[१]ओं नमो बुद्धाय । __________टिप्पणी__________ [१] स्ह्: १. ___________________________ यः श्रीमानवदातधीः परपरामर्शाचलस्याशनिः सद्ग्रन्थप्रथमानपौरुषतया प्रामाणिकग्रामणीः । ... ... ... ... ... धर्मता तस्यैतत्प्रतिरच्यते तनुधियो रत्यै रहस्यं मया ॥ तर्करहस्ये विमृशति संशयशरणानि शास्त्रवचनानि । ... ... ... ... ॥ अर्थानर्थप्राप्तिपरित्यागयोरवश्यं प्रमाणपूर्वकत्वात्तदविदुषां च व्युत्पादनार्थमिदमारभ्यते । ... ... ... विषयास्तत्प्रतिषेधेन प्रमाणं प्रतिपाद्यते । प्रमाणमविसं[२]वादि ज्ञानमर्थक्रियास्थितिः । __________टिप्पणी__________ [२] सम्बा- मू- पा- । ___________________________ यत्पुनर्विसं[३]वादि न तत्प्रमाणम् । करणसाधितेन प्रमाणशब्देन कर्त्तृत्वं कर्मक्रियाक्षेपपूर्वकं साधकतमम् ... ... ... यः प्राधान्येन । तत्सहचरः शरीरेन्द्रियगणस्तत्[साधकतममित्यु]च्यते । कर्मचार्थक्रिया ... ... यापि प्रमितिः । सापिऽसंज्ञाप्रायाः कुतो भवन्तीतिन्यायात्प्रवृत्तिविषयनियमार्थक्रियासमर्थ --- [प्रापणशक्तिकत्वं, नत्वर्थप्रापणमेव । तस्य] [प् । इ] __________टिप्पणी__________ [३] सम्बा- मू- पा- । ___________________________ प्रवृत्त्यप्रदर्शितमर्थं प्राप्तुकामान् व्यवहर्त्तॄन् प्रति निरर्थकत्वात् । किं हि तेषां यदि प्रमाणेनार्थः प्रतीतः ? सा चेत्प्रतीतिस्तेषां वाञ्छाभाजि तस्मिन्नर्थे प्रवृत्ति-प्राप्त्योरङ्गम् । एवं तर्हि--- [४]यथैव तेषां तदुपयुज्यते तथैव ... ... ... ... तथैव तर्ह्यव्यापृताम् (?) तेषां च व्यवहर्त्तॄणामुपयुज्यते पर्येषणामात्रं च प्रमाणम् । परिच्छेदेऽपि प्रवृत्तिप्राप्त्यङ्गतयैव । __________टिप्पणी__________ [४] स्ह्: २. ___________________________ न च परदर्शने तथा व्युत्पादितम् । व्युत्पादितं चाचार्येण तथा---अविसंवादी[५]ति । __________टिप्पणी__________ [५] सम्बा- मू- पा- । ___________________________ अर्थक्रियास्थितिरविसं[६]वादनम् । अर्थो दाहादिरेषणीयत्वात् । तस्य या क्रियानिष्पत्तिः कर्मस्था तस्याः स्थितिरविचलनम् । स्वप्ननिरासार्थम् । __________टिप्पणी__________ [६] सम्बा- मू- पा- । ___________________________ स्वप्ने प्रातः[७]प्रबुद्धस्य भटित्यम्लानभासनम् । __________टिप्पणी__________ [७] त इति विसर्गरहितः पा- मू- पु- । ___________________________ तद्योगे परिसं[८]वादीति मत्वर्थीयेनऽअविसं[९]वादिशब्दः पुरुषस्य हेयोपादेययोः[१०]प्रवृत्त्यपाकारयोरर्थक्रियातत्साधनरूपयोः प्रसिद्धऽइति भाष्यमतम् । __________टिप्पणी__________ [८] सम्वा- मू- पा- । [९] सम्वा- मू- पा- । [१०] यो इति विसर्गरहितः पा- मू- पु- । ___________________________ धर्मोत्तरमते तु--- ऽयत्राविसं[११]वादिपदं नास्ति तत्र रूपाप्रदर्शितार्थप्रापके प्रसिद्धो यथास्माकमयमविसं[१२]वादकः पुरुषः प्रमाणमिति वदन्ति व्यवहर्त्तारः । __________टिप्पणी__________ [११] सम्वा- मू- पा- । [१२] सम्वा- मू- पा- । ___________________________ यद्यपि --- प्रापकत्वं प्रमाणशब्दात्प्राप्तं संज्ञाप्रायत्वेन कृतम् । यत्राविसं[१३]वादिपदं नास्ति तत्राप्यविसं[१४]वादिपदेनाप्युपात्तं वार्त्तिके--- __________टिप्पणी__________ [१३] सम्वा- मू- पा- । [१४] सम्वा- मू- पा- । ___________________________ प्रमाणशब्दप्रवृत्ति---[प् ।ब्२] निमित्तख्यात्यर्थम् । भाष्यमते तु--- अविसं[१५]वादिपदं लक्षणस्य लौकिकार्थत्वम् । __________टिप्पणी__________ [१५] सम्वा- मू- पा- । ___________________________ अर्थक्रियार्थी हि---सर्वः प्रमाणमप्रमाणं[१६]वा अन्वेष्यते । प्रेक्षावान्न व्यसनितया । __________टिप्पणी__________ [१६] णम्वा मू- पा- । ___________________________ [१७]तस्मात् न अर्थप्रतीतिमात्रं प्रमितिः । __________टिप्पणी__________ [१७] स्ह्: ३. ___________________________ किं तर्हि ? परोक्ता विशिष्टैव । तस्याश्च---साधकतमं नेन्द्रियादिकं वक्ष्यमाणयुक्त्या । किन्तर्हि ? ज्ञानगतमर्थसारूप्यम् । अतस्तदात्मकतया ज्ञानमेव प्रमाणम् । नेन्द्रियादिकम् । प्रत्यक्षानुमान -- प्रथमक्षण -- भाविज्ञानमाकारविशेषनियमेनात्मशक्त्त्युत्पादित-स्वव्या( पा )र-व्यवहर्तृ-व्यवसायवशेनातद्रूपपरावृत्तार्थक्रियासमर्थं परिच्छिन्दत्स्ववृत्तेः कारणं भवत्स्वाप्तेरभ्युपायतां स्पृशति । न हि---उपदर्शक-व्यापारात्प्रवर्त्तकत्वमन्यदस्य । प्रवर्त्तकत्वाच्च नापरं प्रापकत्वम् । न हि हस्ते गृहीत्वा ज्ञानं प्रवर्त्तयति । न वा पुरुषदेशमनुमानमर्थयद्वान्धो न पुरुषमनुदेशमर्थं प्रापयति । किं तु--- समर्थमर्थक्रियायां दर्शयदेव प्रवर्त्तयति---प्रवृत्ति (विषयमर्थमुपदिशत्) प्रापयति । सर्वेषामेव च ज्ञानानामेकमेवेयं विधा, यदुतार्थोपदर्शनं नाम । ततस्तदन्यदशेषमधिगतार्थाधिगन्तृत्वेनाप्रमाणम् । ननु च--- अर्थोपदर्शनाद्यदि नापरं प्रवर्त्तकत्वादि । तदेवम्-पुनरुक्तमावर्त्तेत ? प्रदर्शयेत्प्रवर्त्तयति प्रवृत्ति-विष[प् २]यमुपदर्शयत्प्रापयतीति च । यत एवं वाक्यार्थः ’स्यादुपदर्शयेदुपदर्शयतीति न समीचीनमालोचितं परेण । प्रवृत्तिर्नाम--- वक्ष्यमाणलक्षणाभिन्नैवोपदर्शनादन्यत्रैव च प्राप्तिर्हस्तादि-स्पर्शरूपा । परमेतावदुच्यते । [१८]ज्ञानमुपदर्शयदेव तस्याः प्रवृत्तेः प्राप्तेश्च निबन्धनम्, न व्यापारान्त्रेण । __________टिप्पणी__________ [१८] स्ह्: ४. ___________________________ यथा--- द्वाःस्थ-बध्यघातकपृथ्वीनाथेषु बहुषु मारकेषु कस्यचित्कथञ्चिदुपयोगा[१९]द्राज्ञो मारकत्वमा[२०]ज्ञादानमेवेत्युक्तौ किमाज्ञादानमाज्ञादानमित्येवाहुः । __________टिप्पणी__________ [१९] गो- मू- पा- । [२०] मावज्ञा इति लिखित्वा व छिन्नमिव मू- पु- । ___________________________ किं वा मरणन्नाम बध्यस्य भिन्नमेवास्ते । तद्धेतुत्वेन बध्यमानमाज्ञादानं व्यापारान्तरतिरष्कारे चरितार्थश्चान्यदेवेति । तथेहापि वेदितव्यम् । बहुषु प्रापकेषु ज्ञानमात्रार्थप्रभृतिषु ज्ञानं कथं प्रापयति ? --इति प्रश्ने----- प्रतिवचनम्---’ुपदर्शयदेवेऽति न पौनरुक्त्यम् । ननु-- बहुषु स्थानेषु यदेतदुक्तम्-- ’र्थक्रियासमर्थस्य प्रापणायोग्यम्ऽ इति । तत्कथमवधार्यम् ? किमर्थस्योपादेयस्य दाहादेः क्रियानिष्पत्तिस्तत्र समर्थस्येति ? तथार्थत्वे--- हेयार्थक्रियासमर्थस्यासङ्ग्रहान्न्यूनता । अर्थक्रियाविषयस्य च ज्ञानस्य[२१]प्रमाण्यमनुपात्तं स्यात् । __________टिप्पणी__________ [२१] अत्र म लिखित्वा छिन्नमिव मू- पु- । ___________________________ न हि ’प्रदर्शितार्थक्रियासमर्थप्रापणयोग्यं ज्ञानं प्रमाणम्ऽ इति वदता अर्थक्रियाप्रापकमपि प्रमाणमा [प् । ३] त्रं भवति । अथार्थ्यत इ[२२]त्यर्थो हातुमुपादातुश्चार्थ्यमानो दाहादिरेवोच्यते । __________टिप्पणी__________ [२२] अत्र ति लिखित्वा छिन्नमिव मू- पु- । ___________________________ ’र्थक्रिया चार्थक्रियासमर्थश्चे’ति विरूपैकशेषो विवक्षितः । [२३]तथाप्येकवचनानुपपत्तिश्च । __________टिप्पणी__________ [२३] स्ह्: ५. ___________________________ कथं च--- ’प्रापणयोग्यं प्रमाणम्’--- इत्युक्तौ साक्षादर्थक्रियाप्रापकं सङ्गृह्येत? सत्यम् । अयमेवार्थो हृदिस्थः । ’र्थक्रियासमर्थस्येऽत्युपलक्षणार्थमुक्तम् । तेन--- अर्थक्रियाया अप्रापकमपि प्रमाणयोग्यं वेदितव्यम् । ’भिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पनेऽत्यत्र यथा अभिलापसंसृष्टमसंसृष्टमपि सम्पुष्टं योग्यं ’योग्य’ शब्देन सङ्गृह्यते, तथेहापि व्यवस्थाप्यम् । यत्प्रापणयोग्यं यच्च साक्षात्प्रापकम्, तदुभयं योग्यशब्देन विषयीकर्त्तव्यम् । स्वसं[२४]वेदनप्रत्यक्षस्य चात्मानं मेयं प्रति प्रापकत्वं सातिशयमस्तीति सामान्यलक्षणमक्षीणमस्मिन्निति वेदितव्यम् । __________टिप्पणी__________ [२४] सम्व- मू- पा- । ___________________________ विषयसारूप्यमपि तस्य तादात्म्ये सति सूपपादम् । उत्तरप्राप्तिहेतुत्वात्पूर्वस्य यदि मानता । तथैव प्रतिरूपत्वादुत्तरस्य कथं न सा ? ॥ तेन--- स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । नहि स्वतोऽसती शक्तिः कर्त्तुमन्येन पार्यते[२५]। ।[२६] __________टिप्पणी__________ [२५] न हि स्वतोऽसती... ... पार्यते --त- सं- पं- ७४५, ८१३ पृ- । [२६] स्वतः सर्वप्रमाणानां.... गृह्यताम् । .... पार्यते ॥ -(पूर्वार्धमात्रं) त- सं- पं- ७४५ पृ-, २८१२ का- । उत्तरार्धश्तत्रैव २८११ व्याख्यायाम् । ___________________________ चत्वारो हि पक्षाः । कदाचित्प्रामाण्यमप्रामाण्यञ्च स्वतः । [२७]किं वा स्वतोऽप्रामाण्यं परतः प्रामाण्यम् ? __________टिप्पणी__________ [२७] स्ह्: ६. ___________________________ अथवा इयमपि परतः [प् । ३] किं वा स्वतः प्रामाण्यमप्रामाण्यम् ? तथापि प्रामाण्यं[२८]परतः । __________टिप्पणी__________ [२८] ण्य- मू- पा- । ___________________________ तत्र--- परस्परविरुद्धद्वयप्रसङ्गान्नाद्यः । अनुपलम्भेन प्रामाण्यप्रतिषेधस्य सम्भाव्यत्वान्न द्वितीयः । स्वतोऽनुपलम्भेन यद्यप्यप्रामाण्यम्, तथापि प्रांाण्यमपि सं[२९]वाद[३०]गुणविज्ञानार्थादि परतः । __________टिप्पणी__________ [२९] सम्वा- मू- पा- । [३०] सम्वा- मू- पा- । ___________________________ तदा--- सं[३१]वादगुणविज्ञाने केन नाभ्यधिके मते? __________टिप्पणी__________ [३१] सम्वा- मू- पा- । ___________________________ सापेक्षत्वे प्रमाणत्वं न व्यवस्थाप्यते क्वचित्[३२] । ।[३३] __________टिप्पणी__________ [३२] संवादगुणविज्ञाने.... .... मते .... क्वचित् ॥ (पूर्वार्धमात्रं) त- सं- पं- ७८७ पृ- । [३३] सापेक्षत्वे प्रमाणत्वं.... क्वचित् ॥ -त- सं- पं- ७४६ पृ-, २८१३ का- । ___________________________ इति न्यायान्न तृतीयः । तस्मात्--- स्वतः प्रमाणत्वप्रसङ्गेन[३४]व्यवस्थितं बाधकारणदुष्टत्वम् । __________टिप्पणी__________ [३४] ण- मू- पा- । ___________________________ ’ज्ञानाभ्यां तदयोग्यतः’---इति न्यायात्स्वतः प्रामाण्यम् । ’प्रामाण्यमन्यत’ इति न्याय्यमि’त्यपास्तम् । सापेक्षमेब प्रामाण्यं, नचावस्थाकारणज्ञाने हि तदुत्पत्तिसम्बन्धेना’विसं[३५]वादित्वम्’ साक्षात्प्रापके तादात्म्येन । __________टिप्पणी__________ [३५] सम्वा- मू- पा- । ___________________________ ततो व्यवतिष्ठत एव प्रांाण्यम् । तेन--- ’सं[३६]वादेनैव सं[३७]वादः पुनर्मृग्यस्तथैव[३८]... ...’ इत्यनवस्था प्रत्याख्याता । __________टिप्पणी__________ [३६] सम्वा- मू- पा- । [३७] सम्वा- मू- पा- । [३८] संवादेनापि.... .... तथैव (हि) । त- सं- पं- ७५७ पृ-, २८५४ का (न- युक्तः पाठः) तं- सं- पं- ७८१ पृ-, २९६२ का- । ___________________________ [३९]ननु--- __________टिप्पणी__________ [३९] स्ह्: ७. ___________________________ सं[४०]वादो नामोत्तरोऽर्थज्ञानज्ञेयरूपः । स किं [स]जातीयो विजातीयो वा? __________टिप्पणी__________ [४०] सम्वा- मू- पा- । ___________________________ यद्याद्यः ? तदा---वेदज्ञानं वेदज्ञानान्तरसं[४१]वादात्प्रमाणं स्यात् । __________टिप्पणी__________ [४१] सम्वा- मू- पा- । ___________________________ अथ द्वितीयः । तदपि--- "शब्दधीश्चाप्रमाणं स्यादितराभिरसड्गतेः" । इति प्राप्तम् । "घटज्ञानं घटज्ञानात्प्रमाणं किन्न कीर्त्त्यते?" इति च स्यात् । न । "सम्बद्धार्थपरिप्राप्त्या प्रमाणं सर्वमुच्यते । न सजातिविजातीये विज्ञानोत्पत्तिमात्रतः ॥ मत्वर्थीयेन निष्पन्नमवि[प् । ४]सं[४२]वादिवेद्यताम् । __________टिप्पणी__________ [४२] सम्वा- मू- पा- । ___________________________ तदुत्पत्तेश्च तादात्म्यसम्बन्धात्तस्य सम्भवः ॥ [निवेदनं] तेन शाब्देऽप्यमिप्रायनिवेदनात् ।" शब्दो विपञ्चीपञ्चमादिध्वनिः । तस्येदं ज्ञानं शाब्दम् । तस्मिन् । अपि शब्दात्पावकादिज्ञाने । अर्थक्रियास्थितिरविसं[४३]वादनमिति प्रकृतेन सम्बन्धः । __________टिप्पणी__________ [४३] सम्वा- मू- पा- । ___________________________ कथम् ? अभिप्रायनिवेदनात् । इष्टत्वानिष्टत्वाभ्यां पुरुषस्यार्थपरिच्छेदोऽभिप्रायः । तेन निष्ठितं वेदनम्, निवेदनम् । इदं वेद्यमानम् । अर्थक्रियायाः । [४४]तथा हि--- __________टिप्पणी__________ [४४] स्ह्: ८. ___________________________ अर्थक्रियासमर्थमिति ज्ञानेऽर्थक्रियानिवेदनम् । अर्थक्रियानुभवे तु सुतरामभिप्रायनि वेदनम् । गे (ज्ञे?)यस्वरूपसं[४५]वित्तिरेव तत्र क्रिया मता । __________टिप्पणी__________ [४५] सम्वा- मू- पा- । ___________________________ चित्रेऽपि दृष्टिमात्रेण फलं परिसमाप्तिमत्[४६]। ।[४७] __________टिप्पणी__________ [४६] चित्रेऽपि दृष्टि... ....समाप्तिमत् ॥ --प्र- वा- भा- ५ पृ- । [४७] ज्ञेयस्वरूप... .... ... मता । ... मत् प्र- वा- भा- ५ पृ- । ___________________________ ऐरावती[४८]चन्द्रसूर्य[४९]ग्रहराश्यादिवेदने । __________टिप्पणी__________ [४८]ऽरऽलिखित्वा छिन्नम् । [४९]ऽयोऽओकार मात्रा छिन्ना । ___________________________ अभिप्रायाविसं[५०]वादात्प्रमाणं न्यायविज्जगौ ॥ __________टिप्पणी__________ [५०] सम्बा- मू- पा- । ___________________________ वेदसम्बन्धवैधुर्यात्सजातीयो (-न्व[५१]?) येऽपि न । __________टिप्पणी__________ [५१] अत्र त्रु टिः मू- पु- । ___________________________ प्रामार्ण्य गृह्यतां सभ्याः ! शक्तिवादो ह्यनादृतः ॥ यत्पुनः--- नार्थक्रियान्वयि, तत्समर्थद्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषं यथासमयमाख्यातम् । तज्ज्ञानं तद्विषयतयापूर्वार्थमपि न प्रमाणम् । व्यवहर्त्तॄन् प्रति निरर्थकत्वात् । अर्थक्रियासमर्थस्य विचारैः किं तदर्थिनाम् । ष्[५२]अण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्ष्या[५३]?[५४] __________टिप्पणी__________ [५२] श मू- पा- । [५३] अर्थक्रिया .... .... .... र्थिना । .... परीक्षया ॥ -हे- वि- टी- अर्चटेनोद्धृतम् ५९ पृ-; प्र- वा- ३।२०९-११॥; त- स- टी- पञ्जिकायाम् १५२ पृ- ॥ [५४] षण्ढस्य रूपवैरूप्ये.... ....परीक्षया ॥ - प्र- वा- ३।२०९-११; हे- वि- टीकायाम् - अर्चटेनाप्युद्धृतम् ५९ पृ-; -त- स- पं- १५२ पृ- ॥ ___________________________ ---इति न्यायात् । स्वलक्षणमर्थक्रियासमर्थमादृत्यासमर्थ [प् । ४] मपि सामान्य--- लक्षणमध्यवसेयार्थतया समर्थमिति तदविषयं ज्ञानं प्रमाणम् । तच्च--- नियतमुपदर्शितं प्रापयितुं शक्यं विद्यमानं च । न च संशयः । क्रमभावि क्रमोत्तरभावि वा ज्ञानं सन्नियतमर्थमादर्शयितुं दृष्टसामर्थ्यम् । प्रतिभासनियमबलेन नियममध्यक्षं दर्शयति । दर्शयति चानुमानं लिङ्गबलेन नियतमर्थम् । [५५]अत एव--- __________टिप्पणी__________ [५५] स्ह्: ९. ___________________________ विकल्पेष्वनुमानविकल्प एव प्रमाणम् । सर्वेण वा लिङ्गेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः । न च ---अनियतः शक्यप्रापणः । विपर्यासज्ञानेन च यद्यपि नियत एव दर्श्यते, तथापि न विद्यमानो दर्श्यत इति न शक्यप्रापणः । तत्र--- कश्चिद्विपर्यासो निर्विकल्पोऽस्ति । यथा ---निशोथिनीनाथद्वैविध्यबोधः । कश्चिद्विकल्पात्मा । यथा---मरुमरीचिनिचये विरोधमाने नीरारोपी । स हि--- मरीचेर्नियतप्रतिभासं नियामकमाश्रित्य जायमानो यौक्तसंशयात्मा । किन्तर्हि ? विपर्यास एव । यतः--- प्रतिभासमाने वस्तुनि प्रतिभासबलोत्पन्नो विकल्पो निश्चयो वा स्याद्विपर्यासो वा । संशयस्तु--- समुच्चरद्रूपद्वयालम्ब्येव विकल्पः । परोक्षे तु विषये समुच्चरद्रूपद्वयो यौक्तश्च संशयो विकल्पः । यथा--- ऽश्वो मे त्रातागमिष्यतीति विकल्पः [प् । ५] संशयो यौक्तस्तथा वेदोत्थोऽपि । तेन--- अप्रमाण्यं त्रिधा भिन्नं मिथ्यात्वज्ञानसंशयैः । न तावद्वेदे संशयलक्षणमप्रामाण्यमिति पराहतम् । [५६]ननु--- __________टिप्पणी__________ [५६] स्ह्: १०. ___________________________ यदुक्तं चार्वाकादिभिः --- प्रमाणेन तावदर्थः सिध्यति । प्रमाणं पुनः केन सिद्धम् ? न स्वसं[५७]वेदनेन । __________टिप्पणी__________ [५७] सम्बे- मू- पा- । ___________________________ तस्य ज्ञानस्वरूपमात्रस्य साक्षात्कृतावधिकारात् । नाप्यनेन प्रमाणेन । सं[५८]वादगुणविज्ञानादिनानवस्थाप्रसङ्गात् । __________टिप्पणी__________ [५८] सम्बा-मू- पा- । ___________________________ नाप्यप्रमाणेन । प्रमेयस्याप्यप्रमाणतः सिद्धिप्रसङ्गात्किं प्रमाणव्युत्पत्त्या? नापि व्यवहारेण । तस्यापि प्रमाणेतरत्वेनप्रस्तुतदोषानतिपातात् । किञ्च--- तज्ज्ञानमात्मगुणो वा? तत्परिणामो वा ? स्वतन्त्रं वा साकारम्? निराकारमेकमनेकं वा ? सर्वत्र च वादिनां विवादसम्भवात् । तत्न तत्त्वनिष्ठा (?)। तस्मात्--- तत्त्वोपप्लव[५९]स्वारम्भो न दम्भादपरो विधिः । __________टिप्पणी__________ [५९] प्लवेशं- मू- पा- । ___________________________ इति । न । यतेव विवादो बहुमुखस्तत एव शास्त्रमवतारितम् । [६०]यतः--- __________टिप्पणी__________ [६०] स्ह्: ११. ___________________________ "शास्त्रं मोहनिवर्त्तनम् । पूर्वापरस्यास्मरणं शास्त्रेणानेन वार्यते[६१]।" __________टिप्पणी__________ [६१] पूर्वापरस्यास्मरणं.... .... वार्यते ॥ प्र- वा- भा- २८ पृ- ॥ (व्यवहारपरामर्शोच्छामं मोहनिवर्त्तनमिति पृवार्धिस्तत्र ।) ___________________________ तथा -पि । "योऽपि तापादितोऽभ्येति चन्दनं न हुताशनम् । वक्तुः[६२]किञ्चिदनाश्रित्य प्रमाणं तु न वर्त्तते ॥" __________टिप्पणी__________ [६२] क्तु- मू- पा- । ___________________________ आस्तां तावत् । यथायथमर्थ-सार्थमर्थयमानानां ग्राह्यग्राहकाकारापरोक्षताकारस्य ज्ञानस्यासं[६३]वेदने यज्जायेतान्धतमसमशेषम् । __________टिप्पणी__________ [६३] सम्बे- मू- पा- । ___________________________ ’विप्लवः समस्तोऽयम्ऽ इत्यपि विप्लवस्वरूपावे [प् । ५] दने तपोधनसमर्थज्ञानानवरोधे प्रतिपाद्यानवधारणेन चिन्तयितुमशक्यं प्रागेव प्रकाशयितुम् । अतः समस्येव प्रमाणादिस्वप्रत्ययव्यवस्थापितम् । ऽकेवलव्यवहारेऽपि विमतिरेव व्यवहारिणामिति व्यामोहापोहायारब्धव्यमेव शास्त्रम् । "नीलादिस्फुटताप्रायं प्रमेयं ग्राहकात्मनः । कर्त्तृत्वमान्तरत्वेन स्फुटत्वे स्फुटता क्रिया ॥ वक्तब्या नात उपरि वक्तव्यान्तरमस्ति वः । महोपप्लववादेऽपि प्रमाणादिकसम्मतः ॥ परावरोधतः सर्वमेवञ्चेत्स्वात्मनो न किम्? ग्राहकादि प्रकाशे हि समे सर्वं समं मतम् ॥ प्रकाशश्चेदसन् सर्वो वादायास्तो जलाञ्जलिः ॥" तस्मात्--- प्रकटतान्तर्गतसमस्तसत्त्वसन्तान---सम्भविग्राहकाकारादि --- [६४]ष्वाभवेनाभवं (?) भव्येतरप्राणिनां हानेतरव्यवहारो विवादमूलाधारो वान्ध्यमुद्धूयावधार्यताम् ! __________टिप्पणी__________ [६४] स्ह्: १२. ___________________________ ननु --- ग्राहकाकारादिवेदनमन्तरेण न काचिच्चित्तवृत्तिः । ततः कथमिदम् ? --- प्रमाणमप्रमाणञ्चेदं प्रापकेतरत्वेनापि प्रथमतः प्रभृति सम्प्रधार्यम् ? इति चेत्? उच्यते । तद्दृष्टावेव दृष्टत्वात्पाकपावकयोर्द्वयोः । सम्बन्धं सम्प्रधार्यैव तादात्म्योत्पत्तिलक्षणम् ॥ पुनः[६५]पावक सं[६६]वित्ति--- सामर्थ्योत्पन्नसंस्मृतिः । __________टिप्पणी__________ [६५] पुनपाव- मू- पा- । [६६] सम्बे- मू- पा- । ___________________________ अभिलाषाच्च लोकानां व्यवहारः[६७]प्रवर्त्तते ॥ __________टिप्पणी__________ [६७] रोपायोन इति लिखित्वा खण्डितमिव मू- पु- । ___________________________ स्वाभिप्रायेण विचेष्टतां नमेष्टपरिपुष्टये धार्ष्ट्यादित्यविशिष्टः (?) शिष्टो लोकः । सार्वलौकिकः पुनरयमेव व्यवहारोपा[प् । ६] योऽनुभवपद्धति--- प्रसिद्धः । यदुत व्युत्पत्तिकाले परिकलय्य पावकप्रतिबद्धं पाकपरितोत्सारणवीक्षणक्षतिप्रभृति कार्यम् । तदूर्ध्वं च --- पावकसं[६८]वित्त्या पूर्वदर्शनसंस्कारः प्रबोधनकृतात्सम्यक्स्मरणात् । पाकादिकं प्रतिपावकसामर्थ्यविषयात् । __________टिप्पणी__________ [६८] सम्बि- मू- पा- । ___________________________ अभिमताभिमतत्वेन च पावकादेर्हातुमुपादातुं चाभिलाषाद्व्यवहारो हानो पा(दा)नलक्षणः प्रवर्त्तते । तदेतावत्येव सामग्री व्यवहारप्रवर्त्तने निश्चिता । नात उत्तरा । नातो वा भूयसी । [६९]यतो हि --- __________टिप्पणी__________ [६९] स्ह्: १३. ___________________________ उत्पत्तिवेलायां द्विष्ठसम्बन्धसं[७०]वित्तिर्जाता । सम्बन्धिद्वयदर्शनात् । __________टिप्पणी__________ [७०] सम्बि- मू- पा- । ___________________________ सम्बन्ध-निबन्धनश्चाब्यभिचारः । अव्यभिचार --- निबन्धनं च प्रापणयोग्यत्वं ज्ञानस्य । ’पश्चादर्थक्रियासामर्थ्यस्मरणात्पावकस्याभिलाषाच्च पुंसां[७१] प्रवृत्तिर्ऽ इति समाप्तं सर्वमीहितम् । __________टिप्पणी__________ [७१] सा- मू- पा- । ___________________________ न समाप्तम् । यदि ---हातुमभिलाषाथानलक्षणो व्यापारः । तर्हि हापकतयोपयुज्यमानं न ज्ञानं प्रापकतया प्रमाणं वक्तव्यम् । वक्तव्यंम् । यस्मात्तदहिविषकण्टकाव्यभिचारनिबन्धनेन प्रापकत्वेन युक्तम् । तस्मात्--- परिहार्यं सं[७२]वृत्तम् । __________टिप्पणी__________ [७२] सम्वृ- मू- पा- । ___________________________ अपरथा । यद्याशीविषादिना ज्ञानं न श्लेषयितुं शक्नुयात्? किमर्थं परिजिहीर्षेत पुरुषः? तस्मात्--- प्रापकमेव प्रमाणम् । न हापकत्वेन प्रमानं वक्तव्यम् । ननु--- [प् । ६] व्युत्पत्तिवेलायामेव यदि भूताभूतत्वादिसंशयः । तदा व्युत्पत्तिरपि न स्यात्? पाककार्यदर्शने सन्देहाभावात् । [७३]उपरिष्टात्केवलपावकदर्शने संशयः स्यात्? __________टिप्पणी__________ [७३] स्ह्: १४. ___________________________ स च न प्रमाणव्यापारपरिपन्थी । विपर्यासो हि--- विपरीतं रूपं परिच्छिन्दन् प्रतिभासमानत्वभावासंस्पर्षी प्रमाणव्यापारमुपरुन्ध्यात्! उक्तं हि--- "नो चेद्भ्रान्तनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥" इति । न तु--- ऽसंशयनिमित्तेनेऽ त्युक्तम् । ननु--- व्युत्पन्नार्थक्रियासामर्थ्यादिस्तदुपरिष्टाद्विपर्यस्यमानः सन्दिहानो वा पुनः पाकादिविलोकनेन निवृत्तः । तत्किम्? सन्देह-विपर्यासयोः प्रत्यक्षव्यापार-प्रातिकूल्याप्रातिकूल्यविचारणे? सत्यम् । ऽप्रतिभासमानरूपानुरूपः संशयः । स्मरणं तत्प्रतिसन्धायकत्वेन । न विपर्यासः । स्वप्नविपरीतत्वादिऽति प्रदर्शनार्थमुक्तम् । पुनः प्रयोजनं चास्य पुरस्ताद्वक्ष्यते । अध्यव[७४]सेयविषयापेक्षे च प्रापकत्वे प्रमाणस्य विषयस्वरूपग्रहणं ग्राह्यविषयस्यानुपयुक्तम् । तस्याप्राप्यत्वात् । __________टिप्पणी__________ [७४] ध्ययसे- मू- पा- । ___________________________ [७५]वस्तु गृह्णातु, मा वा ग्रहीत । __________टिप्पणी__________ [७५] स्ह्: १५. ___________________________ ऽअध्यव[७६]सेयं वस्तु प्रापयेदिऽति प्रमाणम् । तत्प्रापकमविकल्पकं विकल्प (कं)[७७]वास्तु । सर्वथा क्षणादूर्ध्वं निबद्धे तस्मिन् [प् । ७] __________टिप्पणी__________ [७६] ध्ययसे-यू- पा- । [७७] ल्पम्वा- मू- पा- । ___________________________ तदात्मके च विकल्पकत्वे तद्व्यापारानुकारिणा स्मरणेन प्रयोजनम् । तच्च स्मरणम्--- ऽविकल्पकाविकल्पकयोः समानमिऽति नार्थो विकल्पत्वेन प्रत्यक्षस्य । ततः पुनः चरमकालभावीनि यावन्ति ज्ञानानि व्याहारव्यवहारकाणि तावन्ति प्रायावधीनि गृहीतग्रहणादप्रमाणानि । तथा--- धारावाहीन्यपि निर्विकल्पानि ज्ञानान्यप्रमाणानि । पूर्बेण (!) सहोत्तरेषामभिन्नयोगक्षेमत्वात् । ऽपरिच्छिन्नश्चार्थः प्रवृत्तिविषयः प्रापणीयः प्रमाणस्येऽति वचनेन श[७८]ङ्खे पीतज्ञानं मणिप्रभायां मणिज्ञानम् । अन्यदपि चैवंं प्रकारं ज्ञानमप्रमाणमुक्तम् । न हि तस्मिन्नवसितेऽन्यदवसितं नाम । अतिप्रसङ्गात् । __________टिप्पणी__________ [७८] संख- मू- पा- । ___________________________ भिन्नैर्देशकालाकारैर्विरुद्धैरध्यासितं शुक्लादि (क) मन्यदेव। अर्थप्राप्तिस्तु-प्रवर्त्तकान्तरात् । प्रवर्त्तकज्ञानोपदर्शितं ह्यर्थं प्राप्तुकामा कायवाग्व्यापारसहाया बुद्धिः प्रवृत्तिः । सा तस्मिन्नेवावसिते वस्तुनि सत्यसति वा समाप्यत इति न पीताकारज्ञानपूर्विका प्रवृत्तिः शुक्लाकारवस्तु प्राप्तिनिमित्तम् । ज्ञानान्तरादेव पुनः पर्यन्ततः स्पर्शग्राहिणोऽपि तत्प्राप्तिः। [७९]एवम्--- __________टिप्पणी__________ [७९] स्ह्: १६. ___________________________ परिच्छिन्नप्रवृत्तिविषयप्रापणं सम्यग्ज्ञानत्वं प्रत्यक्षानुमानयोरविशिष्टं शक्यप्राप्तिविषयञ्च सु[प् । ७]दर्शश्च प्रमाणव्यापारः । तच्च प्रापणशक्तत्वम् । न तु प्रापणमेव । प्रापणस्योत्तरज्ञानरूपत्वात् । तच्च प्रापणशक्तत्वं प्राप्यादर्थादात्मलाभनिमित्तम् । शक्तत्वनिश्चयस्तु --- अनुमानस्य स्वत एवार्थक्रियानिर्भासस्य च प्रत्यक्षस्य । प्रवर्त्तकाध्यक्षस्य तु कस्यचित्स्वत एव यन्निद्राद्यनुपद्रुतमासन्नदेशमाशङ्कितव्यञ्जकदोषं वस्तु गृह्णाति, तद्रूपसं[८०]वेदनादेव सत्यार्थमवसीयते । व्यवहारव्युत्पत्तेः प्रभृतिर्हि तथाभूतस्य सततमभिनिश्चिताव्यभिचारित्वात् । __________टिप्पणी__________ [८०] सम्वे- मू- पा- । ___________________________ कस्यचित्पुनरर्थाविनाभावः परतो निश्चीयते यदविनाभावसंशयानुवर्त्तितव्यापारम् । यथा --- किमेतत्प्रतिभासमानं सत्यम् ? उत न ? इति । यच्च --- सामान्यसिद्धौ विशेषे संशयसन्दूषितव्यापारम् । यथा --- वृक्षमात्रसिद्धौ - किमयं धवः ? किं वा पलाशः ? इति । पूर्वस्मिन् सर्वात्मनि परतः प्रामाण्यम् । परस्मिन् पुनः सामान्येनार्थक्रियाकारि-ग्राहिणी सामान्यस्य विशेषात्मनार्थक्रियाकरणाद्विशेषनिष्ठं प्रामाण्यं परतस्तु निश्चेतव्यम् । किञ्चित्पुनर्विशेषग्राहिप्रतिभासवशान्निश्चितसामान्येऽपि विशेषेऽपि प्रमाणम् । [८१]यथा--- __________टिप्पणी__________ [८१] स्ह्: १७. ___________________________ शिंशपाग्राहिवृक्षत्वे । तथा च --- न क्षणिकत्वं विशेषो न विशेषप्रति [प् । ८] भासान्निश्चितम् । अतस्तादृशे प्रमाणान्तरमेव प्रवर्त्तकम् । तथा --- भिन्ने सहचारिणि स्पर्शादौ द्रष्टव्यम् । न च --- अर्थक्रियाज्ञानादेव निश्चयः । अपितु यतः कुतश्चित् । नान्तरी(य)कदर्शनात् । योऽयं सर्वात्मनि संशयः, यश्च विशेषालम्बनः । सर्वोऽसौ प्रतिभासमानस्यात्मनोऽध्यवसायं प्रति जनकत्वात्परः । तदवसायासामर्थ्ये तद्विषयविमर्शयोगात् । प्रतिभासनेन हि स्वविकल्पजननसमर्थेन प्रत्यक्षस्य ग्रहणमुक्तम् । निश्चयस्य तु निश्चयनेन व्यापारेण । तदेवम् --- प्रतिभासमानो ग्राह्याकारो बाह्योऽर्थग्रहणव्यापारात्मकः, विमर्शेण(न?) जन्यमानेन निश्चेष्यमाणः । अभ्यासावस्थावत्समाप्तः । केवलं संशयः[८२]परतो ध्वंसते । न च परं प्रत्यक्षं सत्पूर्वस्य प्रामाण्यं गृह्णाति । न वा तस्मिन्नर्थे लिङ्गम् । तन्मात्रात्संशयध्वंसनेऽन्वयाद्यनुसरणाभावात् । __________टिप्पणी__________ [८२] य- मू- पा- । ___________________________ तस्मान्न प्रत्यक्षं व्यापारो धीसंशयः । कथं न तद्व्यापारोऽपरो वा ? यावता शक्यप्रापणविषयोपदर्शनं प्रमाणव्यापारः । शक्य[८३]प्रापणश्च विषयः स एव यो नियतः । न च [८४]नियमो नाम संशयस्य विषयः । संशयो हि जलने द्वयोः । न च चलयन्नेव नियमयति । __________टिप्पणी__________ [८३] क्यं- मू- पा- । [८४] स्ह्: १८. ___________________________ किं वा --- संशयः प्रतिभासमानार्थावसाय इत्यस्य प्रयासस्य फलम् --- [प् । ८] सत्यम् । त्रयो हि योगा विकल्पानां सम्भाव्यते(न्ते ?) । --- समुच्चयो, विकल्पो विरोधश्चेति । तत्रैकत्र युगपदभिसम्बध्यमानस्यानियतस्यानेकस्य स्वरूपेण भेदावधारणं स मुच्चयः । यथा --- नीलञ्च तदुत्पलञ्चेति --- अनेकत्रानियतैकसमुदायिभेदावधारणं विकल्पः । यथा --- भयो वा जातिर्वा । शुभं[८५]वेति ब्राह्मणशब्दवाच्यम् । __________टिप्पणी__________ [८५] म्वे- मू- पा- । ___________________________ बाध्यवा धकभावो विरोधः । यथा --- सर्पो रज्जुरिति तत्रायं संशयो न समुच्चयस्पर्शी । समुच्चये हि --अयमर्थः स्यात् । प्रतिभासमानोऽर्थः सत्यश्चासत्यश्चेति । न वा विरोधेन प्रवृत्तः । न खलु सत्यत्वमपोह्यासत्यत्वं[८६]विधत्ते । पारिशेष्यात्पुनर्विकल्पपक्षमाश्रयेत्-ऽस्थाणुर्वा, पुरुषो वेऽ त्यादिवत् । __________टिप्पणी__________ [८६] म्वि मू- पा- । ___________________________ तथा चा --- प्रवर्त्तमानः सशयः पर्यायेण नियतमर्थमवस्य न शक्यप्रापणमेवावस्यति । तस्मात्--- न प्रमाणव्यापारोपरोधी । [८७]जानाति च लोको यथा-ऽअयं प्रतिभासमानोऽर्थः, कदाचित्, सत्यैव, कदाचिदसत्य एवेऽ ति । __________टिप्पणी__________ [८७] स्ह्: १९. ___________________________ अभ्यासार्थमेवं व्युत्पाद्यते । ज्ञाते ह्यर्थाविनाभावित्वनिमित्तप्रापणयोग्योपदर्शनलक्षणे प्रामाण्ये अध्यासेन भवितव्यम् । अध्यासात्परतो निरस्तविभ्रमाशङ्कं स्वतः प्रमाणम् । अन्येन ज्ञात्वा तदध्यासः ? इति चेत्? न । प्रत्य [प् । ९] क्षानुमानाभ्यामुत्तराभ्यां पूर्वज्ञानस्वभावभूतप्रामाण्यपरिच्छेदायोगात् । तदेवम्--- शक्यप्रापणप्रवृत्तिविषयोपदर्शनं प्रत्यक्षानुमानयोः सामान्यप्रामाण्यलक्षणम् । सामान्यं च व्यक्तिनिष्ठम् । प्रत्यक्षं चानुमानं च व्यक्तिभेदः सावधारणः, न शब्दोपमानादिः । तथा हि --- शब्दज्ञानादसन्निकृष्टेऽर्थे ज्ञानं शाब्दम् । शब्दस्य लक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तत्ऽशब्दादागतमिऽति कृत्वा शाब्दं प्रमाणम्, तच्च द्विविधम्, अपौरुषेयशब्दजनितं[८८]ऽ प्रत्ययितपुरुषवाक्य[८९]जञ्च । __________टिप्पणी__________ [८८] त मू- पा- । [८९] ह्य इव मूलपाठे । ___________________________ आह च --- ऽशब्दादुदेति यज्ज्ञानमप्रत्यक्षेऽर्थवस्तुनि । [९०]यद[९१]कर्त्तृकतो वाक्याद्यद्वा प्रत्ययितोदितात् ॥ __________टिप्पणी__________ [९०] स्ह्: २०. [९१] तच्चा ... ... रत्नकीर्त्तिनिवन्घे पाठः । ___________________________ न ज्ञानमिदमध्यक्षं परोक्षविषयत्वतः[९२]। __________टिप्पणी__________ [९२] न ज्ञानमिद.... ....त्वतः ॥ --तं- सं- पं- ४३३ पृ-, १५९० का- । ___________________________ न (+आ) नुमानं च घटते त्रैरूप्येण विशेषतः[९३]। । __________टिप्पणी__________ [९३] नऽनुमानं च.... वियोगतः । --त- सं- पं- ४३३ पृ-, १४९० का- । ___________________________ धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्स निश्चितम् । न तावदनुमानं च यावत्तद्विषयं न तत्[९४]। ।[९५] __________टिप्पणी__________ [९४] धर्मी धर्म.... .... निश्चितम् । न तद् ॥ --त- सं- पं- ४३४ पृ-, १४९१ का- । [९५] न तावदनुमानं.... .... तद् ॥ --त- सं- पं- ४३४ पृ-, १४९१ का- । ___________________________ इति । ऽयश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव हि । न चानवधृते तस्मिन् तद्धर्मस्यावधारणा[९६]। ।[९७] __________टिप्पणी__________ [९६] न चानवधृते.... .... धारणा ॥ --तं- सं- पं- ४३४ पृ-, १४९२ का- । [९७] यश्चात्र कल्प्यते.... ...एव हि । ... वघारणा ॥ --त- सं- पं- ४३४ पृ-, १४९२ का- । ___________________________ प्राक्स चेत्पक्षधर्मत्वाद्गृहीतं किं ततः परम्[९८]। । __________टिप्पणी__________ [९८] प्राक्स चेत्पक्ष.... .... ततः परम् ॥ --त- सं- पं- ४३४ पृ-, ४९३ का- । ___________________________ पक्षे धर्मादिभिर्ज्ञातैर्येन स्यादनुमानता[९९]। __________टिप्पणी__________ [९९] पक्षे धर्मादिभि.... .... मानता ॥ --त- सं- पं- ४३४ पृ-,१४९३ का- । ___________________________ अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते[१००]। ।[१०१] __________टिप्पणी__________ [१००] अन्वयो न च शब्दस्य.... .... निरूप्यते । .... प्रतीयते ॥ --त- स- पं- ४३४ पृ-, १४९४ का- । [१०१] व्यापारेण हि... .... प्रतीयते ॥ --त- सं- पं- ४३४ पृ-, १४९४ का- । ___________________________ यत्र धूमोऽस्ति तत्रा[प्२ ९]ग्नेरस्तित्वेनान्वयः स्फुटः[१०२]। __________टिप्पणी__________ [१०२] यत्र भूयोऽस्ति.... ....नान्वयः स्फुटः ॥ -(म्- पाठयुक्) त- सं- पं- ४३५ पृ-, १४९५ का- । ___________________________ नत्वेव यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः[१०३]। । __________टिप्पणी__________ [१०३] नत्वेन यत्र.... .... निश्चयः ॥ -(वं निश्चितं पाठयुक्) त- सं- पं- ३४५ पृ-, १४९५ का- । ___________________________ न तावत्तत्र देशेऽसौ न तत्काले च गम्यते[१०४]। __________टिप्पणी__________ [१०४] न तावत्तत्र.... .... .... गम्यते ॥ --त- सं- पं- ४३५ पृ-, १४९६ का- । ___________________________ तस्माच्छब्द (+स्य?) लिङ्गस्य प्रमेयेणानुमागतिः[१०५]। __________टिप्पणी__________ [१०५] तस्माच्छब्द.... .... गतिः ॥ --त- सं- पं- ४३५ पृ-, १४९६ का- । ___________________________ भवेन्नित्यविभुत्वाच्चेत्सर्वशव्देषु तत्समम्[१०६]। __________टिप्पणी__________ [१०६] भवेन्नित्यविभुत्वा.... .... समम् ॥ --त- सं- पं- ४३५ पृ-, १४९६ का- । ___________________________ तेन सर्वत्र दृष्टत्वाद्व्यतिरेकस्य चागतिः[१०७]। । __________टिप्पणी__________ [१०७] तेन सर्वत्र.... ....चागतिः--त- सं- पं- ४३ पृ-, १४९७ का- । ___________________________ सर्वशव्दैरशेषार्थप्रतिपत्तिः प्रसज्ज्य[१०८]ते[१०९]। __________टिप्पणी__________ [१०८] ह्य- इव मूलपाठे । fन् २ दिएसेर्सेइते ओह्ने अन्गबे इं तेxत्! [१०९] सर्वशब्दैरशेषा.... .... प्रसज्ज्यते ॥ --त- सं- पं- ४३५ पृ-, १४९७ का- । ___________________________ तस्मादननुमानत्वं शाव्दे प्रत्यक्षवद्भवेत्[११०]। । __________टिप्पणी__________ [११०] तस्मादननुमान.... ... भवेत् ॥ त- सं- पं- ४३५ पृ-, १४९७ का- । ___________________________ त्रैरूप्यावहितत्वेन तादृग्विषयवर्जनात् । अग्निहोत्रादिवचनादकस्मज्ज्ञानजन्मनः[१११]। ।[११२] __________टिप्पणी__________ [१११] अग्निहोत्रादि... ... जन्मनः ॥ -(तः) त- स- पं- ४३६ पृ-, १४९९ का- । [११२] त्रैरूप्यावहित.... .... वर्जनात् । .... जन्मनः ॥ --त- सं- पं- ४३५ पृ-, १४९७ का- । ___________________________ तत्प्रमाणत्वमप्यस्य निराकर्त्तुं न पार्यते[११३]। । __________टिप्पणी__________ [११३] तत्प्रमाणत्व.... .... पार्यते ॥ त- सं- पं- ४३६ पृ-, १४९९ का- । ___________________________ इति । [११४]परोक्षार्थसादृश्यपरिच्छेदस्तूपमानम् । तच्च द्विविधमेव । __________टिप्पणी__________ [११४] स्ह्: २१. ___________________________ सादृश्यात्मकं ज्ञानात्मकञ्च । तदत्र परिदृश्यमानगवयगतसादृश्यं वस्तुभूतम् । सादृश्यस्य च[११५]वस्तुत्वं न शक्यमपवादितुम् । __________टिप्पणी__________ [११५] न इव मूलपाठे । ___________________________ भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् । तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य साद्रश्यं वा तदाश्रितम्[११६]।[११७] __________टिप्पणी__________ [११६] तस्माद्यत्स्मर्यते... ... विशेषितम् । ... श्रितम् ॥ --त- सं- पं- ८१९ पृ-, श्लो- व- षा- ४४४ (तदन्वितं पाठयुक्) [११७] प्रमेयमुपमानस्य.... ...श्रितम् ॥ -श्लो- वा- प- ४४४; त- सं- पं- ८१९ पृ-, ८४९ पृ-, (तदन्वितं पाठयुक्) ___________________________ गां दृष्ट्वायमरण्यान्यां गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्ठ[११८]कम्[११९]। ।[१२०] __________टिप्पणी__________ [११८] ण्ट- इव मूलपाठे । [११९] गां दृष्ट्वाय ... ....यदा । ... कण्टकम् ॥ -त- सं- पृ- ४४४ पृ-, १५२ का- । [१२०] भूयोऽवयव.... .... कण्ठकम् ॥ -त- सं- पं- ४४४ पृ-, १५२८ का- । ___________________________ तदास्य गवये ज्ञातरूपमात्राववोधकम् । प्रत्यक्षमेव यच्चापि विशेषणविकल्पकम्[१२१] । ।[१२२] __________टिप्पणी__________ [१२१] तदास्य गवयेऽज्ञान... .... बोधकम् । .... कल्पकम् ॥ -त- स- पं- ४४४ पृ-, १५२९ का- । [१२२] प्रत्यक्षमेव पञ्चापि.... विकल्पकम् ॥ --त- सं- पं- ४४४ पृ-, १५२९ पृ- । ___________________________ गवा सदृशरूपोऽयं पशुरित्येतदी [प्२ १।९] दृशम्[१२३]। __________टिप्पणी__________ [१२३] गवा सदृश .... .... दीदृशम् ॥ --त- सं- प- ४४४ पृ-, १५३० का- । ___________________________ अक्षव्यापारसद्भावे जातिः प्रत्यक्षमिष्यते[१२४]। __________टिप्पणी__________ [१२४] अक्षव्यापारसद्भावे... ... मिष्यते । त (त्त्व) स (ङ्ग्रह) प (ञ्जिका) ४४४५ पृ-, १५२९ का- । ___________________________ तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते । सन्निधेर्गवयस्थत्वाद्भवेदिन्द्रियगोचरः[१२५]।[१२६] __________टिप्पणी__________ [१२५] तत्र यद्यपि गां... .... जायते । ... गोचरः ॥ त- सं- पं- ४४४ पृ-, १५४१ का- । [१२६] सन्निधे.... .... .... गोचरः ॥ --त- सं- पं- ४४४ पृ-, १५३१ का- । ___________________________ सामान्यं च द्विसम्बद्धं प्रत्येकं च समाप्यते । प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते[१२७]। ।[१२८] __________टिप्पणी__________ [१२७] प्रतियोगिन्य.... .... लम्यते ॥ --त- सं- पं- ४४५ पृ-, १५३२ का- । [१२८] सामान्यं च द्विसम्बद्ध.... समाप्यते । .... लभ्यते ॥ -(ऽन्यवद्धि सादृश्यंऽपाठयुक्) त- सं- पं- ४४५ पृ-, १५३२ का- । ___________________________ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये ग[१२९]वि च स्मृते । __________टिप्पणी__________ [१२९] व इव मूलपाठे । ___________________________ विशिष्टस्यान्यतोऽसिद्धेरुपमायाः प्रमाणता[१३०] । ।[१३१] __________टिप्पणी__________ [१३०] प्रत्यक्षेणावबुद्धे.... .... स्मृते । .... प्रमाणता ॥ --त- सं- पं- ४४६ पृ-, १५२६ का- । [१३१] विशिष्टस्यान्यतो... ... प्रमाणता । --त- सं- पं- ४४६ पृ-, १५३६ का- । ___________________________ प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता[१३२]।[१३३] __________टिप्पणी__________ [१३२] प्रत्यक्षेऽपि यथा.... .... पावके । .... प्रमाणता ॥ --त- सं- पं- ४४६ पृ-, १५३७ का- । [१३३] विशिष्टविषयत्वेन.... ....प्रमाणता ॥ --त- सं- पं- ४४६ पृ-, १५३७ का- । ___________________________ [१३४]नहि प्रत्यक्षताप्यस्य विदूरस्योपपद्यते । __________टिप्पणी__________ [१३४] स्ह्: २२. ___________________________ इन्द्रियार्थाभिसम्बन्धव्यापारविरहात्तथा[१३५]।[१३६] __________टिप्पणी__________ [१३५] इन्द्रियार्थाभि.... .... .... तथा ॥ त- स- पं- ४४६ पृ-, १५३८ का- । [१३६] न हि प्रत्यक्षता.... .... .... पद्यते । .... तथा ॥ --त- सं- पं- ४४६ पृ-, १५३८ का- । ___________________________ त्रैरूप्यानुपपत्तेश्च न तस्याप्यनुमानता । पक्षधर्मादिनैवात्र कथञ्चिदपि युज्यते[१३७]। ।[१३८] __________टिप्पणी__________ [१३७] त्रैरूप्यानुप.... ....प्रमाणता । .... युज्यते ॥ --त- सं- पं- ४३६ पृ-, १५३९ का- । [१३८] पक्षधर्मादि.... .... युज्यते । --त- सं- पं- ४४६ पृ-, १५३९ का- । ___________________________ प्राक्प्रमेयस्य सादृश्यं तद्धर्मत्वेन गृह्यते । गवये गृह्यमाणं च न गवामनुमापकम्[१३९]। ।[१४०] __________टिप्पणी__________ [१३९] गबये गृह्य.... .... मापकम् ॥ --त- सं- पं- ४४३ पृ-,१५४० का- । [१४०] प्राक्प्रमेयस्य.... .... गृह्यते । .... मापकम् ॥ --त- सं- पं- ४४६ पृ-, १५४० का- । ___________________________ प्रतिज्ञार्थैकदेशत्वात्गोगतस्य न मानता[१४१]। __________टिप्पणी__________ [१४१] प्रतिज्ञार्थैकदेश.... ....लिङ्गता । --त- सं- पं- ४४७ पृ-, १५४१ का- । ___________________________ गव (यश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति[१४२]। । __________टिप्पणी__________ [१४२] गवय.... .... .... मृच्छति ॥ -त- सं- पं- ४४७ पृ-, १५४१ का- । ___________________________ [नचा[१४३]]) प्रमाणं तज्ज्ञानमज्ञानार्थप्रकाशनात्[१४४]। । __________टिप्पणी__________ [१४३] ना- मू- पा- । [१४४] न चाप्र.... .... .... नात् ॥ -तं- सं- पं- ४४७ पृ-, १५४२ का- । ___________________________ गवयालोकनात्पूर्वं तत्सादृश्यानवग्रहात्[१४५]। । __________टिप्पणी__________ [१४५] गवयालोक... .... .... ग्रहाद् ॥ -त- सं- पं- ४४७ पृ-, १५४२ का- । ___________________________ इति । (प्रसिद्धसाधर्म्य (-आत्?) संज्ञासंज्ञिसम्बन्धस्य साधन)[१४६]मुपमानमिति प्रसिद्धेन गवा साधर्म्यं सादृश्यलक्षणं यस्य स प्रसिद्धसाधर्म्यो गवयः । __________टिप्पणी__________ [१४६] मूलेऽपाठ्यमपि यथाकथञ्चित्पठितम् । ___________________________ तस्मा [प्२ २।८] (दिति)[१४७]ल्यब्लोपे पञ्चमी । तमेव हेतुं कृत्य (त्वा?) साध्यो यः संज्ञासंज्ञिसम्बन्धः । तस्य साधनं सिद्धिर्या प्रतिपत्तिः सोपमानमिति । अनेनैतदुक्तं भवतिः --- __________टिप्पणी__________ [१४७] मूलेऽपाठ्यमपि यथाकथञ्चित्पठितम् । ___________________________ "गौरिव गवयऽ इ[१४८](ति वृद्धस्या[१४९])ऽऽदेशवाक्यश्रवणातनेन गवा सदृशे प्राणिनि परोक्षेऽविशेषतो गवयसम्बन्धो येन प्रथमं प्रतिपन्नः स्यात् । __________टिप्पणी__________ [१४८] मूलेऽपाठ्यमपि यथाकथञ्चित्पठितम् । [१४९] मूलेऽपाठ्यमपि यथाकथञ्चित्पठितम् । ___________________________ पश्चादरण्यं गत्वा गवयदर्शना (द्वृद्धाति)[१५०]देशवाक्यं स्मृत्वा च एवं प्रतिपद्यतेः --- __________टिप्पणी__________ [१५०] इदमप्यपाठ्यं कथञ्चित्पठितम् । ___________________________ ऽअयमेव स प्राणी गवयशब्दवाच्यः यो मया पूर्वमविशेषतो गवयसंज्ञकः प्रतिपन्नऽ इति । [१५१]पूर्वं ह्यविशेषतः संज्ञासम्बन्धप्रतिपत्तिरा[१५२]सीत् । इदानीं तया व्यक्तिविशेषविषयनिष्ठा संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः[१५३]प्रजायते । __________टिप्पणी__________ [१५१] स्ह्: २३. [१५२] शो- - मू- पा- । [१५३] पत्तित---मू- पा- । ___________________________ सोपमानं प्रमाणान्तरम् । अन्ये पुनरमुमेवार्थमाहुः --- आगमाहितसंस्कारस्मृत्यपेक्षात्साधर्म्यज्ञानात्समाख्यासम्बन्धप्रतिपत्तिरुपमानम् ।ऽगौरिव गवयऽ इत्यतिदेशवाक्यमागमः । तेनाहितो ज्ञानजो ज्ञानहेतुश्चेत्येवंलक्षणो यः संस्काराख्यो गुणः, ततो यातिदेशवाक्यात्स्मृतिरुपजायते, अरण्ये गवयदर्शनात्, तामपेक्षते यत्, साधर्म्यज्ञानं तत्, तथोक्तम् । समाख्या = संज्ञाशब्द इतियावत् । तस्याः[१५४]सहार्थन यः सम्बन्ध[१५५]स्तस्य प्रतिपत्तिरुपमानम् । __________टिप्पणी__________ [१५४] स्या - - मू- पा- । [१५५]ऽधःस्त---मू- पा- । ___________________________ आह च --- श्रुता[प्२ २।८]तिदेशवाक्यस्य समानार्थोपलम्भने । संज्ञासम्बन्ध (+योः?) ज्ञानमुपमा कैश्चिदिष्यते[१५६]। ।[१५७] __________टिप्पणी__________ [१५६] श्रुतातिदेश... .... .... लभ्यते । ....इष्यते ॥ -त- सं- पं- ४५१ पृ-, १५६३ का- । [१५७] संज्ञा... ... ....इष्यते -त- सं- पं- ४५१ पृ-, १५६३ का- । ___________________________ इति । दृष्टो श्रुतो वार्थोऽन्यथा नोपपद्यतऽ इत्यदृष्टकल्पनार्थापत्तिः । प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता[१५८]। ।[१५९] __________टिप्पणी__________ [१५८] अदृष्टं कल्पयेदन्यं... .... रुदाहृता ॥ त- स- पं- ४५६ पृ-, १५८७ का- । [१५९] प्रमाणषट्कवि.... .... भवन् । .... हृता । । -त- सं- पं- ४५६ पृ-, १५८७ का- । ___________________________ तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । वह्नेरनुमिता [त्सूर्ये मानात्] तच्छक्तियोगिता[१६०]। ।[१६१] __________टिप्पणी__________ [१६०] तत्र प्रत्यक्षतो.... .... शक्तता । योगिता ॥ --त- सं- पं- ४५७ पृ-, १५८८ का- । [१६१] बह्वेरनुमिता (त्सूर्ये).... .... योगिता ॥ --त- सं- पं- ४५७ पृ-, १५८८ का- । ___________________________ शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ॥ अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणादृते[१६२]। ।[१६३] __________टिप्पणी__________ [१६२] अपूर्वास्ताश्च गम्यन्ते... .... दृते ॥ --त- स- पं- ४५७ पृ-, १५८९ का- । [१६३] शक्तयः सर्वभावानां.... ....साधनाः ॥ .... दृते ॥ --त- सं- पं- ४५७ पृ-, १५८९ का- । ६२० पृष्ठे च । (पूर्वार्धमात्रम्) ७५१ पृ-, २८४० का- ॥ ८१३ पृष्ठेऽपि । ___________________________ [१६४]नचासां पूर्वसम्बन्धो न चान्यो गृह्यतेऽधुना। __________टिप्पणी__________ [१६४] स्ह्: २४. ___________________________ कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह[१६५]। ।[१६६] __________टिप्पणी__________ [१६५] कार्यैः सह यतः.... ....विह ॥ --त- स- पं- ४५७ पृ-, १५६० का- । [१६६] न चासां पूर्व.... ....ऽधुना । ....विह ॥ --तं- सं- पं- ४५७ पृ-, १५९० का- । ___________________________ श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः[१६७]प्रयुज्यते । __________टिप्पणी__________ [१६७]ऽस्या इति लिखित्वा छिन्नं मूलपाठे । ___________________________ सर्वोऽसावाश्रयासिद्धो धर्मासिद्धः प्रयुज्यते ॥[१६८][१६९] __________टिप्पणी__________ [१६८] श्रोत्रादिशक्तिपक्षे... .... युज्यते । ....प्रयुज्यते । --त- सं- पं- ४५७ पृ-, १५६१ का- । [१६९] सर्वोऽसावाश्रया.... .... प्रयुज्यते --त- सं- पं- ४५७ पृ-, १५९१ का- । ___________________________ ऽपीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ ॥ रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते[१७०] । ।[१७१] __________टिप्पणी__________ [१७०] पीनो दिवा न.... .... श्रुतौ । .... रुच्यते ॥ --त- सं- पं- ४५७ पृ-, १४९५ का- । [१७१] रात्रिभोजनविज्ञानं.... ....रुच्यते --त- सं- पं- ४५७ पृ-, १५९२ का- । ___________________________ न रात्र्यादिपदार्थश्च दिवावाक्येऽवगम्यते । न दिवादिप[१७२]दार्थानां संसर्गो रात्रिभोजनम्[१७३]। ।[१७४] __________टिप्पणी__________ [१७२]ऽष्ठऽइति लिखित्वा छिन्नमस्ति मूलपाठे । [१७३] न दिवादि.... .... भोजनम् ॥ --त- सं- पं- ४५८ पृ-, १५९३ का- । [१७४] न रात्र्यादि.... .... .... गम्यते । ....भोजनम् ॥ --त- सं- पं- ४५८ पृ-, १५९३ का- । ___________________________ न भेदो येन तद्वाह्यं तस्य स्यात्प्रतिपादकम् । अन्यार्थव्यापृ[१७५]तत्वाच्च न द्वितीयार्थकल्पना[१७६]। ।[१७७] __________टिप्पणी__________ [१७५]ऽदिऽमू- पा- । [१७६] अन्यार्थव्यापृतत्वा... .... कल्पना ॥ --त- स- पं- ४५८ पृ-, १५९४ का- । [१७७] न भेदो येन.... .... पादिकम् । .... कल्पना ॥ --त- सं- पं- ४५८ पृ-, १५९४ का- । ___________________________ तस्माद्वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते । तेनानागमिकत्वेऽपि यत्तद्वाक्यं प्रतीयते[१७८]। ।[१७९] __________टिप्पणी__________ [१७८] तस्माद्वाक्या.... ....प्रतीयते । ....प्रतीयते ॥ --त- सं- पं- ४५८ पृ-, १५९५ का- । [१७९] तेनानागमिक.... .... प्रतीयते । ....त- सं- पं- ४५८ पृ-, १५९५ का- । ___________________________ प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत्[१८०]। __________टिप्पणी__________ [१८०] प्रमाणं तस्य.... ...यद्भवेद् ॥ --त- सं- पं- १५८ पृ-, १५९६ का- । ___________________________ नत्वन्नुचारि [प्२ ३।७] ते वाक्ये प्रत्यक्षं तावदिष्यते[१८१]। । __________टिप्पणी__________ [१८१] न त्वनुच्चारिते.... ....दिष्यते ॥ --त- सं- पं-, ४५८ पृ-, १५९६ का- । ___________________________ नानुमानं नहीदं हि दृष्टं तेन सह क्वचित्[१८२] । __________टिप्पणी__________ [१८२] नानुमानं न हीदं.... .... क्वचित् । --त- सं- पं- ४५८ पृ-, १५९७ का- । ___________________________ यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गमिष्यते ॥ तदुच्चारणमात्रेण सर्ववाक्यमतिर्भवेत्[१८३]।[१८४] __________टिप्पणी__________ [१८३] तदुच्चारण.... .... भवेत् ॥ --त- सं- पं- ४३८ पृ-, १५९८ का- । [१८४] यदित्वनुपलव्धे .... मिष्यते । र्भवेत् ॥ --त- सं- पं- ४५८ पृ-, १५९७ का- । ___________________________ सम्बन्धरहित्वेन नान्यतस्तद्विशिष्यते । गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता[१८५]। ।[१८६] __________टिप्पणी__________ [१८५] गबयो .... ... .... शक्ता ॥ --त- सं- पं- ४५९ पृ-, १६९९ का- । [१८६] सम्वन्धरहितत्वेन.... .... शिष्यते । .... शक्ता --त- सं- पं- ४५८ पृ-, १५९८ का- । ___________________________ उपमावलसम्भूतसामर्थ्ये न प्रतीयते । अभिधा नान्यथा सिद्ध्येदिति वाचकशक्तताम्[१८७]।[१८८] __________टिप्पणी__________ [१८७] अभिधानान्यथा.... ....शक्तताम्। । --त- स- पं- ४५९ पृ-, १६०० का- । [१८८] उपमाबल.... .... .... प्रतीयते । ... शक्तताम् ॥ त- स- पं- ४५९ पृ-, १५९९ का- । ___________________________ अर्थापत्त्यावगम्यैव तदनन्यगतेः पुनः। । [१८९]अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः[१९०][१९१]। __________टिप्पणी__________ [१८९] स्ह्: २५. [१९०] अर्थापत्त्यावगम्यैव.... .... पुनः । .... निश्चयः ॥ -त- सं- पं- ४५९ पृ-, १६०० का- । [१९१] अर्थापत्त्यन्तरेणैव ........ निश्चयः। । --त- सं- प- ४५९ पृ-, १६०१ का- । ___________________________ अनित्यो हि न सङ्केतव्यवहारानुवृत्तिभाग्[१९२]। । __________टिप्पणी__________ [१९२] अनित्यो हि न... ... भाग् ॥ -त- स- पं- ४५९ पृ-, १६०१ का- । ___________________________ इति । "प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् । गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह वर्णिता[१९३]। ।[१९४] __________टिप्पणी__________ [१९३] गेहाच्चैत्र.... ... बर्णिता। -त- सं- पं-, ४६० पृ-, १६०२ का- । [१९४] प्रमाणाभाव.... ....विशेषितात् । .... वर्णिता। । -त- सं- पं- ४६० पृ-; १६०२ का- । ___________________________ तामभावोत्थितामन्यामर्थापत्तिमुदाहरेत् । पक्षधर्माद्यनङ्गत्वाद्भिन्नैषाप्यनुमानतः[१९५]। ।[१९६] __________टिप्पणी__________ [१९५] तामभावो.... .... ....हरेत् । .... नुमानतः। । -त- सं- पं- ४६० पृ-, १६०३ का- । [१९६] पक्षधर्माद्य.... ....नुमानतः । -त- सं- पं- ४६० पृ-, १३०३ का- ___________________________ बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते ! प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम्[१९७]? ॥[१९८] __________टिप्पणी__________ [१९७] प्रमेये यो गृहाभावः.... .... कथम्। । -त- सं- पं- ४६० पृ-, १६०४ का- । [१९८] बहिर्देशविशि.... ....ते । ....किम्। । -त- सं- पं- ४६० पृ-, १६०४ का- । ___________________________ जीवतश्च गृहाभावः पक्षधर्मो न[१९९]कल्प्यते । __________टिप्पणी__________ [१९९]ऽन विक-ऽमू- पा- । ___________________________ तत्संवित्तिबहिर्भावं न चाबुद्ध्वोप[२००]जायते[२०१]।[२०२] __________टिप्पणी__________ [२००]ऽजायऽइति द्विवारं लिखितं मूलपाठे । [२०१] जीवतश्च गृहाभाब.... कल्प्यते । .... जायते। । -त- सं- पं- ४६० पृ-, १६०५ का- । [२०२] तत्संवित्ति.... .... जायते ॥ -त- सं- पं- ४६० पृ-, १६०५ का- । ___________________________ गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः । स मृतेष्वपि दृष्टत्वाद्बहिर्वित्तेर्न साधकः[२०३]। ।[२०४] __________टिप्पणी__________ [२०३] गेहाभावस्तु .... ...वर्णितः- । ... साघकः ॥ त- सं- पं- ४६० पृ-, १६०६ का- । श्लो- वा- । [२०४] स मृतेष्वपि........ साधकः । -त- सं- पं- ४६० पृ-, १६०६ का- । ___________________________ यत्र चतसृभिः शक्तिरेव प्रमीयते । एकया शब्दनित्यत्वम्, अपरया बहि (---:?) स्थितं द्रव्यमेवेति पिण्डार्थः । प्रमाण [प्२ ३।७] पञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता[२०५] । ।[२०६] __________टिप्पणी__________ [२०५] प्रमाणपञ्चकं.... .... जायते । .... प्रमाणता । । --श्लो- वा- अभाव, १, २, ११; हे- वि- टी- अर्चटेनोद्धृतम् २०० पृ-, ।; त- सं- पं- ४७० पृ-, १६४८ का- ॥ [२०६] वस्तुसत्ताव.... ....प्रमाणता ॥ -श्लो- वा- अभाव, १,२,११ । । -त- सं- पं- ४७० पृ-, १६४८ का- । ___________________________ इह सर्वमेव वस्तु सदसद्रूपेण द्व्यात्मकमिति । "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते । सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनि[२०७] । ।[२०८] __________टिप्पणी__________ [२०७] प्रत्यक्षादेरनु.... .... इष्यते । ....वस्तुनि ॥ --श्लो- वा- अभाव- १, २, ११; हे- वि- टी- अर्चटेन उद्धृतम् १९० पृ- ॥ त- सं- पं- ४७१ पृ-, १६४९ का- । [२०८] सात्मनः परि.... ....वस्तुनि । । -श्लो- वा- अभाव-, १, २, ११, अर्चटेनऽपि १९० पृ-, उद्धृतम्, त- सं- पं- ४७१ पृ-, १६४९ का- ।४७३ पृ- अपि । ___________________________ प्रमाभावात्तु वस्तूनामभावः सम्प्रतीयते । चतुर्धा च विभिन्नोऽसौ प्राग[२०९]भावादिभेदतः[२१०] । ।[२११] __________टिप्पणी__________ [२०९] प्राग्भा- मू- पा- । [२१०] चतुर्द्धा च विभिन्नोऽसौ भेदतः । -त- सं- पं- ४०१ पृ-, १६५० का- । [२११] प्रमाभावात्तु.... .... तीयते । .... भेदतः । । -त- सं- पं- ४८१ पृ-, १६५० का- । ___________________________ [२१२]क्शीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते । __________टिप्पणी__________ [२१२] स्ह्: २६. ___________________________ नास्तिता पयसो दघ्नि प्रघ्वंसाभाव लक्षणम्[२१३] । । __________टिप्पणी__________ [२१३] क्षीरे दध्यादि.... .... कथ्यते । .... लक्षणम् ॥ -श्लो- वा- ४७३ । -त- स- पं- २९२ पृ- । त- सं- पं- ४७१ पृ-, १६४५१ का- । ___________________________ गवि योऽश्वाद्यभावस्तु सोऽन्योऽन्याभाव उच्यते । पररूपं न तस्यास्ति नास्ति ते नात्मना ततः[२१४] । ।[२१५] __________टिप्पणी__________ [२१४] गवि योऽश्वा ........ उच्यते । .... ततः ॥ त- सं- पं- २९२ पृ- । त- सं- पं- ४७१ पृ-, १६५२ का- । श्लो- वा- पं- ४७३ । [२१५] पररूपं न.... .... ....ततः ॥ -त- सं- पं- ४७१ पृ-, १६५२ का- । ___________________________ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते[२१६]। ।[२१७] __________टिप्पणी__________ [२१६] शशशृङ्गादिरूपेण.... .... उच्यते ॥ -त- सं- पं- २९२ पृ- ।, -त- सं- पं- ४८१ पृ-, १६५३ का- । [२१७] शिरसोऽवयवा.... ....वर्जिताः । ....उच्यते -त- सं- पं- ३९२ पृ-; -त- सं- पं- ४७२ पृ-, १६५२ का- । ___________________________ न च स्याद्व्यवहारोऽयं कारणादिविभागतः । प्रागाभावादिभेदेन नाभावो विद्यते यदि[२१८] । ।[२१९] __________टिप्पणी__________ [२१८] न च स्याद्.... .... भागतः । .... यदि ॥ --त- सं- पं-, ४८२ पृ-, १६५४ का- । [२१९] प्रागभावादि.... ....यदि ॥ --त- सं- पं-, ४७२ पृ-, १६५४ का- । ___________________________ न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता । कार्यादीनामभावः को भावो यः कारणादि नः[२२०]। ।[२२१] __________टिप्पणी__________ [२२०] न चावस्तुन.... .... .... वस्तुता । ....तः । । श्लो- वा अभाव, १८; त- सं- पं- २९२ पृ-, हे- वि- टी- अर्चटेनोद्धृतम् १८८ पृ-, त- सं- पं- ४७२ पृ-, १६५५ का- । [२२१] कार्यादीनामभावः.... .... नः ॥ -त- सं- पं- ४७२ पृ-, १६५५ का- । ___________________________ यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो (?) यतस्त्वयम् । तस्माद्गवादिवद्वस्तु प्रमेयत्वाच्च गम्यताम्[२२२]। । __________टिप्पणी__________ [२२२] तस्माद्भावादि... ...गम्यताम् ॥ -त- सं- पं- ४७२ पृ-, १६५६ का- । ___________________________ एतदयुक्तम् । भिन्नविषयत्वात् । लक्षण[२२३]भेदाद्धि भवन्तः प्रमाणानां नानात्वं प्रतिपन्नाः । वयं पुनर्द्वैविध्यात्प्रमेयस्य प्रमाणद्वैविध्यमवबुद्ध्यामहे । __________टिप्पणी__________ [२२३]ऽणेऽलिखित्वा एऽमात्रा छिन्ना मूलपाठ । ___________________________ तद्यदि लक्षणभेदान्नानात्वम् । षोढा न स्यात्प्रौढानामपि प्रमाणाभ्यां [प्२ ४ ६] व्यवस्था । आद्यमध्यान्ततया सम्मतस्वभावेषु भावेषु प्रथमं दृष्ट्बा द्वितीयदर्शनादाद्यम्; प्रथमान्तयोर्विलोकनान्मध्यम् ; प्रथममध्ययोरवधारणादनन्तरं तृतीयदर्शनादन्त्यव्यवस्था । एष्वपि च यत ज्ञानमुत्पद्यते, तत्राप्येवमभिधातुंशक्यतेः--- "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्त्तितम् । अदृष्टं कारणारब्धं प्रमाणं लोकसम्मतं[२२४] । ।[२२५] __________टिप्पणी__________ [२२४] अदृष्टं कारणारब्धं... ... संमतम् ॥ प्र- वा- भा- २१ पृ- । [२२५] तत्रापूर्वार्थ.... .... वर्त्तितम् । .. सम्मतम् ॥ -प्र- वा- भा- २१ पृ- । ___________________________ उक्तञ्च--- युक्तिमता ।--- [२२६]"दृश्यात्परोक्षे सादृश्य-धीः प्रमाणान्तरं यदि । __________टिप्पणी__________ [२२६] स्ह्: २७. ___________________________ वैधर्म्यमतिरप्येवं प्रमाणं किं न सप्तमम्?" तस्मा ... ... लक्षणभेदग्रहः । प्रमेयभेदे तात्पर्ये ... ... ... ...। अर्थक्रियार्थिनां हि व्यवहर्तृणामुपयुज्यमाने न मानेन प्रवृत्तिविषयःशक्यप्रापणो नियतोऽर्थक्रियासमर्थः प्रत्यक्षोऽप्रत्यक्षश्च प्रमातव्यो विषयः । ततश्च प्रत्ययितप्रदिष्टात्कर्तृविधुरिताच्च वाक्यात्त्रिप्रमाणकशक्तिलक्षणसम्बन्धाद्बृद्धान्तरेण सामान्यात्मना । प्रतिपद्यमानः परोक्षोऽर्थः त्रिरूपलिङ्गप्रत्यक्षो विषये स[२२७]त्यमन्तर्भवति । __________टिप्पणी__________ [२२७] स + त्यमध्येऽप्रऽलिखित्वा छिन्नमिव मूलपाठे । ___________________________ परम्, कर्त्तुराप्तत्वमकर्तृकत्वं त्रिप्रमाणकशक्तिलक्षणसम्बन्धश्च तीर्थसार्थप्रार्थनासहस्राणामप्यविषयः । तथा हि --- आप्त (प्२ ४।६) त्वं दुर्वधानम् । नावधानार्हञ्चाकर्त्तृकत्वम् । सकर्त्तृकत्वसाधनसम्भवात् ।ऽशक्तिवादमयो ... ... ... च कार्यमर्जयितुमूर्जस्वी यः कश्चिद्भावऽ इति प्रतिपादयिष्यते । इत्येवमाप्तत्वादिविशेषणगणो गुणिभिरवगणिते यथायथमर्थैरनान्तरीयकशब्दराशिरवशिष्यते । तस्मात्-- तदुत्थः प्रत्ययः प्रतिभाज्ञानवद्यौक्तप्रत्यवमर्शस्वभावन्न भ्रश्यति । तदुपदर्शितोऽप्यर्थो भावाभावयोरनिय-(+त?) त्वादशक्यप्रापणो न प्रीणाति व्यवहर्त्तॄन् । उपमानस्यापि विषयः परोक्षस्य गोः सादृश्यम्, तदुपाधिर्वा गौः । उभयथापि पूर्वप्रत्यक्षदृष्टस्य गोः सादृश्यं विशेष्यं, विशेषणं वा नार्थक्रियासमर्थो विषयः, सामान्यस्य दूषयिष्यमाणत्वात् । कामिन्याः[२२८] __________टिप्पणी__________ [२२८]ऽण्याःऽ- मू- पा- । ___________________________ षण्ढरूपवैरूप्यवत् ।[२२९]पाकाद्य[२३०]र्थक्रियार्थिनां न प्रार्थनीयः । __________टिप्पणी__________ [२२९] अत्रऽक्तऽलिखित्वा छिन्नम् । [२३०] अत्रऽर्थऽलिखित्वा छिन्नम् । ___________________________ ततश्च सोऽपि न प्रवृत्तिविषयभेदः सन् प्रमाणमेदमुपकल्प्यति वैलक्षण्या[२३१]दिज्ञानवत् । __________टिप्पणी__________ [२३१]ऽणा- मू- पा- । ___________________________ [२३२]नैयायिकोपमानं तु --- __________टिप्पणी__________ [२३२] स्ह्: २८. ___________________________ स्वभावहेतावन्तर्याति । तथा हि --ऽयः शब्दो यत्र वृद्धैः प्रयुज्यते सोऽसति वृत्त्य[२३३]न्तरे तस्य वाचकः । यथा-गोशब्दो गोरर्थस्य । [प्२ ५।५] __________टिप्पणी__________ [२३३] वृत्यान्तर- मू- पा- । ___________________________ प्रयुज्यते चै[२३४]ष गवयशब्दो गोसदृशे प्राणिनीति तस्यैव वाचक इति ज्ञानमनुमानमेव । __________टिप्पणी__________ [२३४]ऽवैषऽ- मू- पा- । ___________________________ षट्प्रकाराप्यर्थापत्तिः सम्बन्धमनादृत्य प्रतिपाद्यानुबन्ध[२३५]नीति वर्णितम् । कथं चासम्बद्धोऽर्थोऽर्थापत्त्या बोद्धव्य इति लब्धवर्णैरैवसुचिरं चिन्तनीयम् । __________टिप्पणी__________ [२३५]ऽधऽ- मू- पा- । ___________________________ पीनो देवदत्तोऽकृतरसायनो दिवा न भुङ्क्ते --इति वाक्यं विवक्षायां[२३६] __________टिप्पणी__________ [२३६]ऽया- मू- पा- । ___________________________ जायते, सा च क्षपाभक्षणविवक्षासध्रीचीना सती पीनादिवाक्यं प्रकल्पयति करणगणप्रेरणया । अन्यथा ---ऽपीनोऽकृतरसायनो दिवेति पदद्वयमनादेयं स्वात् । स्वसन्ताने चैष विवर्त्तो व्युत्पत्तिसमये सम्प्रधारितः । --- अतः, शब्दाद्विवक्षाविशेषानुमितौऽनक्तंऽभुङ्क्तऽ इति वाक्यान्तरे स्थिरमेव विकल्पबुद्धिस्थमर्थान्तरं प्रथयदास्ते । प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति न्यायात् । एतेन --- अन्वयवाक्याद्व्यतिरेकवर्णनं व्याख्यातम् । तेन --- "सामर्थ्यमिच्छतः कीत्तेर्नष्टं द्वित्वावधारणम् ।" इत्यनवधारणाद्गलितम् । एवम् --- [२३७]जीवन् गृहऽ--- इति पदद्वयोपादानात्ऽजीवन् देवदत्तो गृहे नास्तीऽ ति विवृतम् । __________टिप्पणी__________ [२३७] स्ह्: २९. ___________________________ शेषाप्रशक्त्त्यादौ विवादः । अभावः पुनारनुपलबधिः । तद्भावभावानुपल [प्२ ५।५] ब्धीप्रभवाभाव (?) साधनेनानुमानमनन्वयादित्यादिनापि युक्तानुपलब्धीतरकर्चचिते व्यवहारसाधनादनुमानमिति । तदेवम् --- समर्थनियतशक्यप्रापणप्रमेय --- प्रतिबन्धमात्रेण प्रामाण्यमात्रमत्रव्याप्तम् । तद्भेदेन च तद्भेदः । ततो यः प्रत्ययः समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धो न भवति, न स प्रमाणम् । तद्यथा । --- शरदिन्दुकुन्दकमनीयकान्तौ कम्बुबिम्बे जाम्बूनदद्रवदिग्धद्रव्यप्रतिस्पर्द्धी पीतप्रतिभासप्रत्ययः । न भवन्ति च विवादाध्यासिताः[२३८] __________टिप्पणी__________ [२३८]ऽतःऽ- मू- पा- । ___________________________ समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धाः शब्दोपमाना[२३९] __________टिप्पणी__________ [२३९]ऽनोऽर्था- मू- पा- । ___________________________ ऽर्थापत्तिप्रत्ययाः । न चायं व्यापकानुपलव्धो (!) हेतुः । पूर्वप्रतिबन्धप्रति[२४०]पादितप्रमाणवृत्त्यासिद्धाध्यासितः । नापि प्रचण्डनक्तञ्चरचक्र-चक्रने (?)वानैकान्तिकत्वेनाक्रान्तपौरुषः । __________टिप्पणी__________ [२४०]ऽप्रदिऽ- मू- पा- । ___________________________ प्रामाण्यस्य प्रमेयसम्बद्धत्वं व्यापकमन्वयव्यतिरेकाभ्यां निर्णीतम् । अतस्तदधीनं तद्द्वयात्मकत्वं शङ्क्येत ? नापि विरुद्धतया सार्धमयमर्हरूपो (?) वस्तुम् । सपक्षे वीक्षणात् । ननु भवानर्हति द्रव्यदेशी यो विद्यावैदग्घ्यप्रसादः ! ऽशाब्दोपमानादि न प्रमाणमिऽति चार्वाकचर्वितमेवार्चिष्मता चर्वितम् ! इदं तु निरोधबोधसर्वस्वम् । स्वप्रत्यक्षोऽर्थः सम्बन्धाद [प्२ ४ ६] न्यस्यात्मस्वस्वानुबन्धिना स्वभावेन प्रमेयतामलमात्मसात कर्त्तुम् । [२४१]सकलकालकलाकलापव्यापिना च स्वभावेन सम्बन्धावबोधः कार्त्स्न्यं[२४२]च देशानामधिगम्य प्रसञ्जमानो मनोरथानामप्यविषयः । __________टिप्पणी__________ [२४१] स्ह्: ३०. [२४२]ऽत्स्न्यं, - मू- पा- । ___________________________ "अवस्थादेशकालानां भेदाद्भिन्नसु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्ल्लभा[२४३] । ।[२४४] __________टिप्पणी__________ [२४३] अवस्थादेश .... .... .... शक्तिसु । । .... दुर्लभा ॥ --वा (क्य) प(दीये) १।३२; हे- वि- टी- अर्चटेनोद्धृतम् १५४ पृ-, त- स- १४६- का- । [२४४] भावानामनु.... ....दुर्लभा ॥ हे- वि- टी- अर्चटेनोद्धृतम् १५४ पृ-; वा- प- १।३२; त- सं- पं- ४२६ पृ-, १४६० का- । ___________________________ निर्ज्ञातशक्तेरर्थस्य तां तामर्थक्रियां प्रति । विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते[२४५] । ।[२४६] __________टिप्पणी__________ [२४५] निर्ज्ञातशक्ते.... ..... ..... प्रति । .... प्रतिबध्यते ॥ (विज्ञातऽ पाठयुक्) त- सं- प ४२६ पृ, १४६१ का- । वा- प १।३२ । [२४६] विशिष्टद्रब्य.... ....प्रतिबध्यते । --त- सं- पं- ४२६ पृ, १४६१ का- , वा- प १।६३ । ___________________________ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः[२४७] । __________टिप्पणी__________ [२४७] यत्नेनानु.... ....मातृभिः ॥ वा- प १३६; त- सं- पं ४२६ पृ, १४६२ का- । ___________________________ अभियुक्तरैरन्यैरन्यथैवो पपाद्यते[२४८]। । __________टिप्पणी__________ [२४८] अमियुक्तरै.... .... .... पाद्यते । - वा- प- १।३४, त- स- पं ४२६ पृ-, १४६२ का- । ___________________________ हस्तस्पर्शादिवार्थेन विषमे पथि धायता । अनुमानप्रमाणेन विनिपातो न दुर्ल्लभः ॥ अहो ! विद्यप्रसादं ददता त्वया दानातिरा गादात्मवत्ति-विडम्बोऽपि न संवृतः ? तथा हि --- ऽप्रत्यक्षमेवैकं प्रमाणमिऽति ब्रुवता कस्याञ्चिद्ज्ञानव्यक्तौ संवादमुपलभ्य सर्वैव तादृग्विधा प्रमाणमिति परिच्छिन्नापरिच्छिन्न संवादबुद्धिसामान्यविषयोऽयमुपदेशः कृतः । न चानुमेयतां ताद्रूप्येण नातिक्रमति ! अपि च । --- ऽयस्मै प्रसादो देयः सोऽनुमेयः । ततोऽपि न प्रत्यक्षमेवैकमिऽति नियमः । तथा हि --- ऽविसंवादा न प्रमाणमिऽति प्रतिषेधनभिदधानोऽनुपलम्भमेव सम्भावयसि ! प्रामाण्येन त [प्२ ४ ६] देवम् --- [२४९]"प्रमाणेतरसामान्यस्थितेरन्यधियो मतेः । __________टिप्पणी__________ [२४९] स्ह्: ३१. ___________________________ प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् ।" इति सुभाषितम् । यत्पुनरुक्तम् । --- ऽनिर्ज्ञातशक्तेरिऽत्यादि । तत्किमसति विधुरप्रत्ययोपनिपात इति विशेषणं सुभगश्रवण ! नाश्रौषीः ? तस्माज्जन्मतन्मात्रानुबन्धाभ्यां स्वभावप्रतिबद्धत्वात्बोधेऽनाश्वासः परिहार्यः । इदं तु बोधसर्वस्वं स्वीकुरु! ऽअर्थस्यासम्भवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वं समं द्वयम्[२५०] । ।[२५१]" __________टिप्पणी__________ [२५०] अर्थस्यासम्भवे.... .... प्रमाणता । ....द्वयम् ॥ -प्र- वा- भा- ५३७ पृ-, ४।४१७। २०४ ॥ त- सं- पं- ७७५-६ पृ- । [२५१] प्रतिबद्धस्वभाव.... .... द्वयम् ॥ -प्र- वा- भा- ५३७ पृ-, ४।४१७। २०४ ॥ ___________________________ इति । तत्र --- प्रत्यक्षादनुमानस्य भिन्नप्रमाणत्वे प्रयोगः । ऽयत्प्रत्यक्षविषयविलक्षणविषयं न तत्प्रत्यक्षम् । यथा --- उत्सूत्रच्छात्रवाञ्छाविकल्पः । प्रत्यक्षविषयविलक्षणविषयं चानुमानम् । नेदं साध्यसाधनसौधशिरः शेख[२५२]रीकृतं कृतास्पदमसिद्धिपद्धत्या । स्वतः स्वविषयविज्ञानजननाशक्तेः परतो गमकानुगसामान्यरूपेण निरूपणात् । __________टिप्पणी__________ [२५२]ऽषऽ- मू- पा- । ___________________________ [२५३]अनैकान्तिकत्वेनापि नान्तिकमुपसर्पता सर्वेणेव निर्दलितदर्पमुक्तलक्षणप्रमेयसम्बन्धमात्रेण प्रमाणत्वसामान्यो व्याप्तिव(म ?)त् । तद्भेदसम्बन्धेन तद्भेदव्याप्तेः । __________टिप्पणी__________ [२५३] स्ह्: ३२. ___________________________ विरोधोऽपि नेदमध्यवस्यत्यवगाहितुम् । सपक्षे वीक्षणादिति । [इति] तर्करहस्ये स्वपरप्रमाणसंख्यान्यायनि [प्२ ३ ७][२५४]र्णयः[प्रथमः] । __________टिप्पणी__________ [२५४]ऽस्थवऽ- मू- पा- । ___________________________ ________________ _________ प्रत्यक्षलक्ष... ________________ [२५५]तच्चतुर्विधम इन्द्रियज्ञानम् । तदुक्तमनन्तरम् । __________टिप्पणी__________ [२५५] स्ह्: ४५. ___________________________ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम् । "इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थिते । साक्षत्करणतो भाय्वे प्रत्यक्षं मानसं मतम्[२५६] । ।[२५७] __________टिप्पणी__________ [२५६] इदमित्यादि.... .... .... स्थिते । .... मतम्। । प्र- वा- भा- ३०५ पृ-, ३।२४४।४४३ का- । [२५७] साक्षात्करणतो.... .... मतम् ॥ - (णतस्तत्तु पाठयुक्) --प्र- वा- भा- ५०५ पृ-, - ३।२४४।४४३ । ___________________________ सुखात्मीयो विषयो मनसः । तस्यानन्तरो निरन्तरो विषयो मनस एव । अनेन पुनः पुनराबर्त्तनम् । विषयस्याभ्यास उक्तः । तत्सहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेनेति पुरतः स्थितत्वमुक्तं ततो यदुच्यते --- अभ्यासात्परितो निरस्तविभ्रमातङ्कमनङ्कितमाशङ्काकालुष्येणार्थाविनाभावित्वमध्यक्ष[२५८]स्य । तन्मानसप्रत्यक्षस्य फलम् । __________टिप्पणी__________ [२५८] यत्रऽयालिखित्वा छिन्नं मूलपाठे । ___________________________ अन्यदपि षरत्वादि यदुन्मिषति, तदपि मानसस्य गम्यम् । सव्यापारेऽपि चक्षुणि समुत्पद्यमानमपि नेन्द्रियप्रत्यक्षान्तर्भूतम् । स्वसंवेदनवत् । स्वसंवेदनवदेन अभ्यासान्वयव्यतिरेकानुकारि नियतस[२५९]त्वाकारसंसृष्टरूपाकारम्[प्३ ४] अपि चक्षुर्विज्ञानं प्रत्यक्षान्तरमेव । __________टिप्पणी__________ [२५९]ऽशऽलिखित्वा दन्त्यीकरणसङ्केतो मूलपाठे । ___________________________ ऽइन्द्रियज्ञानादुत्पद्यतऽ इत्यन्धवधिराद्यभावप्रसङ्गासङ्गतिः । स्वविषयान्तरविषयसहकारित्वेनापूर्वार्थग्रहणम् । परस्परोपकारित्वे न च सहकारित्वम् । ऽयो हि ज्ञानप्रतिभासात्मनोऽन्वयव्यतिरेकानुकारयति स प्रत्यक्षऽ इति न्यायात् । ज्ञानाकारहेतुरर्थो ग्राह्यः । [२६०]"यस्मिन् स्थिते यदुत्पन्नं स्थित एव विनश्यति । __________टिप्पणी__________ [२६०] स्ह्: ४६. ___________________________ तस्मात्तदन्यदेवास्तु भेदलक्षणसम्भवात्[२६१] । ।[२६२] __________टिप्पणी__________ [२६१] तस्मात्तदन्य... ....सम्भवात् ॥ -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४५ । [२६२] यस्मिन् स्थिते यदु.... ....नश्यति । .... सम्भवात् ॥ -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४५ ॥ ___________________________ वदनप्रतिविम्बं हि वदने सति सम्भवत् । पश्चाद्वदन्तो भिन्नं प्रतिभासस्तथात्मनः[२६३]। ।[२६४] __________टिप्पणी__________ [२६३] पश्चाद बद?तो.... .... ....नः ॥ -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४६ । [२६४] वदनप्रतिबिम्वं.... .... सम्भवत् । .... नः ॥ -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४६ ॥ ___________________________ भिन्नदेशत्वतो भिन्नं प्रतिबिम्बं भवेद्यदि । प्रमाणप्रतिपन्नश्च स भेदो मुखबिम्बयोः[२६५] । ।[२६६] __________टिप्पणी__________ [२६५] प्रमाणप्रतिपन्नश्च.... ....बिम्बयोः ॥ -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४७ ॥ [२६६] भिन्नदेशत्वतो.... .... यदि । .... बिम्बयोः । । -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४७ ॥ ___________________________ प्रतिभासस्य भेदस्य नार्थात्साधनमीक्ष्यते[२६७]। __________टिप्पणी__________ [२६७] प्रतिभासस्य.... ....मीक्ष्यते ॥ -प्र- वा- भा- ३०७ पृ-, ३।२४८।४५० ___________________________ तेनैकतार्थतः सिद्धा नीलादि प्रतिभास[२६८]योः[२६९]। ।[२७०] __________टिप्पणी__________ [२६८]ऽषऽमू- पा- । [२६९] तेनैकतार्थतः.... ....ययोः। । -प्र- वा- भा- ३०६ पृ-, ३।२४८।४४८ । [२७०] प्रतिभासस्य भेदस्य.... ....मीक्ष्यते । ....भासयोः। । -प्र- वा- भा- ३०७ पृ-, ३।२४८।४४८ ॥ ___________________________ यथैव चक्षुरादिभ्य इदानीं प्रतिभासभूः ॥ नीलादेरपि तद्वत्स्याद्योगक्षेमसमत्वतः[२७१]। ।[२७२] __________टिप्पणी__________ [२७१] नीलादेरपि.... ....त्वतः ॥ -प्र- वा- भा- २०७ पृ-, ३।२४८।४४६ । [२७२] यथैव चक्षुरादि..... .... भूः । .... मत्वतः ॥ -प्र- वा- भा- ३०७ पृ-, ३।२४८।४४९ । ___________________________ यथैव चक्षुरादिभ्योऽर्थस्य प्रागेव सम्भवः । प्रति भासस्य तद्वत्स्यादिति नैबेदमीक्षते" ॥[२७३] __________टिप्पणी__________ [२७३] यथैव चक्षुरादि..... .... सम्भवः । .... मीक्षते ॥ -प्र- वा- भा- ३०७ पृ-, ३।२४८।४५० । ___________________________ तस्माद्यदीष्यते भिन्नो नीलादिः प्रतिभासतः । प्राक्सत्त्वं तस्य नीलादेः प्रतिभासादितीष्यताम्[२७४]। ।[२७५] __________टिप्पणी__________ [२७४] तस्माद्यदीष्यते... .... सतः । .... तीष्यताम् ॥ -प्र- वा- भा- ३०७ पृ-, ३।२४८।४५१ । [२७५] प्राक्सत्त्वं तस्य.... ....तीष्यताम् ॥ -प्र- बा- भा- ३०७ पृ-, ३।२४८।४५१ । ___________________________ तदनन्तरमुत्पन्ननीलादि प्रतिभासवत् । विज्ञानं ग्राहकं तस्यामित्ररूपग्रहो यथा[२७६] । ।[२७७] __________टिप्पणी__________ [२७६] तदनन्तरमुत्प... ....वत् । ...यथा ॥ -प्र- वा- भा- ३०७ पृ-, ३।२४८।४५२ । [२७७] विज्ञानं ग्राहकं.... .... ... यथा । -प्र- वा- भा- ३०७ पृ-, ३।२४८।४५३ । (किञ्चित्पाठान्तरेण) ___________________________ निष्पादितक्रिये किञ्चिद्विशेषमसमादधत् । ? कार्यानीन्द्रियमन्यद्वा न साधनम् ... ... ... । इति साधनन्यायमतिप[प्३ ४]तति ॥ सर्वचितचैत्तानामात्मसंवेदनमपि प्रत्यक्षम् । चित्तमर्थमात्रग्राहि । चैत्ताः तद्विशेषावस्थाग्राहिणः सुखादयः । सर्वशव्देन विकल्पोऽपि सङ्गृह्यते । शब्दार्थग्राहि यद्यत्रज्ञानं तत्तत्र कल्पना । स्वरूपं च न शब्दार्थस्तत्रा...(?)क्षम...(?)ओऽखिलम्[२७८] । ।[२७९] __________टिप्पणी__________ [२७८] स्वरूपं च न.... .... ....खिलम् ॥ -(श्च पाठयुक्)- प्र- वा- भा- ३३१ पृ-, ३।२८८ का- ॥ [२७९] शब्दार्थग्राहि यद्... ... कल्पना । .... खिलम् ॥ -प्र- वा- भा- ३२१ पृ-, ३।२८८ का- । ___________________________ [२८०]एषामात्मा ग्राह्यग्राहकाकाररूपः संवेद्यते येन । अपरोक्षता कुतो भवति ? येन रूपेण तत्संवेदनमाम्नातम् । तच्च रूपं ग्राह्यग्राहकाकारपरोक्षतानामैक्यम् । यथा च सुखम् । यथा च नीलाद्याकारः । यथा चापरोक्षता । समसमयसम्भवितया नियमेनानुभवानुसारिणां प्रत्यवमर्शेन व्यवद्रियते । तथैक्यमप्येषा । __________टिप्पणी__________ [२८०] स्ह्: ४७. ___________________________ तथा च --- "भि[२८१]न्नसंवेदनस्यैक्ये यन्नैवं तद्विभेदवत्[२८२] । __________टिप्पणी__________ [२८१] अभिन्न मूलपाठे । [२८२] भिन्नसंवेदन.... .... विभेदवत् । -प्र- वा- भा- ३२५ पृ-, ३।५८७ का- । ___________________________ सिध्वेदसाधनत्वेऽस्य न सिद्धं भेदसाधनम्[२८३]। । __________टिप्पणी__________ [२८३] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- ३२५ पृ-, ३।२८७ का- । ___________________________ भासमानै स्वरूपेण पीडा दुःखं स्वयं यदा । न तदालम्बनं ज्ञानं[२८४]न तदेवं प्रसज्यते[२८५]। ।[२८६]" __________टिप्पणी__________ [२८४] यत्रऽतऽलिखित्वा छिन्नं मूलपाठे । [२८५] न तदालम्बनं.... .... प्रयुज्यते ॥ -प्र- वा- भा- ४४१ पृ-, ३।४५९ का- । [२८६] भासमानं स्व.... .... यदा । .... प्रयुज्यते ॥ --वा- १३० पृ-; प्र- वा- वृ- २।४५९; प्र- वा- भा- ४४१ पृ-, ३] ४५९ का- । ___________________________ इति ग्रन्थो विवृतः । तदेव च योग्यत्वमुच्यते । यतश्चक्षुरात्लोकालम्बनसमनन्तरप्रत्ययाज्ज्ञायमानमेव सुखमपरोक्षं जायते । यथा जायनान एवालोकोऽनन्धकारः । उक्तं च --- "प्रकाशमानस्तादात्म्यात्स्षरूपस्थ प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी[२८७] । ।"[२८८] __________टिप्पणी__________ [२८७] प्रकाशमानस्तादा.... .... प्रकाशकः । .... वेदिनी ॥ -प्र- वा- भा- ३५३ पृ-, ३।३३- का- । [२८८] यथा प्रकाशोऽभिमतः .... रात्मभेदिनी । -प्र- वा- भा- ३५३ पृ-, ३, ३३० का- । ___________________________ मित्रपादाश्च --- ऽपरव्यापारवारणमिऽत्याहुः । "विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते[२८९]। __________टिप्पणी__________ [२८९] विज्ञानं जडरूपेभ्यो.... .... जायते । --त- सं- २००० का- । ___________________________ इयमेवात्मसंवित्तिरस्य याजड[प्३ ५] रू(+प)ता ॥ कियाकारकभावेन न स्दसंवित्तिरस्य तु । एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः[२९०]। । __________टिप्पणी__________ [२९०] एकस्यानंशरूपस्य... ...पत्तितः ॥ त- सं- २००।१ का- । ___________________________ इति चाचार्याः स्वात्म?इ ?इ?आविरोधं परिहृतवन्तः । स्थितमेतत्तत सुखादिस्वसंवेदनं न स्थितम् । नैव सुखादयः संवेदनरूपाः । [२९१]"एकार्थसमवायिना तु ज्ञानेन संवेद्यन्त" ---इति नैयायिकाः । __________टिप्पणी__________ [२९१] स्ह्: ४८. ___________________________ न । इह नीलादौ दृश्यमाने समानकालमान्तरः सुखाद्याकारोऽनुभूयते निश्चीयते चेति कथमुपपद्यताम् ? एकार्थाश्रयिणा विज्ञानेन वेद्यत्वे सतीति चेत्? तत्किमेकार्थाश्रयि ज्ञानमक्षजम् ? तथा चेत्? तदा यस्य हि ललितललनालावण्यादिरर्थस्योपनिपातेन सुखादयो धीश्च जाताः तं मुक्त्वा सुखादीनेव सा कथं प्रतिपद्येत? तदाह --- "यस्यार्थस्य निपातेन ते जाता धीसुखादयः । मुक्त्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम्[२९२]? ॥[२९३] __________टिप्पणी__________ [२९२] मुक्त्वा तं प्रतिपद्येत.... .... कथम् । - (तं मुक्त्वा पाठयुक्) प्र- वा- भा- ३१४ पृ-, ३।२५६ का- ॥ [२९३] यस्यार्थस्य निपातेन.... .... सुखादयः । .... सा कथम् ? ॥ -प्र- वा- भा- ३१४ पृ-; ३।२५६ ॥ ___________________________ अथ --- सुखमात्मनो योगमात्रं ज्ञेन ज्ञानेनानुभूयतेऽक्षजेनार्थः । अत्रापि --- "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इति वचनात् । क्रमेण चेत्? "अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे । तल्लाघवाच्चेत्? तत्तुल्यमित्यसंवेदनेन किम्[२९४]? ॥[२९५] __________टिप्पणी__________ [२९४] अविच्छिन्ना न.... .... .... क्रमग्रहे । ....किम् ॥ -प्र- वा- भा- ३१५ पृ-, ३।२५७ का- ॥ [२९५] तल्लाघवाच्चेत्.... ....किम् ॥ -प्र- वा- भा- ४१५ पृ-, ३।२५७ का- । ___________________________ तुल्यं खलु ! लाघवं विषयवेदने सुखवेदने चऽ इत्यसंवेदनं न (नेन ?) किम् ? पर्यायेणार्थसुखयोरन्यतरस्य परस्परानुपलम्भत्वेनाभावरूपत्वात् । सन्तानसुखवेद [प्३ ५]नमेव विषयसन्ततावेदनम् । एवं --- विषयसन्ततवेदनमेव सुखसन्ततावेदनम् । अथापि स्यात् । अक्षजया --- ऽयुगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इत्येकया द्वयज्ञानम् । न । चक्षुरादीन्द्रियजं विषयप्रतिनियतं कथं सुखादीन्न गृह्वीयात्? सुखमन्तरेणार्थाच्च जातेर्धियस्तस्य सुखस्या शक्तिसिद्धिरतोऽपि कारण[२९६]त्वाभावान्न सुखं ग्राह्यम् । अथापि स्यात् । यथा--नीलं पीतं च पृथगपि शक्तम्, संहतावपि । तथादिर्विषयश्च पृथक्संहतावपि स्वज्ञानजनने शक्तः स्यात्! __________टिप्पणी__________ [२९६] स्ह्: ४९. ___________________________ ऽयद्येवं केवलमपि सुखं गृह्येत नीलवत् ।ऽ न च सुखहेतुविषयं ग्राह्यमन्तरेण सुखवेदनं युक्तम् । अथापि--- सरससरसीरुहधीभ्रमभ्राजमानसुहृदवदनेनेवार्थेन सह ग्रहः । तथापि न सामर्थ्यं सुखस्य स्यात् । अन्वयव्यतिरेकाभावात् । न च परस्य सुखसामर्थ्याभ्युपगम इन्द्रियधियं प्रति । अथ --- विनार्थेन चक्षुरादिभिः सुखं गृह्यते । तदानुकूलत्वादिनास्त्यादिभेदो न गृह्येताक्ष्ना । अन्तरङ्गत्वात्सुखादावेवाक्षमतिः स्यात् । अथापि-- युगपदेव बुद्धिरुदयति, तत्तद्विषयसम्भवात् । तदा --- सुखदुःखविदौ सदा स्याताम् --- हेमन्ते शीतमारुताशनस्पर्श(+आ)भ्यामिव । रणरसासक्तचेतसः स्वामिसम्माननिष्क्र(ष्क्र ?)यं चिकीर्षतः निशितनिस्विशनिष्पेषमप्यनुभवतो भवेतां सुखदुःखविदौ । न चैवम् [प्३ ६] । तस्मादलीककल्पनाभिरलम् । सरलेनैव क्रमेण --- ऽसार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि । दृष्टं जन्मसुखादीनां तत्तुल्यं मन्सामपि[२९७]। ।[२९८] __________टिप्पणी__________ [२९७] दृष्टं जन्म सुखादी.... .... मपि । । -प्र- वा- भा- ३१० पृ-; ३।२५३ का- । [२९८] सार्थे सतीन्द्रिये.... ....चेतसि । .... मनसामपि ॥ -प्र- वा- भा- ३१० पृ-, ३।२५३। का- ॥ ___________________________ असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् । दृष्टं सुखादेर्बुद्धेर्वा तत्ततो नान्यतश्च ते[२९९]। ।[३००] __________टिप्पणी__________ [२९९] असत्सु सत्सु... ... .... क्व चित् । .... ते । । -प्र- वा- भा- ३१- पृ- ३।२५४ का- ॥ [३००] दृष्टं सुखादे.... .... श्च ते । .... प्र- वा- भा- ३१० पृ-, ३।२५४ का- । ___________________________ सुखदुःखादिभेदश्च तेषामेव विशेषतः । तस्या एव यथा बुद्धेर्मान्द्यपाटवसंशयाः[३०१]। ।[३०२] __________टिप्पणी__________ [३०१] तस्या एव यथा... ...संषयाः ॥ -प्र- वा- भा- ३१० पृ- ३।३५५ का- । [३०२] सुखदुःखादिभेद.... .... विशेवतः । .... संशयाः ॥ -प्र- वा- भा- ३१० पृ-, ३।२५५ का- । ___________________________ [३०३]इत्यक्ष(+मु) पगम्यताम् । __________टिप्पणी__________ [३०३] स्ह्: ५०. ___________________________ ऽतस्मात्सुखादयोऽर्थानां स्वसङ्क्रान्तावभासिनाम् । वेदकाः स्वात्मनश्चैवमर्थेभ्यो जन्म केवलम्[३०४]। ।[३०५]" __________टिप्पणी__________ [३०४] तस्मात्सुखादयो... .... भासिनाम् । .... केवलम् । । -प्र- वा- भा- ३१९ पृ-, ३।२६७ का- ॥ ३२१ पृ- ३।२६७ का- । [३०५] वेदकाः स्वात्मनश्चैषां.... जन्म केबलम् ॥ -प्र- वा- भा- ३१९ पृ-, ३।२६७ का- । ___________________________ अमी सुखादयः स्वसङ्क्रान्तार्थावभासवेदनाद्वारेणार्थस्य वेदकाः । स्वात्मनश्च जडव्यावृत्ततया । कुतस्तर्हि उत्पद्यन्ताम् ? उक्तमेव --- "चक्षुरादीन्द्रियालोकालम्बनसमनन्तरप्रत्ययेभ्यः ।" तस्मात्--- सधूक्तम् --- "इह नीलादौ दृश्यमाने समानकालमान्तरः मुखादिर्नियमेनानुभूतनिश्चितस्तथैव व्यवहत्तव्यः । सामग्रीभेदादपि न भेदोऽस्य । ऽतदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्[३०६]? ॥[३०७] __________टिप्पणी__________ [३०६] तत्सुखादि .... ....हेतुजम् ॥ -प्र- वा- भा- ३०९ पृ-, ३।२५२ का । [३०७] तदतद्रूपिणो.... .... हेतुजाः । हेतुजम् । । -प्र- वा- २।२५१; प्र- वा- भा- ३०९ पृ, ३।२५२ का । ___________________________ न कार्यभेदादपि भेदः । एकतोऽप्यनेककार्यदर्शनात् । सुखदुःखादिभेदोऽपि सामग्रया एवावान्तरविशेषात् । बुद्धेर्मान्द्यपाटवसंशयादिवत् । एतेन --- सुखादेर्ज्ञानान्तरग्राह्यत्वम्, ज्ञानविलक्षणसामग्रीजन्यत्वं च । सत्त्वरजस्तम [प्३ ६] सां साम्यावस्था प्रकृतिः, प्रधानम् । ततो बुद्धिरतोऽहङ्कारः । ततः पञ्चतन्मात्राणि शब्दादीनि । ततः पञ्चबुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्घ्राणजिह्वाख्यानि । पञ्च कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाख्यानि । मनश्च । पञ्चतन्मात्रेभ्यः पञ्च महाभूतानि व्योमवातज्वलनजलभेदिनी[३०८]नामानि । एतानि जडानि । __________टिप्पणी__________ [३०८] मेदनी - मू- पा- । ___________________________ पुमांश्चेतनः । चैतन्यं निजमस्य रूपम् । बुद्धिः पुनरेका सर्वव्यापिनी, निरवयवा, स्वच्छा, दर्पणप्राया, सर्वप्रतिबिम्बवतो । तत्र रूपादयः प्रधानपरिणा[३०९]मतया सुखाद्यात्मकाः बुद्धिदर्पणबिम्बिताः । पुंसोऽपि तत्रैव बिम्बनात्, तेन गृह्यन्ते । बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत इति चोच्यते भोक्त्तृत्वमस्य । एतावदेव । __________टिप्पणी__________ [३०९] स्ह्: ५१. ___________________________ अस्यां प्रक्रियायामयमपरो विशेषोऽवगन्तव्यः । शब्दादयो भूतात्मना परिणताः, भूताद्यपि कुम्भाम्भोधरधरादिप्रभेदेन । उक्तं च --- "आकारो गौरवं रौक्ष्यं धरणं स्थैर्यमेव च । स्थितिर्भेदः क्षमा कार्ष्ण्यं छायायाः सर्वभोग्यता ॥ इत्येते पार्थिवा धर्मास्तद्विशिष्टास्तथापरे । जलाग्निपवनाकाशव्याप्तास्तां (+स्ता) न्निबोधत ॥ इति । अत्रऽछायाया इति कार्ष्ण्यापेक्षया षष्ठी "कृष्णाच्छायेऽत्यर्थः । तदेवम् --- पुरुषप्रतिबिम्बेन श्रोत्रादिवृत्त्या शब्दादिप्रतिबिम्बो बुद्धौ स्वच्छायां प्रधानपरिणामत्वेन च शव्दा[प्३ ७] दीनामात्मभूतः सुखादिप्रतिविम्बमानो वेद्यते । तस्मात्न आन्तराः । नापि चैतन्यात्मानः सुखादयःऽ इति सा[३१०]ङ्ख्यः प्रत्यवतिष्ठते । __________टिप्पणी__________ [३१०] शा मू- पा- । ___________________________ इदं स्वाभिप्रायेण सा[३११]ङ्ख्यस्य प्रक्रियाज्ञानमस्तु । सन्तस्तु प्रमाणसहं सहन्ते । सुखादीनामान्तरत्वमनुभवात्मत्वमवश्यं श्यामाद्याकारेण सह स्फुरत्वं संबादवेदनाद्व्यवस्थापितं कथमन्यथा कर्त्तुं शक्यते । __________टिप्पणी__________ [३११] शा मू- पा- । ___________________________ शक्यते बुद्धावहङ्कारः । अहङ्कारास्पदे अन्तरे भवत्वादान्तरत्वम् । तत्रैव च नित्यचैतन्यप्रतिबिम्बनाद्भ्रान्त्तया अनुभवात्मत्वम् । नीलाद्यात्मत्वात्सुखादीनां सह स्फुरत्वमिति चेत्? [३१२]न । __________टिप्पणी__________ [३१२] स्ह्: ५२. ___________________________ वेदनादन्यस्या बुद्धेरभावात् । ऽमुक्त्त्वाध्यक्षस्मृताकारां संवित्ति बुद्धिरत्र का[३१३]?ऽ नित्यचेतनच्छाययाच्छुरितत्वं पुनः छद्भैव । __________टिप्पणी__________ [३१३] मुक्त्वाध्यक्ष.... ....त्र का । -प्र- वा- भा- ३२५ पृ, ३।२७६ का । ___________________________ ऽ... ... ... ... ... ... संवेद्यत्वाच्च चेतनाः । संवेदनं न यद्रूपं नहि तत्तस्य वेदनम्[३१४]।" __________टिप्पणी__________ [३१४] संवेदनं न... .... .... वेदनम् ॥ (तस्मात्भ्रान्तरा एव संवेद्य-)-प्र- वा- २।२७४; -प्र- वा- भा- ३२४ पृ, ३।२७५ का । ___________________________ ऽइदमस्य वेदनमिऽति सम्बन्धस्य निबन्धनमभिधानीयम् । न चैतन्यमात्रं तन्निबन्धनम् । चक्षुरादावपि प्रसङ्गात् । तस्माद्--- वेद्येनार्थेन वेदनस्य सारूप्यं तन्निबन्धनं सा[३१५]ङ्ख्यप्रत्ययिदृष्टान्तोऽस्ति । यथा --- नीलस्वरूपं वेदनं नीलस्य वेदकम् । तथा--- सुखस्यापि वेदनेन सुखस्वरूपेण वेदितव्यम् । __________टिप्पणी__________ [३१५]ऽशामू- पा- । ___________________________ उपधायकं तर्हि नीलवत्सुखमन्यदपि स्यात्? न । त्वत्पक्षेऽपि सुखरूपमेव हि संवेदनं सुखमवैति, नान्यदि[प्३ ७]ति साकारं ज्ञानमस्तीति साधितमस्माभिः । तच्च स्वरूपवेदनं क्वचित्सोपधानम्, क्वचिच्च निरुपधानम् । इदमेव च नः सुखं यत्सात्तं (?) संवेदनं नाम । न सात्तसंवेदनादन्यार्थक्रियात्र यद्वशादुपधायककल्पनं हि नीलस्य । नीलसंवेदनमेव फलम्[३१६]। किन्तु, रञ्जनादिकमपि । तद्वशात्तत्र परिकल्पना । __________टिप्पणी__________ [३१६]ऽलऽमू- पा- । ___________________________ अत्र पुनः, संवेदनमेवैकमान्तरं प्रीतिपरितापरूपं पश्यामः । ऽएकमिऽत्यनेन न वाह्यारोपितत्वविशेष उच्यते । [३१७]तथा हि --- __________टिप्पणी__________ [३१७] स्ह्: ५३. ___________________________ नान्यत्र्सवेदनं ग्राहकम् । अन्यश्च[३१८]सुखाद्याकारो ग्राह्यरूपः प्रत्यवभासते । येन ग्राहकाकाराद्विच्छिन्नस्य सुखादेर्बहीरूपतया वा[३१९]क्ष (ह्य ?)कृतत्वं विद्भः । नहि य आकारो वहीरूपेण ग्राह्याकारतया नावभासते स स[३२०]र्वाक्ष(स बाह्य ?) कृतः । तद्यथा --- चेतनाया आकारः । __________टिप्पणी__________ [३१८]ऽन्याश्चऽमूलपाठः । [३१९]ऽतावाक्षऽ-मूलपाठः । [३२०]ऽते सर्वामूलपाठः । ___________________________ तथा च स्वर्गाद्याकारः । एतदेवोक्तम् ।--- ऽआन्तरमान्तरेऽहङ्कारास्पदेऽङ्गुष्ठात्मर्धा (न्मूर्धा ?)ऽवधियदन्तः प्रष्टव्यवेदनाऽकारे ग्राहके सुखादिरूपं संवेदनं सन्निविष्टं, न बाह्येग्राह्याकारे ।ऽ नहि सुरभिकर्कशाद्यनुभवतः तदेव बाह्यं वस्तु सुखितं, दुःखितं हृष्टं, द्विष्टं वा प्रत्यवभासते । किन्तु, ततो विच्छिन्नमहङ्कारास्पदमान्तरं ग्राहकमेवंरूपं हृष्टं द्विष्टं वा प्रतिभाति । तदेवम्--- ऽग्राहकरूपसन्निविष्टस्य सुखादेर्बाह्यार्थाध्य[३२१]वसाया--[प्३ ८] __________टिप्पणी__________ [३२१] अत्रऽयऽलिखित्वा छिन्नं मूलपाठे । ___________________________ भावान्न वाह्यारोपितत्वम् । अतोऽस्माकं न वाह्याः सुखादयः प्राप्नुवन्तीति । अत एव--- योगिनां परसन्तानवर्त्तिनः सुखादिरागादीनामालम्बमानानां बाह्येन स्तम्भादिकरूपेणा[३२२]ऽनहङ्कारास्पदेन ग्राह्याकारेण सुखिते न रक्ते न द्विष्टे न वा दुःखितत्वरक्तत्वादिप्रसङ्गः । __________टिप्पणी__________ [३२२]ऽनामूलपाठः । ___________________________ आन्तरत्वेनैव[३२३]वेदनान्न नीलाद्यात्मकत्वेन नीलादिना सह स्फुरत्वम् । __________टिप्पणी__________ [३२३] स्ह्: ५४. ___________________________ अत्रार्थे युक्तिरप्युच्यते --- ऽये बाह्यातिशयनिरपेक्षभावनातिशयभावाभा (+ वा)ऽनुवन्धिनस्त आन्तराः । यथा ---प्रज्ञा । आल[३२४]म्व्यमानशब्दाद्यतिशयनिरपेक्षभावनातिशयभावाभावानुवन्धिनश्च सुखादयः ।ऽयो भावनयेष्टाद्याभासः सर्वात्मना विनिवर्त्तते, विपरीतश्च प्रवर्त्तते, न स बाह्यविशेषभावाभावानुविधायीऽ इतीदृशोऽत्राभिप्रायोऽभिप्रेतः । इहाप्येकस्मिनेव लवणद्रव्येऽव्यग्र ... ... ... ... सौख्यमुष्ट्राणां कष्टं चान्तरमन्येषां संवेदनमुत्प ( +द्य) ते यथा, तथैकस्मिन्नेव शब्दादानुपकारापकारौदासीन्यभाजि भाव्यमाना साभासा तयोरन्यथात्वापत्ति[३२५]रुत्कर्षश्च । भावनाजातत्वेनान्तरः ।ऽयदहङ्कारास्पदत्वेनाभ्यस्यते तत्तथैव भावनाप्रकर्षे निष्पद्यतऽ इति यावत् । __________टिप्पणी__________ [३२४]ऽलव्यऽमूलपाठः । [३२५] अत्रऽकऽलिखित्वा छिन्नं मूलपाठे । ___________________________ बाह्मातिशयनिरपेक्षभावनातिशयभावाभावानुबन्धित्वमात्रानुबन्धित्वेना [प्३ १] नान्तरत्वस्य स्वभावहेतुरयं नासिद्धिदोषावकाशमाश्रयति । श्रियमपि हि हितत्वेनासकृद्भावयननुकूलधीर्धीरहृदयः । प्रागेष पुत्रकलत्रादिकम् । अनैकान्तिकत्वमपि कीर्त्तितमकीर्त्तिकरमेव । अनान्तरत्वं हि बाह्यत्वम् । तच्च बाह्यभावाभावानुविधायित्वेन व्याप्तम् । यथा नीलस्य विज्ञाने नीलभावाभावानुविधायि न पीतस्य । तथेहापि बाह्यातिशयनिरपेक्षभावातिशयभावाभावानुविधायि सुखं भाव्यमानमान्तरमेव भवति । अत एव ।--- विरोधोऽपि ययोर्विरोधनिपतितः । सपक्षे विक्षणात् । समासस्त्वयम् --- [३२६]यदान्तरत्वेनाभ्य[३२७]स्यते तदान्तरमेव स्फुटाभं भवति । यथा यथाभूतमतिः । आन्तरत्वेन चाभ्यस्यन्ते सुखादयस्तथा । यत्संवेद्यते, तत्संवेदनरूपम् । यथा --- नीलम् । __________टिप्पणी__________ [३२६] स्ह्: ५५. [३२७] अत्रऽभ्यऽइति अधिकं लिखित्वा छिन्नं मूलपाठे । ___________________________ संवेद्यते च सुखादिकम् । सा[३२८]ङ्ख्ये --- __________टिप्पणी__________ [३२८]ऽशामूलपाठः । ___________________________ प्रतिबाधकं हि प्रमाणमदृष्टान्तमपि दृष्टान्तयन्ति (ति?) तच्च--- ऽसवेद्यत्वाच्च चेतना । संवेदनं न यद्रूपं नहि तत्तस्य वेदनम्[३२९]। ।" __________टिप्पणी__________ [३२९] संवेदनं न... .... .... वेदनम् ॥ (तस्मात्भ्रान्तरा एव संवेद्य-)-प्र- वा- २।२७४; -प्र- वा- भा- ३२४ पृ, ३।२७५ का । ___________________________ इत्यत्रान्तरे विवेचितम् । तर्हि--- विज्ञानवादः प्रसक्तः ।ऽन किञ्चित्सोपधानमनुपधानं च किञ्चिदिऽत्यत्रान्तरे विवेचितम् । सा[३३०]ङ्ख्यीयबुद्धिस्वभावसुखाद्युत्कर्षापकर्षौ भावनयेत्यपि --- __________टिप्पणी__________ [३३०]ऽशामूलपाठः । ___________________________ ऽमुक्त्त्वाध्यक्षस्मृताका?ं संवित्ति बुद्धिरत्र का[३३१]? ॥ __________टिप्पणी__________ [३३१] मुक्त्वाध्यक्ष... ...त्र का ॥ -प्र- वा- भा- ३२५ पृ, ३।२७६ का ।; ___________________________ इत्यनेन गतार्थम् । संसर्गादिविभागः स्फुटा [प्३ ९]ऽयोगोलकवह्निवदिऽत्यपि परापेक्षया साध्यविकलं सामग्रीवशादेकमेवायोगोलकं वस्तु वदामः । वातशीतादिसामग्र्यन्तरवशाद्वा प्रभास्बरायोगोलकजन्मजम् । [३३२]भट्टार्चटपादैरप्युक्तम्--- __________टिप्पणी__________ [३३२] स्ह्: ५६. ___________________________ "तन्मूलमन्यदेवेदं गुडनागरसंज्ञितम्[३३३]। __________टिप्पणी__________ [३३३] तन्मूलमन्य... ...संज्ञितम् ॥ हे- वि- टी- १०३ पृ- । ___________________________ एवम्--- पा?कलडु?कात्मकमेकमेवेदं द्रव्यं वेदितव्यम् । उपादानमप्यत्र यदनुवर्त्तते तद्वेदितव्यम् । प्रत्यक्षसुखादिस्वरूपात्मकपुरुषभोगपक्षेऽपि--- "अभिन्नवेदनस्यैक्ये यन्नैवं तद्विभेदवत् । सिद्ध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम्[३३४]। ।[३३५] __________टिप्पणी__________ [३३४] अभिन्नवेदन.... .... .... भेदवत् । .... साधनम् ॥ -प्र- वा- भा- ३२५ पृ-, २७९ का- ; -प्र- वा- वृत्तौ २।२७ ॥ [३३५] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- ३२५ पृ-, ३।२८७ का- ___________________________ भिन्नाभः सितदुःखादिरभिन्नेबुद्धिवेदने । अभिन्नाभे विभिन्ने[३३६]चेद्भेदाभेदौ किमाश्रयौ? ।" __________टिप्पणी__________ [३३६]ऽन्नेवचेद्ऽमूलपाठः । ___________________________ पूर्ववन्निर्विकल्पकमभ्रान्तं च । स्वसंवेदने प्रमाणादिव्यवस्थापि--- "तत्रानुभवरूपत्वात्ते योग्याः स्वात्मसंविदि । इति सा योग्यतामानमात्मामेयः फलं स्वविद्[३३७]। ।"[३३८] __________टिप्पणी__________ [३३७] इति सा योग्यता.... .... स्वविद् ॥ प्र- वा- भा- ४०१ पृ-, ३।६६६ का- ॥ [३३८] तत्रानुभव.... .... संबिदि । .... स्ववित् ॥ -प्र- वा- भा- ४०१ पृ-; ३।३६६ का-; त- सं- पं- ३९८ पृ- । ___________________________ इत्यनेनावगन्तव्या । भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् । भूतार्थत्वेन प्रमाणवृत्ति ।ऽभावनाप्रकर्षेऽत्यनेन जन्मपरम्परासिद्धिः । पर्यन्तगत्वेन निर्विकल्पकत्वाभ्रान्तत्वे । तत्र भूतः सत्यः । प्रमाणदृष्टश्च सत्यः । अर्थ्यत इत्यर्थः, हेय उपादेयश्च । हेयो हि हातुमर्थ्यते, उपादेयश्चोपादातुम् । तत्र हेयं दुःखसत्यम्, [प्३ ९] समुदयसत्यसहितम् । उपादेयं निरोधसत्यम्, मार्गसत्यान्वितम् । चतुर्भिश्च साभ्युदयहेयोपादेयतत्त्वैः साङ्क्लेशिको वैवदानिकश्च सकलः पदार्थः सङ्गृहीतः । तत्र निरवशेषं वस्तु जानातु । मा वा[३३९]ज्ञासीत् । __________टिप्पणी__________ [३३९] स्ह्: ५७. ___________________________ किं तेन दुःखक्षयमाप्तुकामानां तदुपाये प्रवर्त्तितुमच्छताम् ? "कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते[३४०]?" __________टिप्पणी__________ [३४०] कीटसङ्ख्या.... .... ...युज्यते ॥ -प्र- वा- भा- २।३२ का- ॥ ___________________________ तस्मात्--- परिमितानामप्यस्मदभिमतानां साभ्युपायहेयोपादेयतत्त्वानाम् --- ऽज्ञानवान्मृग्यतेऽस्माभिस्तदुक्तप्रतिपत्तये[३४१] ।" __________टिप्पणी__________ [३४१] ज्ञानवान्मृग्यते... ... पत्तये ॥ -प्र- वा- भा- ५३- पृ-, २।३१ का- । ___________________________ सर्वंविषयं ज्ञानमस्य --- ऽनास्माभिः शक्यते ज्ञातुमिति सन्तोष[३४२]इप्यते ।" __________टिप्पणी__________ [३४२] अत्रऽबा इति लिखित्वा छिन्नं मूलपाठे । ___________________________ यथा --- कुम्भेनाम्भसां परिमाणापरिच्छि(च्छे ?)देऽपि गङ्गायाः स्वयमुपयोक्तव्यसलिलपरिकल्पनादेव कृतार्थतार्थिनाम् । यथा --- वस्तुनः कार्त्स्न्येन निखि(+ल) ज्ञस्यापि ज्ञने । तेनैवऽभूतार्थेत्यत्र न सर्वंपदोपादानम् । अर्थिनामुपयुज्यमानेन ज्ञानेन च सर्वज्ञव्युत्पादनम् । भूतार्थस्य भावना पुनश्चेतस्यारोपः । तस्याः प्रकर्षः स्फुटत्वारम्भः । तस्य परिसमाप्तं गमनं पर्यन्तः । तस्माज्जातं रूपादिस्कन्धपञ्चकानित्यत्वादि विषयम् । द्विविधं हि धर्मधर्मभावनाभेदेन तत्फलम् । तत्र---कामिनीवियुक्तस्य कामावेशवशादुपनततद्भावनस्य स्फुटः कामिन्याकारः प्रत्ययो धर्मिभावनाफलम् [प्४ १] । ऽयथा विप्लवमावेगप्रतिपत्तिप्रदर्शनात् । परोक्षगतिसंज्ञायां तथावृत्तेरदर्शनान् ॥ विस्वरसे प्रियत्वमभ्यस्यतो रसनासङ्गिनि विस्वरसेऽपि प्रियत्वं स्फुटं स्फुरद्धर्मभावनाफलम् । तदर्थं भूतग्रहणम् । [३४३]अन्यथा --- __________टिप्पणी__________ [३४३] स्ह्: ५८. ___________________________ प्रत्यक्षप्रमाणप्रभेदप्रस्तावान्न अभूतस्य सम्प्राप्तिः । यां हि दशामभिनिविश्य भाबना बृत्ता, तस्या अतिबृत्तत्वात् । अपरासां च दशानामुत्पादे महीमहीधरावपि योगिज्ञानमप्रमाणं किमङ्ग! गङ्गातरङ्गादौ प्रतिक्षणभङ्गुरे ? धर्मभावनापक्षे तु --- किमपि वस्त्वस्तु । तद्गतमनित्यत्वादि स्फुटं स्फुरति । विस्वरसेऽपि यत्नवत् ।ऽनहि सर्वे विस्वरसाः स्फुटं स्फुरन्तीऽति तत्र धर्मभावनाफलवर्णनम् । किं तर्हि ? यत्स्फुरति तत्प्रियत्वाश्लिष्टम् । तद्वदिहापि यत्किञ्चिद्वस्तुजातं यातं प्रत्यक्षताम्, तत्क्षणक्षय्यत्वेनालिङ्गितम् । न तु यावत्किञ्चिद्वस्त्वस्ति, समस्तमेत[३४४]दाभाति योगिज्ञाने । दृष्टश्च भावनाप्रकर्षपर्यन्तभाव्यमानस्फुटभावत्वयोः कामशोकभयोन्मादचौरस्वप्नाद्युपप्लवावस्थायां कार्यकारणभावः । कस्यचित्किञ्चित्प्रसिद्धमिति दृष्टान्तभूयस्त्वम् । __________टिप्पणी__________ [३४४] अत्रऽस्तऽमू- पा- । ___________________________ अयं पुनरत्र परमार्थः । भावनातिशयसंस्कृतज्ञानं समनन्तरप्रत्ययं प्राप्य चक्षुर्[प्४ १] र्थौ दुःखं शून्यानात्माकारपरिकरितं स्वविषयविज्ञानं स्फुटं जनयतः । तेन --- परमार्थविषये क्षणिकत्वादौ चक्षुर्ज्ञानमपि सद्योगिज्ञानम् । अथवा --- चक्षुर्ज्ञानं च मानसं सत्योगिज्ञानं चोत्पद्यते --- गृहीतग्राहित्वं हि दोषो न गृह्यमाणग्राहित्वम् । यथा --- [३४५]कृतस्य करणायोगो न क्रियमाणस्य । क्षणिकत्वे भावनाप्युपपद्यते । __________टिप्पणी__________ [३४५] स्ह्: ५९. ___________________________ रागादिक्लेशविश्लेषाय परमपुरुषार्थघिया समुद्धु[३४६]रस्यापि क्षणिकपरावृत्त्पा क्षणिकत्वमेव पुनः पुन[३४७]रामृशतः । क्षणिकत्वेऽप्येकस्मिन् विषये ज्ञानाभ्यासवृत्तिलक्षणाया भावनाया बाधकाभावात् । __________टिप्पणी__________ [३४६] अत्रऽद्धऽइति लिखित्वा छिन्नं मूलपाठे । [३४७]ऽरामृषऽइति लिखित्वा छिन्नं मूलपाठे । ___________________________ यावदसन्निहिततया आकारेण क्षणिकत्वादिकमालम्ब्यते तावदियं भावना कल्पनात्मिका । तत्संस्कृतात्समनन्तरप्रत्ययात्सन्निहिततया वेदनेन निर्विकल्पकत्वम् । सन्निहितासन्निहितत्वेन च गृह्यमाणत्वं स्फुटास्फुटत्वम् । अत एव --- स्वप्नेनापि मनोवेदनवैश[३४८]द्यनिदानेन नोद्दीपयितुं स्वप्नविकल्पस्य शक्यते स्फुटत्वम् । __________टिप्पणी__________ [३४८]ऽषऽमूलपाठः । ___________________________ "तस्माद्भूतमभूतं वा यद्यदेवातिभाव्यते । भावनावलनिष्पत्तौ तत्स्फुटाकल्पधीफलम्[३४९]। ।"[३५०] __________टिप्पणी__________ [३४९] तस्माद्भूत ... ... ... भाव्यते । ... फलम् ॥ --प्र- वा- भा- ३२७ पृ-, ३।२८६ का- । [३५०] भावनाबल.... .... धीफलम् ॥ -(ना परि- पाठक्) प्र- वा- भा- ३२७ पृ-, ३।२८६ का- ॥ ___________________________ भूतम् = सत्यम् । अभूतं वा यदेवातिशयेन । तदेव भावनाप्रकर्षे सति स्फुटाया अविकल्पाया [प्४ २] धियो हेतुर्भवति । यदसत्यं तत्पूर्वविज्ञानारूढम् । तस्मादव्यतिरिक्तमुत्तरस्य ज्ञानस्य हेतुरुच्यते । यत्त्वसत्यं तत्स्फुटं सज्ज्ञानस्य भाव्यमानं हेतुः स्वभावेन, न ज्ञानरूपतया । अनेन अभावोऽपि विवृतः[३५१]। सोऽपि ज्ञानारूढतया निःशङ्कगमनागमनं करोति । किं पुनर्ज्ञानम् ? __________टिप्पणी__________ [३५१]ऽतऽमूलपाठः । fन् ३ देर्सेइते ओ. स्तेल्लेनन्गबे इं तेxत् ___________________________ [३५२]अनात्मवेदनं ज्ञानम् ।ऽयतो विषयग्रहणं धर्मोऽविज्ञानस्येऽत्याहाचार्यः । __________टिप्पणी__________ [३५२] स्ह्: ६०. ___________________________ तच्च --- प्रमाणसामग्र्या जातं सत्यार्थग्राहि । दुष्टकारणारब्धं विपरीतपरिच्छेदि । यथास्ति स गृह्यते । सोऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्वालम्बावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । वाधित्वावाधित्वाभ्यां विकृतिप्रकृतिव्यवस्था । न तु सत्यग्राहित्वं सकलज्ञानप्रकृतिः। एवं हि --- ऽविषयग्रहणं धर्मो विज्ञानस्येऽति वाक्यमतिरिच्येत --- असत्यार्थं च किञ्चिन्न स्यात्--- ननु मित्र[३५३]पादैः --- __________टिप्पणी__________ [३५३]ऽसिन्तुऽइत्यपि पठितुं शक्यते मूलपाठे । ___________________________ "स्वप्रकाशमसामान्यं विज्ञानमिति सम्मतम् । ।" इत्युक्तम्, न तद्विज्ञानवादे । कथं तहि ? बहिरर्थ एव । वार्त्तिके --- ऽज्ञानं तत्योग्यदेशकैरज्ञानस्य स्वयं ज्ञानादिऽऽति । असत्ख्यात्यर्थं तत् । तदेवम् --- चत्वार्यार्यसत्यानि अनित्यत्वाद्या कारसहितानि सर्वज्ञज्ञानस्यालम्वनम् । त्रिकल्पासङ्ख्येयः कालोऽवधिः । जन्यपरम्परा च तदन्तर्वर्त्तिनी विशेषणम् । कारणं करुणा बोधिसत्त्वानामभ्यासस्य । त [प्४ २] दन्येषां संसारोद्वेगः । हेयोपादेयतत्त्वप्रापणाच्च प्रमाणं भगवान्मुमुक्षूणामिति । [३५४]अत्र प्रमाणम् --- __________टिप्पणी__________ [३५४] स्ह्: ६१. ___________________________ यत्सादरनिरन्तरदीर्घकालभावनाभ्यासविषयीकृतम्, तत्स्पष्टऽ तत्ता[३५५]योग्यम् । यथा --- कामिन्याकारकामुकस्य हेयोपादेयस्योपायतत्त्वानि च यथोक्ताभ्यासविषयीकृतानि । __________टिप्पणी__________ [३५५]ऽतता इति पाठः प्रतिभाति मूलपाठे । ___________________________ अ[३५६]थापि स्यात्? __________टिप्पणी__________ [३५६]ऽयालिखित्वा छिन्नं मूलपाठे । ___________________________ कोऽयं कापुरुषाकारः ? सर्व[३५७]वेदी भगवान् सुगतमहषिः ? स किं कृतिभिरपकर्षितप्रयुक्तसर्वविदिति ? __________टिप्पणी__________ [३५७]ऽसर्वसर्वऽइति पाठो मूलपाठे । ___________________________ "नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ।" इत्यपयशःपिधानम् ! ब्रूमः । परमार्थतस्तु --- भट्टभर्त्सनाभयेनैव परप्रयुक्तमपि सर्व[३५८]विदमुज्भ्?इत्त्वा स्वल्प --- विदिति निनौलावादिः (?)। __________टिप्पणी__________ [३५८]ऽसर्वसर्वऽइति पाठो मूलपाठे । ___________________________ तथा हि --- भट्टभाषितम् --- ऽभूतार्थभावनेऽति लक्षणम् । प्रमाणेन च भू[३५९]तार्थत्वम् । न च सर्वविषयमिन्द्रियजमध्यक्षम् । नाप्यनुमानम्, धर्माद्यसिद्धेः । __________टिप्पणी__________ [३५९]ऽभिऽमूलपाठः । कोर्रेक्त्प्लशिएर्तिं तेxत्? ___________________________ नापि मनोमात्रमेतत् । इन्द्रियानुसारित्वात् । नाप्यागमशेषम्, अप्रमाणत्वात् । उक्तं च --- "प्रामाण्यं च परोक्षार्थज्ञानं तत्साधनस्य च । अभावानाभ्यनुष्ठानमिति केचित्प्रचक्षते[३६०] । ।"[३६१] __________टिप्पणी__________ [३६०] अभावान्नास्त्यनुष्ठानं ... .... प्रचक्षते ॥ -प्र- वा- भा- २।३० का- । [३६१] प्रामाण्यं च परो.... ....स्य च । .... प्रचक्षते ॥ -प्र- वा- भा- २।३० का- । ___________________________ [३६२]अत्र समाधि । --- __________टिप्पणी__________ [३६२] स्ह्: ६२. ___________________________ पूर्वनिरासानुस्मृतिज्ञानबलेन --- "व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः[३६३] । __________टिप्पणी__________ [३६३] व्यवस्यन्तीक्षण.... ....महाधियः ॥ -प्र- वा- भा- २३६ पृ- ; ३।१०७ का- । ___________________________ सर्वाकारानुमानं यत्प्रत्यक्षात्तन्न भिद्यते ॥ अतीतानागतं व तु तेनैव प्रतिपाद्यते । कर्म तत्फलसम्बन्धबोधस्तेन प्रसिध्यति । ।" यथा [प्४ ३] देशादिभेदेन प्रकृतीनां विभिन्नता । तथा जातिस्मरत्वेन देवाभ्यागतिनिर्णयः ॥" एषैव निष्पत्त्यवस्था कथं स्यादिति चेत्? अज्ञानमेतत् । युक्तिज्ञेन सर्वं हि वस्तु सर्वैः वस्तुभिः साक्षात्पारम्पर्येण च सम्बद्धं बुध्यते यत्नवता क्रमेण प्रकृष्यमाणम् । तथैव स्मर्यते । --- तथा हि --- ऽइयं मे माता ।ऽ मातृपरम्पराणां पूर्वा कोटिः सम्बद्धा । सर्व दिग्भवैश्च तादात्म्यकैरुपरिष्टाद्भविष्यद्भिश्च उपादेयसहकार्यैरन्त्यविवर्जितैः सम्बद्धा । सम्बन्धननिबन्धनमित्यनुमानं सम्भाव्यते । "अनेकोपायसद्भावात्कालं वैपुल्ययोगतः । अभ्यासात्सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[३६४]। । __________टिप्पणी__________ [३६४] अनेकोपायसद्भावात्.... .... योगतः । युक्तिमत् ॥ -प्र- वा- भा- ३२९ पृ- ; ३।२८७।५६७ ___________________________ कायंकारणभावस्य विशेषेण विनिश्चये । अतीनानागतं ज्ञानं तस्य भावि परिस्फुटम्[३६५] । । __________टिप्पणी__________ [३६५] अतीतानागतं ... ... स्फुटम् ॥ -प्र- वा- भा- ३२६ पृ- ३।२८७।५४९ । ___________________________ स्थिरमव्याकुलं भावनैरात्म्यादिनिवेदने ॥ अभ्यासात्सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[३६६]। । __________टिप्पणी__________ [३६६] अभ्यासात्सर्ववित्त्वस्य.... ...युक्तिमत् ॥ -प्र- वा- भा- ३२६ पृ-; ३।२८७।५६८ ॥ ___________________________ कार्वकारणभावस्य विशेषेण विनिश्चये । अतीतानुगतं ज्ञानं तस्य भावि परिस्फुटम्[३६७]। । __________टिप्पणी__________ [३६७] कार्यकारण.... .... निश्चये । .... स्फुटम् ॥ -प्र- वा- भा- ३२९ पृ-; ३।२८७।५४९ । ___________________________ सर्वभावानुगत्वेन देशना वाक्यसंश्रुतिः ॥ एवम्भूताच्च वचसस्तत्कर्त्तुर्ज्ञानवद्गतिः ॥ [३६८]परिशुद्धं वचो नास्ति परिशुद्धधियं विना । __________टिप्पणी__________ [३६८] स्ह्: ६३. ___________________________ स्वतर्कानुस्मृतेरेष प्रपञ्चो वचसां यदि । । भावनाज्ञानमप्यस्ति सदर्थेऽनादरो न हि । ।" तदत्र [प्४ ३] प्रमाणम् । यत्प्रमाणोपपन्नत्रैकालिकसमस्तवस्तुविषयं वाक्यम्, तत्प्रणेतुस्तद्विषयकज्ञानपूर्वकम् । तद्यथा -- यथायथमर्थस्य सर्वस्य वाचकं सर्ववाक्यम् । तथा च --- निःशेषसमस्तवस्तुनैरात्म्यादिनिवेदनाय वाक्यं तथागतस्य भगवतः कार्यहेतुरयम् । तदेवं समासऽर्थः । यः कश्चित्परैः सर्व[३६९]विदं प्रत्युद्भावितो दोषः, स सर्वः कारणानुपलब्धिलक्षणः । स चादृश्यविषयत्वेन सन्दिग्धासिद्धः ।[३७०]तेन --- __________टिप्पणी__________ [३६९]ऽसर्वसर्वऽ- मूलपाठः । [३७०]ऽद्धामूलपाठः । ___________________________ अदोषोद्भावनं निग्रहस्थानं परेषामिति । "चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् । विज्ञानं दृश्यते रूपं न किलान्तरितं यतः । ।" तथा --- मानसेऽन्धवधिराद्यभावदोषः । स्वसंवेदने स्वात्मनि क्रियाविरोधः । सर्वज्ञेऽसम्भवः सामग्र्याः । तदुद्धारेण चतुर्विधमध्यक्षमवस्थापितमिति ॥ [इति] तर्करहस्ये प्रत्यक्षप्रभेदस्वपरन्यायनिर्णयस्तृतीयः ॥ [३७१]अक्षादक्षाच्च साक्षादुत्पद्यते ज्ञानम् । अथ च --- __________टिप्पणी__________ [३७१] स्ह्: ६४. ___________________________ ऽप्रत्यक्षमिऽत्याख्यायते । न प्रतिविषयम् । केन हेतुना? निर्वि[३७२]कल्पकत्वं प्रतिगमकत्वागमत्वाभ्याम् । पुरुषान्तरसाधारणत्वाद्विषयस्य । __________टिप्पणी__________ [३७२]ऽनिविऽमूलपाठः । ___________________________ वैभाषिकापेक्षया च मनोविषयत्वेन व्यभिचारात् । असाधारणेन च व्यपदेशो दृष्टः । यथा ---भेरीशब्दो यथा वा ---यवाङ्कुरः । विषयो हि मनोजि (?) विज्ञाना[प्४ ४]ऽतदाभोगनिवन्धनश्च परत्वापरत्वगुणमन्तरेणापि प्रतिक्षणवलीपलितश्मश्रुजालादिविशिष्टस्वभावोत्पादविषयो युवास्थविरादिव्यपदेशः । न स्थिरैक्स्वभावानां भावानां कादाचित्कस्वभावाभिनिवो?शिनो व्यपदेशाः सम्भवन्ति । तदेवम् --- पारतन्त्र्यं, रूपश्लेषो, नैरन्तर्कं, प्राप्तिः, सङ्गतिरविच्छेदः । अपेक्षादिसंयोगसमवायो, नियमो, विरोधादयो न वस्तुभूताः सम्बन्धाः । किं तर्हि ? भावानामात्मानमविभागवन्तमधिकृत्य तादात्म्यसम्बन्धः सां[३७३]वृतः । __________टिप्पणी__________ [३७३]ऽसाम्वृतंऽमूलपाठः । ___________________________ भावाभावौ नियताववधार्य कार्यकारणभावः सां[३७४]वृतः । यतो --- __________टिप्पणी__________ [३७४]ऽसाम्वृतंऽमूलपाठः । ___________________________ भिन्नानेव भावान्मिश्रयति कल्पना । सा चाविद्यानुभववासनासम्बन्धाज्जायमाना, विपरीता च वस्तु स्वभावावगाहिनी वेति व्यवहाराङ्गमङ्गीकृता । तत्र व्याप्तौ सम्बन्धे विप्रतिपत्तव्यम् । अपि च --- "प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् । परचित्तानुमानं च न स्यादात्मन्यदर्शनात्[३७५]। ।[३७६]" __________टिप्पणी__________ [३७५] परचित्तानुमानं.... ....दर्शनात् ॥ -प्र- वा- भा- ४४६ पृ- ३।४७७ का- । ।, वा- १३८ पृ- । [३७६] प्रत्यक्षां च धियं.... .... दिकम् । .... दर्शनात् । । वा- १३८ पृ- ३।४७४; प्र- वा- भा- ४४६ पृ-; ३।४७६ । ___________________________ [३७७]सम्बन्धस्य स्वसंवेदनसिद्ध्या पूर्वोक्तया प्रत्यक्षा (+म?) पीहबुद्धिं दृष्ट्वा कायवाग्व्यवहारानुपलभ्य तत्कार्यतया आत्मसन्ताने, तं च कायव्यापारं व्यवहारं चात्मसमीहानुभवमन्तरेणानुभवन्, पर[३७८]चित्तसन्ततिकृतं मन्यमानोऽनुमिनोति सन्तानान्तरम् । __________टिप्पणी__________ [३७७] स्ह्: ६५. [३७८]ऽरिऽलिखित्वा इकारमात्रा छिन्ना मूलपाठे । ___________________________ चित्तपरोक्षतापक्षे च --- [प्४ ४] चित्तानुमानसमस्तविम्बसन्ताने चित्तानुपलब्धेर्दृष्टान्ताभावात्सम्बन्धसिद्धेः,ऽदृष्टत्वान्यथानुपपत्त्यास्वबुद्धिवेदने सर्वमेतद्भविष्यतीऽ त्यपि न युक्तः समाधिः । बुद्धेः प्राकट्यं ग्राह्याकारापरोक्षतेति पर्यायाः पर्यालोचिताः । तच्चार्थप्राक्ट्यं न केवलं ग्राहकाकारशून्यतयानुभूयते । यद्यनुभूयेत, तदानेदमनुभूयतऽ इति स्वपरवेदनविभागाभावात्सुतरां परचित्तानुमानमपास्तम् --- "मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ।" यदि --- बाह्यपदार्थप्राकट्यान्यथानुपपत्त्या स्वचित्तानुमापनम् ? एवं तर्हि, मनोबुद्धेः स्मरणरूपयोः पदार्थप्रकट्यलिङ्गाभावान्नानुमानम् । विपरीतख्यात्या सामान्यप्रतिभासनेन वास[३७९]नानां च, अनुभवानुसारान्नीरूपत्वाच्च सामान्यस्य निरस्तम् । __________टिप्पणी__________ [३७९] अत्रऽरालिखित्वा छिन्नं मूलपाठे । ___________________________ तदेवम् --- बाह्येऽर्थे स्वसंवेदनेन प्रत्यक्षेण बुद्ध्यनुभवे, यथास्वमिन्द्रियप्रत्यक्षेण चेष्टाभिधादिकं कार्यतया स्वसन्ताने निश्चित्य परचित्तानुमानमुक्तम् । [३८०]तच्चायुक्तम् । __________टिप्पणी__________ [३८०] स्ह्: ६६. ___________________________ ईश्वरानुमानसमानत्वात् । सर्वथा अनुमातुरसदृशत्वात्परचित्तस्य पल्लवो[३८१]ल्लासनात्प्रभञ्जनानुमाने वानदृश्यास्ति सिन्धुमारुतस्यान्तर्भावो, नापि धूमाद्धूमध्वजानुमाने जठरजातजातवेदसमन्तर्भाव्य व्याप्तिग्रहः कस्य चित्! __________टिप्पणी__________ [३८१] एकारमात्रा लिखित्वा छिन्ना मूलपाठे । ___________________________ ऽयद्व्याप्तिग्राहकं मानं त [प्४ ५।५] स्मिन् द्रव्ये समवायाभावात्, विजातीयानामनारम्भादालेख्यादावेकस्य द्रव्यस्याभावे समवायाभावादित्यर्थः । "वनं कुसुमितं यथा ।" तत्र हि --- वनं बहुत्वसङ्ख्या --- कुसुमं चारम्भद्रव्यम् । एकत्र वृक्षद्रव्ये तयोः समवेतत्वाद्"वनं कुसुमितमि"त्युपचारः । एकया बुद्ध्या अनेकस्य ग्रहणे चित्रव्यवहारः । तस्माद्[३८२] यथानेकात्मकमालेख्यचित्रमेकया मनीषया गृह्यते तथा सञ्चितोऽपि । __________टिप्पणी__________ [३८२] अत्रऽद्यऽलिखित्वा छिर्न्न मूलपाठे । ___________________________ तत्किमुच्यते ? "अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् ।" इति ? ऽको वा विरोधो बहवः सञ्जातातिशयाः सकृत् । भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत्[३८३]? ॥[३८४] __________टिप्पणी__________ [३८३] को वा विरोधो.... .... सकृत् । ....वत् ॥ -(पृथक्पाठयुक्) प्र- वा- २।२२३ ॥ (सकृत्-पाठ युक्) प्र- वा- भा- २९४ पृ-; २२४ का- । [३८४] भवेयुः कारणं.... .... दिवत् ॥ --प्र- वा- भा- २९६ पृ-; २२४ का- । ___________________________ पूर्वमेकायतनत्वेन बुद्धिरेकेऽ त्युक्तम् । अधुना पुनः --- [३८५]"अनेकाकारा बुद्धिरेका । एकप्रकटतान्न्तर्गततया परस्परप्रत्यक्षत्वात् । __________टिप्पणी__________ [३८५] स्ह्: ६७. ___________________________ अन्यथा --- मन्तमसनिमग्नानेकपुरुषसंवेदनवद्व्यतिवेदनाभावः स्यात् । एकोपादानत्वाद्भेदेऽपि न तथेति चेद्? अतीतादिवत्स्मरणमेव स्यात्, न स्फुटस्फुरणम् । तथा --- चित्रविज्ञाने ज्ञानादनेकाकारम्, एकाका(+र) वदनेकाकारमित्यपि बोध्यम् । सा यद्यनेकाकारा बुद्धि[३८६]रेका सञ्जातशक्तिभिः परमाणुभिश्चक्षुरादिभिरिव बहुभिः क्रियेत, तथा (दा?) न कश्चिद्विरोधः । __________टिप्पणी__________ [३८६]ऽबुद्धिकारा इत्यधिकमत्र मूलपाठे । ___________________________ तस्माद्--- उभयथापि सञ्चितालम्वनत्वेऽप्यविकल्पत्वमिति स्थितम् । तथा --- "स्व [प्४ ५।६] संवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः[३८७]। __________टिप्पणी__________ [३८७] स्वसंवेद्यमनि.... .... गोचरः ॥ --प्र- वा- भा- २९८ पृ-; ३।२३१।४३१, त- सं- पं- २९३ पृ- ॥ ___________________________ स्वेनासाधारणेन रूपेण वेद्यः स्वभावो न धर्मित्वादिना । अत एव न निर्देश्यतयाधिनिबन्धनेन शब्देन न व्यपदेश्यः प्रत्यक्षत्य गोचरो ग्राह्यः । ततो --- निर्विकल्पकमध्यक्षम् । तदेवम् --- प्रत्यक्षज्ञानं प्रमाणफलम् । एवम् --- अनुमानमिति तदित्यनन्तरनिर्द्विष्टप्रभेदम् । निपातेन प्रवर्त्तकप्रापकयोः फलत्वेन प्रतिक्षेपः । [३८८]ऽप्रत्यक्षमिऽत्यनेन आद्यमसाधारणविषयं कल्पनापोढाभ्रान्तमुक्तम् । __________टिप्पणी__________ [३८८] स्ह्: ६८. ___________________________ ऽज्ञानमिऽत्यनेन चक्षुरादिजडप्रमाणानादरः फलप्रस्तावेऽपि दर्शितः । अर्थप्रतीतिरूपत्वात् । अर्थौ = हेयोपादेयौ, तयोः प्रतीतिः, प्राप्त्यङ्गप्रवृत्तिविषयोपदर्शना परोक्षताख्यारूपं स्वभावो यस्य ग्राह्याकारग्राहकाकारात्मकस्य, तद्भावस्तत्त्वम्, तस्मात् । स्वसंवेदनं चाकारयोः साधितमेव । स्वसंवेदने तर्हि कथमर्थप्रतीतिरूपत्वम् ? त्रयाणां तादात्म्ये सुतरामेव अपरमपि तादात्म्यमिति चेत्? न । एकेनैव गतत्वात् । व्यपदेशा एते यथाकथञ्चित्प्रयोक्तभिप्रायानुभवाश्चराचरं चञ्चूर्यन्ते, नैतेभ्योऽर्थान्तरपरिग्रहः । करोत्यर्थादिवत् । यथा --- पचति = पाकं करोति । तथा --- करोति = करणमभिनिर्वर्त्तयति । "सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्तः ।ऽ करोत्यर्थः केन व्या[प्४ ६।७]प्यताम् ? तत्रैव सामान्यविशेषकल्पना चेत्? इहापि समानम् । एवम् --- अनुमानेऽपि वाच्यम् । यद्यर्थ?तीतिरूपत्वात्तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम् । किमिदानीं प्रमाणम् ? उच्यते । ऽप्रमीयते येन तत्प्रमाणमिऽति सामान्येन व्युत्पादितमपि प्रमाणपदम् --- कर्त्तृकर्मक्रियाः समाक्षिप्य स्वसामान्यविशेवलक्षणमाक्षिपति । तत्र --- कर्त्रादिकं लेशतः प्रागुक्तम् । करणं सामान्यलक्षणमुच्यते । --- "क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र कर [+ ण] त्वं तदा स्मृतम् । ।" [३८९]कर्णं हि कर्त्तृपरतन्त्रं स्वव्यापाराविष्टं प्रधानक्रियायामुपयोगवत्साधकतमम् । __________टिप्पणी__________ [३८९] स्ह्: ६९. ___________________________ यथा --- पुरुषाधिष्ठितः परश्चरः स्वव्यापारेणोत्पतननिपतनान्वितः पाटनक्रियायामुपयोगवान् साधकतमश्च । विशेषलक्षणं तु --- "क्रिया साधनमित्येव सर्वं सर्वस्य कर्मणः । साधनं नहि तत्तस्य साधनं सा क्रिया यतः[३९०]। ।[३९१] __________टिप्पणी__________ [३९०] क्रियासाधनमित्येव... .... कर्मणः । ... यतः ॥ -प्र- वा- भा- ३४० पृ-, ३।३०२ का- । [३९१] साधनं न हि तत्तस्य.... .... यतः-(स्याः पाठयुक्) प्र वा- भा- ३४० पृ-, ३।३०२ का- । ___________________________ अर्थेन घटयत्येनं नहि मुक्त्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता[३९२]। ।"[३९३] __________टिप्पणी__________ [३९२] अर्थेन घटय .... .... रूपताम् । .... रूपता ॥ -प्र- वा- २।३०२-७ ॥; प्र- वा- भा- ३४२ पृ-, ३।३०६ का-; वा (र्त्तिकालङ्कारे) २ पृ- । । [३९३] तस्मात्प्रमेया.... रूपता ॥ -प्र- वा- भा- ३४२ पृ-; ३।३०७ का । ___________________________ सारूप्यमस्य प्रमाणं तद्वशादर्थप्रतीतिसिद्धेः ।ऽग्राहकाकारस्य साख्प्यमिऽति कर्त्तृपारतन्त्र्यमुक्तम् ।ऽतद्वशादिऽति स्वव्यापारावेशः प्रकाशितः । प्रकटतान्तर्गततालक्षणो ग्राह्याकारस्य अर्थप्रतौतिः । [प्४ ६।८] यथा--- मेषयोः, अन्यतरकर्मजः । यथा --- स्थाणुश्येनसंयोगः । संयोगजश्च संयोगः । यथा --- सर्वैः समवायिकारणैराकाशः[३९४] संयुक्तः । तत्संयोगश्चाकाशेन कार्यस्य संयोगः । __________टिप्पणी__________ [३९४]ऽकाशं संयुक्तम्ऽमूलपाठः । ___________________________ अथापि स्यात्? न संयोगजननात्संयोगिनौ । किं तर्हि ? स्थापनात् । स्थितिरपि प्रतिक्षिप्ताभिन्नाभिन्नविकल्पेन दूषणात् । "संयोगाद्याश्रये योग्यमयोग्यं तच्च जायते । नित्यं योग्यस्वभावस्य तद्वैकल्यविरोधतः ॥ इति तद्योग्यतावाच्यः स्वभावोऽस्य निरुच्यताम् ॥ विभागयोग्यगतिभिः कि?अन्यैर्न?नादिभिः ॥ तेषु सत्स्वपि तस्येति सम्बन्धस्य प्रसिद्धितः । [३९५]युक्तः स्वभावभेदोऽयं तत्प्रतिक्षणजन्मनाम् । । __________टिप्पणी__________ [३९५] स्ह्: ७०. ___________________________ यदि संयुक्तासंयुक्तयोः ना संयोगभावाभावाभ्यां विशेषः । यदि च विभक्ताविभक्तयोर्गर्ञ्छदगच्छतोर्वा विभागकर्मभावाभावाभ्याम्, कथममी व्यपदेशा नऽकुण्डलो देवदत्तः", "छत्री वा देवदत्तः" ? एवं विभक्तादावपि वाच्यम् । तस्मात्--- संयोगविभागक[३९६]र्माणि संयुक्तादिबुद्धीतां करणानि । __________टिप्पणी__________ [३९६]ऽर्मणिऽमूलपाठः । ___________________________ न तुल्यपर्यनुयोगतः । तवापि तुल्यरूपस्य विभक्तादेः किं न संयोगादिसमवायः ? कर्माभावाद्यनुत्तरं कर्मापि जनकं संयोगस्य द्रव्यात्किं न जायते? तस्माद्---ऽदण्डकुण्डलादिद्रव्यं विभक्तमयोग्ये प्राक्पश्चादुपसर्पणप्रत्ययसमर्पितात्मभावं संयोगसमवाये योग्यमाजायतेऽ इति त्वया व[प्४ ६।५] क्तव्यम् । यतः सततं संयोगादियोगयोग्यस्य स्वभावस्य भावस्य तद्वैकल्यं[३९७]विरुद्ध्यते । __________टिप्पणी__________ [३९७]ऽव्यऽमूलपाठः । ___________________________ अस्माकमपि --- तर्हि संयोगादिकमनिच्छतां तुल्यमेतत् । गण्डमण्डलसन्निकृष्टमपरापरप्रत्ययवशात्कुण्डलादिकं संयुक्तबुद्धिनिबन्धनमन्यत्कारणाभावात्तथाभूतं नोत्पन्नमितिऽ न कुण्डलीति निषिध्यते । सन्निकृष्टमुत्पन्नंऽच्छत्रीति वा विधीयते । तस्माद्--- योग्यताख्यः स्वभावः संयोगादिकं प्रति त्वया अभ्युपगम्यमानः केवलोऽसंयुक्तादिबुद्धिनिबन्धनम् । किमन्यैः संयोगादिभिः ? [३९८]यस्मात्सतामपि गमनादीनां स्वाश्रये वास्तवः सम्बन्धो निषिद्धःऽपारतन्त्रयमिऽत्यादिना । कुतः सम्बन्धाभावे तन्निबन्धनो व्यपदेशः ? __________टिप्पणी__________ [३९८] स्ह्: ७१. ___________________________ यथान्यगतैः कर्मादिभिरसम्बन्धादन्यो न तन्त्रादिकः, तथा तद्गतसम्मतैरपि । "तेषु सत्स्वपि तस्येति सम्बन्धस्याप्रसिद्धितः । युक्तः स्वभावभेदोऽयं तत्प्रतिक्षणजन्मनाम् । ।" प्रतिक्षणजन्म कैश्चिदुपसर्पणादिप्रत्ययैर्निरन्तरोत्पादः संयोगशब्दवाच्यः । दन्दशूकफूत्कारश्रुतिसाध्वसादिसामग्र्या प्रतीपापरापरप्रदेशस्थतयोत्पादो वि[३९९]भागव्यपदेशविषयः । __________टिप्पणी__________ [३९९]ऽगा इति लिखित्वा छिन्नं मूलपाठे । ___________________________ एकदिङ्मुखतयां प्रपरापरदेशसंयोगविभागभागितयोत्पादो गमनाख्यः । पूर्वा परत्वेनोत्पन्ने च भावे पूर्वांऽपरादिसङ्केत [प्४ ७] सिद्धिरिति च प्रधानार्थप्रतीतिक्रियाया उपयोगः कथितः । अनुमानसिद्धत्वमस्य वेदितव्यम् । तच्चानुमानं मानसे दर्शितम् । अनुमानसिद्धत्वेन चेदं निरस्तम् । ऽदृष्टयोरेव सारूप्यग्रहोऽर्थश्च[४००]न दृष्टवान् । __________टिप्पणी__________ [४००]ऽञ्चऽमूलपाठः । ___________________________ प्राक्कथं दर्शनेनास्य सारूप्यं सोऽघ्यवस्यति ?" इत्यादि । भट्टस्य पुनः --- आलोचनाज्ञानं प्रमाणम् । ततः परं जात्यादिविशिष्टवस्तुनिश्चयात्मकं फलम् । ततोऽपि प्रवर्त्तनम् । ततः प्राप्तिः । ततः[४०१]सुखम्-इति पूर्वं पूर्वं ज्ञानं प्रमाणम् । उत्तरोत्तरं फलम् --- बोधप्रमाणतापक्षे । __________टिप्पणी__________ [४०१]ऽतऽइति मूलपाठः । ___________________________ [४०२]जडप्रमाणतापक्षे तु --- __________टिप्पणी__________ [४०२] स्ह्: ७२. ___________________________ "यद्वेन्द्रियं प्रमाणं स्यात्तस्य वार्थेन सङ्गतिः[४०३] । __________टिप्पणी__________ [४०३] यद्वेन्द्रियं प्रमाणं.... .... सङ्गतिः । --श्लो- वा- ४।६०; ध (र्मोत्तर)ऽ प्र(दोपे) दुर्वेकमिश्रः ५० पृ-; हेतुबिन्दुटीकालोके च २७२-७८ पृ- । ___________________________ इन्द्रियैर्मनसो योगः प्रमाणं सर्वमेव वा[४०४]।" __________टिप्पणी__________ [४०४] इन्द्रियैर्मनसो.... .... ....मेव वा ॥ श्लो- वा- ४।६०; घ- प्र- दुर्वेकमिश्रः ५७ पृ-, हेतु- वि- टी- आ- २७२-७४ पृ- । ___________________________ नैयायिकादेः पुनः --- विशेषणज्ञानं प्रमाणम् । विशेष्यज्ञानं फलम् । "नागृहीतविशेषणा विशेष्ये बुद्धिः । " -इति वचनात् । जडप्रमाणतायाम् --- इन्द्रियादि पूर्ववत् । निराकारतया ज्ञानमलब्धविषयविशेषसम्बन्धम् । भत्तादिदर्शने --- वस्तुमात्रग्राहकमालोचनाज्ञानं जात्यादिविशिष्टवस्तुग्राहि च । ततः परं ज्ञानं न सिध्यति । तथा --- ऽविशेषणस्येदं ज्ञानमिदं विशेष्यस्येऽति न प्राप्नोति । "एकार्थत्वे द्वयं व्यर्थं न चास्ति क्रमभाविता[४०५] । " __________टिप्पणी__________ [४०५] एकार्थत्वे द्वयं... ....भाविता ॥ वा- ७ पृ- । ___________________________ चक्षुरादि तु सुतरामर्थप्रतीतेर्न नियामकम् । अनाकारतयैव [प्४ ८] तस्य । साकारत्वे वा किमन्येन ? अर्थसारूप्यमेव प्रमाणमस्तु --- "यदन्यभेदकं तस्यास्तत्साधकतं मतम् । " प्रमाणं करणम् । प्रमाणं प्रमितिः । करणां च साधकतमम् । साधकतमं चान्यभेदकम् । समस्त?एतत्सारूप्यस्य सम्भवति, न निकारस्य ज्ञानस्य । नापीन्द्रियादेः । तथा हि --- नीलाकारं यस्माद्वेद्यते ज्ञानं तस्मान्नीलस्य वेदनम् । [४०६]एवम् --- पीताकारतया पीतस्येति भेदके सारूप्यम् । नेन्द्रियादि सर्वसामान्यहेतुत्वात् । __________टिप्पणी__________ [४०६] स्ह्: ७३. ___________________________ "क्रियाकारकयोरैक्यविरोध इति चेद्? असत्--- । धर्मभेदाभ्युपगमाद्वस्त्वभिन्नऽमितीष्यते[४०७]।[४०८] __________टिप्पणी__________ [४०७] क्रियाकारकयो.... .... असद् । .... तीष्यते ॥ -प्र- वा- भा- ३४८ पृ-, ३।३१९ का- । [४०८] धर्मभेदा भ्युप.... .... ष्यते । । -प्र- वा- भा- ३४८ पृ-, ३।३१९ का- । ___________________________ एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः । भावेष्वभिन्नाभिमतेष्वध्यारोपणवृत्तितः[४०९] । ।[४१०]" __________टिप्पणी__________ [४०९] एवं प्रकारा सर्वैव.... ... स्थितिः । .... वृत्तितः ॥ प्र- वा- भा- ३४८ पृ-, ३।३२- का- ॥ प्र- वा- २।२१९ ॥ [४१०] भावेष्व.... .... वृत्तितः । -प्र- वा- भा- ३४८ पृ-, ३२० का- । प्र- वा- २।२१९ ॥ ___________________________ तदेव प्रत्यक्षं ज्ञानं प्रमाणफलमिति परमार्थापेक्षया व्यपदिष्टेनानिष्टं करोत्यर्थप्रतीतिव्यापारो हि प्रकाशमान एव नीलाद्याकारः, परमार्थतः प्रमितिः, परम् --- ग्राहकाकारपारतन्त्र्येण । तथा --- परशोरुत्पतननिपतनव्यापारौ नापरापरदेशसङ्गिस्वरूपोत्पत्तेरपरौ देवदत्तायत्ततया । व्यवहारिकः पुनः क्रियाकारकयोर्भेदो यद्यभिमतः, तदा धर्मस्य व्यावृत्तिलक्षणस्य भिन्नस्याभ्युपगमादस्त्येव । अपारमार्थिकत्वप्रसङ्गोऽपि न सङ्गतः । एवं विधा सर्वैवऽदेवदत्तः पचति, काष्ठैरोद [प्४ ८] नमिऽ त्यादि कापि क्रियाकारकव्यवहृतिः । "अन्वयव्यतिरेकाभ्यामेकत्वानैक्यकल्पने । क्रियाकारकभेदेन व्यवहारो व्यवस्थितः[४११]। ।"[४१२] __________टिप्पणी__________ [४११] अन्वयव्यतिरेकाभ्याम्.... .... कल्पने । .... व्यवस्थितः । । -प्र- वा- भा- ३४८ पृ-, ३।३२०।६२४ । [४१२] क्रियाकारकभेदेन.... .... व्यवस्थितः ॥ -वा- ७ पृ-; प्र- वा- भा- ३४८ पृ-, ३।३२०। ६२४ । ___________________________ अदेवदत्तपरावृत्त्या देवदत्त एकप्रत्यवमर्शविषयत्वेनैकस्तावद्व्यवस्थाप्यते । तस्य च तुषवुषप्रक्षेपप्रसङ्गप्रचलत्पाणिपल्लवतालक्षणापाकक्रिया कादाचित्की यदि देवदत्तस्वभावः सान्ऽन यज्ञदत्तः पाचको भवेदिऽत्येवानादिवासनावशादन्वयव्यतिरेकाभ्यां भेदे क्रियादिव्यवस्थिति स्यात् । ततो यस्मिन्नाभिन्ने यद्भिद्यते, तत्ततो व्यतिरिच्यते । [४१३]परमार्थस्तु --- __________टिप्पणी__________ [४१३] स्ह्: ७४. ___________________________ देवदत्त एवापरापरप्रत्यययोगाद्विशिष्टस्वभावो विभाव्यते । लोकस्त्वेकत्वा[४१४]ऽध्यारोपेण वर्त्तत इति तदनुरोधादेव व्यवस्था । __________टिप्पणी__________ [४१४] अत्रऽध्या इति लिखित्वा छिन्नं मूलपाठे । ___________________________ तथा --- न नीलाकारः सकलाधिगतिव्यापकः । अधिगतिस्तु --- सकलाकारव्यापिकेति भेदव्यवहारः प्रमितिप्रमाणयोः । "दधानं तच्च तामात्मन्यर्थाधिगमनात्मना । सव्यापारमिवाभाति व्यापारेण स्वकर्मणि[४१५]। ।[४१६] __________टिप्पणी__________ [४१५] दधानं तच्च.... .... त्मना । .... कर्मणि ॥ -प्र- वा- भा- ३४३ पृ-, ३।३०८ का - । (ऽणोःऽ इति पाठयुक्) वा- ३ पृ- । [४१६] सव्यापारमिवा.... ....स्वकर्मणि ॥ (णोः पाठयुक्) -प्र- वा- भा- ३४३ पृ-, ३।३०९ का-; वा- ३ पृ- । ___________________________ "तद्[४१७]वशात्तद्व्यवस्थानादकारकमपि स्वयम्[४१८]। __________टिप्पणी__________ [४१७] अत्रऽद्ध्यऽइति लिखित्वा छिन्नं मूलपाठे । [४१८] तद्वशात्.... .... स्वयम् । सत् ॥ -प्र- वा- भा- ३४३ पृ-, ३।३०९ का । पूर्वार्धमात्रं वा- ३ पृ- अपि । ___________________________ सव्यपारप्रतीतत्वात्प्रमाणं फलमेव सत्[४१९]। । __________टिप्पणी__________ [४१९] सव्यापारप्रतीत.... ....सद् ॥ -तथाचोक्तं सव्या- - वा (र्त्तिकालङ्कारे) १० पृ-; -प्र- वा- भा- ३४९ पृ- ३।३२० का । टीका । ___________________________ इति । तदेव सग्राहकाकारपरावृत्त्या ग्राहकाकारः प्रमाता, चित्तमात्मा ग्राह्याकारोऽनुभूयमानः सारूप्यात्मनानुमितः करणम् । यत्स्वरूपो ग्राहकाकारस्तत्प्रतीति [प्४ ९] : फलमिति स्थितम् ॥ [इति] तर्कंरहस्ये विषयादिन्यायनिर्णयश्चतुर्थः ॥ [४२०][४२१]अनुमानं द्विधा --- स्वार्थं, परार्थं च --- ज्ञानस्याभिधानरूप --- त्वात्स्वपरप्रतिपत्तिनिबन्धनेन । __________टिप्पणी__________ [४२०] स्ह्: ७५. [४२१] अत्रऽऽअत्र ग्रन्थःऽऽइति-मूलपाठः । ___________________________ ननु --- यो लिङ्गरूपं वेत्ति स वत्तुम् (र ?)ऽर्थक्रममपि ज्ञास्यति । किमर्थम् परार्थमभिधानरूपमनुमानमुक्तम् ? सत्यम् । सन्ति हि लिङ्गवस्तुप्रतिपद्यमाना अपि तद्वचनेऽनभिज्ञाः ।[४२२] __________टिप्पणी__________ [४२२]ऽज्ञा इति- मूलपाठः । ___________________________ यथा---प्रतिज्ञाद्यधि (?) च परवादिनः । तद्विप्रतिपत्तिनिरासार्थं परार्थमुक्तम् । तत्र --- स्वार्थं त्रि[४२३]रूपाल्लिङ्गात्यदनुमेये ज्ञानम् । त्रैरूप्यम्, पुनः --- __________टिप्पणी__________ [४२३] अत्रऽलिऽलिखित्वा छिन्नं मूलपाठे । ___________________________ अनुमेये सत्त्वमेव । सपक्ष एव सत्त्वम् । असपक्षे चा[४२४]ऽसत्त्वमेव निश्चितम् । अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी । तत्र सत्त्वमेव । __________टिप्पणी__________ [४२४]ऽचऽमूलपाठः । ___________________________ अयोगव्यवच्छेदेन विशेषणात् । "तथा साध्यस्याप्ययोगव्यवच्छेद[४२५]विशेषणात् । । __________टिप्पणी__________ [४२५]ऽअत्रऽछेदेन वि- मूलपाठः । ___________________________ विशेषेऽ[४२६]नुगमाभावः सामान्यः सिद्धसाध्यता[४२७] । । __________टिप्पणी__________ [४२६]ऽबे अनु-ऽमूलपाठः । [४२७] विशेषेऽनुगमा.... ....साध्यता ॥ -प्र- वा- भा- ४९९ पृ- । ___________________________ इति निरस्तम् । यतः --- [४२८]"सामान्यमेव तत्साध्यं न च सिद्ध प्रसाधनम् । __________टिप्पणी__________ [४२८] स्ह्: ७६. ___________________________ विशिष्टधर्मिणा तच्च न निरन्वयदोषभाक्[४२९] । ।"[४३०] __________टिप्पणी__________ [४२९] विशिष्टधर्मिणा.... ....दोषभाक् ॥ -प्र- वा- भा- ४९९ पृ-, ३।३९ का । [४३०] सामान्यमेव तत्.... .... साधनम् । .... दोषभाक् ॥ - प्र- वा- भा- ४९९ पृ-, ३।३९ का । ___________________________ अवह्निपरावृत्तं बह्निरूपं[४३१]साध्यम् । अधूमपरावृत्तं च धूमरूपं साधनम् । अनयोश्च जिज्ञासितविशेषेण धर्मिणा विशिष्टत्वेन नानन्वयदोषोऽयोगव्यवच्छेदेन विशेषणात् । अन्ययोगव्यवच्छेदस्य प्रत्यक्षबाधितत्वात् । __________टिप्पणी__________ [४३१]ऽप्यंऽ- मूलपाठः । ___________________________ "अयोगं योगमपरैरत्यन्तायोगमेव [प्४ ९] च । व्यवच्छिनत्ति धमंस्य निपातो व्यतिरेकतः[४३२]। ।[४३३] __________टिप्पणी__________ [४३२] अयोगं योग... .... ....च । ....देकतः । । -प्र- वा- भा- ५८१ पृ-, ४।१९० का- । [४३३] व्यवच्छिनत्ति.... ....रेकतः । ....रेचकः । । प्र- वा- भा- पृ-, ५८१ पृ-, ४।१९० । ___________________________ विशेषणविशेषाभ्यां क्रियया च सहोदितः । विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतोयते[४३४]। ।[४३५] __________टिप्पणी__________ [४३४] विवक्षातोऽप्रयोगेऽपि.... .... प्रतीयते । -प्र- वा- भा- ५८१ पृ-, ४।१९१ का- । [४३५] विशेषणविशेषा.... .... सहोदितः । .... प्रतीयते । -प्र- वा- भा- ५८१ पृ-, ४।१९१ का- । ___________________________ व्यवच्छेदफलं वाक्यं य तश्चैत्रो धनुर्धरः । ऽपार्थो धनुर्धरोऽऽनीलं सरोजमिऽति वा यथा[४३६] । ।"[४३७] __________टिप्पणी__________ [४३६] पार्थो धनुर्धरो नीलं.... .... यथा -प्र- वा- भा- ५८२ पृ-, ४।१९२ का- । [४३७] व्यवच्छेदफलं.... .... धनुर्धरः । .... वा यथा ॥ -प्र- वा- भा- ५८२ पृ-, ४।१९२ का- । ___________________________ अप्रयोगेऽपि निपातस्य नियमविशेषावधारणं प्रकरणविवक्षाविशेषादित्यर्थः । ननु --- यथा ---ऽपार्थ एव धनुर्धरऽ इति विशे(+ष ?) स्य सन्निधानेऽवधारणाद्विशेष्यान्तरव्यवच्छेदः, तथा --- विशेषणसन्निधाने विशेषणान्तरस्यापि[४३८]व्यवच्छेदः स्यात्? __________टिप्पणी__________ [४३८]ऽरस्थायि-ऽमू- पठितुं शक्यते । ___________________________ न । "प्रतियोगिव्यवच्छेदः सर्वत्रार्थेषु गम्यते । तथा प्रसिद्धेः सामर्थ्याद्विवक्षानुगमाद्ध्वनेः[४३९]।"[४४०] __________टिप्पणी__________ [४३९] तथा प्रसिद्धेः.... .... ध्वनेः ॥ -प्र- वा- भा- ५८८ पृ-, ४।१९३ का- । [४४०] प्रतियोगिब्यवच्छेदः.... .... गम्यते ॥ .... ध्वनेः ॥ -प्र- वा- भा- ५८८ पृ-, ४।१९३ का- । ___________________________ चैत्रे धनुर्धरत्वं प्रतियोगि । पार्थोऽपि प्रतियोगी वा धेयः । तथा विशेषणेन सह्निपातस्य वचनेऽयोगव्यवच्छेदेऽपि यदि शङ्क्यते --- "पूर्वं[४४१]किमन्योऽप्यस्य गुणोऽस्ति ? " तदा, सकलगुणव्यवच्छेदोऽव्यभिचारिवर्ज्यः (?)। __________टिप्पणी__________ [४४१] स्ह्: ७७. ___________________________ चैत्रो धनुर्धर एव, न पण्डितादिः । तथा --- पार्थेऽपि यदि रामादिः कोदण्डपाण्डित्यं परिपिण्डयेत्कच्चित्? तदा --- तत्रापि तदन्यसकलनिरासः । तदेवम् --- प्रतियोगिव्यवच्छेदऽ--- इति सामान्यलक्षणम् । स च प्रतियोगी त्रिविधोऽयोगादिप्रकारेण । धर्मान्तरक्रियान्तरविशेष्यान्तरयोगव्यवच्छेदादन्ययोगव्यवच्छेदोऽपि [प्५ १] त्रिधा सम्प्रधार्यः । प्रस्तुतेऽपिऽजिज्ञा सितविशेषे धर्मिणि सन्निऽत्यवधार्यम् । न तु तत्रैवेति नोक्तदोषः । तथा --- साध्यस्यापि धर्मिसम्बन्धो[४४२]ऽयोगव्यवच्छेदेन वेद्यः । __________टिप्पणी__________ [४४२] न्यो अयो- - मूलपाठः । ___________________________ यत्पुनरुच्यते --- "पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताभिधा । मर्वलोकप्रतीता न पक्षधर्ममपेक्षते ॥" ऽशिशुरयं ब्राह्मणो[४४३], मातापित्रोर्ब्राह्मण्यात् ।ऽ तथा --- पल्वले कुमुदप्रकाशेन चन्द्रोदयानुमाने, न लक्ष्यते पक्षसङ्गतिः । __________टिप्पणी__________ [४४३]ऽणा- मूलपाठः । ___________________________ आतपसद्भावात्परभागे च्छायासम्भवः । तमस्युल्मुकविलोकने दूरे धूमानुमानं चन्द्रोदयादम्भोधि बृद्ध्यनुमानम्, ताम्बूलबल्ल्याः पत्रसङ्कोचदर्शनाद्दाहानुमानम्, विना पक्षधर्मतया । तस्मात्--- [४४४]प्रतिवन्धो[४४५]लिङ्गस्य लक्षणम् । न पक्षधर्मता । सामान्ये न च व्याप्तिग्रहे पक्षधर्मस्यापि प्रविष्टत्वात् ।ऽमयूरध्वनिऽरिति चानाक्षिप्तदेश कालाप्रतीतिः पक्षधर्मतानपेक्षणी । __________टिप्पणी__________ [४४४] स्ह्: ७८. [४४५]ऽन्धोऽपिऽइति लिखित्वापिऽछिन्नमिव मूलपाठे । ___________________________ किं वा प्रयोजनं पक्षधर्मत्वस्य रूपस्येति ? तदपि सर्वत्र पक्षसम्भवादयुक्तम् । तथा हि --- यस्यैव ब्राह्मण्यं शिशोः साध्यम्, तस्यैव मातापित्रोर्ब्राह्मण्यं[४४६] __________टिप्पणी__________ [४४६]ऽण्यऽ- मूलपाठः । ___________________________ हेतुः । चन्द्रोदयानुमाने कालविशेषो धर्मी । एवम् --- छायासमुद्रवृद्धयोरनुमाने वेदितव्यम् । बल्ली पक्षः । सङ्कुचितपत्रत्वं हेतुः ।ऽध्वनिः[४४७]श्रूयमाणो मयूर[४४८]मनुमापयतीऽत्यत्र मयूरध्वनि [प्५ १] विशेषः पक्षो मयूरपूर्वक इति साध्यम् । __________टिप्पणी__________ [४४७]ऽनिऽ- मूलपाठः । [४४८] अत्रऽमयूर्ऽइति द्विधा लिखितं- मूलपाठे । ___________________________ तथा --- भूतपूर्वानुभूतध्वनिसामान्यं हेतुः । अनुपलब्धेरपि पक्षधर्मत्वमस्त्येव । अन्यस्य भूतलादेरुपलम्भजननयोग्यतैवानुपलब्धिः । सा अन्यभूतलादिधर्मः कर्मधर्मानुपलब्धिः । यदा तु --- कर्त्तृधर्मोऽनुपलब्धिस्तदा --- "स्थित एव भवत्येषा स्थित एव विनश्यति ।" इति न्यायात्भूतलस्य मध्यावस्थाग्राह्याकारलक्षणा भूतलस्य धर्म एव । "नदीपूरोऽप्यधोदेशे दृष्टः सनुपरि स्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् । ।" [४४९]तत्र --- __________टिप्पणी__________ [४४९] स्ह्: ७९. ___________________________ "इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद्भस्मेवाशीतसाधने[४५०] । ।" __________टिप्पणी__________ [४५०] अन्यथा ब्यभिचारि.... ....साधने ॥ -प्र- वा- ३।६; वा (द) न्या (य) टी (कायाम्) शान्तरक्षितः १५ पृ- । ___________________________ इति न्यायात् । अधोदेशनदीपूर एव धर्मी । उपरिष्टाद्विशिष्टपूर्वकत्वं साध्यम् । पूरसामान्यं हेतुः । तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः । तथा --- भस्मविशेषो धर्मी । देशान्तरकालान्तरशीताभावसम्पादकबह्निपूर्वकत्वं साध्यम् । भस्मसामान्यं हेतुः । तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः । "कष्टेन पक्षधर्मत्वे यस्तत्रापि प्रकल्पयेत् । न सङ्गच्छेत तस्यैतल्लक्ष्येण सह लक्षणम् ॥" पक्षधर्मत्वमसङ्गतमपक्षधर्मस्यैव हेतुत्वेन फलितत्वात् । "यथा लोकप्रसिद्धं हि लक्षणैरनुगम्यते । लक्ष्यं च लक्षणेनैव तदपूर्वं न साध्यते ॥" अयमपि कष्टकल्पनोपा [प्५ २]ऽऽलम्भो निरस्तः । यतः पक्षधर्मतामन्तरेण केवलसम्बन्धबोधे प्रत्यासत्तिधी[४५१] __________टिप्पणी__________ [४५१]ऽविप्रधीकर्षा-मूलपाठ । ___________________________ विप्रकर्षाभावाद्धूमाद्बह्निसम्बन्धात्क्व तदनुमानम् ? यत्रासौ दृश्यते तत्रैव । ननु --- जातविशेषेऽपि दृश्यते । किं तत्राप्यनुमानम् ? सिद्धत्वाद्बह्नेः । एवं तर्हि --- बह्निर्यत्र जिज्ञासितो यत्र च दृश्यते "धूमो बह्निसम्बन्ध" इति व्रुवता जिज्ञासितविशेषे धर्मिणि सत्त्वमेवे [+त्य ?] भ्युपेतं त्वया । वयमप्येवमेव प्रतिपन्नाःऽअनुमेये सत्त्वमेवेऽति ब्रुवन्तः । [४५२]पक्षधर्मत्वस्य च महदेव प्रयोजनम् । यद्देशकालनियतं बह्निमुपदर्शयत्यनुमानमतस्तत्प्रापणयोग्यम् । अतश्च प्रमाणम् । __________टिप्पणी__________ [४५२] स्ह्: ८०. ___________________________ [४५३][४५४] साध्यधर्मसामान्येन समानो[४५५]ऽर्थः सपक्षः तत्रैव च सत्त्वं द्वितीयं रूपम्. __________टिप्पणी__________ [४५३] तेxतेदितिओन् वोन्: यैत, हिदेओमि (१९९१): तर्करहस्य केन्यू (व्). जोउर्नलोf नरितसनिन्स्तितुते fओर्बुद्धिस्त्स्तुदिएस्नो. १४: १४५-१४८.[य्व्] [४५४] य्व्: १४५. तेxत्fर्दिएसेनब्स्छ्नित्त्नछ्य्व्. एन्द्नोतेन्नछ्स्हस्त्रि. [४५५] म्स्सामानो. ___________________________ ऽऽअनुमेये सत्त्वमेवेऽऽत्युक्तम्.ऽऽसपक्ष एव च सत्त्वम्"इत्यन्ययोगव्यवच्छेदेन निरस्यते चकारात्, यथानरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयां बभूवेऽऽति. ननु --- ऽऽसाध्येनानुगमो[४५६]हेतोः साध्याभावे[४५७]च नास्तिता । __________टिप्पणी__________ [४५६] म्स्& स्ह्-नुगमा. [४५७] म्स्साध्यभावे. ___________________________ ख्याप्यते यत्र दृष्टान्तः स साधर्म्येतरो द्विधा । ।ऽऽ इति लक्षणम्, तत्किमुच्यतेऽऽसाध्यधर्मे"त्यादि. सत्यम्. ऽऽतत्रैव च[४५८]सत्त्वम्"इत्यभिधानात्तावानेवार्थः सम्पद्यते. __________टिप्पणी__________ [४५८] स्होमित्स्च. ___________________________ सपक्षो यो न भवति सोऽसपक्षोऽसमर्थसमासेन, ततोऽन्यस्तद्विरुद्धस्तदभावश्च. तत्रासत्त्वमेव निश्चितं[४५९]तृतीयं रूपम्. __________टिप्पणी__________ [४५९] य्व्: १४६. ___________________________ निश्चितग्रहणं त्रिष्वपि रूपेषु द्रष्टव्यम्. वह्निसम्बद्धत्वेनानुमेये[४६०] __________टिप्पणी__________ [४६०] स्ह्--सम्बन्धेनानुमेये. ___________________________ निश्चीयमानो धूमो वह्निं प्रतिपादयति, नान्यथा. प्रपद्यमानश्चान्यस्तन्नान्तरीयकमीप्सितैः । साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः[४६१]। ।[४६२] __________टिप्पणी__________ [४६१] प्रपद्यमानश्चा.... .... प्सितैः .... पादितः ॥ -प्र- वा- भा- ५०४ पृ-, ४।५९ का- । [४६२] साध्यार्थैर्हेतुना.... .... प्रतिपादितः ॥ -प्र- वा- भा- ५०७ पृ-, ४।५६ का- । ___________________________ [४६३]तस्मान्नान्तरीयकतया[४६४]निश्चीयमानत्वमेव परोक्षार्थप्रतिपादनव्यापारो[४६५]लिङ्गस्य. __________टिप्पणी__________ [४६३] स्ह्: ८१. [४६४] स्ह्नान्तरीकतया. [४६५] म्स्परोक्षोर्थ-; स्ह्परोक्षोऽर्थ-. च्f. नोते १३ अबोवे. ___________________________ ज्ञानमप्यात्तमेवात्र ज्ञापकोऽधिकृतो यतः । अतो[४६६]निश्चितत्वं न रूपान्तरम्. रूपान्तरं तदेवेह विवक्षितम्. यत्र विवादस्तत्र पक्षधर्मे दर्शितो विवादः. __________टिप्पणी__________ [४६६] स्ह्स्वतो. ___________________________ "कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात्[४६७]। ।[४६८]" __________टिप्पणी__________ [४६७] अविनाभाव.... ... .... दर्शनात् ॥ -प्र- वा- ३।३० ॥२।७० ॥ [४६८] कार्यकारण.... .... नियामकात् । .... दर्शनात् ॥ -प्र- वा- ३।३० ॥२।७०; त- स- पं- ४३० पृ- । ___________________________ इत्यन्वयव्यतिरेकयोर्विवादः. न च लिङ्गं परोक्षप्रतिपत्त्यङ्गमथवा निश्चितं सदिति मतमस्ति कस्यचित्. तस्मादन्वयव्यतिरेकयोर्निश्चितव्याप्तिकयोरेकमपि प्रयुक्तमर्थापत्त्या द्वितीयमाक्षिपति रूपमिति नियमवतोरन्वयव्यतिरेकयोर्निश्चितयोरेक एव प्रयोक्तव्य इति प्रयोगशिक्षणार्थमन्वयव्यतिरेकोपादानम्. यस्माद्यतःऽऽसपक्ष एव च[४६९]सत्त्वम्"इत्युक्तेऽऽऽसपक्षे चासत्त्वम्"इति गम्यते, किमर्थं कथ्येत्ऽऽआसपक्षे चासत्त्वमेव निश्चितम्"इति.[४७०]तदेवं दर्शनादर्शनमात्रेण न सिध्यति सम्बन्धः. __________टिप्पणी__________ [४६९] स्होमित्स्च. [४७०] स्ह्: ८२. ___________________________ [४७१]किं तर्हि. जन्मतन्मात्रानुबन्धप्रसाधकदर्शनादर्शनविशेषेणेति[४७२] __________टिप्पणी__________ [४७१] य्व्: १४७. [४७२] स्ह्जन्य-. ___________________________ वक्तुन्निश्चितग्रहणं कृतम्. एतावानेवार्थः प्रमाणसमुच्चयेऽपि--- अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति[४७३]। __________टिप्पणी__________ [४७३] अनुमेयेऽर्थतः तुल्ये... .... ....ऽसति ॥ -(ऽथ तत्तुऽपा-युक्) हे (तु) वि (न्दु) टी (कायाम्) अर्चटेन उद्धृतम् २२२ पृ- । ___________________________ साध्यधर्मसामान्येना तुल्य[४७४]एव सद्भावः. अनेन चावधारणेन लब्धोऽतत्तुल्येऽसद्भावः. ततोऽनास्तितासतीति नियमार्थम्. सिद्धे सत्यारम्भो नियमायेऽऽति न्यायात्. __________टिप्पणी__________ [४७४] म्स्& स्ह्-न्येनातुल्य एव. ___________________________ ऽऽअसत्येवेऽऽत्यादिग्रन्थ ईश्वरसेनेन प्रक्षिप्तः. ऽऽअनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासतीऽऽत्येव सूत्रं गमितमाचार्येण नियमार्थम्. तथापि प्रक्षेपो विभज्यते. असत्येव नास्तिता यथा स्यान्नान्यत्र न विरुद्धे, तत्तुल्यत्वेन यः सन्न भवति सोऽसन् तस्मिन्ऽऽनास्तितैवेऽऽत्यसमर्थसमासफलम्. तदन्यस्[४७५], तद्विरुद्धस्तदभावश्चेत्युक्तं भवति. तस्मादाहऽऽनान्यत्रैव न विरुद्ध एव चेऽऽति. __________टिप्पणी__________ [४७५] म्स्तदन्यतविरुद्धस्; स्ह्तदन्यः तद्विरुद्धस्. ___________________________ [४७६]अपि तु अनुमेयविपरीते[४७७]सर्वस्मिन् यो नास्त्येव स हेतुः, कुतः पुनरन्यविरुद्धयोः प्रसक्तिः. उच्यते.ऽऽतत्तुल्य एव योऽस्तीऽऽति नियमेनातत्तुल्ये[४७८]नास्तित्वमाक्षिप्यते. तत्र्ऽऽआतत्तुल्यऽऽ[४७९]इत्यसमर्थसमासासपक्षे[४८०]ऽन्यविरुद्धवाचिनञ्शब्दसमासे[४८१] __________टिप्पणी__________ [४७६] स्ह्: ८३. [४७७] ’नुमेयविपरीतेऽ नोतिन्च्लुदेदिन्म्स्& स्ह्, बुत्तेन्ततिवेल्यिन्सेर्तेद्ब्य्थे प्रेसेन्त्wरितेर्. च्f. नोते ४४ अबोवे. [४७८] म्स्(अ)तन्तुल्-. [४७९] म्स्(अ)तन्तुल्-. [४८०] म्स्समर्थसमाससपक्षे; स्ह्समर्थसमासपक्षे. [४८१] स्ह्--वाचि नञ्शब्द-. ___________________________ ऽब्राह्मणवद्ऽअनृतवद्[४८२]अन्यो विरुद्धो वा नियतो विपक्षो गम्[४८३]येत. __________टिप्पणी__________ [४८२] स्हनुभवत्. [४८३] य्व्: १४८. ___________________________ ऽऽनास्तितासतीऽऽति वचनेन पुनस्तत्तुल्यतया[४८४][४८५]यः सन्न भवति सोऽतुल्यो ग्राह्यः. __________टिप्पणी__________ [४८४] म्स्(अ)तन्तुल्-. [४८५] स्ह्तत्तुल्य उपायः सन्; म्स्तन्तुल्यते(भे ?)यायः. च्f. त्र्८२, १५-१६: तत्तुल्यत्वेन यः सन्न भवति सोऽसन्... ___________________________ एवं तर्हि पूर्वेणासिद्धत्वादपूर्वविधानं न नियमार्थं स्यात्. न. व्याख्यानतो-- ऽऽविशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् ।ऽऽ इति न्यायात्. असमर्थसमास एव भविष्यत्य्ऽऽअतत्तुल्य"इति. तथापिऽऽनान्यत्र न विरुद्ध"इति वचनमघटमानं वा घटमानं किमसमर्थसमासेन समर्थ एवास्तु समास इति चोद्ये दोषदर्शनार्थत्वादिति. ऽऽअसतोऽधिकरणादिशक्तिशून्यत्वाद्विपक्षत्वमनुपपन्नम्"इति परः. न, स्ववचनविरोधात्. असतोऽधिकरणशक्तिं प्रतिरुन्धानो येन वाक्येन तां प्रतिरुणद्धि, तेन तस्मिन्नधिकरणशक्त्यभावाधिकरणशक्तिं[४८६] __________टिप्पणी__________ [४८६] स्ह्--शक्य-. ___________________________ विधत्ते. [४८७]"(अर्था ?) अतद्रूपपरावृत्तमात्रप्रसाधनात् । __________टिप्पणी__________ [४८७] स्ह्: ८४. ___________________________ सामान्यविषयं प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः[४८८] । ।"[४८९] __________टिप्पणी__________ [४८८] अतद्रूपपरावृत्त... ... ... नात् । ... ... प्रतिष्ठितेः । । -धर्मकीर्त्तिवचः । -प्र (माण) वा (र्त्तिक) भा (ष्ये) १८ पृ -, त- स- प- ३३० पृ- । [४८९] सामान्यविषयं.... ....प्रतिष्ठितेः । । -प्र- वा- भा- १८ पृ- । ___________________________ दाहपाकादिसमर्थो ह्यर्थो ज्ञातुमिष्टः पाकाद्यसमर्थव्यतिरेकी चानुमानेनार्थो ज्ञाप्यते । अतो बहवो[४९०]ऽर्थाः सजातीयव्यावृत्तेरनिश्चितत्वान्निश्चितत्वाच्च विजातीयव्यावृत्तेःऽसामान्यमिऽति व्यपदिश्यन्ते । __________टिप्पणी__________ [४९०]ऽबहवो अर्थाःऽ- मूलपाठः । ___________________________ भेदाप्रतिष्ठितेरिऽति वचनात् । ऊर्ध्वतासामान्यं सजातीयान्यव्यक्तिव्यावृत्त्या प्रत्यक्षविषयः । ततः "समानानां भावः सामान्यमिऽ त्यन्यरूपव्यावृत्तमेव, [प्५ ४] (वि?) परीतादिशङ्का न कार्या । ननु--- "विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता । अनुमाभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः[४९१] । ।" __________टिप्पणी__________ [४९१] विशेषेऽनुगमा.... .... साध्यता । .... दन्तिनः ॥ साध्यता यावदेव प्र- वा- भा- ४९९ पृ - । ___________________________ इति कथं परिहार्यम् ? अत्र भाष्यम् । --- सामान्येनान्वये सिद्धे पक्षधर्मत्वयोगतः । विशेषनिष्ठता तस्य सम्बन्धग्रहणात्परा[४९२] । ।"[४९३] __________टिप्पणी__________ [४९२] विशेषनिष्ठता.... .... परा । । -प्र- वा- भा- ५०० पृ-, ३।३९।१०३ ॥ [४९३] सामान्येनान्वये.... ....योगतः । ....परा ॥ -प्र- वा- भा- ५०० पृ-, ३।३९।१०३ ॥ ___________________________ अयोग[४९४]व्यवच्छेदेन विशेषणे पक्षायोगव्यवच्छेदं साध्यमपास्यसामान्येनान्वयदर्शने तद्विशिष्टत्वसिद्धिरतद्रूपपरावृत्ततयैकत्वस्य विवक्षितत्वात्पक्षधर्मत्वयोगात् । पक्षधर्मायोगव्यवच्छेदेन सामान्यं[४९५] __________टिप्पणी__________ [४९४] ग्य- मूलपाठः । [४९५]ऽन्यविंऽ- मूलपाठः । ___________________________ निशेषीभवति । न विशेषः सामान्यम् । [४९६]यदि हि --- __________टिप्पणी__________ [४९६] स्ह्: ८५. ___________________________ पक्षायोगव्यवच्छेदपूर्वकमन्वयः प्रदर्श्यते ? भवेद्--- "विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता[४९७] ।" __________टिप्पणी__________ [४९७] विशेषेऽनुगमा.... .... साध्यता । -प्र- वा- भा- ४९९ पृ- । ___________________________ च (न ?) भवेत् । यदि --- सामान्येनान्वयो विशेषेण पश्चान्न परिणमेत । अत एव --- पक्षधर्मतारूपबलात्सामान्येन धर्मिना सम्बद्धो व्यापको विशेषणघर्मिणा सम्बन्धाद्विशेषणं[४९८]परिणमति । न तु यः कश्चित् । __________टिप्पणी__________ [४९८]ऽण परिऽमूलपाठः । ___________________________ एवम् --- यदापि --- पक्षधर्मतापूर्वकः प्रयोगः तदाप्ययोगव्यवच्छेदेन विशेषणात्धर्मिमात्रसम्बन्ध्येव व्यापकं सामान्यं सत्विशिष्टताप्रतिष्ठं प्रतीयते --- धूमोऽत्र ---ऽयत्र धूमस्तत्राग्निर्य [प्५ ४] था --- महानसऽ इति साध्यधर्मसामान्येन धर्मिमात्रयोगव्यवच्छेदं स्मरताधूमोऽत्र वर्त्तमानः साध्यधर्मसामान्यनान्तरीयकऽ इति पक्षयोगव्यवच्छिन्नस्तस्य धर्मसामान्यं प्रतीयते । समानस्वविषयविज्ञानजननयोग्यतारूपयोरेकदृष्टिः पर्युदासदृष्ट्यानुपलम्भः । यथा --- यद्यत्रोपलब्धिलक्षणप्राप्तं सत्नोपलभ्यते स तत्रासद्व्यवहारविषयः सिद्धो यथा --- तुरङ्गमोत्तमाङ्गे शृङ्गम् ! नोपलभ्यते चोपलब्धिलक्षणप्राप्तो धटः क्वचित्प्रदेशे । [४९९]तत्र --- __________टिप्पणी__________ [४९९] स्ह्: ८६. ___________________________ ऽअभावो नाम प्रमाणप्रमेयाभावरूपतया द्विविधोऽ भट्टस्य । ऽप्रमेयाभावोऽभावात्पृथगेवऽस्ति प्रत्यक्षसाध्यऽ इति न्यायमतम् । "नास्ति पदार्थोऽभावो न म प्रमाणविषय" इति मतं बौद्धानाम् । ननु --- ऽघटोऽत्र नास्तीतिऽघटवान् यन्न भवतीऽ त्यादिप्रतिषेधव्यवहारोऽस्ति । स किंविषयो भवतु? ऽसघटाद्भूतलादन्यभूतलविषयऽ इति ब्रूमः । अपरापरप्रत्यययोगेन जायमानं भूतलंऽकिञ्चित्सघटं किञ्चित्सधटादन्यदिऽति भावरूपतया तदाकारानु कारिणा प्रत्यक्षेणानुभूतनिश्चितं ससहायतया सघटप्रत्ययनिबन्धनम् । तत्प्रतियोगितया निरूप्यमाणं सघटादन्यद्भूतलं, घटोऽत्र नास्ति, [प्५ ५] घटवान् वा न भवतीति प्रत्ययद्वयनिबन्धनं निरूप्यते । तत्र --- अभावतत्त्वावतारणो[५००]विमर्शतरः कवलयति (?) कल्पनावीजानुपपत्तेः । __________टिप्पणी__________ [५००]ऽणंऽमूलपाठः । ___________________________ तथा हिऽघटोऽत्र नास्तीति बुद्धिनिबन्धनतया न कल्पनामर्हति । भूतलबिशेषेण घटादन्यसंज्ञेन तस्याः बुद्धेः कृतत्वात् । नाप्यभावव्यवहारविषयतया । सघटादन्यभूतलविषयः खल्वयमभावव्यवहारऽइति प्रथममेव कीर्त्तितम् । नापि भावविशेषणतया, प्रतिनियतभूतलानुभवभावितत्वादन्यव्यवहारस्य । यदि पुनर्विशेषणमन्तरेण नियतरूपं न सिध्यति, न सिध्यत्येव तर्हि नियतं विशेषणं विशेष्यं च रूपमिति किं कस्य विशेषणं विशेष्यं वा ? [५०१]तस्मात्--- __________टिप्पणी__________ [५०१] स्ह्: ८७. ___________________________ स्वहेतोर्नियतरूपमुत्पन्नम् । यथा --- विशेषणं विशेष्यं वा प्रत्यक्षेण च तदाकारानुकारिणा तदन्येन वा प्रत्ययेनाभूतं निश्चतं विशेषणान्तरमन्तरेण । तथा --- सघटादन्योऽपि भूप्रदेशः स्वहेतोर्नियतमुत्पन्नः, प्रत्यक्षेण तथैव दृष्ट्वा व्यवस्थापितोऽस्तु । प्रतियोग्यन्तरापेक्षया विषयः प्रतिषेधव्यवहारस्य । ऽइह भूतले कलशोऽसन्ऽ इति प्रत्ययो न भूतलमात्रप्रभवो, घटवत्यपि प्रसङ्गात् । नापि भूतलविशेषः । ततो भूतलात्तस्य तत्त्वान्यत्वा [प्५ ५] भ्यां यथासङ्ख्यं घटवत्यपि प्रसङ्गस्याभावस्वीकारस्य च दुरतिक्रमत्वात् । तस्मादलं भणित्वाभूतलकैवल्यमेवाभावऽ इति परः । अयुक्तमेतत् । समानसमञ्जसजातीयत्वात्प्रसङ्गस्य । अभावोऽपि भूतलमात्रविशेषणं नोपपद्य[५०२]ते । घटवत्यपि प्रसङ्गात् । तद्विशेषंऽपि स्वीकृतेऽभावादन्यत्वे तस्य किमभावेन ? घटवत्यपि प्रसङ्गात् । __________टिप्पणी__________ [५०२]ऽद्येऽलिखित्वा एऽमात्रा छिन्ना मूलपाठे । ___________________________ तस्मात्--- अपरापरप्रत्यययोगेन सघटाद्भूतलादन्यदेव भूतलं नियतप्रतिभासवशेन व्यवहृतम् । यथा --- घटाभावप्रतीतेर्निबन्धनम् । किमभावेन तद्(+ति)रिक्तेन ? [५०३]उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं, स्वभावविशेषश्च ।ऽयः स्वभावः सत्स्वर्थेषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्यादि विस्तरस्तु प्रसिद्ध एव । __________टिप्पणी__________ [५०३] स्ह्: ८८. ___________________________ अत्र --- द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे हि --- प्रत्यर्थोऽर्थं गमयति । स च स्वभावप्रतिबन्धः साध्येऽर्थे लिङ्गस्य, वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तद्व्यवहारनियमाभावात् । कार्यस्वभावहेतुविधेर्भिन्नाभिन्नस्वभावस्य साध कौ तेनोपेयस्य भेदादुपायो विधिसाधनौ भिन्नौ । तौ तावत्कथ साधयतः ? उच्यते । यस्य यत्रायत्तं स्वरूपं स आपत्तिविषयं साधयति । एत[प्५ ६] देव प्रतिबद्धस्वभावत्वमुच्यते । तच्चायत्तत्वं कार्ये त्वकारणेन कर्त्तव्यत्वे साध्यस्य च स्वभावत्वे विस्पष्टमुच्यमाने स्फुरति । न संयोगित्वे सति, न वा समवायित्वे सति । तेनोच्यते । --- "तादात्म्यात्तदुत्पत्तेश्च" इति । स्वभावप्रतिबद्धत्वं हि व्यापकस्य तत्र भाव एवऽव्याप्यस्य वा तत्रैव भावऽ इत्येवं लक्षणान्वयव्यतिरेकलक्षणोऽविनाभाव उच्यते । स चाविनाभावस्तादात्म्यतदुत्पत्तिभ्यां व्याप्तः । तयोस्तत्रावश्यम्भावत्वात् । तस्य तयोरेव भावात् । नन्वेतदेव न सहामहे महेश्वरेणाप्यनुशिष्टम् । सतो रूपादेरसतो गतिरकार्यकारणत्वेऽपि । तथा --- तस्यापि हि कार्यमेवाथ च व्यभिचरति बह्निम् । तथा --- कार्यत्वमन्तरेणापि जनसाधारणं[५०४]गमयति । गमयति च कार्यं कारणात्मानम् । न कारणात्मा कार्यम् । साधारणकार्यकारणभावः सम्बन्धः । तत्रोच्यते । --- __________टिप्पणी__________ [५०४]ऽणऽमूलपाठः । ___________________________ [५०५]"एकसामग्र्यधीनस्य रूपादेरसतो गतिः । __________टिप्पणी__________ [५०५] स्ह्: ८९. ___________________________ हेतुधर्मानुमानेन धूमेन्धनविकारवत्[५०६]। ।[५०७] __________टिप्पणी__________ [५०६] एकसामग्र्यधीनस्य.... ... गतिः । .... विकारवत् ॥ -प्र- वा- ३।८ । त- स- पं- ४१७ पृ- । [५०७] हेतुधर्मानुमानेन.... ....वत् ॥ -प्र- वा- ३।८, त- सं- पं- ४१७ पृ- । ___________________________ शक्तिप्रवृत्या न विना रसः सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गता ।" रमो हि रसनेव पूर्वकं गमयति स्वोपादानम् । हेतुधर्मानुमानेन पुनः समानकालं रूपम् । यतो --- येनासौ रसो रसेन जनि [प्५ ६] तः स प्रवृत्तशक्तिरूपोपादानरूपसहकारिकारणो रसो रसं जनयति । न केवलः । यथोक्तरूपसहकारित्वं च हेतुधर्मो, हेतुविशेषणम् । नचानुमीयमानं समानकालतया रूपमनुमापकस्य रसस्य कार्यहेतुतां व्याहन्ति । यथा --- स्वभावहेतोः कृतकत्वस्य "हेतुप्रत्ययैरिऽऽति व्यतिरिक्तं विशेषणं न स्वभावतां निराकरोति --- तथेहापि नयो वेदितव्यः । तथा --- यदि नाम भस्माङ्गारादिनिरुद्धेऽपि कारणेऽनुवर्त्तते । तत्किमे[५०८] तावता तत्पूर्वकतां व्यभिचरति ? __________टिप्पणी__________ [५०८]ऽवऽलिखित्वा छिन्नं मूलपाठे । ___________________________ जलस्य पुनः स्थैर्यमुपार्जितमाधारणातः स्थिरं जलमाधारं गमयति । कार्यतयैव । यत्पुनः कारणं कार्यस्य न गमकम्, तत्पुरुषाय बाधते । तथा हि--- "कुर्वता बह्निना धूमं कारणत्वमवाप्यते । कुर्वता यदि गम्येत गमकत्वं भवेदपि[५०९]। ।[५१०] __________टिप्पणी__________ [५०९] कुर्वता यदि .... ....भवेदपि ॥ -प्र- वा- भा- ६०५ पृ-, ४।२०३।४८८ ॥ [५१०] कुर्वता वह्निना.... ....विद्यते । ....भवेदपि ॥ -प्र- वा- भा- ६०५ पृ-, ४।२०३।४८८ ॥ ___________________________ यत्त्वशक्यं तथा गन्तुमिति दोषो न तस्य सः । तथा तत्कार्यमेव स्याद्धूमाभावादभावतः[५११]। ।[५१२] __________टिप्पणी__________ [५११] तथा तत्कार्यमेव... ....भावतः ॥ -प्र- वा- भा- ६०५ पृ-, ४।२०३।४८९ । [५१२] यत्त्वशक्यं तथा गन्तु.... .... सः । ....भावतः ॥ -प्र- वा- भा- ६०५ पृ-, ४।२०३।४८९ । ___________________________ [५१३]व्यापकं व्यतिरिक्तत्वे कारणं सर्वमेव हि । __________टिप्पणी__________ [५१३] स्ह्: ९०. ___________________________ पूर्वत्वे कारणस्येष्टे ह्युपादानं तदर्थिनाम्[५१४]। । __________टिप्पणी__________ [५१४] व्यपकं व्यतिरिक्तत्वे.... .... मेव हि । .... तदर्थिनाम् । -प्र- वा- भा- ६०५ पृ-, ४।३०२ का- । ___________________________ परत्वे ह्यनुमानं यत्सामर्थ्यात्तद्भविष्यति । को हि हस्तगतं द्रव्यं पादगामि करिष्यति[५१५]? ॥ __________टिप्पणी__________ [५१५] को हि हस्तगतं .... .... करिष्यति ॥ (एतावदेव) प्र- वा- भा- ६९ पृ- । ___________________________ भाविकारणभावेन परलोकानुमा स्थिरा । ।" भाविना सार्धमन्वयव्यतिरेकानुविधानमपि प्रत्य[प्५ ७] क्षानुपलम्भाभ्यामेव सम्भाव्यम् । अप्रतिबद्धशक्तिकं हि कारणं येन प्रत्यक्षानुपलम्भेन परिच्छिद्यते, तेन कार्यमस्यावश्यम्भावि । परिच्छिन्दता कार्यस्य भावात् ।ऽबाधं न करोति कारणमिऽति परिच्छिन्नं भवति । तेन कारणस्यापि गमकत्वे कार्यत्वमेवे[५१६]ऽति भेदे सति गमकं नान्यदित्युक्तं भवति । __________टिप्पणी__________ [५१६] कार्यमेवेति अधिकं लिखित्वा छिन्नं मूलपाठे । ___________________________ यत्पुनरुच्यते । --- तादात्म्याविशेषेऽपि शिंशपात्वं गमकं, न वृक्षत्वमपि । तस्मादव्यभिचारि गमकं न तदात्मकमिति ! तत्राचार्येणोक्तम् । --- "यो वात्मा सोऽविभागवान् स तेनाव्यभिचारी स्यात् ।" य आत्मा यस्य स गमकस्तस्य । वृक्षः शिंशपामपास्याप्यस्ति पलाशादिः । न तु शिंशपा तथेति सैवाविभागवती । "तत्रापि शिंशपात्मा स्याद्वृक्षोऽपि गमको मतः । तादात्म्यं सुगमं नेति गमकत्वं न विद्यते[५१७]। ।[५१८] __________टिप्पणी__________ [५१७] तत्रापि शिंशपात्मा.... ....मतः । ....विद्यते ॥ -प्र- वा- भा- ६०५ पृ-; ४।२०३।४९० । [५१८] तादात्म्यं सुगमं.... .... विद्यते ॥ -प्र- वा- भा- ६०५ पृ-; ४।२०३।४९० । ___________________________ तथा वा गमकत्वे स्यादविभागत[५१९]या गतिः । __________टिप्पणी__________ [५१९]ऽगबत्या गतिःऽमूलपाठः । ___________________________ तस्मात्सर्वा गतिः कार्याविभागत्वेन वस्तुनः[५२०]। ।[५२१] __________टिप्पणी__________ [५२०] तथा वागमकत्वे.... .... गतिः । .... वस्तुनः ॥ -प्र- वा- भा- ६०४ पृ-, ४।२०३।४९१ । [५२१] तस्मात्सर्वा... ... वस्तुनः । - प्र- वा- भा- ६०५ पृ-, ४।२०३।४९१ । ___________________________ [५२२]अपि च --- __________टिप्पणी__________ [५२२] स्ह्: ९१. ___________________________ ऽपक्षधर्मऽ इत्यत्र धर्मशब्दो न गुणपर्यायः । किं तर्हि ? आश्रितवाची । प्रतितन्त्रसिद्धान्तन्यायात् । तेन --- "देहाश्रितवस्त्रादावप्रसङ्गो धर्मशब्दस्य" इत्यप्रस्तुतमपि ग्राह्यमस्तु । तदेवम् --- अविनाभावो व्याप्तस्तादात्म्यतदुत्पत्तिभ्याम् ।ऽते च --- तादात्म्यतदु[प्५ ७] (+त्प) त्ती स्वभावकार्ययोरेवेऽति ताभ्यामेव वस्तुसिद्धिः । तत्र प्रयोगः । यस्य येन सह तादात्म्यतदुत्पत्ती न स्तः, स न तदविनाभावी । यथा --- प्रमेयत्वादिरनन्तत्वादिना, न स्तश्च तादात्म्यतदुत्पत्ती कार्यस्वभावव्यतिरेकिणाम् । व्यापकानुपलब्धिरेषा । स्वभावानुपलब्धिस्तु --- स्वभावहेतावन्तर्भावित्वात्तत्तादात्म्यलक्षणः प्रतिबन्धव्यापककारणानुपूर्वी च तादात्म्यतदुत्पत्तिबलादेव कार्यव्याप्ययोर्निवृत्तिं साधयतः, प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः । अनुपलब्धेस्तावत्तस्या उपलब्धिलक्षणप्राप्तस्य सत्त्वे सम्भवात् । नह्यस्ति---सम्भवस्तुल्यस्वज्ञानजननयोग्यतयोः प्रतियोगिनोः सतोरेकरूपनियतायाः प्रतीतेः । यस्मिन् वेद्यमाने यस्मिन् (यन् ?) नियमेन वेद्यते, तत्तस्य प्रतियोगि । तदेकेन्द्रियज्ञानग्राह्यं वा । यथा---भूतलघटरूपयोः । भिन्नेन्द्रियग्राह्यं वा । [५२३]यथा---देवकुलभेरीशव्दयोः । विकल्पज्ञानान्धकारस्य प्रतिषेध्य[५२४] __________टिप्पणी__________ [५२३] स्ह्: ९२. [५२४] अत्रऽप्रतऽइति लिखित्वा छिन्नमिव मूलपाठे । ___________________________ दीपयोर्वा । ऽदेशकालस्वभावविप्रकृष्टेषु मेरुधामपिशा चेषु चानुपलब्धिलक्षणप्राप्तेषु सत्स्वपि प्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवादनैकान्तिकत्वेन प्रतिषेधव्यवहारासिद्धेर्दृश्यानुपल [प्५ ८] ब्धेरेव सा भवतीति प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेरिति सिद्धम् । यथा --- एकज्ञानसंसर्गिणि दृश्यमाने दृश्यत्वं प्रतिषेधस्य । तथा--- अतीतकालेऽतीतकालत्वमदृष्टस्मृतिसंस्कारेऽदॄष्टस्मृतिसंस्कारत्वम्, वर्त्तमाने वर्त्तमानत्वम् । तेनादृष्टस्मृतिसंस्कारातीतस्य प्रतिपत्तृप्रत्यक्षस्य दृश्यप्रतिषेध्यस्य वर्त्तमानस्य चान्योपलब्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलव्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलब्धिरभावव्यवहारे हतुः । तेन --- दृष्टान्तासिद्धिचोदनापि प्रच्याविता । ऽगौरयम्, सास्नादिसमुदायात्मकत्वादिऽत्यादेर्दृष्टान्तत्वात् । परिणामेन योग्यताभाजो योगिप्रभावाद्वा स्तम्भितज्ञानशक्तेर्घटस्य घटते कथं भूतले प्रतिषेधः ? सान्धकारे, सालोके वा ? न । तदानीमदृश्यत्वात् । योगिनापि इन्द्रियस्य विषयस्य वा ज्ञानजनन शक्तिस्तम्भसम्भवात् । सा चानुपलब्धिः व्यासेन षोडशप्रकारा । तस्याश्च सङ्ग्रहश्लोकः ।-- "स्वभावकारणव्यापिकार्याणां स्युः पृथक्पृथक् । अदृग्विरोधि दृग्वैरि कार्यादृग्वैरिव्याप्तदृक् ॥" [५२५]तत्र-- __________टिप्पणी__________ [५२५] स्ह्: ९३. ___________________________ (१)स्वभावा[५२६]नुप[५२७]लब्धिर्यथा-- __________टिप्पणी__________ [५२६]ऽवनुऽमूलपाठः । [५२७] अत्रऽवऽइति लिखित्वा छिन्नमिव मूलपाठे । ___________________________ नात्र धूमः, उपलब्धिलक्षणप्राप्तानुपलब्धेः । (२)कारणानुपलब्धिर्यथा -- नात्र धूमो ब[प्७ ८] हन्यभावात् । (३)व्यापकानुपलब्धिर्यथा -- नात्र[५२८]शिंशपा, वृक्षाभावात् । __________टिप्पणी__________ [५२८]ऽभ्राभ्रऽइति मूलपाठे । ___________________________ (४)कार्यानुपलब्धिर्यथा -- नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभात्रात् । (५) स्वभावविरुद्धोपलब्धिर्यथा -- नात्र शीतस्पर्शो बह्नेः । (६)कारणविरुद्धोपलब्धिर्यथा -- नास्य रोमहर्षादिविशेषा सन्ति, सन्निहितदहनविशेषत्वात् । (७)व्यापकविरुद्धोपलब्धिर्यथा -- नात्र तुषारस्पर्शो बह्नेः । (८)कार्यविरुद्धोपलब्धिर्यथा -- नेहाप्रतिबद्धसामर्थ्[५२९]यानि शीतकारणानि सन्ति, बह्नेः । __________टिप्पणी__________ [५२९] अत्रऽसामान्यार्थानिऽइति लिखित्वान्याछिन्नमिव मूलपाठे । ___________________________ (९)स्वभावविरुद्धकार्योपलब्धिर्यथा -- नात्र शीतस्पर्शो धूमात् । (१०) कारणविरुद्धकार्योपलब्धिर्यथा -- न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमात् । [५३०](११)व्यापकविरुद्धकार्योपलब्धिर्यथा -- __________टिप्पणी__________ [५३०] स्ह्: ९४. ___________________________ नात्र तुषारस्पर्शो धूमात् । (१२) कार्यविरुद्धकार्योपलब्धिर्यथा -- नेहाप्रतिबद्धसामर्थ्यानि शीतकरणानि सन्ति, धूमात् । (१३)स्वभावविरुद्धव्याप्तोपलव्धिर्यथा -- न ध्रुवभावी, भूतस्यापि भावस्य विना हेत्वन्तरापेक्षणात् । (१४)कारणविरुद्धब्याप्तोपलब्धिर्यथा -- नात्र धूमः, तुषारस्पर्शात् । (१५) ब्यापकविरुद्धव्याप्तोपलब्धिर्यथा -- नायं नित्यः, कदाचित्कार्यकारित्बात् । नित्यं हि---निरतिशयत्वेन व्याप्तम् । तद्विरुद्धं सा [प्६ १]ऽतिशयत्बम् । तेन व्याप्तं कादाचित्कार्यकारित्वम् । (१६)कार्यविरुद्धव्याप्तोपलब्धिर्यथा -- नेहाप्रतिबद्धसामर्ध्यानि बह्निकारणानि सन्ति, तुषारस्पर्शात् । तदेवम्--- एषा स्वभावानुपलब्धिः प्रयोगभेदाद्व्यासतः षोडशप्रकारा । कार्यकारणब्याप्यव्यापकभावसिद्धिः खलु --- दृश्यतामन्तरेण न सम्भवति । ततो विरुद्धया उपलव्ध्या कारणाद्यनुपलव्ध्या च येषां प्रतिषेध उक्तस्तेषां दृश्यानामेव स्मृतानां प्रतिषेधसिद्धिः । सर्ववित्प्रेत्यभावादयस्तु--- न पूर्वं, न तदा नीं बा दृश्यास्ततो न विषेद्धव्याः । भाष्यं पुनः--- [५३१]"अभावेन हि शीतस्य वह्नेः प्रागुपलब्धिभाक् । __________टिप्पणी__________ [५३१] स्ह्: ९५. ___________________________ सम्बन्धस्तेन तत्सिद्धया तदभावः प्रसिध्यति[५३२]। ।"[५३३] __________टिप्पणी__________ [५३२] अभावे न हि शीतस्य... .... लब्धिभाक् । .... प्रसिद्ध्यति ॥ -प्र- वा- भा- २३१ पृ-, ३।८८।२७२ ॥ [५३३] सम्बन्धस्तेन..... .... प्रसिद्ध्यति । -प्र- वा- भा- २३१ पृ-, ३।८८।२७२ । ___________________________ स चाभावोऽनुपलब्धिरेव । तेनानुपलब्धिरेवानुमानसिद्धा साधयत्भावव्यवहारम्, यथा प्रत्यक्षसिद्धा । यतो - वक्ष्यति । "तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः[५३४]। __________टिप्पणी__________ [५३४] तस्मादनुपलम्भो........ गतः ॥ -प्र- वा- ४।२७४ का-; प्र- बा- भा ६३७ पृ-, २३३ पृष्टे च । ___________________________ इति । तथानुमानतो गतऽ इत्यपि वेदितव्यम् । यदा तु -- रोमहर्षाभादः साध्यते । तदाग्निना शीतानुपलब्धिः । तया कारणानुपलब्ध्या रोमहर्षाभावः साध्यते । तत्र ---अग्निरूपेण स्पर्शस्योष्णात्मनः एकसामग्र्यधीनतयानुमानम् । स च शीताभावस्वभावः । तस्यानुमानेनोपल प्[६ १] (+ब्धि)रेव शीतानुपलब्धिः । तेन--कार्यहेतुकारणानुपलव्ध्योरेकत्र प्रवृत्तत्वान्न विरोधी नाम पदार्थो लिङ्गान्तरम् । तस्यानुपलब्धिरेबानुमानसिद्धाभावं गमयति । तेनानुमितानुमानमेऽतदिति । मित्रमतं पुनः --- ऽअनुपल(+ब्ध)ता स्वभावस्यापरा । स्वभाबानुपलब्धिरेवापरस्यापरा भवतिऽ कारणानुपलब्धिर्व्यापकानुपलब्धिश्चेऽत्यादि प्रकारा । तस्माद्---विधिप्रतिषेधप्रकारप्रयोगेऽप्यनुपलव्धिरेव गमिका । आह च । --- "अन्यथैकस्य धर्मस्य सद्भावोक्त्त्यापरस्य तत् । नास्तित्व केन गम्येत ? विरोधाच्चेदसावपि[५३५]। ।[५३६] __________टिप्पणी__________ [५३५] अन्यथैकस्य धर्मस्य.... ....तत् । । ....सावपि । । -(स्य भावस्य पाठयुक्) प्र- वा- भा- २३० पृ-; ३।८७ का । [५३६] नास्तित्वं केन.... .... वपि ॥ -प्र- वा- भा २३० पृ-, ३।८७ का । ___________________________ सिद्धकेनासहस्धानादिति चेत्? तत्कुतो गतम् ? । दृश्यस्य दर्शनाभावादिति चेत्? साप्रमाणता[५३७] । ।"[५३८] __________टिप्पणी__________ [५३७] दृश्यस्य दर्शना... .... प्रमाणता । -प्र- वा- भा- २३० पृ-, ३।८८ का- । [५३८] सिद्धः केनासह.... ....मतम् । ....ऽप्रमाणता ॥ -प्र- वा- भा- २३० पृ-, ३।८८ का- । ___________________________ [५३९]प्रतियेधऽपि द्विविधः --- तादात्म्यस्याधेयस्य च । __________टिप्पणी__________ [५३९] स्ह्: ९६. ___________________________ तत्र --ऽतादात्म्ये निषेध्ये विशेषणमप्युपलब्धिलक्षणयाप्तमिऽति न वाच्यम् । सर्वस्यैव दृश्यत्वात् । तदेव च निषिध्यते तादात्म्येन, यद्यत्र नियताकारम् । यथा --- "स्तम्भोऽयमम्भोधरो न भवति । पिशाचो वा शशविषाणं वा न भवतीति । यत्पुनरनियताकारम् --- तन्न सिध्यते (ति?) । यथा--- क्षणिकत्वनीले--- "वस्तुसङ्करसिद्धिश्च प्रमाणाभावनाश्रिता ।" इत्यप्यसत् । यतः क्वचित्प्रमाणं वृत्तं तत्प[प्६ २]रिच्छिनत्ति, ततोऽन्यद्व्यवच्छिनत्ति । "तृतीयप्रकाराभावं च सूचयतीऽत्येकप्रमाणं व्यापार एषः । विरुद्धोपलब्धौ च द्विविधो विरोधः । सहानवस्थानलक्षणः । परस्परपरिहारस्थितलक्षणता च । लक्षणमन्योर्विकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः, परस्परपरित्यागस्थितस्वरूपत्वं च । आद्यस्य --- प्रत्यक्षानुपलम्भैर्ग्रहणम् । अत एवायम् --- दृश्ययोरेव वस्तुनोरेब विरोधः । द्वितीयस्तु --- वस्त्ववस्तुनोर्दुश्यादृश्ययोरपि । द्वितीयस्य ग्रहणोपायो नियतोपलम्भः । अत एवोच्यते । --- ऽयस्मिन् परिच्छिद्यमाने यन्नियमेन व्यवच्छिद्यते, तत्ततोऽन्यदिऽति । [५४०]तदुक्तम् । --- __________टिप्पणी__________ [५४०] स्ह्: ९७. ___________________________ "अन्योन्यभेदसिद्धेर्वा ध्रुबभावविनाशवत् । प्रमाणान्तरबाधाद्वा कदाचित्कानपेक्षवत्[५४१]। ।"[५४२] __________टिप्पणी__________ [५४१] अन्योऽन्यभेदसिद्धे.... ....वत् । .... क्षवत् । -प्र- वा- भा- ६४०, ४।२७९ का- । [५४२] प्रमाणान्तर.... .... पेक्षवत् ॥ -(सापेक्षध्रुवभाववतिति पाठयुक्) प्र- वा- भा- ६४० पृ-, ४।२७९ का- । ___________________________ प्रत्यक्षमेव निषेधकमनुपलम्भ उच्यते । ते न --- कार्यकारणभावसिद्धौ ---ऽप्रत्यक्षानुपलम्भाभ्यामिऽत्यत्र यद्यनुपलम्भोऽनुमानम्, तदा --- तत्रापि व्यतिरेकग्रहोऽपरेणानुमानेनेत्यनवस्थिति प्रत्युक्तम् । कार्यहेतौ च । --- "क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः । प्रसिद्धकारणाभावे येषां भावस्ततोऽन्यतः[५४३]। ।[५४४] __________टिप्पणी__________ [५४३] क्षणिकत्वे कथं.... .... वृत्तयः । ऽन्यतः ॥ हे- वि- टी- अर्चटेनोद्धृतम् १५५ पृ- । [५४४] प्रसिद्धकारणाभावे.... ....ऽन्यतः ॥ --हे- वि- टी- अर्चटेनोद्धृतम् १५५ पृ- । ___________________________ ततश्चानग्नितोऽधूमाद्यथा धूम[प्६ २] स्य सम्भवः । शक्रमूर्ध्नस्तथा तस्य केन वार्येत सम्भवः[५४५]? ॥ __________टिप्पणी__________ [५४५] ततश्चानग्नितो .... सम्भवा । .... सम्भवः ॥ -(अतश्च- पाठयुक्) हे- वि- टी- अर्चटेनोद्धृतम् १५५ पृ-; वा (द) न्याय) टी (का-) शान्तरक्षितः १५ पृ- ___________________________ चित्रं चित्रकराज्जातं यतस्त्रिष्वपि दृश्यते । अयस्काराच्च तीक्षणत्वं वदरीबीजतोऽपि च ॥ शालूकादपि शालूकं कथं भवति गोमयात्? । जायते च शरः शृङ्गात्जायते च शरादपि । । वीजकन्दोद्भवा रम्भाप्यम्भोऽस्ति मणिसम्भवम् । बृश्चित्कान्निश्चितं जातो बृश्चिको गो मयादपि । । --- एवमादिषु व्यभिचारदृष्टेरिष्टं कथं कार्यस्य हेतुत्वम् ? उच्यते । अग्नीन्धनसामग्रीजन्यो यादृषो धूमो न तादृश एव धूमाद्भवति । कारणभेदेन कुतश्चित्साम्यात्समानरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यनीन्धनादिसामग्रीक्षणान्तरजन्य एवापरः क्षणः । [५४६]त[५४७]था --- __________टिप्पणी__________ [५४६] स्ह्: ९८. [५४७] अत्रऽदऽलिखित्वा छिन्नमिव मूलपाठे । ___________________________ तदन्य आद्य एषापराग्नीन्धनादिसामग्रीजन्यऽ इति तादृशस्य धूमस्य धूमात्सम्भवाभावात् । न क्वचिदनाश्वासः कार्यः । एवम्--- अन्यादृशमेव चित्रं चित्रकरकरपल्लवोल्लसितमन्यादृशमेवमतन्त्रियन्त्रविस्फुरितम् । तूणीतोमरादिषु च तीक्ष्णत्वमयस्कारादन्या दृशम् । बदरीबीजनिर्जातमन्यादृशमेव कण्टककोटितया प्रत्यकलितम् । एवम् --- शालूकादीनामपि भेदो वाच्यः । प्रत्येति च वनकन्दोद्भवां कदलीमन्यादृशी [प्६ ३] ं बीजोद्भवायाः कदल्याः । उक्तं च --- "तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु । तथाकारणमेतत्स्यादिति केचित्प्रचक्षते[५४८]। ।[५४९] __________टिप्पणी__________ [५४८] तथा कारण.... ....प्रचक्षते ॥ -प्र- वा- भा- १३३ पृ- २।१८१ का । [५४९] तैक्ष्ण्यादीना.... .... कण्टकादिषु । .... प्रचक्षते ॥ -प्र- वा- भा- १३३ पृ- । २।१८१ का- । ___________________________ सत्येव यस्मिन् यज्जन्म विकारे वापि (+या ?) क्रिया । तत्तस्य कारणं प्राहुस्तत्तेषामपि विद्यते ॥" अन्वयव्यतिरेकानुविधायिनां नापरः कार्यकारणाभावः । न च स्पर्शेनानेकान्तः । "स्पर्शस्य रूपहेतुत्वाद्दर्शनेऽस्ति निमित्तता[५५०]। __________टिप्पणी__________ [५५०] स्पर्शस्वरूपहेतुत्वाद् निमित्तता ॥ -प्र- वा- भा- १३४ पृ-, २।१८३ का- । ___________________________ यदि नामरूपान्वयव्यतिरेकानुविधायि रूपदर्शनं स्पर्शस्यान्वयव्यतिरेकावनुविधत्ते । तथापि स्पर्शः परम्परया हेतुः । एकसामग्र्यधीनत्वात् । [५५१]भदृस्यात्र चोद्यम् --- __________टिप्पणी__________ [५५१] स्ह्: ९९. ___________________________ "यः शुभाशुभकर्मणः कर्त्ता न स फलस्य भोक्ता --- अतः कृतनाशाकृताभ्यागमदोषः । "नैरात्म्यवादपक्षे च पूर्वमेवाववुध्यते । तद्विनाशात्फलं न स्यान्यसान्या (?)ऽपि वा भवेत्[५५२]। । __________टिप्पणी__________ [५५२] नैरात्म्ययवाद.... .... .... बुध्यते । ....भवेत् । --त- सं- १६७ पृ-, ४८१ का- । ___________________________ इति नैव प्रवर्त्तेत प्रेक्षावान् फललिप्स या । शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितः[५५३]। ।[५५४] __________टिप्पणी__________ [५५३] इति नैव प्रवर्त्तेत.... .... लिप्सया । .... स्थितः । । त- स- १६७ पृ-, ४८१ का- । [५५४] शुभाशुभक्रिया.... .... फलं स्थितः ॥ --त- सं- ४८१; पृ- १६७ (स्थितं पाठयुक्) । ___________________________ किञ्च --- क्षणान्नानागतान्नातीतान्न वर्त्तमानतावन्तं कालमनवस्थितेः कार्यजन्म । "तस्मात्प्राक्कर्मनिष्पत्तेर्व्यापारो यस्य दृश्यते । तदेव कारणं तस्य न त्वानन्तर्यमात्रकम्[५५५]। ।"[५५६] __________टिप्पणी__________ [५५५] तदेव कारणं मात्रकम् ॥ त- स- १६९ पृ-, ४८७ का- । [५५६] तस्मात्प्राक्कार्य.... ... दृश्यते । ... मात्रकम् । । त- सं- १६९ पृ-, ४८७ का- । ___________________________ किञ्च --- प्रत्यक्षानुपलम्भेन ग्रहणमपि सम्भाव्यते । एकस्यात्मनोऽभावेन कः सन्दध्यात्क्र[प्६ ३]मवद्गतिम् । ऽयस्यादृष्टाविदं दृष्टन्नास्य दृष्टौ --- [तु लक्ष्यते] ---ऽ "सादृश्यात्प्रत्यभिज्ञानं भिन्ने देशादिके भवेत् । ज्ञातुरेकस्य सद्भावाद्द्विभेदे तु कथं भवेत्[५५७]? ॥" __________टिप्पणी__________ [५५७] ज्ञातुरेकस्य.... .... कथं भवेत् ॥ त- सं- पं- १७० पृ-, ४९४ का- । ___________________________ ऽद्विभेदऽ इति ज्ञातुर्ज्ञेयस्य च भेदे । अत्रोच्यते ।--- ऽअविनष्टादेव क्षणात्कार्यमिऽति पक्षः । न च यौग[५५८]पद्यावद्यमनयोः । __________टिप्पणी__________ [५५८]ऽयौग्यऽमूलपाठः । ___________________________ कार्यक्षणे नष्टत्वात्पूर्वक्षणस्य कारणस्य । [५५९]न च --- नष्टादेव तस्मादुत्पत्तिः । कार्यस्य द्वितीयक्षणभावित्वात् । न च कार्यकाले कारणानुवृत्त्या ? किञ्चिन्निष्पन्नत्वात्कार्यस्य । __________टिप्पणी__________ [५५९] स्ह्: १००. ___________________________ तस्मात्--- नियतं प्राग्भावित्वं कार्यापेक्षया कारणत्वम् --- न व्यापारकारित्वम्, अनवस्थाप्रसङ्गात् । व्यापारेऽपि व्यापारान्तरेण प्रवर्त्तनात् । "दीर्घा व्यापारमालेयमेता[५६०]वत्कस्य जीवितम् ? ॥" __________टिप्पणी__________ [५६०] मेवावत्मूलपाठः । ___________________________ तस्मात्--- ऽगर्दभानन्तरं घूमऽ इति नियमत्वेन निरस्यते । भावित्वेन शशविषाणादि । तच्च नियतत्वं कार्यधूमे वह्नेर्भाव एव । नियतपश्चाद्भावित्वं कार्यस्य कार्यत्वम् । अत्रापि नियतत्वं बह्नावेव सति भावकार्यस्य धूमस्य । अत्रापि बह्नयन्तरमुपलभ्यमानस्य गर्दभादेर्नियतपदेनापवादः । कार्यो भावित्वेनाभवतो घटादेः । स च नियमो भावो हेतुभावा भावाभ्यां कार्यभावाभावौ विशिष्टौ । कार्यगतभावाभावाभ्यां च कारणगत[प्६ ४] भावाभावौ विशिष्टौऽसर्वत्र देशे काले च सर्वदा वह्निनान्तरीयक एव धूमऽ इत्यवधारणात् । तत्किं सर्वज्ञो भूत्वा विज्ञोऽविजानीयान्नियमम् ? न च सर्वज्ञोऽसौ न च न गृह्लाति कार्यकारणयोर्नियमम् ? यदि हि धूमो नाग्निजन्यस्तदा सकृदपि ततो न जायेत ? किमेतत्प्रमाणान्तरम् ? [५६१]न । __________टिप्पणी__________ [५६१] स्ह्: १०१. ___________________________ तस्यैव प्रत्यक्षानुपलम्भस्यावान्तरव्यापारपरामर्शः । यथा --- यदि नीलो दृश्यमानोऽयं देशान्तरे कालान्तरे वा न नील इहापि वर्त्तमानो न नीलो दृश्येत । दृश्यते च । --- तथा --- ऽधूमोऽयं विवक्षितदेशकालयोः[५६२]पावकानन्तरं नियतभाबीति भावितो[५६३]देशान्तरे कालान्तरे च नान्यथा शङ्कनीयः । __________टिप्पणी__________ [५६२] अत्रऽपऽलिखित्वा छिन्नं मूलपाठे । [५६३] अत्रऽपिऽलिखित्वा छिन्नं मूलपाठे । ___________________________ "यथा नीलस्य दृष्टस्य नाशङ्क्यानीलरूपता । तथा दृष्टस्य जन्यस्य नाशङ्क्याजन्यरूपता ॥ अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः । अथानग्नि स्वभावोऽसौ धूमस्तत्र कथं भवेत्? ॥ धूमहेतुस्वभावो हि बह्निस्तच्छक्तिभेदवान् । अधूमहेतोर्धूमस्य भावे सः[५६४]स्यादहेतुकः ॥ __________टिप्पणी__________ [५६४] अत्र स इति विसर्गरहितः पाठो मूलपाठे । ___________________________ नित्यं सत्त्वमसत्त्वं वा हेतो रन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्के त्वसभ्भवः[५६५]। ।" __________टिप्पणी__________ [५६५] नित्यं सत्त्वमसत्त्बं.... .... क्षणाम् । .... त्वसम्भवः ॥ -(पूर्वार्धमात्रं) प्र- वा- भा- १३३ पृ-, १८०; ६४३ पृ- अपि । ___________________________ ऽस धूमो यो बह्निजनितः,ऽस बह्नि[५६६]र्यो धूमजनकऽ इति परस्परस्वभावनियम[प्६ ४] उक्तः । स च निष्फलः । __________टिप्पणी__________ [५६६] अत्रऽबह्नियामूलपाठः । ___________________________ [५६७]यतः । --- __________टिप्पणी__________ [५६७] स्ह्: १०२. ___________________________ प्रज्वलत्प्रभाताडम्बरचुम्बिभास्वरत्वादिकोऽप्यपरः पावकस्य स्वभावोऽस्ति, कण्ठक्वणाम्बु(?)काम्बुप्रक्षरणविकारादिवारित्वं धूमस्य । सत्यम् । साकारा खलु शक्तिः । कार्यतापि कार्यमेव । भेदान्तरप्रतिक्षेपाभ्यां धर्माधर्मितया व्यपभेदे (?)ऽपि तेन पावकस्य शक्रमूर्ध्नश्च यदि शक्तिरेका धूमजननं प्रति, दुग्धवारिनोरेव क्लेदं प्रति स्वात् । तदा ---ऽदुग्धवारिणोरेव नैव शक्तियोगेऽपि पावकशक्रमूर्ध्नोरेकरूपता स्यादिऽति निराकृतम् --- तत्र--- शक्तेः साकारतामभिसन्धाय --- "अग्निस्वभाव........ " इत्यादि वार्तिकमुक्तम् । एकस्य तु प्रतिसन्धातुरभावेऽपि भेदेऽपि बह्न्यादिप्रमेयस्य --- "वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् । भेदेऽपि यत्र तज्ज्ञानं तंस्तथा प्रतिपद्यते[५६८]। ।[५६९] __________टिप्पणी__________ [५६८] भेदेऽपि यत्र.... .... प्रतिपद्यते ॥ -प्र- वा- भा- २६० पृ, ३।१६१ का- । [५६९] बस्तुधर्मतयैवार्थाः.... ... कारणम् । .... प्रतिपद्यते । । -प्र- वा- भा- २६० पृ, ३।१६१ का- । ___________________________ ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने । इत्येतत्कार्यविश्लेषस्यान्वयो नैव वस्तुतः[५७०]। ।[५७१] __________टिप्पणी__________ [५७०] इत्येतत्कार्य... .... .... वस्तुनः ॥ -प्र- वा- भा- २६० पृ, ३।१६२ का- । [५७१] ज्ञानान्यपि तधा.... ...शने । .... वस्तुनः ॥ -प्र- वा- का- २६० पृ-, ३।१६२ का- । ___________________________ वस्तूनां विद्यते तस्मात्तन्निष्ठा वस्तुनि श्रुतिः[५७२]। ।" __________टिप्पणी__________ [५७२] वस्तूनां विद्यते.... .... श्रुति वा- भा- ३६१ पृ-, ३।१६३ का- । ___________________________ प्रत्येति भेदप्रमाणम् । सा यतः कुतश्चिदेकत्वशून्याच्छक्तादुत्पद्यतामेवम्--- [५७३]ग्राहकप्रत्यभिज्ञापि । यादृश्येव प्रत्यभिज्ञा घटे छिन्नोद्भिन्नक[५७४]दलीकाण्डेऽपि तादृगेव ।ऽलक्षणायुक्तेर्वाधासम्भवे तल्लक्षणमेव दू[प्६ ५] षितं स्यादिऽति सर्वत्रानाश्वासः । __________टिप्पणी__________ [५७३] स्ह्: १०३. [५७४]ऽकालिखित्वा आकारमात्रा छिन्ना मूलपाठे । ___________________________ उट्टोक (दुर्व्वेक ?) स्त्वाह --- ऽन भिन्नलक्षणत्वाद्या प्रत्यभिज्ञा विरुद्धधर्माध्यासशून्यविषया सा प्रमाणम् । इतरा त्वप्रमाणामिऽति । तत्र विरुद्धधर्माध्या सशून्यविषयत्वं प्रत्यभिज्ञायाः केन सिद्धम् ? किं प्रमाणान्तरेण ? प्रत्यभिज्ञयैव वा ? अन्येन सिद्धौ किं प्रत्यभिज्ञया ? तया सिद्धावन्योऽन्याश्रयणम् । तस्मात्--- एकावसायसमनन्तरजातमन्यविज्ञानमर्थपरामर्शमुपदधाति । एवम्--- तदेक[५७५]विरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् । __________टिप्पणी__________ [५७५] तदेवक इति मूलपाठः । ___________________________ ऽअनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति[५७६]ऽइत्यपि वचनम्, प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोकं लोकं प्रति कीत्तिंतं मुनिभिः । __________टिप्पणी__________ [५७६] अनेनैव कृतं कर्म .... ....भबिष्यति ॥ --त- स- पं- १६६ पृ- । ___________________________ महितत्वान्यद्व्यासज्ज्यादिविचारमवधूय विशिष्टहेतुफलाभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसीय स एवाहं करोमीऽति व्यवहरति युक्तमेव प्रवर्त्तते । तदभिमानानुरोधेनेदमुदीरितम् । तत्त्वदृष्ट्या तु--- ऽदर्शितो राजदृष्टान्तस्तदेतन्नासमञ्जसम् । यथा प्रजाहितो राजा स्वसन्तानाय यत्नवान् ॥ [५७७]भेदेऽपि वर्तत्ते तद्वत्सत्त्वा र्थं तत्त्वदृष्टिमान् ॥ऽ __________टिप्पणी__________ [५७७] स्ह्: १०४. ___________________________ यत्पुनरुच्यते -- ऽनित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्[५७८]।ऽ __________टिप्पणी__________ [५७८] नित्यं सत्त्वम्.... ....क्षणात् ॥ -प्र- वा- भा- २९३ पृ-, प्र- वा- ३।३४ ॥ ___________________________ इत्यत्र न वौद्धस्य नित्यं सत्त्वम् [प्६ ५] सिद्धम् । तत्रैवं वेदितव्यम् । आकादाचित्कत्वं सत्त्वं नित्यमुक्तम्, न तु सदकारणवन्नित्यम् । "यथा यथा हि हेतूनामभावो नित्यता तथा । तैमिरज्ञानकेशादेर्विषयेण विनोदयात्[५७९]। ।[५८०] __________टिप्पणी__________ [५७९] तैमिरज्ञान.... ....त्रिनोदयात् ॥ -(तिमिर पाठयुक्) -प्र- वा- भा- १३३ पृ-, २१८०।७२९ । [५८०] यथा यथा हि.... .... तथा । .... विनोदयात् ॥ -प्र- वा- भा- १३३ पृ-, २।१८०।७२९ ॥ ___________________________ यतो यतोऽक्षिविक्षेपः केशदृष्टिस्ततस्ततः । एवं कथमनेकस्माद्क्लेदवद्दुग्धवारिणः ॥ द्रवशक्तेर्यतः क्लेदः सा त्वेकैव द्वयोरपि[५८१]।[५८२] __________टिप्पणी__________ [५८१] एवं कथमनेके.... .... ....बारिणः । .... द्वयोरपि ॥ -प्र- वा- भा- ६२७ पृ-, ४।२५३ । [५८२] द्रवशक्ते.... .... द्वयोरपि । । -प्र- वा- भा- ६२७ पृ-, ४।२५३ का- । ___________________________ भिन्नाभिन्नः किमस्यात्मा ? न भिन्नो द्रवता कथम् ? ॥ अभिन्नेहयुच्यते बुद्धेस्तद्रूपाया अभेदतः[५८३]।"[५८४] __________टिप्पणी__________ [५८३] अभिन्नेत्युच्यते.... .... अभेदतः । -प्र- बा- भा- ६२७ पृ-, ४।२५४ का- । [५८४] भिन्नाभिन्नः.... .... कथम् । .... भेदतः । । -प्र- वा- भा- ६२७ पृ-, ४।२५४ का- ॥ ___________________________ ---इत्यपि धर्मो व्याप्रियते क्वचिद् । क्वचिद्धर्म्येव । एवम्--- कार्येऽपि क्वचिद्धर्म उत्पद्यते । यथा --- कुड्यादेरक्तता । क्वचिद्धर्म्येव । यथा--- घटादिः । ननु--- स च किं सदुत्पद्यते ? अथासद्? सतः किमुत्पादेन ? असतोऽपि शशविषाणादेः किमुत्पादेन ? [५८५]"शशोऽप्यस्ति विषाणमप्यस्तीति वाक्यमसम्बद्धम् । __________टिप्पणी__________ [५८५] स्ह्: १०५. ___________________________ ऽशशसम्बन्धि विषाणं नास्तीऽति व्रुवाणं प्रति--- ऽअशक्तं सर्वमिति चेद्? वीजादेरङ्कुरादिषु । दृष्टा शक्तिर्मता सा चेत्सं[५८६]वृत्यास्तु यथा तथा[५८७]। ।[५८८] __________टिप्पणी__________ [५८६] सम्वृ- मूलपाठः । [५८७] अशक्तं सर्वंमिति.... .... .... दिषु । ....तथा । -प्र- वा- भा- १८२ पृ-, ३।४ का- ॥ [५८८] दृष्टा शक्ति.... .... तथा । । -प्र- वा- भा- १८२ पृ-, ३।४ का- । ___________________________ सास्ति सर्वत्र चेद्बुद्धेर्नान्वयव्यतिरेकयोः । सामान्यलक्षणेऽऽदृष्टेश्चक्षूरूपादिबुद्धिवत्[५८९]।ऽ[५९०] __________टिप्पणी__________ [५८९] सास्ति सर्वत्र.... .... रेकयोः । .... बुद्धिवत् ॥ -प्र- वा- भा- १८६ पृ-, ३।५ का- । [५९०] सामान्यलक्षणेऽदृष्टे.... ....बुद्धिवत् ॥ -प्र- वा- भा- १८६ पृ-, ३।५ का- । ___________________________ ऽयथा तथेऽत्यधिवचनं नानादरे शराच्छरोत्पादे । तादृशामादिकारणं तादृशं सर्वथा दृष्टं कारणं न व्यभिचरति कार्यात्मा [प्६ ]६] न तु यज्जातीयं कार्यं तज्जातीयमेव कारणमपि । न च । आकारभेद एव कारणानां तत्त्वातत्त्वनिबन्धनम्, अपि तु स्वभावान्तरमपि । कृत्रिमाकृत्रिमाणामिव मणिमुक्ताप्रबालादीनाम् । तथा हि ।-- क्वचित्स्वस्यैव भेदे, नीलेतरकुसुमयोरिव सूर्ययोः । क्वचित्फले, वन्येतरयोरिव कर्कंटयोः । क्वचिद्रसे, वन्येतरयोरिव भद्रत्रपुषयोः । क्वचिद्स्वभावे, स्पर्शोपयोगश्रयिण्योरिव हरीतक्योः । तस्मात्---सुविवेचितं कार्यं न कारणं व्यभिचरति । अनुवर्त्तकः कार्यस्य स्वभावोऽनुवर्त्तनीयो यः स कारणस्वभावः । "अन्वयव्यतिरेकाद्यो यस्य दृष्टोऽनुवत्तंकः । स्वभावस्तस्य तद्धेतोरतो भिन्नार्थसम्भवः ॥" [५९१]कथं तर्हि ? __________टिप्पणी__________ [५९१] स्ह्: १०६. ___________________________ नीलवहलोऽर्थंसदसदम्बुददर्शनादिष्टं वृप्टेरनुमानम् ? न दृ(वृ ?)ष्टेरपि तु योग्यतायाः । "हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते । अर्था[५९२]न्तरानपेक्षत्वात्स स्वभावोऽर्थवर्णितः ॥ __________टिप्पणी__________ [५९२] अर्थन्त- मूलपाठः । ___________________________ सामग्रीफलशक्तीनां परिणामऽनुवन्धिनि । अनैकान्तिकता कार्ये प्रतिवन्धादिसम्भवात्[५९३]। ।"[५९४] __________टिप्पणी__________ [५९३] अनैकान्तिकता.... ....सम्भवात् ॥ - त- स- पं- ३ पृ- । [५९४] सामग्रीफलशक्तीनां.... .... वन्धिनि । .....सम्भबात् ॥ - त- सं- पं- ३ पृ- । ___________________________ कार्यमुत्पद्यते यस्मात्स कार्योत्पादो योग्यतायाः स्वभावः । यावन्तो भावा[५९५]मिलितास्तावद्भ्योऽन्यानपेक्षणात्कार्यो [प्६ ६] त्पादनयोग्यत्वस्य साध्यस्य सामग्रीसाधनधर्मसत्तामात्रभाबित्बेन समग्रस्य हेतोः साधनतया सम्मतस्य स्वभावहेतुत्वमुक्तम् । __________टिप्पणी__________ [५९५] वो इति लिखित्वा ओकारमात्रा छिन्नेव मूलपाठे । ___________________________ अत्र च प्रक्रिया ।-- उपसर्पणप्रत्ययात्समग्राः क्षितिवीजादयः प्रथमक्षणम् । तेभ्यो द्वितीये क्षणे अङ्कुरजननयोग्याः क्षित्यादयः । तत्राद्यातिशय व्यपदेशः । तदूर्ध्वम् ---भारतस्यानुबन्धिनो धरणि-धामादयः कार्योत्पादात्पूर्वं सहकारिव्यपदेशभाजः परस्परोपकारित्वेन एककार्यकारित्वेन च । परस्परोपकारित्वं सहकारित्वे शव्दार्थः कथम्? इति चेत्? उच्यते । सहैव कुर्वन्ति । परस्परापेक्षां कुर्वन्ति । अपेक्षता च कार्यता । कार्यतातिशयाधानमतो गम्यते । सहैव कुर्वन्तः । परस्परमुपकुर्वन्तः । [५९६]परस्परमुपकुर्वन्तः कुर्वन्ति कार्यम् । किमनया कष्टसृष्ट्या ? कार्यमेव किं नानुमीयते ? __________टिप्पणी__________ [५९६] स्ह्: १०७. ___________________________ न वयं कार्यानुमानायाभ्यसूयामहे । न सहामहे पुनः, कारनैः कार्यस्य व्यभिचारात् । आद्यातिशयक्रमेण सामग्रीफलभूताः याः शक्तयः, तासां परिणामस्तावत् । तस्य मतान्तरे च प्रतिबन्धवैकल्ययोः सम्भवेन कार्ये कारणानां व्यभिचारः । "हेतृना तु समग्रेण यत्कार्यमनुमीयते । शेषवत्तदसा प्६ ७] मर्थ्याद्देहाद्रागानुमानवत् ॥" देहेन्द्रियबुद्धिभ्यो रागाद्यनुमानं व्यभिचारि । योग्यतायामपि आत्मीयाभिनिवेशपूर्वका रागादयो न देहेन्द्रियबुद्धिमात्रा भवितुमर्हति । आद्यातिशयलक्षणयोग्यता प्रथमोपनिपतितात्समग्राद्भवति । असमग्रात्कारणानुपलव्ध्या नास्ति । तस्माद्--- देहादीनां हेतुत्वेऽपि न केवलानां सामर्थ्यमस्तीति विपक्षवृत्तेरदृष्टावपि शेषवदनुमानात्संशयः । "यस्यादर्शनमात्रेण व्यतिरेकः[५९७]प्रदर्श्यते । __________टिप्पणी__________ [५९७]ऽकप्रऽमूलपाठः । ___________________________ तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम्[५९८]। ।"[५९९] __________टिप्पणी__________ [५९८] तस्य संशय... ....तदुदाहृतम् ॥ -प्र- वा- ३।१३ । [५९९] यस्यादर्शनमात्रेण.... .... प्रदर्श्यते । .... तदुदाहृतम् ॥ -प्र- वा- ३।१३ ॥ ___________________________ नान्तरीयकमेव कार्यं कारणमनुमापयेत् । तत्प्रतिवन्धान्नान्यद्विपक्षेऽदर्शनेऽपि । "विपक्षे दृष्टमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं प्र[६००]माणाभं वचनाद्रागितादिवत्[६०१]। ।"[६०२] __________टिप्पणी__________ [६००] प्रणामेति लिखित्वाणाछिन्नमिव । [६०१] विपक्षेऽदृष्टिमात्रेण.... .... दर्शनात् । .... दिबत् ॥ -प्र- वा- ३।११ का- । [६०२] हेतुज्ञानप्रमाणाभं.... ....वत् ॥ -प्र- वा- ३।७७ । ___________________________ [६०३]अत्र--- __________टिप्पणी__________ [६०३] स्ह्: १०८. ___________________________ वचनं परम्परया वक्तुकामताकार्यम् । साक्षादोप्ठपुटस्पन्दादिकार्यम् । कदाचिद्द्वेषस्यापि स्निग्धं रूर्क्ष च वचनं कार्यम् । अतः, कार्यमात्राद्वचनमात्राद्रागस्य विशिष्टस्य कारणस्यानुमानं प्रमाणाभासं रागमन्तरेणापि वचनस्य सम्भवात् । तथा--- पक्वान्येतानि फलानि मधुररसानि वा समानरूपत्वादेकशाखाप्रभावाद्वा उपयुक्तफलवत् । तथा --- बहुलं पाकद[प्६ ७]र्शनेऽपि न स्थाल्यन्तर्गमनमात्रेण पाकः सिध्यति--- "न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता । सम्भाव्यव्यभिचारित्वात्स्थालीतण्डुलपाकवत्[६०४]। ।" __________टिप्पणी__________ [६०४] सम्भाव्यव्यभिचारित्वात्.... ....पाकवत् ॥ -प्र- वा- ३।१२ ॥ ___________________________ असमग्रात्कारणात्कार्यज्ञानस्य व्यभिचारात् । तथा--- अर्यविशेषंसमीहाप्रेरितावागत इदमिति विदुषः मुनित्वानाबभासिनमर्थं सूचयर्ता(तो ?) बुद्धिरूपवाग्वि[जि ?]ज्ञास्यो जन्यजनकभावः सम्वन्धः । ततः शब्दात्प्रतीतिरविनाभावात् । तदाख्यानां समयः । ततः प्रत्यायकसम्बन्धसिद्धेः । तेन--- सङ्केतसम्बन्धापेक्षं दूषणमधिक्षिप्तम् । [६०५]"सङ्केतः प्रतिसम्वन्धात्प्रत्युच्चारणमेव वा । __________टिप्पणी__________ [६०५] स्ह्: १०९. ___________________________ क्रियेत जगदादौ वा कर्त्रैवैकेन केनचित् ॥" इत्यादि । तथा--- सर्व एव वस्तुसम्बन्धा जनकस्येव प्रयोगविशेषवशात्प्रविभागेन कार्यकारणभावाद्व्यवस्थाप्यन्ते । तेनाधाराधेयभावव्यञ्[६०६]जकतोपकार्योपकारकभावादयः कार्यकारणभाव एवान्तर्भाव्याः सम्बन्धाः । __________टिप्पणी__________ [६०६] अत्रऽव्यजऽइति द्विधा लिखितं मूलपाठे । ___________________________ स्वभावहेतौ प्रतिज्ञार्थैकदेषेन परिहार्या उपोहवादेन । तथा हि । नीलादिशब्दात्नीलाद्याकारबुद्धिरहो ! प्रमाणादनुभूयते । सा च नीलार्थमन्तरेण । ततो न नीलस्वलक्षणं प्रत्येति । न सामान्याक्ष (श्र?) याविरुद्धं तत्सम्बद्धमृ [प्६ ८] न । यो ह्यन्योऽन्यासम्भवीविशेपः तत्र कारणभेदाद्भेदः । यः पुनरविशेषेण सर्वस्य तस्य कारणमात्रादेव भावो, यथा-वस्तुत्वस्य । न खलु वस्तुत्वं जायमानस्य सत्ताहेतोरन्यदपेक्षते । यथा तदनपेक्षेतत्स्वहेतोरेव भवति । तथा ---भावानां नश्वरः स्वभावः । दृष्टनिवृत्तीनां वा भावानं यथा नाशो हेत्वन्तरानपेक्षो जन्मानन्तरं व्यवह्त्रियते । तद्विकलद्वितीयक्षणविलोकनात्मकानुपलम्भेन तथादृष्टनाशानामपि महीम्हीधरादीनां कृतकमपि किञ्चिदविनश्वरं स्यात्? इति चेत्? न । रूपवेदनासंज्ञासंस्कारविज्ञानानां प्रकाराणां विनाशदर्शनेन तेषु च [६०७]देशकालान्तरितेषु यदि कृतकेषु शङ्का स्याद्दृष्टस्तेषां स्बभावेन विनाशो विरुध्येत । __________टिप्पणी__________ [६०७] स्ह्: ११०. ___________________________ रूपादिस्कन्धसम्बन्धित्वेन कृतकत्वं विशेषनीयम् । तदन्येषां कृतकत्वेन नश्बरत्वं न साध्यते । यथा-- प्रयत्नान्तरीयकत्वेन विध्युद्वनकुसुमादीनाम् । यदि नाम कालो नाम महाभूतादिव्यतिरिक्तो नास्ति तथापि तैरेव व्यवहारो भविष्यति । चिरक्षिप्रादिप्रत्ययोऽपि तत्कृतः । ऽग्रीष्मादयः पदार्था हि विषया एव के[६०८]चन । __________टिप्पणी__________ [६०८] केन इति लिखित्वानऽछिन्नमिव मूलपाठे । ___________________________ क्षणादिकोऽपि निखिलः कालभेदस्तथाविधः ॥ सूर्यचन्द्रप्रभावादि कालभेदनिवन्धनम् । अ[प्६ ८]न्यथा तीर्थिकस्यापि नानात्वं तस्य नेप्यते ।" तस्मादियमनपेक्षा बिनाशं प्रति । कृतकत्वस्य विपर्यये बाधकं प्रमाणम् । यतो रूपादीनां यदि देशकालावस्थासु कासु[६०९]चिदेव विनाशः स्यात्, तदा तत्सापेक्षो विनाशो निरपेक्षतया प्रतीतो न स्यात् । प्रतीतश्चानपेक्षः । __________टिप्पणी__________ [६०९] कृक इति लिखित्वाकऽछिन्नमिव मूलपाठे । ___________________________ तस्मात्--- सर्वत्रैव कृतकत्त्वमात्रानुबन्धी व्याप्तिसिद्धिमाक्षिपति --- "एको भावस्तत्वतो येन दृष्टः[६१०] __________टिप्पणी__________ [६१०] ष्ठ मूलपाठे । ___________________________ [६११]सर्वे भावास्तत्वतस्तेन दृष्टाः ।[६१२] __________टिप्पणी__________ [६११] स्ह्: १११. [६१२] ष्टः मूलपाठे । ___________________________ एको भावो[६१३]यत्स्वभावः प्रकृत्या । __________टिप्पणी__________ [६१३] व मूलपाठे । ___________________________ सर्वे भावात्स्तत्स्वभावाः प्रकृट्या ॥" इति हि ब्याप्तिसिद्धि[६१४]न्यायः । __________टिप्पणी__________ [६१४] द्ध मूलपाठे । ___________________________ ननु --- व्याप्तिर्नाम सम्बन्धः" । स क्रिं स्वभाबोऽस्तु युष्माकम्? यस्माद्बौद्धैरवधृतो द्रव्यादिपदार्थगणः । कथम् ? तदन्तर्गतः सम्बन्धोऽवशिष्यताम् । अत्रोच्यते --- ऽपारतन्त्र्यं हि सम्बन्धः सिद्धे का[६१५]परतन्त्रता ? __________टिप्पणी__________ [६१५] कापप इति लिखित्वा प्रथमपकारः छिन्नैव । ___________________________ तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति भावतः ।" सां[६१६]वृतं तु न वार्यते । __________टिप्पणी__________ [६१६] साम्वृतमिति मूलपाठे । ___________________________ "रूपश्लेषो हि सम्बन्धो द्वित्वे सति कथं भवेत्? तस्मात्प्रकृतिभिन्नानां सम्वन्धो नास्ति भावतः ॥" यदि स्वभावसंश्लेषो नहि सम्वन्धिनो द्वित्वम् । अर्थसम्बन्धिनो भिन्नस्वभावौ भावौ स्तः, तर्हि रूपसंश्लेषायास्ता जलाञ्जलिरिति विरोधादसम्भवी सम्बन्धोऽवास्तवः । परापेक्षापि सम्बन्धः सोऽसन् कथमपेक्षते ? यश्च सर्वनिराशंसो... ... ... [इतः प्रं मूलपुस्तकं नोपलभ्यते ।]