तत्वज्ञानसंसिद्धिः ओं नमः श्रीभगवत्यै वज्रवाराह्यै ॥ आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ सर्वाकारगुणान्विता जगदघध्वान्तौघविध्वंसिनी । ज्योतिर्ज्ञाननिधेर्धृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः पायाद्वज्रविरासिनी भगवती लोकत्रयं दुर्गतेः ॥ ०.१ ॥ श्रीवज्रदेवीपदपद्मरेणु, राजिं नमस्कृत्य गुरोः पदं च । श्रीसम्बरं संवृतवोधिचित्तं, प्रज्ञाकृपाद्वैतपदं प्रशस्तम् ॥ ०.२ ॥ वज्रदेवीपदद्वंद्ववन्दनानन्दवर्त्तिना । भिक्षुणा ज्ञानन्द्रेण चन्द्रेवसुवशर्मणा ॥ ०.३ ॥ साधनं वज्रवाराह्याः स्वार्थंकिञ्जिद्विभज्यते । सुभाषितप्रदे नित्यं मतिः कल्पनसोत्सुका ॥ ०.४ ॥ ततःश्रद्वापरेणेदं मन्दस्वल्पधिया मया । कर्त्तव्य न मम दोषो वीक्षणीयो महाजनैः ॥ ०.५ ॥ ओं नमः श्री वज्रवाराह्यै उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा, दग्धालित्रितया त्रिलोकमहिता पीयूषधाराप्लुता । बुद्धज्ञानरसाविला विकलुषा स्वानन्दसन्दोहदा भावाभावविचारणाविरहिता वाराहिका पातु वः ॥ १.१ ॥ निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता, प्रज्बालज्वलनोज्वलामृतसवा सूक्ष्माजसूत्रोपमा विद्याबुद्धकदम्वकं दहति या चक्रत्रयोर्भेदिनी सानन्दा ललितोर्द्वगा स्फुरतु वो वाराहिका चेतसि ॥ १.२ ॥ प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीम् । शिरसा स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम् ॥ १.३ ॥ विजनमनोऽनुकूलस्थानं नाथांककः प्रविशेत्सुधीः । तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम् ॥ १.४ ॥ तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयम् । संलिख्यानामिकया, लोहितकुसुमार्चितं कुर्यात् ॥ १.५ ॥ तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा । विदधीत सवनं यथोपदेशं शयस्पर्शात् ॥ १.६ ॥ प्रविधाय करन्यासं बृद्धाङ्गुष्ठाङ्गुलिसमायोगात् । कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः ॥ १.७ ॥ तदनु चक्रवज्रवरोपरि रङ्गारुणोयोगजसमममन्त्रम् । भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः ॥ १.८ ॥ तत्र जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य । तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत् ॥ १.९ ॥ चक्रस्य वाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे । सत्स्वस्तिकानभिलिखेत्क्रमेण वामहस्तेन ॥ १.१० ॥ आकृष्य वज्रदेवीम्प्रविश्य मन्त्राक्षरेषु बद्ध्वा परितोषयेत् । सुविधानात्जः हुं वं होरिति पठित्वा ॥ १.११ ॥ तदनु सपर्या विविधास्तस्या विदधीत मंत्ररूपायाः । भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः ॥ १.१२ ॥ विविधैर्वलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः । गीतैवद्यैर्न्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च ॥ १.१३ ॥ प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्याम् । कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकांक्षणः ॥ १.१४ ॥ अथ कृतवाह्यार्चनविधिरुरुकरुणो निर्मितारिध्याव्जे ॥ व्यसुहृयोष्णगुविम्वां ध्यायात्पूर्वोदितां देवीम् ॥ २.१ ॥ संध्यासिन्दूरवर्णां खरकरनिकरायास्तसप्तार्क्ककान्तीम् । कर्त्त्रीं सर्वार्त्तिहंत्रीं स्फुरदमृतघृणीं विभ्रतीं सव्यदोष्णा ॥ विभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाढ्याम् । काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्द्धोखहस्ताम् ॥ २.२ ॥ मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां, सव्ये चोर्द्धंकिरास्यां वरशुभगमनां क्रोधमूलाननान्ताम् । सानन्दां सानुरागां विविधरसयुतामर्द्धपर्य्यङ्कनृत्यां मुद्राषण्मुद्रिताङ्गीं व्यपगतवसनां षोडशाव्दां वराङ्गीम् ॥ २.३ ॥ ज्ञानाकर्षादिविधिः प्रागिव कृत्वा विधानविन्मंन्त्री । स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रूतं ध्यायात् ॥ २.४ ॥ तदनु वियद्वती धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रम् । प्रागुक्तमिव ध्यायाद्रक्तं जाज्यल्यमानं सत् ॥ २.५ ॥ तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तम् । द्रावयेदुरुसुखचक्रं श्रवदमृतसारकृतसवनम् ॥ २.६ ॥ कायत्रयस्वभावं परमं सहजात्मकं जगद्व्यापिनम् । स्फुरदमितशान्तसन्ततिं पश्येत्पश्चात्सुखं पश्चात् ॥ २.६ ॥ प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणम्वा विभावयेदेतत् । यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम् ॥ २.७ ॥ अयत्नजप्रीतिलयानुबन्धनात्यदा भवेद्व्यक्तमिदं विभावितम् ॥ कशाचपेटादिह नैव वेदना तदा भवेत्सिद्धिरदूरवर्त्तिनी ॥ २.८ ॥ प्रताडितानां पणवादिकानां पटुध्वनिर्नश्रुतगोचरश्चेत् । यदाप्यते बोधिरनुत्तराग्रा स्वप्ने चिराद्ध्यानवताग्रसिद्धिः ॥ २.९ ॥ दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ । निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात् ॥ २.१० ॥ सिद्धौ वसुधादीनां भवती लयो ह्युत्तरोत्तरक्रमशः । ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत् ॥ २.११ ॥ जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः । अत एव तानि योगी समाहितो लक्षयेन्मनसा ॥ २.१२ ॥ प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नम् । खद्योतवत्तृतीयं चतुर्थं दीपोज्वलं स्पष्टम् ॥ २.१३ ॥ विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पम् । एवं लव्धनिमित्तो मुद्रां महतीमवाप्नोति ॥ २.१४ ॥ उत्थातुकामः प्रणिपत्य योगिनीं नाथं च कस्थं समुदीर्य मूः कृतिम् । उत्थाय कृत्यं विदधीत तत्वधीस्तिष्ठेत्सदा योगयुगेन योगवित् ॥ २.१५ ॥ इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः ॥ २ ॥ अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाव्जनतैः ॥ मन्त्री तिथौ दशम्यां विदधीतानुग्रहन्तेषाम् ॥ ३.१ ॥ संपूज्य मंत्ररूपां देवीं चक्रस्थितां विहितयोमः । आदाय मंत्रजप्तं परमाद्यं निष्क्रमेत्तस्मात् ॥ ३.२ ॥ अथ विहितपञ्चमण्डलमूर्द्धस्थां तदन्तदक्षिणंशिष्यम् । कुसुमस्रजं दधानं ध्यातकेनाथं गुरुः पश्येत् ॥ ३.३ ॥ तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत् । ध्यात्वान्तबासिगात्रे वज्रभृत्तस्य संदद्यात् ॥ ३.३ ॥ एवं स्यादावेशस्तत्कलिका प्रकम्पनं वाष्पः । पातो ज्ञानोत्पादः स्वारूपञ्चापि परिपाद्याः ॥ ३.४ ॥ तदनु कथयेत्समाधिं पूजामंत्रं च वज्रयोगिन्याः । श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः ॥ ३.६ ॥ कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धंवा ॥ श्रद्धाविरहितमनसो भक्तिविहीनशिष्यस्य ॥ ३.७ ॥ विदधाति यस्तु पूजां देवीचक्रस्य मंत्रयुक्तस्य । तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति ॥ ३.८ ॥ दुर्भगता दारिद्र्यं व्याधिजरादुःखदौर्मनस्यानि । भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि ॥ ३.९ ॥ यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचासौ । प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञांस्तथाष्टगुणान ॥ ३.१० ॥ ध्यायति यः किरवक्त्रां प्रतिदवसं यत्नतश्चतुःसंध्यं हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति ॥ ३.११ ॥ वस्त्रान्नपानधनधान्यविशालभूमिः प्रासाददिव्यशयनासनसाधनानि । तस्योद्भवन्ति दयिता विविधाश्च विद्या, यो भावयत्यशनिकोलमुखीं सचक्राम् ॥ १२ ॥ इति तत्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः ॥ मंत्रोद्धारमतः परमधिधास्ये वज्रयोगिनीहृदयम् । कर्णात्कर्णमुपागतमास्यादास्यं तथाक्रमतः ॥ ४.१ ॥ पूर्वोदितमिव चक्र संलिख्यं मरुद्गणालयोपेताम् । तत्र लिखेत्परिपाटित आलिकालिं तथैव कोणम् ॥ ४.२ ॥ झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तम् । त्रिकमादितो विलिख्यं सदक्षरं तत्वपरिदीपि ॥ ४.३ ॥ भोर्द्धगतं छोर्द्धस्थितसमेतटोर्द्धस्थितं तदनु लेख्यम् । डाधरयुतं षाधारगं षोर्द्धस्थितयुक्तशोर्द्धगतम् ॥ ४.४ ॥ ञाधरयुतळ्तलस्थं टाधरयुतपोर्द्धसंस्थितम् । तदनु ठाधरगान्वितफोर्द्धगमैवामयुतं हटान्तस्थम् ॥ ४.५ ॥ चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितम् । तदनु हथमध्यगतं तवामयुक्तं ठलमध्यग पश्चात् ॥ ४.६ ॥ सर्वकरान्तफमध्यगं तृतीयवर्गादिवामगसमेतम् । णोर्द्धयुतं लाधरगं छोर्द्धस्थं भतलगं ठसव्ययुतम् ॥ ४.७ ॥ तोर्द्धगयुतं षाधरगं थोर्द्धदसंयुक्तं णाधरगं पश्चात् । फाधरगं ठाधरसंयुक्तं फोर्द्धस्थं णोर्द्धयुक्तं लाधरगम् ॥ ४.८ ॥ डाधरशून्यसमेतं त्रिवतलगं चोर्द्धस्थितं रतलम् । थाधरयुतं शाधरगं ञाधरसमायुक्तं चापि ॥ ४.९ ॥ सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः । मंत्रोयमशनीदेव्या लेख्यो जप्यो विभाव्यश्च ॥ ४.१० ॥ चिन्तामणिः कल्पकुठाग्रकुम्भः श्रीकामदुग्धेनुरपि प्रशस्ताः । ते साध्यमाना ददतीह वित्तान्ययन्तु सौख्यं सधनं ददाति ॥ ४.११ ॥ इति तत्वज्ञानसंसिद्धौ मन्त्रौद्धारविधिः ॥ यस्मिन्नयं पात्रगतेव्यलिख्य, पूजानिमित्तं विधिना विधिज्ञः । बालस्य रक्षा विधिवद्विधेया, वद्धेन दोकण्ठशिखासुवाहौ ॥ १ ॥ दृष्ट्वापयान्ति भुजगाः शिशुकं सरक्षं, भूता ग्रहा निशिचराः सपिशाचसंघाः । अन्ये च बालकभर्यार्त्तिकराः सुभीमाः सिंहं यथा वनचरा वलिनम्भयार्त्ताः ॥ २ ॥ संप्राप्य सदुपदेशं दृष्ट्वा संप्रत्ययं च योगस्य । सिद्धिरियं समभिलेखि स्फुरदमलज्ञानसवंसतिः ॥ ३ ॥ तस्मात्तत्संप्राप्त्यै संसेव्यं सगुरोः पदाम्बुरुहम् । सान्ना प्रदानबिधिना कायक्लेशैः प्रणामैश्च ॥ ४ ॥ तत्वज्ञानाग्रसिद्धिर्वहुहितजननी या जनस्येव लोके सत्वानां यन्मयोसीत्कुशलमकलुषं पूर्वचद्रांशुशुभ्रम् । भूयासुस्तेन लोकाः कलिमलविकला शुद्धासम्बोधिभाजो लब्ध्वा मुद्रामुदारां भवभयशमनीं सर्वसत्वार्थकर्त्रीम् ॥ ५ ॥ समाप्तोयं तत्वज्ञानसंसिद्धिर्नाम स्वाधिष्ठानश्चेति शुभं सर्वदा