप्यस्ति । कथमित्याह [२८४।२३] सप्त मानाः [२८४।२४] मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च । [२८४।२५] अभेदेन चित्तस्योन्नतिर्मान उक्ताः । स प्रवृत्तिभेदात्सप्तधा भवति । [२८४।२५-२८५।०१] हीनाद्विशिष्टः समेन वा समोऽस्मीति मन्यमानस्योन्नतिर्मानः । [२८५।०१] समाद्विशिष्टोऽस्मीत्यभिमानः । [२८५।०२] विशिष्टाद्विशिष्टोऽस्मीति मानातिमानः । [२८५।०२-२८५।०३] पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः । [२८५।०३] अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः । [२८५।०३-२८५।०४] बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमानः । [२८५।०४] अगुणवतो गुणवानस्मीति मिथ्यामानः । [२८५।०५] यत्तर्हि शास्त्रे नव मानविधा उक्ताः । "श्रेयानस्मीति मानविधा । [२८५।०५-२८५।०६] सदृशोऽस्मीति मानविधा । [२८५।०६] हीनोऽस्मीति मानविधा । [२८५।०६-२८५।०७] अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः । [२८५।०७] नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन" इति । [२८५।०७-२८५।०८] एभ्य एव मानेभ्य एताः । [२८५।०९] नवविधास्त्रिभ्यः [२८५।१०] कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः । [२८५।१०-२८५।११] तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः । [२८५।११] अतिमानमानोनमानाः । द्वितीयं त्रयमूनमानमानातिमानाः । [२८५।११-२८५।१२] तृतीयं त्रयं मानातिमानोनमानाः । [२८५।१२-२८५।१३] युक्तस्तावद्बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमान उन्नतिस्थानत्वात् । [२८५।१३-२८५।१४] नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् । [२८५।१४] अस्ति सदृशो योऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते । [२८५।१५] अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः । [२८५।१५-२८५।१७] प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानोऽपि स्यादति मानोऽपि मानातिमानोऽपि हीनसमविशिष्टापेक्षया । [२८५।१८] अथैते सप्त मानाः किंप्रहातव्या इत्याह [२८५।१९] दृग्भावनाक्ष्याः । [२८५।२०] दृग्भावनाभ्यामेषां क्षयः । [२८५।२०-२८५।२१] एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति । [२८५।२१] नावश्यं तद्यथा [२८५।२२] वधादिपर्यवस्थानं हेयं भावनया [२८५।२३-२८५।२४] येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद्भावनाहेयं भावनाहेयधर्मालम्बनत्वात् । [२८५।२५] तथा ॥ ५.१० ॥ [२८६।०१] विभवेच्छा [२८६।०२] विभवतृष्णाऽपि भावनाहेया । विभवो नाम क एष धर्मः । त्रैधातुकी अनित्यता । [२८६।०३] तत्र प्रर्थना विभवतृष्णा । तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते । [२८६।०३-२८६।०४] "अहो वताहमैरावणः स्यां नागराज" इत्येवमादि । [२८६।०४-२८६।०५] मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च । [२८६।०६] न चार्यस्य संभवन्ति विधादयः । [२८६।०७] नास्मिता [२८६।०८] आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् । [२८६।०८-२८६।०९] किं कारणमप्रहीणा अप्येते न समुदाचरन्ति । [२८६।१०] दृष्टिपुष्टत्वात् [२८६।११] सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च । [२८६।११-२८६।१२] अतो भग्नपृष्ठत्वात्नोत्थातुं पुनरुत्सहन्ते । [२८६।१२] वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् । [२८६।१२-२८६।१३] विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् । [२८६।१३] भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् । [२८६।१४] कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥ [२८६।१५] अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् । [२८६।१५-२८६।१६] न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् । [२८६।१७] अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः । [२८६।१८-२८६।१९] सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा । विमतिः सह ताभिश्च याऽविद्याऽवेणिकी च या ॥ ५.१२ ॥ [२८६।२०-२८६।२१] दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या । [२८६।२०-२८७।०१] इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः । [२८७।०१] सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् । [२८७।०२] किमेभिर्युगपदालम्बते आहोस्वित्क्रमेण । यदि क्रमेण अन्येषामपि प्रसङ्ग । [२८७।०२-२८७।०४] अथ युगपत्कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः । [२८७।०४] सकलं नोच्यते सकलं युगपदालम्बन्त इति । [२८७।०४-२८७।०५] अपि तु पञ्चप्रकारमपि सर्वं युगपत् । [२८७।०५-२८७।०६] एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति । [२८७।०६-२८७।०७] एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् । [२८७।०७-२८७।०८] भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् । [२८७।०८] अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् । [२८७।०८-२८७।०९] स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ । [२८७।०९] तस्मान्न सर्वत्रगाविति वैभाषिकाः । [२८७।१०] व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः [२८७।११] नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः । [२८७।१२] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वाऽन्ये नवानुशया विसभागधातुसर्वत्रगाः । [२८७।१३] कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित्द्वौ । [२८७।१३-२८७।१४] "येऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः । [२८७।१४-२८७।१५] कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना" इति वचनात् । [२८७।१५-२८७।१७] यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः । [२८७।१७-२८७।१८] आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् । [२८७।१८] का तर्हीयं दृष्टिः । [२८७।१८-२८७।१९] नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः । [२८७।१९-२८७।२०] कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः । [२८७।२१] किं खल्वनुशयाः एव सर्वत्रगाः । नेत्याह । [२८७।२२] प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥ [२८७।२३] सर्वत्रगैरनुशयैः सहभुवो येऽप्यन्ये धर्मास्तेऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् । [२८७।२३-२८८।०१] अनेक फलत्वात् । [२८८।०१-२८८।०२] अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते । [२८८।०२] प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः । [२८८।०२-२८८।०३] द्वितीयाऽतीतप्रत्युपन्नास्तत्सहभुवः । [२८८।०३] तृतीयाचतुथौ योज्ये । [२८८।०४] एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः । [२८८।०५-२८८।०६] मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽथ केवला । निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥ [२८८।०७-२८८।०८] निरोधदर्शनप्रहातव्यास्त्रयोऽनुशया मिथ्यादृष्टिर्विचिकित्साऽविद्या च ताभ्यां संप्रयुक्ताऽऽवेणिकी च । [२८८।०८] मार्गदर्शनप्रहातव्या अप्येत एव त्रयः । [२८८।०८-२८८।०९] इत्येते षडनास्रवालम्बनाः । [२८८।०९] शेषां सास्रवालम्बना इति सिद्धम् । तत्र पुनः [२८८।१०-२८८।११] स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः । तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥ [२८८।१२-२८८।१३] निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत्भवाग्रभूमिकानां भवाग्रस्यैव । [२८८।१३-२८८।१४] मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् । [२८८।१४-२८८।१५] योऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः । [२८८।१५-२८८।१६] स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्योऽन्यहेतुकत्वात् । [२८८।१६-२८८।१७] यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति । [२८८।१७-२८८।१८] न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते । [२८८।१८-२८८।१९] धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति । [२८८।१९-२८८।२०] न तत्सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् । [२८८।२०-२८८।२१] नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् । [२८८।२२] अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते । [२८८।२३] न रागस्तस्य वर्ज्यत्वात् [२८९।०१-२८९।०२] वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् । [२८९।०३] न द्वेषोऽनपकारतः । [२८९।०४] अपकारवस्तुनि हि प्रतिघ उत्पद्यते । न चैवं निरोधमागौम् । [२८९।०५] न मानो न परामर्शौ शान्तशुद्धयग्रभावतः ॥ ५.१६ ॥ [२८९।०६] निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति । [२८९।०६-२८९।०७] भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः । [२८९।०७] अग्रौ च तौ । हीने चाग्रग्राहो दृष्टिपरामर्शः । [२८९।०८] तस्मादयुक्तमेषामनास्रवालम्बनत्वम् । [२८९।०९] एषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगत एव । [२८९।१०-२८९।११] सर्वत्रगा अनुशयाः सकलामनुशेरते । स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥ [२८९।१२-२८९।१३] ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतोऽनुशेरते । [२८९।१३] असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतोऽनुशेरते नान्यम् । [२८९।१४] तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् । [२८९।१४-२८९।१५] एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् । [२८९।१५] उत्सर्गं कृत्वाऽपवादं करोति [२८९।१६] नानास्रवोर्ध्वविषयाः [२८९।१७] अनास्रवालम्बना अनुशया नैवालम्बनतोऽनुशेरते । नाप्यूर्ध्वभूम्यालम्बनाः । [२८९।१७-२८९।१८] किं कारणम् । [२८९।१८] तदालम्बनस्य वस्तुनः [२८९।१९] अस्वीकाराद्विपक्षतः । [२८९।२०-२८९।२१] यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुगमयितुमुत्सहन्ते । [२८९।२१] आर्द्र इव पटे रजांसि संस्थातुम् । [२८९।२१-२८९।२२] न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः । [२८९।२२] अतो न तदालम्बनास्तेष्वनुशेरते । यस्त्विहस्थस्तां भूमिं प्रार्थयते । [२८९।२३-२९०।०१] कुशलोऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् । [२९०।०१] अतो न तेषु प्रतिष्ठां लभन्ते । [२९०।०१-२९०।०२] तप्त इवोपले तलानि पादानाम् । [२९०।०२] आनुगुण्यार्थोऽत्रानुशयार्थः । न च ते तदनुगुणा इत्यपरे । [२९०।०२-२९०।०३] वातिकस्य रुक्षाननुशयनवत् । [२९०।०३] अत उक्ता आलम्बनतोऽनुशेरते । [२९०।०४] येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥ [२९०।०५] अनुशरेत इति वर्तते । [२९०।०५-२९०।०६] योऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतोऽनुशेते । [२९०।०६] यावदप्रहीण इति विशेषणार्थस्तुशब्दः । [२९०।०६-२९०।०७] स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः । [२९०।०७-२९०।०८] ते चानुशयाः संप्रयोगतोऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः । [२९०।०९] एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः । [२९०।१०] ऊर्ध्वमव्याकृताः सर्वे [२९०।११] रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः । किं कारणम् । [२९०।१२] क्लिष्टानां धर्माणां दुःखविपाकः स्यात् । तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् । [२९०।१३] कामे सत्कायदर्शनम् । [२९०।१४] अन्तग्राहः सहाभ्यां च मोहः [२९०।१५] कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः । [२९०।१५-२९०।१६] किं कारणम् । [२९०।१६] दानादिभिरविरुद्धत्वात् । [२९०।१६-२९०।१७] अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति । [२९०।१७] उच्छेददृष्टिरपि मोक्षानुकूला । [२९०।१७-२९०।१९] अत एवोक्तं भगवता "एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात्न भविष्यामि न मे भविष्यती"ति । [२९०।१९] अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च । [२९०।१९-२९०।२०] स्वर्गतृष्णाऽस्मिमानयोरप्येवं प्रसङ्गः । [२९०।२०] सहजा सत्कायदृष्टिरव्याकृता । [२९०।२०-२९०।२१] या मृगपक्षिणामपि वर्त्तते । [२९०।२१] विकल्पिता त्वकुशलेति पूर्वाचार्याः । [२९१।०१] शेषस्त्विहाशुभाः ॥ ५.१९ ॥ [२९१।०२] शेषास्त्वशुभा अनुशयाः कामधातावकुशलाः । [२९१।०३] कत्यकुशलमूलानि कति न । [२९१।०४] कामेऽकुशलमूलानि रागप्रतिघमूढयः । [२९१।०५-२९१।०६] कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् । [२९१।०७] त्रीण्यकुशलमूलानि [२९१।०८] लोभोऽकुशलमूलं द्वेषो मोहोऽकुशलमूलम् । [२९१।०८-२९१।०९] यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् । [२९१।०९-२९१।१०] शेषा अनुशया नाकुशलमूलानीति सिद्धम् । [२९१।११] कत्यव्याकृतमूलानि कति न । त्रीण्यव्याकृत मूलानि । कतमानि त्रीणि । [२९१।१२] तृष्णाऽविद्या मतिश्च सा ॥ ५.२० ॥ [२९१।१३-२९१।१४] सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः । [२९१।१५] द्वैधोर्ध्ववृत्तेर्नातोऽन्यौ [२९१।१६] विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति । चलत्वात् । [२९१।१६-२९१।१७] उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् । [२९१।१७-२९१।१८] विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति । [२९२।०१] चत्वार्येवेति बाह्यकाः । [२९२।०२] बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति । [२९२।०३] तृष्णादृङ्मानमोहास्ते [२९२।०४] स इत्यव्याकृता इति दर्शयति । अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च । [२९२।०४-२९२।०५] किं कारणमेतान्यव्याकृतमूलानीच्छन्ति । [२९२।०६] ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥ [२९२।०७] यस्मात्त्रयो ध्यायिनः । तृष्णादृष्टिमानोत्तरध्यायिनः । ते चाविद्यावशाद्भवन्तीति । [२९२।०८] यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् । नेत्याह । [२९२।०९] किं तर्हि । स्थापनीयः प्रश्नोऽव्याकृत इत्युक्तम् । चतुर्विधो हि प्रश्नः । [२९२।०९-२९२।१०] एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च । [२९२।१०-२९२।११] तत्र यथाक्रमं वेदितव्यम् । [२९२।१२-२९२।१४] एकांशतो व्याकरणं विभज्य परिपृच्छय च । स्थाप्यं च मरणोत्पत्ति विशिष्टात्माऽन्यतादिवत् ॥ ५.२२ ॥ [२९२।१५] किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति । [२९२।१५-२९२।१६] किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति । [२९२।१६-२९२।१७] किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् । [२९२।१७] कानधिकृत्य प्रश्नयसीति । [२९२।१७-२९२।१८] यदि ब्रूयाद्देवानिति । [२९२।१८] हीन इति व्याकर्त्तव्यम् । अथ ब्रूयादपायानिति । [२९२।१८-२९२।१९] विशिष्ट इति व्याकर्त्तव्यम् । [२९२।१९] किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्य इति स्थापनीयः । [२९२।१९-२९२।२०] सत्त्वद्रव्यस्याभावात्वन्ध्यापुत्रश्यामगौरतादिवत् । [२९२।२१] कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति । एवं व्याकरणात् । [२९२।२२] अपर आह । इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति । [२९२।२३-२९२।२४] यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् । [२९२।२४-२९३।०१] मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् । [२९३।०१-२९३।०२] तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात्विभज्यव्याकरणं युज्यते । [२९३।०२-२९३।०३] स्कन्धेभ्योऽन्यः सत्त्व इत्येतदव्याकृतमेव । [२९३।०३] न चाव्याकरणमेव व्याकरणं युज्यत इति । [२९३।०३-२९३।०४] यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते । [२९३।०४] कथं न व्याकृतो भवति । [२९३।०५] आभिधर्मिका आहुः । [२९३।०५-२९३।०७] "तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातोऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् । [२९३।०७-२९३।०८] विभज्जव्याकरणं नाम यदि कश्चिद्ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति । [२९३।०९] यदि ब्रू यादतीतानिति । स व्यक्तव्योऽतीता अपि बहवो रूपं यावद्विज्ञानमिति । [२९३।१०] अथं ब्रूयाद्रूपमिति । स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च । [२९३।११] यद्याह कुशलमिति । [२९३।११-२९३।१२] तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति । [२९३।१२] यद्याह प्राणातिपाताद्विरतिमिति । [२९३।१२-२९३।१३] साऽपि त्रिप्रकारा अलोभजाऽद्वेषजाऽमोहजा । [२९३।१३] यद्याहालोभजामिति । [२९३।१३-२९३।१४] अलोभजाऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति । [२९३।१४] एतदेव च शठस्य परिपृच्छ्य व्याकरणम् । [२९३।१४-२९३।१५] तस्य वक्तव्यं धर्मा बहव इति । [२९३।१५] न तु विभक्तव्या यावत्तूष्णिं वा तिष्ठति स्वयं वा व्याकरोतीति । [२९३।१६-२९३।१७] यदा तौ न किञ्चित्पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित्व्याक्रियते केवलं परिप्रश्न्येते तत्कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् । [२९३।१८] यो ह्हि पन्थानं ब्रूहीत्याह किं तेन पन्था न पृष्टो भवति । [२९३।१८-२९३।१९] परिपृच्छयैव व्याकरणात्कथं न परिपृच्छाव्याकरणं भवति । [२९३।१९-२९३।२०] स्थापनीयस्तु यथा अन्तवान् लोकोऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् । [२९३।२०-२९३।२१] भदन्तमहासाङ्घिकाः सूत्रं पठन्ति । [२९३।२१] "चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति । [२९३।२१-२९३।२२] कतमानि चत्वारि । [२९३।२२] अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः । अस्ति यावत्स्थापनीयः । [२९३।२३] कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः । [२९३।२३-२९३।२४] सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः । [२९३।२४] कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः । [२९३।२४-२९३।२५] संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययं विभज्यव्याकरणीयः प्रश्नः । [२९३।२५-२९३।२६] कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः । [२९३।२६-२९३।२७] संज्ञासु पुरुषस्यात्मा उताहोऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति । [२९३।२७-२९३।२८] स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि । [२९३।२८-२९३।२९] एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः । [२९३।२९] अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः । [२९३।२९-२९४।०१] कतमश्च भिक्षवः स्थापनीयः प्रश्नः । [२९४।०१] तद्यथा शाश्वतो लोकोऽशाश्वतः । [२९४।०१-२९४।०२] शाश्वतश्चाशाश्वतश्च । [२९४।०२] नैव शाश्वतो नाशाश्वतः । अन्तवानन्ततः । अन्तवांश्चानन्तश्च । [२९४।०२-२९४।०३] नैवान्तवान्नानन्तवान् । [२९४।०३-२९४।०४] भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात्यावदन्यो जीवोऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न" इति । [२९४।०४-२९४।०५] यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन् संप्रयुक्तः । [२९४।०५-२९४।०६] इदं तु वक्तव्यमतीते न कस्मिन् यावत्प्रत्युपन्ने न कस्मिन्निति । [२९४।०७] समासत इमे द्विविधाः क्लेशाः । स्वलक्षणक्लेशाश्च रागप्रतिवमानाः । [२९४।०८] सामान्यक्लेशाश्च दृष्टिविचिकित्सादऽविद्याः । तत्र तावत् । [२९४।०९-२९४।१०] रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः । यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥ [२९४।११-२९४।१२] अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः । [२९४।१२] एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते । [२९४।१३] सर्वत्रानागतैरेभिर्मानसैः [२९४।१४] यत्राप्रहीणास्ते इति वर्त्तते । [२९४।१४-२९४।१५] अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके । [२९४।१५] मानसानां त्र्यध्वविषयत्वात् [२९४।१६] स्वाध्विके परैः । [२९४।१७] अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः । के पुनरन्ये । [२९४।१७-२९४।१८] ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च । [२९४।१८] उत्पत्तिधर्मभिरेव । तैरेव तु [२९४।१९] अजैः सर्वत्र [२९४।२०] अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः । त्रैयध्विकेऽपि [२९४।२१] शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥ [२९५।०१] के पुनः शेषाः । दृष्टिविचिकित्साऽविद्यास्त्रैयध्विकाः । [२९५।०१-२९५।०२] तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः । [२९५।०२] सामान्यक्लेशत्वात् । यावदप्रहीणा इत्यधिकारोऽनुवर्त्तत एव । [२९५।०२-२९५।०३] किं पुनरिदमतीतानागतमुच्यतेऽस्त्यथ न । [२९५।०३-२९५।०४] यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति । [२९५।०४] अथ नास्ति । कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा । [२९५।०४-२९५।०५] न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् । [२९५।०५-२९५।०६] प्रतिज्ञायते तु विशदं [२९५।०७] सर्वकालास्तिता [२९५।०८] किं कारणम् । [२९५।०९] उक्तत्वात् [२९५।१०-२९५।११] उक्तं हि भगवताऽ"तीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् । [२९५।११-२९५।१२] यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षो भवति । [२९५।१२-२९५।१३] अनागतं चेद्रूपं नाभविष्यत्न श्रुतवानार्यश्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् । [२९५।१३-२९५।१४] यस्मात्तर्ह्यस्त्यनागतं रूपमिति" विस्तरः । [२९५।१५] द्वयात् [२९५।१६] "द्वयं प्रतीत्य विज्ञानस्योत्पाद" इत्युक्तम् । द्वयं कतमत् । [२९५।१६-२९५।१७] चक्षू रूपाणि यावत्मनो धर्मा इति । [२९५।१७] असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् । [२९५।१८] एवं तावदागमतोऽस्त्यतीतानागतं युक्तितोऽपि । [२९५।१९] सद्विषयात् [२९५।२०] सति विषये विज्ञानं प्रवर्तते नासति । [२९५।२०-२९५।२१] यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् । [२९५।२१] ततो विज्ञानमेव न स्यादालम्बनाभावात् । [२९५।२२] फलात् । [२९५।२३] यदि चातीतं न स्यात्शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् । [२९५।२३-२९६।०१] न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति । [२९६।०१-२९६।०२] तस्मादस्त्येवातीतानागतमिति वैभाषिकाः । [२९६।०२] अवश्यं च किलैतत्सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् । यस्मात् [२९६।०३] तदस्तिवादात्सर्वास्तिवादा इष्टाः [२९६।०४] ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः । [२९६।०४-२९६।०६] ये तु केचिदस्ति यत्प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः । [२९६।०६-२९६।०७] कति चैते सर्वास्तिवादा इत्याह [२९६।०८] चतुर्विधाः ॥ ५.२५ ॥ [२९६।०९] ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः । [२९६।१०] भावान्यथिको भदन्तधर्मत्रातः । स किलाह । [२९६।१०-२९६।११] धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् । [२९६।११-२९६।१२] यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् । [२९६।१२-२९६।१३] यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् । [२९६।१३-२९६।१४] एवं धर्मोऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् । [२९६।१४-२९६।१५] एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति । [२९६।१६] लक्षाणान्यथिको भदन्तघोषकः । स किलाह । [२९६।१६-२९६।१७] धर्मोऽध्वसु प्रवर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः । [२९६।१७-२९६।१८] अनागतोऽनागतलक्षणयुक्तोऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः । [२९६।१८-२९६।१९] एवं प्रत्युत्पन्नोऽप्यतीतानागताभ्यामवियुक्तः । [२९६।१९] तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति । [२९६।२०] अवस्थाऽन्यथिको भदन्तवसुमित्रः । स किलाह । [२९६।२०-२९६।२१] धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः । [२९६।२१-२९६।२३] यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति । [२९७।०१] अन्यथान्यथिको भदन्तबुद्धदेवः । स किलाह । [२९७।०१-२९७।०२] धर्मोऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः । [२९७।०२-२९७।०३] यथैका स्त्री माता वोच्यते दुहिता वेति । [२९७।०३] इत्येते चत्वारः सर्वास्तिवादाः । [२९७।०४] एषां तु प्रथमः परिणामवादित्वात्सांख्यपक्षे निक्षेप्तव्यः । [२९७।०४-२९७।०५] द्वितीयस्याध्वसंकरः प्राप्नोति । [२९७।०५] सर्वस्य सर्वक्षणयोगात् । [२९७।०५-२९७।०६] पुरुषस्य तु कस्याञ्चित्स्त्रियां रागः समुदाचरति कस्याञ्चित्केवलं समन्वागम इति किमत्र साम्यम् । [२९७।०६-२९७।०७] चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति । [२९७।०७-२९७।०८] अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति । [२९७।०८] एवमनागतेऽपि । अत एषां सर्वेषां [२९७।०९] तृतीयः शोभनः [२९७।१०] योऽयमवस्थाऽन्यथिकः । तस्य किल [२९७।११] अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥ [२९७।१२] यदा स धर्मः कारित्रं न करोति तदाऽनागतः । यदा करोति तदा प्रत्युत्पन्नः । [२९७।१३] यदा कृत्वा निरुद्धस्तदाऽतीत इति । परिगतमेतत्सर्वम् । इदं तु वक्तव्यम् । [२९७।१३-२९७।१४] यद्यतीतमपि द्रव्यतोऽस्त्यनागतमिति । [२९७।१४] कस्मात्तदतीतमित्युच्यतेऽनागतमिति वा । [२९७।१४-२९७।१५] ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति । [२९७।१५-२९७।१६] यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् । [२९७।१६] फलदानप्रतिग्रहणम् । [२९७।१६-२९७।१७] अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात्कारित्रप्रसङ्गोऽर्धकारित्रस्य वेति लक्षणसंकरः । [२९७।१८] इदं च वक्तव्यम् । तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे [२९७।१९] किं विघ्नं [२९७।२०] येन कदाचित्कारित्रं करोति कदाचिन्नेति । प्रत्ययानामसामग्रयमिति चेत् । न । [२९७।२१] नित्यमास्तित्वाभ्युपगमात् । यच्च तत्कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते [२९७।२२] तत्कथं [२९८।०१] किं कारित्रस्याप्यन्यदस्ति कारित्रम् । [२९८।०१-२९८।०२] अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च । [२९८।०२] तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । [२९८।०२-२९८।०३] अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदाऽनागत इति । [२९८।०४] स्यादेष दोषो यदि धर्मात्कारित्रमन्यत्स्यात् । तत्तु खलु [२९८।०५] नान्यत् [२९८।०६] अतो न भवत्येष दोषः । एवं तहि स एव [२९८।०७] अध्वायोगः [२९८।०८-२९८।०९] यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति । [२९८।०९] किमत्र न सिध्यति । [२९८।१०] यो ह्यजातो धर्मः सोऽनागतः । यो जातो भवति न च विनष्टः स वर्त्तमानः । [२९८।११] यो विनष्टः सोऽतीतः इति । एतदेवात्र वक्तव्यम् । [२९८।११-२९८।१२] यदि यथा वर्त्तमानं द्रव्यतोऽस्ति तथाऽतीतमनागतं चास्ति । [२९८।१२] तस्य [२९८।१३] तथा सतः । [२९८।१४] अजातनष्टता केन [२९८।१५] तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति । [२९८।१६] किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते । [२९८।१६-२९८।१७] किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते । [२९८।१७] तस्मान्न सिध्यति सर्वथाऽप्यत्राध्वत्रयम् । [२९८।१७-२९८।१८] यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति । [२९८।१८-२९८।१९] यदप्युक्तं "संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग" इति । [२९८।१९] तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् । [२९८।१९-२९८।२०] नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः । [२९८।२०] आह खल्वपि [२९८।२१-२९८।२२] "स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते । न च स्वभावाद्भावोऽन्यो व्यक्तमीश्वरचेष्टितम् ।" [२९९।०१] यत्तूक्तमुक्तत्वादिति । वयमपि ब्रूमोऽस्त्यतीतानागतमिति । [२९९।०१-२९९।०२] अतीतं तु यद्भूतपूर्वम् । [२९९।०२] अनागतं यत्सति हेतौ भविष्यति । [२९९।०२-२९९।०३] एवं च कृत्वाऽस्तीत्युच्यते न तु पुनर्द्रव्यतः । [२९९।०३] कश्चैवमाह । वर्तमानवत्तदस्तीति । कथमन्यथाऽस्ति । [२९९।०३-२९९।०४] अतीता नागतात्मना । [२९९।०४] इदं पुनस्तवोपस्थितम् । [२९९।०४-२९९।०५] कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति । [२९९।०५-२९९।०७] तस्मात्भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता "अस्त्यतीतमस्त्यनागतमि"ति । [२९९।०७] अस्तिशब्दस्य निपातत्वात् । [२९९।०७-२९९।०९] यथाऽस्ति दीपस्य प्रागभावोऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति । [२९९।०९] एवमतीतानागतमप्यस्तीत्युक्तम् । [२९९।०९-२९९।१०] अन्यथा ह्यतीतानागतभाव एव न सिध्येत् । [२९९।१०-२९९।११] यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता "यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती"ति । [२९९।११-२९९।१२] किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म । [२९९।१२-२९९।१३] तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् । [२९९।१३] अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् । [२९९।१३-२९९।१५] इत्थं चैतदेवं यत्परमार्थशून्यतयामुक्तं भगवता "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति । [२९९।१५-२९९।१६] इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती"ति [२९९।१६-२९९।१७] यदि चानागतं चक्षुः स्यान्नोक्तं स्याद्भूत्वा न भवतीति । [२९९।१७] वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत्न । [२९९।१७-२९९।१८] अध्वनो भावादनर्थान्तरत्वात् । [२९९।१८] अथ स्वात्मन्यभूत्वा भवति । सिद्धमिदमनागतं चक्षुर्नास्तीति । [२९९।१८-२९९।१९] यदप्युक्तं "द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् । [२९९।२०-२९९।२१] यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति । [२९९।२१-२९९।२२] यदि तावत्जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति । [२९९।२३] निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते । अथालम्बनमात्रं धर्मा भवन्ति । [२९९।२४] अतीतानागतमप्यालम्बनं भवतीति ब्रूमः । यदि नास्ति कथमालम्बनम् । [२९९।२४-२९९।२५] अत्रेदानीं ब्रूमः । [२९९।२५] यदा तदालम्बनं तथास्ति कथं तदालम्बनमभूत्भविष्यति चेति । [२९९।२५-२९९।२६] न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति । [२९९।२६] किं तर्हि । अभूदिति । [२९९।२६-२९९।२७] यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते । [२९९।२७-२९९।२८] यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते । [२९९।२८] यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति । [२९९।२८-२९९।२९] अथ नास्ति । [२९९।२९] असदप्यालम्बनं भवतीति सिद्धम् । तदेव तद्विकीर्णमिति चेत् । न । [३००।०१] विकीर्णस्याग्रहणात् । यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् । [३००।०१-३००।०२] एवं सति परमाणवो नित्याः प्राप्नुवन्ति । [३००।०२-३००।०३] परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति । [३००।०३-३००।०४] न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति । [३००।०४-३००।०५] सूत्रं चापविद्धं भवति "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती"ति विस्तरः । [३००।०५] अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् । [३००।०५-३००।०६] तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते । [३००।०६] यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति । [३००।०६-३००।०७] अथ न सन्ति । [३००।०७] असदप्यालम्बनमिति सिद्धम् । [३००।०७-३००।०८] यद्यसदप्यालम्बनं स्यात्त्रयोदशमप्यायतनं स्यात् । [३००।०८] अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् । [३००।०९] एतदेव नामलम्बनम् । एवं तर्हि नाम एव नास्तीति प्रतीयेत । [३००।०९-३००।१०] यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् । [३००।१०] शब्द एव । [३००।१०-३००।११] एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् । [३००।११] अनागतावस्य इति चेत् । [३००।११-३००।१२] सति कथं नास्तिबुद्धिः । [३००।१२] वर्तमानो नास्तीति चेत् । न । एकत्वात् । [३००।१२-३००।१३] यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः । [३००।१३] तस्मादुभयं विज्ञानस्यालम्बनं भावश्चाभावश्च । [३००।१४-३००।१५] यत्तर्हि बोधिसत्त्वेनोक्तम् "यत्तत्लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत" इति । [३००।१५-३००।१६] अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति । [३००।१६] अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः । [३००।१६-३००।१८] इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्को वा विशेषः । [३००।१८] इत्थं चैतदेवम् । [३००।१८-३००।१९] यदन्यत्र भगवतोक्तम् "एतत्भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति । [३००।१९-३००।२०] सायमवोदितः कल्पं विशेषाय परैष्यति । [३००।२०-३००।२१] सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत" इति । [३००।२१] तस्मादयमप्यहेतुः । सदालम्बनत्वाद्विज्ञानस्येति । [३००।२१-३००।२२] यदष्युक्तं फलादिति । [३००।२२] नैव हि सौत्रान्तिका अतीतात्कर्मणः फलोत्पत्ति वर्णयन्ति । [३००।२३] किं तर्हि । तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः । [३००।२४-३००।२५] यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् । [३००।२५] उत्पादने सामर्थ्यम् । उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् । [३०१।०१] अथ सर्वमेव चास्ति । कस्येदानीं क्व सामर्थ्यम् । [३०१।०१-३०१।०२] वार्षगण्यवादश्चैवं द्योतितो भवति । [३०१।०२] "यदस्त्यस्त्येव तत् । यन्नास्ति नास्त्येव तत् । असतो नास्ति संभवः । [३०१।०३] सतो नास्ति विनाश" इति । वर्तमानीकरणे तर्हि सामर्थ्यम् । [३०१।०३-३०१।०४] किमिदं वर्त्तमानीकरणं नाम । [३०१।०४] देशान्तराकर्षणं चेत् । नित्यं प्रसक्तम् । अरूपिणां च कथं तत् । [३०१।०४-३०१।०५] यच्च तदाकर्षणं तदभूत्वा भूतम् । [३०१।०५-३०१।०६] स्वभावविशेषणं चेत्सिद्धमभूत्वा भवनम् । [३०१।०६] तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति । [३०१।०६-३०१।०७] यदतीतानागतं द्रव्यतोऽस्तीति वदति । [३०१।०७] एवं तु साधुर्भवति । यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति । [३०१।०८] कथं च सूत्रे सर्वमस्तीत्युक्तम् । "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी"ति । [३०१।०९] अध्वत्रयं वा । [३०१।०९-३०१।१०] यथा तु तदस्ति तथोक्तमथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति । [३०१।१०-३०१।११] तज्जतद्धेत्वनुशयभावात्क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति । [३०१।११] अस्त्येव त्वतीतानागतमिति वैभाषिकाः । [३०१।११-३०१।१२] यत्र नेतुं शक्यते तत्रात्मकात्मनैवं वेदितव्यम् । [३०१।१३] गम्भीरा खलुधर्मता ॥ ५.२७ ॥ [३०१।१४] नावश्यं तर्ह्यसाध्या भवतीति । अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते । [३०१।१५] रूपमुत्पद्यते रूपं निरुध्यते । अस्ति पर्यायोऽन्यदुत्पद्यतेऽन्यन्निरुध्यते । [३०१।१५-३०१।१६] अनागतमुत्पद्यते वर्त्तमानं निरुध्यते । [३०१।१६] अध्वाऽप्युत्पद्यते । उत्पद्यमानस्याध्वसंगृहीतत्वात् । [३०१।१७] अध्वनोऽप्युत्पद्यते । अनेकक्षणिकत्वादनागतस्याध्वनः । [३०१।१७-३०१।१८] गतमेतत्यत्प्रसङ्गेनागतम् । [३०१।१९] इदानीमिदं विचार्यते । यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि । [३०१।१९-३०१।२०] यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति । [३०१।२०-३०१।२१] यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु । [३०१।२१] स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा [३०१।२२-३०१।२३] प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः । प्राक्प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥ [३०१।२४-३०२।०१] दुःखज्ञाने समुत्पन्ने समुदयज्ञानेऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति । [३०२।०१] तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः । [३०२।०२-३०२।०३] भावनाप्रहातव्येऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक्प्रहीणस्तस्मिन् प्रहीणेऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः । [३०२।०४-३०२।०५] कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते । [३०२।०५] तस्मात्पिण्डविभाषां कुर्वन्ति । [३०२।०५-३०२।०६] कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति । [३०२।०६-३०२।०७] समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च । [३०२।०७] चित्तान्यपि षोडश एतान्येव । [३०२।०७-३०२।०९] तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तोऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् । [३०२।०९] तत्र तावत् [३०२।१०-३०२।११] दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः । स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥ [३०२।१२] स्वकं च तत्त्रयं च स्वकत्रयम् । [३०२।१२-३०२।१३] एकं च तद्रूप्राप्तं च एकरूपाप्तम् । [३०२।१३] एषा विग्रहजातिः । [३०२।१३-३०२।१४] कामावचरास्तावद्दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् । [३०२।१४-३०२।१५] स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति । [३०२।१६] स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः । [३०२।१७] रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् । [३०२।१७-३०२।१८] स्वधातुकानां त्रयाणां तेषामेव । [३०२।१८] अधरधातुकानां त्रयाणां तेषामेव । [३०२।१८-३०२।१९] ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव । [३०२।१९] अनास्रवस्य चेति । [३०२।२०] आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः ॥ ५.३० ॥ [३०२।२१] आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् । [३०२।२१-३०२।२२] त्रैधातुकानां त्रिप्रकाराणां तेषामेव । [३०२।२२] अनास्रवस्य चेति । [३०२।२२-३०२।२३] उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः । [३०२।२४] निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः । [३०३।०१] निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव । [३०३।०१-३०३।०२] तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः । [३०३।०२] कथं कृत्वा । [३०३।०२-३०३।०३] कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् । [३०३।०३-३०३।०४] पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य । [३०३।०४] मार्गदर्शनहेया अप्येवम् । [३०३।०४-३०३।०५] पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य । [३०३।०५] एवं रूपारूप्यावचराणि । [३०३।०५-३०३।०७] निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति । [३०३।०७-३०३।०८] उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः । [३०३।०९] अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥ [३०३।१०] अनास्रवा धर्मा दशानां चित्तानामालम्बनम् । [३०३।१०-३०३।११] त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति । [३०३।११-३०३।१२] पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति । [३०३।१३-३०३।१५] "दुःखहेतुदृगभ्यासहेया धातुत्रयेऽमलाः पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः" । इति । [३०३।१६-३०३।१७] एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् । [३०३।१७] दिङमात्रं दर्शयिष्यामः । [३०३।१८-३०३।१९] सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् । [३०३।१९-३०३।२०] सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति । [३०३।२०-३०३।२१] तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति । [३०३।२१] कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् । [३०३।२२-३०३।२३] रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च । [३०३।२३] इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् । [३०३।२३-३०३।२५] तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् । [३०३।२५-३०३।२६] सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते । [३०३।२६-३०४।०१] तत्पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् । [३०४।०१-३०४।०२] तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य । [३०४।०२-३०४।०५] इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् । [३०४।०५] अनया वर्तन्याऽन्यदप्यनुगन्तव्यम् । [३०४।०५-३०४।०६] यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशयास्तस्मिश्चित्तेऽनुशेरते । [३०४।०६] स्युरनुशेरते । [३०४।०६-३०४।०७] येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणाम् । [३०४।०७] स्युर्नानुशेरते । [३०४।०७-३०४।०८] येऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च । [३०४।०८] तदेवं कृत्वा भवति । [३०४।०९] द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः । [३०४।१०-३०४।११] क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् । [३०४।११-३०४।१२] अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति । [३०४।१३] अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति । [३०४।१३-३०४।१४] आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति । [३०४।१४] दुःखमस्मै न रोचते यावत्मार्गस्ततः [३०४।१५] मोहाकाङ्क्षा [३०४।१६] मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते । दुःखं न्विदं नत्विदं दुःखमित्येवमादि । [३०४।१७] ततो मिथ्यादृष्टिः [३०४।१८] विचिकित्साया मिथ्यादृष्टिः प्रवर्तते । [३०४।१८-३०४।१९] संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः । [३०४।१९] नास्ति दुःखमित्येव्मादि । [३०४।२०] सत्कायदृक्ततः ॥ ५.३२ ॥ [३०४।२१] मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते । दुःखतः स्कन्धानपोह्यात्मतोऽभिनिवेशात् । [३०४।२२] ततोऽन्तग्रहणं [३०५।०१] सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते । आत्मनः शाश्वतोच्छेदान्तग्रहणात् । [३०५।०२] तस्माच्छ्हीलामर्शः [३०५।०३] अन्तग्रहाच्छीलव्रतपरामर्शः । [३०५।०३-३०५।०४] यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् । [३०५।०५] ततो दृशः । [३०५।०६] आमर्श इति वर्तते । शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते । [३०५।०६-३०५।०७] येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् । [३०५।०७] ततो । [३०५।०८] रागः स्वदृष्टौ मानश्च [३०५।०९] तस्यामभिष्वङ्गात्तया चोन्नतिगमनात् । [३०५।१०] द्वेषोऽन्यत्र [३०५।११] स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते । [३०५।११-३०५।१३] अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् । [३०५।१४] इत्यनुक्रमः ॥ ५.३३ ॥ [३०५।१५] एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः । [३०५।१६] उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते । [३०५।१७-३०५।१८] अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात् अयोनिशो मनस्कारात्क्लेशः [३०५।१९-३०५।२०] तद्यथा रागानुशयोऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते । [३०५।२०-३०५।२१] तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि । [३०५।२१] एवमन्योऽपि क्लेश उत्पद्यत इति वेदितव्यो यः [३०५।२२] संपूर्णकारणः ॥ ५.३४ ॥ [३०६।०१] कदाचित्किअल्विषयबलेनैवोत्पद्यन्ते । न हेतुबलेन । [३०६।०१-३०६।०२] यथा परिहाणधर्मकस्यार्हत इति । [३०६।०२-३०६।०३] एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवोऽविद्यास्रव इति । [३०६।०३-३०६।०४] चत्वार ओघाः कामौघो भवौघो दृष्ट्योभोऽविद्यौघश्च । [३०६।०४] चत्वारो योगा एत एव । [३०६।०४-३०६।०५] चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति । [३०६।०५] तत्र तावत् [३०६।०६] कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना । [३०६।०७] मोहेन [३०६।०८-३०६।०९] अविद्यां वर्जयित्वाऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि । [३०६।०९-३०६।१०] एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि । [३०६।११] अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥ [३०६।१२] विना मोहेनेति वर्तते । [३०६।१२-३०६।१३] रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि । [३०६।१३] रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा । [३०६।१४] आरूप्यावचराः षड्विंशतिः । ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च । [३०६।१५] प्रकरणेषु चोक्तं "भवास्रवः कतमः । [३०६।१५-३०६।१६] अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि । [३०६।१६] संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी"ति । [३०६।१६-३०६।१७] कस्मा दिह तस्याग्रहणम् । [३०६।१७] अस्वातन्त्र्यादिति काश्मीराः । [३०६।१८] किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः । [३०६।१९] अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः । [३०६।२०] अत एकीकृताः । [३०६।२१-३०६।२२] ते ह्यूभयेऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः । [३०६।२२-३०६।२३] येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् । [३०६।२३] तानि पञ्चदश द्रव्याणि । [३०६।२३-३०६।२४] किं कारणमसौ पृथग्व्यवस्थाप्यते । [३०६।२४] सर्वेषां हि तेषां [३०७।०१] मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥ [३०७।०२] यथा चैते आस्रवा उक्ता वेदितव्याः [३०७।०३] तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् । [३०७।०४] कामास्रव एव कामौघः कामयोगश्च । [३०७।०४-३०७।०५] एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः । [३०७।०५] ताः किल पटुत्वादोघयोगेषु पृथक्स्थापिताः । [३०७।०६] नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥ [३०७।०७] आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते । [३०७।०७-३०७।०८] न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् । [३०७।०८] अत आस्रवेषु न पृठक्स्थापिताः । [३०७।०८-३०७।०९] मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि । [३०७।०९-३०७।१०] रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति । [३०७।१०] भवौघोऽष्टाविंसतिद्रव्याणि । [३०७।१०-३०७।११] रागमाना विंशतिर्विचिकित्साऽष्टौ । [३०७।११] दृष्ट्योघः षट्त्रिंशद्द्रव्याणि । [३०७।११-३०७।१२] अविद्यौघः पञ्चदश द्रव्याणि । [३०७।१२] ओघवद्योगा वेदितव्याः । [३०७।१३] यथोक्ता एव साऽविद्या द्विधा दृष्टिविवेचनात् । [३०७।१४] उपादानानि [३०७।१५] कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि । [३०७।१५-३०७।१६] रागप्रतिघमानाऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि । [३०७।१६-३०७।१७] भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि । [३०७।१७] रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ । [३०७।१८] दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि । [३०७।१८-३०७।१९] शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् । [३०७।१९] मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च । [३०७।२०-३०७।२१] गृहिणोऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति । [३०७।२१-३०७।२२] किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् । [३०७।२२] भवग्रहणादुपादानानि । [३०७।२३] अविद्या तु ग्राहिका नेति मिश्रिता ॥ ५.३८ ॥ [३०८।०१] असंप्रख्यानलक्षणतयाऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता । [३०८।०१-३०८।०२] सूत्रे तु भगवतोक्तं "कामयोगः कतमः । [३०८।०२-३०८।०४] विस्तरेण यावद्योऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तं पर्यादाय तिष्ठति । [३०८।०४-३०८।०५] अयमुच्यते कामयोगः । [३०८।०५] एवं यावद्भवयोगः" । [३०८।०५-३०८।०६] च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति । [३०८।०७] उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति । [३०८।०८] अथ कोऽयमनुशयार्थः कश्च यावदुपादानार्थः । [३०८।०९-३०८।१०] अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते । अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥ [३०८।११] तत्राणवः सूक्ष्मप्रचारत्वात्दुर्विज्ञानतया । अनुगताः प्राप्त्यनुषङ्गतः । [३०८।११-३०८।१२] अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च । [३०८।१२-३०८।१३] अनुबध्नन्त्यप्रयोगेण प्रतिवारयतोऽपि पुनः पुनः संमुखीभावात् । [३०८।१३] एभिः कारणैरनुशया उच्यन्ते । [३०८।१४-३०८।१५] आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥ [३०८।१६] आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैरित्यास्रवाः । [३०८।१७] हरन्तीत्योघाः । श्लेषयन्तीति योगाः । उपगृह्णन्तीति उपदानानि । [३०८।१७-३०८।१८] एवं तु साधीयः स्याद् । [३०८।१८] आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः । [३०८।१८-३०८।१९] "तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते । [३०८।१९-३०८।२०] सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्याऽल्पकृच्छ्रेणानुस्रोत उह्यत"इति सूत्रवादानुसारात् । [३०८।२१] अधिमात्रवेगत्वादोघाः । तर्हि तद्वानुह्यते तदनुविधानात् । [३०८।२१-३०८।२२] नातिमात्रसमुदाचारिणोऽपि योगा विविधदुःखसंयोजनात् । [३०८।२२-३०८।२३] आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति । [३०८।२४] संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः । [३०९।०१-३०९।०२] त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः । [३०९।०२-३०९।०३] तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि । [३०९।०३] तत्रानुनयसंयोजनं त्रैधातुको रागः । [३०९।०३-३०९।०४] एवमन्यानि यथासंभवं योज्यानि । [३०९।०४] दृष्टिसंयोजनं तिस्रो दृष्टयः । परामर्शसंयोजनं द्वे दृष्टी । [३०९।०५-३०९।०६] अत एवोच्यते स्यात्द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत । [३०९।०६-३०९।०७] आह स्यात्समुदयज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु । [३०९।०८] तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः । [३०९।०९-३०९।१०] सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् । [३०९।१०] दृष्ट्यनुशयश्च तेष्वनुशेते । [३०९।१०-३०९।११] ते एव परामर्शडृष्टी संप्रयोगतः । [३०९।१२-३०९।१३] किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् । [३०९।१४] द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥ [३०९।१५] अष्टादश द्रव्याणि तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । [३०९।१५-३०९।१६] अतः किल द्रव्य सामान्यादेते संयोजनान्तरं कृते । [३०९।१६-३०९।१७] एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् । [३०९।१८-३०९।१९] अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत्पर्यवस्थानम् । [३०९।२०-३०९।२१] एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः । ईष्र्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥ [३०९।२२-३०९।२३] नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति । [३०९।२३] यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् । [३०९।२३-३०९।२४] यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ । [३०९।२४] तस्मान्न भवत्ययं परिहार इत्यपरे । [३०९।२४-३०९।२५] पुनरन्यत्र भगवता संयोजनमुक्तम् [३१०।०१] पञ्चधाऽवरभागीयं [३१०।०२] तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । [३१०।०३] कस्मादेतान्ववरभागीयान्युच्यन्ते । अवरभागहितत्वात् । [३१०।०३-३१०।०४] अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि । [३१०।०४] यस्मात् । [३१०।०५] द्वाभ्यां कामानतिक्रमः । [३१०।०६] त्रिभिस्तु पुनरावृत्तिः [३१०।०७] कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । [३१०।०७-३१०।०८] सत्कायदृष्ट्यादिभिरतिक्रान्तोऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् । [३१०।०८-३१०।०९] त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् । [३१०।०९-३१०।१०] अत एव तान्यवरभागीयानीत्यपरे । [३१०।१०-३१०।१२] यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात्षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च । [३१०।१२] सर्वमेतद्वक्तव्यं स्यात् । किं तूक्तं [३१०।१३] मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥ [३१०।१४] त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च । [३१०।१४-३१०।१५] तेषामेभिस्त्रिभिर्मुखं गृहीतमिति । [३१०।१५] अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता । [३१०।१५-३१०।१६] दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता । [३१०।१६] मूलं गृहीतमिति । [३१०।१७] अपरे पुनराहुः । [३१०।१८-३१०।१९] अगन्तुकामतामार्गविभ्रमो मार्गसंशयः । इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥ [३११।०१] त्रयोऽन्तराया देशान्तरगमने भवन्ति । [३११।०१-३११।०२] अगन्तुकामता मार्गविभ्रमोऽन्यमार्गसंश्रयणात्मार्गसंशयश्च । [३११।०२] एवं मोक्षगमनेऽप्येत एव त्रयोन्तरायाः । [३११।०२-३११।०३] तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति । [३११।०३-३११।०४] शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः । [३११।०४] विचिकित्सया मार्गसंशयः । [३११।०४-३११।०६] एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् । [३११।०६] यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् । एवं पुनः [३११।०७] पञ्चधैवोर्ध्वभागीयं [३११।०८] कथमित्याह [३११।०९] द्वौ रागौ रूप्यरूपिजौ [३११।१०] तौ [३११।११] औद्धत्यमानमोहाश्च [३११।१२] इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि । [३११।१२-३११।१३] तद्यथा रूपराग आरूप्यराग औद्धत्यं मानोऽविद्या च । [३११।१३] एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् । समाप्तः संयोजनप्रसङ्गः । [३११।१४] बन्धनानि कतमानि । त्रीणि बन्धनानि । [३११।१४-३११।१५] रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः । [३११।१५] कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता । [३११।१६] विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥ [३१२।०१] त्रिवेदनावशार्त्तीणि बन्धनानि । [३१२।०१-३१२।०२] सुखायां हि वेदनायां रागोऽनुशेते आलम्बनसंप्रयोगाभ्याम् । [३१२।०२] दुःखायां द्वेषः । अदुःखासुखायां मोहो न तथा रागद्वेषौ । [३१२।०२-३१२।०३] स्वासांतनिकालम्बनतो वा नियमः । [३१२।०३] अनुशयाः पूर्वमेवोक्ताः । [३१२।०४] उपक्लेशाः वक्तव्याः । तत्र ये यावत्क्लेशा उपक्लेशा अपि ते । [३१२।०४-३१२।०५] चित्तोपक्लेशनात् । [३१२।०६-३१२।०७] येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः । क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥ [३१२।०८-३१२।०९] येऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः । [३१२।०९-३१२।१०] इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः । [३१२।१०] कानि पुनः पर्यवस्थानानीत्याह । [३१२।१०-३१२।११] क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् । [३१२।११] प्रकरणशास्त्रे तु [३१२।१२-३१२।१३] आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः । कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥ [३१२।१४] वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ [३१२।१५] क्रोधभ्रक्षौ च [३१२।१६] तत्राह्लीक्यानपत्राप्ये व्याख्याते । परसंपत्तौ चेतसो व्यारोष ईर्ष्या । [३१२।१६-३१२।१७] धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् । [३१२।१७] औद्धत्यं चेतसोऽव्युपशमः । [३१२।१७-३१२।१८] कौकृत्यं स्त्यानं च व्याख्याते । [३१२।१८] कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् । [३१२।१८-३१२।१९] तत्तु क्लिष्टमेव पर्यवस्थानम् । [३१२।१९] कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः । [३१२।२०] अवद्यप्रच्छादनं भ्रक्षः । एषां च दशानां पर्यवस्थानानां [३१२।२१] रागोत्था आह्लीक्यौद्धत्यमत्सराः । [३१२।२२] एते त्रय उपक्लेशा रागनिःष्यन्दाः । [३१३।०१] भ्रक्षे विवादः [३१३।०२] तृष्णानिःष्यनद इत्येके । अविद्यानिःष्यन्द इत्यपरे । उभयोरित्यन्ये । [३१३।०२-३१३।०३] यथा क्रमं ज्ञाताज्ञातानामिति । [३१३।०४] अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥ [३१३।०५] एते त्रयोऽविद्यानिःष्यन्दाः । [३१३।०६-३१३।०७] कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये । [३१३।०८] प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः । [३१३।०९] अन्ये च षट्क्लेशमलाः [३१३।१०] तद्यथा [३१३।११] माया शाठ्यं मदस्तथा ॥ ५.४९ ॥ [३१३।१२] प्रदाश उपनाहश्च विहिंसा चेति [३१३।१३] तत्र परवञ्चना माया । [३१३।१३-३१३।१४] चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते । [३१३।१४] मदः पूर्वोक्तः । [३१३।१४-३१३।१५] सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति । [३१३।१५] आघातवस्तुवहुलीकार उपनाहः । [३१३।१६] विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते । [३१३।१६-३१३।१७] एषां पुनः षण्णां क्लेशमलानां [३१३।१८] रागजौ [३१३।१९] मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥ [३१४।०१] दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् । [३१४।०२] "किं कुटिलं पापिका दृष्टिरिति" गाथावचनाद्युज्यते । [३१४।०२-३१४।०३] शाठ्यं दृष्टिनिःष्यन्दः । [३१४।०४] क एषां किंप्रहातव्यः । यानि तावत्दश पर्यवस्थानान्युक्तानि [३१४।०५] तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा ॥ ५.५१ ॥ [३१४।०६] एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् । [३१४।०६-३१४।०७] यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः । [३१४।०८] तदन्ये भावनाहेयाः [३१४।०९] तेभ्योऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव । [३१४।०९-३१४।१०] इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च । [३१४।१०-३१४।११] स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् । [३१४।११] यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः [३१४।१२] स्वतन्त्राश्च तथा मलाः । [३१४।१३] षट्क्लेशमलास्तथैव । एते पुनर्यथोक्ता उपक्लेशाः [३१४।१४] कामेऽशुभाः [३१४।१५] कामधातावकुशलाः । तत्रापि [३१४।१६] त्रयो द्विधा [३१४।१७] स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि । [३१४।१८] परेणाव्याकृतास्ततः ॥ ५.५२ ॥ [३१४।१९] कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् । [३१५।०१] कति पुनरेषां कुतस्त्या वेदितव्याः । [३१५।०२] माया शाठ्यं च कामाद्यध्यानयोः [३१५।०३] एतौ द्वौ कामधातौ प्रथमे च ध्याने । कथं ब्रह्मलोके मायाः । [३१५।०४] ब्रह्मवञ्चनात् । [३१५।०५-३१५।०६] स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः । [३१५।०६] उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् । [३१५।०७] स्त्यानौद्धत्यमदा धातुत्रये [३१५।०८] एते त्रयस्त्रैधातुकाः । [३१५।०९] अन्ये कामधातुजाः ॥ ५.५३ ॥ [३१५।१०] षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव । [३१५।१०-३१५।११] उक्ता क्लेशाः उपक्लेशाश्च । [३१५।१२] अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः । संक्षेपतः [३१५।१३] समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः । [३१५।१४-३१५।१५] दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि । [३१५।१५] ते हि सकले मनोभूमिके । [३१५।१६] उपक्लेशाः स्वतन्त्राश्च [३१५।१७-३१५।१८] ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः । [३१५।१९] षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥ [३१५।२०] अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः । के पुनरन्ये । [३१६।०१] भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः । [३१६।०१-३१६।०२] आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि । [३१६।०२] ये च क्लेशमहाभूमिकेषूक्ताः । [३१६।०३-३१६।०४] यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः । [३१६।०५] सुखभ्यां संप्रयुक्तो हि रागः [३१६।०६] सुखसौमनस्याभ्यां रागः संप्रयुक्तः । [३१६।०७] द्वेषो विपर्ययात् । [३१६।०८] दुःखाभ्यामित्यर्थः । दुःखेन दौर्मनस्येन च । [३१६।०८-३१६।०९] हर्षदैन्याकारवर्तित्वात्षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः । [३१६।१०] मोहः सर्वैः [३१६।११] अविद्यायाः सर्वक्लेशसंप्रयोगित्वात्पञ्चभिरपीन्द्रियैः संप्रयोगः । [३१६।१२] असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥ [३१६।१३] मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च । [३१६।१३-३१६।१४] ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् । [३१६।१५] दौर्मनस्येन काङ्क्षा [३१६।१६] संशयितो हि निश्चयेनार्थी दुर्मनायते । [३१६।१७] अन्ये सौमनस्येन [३१६।१८] अन्येऽनुशयाः सौमनस्येनैव संप्रयुक्ताः । के पुनरन्ये । चतस्रो दृष्टनो मानश्च । [३१६।१९] हर्षाकारवर्तित्वात् । किंप्रतिसंयुक्ता इमेऽनुशया निर्दिष्टाः । आह । [३१६।२०] कामजाः । [३१७।०१] एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह [३१७।०२] सर्वेऽप्युपेक्षया [३१७।०३] सर्वेऽप्येतेऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः । [३१७।०३-३१७।०४] प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते । [३१७।०४] अधोभूमिकाः कथमित्याह [३१७।०५] स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥ [३१७।०६] स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते । यस्यां भूमौ यावन्तीन्द्रियाणि । [३१७।०७-३१७।०८] तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् । [३१७।०८] उक्तः क्लेशानामिन्द्रियसंप्रयोगः । [३१७।०९] उपक्लेशानां पुनः [३१७।१०] दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् । [३१७।११] उपनाहं प्रदाशश्च [३१७।१२] संप्रयुक्तानीति वर्तते । दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च । [३१७।१३] मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥ [३१७।१४] सौमनस्येनेत्यर्थः । लोभान्वयत्वेन हर्षाकारवर्तित्वात् । [३१७।१५] माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा [३१७।१६] सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । [३१७।१६-३१७।१७] कदाचिद्दुर्मनाः । [३१७।१७] एवं यावत्स्वपिति । [३१७।१८] मदः । [३१७।१९] सुखाभ्याम् [३१८।०१] तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया । यस्मात् [३१८।०२] सर्वगोपेक्षा [३१८।०३] अतस्तया सर्वेऽनुशयाः संप्रयुज्यन्ते । [३१८।०३-३१८।०४] न हि तस्याः क्वचित्प्रतिषेधो यथाऽविद्यायाः । [३१८।०५] चात्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥ [३१८।०६-३१८।०७] आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते । [३१८।०७] अकुशलमहाभूमिकत्वात्क्लेशमहाभूमिकत्वाच्च । [३१८।०८-३१८।०९] यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च । [३१८।०९-३१८।१०] तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते । [३१८।१०] अथ कामप्रतिसंयुक्ता एव । [३१८।१०-३१८।११] "केवलोऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी"त्येकान्ताकुशलत्ववचनात्सूत्रे । [३१८।१२] कामे निवरणानि [३१८।१३] नान्यत्र धातौ । [३१८।१३-३१८।१४] किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् । [३१८।१५] एकविपक्षाहारकृत्यतः । [३१८।१६] द्व्येकता [३१८।१७] द्वयोरेकता द्व्येकता । विपक्षः प्रतिपक्षोऽनाहार इत्येकोऽर्थः । [३१८।१७-३१८।१८] स्त्यानमिद्धयोरेक आहारः सूत्रेऽनाहारश्च । [३१८।१८] कः स्त्यानमिद्धनिवरणस्याहारः । पञ्च धर्माः । [३१८।१९] तन्द्रा अरतिर्विजृम्भिका भक्तेऽसमता चेतसो लीनत्वमिति । [३१८।१९-३१८।२०] अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति । [३१८।२०] कृत्यमनयोरप्येकम् । [३१८।२०-३१९।०१] उभे अपि ह्येते चित्तं लयं चोदयतः । [३१९।०१] औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः । [३१९।०२] कश्चौद्धत्यकौकृत्यनिवरणस्याहारः । चत्वारो धर्माः । [३१९।०२-३१९।०३] ज्ञातिवितर्को जनपदवितर्कोऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति । [३१९।०४] कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः । शमथ इति । कृत्यमप्यनयोरेकम् । [३१९।०४-३१९।०५] उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः । [३१९।०५-३१९।०६] अत एकविपक्षाहारकृत्यत्वात्द्वयोरप्येकत्वमुक्तम् । [३१९।०६] यदि सर्वक्लेशा निवरणं कस्मात्पञ्चैवोक्तानि । [३१९।०७] पञ्चता स्कन्धविधातविचिकित्सनात् ॥ ५.५९ ॥ [३१९।०८] कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः । [३१९।०८-३१९।१०] स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि । [३१९।१०-३१९।११] एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति । [३१९।११] अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे । [३१९।१२] समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् । धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति । [३१९।१३] अन्ये त्वन्यथा वर्णयन्ति । कथं वर्णयन्ति । [३१९।१३-३१९।१५] चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितोऽन्तरायं कुरुतः । [३१९।१५-३१९।१७] ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात्स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः । [३१९।१७] व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति । [३१९।१८] अतः पञ्च निवरणान्युक्तानि । [३१९।१९] इदं विचार्यते । [३१९।१९-३१९।२०] विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते । [३१९।२०-३१९।२१] यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् । [३१९।२१-३१९।२२] नावश्यमालम्बनपरिज्ञानात्क्लेशानां क्षयो भवति । [३१९।२२] किं तर्हि । चतुर्भिः प्रकारैः । कतमैश्चतुर्भिः । [३१९।२२-३१९।२३] दर्शनहेयानां तावत् [३१९।२४] आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् । [३१९।२५] आलम्बनग्रहाणाच्च [३१९।२६-३१९।२७] तत्रालम्बनपरिज्ञानाद्दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च । [३१९।२७] तदालम्बनसंक्षयाद्विसभागधातुसर्वत्रगाणाम् । [३१९।२७-३२०।०१] तदालम्बना हि सभागधातुसर्वत्रगाः । [३२०।०१] तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति । [३२०।०१-३२०।०२] आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् । [३२०।०२-३२०।०३] ते ह्यनास्रवालम्बनास्तेषामालम्बनम् । [३२०।०३] अतस्तेषु प्रहीणेषु तेऽपिप्रहीणा भवन्ति । भावनाहेयानां पुनः [३२०।०४] प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥ [३२०।०५] यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते । [३२०।०५-३२०।०६] कस्य पुनः कः प्रतिपक्षः । [३२०।०६] अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात्प्रवेदयिष्यामः । [३२०।०७] कतिविधश्च प्रतिपक्ष इत्याह [३२०।०८] प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः । [३२०।०९] प्रतिपक्षः [३२०।१०] प्रहाणप्रतिपक्षः आनन्तर्यमार्गः । [३२०।१०-३२०।११] आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते । [३२०।११-३२०।१२] दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् । [३२०।१२] विमुक्तिमार्गोऽपीत्यपरे । सोऽपि हि तां प्राप्ति दूरीकरोति । [३२०।१३] विदूषणाप्रतिपक्षो येन मार्गेण तं धातुं दोषतो दर्शनाद्विदूषयति । [३२०।१३-३२०।१४] अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् । [३२०।१४] विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः । [३२०।१५] प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः । आधारप्रतिपक्षो विमुक्तिमार्गः । [३२०।१५-३२०।१६] दूरीभावप्रतिपक्षो विशेषमार्ग इति । [३२०।१७] प्रहीयमाणः क्लेशः कुतः प्रहातव्यः । [३२०।१८] प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥ [३२०।१९] न हि संप्रयोगात्क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते । [३२०।१९-३२०।२०] यस्मान्न पुनस्तदालम्ब्योत्पद्यते । [३२०।२०-३२०।२१] अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् । [३२०।२१] अतीतस्तु कथम् । अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः । [३२१।०१] एषोऽपि नैकान्तः । तस्माद्वक्तव्यमेतत् । कियता क्लेशः प्रहीणो वक्तव्यः । [३२१।०१-३२१।०२] स्वासंतानिकः प्राप्तिच्छेदात् । [३२१।०२-३२१।०३] पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् । [३२१।०४] दूरीभाव इत्युच्यते । कतिविध्हो दूरीभावः । चतुर्विधा किल दूरता । [३२१।०५-३२१।०६] वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः । भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥ [३२१।०७] विलक्षणदूरता यथा महाभूतानाम् । वैलक्षण्यात्सहजानामपि दूरता । [३२१।०७-३२१।०८] विपक्षदूरता यथा शीलस्य दौःशील्यम् । [३२१।०८-३२१।०९] देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात्पूर्वपश्चिमसमुद्रवत् । [३२१।०९] कालदूरता यथा अतीतानागतदूरमुच्यते । दुतस्तद्दूरम् । [३२१।१०] वर्तमानात् । यदनन्तरातमुत्पद्यमानं वा तत्कथं दूरम् । [३२१।१०-३२१।११] अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन । [३२१।११] वर्तमानमप्येवं दूरं प्राप्नोति । अकारित्रा त्तर्हि तद्दूरम् । [३२१।१२] असंस्कृतस्य कथमन्तिकत्वं सिध्यति । सर्वत्र तत्प्राप्तेः । [३२१।१२-३२१।१३] अतीतानागतेऽपि तत्प्रसङ्गः । [३२१।१३] आकाशं च कथम् । [३२१।१३-३२१।१४] एवं तर्ह्यतीतानागतमन्योऽन्यं वर्त्तमानव्यवहितत्वाद्दूरम् । [३२१।१४] वर्त्तमानमुभयो रासन्नत्वादन्तिकम् । [३२१।१४-३२१।१५] असंस्कृतं चाप्यव्यवहितत्वादिति । [३२१।१५] एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति । [३२१।१५-३२१।१६] एवं तु युक्तं स्यात् । [३२१।१६] धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् । अतीतं च प्रच्युतत्वादिति । [३२१।१७] किं मार्गविशेषगमनात्क्लेशानां पुनः प्रहाणविशेषो भवति । नैतदस्ति । [३२१।१८] सर्वेषां हि क्लेशानां [३२१।१९] सकृत्क्षयः [३२१।२०] यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः । [३२१।२१] विसंयोगलाभस्तेषां पुनः पुनः । [३२२।०१] कतिषु कालेष्वित्याह षट्सु कालेषु । [३२२।०२] प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥ [३२२।०३] प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः । फलानि चत्वारि श्रामण्यफलानि । [३२२।०४] इन्द्रियविवृद्धिरिन्द्रियसंचारः । एतेषु कालेषु क्लेशस्य विसंयोगलाभः । [३२२।०४-३२२।०५] स पुनरेष यथायोगं द्रष्टव्यः । [३२२।०५] केषाञ्चित्षट्सु कालेषु केषाञ्चिद्यावद्द्वयोः । [३२२।०६] स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते । [३२२।०६-३२२।०७] द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च । [३२२।०७] तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् । [३२२।०७-३२२।०८] प्रहाणपरिज्ञा तु प्रहाणमेव । [३२२।०८] फले हेतूपचारात् । किमेकैव परिज्ञा सर्वप्रहाणम् । नेत्याह । किं तर्हि । [३२२।०९] परिज्ञा नव [३२२।१०] तत्र तावत् [३२२।११] कामाद्यप्रकारद्वयसंक्षयः । [३२२।१२] एका [३२२।१३-३२२।१४] कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा । [३२२।१५] द्वयोः क्षये द्वे ते [३२२।१६] कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा । [३२२।१६-३२२।१७] मार्गदर्शनहेयस्यैका । [३२२।१७] यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः [३२२।१८] तथोर्ध्वं निस्र एव ताः ॥ ५.६४ ॥ [३२२।१९] रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति । [३२२।१९-३२२।२१] दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट्परिज्ञा भवन्ति । [३२३।०१] अन्या अवरभागीयरूपसर्वास्रवक्षयाः । [३२३।०२] तिस्रः परिज्ञाः [३२३।०३] अवरभागीयप्रहाणमेका परिज्ञा । रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा । [३२३।०४] आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा । [३२३।०४-३२३।०५] कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक्परिज्ञा न दर्शनहेयानाम् । [३२३।०५-३२३।०६] भावनाहेयानामतुल्यप्रतिपक्षत्वात् । [३२३।०६] इत्येता नव परिज्ञाः । आसां पूर्विकाः [३२३।०७] षट्क्षान्तिफलं [३२३।०८] या एव दर्शनहेयप्रहाणस्वभावाः । [३२३।०९] ज्ञानस्य शेषिताः ॥ ५.६५ ॥ [३२३।१०] अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् । [३२३।११] कथं क्षान्तिफलं परिज्ञा भवन्ति । क्षान्तीनां ज्ञानपरिवारत्वात् । [३२३।११-३२३।१२] राजपरिवारे राजोपचारवत् । [३२३।१२] ज्ञानैकफलत्वाच्च । [३२३।१३] अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा । [३२३।१४] अष्टौ [३२३।१५-३२३।१६] वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः । [३२३।१६] कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात्भदन्तघोषकस्य मतेनाष्टौ । [३२३।१७] स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति । [३२३।१८] अनास्रवविसंयोगप्राप्तिलाभात् । अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव । [३२३।१९] ध्यानान्तरं ध्यानवद्द्रष्टव्यम् । आरुप्याणां तु [३२३।२०] सामन्तकस्यैका [३२३।२१] आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् । [३२४।०१] मौलारूप्यत्रयस्य च ॥ ५.६६ ॥ [३२४।०२] मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् । [३२४।०३] आर्यमार्गस्य सर्वाः [३२४।०४] नव परिज्ञाः फलम् । [३२४।०५] द्वे लौकिकस्य [३२४।०६] लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् । [३२४।०७] अन्वयस्य च । [३२४।०८] अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे । [३२४।०९] धर्मज्ञानस्य तिस्रस्तु [३२४।१०] पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् । [३२४।११] षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥ [३२४।१२] धर्मज्ञानपक्षस्य षट्परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् । [३२४।१२-३२४।१३] अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् । [३२४।१३] पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते । [३२४।१४] कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते । [३२४।१४-३२४।१५] यस्मात्क्षान्तिफलं तावत्प्रहाणं व्यवस्थाप्यते । [३२४।१६] अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः । [३२४।१७] हेतुद्वयसमुद्घातात्परिज्ञा [३२४।१८] यत्रैतानि त्रीणि कारणानि भवन्ति तत्प्रहाणं परिज्ञोच्यते । [३२४।१८-३२५।०१] पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते । [३२५।०१] आर्यस्यापि यत्क्षान्तिफलं तावत्प्रहाणम् । [३२५।०१-३२५।०२] तत्र यावत्दुःखेऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् । [३२५।०२-३२५।०३] दुःखेऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः । [३२५।०३-३२५।०४] समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् । [३२५।०४] अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति । [३२५।०४-३२५।०५] अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते । [३२५।०५] ज्ञानफलं तु प्रहाणम् । अतश्च कारणत्रयात्परिज्ञाख्यां लभते । [३२५।०६] चतुर्थाच्च [३२५।०७] धात्वतिक्रमात् ॥ ५.६८ ॥ [३२५।०८] यदा धातुं समतिक्रामति । [३२५।०८-३२५।०९] कृत्स्नधातुवेराग्यातुभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे । [३२५।०९-३२५।१०] यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति । [३२५।१०-३२५।११] स तु नास्य उभयहेतुसमुद्घातात्धातुसमतिक्रमाच्चेति न ब्रूमः । [३२५।१२] कः कतिभिः परिज्ञाभिः समन्वागतः । [३२५।१३] नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः । [३२५।१४] पृथग्जनस्तावन्नैव समन्वागतः । [३२५।१४-३२५।१५] आर्योऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः । [३२५।१५] समुदये धर्मज्ञान एकया समन्वागतः । [३२५।१५-३२५।१६] समुदयेऽन्वयज्ञाने द्वाभ्याम् । [३२५।१६-३२५।१७] निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः । [३२५।१८] भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा ॥ ५.६९ ॥ [३२५।१९-३२५।२०] भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत्कामवैराग्यं न प्राप्तः । [३२५।२०-३२५।२१] परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद्वा एकयाऽवरभागीयप्रहाणपरिज्ञया । [३२५।२१-३२५।२२] अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया । [३२५।२२-३२५।२३] परिहीणोऽपि रूपावचरेण पर्यवस्थानेनैकयाऽवरभागीयप्रहाणपरिज्ञया । [३२५।२३-३२५।२४] रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् । [३२५।२४] प्रहीणोऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव । [३२५।२४-३२५।२५] किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः । [३२५।२५-३२५।०१] यस्मात् [३२६।०१] तासां संकलनं धातुवैराग्यफललाभतः । [३२६।०२-३२६।०३] द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात्फलप्राप्तितश्च । [३२६।०३] तयोश्चावस्थयोरेतदुभयं भवति । [३२६।०३-३२६।०४] अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते । [३२६।०५] अथ कः कति परिज्ञास्त्यजति लभते वा । [३२६।०६] एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥ [३२६।०७] एकां त्यजति अर्हत्त्वात्कामवैराग्याद्वा परिहीयमाणः । [३२६।०७-३२६।०८] द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात्परिहीयमाणः । [३२६।०८-३२६।०९] पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने । [३२६।०९-३२६।१०] स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति । [३२६।१०] षट्परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् । लाभेऽप्येवमेव । [३२६।१०-३२६।११] कश्चिदेकां परिज्ञां लभते । [३२६।११] यः कश्चिदपूर्वा लभते । [३२६।११-३२६।१२] कश्चिद्द्वे यः केवलादारूप्यधातुवैराग्यात्परिहीयते । [३२६।१२] कश्चित्षट्योऽनागामिफलात्परिहीयते । [३२६।१२-३२६।१३] पञ्च तु नै कश्चिल्लभते । [३२६।१४] समाप्तः परिज्ञाप्रसङ्गः ॥ ===================================================================== [३२६।१५-३२६।१६] अभिधर्मकोशभाष्येऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्त्मिति ॥ [३२६।१७] श्रीलामावाकस्य यदत्र पुण्यम् । षष्ठं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [३२७।०३] उक्तं यथा प्रहाणं परिज्ञाख्यां लभते । तदपि च [३२७।०४] क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् । [३२७।०५] दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् । [३२७।०५-३२७।०६] ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् । [३२७।०६] अत इदमुच्यते [३२७।०७] द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः ॥ ६.१ ॥ [३२७।०८] द्विधो भवनामार्गो लौकिकोक्लोकोत्तरश्च । [३२७।०८-३२७।०९] दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् । [३२७।०९] नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च । [३२७।०९-३२७।१०] न हि लौकिकस्य एषा शक्तिरस्ति । [३२७।११] सत्यदर्शनादित्युक्तम् । कानीमानि सत्यानि कति च । [३२७।१२] सत्यान्युक्तानि चत्वारि [३२७।१३] ववोक्तानि । सास्रवानास्रवधर्मनिर्देशे । [३२७।१३-३२७।१५] "अनास्रवा मार्गसत्यमि"ति स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोग" इति निरोधसत्यं "दुःखं समुदयो लोक" इत्यत्र दुःखसमुदयसत्ये । [३२७।१५] किमेष एवैषामनुक्रमः । नेत्याह । किं तर्हि । [३२७।१६] दुःखं समुदयस्तथा । [३२७।१७] निरोधमार्ग इति [३२७।१८] एष एषामनुक्रमः । स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः । [३२७।१८-३२७।१९] स पुनरयम् [३२७।२०] एषां यथाऽभिसमयं क्रमः ॥ ६.२ ॥ [३२८।०१] यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः । [३२८।०१-३२८।०२] इतरथा हि पूर्वं हेतुनिर्देशोऽभविष्यत्पश्चात्फलनिर्देशः । [३२८।०२] केषाञ्चिदुत्पत्त्यनुकूला देशनाः । [३२८।०३] यथा स्मृत्युपस्थानध्यानादीनाम् । [३२८।०३-३२८।०४] देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक्प्रहाणानाम् । [३२८।०४] न ह्येष नियमो यत्पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति । [३२८।०४-३२८।०५] पश्चादनुत्पन्नानामनुत्पादायेति । [३२८।०५] सत्यानां त्वभिसमयानुकूला देशना । [३२८।०५-३२८।०६] किं पुनः कारणमेवमेषां सत्यानामभिसमयः । [३२८।०६-३२८।०७] यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते । [३२८।०७-३२८।०८] पश्चात्कोऽस्य हेतुरिति समुदयसत्यं कोऽस्य निरोध इति निरोधसत्यं कोऽस्य मार्ग इति मार्गसत्यम् । [३२८।०८-३२८।०९] व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् । [३२८।०९] सूत्रेऽप्येष एव सत्यानां दृष्टान्तो दर्शितः । [३२८।१०] कतमस्मिन् सूत्रे । "चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते"त्यत्र । [३२८।१०-३२८।११] यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः । [३२८।११-३२८।१२] पूर्ववेधात् । [३२८।१२] दृष्टभूमिनिःसंगाश्वधावनवत् । अभिसमय इति कोऽर्थः । [३२८।१२-३२८।१३] अभिसंबोध इणो बोधनार्थत्वात् । [३२८।१३] करमादनास्रव एव न सास्रवः । स हि निर्वाणाभिमुखः सम्यक्बोधः । [३२८।१४] सम्यगिति तत्त्वेन । तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् । [३२८।१५] हेतुभूताः समुदयसत्यम् । समुदेत्यस्मादिति कृत्वा । [३२८।१५-३२८।१६] अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः । [३२८।१६] निरोधमार्गयोस्तु द्रव्यतोऽपि । [३२८।१६-३२८।१७] आर्यसत्यानीति सूत्र उच्यन्ते । [३२८।१७] कोऽस्यार्थः । [३२८।१७-३२८।१८] आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् । [३२८।१८] किमन्येषामेतानि मृषा । सर्वेषामेतानि सत्यान्यविपरीतत्वात् । [३२८।१८-३२८।१९] आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः । [३२८।१९-३२८।२०] अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् । [३२८।२१-३२८।२२] "यदार्याः सुखतः प्राहुस्तत्परे दुःखतो बिदुः । यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः ॥" [३२८।२३] इति गाथा । द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे । [३२८।२३-३२८।२४] यथा वेदनैकदेशो दुःखस्वभावः । [३२८।२४] कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते । [३२८।२५-३२८।२६] दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः । मनाषा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥ [३२९।०१] तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च । [३२९।०१-३२९।०२] ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः । [३२९।०२] तत्र मनाषा विपरिणामदुःखतया । [३२९।०३] अमनाषा दुःखदुःखतया । तेभ्योऽन्ये संस्कारदुःखतया । [३२९।०३-३२९।०४] के पुनर्मनापाः केऽमनाषाः के क्नोभयथा । [३२९।०४-३२९।०५] तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयोऽपि संस्कारा मनापादिसंज्ञां लभन्ते । [३२९।०५-३२९।०६] सुखाया हि वेदनाया विपरिणामेन दुःखता । [३२९।०६-३२९।०७] सूत्र उक्तं "सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्"ति । [३२९।०७] दुःखायाः दुःखस्वभावेनैव दुःखता । [३२९।०७-३२९।०८] "दुःखा वेदना उत्पाददुःखा स्थितिदुःखा" इति सूत्रे । [३२९।०८] अदुःखासुखावेदनायाः संस्कारेणैव दुःखता । [३२९।०९] "प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि"ति । [३२९।०९-३२९।१०] वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते । [३२९।१०] दुःखमेव दुःखता दुःखदुःखता । एवं यावत्संस्कारा एव दुःखतेत्यपरे । [३२९।११] असाधारणत्वात्मनाषाऽमनापानां विपरिणामदुःखदुःखते उक्ते । [३२९।११-३२९।१२] सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः । [३२९।१२] तांस्त्वार्या एव पश्यन्ति ॥ आह चात्र । [३२९।१३-३२९।१६] "ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च । करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि"ति ॥ [३२९।१७-३२९।१८] न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति । [३२९।१८] एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः । [३२९।१९] संस्कृतत्वात् । प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् । [३२९।१९-३२९।२०] न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् । [३२९।२०-३२९।२१] यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य । [३२९।२१-३२९।२२] यदापि दुःखमप्यत्रास्ति तस्मात्दुःखमेवार्यसत्यमुच्यते । [३२९।२२-३२९।२३] सुखस्याल्पत्वात्मूद्गादिभावेऽपि माषराश्यपदेशवदित्येके । [३२९।२३-३२९।२४] को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् । [३२९।२४] आह खल्वपि [३२९।२५-३२९।२६] "दुःखस्य च हेतुत्वात्दुःखैश्चानल्पकैः समुदितत्वात् । दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति" इति ॥ [३३०।०१] सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति । संस्कारदुःखतैकरसत्वात् । [३३०।०१-३३०।०२] अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् । [३३०।०२-३३०।०३] कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति । [३३०।०३] अनित्यतया प्रतिकूलत्वात् । यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति । [३३०।०४] न चतान्येवं दुःखानि यथा दुःखवेदनेति । यस्तु मन्यते दुःखहेतुत्वादिति । [३३०।०५] तस्यासौ समुदयाकारः स्यान्न दुःखकारः । [३३०।०५-३३०।०६] आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत । [३३०।०६-३३०।०७] न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति । [३३०।०७] संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् । [३३०।०७-३३०।०८] यदि तर्ह्यनित्यत्वात्दुःखतःपश्यन्ति । [३३०।०८] अनित्यदुःखाकारयोः कः प्रतिविशेषः । [३३०।०८-३३०।०९] उदयव्ययधर्मित्वादनित्यं पश्यन्ति । [३३०।०९] प्रतिकूलत्वात्दुःखम् । [३३०।०९-३३०।१०] अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति । [३३०।१०-३३०।११] नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा । [३३०।११] कथमिदं गम्यते । सूत्राद्युक्तितश्च । कथं तावत्सूत्रात् । [३३०।११-३३०।१२] उक्तं हि भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति । [३३०।१२-३३०।१३] "दुःखा वेदना दुःखतो द्रष्टव्ये"ति । [३३०।१३] "दुःखे सुखमिति संज्ञाविपर्यास" इति । एवं तावत्सूत्रात् । कथं युक्तितः । [३३०।१४] सुखहेत्वव्यवस्थानात् । [३३०।१४-३३०।१५] य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते । [३३०।१५-३३०।१७] न च युक्ता सुखहेतुबृद्धच्या समेन वाऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य । [३३०।१७] अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति । [३३०।१७-३३०।१८] एवमीर्यापथविकल्पेऽपि वक्तव्यम् । [३३०।१८] दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च । [३३०।१८-३३०।२०] न हि तावत्सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण । [३३०।२०-३३०।२१] तस्मात्प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः । [३३०।२२] तस्मान्नास्त्येव सुखमिति । अस्त्येवेत्याभिवार्मिकाः । एष एव चन्यायः । [३३०।२२-३३०।२३] कथं कृत्वा । [३३०।२३] इदं हि तावदयं प्रष्टव्यः सुखापवादी । किमिदं दुःखं नाम । [३३०।२३-३३०।२४] यद्वाधनात्मकं चेत् । [३३०।२४] कथमिति वक्तव्यम् । उपघातकं चेत् । अनुग्राहकं सुखमिति सिद्धम् । [३३०।२४-३३०।२५] अनभिप्रेतं चेत् । [३३०।२५] अभिप्रेतं सुखमिति सिद्धम् । [३३०।२५-३३०।२६] तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले । [३३०।२६] तस्मादनिष्पनमभिप्रेतत्वं चेत् । न । अन्यथाऽनभिप्रेतत्वात् । [३३०।२७] या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति । [३३०।२७-३३१।०२] तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति । [३३१।०२] न तु खलु स्वलक्षणाकारेण । [३३१।०३-३३१।०४] यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः । [३३१।०४] तस्मादस्त्येव स्वलक्षणतः सुख वेदना ॥ [३३१।०५-३३१।०७] यत्तु भगवतोक्तं "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति तद्भगवतैव नीतार्थं "संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति । [३३१।०७-३३१।०८] अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति । [३३१।०८-३३१।०९] यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् । [३३१।०९] तिस्र इमे वेदना उक्ता भगवता सुखा दुःखाऽदुःखासुखा च । [३३१।१०] उक्तं चेदं भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति । [३३१।१०-३३१।११] किं नु संधाय भगवता भाषितं यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति । [३३१।११-३३१।१२] एवं हि सोऽप्रक्ष्यत्किं नु संधाय भाषितं तिस्रो वेदना इति । [३३१।१२] भगवानष्येव व्याकरिष्यत् । [३३१।१२-३३१।१३] इदं मया संधाय भाषितं तिस्रो वेदना इति । [३३१।१३] न त्वेवमाह । तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः । [३३१।१४-३३१।१५] इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति । [३३१।१५] यदष्युक्तं "सुखा वेदना दुःखेति द्रष्टव्ये"ति । उभयं तस्यामस्ति । [३३१।१५-३३१।१६] सुखत्वं च स्वभावतोमनापत्वाद्दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् । [३३१।१६-३३१।१७] सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् । [३३१।१७-३३१।१८] दुःखतो दृश्यमाना मोक्षाय कल्पते । [३३१।१८] तद्वैराग्यादिति । [३३१।१८-३३१।१९] यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः । [३३१।१९] कथमिदं गम्यते स्वभावतः सा सुखेति । य दाह [३३१।२०-३३१।२१] "संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् । वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति" ॥ [३३१।२२] यदपि चोक्तं "दुःखे सुखमिति संज्ञाविपर्यास" इति । आभिप्रायिक एष निर्देशः । [३३१।२३] लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च । [३३१।२३-३३१।२४] तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः । [३३१।२४] एवमुपपत्तिम् । [३३१।२५] तस्मान्नातः सुखवेदनाऽभावसिद्धिः । [३३१।२५-३३१।२६] यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत्तिस्रो वेदना इति वचने कोगुणोऽभविष्यत् । [३३१।२६-३३२।०१] लोकानुवृत्त्येति चेत्न । [३३२।०१-३३२।०२] सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात्यथाभूतवचनाच्च । [३३२।०२-३३२।०४] "यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये" ति विस्तरेणोक्त्वा "येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक्प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती" त्येवमादि । [३३२।०४-३३२।०५] लोकोऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् । [३३२।०५] मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् । न । [३३२।०६] सुखस्यापि त्रिविधत्वात्मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् । [३३२।०६-३३२।०८] यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत्दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति । [३३२।०८-३३२।०९] अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् । [३३२।०९] अशेषदुःखापगमात् । एवं कामसुखसंमुखीभावेऽपि वक्तव्यम् । [३३२।१०-३३२।११] कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रोऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति । [३३२।११] त्रिषु च ध्यानेषु सुखवचनात्मृदु दुःखं स्यात् । [३३२।११-३३२।१२] ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् । [३३२।१२-३३२।१४] उक्तं च भगवता "रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि"त्येवमादि । [३३२।१४] तस्मादप्यस्ति किञ्चित्सुखम् । [३३२।१४-३३२।१५] एवं तावन्न सूत्रात्सुखवेदनाऽभावः सिध्यति । [३३२।१५] यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् । हेत्वपरिज्ञानादिदमुच्यते । [३३२।१६] आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा । न केवलो विषयः । [३३२।१७-३३२।१८] स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः । [३३२।१८-३३२।२०] तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः । [३३२।२०-३३२।२१] ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः । [३३२।२१-३३२।२२] यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः । [३३२।२२-३३२।२३] यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् । [३३२।२३-३३२।२४] ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि । [३३२।२४-३३२।२५] भावसंचारेऽपि चावस्थान्तरजं सुखमेवोत्पद्यते । [३३२।२५] यावदसौ तादृशी कायावस्थाऽन्तर्घीयते । [३३२।२५-३३२।२६] अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् । [३३२।२६] एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् । [३३२।२७] "अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित" इति [३३३।०१] चेत् । कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् । [३३३।०१-३३३।०२] तस्मादस्त्येव सुखा वेदनेति सिद्धम् । [३३३।०२] त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति । [३३३।०२-३३३।०३] यत्तु समुदयसत्यं तदेवोच्यते । [३३३।०३] इदमुत्सूत्रं सूत्रे हि तृष्णैवोक्ता । प्रधान्यादसौ सूत्र उक्ता । [३३३।०३-३३३।०४] अन्येऽपि तु समुदयः । [३३३।०४] कथमिदं प्रत्येतव्यम् । अन्यत्रान्यस्यापि वचनात् । उक्तं हि भगवता । [३३३।०५] "कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय" इति । [३३३।०६] पुनश्चोक्तं "पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् । [३३३।०७] पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि"ति । [३३३।०७-३३३।०८] तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे । [३३३।०८-३३३।०९] अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता । [३३३।०९-३३३।१०] उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता । [३३३।१०-३३३।११] "कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय" इति सूत्रे वचनात् । [३३३।११-३३३।१२] सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽष्युक्ताः । [३३३।१२] का पुनरुषपत्तिः का चाभिनिर्वृत्तिः । [३३३।१२-३३३।१३] धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः । [३३३।१३] अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः । [३३३।१४] तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः । [३३३।१४-३३३।१५] तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः । [३३३।१५] आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः । [३३३।१६] तृष्णाऽभिनिर्वृत्तिहेतुरिति काऽत्र युक्तिः । वीततृष्णस्य जन्माभावात् । [३३३।१६-३३३।१७] उभयेऽपि ब्रियन्ते । [३३३।१७] सतृष्णा वीततृष्णाश्च । सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति । [३३३।१८] विना तृष्णया जन्माभावात् । भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः । [३३३।१८-३३३।१९] संततिनमनाच्च । [३३३।१९] यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः । [३३३।१९-३३३।२०] तस्मात्पुनर्भवेऽष्येवमिति व्यवस्यामः । [३३३।२०-३३३।२१] न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया । [३३३।२१] शुष्कमसूरोपस्नानलेपाङ्गवत् । [३३३।२१-३३३।२२] न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः । [३३३।२३] चत्वार्यपि सत्यान्युक्तानि भगवता । [३३३।२३-३३३।२४] द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च । [३३३।२४] तयोः किं लक्षणम् । [३३४।०१-३३४।०२] यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् । घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥ [३३४।०३] यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत्संवृतिसत् । तद्यथा घटः । [३३४।०४] तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति । [३३४।०४-३३४।०५] तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् । [३३४।०५] तद्यथाम्बु । [३३४।०५-३३४।०६] तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति । [३३४।०६-३३४।०७] तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात्घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् । [३३४।०७-३३४।०८] अतोन्यथा परमार्थ सत्यम् । [३३४।०८] तत्र भिन्नेऽपोइ तद्बुधिर्भवत्येव । [३३४।०८-३३४।०९] अन्यधर्मापोहेऽपि बुद्धच्या तत्परमार्थसत् । [३३४।०९] तद्यथा रूपम् । [३३४।०९-३३४।१०] तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव । [३३४।१०] एवं वेदनादयोऽपि द्रष्टव्याः । [३३४।१०-३३४।११] एतत्परमार्थेन भावात्परमार्थसत्यमिति । [३३४।११-३३४।१२] यथा लोकोत्तरेन ज्ञानेन गृह्यते तत्पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् । [३३४।१२-३३४।१३] यथान्येन तथा संवृतिसत्यमिति पूर्वाचार्याः । [३३४।१३] उक्तानि सत्यानि । [३३४।१४] कथं पुनस्तेषां दर्शनं भवति । वक्तव्यम् । अत आदिप्राथानमारभ्योच्यते । [३३४।१५] वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते । [३३४।१६] सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति । [३३४।१६-३३४।१७] ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि । [३३४।१७-३३४।१८] श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते । [३३४।१८] समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते । [३३४।१८-३३४।१९] चिन्तामयीं निश्रित्य भावनामयी जायते । [३३४।२०] किं पुनरासां प्रज्ञानां लक्षणम् । [३३४।२१] नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥ [३३४।२२] नामालम्बना किल श्रुतमयी प्रज्ञा । नामार्थालम्बना चिन्तामयी । [३३४।२२-३३४।२३] कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् । [३३४।२३] अर्थलम्वनैव भावनामयी । [३३४।२४] सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते । [३३४।२४-३३५।०१] तद्यथाऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति । [३३५।०१] कियच्छिक्षितः कदाचित्मुञ्चेत्कदाचिदालम्वते । [३३५।०१-३३५।०२] सुशिक्षिता प्लवन्निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः । [३३५।०२-३३५।०३] अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे । [३३५।०३-३३५।०४] याहि नामालम्बना श्रुतमयी प्राप्नोति याऽर्थालम्बना भावनामयीति । [३३५।०४-३३५।०५] इदं तु लक्षणं नानिरवद्यं विद्यते । [३३५।०५] आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी । युक्तिनिध्यानजश्चिन्तामयी । [३३५।०६] समाधिज्जो भावनामयीति । हेतौ मयट्विधानात् । [३३५।०६-३३५।०७] यद्यथाऽन्नमयाः प्राणाः तृणमय्यो गायः इति । [३३५।०८] तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह । [३३५।०९] व्यपकर्षद्वयवतः [३३५।१०] यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति । संसर्गाकुशलवितर्कदूरीकरणात् । [३३५।११] तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति । योऽल्पेच्छः संतुष्टश्च । [३३५।१२] नासंतुष्टमहेच्छयोः । [३३५।१३] का पुनरियमसंतुष्टिः । का च महेच्छता । [३३५।१४] लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छाता ॥ ६.६ ॥ [३३५।१५] लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामतऽसंतुष्टिः । [३३५।१५-३३५।१६] अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः । [३३५।१६-३३५।१७] ननु च साऽतिभूयस्कामताऽलब्ध एव न लब्धे भवतीति कोऽनयोर्विशेष इति वक्तव्यमेतद् । [३३५।१७] एवं तु युज्यते । [३३५।१७-३३५।१८] लब्धेनाप्रणीतेनाप्रभूतेन परितापोऽसंतुष्टिः । [३३५।१८] अलब्धप्रणीतप्रभूतेच्छा महेच्छता । [३३५।१९] विपर्यासात्तद्विपक्षौ [३३५।२०] असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ । [३३५।२०-३३५।२१] संतुष्टिश्चाल्पेच्छता चेति । [३३६।०१] त्रिधात्वाप्तामलौ च तौ । [३३६।०२] तद्विपक्षाविति वर्तते । त्रिधातुकौ च पोरतिसंयुक्तौ च । सास्रवानास्रवत्वात् । [३३६।०३] असंतुष्टिमहेच्छते च कामावचर्यावेव । [३३६।०४] कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह । [३३६।०५] अलोभः [३३६।०६] अलोभस्वभावे ह्येते । [३३६।०७] आर्यवंशाश्च [३३६।०८] अलोभ इति वर्तते । आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः । [३३६।०८-३३६।०९] तेऽप्यलोभस्वभावाः । [३३६।१०] तेषां तुष्टच्यात्मकास्त्रयः ॥ ६.७ ॥ [३३६।११] ज्संतुष्टिस्वभावाः । चीवरपिण्डपातशयनासनसंतुष्टयः । [३३६।११-३३६।१२] प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः । [३३६।१२] भवकामरागवैमुख्यात् । [३३६।१३] अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता । [३३६।१४] कर्मान्तेन त्रिभिर्वृत्तिः [३३६।१५-३३६।१६] धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च । [३३६।१६] त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म । [३३६।१७] अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति । [३३६।१७-३३६।१८] कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् । [३३६।१९] तृष्णोत्पादविपक्षतः । [३३६।२०] चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः । [३३६।२०-३३६।२१] "चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमानाऽभिनिविशते । [३३६।२१-३३६।२२] पिण्डपातहेतोः शय्यासनहेतोरिति । [३३६।२२] भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत" इति विस्तरः । [३३७।०१] एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः । [३३७।०२] ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥ [३३७।०३] स एवार्थः पुनः परिशेषेणोच्यते । [३३७।०३-३३७।०४] ममकारवस्तु चीवरादयोऽहं कारवस्त्वात्मभावः । [३३७।०४] तत्रेच्छा तृष्णा । [३३७।०४-३३७।०५] तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति । [३३७।०५] उभयेच्छात्यन्तशान्तये चतुर्थ इति । [३३७।०५-३३७।०६] उक्तामिदं यथा भूतस्य भावना संपद्यते । [३३७।०७] तस्य त्वेवं पात्रोभूतस्य कथं तस्यां भावनायामवतारो भवति । [३३७।०८] तत्रावतारोऽशुभया चानापानस्मृतेन च । [३३७।०९] स्मृतिरेव स्मृतम् । केषां पुनरशुभया केषामानापानस्मृत्या । यथाक्रमम् [३३७।१०] अधिरागवितर्काणाम् [३३७।११] अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः । [३३७।११-३३७।१२] यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया । [३३७।१२] यो हि वितर्कचरितस्तस्यानापानस्मृत्येति । [३३७।१२-३३७।१३] अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके । [३३७।१३-३३७।१४] अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति । [३३७।१४] अवहिमुखत्वादित्यपरे । [३३७।१४-३३७।१५] अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी । [३३७।१५] तद्विषयोपनिध्यानात् । [३३७।१५-३३७।१६] तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च । [३३७।१६-३३७।१७] प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति । [३३७।१७-३३७।१९] द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् । [३३७।१९] अभदेन तु शस्यते [३३७।२०] शङ्कला सर्वरागिणाम् ॥ ६.९ ॥ [३३८।०१-३३८।०२] अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणं विष्कम्भणं तु । [३३८।०२-३३८।०३] स पुनरयमशुभां भावयन् योगाचारस्त्रिविध उच्यते । [३३८।०३] आदिकार्मिकः कृतपरिजयोऽतिक्रान्तमनस्कारश्च । तत्र [३३८।०४] आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।(६-१० ब्) [३३८।०५] अशुभां भावयितुकाम आदितो योगाचारः । [३३८।०५-३३८।०६] स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः । [३३८।०६-३३८।०७] स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति । [३३८।०७-३३८।०९] तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्तां पृथिवीमस्थिसंकलां पूर्णामधिमुच्यतेऽधिमोक्षाभिवर्धनार्थम् । [३३८।०९-३३८।१०] पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् । [३३८।१०] इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति । [३३८।१०-३३८।११] अयमादिकर्मिको योगाचारः । [३३८।१२] पादास्थ्न आकपालार्थत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥ [३३८।१३-३३८।१४] स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति । [३३८।१४-३३८।१५] एवं क्रमेण यावत्कपालस्यार्धं हित्वाऽर्धं मनसि करोति क्षयकृतपरिजयः । [३३८।१६] अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् ।(६-११ ब्) [३३८।१७] सोऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति । [३३८।१७-३३८।१८] अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः । [३३८।१८-३३८।१९] अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् । [३३८।१९-३३८।२०] जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् । [३३८।२१] अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते । [३३८।२२] यथाक्रमम् । [३३८।२३] अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा ॥ ६.११ ॥ [३३८।२४-३३८।२६] अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने । [३३८।२५-३३८।२६] अथ एवार्थालम्वनेति सिद्धम् । [३३८।२६] मनुष्येष्वेवोत्पद्यते । नान्यस्यां गतौ । कुत एव धातौ । [३३९।०१] तत्रापि नोत्तरकुरौ । नाम्नैव सिद्धमशुभाकारेति । यदध्विका तदध्वालम्बना । [३३९।०२] अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना । अधिमुक्तिमनस्कारत्वात्सास्रवा । [३३९।०२-३३९।०३] वैराग्यलाभिकी च प्रायोगिकी च । [३३९।०३] उचितानुचितत्वात् । [३३९।०३-३३९।०४] उक्तमशुभायाः सप्रभेदं लक्षणम् । [३३९।०५] आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा । [३३९।०६] कामाश्रया [३३९।०७] आननमान आश्वासो यो वायुः प्रविशति । [३३९।०७-३३९।०८] अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति । [३३९।०८] तयोः स्मृतिरानापानस्मृतिः । सैव प्रज्ञास्वभावा । [३३९।०८-३३९।०९] स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् । [३३९।०९-३३९।१०] पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् । [३३९।१०-३३९।११] वितर्कानुगुणत्वात्किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः । [३३९।११-३३९।१२] सुखसौमनस्ययोश्चावधानपरिपन्थित्वात्तस्याश्चावधाने साध्यत्वादिति । [३३९।१२-३३९।१३] ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका । [३३९।१३] परेणाश्वासप्रश्वासानमभूमित्वात् । [३३९।१३-३३९।१४] वाय्वालम्बना चैषा कामधात्वाश्रया । [३३९।१४] देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च । [३३९।१४-३३९।१५] तत्वमनस्कारश्चैषा । [३३९।१५] इदं धर्माणामेव । [३३९।१६] न बाह्यानाम् [३३९।१७] उपदेशाभावात् । स्वयं च सूक्ष्मधर्मानभिसंबोधात् । सा चेयं [३३९।१८] षड्विधा गणनादिभिः ॥ ६.१२ ॥ [३३९।१९] षट्कारणयुक्ता चैषा परिपूर्णा भवति । [३३९।१९-३३९।२०] गणनयाऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च । [३३९।२०-३३९।२२] तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वाऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश । [३३९।२२] चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा । [३३९।२२-३३९।२३] तस्यां तु त्रयो दोषाः । [३३९।२३] ऊनगणना यदि द्वावेकं गृह्लाति । [३३९।२३-३३९।२४] अधिकगणना यद्येकं द्वाविति । [३३९।२४] संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा । [३३९।२४-३४०।०१] अतोऽन्यथा सम्यग्गणना । [३४०।०१] अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते । [३४०।०२] अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति । [३४०।०२-३४०।०३] कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति । [३४०।०४] तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्४ण यावत्पादावनुगच्छति । [३४०।०५] निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे । [३४०।०६] तदेतत्तत्वमनसिकारत्वान्न युक्तम् । [३४०।०६-३४०।०७] स्थापना नाम नासिकाग्रे यावत्पादन्ङ्गुष्ठे स्थितां पश्यति । [३४०।०७] मणिसूत्रवत् । [३४०।०७-३४०।०८] किमनुग्राहका एते उपधातकाः शीता उष्णा इति । [३४०।०८] उपलक्षणा नाम नैते केवला वायव एव । [३४०।०८-३४०।१०] चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति । [३४०।१०-३४०।११] विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु । [३४०।११] परिशुद्धिर्दर्शनमार्गादिष्ववतारः । [३४०।१२] स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे । क्षयज्ञानादिशुद्धिरिति । [३४०।१३-३४०।१४] "गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता" इति संग्रहश्लोकाः । [३४०।१५] तत्र पुनर्वेदितव्यौ [३४०।१६] आनापातौ यतः कायः । [३४०।१७] यद्भूमिको हि कायः तद्भूमिकावेतै । कायैकदेशत्वात् । [३४०।१७-३४०।१८] कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते । [३४०।१८-३४०।१९] आरुप्यकललादिगतानामभावातचित्तचतुर्थध्यानसमापन्नानां च । [३४०।१९-३४०।२०] यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते । [३४०।२०-३४०।२१] जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति । [३४०।२१-३४०।२२] एतौ चानापानौ । [३४०।२३] सत्त्वाख्यौ [३४०।२४] नासत्त्वसंख्यातौ । [३४०।२५] अनुपात्तकौ । [३४१।०१] इन्द्रियविनिर्भागित्वात् । [३४१।०२] नैःष्यन्दिकौ [३४१।०३] नौपचयिकविपाकजौ । कायोपचयनानुपचयात्छ्हिन्नानां पुनः प्रतिसंधानाच्च । [३४१।०४] नह्येतद्विपाकरूपस्यास्ति । [३४१।०५] नाधरेण लक्षयेते मनसा च तौ ॥ ६.१३ ॥ [३४१।०६] स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् । नावरेणेर्यापथिक नैर्माणिकेन । [३४१।०७] उक्ते द्वे अवतारमुखे । ताभ्यां तु समाधिलब्धा [३४१।०८] निष्पन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् । [३४१।०९] विपश्यनायाः संपादनार्थम् । कथं च पुनः कुर्यात् । [३४१।१०] कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥ [३४१।११] कायं स्वसामान्यलक्षणाभ्यां परीक्षते । वेदनां चित्तं धर्माश्च । [३४१।११-३४१।१२] स्वभाव एवैषां स्वलक्षणम् । [३४१।१२-३४१।१३] सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यताऽनात्मते सर्वधर्माणाम् । [३४१।१३] कायस्य पुनः कः स्वभावः । भूतभौतिकत्वम् । [३४१।१४] धर्मास्त्रिभ्योऽन्ये । [३४१।१४-३४१।१५] सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति । [३४१।१६] अथ स्मृत्युपस्थानानां कः स्वभावः । [३४१।१६-३४१।१७] विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् । [३४१।१७] तत्र स्वभावस्मृत्युपस्थानम् । [३४१।१८] प्रज्ञा [३४१।१९] कीदृशी प्रज्ञा । [३४१।२०] श्रुतादिमयी [३४२।०१] श्रुतमयी चिन्तामयी भावनामयी च । [३४२।०१-३४२।०२] त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि । [३४२।०३] अन्ये संसर्गालम्बनाः [३४२।०४] अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् । [३४२।०४-३४२।०५] तदालम्बना आलम्बनस्मृत्युपस्थानम् । [३४२।०५] स्वभावस्मृत्युपस्थानं प्रज्ञेति । कुत एव तत् । [३४२।०५-३४२।०६] "कामे कायानुपश्यना स्मृत्युपस्थान"मिति वचनात् । [३४२।०६] का पुनरनुपश्यना । प्रज्ञा । [३४२।०६-३४२।०७] तया हि तद्वाननुपश्यः क्रियते । [३४२।०७-३४२।०८] यतश्चोक्त "मध्यात्मं काये कायानुपश्यी विहरती"ति । [३४२।०८] अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी । कायेऽनुपश्यी कायानुपश्यी । [३४२।०९] कस्मात्प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता । स्मृत्युद्रेकत्वादिति वैभाषिकाः । [३४२।१०] स्मृतिवलाधानवृत्तित्वादिति योऽर्थः । दारूपाटन कीलसंधारणवत् । [३४२।१०-३४२।११] एवं तु युज्यते । [३४२।११] स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् । [३४२।१२-३४२।१३] तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन "तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत" इति विस्तरः । [३४२।१३-३४२।१४] भगावताऽपि चोक्तं "तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे"ति । [३४२।१४-३४२।१५] यत्र तूक्तं "कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च । [३४२।१५-३४२।१७] आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम"इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् । [३४२।१७] स्मृतिरत्रोपतिष्ठत इति कृत्वा । [३४२।१७-३४२।१८] यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात्प्रत्येकमेषां त्रैविध्यम् । [३४२।१९] क्रमः । [३४२।२०] यथोत्पत्ति [३४२।२१] कस्मात्पुनरेवमुत्पत्तिः । औदारिकस्य पूर्वं दर्शनात् । [३४२।२२-३४२।२३] यतो वा कामरागस्य कायोऽधष्ठानं स च वेदनाऽभिलाषात्स च चित्तस्यादान्तत्वात्तत्क्लेशाप्रहाणादिति वैभाषिकाः । [३४२।२४] चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥ [३४३।०१-३४३।०३] शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा । [३४३।०३] यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् । [३४३।०३-३४३।०४] अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् । [३४३।०४-३४३।०५] एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य [३४३।०६-३४३।०७] स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः । आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥ [३४३।०८-३४३।०९] संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति । [३४३।०९] अनित्यतो दुःखतः शून्यतोऽनात्मतश्च । [३४३।१०] ततूष्मगतोत्पत्तिः [३४३।११-३४३।१२] तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात्क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते । [३४३।१२] ऊष्मगतमिवोष्मगतम् । क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् । [३४३।१३] तच्चतुःसत्यगोचरम् । [३४३।१४] तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् । [३४३।१५] षोडशाकारम् [३४३।१६-३४३।१७] दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतोऽनात्मतश्च । [३४३।१७] समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च । [३४३।१७-३४३।१८] निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च । [३४३।१८-३४३।१९] मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च । [३४३।१९] एषां तु विशेषणं पश्चाद्वक्षयामः । [३४३।२०] ऊष्मभ्यो मूर्धानः [३४३।२१] तेऽपि तादृशाः ॥ ६.१७ ॥ [३४४।०१] यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च । [३४४।०१-३४४।०२] उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात्मूर्धानः । [३४४।०२] एभ्यो हि पातोऽतिक्रमो वा । [३४४।०३] उभयाकरणं धर्मेण [३४४।०४] एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् । [३४४।०४-३४४।०५] किमिदमाकरणम् । [३४४।०५] सत्येष्वकाराणां प्रथमतोविन्यसनम् । [३४४।०६] अन्यैरपि तु वर्धनम् । [३४४।०७] चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् । [३४४।०७-३४४।०८] विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबोऽवहुमानत्वात् । [३४४।०८] मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते [३४४।०९] तेभ्यः क्षान्तिः [३४४।१०] अधिमात्रस्य क्षमणादपरिहाणितः । साऽपि त्रिप्रकारा मृद्वी मध्याऽधिमात्रा च । [३४४।११] द्विधा तद्वत् [३४४।१२] यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् । [३४४।१२-३४४।१३] विवर्धने त्वयं विशेषः । [३४४।१३] सर्वस्याः [३४४।१४] क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥ [३४४।१५] स्मृत्युपस्थानेनैव नान्येन । [३४४।१६] कामाप्तदुःखविषया त्वधिमात्रा [३४४।१७] क्षान्तिरिति वर्त्तते । अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव । [३४४।१८] अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् । [३४४।१८-३४४।२०] यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत्कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति । [३४५।०१] क्षणं च सा । [३४५।०२] क्षणिका चासौ न प्राकर्षिकी । [३४५।०३] तथाग्रधर्माः [३४५।०४] यथैवाधिमात्रा क्षान्तिः । [३४५।०४-३४५।०५] तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैतेऽग्राश्च धर्माः । [३४५।०५] सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः । [३४५।०५-३४५।०६] विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् । [३४५।०६-३४५।०७] त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात्प्रज्ञात्मका उच्यन्ते । [३४५।०८] सर्वे तु पञ्चस्कन्धाः [३४५।०९] सपरिवारग्रहणात् । [३४५।१०] विनाप्तिभिः ॥ ६.१९ ॥ [३४५।११] प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते । [३४५।११-३४५।१२] मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति । [३४५।१२-३४५।१३] तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते । [३४५।१४] निरोधसत्यालम्बने तदेवोभयथा । सर्वत्राकाराः सभागाः । [३४५।१४-३४५।१५] विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि । [३४५।१५-३४५।१६] तत्रैव निरोधालम्बनेऽन्त्यमनागतानिचत्वारि आकाराः सर्वे । [३४५।१६] लब्धत्वाद्गोत्राणाम् । [३४५।१६-३४५।१७] मूर्धाकरणे चतुःसत्यालम्बनेऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे । [३४५।१७-३४५।१८] त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे । [३४५।१८] क्षान्तीनां सर्वत्र चान्त्यम् । [३४५।१९] अनागतानि चत्वारि आकाराः सर्वे । [३४५।१९-३४५।२०] अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव । [३४५।२०] अन्याभावाद्दर्शनमार्गसादृश्याच्च । [३४५।२१] इति निर्वेधभागीयं चतुर्धा [३४६।०१-३४६।०२] इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयोऽग्रधर्माश्च । [३४६।०२-३४६।०३] एषां द्वे मृदूनी चलत्वात्परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् । [३४६।०३] निर्वेधभागीयानीति कोऽर्थः । विध विभागे । [३४६।०३-३४६।०५] निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात्सत्यानां च विभजनादिदं दुःखमयं यावत्मार्ग इति । [३४६।०५] तस्य भागो दर्शनमार्गैकदेशः । [३४६।०५-३४६।०६] तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि । [३४६।०६] तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम् [३४६।०७] भावनामयम् । [३४६।०८] न श्रुतचिन्तामयम् । [३४६।०९] अनागम्यान्तरध्यानभूमिकम् [३४६।१०] अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् । [३४६।११] नोर्ध्व दर्शनमार्गपरिवारत्वात् । तदभावः कामधात्वालम्बनत्वात् । [३४६।११-३४६।१२] तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् । [३४६।१२] तेषां रूपधातौ पञ्चस्कन्धको विपाकः । [३४६।१२-३४६।१३] पूरिपूरकाण्येवनाक्षेपकाणि । [३४६।१३] भवद्वेषित्वात् । [३४६।१४] द्वे त्वधोऽपि वा ॥ ६.२० ॥ [३४६।१५] वाशब्दो मतविकल्पार्थः । [३४६।१५-३४६।१६] भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः । [३४६।१७] सर्वाण्यपि त्वेतानि चत्वारि [३४६।१८] कामाश्रयाणि [३४६।१९] त्रीणि मनुष्येष्वेवोत्पद्यन्ते । त्रिषु द्वीपेषु । उत्पादितपूर्वाणां तु देवेषु संमुखीभावः । [३४६।२०] चतुर्थं देवेष्वपि । त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते । [३४६।२१] अग्रधर्मान् द्वच्याश्रयान् लभतेऽङ्गना । [३४७।०१] अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते । पुरुषः पुरुषाश्रयानेव । [३४७।०१-३४७।०२] स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् । [३४७।०२] कथं निर्वेधभागीयानां त्यागः । [३४७।०३] भूमित्यागात्त्यजत्यार्यस्तानि [३४७।०४-३४७।०५] यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् । [३४७।०६] अनार्यस्तु मृत्युना ॥ ६.२१ ॥ [३४७।०७] पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे । [३४७।०८] आद्ये द्वेपरिहाण्या च [३४७।०९] त्यजति मृत्युना च पृथग्जन एव । आर्यस्य तु नास्ति ताभ्यां परिहाणिः । [३४७।०९-३४७।१०] क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः । [३४७।११] मौलेस्तत्रैव सत्यदृक् । [३४७।१२-३४७।१३] यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति । [३४७।१३] तीव्रसंवेगत्वात् । [३४७।१४] अपूर्वाप्तिर्विहीनेषु [३४७।१५] यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि । [३४७।१६] प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । [३४७।१६-३४७।१७] सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव । [३४७।१८] एते पुनर्विहीनिपरिहाणी किंस्वभावे । [३४७।१९] हानी द्वे असमन्वितिः ॥ ६.२२ ॥ [३४७।२०] उभे अप्येते असमन्वागमस्वभावे । [३४७।२२] परिहाणिस्तु दोषकृता नावश्यं विहानिः । [३४७।२३] गुणविशेषकृता च सा । परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति । [३४७।२४] मोक्षभागीयात्को विशेषः । सत्यदर्शनासन्नतरत्वमसत्यन्तराये । [३४८।०१] मूर्धलाभी न मूलच्छित् [३४८।०२-३४८।०३] परिहीणोऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति । [३४८।०३] अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् । [३४८।०४] क्षान्तिलाभ्यनपायगः । [३४८।०५-३४८।०६] विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् । [३४८।०६-३४८।०७] क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते । [३४८।०७-३४८।०९] अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च । [३४८।०९] तां तु यथायोगं मृद्वधिमात्रायां च । मृद्वच्यामपायगतीनाम् । [३४८।१०] अधिमात्रायामितरेषाम् । निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र [३४८।११] शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात् [३४८।१२] ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः । [३४८।१३] क्षान्तौ तु लब्धायां नास्त्येव संभवः । किं कारणम् । [३४८।१३-३४८।१४] अपायानां किल व्यावृत्तत्वात् । [३४८।१४] बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति । [३४८।१४-३४८।१५] तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः । [३४८।१६] त्रीण्यपीतरः ॥ ६.२३ ॥ [३४८।१७] विवर्त्य स्यादिति वर्तते । [३४८।१७-३४८।१८] त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात्प्रत्येकबुद्ध इत्यर्थः । [३४८।१८-३४८।१९] प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि । [३४८।२०] आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः । [३४८।२१] शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः । [३४८।२१-३४८।२२] तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते । [३४९।०१] क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः । [३४९।०१-३४९।०२] अशुभामारभ्य यावद्वोधिरित्यपरे । [३४९।०२] येषां तु खड्गादन्योऽपि प्रत्येकबुद्धोऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः । [३४९।०३] किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् । [३४९।०३-३४९।०४] नैतदस्ति अवश्यं हि [३४९।०५] प्राक्तेभ्यो मोक्षभागीयं [३४९।०६] उत्पादयितव्यम् । सर्वस्वल्पं हि [३४९।०७] क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥ [३४९।०८] एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् । द्वितीये निर्वेधभागीयानि । [३४९।०९] तृतीये आर्यमार्गम् । बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् । [३४९।०९-३४९।१०] क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति । [३४९।१०-३४९।११] तच्च पुनर्मोक्षभागीयं वर्णयन्ति । [३४९।१२] श्रुतचिन्तामयं [३४९।१३] न भावनामयम् । कति कर्माणि । [३४९।१४] त्रीणि कर्माणि [३४९।१५] प्राधान्येन तु मनस्कर्म्म । [३४९।१५-३४९।१६] तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति । [३४९।१६-३४९।१७] कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति । [३४९।१७] तत्त्वेतत् । [३४९।१८] आक्षिप्यते नृषु । [३४९।१९] मनुष्येष्वेव त्रिषु द्वीपेषु । नान्यत्र । प्रज्ञानिर्वेदयोरभावाद्यथायोगम् । [३४९।१९-३४९।२०] उक्तं प्रसङ्गेन मोक्षभागीयम् । [३४९।२१] अभिसमयक्रमस्तु वक्तुमारब्धः । तत्र च यावदग्रधर्मा उक्ताः । [३४९।२१-३४९।२२] शेषं वक्तव्यम् । [३४९।२२] अत इदमुच्यते । [३५०।०१] लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥ [३५०।०२] लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते । कस्मिन्नालम्बने । [३५०।०३] कामदुःखे । [३५०।०४] कामावचरदुःखमस्या आलम्बनम् । सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते । [३५०।०४-३५०।०५] अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् । [३५०।०५] कर्मज्ञानार्थं क्षान्तिः । पुष्पफलवृक्षवत् । [३५०।०५-३५०।०६] सैव च नियामावक्रान्तिरित्युच्यते । [३५०।०६] सम्यक्त्वनियामावक्रमणात् । [३५०।०६-३५०।०७] सम्यक्त्वं निर्वाणमुक्तं सूत्रे । [३५०।०७] तत्र नियमो नियाम एकान्तीभावः । तस्याभिगमनमवक्रमणम् । [३५०।०८] तस्यां चोत्पन्नायामार्यपुद्गल उच्यते । अनागतया पृथग्जनत्वं व्यावर्त्यते । [३५०।०८-३५०।०९] एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् । [३५०।०९-३५०।१०] प्रदीपजातिवत् । [३५०।१०] लौकिकाग्रधर्मैरित्यपरे । न तद्धर्मत्वात्तद्विरोधित्वाददोषः । [३५०।११] शत्रुस्कन्धारुढतद्घातनवत् । उभयैरित्यपरे । आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति । [३५०।१२] ततोऽत्रैव धर्मज्ञानं [३५०।१३] ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते । [३५०।१४] तत्दुःखे धर्मज्ञानमित्युच्यते । अनास्रवाधिकारः सर्वत्र वेदितव्यः । [३५०।१४-३५०।१५] यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते [३५०।१६] तथा पुनः । [३५०।१७] शेषे दुःखेऽन्वयक्षान्तिज्ञाने [३५०।१८] दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते । [३५०।१९] सा दुःखेऽन्वयज्ञानक्षान्तिरित्युच्यते । ततोऽन्वयज्ञानमुत्पद्यते । [३५०।१९-३५०।२०] तत्दुःखेऽन्वय ज्ञानमित्युच्यते । [३५०।२०] प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् । [३५०।२०-३५०।२१] तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् । [३५०।२१] तथैवानुगमनात् । [३५०।२१-३५०।२२] यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते [३५१।०१] सत्यत्रये तथा ॥ ६.२६ ॥ [३५१।०२] दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते । [३५१।०२-३५१।०३] ततः समुदये धर्मज्ञानम् । [३५१।०२-३५१।०६] एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदयेऽन्वयज्ञानक्षान्तिः समुदयेऽन्वयज्ञानं कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधेऽन्वयज्ञानक्षान्तिर्निरोधेऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गेऽन्वयज्ञानक्षान्तिर्मार्गेऽन्वयज्ञानम् । [३५१।०७] इति षोडशचित्तोऽयं सत्याभिसमयः [३५१।०८] इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति । [३५१।०८-३५१।०९] ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति । [३५१।०९] अभिप्राय एष द्रष्टव्यः । [३५१।०९-३५१।१०] अभेदेन ह्यभिसमय उच्यते सत्येषु [३५१।११] त्रिधा । [३५१।१२] दर्शनालम्बकार्याख्यः [३५१।१३] दर्शनाभिसमयोऽनास्रवया प्रज्ञया सत्यानाम् । [३५१।१३-३५१।१४] आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि । [३५१।१४] कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः । [३५१।१४-३५१।१५] दुःखे हि दृश्यमाने तस्य त्रिविधोऽभिसमयः समुदयादीनां कार्याभिसमयः । [३५१।१५-३५१।१६] प्रहाणसाक्षात्करणभावनात् । [३५१।१६] तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् । [३५१।१७] अयुक्तं ब्रूयादाकारभेदात् । अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् । [३५१।१८] न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् । एवं च सूत्रविरोधः । [३५१।१८-३५१।२१] "इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत्मार्ग वा मार्गतो मनसि कुर्वतोऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय" इति । [३५१।२१] भावनामार्ग एवमिति चेत् । न । यथादर्शनं भावनात् । [३५२।०१] अथाप्येकस्य दर्शनाच्छेषेषु व४ त्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् । [३५२।०१-३५२।०२] अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् । [३५२।०२-३५२।०३] अथ पुनर्ब्रूयात्दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति । [३५२।०३-३५२।०४] अत इकाभिसमय इति । [३५२।०४] एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् । [३५२।०४-३५२।०५] दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते । [३५२।०५-३५२।०७] "नहैव गृहपते सत्यानामेकाभिसमयोऽपि पूर्वाभिसयय" इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि । [३५२।०७-३५२।०८] "यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धेऽपि स" इति सूत्रादेकाभिसमय इति चेत् । [३५२।०८] न । असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् । [३५२।०८-३५२।०९] य एषौक्तः षोढशचित्तकोऽभिसमयः [३५२।१०] सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥ [३५२।११] यद्भूमिकोऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि । [३५२।११-३५२।१२] त पुनः षड्भूमिका इत्युक्तं प्राक् । [३५२।१२] कस्मात्पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति । यस्मात् [३५२।१३] क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् । [३५२।१४] अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् । [३५२।१४-३५२।१५] विमुक्तिमार्गास्तु ज्ञानानि । [३५२।१५-३५२।१६] क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् । [३५२।१६] अत उभयैरवश्यं भवितव्यम् । [३५२।१६-३५२।१७] द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् । [३५२।१७-३५२।१८] यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् । [३५२।१८] प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् । [३५२।१८-३५२।१९] क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् । [३५२।१९] न । [३५२।२०] क्षान्तीनां ज्ञानपरिवारत्वात् । राजपरिवारकृतस्य राजकृतव्यपदेशवत् । [३५२।२१] किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः । नेत्याह । किं तर्हि । [३५२।२२] अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥ [३५३।०१-३५३।०२] दुःखधर्मज्ञानक्षान्तिमारभ्य यावत्मार्गेऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः । [३५३।०२] कि कारणम् । अदृष्टसत्यदर्शनात् । [३५३।०२-३५३।०३] षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति । [३५३।०३] यथाद्रष्टाभ्यसनाद्भावनामार्ग एव । [३५३।०३-३५३।०४] ननु च तेनाष्यदृष्टं पश्यति मार्गेऽन्वयज्ञानक्षान्तिम् । [३५३।०४] सत्यं प्रति चिन्ता न क्षणम् । [३५३।०४-३५३।०५] न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति । [३५३।०५] यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति । [३५३।०५-३५३।०७] फलत्वादष्टज्ञानषोडशाकारभावनात्पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः । [३५३।०७-३५३।०८] अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् । [३५३।०८] अत एव दर्शनमार्ग इति चेत् । न । अतिप्रसङ्गात् । [३५३।०८-३५३।०९] सप्त ज्ञानानि कस्माद्दर्शनमार्गः । [३५३।०९] दर्शनस्यासमाप्तत्वात् । [३५३।०९-३५३।१०] न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः । [३५३।१०-३५३।११] उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते । [३५३।१२] यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः । [३५३।१२-३५३।१३] य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ [३५३।१४] मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ । [३५३।१५] मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते । तीक्ष्णेन्द्रियो धर्मानुसारीति । [३५३।१६] श्रद्धयानुसारः श्रद्धानुसारः । सोऽस्यास्तीति श्रद्धानुसारी । [३५३।१६-३५३।१७] श्रद्धयानुसर्तुं शीलमस्येति वा । [३५३।१७] पूर्वं परसंप्रत्ययेनार्थानुसरणात् । एवं धर्मानुसारी । [३५३।१७-३५३।१८] पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् । [३५३।१८] तौ पुनः [३५३।१९] अहीनभावनाहेयौ फलाद्यप्रतिपन्नकौ ॥ ६.२९ ॥ [३५३।२०] फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् । [३५३।२०-३५३।२२] तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते । [३५३।२३] यावत्पञ्चप्रकारघ्नौ [३५३।२४-३५३।२५] यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत्पञ्च प्रकाराः प्रहीणा भवन्ति । [३५३।२५] तथैव प्रथमफलप्रतीपन्नकावुच्येते । [३५४।०१] द्वितीयेऽर्वाङ्नवक्षयात् । [३५४।०२] द्वीतीयनिमित्तं द्वितीये । [३५४।०२-३५४।०३] यदि तयोस्तस्मात्परेण षट्सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति । [३५४।०३] द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते । कतमच्च द्वितीयम् । [३५४।०४] सकृदागामिफलम् । [३५४।०५] कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥ [३५४।०६-३५४।०७] यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात्कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात्तौ तृतीय प्रतीपन्नकावुच्येते । [३५४।०७] कतमच्च तृतीयम् । [३५४।०८] अनागामिफलम् । [३५४।०९] षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः । [३५४।१०] षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते । [३५४।१०-३५४।११] नापि प्रतिपन्नकौ । [३५४।११] किं तर्हि । फलस्थो । [३५४।११-३५४।१२] यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति । [३५४।१२] स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा । [३५४।१३] अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् । दर्शनमार्गेण भावनाहेयानामप्रहाणात् । [३५४।१३-३५४।१४] पूर्वं च भवाग्रवैराग्यासंभवात् । [३५४।१५] श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥ [३५४।१६] तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते । [३५४।१७] यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते । [३५४।१७-३५४।१८] श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् । [३५४।१८-३५४।१९] किं पुनः कारणं प्रहीणपञ्चप्रकारोऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः । [३५४।२०] यस्मात् [३५४।२१-३५४।२२] फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः । नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥ [३५४।२३] फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः । [३५४।२३-३५४।२४] अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत्प्रतिपन्नको नोच्यते । [३५४।२४-३५४।२५] एवमन्यत्रापि फले वेदितव्यम् । [३५४।२५-३५५।०१] यस्तु तृतीयध्यानवीतरागोऽधरां भूमि निश्रित्य नियाममवक्रामति सोऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति । [३५५।०१-३५५।०२] अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् । [३५५।०२-३५५।०३] एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् । [३५५।०४] आनुपूर्विकं तु वक्तव्यम् । अत इदं तावद्वच्यवस्थाप्यते । [३५५।०४-३५५।०५] यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं [३५५।०६] नवप्रकारा दोषा हि भूमौ भूमौ [३५५।०७] यावद्भवाग्रे । यथा च दोषाः [३५५।०८] तथा गुणाः । [३५५।०९] तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव । [३५५।०९-३५५।१०] कथं कृत्वा । [३५५।११] मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥ [३५५।१२] मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः । [३५५।१२-३५५।१३] तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात्नव व्यवस्थाप्यन्ते । [३५५।१३-३५५।१५] तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रोऽधिमात्रमृदुरधिमात्रमध्योऽधिमात्राधिमात्रश्चेति । [३५५।१५-३५५।१६] तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् । [३५५।१६] एवं यावदधिमात्राधिमात्रेण मृदुमृदोः । [३५५।१६-३५५।१८] आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवातौदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात्सूक्ष्मः । [३५५।१८-३५५।१९] औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः । [३५५।१९] शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः । [३५५।१९-३५५।२१] क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् । [३५५।२१-३५५।२२] बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत्क्षणिकाल्पप्रदीपमहातमोपघातवच्य । [३५५।२२] एवं नवप्रकारेषु क्लेशेषु सर्वत्र [३५५।२३] अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः । [३५६।०१] यस्य हि फलस्थस्यैकोऽपि भावनाहेयः प्रकारोऽप्रहीणः स स्रोत आपनः । [३५६।०१-३५६।०२] सप्तजन्मानि करोतीति सप्तकृत । [३५६।०२] परः सर्वान्त्यः । [३५६।०२-३५६।०३] न हि सर्वसप्तकृदिति । [३५६।०३] सप्तकृत्वःपरम इति सूत्रपाठः । सप्तकृत्वः परमं जन्माऽस्येत्यर्थः । [३५६।०४] प्रकर्षे परमशब्दः । निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् । [३५६।०४-३५६।०५] तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः । [३५६।०५] कथमापन्नः । [३५६।०५-३५६।०६] आद्यमार्गलाभाच्चेतष्टमकोऽपि स्यात् । [३५६।०६] आद्यफललाभाच्चेत्भूयो वीतरागोऽपि स्यात् । कामवीतरागः । [३५६।०७] सर्वफलप्रापिणमधिकृत्याद्यफललाभात् । किं पुनः कारणं स एव नाष्टमकः । [३५६।०८-३५६।०९] प्रतिपन्नकफलमार्गलाभात्दर्शनभावनामार्गलाभात्सकलस्रोतोऽभिसमयाच्च मार्गान्वयज्ञाने । [३५६।०९-३५६।१०] स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् । [३५६।१०] एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति । [३५६।१०-३५६।११] सप्तकसामान्यात्तु सप्तकृत्वः । [३५६।११] परम उक्तः । सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः । [३५६।१२-३५६।१३] यत्तर्ह्हि सूत्र उक्तं "अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलोऽष्टमं भवमभिनिर्वर्तयिष्यति । [३५६।१३] नेदं स्थानं विद्यत" इति । एकस्यां गतावित्यभिप्रायः । [३५६।१३-३५६।१५] यथारुतं वा कल्प्यमानेऽन्तराभवोऽपि न स्यातेवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति । [३५६।१५-३५६।१६] कामधात्वभि संधिवचनाददोषः । [३५६।१६] किमत्र ज्ञापकं सूत्रं युक्तिर्वा । [३५६।१६-३५६।१७] इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति । [३५६।१७] एवं हि पठच्यते । [३५६।१८] "सप्तकृत्वो देवाश्च मनुष्याश्चे"ति । प्रत्येकमपि तु काश्यपीयाः पठन्ति । [३५६।१९] "सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि"ति । नात्राभिनिवेष्टव्यम् । [३५६।१९-३५६।२०] यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति । [३५६।२०] यो देवेषु स तानेव । [३५६।२१] किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति । [३५६।२१-३५६।२२] तावता ककलेनावश्यं संततिपरिपाकात् । [३५६।२२] मार्गो हि स तज्जातीयः । सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च । [३५६।२३] सप्तसंयोजनावशेषत्वाच्च । द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति । [३५६।२३-३५६।२४] अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति । [३५६।२४-३५६।२५] तावत्भववेदनीयस्य कर्मणो वलाधानात् । [३५६।२५] असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति । [३५६।२५-३५६।२६] अगारं तु पोउनर्नाध्यावसति । [३५६।२६] धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते । [३५६।२६-३५६।२७] अन्याश्रमिकं लिङ्गेनेत्यपरे । [३५६।२७] कस्मादविनिपातकधर्मा भवति । [३५६।२७-३५६।२९] तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः । [३५६।२९] अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् । आह चात्र [३५७।०१-३५७।०४] "कृत्वा बुधोऽल्पमपि पापमधः प्रयाति कृत्वा बुधो महदपि प्रजहात्यनर्थम् मज्जन्यधोऽल्पमपि वारिणि संहतं हि पात्रिकृतं महदपि प्लवते तदेव" इति । [२५७।०५] दुःखस्यान्तं करोतीति को दुःखस्यान्तः । [३५७।०५] यस्मात्परेण दुःखं नास्ति । [३५७।०६] अप्रतिसंधिकं दुःखं करोतीत्यर्थः । अथवा निर्वाणमन्तः । कथं निर्वाणं करोति । [३५७।०७] तत्प्राप्तिविवन्धापनयनात् । यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः । [३५७।०८] अन्योऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते । [३५७।०८-३५७।०९] एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति । [३५७।१०] त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः ॥ ६.३४ ॥ [३५७।११] स एव स्रोत आपन्नस्त्रिभिः । [३५७।११-३५७।१२] क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् । [३५७।१२] इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् । [३५७।१२-३५७।१३] जन्मतो द्वित्रिजन्मावशेषत्वात् । [३५७।१३-३५७।१४] श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् । [३५७।१४-३५७।१५] जन्म तु कदाचिदल्पीयः स्यात् ।[३५७१५] परेण भव्यत्वाद् । [३५७।१५] अतोऽस्य ग्रहणम् । [३५७।१५-३५७।१६] कस्मान्न पञ्चप्रकारप्रहाणात् । [३५७।१६-३५७।१७] तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात्नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः । [३५७।१७] एकवीचिकस्येव धात्वनतिक्रमात् । [३५७।१७-३५७।१८] स एव कुलङ्कुलो द्विविधः । [३५७।१८-३५७।१९] देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वाऽन्यत्र वा देवनिकाये । [३५७।१९-३५७।२०] मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वाऽन्यत्र व द्वीपे परिनिर्वाति । [३५७।२०] स एव पुनः फलस्थः [३५७।२१] आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः । [३५७।२२-३५७।२३] यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः । [३५७।२४] क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥ [३५८।०१] द्वितीयफलप्राप्तो भवति । [३५८।०१-३५८।०२] देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी । [३५८।०२] परेण जन्माघावात् । रागद्वेषमोहानां च तनुत्वादित्युच्यते । [३५८।०३] मृदुप्रकारावशेषत्वात् । स एव पुनः फलस्थः । [३५८।०४] क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः । [३५८।०५] तृतीयप्रतिपन्नश्च [३५८।०६] त्रिभिः कारणैः । स एव सकृदागाम्येकवीचिदो वेदितव्यः । [३५८।०६-३५८।०७] सप्ताष्टप्रकारप्रहाणात् । [३५८।०७-३५८।०८] तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् । [३५८।०८] कथमस्यैकः प्रकारः फलं विध्नयितुं शक्नोति । धात्वतिक्रमात् । [३५८।०९] अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त" इत्युक्तं प्राक् । [३५८।०९-३५८।१०] यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति । [३५८।१०] विपाकनिःष्यन्दफलभूम्यतिक्रमात् । [३५८।१०-३५८।१२] वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात्निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वाऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः । [३५८।१२-३५८।१३] तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः । [३५८।१३-३५८।१४] पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः । [३५८।१५] सोऽनागामी नवक्षयात् ॥ ६.३६ ॥ [३५८।१६] स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः । [३५८।१६-३५८।१७] कामधात्वनागमनात् । [३५८।१७-२५८।१८] "पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि"त्युच्यते प्रहाणसंकुलनात् । [३५८।१८] अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति । [३५८।१९] सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः । [३५८।२०] ऊर्ध्वस्रोताश्च [३५८।२१] अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः । [३५८।२१-३५८।२२] एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् । [३५८।२२] स एवानागामी पुनः पञ्चधा भवति । [३५९।०१] अन्तरापरिनिर्वायी योऽन्तराभवे परिनिर्वाति । [३५९।०१-३५९।०२] उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात्परिनिर्वात्यभियुक्तवाहिमार्गत्वात् । [३५९।०२] सोपधिशेषनिर्वाणेन । [३५९।०२-३५९।०३] सोऽप्पि निरूपधिशेषेणेत्यपरे । [३५९।०३] नायुरुत्सर्गावशित्वात् । [३५९।०३-३५९।०४] साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः । [३५९।०४] साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् । [३५९।०५] अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् । [३५९।०५-३५९।०६] संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे । [३५९।०६] तत्तु न । अतिप्रसङ्गात् । [३५९।०६-३५९।०७] सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते । [३५९।०७] तथैव च युज्यते । [३५९।०७-३५९।०८] वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः । [३५९।०८-३५९।०९] उपपद्यपरिनिर्वायिणस्तु वाहितरोऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति । [३५९।०९-३५९।१०] ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः । [३५९।१०] स्रोतो गतिरित्येकोऽर्थः । [३५९।११] स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥ [३५९।१२] ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च । हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् । [३५९।१३-३५९।१४] फलतोऽकनिष्ठभवाग्रपरमत्वात्तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान् गत्वा परिनिर्वाति । [३५९।१५] स प्लुतोऽर्धप्लुतः सर्वच्युतश्च [३५९।१६] स पुनरेषोऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः । प्लुतादिभेदात् । [३५९।१६-३५९।१९] तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यातोपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात्प्रच्युतोऽकनिष्ठेषूपपद्यते । [३५९।१९] एष हिमध्यानिमज्जनात्प्लुतः । [३५९।१९-३५९।२०] अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति । [३५९।२०-३५९।२१] महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति । [३५९।२१-३५९।२२] सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति । [३५९।२२] न च दकाचिदनागामी । [३५९।२२-३५९।२३] तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति । [३५९।२३] विशेषगामित्वात् । [३५९।२३-३५९।२४] एवं चास्य परिपूर्णमनागामित्वं भवति । [३५९।२४] यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् । [३५९।१४-३५९।१५] एवं तावद्धच्याने व्यवकीर्णेऽकनिष्टगो वेदितव्यः । [३५९।१५-३५९।२५] ततः [३६०।०१] अन्यो भवाग्रगः । [३६०।०२] अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति । [३६०।०२-३६०।०४] स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति । [३६०।०४] शमथचरितो ह्येषः । [३६०।०४-३६०।०५] पूर्वकस्तु विपश्यनाचरितः । [३६०।०५] अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः । [३६०।०५-३६०।०६] अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति । [३६०।०६-३६०।०७] इमे तावत्पञ्च रुपोपगा अनागामिनः । [३६०।०८] आरुग्यगश्चतुर्धान्यः [३६०।०९] अन्य आरुप्यगोऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते । [३६०।०९-३६०।१०] स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् । [३६०।१०] त एते षडनागामिनो भवन्ति । ततः [३६०।११] इह निर्वापकोऽपरः ॥ ६.३८ ॥ [३६०।१२] इहैव जन्मन्यपरः परिनिर्वाति । स दृष्टधर्मपरिनिर्वायो सप्तमः । [३६०।१३] पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः । [३६०।१४] पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति । [३६०।१५] कतमेषां त्रयाणाम् । अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च । कथं त्रिधाभेदात् । [३६०।१६] अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात्दृष्टान्तत्रयेण । [३६०।१६-३६०।१७] उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् । [३६०।१७-३६०।१८] सर्वे ह्येते त्रयोऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः । [३६०।१८] ऊर्ध्वंस्रोतसः प्लुतादिभेदात् । [३६०।१८-३६०।१९] सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् । [३६०।२०] तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥ [३६०।२१] तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः । [३६०।२१-३६१।०१] त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च । [३६१।०१-३६१।०२] तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः । [३६१।०२] प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात्पूर्ववत् । [३६१।०२-३६१।०३] पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति । [३६१।०३-३६१।०४] त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति । [३६१।०४] कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः । [३६१।०५] ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः । [३६१।०६] ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता । [३६१।०६-३६१।०७] तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रेऽभिहिताः । [३६१।०७] कस्मात्पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः । [३६१।०७-३६१।०८] एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले । [३६१।०८-३६१।०९] एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति । [३६१।०९] नत्वेतद्यथोक्तमन्यत्रास्ति । अतः [३६१।१०] सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः ॥ ६.४० ॥ [३६१।११] सप्त सत्पुरुषगतयो नान्या इति । [३६१।११-३६१।१२] यत्तर्हि सूत्रे एवोक्तं "सत्पुरुषाः कतमः । [३६१।१२] शैक्ष्यः सम्यग्दृष्टच्या समन्वागत" इति विस्तरः । [३६१।१२-३६१।१३] अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् । [३६१।१३-३६१।१४] पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात्प्रायेणाकुशलप्रहाणाच्च । [३६१।१४] येषां तु निष्पर्यायेण तेषामिहाध्हिकारः । [३६१।१५] किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति । यस्मात् [३६१।१६] न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः । [३६१।१७] कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति । [३६१।१७-३६१।१८] अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् । [३६१।१८-३६१।१९] रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति । [३६१।१९] य ऊर्ध्वंस्रोता भवाग्रपरमः । [३६१।१९-३६१।२०] यत्तर्हि शक्रेणोक्तं "ये ते देवा अकनिष्ठा इति विश्रुताः । [३६१।२०] अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति" । [३६१।२०-३६१।२१] अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः । [३६१।२१] भवता "प्यनिवारणं संहर्षणीयत्वा" दिति । [३६२।०१] स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥ [३६२।०२-३६२।०३] स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित्परिहीयते । [३६२।०३-३६२।०४] किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते । [३६२।०४] यस्मान्न सन्ति । कस्मान्न सन्ति । [३६२।०४-३६२।०५] जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च । [३६२।०६] अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति । [३६२।०६-३६२।०८] मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात्दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः । [३६२।०८] बहु ह्यनेन कर्तव्यं भवति । [३६२।०८-३६२।०९] अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च । [३६२।०९] तच्चान्तराभवस्थो न शक्तः कर्तुमिति । [३६२।१०] यदुक्तं "स ध्याने व्यवकीर्णेऽकनिष्ठग" इति । [३६२।१०-३६२।११] अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते । [३६२।१२] आकीर्यते चतुर्थं प्राक् [३६२।१३] स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् । [३६२।१३-३६२।१४] एवं च पुनः व्यवकीर्यते । [३६२।१४] अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते । [३६२।१५] तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् । [३६२।१५-३६२।१७] एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः । [३६२।१८] निष्पत्ति क्षणमिश्रणात् । [३६२।१९] यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् । [३६२।२०-३६२।२१] एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात्व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः । [३६२।२१-३६२।२२] द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति । [३६२।२२] एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते । [३६२।२२-३६२।२३] कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते । [३६२।२३] पश्चात्परिहीणेन रूपधातौ । [३६२।२३-३६२।२४] अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् । [३६२।२४-३६२।२५] अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः । [३६२।२६] किमर्थं पोउनर्ध्यानं व्यवकीर्यते । [३६३।०१] उपपत्तिविहारार्थं क्लेशभीरुतयाऽपि च ॥ ६.४२ ॥ [३६३।०२] त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति । [३६३।०२-३६२।०३] तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च । [३६३।०३-३६३।०४] मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् । [३६३।०४] अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् । [३६३।०५] मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् । [३६३।०६] अथ कस्मात्पञ्चैव शुद्धावासोपपत्तयः । [३६३।०६-३६३।०७] यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम् [३६३।०८] तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः । [३६३।०९] सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् । [३६३।०९-३६३।१०] प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते । [३६३।१०] अनास्रवं सास्रवमनास्रवं च । द्वितीयायां षट् । [३६३।११] तृतीयायां नव । चतुर्थ्यां द्वादश । पञ्चम्यां पञ्चदश । [३६३।११-३६३।१२] तासां यथासंख्यं पञ्च शुद्धावासाः फलम् । [३६३।१२] यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः । [३६३।१२-३६३।१३] श्रद्धादीन्द्रियाधिक्यात्पञ्चेत्यपरे । [३६३।१४] निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥ [३६३।१५] निरोधलाभोऽस्यास्तीति निरोधलाभी । [३६३।१५-३६३।१६] यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते । [३६३।१६-३६३।१७] निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । [३६३।१७] कथं पुनः कायेन साक्षात्करोति । चित्ताभावात्कायाश्रयोत्पत्तेः । [३६३।१८] एवं तु भवितव्यम् । [३६३।१८-३६३।१९] स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते । [३६३।१९-३६३।२०] यतोऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति । [३६३।२०] एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति । [३६३।२१] प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया । [३६३।२१-३६३।२२] अष्टादश शैक्षा" इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः । [३६३।२२] कारणाभावात् । कि पुनः कारणम् । [३६३।२३] अनास्रवास्तिस्रः शैक्षास्तत्फां च । तद्विशेषेण हि शैक्षाणां व्यवस्थानम् । [३६३।२३-३६३।२४] निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् । [३६३।२४] अतो न तद्योगाच्धैक्षविशेष उक्तः । [३६३।२४-३६३।२५] एष तावदनागामिनां यथास्थूलं भेदः । [३६३।२५] सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते । [३६३।२६] अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् । भूमिभेदाच्चत्वारः । [३६४।०१] परिहाणधर्मादिगोत्रभेदात्षट् । [३६४।०१-३६४।०२] स्थानान्तरभेदात्षोडश भूमिवैराग्यभेदात्षट्त्रिंशत् । [३६४।०२-३६४।०३] रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः । [३६४।०३] स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि । [३६४।०४] कथं कृत्वा । एकस्मिन् स्थाने षट्गोत्राणि । [३६४।०४-३६४।०६] गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात्षण्ण्णवकानि चतुष्पञ्चाशत्षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि । [३६४।०६-३६४।०७] इन्द्रियभेदात्पुनस्त्रिगुणा इत्येवं कृत्वा योऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः । [३६४।०७-३६४।०८] समगणनार्थम् । [३६४।०८-३६४।०९] यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति । [३६४।१०] आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः । [३६४।११] अनागामीत्यधिकृतम् । [३६४।११-३६४।१२] स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात्प्रबृति यावत्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति । [३६४।१३] नवमस्याप्यानन्तर्यपथे [३६४।१४-३६४।१५] नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सोऽर्हत्त्वप्रतिपन्नक एव । [३६४।१६] वज्रोपमश्च सः ॥ ६.४४ ॥ [३६४।१७] स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत । [३६४।१८] सर्वानुशयभेदित्वात् । भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति । [३६४।१८-३६४।१९] सर्वास्तु भेत्तुं समर्थः । [३६४।१९] सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् । [३६४।१९-३६४।२०] वज्रोपमानां तु बहुभेदं वर्णयन्ति । [३६४।२०-३६४।२१] अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ । [३६४।२१] निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ । [३६४।२२] निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः । [३६४।२२-३६४।२३] एवं यावत्भवाग्रनिरोधालम्बनाश्चत्वारः । [३६४।२३] मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः । [३६५।०१] कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् । [३६५।०१-३६५।०२] त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति । [३६५।०२] यथाऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः । [३६५।०३-३६५।०४] आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति । [३६५।०४-३६५।०५] तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् । [३६५।०५] अधोभूमिप्रतिपक्षालम्बनं तु भवति । तस्यान्योऽन्यहेतुत्वादिति । [३६५।०५-३६५।०७] येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति । [३६५।०७-३६५।०८] एवं यावच्चतुर्थध्यान संगृहीताः । [३६५।०८-३६५।०९] आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत्द्वात्रिंशच्चतुर्विशतिश्च भवन्ति । [३६५।०९] पुनर्गोत्रेन्द्रियभेदात्भूयांसो भवन्ति । [३६५।१०] यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं [३६५।११] तत्क्षयाप्त्या क्षयज्ञानं [३६५।१२] तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते । [३६५।१२-३६५।१३] वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः । [३६५।१३-३६५।१४] अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः । [३६५।१५] अशैक्षोऽर्हन्नसौ तदा । [३६५।१६-३६५।१७] उत्पन्ने च पुनः क्षयज्ञाने सोऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः । [३६५।१७] फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः । [३६५।१७-३६५।१९] अत एव स परमार्तं करणार्थत्वात्सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति । [३६५।१९] केन ते शैक्षाः । [३६५।१९-३६५।२०] आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च । [३६५।२०] ताः पुनः शीलसमाधिप्रज्ञास्वभावाः । [३६५।२१] पृथग्जनोऽपि शैक्षः प्राप्नोति । न । यथाभूतं सत्याप्रज्ञानात्पुनश्चापशिक्षणात् । [३६५।२२-३६५।२३] अत एव द्विरभिधानं सूत्रे "शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत" इति । [३६५।२३-३६५।२४] यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत । [३६५।२४] प्रकृतिस्थ आर्यः कथं शिक्षणशीलः । [३६५।२५] आशयतः । स्थिताध्वगवत्प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य । [३६५।२५-३६५।२६] अथ शैक्षा धर्माः कतमे । [३६५।२६] शैक्षस्यानास्रवाः । अशैक्षाः कतमे । अशैक्षस्यानास्रवाः । [३६५।२६-३६५।२७] निर्वाणं कस्मान्न शैक्षम् । [३६५।२७] अशैक्षपृथग्जनयोरपि तद्योगात् । कस्मान्नाशैक्षम् । [३६५।२७-३६६।०१] शैक्षपृथग्जनयोरपि तद्योगात् । [३६६।०१] त एते सर्व एवाष्टावार्यपुद्गला भवन्ति । [३६६।०१-३६६।०२] प्रतिपन्नकाश्चत्वारश्च फले स्थिताः । [३६६।०२] तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः । [३६६।०३] एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नकोऽर्हन्निति । नामत एतेऽष्टौ भवन्ति । [३६६।०४] द्रव्यतस्तु पञ्च । प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः । [३६६।०४-३६६।०५] शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् । [३६६।०५] अनुपूर्वाधिगमं प्रत्येवमुच्यते । [३६६।०५-३६६।०७] भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति । [३६६।०८] द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति । [३६६।०८-३६६।०९] केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति । [३६६।१०] लोकोत्तरेण वैराग्यं भवाग्रात् [३६६।११] न लौकिकेन । कि कारणम् । [३६६।११-३६६।१२] तत ऊर्ध्व लौकिकाभावात्स्वभूमिकस्य वा प्रतिपक्षत्वात् । [३६६।१२] कस्मान्न प्रतिपक्षः । [३६६।१२-३६६।१३] तत्क्लेशानुशयितत्वात् । [३६६।१३-३६६।१४] यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशोऽनुशेते इति । [३६६।१५] अन्यतो द्विधा ॥ ६.४५ ॥ [३६६।१६] भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि । तत्र पुनः [३६६।१७] लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा । [३६६।१८-३६६।१९] लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च । [३६६।२०] लोकोत्तरेण चेत्येके [३६६।२१] लोकोत्तरेणाप्येवमित्यपरे । किं कारणम् । [३६६।२२] त्यवते क्लेशासमन्वयात् ॥ ६.४६ ॥ [३६७।०१-३६७।०३] यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् । [३६७।०४] त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति । [३६७।०५] भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः । [३६७।०६-३६७।०७] असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् । [३६७।०७-३६७।०९] तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति । [३६७।०९-३६७।१०] यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् । [३६७।११] कतपया पुनर्भूम्या कुतो वैराग्यं भवति । [३६७।१२] अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥ [३६७।१३] आभवाग्रात् । [३६७।१३-३६७।१४] अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति । [३६७।१४] नेत्याह । किं तर्हि । [३६७।१५] ध्यानात्सामन्तकाद्वाऽन्त्यो मुक्ति मार्गस्त्रिभूजये । [३६७।१६] नव ह्यपपत्तिभूमयः । सर्वकामधातुरष्टौ च ध्यानारुप्याः । [३६७।१६-३६७।१७] तत्र यावत्द्वितीयध्यानवैराग्यं त्रिभूमिजयः । [३६७।१७-३६७।१८] तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् । [३६७।१९] नोर्ध्वं सामन्तकात् [३६७।२०] त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् । [३६७।२०-३६७।२१] त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात्कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् । [३६८।०१] इन्द्रियसंचारस्य दुष्करत्वात् । [३६८।०१-३६८।०२] अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति । [३६८।०३] "अनास्रवेण वैराग्यमनागम्येन सर्वत" इत्युक्तमन्यैस्तु नोक्तम् । अत उच्यते [३६८।०४] आर्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥ [३६८।०५-३६८।०६] अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् । [३६८।०६-३६८।०७] तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् । [३६८।०८] विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् । [३६८।०९] शान्ताद्युदाराद्याकाराः [३६८।१०] विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः । [३६८।१०-३६८।११] ते पुनर्यथाक्रमम् [३६८।१२] उक्तराधरगोचराः ॥ ६.४९ ॥ [३६८।१३] विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः । [३६८।१४] आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च । [३६८।१४-३६८।१५] अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् । [३६८।१५-३६८।१६] अप्रणीतत्वात्दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् । [३६८।१६-३६८।१७] स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात्भित्त्यनिःसरणवत् । [३६८।१७] एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः । गत मानुषङ्गिकम् । [३६८।१८] इदं तु वक्तव्यम् । [३६८।१९] अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते [३६८।२०] यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः [३६८।२१] अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते । [३६८।२२] न चेत् । [३६९।०१] क्षयज्ञानमशैक्षी वा दृष्टिः [३६९।०२-३६९।०३] न चेदकोप्यधर्मा भवति क्षयज्ञानात्क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः । [३६९।०३] न त्वनुत्पादज्ञानं परिहाणिसंभवात् । [३६९।०३-३६९।०४] किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते । [३६९।०५] सर्वस्य साऽर्हतः ॥ ६.५० ॥ [३६९।०६-३६९।०७] अकोप्यधर्मणोऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः । [३६९।०८] यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि । श्रमण्यफलानि । [३६९।०९] किमिदं श्रामण्यं नाम । [३६९।१०] श्रावण्यममलो मार्गंः [३६९।११] अनास्रवो मार्गः श्रमण्यम् । तेन ह्हि श्रमणो भवति । क्लेशसंशमनात् । [३६९।१२-३६९।१३] "शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत" इति सूत्रे वचनात् । [३६९।१३-३६९।१४] अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः । [३६९।१४] तस्य पुनः श्रामण्यस्य । [३६९।१५] संस्कृतासंस्कृतं फलम् । [३६९।१६] संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे । अपि तु [३६९।१७] एकान्ननवतिस्तानि [३६९।१८] कानि पुनस्तानि [३६९।१९] मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥ [३६९।२०-३६९।२२] दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च । [३६९।२२-३७०।०१] तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि । [३७०।०१] तन्निष्यन्दपुरुषकारफलत्वात् । [३७०।०१-३७०।०२] तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि । [३७०।०२] एवमेकान्ननवतिर्भवन्ति । [३७०।०२-३७०।०३] एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते । [३७०।०३] न कर्तव्यम् । यद्यपि भूयांसि फलानि [३७०।०४] चतुष्फलव्यवस्था तु पञकारणसंभवात् । [३७०।०५-३७०।०६] यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् । [३७०।०६] कतमानि पञ्च । [३७०।०७] पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥ [३७०।०८] ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना । [३७०।०९] पूर्वमार्गत्यागोऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् । [३७०।०९-३७०।१०] प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् । [३७०।१०] युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् । [३७०।११] षोडशाकारभावना अनित्याद्याकाराणाम् । [३७०।११-३७०।१२] इमानि हि पञ्च कारणानि फले फले भवन्ति । [३७०।१३-३७०।१४] यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते । [३७०।१५] लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म् ॥ ६.५३ ॥ [३७०।१६-३७०।१७] न हि तत्र लौकिकमार्गफलमेव्प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा । [३७०।१७] किं तर्हि । [३७०।१७-३७०।१८] दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते । [३७०।१८] सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् । [३७०।१८-३७०।१९] अत एव हि सूत्र उक्तं "सकृदागामिफलं कतमत् । [३७०।१९-३७०।२०] यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति । [३७०।२०] अनागामिफलं कतमत् । [३७०।२०-३७०।२१] यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि"ति । [३७०।२१] अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते । [३७०।२१-३७०।२२] तद्वलेन परिहीणामरणात् । [३७०।२२] अतोऽप्यस्य मरणं युक्तं श्रामण्यफलम् । [३७०।२२-३७०।२३] यदेव चैतच्छ्रामण्ययुक्तम् । [३७०।२४] ब्राह्मण्यं ब्रह्मचक्रं च तदेव [३७०।२५] क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु [३७१।०१] ब्रह्मावर्तनात् । [३७१।०२] अनुत्तरब्रह्मण्ययोगात्भगवान्ब्रह्मा । [३७१।०२-३७१।०३] "एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी"ति सूत्रात् । [३७१।०३] तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् । [३७१।०४] धर्मचक्रं तु दृङ्मार्गः [३७१।०५] चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् । कथमस्य साधर्म्यम् । [३७१।०६] आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥ [३७१।०७] आशुगत्वात्त्यजनक्रमणातजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च । [३७१।०७-३७१।०८] एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः । [३७१।०८-३७१।०९] सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः । [३७१।०९-३७१।१०] सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति । [३७१।१०-३७१।११] कुत एततार्यकौण्डिन्यस्य तदुत्पत्तौ "प्रवर्त्तितं धर्मचक्रमि"ति वचनात् । [३७१।११-३७१।१२] कथं तत्त्रिपरिवर्तं द्वादशाकारं च । [३७१।१२] इदं दुःखमार्यसत्यम् । [३७१।१२-३७१।१३] तत्खलु परिज्ञेयं तत्खलु परिज्ञातमित्येते त्रयः परिवर्ताः । [३७१।१३-३७१।१४] एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः । [३७१।१४] प्रतिसत्येमेवं भवन्ति । [३७१।१४-३७१।१५] त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् । [३७१।१५] द्वयसप्तस्थानकौशलादेशनावत् । [३७१।१५-३७१।१६] एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः । [३७१।१६-३७१।१७] यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते । [३७१।१७-३७१।१८] तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते । [३७१।१८] कथं च पुनस्त्रिपरिवर्तम् । [३७१।१९] सत्यानां त्रिः परिवर्त्तनात् । कथं द्वादशाकारम् । चतुर्णां सत्यानां त्रिधाकरणात् । [३७१।२०] दुःखं समुदयो निरोधो मार्ग इति । [३७१।२०-३७१।२१] परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति । [३७१।२१] परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति । [३७१।२१-३७१।२२] तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् । [३७१।२२] अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् । [३७१।२३-३७१।२४] तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते । [३७२।०१] अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते । [३७२।०२] कामे त्रयाप्तिः [३७२।०३] कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र । [३७२।०४] अन्त्यस्य त्रिषु [३७२।०५] अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः । [३७२।०५-३७२।०६] फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता । [३७२।०६] तृतीयस्य तु कस्मादप्राप्तिः । [३७२।०७] नोर्ध्वं हि दृक्पथः । [३७२।०८] ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति । [३७२।०८-३७२।०९] न च तेन विनाऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत्कारणम् । [३७२।०९] किं पुनः कारणं तत्र दर्शनमार्गो नास्ति । [३७२।१०] आरुप्येषु तावत्श्रवणाभावादधोधात्वनालम्बनाच्च । रूपधातौ तु [३७२।११] असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥ [३७२।१२] रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते । [३७२।१२-३७२।१३] न च विना संगेनार्यमार्गः शक्तो लब्धुम् । [३७२।१३] इयं तावद्युक्तिः । [३७२।१३-३७२।१४] आगमोऽप्ययं "पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस" इति । [३७२।१५] विधा हि मार्गरम्भो निर्वाणोपायत्वात् । [३७२।१६] इदमुक्तं "यद्यकोप्यः क्षयज्ञानादनुत्पादमति" रिति । [३७२।१६-३७२।१७] तत्र किमर्हतमप्यस्ति भेदः । [३७२।१७] अस्तीत्युच्यते । [३७२।१८] षडर्हन्तो मताः [३७२।१९-३७२।२०] सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्योऽकोप्यधर्मा चेति । [३७२।२१] तेषां पञ्च श्रद्धाध्हिमुक्तिजाः । [३७३।०१] अकोक्प्यधर्माणं वर्जयित्वाऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः । [३७३।०२] विमुक्तिः सामयिक्येषाम् । [३७३।०३] एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या । [३७३।०३-३७३।०४] नित्यानुरक्ष्यत्वात् । [३७३।०४] अत एवैते समयविमुक्ता उच्यन्ते । [३७३।०४-३७३।०५] समयापेक्षाश्चैतेऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात्धृतघटवत् । [३७३।०५-३७३।०६] एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् । [३७३।०७] अकोप्याकोप्यधर्मणः ॥ ६.५६ ॥ [३७३।०८] अकोप्यधर्मणस्त्वकोप्या विमुक्तिः । कोपयितुमशक्यत्वादपरिहाणितः । [३७३।०९] अतोऽसमयमुक्तोऽसौ [३७३।१०] अत एवासमयविमुक्ति उच्यते । स ह्यसमयापेक्षाविमुक्तिश्च । [३७३।१०-३७३।११] इच्छातः समाधिसंमुखीभावात् । [३७३।११-३७३।१२] कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः । [३७३।१३] दृष्टिप्रप्तान्वयश्च सः । [३७३।१४] स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः । [३७३।१५] किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् । [३७३।१६] तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥ [३७३।१७] कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति । [३७३।१७-३७३।१८] कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः । [३७३।१८-३७३।१९] एवं यावदकोओप्यधर्मतां गतो वेदितव्यः । [३७३।१९-३७३।२०] तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा । [३७३।२०] चेतनाधर्मा यश्चेतयितुं भव्यः । अनुरक्षणाधर्मा योऽनुरक्षितुं भव्यः । [३७३।२१-३७४।०१] स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन । [३७४।०१] प्रतिवेधनाभव्यो योऽकोप्यः प्रतिवेद्धं भव्यः । [३७४।०२] अकोप्यधर्मा यो नैव परिहातुं भव्यः । [३७४।०२-३७४।०३] प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ । [३७४।०३] तृतीयः सातत्यप्रयोगी । चतुर्थः सत्कृत्यप्रयोगी । [३७४।०३-३७४।०४] पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु । [३७४।०४] षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च । [३७४।०४-३७४।०५] नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत्प्रतिवेधनाभव्यः प्रतिविध्यति । [३७४।०५-३७४।०६] संभवं तु प्रत्येवमुच्यते । [३७४।०६] एवं कृत्वा धातुत्रयेऽपिषडर्हन्तो युज्यन्ते । [३७४।०६-३७४।०८] येषां त्ववश्यं परिहीयते यावत्प्रतिविध्यति तेषां कामधातौ षट्रूपारुप्यधात्वोः स्थिताकम्प्योऽकोप्यधर्मा च । [३७४।०८] तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् । [३७४।०९] कः पुनरेषां कुतः परिहीयते । फलात्गोत्राद्वा । [३७४।१०] गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः [३७४।११] चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः । [३७४।११-३७४।१२] न हि परिहाणधर्मा पुनः स्वगोत्रात्परिहीयते । [३७४।१२-३७४।१३] परिहाणधर्मादीनां पञ्चानां फलात्परिहाणिः । [३७४।१३] तेषामपि तु [३७४।१४] न पूर्वकात् । [३७४।१५] यस्य यत्प्रथमगोत्रं स तस्मान्न परिहीयते । शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् । [३७४।१६] शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात्न परिहीयते स्वगोत्रात् । [३७४।१६-३७४।१७] यत्तु पश्चात्प्रतिलब्धमुत्तापनया तस्मात्परिहीयते । [३७४।१७-३७४।१८] यस्य च यत्प्रथमं फलं स तस्माना परिहीयते । [३७४।१८] शेषात्परिहीयते । [३७४।१८-३७४।१९] अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः । [३७४।१९] एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति । [३७४।१९-३७४।२०] तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः । [३७४।२०] परिहाय वा शैक्षत्वम् । चेतनाधर्मणश्चत्वारः । [३७४।२०-३७४।२१] एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च । [३७४।२१-३७४।२२] एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट्सप्त प्रकारा वेदितव्याः । [३७४।२२-३७४।२३] यस्य च यत्प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् । [३७४।२३-३७४।२४] अन्यथा हि तद्गोत्रविशेष लभाद्वृद्धिरेवास्य स्यान्न परिहाणिः । [३७४।२५] किं पुनः कारणं प्रथमानां नास्ति परिहाणिः । दर्शनहेयानामवस्तुकत्वात् । [३७४।२६] आत्माधिष्ठानप्रवृत्ता ह्येते । सत्कायदृष्टिमूलकत्वात् । [३७५।०१] स चात्मा नास्तीति । असदालम्बनास्तर्हि प्राप्नुवन्ति । नासदालम्बनाः । [३७५।०१-३७५।०२] सत्यालम्बनत्वात् । [३७५।०२] वितथालम्बनास्तु । कतमश्च क्लेशो नैवमस्ति विशेषः । [३७५।०२-३७५।०४] आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते । [३७५।०४-३७५।०६] भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते । [३७५।०६-३७५।०७] अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशोऽपि । [३७५।०७-३७५।०८] तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् । [३७५।०८-३७५।०९] तस्मादप्यवस्तुकाउच्यन्ते । [३७५।०९-३७५।१०] अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात्क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा । [३७५।१०-३७५।१२] न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः । [३७५।१२] अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः । [३७५।१२-३७५।१३] एष एव चन्यायः । [३७५।१३] कथमिदं गम्यते । आगमाद्युक्तितश्च । कथमागमात् । [३७५।१३-३७५।१४] "तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि"त्युक्तम् । [३७५।१४-३७५।१५] आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञयाऽधिगमः । [३७५।१५-३७५।१६] "शैक्षस्य चाप्रमादकरणियेऽप्रमादकरणीयं वदामी" त्युक्तं नाऽर्हतः । [३७५।१६-३७५।१७] "अर्हतोऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी"त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता । [३७५।१७-३७५।१८] "या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता । [३७५।१८] ततोऽहं न केनचित्पर्यायेण परिहाणं वदामी"ति चोक्तम् । [३७५।१९] सामयिक्या अस्तीति चेत् । वयमप्येवं ब्रूमः । सा तु विचार्या । [३७५।१९-३७५।२०] किमर्हत्त्वमाहोस्विद्धच्यानानीति । [३७५।२०-३७५।२१] मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते । [३७५।२१] दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते । [३७५।२२] आस्वादनीयत्वादित्यपरे । [३७५।२२-३७५।२३] अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते ।सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति । [३७५।२३-३७५।२४] यदि चार्हत्त्वात्परिहणिसंभवोऽभविष्यत्किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् । [३७५।२४-३७५।२५] अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु । [३७५।२५-३७५।२६] कश्चित्लाभसत्कारव्याक्षेपदीषात्परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः । [३७५।२७] कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः । तत्र यः परिहीयते स परिहाणधर्मा । [३७५।२७-३७५।२८] यो न परिहीयते सोऽपरिहाणधर्मा । [३७५।२८] एवं चेतनाधर्मादयोऽपि योज्याः । [३७५।२८-३७६।०१] अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः । [३७६।०१] अपरिहाणधर्माऽनुत्तापनागतः । [३७६।०२] अकोप्यधर्मा तूत्तापनागतः । [३७६।०२-३७६।०३] तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते । [३७६।०३-३७६।०४] स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति । [३७६।०४] उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते । [३७६।०५-३७६।०७] आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च । [३७६।०७] तस्मात्सोऽपि नार्हत्त्वात्परिहीणः । [३७६।०७-३७६।०८] दशोत्तरे चोक्तम् । [३७६।०८] "एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः । [३७६।०८-३७६।०९] एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि"ति । [३७६।०९-३७६।१०] यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्किमर्थं तत्रैव दशकेऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् । [३७६।१०-३७६।११] न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । [३७६।११] किं तर्हि । [३७६।११-३७६।१२] साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति । [३७६।१२] किमनेन ज्ञापितं भवति । [३७६।१२-३७६।१३] यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् । [३७६।१३] अथोत्पादनमर्हतीति । [३७६।१३-३७६।१४] अन्यत्सुतरामर्हति । [३७६।१४] तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् । [३७६।१४-३७६।१५] कथं तर्हि समयविमुक्तोऽर्हन्नुच्यते । [३७६।१५] यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः । [३७६।१५-३७६।१६] विपर्ययादसमयविमुक्तः । [३७६।१६] अभिधर्मेऽपि चोक्तं "त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति । [३७६।१७-३७६।१८] कामरागानुशयिओऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार" इति । [३७६।१८] परिपूर्णोत्पत्तिरेवमिति चेत् । [३७६।१९] कस्य वा परिपूर्णकारणस्योत्पत्तिः । एवं तावदागमात् । कथं युक्तितः । [३७६।१९-३७६।२१] यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते । [३७६।२१] अथ नोत्पन्नः । कथं क्षीणास्रवो भवति । [३७६।२१-३७६।२२] अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः । [३७६।२२-३७६।२३] अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् । [३७६।२३-३७६।२५] यत्रेदमुक्तं "तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित्स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का" इति । [३७६।२५] स हि तत्रार्हन्नेव ज्ञापितः । [३७६।२५-३७७।०१] "दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि"ति वचनात् । [३७७।०१-३७७।०२] अर्हतो ह्येतद्बलमन्यत्रोक्तम् । [३७७।०२-३७७।०३] "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि"ति चाभिधानातस्त्येतदेवम् । [३७७।०३-३७७।०४] यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतोऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः । [३७७।०५] प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः । [३७७।०५-३७७।०६] अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः । [३७७।०७] किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति अथान्येऽपि षड्गोत्रा भवन्ति । [३७७।०८] शैक्षानार्याश्च षड्गोत्राः [३७७।०९] शैक्षपृथग्जना अप्येवं षड्गोत्राः । तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि । अपि तु [३७७।१०] संचारो नास्ति दर्शने ॥ ६.५८ ॥ [३७७।११] दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति । प्रयोगासंभवान्न दर्शनमार्गे । [३७७।११-३७७।१२] कश्चित्पृथग्जनावस्थायामिन्द्रियाणि संचरति । [३७७।१२] कश्चिच्छद्धाधिमुक्तावस्थायाम् । [३७७।१३-३७७।१६] यदिदं सूत्र उक्तं "ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततोऽहमस्यान्यतमान्यतमस्मात्परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततोऽहं न केनचित्पर्यायेण परिहाणिं वदामी"ति । [३७७।१६-३७७।१७] कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः । [३७७।१८] परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः । [३७७।१९] प्राप्तपरिहाणिर्यदि प्रतिलब्धात्गुणात्परिहीयते । [३७७।१९-३७७।२०] अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति । [३७७।२०] उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति । [३७७।२०-३७७।२१] आसां पुनः परिहाणीनाम् [३७७।२२] अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥ [३७८।०१] बुद्धस्योपभोगपरिहाणिरेव नान्या । अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च । [३७८।०२] पुद्गलविशेषधर्माप्रापणात् । अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति । [३७८।०२-३७८।०३] अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः । [३७८।०३] सर्वस्यानास्रवा विमुक्तिरकोप्या । [३७८।०४] अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् । अत एतद्चोद्यमित्यपरिहाणिवादी । [३७८।०५] अथ योइऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते । नास्त्येतत् । यस्मात् [३७८।०६] म्रियते न फलभ्रष्टः [३७८।०७] नैव हि कश्चित्फलात्परिहीणः कालं करोति । [३७८।०७-३७८।०९] "धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् । [३७८।०९] अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् । [३७८।०९-३७८।१०] यतश्च फलात्परिहीयते तत्फलस्थेन यदकार्यं [३७८।११] तादकार्यं करोति न । [३७८।१२] परिहीणोऽपि संस्तत्फलविरुद्धां क्रियां न करोति । शूरप्रस्खलनापतनवत् । [३७८।१३] अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति । [३७८।१४] विमुक्त्यानन्तर्यपथा नवोकोप्ये [३७८।१५-३७८।१६] अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति । [३७८।१६] यथार्हत्त्वं प्राप्नुवतः । किं कारणम् । [३७८।१७] अतिसेवनात् ॥ ६.६० ॥ [३७८।१८] तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते । [३७८।१८-३७८।१९] शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् । [३७८।२०] दृष्टच्याप्ततायामेकैकः [३७९।०१-३७९।०२] दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः । [३७९।०२] प्रयोगमार्गस्तु सर्वत्रैक एव । ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः [३७९।०३] अनास्रवाः [३७९।०४] न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः । क्व पुनरिन्द्रियाणि वर्धन्ते । [३७९।०५] नृषु वर्धनम् । [३७९।०६] मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र । परिहाण्यसंभवात् । [३७९।०७] कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति । [३७९।०८] अशैक्षो नव निश्रित्य भूमीः [३७९।०९] अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि । [३७९।१०] शैक्षस्तु षट् [३७९।११] आरुप्यवर्ज्यः । किं कारणम् । [३७९।१२] यतः ॥ ६.६१ ॥ [३७९।१३] सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् । [३७९।१४-३७९।१५] इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते । [३७९।१५-३७९।१६] न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत्कारणम् । [३७९।१७] त एते षडेवार्हन्तो नव भवन्ति । इन्द्रियभेदात् । कथं कृत्वा । [३७९।१८] द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥ [३८०।०१] कतमे सप्त श्रावकाः । परिहाणधर्मादयः पञ्च । [३८०।०१-३८०।०२] अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव । [३८०।०२] द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च । [३८०।०३] इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति । [३८०।०४] सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति । [३८०।०४-३८०।०५] श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च । [३८०।०५] एते पुनः [३८०।०६] प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः । [३८०।०७] पुद्गलाः सप्त [३८०।०८] प्रयोगतः श्रद्धाधर्मानुसारिणौ । पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् । [३८०।०९] इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ । [३८०।०९-३८०।१०] मृदुतीक्ष्णेन्द्रियत्वात्श्रद्धाधिमोक्षप्रज्ञाधिक्यतः । [३८०।१०-३८०।११] समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् । [३८०।११] विमुक्तितः प्रज्ञाविमुक्तः । समापत्तिविमुक्तितः उभयतोभागविमुक्तः । [३८०।१२] नामत एते सप्त पुद्गलाः । [३८०।१३] षट्त्वेते । [३८०।१४] द्रव्यतस्त्वेते षट्भवन्ति । [३८०।१५] द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥ [३८०।१६] दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ । तावेव भावनामार्गे द्वौ भवतः । [३८०।१७] श्रद्धाधिमुक्तदृष्टिप्राप्तौ । तौ पुनरशैक्षमार्गे द्वौ भवतः । समयासमयविमुक्ताविति । [३८०।१८] तत्रेन्द्रियतस्त्रयः । श्रद्धानुसारिणः गोत्रतः पञ्च । मार्गतः पञ्चदश । [३८०।१८-३८०।१९] अष्ट क्षान्तिसप्तज्ञानस्थाः । [३८०।१९] वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः । कामवैराग्यान्नव । [३८०।२०] एवं यावदाकिञ्चन्यायतनवैराग्यात् । आश्रयतो नव । त्रिद्वीपषाड्देवनिकायजाः । [३८०।२१-३८०।२२] इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च । [३८०।२२] एवमन्येऽपि पुद्गलाः संभवतः संख्येयाः । [३८१।०१] कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः । [३८१।०२] निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः । [३८१।०३] यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः । [३८१।०३-३८१।०४] प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् । [३८१।०४] इतरः प्रज्ञाविमुक्तः । [३८१।०४-३८१।०५] प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् । [३८१।०६-३८१।०७] यदुक्तं भगवता "क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष" इति । [३८१।०७] कियता परिपूर्णः शैक्षो भवति । [३८१।०८] समापत्तिन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥ [३८१।०९] त्रिविधा शैक्षस्य परीपूरिः । फलतः इन्द्रियतः समापत्तितश्च । [३८१।०९-३८१।१०] फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणोऽनागामिनः । [३८१।१०-३८१।११] इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य । [३८१।११] फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणोऽनागामिनः । [३८१।११-३८१।१२] फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः । [३८१।१२] फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः । [३८१।१३] समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन । [३८१।१४] अशैक्षपरिपूर्णत्वं द्वाभ्याम् [३८१।१५] इन्द्रियतः समापत्तिश्च । [३८१।१५-३८१।१६] फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते । [३८१।१६-३८१।१७] इन्द्रियतेवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य । [३८१।१७] समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य । [३८१।१७-३८१।१८] इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य । [३८१।१९-३८१।२०] वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावनाऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति । [३८१।२०] कतिविध एष समासतो मार्ग इति । [३८१।२१] मार्गः समासतः । [३८१।२२] विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः ॥ ६.६५ ॥ [३८२।०१] प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः । [३८२।०१-३८२।०२] आनन्तर्यमार्गो येनावरणं प्रजहाति । [३८२।०२] विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत्प्रथमत उत्पद्यते । [३८२।०३] विशेषमार्गो य एभ्योऽन्यो मार्गः । कस्मात्मार्ग इत्युच्यते । [३८२।०३-३८२।०४] एष हि निर्वाणस्य पन्था एतेन तद्गमनात् । [३८२।०४] निर्वाणं मार्गयन्त्यनेनेति वा । [३८२।०४-३८२।०५] विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् । [३८२।०५-३८२।०६] तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात्निरूपधिशेषप्रवेशाद्वा । [३८२।०७] मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् । चतस्रः प्रतिपदः । [३८२।०८] अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा । [३८२।०८-३८२।०९] एवं सुखाऽपि द्विधा । [३८२।०९] तत्र [३८२।१०] ध्यानेषु मार्गः प्रतिपत्सुखा [३८२।११-३८२।१२] चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् । [३८२।१३] दुःखाऽन्यभूमिषु । [३८२।१४-३८२।१६] अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात्शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति । [३८२।१६] सा पुनर्द्विविधाऽपि प्रतिपत् [३८२।१७] धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥ [३८२।१८-३८२।१९] मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि । [३८२।१९] सेयं धन्धाभिज्ञा । [३८२।१९-३८२।२०] एवं क्षिप्राभिज्ञा । [३८२।२०] धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा । [३८२।२०-३८२।२१] पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते । [३८२।२१] सप्तत्रिंशद्वोधिपक्षा धर्माः । चत्वारि स्मृत्युपस्थानानि । [३८२।२२] चत्वारि सम्यक्प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । [३८२।२२-३८२।२३] पञ्च बलानि । [३८२।२३] सप्त बोध्यङ्गानि । आर्याष्टाङ्गो मार्गः इति । तत्र [३८२।२४] अनुत्पादक्षयज्ञाने बोधिः [३८३।०१] क्षयज्ञानमनुत्पादज्ञानं च । पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते । [३८३।०१-३८३।०२] श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति । [३८३।०२] अशेषाविद्याप्रहाणात् । [३८३।०२-३८३।०३] ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च । [३८३।०४] तादनुलोम्यतः । [३८३।०५] सप्तत्रिंशत्तु तत्पक्ष्याः [३८३।०६] बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते । [३८३।०७] नामतो द्रव्यतो दश ॥ ६.६७ ॥ [३८३।०८] दश द्रव्याणि सर्वे बोधिपक्ष्याः । कतमानि दश । [३८३।०९] श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे । [३८३।१०] प्रश्रब्धिशीलसंकल्पाः [३८३।११] इत्येतानि दश द्रव्याणि । कथं कृत्वा । [३८३।१२] प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥ [३८३।१३] वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः । [३८३।१४-३८३।१७] प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव । [३८३।१७] सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव । [३८३।१७-३८३।१८] ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक्समाधिश्च समाधिरेव । [३८३।१८-३८३।१९] स्मृतिसंबोध्यङ्गं सम्यक्स्मृतिश्च स्मृतिरेव । [३८३।१९] किमवशिष्यते । [३८३।१९-३८३।२०] प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च । [३८३।२०-३८३।२१] तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति । [३८३।२१] वैभषिकाणा मेकादश । [३८३।२१-३८४।०१] कायवाक्कर्मणोरसंभिन्नत्वात्शीलाङ्गानि द्वे द्रव्ये इति । [३८४।०१-३८४।०२] यत्त्वेतदुक्तं "प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय" इति । [३८४।०२] अत्र वेदितव्यम् । [३८४।०३] प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते ॥ ६.६९ ॥ [३८४।०४] प्रधानग्रहणेनैवमुक्तम् । [३८४।०४-३८४।०५] सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः । [३८४।०५] कस्माद्वीर्य सम्यक्प्रधानमुक्तम् । [३८४।०५-३८४।०६] तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते । [३८४।०६] समाधिः कस्मादृद्धिपाद उक्तः । तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः । [३८४।०७] ये त्वाहुः "समाधिरेवर्द्धिः पादाश्छन्दादय" इति । [३८४।०७-३८४।०८] तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति । [३८४।०८] च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते । [३८४।०८-३८४।०९] "ऋद्धिं च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा । [३८४।०९-३८४।१०] इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति । [३८४।१०] एको भूत्वा बहुधा भवती"ति विस्तरः । [३८४।११] कस्मादिन्द्रियाण्येव वलान्युक्तानि । मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् । [३८४।१२] इन्द्रियाणां किङ्कृतोऽनुक्रमः । श्रद्दधानो हि फलार्थं वीर्यमारभते । [३८४।१२-३८४।१३] आरब्धवीर्यस्य स्मृतिरूपतिष्ठते । [३८४।१३] उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते । [३८४।१३-३८४।१४] समाहितचित्तो यथाभूतं प्रजानातीति । [३८४।१५] कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते । [३८४।१६-३८४।१७] आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः । भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥ [३८४।१८] आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि । [३८४।१८-३८४।१९] विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि । [३८४।१९-३८४।२०] अपरिहाणीयकुशलमूलप्रवेशत्वात्मूर्धष्वृद्धिपादाः । [३८४।२०] अपुनःपरिहाणित आधिपत्यप्राप्तत्वात्क्षान्तिष्विन्द्रियाणि । [३८४।२१] क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा । [३८४।२१-३८४।२२] बोध्यासन्नत्वात्भावनामार्गे बोध्यङ्गानि । [३८४।२२] गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी । [३८४।२३] तस्याशुगामित्वात् । संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ । [३८४।२३-३८४।२५] तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः । [३८४।२५-३८४।२६] अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति । [३८४।२६-३८५।०२] "आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये"ति सूत्रे वचनात् । [३८५।०२-३८५।०३] तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि । [३८५।०३-३८५।०४] ततः समाधिविशोधनादृद्धिपादाः । [३८५।०४] समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि । [३८५।०५] तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि । दर्शनमार्गे बोध्यङ्गानि । [३८५।०६] प्रहमतो धर्मतत्त्वावलोकातुभयोर्मार्गाङ्गानि । [३८५।०६-३८५।०७] तथा ह्युक्तम् "आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति । [३८५।०७-३८५।०८] चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत्सप्त बोध्यङ्गानी"ति । [३८५।०८-३८५।१०] पुनश्चोक्तं "यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि"ति । [३८५।१०-३८५।११] तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः । [३८५।११] सिद्धोऽनुक्रमः । [३८५।१२] इदं तु वक्तव्यम् । [३८५।१२-३८५।१३] कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति । [३८५।१४] अनास्रवाणि बोध्यङ्गमार्गाङ्गानि [३८५।१५] भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् । [३८५।१५-३८५।१६] लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति । [३८५।१६] ते तु नार्यमार्गशब्दं लभन्ते । [३८५।१७] द्विधेतरे । [३८५।१८] अन्ये बोधिपक्षाः सास्रवाः । कस्यां भूमौ कति बोधिपक्षाः । [३८५।१९] सकलाः प्रथमे ध्याने [३८५।२०] सर्वे सप्तत्रिंशत्प्रथमे ध्याने । [३८५।२१] अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥ [३८५।२२] कस्मादनागम्ये प्रीत्यभावः । [३८५।२२-३८५।२३] सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च । [३८६।०१] द्वितीयेऽन्यत्र संकल्पात् [३८६।०२] द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव । तत्र वितर्काभावात् । [३८६।०३] द्वयोस्तद्द्वयवर्जिताः । [३८६।०४] तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् । [३८६।०५] ध्यानान्तरे च [३८६।०६] ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव । [३८६।०७] शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु ॥ ६.७२ ॥ [३८६।०८] वर्जिता इति वर्तते । [३८६।०८-३८६।०९] आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् । [३८६।१०] कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः । [३८६।११] द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् । [३८६।१२] बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः । [३८६।१३] त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥ [३८६।१४] लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि । [३८६।१५-३८६।१६] दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते । [३८६।१६-३८६।१७] मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघेऽवेत्यप्रसादं प्रतिलभेते । [३८६।१७-३८६।१८] यो हि तयोः प्रसादः सोऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः । [३८६।१८] अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते । [३८६।१९] कोऽयमिह धर्मोऽभिप्रेतः । [३८७।०१] धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥ [३८७।०२] मार्गश्च [३८७।०३] अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः । [३८७।०३-३८७।०४] त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारोऽवेत्यप्रसादा उच्यन्ते । [३८७।०५] द्रव्यतस्तु द्वे श्रद्धा शीलं च [३८७।०६-३८७।०७] बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः । [३८७।०७] किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः । [३८७।०८] निर्मला । [३८७।०९] अवेत्यप्रसादा इति कोऽर्थः । यथाभूतसत्यान्यवबुध्य संप्रत्ययोऽवेत्यप्रसादः । [३८७।१०] यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् । [३८७।१०-३८७।११] कथं व्युत्थितः संमुखी करोति । [३८७।११-३८७।१२] सम्यक्संबुद्धो वत भगवान् स्वाख्यातोऽस्य धर्मविनयः सुप्रतिपन्नोऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् । [३८७।१२-३८७।१३] चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः । [३८७।१३] एवं प्रसन्नस्यैषा प्रतिपत्तिरिति । [३८७।१४] आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा । [३८७।१४-३८७।१५] सूत्र उक्त"मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतोऽशैक्ष" इति । [३८७।१५-३८७।१६] कस्माच्छैक्षस्य सम्यक्विमुक्तिः सम्यग्ज्ञानं च नोक्तम् । [३८७।१७] नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् । [३८७।१८] बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति । [३८७।१८-३८७।१९] कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत । [३८७।१९] न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते । [३८७।१९-३८७।२०] बिना च विमुक्तच्या कथं विमुक्तिज्ञानं व्यवस्थाप्यते । [३८७।२०-३८७।२१] अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् । [३८८।०१] केयं विमुक्तिर्नाम । [३८८।०२] सा पुनर्द्विधा ॥ ६.७५ ॥ [३८८।०३] संस्कृता चासंस्कृता च । तत्र । [३८८।०४] असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता । [३८८।०५] क्लेशप्रहाणमसंस्कृता विमुक्तिः । अशैक्षाधिमोक्षः संस्कृता विमुक्तिः । [३८८।०६] साङ्गः [३८८।०७] सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता । अङ्गानां संस्कृतत्वात् । [३८८।०८] सैव विमुक्ती द्वे [३८८।०९] सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते । [३८८।०९-३८८।१०] चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च । [३८८।१०] विमुक्तिस्क्न्धोऽपि स एव द्रष्ट्टव्यः । [३८८।१०-३८८।११] यत्तर्हि सूत्र उक्तं "कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् । [३८८।११-३८८।१३] इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि"ति विस्तरः । [३८८।१४] तस्मानाधिमोक्ष एव विमुक्तिः । किं तर्हि । [३८८।१४-३८८।१५] तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे । [३८८।१५] उक्ता विमुक्तिः । [३८८।१६] सम्यग्ज्ञानं तु सम्यग्दृष्टिः । व्यतिरिक्तं कतमत् । [३८८।१७] ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥ [३८८।१८] यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् । [३८८।१८-३८८।१९] यदुत क्षयज्ञानमनुत्पादज्ञानं च । [३८८।२०] कतमत्पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् । [३८८।२१-४३८।८२१] विमुच्यते जायमानसशैक्षं चित्तमावृतेः । [३८९।०१] "अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य" इति शास्त्रपाठः । [३८९।०२] किं पुनस्तस्यावरणम् । क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् । [३८९।०२-३८९।०३] वज्रोपमे हि समाधो स च प्रहीयते । [३८९।०३] तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते । सा च प्रहीणा भवति । [३८९।०४] तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च । यत्तर्हि नोत्पद्यमानं लौकिकं च । [३८९।०४-३८९।०५] तदपि विमुच्यते । [३८९।०५] यत्तु नियतमुत्पत्तौ तदेवोक्तम् । [३८९।०५-३८९।०६] लौकिकं कुतो विमुच्यते । [३८९।०६] तत एवोत्पत्त्यावरणात् । [३८९।०६-३८९।०७] ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् । [३८९।०७] कीदृशं तत् । क्लेशप्राप्तिसहितम् । [३८९।०७-३८९।०८] किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति । [३८९।०९] निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥ [३८९।१०] वर्तमान इत्यर्थः । [३८९।११-३८९।१२] या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति । [३८९।१२] क एषां विशेषः । [३८९।१३] असंस्कृतैव धात्वाख्या [३८९।१४] सैवासंस्कृता विमुक्तिस्त्रयो धातवः । तत्र पुनः [३८९।१५] विरागो रागसंक्षयः । [३८९।१६] रागस्य प्रहाणं विरागधातुः । [३८९।१७] प्रहाणधातुरन्येषाम् । [३८९।१८] संक्षय इति वर्तते । रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः । [३८९।१९] निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥ [३८९।२०] संक्षय इत्येवानुवर्तते । क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः । [३८९।२१] येन वस्तु निर्विद्यते विरज्यतेऽपि तेन वस्तुना । चतुष्कोटिकम् । कथं कृत्वा । [३९०।०१] निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः [३९०।०२] दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः । [३९०।०३] विरज्यते । [३९०।०४] सर्वैर्जहाति यैः [३९०।०५] सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते । [३९०।०५-३९०।०६] यैः क्लेशान् प्रजहाति । [३९०।०७] एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥ [३९०।०८] एवं चतुष्कोतिकं सिध्यति । निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः । [३९०।०९] क्लेशान् प्रजहत्निर्वेदवस्त्वालम्बनत्वात् । [३९०।०९-३९०।१०] विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् । [३९०।१०] प्रामोद्यवस्त्वालम्बनत्वात् । [३९०।१०-३९०।११] उभयं पूर्वैः क्लेशान् प्रजहत् । [३९०।११] नोभयमुत्तरैः क्लेशानप्रजहदिति । [३९०।११-३९०।१२] तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति । [३९०।१२-३९०।१३] ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति । ===================================================================== [३९०।१४-३९०।१५] अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति [३९०।१६] ॥श्री लामावाकस्य यदत्र पुण्यम् ॥ सप्तमं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [३९१।०२] क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च । [३९१।०३] किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः । [३९१।०४] नामला क्षान्तयो ज्ञानं [३९१।०५] तत्प्रहेयस्य विचिकित्साऽनुशयस्याग्रहीणत्वात् । [३९१।०५-३९१।०६] दृष्टयस्तु ता सन्तिरणात्मकत्त्वात्यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः [३९१।०७] क्षयानुत्पादधीर्न दक् । [३९१।०८] क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् । [३९१।०९] तद्न्योभयथार्या धीः [३९१।१०] क्षान्तिक्षयानुत्पादज्ञानेभ्योऽन्याऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च । [३९१।११] अन्या ज्ञानं [३९१।१२] लौकिकी प्रज्ञा सर्वैव ज्ञानम् । [३९१।१३] दृशश्च षट् ॥ ७.१ ॥ [३९१।१४] पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः । [३९१।१४-३९१।१५] एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः । [३९१।१५] ज्ञानं त्वेषा चान्या च । कियता सर्वज्ञानसंग्रहः । दशभिर्ज्ञानैः । [५९१।१६]३९११६] समासेन तु [३९१।१७] सास्रवानास्रवं ज्ञानं [३९१।१८] तयोः पुनः [३९१।१९] आद्यं संवृतिज्ञापकम् । [३९२।०१] यत्सास्रवं तत्संवृतिज्ञानम् । प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् । [३९२।०१-३९२।०२] अज्ञानसंवृतत्वातित्यपरे । [३९२।०३] अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥ [३९२।०४] अनास्र्वं ज्ञानं द्विधा भिद्यते । धर्मज्ञानमन्वयज्ञानं च । [३९२।०४-३९२।०५] एवगेते द्वे ज्ञाने त्रीणि भवन्ति । [३९२।०५] संवृतिज्ञानं धर्मज्ञानं च । तत्र [३९२।०६] सांवृतं सर्वविषयं [३९२।०७] संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः । [३९२।०८] कामदुःखदिगोचरम् । [३९२।०९] धर्मख्यम् [३९२।१०] धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् । [३९२।११] अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥ [३९२।१२] अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् । [३९२।१३] ते एव सत्यभेदेन चत्वारि [३९२।१४] ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति । [३९२।१४-३९२।१५] दुःखसमुदयनिरोधमार्गज्ञानानि । [३९२।१५] तदालम्बनत्वात् । [३९२।१६] एते चतुर्विधे । [३९२।१७] अनुत्पादक्षयज्ञाने [३९२।१८-३९२।१९] एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते । [३९२।२०] ते पुनः प्रथमोदिते ॥ ७.४ ॥ [३९३।०१] दुःखहेत्वन्वयज्ञाने [३९३।०२-३९३।०३] प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् । [३९३।०३] किं खलु वज्रोपमोऽपि ताभ्यामेकालम्वनोऽस्ति । [३९३।०४] यदि दुःखसमुदयालम्वनो भवति । अथ निरोधमार्गालम्बनो नैकालम्बनः । [३९३।०५] चतुर्भ्यः परचित्तवित् । [३९३।०६] वेत्तीति वित्ज्ञानम् । परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् । [३९३।०६-३९३।०७] धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः । [३९३।०७] तस्य पुनरयं नियमः [३९३।०८] भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेति तत् ॥ ७.५ ॥ [३९३।०९] भूम्यतिक्रान्तं न जानातीति । [३९३।०९-३९३।१०] अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति । [३९३।१०-३९३।११] श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति । [३९३।११-३९३।१२] अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति । [३९३।१२-३९३।१३] अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् । [३९३।१३] किं च भूयः [३९३।१४] त धर्मान्वयधीपक्ष्यमन्योऽन्यं [३९३।१५] धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति । [३९३।१५-३९३।१६] अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति । [३९३।१६] कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः । [३९३।१६-३९३।१७] दर्शनमार्गे परचित्तज्ञानं नास्ति । [३९३।१७] तदालम्बनं त्वस्ति । [३९३।१७-३९३।१८] तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ [३९३।१९-३९३।२०] दर्शनक्षणौ । श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥ [३९३।२१] श्रावको दर्शनमार्गात्परचित्तज्ञानेन द्वौ क्षणौ जानाति । [३९३।२१-३९३।२२] दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च । [३९३।२२] अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् । [३९३।२२-३९४।०१] यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति । [३९४।०१-३९४।०२] प्रत्येकबुद्धस्त्रीन् क्षणान् । [३९४।०२] प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् । [३९४।०३] प्रथमद्वितीयपञ्चदशानित्यपरे । [३९४।०३-३९४।०४] बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति । [३९४।०५] अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः । [३९४।०६-३९४।०७] क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः । न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥ [३९४।०८] क्षयज्ञानं कतमत् । दुःखं मे परिज्ञातमिति जानाति । [३९४।०८-३९४।०९] समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति । [३९४।०९-३९४।१०] तदुपादाय यत्ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोकोऽभिसमयमिदमुच्यते क्षयज्ञानम् । [३९४।१०-३९४।११] अनुत्पादज्ञानं कतमत् । [३९४।११-३९४।१२] दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत्मार्गो भावितो न पुनर्भावयितव्य इति । [३९४।१२] तदुपादाये"ति विस्तरेणोक्तं शास्त्रे । [३९४।१२-३९४।१३] कथमनास्रवेण ज्ञानेनैवं जानाति । [३९४।१३] तत्पृष्ठलब्धेन व्युत्थित एवं जानाति । [३९४।१३-३९४।१४] अतस्तद्विशेषेण तयोर्विशेषः । [३९४।१४] शास्त्रे ज्ञापिओत इति काश्मीराः । [३९४।१४-३९४।१५] अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् । [३९४।१५] ज्प्रत्यक्षवृत्तित्वाद्वा । [३९४।१५-३९४।१६] अत एवोक्तं "यावत्ज्ञानं दर्शनमपि तदि"ति । [३९४।१६-३९४।१८] इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च । [३९४।१८-३९४।१९] तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः । [३९४।१९] धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः । [३९४।१९-३९४।२०] दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् । [३९४।२०] एवमन्वयज्ञानम् । [३९४।२०-३९४।२१] दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः । [३९४।२१] धर्मान्वयक्षयानुत्पादज्ञानानाम् । एवं समुदयनिरोधज्ञाने चतुर्णां भागः । [३९४।२२] मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः । चतुर्णामनन्तरोक्तानां परचित्तस्य च । [३९४।२३] परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः । धर्मान्वयमार्ग संवृतिज्ञानानाम् । [३९४।२४] क्षयज्ञानमेकं ज्ञानं षण्णां च भागः । धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् । [३९४।२५] एवमनुत्पादज्ञानम् । [३९४।१६-३९४।२६] कस्मात्पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते । [३९५।०१-३९५।०२] स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् । प्रयोगकृतकृत्यत्वहेतूपचयोतो दश ॥ ७.८ ॥ [३९५।०३] सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते । [३९५।०३-३९५।०४] स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् । [३९५।०४] प्रतिपक्षतो धर्मान्वयज्ञाने । कामथातुर्ध्वधातुप्रतिपक्षत्वात् । [३९५।०५] आकारतो दुःखसमुदयज्ञाने । आलम्बनाभेदात् । [३९५।०५-३९५।०६] आकारालम्बनतो निरोधमार्गज्ञाने । [३९५।०६] आकारालम्बनभेदात् । प्रयोगतः परचित्तज्ञानम् । न हि तेन चैत्ता न ज्ञायते । [३९५।०७] चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् । [३९५।०७-३९५।०८] कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः । [३९५।०८-३९५।०९] प्रथमतः हेतूपचयतोऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति । [३९५।१०] सकलस्य सकलप्रतिपक्षत्वात्कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् । [३९५।११] अपि तु [३९५।१२] धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे । [३९५।१३] त्रिधातुप्रतिपक्षस्तत् [३९५।१४] निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः । [३९५।१५] कामधातोस्तु नान्वयम् ॥ ७.९ ॥ [३९५।१६] अन्वयज्ञानं तु सर्वथा नास्ति कामधातुपोरतिपक्षः [३९५।१७] एषां दशानां ज्ञानानां [३९५।१८] धर्मज्ञानान्वयज्ञानं षोड्डशाकारम् [३९५।१९] तान् पुरस्तादुपदेक्ष्यामः । [३९५।२०] अन्यथा । [३९५।२१] तथा च सांवृतं [३९५।२२] संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् । [३९५।२३] स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥ [३९६।०१-३९६।०२] दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति । [३९६।०३] तथा परमतोज्ञानं निर्मलं [३९६।०४] अनास्रवं परचित्तज्ञानं तथेव । स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् । [३९६।०५] समलं पुनः । [३९६।०६] शेयस्वलक्षणाकारं [३९६।०७] सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत्स्वलक्षणं तदाकारयति । [३९६।०८] स्वलक्षणग्राहकत्वात् । लभयमपि तु [३९६।०९] एकैकद्रव्यगोचरम् ॥ ७.११ ॥ [३९६।१०-३९६।११] यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि । [३९६।११-३९६।१२] यत्तर्हि भगवतीक्तम् "सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती"त्येवमादि । [३९६।१२] न तयोर्दुगपद्ग्रहणम् । वस्त्रमलायुगापद्ग्रहणवत् । [३९६।१२-३९६।१३] सरागं चित्तमिति द्विधा सरागता । [३९६।१३] संसृष्टसरागता संयोइग सरागता च । [३९६।१३-३९६।१४] तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततोऽन्यत्सास्रवं संयोगसरागतया सरागम् । [३९६।१४-३९६।१५] अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके । [३९६।१५-३९६।१६] यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् । [३९६।१६-३९६।१७] एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि । [३९६।१७-३९६।१८] तस्माद्रागसंप्रयुक्ततयाऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे । [३९६।१८-३९६।१९] एवं यावत्समोहं विगतमोहं च वेदितव्यम् । [३९६।१९] संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् । [३९६।१९-३९६।२०] विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् । [३९६।२०] संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः । [३९६।२१] तदेतन्न वर्णयन्ति । तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात्क्लिष्टमिद्धसंप्रयीगात् । [३९६।२२] शास्त्रविरोधश्च स्यात् । "संक्षिप्तं चित्तं यथाभूतं प्रजानाति । [३९६।२२-३९६।२३] तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि"ति । [३९६।२४] लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् । प्रगृहीतं कुशलं वीर्यसंप्रयोगात् । [३९६।२४-३९६।२५] परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् । [३९६।२५] महद्गतं कुशलं तद्विपर्ययात् । [३९६।२५-३९७।०१] मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च । [३९७।०१-३९७।०२] क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् । [३९७।०२] कुशलं त्रिभिः कुशलमूलैः । क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् । [३९७।०३] कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् । [३९७।०३-३९७।०४] क्लिष्टं तज्जातीयानागतभावनाऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् । [३९७।०४-३९७।०५] कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् । [३९७।०५-३९७।०६] अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् । [३९७।०६] एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते । [३९७।०७] तस्मादपि क्लिष्टं परीत्तं कुशलं महद्गतम् । उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् । [३९७।०८] अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् । एवमब्युपशान्त्ं व्युपशान्तं च । [३९७।०८-३९७।०९] असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् । [३९७।०९] समाहितं कुशलं तत्प्रतिपक्षत्वात् । [३९७।०९-३९७।१०] अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् । [३९७।१०-३९७।११] भावितं कुशलं ताभ्यां भावितत्वात्विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् । [३९७।१२] विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः । एवं तु सूत्रं नानुलोमितं भवति । [३९७।१३] एषां च पदानां नार्थविशेष उक्तो भवति । [३९७।१३-३९७।१४] सूत्र उक्तं "कथं चित्तमध्यात्मं संक्षिप्तं भवति । [३९७।१४-३९७।१५] यच्चित्तं स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् । [३९७।१५-३९७।१६] कथं वहिर्विक्षिप्तं भवति । [३९७।१६] यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि"ति । [३९७।१६-३९७।१७] ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति । [३९७।१७-३९७।१८] उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् । [३९७।१८] ननु चोक्तं शास्त्रविरोधः स्यादिति । [३९७।१८-३९७।१९] वरं शास्त्रविरोधो न सूत्रविरीधः । [३९७।१९] कथमेषां पदानां नार्थविशेष उक्तो भवति । [३९७।२०-३९७।२१] विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात्संक्षिप्तप्रगृहीतादीनां च । [३९७।२१] न वै नोक्तः पदानामर्थविशेषो भवति । [३९७।२१-३९७।२२] क्लिष्टसामान्येऽपि तद्दोषसंदर्शनात् । [३९७।२२-३९७।२३] इत्यप्येतत्क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः । [३९७।२३-३९७।२४] एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति । [३९७।२४] सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः । [३९७।२४-३९७।२५] यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यातिदं नोक्तं स्यात् । [३९७।२५-३९७।२७] "यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः । [३९७।२७-३९७।२८] यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया" इति । [३९७।२८-३९८।०१] किं पुनर्वोध्यङ्गानां व्यग्रा भावना । [३९८।०१] मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः । [३९८।०१-३९८।०२] कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् । [३९८।०२] औद्धत्याधिकं चोद्धतमित्यविरोधः । [३९८।०२-३९८।०३] तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः । [३९८।०३] नाभिप्रयिकं वचनं वार्यते । [३९८।०३-३९८।०४] सूत्रे तु नायमभिप्राय इति ब्रूमः । [३९८।०४] यत्तूक्तं "सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि"ति । [३९८।०५] कतमच्चित्तं रागसंप्रयुक्तम् । रागप्राप्तिसहितं चेत् । [३९८।०५-३९८।०६] असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् । [३९८।०६] रागालम्बनं चेत् । अर्हतोऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् । [३९८।०७] रागालम्बनत्वात् कथं वा तत्सास्रवम् । [३९८।०७-३९८।०८] सामान्य क्लेशालम्बनत्वादिति चेत् । [३९८।०८] एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् । [३९८।०८-३९८।०९] न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् । [३९८।०९-३९८।१०] तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् । [३९८।१०] किं तर्हि । [३९८।१०-३९८।११] रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते । [३९८।११-३९८।१२] यत्तूक्तं "विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे" इति । [३९८।१३] तत्र तत्प्रप्तिविगमं संधायोक्तम् । [३९८।१३-३९८।१४] ननु चोक्तमन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि"ति । [३९८।१४] एतेनाभिसंधिना न दोषः । [३९८।१४-३९८।१५] न तु तद्विगतरागमिति कृत्वा गृह्यते । [३९८।१५] किं तर्हि । सद्वेषं समोहमित्येवमादि । [३९८।१५-३९८।१६] अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् । [३९८।१७] किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति । [३९८।१७-३९८।१९] न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति । [३९८।१९-३९८।२०] अन्यथा हि तद्रूपालम्बनमपि स्यात्तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् । [३९८।२०-३९८।२२] सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते । [३९८।२२-३९८।२३] शून्यताऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् । [३९८।२३] उक्तं परचित्तज्ञानम् । [३९९।०१] शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते । [३९९।०२] क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा । [३९९।०२-३९९।०४] पारमार्थिकयोरपि संवृतिभजनात्शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः । [३९९।०५] किमनास्रवः स्वलक्षणाकारोऽस्त्यथ न । काश्मीराणां तावत् [३९९।०६] नामलः षोडशभ्योऽन्य आकारः [३९९।०७] नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः । [३९९।०८] अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥ [३९९।०९] श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः । कथं गम्यते । शास्त्रतः इति । [३९९।०९-३९९।१०] शास्त्रे ह्येवमाह । [३९९।१०] "स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् । [३९९।११] अनित्यतो दुःखतः शून्यतोऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः । [३९९।११-३९९।१२] अस्त्येतस्थानमस्त्येतद्वस्त्विति । [३९९।१२] योगविहितती विजानोयादि"ति । [३९९।१२-३९९।१४] नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत्स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् । [३९९।१४] न् अन्यत्रावचनात् । [३९९।१५] एष चेच्छास्त्रार्थोऽभविष्यत् । [३९९।१५-३९९।१६] यदिदं पठच्यते "स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति । [३९९।१६] आह । विजानीयात् । [३९९।१६-३९९।१८] आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतोऽक्रियातोऽपवादतोऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः । [३९९।१८-३९९।१९] रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि"ति । [३९९।१९] अत्राप्येवं पाठोऽभविष्यत् । [३९९।१९-३९९।२०] अस्त्येतत्स्थानमस्त्येतद्वस्त्विति । [३९९।२०] न त्वेवं पठच्यते । तस्मान्नास्यायमर्थः । [३९९।२१] किं पुनरिमे षोडशाकारा नामत आहोस्वित्द्रव्यतः । [३९९।२१-३९९।२२] सप्त द्रव्यतो नामतः षोडशेत्येके । [३९९।२२] दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् । [३९९।२३] एवं तु वर्णयन्ति । [४००।०१] द्रव्यतः षोडशाकाराः [४००।०२] तत्प्रत्ययाधीनत्वातनित्यम् । षीडात्मकत्वात्दुःखम् । [४००।०२-४००।०३] आत्मीयदृष्टिविपक्षेण शून्यम् । [४००।०३] आत्मदृष्टिविपक्षेणानात्मा । हेतुर्वीजधर्मयोगेन । [४००।०३-४००।०४] समुदयः प्रादुर्भावयोइगेन । [४००।०४] प्रभवः प्रबन्धयोगेन । [४००।०४-४००।०५] अभिनिष्पादनार्थेन प्रत्ययः । [४००।०५-४००।०६] तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात्घटाभिनिष्पत्तिर्भवति तद्वदिति । [४००।०६] अक्न्धोपरमत्वात्निरोधः । अग्निनिर्वाषणात्शान्तः । [४००।०६-४००।०७] निरूपद्रव्त्वात्प्रणीतः । [४००।०७] सर्वापक्षालविमुक्तत्वान्निः सरणमिति । गमनार्थेन मार्गः । [४००।०७-४००।०८] योगयुक्तत्वान्न्यायः । [४००।०८] सम्यक्प्रतिपादनार्थेन प्रतिपत् । अत्यन्तसमतिक्रमणान्नैर्याणिक इति । [४००।०९] अथवा अनात्यन्तिकत्वादनित्यम् । अभिन्यासभूतत्वात्दुःखम् । [४००।०९-४००।०१०] अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् । [४००।१०] अकामकारित्वादनात्मा । [४००।१०-४००।०१०] हेतुरागमनयोगेन । [४००।१०-४००।११] समुदय उन्मज्जनयोगेन । [४००।११] प्रभवः प्रसरणयोगेन । प्रतिसरणार्घेन प्रत्यय इति । [४००।११-४००।१२] असंबन्धः संबन्धोपरमत्वान्निरोधः । [४००।१२] त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः । [४००।१२-४००।१३] कुशलत्वात्प्रणीतः । [४००।१३] परमाश्वासत्वान्निः सरणमिति । कुमार्गविपक्षेण मार्गः । [४००।१३-४००।१४] अन्यायविपक्षेण न्यायः । [४००।१४] निर्वाणपुराविरोधनार्थेन प्रतिपत् । सर्वभवप्रतिपक्षत्वान्नैर्याणिकः । [४००।१५] इत्येषां व्याख्यानमनेकपर्यायः । यथाभिप्रेतं प्रवक्ष्यामः । उदयव्ययत्वादनित्यम् । [४००।१६] प्रतिकूलभावात् । दुःखम् । आत्मरहितत्वाच्छून्यम् । स्वयमनात्मत्वादनात्म । [४००।१७] हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् । [४००।१७-४००।१८] "इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा" इति । [४००।१८-४००।१९] प्रभवशब्दः केवलं पश्चात्पठितव्यः शास्त्रे । [४००।१९] कः पुनरेषां विशेषः । चतुर्विधो हि च्छन्दः । [४००।२०] अस्मीत्यभेदेनात्मभाव्च्छन्दः । स्यामित्यभेदेन पुनर्भवच्छन्दः । [४००।२०-४००।२१] इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः । [४००।२१] प्रतिसंधिवन्धच्छन्दश्चतुर्थः । कर्माभिसंस्कारच्छन्दो वा । [४००।२२] तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः । फलस्येव वीजम् । [४००।२२-४००।२३] द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः । [४००।२३-४००।२४] तृतीयस्तज्जातीयदुःखप्रत्ययः । [४००।२४] फलस्येव क्षोत्रोदकपाश्यादिकम् । [४००।२४-४००।२६] क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात्फलस्येव पुष्पावसानमिति । [४००।२६] अथवा । [४००।२६-४०१।०१] तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः । [४०१।०१-४०१।०२] "अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथाऽस्मीति सदस्मीति असदस्मीति । [४०१।०२-४०१।०३] भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि । [४०१।०४-४०१।०५] स्यामित्यस्य भवति इत्थं स्यामेवं स्यामन्यथा स्यामपितु स्यामपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य भवति । [४०१।०६] प्रवृत्त्युपर्मत्वान्निरोधः । निर्दुःखत्वाच्छन्तः । [४०१।०६-४०१।०७] "इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि"ति वचनात । [४०१।०७] निरुत्तरत्वात्प्रणीतः । [४०१।०७-४०१।०८] अपुनरावृत्तित्वान्निःसरणम् । [४०१।०८] पथिभूतत्वान्मार्गः । यथाभूतप्रवृत्तत्वान्न्यायः । [४०१।०८-४०१।०९] प्रतिनियतत्वात्प्रतिपत् । [४०१।०९] यथोक्तम् [४०१।१०] "एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय" इति [४०१।११] अत्यन्तनिर्याणान्नैर्याणिकः । [४०१।११-४०१।१२] अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः । [४०१।१२-४०१।१३] अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः । [४०१।१३-४०१।१४] नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः । [४०१।१४] दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः । [४०१।१४-४०१।१५] ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः । [४०१।१५-४०१।१६] पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः । [४०१।१६-४०१।१७] नास्ति मार्गः कुमार्गोऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति । [४०१।१८] आकारो नाम क एष धर्मः । [४०१।१९] प्रज्ञाकारः [४०१।२०] एवं तर्हि प्रज्ञा साकारा न भविष्यति । प्रज्ञान्तरासंयोगात् । एवं तु युक्तं स्यात् । [४०१।२१] सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति । [४०१।२२] अथ किं प्रज्ञैवाकारयति नेत्याह । किं तर्हि । [४०१।२३] तया सह । [४०१।२४] आकारय्न्ति सालम्बाः [४०२।०१] प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति । [४०२।०२] सर्वमाकार्यते तु सत् ॥ ७.१३ ॥ [४०२।०३] यत्किञ्चिदस्ति सर्वमाकार्यते । [४०२।०३-४०२।०४] तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च । [४०२।०४-४०२।०५] आलम्बना आकार्यन्त एवेति । [४०२।०६] अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः । [४०२।०७] त्रिधाद्यं कुशलान्यन्यानि [४०२।०८] संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् । तत्त्रिविधम् । [४०२।०८-४०२।०९] कुशलाकुशलाव्याकृतम् । [४०२।०९] अन्यानि नव ज्ञानानि कुशलान्येव । [४०२।१०] आद्यं सर्वासु भूमिषु । [४०२।११] कामधाती यावद्भवाग्रे । [४०२।१२] धर्माख्यं षट्सु [४०२।१३] धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च । [४०२।१४] नवसु त्वन्वयाख्यं [४०२।१५] अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च । [४०२।१६] तथैव षट् ॥ ७.१४ ॥ [४०२।१७] दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन । [४०२।१८] भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु । [४०२।१९] ध्यानेष्वन्यमनोज्ञानं [४०३।०१] परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र । [४०३।०२] कामरूपाश्रयं च तत् । [४०३।०३] कामरूपधात्वोश्च तत्परचित्तज्ञानं संमुखीक्रियते । [४०३।०४] कामाश्रयं तु धर्मारुयम् [४०३।०५] धर्मज्ञानं तु कामधात्वाश्रयमेव । न रूपारुप्यधात्वोः संमुखीक्रियते । [४०३।०६] अन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥ [४०३।०७] किं पुनरन्यत् । परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् । कृतो भूम्यश्रयनिर्देशः । [४०३।०८] स्मृत्युपस्थानसंग्रहो वक्तव्यः । सोऽयमुच्यते । [४०३।०९] स्मृत्युपस्थानमेकं धीर्निरोधे [४०३।१०] धीः प्रज्ञा ज्ञानमिति पर्यायाः । निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् । [४०३।११] परचित्तधीः । [४०३।१२] त्रीणि [४०३।१३] परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि । [४०३।१४] चत्वारि शेषाणि [४०३।१५] निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि [४०३।१६] कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् । [४०३।१७] धर्मधीगोचरो नव ॥ ७.१६ ॥ [४०३।१८] धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् । [४०४।०१] नव मार्गान्वयदियोः [४०४।०२] अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् । [४०४।०२-४०४।०३] मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् । [४०४।०४] दुःखहेतुधियोर्द्वयम् । [४०४।०५] दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् । [४०४।०६] चतुर्णां दश [४०४।०७] संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् । [४०४।०८] नैकस्य [४०४।०९] एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् । [४०४।१०] योज्या धर्माः पुनर्दश ॥ ७.१७ ॥ [४०४।११] कतमे दश । [४०४।१२] त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा । [४०४।१३] संकृता धर्मा अष्टधा क्रियन्ते । [४०४।१३-४०४।१४] कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् । [४०४।१४] असंस्कृता द्विधा क्रियन्ते । कुशलाव्याकृतभेदात् । [४०४।१४-४०४।१५] इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति । [४०४।१५-४०४।१६] तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् । [४०४।१६] धर्मज्ञानस्य पञ्च । कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् । [४०४।१७] अन्वयज्ञानस्य सप्त । रूपारुप्यावचरानास्रवाः षट्कुशलं चासंस्कृतम् । [४०४।१७-४०४।१८] दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् । [४०४।१८] निरोधज्ञानस्यैकः । [४०४।१८-४०४।१९] कुशलमेवासंस्कृतम् । [४०४।१९] मार्गज्ञानस्य द्वावनास्रवौ । परचित्तज्ञानस्य त्रयः । [४०४।१९-४०४।२०] कामरूपावचरानास्रवाः संप्रयुक्ताः । [४०४।२०-४०४।२१] क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा । [४०४।२२] स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् । न स्यात् । अपि तु [४०५।०१] सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥ [४०५।०२-४०५।०३] संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात्सर्वधर्मा अनात्मान इति । [४०५।०३] ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः । [४०५।०३-४०५।०४] तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति । [४०५।०४] संनिकृष्टत्वाच्च । [४०५।०४-४०५।०५] तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयं भावनामयम् । [४०५।०५-४०५।०६] तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् । [४०५।०६] अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् । गतमेतत् । [४०५।०७] इदं तु वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागत इति । [४०५।०७-४०५।०८] पृथग्जनस्तावदेकेन समन्वागतः । [४०५।०८] संवृतिज्ञानेन । वीतरागस्तु परचित्तज्ञानेनापि । आर्यः पुनः । [४०५।०९] एकज्ञानान्वितो रागीप्रथमेऽनास्रवक्षणे । [४०५।१०] कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति । [४०५।११] द्वितीये त्रिभिः [४०५।१२] दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः । [४०५।१३] ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् ॥ ७.१९ ॥ [४०५।१४] अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या । [४०५।१४-४०५।१५] दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते । [४०५।१५-४०५।१६] समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति । [४०५।१६-४०५।१७] वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः । [४०५।१८] अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते । [४०५।१९] यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने । [४०५।२०] अनागतानि [४०६।०१-४०६।०२] दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः । [४०६।०२-४०६।०३] कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् । [४०६।०४] तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥ [४०६।०५-४०६।०६] तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु । [४०६।०६] न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् । [४०६।०७] अतोऽभिसमयान्त्याख्यं [४०६।०८] अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते । [४०६।०८-४०६।०९] एकैकसत्याभिसमयान्ते भावनात् । [४०६।०९] कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति । [४०६।०९-४०६।१०] मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वातकृत्स्नाभिसमयाच्च । [४०६।१०-४०६।१२] कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुमित्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते । [४०६।१२-४०६।१३] समुदयोऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् । [४०६।१३] न । [४०६।१३-४०६।१४] तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति । [४०६।१४-४०६।१५] मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वातित्यस्ति महान्विशेषः । [४०६।१५] दर्शनमार्गपरिवारत्वादित्यपरे । [४०६।१५-४०६।१६] तदिदं साध्यत्वादज्ञापकम् । [४०६।१६] किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते । [४०६।१६-४०६।१७] न कदाचितेकान्तेन हि [४०६।१८] तदानुत्पत्तिधर्मकम् । [४०६।१९] कथं पुनस्तद्भावितं भवति । [४०६।१९-४०६।२०] अलब्धलाभात्कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते । [४०६।२०] प्राप्तितः । [४०६।२०-४०६।२१] यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः । [४०६।२१] तस्मान्नैवं भावना सिध्यति । [४०६।२१-४०६।२२] एवं तु सिध्यति यदाहुः पूर्वाचार्याः । [४०६।२२] कथं च पूर्वाचार्या आहुः । [४०६।२२-४०६।२४] लोकोत्तरमार्ग-सामर्थ्यात्संवृतिज्ञानं भाव्यते यद्व्युत्थितः सत्यालम्बनं विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति । [४०६।२४-४०७।०१] एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः । [४०७।०१] गोत्रे हि लब्धे लब्धं गौत्रिकं भवति । एव तु नेच्छन्ति वैभाषिकाः । [४०७।०२] कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते । दर्शनमार्गस्य [४०७।०३] स्वधोभूमि [४०७।०४] यद्भूमिको दर्शनमार्गो भवति तद्भूमिकं चावरभूमिकं च संवृतिज्ञानं भाव्यते । [४०७।०५] आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते । अनागम्यभूमिकं कामावचरं च । [४०७।०६] एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते । [४०७।०७] तत्र पुनः कति स्मृत्युपस्थानानि । [४०७।०८] निरोधेऽन्त्यं [४०७।०९] निरोधेऽभिसमिते यत्संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् । [४०७।०९-४०७।१०] एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति । [४०७।१०-४०७।११] तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं [४०७।१२] स्वसत्याकारं [४०७।१३] यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव । [४०७।१३-४०७।१४] तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति । [४०७।१४] दर्शनमार्गलभ्यत्वाच्च तत् । [४०७।१५] यत्निकम् ॥ ७.२१ ॥ [४०७।१६] प्रायोगिकमित्यर्थः । [४०७।१६-४०७।१७] सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि । [४०७।१८] षोडशे षट्सरागस्य [४०७।१९] भाव्यन्त इति वर्तते । [४०७।१९-४०७।२०] अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने । [४०७।२०] मार्गज्ञानमार्गान्वयज्ञाने । पुरागतानि षट्भाव्यन्ते । [४०७।२०-४०७।२१] धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि । [४०८।०१] वीतरागस्य सप्त तु । [४०८।०२] वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते । [४०८।०३] सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥ [४०८।०४-४०८।०५] षोडशात्क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत्सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । [४०८।०५-४०८।०६] धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि । [४०८।०६] लौकिकश्चेत्भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् । [४०८।०७] लोकोत्तरश्चेत्चतुर्णां धर्मज्ञानानामन्यतमत् । [४०८।०८-४०८।०९] सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥ [४०८।१०] सप्तज्ञानानि भाव्यन्ते इति वर्तते । [४०८।१०-४०८।११] सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः । [४०८।११-४०८।१३] तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव । [४०८।१३-४०८।१४] लौकिकेश्चेत्भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् । [४०८।१४-४०८।१५] लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् । [४०८।१५] अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते । [४०८।१५-४०८।१६] भवाग्राप्रति पक्षत्वात् । [४०८।१६] तत्र जयज्ञानं सप्तमं वेदितव्यम् । [४०८।१६-४०८।१७] सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते । [४०८।१७-४०८।१८] धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि । [४०८।१८] संवृतिज्ञानं न भाव्यते । भवाग्राप्रतिपक्षत्वात् । [४०८।१८-४०८।१९] प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् । [४०८।२०] शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना । [४०८।२१-४०८।२३] शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य । [४०८।२३] संवृतिज्ञानस्याप्युभयोरिति केचित् । तत्र मतविकल्पज्ञापनार्थो वाशब्धः । [४०८।२४] प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना । [४०९।०१] आनन्तर्यपथ षण्णां [४०९।०२-४०९।०३] वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् । [४०९।०३] न संवृतिज्ञानस्य । दर्शनमार्ग सादृश्यात् । [४०९।०४] न परचित्तज्ञानस्य । सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् । किमर्थ प्रतिपिध्यते । [४०९।०४-४०९।०५] अप्रतिपक्षत्वात् । [४०९।०६] भवाग्रविजये तथा ॥ ७.२४ ॥ [४०९।०७] भवाग्रवैराग्येऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव । [४०९।०८] नवानां तु क्षयज्ञाने [४०९।०९] भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् । [४०९।०९-४०९।१०] तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् । [४०९।११] अकोप्यस्य दश भावना । [४०९।१२] यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना । [४०९।१२-४०९।१३] अनुत्पादज्ञानलाभात् । [४०९।१४] तत्संचरेऽन्त्यमुक्तौ च [४०९।१५] योऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना । [४०९।१६] प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥ [४०९।१७] किं पुनः शेषम् । [४०९।१७-४०९।१९] कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधोऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः । [४०९।१९] तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते । [४०९।२०] अनागतभावनया क्षयानुत्पादज्ञाने हित्वा । शैक्षस्यैवम् । [४०९।२०-४०९।२१] अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा । [४०९।२१-४०९।२३] अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते । [४०९।२३-४१०।०१] पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः । [४१०।०१] तेषु हि परचित्तज्ञानं न भाव्यते । दर्शनमार्गपरिवारत्वात् । [४१०।०२] अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते । [४१०।०३] अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते । [४१०।०३-४१०।०४] संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते । [४१०।०४-४१०।०५] अनास्रवं तु न केवलं यद्भूमिको मार्गः । [४१०।०५] किं तर्हि । [४१०।०६] यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते । [४१०।०७-४१०।०९] यद्भूमिवैराग्यायापि हि द्विविधोऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति । [४१०।१०] सास्रवाश्च क्षयज्ञाने [४१०।११-४१०।१३] क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ४ भानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण । [४१०।१३-४१०।१४] स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् । [४१०।१५] यत्किचिल्लभ्यते तत्सर्व भाव्यते । यदपूर्व लभ्यते तत्भाव्यते । [४१०।१६] लब्धपूर्व न भाव्यते ॥ ७.२६ ॥ [४१०।१७] यद्विहीनं पुनर्लभ्यते न त्त्भाव्यते । भावितोत्सृष्टत्वात् । [४१०।१८] किं खलु प्रतिलम्भ एव भावना नेत्युच्यते । चतुर्विधा हि भावना । [४१०।१९] प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च । तत्र [४१०।२०-४१०।२१] प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने । प्रतिपक्षविनिर्धवभावने सास्रवस्य तु ॥ ७.२७ ॥ [४११।०१] प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे । [४११।०२] प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् । [४११।०२-४११।०३] तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति । [४११।०३] अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च । [४११।०३-४११।०४] बाह्याभिधर्मिकाणां षट्भाव्नाः । [४११।०४] एताश्चतस्रः संवरभावना विभावन च । [४११।०४-४११।०५] इन्द्रियाणां पूर्वी कायस्योत्तरा । [४११।०५-४११।०६] "षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा" इति विस्तरः । [४११।०६-४११।०७] ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः । [४११।०७-४११।०८] सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता । [४११।०९] अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः । [४११।१०] ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य । कतमेऽष्टादश । [४११।११] दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च । [४११।११-४११।१२] असाधारणं ह्यावेणिकमित्युच्यते । [४११।१२] तत्र [४११।१३] स्थानास्थाने दश ज्ञानानि [४११।१४] स्थानास्थानज्ञानबलं दश ज्ञानानि । [४११।१५] अष्टौ कर्मफले [४११।१६] कमविपाकज्ञानबलमष्टी ज्ञानानि । निरोधमार्गज्ञाने हित्वा । [४११।१७] नव ॥ ७.२८ ॥ [४११।१८] ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च [४११।१९] ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि । निरोध ज्ञानं हित्वा । [४११।१९-४११।२०] एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् । [४११।२१] प्रतिपत्सु तु । [४१२।०१] दश वा [४१२।०२] नव वेति मतविकल्पाऽर्थो वाशब्दः । यदि सफला प्रतिपत्गृह्यते । [४१२।०२-४१२।०३] सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि । [४१२।०३] न चेन्नव । अन्यत्र निरोधज्ञानात् । [४१२।०४] संवृतिज्ञानं द्वयोः [४१२।०५] पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् । [४१२।०६] षट्दश वा क्षये ॥ ७.२९ ॥ [४१२।०७] आस्रवक्षयज्ञानबलं सड्ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिम् । [४१२।०८] यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् । [४१२।०८-४१२।०९] अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि । [४१२।१०] उक्तः स्वभावो भूमिरिदानीमुच्यते । [४१२।११] प्राङिनविसच्युतोत्पादबलध्यानेषु [४१२।१२] च्युतिरेव च्युतम् । पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् । [४१२।१३] शेषितम् । [४१२।१४] सर्वभूमिषु [४१२।१५] शेषं बलं सर्वभूमिसंगृहीतम् । ताः पुनरेकादश । [४१२।१५-४१२।१६] कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च । [४१२।१६] सर्वाणि । जम्बूद्वीपपुरुषाश्रयाणि । अन्यत्र दुद्धानुत्पादात् । [४१२।१६-४१२।१७] तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते । [४१२।१७] बुद्धस्यैव बलमिति । [४१२।१८] केनास्य बलमव्याहतं यतः ॥ ७.३० ॥ [४१२।१९] यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् । [४१२।१९-४१२।२०] अनेषां तु व्याहन्यते । [४१२।२०-४१३।०१] ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् । [४१३।०१-४१३।०२] स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् । [४१३।०२-४१३।०३] एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् । [४१३।०४] नारायणबलं काये [४१३।०५] काये पुनर्बुद्धस्य नारायणं बलं वर्णयति [४१३।०६] संधिष्वन्ये [४१३।०७] सन्धौ सन्धौ नारायणबलमित्यपरे । [४१३।०७-४१३।०८] मानसवत्कायिकमप्यस्यान तं बलमिति भदन्तः । [४१३।०८] अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति । [४१३।०८-४१३।०९] नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः । [४१३।१०] किं पुनर्नारायणस्य बलस्य प्रमाणम् । [४१३।११] दशाधिकम् । [४१३।१२] हस्त्यादिसप्तकबलम् [४१३।१३] यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः । [४१३।१३-४१३।१४] एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या । [४१३।१४-४१३।१५] प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत्द्विगुणं नारायण मित्यपरे । [४१३।१५-४१३।१६] यथा तु वहुतर तथा युज्यते । [४१३।१७] स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥ [४१३।१८] तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव । [४१३।१९] उपादायरूपं सप्तभ्योऽर्थान्तरमित्यपरे । उक्तानि वलानि । [४१३।२०] वैशारध्यं चतुर्धा तु [४१३।२१] यथासूत्रम् । एतानि पुनश्चत्वारि वैशारद्यानि [४१४।०१] यथाद्यदशमे बले । [४१४।०२] द्वितीयसप्तमे चैव । [४१४।०३-४१४।०४] यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् । [४१४।०४] यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् । [४१४।०५-४१४।०६] यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् । [४१४।०६-४१४।०७] यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् । [४१४।०७-४१४।०८] कथं न ज्ञानमेव वैशार्द्यम् । [४१४।०८] निर्भयता हि वैशारद्यम् । [४१४।०८-४१४।०९] एभिश्च निर्भयो भवति । [४१४।०९] ज्ञानकृतं वैशारद्यं युज्यते । न ज्ञानमेव । [४१४।१०] त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात्भवन्ति यथासूत्रम् । तत्त्वेतत् [४१४।११] स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥ [४१४।१२] स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि । [४१४।१२-४१४।१३] यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा । [४१४।१४] कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते । सवासनप्रहाणात् । [४१४।१४-४१४।१६] अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथाऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति । [४१४।१७] महाकरुणेदानी वक्तव्या । सेयमुच्यते । [४१४।१८] महाकृपा संवृतिधीः [४१४।१९] संवृतिज्ञानात्मिका महाकरुणा । [४१४।१९-४१४।२०] अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत्न च त्रिदुःखताकारा । [४१४।२०] करुणावत् । कस्मादियं महाकरुणेत्युच्यते । [४१४।२१] संभाराकारगोचरैः । [४१५।०१] समत्वादाधिमाव्याच्च [४१५।०२] सभारेण महापुण्यज्ञानसंभारसमुदागमात् । आकारेण त्रिदुःखताकरणात् । [४१५।०३] आलम्बनेन त्रिधातुकालम्बनात् । समत्येन सर्वसत्त्वेषु समवृत्तित्वात् । [४१५।०३-४१५।०४] अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् । [४१५।०४] अधिमात्रत्वेन ततोऽधिमात्रतराभावात् । [४१५।०५] करुणामहाकरुणयोः किं नानाकरणम् । [४१५।०६] नानाकरणमष्ट्धा ॥ ७.३३ ॥ [४१५।०७] स्वभावतोऽद्वेषामोहस्वभावत्वात् । [४१५।०७-४१५।०८] आकारत एकत्रिदुःखताकारत्वात् । [४१५।०८] आलम्बनत एकत्रिधात्वालम्बनत्वात् । [४१५।०८-४१५।०९] भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् । [४१५।०९] संतानतः श्रावकादिबुद्धसंतानजत्वात् । [४१५।०९-४१५।१०] लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् । [४१५।१०] अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च । [४१५।११] किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति । नेत्याह । [४१५।१२-४१५।१३] संभारधर्मकायाभ्यां जगतश्चार्थचर्यया । समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥ [४१५।१४] त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् । [४१५।१४-४१५।१५] सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य । [४१५।१५] आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति । [४१५।१६-४१५।१७] चिराल्पतरजीवनात्क्षत्रियव्राह्मणजातिभेदात्काश्यपगौतमादिगोत्रभेदातल्पानल्पप्रमाणभेदाच्च यथकालमिति । [४१५।१७-४१५।१९] एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च । [४१५।१९] तत्र चतुर्धा हेतुसंपत् । [४१५।१९-४१५।२०] सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च । [४१५।२०] चतुर्विधा फलसंपत् । [४१५।२१] ज्ञानसंपत्प्रहाणसंपत्प्रभावसंपद्रूपकयसंपच्व । चतुर्विधोपकारसंपत् । [४१५।२१-४१५।२३] अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत्यानत्रयसुगति प्रतिष्ठापनसंपद्वा । [४१५।२३] ज्ञानसंपत्पुनश्चतुर्विधा । [४१५।२३-४१६।०१] अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च । [४१६।०१] चतुर्विधा प्रहाणसंपत् । [४१६।०१-४१६।०२] सर्वक्लेशप्रहाणमत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् । [४१६।०२-४१६।०४] बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपतायुरुत्प्तर्गाधिष्ठानवशित्वसंपतावृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत्विविधनिजाश्चर्यधर्मसंपच्च । [४१६।०४-४१६।०५] चतुर्विधा रूपकायसंपत् । [४१६।०५] लक्षणसंपतनुव्यञ्जनसंपत्बलसंपत्वज्रसारास्थिसंपत् । [४१६।०६] इत्येतत्सामासिकं बुद्धानां माहात्म्यम् । अनन्तप्रभेदं तु तद्भिद्यमानं जायते । [४१६।०७-४१६।०८] तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः । [४१६।०८] एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः । [४१६।०९-४१६।१०] अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तोऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् । [४१६।१०-४१६।११] पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् । [४१६।११-४१६।१३] ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते । [४१६।१३] अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते । [४१६।१४] अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् । उक्तं हि भगवता [४१६।१५-४१६।१६] "येऽन्यानपि जिने कारान्करिष्यन्ति विनायके । विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदमि"ति । [४१६।१७] इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥ [४१६।१८] शिष्यसाधारणा अन्ये धर्माः [४१६।१९] श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् । [४१६।२०] केचित्पृथग्जनैः । [४१६।२१] के पुनस्त इति यथायोगम् [४१६।२२] अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥ [४१७।०१-४१७।०२] अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः । [४१७।०२-४१७।०४] तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथाऽपि रणं नोत्पादयति । [४१७।०४-४१७।०५] न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा । [४१७।०५] नैषा प्रतिपत्कञ्चिदेव रणयतीत्यरणा । सा पुनरेषा [४१७।०६] संवृतिज्ञानमरणा [४१७।०७] अयमस्या स्वभावः । [४१७।०८] ध्यानेऽन्त्ये [४१७।०९] चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् । [४१७।१०] अकोप्यधर्मणः । [३४१।७११-४१७११] नान्यस्यार्हतः । [४१७।११-४१७।१२] अन्यो हि स्वसंतानादपि कदाचित्क्लेशरणं परिहर्तु न शक्नोति । [४१७।१३] नृजा [४१७।१४] मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु । [४१७।१५] अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥ [४१७।१६-४१७।१७] अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् । [४१७।१७-४१७।१८] अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् । [४१७।१८] यथा चारणोक्ता [४१७।१९] तथैव प्रणिधिज्ञानं [४१८।०१] तदपि हि संवृतिज्ञानं ध्यानेऽन्त्येऽकोप्यधर्मणः मनुष्याश्रयं च [४१८।०२] सर्वालम्बं तु तत् [४१८।०३] सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः । [४१८।०३-४१८।०४] आरुप्यास्तु न साक्षात्प्राणिधिज्ञानेन ज्ञायन्ते । [४१८।०३] किं तर्हि । निष्पन्नचरितविशेषात् । [४१८।०४-४१८।०५] कर्षकनिदर्शनं चात्रेति वैभाषिकाः । [४१८।०५-४१८।०६] प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते । [४१८।०६] इदं जानीयामिति तद्यथाभूतं जानाति । सर्वस्तत्समाधिविषयः [४१८।०७-४१८।०८] तथा । धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥ [४१८।०९] चतस्रो हि प्रतिसंविदः । [४१८।०९-४१८।१०] धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च । [४१८।१०-४१८।११] ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथाऽरणा । [४१८।११] किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् । [४४१।८११-४१८१२] आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते । [४१८।१३] तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् । [४१८।१४-४१८।१५] नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् । [४१८।१६] चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥ [४१८।१७] अविवर्त्यं ज्ञानमिति वर्तते । [४१८।१७-४१८।१८] युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् । [४१८।१९] वाङ्मार्गालम्बना चासौ [४१८।२०] वाक्च मार्गश्च तस्याः आल्म्वनम् । [४१८।२१] नव ज्ञानानि [४१९।०१] नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् । [४१९।०२] सर्वभूः । [४१९।०३] सर्वभूमिका चासौ कामधातौ यावत्भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् । [४१९।०४] दश षड्वाऽर्थसंवित् [४१९।०५] अर्थप्रतिभानसंवित्सर्वधर्माश्च्चेदर्था दश ज्ञानानि । [४१९।०५-४१९।०६] निर्वाणं चेदर्थः षट्ज्ञानानि । [४१९।०६] धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि । [४१९।०७] सा सर्वत्र [४१९।०८] सा पुनरेषाऽर्थप्रतिसंवित्सर्वभूमिका । [४१९।०९] अन्ये तु सांवृतम् ॥ ७.३९ ॥ [४१९।१०-४१९।११] अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् । [४१९।१२] कामध्यानेषु धर्मे वित् [४१९।१३-४१९।१४] धर्मप्रतिसंवित्पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् । [४१९।१५] वाचि प्रथमकामयोः । [४१९।१६] वाङ्निरुक्तिरित्येकोऽर्थः । [४१९।१६-४१९।१७] निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् । [४१९।१७] प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः । [४१९।१७-४१९।१९] "पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद" इत्यत एवासां क्रमसिद्धिः । [४१९।१९] निर्वचनं निरुक्तिः । [४१९।१९-४१९।२०] यथा रुप्यते तस्माद्रूपमित्येवमादि । [४१९।२०] उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे । [४१९।२०-४१९।२१] आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् । [४१९।२१-४२०।०१] नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति । [४२०।०१] बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति । [४२०।०२] यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति । [४२०।०३] विकलाभिर्न तल्लाभी [४२०।०४] नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति । [४२०।०५] ये चैत उपदिष्टा अरणादयो गुणाः । [४२०।०६] षडेते प्राण्तकोटिकाः ॥ ७.४० ॥ [४२०।०७] प्रान्तकोटिकध्यानवलेनैषां लाभः । [४२०।०८] तत्षडिवधं [४२०।०९] तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् । [४२०।०९-४२०।१०] अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः । [४२०।१०] तदेव प्रन्तकोटिकम् । [४२०।१०-४२०।११] निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका । [४२०।१२] किं पुनरिदं प्रान्तकोटिकं नाम । [४२०।१२-४२०।१३] ध्यानमन्त्यं चतुर्थं ध्यानम् । [४२०।१४] सर्वभूम्यनुलोमितम् । [४२०।१५] वृद्धिकाष्टागतं तच्च [४२०।१६] कथं सर्वभूम्यनुलोमितम् । कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते । [४२०।१७] ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् । [४२०।१७-४२०।१८] प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् । [४२०।१८-४२०।१९] कथं वृद्धिकाष्टागतम् । [४२०।१९] तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते । [४२०।१९-४२०।२०] वृद्धिप्रकर्षो हि वृद्धिकाष्टा । [४२०।२०] इदमीदृशं प्रान्तकोटिकं प्रगताऽन्त कोटिरस्येति कृत्वा । [४२०।२०-४२०।२१] कोटिः पुनरत्र वृद्धिः प्रकारो वा । [४२०।२१] चतुष्कोटिकवत् । [४२०।२२] एते पुनः बुद्धतुणाः [४२१।०१] बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥ [४२१।०२] बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः । बुद्धस्य नास्ति किञ्चित्प्रायोगिकम् । [४२१।०३] तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः । [४२१।०३-४२१।०४] इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि । [४२१।०५] केयमभिज्ञा नाम । [४२१।०६] ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये । [४२१।०७] ज्ञातसाक्षीक्रियाऽभिज्ञा षड्विधा [४२१।०८] ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा । [४२१।०८-४२१।०९] दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः । [४२१।०९] एताः षडभिज्ञा । [४२१।०९-४२१।१०] आसां पञ्च पृथग्जनैः साधारणाः । [४२१।१०] सर्वास्त्वेताः [४२१।११] मुक्तिमार्गधीः ॥ ७.४२ ॥ [४२१।१२] विमुक्तिमार्गप्रज्ञास्वभावाः । श्रामण्यफलवत् । [४२१।१३] चतस्रः संवृतिज्ञानं [४२१।१४] चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा । [४२१।१५] चेतसि ज्ञानपञ्चकम् । [४२१।१६] चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । [४२१।१७] क्षयाभिज्ञा बलं यद्वत् [४२१।१८] यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या । षड्दश ज्ञानानीति । [४२१।१८-४२१।१९] सर्वभूमिकाऽप्येषा तथैव ज्ञात्व्या । [४२१।१९] शेषास्तु [४२२।०१] पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥ [४२२।०२] पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः । कस्मादारुप्यभूमिका न सन्ति । [४२२।०२-४२२।०३] तिस्रस्तावन्न सन्ति । [४२२।०३] रूपालम्बनत्वात् । [४२२।०३-४२२।०४] चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् । [४२२।०४] पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः । [४२२।०४-४२२।०५] स्थानगोत्राद्यालम्बनत्वाच्च । [४२२।०५-४२२।०६] परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति । [४२२।०६-४२२।०७] कीदृशेऽपि मे काये कीदृशं चित्तं भवत्येवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति । [४२२।०७] अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति । [४२२।०७-४२२।०९] पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति । [४२२।०९-४२२।१०] यावत्संधिचित्तम् । [४२२।१०] ततोऽन्तराभवस्यैकक्षणं मरणेऽपि निष्पन्नो भवति । [४२२।१०-४२२।११] एवं परस्यापि स्मरति । [४२२।११-४२२।२११] अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् । [४२२।११] अनुभूतपूर्वस्यैव स्मरणम् । [४२२।१२] शुद्धावासानां कथं स्मरणम् । श्रवणेनानुभूतत्वात् । [४२२।१२-४२२।१३] आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् । [४२२।१३] अन्येषां स्वसंतत्यधिष्ठानेन । [४२२।१३-४२२।१४] ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः । [४२२।१४] ताः पुनरेताः पञ्चाभिज्ञाः [४२२।१५] स्वाधोभूविषयाः [४२२।१६] यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति । [४२२।१६-४२२।१७] निर्मिणोति वा अधरां नोक्तराम् । [४२२।१७-४२२।१८] एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् । [४२२।१८] चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति । [४२२।१८-४२२।१९] पूर्वनिवासानुस्मृत्या न स्मरति । [४२२।१९] च्युतोपपादाभिज्ञया न पश्यति । [४२२।१९-४२२।२०] अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् । [४२२।२१] कथमेता लभ्यन्ते । अतुचित्ताः प्रयोगतः [४२२।२२] लभ्या उचितास्तु विरागतः । [४२२।२३] जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः । [४२२।२३-४२२।२४] सर्वासां तु प्रयोगेणोत्पादनम् । [४२२।२५] तृतीया त्रीप्युपस्थानानि [४२३।०१] चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि । [४२३।०१-४२३।०२] चित्तचैत्तालम्ल्बनत्वात् । [४२३।०३] आद्यं श्रोत्रर्द्विवक्षुषि ॥ ७.४४ ॥ [४२३।०४] अभिज्ञेति वर्तते । [४२३।०४-४२३।०५] ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः । [४२३।०५] रूपालम्बनत्वात् । ऋद्धिश्चतुर्बाह्यायतनालम्बनाऽन्यत्र शब्दात् । [४२३।०६] दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने । [४२३।०६-४२३।०७] कथं तर्हि "च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः" इत्येवमादि । [४२३।०७-४२३।०८] न तत्तेन जानाति । [४२३।०८] अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति । [४२३।०९] अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् । [४२३।१०] अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः । [४२३।११] दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते । ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे । [४२३।१२] कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः । आश्रयवशेन तद्भूमिनिर्देशात् । [४२३।१२-४२३।१३] तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके । [४२३।१३] आनन्तर्यमार्गवशेन वा । [४२३।१३-४२३।१४] अन्याश्चतस्रः कुशलाः । [४२३।१४] यत्तर्हि प्रकरणेषूक्तम् "अभिज्ञा कतमा । कुशला प्रज्ञे"ति । [४२३।१४-४२३।१५] प्रधानिक एष निर्देशो वाहुलिको वा । [४२३।१५] आसां चाभिज्ञानां [४२३।१६] तिस्रो विद्याः [४२३।१७] पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते । [४२३।१८] कस्मादेता एव नान्याः । [४२३।१९] अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥ [४२३।२०] एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् । आसां परमार्थेन [४२४।०१] अशैक्ष्यन्त्या [४२४।०२] आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या । [४२४।०३] तदास्ये द्वे तत्संतानसुद्भवात् । [४२४।०४] अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते । नैव तु ते शैक्ष्यो नाशैक्ष्यौ । [४२४।०४-४२४।०५] किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते । [४२४।०५] यतः शैक्ष्यौ विद्ये नोच्येते । [४२४।०६] इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥ [४२४।०७] न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते । पुनरप्यविद्याभिभवात् । [४२४।०८] आसां चाभिज्ञानाम् [४२४।०९] आद्या तृतीया षष्ठी च प्रातिहार्याणि [४२४।१०-४२४।११] ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रममृद्धच्यादेशनानुशासनप्रातिहार्याणि । [४२४।११-४२४।१२] विनेयमनसामादितोऽत्यर्थ हरणात्प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् । [४२४।१२-४२४।१३] प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा । [४२४।१३] एषां पुनः [४२४।१४] शासनम् । [४२४।१५] अग्च्र्यम् [४२४।१६] अनुशासनं प्रतिहार्यमग्च्य म् । [४२४।१७] अव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥ [४२४।१८] ऋद्धच्यादेशने हि विद्यया विकेइयेते । [४२४।१८-४२४।१९] अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति । [४२४।१९-४२५।०१] न तु यथाभूतानुशासनमन्यथा शक्यं कर्तुमव्य्भिचारित्वात् । [४२५।०१-४२५।०३] प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यमृद्धिरित्युच्यते । [४२५।०४] केयमृद्धिः । वैभाषिकन्यायेन [४२५।०५] ऋद्धिः समाधिः [४२५।०६] ऋध्यत्यनेनेति कृत्वा योजयितव्यम् । किं तेन समृध्यति । [४२५।०७] गमनं निर्माणं च [४२५।०८] ततस्तत्र [४२५।०९] गतिस्त्रिधा । [४२५।१०] शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः । [४२५।११] शास्तुर्मनोजवा [४२५।१२] मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य । [४२५।१२-४२५।१३] सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् । [४२५।१३] अत ए"वाचिन्त्यो बुद्धानां बुद्धविषय" इत्युक्तं भगवता । [४२५।१४] इतरे तु गती बुद्धस्यानुक्तसिद्धे । [४२५।१५] अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥ [४२५।१६] श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः । पक्षिवत्क्रमेण शरीरवाहनात् । [४२५।१७] आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् । निर्माणं पुनर्द्विविधम् । [४२५।१८] कामावचरं रूपावचरं च । तत्र तावत् [४२५।१९] कामाप्तं निर्मितं बाह्यं चतुरायतनं [४२५।२०] कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् । तत्पुनर् [४२६।०१] द्विधा । [४२६।०२] स्वपरशरीरसंबद्धम् । [४२६।०३] रूपाप्तं द्वे तु [४२६।०४] रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने । तत्र गन्धरसाभावात् । [४२६।०४-४२६।०५] तदपि द्विविधं तथैव । [४२६।०५-४२६।०६] कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातवित्यष्टविधं समासतो निर्माणम् । [४२६।०६-४२६।०७] कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति । [४२६।०७] वस्त्राभरणवन्न समन्वागमः । [४२६।०७-४२६।०८] द्वच्यायातनं निर्मिणोतीत्यपरे । [४२६।०८] किं खल्वभिज्ञयैव निर्माणं निर्मीयते । नेत्युच्यते । किं तर्हि । [४२६।०९] अभिज्ञाफलैः । [४२६।१०] निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥ [४२६।११] तानि पुनश्चतुर्दश निर्माणचित्तानि [४२६।१२] यथाक्रमं ध्यानफलं द्वे यावत्पञ्च । [४२६।१३] प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते । [४२६।१३-४२६।१४] द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि । [४२६।१४-४२६।१५] एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि । [४२६।१५] स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् । [४२६।१६] नोर्ध्वजम् । [४२६।१७] नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति । [४२६।१७-४२६।१८] द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते । [४२६।१९] तल्लभो ध्यानवत् [४२६।२०] तेषां च निर्माणचित्तानां ध्यानवल्लाभः । [४२६।२०-४२६।२१] कि खलु निर्माणचित्तादेव स्यात्व्युत्थानम् । [४२६।२१] नास्त्येतत् । यस्मादुत्पद्यते । [४२७।०१] शुद्धात्तत्स्वतश्च [४२७।०२] शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः । [४२७।०३] ततोऽपि ते ॥ ७.५० ॥ [४२७।०४] निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । [४२७।०४-४२७।०५] न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात्व्युत्थानमस्ति । [४२७।०५-४२७।०६] सर्वस्य च निर्मितस्य [४२७।०७] स्वभूमिकेन निर्माणं [४२७।०८] नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते । [४२७।०९] भाषणं त्वधरेण च । [४२७।१०] स्वभूमिकेन चेति च-शब्दः । [४२७।१०-४२७।११] कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते । [४२७।११] ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन । [४२७।११-४२७।१२] ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् । [४२७।१२] वहूनां निर्मितानां भाषणं [४२७।१३] निर्मात्रैव सहाशास्तुः [४२७।१४] बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते । [४२७।१४-४२७।१५] यदा च वहवो निर्मिता भवन्ति तदा युगपत्भाषन्ते । [४२७।१६] एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः । [४२७।१७] एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त" इति गाथा । [४२७।१८] बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते । [४२७।१८-४२७।१९] यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति । [४२७।२०] अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥ [४२८।०१] निर्माणमधिष्ठायावस्थानकामतयाऽन्येन मनसा वाचं प्रवर्तयन्ति । [४२८।०१-४२८।०२] किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि । [४२८।०३] मृतस्याप्यस्त्यधिष्ठानं [४२८।०४] आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् । तत्तु [४२८।०५] नास्थिरस्य [४२८।०६] अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् । आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् । [४२८।०७] अपरे तु न । [४२८।०८] अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् । [४२८।०८-४२८।०९] अस्थिशङ्कलावस्थानं तु देवतानुभावादिति । [४२८।०९] किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति । [४२८।१०] आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥ [४२८।११] आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति । [४२८।११-४२८।१२] जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति । [४२८।१२-४२८।१३] अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति । [४२८।१४] अव्याकृतं भावनाजं [४२८।१५] यद्भावनाफलं तदवश्यमव्याकृतं भवति । [४२८।१६] त्रिविधं तूपपतीजम् । [४२८।१७-४२८।१८] उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् । [४२८।१८-४२८।१९] तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् । [४२८।१९] न त्विन्द्रियं निर्मीयते । [४२८।१९-४२८।२०] किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च । [४२८।२०] एषा च द्विविधा [४२९।०१] ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥ [४२९।०२] समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति । [४२९।०२-४२९।०३] भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च । [४२९।०३] यथा मान्धातुरन्तराभविकानां च । [४२९।०४] यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च । [४२९।०४-४२९।०५] किमेते दिव्ये एव आहोस्वित्दिव्ये एव दिव्ये । [४२९।०५] यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् । [४२९।०६] दिव्यश्रोत्राक्षिणी [४२९।०७] यस्मात्ते [४२९।०८] रूपप्रसादौ ध्यानभूमिकौ । [४२९।०९-४२९।११] ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात्दिव्ये एव ते चक्षुःश्रोत्रे । [४२९।११] ते च पुनः [४२९।१२] सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥ [४२९।१३-४२९।१४] नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात्नापि विकलं काणविब्रान्ताभावात् । [४२९।१४] रूपावचरसत्त्ववत् । [४२९।१४-४२९।१५] दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः । [४२९।१५] आह चात्र [४२९।१६-४२९।१७] दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति । मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥ [४२९।१८] कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति । यस्य यादृशं चक्षुर्भवति । [४२९।१८-४२९।२०] श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति । [४२९।२०] अभिसंस्कारेण तु [४३०।०१] द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खङ्गवैशिकाः । [४३०।०२] सर्वाभ्हिसंस्कारेण सह श्रावकोऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति । [४३०।०३] त्रिसाहस्रं खङ्गविषाणकल्पः । [४३०।०३-४३०।०४] बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति । [४३०।०५] किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि । [४३०।०६] अन्यदप्युपपत्त्याप्तं [४३०।०७] दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति । [४३०।०७-४३०।०८] न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते । [४३०।०८] यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः [४३०।०९] तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥ [४३०।१०] अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते । नोपपत्तिप्रतिलब्धेन । [४३०।११] चेतोज्ञानं तु तत्त्रेधा [४३०।१२] उपपत्त्याप्तमिति वर्तते । [४३०।१२-४३०।१३] परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् । [४३०।१४] तर्कविद्याकृतं च यत् । [४३०।१५-४३०।१६] यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् । [४३०।१६] न यथा भावनाफलं कुशलमेव । [४३०।१६-४३०।१७] उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां [४३०।१८] जानते नारका आदौ [४३०।१९] यावन्न दुःखवेदनाभ्याहता भवन्ति । अन्यगतिस्था नित्यं जानते । [४३०।२०] नृणां नोत्पत्तिलाभिकम् ॥ ७.५६ ॥ [४३१।०१] मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् । [४३१।०१-४३१।०२] यत्तर्हि प्रकृतिजातिस्मरा भवन्ति । [४३१।०२] कर्मविशेषजाऽसौ तेषाम् । [४३१।०२-४३१।०३] त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति ॥ ===================================================================== [४३१।०४] ॥*॥ अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥*॥ [४३१।०५] स्थविरश्रीलामावाकस्य यदत्र पुण्यम् । अष्टमं कोशस्थानम् ===================================================================== ओं नमो बुद्धाय ===================================================================== [४३२।०२-४३२।०३] ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः । [४३२।०३-४३२।०४] अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् । [४३२।०५] द्विधा ध्यानानि [४३२।०६] समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् । तानि पुनः [४३२।०७] चत्वारि [४३२।०८] प्रथमं ध्यानं यावच्चतुर्थम् । तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः । [४३२।०८-४३२।०९] लोकनिर्देशकोशस्थाने हि [४३२।१०] प्रोक्तास्तदुपपत्तयः । [४३२।११] कथं प्रोक्ताः । [४३२।१२] "पृथक्पृथक् । [४३२।१३] ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि"ति । [४३२।१४] समापत्तिध्यानं तु वक्तव्यम् । अत उच्यते [४३२।१५] समापत्तिः शुभैकाग्य्रं [४३२।१६] अभेदेन कुशलचित्तैकाग्रता ध्यानम् । समाधिस्वभावत्वात् । [४३२।१७] पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥ [४३२।१८] सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् । केयमेकाग्रता नाम । एकालम्बनता । [४३२।१९] एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति । [४३३।०१] न चित्तान्येव समाधिः । येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः । [४३३।०१-४३३।०२] सैव चित्तैकाग्रता । [४३३।०२-४३३।०३] ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् । [४३३।०३] संप्रयुक्ते समाधिवैयर्थ्यम् । [४३३।०३-४३३।०४] यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते । [४३३।०४-४३३।०५] महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः । [४३३।०५] न दुर्बलत्वात्समाधेः । चित्तान्येवैकाग्राणि समाधिः । [४३३।०६-४३३।०७] तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे । [४३३।०८] ध्यानमिति कोऽर्थः । ध्यायन्त्यनेनेति । प्रजानन्तीत्यर्थः । [४३३।०८-४३३।०९] समाहितचित्तस्य यथाभूतप्रज्ञानात् । [४३३।०९] चिन्तनार्थो ह्येष धातुः । चिन्तनं च प्रज्ञेति सिद्धान्तः । [४३३।०९-४३३।१०] एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः । [४३३।१०] न । प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् । [४३३।१०-४३३।११] कश्च प्रकर्षयुक्तः । [४३३।११] योऽङ्गसमायुक्तः समाधिः । [४३३।११-४३३।१२] स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति । [४३३।१२] सुतरां तेन ध्यायन्ति । [४३३।१३] क्लिष्टस्य कथं ध्यानत्वम् । मिथ्योपनिध्यानात् । अतिप्रसङ्गः । [४३३।१३-४३३।१४] न । तत्प्रतिरूप एव तत्संज्ञाविनेवेशात्पूतिबीजवत् । [४३३।१४] उक्तानि चाकुशलानि ध्यानान्यपि भगवता । [४३३।१५] कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् । [४३३।१५-४३३।१६] प्रथमं तावत् [४३३।१७] विचारप्रीतिसुखवत् [४३३।१८] विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत्प्रथमं ध्यानम् । [४३३।१८-४३३।१९] विचारवचनाद्वितर्कोऽप्युक्तो भवति । [४३३।१९] साहचर्याद्धूमाग्निवत् । [४३३।१९-४३३।२०] न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति । [४३३।२०] शेषं पुन्र्ध्यानत्रयं [४३३।२१] पूर्वपूर्वाङ्गवर्जितम् । [४३३।२२] शुभैकाग्र्यमिति वर्तते । [४३३।२२-४३३।२३] विचारविवर्जितं प्रीतिसुखवत्द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति । [४३३।२३-४३३।२४] यथा ध्यानानि [४३३।२५] तथारूप्याः [४३४।०१] केन प्रकारेण । एतेऽपि हि द्विधा उपपत्तिसमापत्तितः । [४३४।०१-४३४।०२] चत्वारश्च एषामपि चोपपत्तय उक्ताः । [४३४।०२-४३४।०३] समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः [४३४।०४] चतुस्कन्धाः [४३४।०५] अनुपरिवर्तिरूपाभावात् [४३४।०६] अधोभूमिविवेकजाः ॥ ८.२ ॥ [४३४।०७] चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् । [४३४।०७-४३४।०८] तद्विवेकजं विज्ञानानन्त्यायतनम् । [४३४।०८] तद्विवेकजमाकिञ्चन्यायतनम् । [४३४।०८-४३४।०९] तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः । [४३४।०९] कोऽयं विवेको नाम । येन मार्गेणाधस्ताद्विमुच्यते । [४३४।०९-४३४।१०] वैराग्यगमनात् । [४३४।१०] त एव चारुप्याः [४३४।११] विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः । [४३४।१२] आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते । [४३४।१३] न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः । [४३४।१३-४३४।१४] यदुक्तं "चतुस्कन्धा" इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति । [४३४।१४] यदि हि स्यात्कथमारुप्या उच्येरन् । [४३४।१४-४३४।१५] ईषद्रूपत्वा दापिङ्गलवत् । [४३४।१५] कीदृशं तावदीषद्रूपं तत्रेष्यते । [४३४।१५-४३४।१६] यदि कायवाक्संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः । [४३४।१६] न चासति भूते भौतिकं युज्यते । [४३४।१७] अनास्रवसंवरवच्चेत् । सास्रवभूतसद्भावात् । स्मापत्तावपि तत्प्रतिषेध उक्तः । [४३४।१८] अथ कायोऽप्यस्तीन्द्रियाण्यपि रूपीणि । कथं तदीषद्रूपा इष्यन्ते । [४३४।१८-४३४।१९] परिमाणाल्पत्वाच्चेत् । [४३४।१९] उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः । अच्छत्वाच्चेत् । [४३४।१९-४३४।२०] अन्तराभवरूपावचरेष्वपि प्रसङ्गः । [४३४।२०] यतो नाच्छतरं चेत् । भवाग्रमेवारुप्यं स्यात् । [४३४।२०-४३४।२१] समापत्तिवत्तदुपपत्तिविशेषात् । [४३४।२१-४३४।२२] ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात्कस्तत्र विशेषः । [४३४।२२] द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् । काऽत्र युक्तिः । [४३४।२२-४३४।२५] आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना "द्विज्ञानप्रत्ययं नामरूपमि"ति वचनातन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् । [४३४।२५] न । [४३४।२५-४३४।२६] संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् । [४३४।२६] किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति । [४३४।२६-४३५।०१] यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति । [४३५।०१-४३५।०२] यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति । [४३५।०३] यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः । [४३५।०३-४३५।०४] किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वितेकेनापीति । [४३५।०४] अविशेषवचनान्न संप्रधार्यमिति चेत् । [४३५।०४-४३५।०५] अतिप्रसङ्गः । [४३५।०५] बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति । [४३५।०५-४३५।०६] बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् । [४३५।०६-४३५।०७] चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः । [४३५।०७-४३५।०८] "अतिक्रम्य देवान् कवडीकारा हारभक्षानि"ति वचनात्प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् । [४३५।०८-४३५।०९] आरुप्येष्वपि रूपस्याप्रसङ्गः । [४३५।०९] "रूपाणां निःसरणमारुप्याः" । [४३५।०९-४३५।१०] "ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः" । [४३५।१०-४३५।११] "अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि"ति वचनात् । [४३५।११] सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति । [४३५।११-४३५।१२] औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् । [४३५।१२] कवडीकारेऽपि तुल्यम् । [४३५।१२-४३५।१३] ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः । [४३५।१३] वेदनादिनिःसरणं च किं नोक्ताः । [४३५।१४] अधोभूमिकवेदनानिःसरणात् । रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् । [४३५।१५] अतो रूपाणां निःसरणमुक्ताः । [४३५।१५-४३५।१६] भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च । [४३५।१६-४३५।१७] ध्यानेसु चोक्तं भगवता "यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति । [४३५।१७-४३५।१८] आरुप्येषु तूक्तं "यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे"ति । [४३५।१८-४३५।१९] सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् । [४३५।१९] तस्मात् [४३५।२०] नारुप्ये रूपसद्भावः [४३५।२१] कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात्पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् । [४३५।२२] रुपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥ [४३५।२३] रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः । [४३५।२३-४३५।२४] कथमनाश्रित्य रूपं चित्तं वर्तते । [४३५।२४] कस्मान्न वर्तितव्यम् । इहैवमदर्शनात् । [४३५।२४-४३५।२५] कवडीकारान्तरेणाऽपि विना रूपधातौ न वर्तितव्यम् । [४३५।२५] किं कारणम् । इहैवमदर्शनात् । [४३५।२५-४३५।२६] उक्तं च पूर्वं यथा वर्तते । [४३५।२६] गतमेतदिदं वक्तव्यम् । [४३६।०१-४३६।०२] किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते । [४३६।०२] न हि । कथं तर्हि । त्रयस्तावत् । [४३६।०३] आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः । [४३६।०४] तथाप्रयोगात् [४३६।०५-४३६।०६] अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् । [४३६।०६] अत एषामेताः संज्ञा इति । [४३६।०७] मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः ॥ ८.४ ॥ [४३६।०८] मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् । [४३६।०८-४३६।०९] न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति । [४३६।०९-४३६।१०] "यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति । [४३६।११] कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते । मृदुत्वात्संज्ञामित्येतदेवोक्तम् । [४३६।१२] इति मौलं समापत्तिद्रव्यमष्टविधं [४३६।१३-४३६।१४] इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति । [४३६।१४] तेषां पुनः [४३६।१५] त्रिधा । [४३६।१६] सप्त [४३६।१७] भवाग्रादन्यानि सप्त त्रिविधानि । [४३६।१८] आस्वादनावच्छूद्धानास्रवाणि [४३६।१९] आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च । [४३७।०१] अष्टमं द्विधा ॥ ८.५ ॥ [४३७।०२] भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च । अनास्रव नास्ति । तत्र पुनः [४३७।०३] आस्वादनासंप्रयुक्तं सतृष्णं [४३७।०४] तृष्णा ह्यास्वादना । [४३७।०५] लौकिकं शुभम् । [४३७।०६] शुद्धकं [४३७।०७-४३७।०८] लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयतेऽलोभादि शुद्धधर्मयोगात् । [४३७।०८] किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते । [४३७।०९] तत्तदास्वाद्यं [४३७।१०] तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् । [४३७।१०-४३७।११] यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः । [४३७।१२] लोकत्तरमनास्रवम् ॥ ८.६ ॥ [४३७।१३] यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् । [४३७।१३-४३७।१४] एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः । [४३७।१४] तत्र [४३७।१५] पञ्चाद्ये [४३७।१६] प्रथमे भागे पञ्चाङ्गानि । [४३७।१७] तर्कचारौ च प्रीतिसौख्यसमाधयः । [४३७।१८-४३७।१९] वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च । [४३७।१९] शेषाण्यङ्गानीति । [४३७।१९-४३७।२०] यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् । [४३८।०१] प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥ [४३८।०२] द्वितीये ध्याने चत्वार्यङ्गानि । [४३८।०२-४३८।०३] अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च । [४३८।०४] तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः । [४३८।०५] तृतीये तु ध्याने पञ्चाङ्गानि । उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च । [४३८।०६] समाधिपर्यायो हि स्थितिः । "सम्यक्समाधिः कतमः । [४३८।०६-४३८।०७] या चित्तस्य स्थिति"रिति सूत्रे वचनात् । [४३८।०८] चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥ [४३८।०९] चतुर्थं ध्यानमन्त्यम् । तत्र चत्वार्यङ्गानि । [४३८।०९-४३८।१०] अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च । [४३८।१०-४३८।११] तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति । [४३८।११] प्रथमतृतीययोः पञ्चाङ्गत्वात् । द्वितीयचतुर्थयोश्चतुरङ्गत्वात् । [४३८।१२] नामत एवम् । [४३८।१३] द्रव्यतो दश चैकं च [४३८।१४] द्रव्यत एतान्येकादश भवन्ति । प्राथमध्यानिकानि पञ्च । [४३८।१४-४३८।१५] द्वितीयेऽध्यात्मसंप्रसादो वर्धते । [४३८।१५] तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि । चतुर्थेऽदुःखासुखा वेदनेति । [४३८।१६] अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीयेऽपि तानीति चतुष्कोटिकम् । [४३८।१६-४३८।९१७] प्रथमा कोटिर्वितर्कविचारौ । [४३८।१७] द्वितीया अध्यात्मसंप्रसादः । [४३८।१७-४३८।१८] तृतीया प्रीतिः सुखं चित्तैकाग्रता च । [४३८।१८] चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति । [४३८।१८-४३८।१९] एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि । [४३८।१९] कस्मात् । तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते । [४३८।१९-४३८।२०] यस्मात्तद्वेदनासुखं ध्यानयोस्तु [४३८।२१] प्रस्रब्धिसुखमाद्ययोः । [४३८।२२] प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् । [४३८।२२-४३८।२३] इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् । [४३८।२३] द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् । [४३८।२४] न हि तत्तयोः कायिकं युज्यते । समापन्नस्य विज्ञानकायाभावात् । [४३८।२४-४३८।२५] नापि चैतसिकं प्रीतिवचनात् । [४३८।२५] प्रीतिर्हि सौमनस्यम् । [४३८।२५-४३८।२६] न च सुखसौमनस्ययोर्यौगपद्यमस्ति । [४३८।२६] न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति । [४३९।०१] अपरे पुनराहुः । [४३९।०१-४३९।०२] नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु । [४३९।०२] कायिकमेव सुखमङ्गं व्यवस्थापितमिति । [४३९।०२-४३९।०३] यत्तर्हि सुत्र उक्तं "सुखेन्द्रियं कतमत् । [४३९।०३-४३९।०४] यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि"ति । [४३९।०४] अध्यारोपित एष पाठः । [४३९।०५] केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् । [४३९।०५-४३९।०६] "सुखं च कायेन प्रतिसंवेदयत" इति स्वशब्देन वचनाच्च । [४३९।०६] मनस्कायेनेतिचेत् । एवमुक्त्वा को गुणः । [४३९।०६-४३९।०७] चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वेऽपि सुखावचनाच्च । [४३९।०७-४३९।०८] सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् । [४३९।०८] तृतीये प्रस्रब्धिसुखावचनं कस्मात् । उपेक्षोपहतत्वादिति चेत् । [४३९।०८-४३९।०९] न उपेक्षयैव तद्वृद्धिः । [४३९।०९] पूर्विकाभ्यस्ताद्विशेषात् । [४३९।०९-४३९।११] "यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती"त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् । [४३९।११] समापन्नस्य कथं कायविज्ञानमिति चेत् । [४३९।१२] समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् । [४३९।१२-४३९।१३] बहिर्विक्षेपास्समाधिब्रंश इति चेत् । [४३९।१३] न । [४३९।१३-४३९।१४] समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् । [४३९।१४-४३९।१५] कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् । [४३९।१५] न । अत एव । [४३९।१५-४३९।१६] कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् । [४३९।१६] न । प्रस्रब्धिविज्ञानस्योत्पत्तेः । [४३९।१६-४३९।१७] अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् । [४३९।१७] मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् । [४३९।१८] कायिकप्रस्रब्धिवोध्यङ्ग वचनात् । इष्टे बोध्यङ्गानुकूलत्वादिति चेत् । [४३९।१९] अनास्रवत्वमप्येवम् । "सास्रवा धर्माः कतमे । [४३९।१९-४३९।२०] चक्षुर्यावदेव स्प्रष्टव्यमि"त्यस्य सूत्रस्य विरोधादिति चेत् । [४३९।२०] न । अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् । [४३९।२१] न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् । [४३९।२१-४३९।२२] अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् । [४३९।२२-४३९।२३] न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् । [४३९।२३] साध्यमिति चेत् । [४३९।२३-४३९।२४] सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात्दोषावचनाच्च । [४३९।२४-४३९।२५] तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् । [४३९।२५-४४०।०१] अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् । [४४०।०१] तदपकर्षेणोत्तरध्यानव्यवस्थापनात् । न तु संज्ञादीनामङ्गत्वमुक्तम् । [४४०।०२] किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् । उपकारकत्वादिति चेत् । न । [४४०।०२-४४०।०३] वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् । [४४०।०३] अस्त्येष एकेषां वादः । [४४०।०३-४४०।०४] नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् । [४४०।०४] तस्माद्विचार्यमेतत् । [४४०।०४-४४०।०५] अध्यात्मसंप्रसादो नाम क एष धर्मः । [४४०।०५-४४०।०६] वितर्क-विचार-क्षोभ-विरहात्प्रशान्तवाहिता संततेरध्यात्मसंप्रसादः । [४४०।०६-४४०।०७] सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिरप्रसन्ना वर्तते इति । [४४०।०७-४४०।०८] न तर्हि स द्रव्यान्तरमिति कथं द्रव्यत एकादशाङ्गानि भवन्ति । [४४०।०८] तस्मात्तर्हि [४४०।०९] श्रद्धा प्रसादः [४४०।१०] तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यत् [४४०।१०-४४०।११] सोऽत्रध्यात्मसंप्रसाद इति । [४४०।११] नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपर् [४४०।११-४४०।१२] कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति । [४४०।१२] अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति । [४४०।१३] नत्वेष शस्त्रसिद्धान्तः । यदुक्तं "प्रीतिर्हि सौमनस्यम्" इति । [४४०।१३-४४०।१४] कथमिदं गम्यते । किमन्यत्भवतु । [४४०।१४] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः [४४०।१४-४४०।१५] सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति । [४४०।१५] [४४०।१४-४४०।१५] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति । [४४०।१५-४४०।१६] न वै सुखं ध्यानेषु सौमनस्यं युज्यते । [४४०।१७] प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥ [४४०।१८-४४०।१९] उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा "अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति । [४४०।१९-४४०।२०] चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत" इत्युक्तम् । [४४०।२०-४४०।२१] पुनश्चोक्तं "सुखस्य च प्रहाणात्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि"त्यतोऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति । [४४०।२२] तस्मात्प्रीतिरेव सौमन्स्यं न सुखम् । [४४१।०१-४४१।०२] किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति । [४४१।०२] न हि किं तेषु न विद्यते । [४४१।०३] क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः । [४४१।०४] उपेक्षास्मृतिशुद्धिश्च [४४१।०५] प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति । क्लेशाविविक्तत्वात् । [४४१।०५-४४१।०६] द्वितीये ध्यानेऽध्यात्मसंप्रसादो नास्ति । [४४१।०६] क्लेशाविलत्वात् । तृतीये स्मृतिसंप्रजन्यं नास्ति । [४४१।०७] क्लिष्टसुखसंब्र्हमितत्वात् । च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति । क्लेशमलिनत्वात् । [४४१।०८] एवं तावत्केचिदाहुः । [४४१।०९] केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥ [४४१।१०] केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति । [४४१।१०-४४१।११] तृतीयचतुर्थयोरुपेक्षा नास्ति । [४४१।११] कुशलल्महाभूमिकत्वादनयोरिति । [४४१।११-४४१।१२] त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता । [४४१।१२] सापक्षालत्वात् । [४४१।१३] अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् । [४४१।१४] के पुनस्तेऽपक्षालाः । [४४१।१५] वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥ [४४१।१६] वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च । [४४१।१६-४४१।१७] एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् । [४४१।१७-४४१।१८] वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे । [४४१।१९] द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । तृतीये सुखं चतुर्थे उपेक्षा । [४४१।२०] तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु । [४४१।२१] नेत्याह । किं तर्हि । [४४२।०१-४४२।०२] सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते । सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥ [४४२।०३] प्रथमध्यानोत्पत्तो तिस्रो वेदनाः । [४४२।०३-४४२।०४] सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् । [४४२।०४] उपेक्षा चतुर्विज्ञानकायिकी । [४४२।०४-४४२।०५] द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । [४४२।०५] सुखं नास्त्यस्य विज्ञानकायाभावात् । [४४२।०५-४४२।०६] तृतीयध्यानोपपत्ती द्वे वेदने । [४४२।०६] सुखोपेक्षे मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव । [४४२।०७-४४२।०८] यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथं ते पश्यन्ति यावत्स्पृशन्ति कथं चाविज्ञप्ति समुत्थापयन्ति । [४४२।०८-४४२।०९] न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति । [४४२।०९] न तु स्वभूमिकाः । किं तर्हि । [४४२।१०] कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् । [४४२।११] द्वितीयादौ तदाद्याप्तं [४४२।१२-४४२।१३] प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति । [४४२।१३-४४२।१४] निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति । [४४२।१५] अक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥ [४४२।१६-४४२।१७] अनिवृताव्याकृतं च तत्प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति । [४४२।१७] न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति । [४४२।१८] अवसितं ध्यानकार्यम् । [४४२।१९] अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः । [४४२।२०] अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः । [४४२।२१] असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते । अधोभूमिवैराग्याद्वा । [४४२।२२] अधोभूम्युपपत्तितो वा । अन्यत्र भवाग्रात् । न हि तस्योपपत्तितो लाभः । [४४२।२३] अतद्वानिति किमर्थ समन्वागतः । [४४२।२३-४४२।२४] शुद्धकेन प्रयोगतोऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् । [४४२।२४-४४३।०१] अत एवोच्यते "स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् । [४४३।०१] एवं परिहाण्या चोपपत्त्या च । [४४३।०२] स्याद्धानभागीयं प्रथमं धयानम् । तद्धि कामवैराग्येण लभ्यते । [४४३।०२-४४३।०३] ब्रह्मलोकवैराग्येण त्यज्यते । [४४३।०३] ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते । कामवैराग्यप्रहाण्या त्यज्यते । [४४३।०४] उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते । [४४३।०४-४४३।०५] तस्मात्पुनः कामधातावुपपपद्यमानो विजहातीति । [४४३।०६] अनास्रवं तु वैराग्यात् [४४३।०७] अतद्वान् लभते इति वर्तते । [४४३।०७-४४३।०८] तद्वांस्तु क्षयज्ञानतोऽप्यशैक्षं लभते इन्द्रियसंचारतोऽपि शैक्षशैक्षम् । [४४३।०८] ननु च नियामा वक्रान्तितोऽप्यनास्रवं प्रथमतो लभते । [४४३।०९] नावश्यमानुपूर्विकेणालाभात् । यथा त्ववश्यं लभते तथोक्तम् । [४४३।१०] क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥ [४४३।११] अतद्वान् लभत इत्येवानुवर्तते । [४४३।११-४४३।१२] परिहाणितो यदि तद्वैराग्यात्परिहीयते । [४४३।१२] उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते । [४४३।१३] कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते । [४४३।१३-४४३।१४] अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते । [४४३।१४] स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च । [४४३।१४-४४३।१५] आकिञ्चन्यायतनानन्तरं सप्त । [४४३।१५-४४३।१६] स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च । [४४३।१६] भवाग्रं शुद्धकमेवानास्रवाभावात् । द्वितीयध्यानान्तरमष्टौ । [४४३।१६-४४३।१७] स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च । [४४३।१७] विज्ञानानन्त्यायतनानन्तरं नव । [४४३।१८-४४३।१९] स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति । [४४३।१९] एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि । [४४३।२०] एष तु संक्षेपः । [४४३।२१] तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् । [४४३।२२] उत्पद्यते [४४४।०१-४४४।०२] शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वातनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते । [४४४।०२] ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् । [४४४।०३] व्युत्क्रान्तकसमापत्तारो हि तृतीयात्परेण लङ्घयितुं नोत्सहन्ते । [४४४।०३-४४४।०४] अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् । [४४४।०४-४४४।०५] तस्याधराश्रयालम्बनत्वादिति । [४४४।०५] यथा चानास्रवादनन्तरमुक्तं वेदितव्यम् । [४४४।०६] तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥ [४४४।०७] स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते । शेषं यथैवानास्रवात् । [४४४।०७-४४४।०८] अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति । [४४४।०९] क्लिष्टात्स्वं शुद्धकं क्लिष्टं [४४४।१०] क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते । [४४४।११] एवं चाधरशुद्धकम् । [४४४।१२] क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते । [४४४।१२-४४४।१३] यदि क्लिष्टं परिच्छिद्याधः संचरति । [४४४।१३] कुशलात्संचरितो भवति न क्लिष्टात् । अथापरिच्छिद्य कथं संचरति । [४४४।१४-४४४।१५] पूर्वावेधात्पूर्वं हि स एवङ्कामो भवति वरमधस्तात्शुद्धकं नोपरिष्टात्क्लिष्टमिति । [४४४।१५] पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् । [४४४।१५-४४४।१६] प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् । [४४४।१६] अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते । [४४४।१६-४४४।१७] समापत्तिकालं प्रत्येतदुक्तम् । [४४४।१७-४४४।१८] शुद्धकात्क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति । [४४४।१९] च्युतौ तु शुद्धकात्क्लिष्टं सर्वं [४४४।२०] च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते । [४४४।२१] क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥ [४४५।०१] क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते । [४४५।०१-४४५।०२] नोर्ध्वभूमिकम् । [४४५।०२-४४५।०३] न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते । [४४५।०३] किं तर्हि । [४४५।०४] चतुर्धा शुद्धकं हानभागीयादि [४४५।०५] हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् । [४४५।०६] भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् । किमस्य लक्षणम् । [४४५।०७-४४५।०८] यथाक्रमम् । क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥ [४४५।०९-४४५।१०] क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । [४४५।१०] तस्मादनास्रवमुत्पद्यते । [४४५।११] अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते । [४४५।१२] द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् । [४४५।१३] हानभागीयं हानभाक् । तस्मादनन्तरं द्वे उत्पद्येते । हानिस्थितिभागीये । [४४५।१३-४४५।१४] स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् । [४४५।१४-४४५।१५] विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात्निर्वेधभागीयादनन्तरं तदेवैकमिति । [४४५।१६] कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते । [४४५।१७] गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः ॥ ८.१८ ॥ [४४५।१८] व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा । [४४५।१९] गत्वेत्यनुलोमं समापद्य । आगम्येति प्रतिलोमं समापद्य । [४४५।१९-४४६।०१] द्विधेति सास्रवानास्रवा भूमीः । [४४६।०१] अष्टाविति ध्यानारुप्यसमापत्तीः । श्लिष्टा इत्यनुक्रमेण । [४४६।०१-४४६।०२] एकलङ्घिता इत्येकामेकामुत्क्रम्य । [४४६।०२-४४६।०३] सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त । [४४६।०३-४४६।०४] पश्चात्सास्रवात्प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते । [४४६।०४] तस्मादाकाशानन्त्यायतनं तस्मादाक्ंिचन्यावतनम् । [४४६।०४-४४६।०५] एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते । [४४६।०६] अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः । [४४६।०६-४४६।०७] यदा तु प्रथमात्सास्रवात्तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् । [४४६।०८] एवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । [४४६।०८-४४६।०९] अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते । [४४६।०९-४४६।१०] तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति । [४४६।१०] निःक्लेशत्वात्समाधिवशित्वाच्च । [४४६।१०-४४६।११] दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशः । [४४६।११-४४६।१२] समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति । [४४६।१३] केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते । [४४६।१४] स्वाधोभूम्याश्रया एव [४४६।१५] ध्यानाश्रया एव [४४६।१६] ध्यानारूप्याः [४४६।१७] भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ । [४४६।१७-४४६।१८] शेषाणि स्वस्यां भूमावधश्चेति । [४४६।१८-४४६।१९] किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति । [४४६।१९] तस्मात्तस्य [४४६।२०] वृथाऽधरम् ॥ ८.१९ ॥ [४४६।२१] नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित्प्रयोजनं विधीयते । [४४५।२१-४४६।२१] निहीनत्वात् । [४४६।२२] उत्सर्ग कृत्वाऽपवादं करोति [४४६।२३] आर्याकिञ्चन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः । [४४६।२४] भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति । [४४६।२४-४४६।२५] कथं तत्रोपपन्नस्य तत्संमुखीभावः । [४४६।२५] स्वस्याभावात्तस्य चाभ्यासात् । [४४७।०१] अथैषां ध्यानारूप्याणां किमालम्बनम् । [४४७।०२] सतृष्णाः स्वभवालम्बाः [४४७।०३] आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते । भवग्रहणेन सास्रवं वस्तु गृह्यते । [४४७।०४] नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात्भूमीनाम् । [४४७।०४-४४७।०५] नानास्रवं कुशलत्वप्रसङ्गादिति । [४४७।०६] ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥ [४४७।०७] कुशलं ध्यानं शुभकमनास्रवं च । तत्सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । [४४७।०८] न मौलाः कुशलारूप्याः सास्रवाधरगोचराः । [४४७।०९-४४७।१०] मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् । [४४७।१०] अनास्रवं त्वालम्बनम् । [४४७।१०-४४७।११] सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । [४४७।११] सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् । [४४७।११-४४७।१२] एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम् [४४७।१३] अनास्रवेण हीयन्ते क्लेशाः [४४७।१४] न शुद्धकेन । कुत एव क्लिष्टेन । वीतरागत्वान्नाधः । [४४७।१४-४४७।१५] तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ । [४४७।१५] विशिष्टतरत्वान्नोर्ध्वमिति । [४४७।१६] समन्तकेन च ॥ ८.२१ ॥ [४४७।१७] ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि । अधोभूमिप्रतिपक्षत्वात् । [४४७।१८] कति पुनः सामन्तकानि । [४४७।१९] अष्टौ सामन्तकान्येषां [४४७।२०] एकैकस्यैकैकं येन तत्प्रवेशः । किं तान्यपि त्रिविधानि तथैव च तेषु वेदना । [४४७।२१] नेत्युच्यते । [४४७।२२] शुद्धादुःखासुखानि हि । [४४८।०१-४४८।०२] शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात्वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि । [४४८।०३] आर्यं चाद्यं [४४८।०४-४४८।०५] आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति । [४४८।०५] समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते । [४४८।०६] त्रिधा केचित् [४४८।०७] केचित्पुनरिच्छन्ति । [४४८।०७-४४८।०८] आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च । [४४८।०८] किमिदमेकार्थमाहोस्विन्नानार्थम् । सामन्तकं हि वैराग्यमार्गः । [४४८।०९] अतर्क ध्यानमन्तरम् ॥ ८.२२ ॥ [४४८।१०] ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् । [४४८।१०-४४८।११] अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति । [४४८।११] तत्पुनर्ध्यानान्तरं [४४८।१२] त्रिधा [४४८।१३] आस्वादनासंप्रयुक्तं शुद्धकमनास्रवं च । [४४८।१४] अदुःखासुखं तच्च [४४८।१५] नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः । [४४८।१५-४४८।१६] न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् । [४४८।१६] अत एव दुःखा प्रतिपत् । [४४८।१६-४४८।१७] तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः । [४४८।१७] तद्धि [४४८।१८] महाब्रह्मफलं च तत् । [४४८।१९] तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति । [४४८।१९-४४८।२०] पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे । [४४८।२०] सवितर्कः सविचारः समाधिः । अवितर्को विचारमात्रः । [४४९।०१] अवितर्कोऽविचार इति । [४४९।०१-४४९।०२] तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् । [४४९।०२] वितर्कमात्रप्रतिषेधात् । ततः [४४९।०३] सवितर्कविचारोऽधःसमाधिः [४४९।०४] तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः । प्रथमं ध्यानमनागम्यं च । [४४९।०५] परतोऽद्वयः ॥ ८.२३ ॥ [४४९।०६] नात्र द्वयमस्तीत्यद्वयः । परेण तु ध्यानान्तरात्समाधिरवितर्कोऽविचारः । [४४९।०६-४४९।०७] द्वितीयध्यानसामन्तकाद्यावत्भवाग्रम् । [४४९।०७] पुनस्त्रयः उक्ताः । [४४९।०७-४४९।०८] शून्यतासमाधिरप्रणिहित आनिमित्तश्च । [४४९।०८] तत्र [४४९।०९] आनिमित्तः समाकारैः [४४९।१०] निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः । [४४९।१०-४४९।११] निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् । [४४९।११] तदालम्बनः समाधिरानिमित्तः । [४४९।११-४४९।१२] पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश । [४४९।१३] शून्यतानात्मशुन्यतः । [४४९।१४] प्रवर्तते [४४९।१५] अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः । [४४९।१६] अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥ [४४९।१७] परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः । [४४९।१७-४४९।१८] अनित्यदुःखतद्धेतुभ्य उद्वेगात्मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः । [४५०।०१] तदतिक्रमाभिमुखत्वात्शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् । [४५०।०१-४५०।०२] त एते त्रयः समाधयो द्विविधाः । [४५०।०३] शुद्धामलाः [४५०।०४] शुद्धकाश्चानास्रवाश्च । लौकिकलोकोत्तरत्वात् । लौकिका एकादशसु भूमिषु । [४५०।०५] लोकोत्तरा यत्र मार्गः । [४५०।०६] निर्मलास्तु ते विमोक्षमुखत्रयम् । [४५०।०७] अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते । [४५०।०७-४५०।०८] शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति । [४५०।०८] मोक्षद्वारत्वात् । पुनश्चोच्यन्ते । [४५०।०९] शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥ [४५०।१०] शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च । [४५०।१०-४५०।११] शून्यताद्यालम्बनत्वात्तन्नाम । [४५०।११] तेषां पुनः [४५०।१२] आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः । [४५०।१३] अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । [४५०।१३-४५०।१४] शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण । [४५०।१४-४५०।१५] अप्रणिहिताप्रणिहितोऽप्यशैक्षमप्रणिहितमनित्याकारेण । [४५०।१५-४५०।१६] न दुःखतो न हेत्वादितोऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् । [४५०।१७] आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥ [४५०।१८-४५०।१९] आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । [४५०।१९] शान्ताकारेण । अनास्रवस्य प्रतिसंखयानिरोधाभावात् । [४५०।१९-४५०।२०] न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा दविसंयोगाच्च । [४५०।२०-४५०।२१] एकान्तेन चैते परसमाधयः [४५०।२२] सास्रवाः [४५१।०१] आर्यमार्गद्वेषित्वात्नह्येवमनास्रवा इति । कुत्रोत्पद्यन्ते । [४५१।०२] नृषु [४५१।०३] मनुष्येष्वेव न देवेषु । कस्योत्पद्यन्ते । [४५१।०४] अकोप्यस्य [४५१।०५] नान्यस्यार्हतः । कतिभूमिकाः । [४५१।०६] सप्तसामन्तवर्जिताः । [४५१।०७] सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु । [४५१।०७-४५१।०८] कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु । [४५१।०८] पुनश्चतस्रः समाधिभावना उच्यन्ते । [४५१।०८-४५१।०९] अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः । [४५१।०९] तत्र [४५१।१०] समाधिभावना ध्यानं शुभमाद्यं सुखाय हि ॥ ८.२७ ॥ [४५१।११] कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । [४५१।११-४५१।१२] तदादिकत्वादन्यान्यपि ज्ञेयानि । [४५१।१२-४५१।१३] नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् । [४५१।१४] दर्शनायाक्ष्यभिज्ञेष्टा [४५१।१५] दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना । [४५१।१६] धीभेदाय प्रयोगजाः । [४५१।१७] प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना । [४५१।१८] वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥ [४५२।०१] यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना । [४५२।०१-४५२।०२] आत्मोपनायिकी किलैषा भगवतो धर्मदेशना । [४५२।०२] अतश्चतुर्भ्य एवाह । [४५२।०२-४५२।०३] कृतः समाधीनां कालगतो निर्देशः । [४५२।०४] इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते [४५२।०५] अप्रमाणानि चत्वारि [४५२।०६] मैत्री करुणा मुदितोपेक्षा च । अप्रमाणसत्त्वालम्बनत्वात् । किमर्थं चत्वार्येव । [४५२।०७] व्यापादादिविपक्षतः । [४५२।०८] व्यापादविंहिसाऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् । [४५२।०९] अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः । [४५२।०९-४५२।१०] वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः । [४५२।१०] एवं तु युज्यते । [४५२।१०-४५२।११] मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति । [४५२।११] तत्र [४५२।१२] मैत्र्यद्वेषः [४५२।१३] अद्वेषस्वभावा मैत्री [४५२।१४] अपि करुणा [४५२।१५] करुणाप्येवम् । [४५२।१६] मुदिता सुमनस्कता ॥ ८.२९ ॥ [४५२।१७] सौमनस्यस्वभावा मुदिता । [४५२।१८] उपेक्षाऽलोभः [४५२।१९] अलोभात्मिकोपेक्षा । कथं व्यापादप्रतिपक्षः । तस्य लोभाकृष्टत्वात् । [४५२।१९-४५२।२०] उभयस्वभावा त्वसौ युज्यते । [४५२।२०] एषां तु मैत्र्यादीनां [४५३।०१] आकारः सुखिता दुःखिता वत । [४५३।०२] मोदन्तामिति सत्त्वाश्च [४५३।०३] सुखिता वत सत्त्वा इति मनसिकुर्वन्मैत्रीं समापद्यते । [४५३।०३-४५३।०५] दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते । [४५३।०५] माध्यस्थ्यात् । अतद्वतां सुखाधिमोक्षत्वात्कथं न विपरीतत्वं भवति । [४५३।०६] सन्त्वित्यभिप्रायात् । आशयस्याविपरीतत्वाद्वाऽधिमुक्तिसंज्ञानात् । [४५३।०६-४५३।०७] अथवा क एवं विपरीतत्वे दोषः । [४५३।०७] अकुशलत्वमिति चेत् । [४५३।०७-४५३।०८] न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च । [४५३।०८] उक्त एषामाकारः । [४५३।०९] कामसत्त्वास्तु गोचरः ॥ ८.३० ॥ [४५३।१०] कामावचराः सत्त्वा एषामालम्बनम् । तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् । [४५३।११] यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् । [४५३।११-४५३।१२] कतिभूमिकान्येतानि । [४५३।१३] ध्यानयोर्मुदिता [४५३।१४] प्रथमद्वितीयध्यानयोर्मुदिता । सौमनस्यत्वात् । [४५३।१५] अन्यानि षट्सु [४५३।१६] अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु । [४५३।१६-४५३।१७] अनागम्ये ध्यानान्तरेध्यानेषु च । [४५३।१७] सप्रयोगमौलग्रहणात् । [४५३।१८] केचित्तु पञ्चसु । [४५३।१९] केचित्पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति । दशस्वित्यपरे । [४५३।१९-४५३।२०] कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् । [४५३।२०-४५३।२१] यदुक्तं "व्यापादादिविपक्षत" इति किमप्रमाणैरपि क्लेशग्रहणं भवति । [४५३।२२] न तैः प्रहाणं [४५४।०१] मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च । [४५४।०१-४५४।०२] तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् । [४५४।०२] प्रहाण दूरीकरणाच्च । [४५४।०२-४५४।०३] कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते । [४५४।०३-४५४।०४] तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति । [४५४।०४] ततो वीतरागावस्थायां मौलाप्रमाणलाभात् । [४५४।०४-४५४।०५] बलवत्प्रत्ययलाभेऽपि तैरनाधृष्यो भवति । [४५४।०५] कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते । [४५४।०५-४५४।०७] यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति । [४५४।०७-४५४।०८] न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात्स मित्रपक्षं त्रिधा भित्त्वाऽधिमात्रे तत्सुखमधिमुच्यते । [४५४।०८-४५४।०९] ततो मध्ये मृदौ च । [४५४।०९] तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे । [४५४।०९-४५४।१०] ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत्सुखमधिमुच्यते । [४५४।१०] ततो मध्येऽधिमात्रे च । [४५४।१०-४५४।११] ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते । [४५४।११-४५४।१२] ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति । [४५४।१२-४५४।१३] यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति । [४५४।१३-४५४।१४] शक्यं हि समुच्छिन्न कुशलमूलेऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् । [४५४।१४-४५४।१६] एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरनप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते । [४५४।१६-४५४।१७] एतानि चाप्रमाणानि [४५४।१८] नृष्वेव जन्यन्ते [४५४।१९] मनुष्येषूत्पाद्यन्ते । नान्यत्र । [४५४।२०] किं पुनर्य एकेनाप्रमाणेन समन्वागतः सोऽवश्यं सर्वैः । किन्तु [४५४।२१] त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥ [४५४।२२] तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति । [४५४।२२-४५४।२३] त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति । [४५४।२४] अष्टौ विमोक्षाः [४५५।०१] रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । [४५५।०१-४५५।०२] अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः । [४५५।०२-४५५।०३] शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः । [४५५।०३] चत्वार आरुप्याः । संज्ञावेदितनिरोधश्चाष्टमः । तेषां [४५५।०४] प्रथमावशुभा [४५५।०५] प्रथमौ द्वौ विमोक्षावशुभास्वभावौ । [४५५।०५-४५५।०६] विनीलकाद्याकारत्वात् । [४५५।०६] अत एतयोरशुभावन्नयो वेदितव्यः । एतौ च [४५५।०७] ध्यानयोर्द्वयोः । [४५५।०८] प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ । [४५५।०८-४५५।०९] कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् । [४५५।१०] तृतीयोऽन्त्ये [४५५।११] शुभो विमोक्षश्चतुर्थध्याने । [४५५।१२] स चालोभः [४५५।१३] सोऽप्यलोभस्वभावो नत्वशूभास्वभावः । शुभाकारत्वात् । [४५५।१३-४५५।१४] सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः । [४५५।१४] आरुप्यविमोक्षास्तु [४५५।१५] शुभारुप्याः समाहिताः ॥ ८.३२ ॥ [४५५।१६-४५५।१७] कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे । [४५५।१७] अन्यदाप्यसमाहिताः सन्तीत्यपरे । [४५५।१७-४५५।१८] सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते । [४५५।१८] नानन्तर्यमार्गा अधरालम्बनत्वात् । [४५५।१८-४५५।१९] वैमुख्यार्थो हि विमोक्षार्थ इति । [४५५।२०] निरोधस्तु समापत्तिः [४५६।०१] संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः । सा च पूर्व निर्दिष्टा । [४५६।०२] संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा । समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे । [४५६।०३] तां तु समापद्यन्ते । [४५६।०४] सूक्ष्मसूक्ष्मादनन्तरम् । [४५६।०५] भवाग्रं हि संज्ञा सूक्ष्मं तत्पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते । समापन्नानां तु [४५६।०६] स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥ [४५६।०७-४५६।०८] भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण । [४५६।०८-४५६।०९] तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति । [४५६।०९] एषां च विमोक्षाणां [४५६।१०] कामाप्तदृश्यविषयाः प्रथमाः [४५६।११] कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् । [४५६।१२-४५६।१३] ये त्वरूपिणः । तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥ [४५६।१४-४५६।१५] आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः । [४५६।१५] अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति । [४५६।१६] कस्मान्न तृतीये ध्याने विमोक्षः । [४५६।१६-४५६।१७] द्वितीयध्यानभूमिकवर्णरागाभावात्सुखमण्डेञ्जितत्वाच्च । [४५६।१७] तस्माच्छुभं विमोक्षमुत्पादयति । [४५६।१७-४५६।१८] अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा । [४५६।१८] कच्चिदशुभाविमोक्षौ निष्पन्नाविति । [४५६।१८-४५६।१९] एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतोऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति । [४५६।२०] द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति । [४५६।२०-४५६।२१] क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च । [४५६।२१] अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः । [४५६।२१-४५६।२२] सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते । [४५६।२२-४५६।२३] कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् । [४५६।२३-४५६।२४] प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च । [४५७।०१] अभिभ्वायतनान्यष्टौ [४५७।०२-४५७।०३] अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् । [४५७।०४] एवमधिमात्राणि । अध्यात्ममरूपसंज्ञ्येवमेव । इत्येतानि चत्वारि । [४५७।०४-४५७।०५] अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति । [४५७।०५] तेषां [४५७।०६] द्वयमाद्यविमोक्षवत् । [४५७।०७] यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये । [४५७।०८] द्वे द्वितीयवत् [४५७।०९] यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे । [४५७।१०] अन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥ [४५७।११] यथा शुभो विमोक्ष एवमन्यानि चत्वारि । अयं तु विशेषः तैर्वैमुख्यमात्रम् । [४५७।१२] एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात्क्लेशानुत्पादाच्च । [४५७।१३] दश कृत्स्नानि [४५७।१४] दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् । [४५७।१४-४५७।१५] पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि । [४५७।१५] आकाशविज्ञानानन्त्यायतनकृत्स्ने च । तेषाम् [४५७।१६] अलोभाष्टौ [४५७।१७] प्रथमान्यष्टावलोभस्वभावानि [४५७।१८] ध्यानेऽन्त्ये [४५७।१९] चतुर्थ एव ध्याने । [४५८।०१] गोचरः पुनः । [४५८।०२] कामाः [४५८।०३] कामावचररूपायतनमेषा मालम्बनम् । वायोः स्प्रष्टव्यायतन मित्येके । [४५८।०४] द्वे शुद्धकारुप्ये [४५८।०५] द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे । [४५८।०६] स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥ [४५८।०७] स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् । [४५८।०७-४५८।०८] विमोक्षप्रावेशिकान्यभिभ्वायतनानि । [४५८।०८] अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि । उत्तरोत्तरविशिष्टत्वात् । [४५८।०९-४५८।१०] सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् । [४५८।११] निरोध उक्तः [४५८।१२] निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः । [४५८।१३] वैराग्यप्रयोगाप्तं तु शेषितम् । [४५८।१४] निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च । [४५८।१४-४५८।१५] उचितानुचितत्वात् । [४५८।१६] त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥ [४५८।१७] आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव । [४५८।१८] उपदेशसामर्थ्येनोत्पादनात् । कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् । [४५८।१९] त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः । तत्र [४५८।२०] हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः । [४५९।०१] द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् । [४५९।०१-४५९।०३] हेतुबलादासन्नाभीक्ष्णाभ्यासात्कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । [४५९।०३] नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति । [४५९।०४] ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥ [४५९।०५-४५९।०६] रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले । [४५९।०६] तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति । [४५९।०६-४५९।०७] कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् । [४५९।०७] कियच्चिरं पुनरयं सद्धर्मः स्थास्यति । [४५९।०७-४५९।०८] यत्रेमे ईदृशानां धर्माणां प्रकाराः प्रज्ञायन्ते । [४५९।०९] सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः । [४५९।१०] तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः । [४५९।११] धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥ [४५९।१२] आगमस्य हि धारयितारो वक्तारः । अधिगमस्य प्रतिपत्तारः । [४५९।१२-४५९।१३] अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् । [४५९।१३] तेषां तु वर्षसहस्र मवस्थानमाहुः । [४५९।१४] अधिगमस्यैवम् । आगमस्य तु भूयांसं कालमित्यपरे । [४५९।१५] योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः । [४५९।१६-४५९।१९] काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयाऽयं कथितोऽभिधर्मः । यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम् ॥ ८.४० ॥ [४६०।०१-४६०।०२] प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषोऽस्माभिरबिधर्म आख्यातः । [४६०।०२] यदत्रास्माभिर्दुर्गृहीतं सोऽस्माकमपराधः । [४६०।०२-४६०।०३] सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च । [४६०।०४-४६०।०७] निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा । अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥ [४६०।०७-४६०।११] गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च । जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥ [४६०।१२-४६०।१३] इति कण्ठगतप्राणं विदित्वा शासनं मुनेः । बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥ ===================================================================== [४६०।१४] ॥ अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति ॥ नवमं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [४६१।०२] किं खल्वतोऽन्यत्र मोक्षो नास्ति । नास्ति । [४६१।०२-४६१।०३] किं कारणम् । [४६१।०३] वितथात्मदृष्टिनिविष्टत्वात् । [४६१।०३-४६१।०४] नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति । [४६१।०४] किं तर्हि । [४६१।०४-४६१।०५] द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति । [४६१।०५-४६१।०६] कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति । [४६१।०६] प्रत्यक्षानुमानाभावात् । [४६१।०६-४६१।०७] ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये । [४६१।०७] तद्यथा षण्णां विषयाणां मनसश्च । अनुमानं च । [४६१।०८] तद्यथा पञ्चानामिन्द्रियाणाम् । तत्रेदमनुमानम् । [४६१।०८-४६१।०९] सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य । [४६१।०९-४६१।११] सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावोऽन्धवधिरादीनामनन्धावधिरादीनां च । [४६१।११-४६१।१२] अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते । [४६१।१२] यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् । [४६१।१२-४६१।१३] न चैवमात्मनोऽस्तीति नास्त्यात्मा । [४६१।१४] यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति । विचार्यं तावदेतत् । [४६१।१४-४६१।१५] किं ते द्रव्यत इच्छन्त्याहोस्वित्प्रज्ञप्तितः । [४६१।१५] किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः । [४६१।१६] रूपादिवत्भावान्तरं चेत्द्रव्यतः । [४६१।१६-४६१।१७] क्षीरादिवत्समुदायश्चेत्प्रज्ञप्तितः । [४६१।१७] किं चातः । यदि तावत्द्रव्यतः । [४६१।१७-४६१।१८] संभिन्न स्वभावत्वात्स्कन्धेभ्योऽन्यो वक्तव्य इतरेतरस्कन्धवत् । [४६१।१८] कारणं चास्य वक्तव्यम् । असंस्कृतो वा । [४६१।१९] अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च । अथ प्रज्ञप्तितः । वयमप्येवं त्रूमः । [४६१।२०] नैव हि द्रव्यतोऽस्ति नापि प्रज्ञप्तितः । किं तर्हि । [४६१।२०-४६१।२१] आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते । [४६१।२१-४६१।२२] तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे । [४६१।२२] किमिदमुपादायेति । [४६१।२२-४६१।२३] यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति । [४६१।२३] यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः । [४६१।२३-४६१।२४] अथायमर्थः स्कन्धान् प्रतीयेति । [४६१।२४] स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् । स एव दोषः । [प्४६।१२४-४६१२५] न स एवं प्रज्ञप्यते । [४६१।२५] कथं तर्हि यथेन्धनमुपादायाग्निः । [४६१।२५-४६२।०१] कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते । [४६२।०१-४६२।०२] न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः । [४६२।०२] यदि हान्यः स्यादनुष्णमिन्धनं स्यात् । [४६२।०२-४६२।०३] अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् । [४६२।०३] एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते । [४६२।०३-४६२।०४] न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् । [४६२।०४] नाप्यनन्य उच्छेदप्रसङ्गदिति । [४६२।०५] अङ्ग तावद्ब्रूहि किगिन्धनं कोऽन्निरिति । [४६२।०५-४६२।०६] ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति । [४६२।०६-४६२।०७] किमत्र वक्तव्यं दाह्यमिन्धनं दाहकोऽग्निः । [४६२।०७] एतदेवात्र वक्तव्यं किं दाह्यं कोक्दाहक इति । [४६२।०७-४६२।०८] लोके हि तावदप्रदीप्तं काष्ट्ःादिकमिन्धनमुच्यते दाह्यं च । [४६२।०८] प्रदीप्तमग्निर्दाहकश्च । [४६२।०८-४६२।०९] यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च । [४६२।०९] संततिविकारापादानात् । [४६२।०९-४६२।१०] तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते । [४६२।१०-४६२।११] यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् । [४६२।११] तस्माधिग्धनमुपादायेत्युच्यते । अन्यश्च स तस्माद्भिन्नकालत्वात् । [४६२।११-४६२।१२] यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्योऽन्यश्चानित्यश्च प्राप्नोति । [४६२।१२-४६२।१४] अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते । [४६२।१४] तयोरपि सिद्धमन्यत्वं लक्षणभेदात् । [४६२।१५] उपादायार्थस्तु वक्तव्यः । कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्यत इति । [४६२।१६] न हि तत्तस्य कारणं नापि तत्प्रज्ञप्तेः । अग्निरेव हि तत्प्रज्ञप्तेः कारणम् । [४६२।१७] यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा । [४६२।१७-४६२।१८] स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते । [४६२।१८-४६२।१९] तदभावे च पुद्गलाभावः प्राप्नोति । [४६२।१९] इन्धनभाव इवाग्न्यभावः । [४६२।२०] यत्तु तदुक्तं यदीन्धनादन्योऽग्निः स्यादनुष्णमिन्धनं स्यादिति । [४६२।२०-४६२।२१] किमिदमुष्णं नाम । [४६२।२१-४६२।२२] यदि तावादीष्ण्यमनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् । [४६२।२२] अथ यदौष्ण्यवत् । [४६२।२२-४६२।२३] अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति । [४६२।२३] नास्त्यन्यत्वे दोषः । [४६२।२३-४६२।२४] अथ पुनः सर्वमेव तत्प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते । [४६२।२५] तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति । [४६२।२६] तस्मान्न सिध्यत्येतत् । [४६२।२६-४६३।०१] यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति । [४६३।०१-४६३।०२] यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः "पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि"ति न वक्तव्यं प्राप्नोति । [४६३।०२-४६३।०३] नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् । [४६३।०३-४६३।०४] यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित्पुद्गलम् । [४६३।०४-४६३।०५] यदि तावत्स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति । [४६३।०५] पुद्गलस्यानुपलम्भात् । [४६३।०५-४६३।०६] अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति । [४६३।०६] पुद्गल एव हि तस्या उपादानं प्राप्नोति । [४६३।०६-४६३।०७] अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति । [४६३।०७-४६३।०८] तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात्तानुपादाय प्रज्ञप्तिर्बक्तव्या । [४६३।०८-४६३।०९] रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् । [४६३।१०] इदं तावद्वक्तव्यम् । [४६३।१०-४६३।११] षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः । [४६३।११] षड्भिरपीत्युच्यते । कथं कृत्वा । [४६३।११-४६३।१३] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा । [४६३।१३-४६३।१४] एवं यावत्मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा । [४६३।१४-४६३।१५] एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । [४६३।१५-४६३।१७] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा । [४६३।१७] एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा । [४६३।१८] माभूत्क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति । [४६३।१८-४६३।१९] अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् । [४६३।२०] यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति । [४६३।२१] कोऽस्य वाक्यस्यार्थः । [४६३।२१-४६३।२२] किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति । [४६३।२२-४६३।२३] यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः । [४६३।२३-४६३।२४] एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम् । [४६३।२४-४६३।२५] तेषां तदुपलब्धिकारणत्वात् । [४६३।२५] अथ रूपाण्युपलभमानः पुद्गलमुपलभते । [४६३।२५-४६३।२६] किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया । [४६३।२६] यदि तयैव । [४६३।२६-४६३।२७] रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः । [४६३।२७] इदं च रूपमयं पुद्गलः कथमिदं गम्यते । अथैवं न परिच्छिद्यते । [४६४।०१] कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलोऽप्यस्तीति । [४६४।०१-४६४।०२] उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते । [४६४।०२] एवं यावद्धर्मेभ्यो वक्तव्यम् । [४६४।०२-४६४।०३] अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति । [४६४।०३] नीलादिय पीतं क्षणादिव च क्षणान्तरम् । [४६४।०३-४६४।०४] एवं यावद्धर्मेभ्यो वक्तव्यम् । [४६४।०४] अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् । [४६४।०५] तेन तर्हि संस्कृतेऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः । [४६४।०५-४६४।०६] यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा । [४६४।०६-४६४।०७] किं तर्हि भगवतोक्तं "रूपमनात्मा यावद्विज्ञानमनात्मे"ति । [४६४।०८] येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते । [४६४।०८-४६४।०९] किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित्पुद्गलमुभयं वा । [४६४।०९] यदि रूपाणि प्रतीत्योत्पद्यते । [४६४।०९-४६४।१०] नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् । [४६४।१०-४६४।११] यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः । [४६४।११-४६४।१२] अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा । [४६४।१२] इदमुत्सूत्रम् । [४६४।१२-४६४।१३] सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति । [४६४।१३] "तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय । [४६४।१३-४६४।१४] तत्कस्य हेतोः । [४६४।१४] यत्किञ्चित्भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति । [४६४।१५] अनित्यश्च पुद्गल एवं प्राप्नोति । [४६४।१५-४६४।१६] "ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या" इति सूत्रे वचनात् । [४६४।१६-४६४।१७] अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः । [४६४।१८] यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते । [४६४।१८-४६४।१९] स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् । [४६४।१९-४६४।२०] चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् । [४६४।२०] एवमन्येभ्योऽपि योज्यम् । इदं च सूत्रपदं वाधितं भवति । [४६४।२०-४६४।२२] "यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति । [४६४।२२] नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति । [४६४।२२-४६४।२३] तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् । [४६४।२३-४६४।२४] मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि"ति । [४६४।२४] न वा पुद्गलो विषयः । [४६४।२४-४६४।२५] न चेद्विषयो न तर्हि विज्ञेयः । [४६४।२५-४६४।२६] यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति । [४६४।२६-४६४।२७] षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे । [४६४।२७] न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् । [४६४।२७-४६५।०१] पञ्चानां दर्शनाद्या काङ्क्षणासंभवात्तद्विज्ञानानां च । [४६५।०१-४६५।०२] अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् । [४६५।०२-४६५।०३] यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः । [४६५।०३-४६५।०६] उक्तं च भगवता "सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी"त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत्मनःसंस्पर्शप्रत्ययम् । [४६५।०६-४६५।०७] अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति । [४६५।०७] अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः । [४६५।०७-४६५।०८] तस्माद्विज्ञेयोऽप्यसौ न भवति । [४६५।०८] प्रज्ञाविज्ञानयोः समानविषयत्वात् । [४६५।०८-४६५।०९] चक्षुष च पुद्गलं पश्यामिति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति । [४६५।१०] सूत्रे च भगवता नीतमेतत् । "स्कन्धेष्वेव पुद्गलाध्ये"ति मानुष्यकसूत्रम् । [४६५।११-४६५।१३] "चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते । [४६५।१३-४६५।१४] अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति । [४६५।१४-४६५।१५] अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति । [४६५।१५-४६५।१६] अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति । [४६५।१६-४६५।१७] इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् । [४६५।१७-४६५।१८] सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति । [४६५।१८] नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता । [४६५।१९] तस्मान्न पुनः परीक्ष्यते । [४६५।१९-४६५।२०] तथा चोक्तं "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी"ति । [४६५।२०] यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् । [४६५।२०-४६५।२१] अथायतनं न तर्ह्यवक्तव्यः । [४६५।२१-४६५।२२] तेषामपि चैवं पश्यतो "यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे"ति । [४६५।२२-४६५।२५] बिम्बिसारसूत्रे चोक्तम् "आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते" इति विस्तरः । [४६५।२५] शैलयाप्यर्हन्त्या मारमारभ्योक्तम् । [४६६।०१-४६६।०४] "मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते । शून्यः संस्कारपुञ्जोऽयं नहि सत्त्व्जोत्र विद्यते ॥ यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता । एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते" ॥ इति । [४६६।०५] क्षद्रकेऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं [४६६।०६-४६६।०७] शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् । यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥ [४६६।०८-४६६।०९] आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते । नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ॥ [४६६।१०-४६६।११] द्वादशैव भवाङ्गानि स्कन्धायतनधातवः । विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥ [४६६।१२-४६६।१३] शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् । न लभ्यते सोऽपि कश्चिद्यो भावयति शून्यतामि"ति । [४६६।१४] तथोक्तं "पञ्चादीनवा आत्मोपलम्भे । आत्मदृष्टिर्भवति सत्त्वदृष्टिः । [४६६।१५] निर्विशेषो भवति तीर्थिकैः सार्धम् । उन्मार्गप्रतिपन्नो भवति । [४६६।१५-४६६।१६] शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते । [४६६।१६-४६६।१७] आर्यधर्मा अस्य न व्यवदायन्त" इति । [४६६।१७] न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति । किं कारणम् । [४६६।१७-४६६।१८] नास्माकमयं निकाये पठच्यत इति । [४६६।१८-४६६।१९] किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् । [४६६।१९] यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता । [४६६।१९-४६६।२०] न च ते शाक्यपुत्रीया भवन्ति । [४६६।२०] अथ बुद्धवचनं प्रमाणम् । अयं ग्रन्थः कस्मान्न प्रमाणम् । [४६६।२१] नहि किलैतत्बुद्धवचनमिति । किं कारणम् । नास्माकं निकाये पठच्यत इति । [४६६।२२] अयमन्यायो वर्तते । कोऽत्रान्यायः । [४६६।२२-४६६।२४] यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सोऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् । [४६६।२४] किं चेदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनातान" इति । [४६७।०१] स्यात्मतम् । नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति । [४६७।०१-४६७।०२] एवं तर्हि न मनोविज्ञेयः सिध्यति । [४६७।०२] द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् । [४६७।०२-४६७।०३] इह चैवं विकल्प्यते "अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास" इति । [४६७।०४] अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः । [४६७।०४-४६७।०५] "नात्मा स्कन्धायतनधातवः" यत्तावदुक्तं प्राक्"नो तु वक्तव्यं रूपाणि वा नो वे"ति तत्तावदशोचम् । [४६७।०५-४६७।०७] उक्तं च सूत्रान्तरे "ये केचित्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति । [४६७।०८] तस्मात्सर्व एवानात्मन्यात्मग्राहः । [४६७।०८-४६७।१०] तथोक्तं "ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि"ति । [४६७।१०-४६७।११] यद्येवमिदं कस्मादाह "रूपवानहमभूवमतीते अध्वनी"ति । [४६७।११] एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति । [४६७।११-४६७।१२] यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् । [४६७।१२] अपाठ एव त्वन्न शरणं स्यात् । [४६७।१२-४६७।१३] तस्मात्प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् । [४६७।१४] यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति । [४६७।१४-४६७।१५] न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् । [४६७।१५] क्षणिकत्वात् । पुद्गलस्तु जानीयात् । [४६७।१५-४६७।१६] एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात्नित्यत्वमस्याभ्युपेतं भवति । [४६७।१६-४६७।१७] नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद्बुद्धं सर्वज्ञमाचक्ष्महे । [४६७।१७] किं तर्हि । सामर्थ्यात् [४६७।१७-४६७।१९] या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् । [४६७।१९] आह चात्र । [४६७।२०-४६७।२१] संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात् । [४६७।२२] कथमिदं गम्यते । अतीतादिवचनात् । [४६७।२३-४६७।२४] "ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः । यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन" इति । [४६८।०१] स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः । [४६८।०१-४६८।०२] यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह । [४६८।०२-४६८।०३] "भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे"ति । [४६८।०३] कस्मादिदं न वक्तव्यं स्यात् । [४६८।०३-४६८।०४] न हि भार एव भारहारो युक्तः । [४६८।०४] किं कारणम् । नह्येवं दृश्यत इति । अवक्तव्योऽपि न युक्तः । [४६८।०५] किं कारणम् । न ह्येवं दृश्यते । भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च । [४६८।०६] इत्यर्थमेव भारहारं निर्दिदेश भगवान् । [४६८।०६-४६८।०७] "योऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः" स एष यथा विज्ञायेत । [४६८।०७-४६८।०८] मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति । [४६८।०८-४६८।०९] स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः । [४६८।०९] उपघातार्थो हि भार इति । [४६८।१०] अस्त्येव पुद्गलो यस्मादुक्तं "नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः" । [४६८।११] कश्चैवमाह नास्ति सत्त्व उपपादुक इति । [४६८।११-४६८।१२] सत्त्वस्तु यथाऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे । [४६८।१२-४६८।१३] तस्माद्यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर्नास्ति सत्त्व उपपादुक इति । [४६८।१४] स्कन्धानामुपपादुकत्वात् । [४६८।१४-४६८।१५] अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् । [४६८।१५] नह्येषा दर्शनभावनाप्रहातव्या युज्यते । पुद्गलस्य सत्त्वेष्वन्तर्भावात् । [४६८।१६] "एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात्न स्कन्धा इति चेत् । [४६८।१७] न । समुदायेऽप्येकोपचारादेकतिलैकतण्डुलवतेकराश्येकवचनवच्च । [४६८।१८] संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् । [४६८।१८-४६८।१९] न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् । [४६८।१९] किं तर्हि । स्कन्धान्तरोपादानात् । [४६८।१९-४६८।२०] यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् । [४६८।२०-४६८।२१] भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् । [४६८।२१] बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति । [४६८।२२] न प्रतिक्षेपात्सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् । [४६८।२२-४६८।२३] "इति हिभिक्षवोऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते । [४६८।२३-४६८।२४] य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति । [४६८।२४-४६८।२५] फल्गुसूत्रे चोक्तम् "उपादत्त इति फल्गु न वदामीति । [४६८।२५-४६८।२६] तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता । [४६८।२६-४६९।०१] कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते । [४६९।०१] दृष्टातं करोति पुद्गलं यदि । सोऽसिद्धः । अथ चित्तचैत्ताः । न । [४६९।०२] तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव । अथ शरीरम् । तस्यापि तथा । [४६९।०२-४६९।०३] शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते । [४६९।०३] जीर्ण शरीरान्तरमेव ज्याधितं च । [४६९।०३-४६९।०४] प्रतिषिद्धो हि सांख्यीयः परिणामवादः । [४६९।०४] तस्माददृष्टान्ता एते । [४६९।०५-४६९।०६] यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सोऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति । [४६९।०६] पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते । [४६९।०७] कथं तावत्भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्योऽन्यद्रूपम् । पाक्षिक एष दोषः । [४६९।०८] कतमस्मिन्पक्ष । भूतमात्रिकपक्षे । [४६९।०८-४६९।०९] तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति । [४६९।०९-४६९।१०] यदि स्कन्धमात्रं पुद्गलः कस्मात्भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् । [४६९।१०] प्रष्टुराशयापेक्षया । [४६९।१०-४६९।११] स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् । [४६९।११-४६९।१२] स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् । [४६९।१२] कौर्मस्येव रोम्णोऽन्तःखरता मृदुता वा । [४६९।१३] एष च ग्रन्थः पूर्वकैरेव निर्मोचितः । [४६९।१३-४६९।१४] स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः । [४६९।१४-४६९।१५] "पृच्छेयमहं भदन्तं बहुवोल्लकाश्च श्रवणा भवन्ति । [४६९।१५] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति । पृच्छेत्युक्तः पृष्टवान् । [४६९।१५-४६९।१६] किं नु स जीवस्तच्छरीरमन्यिओ जीवोऽन्यच्छरीरमिति । [४६९।१६] अव्याकृतमेतदित्यवोचत्स्थविरः । [४६९।१७] स आह । ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो नाऽन्यद्वच्याकर्तव्यमिति । [४६९।१७-४६९।१८] किमिदमन्यदेवोक्तमव्याकृतमेतदिति । [४६९।१८] स्थविर आह । [४६९।१८-४६९।१९] अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति । [४६९।१९] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति । [४६९।१९-४६९।२०] पृच्छेत्युक्तः पृष्टवान् । [४६९।२०-४६९।२१] यस्तेऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित्मधुराणीति । [४६९।२१] नैव ममान्तःपुरे कश्चिदाभ्रवृक्षोऽस्तीत्याह । [४६९।२१-४६९।२२] ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति । [४६९।२२] किमिदमन्यदेवोक्तमाभ्र एव नास्तीति । [४६९।२३] स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति । [४६९।२३-४६९।२४] एवमेव महाराज स एव जीवो नास्ति कुतोऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति । [४६९।२५] कस्मात्भगवताऽपि नोक्तं नास्त्येवेति । प्रष्टुराशयापेक्षया । [४६९।२५-४६९।२७] स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् । [४६९।२७] प्रतोत्य समुत्पादस्याज्ञानात् । [४६९।२७-४७०।०१] स चतद्देशनाया अक्षमः । [४७०।०१] इतश्चैतदेवं निश्चीयते । [४७०।०१-४७०।०३] यत्भगवतोक्तम् "अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति । [४७०।०३-४७०।०५] नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत्मे आत्मास मे एतर्हि नास्तीति । [४७०।०५-४७०।०६] अस्त्यात्मेत्यानन्द शाश्वताय परेति । [४७०।०६] नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः । आह चान्न [४७०।०७-४७०।०८] दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् । देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् ॥ [४७०।०९-४७०।१०] आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि"ति । [४७०।११-४७०।१२] पुनराह असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् । नास्तीत्यपि च नावोचन्माभूत्प्राज्ञप्तिकोप्यसन् ॥ [४७०।१३-४७०।१४] यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता । जीवाख्या तत्र सा न स्यात्जीवनास्तित्वदेशनात् ॥ [४७०।१५-४७०।१६] प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् । अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः ॥ [४७०।१७-४७०।१८] तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् । आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् ॥ [४७०।१९] शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया । [४७०।१९-४७०।२०] यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् । [४७०।२०-४७१।०१] अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् । [४७१।०१] शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् । शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् । [४७१।०२] अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् । [४७१।०२-४७१।०३] उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयातेकेषां न । [४७१।०३] अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् । [४७१।०४-४७१।०५] अतो मार्गधीनत्वात्परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ४ आवकचटकवत् । [४७१।०५] अत एवान्तवान् लोक इति चतुष्काव्याकरणम् । तुल्यार्थो ह्येष चतुष्कः । [४७१।०६-४७१।०७] तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोकोऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये"ति । [४७१।०७-४७१।०९] स्थविर आनन्द आह "यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे"ति सर्वम् । [४७१।०९-४७१।१०] भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः । [४७१।१०] स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् । [४७१।११-४७१।१२] पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति । [४७१।१२] शाश्वत दोषप्रसङ्गः । [४७१।१३-४७१।१४] इदं तर्हि कस्माद्वच्याकरोति "भविष्यसि त्वं मैत्रेयानागतेऽध्वनि तथागतोऽर्हन् संयक्संबुद्ध" इति । [४७१।१४-४७१।१५] कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुकोऽमुत्रोपपन्न इति । [४७१।१५] एवमपि हि शाश्वतत्वप्रसङ्गः । [४७१।१५-४७१।१७] यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सोऽस्तीत्यभ्युपगन्तव्यम् । [४७१।१७-४७१।१८] अथ पश्यत्यनुच्यमानोऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति । [४७१।१८] अर्थतदपि न वक्तव्यं पश्यति वा नवेति । [४७१।१८-४७१।१९] एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति । [४७१।१९-४७१।२०] अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् । [४७१।२०-४७१।२१] अस्तीत्यपि दृष्टिस्थानमुक्तम् । [४७१।२१] तस्मादज्ञापकमेतत् । [४७१।२१-४७१।२२] उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः । [४७१।२२] तथैव च युक्तम् । [४७१।२२-४७१।२३] "अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती"ति वात्स्यसूत्रे वचनात् । [४७१।२४] यदि तर्हि पुद्गलो नास्ति क एष संसरति । [४७१।२४-४७१।२५] नहि संसार एष संसरतीति युक्तम् । [४७१।२५-४७२।०१] उक्तं च भगवता "अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि"ति । [४७२।०१] अथ पुद्गलः कथं संसरति । [४७२।०१-४७२।०२] स्कन्धान्तरत्यागोपादानात् । [४७२।०२] उक्तोत्तर एष पक्षः । [४७२।०२-४७२।०३] यथातु क्षणिकोऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते । [४७२।०३-४७२।०५] यदि स्कन्धामात्रमिदं कस्मादाह भगवान् "ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ताऽभूवमि"ति । [४७२।०५] कस्मान्न वक्तव्यं स्यात् । अन्यत्वात्स्कन्धानाम् । [४७२।०५-४७२।०६] अथ किं पुद्गलः । [४७२।०६] स एवासौ । शाश्वतो हि स्यात् । [४७२।०६-४७२।०७] तस्मादहमेव स इत्येकसंतानतां दर्शयति । [४७२।०७] यथा स एवाग्निर्दहन्नागत इति । [४७२।०७-४७२।०८] यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः । [४७२।०८] पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च । [४७२।०८-४७२।०९] "आत्मनि च सत्यात्मीयं भवती"ति सूत्रे वचनादात्मग्राहोऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत । [४७२।०९-४७२।१०] सैषा स्यात्सत्कायदृष्टि । [४७२।१०] आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः । [४७२।१०-४७२।११] एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् । [४७२।११-४७२।१२] अथ मतं नैवात्मनि प्रवर्तते स्नेह इति । [४७२।१२-४७२।१३] तत्क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात्स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते । [४७२।१३-४७२।१४] तस्मात्दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः । [४७२।१४-४७२।१५] येऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः । [४७२।१६-४७२।१७] यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा । [४७२।१७-४७२।१८] स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् । [४७२।१८] कीदृशाच्चित्तविशेषात्यतोऽनन्तरं स्मृतिर्भवति । [४७२।१८-४७२।१९] तदाभोगसदृशसम्वन्धिसंज्ञादिमतोऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः । [४७२।२०-४७२।२१] तादृशोऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयोऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् । [४७२।२१-४७२।२२] लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् । [४७२।२२] कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति । [४७२।२२-४७२।२३] एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् । [४७२।२३] नासम्बन्धात् । [४७२।२३-४७२।२४] न हि तयोः संबन्धोऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः । [४७२।२४-४७२।२५] न च ब्रूमोऽन्येन चेतसा दृष्टमन्यत्स्मरतीति । [४७२।२५] अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते । [४७२।२५-४७२।२६] संततिपरिणत्या यथोक्तमिति क एवं सति दोषः । [४७२।२६] स्मरणादेव च प्रत्यभिज्ञानं भवति । [४७२।२७] असत्यात्मनिक एष स्मरति । स्मरतीति कोऽर्थः । स्मृत्या विषयं गृह्लाति । [४७२।२८] किं तद्ग्रहणमन्यत्स्मरणात् । स्मृतिं तर्हि कः करोति । [४७२।२८-४७३।०१] उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः । [४७३।०१] यत्तर्हि चैत्रः स्मरतीत्युच्यते । [४७३।०१-४७३।०२] ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति । [४७३।०२-४७३।०३] असत्यात्मनि कस्येवं स्मृतिः । [४७३।०३] किंर्थैषा षष्ठी । स्वाम्यर्था । यथा कस्य कः स्वामी । यथा गोश्चैत्रः । [४७३।०४] कथमसौ तस्याः स्वामी । तदाधीनो हि तस्या वाहदोहादिषु विनियोगः । [४७३।०४-४७३।०५] क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते । [४७३।०५] स्मर्तव्येऽर्थे । [४७३।०५-४७३।०६] किमर्थ विनियोक्तव्या । [४७३।०६] स्मरणार्थम् । अहो सूक्तानि सुखैधितानाम् । [४७३।०६-४७३।०७] सैव हि नाम तदर्थं विनियोक्तव्येति । [४७३।०७] कथं च विनियोक्तव्या । उत्पादनत अहोस्वित्संप्रेषणतः । [४७३।०८] स्मृतिगत्ययोगादुत्पादनतः । हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् । [४७३।०९] यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति । [४७३।०९-४७३।१०] यो ह्येव हेतुः स्मृतेस्तस्यैवासौ । [४७३।१०-४७३।१२] यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः । [४७३।१२-४७३।१३] तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः । [४७३।१३] एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् । [४७३।१४] तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः । [४७३।१५] योऽप्याह भावस्य भवित्रपेक्षत्वात्सर्वो हि भावो भवितारमपेक्षते । [४७३।१५-४७३।१६] यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते । [४७३।१६] तथा विज्ञानं भावः । [४७३।१७] तस्माद्यो विजानाति तेन भवितव्यमिति । स वक्तव्यः । [४७३।१८] कोऽयं देवदत्त इति । यद्यात्मा स एव साध्यः । अथ व्यवहारपुरुषः । [४७३।१८-४७३।१९] सोऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः । [४७३।१९-४७३।२०] तत्र यथा देवदत्तो गच्छति यथा विजानाति । [४७३।२०] कथं च देवदत्तो गच्छति । [४७३।२०-४७३।२२] क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति । [४७३।२२] सा च देशान्तरोपत्तिर्गतिरित । [४७३।२२-४७३।२३] ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् । [४७३।२३-४७३।२४] त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति । [४७३।२४] आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् । [४७३।२५] यत्तर्हि "विज्ञानं विजानाती"ति सूत्र उक्तं किं तत्र विज्ञानं करोति । [४७३।२५-४७३।२६] न किञ्चित्करोति । [४७३।२६] यथा तु कार्यं कारणमनुविधीयत इत्युच्यते । [४७३।२६-४७३।२७] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । [४७३।२७] एवं विज्ञानमपि विजानातीत्युच्यते । [४७३।२७-४७४।०१] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । [४७४।०१] किं पुनरस्य सादृश्यम् । तदाकारता । [४७४।०१-४७४।०२] अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् । [४७४।०२-४७४।०३] अथवा तथाऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् । [४७४।०४] घण्टा रौतीति यद्वत् । [४७४।०४-४७४।०५] अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति । [४७४।०५] कथं च प्रदीपो गच्छति । [४७४।०५-४७४।०६] प्रदीप इत्यर्चिषां संतान उपचर्यते । [४७४।०६] स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते । [४७४।०६-४७४।०७] एवं विज्ञानमपि चित्तानां संतान उपचर्यते । [४७४।०७] तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते । [४७४।०८-४७४।०९] यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् । [४७४।०९-४७४।१०] यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् । [४७४।१०] स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् । [४७४।११] एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति । [४७४।११-४७४।१३] अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात्पश्चादपि न स्यात्स्वयं व्युत्थानम् । [४७४।१३] क्रमोऽपि हि चित्तानां नियत एव । [४७४।१३-४७४।१४] यतो नूत्पत्तव्यं तत एव तस्योत्पादात् । [४७४।१४] तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति । [४७४।१४-४७४।१५] गोत्रविशेषात् । [४७४।१५-४७४।१७] यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत्समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा । [४७४।१७] तद्गोत्रत्वात् । [४७४।१८] अन्यथा न समर्थम् । [४७४।१८-४७४।१९] अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते । [४७४।१९] तद्भावनाया वलीयस्त्वात् । [४७४।२०] अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् । [४७४।२०-४७४।२१] सैव बलीयसी भावना कस्मान्नित्यं न फलति । [४७४।२१-४७४।२२] स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात्तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् । [४७४।२२] एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् । [४७४।२२-४७४।२३] निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ॥ [४७४।२३] एवं ह्याहुः । [४७४।२४-४७४।२५] सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि । नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि"ति ॥ [४७४।२६] प्रागेवारुपिणां चित्तभेदानाम् । [४७५।०१-४७५।०३] य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति । [४७५।०३] मनःसंयोगविशेषापेक्षत्वादिति चेत् । न । अन्यसंयोगासिद्धेः । [४७५।०४-४७५।०५] संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः । [४७५।०५-४७५।०६] ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा । [४७५।०६] प्रदेशसंयोग इति चेत् । न । तस्यैव तत्प्रदेशत्वायोगात् । [४७५।०६-४७५।०८] अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः । [४७५।०८] बुद्धिविशेषापेक्ष इति चेत् । [४७५।०८-४७५।०९] स एव परिचोद्यते कथं बुद्धिविशेष इति । [४७५।०९] संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् । [४७५।०९-४७५।१०] चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् । [४७५।१०-४७५।११] नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् । [४७५।११] सत्यात्मनि तयोः संयोग इति चेत् । [४७५।१२] वाङ्मात्रम् । आश्रयः स इति चेत् । यथा कः कस्याश्रयः । [४७५।१२-४७५।१३] न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः । [४७५।१३-४७५।१४] प्रतिघातियुतदोषात्नैव स एवमाश्रयः । [४७५।१४] कथं तर्हि । यथा गन्धादीनां पृथिवीति चेत् । [४७५।१४-४७५।१५] अतिपरितोषिताः स्मः । [४७५।१५] इदमेव हि नः प्रत्यायकं नास्त्यात्मेति । [४७५।१५-४७५।१६] यथा न गन्धादिभ्योऽन्या पृथिवीति । [४७५।१६] को हि स गन्धादिभ्योऽन्यां पृथिवीं निर्धारयति । [४७५।१६-४७५।१७] व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् । [४७५।१७-४७५।१८] ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति । [४७५।१८] काष्ठप्रतिमायां शरीरव्यपदेशवत् । [४७५।१८-४७५।१९] सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः । [४७५।१९] यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः । [४७५।२०] स एव वलिष्ठः कस्मान्नित्यं न फलति । योऽस्य न्यायः सोऽस्तु भावनायाः । [४७५।२१] आत्मा तु निरर्थकः कल्प्यते । [४७५।२२] अवश्यमात्माभ्युपगन्तव्यः । [४७५।२२-४७५।२३] स्मृत्यादीनां गुणपदार्थत्वात्तस्य चार्थादवश्यं द्रव्याश्रितत्वात्तेषां चान्याश्रयायोगादिति चेत् । [४७६।०१] न । न ह्येषां गुणपदार्थत्वं सिद्धम् । सर्वमेव नो विद्यमानं द्रव्य । [४७६।०१-४७६।०२] "षट्द्रव्याणि श्रामण्यफलानी"ति वचनात् । [४७६।०२] नाप्येषां द्रव्याश्रितत्वं सिद्धम् । [४७६।०२-४७६।०३] परीक्षितो ह्याश्रयार्थः । [४७६।०३] तस्माद्यत्किञ्चिदेव तत् । [४७६।०४] आत्मन्यसति किमर्थः कर्मारम्भः । [४७६।०४-४७६।०५] अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः । [४७६।०५] कोऽसावहं नाम यद्विषयिओऽयमहङ्कारः । स्कन्धविषयः । कथं ज्ञायते । [४७६।०६] तेषु स्नेहात् । गौरादिबुद्धिभिः सामानाधिकरण्यात्तु । [४७६।०६-४७६।०८] गौरोऽहमहं श्यामः स्थूलोऽहमहं कृशः जीर्णोऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणोऽयमहङ्कारो दृश्यते । [४७६।०८] न चात्मन एते प्रकारा दृश्यन्ते । तस्मादपि स्कन्धेष्वयमिति गम्यते । [४७६।०९-४७६।१०] आत्मन उपकारकेऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारकेऽपि आत्मोपचारो नत्वहङ्कारः । [४७६।१०-४७६।११] सति शरीरालम्बनत्वे परशरीरालम्वनोऽपि कस्मान्न भवति । [४७६।११] असंवन्धात् । [४७६।११-४७६।१२] येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र । [४७६।१२-४७६।१३] अनादौ संसार्र एवमभ्यासात् । [४७६।१३] कश्च संबन्धः । कार्यकारणभावः । [४७६।१३-४७६।१४] यद्यात्मा नास्ति कस्यायमहङ्कारः । [४७६।१४] इदं पुनस्तदेआयातं "किमर्थैषा षष्ठीति । [४७६।१४-४७६।१५] यावद्य एवास्य हेतुस्तस्यैवायमि"ति । [४७६।१५] कश्चान्यो हेतुः । [४७६।१५-४७६।१६] पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् । [४७६।१६] असत्यात्मनि क एष सुखितो दुःखितो वा । [४७६।१६-४७६।१७] यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा । [४७६।१७] यथा पुष्पितो वृक्षः फलितं वनमिति । [४७६।१७-४७६।१८] कः पुनरनयोराश्रयः । [४७६।१८] षडायतनम् । यथा कृत्वा तथोक्तम् । [४७६।१९] असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति । [४७६।१९-४७६।२०] कर्तेति क एष वाह्यर्थः । [४७६।२०] करोतीति कर्ता । भुङ्क्त इति भोक्ता । पर्याय उच्यते नार्थः । [४७६।२१] "स्वतन्त्रः कर्ते"ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः । [४७६।२१-४७६।२२] अस्ति पुनः क्वचिदेव कार्ये कस्यचित्स्वातन्त्र्यम् । [४७६।२२] लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ । [४७६।२२-४७६।२३] कः पुनर्भवान् देवदत्तमुदाहरति । [४७६।२३] यद्यात्मानं स एव साध्यः । अथ पञ्चस्कन्धकं स एव्कर्ता । [४७६।२४] त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म । [४७६।२४-४७६।२५] तत्र कायकर्मणि तावत्कायस्य चित्तपरतन्त्रा वृत्तिः । [४७६।२५-४७६।२६] चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित्स्वातन्त्र्यम् । [४७६।२६] प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते । [४७६।२६-४७६।२७] आत्मनोऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति । [४७६।२८] तस्मान्नैवंलक्षणमुपलभ्यते कश्चित्कर्ता । [४७६।२८-४७७।०१] यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते । [४७७।०१] न च आत्मनः क्वचिदपि कारणत्वं दृश्यते । [४७७।०१-४७७।०२] तस्मात्स एवमपि न कर्ता युज्यते । [४७७।०२-४७७।०३] स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते । [४७७।०३-४७७।०४] फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते । [४७७।०४] उपलभिरिति चेत् । नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् । [४७७।०५] असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति । [४७७।०५-४७७।०६] वेदनाद्यनाश्रयत्वात्तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् । [४७७।०७] कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः । [४७७।०७-४७७।०८] आत्मन्यपि सति कथं विनष्टात्कर्मण आयत्यां फलोत्पत्तिः । [४७७।०८] तदाश्रिताद्धर्माधर्मात् । [४७७।०८-४७७।०९] यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः । [४७७।०९] तस्मादनाश्रितादेव धर्माधर्मात्भवतु । [४७७।०९-४७७।१०] नैव तु वयं विनष्टात्कर्मण आयत्यां फलोत्पत्तिं ब्रूमः । [४७७।१०] किं तर्हि । [४७७।१०-४७७।११] तत्संततिपरिणामविशेषाद्वीजफलवत् । [४७७।११] यथा वीजात्फलमुत्पद्यत इत्युच्यते । [४७७।११-४७७।१२] न च तद्विनष्टाद्वीजादुत्पद्यते । [४७७।१२] नाप्यनन्तरमेव । किं तर्हि । [४७७।१२-४७७।१३] तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात्पुष्पावसानात् । [४७७।१३-४७७।१४] तत्पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते । [४७७।१४] तदाहितं हि तत्परयापुष्पे सामर्थ्यम् । [४७७।१४-४७७।१५] यदि हि तत्पूर्विकान्नभविष्यत्तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् । [४७७।१५-४७७।१६] एवं कर्मणः फलमुत्पद्यत इत्युच्यते । [४७७।१६] न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव । [४७७।१७] किं तर्हि । तत्संततिपरिणामविशेषात् । [४७७।१७-४७७।१८] का पुनः संततिः कः परिणामः को विशेषः । [४७७।१८-४७७।१९] यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः । [४७७।१९-४७७।२०] स पुनर्थोऽन्तरं फलोत्पादनसमर्थः सोऽन्तपरिणामविशिष्टत्वात्परिणमविशेषः । [४७७।२०] तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य । [४७७।२०-४७७।२१] त्रिविधकर्मपूर्वकत्वेऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य । [४७७।२२] आह च [४७७।२३-४७७।२४] "यत्गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् । पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे" ॥ [४७७।२५] तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते । [४७७।२५-४७७।२६] सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते । [४७७।२७] अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति । [४७८।०१] अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् । [४७८।०१-४७८।०२] न तावत्दृष्टान्तेन सर्वं समानं भवति । [४७८।०२] तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते । [४७८।०२-४७८।०३] किं तर्हि । [४७८।०३] विक्लित्तिविशेषजाद्विकारविशेषात् । [४७८।०३-४७८।०४] यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः । [४७८।०४-४७८।०५] भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वकोऽपि संतानो बीजमित्याख्यायते । [४७८।०५-४७८।०७] एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवोऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् । [४७८।०७] अथवा पुनरेतदेवं विज्ञातव्यम् । [४७८।०७-४७८।०९] यथा लाक्षारसरञ्जितात्मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात्पुनरन्यः एवं कर्मजाद्विपाकात्न पुनर्विपाकान्तरमिति । [४७८।०९-४७८।१०] यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् । [४७८।१०-४७८।११] नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः । [४७८।११] आह खल्वपि [४७८।१२-४७८।१३] "कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् । नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा ॥ [४७८।१४-४७८।१७] इत्येतां सुविहितहेतुमार्गशुद्धां बुद्धानां प्रवचनधर्मतां निशम्य । अन्धानां विविधकुदृष्टिचेष्टितानां तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः ॥ [४७८।१८-४७८।२१] इमं हि निर्वाणपुरैकवर्तिनीं तथागतादित्यवचोंऽशुभास्वतीम् । निरात्मतामार्यसहस्रवाहितां न मन्दचक्षुर्विवृतामपीक्षते ॥ [४७८।२२-४७८।२३] इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् । ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति । [४७९।०१-४७९।०२] पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति । कृतिरियमाचार्यवसुबन्धुपादानामिति ॥ [४७९।०३-४७९।०४] ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ ===================================================================== [४७९।०५-४७९।०६] देवधर्मोऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि । [४७९।०७] ॥ शुभमस्तु ॥ =====================================================================