परिच्छेद १ औं नमो बुद्धाय । सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च वन्द्यान् । सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥ १.१ ॥ न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति । अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं ॥ १.२ ॥ मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः । अथ मत्समधातुरेव पश्येदपरोऽप्येनमतोऽपि सार्थकोऽयं ॥ १.३ ॥ क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी । यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ १.४ ॥ रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं । बुद्धानुभावेन तथा कदाचिल्-लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥ १.५ ॥ तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं । तज्जीयतेऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ १.६ ॥ कल्पाननल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव । यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यप्रमिताञ्जनौघान् ॥ १.७ ॥ भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः । बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तं ॥ १.८ ॥ भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् । न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥ १.९ ॥ अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां । रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥ १.१० ॥ सुपरीक्षितमप्रमेयधीभिर्बहुमूल्यं जगदेकसार्थवाहैः । गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं ॥ १.११ ॥ कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव । सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥ १.१२ ॥ कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन । शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ १.१३ ॥ युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन । यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ १.१४ ॥ तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः । बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ १.१५ ॥ गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते । तथा भेदोऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥ १.१६ ॥ बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् । न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥ १.१७ ॥ यतः प्रभृत्यपर्यन्त-सत्त्वधातुप्रमोक्षणे । समाददाति तच्चित्तमनिवर्त्येन चेतसा ॥ १.१८ ॥ ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः । अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ १.१९ ॥ इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् । हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥ १.२० ॥ शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् । अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥ १.२१ ॥ किमुताप्रमितं शूलमेकैकस्य जिहीर्षतः । अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः ॥ १.२२ ॥ कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी । देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥ १.२३ ॥ तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः । नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः ॥ १.२४ ॥ सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथं । यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते ॥ १.२५ ॥ जगदानन्दबीजस्य जगद्दुःखौषधस्य च । चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥ १.२६ ॥ हिताशंसनमात्रेण बुद्धपूजा विशिष्यते । किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥ १.२७ ॥ दुःखमेवाभिधावन्ति दुःखनिःसरणाशया । सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ १.२८ ॥ यस्तेषां सुखरङ्काणां पीडितानामनेकशः । तृप्तिं पूर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च ॥ १.२९ ॥ नाशयत्यपि संमोहं साधुस्तेन समः कुतः । कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ १.३० ॥ कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते । अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां ॥ १.३१ ॥ कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः । क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥ १.३२ ॥ किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः । गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं ॥ १.३३ ॥ इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च । कलुषोदयसंख्यया स कल्पान्नरकेष्वावसतीति नाथ आह ॥ १.३४ ॥ अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फलं । महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥ १.३५ ॥ तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं । यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥ १.३६ ॥ बोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ॥ **************************************************************** परिच्छेद २ तच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानां । सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां ॥ २.१ ॥ यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति । रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ २.२ ॥ महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः । लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥ २.३ ॥ देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः । सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥ २.४ ॥ अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि । आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥ २.५ ॥ आदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः । गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ २.६ ॥ अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् । अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥ २.७ ॥ ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः । परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या ॥ २.८ ॥ परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि । पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ २.९ ॥ रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु । स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥ २.१० ॥ मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः । स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं ॥ २.११ ॥ प्रधूपितैर्धौतमलैरतुल्यैर्वर्स्त्रैश्च तेषां तनुमुन्मृशामि । ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥ २.१२ ॥ दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर्वस्त्रैरलङ्कारवरैश्च तैस्तैः । समन्तभद्राजितमञ्जुघोष-लोकेश्वरादीनपि मण्डयामि ॥ २.१३ ॥ सर्वत्रिसाहस्रविसारिगन्धैर्गन्धोत्तमैस्ताननुलेपयामि । सूत्तप्तसून्मृष्टसुधौतहेम-प्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् ॥ २.१४ ॥ मन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः । अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः ॥ २.१५ ॥ स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि । भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस्तेभ्यो निविद्यं च निवेदयामि ॥ २.१६ ॥ रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् । गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥ २.१७ ॥ प्रलम्बमुक्तामणिहारशोभानाभास्वरान्दिग्मुखमण्डनांस्तान् । विमानमेघान् स्तुतिगीतरम्यान्मैत्रीमयेभ्योऽपि निवेदयामि ॥ २.१८ ॥ सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि । प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥ २.१९ ॥ अतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः । तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः ॥ २.२० ॥ सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च । पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् ॥ २.२१ ॥ मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् । तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् ॥ २.२२ ॥ स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् । स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥ २.२३ ॥ सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं । सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् ॥ २.२४ ॥ सर्चचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा । नमः करोम्युपाध्यायानभिवन्द्यान्यतींस्तथा ॥ २.२५ ॥ बुद्धं गच्छामि शरणं यावदाबोधिमण्डतः । धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा ॥ २.२६ ॥ विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् । महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः ॥ २.२७ ॥ अनादिमति संसारे जन्मन्यत्रैव वा पुनः । यन्मया पशुना पापं कृतं कारितमेव वा ॥ २.२८ ॥ यच्चानुमोदितं किंचिदात्मघाताय मोहतः । तदत्ययं देशयामि पश्चात्तापेन तापितः ॥ २.२९ ॥ रत्नत्रयेऽपकारो यो मातापितृषु वा मया । गुरुष्वन्येषु वा क्षेपात्कायवाग्बुद्धिभिः कृतः ॥ २.३० ॥ अनेकदोषदुष्टेन मया पापेन नायकाः । यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ २.३१ ॥ कथं च निःसराम्यस्मान्नित्योद्वेगोऽस्मि नायकाः । मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥ २.३२ ॥ कथं च निःसराम्यस्मात्परित्रायत सत्वरं । मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति ॥ २.३३ ॥ कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः । स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः ॥ २.३४ ॥ प्रियाप्रियनिमित्तेन पापं कृतमनेकधा । सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम् ॥ २.३५ ॥ तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते । स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥ २.३६ ॥ अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति । अहं च न भविष्यामि सर्वं च न भविष्यति ॥ २.३७ ॥ इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः । तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥ २.३८ ॥ एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितं । मोहानुनयविद्वैषैः कृतं पापमनेकधा ॥ २.३९ ॥ रात्रिन्दिवमविश्राममायुषो वर्धते व्ययः । आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥ २.४० ॥ इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता । मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥ २.४१ ॥ यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् । पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥ २.४२ ॥ अनित्यजीवितासङ्गादिदं भयमजानता । प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥ २.४३ ॥ अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति । पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥ २.४४ ॥ किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः । महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ २.४५ ॥ कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं । को मे महाभयादस्मात्साधुस्त्राणं भविष्यति ॥ २.४६ ॥ त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः । तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये ॥ २.४७ ॥ अद्यैव शरणं यामि जगन्नाथान्महाबलान् । जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् ॥ २.४८ ॥ तैश्चाप्यधिगतं धर्मं संसारभयनाशनं । शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ २.४९ ॥ समस्तभद्रायात्मानं ददामि भयविह्वलः । पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना ॥ २.५० ॥ तं चावलोकितं नाथं कृपाव्याकुलचारिणं । विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥ २.५१ ॥ आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः । सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥ २.५२ ॥ यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं । यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम् ॥ २.५३ ॥ अतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात् । शरणं यामि वो भीतो भयं नाशयत द्रुतम् ॥ २.५४ ॥ इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत् । किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः ॥ २.५५ ॥ एकेनापि यतः सर्वे जम्बुद्वीपगता नराः । नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते ॥ २.५६ ॥ तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः । वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥ २.५७ ॥ अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि । किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके ॥ २.५८ ॥ अद्यैव मरणं नेति न युक्ता मे सुखासिका । अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥ २.५९ ॥ अभयं केन मे दत्तं निःसरिष्यामि वा कथं । अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः ॥ २.६० ॥ पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं । येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥ २.६१ ॥ जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा । एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ २.६२ ॥ इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा । अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ २.६३ ॥ मया बालेन मूढेन यत्किंचित्पापमाचितं । प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥ २.६४ ॥ तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः । कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ २.६५ ॥ अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः । न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया ॥ २.६६ ॥ इति द्वितीयः परिच्छेदः ॥ **************************************************************** परिच्छेद ३ अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं । अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥ ३.१ ॥ संसारदुःखनिर्मोक्षमनुमोदे शरीरिणां । बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥ ३.२ ॥ चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् । सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥ ३.३ ॥ सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः । धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥ ३.४ ॥ निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः । कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥ ३.५ ॥ एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं । तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ३.६ ॥ ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च । तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥ ३.७ ॥ क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः । दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥ ३.८ ॥ दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः । नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥ ३.९ ॥ आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं । निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥ ३.१० ॥ सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः । त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां ॥ ३.११ ॥ यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां । घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः ॥ ३.१२ ॥ क्रीडन्तु मम कायेन हसन्तु विलसन्तु च । दत्तस्तेभ्यो मया कायश्चिन्तया किं मयानया ॥ ३.१३ ॥ कारयन्तु च कर्माणि यानि तेषां सुखावहं । अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥ ३.१४ ॥ येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् । तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥ ३.१५ ॥ अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः । उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः ॥ ३.१६ ॥ अनाथानामहं नाथः सार्थवाहश्च यायिनां । पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च ॥ ३.१७ ॥ दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं । दासार्थिनामहं दासो भवेयं सर्वदेहिनां ॥ ३.१८ ॥ चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः । भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां ॥ ३.१९ ॥ पृथिव्यादीनि भूतानि निःशेषाकाशवासिनां । सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा ॥ ३.२० ॥ एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा । भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः ॥ ३.२१ ॥ यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः । ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः ॥ ३.२२ ॥ तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते । तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं ॥ ३.२३ ॥ एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः । पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् ॥ ३.२४ ॥ अद्य मे सफलं जन्म सुलब्धो मानुषो भवः । अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि साम्प्रतं ॥ ३.२५ ॥ तथाधुना मया कार्यं स्वकुलोचितकारिणां । निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥ ३.२६ ॥ अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् । तथा कथंचिदप्येतद्बोधिचित्तं ममोदितं ॥ ३.२७ ॥ जगन्मृत्युविनाशाय जातमेतद्रसायनं । जगद्दारिद्र्यशमनं निधानमिदमक्षयं ॥ ३.२८ ॥ जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं । भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः ॥ ३.२९ ॥ दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां । जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥ ३.३० ॥ जगदज्ञानतिमिर-प्रोत्सारणमहारविः । सद्धर्मक्षीरमथनान्नवनीतं समुत्थितं ॥ ३.३१ ॥ सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः । सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं ॥ ३.३२ ॥ जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा । पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥ ३.३३ ॥ बोधिचर्यावतारे बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥ **************************************************************** परिच्छेद ४ एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः । शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥ ४.१ ॥ सहसा यत्समारब्धं सम्यग्यदविचारितं । तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते ॥ ४.२ ॥ विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः । मयापि च यथाशक्ति तत्र किं परिलम्ब्यते ॥ ४.३ ॥ यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा । एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥ ४.४ ॥ मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः । स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि ॥ ४.५ ॥ किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः । जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥ ४.६ ॥ वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिं । यद्बोधिचित्तत्यागेऽपि मोचयत्येव तान्नरान् ॥ ४.७ ॥ बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी । यस्मादापद्यमानोऽसौ सर्व सत्त्वार्थहानिकृत् ॥ ४.८ ॥ योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति । तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः ॥ ४.९ ॥ एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् । अशेषाकाशपर्यन्त-वासिनां किमु देहिनां ॥ ४.१० ॥ एवमापत्तिबलतो बोधिचित्तबलेन च । दोलायमानः संसारे भूमिप्राप्तश्चिरायते ॥ ४.११ ॥ तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् । नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः ॥ ४.१२ ॥ अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः । नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥ ४.१३ ॥ अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः । दुर्गतिव्याधिमरण-च्छेदभेदाद्यवाप्नुयां ॥ ४.१४ ॥ कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा । कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽति दुर्लभं ॥ ४.१५ ॥ आरोग्यदिवसं चेदं सभक्तं निरुपद्रवं । आयुः क्षणं विसंवादि कायो याचितकोपमः ॥ ४.१६ ॥ नहीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः । अलभ्यमाने मानुष्ये पापमेव कुतः शुभं ॥ ४.१७ ॥ यदा कुशलयोग्योऽपि कुशलं न करोम्यहं । अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥ ४.१८ ॥ अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः । हतः सुगतशब्दोऽपि कल्पकोटिशतैरपि ॥ ४.१९ ॥ अत एवाह भगवान्मानुषमतिदुर्लभं । महार्णवयुगच्छिद्र-कूर्मग्रीवार्पणोपमं ॥ ४.२० ॥ एकक्षणात्कृतात्पापादवीचौ कल्पमाप्स्यते । अनादिकालोपचितात्पापात्का सुगतौ कथा ॥ ४.२१ ॥ न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते । यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते ॥ ४.२२ ॥ नातःपरा वञ्चनास्ति न च मोहोऽस्त्यतःपरः । यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥ ४.२३ ॥ यदि चैवं विमृष्यामि पुनः सीदामि मोहितः । शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः ॥ ४.२४ ॥ चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः । पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं ॥ ४.२५ ॥ कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां । जानन्नपि च नीयोऽहं तानेव नरकान्पुनः ॥ ४.२६ ॥ अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः । न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति ॥ ४.२७ ॥ हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः । न शुरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः ॥ ४.२८ ॥ मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः । तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां ॥ ४.२९ ॥ सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः । तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥ ४.३० ॥ मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते । क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥ ४.३१ ॥ नहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं । अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां ॥ ४.३२ ॥ सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः । सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥ ४.३३ ॥ इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु । हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥ ४.३४ ॥ भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः । मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम ॥ ४.३५ ॥ तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं । खल्पेऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां ॥ ४.३६ ॥ प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः । अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥ ४.३७ ॥ किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य । भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥ ४.३८ ॥ अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति । महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥ ४.३९ ॥ स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः । शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम् ॥ ४.४० ॥ दशदिग्व्योमपर्यन्त-जगत्क्लेशविमोक्षणे । प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः ॥ ४.४१ ॥ आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा । अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥ ४.४२ ॥ अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही । अन्यत्र तद्विधात्क्लेशात्क्लेशघातानुबन्धिनः ॥ ४.४३ ॥ गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे । न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् ॥ ४.४४ ॥ निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात् । यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥ ४.४५ ॥ क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत । नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥ ४.४६ ॥ न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातोऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् । मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥ ४.४७ ॥ एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः । वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥ ४.४८ ॥ बोधिचर्यावतारे बोधिसत्त्वशिक्षा चतुर्थः परिच्छेदः ॥ **************************************************************** परिच्छेद ५ शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ ५.१ ॥ अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् । करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥ ५.२ ॥ बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः । भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् ॥ ५.३ ॥ ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः । सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ ५.४ ॥ सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् । चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्ति च ॥ ५.५ ॥ यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च । चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥ ५.६ ॥ शस्त्राणि केन नरके घटितानि प्रयत्नतः । तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥ ५.७ ॥ पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः । तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः ॥ ५.८ ॥ अदरिद्रं जगत्कृत्वा दानपारमिता यदि । जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ ५.९ ॥ फलेन सह सर्वस्व-त्यागचित्ताज्जनेऽखिले । दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु ॥ ५.१० ॥ मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् । लब्धे विरतिचित्ते तु शीलपारमिता मता ॥ ५.११ ॥ कियतो मारयिष्यामि दुर्जनान् गगनोपमान् । मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ ५.१२ ॥ भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति । उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ ५.१३ ॥ बाह्या भावा मया तद्वच्छक्या वारयितुं न हि । स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥ ५.१४ ॥ सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् । यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥ ५.१५ ॥ जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि । अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥ ५.१६ ॥ दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे । यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥ ५.१७ ॥ तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् । चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ॥ ५.१८ ॥ यथा चपलमध्यस्थो रक्षति व्रणमादरात् । एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥ ५.१९ ॥ व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् । संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम् ॥ ५.२० ॥ अनेन हि विहारेण विहरन् दुर्जनेष्वपि । प्रमदाजनमध्येऽपि यतिर्धीरो न खण्ड्यते ॥ ५.२१ ॥ लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् । नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥ ५.२२ ॥ चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः । स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥ ५.२३ ॥ व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु । तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु ॥ ५.२४ ॥ असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् । सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥ ५.२५ ॥ अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि । असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥ ५.२६ ॥ असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा । उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ ५.२७ ॥ क्लेशतस्करसङ्घोऽयमवतारगवेषकः । प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् ॥ ५.२८ ॥ तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन । गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् ॥ ५.२९ ॥ उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् । धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः ॥ ५.३० ॥ बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः । सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥ ५.३१ ॥ इति ध्यात्वा तथा तिष्ठेत्त्रपादरभयान्वितः । बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥ ५.३२ ॥ संप्रजन्यं तदायाति न च यात्यागतं पुनः । स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ ५.३३ ॥ पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् । निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा ॥ ५.३४ ॥ निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन । निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥ ५.३५ ॥ दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन । आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥ ५.३६ ॥ मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् । दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः ॥ ५.३७ ॥ सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च । एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥ ५.३८ ॥ कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः । कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥ ५.३९ ॥ निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा । धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते ॥ ५.४० ॥ कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः । समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥ ५.४१ ॥ भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् । दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥ ५.४२ ॥ यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत् । तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥ ५.४३ ॥ एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् । असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति ॥ ५.४४ ॥ नानाविधप्रलापेषु वर्तमानेष्वनेकधा । कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥ ५.४५ ॥ मृन्मर्दनतृणच्छेद-रेखाद्यफलमागतम् । स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥ ५.४६ ॥ यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत् । स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥ ५.४७ ॥ अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः । न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥ ५.४८ ॥ उद्धतं सोपहासं वा यदा मानमदान्वितम् । सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥ ५.४९ ॥ यदात्मोत्कर्षणाभासं परपंसनमेव च । साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥ ५.५० ॥ लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः । उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५१ ॥ परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा । वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५२ ॥ असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा । स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् ॥ ५.५३ ॥ एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः । निगृह्णीयाद्दृढं शूरः प्रतिपक्षेण तत्सदा ॥ ५.५४ ॥ सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् । सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ ५.५५ ॥ परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम् । क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम् ॥ ५.५६ ॥ आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु । निर्माणमिव निर्मानं धारयाम्येष मानसम् ॥ ५.५७ ॥ चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः । धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥ ५.५८ ॥ गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः । न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥ ५.५९ ॥ रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम् । त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥ ५.६० ॥ न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् । अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् ॥ ५.६१ ॥ इमं चर्मपुटं तावत्स्वबुद्ध्यैव पृथक्कुरु । अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥ ५.६२ ॥ अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः । किमत्र सारमस्तीति स्वयमेव विचारय ॥ ५.६३ ॥ एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते । अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि ॥ ५.६४ ॥ न खादितव्यमशुचि त्वया पेयं न शोणितम् । नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥ ५.६५ ॥ युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम् । कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम् ॥ ५.६६ ॥ एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः । कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि ॥ ५.६७ ॥ न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते । कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥ ५.६८ ॥ दत्त्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना । नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते ॥ ५.६९ ॥ काये नौबुद्धिमाधाय गत्यागमननिश्चयात् । यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये ॥ ५.७० ॥ एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् । त्यजेद्भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् ॥ ५.७१ ॥ सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् । नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥ ५.७२ ॥ बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् । प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत् ॥ ५.७३ ॥ परचोदनदक्षाणामनधीष्टोपकारिणाम् । प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥ ५.७४ ॥ सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् । पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥ ५.७५ ॥ परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः । स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥ ५.७६ ॥ सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा । भोक्ष्ये तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः ॥ ५.७७ ॥ न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम् । अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥ ५.७८ ॥ विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् । श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥ ५.७९ ॥ ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव । एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥ ५.८० ॥ सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च । गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् ॥ ५.८१ ॥ दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् । नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥ ५.८२ ॥ उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः । नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥ ५.८३ ॥ एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः । निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥ ५.८४ ॥ विनिपातगतानाथ-ब्रतस्थान् संविभज्य च । भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥ ५.८५ ॥ सद्धर्मसेबकं कायमितरार्थे न पीडयेत् । एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥ ५.८६ ॥ त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये । तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥ ५.८७ ॥ धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् । सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥ ५.८८ ॥ गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना । हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥ ५.८९ ॥ नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् । न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥ ५.९० ॥ दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् । नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥ ५.९१ ॥ मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् । प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥ ५.९२ ॥ नैकयाऽन्यस्त्रिया कुर्याद्यानं शयनमासनम् । लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥ ५.९३ ॥ नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् । समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥ ५.९४ ॥ न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे । अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः ॥ ५.९५ ॥ नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा । संप्रजान् ल्लघूत्थानः प्रागवश्यं नियोगतः ॥ ५.९६ ॥ आचारो बोधिसत्त्वानामप्रमेय उदाहृतः । चित्तशोधनमाचारं नियतं तावदाचरेत् ॥ ५.९७ ॥ रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् । शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥ ५.९८ ॥ या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा । तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥ ५.९९ ॥ न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः । न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥ ५.१०० ॥ पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् । सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥ ५.१०१ ॥ सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत् । बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥ ५.१०२ ॥ श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् । एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥ ५.१०३ ॥ शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् । आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् ॥ ५.१०४ ॥ शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः । विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः ॥ ५.१०५ ॥ सङ्क्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम् । आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः ॥ ५.१०६ ॥ यतो निवार्यते यत्र यदेव च नियुज्यते । तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ॥ ५.१०७ ॥ एतदेव समासेन संप्रजन्यस्य लक्षणम् । यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः ॥ ५.१०८ ॥ कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् । चिकित्सापाठमात्रेण रोगिणः किं भविष्यति ॥ ५.१०९ ॥ इति बोधिचर्यावतारे संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ॥ **************************************************************** परिच्छेद ६ सर्वमेतत्सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ ६.१ ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ ६.२ ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते । न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ ६.३ ॥ पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः । तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ ६.४ ॥ सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते । सङ्क्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ ६.५ ॥ एवमादीनि दुःखानि करोतीत्यरिसंज्ञया । यः क्रोधं हन्ति निर्बन्धात्स सुखीह परत्र च ॥ ६.६ ॥ अनिष्टकरणाज्जातमिष्टस्य च विघातनात् । दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् ॥ ६.७ ॥ तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः । यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः ॥ ६.८ ॥ अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया । दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ ६.९ ॥ यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् । अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ ६.१० ॥ दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम् । प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् ॥ ६.११ ॥ कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः । दुःखेनैव च निःसारश्चेतस्तस्माद्दृढीभव ॥ ६.१२ ॥ दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् । वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः ॥ ६.१३ ॥ न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् । तस्मान्मृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥ ६.१४ ॥ उद्दंशदंशमशक-क्षुत्पिपासादिवेदनाम् । महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि ॥ ६.१५ ॥ शीतोष्णवृष्टिवाताधि-व्याधिबन्धनताडनैः । सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा ॥ ६.१६ ॥ केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः । परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् ॥ ६.१७ ॥ तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् । दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्व्यथाम् ॥ ६.१८ ॥ दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः । सङ्ग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा ॥ ६.१९ ॥ उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् । ते ते विजयिनः शूराः शेषास्तु मृतमारकाः ॥ ६.२० ॥ गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः । संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा ॥ ६.२१ ॥ पित्तादिषु न मे कोपो महादुःखकरेष्वपि । सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः ॥ ६.२२ ॥ अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा । अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा ॥ ६.२३ ॥ कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः । उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च ॥ ६.२४ ॥ ये केचिदपराधास्तु पापानि विविधानि च । सर्वं यत्प्रत्ययबलात्स्वतन्त्रं तु न विद्यते ॥ ६.२५ ॥ न च प्रत्ययसामग्र्या जनयामीति चेतना । न चापि जनितस्यास्ति जनितोऽस्मीति चेतना ॥ ६.२६ ॥ यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम् । तदेव हि भवामीति न संचिन्त्योपजायते ॥ ६.२७ ॥ अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा । विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते ॥ ६.२८ ॥ नित्यो ह्यचेतनश्चात्मा व्योमवत्स्फुटमक्रियः । प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया ॥ ६.२९ ॥ यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् । तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् ॥ ६.३० ॥ एवं परवशं सर्वं यद्वशं सोऽपि चावशः । निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते ॥ ६.३१ ॥ वारणापि न युक्तैवं कः किं वारयतीति चेत् । युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता ॥ ६.३२ ॥ तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् । ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत् ॥ ६.३३ ॥ यदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् । न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति ॥ ६.३४ ॥ प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः । भक्तच्छेदादिभिः कोपाद्दुरापस्त्र्यादिलिप्सया ॥ ६.३५ ॥ उद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः । निघ्नन्ति केचिदात्मानमपुण्याचरणेन च ॥ ६.३६ ॥ यदैवं क्लेशवश्यत्वाद्घ्नन्त्यात्मानमपि प्रियम् । तदैषां परकायेषु परिहारः कथं भवेत् ॥ ६.३७ ॥ क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने । न केवलं दया नास्ति क्रोध उत्पद्यते कथम् ॥ ६.३८ ॥ यदि स्वभावो बालानां परोपद्रवकारिता । तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके ॥ ६.३९ ॥ अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः । यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे ॥ ६.४० ॥ मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते । द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम् ॥ ६.४१ ॥ मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता । तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः ॥ ६.४२ ॥ तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् । तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते ॥ ६.४३ ॥ गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः । तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते ॥ ६.४४ ॥ दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः । स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते ॥ ६.४५ ॥ असिपत्रवनं यद्वद्यथा नारकपक्षिणः । मत्कर्मजनिता एव तथेदं कुत्र कुप्यते ॥ ६.४६ ॥ मत्कर्मचोदिता एव जाता मय्यपकारिणः । येन यास्यन्ति नरकान्मयैवामी हता ननु ॥ ६.४७ ॥ एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु । मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् ॥ ६.४८ ॥ अहमेवापकार्येषां ममैते चोपकारिणः । कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥ ६.४९ ॥ भवेन्ममाशयगुणो न यामि नरकान्यदि । एषामत्र किमायातं यद्यात्मा रक्षितो मया ॥ ६.५० ॥ अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः । हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः ॥ ६.५१ ॥ मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित् । शरीराभिनिवेशात्तु कायदुःखेन बाध्यते ॥ ६.५२ ॥ न्यक्वारः परुषं वाक्यमयशश्चेत्ययं गणः । कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि ॥ ६.५३ ॥ मय्यप्रसादो योऽन्येषां स किं मां भक्षयिष्यति । इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः ॥ ६.५४ ॥ लाभान्तरायकारित्वाद्यद्यसौ मेऽनभीप्सितः । नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् ॥ ६.५५ ॥ वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम् । यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे ॥ ६.५६ ॥ स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते । मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते ॥ ६.५७ ॥ ननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः । सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः ॥ ६.५८ ॥ लब्ध्वापि च बहू।ल्लाभान् चिरं भुक्त्वा सुखान्यपि । रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा ॥ ६.५९ ॥ पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् । पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु ॥ ६.६० ॥ यदर्थमेव जीवामि तदेव यदि नश्यति । किं तेन जीवितेनापि केवलाशुभकारिणा ॥ ६.६१ ॥ अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् । परायशस्करेऽप्येवं कोपस्ते किं न जायते ॥ ६.६२ ॥ परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा । क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि ॥ ६.६३ ॥ प्रतिमास्तूपसद्धर्म-नाशकाक्रोशकेषु च । न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा ॥ ६.६४ ॥ गुरुसालोहितादीनां प्रियाणां चापकारिषु । पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् ॥ ६.६५ ॥ चेतनाचेतनकृता देहिनां नियता व्यथा । सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः ॥ ६.६६ ॥ मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्येऽपि मोहिताः । ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम् ॥ ६.६७ ॥ कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः । सर्वे कर्मपरायत्तः कोऽहमत्रान्यथाकृतौ ॥ ६.६८ ॥ एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् । येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥ ६.६९ ॥ दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम् । तृणादौ यत्र सज्येत तदाकृष्यापनीयते ॥ ६.७० ॥ एवं चित्तं यदासङ्गाद्दह्यते द्वेषवह्निना । तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया ॥ ६.७१ ॥ मारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् । मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम् ॥ ६.७२ ॥ यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते । तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते ॥ ६.७३ ॥ कोपार्थमेवमेवाहं नरकेषु सहस्रशः । कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया ॥ ६.७४ ॥ न चेदं तादृशं दुःखं महार्थं च करिष्यति । जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते ॥ ६.७५ ॥ यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम् । मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि ॥ ६.७६ ॥ इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् । न वारितं च गुणिभिः परावर्जनमुत्तमम् ॥ ६.७७ ॥ तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् । भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत् ॥ ६.७८ ॥ स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि । कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि ॥ ६.७९ ॥ बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया । स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि ॥ ६.८० ॥ त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि । सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे ॥ ६.८१ ॥ पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः । कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि ॥ ६.८२ ॥ स किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति । बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति ॥ ६.८३ ॥ यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे । सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम् ॥ ६.८४ ॥ किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ । लभमानो न गृह्णातु वद केन न कुप्यसि ॥ ६.८५ ॥ न केवलं त्वमात्मानं कृतपापं न शोचसि । कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि ॥ ६.८६ ॥ जातं चेदप्रियं शत्रोस्त्वत्तुष्ठ्या किं पुनर्भवेत् । त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति ॥ ६.८७ ॥ अत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव । अथाप्यर्थो भवेदेवमनर्थः कोन्वतः परः ॥ ६.८८ ॥ एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् । यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु ॥ ६.८९ ॥ स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे । न बलार्थं न चारोग्ये न च कायसुखाय मे ॥ ६.९० ॥ एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः । मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता ॥ ६.९१ ॥ यशोऽर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि । किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् ॥ ६.९२ ॥ यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः । तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे ॥ ६.९३ ॥ शब्दस्तावदचित्तत्वात्स मां स्तौतीत्यसंभवः । परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् ॥ ६.९४ ॥ अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया । तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः ॥ ६.९५ ॥ तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत् । कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् ॥ ६.९६ ॥ तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते । तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम् ॥ ६.९७ ॥ स्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी । गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते ॥ ६.९८ ॥ तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः । अपायपातरक्षार्थं प्रवृत्ता ननु ते मम ॥ ६.९९ ॥ मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् । ये मोचयन्ति मां बन्धाद्द्वेषस्तेषु कथं मम ॥ ६.१०० ॥ दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः । बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम ॥ ६.१०१ ॥ पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते । क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् ॥ ६.१०२ ॥ अथाहमात्मदोषेण न करोमि क्षमामिह । मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥ ६.१०३ ॥ यो हि येन विना नास्ति यस्मिंश्च सति विद्यते । स एव कारणं तस्य स कथं विघ्न उच्यते ॥ ६.१०४ ॥ न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना । न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते ॥ ६.१०५ ॥ सुलभा याचका लोके दुर्लभास्त्वपकारिणः । यतो मेऽनपराधस्य न कश्चिदपराध्यति ॥ ६.१०६ ॥ अश्रमोपार्जितस्तस्माद्नृहे निधिरिवोत्थितः । बोधिचर्यासहायत्वात्स्पृहणीयो रिपुर्मम ॥ ६.१०७ ॥ मया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् । एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः ॥ ६.१०८ ॥ क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः । सिद्धिहेतुरुचितोऽपि सद्धर्मः पूज्यते कथम् ॥ ६.१०९ ॥ अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते । अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते ॥ ६.११० ॥ तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा । स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया ॥ ६.१११ ॥ सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् । एतानाराध्य बहवः संपत्पारं यतो गताः ॥ ६.११२ ॥ सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे । जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥ ६.११३ ॥ आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः । समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः ॥ ६.११४ ॥ मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् । बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् ॥ ६.११५ ॥ बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः । न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः ॥ ६.११६ ॥ गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित् । दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥ ६.११७ ॥ बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते । एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् ॥ ६.११८ ॥ किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम् । सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् ॥ ६.११९ ॥ भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् । महापकारिष्वपि तेन सर्व-कल्याणमेवाचरणीयमेषु ॥ ६.१२० ॥ स्वयं मम स्वामिन एव तावत्तदर्थमात्मन्यपि निर्व्यपेक्षाः । अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥ ६.१२१ ॥ येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् । तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेऽपकृतं मुनीनाम् ॥ ६.१२२ ॥ आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम् । सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायोऽस्ति दयामयानाम् ॥ ६.१२३ ॥ तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् । तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥ ६.१२४ ॥ आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः ॥ ६.१२५ ॥ आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति । दृश्यन्त एते ननु सत्त्वरूपास्त एव नाथाः किमनादरोऽत्र ॥ ६.१२६ ॥ तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव । कोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव ॥ ६.१२७ ॥ यथैको राजपुरुषः प्रमथ्नाति महाजनम् । विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः ॥ ६.१२८ ॥ यस्मान्नैव स एकाकी तस्य राजबलं बलम् । तथा न दुर्बलं कंचिदपराद्धं विमानयेत् ॥ ६.१२९ ॥ यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् । तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥ ६.१३० ॥ कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा । यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥ ६.१३१ ॥ तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत् । यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ॥ ६.१३२ ॥ आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् । इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥ ६.१३३ ॥ प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् । चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥ ६.१३४ ॥ बोधिचर्यावतारे क्षान्तिपारमिता षष्ठः परिच्छेदः ॥ **************************************************************** परिच्छेद ७ एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता । न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः ॥ ७.१ ॥ किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते । आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना ॥ ७.२ ॥ अव्यापारसुखास्वाद-निद्रापाश्रयतृष्णया । संसारदुःखानुद्वेगादालस्यमुपजायते ॥ ७.३ ॥ क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् । किमद्यापि न जानासि मृत्योर्वदनमागतः ॥ ७.४ ॥ स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि । तथापि निद्रां यास्येव चण्डालमहिषो यथा ॥ ७.५ ॥ यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः । कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः ॥ ७.६ ॥ यावत्संभृतसंभारं मरणं शीघ्रमेष्यति । संत्यज्यापि तदालस्यमकाले किं करिष्यसि ॥ ७.७ ॥ इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम् । अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन् ॥ ७.८ ॥ शोकवेगसमुच्छून-साश्रुरक्तेक्षणाननान् । बन्धून्निराशान् संपश्यन् यमदूतमुखानि च ॥ ७.९ ॥ स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् । त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि ॥ ७.१० ॥ जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते । किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः ॥ ७.११ ॥ स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे । कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ ७.१२ ॥ निरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ । मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे ॥ ७.१३ ॥ मानुष्यं नावमासाद्य तर दुःखमहानदीम् । मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः ॥ ७.१४ ॥ मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम् । रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव ॥ ७.१५ ॥ अविषादबलव्यूह-तात्पर्यात्मविधेयता । परात्मसमता चैव परात्मपरिवर्तनम् ॥ ७.१६ ॥ नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः । यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् ॥ ७.१७ ॥ तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा । यैरुत्साहवशात्प्राप्ता दुरापा बोधिरुत्तमा ॥ ७.१८ ॥ किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् । सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम् ॥ ७.१९ ॥ अथापि हस्तपादादि दातव्यमिति मे भयम् । गुरुलाघवमूढत्वं तन्मे स्यादविचारतः ॥ ७.२० ॥ छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः । कल्पकोटीरसंख्येया न च बोधिर्भविष्यति ॥ ७.२१ ॥ इदं तु मे परिमितं दुःखं संबोधिसाधनम् । नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् ॥ ७.२२ ॥ सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् । तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् ॥ ७.२३ ॥ क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् । मधुरेणोपचारेण चिकित्सति महातुरान् ॥ ७.२४ ॥ आदौ शाकादिदानेऽपि नियोजयति नायकः । तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत् ॥ ७.२५ ॥ यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते । मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् ॥ ७.२६ ॥ न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः । मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा ॥ ७.२७ ॥ पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि । तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते ॥ ७.२८ ॥ क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् । बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः ॥ ७.२९ ॥ एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः । बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥ ७.३० ॥ छन्दस्थामरतिमुक्ति-बलं सत्त्वार्थसिद्धये । छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन् ॥ ७.३१ ॥ एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये । छन्दमानरतित्याग-तात्पर्यवशिताबलैः ॥ ७.३२ ॥ अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः । एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः ॥ ७.३३ ॥ तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते । अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् ॥ ७.३४ ॥ गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः । तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा ॥ ७.३५ ॥ गुणलेशेऽपि नाभ्यासो मम जातः कदाचन । वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् ॥ ७.३६ ॥ न प्राप्तं भगवत्पूजा-महोत्सवसुखं मया । न कृता शासने कारा दरिद्राशा न पूरिता ॥ ७.३७ ॥ भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः । दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम् ॥ ७.३८ ॥ धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना । विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् ॥ ७.३९ ॥ कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ । तस्यापि मूलं सततं विपाकफलभावना ॥ ७.४० ॥ दुःखानि दौर्मनस्यानि भयानि विविधानि च । अभिलाषविघाताश्च जायन्ते पापकारिणाम् ॥ ७.४१ ॥ मनोरथः शुभकृतां यत्र यत्रैव गच्छति । तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते ॥ ७.४२ ॥ पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति । तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते ॥ ७.४३ ॥ विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः । मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥ ७.४४ ॥ यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः । ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥ ७.४५ ॥ तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् । वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् ॥ ७.४६ ॥ पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा । अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् ॥ ७.४७ ॥ जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं च वर्धते । अन्यच्च कार्यकालं च हीनं तच्च न साधितम् ॥ ७.४८ ॥ त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु । मयैवैकेन कर्तव्यमित्येषा कर्ममानिता ॥ ७.४९ ॥ क्लेशस्वतन्त्रो लोकोऽयं न क्षमः स्वार्थसाधने । तस्मान्मयैषां कर्तव्यं नाशक्तोऽहं यथा जनः ॥ ७.५० ॥ नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति । मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम् ॥ ७.५१ ॥ मृतं दुण्डुभमासाद्य काकोऽपि गरुडायते । आपदाबाधतेऽल्पापि मनो मे यदि दुर्बलम् ॥ ७.५२ ॥ विषादकृतनिश्चेष्ट आपदः सुकरा ननु । व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः ॥ ७.५३ ॥ तस्माद्दृढेन चित्तेन करोम्यापदमापदः । त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे ॥ ७.५४ ॥ मया हि सर्वं जेतव्यमहं जेयो न केनचित् । मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥ ७.५५ ॥ ये सत्त्वा मानविजिता वराकास्ते न मानिनः । मानी शत्रुवशं नैति मानशत्रुवशाश्च ते ॥ ७.५६ ॥ मानेन दुर्गतिं नीता मानुष्येऽपि हतोत्सवाः । परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः ॥ ७.५७ ॥ सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः । तेऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः ॥ ७.५८ ॥ ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् । ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति ॥ ७.५९ ॥ संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः । दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव ॥ ७.६० ॥ महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते । एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् ॥ ७.६१ ॥ यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् । तत्कर्मशौण्डोऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् ॥ ७.६२ ॥ सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् । कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् ॥ ७.६३ ॥ कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः । पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥ ७.६४ ॥ तस्मात्कर्मावसानेऽपि निमज्जेत्तत्र कर्मणि । यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी ॥ ७.६५ ॥ बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् । सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया ॥ ७.६६ ॥ क्लेशप्रहारान् संरक्षेत्क्लेशांश्च प्रहरेद्दृढम् । खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह ॥ ७.६७ ॥ तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् । स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् ॥ ७.६८ ॥ विषं रुधिरमासाद्य प्रसर्पति यथा तनौ । तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति ॥ ७.६९ ॥ तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः । स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती ॥ ७.७० ॥ तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् । निद्रालस्यागमे तद्वत्प्रतिकुर्वीत सत्वरम् ॥ ७.७१ ॥ एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् । कथं करोमि येनेदं पुनर्मे न भवेदिति ॥ ७.७२ ॥ संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना । कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति ॥ ७.७३ ॥ लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन् । कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते ॥ ७.७४ ॥ यथैव तूलकं वायोर्गमनागमने वशम् । तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥ ७.७५ ॥ बोधिचर्यावतारे वीर्यपारमिता नाम सप्तमः परिच्छेदः ॥ **************************************************************** परिच्छेद ८ वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः । विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥ ८.१ ॥ कायचित्तविवेकेन विक्षेपस्य न संभवः । तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥ ८.२ ॥ स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया । तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥ ८.३ ॥ शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य । शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥ ८.४ ॥ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ ८.५ ॥ अपश्यन्नरतिं याति समाधौ न च तिष्ठति । न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा ॥ ८.६ ॥ न पश्यति यथाभूतं संवेगादवहीयते । दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥ ८.७ ॥ तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः । अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः ॥ ८.८ ॥ बालैः सभागचरितो नियतं याति दुर्गतिम् । नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥ ८.९ ॥ क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् । तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः ॥ ८.१० ॥ हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् । अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥ ८.११ ॥ ईर्ष्योत्कृष्टात्समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः । अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ ८.१२ ॥ आत्मोत्कर्षः परावर्णः संसाररतिसंकथा । इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥ ८.१३ ॥ एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः । एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥ ८.१४ ॥ बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः । न संस्तवानुबन्धेन किंतूदासीनसाधुवत् ॥ ८.१५ ॥ धर्मार्थमात्रमादाय भृङ्गवत्कुसुमान्मधु । अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः ॥ ८.१६ ॥ लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम् । इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम् ॥ ८.१७ ॥ यत्र तत्र रतिं याति मनः सुखाभिमोहितम् । तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥ ८.१८ ॥ तस्मात्प्राज्ञो न तमिच्छेदिच्छातो जायते भयम् । स्वयमेव च यात्येतद्धैर्यं कृत्वा प्रतीक्षताम् ॥ ८.१९ ॥ बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः । सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति ॥ ८.२० ॥ मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः । मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥ ८.२१ ॥ नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः । किं पुनर्मादृशैरज्ञैस्तस्मात्किं कोकचिन्तया ॥ ८.२२ ॥ निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम् । प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥ ८.२३ ॥ न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः । न स्वार्थेन विना प्रीतिर्यस्माद्बालस्य जायते ॥ ८.२४ ॥ स्वार्थद्वारेण या प्रीतिरात्मार्थं प्रीतिरेव सा । द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥ ८.२५ ॥ नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः । कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥ ८.२६ ॥ शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा । कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन् ॥ ८.२७ ॥ अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः । स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥ ८.२८ ॥ मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः । निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥ ८.२९ ॥ कायभूमिं निजां गत्वा कङ्कालैरपरैः सह । स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥ ८.३० ॥ अयमेव हि कायो मे एवं पूतिर्भविष्यति । शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम् ॥ ८.३१ ॥ अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः । पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥ ८.३२ ॥ एक उत्पद्यते जन्तुर्म्रियते चैक एव हि । नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः ॥ ८.३३ ॥ अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः । तथा भवाध्वगस्यापि जन्मावासपरिग्रहः ॥ ८.३४ ॥ चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः । आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥ ८.३५ ॥ असंस्तवाविरोधाभ्यामेक एव शरीरकः । पूर्वमेव मृतो लोके म्रियमाणो न शोचति ॥ ८.३६ ॥ न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम् । बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥ ८.३७ ॥ तस्मादेकाकिता रम्या निरायासा शिवोदया । सर्वविक्षेपशमनी सेवितव्या मया सदा ॥ ८.३८ ॥ सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः । समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥ ८.३९ ॥ कामा ह्यनर्थजनका इह लोके परत्र च । इह बन्धवधच्छेदैर्नरकादौ परत्र च ॥ ८.४० ॥ यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा । न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥ ८.४१ ॥ प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम् । यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः ॥ ८.४२ ॥ तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च । प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥ ८.४३ ॥ उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया । पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् ॥ ८.४४ ॥ तन्मुखं तूत्परिक्लेशमसहद्भिरिवाधुना । गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे ॥ ८.४५ ॥ परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम् । तदद्य भक्षितं यावत्किमीर्ष्यालो न रक्षसि ॥ ८.४६ ॥ मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् । आहारः पूज्यतेऽन्येषां स्रक्चन्दनविभूषणैः ॥ ८.४७ ॥ निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् । वेताडेनेव केनापि चाल्यमानाद्भयं न किम् ॥ ८.४८ ॥ एकस्मादशनादेषां लालामेध्यं च जायते । तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥ ८.४९ ॥ तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः । दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः ॥ ८.५० ॥ यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम् । न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥ ८.५१ ॥ यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम् । मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥ ८.५२ ॥ स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर । अमेध्यभस्त्रामपरां गूथघस्मर विस्मर ॥ ८.५३ ॥ मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि । अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥ ८.५४ ॥ यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते । यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥ ८.५५ ॥ नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् । स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥ ८.५६ ॥ विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् । अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥ ८.५७ ॥ मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि । यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि ॥ ८.५८ ॥ यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् । अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥ ८.५९ ॥ अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम् । बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥ ८.६० ॥ न केवलममेध्यत्वमात्मीयं न जुगुप्ससि । अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥ ८.६१ ॥ कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा । मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥ ८.६२ ॥ यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे । श्मशाने पतितान् घोरान् कायान् पश्यापरानपि ॥ ८.६३ ॥ चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत् । कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥ ८.६४ ॥ काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः । अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥ ८.६५ ॥ यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु । किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति ॥ ८.६६ ॥ कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् । अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥ ८.६७ ॥ यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः । मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः ॥ ८.६८ ॥ स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत् । आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही ॥ ८.६९ ॥ कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा । ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥ ८.७० ॥ एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते । तदर्थमर्जनायासो नरकादिषु च व्यथा ॥ ८.७१ ॥ शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी । यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥ ८.७२ ॥ केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः । गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥ ८.७३ ॥ दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः । वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥ ८.७४ ॥ यदर्थमिव विक्रीत आत्मा कामविमोहितैः । तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा ॥ ८.७५ ॥ विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् । प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु ॥ ८.७६ ॥ रणं जीवितसंदेहं विशन्ति किल जीवितम् । मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः ॥ ८.७७ ॥ छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः । दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥ ८.७८ ॥ अर्जनरक्षणनाशविषादैरर्थमनर्थमनन्तमवैहि । व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥ ८.७९ ॥ एवमादीनवो भूयानल्पास्वादस्तु कामिनाम् । शकटं वहतो यद्वत्पशोर्घासलवग्रहः ॥ ८.८० ॥ तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः । हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥ ८.८१ ॥ अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः । कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः ॥ ८.८२ ॥ ततः कोटिशतेनापि श्रमभागेन बुद्धता । चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥ ८.८३ ॥ न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः । कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥ ८.८४ ॥ एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् । कलहायासशून्यासु शान्तासु वनभूमिषु ॥ ८.८५ ॥ धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु । निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥ ८.८६ ॥ विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु । परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥ ८.८७ ॥ स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् । यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥ ८.८८ ॥ एवमादिभिराकारैर्विवेकगुणभावनात् । उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥ ८.८९ ॥ परात्मसमतामादौ भावयेदेवमादरात् । समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥ ८.९० ॥ हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः । तथा जगद्भिन्नमभिन्नदुःख-सुखात्मकं सर्वमिदं तथैव ॥ ८.९१ ॥ यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते । तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥ ८.९२ ॥ तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना । तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम् ॥ ८.९३ ॥ मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् । अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत् ॥ ८.९४ ॥ यदा मम परेषां च तुल्यमेव सुखं प्रियम् । तदात्मनः को विशेषो येनात्रैव सुखोद्यमः ॥ ८.९५ ॥ यदा मम परेषां च भयं दुःखं च न प्रियम् । तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥ ८.९६ ॥ तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते । नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥ ८.९७ ॥ अहमेव तदापीति मिथ्येयं प्रतिकल्पना । अन्य एव मृतो यस्मादन्य एव प्रजायते ॥ ८.९८ ॥ यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् । पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते ॥ ८.९९ ॥ अयुक्तमपि चेदेतदहंकारात्प्रवर्तते । यदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम् ॥ ८.१०० ॥ संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा । यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति ॥ ८.१०१ ॥ अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः । दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥ ८.१०२ ॥ दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः । वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् ॥ ८.१०३ ॥ कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात् । जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥ ८.१०४ ॥ बहूनामेकदुःखेन यदि दुःखं विगच्छति । उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥ ८.१०५ ॥ अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् । आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥ ८.१०६ ॥ एवं भावितसंतानाः परदुःखसमप्रियाः । अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥ ८.१०७ ॥ मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः । तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥ ८.१०८ ॥ अतः परार्थं कृत्वापि न मदो न च विस्मयः । न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥ ८.१०९ ॥ तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम् । रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि ॥ ८.११० ॥ अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु । भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि ॥ ८.१११ ॥ तथाकायोऽन्यदीयोऽपि किमात्मेति न गृह्यते । परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥ ८.११२ ॥ ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् । आत्मभावपरित्यागं परादानं च भावयेत् ॥ ८.११३ ॥ कायस्यावयवत्वेन यथाभीष्टाः करादयः । जगतोऽवयवत्वेन तथा कस्मान्न देहिनः ॥ ८.११४ ॥ यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके । परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥ ८.११५ ॥ एवं परार्थं कृत्वापि न मदो न च विस्मयः । आत्मानं भोजयित्वैव फलाशा न च जायते ॥ ८.११६ ॥ तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि । रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ॥ ८.११७ ॥ अध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः । पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि ॥ ८.११८ ॥ दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः । यस्यैव श्रवणात्त्रासस्तेनैव न विना रतिः ॥ ८.११९ ॥ आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति । स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥ ८.१२० ॥ यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम् । न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥ ८.१२१ ॥ यो मन्द्य क्षुत्पिपासादि-प्रतीकारचिकीर्षया । पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥ ८.१२२ ॥ यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् । रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत् ॥ ८.१२३ ॥ कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत् । न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥ ८.१२४ ॥ यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता । यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥ ८.१२५ ॥ आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते । आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥ ८.१२६ ॥ दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया । तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥ ८.१२७ ॥ आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते । परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥ ८.१२८ ॥ ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया । ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥ ८.१२९ ॥ बहुना वा किमुक्तेन दृश्यतामिदमन्तरम् । स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥ ८.१३० ॥ न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम् । स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥ ८.१३१ ॥ आस्तां तावत्परो लोको दृष्टोऽप्यर्थो न सिध्यति । भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम् ॥ ८.१३२ ॥ त्यक्त्वान्योऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् । अन्योऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥ ८.१३३ ॥ उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव । सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥ ८.१३४ ॥ आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते । यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते ॥ ८.१३५ ॥ तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च । ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥ ८.१३६ ॥ अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः । सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥ ८.१३७ ॥ न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः । न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः ॥ ८.१३८ ॥ तेन सत्त्वपरो भूत्वा कायेऽस्मिन्यद्यदीक्षसे । तत्तदेवापहृत्यास्मात्परेभ्यो हितमाचर ॥ ८.१३९ ॥ हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि । भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा ॥ ८.१४० ॥ एष सत्क्रियते नाहं लाभी नाहमयं यथा । स्तूयतेऽयमहं निन्द्यो दुःखितोऽहमयं सुखी ॥ ८.१४१ ॥ अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः । अयं किल महा।ल्लोके नीचोऽहं किल निर्गुणः ॥ ८.१४२ ॥ किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः । सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥ ८.१४३ ॥ शीलदृष्टिविपत्त्यादि-क्लेशशक्त्या न मद्वशात् । चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥ ८.१४४ ॥ अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यते । किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम् ॥ ८.१४५ ॥ दुर्गतिव्याडवक्त्रस्थे- -नैवास्य करुणा जने । अपरान् गुणमानेन पण्डितान् विजिगीषते ॥ ८.१४६ ॥ सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये । कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥ ८.१४७ ॥ अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः । अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन ॥ ८.१४८ ॥ छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् । सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु ॥ ८.१४९ ॥ पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम् । हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥ ८.१५० ॥ अस्यापि हि वराकस्य स्पर्धा किल मया सह । किमस्य श्रुतमेतावत्प्रज्ञारूपं कुलं धनम् ॥ ८.१५१ ॥ एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः । संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥ ८.१५२ ॥ यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात् । दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत् ॥ ८.१५३ ॥ सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्व्यथया सदा । अनेन शतशः सर्वे संसारव्यथिता वयम् ॥ ८.१५४ ॥ अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव । श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥ ८.१५५ ॥ मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः । द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः ॥ ८.१५६ ॥ अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया । बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥ ८.१५७ ॥ तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु । चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥ ८.१५८ ॥ अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे । तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥ ८.१५९ ॥ अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः । परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥ ८.१६० ॥ सुखाच्च च्यावयात्मानं परदुःखे नियोजय । कदायं किं करोतीति छलमस्य निरूपय ॥ ८.१६१ ॥ अन्येनापि कृतं दोषं पातयास्यैव मस्तके । अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥ ८.१६२ ॥ अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु । निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय ॥ ८.१६३ ॥ नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् । यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु ॥ ८.१६४ ॥ संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया । तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥ ८.१६५ ॥ नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत् । स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतोऽथ संवृतः ॥ ८.१६६ ॥ एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया । एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे ॥ ८.१६७ ॥ अथैवमुच्यमानेऽपि चित्तं नेदं करिष्यसि । त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः ॥ ८.१६८ ॥ क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते । अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः ॥ ८.१६९ ॥ अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् । त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् ॥ ८.१७० ॥ त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः । त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥ ८.१७१ ॥ एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् । निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥ ८.१७२ ॥ न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते । यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते ॥ ८.१७३ ॥ यथा यथास्य कायस्य क्रियते परिपालनम् । सुकुमारतरो भूत्वा पतत्येव तथा तथा ॥ ८.१७४ ॥ अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा । नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति ॥ ८.१७५ ॥ अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते । निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥ ८.१७६ ॥ तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये । भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥ ८.१७७ ॥ भस्मनिष्ठावसानोऽयं निश्चेष्टान्येन चाल्यते । अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥ ८.१७८ ॥ किं ममानेन यन्त्रेण जीविना वा मृतेन वा । लोष्ट्रादेः को विशेषोऽस्य हाहंकारं न नश्यसि ॥ ८.१७९ ॥ शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते । किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥ ८.१८० ॥ मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा । न च स्नेहो न च द्वेषस्तस्मात्स्नेहं करोमि किम् ॥ ८.१८१ ॥ रोषो यस्य खलीकारात्तोषो यस्य च पूजया । स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥ ८.१८२ ॥ इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल । सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः ॥ ८.१८३ ॥ तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते । अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत् ॥ ८.१८४ ॥ तेनालं लोकचरितैः पण्डिताननुयाम्यहम् । अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥ ८.१८५ ॥ तस्मादावरणं हन्तुं समाधानं करोम्यहम् । विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् ॥ ८.१८६ ॥ बोधिचर्यावतारे ध्यानपारमिता अष्टमः परिच्छेदः ॥ **************************************************************** परिच्छेद ९ इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ । तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया ॥ ९.१ ॥ संवृतिः परमार्थश्च सत्यद्वयमिदं मतं । बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते ॥ ९.२ ॥ तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा । तत्र प्राकृतको लोको योगिलोकेन बाध्यते ॥ ९.३ ॥ बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः । दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥ ९.४ ॥ लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः । न तु मायावदित्यत्र विवादो योगिलोकयोः ॥ ९.५ ॥ प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः । अशुच्यादिषु शुच्यादि-प्रसिद्धिरिव सा मृषा ॥ ९.६ ॥ लोकावतारणार्थं च भावा नाथेन देशिताः । तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥ ९.७ ॥ न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः । अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे ॥ ९.८ ॥ मायोपमाज्जिनात्पुण्यं सद्भावेऽपि कथं यथा । यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः ॥ ९.९ ॥ यावत्प्रत्ययसामग्री तावन्मायापि वर्तते । दीर्घसंतानमात्रेण कथं सत्त्वोऽस्ति सत्यतः ॥ ९.१० ॥ मायापुरुषघातादौ चित्ताभावान्न पापकं । चित्तमायासमेते तु पापपुण्यसमुद्भवः ॥ ९.११ ॥ मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः । सापि नानाविधा माया नानाप्रत्ययसंभवा ॥ ९.१२ ॥ नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् । निर्वृतः परमार्थेन संवृत्या यदि संसरेत् ॥ ९.१३ ॥ बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया । प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि ॥ ९.१४ ॥ प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः । यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते ॥ ९.१५ ॥ यदा मायैव ते नास्ति तदा किमुपलभ्यते । चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः ॥ ९.१६ ॥ चित्तमेव यदा माया तदा किं केन दृश्यते । उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति ॥ ९.१७ ॥ न च्छिनत्ति यथात्मानमसिधारा तथा मनः । आत्मभावं यथा दीपः संप्रकाशयतीति चेत् ॥ ९.१८ ॥ नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः । न हि स्फटिकवन्नीलं नीलत्वेऽन्यमपेक्षते ॥ ९.१९ ॥ तथा किंचित्परापेक्षमनपेक्षं च दृश्यते । अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ ९.२० ॥ नीलमेव हि को नीलं कुर्यादात्मानमात्मना । अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ ९.२१ ॥ दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते । बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते ॥ ९.२२ ॥ प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् । वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा ॥ ९.२३ ॥ यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम् । अन्यानुभूते संबन्धात्स्मृतिराखुविषं यथा ॥ ९.२४ ॥ प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते । सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् ॥ ९.२५ ॥ यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते । सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते ॥ ९.२६ ॥ चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते । वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः ॥ ९.२७ ॥ असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः । वस्त्वाश्रयश्चेत्संसारः सोऽन्यथाकाशवद्भवेत् ॥ ९.२८ ॥ वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् । असत्सहायमेकं हि चित्तमापद्यते तव ॥ ९.२९ ॥ ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः । एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते ॥ ९.३० ॥ मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते । यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते ॥ ९.३१ ॥ अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना । तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥ ९.३२ ॥ शून्यतावासनाधानाद्धीयते भाववासना । किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते ॥ ९.३३ ॥ यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते । तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः ॥ ९.३४ ॥ यदा न भावो नाभावो मतेः संतिष्ठते पुरः । तदान्यगत्यभावेन निरालम्बा प्रशाम्यते ॥ ९.३५ ॥ चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः । विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते ॥ ९.३६ ॥ यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति । स तस्मिंश्चिरनष्टेऽपि विषादीनुपशामयेत् ॥ ९.३७ ॥ बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः । करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते ॥ ९.३८ ॥ अचित्तके कृता पूजा कथं फलवती भवेत् । तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च ॥ ९.३९ ॥ आगमाच्च फलं तत्र संवृत्या तत्त्वतोऽपि वा । सत्यबुद्धे कृता पूजा सफलेति कथं यथा ॥ ९.४० ॥ सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् । न विनानेन मार्गेण बोधिरित्यागमो यतः ॥ ९.४१ ॥ नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः । यस्मादुभयसिद्धोऽसौ न सिद्धोऽसौ तवादितः ॥ ९.४२ ॥ यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु । अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता ॥ ९.४३ ॥ सविवादं महायानमिति चेदागमं त्यज । तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम् ॥ ९.४४ ॥ शासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता । सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् ॥ ९.४५ ॥ क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा । दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः ॥ ९.४६ ॥ तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते । किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत्सती ॥ ९.४७ ॥ वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते । सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा ॥ ९.४८ ॥ विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः । यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् ॥ ९.४९ ॥ यत्सूत्रेऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते । महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् ॥ ९.५० ॥ एकेनागम्यमानेन सकलं यदि दोषवत् । एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् ॥ ९.५१ ॥ महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते । तत्त्वयानवबुद्धत्वादग्राह्यं कः करिष्यति ॥ ९.५२ ॥ सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः । मोहेन दुःखिनामर्थे शून्यताया इदं फलम् ॥ ९.५३ ॥ तदेवं शून्यतापक्षे दूषणं नोपपद्यते । तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता ॥ ९.५४ ॥ क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता । शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् ॥ ९.५५ ॥ यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम् । शून्यता दुःखशमनी ततः किं जायते भयम् ॥ ९.५६ ॥ यतस्ततो वास्तु भयं यद्यहं नाम किंचन । अहमेव न किंचिच्चेद्भयं कस्य भविष्यति ॥ ९.५७ ॥ दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् । न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा ॥ ९.५८ ॥ नाहं वसा न च स्वेदो न मेदोऽन्त्राणि नाप्यहम् । न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च ॥ ९.५९ ॥ नाहं मांसं न च स्नायुर्नोष्मा वायुरहं न च । न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा ॥ ९.६० ॥ शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा । ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते ॥ ९.६१ ॥ अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते । तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः ॥ ९.६२ ॥ तदेव रूपं जानाति तदा किं न शृणोत्यपि । शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत् ॥ ९.६३ ॥ शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम् । एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः ॥ ९.६४ ॥ सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः । शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते ॥ ९.६५ ॥ तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः । स एवान्यस्वभावश्चेदपूर्वेयं तदेकता ॥ ९.६६ ॥ अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम् । ज्ञानता चेत्ततः सर्व-पुंसामैक्यं प्रसज्यते ॥ ९.६७ ॥ चेतनाचेतने चैक्यं तयोर्येनास्तिता समा । विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा ॥ ९.६८ ॥ अचेतनश्च नैवाहमचैतन्यात्पटादिवत् । अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते ॥ ९.६९ ॥ अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् । अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता ॥ ९.७० ॥ न कर्मफलसंबन्धो युक्तश्चेदात्मना विना । कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति ॥ ९.७१ ॥ द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले । निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु ॥ ९.७२ ॥ हेतुमान् फलयोगीति दृश्यते नैष संभवः । संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् ॥ ९.७३ ॥ अतीतानागतं चित्तं नाहं तद्धि न विद्यते । अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः ॥ ९.७४ ॥ यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः । तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥ ९.७५ ॥ यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् । कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥ ९.७६ ॥ कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः । दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते ॥ ९.७७ ॥ दुःखहेतुरहंकार आत्ममोहात्तु वर्धते । ततोऽपि न निवर्त्यश्चेत्वरं नैरात्म्यभावना ॥ ९.७८ ॥ कायो न पादौ न जङ्घा नोरू कायः कटिर्न च । नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः ॥ ९.७९ ॥ न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः । न ग्रीवा न शिरः कायः कायोऽत्र कतरः पुनः ॥ ९.८० ॥ यदि सर्वेषु कायोऽथमेकदेशेन वर्तते । अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः ॥ ९.८१ ॥ सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु । कायास्तावन्त एव स्युर्यावन्तस्ते करादयः ॥ ९.८२ ॥ नैवान्तर्न बहिः कायः कथं कायः करादिषु । करादिभ्यः पृथग्नास्ति कथं नु खलु विद्यते ॥ ९.८३ ॥ तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु । संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् ॥ ९.८४ ॥ यावत्प्रत्ययसामग्री तावत्कायः पुमानिव । एवं करादौ सा यावत्तावत्कायोऽत्र दृश्यते ॥ ९.८५ ॥ एवमङ्गुलिपुञ्जत्वात्पादोऽपि कतरो भवेत् । सोऽपि पर्वसमूहत्वात्पर्वापि स्वांशभेदतः ॥ ९.८६ ॥ अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः । दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः ॥ ९.८७ ॥ एवं स्वप्नोपमे रूपे को रज्येत विचारकः । कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः ॥ ९.८८ ॥ यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते । शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते ॥ ९.८९ ॥ बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते । वेदनात्वं कथं तस्य यस्य नानुभवात्मता ॥ ९.९० ॥ अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु । तुष्टिमात्राऽपरा चेत्स्यात्तस्मात्साप्यस्य सूक्ष्मता ॥ ९.९१ ॥ विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि । कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु ॥ ९.९२ ॥ अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते । विकल्पक्षेत्रसंभूत-ध्यानाहारा हि योगिनः ॥ ९.९३ ॥ सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः । निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः ॥ ९.९४ ॥ नाणोरणौ प्रवेशोऽस्ति निराकाशः समश्च सः । अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः ॥ ९.९५ ॥ निरंशस्य च संसर्गः कथं नामोपपद्यते । संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥ ९.९६ ॥ विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते । समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम् ॥ ९.९७ ॥ तदेवं स्पर्शनाभावे वेदनासंभवः कुतः । किमर्थमयमायासः बाधा कस्य कुतो भवेत् ॥ ९.९८ ॥ यदा न वेदकः कश्चिद्वेदना च न विद्यते । तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे ॥ ९.९९ ॥ दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना । चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते ॥ ९.१०० ॥ पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते । स्वात्मानं नानुभवति न चान्येनानुभूयते ॥ ९.१०१ ॥ न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः । निरात्मके कलापेऽस्मिन् क एव बाध्यतेऽनया ॥ ९.१०२ ॥ नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् । नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते ॥ ९.१०३ ॥ यन्न काये न चान्यत्र न मिश्रं न पृथक्क्वचित् । तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः ॥ ९.१०४ ॥ ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः । ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः ॥ ९.१०५ ॥ अथ ज्ञेयाद्भवेत्पश्चात्तदा ज्ञानं कुतो भवेत् । एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते ॥ ९.१०६ ॥ यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः । अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः ॥ ९.१०७ ॥ परचित्तविकल्पोऽसौ स्वसंवृत्या तु नास्ति सः । स पश्चान्नियतः सोऽस्ति न चेन्नास्त्येव संवृतिः ॥ ९.१०८ ॥ कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् । यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते ॥ ९.१०९ ॥ विचारितेन तु यदा विचारेण विचार्यते । तदानवस्था तस्यापि विचारस्य विचारणात् ॥ ९.११० ॥ विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः । निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते ॥ ९.१११ ॥ यस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः । यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः ॥ ९.११२ ॥ अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः । अथान्योन्यवशात्सत्त्वमभावः स्याद्द्वयोरपि ॥ ९.११३ ॥ पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः । पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः ॥ ९.११४ ॥ अङ्कुरो जायते बीजाद्बीजं तेनैव सूच्यते । ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते ॥ ९.११५ ॥ अङ्कुरादन्यतो ज्ञानाद्बीजमस्तीति गम्यते । ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते ॥ ९.११६ ॥ लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते । पद्मनालादिभेदो हि हेतुभेदेन जायते ॥ ९.११७ ॥ किंकृतो हेतुभेदश्चेत्पूर्वहेतुप्रभेदतः । कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः ॥ ९.११८ ॥ ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः । भूतानि चेद्भवत्वेवं नाममात्रेऽपि किं श्रमः ॥ ९.११९ ॥ अपि त्वनेकेऽनित्याश्च निश्चेष्टा न च देवताः । लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः ॥ ९.१२० ॥ नाकाशमीशोऽचेष्टत्वात्नात्मा पूर्वनिषेधतः । अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते ॥ ९.१२१ ॥ तेन किं स्रष्टुमिष्टं च आत्मा चेत्नन्वसौ ध्रुवः । क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च ॥ ९.१२२ ॥ कर्मणः सुखदुःखे च वद किं तेन विर्मितम् । हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् ॥ ९.१२३ ॥ कस्मात्सदा न कुरुते न हि सोऽन्यमपेक्षते । तेनाकृतोऽन्यो नास्त्येव तेनासौ किमपेक्षताम् ॥ ९.१२४ ॥ अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः । नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः ॥ ९.१२५ ॥ करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते । इच्छन्नपीच्छायत्तः स्यात्कुर्वतः कुत ईशता ॥ ९.१२६ ॥ येऽपि नित्यानणूनाहुस्तेऽपि पूर्वं निवारिताः । सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् ॥ ९.१२७ ॥ सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः । प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते ॥ ९.१२८ ॥ एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत् । एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा ॥ ९.१२९ ॥ गुणाभावे च शब्दादेरस्तित्वमतिदूरतः । अचेतने च वस्त्रादौ सुखादेरप्यसंभवः ॥ ९.१३० ॥ तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः । सुखाद्येव च ते हेतुः न च तस्मात्पटादयः ॥ ९.१३१ ॥ पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत् । सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते ॥ ९.१३२ ॥ सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते । तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् ॥ ९.१३३ ॥ स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते । सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते ॥ ९.१३४ ॥ न स्थौल्यं चेत्सुखादन्यत्सुखस्यानित्यता स्फुटम् । नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम् ॥ ९.१३५ ॥ व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता । अन्नादोऽमेध्यभक्षः स्यात्फलं हेतौ यदि स्थितम् ॥ ९.१३६ ॥ पटार्घेणैव कर्पास-बीजं क्रीत्वा निवस्यताम् । मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः ॥ ९.१३७ ॥ लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति । लोकाप्रमाणतायां चेत्व्यक्तदर्शनमप्यसत् ॥ ९.१३८ ॥ प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा । तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते ॥ ९.१३९ ॥ कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते । तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा ॥ ९.१४० ॥ तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना । तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा ॥ ९.१४१ ॥ तस्मादेवं विचारेण नास्ति किंचिदहेतुतः । न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् ॥ ९.१४२ ॥ अन्यतो नापि चायातं न तिष्ठति न गच्छति । मायातः को विशेषोऽस्य यन्मूढैः सत्यतः कृतम् ॥ ९.१४३ ॥ मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् । आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् ॥ ९.१४४ ॥ यदन्यसंनिधानेन दृष्टं न तदभावतः । प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥ ९.१४५ ॥ विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् । अथाप्यविद्यमानोऽसौ हेतुना किं प्रयोजनम् ॥ ९.१४६ ॥ नाभावस्य विकारोऽस्ति हेतुकोटिशतैरपि । तदवस्थः कथं भावः को वान्यो भावतां गतः ॥ ९.१४७ ॥ नाभावकाले भावश्चेत्कदा भावो भविष्यति । नाजातेन हि भावेन सोऽभावोऽपगमिष्यति ॥ ९.१४८ ॥ न चानपगतेऽभावे भावावसरसंभवः । भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः ॥ ९.१४९ ॥ एवं च न विरोधोऽस्ति न च भावोऽस्ति सर्वदा । अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् ॥ ९.१५० ॥ स्वप्नोपमास्तु गतयो विचारे कदलीसमाः । निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥ ९.१५१ ॥ एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् । सत्कृतः परिभूतो वा केन कः संभविष्यति ॥ ९.१५२ ॥ कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् । का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः ॥ ९.१५३ ॥ विचारे जीवलोकः कः को नामात्र मरिष्यति । को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥ ९.१५४ ॥ सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः । प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥ ९.१५५ ॥ शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः । यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥ ९.१५६ ॥ मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च । आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥ ९.१५७ ॥ भवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम् । तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् ॥ ९.१५८ ॥ तत्र चानुपमास्तीव्रा अनन्तदुःखसागराः । तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥ ९.१५९ ॥ तत्रापि जीवितारोग्य-व्यापारैः क्षुत्क्लमश्रमैः । निद्रयोपद्रवैर्बाल-संसर्गैर्निष्फलैस्तथा ॥ ९.१६० ॥ वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः । तत्राप्यभ्यस्तविक्षेप-निवारणगतिः कुतः ॥ ९.१६१ ॥ तत्रापि मारो यतते महापायप्रपातने । तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया ॥ ९.१६२ ॥ पुनश्च क्षणदौर्लम्यं बुद्धोत्पादोऽतिदुर्लभः । क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥ ९.१६३ ॥ अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् । ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः ॥ ९.१६४ ॥ स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः । स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः ॥ ९.१६५ ॥ अजरामरलीलानामेवं विहरतां सताम् । आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः ॥ ९.१६६ ॥ एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा । पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ॥ ९.१६७ ॥ कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् । संवृत्यानुपलम्भेन पुण्यसंभारमादरात् ॥ ९.१६८ ॥ बोधिचर्यावतारे प्रज्ञापारमिता नाम नवमः परिच्छेदः ॥ **************************************************************** परिच्छेद १० बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् । तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः ॥ १०.१ ॥ सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः । ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् ॥ १०.२ ॥ आसंसारं सुखज्यानिर्माभूत्तेषां कदाचन । बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् ॥ १०.३ ॥ यावन्तो नारकाः केचिद्विद्यन्ते लोकधातुषु । सुखावती सुखामोदैर्मोदन्तां तेषु देहिनः ॥ १०.४ ॥ शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः । बोधिसत्त्वमहामेघ-संभवैर्जलसागरैः ॥ १०.५ ॥ असिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः । कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः ॥ १०.६ ॥ दात्यूहकारण्डवचक्रवाक-हंसादिकोलाहलरम्यशोभैः । सरोभिरुद्यामसरोजगन्धैर्भवन्तु हृद्याः नरकप्रदेशाः ॥ १०.७ ॥ सोऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् । भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः ॥ १०.८ ॥ अङ्गारतप्तोपलशस्त्रवृष्टिरद्यप्रभृत्यस्तु च पुष्पवृष्टिः । तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् ॥ १०.९ ॥ पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः । मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः ॥ १०.१० ॥ त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम् । इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद्व्यपगतदुरिता यांतु तेनैव सार्धम् ॥ १०.११ ॥ पततु कमलवृष्टिर्गन्धपानीयमिश्राच्छमिति नरकवह्निं दृश्यते नाशयन्ती । किमिदमिति सुखेनाह्लादितं नाम कस्माद्भवतु कमलपाणेर्दर्शनं नारकाणाम् ॥ १०.१२ ॥ आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तोऽस्माकमेष ज्वलदभयकरः कोऽपि चीरी कुमारः । सर्वं यस्यानुभावाद्व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च ॥ १०.१३ ॥ पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् । कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर्दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् ॥ १०.१४ ॥ इति मत्कुशलैः समन्तभद्र-प्रमुखानावृतबोधिसत्त्वमेघान् । सुखशीतसुगन्धवातवृष्टीनभिनन्दन्तु विलोक्य नारकास्ते ॥ १०.१५ ॥ शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च । दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः ॥ १०.१६ ॥ अन्योन्यभक्षणभयं तिरश्चामपगच्छतु । भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः ॥ १०.१७ ॥ संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा ।* आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः ॥ १०.१८ ॥* अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा । गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः ॥ १०.१९ ॥ वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् । मनोऽभिलषितं सर्वं लभन्तां हितसंहितम् ॥ १०.२० ॥ भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः । उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च ॥ १०.२१ ॥ आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् । दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् ॥ १०.२२ ॥ सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् । येन कार्येण गच्छन्ति तदुपायेन सिध्यतु ॥ १०.२३ ॥ नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः । क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः ॥ १०.२४ ॥ कान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम् । अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः ॥ १०.२५ ॥ सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे । अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः ॥ १०.२६ ॥ सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः । आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा ॥ १०.२७ ॥ भवन्त्वक्षयकोशाश्च यावद्नगनगञ्जवत् । निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः ॥ १०.२८ ॥ अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः । भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः ॥ १०.२९ ॥ याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः । प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च ॥ १०.३० ॥ अनेन मम पुण्येन सर्वसत्त्वा अशेषतः । विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा ॥ १०.३१ ॥ बोधिचित्ताविरहिता बोधिचर्यापरायणाः । बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः ॥ १०.३२ ॥ अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते । नित्यं जीवन्तु सुखिता मृत्युशब्दोऽपि नश्यतु ॥ १०.३३ ॥ रम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च । बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः ॥ १०.३४ ॥ शर्करादिव्यपेता च समा पाणितलोपमा । मृद्वी च वैदूर्यमयी भूमिः सर्वत्र तिष्ठतु ॥ १०.३५ ॥ बोधिसत्त्वमहापर्षन्-मण्डलानि समन्ततः । निषीदन्तु स्वशोभामिर्मण्डयन्तु महीतलम् ॥ १०.३६ ॥ पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि । धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः ॥ १०.३७ ॥ बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् । पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् ॥ १०.३८ ॥ देवो वर्षतु कालेन शस्यसंपत्तिरस्तु च । स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः ॥ १०.३९ ॥ शक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम् । भवन्तु करुणाविष्टा डाकिनीराक्षसादयः ॥ १०.४० ॥ मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः । मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः ॥ १०.४१ ॥ पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः । नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु ॥ १०.४२ ॥ विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः । कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः ॥ १०.४३ ॥ लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः । भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा ॥ १०.४४ ॥ दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा । सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः ॥ १०.४५ ॥ पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः । भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः ॥ १०.४६ ॥ अभुक्त्वापायिकं दुःखं विना दुस्करचर्यया । दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् ॥ १०.४७ ॥ पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा । अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा ॥ १०.४८ ॥ सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः । यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु ॥ १०.४९ ॥ प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा । देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः ॥ १०.५० ॥ जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा । यावत्प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् ॥ १०.५१ ॥ येन तेनासनेनाहं यापयेयं बलान्वितः । विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु ॥ १०.५२ ॥ यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन । तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः ॥ १०.५३ ॥ दशदिग्व्योमपर्यन्त-सर्वसत्त्वार्थसाधने । यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम ॥ १०.५४ ॥ आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः । तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः ॥ १०.५५ ॥ यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम् । बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च ॥ १०.५६ ॥ जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम् । लाभसत्कारसहितं चिरं तिष्ठतु शासनम् ॥ १०.५७ ॥ मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे । कल्याणमित्रं वन्देऽहं यत्प्रसादाच्च वर्धत इति ॥ १०.५८ ॥ बोधिचर्यावतारे परिणामना परिच्छेदो दशमः ॥