उपायहृदयम् । अथ प्रथमं प्रकरणम् । एताद्वादावबोधेन वादधर्मावबोधनम् । विस्तरेण च गम्भीरोऽयमर्थोऽत्राभिधीयते ॥ वादो न कर्तव्यः । कस्मात्? प्रायेण हि वादकारकाणां सञ्जातविपुलक्रोधमदमत्तानां स्वयं विभ्रान्तचित्तानां मनसोऽनतिमृदुता परपापप्रकाशकत्वं स्वपाण्डित्यानुमोदकत्वञ्चेत्यादयो दोषा बुधिर्निर्भत्सिताः । तस्मादार्यजना असंख्येयोपायैर्विवादछेदकास्तत्परिहारप्रीताश्च विषभाजनपरित्यागादिव । वादकारकाणाञ्चान्तरं वस्तुतो मृद्वपि परं बहिर्बहुदोषं दृश्यते । तस्मात्स्वहितपरहिताभिलाषिणैते विवादधर्माः प्रहेयाः । अत्रोच्यते । मैवं, नैष वादप्रारम्भः परिभवलाभख्यात्यर्थोऽपि तु सुलक्षणदुर्लक्षणोपदेशेच्छयैव वादस्य प्रारम्भः । यदीह लोके वादो न भवेत्, मुग्धानां बाहुल्यं स्यात् । ततश्च लौकिकमिथ्याज्ञानकुशलतासहचरभ्रान्तिसमुद्भूतकुकर्मभिः संसारदुर्गतिः सदर्थहानिश्च । वादावगमे तु स्वयं सुलक्षदुर्लक्षणशून्यलक्षणपरिज्ञानत्वात्सर्वे मारास्तीर्थिका मिथ्यादृष्टिमनुष्याश्च विहेठनासमर्था (४) अप्रतिबन्धकाराश्च । तस्मात्सत्त्वहितेच्छयेह लोके सद्धर्मस्य प्रचारेच्छया च मयैष सम्यग्वाद आरभ्यते । यथास्रफलपरिपुष्टिकामेन तत्(फल)परिरक्षणार्थं बहिर्बहुतीक्ष्णकण्टकनिकरविन्यासः क्रियते । वादारम्भोऽपि तथैवाधुना सद्धर्म्मरक्षणेच्छया न तु ख्यातिलाभाय । यदुक्तं (भवता) पूर्वं [एष वादो] विवादप्रवर्धक इति । तदयुक्तम् । धर्मरक्षणार्थमेव हि वाद आरब्धव्यः । आह । यदुक्तं पूर्वं भवता यद्येतं वादं जानीयाद्वादधर्मानवगच्छेदिति वक्तव्यमेतस्य लक्षणम् । अत्रोच्यते । तस्य वादस्याष्टविधो भेदः । तदर्थगतिप्रज्ञानसामर्थ्ये परवादावगमः, यथा धान्यमुप्त्वा सिक्ता चोदकेन तस्य पुष्टिः समृद्धिश्च साध्यते । तृणाद्यनुत्सारणे तूट्कृष्टाङ्कुरा न जायन्ते । यदि कश्चिदेतमष्टाविधं [वादं] शृणुयादर्थन्तु तस्य नावगच्छेत्तदा [तस्य] सर्वेषु वादेषु संशयो भवेत् । यदि कश्चिदेतमष्टविधमर्थं परिजानीयान्नियतमेव सर्ववादधर्मावगमे समर्थो भवेत् । आह । एतद्वादपरिज्ञानादेव वादधर्मा नियतमवगम्यन्त इति (भवतो)क्तम् । अथ तीर्थिकानां वादधर्माः सन्ति न वा । अत्रोच्यते सन्त्येव । यथा वैशेषिकाणां षट्पदार्थाः । द्रव्यं गुणः सामान्यं विशेषः कर्म समवायश्चेत्यादिकवादधर्मेषु स्ववगतेष्वपि परसूत्रशास्त्राणामप्रतीतिः । अतो वादनयप्रतिपादनार्थं प्रपञ्चोच्छेदनार्थञ्चैतेऽष्टविधा गम्भीराः सद्वादधर्माः संक्षेपतो मया कथ्यन्ते । (५) दृष्टान्तः सिद्धान्तो वाक्यप्रशंसा वाक्यदोषः प्रमाणं प्राप्तकालवाक्यं हेत्वाभासो वाक्छलम् । दृष्टान्तो द्विविधः । संपूर्णदृष्टान्त आशिंकदृष्टान्तश्च । सिद्धान्तो निश्चितार्थ इति । वाक्यप्रशंसा वाक्यस्यार्थानुगमः । वाक्यदोषो वाक्यस्य युक्तिव्यत्ययः । प्रमाणं द्विविधज्ञापकहेतुरुत्पत्तिहेतुर्व्यञ्जनहेतुश्च । प्राप्तकाल वाक्यम् । यथा यदि पूर्वं धात्वायतनानि वदेत् । पश्चात्तु पञ्चस्कन्धान् तदैतदप्राप्तकालमित्युच्यते । प्राप्तकालवाक्यं तु वाक्यक्रमावगमे । हेत्वाभासो यथा मरीचाबुदकाभासः, न तु वस्तुत उदकम् । यदि वादी स्वलङ्कृतैर्वाक्यैरुदकमिति वदेत्तदा स हेत्वाभासः । वाक्छलं यथा । नवकम्बल इत्युक्ते तद्दूषयन् वदेत् । वस्त्रं न कालः कथं नव इत्युच्यते । इति छलम् । एवं समामतोऽष्टविधोऽर्थः समाख्यातः । इदानीं क्रमेण तल्लक्षणानि विस्तरेण व्याख्यास्यामः । आह । उक्तो भवता पूर्वं दृष्टान्तः । कस्तावदुपायो दृष्टान्तस्य स्थापने । अत्रोच्यते । दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणाञ्च बुद्धिसाम्यं तदा वक्तव्यम् । यथा चित्तं चञ्चलं द्रुतवायुवत् । सर्वेषां जनानां वायुचाञ्चल्यस्य प्रतीतेः । तदा चित्तस्थिरताया निश्चयः । अप्रतीतौ दृष्टान्तालाभः । आह । कस्मात्सदर्थ एव नोच्यतेऽपि तु दृष्टान्तः । अत्रोच्यते । दृष्टान्तवचनं हि सदर्थद्योतनार्थम् । आह । भवता पूर्वमुक्तं पृथग्जनानामार्याणाञ्च बुद्धिसाम्यदृष्टान्तलाभ इति । किं साम्यं को वा विशेषः । अत्रोच्यते । पूर्ववत् । वायुदृष्टान्तस्य साम्यमित्युच्यते । (६) आर्याणां निर्वाणप्राप्तिः पृथग्जनानां त्वप्राप्तिरयं विशेष इत्युच्यते । आह । उक्तं दृष्टान्तलक्षणम् । किं पुनः सिद्धान्तलक्षणम् । अत्रोच्यते । साध्यस्य हेतुभिर्विस्तरेण स्थापनं निर्णयश्च । एतत्सिद्धान्तलक्षणम् । आह । सिद्धान्तधर्माः कियन्तः । अत्रोच्यते । चत्वारः । सर्वसमः सर्वभिन्न आदौ समः पश्चाद्भिन्न आदौ भिन्नः पश्चात्समश्च । आह । अधुना भवतैतानि चत्वारि लक्षणानि व्याख्यातव्यानि । अत्रोच्यते । अर्थस्थापनमिच्छता चतुर्विधं ज्ञानमाश्रयितव्यम् । किं तच्चतुर्विधम् । प्रत्यक्षमनुमानमुपमानमागमश्च । सर्वसमो यथा, (वादी वदेद)आत्मात्मीयञ्च न विद्येते, प्रतिवद्यपि वदेदात्मात्मीयञ्च न विद्येत इत्ययं सर्वसमः । सर्वभिन्नो यथा, (वादी वदेत्) पृथगिति प्रतिवादी तु वदेदेकमित्ययं सर्वभिन्नः । आदौ समः पश्चाद्भिन्नो यथा, (वादी वदेत्) सर्वं दृष्टधर्मं सत् । आत्मा पुनरप्रत्यक्षोऽपि सग् । प्रतिवादी वदेद्यत्प्रत्यक्षधर्मकं तदेव सदिति वक्तव्यम् । आत्मा चेदप्रत्यक्षः कथं सन् । अनुमानेन चेदात्मा सन्निति तर्हि प्रत्यक्षपूर्वकमनुमानमिति । अप्रत्यक्षधर्मक आत्मा कथमनुमीयते । यदि पुनरुपमानेनात्मा सन्निति, अथ साधर्म्यपूर्वकमुपमानमित्यात्मा केनोपमीयते । यदि त्वागमेनात्मा सिद्ध इत्युच्यते तदयुक्तम् । दुर्बोधं हि सूत्रम् । कुत्रचित्सन्निति कुत्रचिदसन्निति कथं तत्प्रतीतिरित्ययमादौ समः पश्चाद्भिन्नः । आदौ भिन्नः (७) पश्चात्समो यथा, (वादी वदेद)आत्मात्मीयञ्च न विद्येते । प्रतिवादी तु वदेदस्त्यात्मा, अस्ति पुरुषः । निर्वाणाभ्युपगमस्त्रूभयोर्वादिनोः । अयमुच्यत भिन्नः पश्चात्समः । अपि चापरिमितानि लक्षणानि सिद्धान्तस्य, तद्यथा द्वादश निदानानि, दुःखं, समुदयः, निरोधः, मार्गः सप्तत्रिंशत्पक्षाः, चत्वारि श्रामण्यफलानीत्यादयो धर्मा बुद्धस्य सम्यगर्था इत्युच्यन्ते । सन्ध्यापूजा, बलिदानं, धूपदीपनं, तैलदीपनिवेदनमिति चतुर्विधा याज्ञिकतीर्थिकानां क्रिया । त्रिषष्ट्यक्षराणां चतुर्णां च पदानामर्थ इति शाब्दिकास्तीर्थिकाः । ओषधिविद्या षड्विधा । ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्यं, सन्निपातः, विपाकश्चेति भैषाज्यधर्माः । षट्पदार्था वैशेषिकाणाम् ॥ प्रधनस्यैक्यं पुरुषा बहवः । [तेषां च] विमुक्तिरिति सांख्याः । अष्टौ सूक्ष्माणि यथा । चत्वारि महाभूतानि बुद्धिराकाशो, विद्या, अविद्या, अष्टैश्वर्याणि [तद्यथा] अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, कायविभागः, ईशित्वं तिरोभावश्च । इति योगतीर्थिकाः । जीवोऽजीवः पापं पुण्यमाश्रवः, निर्जरा, सम्बरः, बन्धः, मोक्षः । पञ्चज्ञानानि [तद्यथा] श्रुतज्ञानं, मतिज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानम् । षडावरणानि, (८) दर्शनावरणं, दुःखवेदनीयावरणं, मोहावरणमायुरावरणं, गोत्रावरणं, नामावरणञ्च । चत्वारः कषायाः [तद्यथा] क्रोधः, मानः, लाभः, माया चेति निर्ग्रन्थधर्माः । अपरेऽपि सन्ति ये वदन्ति सर्वमेकं सद्भावाज्ज्ञेयम् । सर्वधर्माणां च गुणवत्त्वादैक्यम्, किञ्च प्रधानात्समुत्पन्नं सर्वमेकं ज्ञेयमेकमूलत्वा इत्येवमेकवादिनस्तीर्थिकाः । अपरे वदन्ति । सर्वं पृथक् । कुत इति चेत् । यथा शिरःपदादि कायात्पृथक् । अपि च लक्षणपृथक्तं यथा वृषभोऽश्वविलक्षणः । तस्मात्सर्वं पृथगिति ज्ञेयम् । इति पृथग्वादिनस्तीर्थिकाः । अथ कथं सर्वमेकं सद्भावादिति । यतः सद्धि द्वेधा चेतनमचेतनञ्च । तत्कथमेकं हेतुवैषम्यांदिति । एवं धर्माणां समासतो दूषणम् । यदि पुनः कश्चिद्वदेद्दुःखसमुदयनिरोधमार्गद्वादशनिदानसंस्कृतादिधर्माणामेकत्वं पृथक्तं वेति सर्वमेतदसद्धेतुकम् । कस्मात् । यद्येकत्वं तदा दुःखान्तवादापत्तिः । यदि पृथक्तं तदा सुखान्तवादापत्तिः । तस्मादुक्तं [एकत्वे पृथक्ते वा]न्तद्वयवादापत्तिः । नैष बुद्धधर्मस्यार्थ इति । अपि च यथा केचिद्वदन्ति निर्वाणभावः न दुःखं न च सुखम् । कथं ज्ञातमिति चेत् । सर्वे हि धर्माश्चेतनाः सदुःखसुखा निर्वाणं त्वचेतनं कथं सुखं स्यात् । अपि च केचिद्वादिनः सुखं वदन्ति । कुत इति चेत् । सुखं त्रिविधम् । सुखवेदनासुखं, अनुपघातः, अनाकाङ्क्षा च । निर्वाण आकाङ्क्षाभावान्निर्वाणं सुखम् । (९) अपि च निर्वाणं नित्यमिति मया पूर्वं ज्ञातम् । इदानीन्तु [वक्तव्यं] संस्कारेभ्यस्तत्पृथक्न वेति केचित् । अत्रोच्यते । निर्वाणं नित्यमिति पूर्वं ज्ञातं किमुच्यते संक्सारैस्तत्तुल्यम् । संस्काराणां स्वभावः परिणामः प्रध्वंसश्च । निर्वाणभावस्य तु नित्यता सुखत्वञ्च । कथं विद्वांस्तत्संस्कारैस्तुल्यं वदेत् । अन्यच्च केचिदाहुः । आत्मभावस्य रूपवत्त्वे नित्योऽनित्यो वायमिति न निश्चीयते । अत्रोच्यते । सर्वं मूर्तमनित्यमेव यथा मुर्तो घटो विनाशी । आत्मापि तद्वदिति चेत्तदानित्य एव । आत्मनो मूर्तत्वन्तु सूत्रैर्न समर्थितं, युक्तिहीनञ्चैतत् । यथा रत्नबुध्या सिकतोपलादानं तथा भवतो वचनमतीव मिथ्या । अथ कस्मादात्मामुर्त इति चेन्मया पूर्वमुक्तं घटो मूर्तत्वाद्विनाशीति । यद्यात्मैवं स्यात्, तदा सोऽपि विनाशी भवेत् । कथमिदानीं भवता पृच्छ्यते ’कस्मादात्मामूर्तऽ इति । अपरञ्च । अनियतसिद्धान्तलक्षणम्, यथा कश्चित्पृच्छेत् । किं शब्दो वस्तु[भूतो] नित्योऽनित्यो वा । अत्रोच्यते । यद्विभागनिष्पन्नं तदनित्यमेव । शब्दोऽपि विभागनिष्पन्नः कथं नित्यो भवेत् । अथ किं नाम शब्दो वस्तु[भूतः] । अत्रोच्यते । अनिश्चये कथं प्रश्नः । अथ किं केवल एवात्मानागतेऽध्वनि सुखदुःखे वेदयते सशरीरो वा । अत्रोच्यते । एतस्मिच्छरीरे विनष्ट आत्मनोऽपरस्मिञ्छरीरे वेदनम् । (१०) ननु क एष आत्मा योऽनागतेऽध्वनि सुखदुःखे वेदयते । अत्रोच्यते ।ऽआत्मा, इति पूर्वमुक्तं भवता । कथं पुनः सन्नसन् वात्माऽ इति पृच्छ्यते । अयुक्तमेतत् । अथ सिद्धान्तार्थ उक्तः । किं पुनर्वाक्यप्रशंसालक्षणम् । अत्रोच्यते । युक्त्यविरुद्धमनधिकमन्यूनमधिगतपदार्थं वचनधर्मनिबद्धं प्रसिद्धदृष्टान्ताविरुद्धमननुयोज्यञ्च । एभिर्हेतुभिर्वाक्यप्रशंसेत्युच्यते । ननु किं नाम युक्त्यविरुद्धम् । अत्रोच्यते । विज्ञानमेवात्मेति केचिन्मन्यन्ते सर्वस्काराणां शून्यत्वादनात्मत्वाच्च । न हि सर्वे संस्कारा विज्ञानमिति तदयुक्तम् । संस्कारा हि विज्ञानस्य हेतवः । हेतूनां चानात्मत्वात्, कथं विज्ञानमात्मा । अथ सर्वे धर्मामनित्याः शब्दस्तु नैव सर्वं, तस्माच्छब्दो नित्य इति । अत्रोच्यते । भवता सर्वमित्युक्तम्, कोऽर्थः पुनः शब्दस्य, यो नैव सर्वम् । एतदहेतुकमयुक्तञ्च । अन्यच्च । सर्वे कृतकधर्मा अनित्या एव । अग्निसन्तानवत् । शब्दोऽपि तथा । तस्मादनित्यः । एतदविरुद्धलक्षणम् । अथ किमनधिकमन्यूनञ्च । अत्रोच्यते । अहिकन्यूनत्वयोर्लक्षणं पूर्वमुक्तम् । न्यूनत्वं त्रिविधं हेतुन्यूनत्वं वाक्यन्यूनत्वं दृष्टान्तन्यूनत्वञ्च । यदि कश्चिद्वदेत् । षड्विज्ञानन्यनित्यानि घटवत् । कारणन्तु न वदेत्तदा तद्धेतुन्यूनत्वमित्युच्यते । यदि कश्चिद्वदेहेहोऽयमनात्मा सकारणत्वात् । शब्दोऽप्यनात्मा सकारणत्वादेतदृष्टान्तन्यूनत्वम् । (११) यदि कश्चिद्वदेदनित्यानि चत्वारि महाभूतानि घटवत्कृतकानि । एतद्वाक्यन्यूनत्वम् । एतद्वीपरीतं तु सम्पन्नमित्युच्यते । सम्पन्नञ्च यथा । आत्मवाद्येवं प्रष्टव्यः । यदुक्तं भवतात्मेति स नित्योऽनित्यो वा । यद्यनित्यस्तदा संस्कारवद्विनाशधर्मा । नित्य इति चेत्तर्हि कथं निर्वाणस्पृहा । एतत्सम्पन्नलक्षणम् । अथ किं नामाधिकम् । अत्रोच्यते । अधिकं त्रिविधम्, हेत्वधिकं, दृष्टान्ताधिकं, वाक्याधिकञ्च । यदि कश्चिद्वदेच्छब्दोऽनित्यः सम्योगजः । यथा घटः कृतकोऽनित्यश्च । पुनरपि वदेच्छब्द आकाशस्य गुणः । आकाशोऽमूर्तः शब्दस्तु रूपधर्मा कथमन्योन्यसमाश्रयः । एतद्धेत्वधिकं यद्युच्यते पञ्चेन्द्रियाण्यनित्यानि प्रतिध्वनिवत्कृतकत्वात् । शब्दोऽपि तथा । कथं तज्ज्ञायते । ओष्ठमुखादिसमुद्भवत्वात् । तदृष्टान्ताधिकम् । यद्युच्यतेऽणुः सूक्ष्म आकाशस्तु व्यापी । उभावपि नित्यौ । शब्दस्तु न तथा तस्मादनित्य एतदृष्टान्ताधिकम् । अपि च शब्दोऽनित्यः सकारणत्वात् । नित्य इति चेत्, तदयुक्तम् । कस्मात्? द्वाभ्यां हेतुभ्याम् । मुर्तोद्भवत्वादैन्द्रियकत्वाच्च । कथं नित्य इति यच्च समानधर्मकं तत्सर्वमनित्यम् । एतद्वाक्याधिकमुच्यते । अत्राह । कीदृशं वाक्यं लौकिकानां प्रतिपादनाय स्मर्थम् । उच्यते । यदि मूर्खाय गम्भीरार्थ वदेद्यथा सर्वे धर्मा शून्याः शान्ता निरात्मानो निष्पुग्दला मायावत्निर्माणवत्तत्त्वरहिता इत्यादि तदा तं गम्भीरार्थं विद्वानेव ज्ञातुं शन्कोति पृथग्जनस्तु श्रुत्वा भ्रान्त्यापन्नो भवेत् । (१२) एतदप्राप्तकालम् । अथोच्यते । अस्ति धर्माणां कर्म, अस्ति विषाक्रोऽस्ति च बन्धमोक्षडिः । यः करोति सोऽनुभुङ्क्त इत्यल्पबुद्धयोऽपि श्रुत्वावगच्छन्ति यथा वेधकारणिसंयोगेनाग्नेरूत्पत्तिः । यदभिधीयते तद्यदि सत्त्वोपयोगि भवेत्, तदा सर्वेषां [तत्र] प्रतीतिरनुमोदनञ्च । एतत्प्राप्तकालम् । अथ किं प्रतिपत्तिः । उच्यते । अभिहितस्य बाहुल्येऽपि स्मरणसामर्थ्यम्, अर्थानां गाम्भीर्येऽपि तल्लक्षणोपलब्धिः, जनप्रीतिकरश्च साध्यसारः । यथा कश्चिद्वदेत्सर्वे धर्माः शून्या अनीश्वराः सर्ववस्तूनां प्रतीत्यसमुत्पन्नत्वादिति प्रतिपत्तिः । अथ के वाक्यदोषाः । अत्रोच्यते । पूर्वोक्तविपरीता वाक्यदोषाः । वाक्यदोषाः पुनर्द्विविधाः । किञ्च तद्द्वैविध्यम् । अर्थस्याभेदे पुनरुक्तिः । वाक्यस्य चाभेदे पुनरुक्तिरिति । का नामैकार्थपुनरुक्तिः । यथा कौशिक इत्युक्त्वा पुनर्वदेद्देवेन्द्रः शक्रः पुरन्दरो वेति । इयमुच्यत एतस्यैवार्थस्य नामान्तरपुनरुक्तिः । नामार्थतुल्यता यथा । इन्द्र इत्युक्त्वा पुनरपीन्द्र इति वदेत् । इयं नामार्थाभेदे पुनरुक्तिः । यदलङ्कृतमसङ्गं वोक्तं स सर्वो वाक्यदोष इत्युच्यते । अपरञ्च यद्युक्तिसमुपेतमप्यक्रममेषोऽपि वाक्यदोष इति । यथा गाथयोक्तम् । यथा कश्चिद्देवानामिन्द्रस्य शक्रस्य भार्यां प्रशंमयन् सुवर्णरूपिणीम् ॥ (१३) कोमलपादहस्तां पश्चाच्च शक्रो देवानामिन्द्रोऽसुरत्रिपुरविनाशीति तु वदन्नित्यक्रमं वचनमुक्तम् । अथ कतिविधं प्रमाणम् । चतुर्विधं प्रमाणम् । प्रत्यक्षमनुमानमुपमानमागमश्चेति । चतुर्षु प्रमाणेषु प्रत्यक्ष श्रेष्ठम् । कुतः पुनः प्रत्यक्षं श्रेष्ठमिति चेदपरेषां त्रयाणां प्रमाणानां प्रत्यक्षोपजीवकत्वाच्छ्रेष्ठम् । यथा दृष्टे धूमवत्यग्नौ पश्चाद्धुमदर्शनादग्नेरनुमानम् । तस्मात्प्रत्यक्षं विशिष्यते । यथ च मरीचिदर्शनेनोदकोपमानम् । तस्मात्प्रत्यक्षे पूर्वं ज्ञाते पश्चादुपमानलाभः । .....पश्चात्प्रत्यक्षकाले पूर्वज्ञानं सत्यम् । ततश्च प्रत्यक्षादेव [प्रमाण]त्रयं ज्ञानमिति ज्ञातम् । इदानीन्तु तत्प्रत्यक्षं कथं सदिति । अत्रोच्यते । पञ्चेन्द्रियज्ञानं कदाचिन्मिथ्या । यत्तु साध्यवसायं सम्यग्धर्मावबोधकं तत्परमम् । ग्रीष्मे मरीचीनामलातचक्रगन्धर्वनगराणां च प्रत्यक्षेऽपि तदसत् । अपरञ्च । लक्षणास्पष्टत्वाद्दर्शनभ्रमः । यथा रात्रौ स्थाणुं दृष्ट्वा मनुष्य एष इत्युच्यते । अङ्गुल्या चक्षुःपीडनाच्च द्विचन्द्रदर्शनम् । शून्यताज्ञाने प्राप्ते सम्यग्दृष्टिरुच्यते । ज्ञात प्रत्यक्षं तावत् । अथ किमनुमानलक्षणम् । उच्यते तत्पूर्वमुद्दिष्टम् । अधुना व्याख्यायते । अनुमानं त्रिविधं पूर्ववत्, शेषवत्, सामान्यतो [दृष्टं] च । यथा षडङ्गुलिं सपिडकमूर्धानं बालं दृष्ट्वा पष्चाद्धृद्धं बहुश्रुतं देवदत्तं दृष्ट्वा षडङ्गुलिस्मरणात्सोऽयमिति पूर्ववत् । शेषवत्यथा, सागरसलिलं पीत्वा तल्लवणरसमनुभूय (१४) शेषमपि सलिलं तुल्यमेव लवणमिति । एतच्छेषवदनुमानम् । सामान्यतो दृष्टं यथा । कश्चिग्दच्छंस्तं देशं प्राप्नोति । गगनेऽपि सूर्याचन्द्रमसौ पूर्वस्यां दिश्युदितौ पश्चिमायाञ्चास्तं गतौ । तच्चेष्टायामदृष्टायामपि तद्गमनमनुमीयते । एतत्सामान्यतो दृष्टम् । ननु का श्रुतिः । अत्रोच्यते, सत्यप्राचीनवृद्धबुद्धबोधिसत्त्वदर्शनादार्यसूत्रधर्मश्रवणग्रहणयोर्ज्ञानदर्शनोत्पादसामर्थ्यमेषा श्रुतिरित्युच्यते । यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुत इत्युच्यते । एवमपि यत्कृतसर्वधर्मसाक्षात्कारैर्महाज्ञानैरार्यैः श्रुतं तत्सुश्रुतमुच्यते । अथ किमुपमानलक्षणम् । अत्रोच्यते । यथा सर्वे धर्मा शून्याः शान्ता मायावत्निर्माणवत् । संज्ञादान्ताश्ववत्, संस्काराः कदलीवत्, कामलक्षणं पिडकवत्विषवत् । एतदुपमानमुच्यते । एवं चत्वारो हेतवः । तदवगमनं हेतुज्ञानमित्युक्तम् । अथ के हेत्वाभासाः । अत्राच्यते । हेत्वाभासा एतेषु वादधर्मेसु महादोषा एव ज्ञेयाः । शीघ्रञ्चापहर्तव्याः । अथेदानीं हेत्वाभासा व्याख्यास्यन्ते । हेत्वाभासानां लक्षणान्यपरिमितानि संक्षेपतस्त्वष्टावेव । वाक्छलं, सामान्यछलं, संशयसमः, कालातीतः, प्रकरणसमः, वर्ण्यसमः, सव्यभिचारः, विरुद्धः । नन्वेतेऽष्टौ धर्मा विस्तरेण विवेक्तव्याः । उच्यते । नव इति चतुर्विधम् । नवः, नव, न वः, नव इति । (१५) यथा कश्चिदाह । यो मय परिहितः स नवकम्बलः । अत्र दूषणं (वदेत्) यद्भवता परिहितं तदेकमेव वस्त्रं कथं नवेति । अत्र प्रतिवेदेन्मया नव इत्युक्तं तथाच नवः कम्बलः नतु नवेति । अत्र दूषयेत्कथं नव? नवलोमैर्निर्मितत्वान्नव इत्युक्ते प्रतिवादी वदेत्तत्त्वतोऽपरिमितानि लोमानि कथं नवलोमानीत्युच्यते । अत्राह । नव इति मया पूर्वमुक्तं न तु नवसंख्या । अत्र दूषणम् । तद्वस्त्रं युष्माकमेवेति ज्ञातं कस्मादेतन्न वः कथ्यते । अत्रोत्तरम् । मया नव इत्युक्तं किन्तु न व इति नोक्तम् । अत्र दूषणम् । भवतः कायं कम्बलो वस्त इति प्रत्यक्षमेतत् । कथमुच्यते न वःकम्बलः । अयं हेत्वाभास इत्युच्यते वाक्छलं च । अपरञ्च वाक्छलम् । यथा गिरिर्दह्यत इत्युक्ते, दूषणम् । तत्त्वतस्तृणतरवो दह्यन्ते कथं गिरिर्दह्यत इत्युक्तम् । एतद्वाक्छलमित्युच्यते । अपि च छलं द्विविधम् । पूर्ववत्सामान्यञ्चेति । यथा । संस्कृता धर्माः श्रून्याः शान्ता आकाशवदित्युक्ते, दूषणम् । यद्येवं, उभयोरपि शून्यत्वमभावश्च, तदा निःस्वभावा धर्मा आकाशतुल्या इति सामान्यछलम् । का तावदुत्पत्तिरिति । अत्रोच्यते । सत उत्पत्तिरिति । यथा मृदो घटत्वत्त्वाद्धटोत्पादकत्वम् । यदि मृदो घटत्ववत्त्वं तदा मृदेव घटः स्यात् । तदा तदुत्पत्तये कृतं कुम्भकाररज्जुचक्रसंयोगेन । यदि मृदः सद्भावेन घटोत्पादकत्वं, तदोदकस्यापि सद्भावेन घटोत्पादकत्वं (१६) स्यात् । यद्युदकस्य सद्भावेन घटानुत्पादकत्वं कथं तर्हि मृदो घटोत्पादकत्वम् । इति सामान्यछलम् । किं नाम संशयहेत्वाभासलक्षणम् । उच्यते । स्थाणोर्मनुष्यसादृश्यात्, रात्रौ तं दृष्ट्वा, एष स्थाणुः पुरुषो वेति विमर्शः । अयं संशयहेत्वाभास इति । कः पुनः कालातीतहेत्वाभासः । उच्यते । यथा कश्चिद्वदेन्नित्यः शब्दः । शब्दमयत्वाद्वेदोऽपि नित्य इति । अत्र दूषणम् । इदानीं भवता शब्दस्य नित्यताकारणमप्रतिष्ठाप्य कथं वेदो नित्य इत्युच्यते । अत्र वदेद्यथाकाशमरूपत्वान्नित्यं तथा शब्दोऽप्यरूपत्वान्नित्यः । तद्वचने पश्चादप्युक्ते सोऽर्थः सिध्यति । अत्र दूषणं कालतीतमेतद्वचनम् । यथा गृहे दग्ध उदाकान्वेषणं भवतोप्येवमिति कालातीतः । अथ को नाम प्रकरणसमः? (आत्मनः) शरीर भिन्नत्वादात्मा नित्यः । यथा (घटस्य) आकशभिन्नत्वाद्वटोऽनित्यः । अयं प्रकरणसम इत्युच्यते । अत्र दूषणम् । यद्यात्मा शरीरभिन्नत्र्वान्नित्य इति, तदा (घटस्य) आकाशभिन्नत्वाद्वटोऽनित्यः । अयं प्रकरणसम इत्युच्यते । अत्र दूषणम् । यद्यात्मा शरीरभिन्नत्वान्नित्य इति, तदा (घटस्य) शरीरभिन्नत्वाद्वटोऽपि नित्यः स्यात्शरीरभिन्नत्वेऽपि घटोऽनित्य इति चेत्, तर्ह्यात्मापि शरीरभिन्नत्वात्कथं नित्यः । इति प्रकरणसमः । को नाम वर्ण्यसमः । उच्यते । यथा नित्यमाकाशमस्पर्शत्वात् । मनोविज्ञानमपि तथा । अयं वर्ण्यसम इत्युच्यते । कः सव्यभिचारः । उच्यते । यथा पञ्चविषया अनित्या (१७) इन्द्रियग्राह्यत्वात् । चत्वारि महाभूतान्यपि तथा तस्मादनित्यानि । अत्र दूषणम् । कूर्मरोम लवणगन्धश्च निराभासमात्रं मनोविज्ञानोपलभ्यत्वात्किमनित्यमिति सव्यभिचारः । अथ को नाम विरुद्धः । उच्यते । विरुद्धो द्विविधः । दृष्टान्तविरुद्धो युक्तिविरुद्धश्च । यथात्मा नित्योऽमूर्तत्वात्, वृषभवत् । अयं दृष्टान्तविरुद्धः । युक्तिविरुद्धो यथा, ब्राह्मणस्य क्षत्रकर्मानुपालनं मृगयादिशिक्षा च, क्षत्रियस्य ध्यानसमापत्तिरिति युक्तिविरुद्धः । एवम्भूतौ धर्मावज्ञा अबुद्धैव सत्यं मन्यन्ते । ननु किमविरुद्धम् । अत्रोच्यते । एतद्भिन्नमविरुद्धमित्यभिधीयते । इति हेत्वाभासाः । ॥ इति प्रथमं प्रकरणम् ॥ (१८) अथ द्वितीयं प्रकरणम् । पूर्वमष्टविधा वादधर्मा उक्ताः । अथ निग्रह[स्थान]धर्मान् वक्ष्यामः । ननु कतमे वादधर्माः । (अत्रोच्यते) यथा चत्वारि महाभूतानि प्रज्ञप्तिरेव । कस्मात् । रूपादिधर्मत्वादेव । अपरः पुनराह । चत्वारि महाभूतानि तत्त्वतः सन्ति । कथमेतज्ज्ञातम् । काठिन्यं पृथिवीधर्मो यावच्चलत्वं वायुधर्मः । तत्सदिति ज्ञेयम् । एतच्च प्रतिविरुद्धम् । तस्माद्विवादः । यथा वा । पृथिवी शरीरकारणमेव । अपराणि महाभूतान्यपि तथा । अत्र दूषणम् । पृथिव्यादि सर्ववस्तुसाधनसमर्थं सत्, कथं शरीरमात्रं साधयेदिति नात्र विवादः । यद्येवं न स्यात्तदा वाद इत्युच्यते । ननु कानि निग्रहस्थानानि । (अत्रोच्यते) यथा शब्दो नित्योऽमूर्तत्वादाकाशवत् । अत्र दूषणम् । यद्यपि शब्दोऽमूर्तः । तथाप्यैन्द्रियकः, संप्रतिघः, घटवत्कृतकः । अपि त्वाकाशेऽकृतके कथं तदृष्टान्तलाभः । एतन्निग्रहस्थानमित्युच्यते । अथ घटो मूर्त इत्यनित्यः शब्दस्य त्वमूर्तत्वात्कथं तदृष्टान्तलाभः । अत्र दूषणम् । शब्दो घटभिन्नोऽप्यैन्द्रियकः श्रावणत्वात् । तस्मादनित्यः । ननु कस्यार्थस्यानिग्रहस्थानत्वापत्तिः । संस्कारा विज्ञानञ्च (१९) कृतकत्वादनित्यम् । निर्वाणमकृतकत्वान्नित्यम् । एतद्वाक्यं सम्यक्पदरसम् । एतदुच्यतेऽनिग्रहस्थानम् । ननु किं वचनं दूषयितव्यम् । चुअय्ते । वाक्यवैपरीत्यं, असद्धेतुस्थापनं, उदाहरणवैषम्यञ्चैतद्दूषयितव्यम् । यथ संज्ञा संयोजनोच्छेदिका, इत्युक्ते कश्चित्पृच्छेत् । कथं संज्ञा सम्योजनोच्छेदिका । ज्ञानस्य संज्ञात उत्पादं पूर्वमनुत्का संज्ञामात्रकथनाद्वाक्यवैपरीत्यमितीदं दूषणीयम् । ननु कथं पुनरेतद्वाक्यमुच्यते । असिद्वस्थापनान्निग्रहस्थानापत्तिज्ञापनार्थमुक्तम् । अपरञ्च । अनुयोज्याननुयोगः । प्रतिवक्तव्येऽप्रतिवक्तव्यत । त्रिरभिहितस्य परैरविज्ञातम् । त्रिरभिहितस्य स्वयमविज्ञानम् । एतानि निग्रहस्थानानि । अन्यच्च । परेण विवदमानस्तद्विकलतां नावगच्छति । अन्यस्तु वदति । एषोऽर्थः मिथ्यैव, किं भवान्नोपलभते तदा निग्रहस्थानम् । अन्यच्च । परस्य सम्यगर्थे दोषसमारोपेऽपि निग्रहस्थानम् । अन्यच्च । वादिनोक्तं सर्वैर्विज्ञातमप्यसावेव (प्रतिवादी) नावगच्छति चेत्तदपि निग्रहस्थानम् । प्रश्नोऽपि तद्वत् । एतानि निग्रहस्थानानि वादस्य महाकण्टकानि गम्भीरदुःखानि ज्ञेयानि, द्रुतञ्च हेयानि । ननु प्रश्नाः कतिविधाः । उच्यते । त्रिविधाः । यथा वचनसमः, अर्थसमः, हेतुसमश्च । यदि वादिनस्तैस्त्रिभिः (२०) प्रश्नोत्तराणि न कुर्वन्ति तद्विभ्रान्तम् । यद्येतेषां त्रयाणामुत्तराणामन्यतमं न्यूनं स्यात्तदसम्पन्नम् । यदि वदेदहमेवम्प्रकारान् त्रीन् प्रश्नान्नावगच्छामि मम यथाज्ञानमन्योन्यं प्रष्टव्यं, तदादोषः । वाक्यसमः यथा । आत्मा नास्तीत्युक्ते तद्वाक्याश्रयेण प्रश्नः । अयं वाक्यसम इत्युच्यते । अर्थसमः तन्मतोपादानमेवायमर्थसम इत्युच्यते । हेतुसमः । परमनोगतेरुत्पादकस्य हेतोर्ज्ञामयं हेतुसम इत्युच्यते । एवं सामर्थ्ये सत्ये निग्रहस्थानमित्युच्यते । यद्यतिद्रुतं वदेच्छ्रोतारश्च नावगच्छेयुस्तदपि निग्रहस्थानम् । अथैतावमात्रमपराणि वा सन्ति । अत्रोच्यते । सन्त्येव यथा न्यूनं, अधिकं निरर्थकं, अप्राप्तकालं, पुनरुक्तं प्रतिज्ञासन्न्यास इत्यादीनि निग्रहस्थानानीत्युच्यन्ते । यद्येवमादि पूर्वपक्षी वदेत्, तदा निग्रहस्थानापत्तिः । अथ प्रतिज्ञाविरोधः । यथा विज्ञानं नित्यम् । कस्मात् । विज्ञानस्य हि द्वैविध्यम् । विज्ञानोत्पात्तिर्विज्ञाक्रिया च । घटस्यापि द्वैविध्यम्, घटोत्पत्तिर्घटक्रिया च । एवं विज्ञानमुत्पाद्यमानमेव सक्रियं तस्मान्नित्यम् । घटस्य तूत्पत्त्यनन्तरं सक्रियत्वम्, तस्मादनित्यत्वम् । अत्र दूषणम् । उत्पत्तावेव सक्रियत्वान्नित्यमिति चेद्दीपस्याप्युत्पत्तावेव सक्रियत्वान्नित्यत्वप्रसङ्गः । अथ दीपश्चक्षुषा दृष्टः स्यात्, शब्दश्च श्रवणेन श्रूयत इति कथं दृष्टान्तोपपत्तिः । एतत्प्रतिज्ञासन्न्यासनिग्रहस्थानम् । (२१) अपरञ्च । केचिद्वदन्त्यात्मा नित्य इति । कथं ज्ञातम् । अनैन्द्रियकत्वात् । यथा आकाशोऽनैन्द्रियकत्वान्नित्यः । अत्र दूषणम् । परमाणवोऽनिन्द्रियका अपि त्वनित्याः । अत्रोच्यते । आत्माकृतकत्वान्नित्यः परमाणवस्तु कृतकत्वादनित्याः । अत्र दूषणम् । अनुपलब्धेरिति भवता पूर्वमुक्तम् । अधुना चाकृतकत्वादिब्युच्यते । अयं प्रतिज्ञाविरोधः । ननूच्यतेऽहं विरोधीति चेद्भवांस्तु मम वचनं प्रतिकूलयन् कथं विरोधौ न स्यात् । किञ्च कथमेतद्युक्तिसहम् । यद्वि विरुद्धमित्युच्यते मया, सा भवत एव वचनस्य पूर्वोक्तेनार्थन् प्रतिकूलता । तस्माद्विरुद्धमित्युक्तम् । अन्यच्च । भवता पूर्वमुक्तमस्पष्टत्वान्मे संशय उत्पन्न इति । नाहं भवद्विरोधीत्येवं संशयेन विरोधः । एतदपि निग्रहस्थानमिति । ॥ इति द्वितीयं प्रकरणम् ॥ (२२) अथ तृतीयं प्रकरणम् । वादी प्राह । यदि कश्चिद्वदेदस्ति सत्त्वो यावत्सन्ति प्राणा अस्ति जीव इत्यादि । कथं ज्ञातम् । ऐन्द्रियकत्वात् । यथा निरुपधिशेषनिर्वाणस्येन्द्रियैरनुपलब्धेरभावः सत्त्वानान्तु न तथा । तस्मात्सन्त्येव इति ज्ञातम् । अत्मा नित्यः । यथार्हत्त्वफलं कस्मिंश्चिदेव काले विद्यमानमपि पूर्वं पश्चाच्चाविद्यमानत्वादभाव इति ज्ञायते । यथा च द्वीतीयो मूर्धा तृतीयो हस्तश्च । अभूत्वा भावात्प्रागभावः । भूत्वा तु विनाशात्प्रध्वंसाभाव इति ज्ञायते । आत्मा तु न तथा तस्मान्नित्यः । अत्र दूषणम् । यथा मूल[कील]ओदकान्यदृश्यत्वान्न सदित्युक्तम् । अर्हत्त्व[फलस्यापि] तथात्वमेव न त्वभावः । एतत्तु न भवता साक्षात्क्रियते । ननु मैवम् । उदकस्य पृथिव्यावरणाददृश्यत्वम् । अर्हत्त्व[फलस्य तु] केनावरणेनादृश्यत्वम् । तस्मात्तदसदिति ज्ञायते । अत्र दूषणम् । यद्भवतोक्तं [यथा] द्वितीयस्य मूर्ध्नस्तृतीयस्य हस्तस्य चादृश्यत्वाद[भावः] अर्हत्त्व[फलस्याप्य]भावः इति स्पष्टम् । तदयुक्तम् । द्वितीयस्य मूर्ध्नो नास्तित्वेऽपि तर्हि न प्रथमस्य नास्तित्वम् । अर्हत्त्व[फलं] तु नास्त्येवेति तस्यैवात्यन्ताभावः । कथं दृष्टान्ततोपपत्तिः । यच्च भवतोक्तमनुपलब्धेर्निर्वाणाभावः सिद्ध इति तदप्ययुक्तम् । किं नाम (महा)शागरोदकस्य बिन्दुपरिमाणस्याशक्यज्ञानत्वात्तदसदिति (२३) वक्तुं शक्यते । यद्यपि बिन्दुपरिमाणं न ज्ञायते तथाप्यस्त्येव सागरः । निर्वाणस्यापि तथात्वम् । अनुपलब्धावपि तत्तत्त्वतः सदेव । असदिति चेद्वक्तव्यं तस्य कारणम् । यदि न शक्यते वक्तं तदा भवत एवार्थहानिः । अयमुच्यते यथाधर्मवादः । अन्यच्च यद्यनुपलब्धेर्निर्वाणस्यासत्त्वं, तदा परस्य संशयः । यथा रात्रौ तरुं दृष्ट्वा चित्ते संशयः । एष स्थाणुर्वा मनुष्यो वेति । न खलू तरुः स्थाणोः पुरुषस्य वो[पलब्धौ] नियतो हेतुः । अनुपलब्धिरेव निर्वाणस्याभावे नियतो हेतुरिति चेन्नात्र संशयसम्भवः । अन्यच्च कर्मविपाकाविनाशात्, सदेव निर्वाणम् । कुत इति चेत् । यथा दवेन गिरेस्तरुदाहेऽग्निस्तद्विनाशहेतुः । कः पुनस्तस्य कर्मविपाकस्य विनाशहेतुर्येन तद्विनश्यते । निर्वाणलाभे तदा प्रहानिः । अत्रोच्यते । अस्ति तत्त्वतो विनाशहेतुः । आवरणात्त्वनुपलब्धः । अत्र दूषणम् । निर्वाणमपि सदावरणात्त्वनुपलब्धम् । किञ्च यदि विपाकस्य विनाशहेतुर्वर्तत इति चेन्नोच्यते । तदा भवतोऽर्थहानिः । यद्यभावाद्विनाशहेतुरनुक्तस्तदावरणाभावोऽपि कथमुक्तः । एवं कारणैर्कर्माणामविनाशो ज्ञायते । एष यथाधर्मवाद इत्युच्यते । पूर्वपक्षी वदति । यदि सागरोदकसद्भावान्निर्वाणसद्भावः सिद्धस्तदा किं द्वितीयस्यापि मूर्ध्नः सद्भावो न सिध्यति । द्वितीयस्यापि मूर्ध्नः सद्भावो न सिद्ध इति चेत्(२४) कथं निर्वाणस्य सद्भावः । तस्माद्भवतोक्तः सागरोदकदृष्टान्तः निर्वाणसद्भावं साधयितुं न समर्थः । किं द्वितीयस्य मूर्ध्नः सद्भावं साधयेत् । अत्र दूषणम् । किं निर्वाणमसदिति भवदभिप्रेतम् । असतः सत्ता वासतोऽसत्ता वा । असतोऽसत्तेति चेत्कथं निर्वाणमसदिति प्रतिज्ञायते । यदि त्वसतः सत्ता कथं भवतासत्तोच्यते । यद्यसतो निर्वाणस्य सत्ता तदा स्वतोऽसतोऽसत्त्वमपि सदिति चेत्, कथं न निर्वाणसद्भावलाब इत्यत्र हेतुर्वक्तव्यः । यदि वक्तुं न शक्यते, तदा निश्चितमेव निर्वाणं सदिति ज्ञेयम् । एतदपि यथाधर्मवाद इत्युच्यते । नन्वात्मा नित्योऽनित्यो वा । अत्माऽकृतकत्वान्नित्यः, घटादिष्टु कृतकत्वादनित्यः । अत्र दूषणम् । अकृतकत्वादात्मा नित्य इति चेत्तदयुक्तम् । कस्मात् । पुरुषाणां संशयजनकत्वात् । यद्यकृतकत्वान्नित्य एवात्मेति तदा नित्योऽनित्य वेति संशयस्यासम्भवः । संशयजनकत्वाद्दोषः । वादी । इयं दोषापत्तिर्न ममैवापि तु सर्वेषामेव वादिनां यथा शब्दो नित्योऽमूर्तत्वात् । अतीतः कायोऽस्त्येव पूर्वनिवासानुस्मरणादित्यादिप्रतिज्ञा पूर्ववत्संशयमुत्पादयतीति । तस्मत्सर्वत्रैव दोषापत्तिः । अत्र दूषणम् । दृष्टान्त एव संशयं निर्धारयति । भवतां तूदाहृतो दृष्टान्तो मम संशयमुत्पादयति तस्मादसियोऽयं दृष्टान्तः । दृष्टान्तेऽसिद्धेऽर्थहानिः । तदेव निग्रहस्थानम् । यत्पुनर्भवतोक्तं सर्वेषामेव दोषापत्तिर्न तु ममैवेत्येष (२५) स्वदोष एव न तु परदोषः । कुत इति चेत् । यथा कश्चिदभियुक्त आत्मानमप्रकाश्य सर्व एव तस्करा इति वदेत्तदासौ पुरुष आत्मानमपि तस्करं मन्यत इति ज्ञेयम् । भवानपि तथा तस्मान्निग्राह्यः । इदानीं यदि भवानात्मानं प्रकाशयितुमिःच्छु पूर्वयुक्तिमतिक्रम्य पुनर्वक्तुमिच्छेन्नूनं बहुदोषापत्तिः स्यात् । भवतः प्रथमः पक्षो द्वितीयेन [पक्षेण] दूषितः । तृतीयश्चार्थो मया दूषितः । पञ्चमेन दोषावधिमिच्छन् पूर्वं नातिक्रामेदतः भवतोऽन्त्यः पक्षः पुनरुक्तं भवेत् । पुनरुक्तं च निग्रहस्थानम् । नन्वनुयोज्यः षष्ठोऽपि? अत्रोच्यते । सिद्वस्तावत्पञ्चमस्य दोषः । तत्कथं षष्ठोऽनुयोज्यः । अस्मिन् हि प्रत्युक्ते पूर्वदोषतुल्यता । अनुयोक्तुः सदोषत्वे प्रतिपक्षेण तूष्णीम्भविंतव्यम् । अपरञ्च । षष्ठस्य दोषः पञ्चमेनापर्यनुयोज्यः । कुत इति चेत् । पञ्चमेनैव ह्येष षष्ठोऽनुयुक्तः । अतोऽयं स्वयमे सदोषः कथं तं दूषयेत् । एवं सद्धर्मवादः । ॥ इति तृतीयं प्रकरणम् ॥ (२६) अथे चतुर्थं प्रकरणम् । ननु भवता व्याख्यातो यथाधर्मसद्वादः । कः पुनः सम्बन्धः । अत्रोच्यते । प्रश्नोत्तरसम्बन्धो विंशतिविधः । यदि कश्चित्तेन विंशतिविधेनार्थेन सम्यग्न्यायमारभते स सद्वादस्य ज्ञातेत्युच्यते । यदि नैवं तदा नायं विवादधर्मावगन्ता । एषां विंशतिविधानां सारो द्विविधः । वैधर्म्यं साधर्म्यञ्च । सजातीयत्वात्साधर्म्यं विजातीयत्वाद्वैधर्म्यम् । अर्थस्य हि तत्समाश्रयत्वात्ते विंशतिधर्मान् व्याप्नुवतः । किं साधर्म्यम् । यथा क्लेशक्षयो निराभास एव, आकाशभावोऽपि निराभास इति साधर्म्यम् । किं वैधर्म्यम् । यथा निर्वाणमकृतकत्वान्नित्यं तथा सर्वे संस्काराः कृतकत्वादनित्याः । इति वैधर्म्यम् । ननु साधर्म्यवैधर्म्याभ्यां कथं दूषणम् । अत्रोच्यते । साधर्म्यदूषणमिच्छता एवं वक्तव्यम् । रूपं चक्षुषा दृष्टं, शब्दस्तु श्रवणेन श्रुत इति, कथं तयोः साधर्म्यम् । यदि रूपाद्भिन्नः शब्दस्तदा रूपस्यानित्यत्वाच्छब्दो नित्यो भवेत् । वैधर्म्यदूषणम् । यथ रूपस्यैन्द्रियकत्वादनित्यता, आत्मनोऽनैन्द्रियकत्वान्नित्यता । घटस्यात्मनश्च सद्भावः । सद्भावसाधर्म्ये घटस्यानित्यत्वादात्मनोऽपि तथात्वापत्तिः । घटसद्भाव आत्मसद्भावाद्भिन्नस्ततश्चात्मा (२७) नित्यो घातस्त्वनित्य इति चेत् । नित्यतासाधर्म्यद[प्य]आत्मना नित्येन भवितव्यम् । एवं दूषणं विंशतिविधं यथा १ उत्कर्ष[सम]म्, २ अपकर्ष[सम]म्, ३ भेदाभेद[सम]म्, ४ प्रश्नबाहुल्यमुत्तराल्पता, ५ प्रश्नाल्पतोत्तरबाहुल्यम्, ६ हेतुसमम्, ७ कार्यसमम्, ८ व्याप्तिसमम्, ९ अव्याप्तिसमम्, १० कालसमम्, ११ प्राप्तिसमम्, १२ अप्राप्तिसमम्, १३ विरुद्धम्, १४ अविरुद्धम्, १५ संशय[सम]म्, १६ असंशय[सम]म्, १७ प्रतिदृष्टान्त[सम]म्, १८ श्रुतिसमम्, १९ श्रुतिभिन्नम्, २० अनुपपत्ति[सम]ञ्चेति प्रश्नोत्तरधर्मा विंशतिधा । १. उत्कर्ष[सम]म् । यथा (कश्चिद्वदेद्), आत्मा नित्य इन्द्रियानुपलब्धेः । आकाशो ह्यनुपलब्धेर्नित्यः । सर्वमनुपलभ्यं नित्यमेव । आत्माप्यनुपलभ्यः कथं तदनित्यताप्राप्तिः । अत्र दूषणम् । आकाशोऽचेतनत्वान्नित्यः । आत्मा तु चेतनः कथं नित्यः । आकाशश्चेतन इत्यन्याय्यम् । यद्यात्माचेतनस्तदैवाकाशेन सधर्मा । एवं विद्वांसः सोऽनित्य इति मन्यन्ते । एतदुत्कर्ष[सम]म् । २. अपकर्ष[सम]म् । यथाकाशोऽचेतन आत्मा तु चेतनः । कथमाकाश आत्मनो दृष्टान्तः । एतदपकर्ष[सम]म् । ३. भेदाभेद[सम]म् । यथात्मनित्यतास्थापन आकाश उदाहरणम् । [अत्र दूषणं] आत्मा आकाशश्चाभिन्नौ इति चेदैकधर्म्यात्कथमाकाशस्यात्मनो दृष्टान्तता । (२८) भिन्नौ इति चेदन्यान्यसाधर्म्याप्राप्तिः । एतदुच्यते भेदाभेद[सम]म् । ४. अन्यच्च । आत्मा नित्योऽनैन्द्रियकत्वात् । यथाकाशोऽनिन्द्रियकत्वान्नित्य इति भवतः स्थापना । अथ यदनैन्द्रियकं तन्नावश्यं नित्यम् । तत्कथं सिद्धम् । एतदुच्यते प्रश्नबाहुल्यमुत्तराल्पता च । ५. अन्यच्च । आत्मा नित्योनैन्द्रियकत्वादिति भवत्स्थापना । अनैन्द्रियकस्य द्वैविध्यम् । यथा परमाणवोऽनुपलभ्या अनित्याः । आकाशस्त्विन्द्रियानुपलभ्यो नित्यश्च । कथं भवतोच्यते यदनुपलभ्यत्वान्नित्य इत्युच्यते प्रश्नाल्पतोत्तरबाहुल्यञ्च । ६. अन्यच्च । अनुपलब्धिहेतुनात्मा नित्य इति भवता प्रतिज्ञातम् । आकाशश्चात्मा च भिन्नौः कथमुभयोरनुपलभ्यत्वं हेतुर्भवेत् । इति हेतुसमम् । ७. अन्यच्च । यत्पञ्चमहाभूतमयं तदनित्यम् । आकाश आत्मा च पञ्चमहाभूतमयौ कथं नित्यावुक्तौ । इति कार्यसमम् । ८. अन्यच्च । अनुपलभ्यत्वान्नित्य आकाश इति भवतः स्थापना । आकाशश्च सर्वव्यापी [ततश्च] किं सर्वाणि बस्तून्यनुपलभ्यानि । एतद्याप्तिसमम् । ९. अन्यच्च । परमाणुरव्याप्यनैन्द्रियकोऽप्यनित्यः । आत्मा त्वनैन्द्रियकः कथं नित्यः । इति अव्याप्तिसमम् । १०. अन्यच्च । आत्मा नित्योऽनिन्द्रियकत्वादिति भवत्स्थापना । सोऽयं[हेतु]र्वर्तमानेऽतीतेऽनागते वा । अतीत इति चेदतीतत्वान्नष्टाः । अनागत इति चेदभावः । वर्तमान (२९) इति चेत्तदाहेतुः । यथा शृङ्गे युगपदेव जातत्वान्नान्योन्यहेतुके । इति कालसमम् । ११. अन्यच्च । आत्मा नित्योऽनैन्द्रियकत्वादिति भवत्स्थापना । अथ प्राप्याप्राप्य वा हेतुरिति । अप्राप्य चेदसिद्धो हेतुः । यथाग्निरप्राप्य दहनासमर्थः, असिश्चाप्राप्य छेदनासमर्थः । आत्मानमप्राप्य कथं हेतुर्भवेत् । इत्यप्राप्ति[समम्] । १२. अन्यच्च । प्राप्य इति चेत्, प्राप्तेरहेतुत्वम् । इति प्राप्तिसमम् । १३. अन्यच्च । सर्वमनित्यम् । न त्वात्मा सर्वं, ततो नित्य इति भवत्प्रतिज्ञा आत्मा च तद्भावादनित्य इति वक्तव्यः, किञ्चिद्दग्धो हि कम्बलः प्रायेणादग्धत्वाददग्ध इत्युच्यते । एतद्विरुद्धम् । १४. अन्यच्च । आत्मानैन्द्रियकत्वादाकाशतुल्य इति भवत्स्थापना । आकाशस्यानुपलब्धिरात्मनोऽपि तथात्वम् । आत्मन उपलब्धिरिति चेत्तदाकाशोऽपि सुखदूःखदिकमुपलभेत । आत्मन आकाशस्य चाभिन्नत्वात् । एतदविरुद्धम् । १५. अन्यच्च । आत्मनः सद्भाववन्नित्यतानियता । लौकिकानां संशयसम्भवो नित्योऽनित्यो वेति । एतत्संशयसमम् । १६. अन्यच्च । अस्त्यात्मानैन्द्रियकत्वादिति भवद्वचनमथ विमर्शः केनावरणेनानुपलब्धिः । कारणमत्र वक्तव्यम् । यदि कारणं न विद्यत आत्मार्थस्य हानिः । इत्यसंशयसमम् । (३०) १७. अन्यच्च । आत्मानैन्द्रियकत्र्वान्नित्य इति भवता प्रतिज्ञातम् । अथ मूलकिलोदकान्यनैन्द्रियकान्यप्यनित्यान्यात्मा तु कथं नित्यः । इति प्रतिदृष्टान्त[सम]म् । १८. अन्यच्च । सूत्रेषु आत्मनोऽनुपलब्धिरुक्ता तस्मात्तस्य नित्यता ज्ञातेति भवतः [स्थापना] । (परन्तु) नास्त्यात्मा नास्त्यात्मीयमित्यपि सूत्रेषूक्तम् । निर्ग्रन्थधर्मे चात्मानित्यतोक्ता । आत्मनित्यत्वे नियते सति सूत्राणां वैषम्यानुपपत्तिः । इति श्रुतिसमम् । १९. अन्यच्च । यदि भवता एकमेव सूत्रमधिगच्छतात्मा नित्य इति मन्यते । अथान्येषामपि सूत्राणां प्रतीतेरात्मानित्यो मन्तव्यः । उभयथा प्रतीतिरिति चेदेकस्यैवात्मनो नित्यत्वानित्यत्वप्रसङ्गः । इति श्रुतिभिन्नम् । २०. अन्यच्च । यदि सद्भावादिति हेतुनात्मास्तीति । अथ शालस्य सद्भावात्ताल उत्पद्यते । यद्यभावान्नास्तीति तदा तालबीजेषु वृक्षाकाराभावात्तदुत्पत्त्यप्राप्तिः । सद्भावेऽनुत्पत्तिः । अभावेऽप्यनुत्पत्तिः । आत्मनोऽपि तथात्वम् । यदि किंचित्सदेव न तदानैन्द्रियकत्वं हेतुत्वेन प्रयोक्तव्यम् । यदि च सदेव तदा नानैन्द्रियकत्वेन तस्य सत्ता साध्या । इत्यनुत्पत्तिसमम् । यदि पुनः कश्चिच्छब्दनित्यतां स्थापयेत्, तदैवम्विधैरुक्तपूर्वैर्विशतिंधर्मैस्तद्वदेव दूषयेत् । नन्वात्मसद्भावादेव भवानात्मानं दूषयति । आत्मनोऽभावे किं भवता दूषणीयम् । दूषणाद्ध्यस्ति दूषयितव्यम् । अत्र दूषणम् । युक्तितो नास्यात्मा । भवता तु (३१) तत्सद्भावस्य विकल्पान्मया भवतो दूषणं कृतम् । यद्भवतोक्तं दूषयितव्यभवादस्त्यात्मेति । ततो दूषणान्नास्त्यात्मेति ज्ञातम् । भवत आत्मपरिग्रह आत्माभावद्योतनर्थमिति चेत्तदयुक्तम् । भवदर्थाप्रयोगात् । इदानीन्तु स्वयं भवता मम सिद्धान्तः प्रयुक्तः । ननु कथं भवता ज्ञातं यन्मया भवदर्थः परिगृहीतः । अत्र कारणं वक्तव्यमिति चेन्मया खलु पूर्वमुक्तं यत्स्वार्थमपरिगृण्हता भवता परस्थापना परिगृहीता कथमिदानीं पुनरिदं पृच्छ्यते । कथं ज्ञातं यद्भवतोऽर्थो मय परिगृहीत इति । यतो भवद्वचनं विरुद्धं तस्मान्निग्रहस्थानापत्तिः । अन्यच्च । अनैन्द्रियकत्वात्सन्नेवात्मेति भवता पूर्वं प्रतिज्ञातं पश्चात्तु धर्मबाहुल्येन साधितम् । स्थापितहेतोरनियतत्वात्प्रतिज्ञाविरोधाच्च निग्रहस्थानम् । तस्माद्भवदर्थनाहौ यदि पुनरहं किंचिब्द्रवीमि, [यन्मया] पूर्वमुक्तं तस्मादेतन्न भिद्यते । तदा वचनस्य बहुदोषप्रसङ्गः । पक्षप्रतिपक्षयोः प्रतिपक्षमर्यादा पञ्चमे । तदतिक्रम्योक्तं वचनं दोषः । यदि विद्वान् गम्भीरं न्यायं भावयत्युक्तेन दृष्टान्तेनार्थावगमसमर्थश्च स्यात्तदा तस्य वाद एवंविधं धर्मं नातिक्रामति । वादी प्राह । एवमुक्तो वदधर्माणां सारः । एष वादसारः सर्ववादानां मूलम् । एतस्माद्वादात्पक्षप्रतिपक्षयोः परमोत्कर्षज्ञानं जायते । यथा बीजे सुक्षेत्र उप्ते मूलाङ्कुराः समृद्धाः । कुक्षेत्रे तूप्ते फलभाव एव । एतस्य धर्मस्यापि तथात्वम् । (३२) यदि विद्वान् कश्चित्प्रमाणविचारकुशलस्तदा वादानुत्पादयति । मूर्खस्त्वल्पबुद्धिरेतद्वादाभ्यासेनापि तदवगमासमर्थस्तत्त्वतो विद्वान्नोच्यते । तस्माद्ये ये सञ्ज्ञानोत्पत्तिं सुभाशुभविवेकञ्चेच्छन्ति तैस्तैरेव सद्धर्मवाद आश्रयितव्यः । ॥ इति चतुर्थं प्रकरणम् ॥ समाप्तश्चायं ग्रन्थः ।