पण्डिताशोकरचितम् अवयविनिराकरणम् । नमः समन्तभद्राय ॥ अभ्यासातिशयस्तथा न विहितस्तादृक्श्रुतं नार्ज्जितम् । तन्मे चापलमर्थलेशमधुनानिर्म्मातुमीहे यदि । एतत्सर्व्वमवेक्ष्ययन्निगदितं तत्पण्डितैर्दृश्यताम् । प्रीणन्त्येव वि + + + + हि शिशोः प्रायः पितृणां मनः ॥ यो विरुद्वधर्म्माध्यासवान्नासावेकः । यथा घटादिरर्थः । विरुद्वधर्म्माध्यासवांश्च स्थूलोनीलादिरर्थ इति व्यापकविरुद्वोपलब्धिः । इह दृश्यमानस्थूलोनीलादिरर्थो धर्म्मी, स चानुभवावसितोऽसति बाधके प्रत्यक्षसिद्वो हेतोराश्रयासिद्विं निहन्ति । ननु भवद्भिरसन्नेवावयवी प्रतिज्ञायते स कथं प्रत्यक्षसिद्वः । नावयविनमिह धर्म्मिणं प्रतिपन्नाः स्मः किन्तु प्रतिभासमानस्थूल नीलादिकमर्थम् । न तर्हि विरुद्वधर्म्मसंसर्गादवयविन एकत्वं निषिद्वं स्यात् । यद्येवं कस्तर्हि भवतोऽवयवी । एकोऽनेकावयवसमवेतार्थ इति चेत् । स किं प्रतिभासमानात्स्थूलनीलादेरन्योऽनन्यो वा । न तावंदन्यः, दृश्यत्वेनाभ्युपगमात् । न च प्रतिभासमानस्थूलनीलार्थव्यतिरेकेणापरः प्रतिभाति । अनन्यश्चेत् । तस्यैकत्वप्रतिक्षेपे कथमप्रतिषिद्वमेकत्वमवयविनः । ननु च प्रतिभासमानश्चेदर्थोनावयविरूपोधर्म्मी । किन्तर्हि रूपमस्यावशिष्टप्रसिद्वं भविष्यतीति । उच्यते, प्रतिभासमानः स्थूलोनीलाकारः प्रत्यक्षसिद्वं रूपं, अवयवित्वानभ्युपगमेऽप्यवशिष्यते । न चैवं मन्तव्यम् । न परमाणुसञ्चयवादिनां स्थूलाकारः कश्चिदर्थोऽस्ति यः प्रसिद्वो धर्म्मी स्यादिति । अवयव्यनभ्युपगमेऽपि हि निरवयवानेकात्मकः स्थूलोऽर्थोभ्युपगम्यमानः केन निषिद्वः । स्यान्मतं निरवयवाः परमाणवः कथं प्रत्यक्षे स्थूलेना कारेणावभासेरन्, स्थूलसूक्ष्मयोर्विरोधादिति । तदपि न युक्तम् । परमाणव एव हि पररूपदेशपरिहारेणोत्पन्नाः परस्परसहिता अवभासमाना देशवितानवन्तो भासन्ते । विततदेशत्वञ्च स्थूलत्वं, यत्तुक्तं स्थूलसूक्ष्मयोर्विरोध इति तत्किं पररूपदेशपरिहारवती निरवयवानामुत्पत्तिः । परस्परसहितानामेकविज्ञानावभासित्वं वा विरुद्वमिति वक्तुमध्यवसितम् । इदञ्चेद्विरुद्वं स्थूलाकारः किं विरुद्वः । अतएव निरवयवेषु बहुष्वेकस्मिन् विज्ञाने प्रतिभास मानेषु भवन् प्रतिभासकालभावी प्रतिभासधर्म्मः स्थूलाकारो न तु वास्तवः प्रत्येकमभावात् । प्रतिभासात्प्रागूर्द्वं वा न तर्हि स्थूलोऽर्थ इति चेत् । न तदापि प्रतिभासयोग्यतासम्भवात्यदैव हि सञ्चिता भवेयुस्तदैव प्रतिभासयोग्याः परमाणवः । यदा च प्रतिभासयोग्या स्तदा स्थूलाः । यस्त्वाह निरवयवेषु बहुषु प्रतिभासमानेष्ववश्यमन्तरेणापि प्रतिभासितव्यम् । अन्तरानवभासे परस्परविविक्ता एव नावभासिताः स्युः । विविक्तानवभासे चाणुमात्रकं पिण्डो भवेत् । न चान्तरमवभासमानमुत्पश्यामः । तदयं निरन्तर एक एव स्थलो निरवयवानेकात्मको भवितुमर्हति, अपि त्वेकः स्थूलात्मक एवेति । सोऽप्येवं वाच्यः । किं विजातीयपरमाण्वन्तरमन्तरम् । आहोस्वित्शून्याकाशयोगः । तत्र शून्याकाशयोगस्तावदवस्तुतया नेन्द्रियप्रत्यक्षगोचरः । अर्थसामर्थ्यभाविनि तात्रार्थस्यैव प्रतिभासोपपत्तेः । विजातीयन्त्विन्द्रियान्तरग्राह्यं कथमिन्द्रियान्तरज्ञानेऽवभासेताविषयत्वात् । तत्केनान्तरेणावभासितव्यमिति न विद्मः । यत्पुनरुच्यते । अन्तरालानवभासे विविक्ता नावभासेरन्निति । तत्रापि किमेषामन्तरं विवेकः पररूपशून्यता वेति चिन्त्यम् । निरूपयन्तस्तु पररूपशून्यतामेव विवेकं वस्तूनां पश्यामः । पररूपशून्याश्चेमे भासमानाः कथं विविक्ता नावभासेरन्निति । ननु च न प्रत्येकं परमाणूनां स्थूलाकारः । ततः समुदितानामेष्टव्यः । यथा च नीलपरमाणूनां प्रत्येकमसम्भवन् पीताकारो बहुष्वपि न दृश्यते । तथा प्रत्येकमसम्भवन् स्थूलाकारः कथं बहुषु स्यादिति । उक्तमत्र । अविरुद्वो निरवयवाणां स्थूलाकार इति । नीलविरुद्वस्तु पीताकारः । ततः पीतविरुद्वं नीलाकारं विभ्राणेषु बहुष्वपि कथं पीताकारो भवेत् । नैवं निरवयवत्वविरुद्वः स्थूलाकारः यथोक्तान्यायात् । तदेवं प्रत्यक्षसिद्वः स्थूलोऽर्थ इह धर्म्मीति व्यवस्थितम् । तदेवमवस्थिते धर्म्मिणि हेतोः सत्त्वमसत्त्वं वा निरूप्यम् । तत्र पाण्यादावेकस्मिन् कम्पमाने स्थूलोऽर्थः सकम्पनिःकम्पे रूपे युगपत्प्रतिपद्यमानः कथं विरुद्वधर्म्मसंसर्गवान्न स्यात् । सकम्पनिःकम्पयोर्हि रूपयोः परस्पराभावाव्यभिचारनिमित्तकोऽस्ति विरोधः । भावाभावयोरेव हि परस्परपरिहारात्मको विरोधः । वस्तुनोस्तु तदभावाव्यभिचारेणैव । इह च सकम्पनिःकम्पे रूपे गृह्णत्प्रत्यक्षमेव सामर्थ्यात्परस्पराभावं साधयति । व्यवहारयति तु निर्व्विशेषणैवानुपलब्धिः । स्यादेतत्पाण्यादावेकस्मिन्नवयवे कम्पमाने नावयविनः कम्प रूपमभ्युपेयम् । अवयव एव हि तदा क्रियावान् दृश्यते । न चेदं मन्तव्यम् । अवयवे क्रियावति तदाधेयेनावयविनापि क्रियावता भवितव्यं, यथा रथे चलति तदा रूढोऽपि चलतीति । अवयवावयविकर्म्मणोर्भिन्ननिमित्तत्वात् । निमित्तायौगपद्याच्च । यदा हि आत्मनः पाणिकम्पनेच्छा भवति । ततः प्रयत्नः । तदा प्रयत्नवदात्मपाणिसंयोगात्पाणौ क्रिया । यदा तु शरीरकम्पनार्थः प्रयत्नविशेष आत्मनो जायते । तदा तत्प्रयत्नवदात्मशरीरसंयोगात्शरीरे कर्म्मेति निमित्तभेदः । अतो भिन्नमिति तयोरेकस्मिन् जाते कथं निमित्तान्तरप्रतिबद्वजन्मा तदभावे तदपरोऽपि तथैव जायेत । रथ तदारूढकर्म्मणोस्तु सत्यपि निमित्तभेदे निमित्तयौगपद्यात्सहभावः । तथा हि नोदनं रथकर्म्मणोऽसमवायिकारणम् । तदारूढकर्म्मणस्तु नोद्यसंयोगः । तयोश्च सहभावात्कर्म्मणी अपि यौगपद्येन जायेते । तदेतत्सकलमालोच्य भदन्तधर्म्मोत्तरेणेदमुक्तम् । न चात्रा वयवः क्रियावान् । अवयवेषु हि क्रियावत्सु विभागो जायते । क्रियाया विभागारम्भं प्रति निरपेक्षकारणत्वात् । तेन च संयोगेऽसमवायिकारणे निवर्त्तते निवर्त्तेतावयवि द्रव्यमिति । इदमाहुरत्र कणादशिष्याः । नोदनादभिघाताद्वा जायमानः क्रियाविशेषो द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागारम्भको दृष्टः । अन्यत्तु विभागमात्रमारभते न तु यथोक्तविशेषम् । अन्यस्मिन् पद्मसङ्कोचविकाशादिके कर्म्मण्यवयवसंयोगनिवृत्तेरदर्शनात् । तद्वत्प्रयत्नजन्यस्यापि कर्म्मणो नास्ति संयोगनिवर्त्तनसामर्थ्यम् । ततो नास्ति द्रव्यनिवृत्तिरिति । अयमत्र समाधिः । इहावयविनि क्रियावति नियमेनावयवैरपि क्रियावद्भिर्भवितव्यम् । अन्यथावयवसंसृष्टेभ्य आकाशदेशेभ्यो विभागोऽवयवासंसृष्टेश्च संयोगोवयविनः क्रियावतः स्यात् । अवयवास्तु क्रियाविरहिणः पूर्व्वक्रान्तेभ्यो नभोदेशेभ्यो नापसर्य्येयुः । अवयविसमाक्रान्तैश्च देशैर्नाभिसम्बध्येरन् । न चावयविसंयोगविभागाभ्यामवयवसंयोगविभागौ वाच्यौ । कार्य्यसंयोगविभागयोः कारणसंयोगविभागौ प्रति निमित्तभावानभ्युपगमात् । कारणसंयोगविभागावेव हि कार्य्यसंयोगविभागावारभेते । न च विपर्य्ययः सिद्वान्तहानिप्रसङ्गात् । तेनावयवावयविनां पृथग्देशत्वादाधार्य्याधारभावहानौ समवायोऽपि न व्यवतिष्ठेत । तस्मादवयविनि क्रियावति अवयवाः क्रियावन्त इत्यकामकैरपि वैशेषिकैरिदमभ्युपेयम् । यथा चावयविक्रियायामवयवाः क्रियावन्त स्तथावयवेष्वपि क्रियावत्सु तदवयवैः क्रियावद्भिर्भाव्यमिति । अनया दिशा द्व्यणुके क्रियावति तदारम्भकौ परमाणूक्रियावन्तौ मन्तव्यौ । अतश्चलावयवसम्बन्धिनश्चलाः परमाणवः । निःक्रियावयवसम्बन्धिनस्तु निःक्रिया । परमाणुक्रियायां तदारब्धमपि ब्द्यणुकद्रव्यं क्रियावत्प्रसज्येत । सर्व्वावयवक्रियायाः कार्य्यक्रियाविनाभूतत्वात् । एकस्य परमाणोः क्रिया न परस्येति चेत् । सक्रियनिःक्रियौ तर्हि परमाणू परस्परं विभज्यमानावुज्झितद्रव्यारम्भकसंयोगौ स्याताम् । ततश्च द्रव्यनाशः । एवञ्च ब्द्यणुकद्रव्यस्य क्रियावत्त्वे त्र्यणुकेऽपि क्रिया स्यादित्यनेन क्रमेण परिदृश्यमानोऽचलश्चलः स्यादवयवः । तस्मान्निःक्रियावयवसम्बन्धिनो निःक्रियाः परमाणवश्चलावयवसम्बन्धिभ्यश्चलेभ्यो विभज्यमाना द्रव्यारम्भकसंयोगविनाशवन्तः स्युः । निरवयवो हि परमाणुर्यमणुमात्रनभोदेशमाक्रम्य परमाण्वन्तरेण संयुज्यते । ततो विभज्यमानः कथमनुज्झितपरमाण्वन्तरप्रत्यासत्तिकः स्यात् । सावयवो हि भाव एकेनावयवेन वस्त्वन्तरसंयुक्त एवावयवान्तरै श्चलैः । पूर्व्वाक्रान्तान्नभोदेशान् विरहय्य देशान्तरमाक्रामेत् । निरवयवेषु त्वत्यन्तमस्तमितेयं कथेति युक्तं द्रब्यनाशप्रसङ्गमुत्पश्यामः । अथवान्यथायं विरुद्वधर्म्मसंसर्गः । तथाह्यावृते एकस्मिन् पाण्यादौ स्थूलस्यार्थस्यावृतानावृते रूपे युगपद्भवन्ती विरुद्वधर्म्मद्वयसंयोगमस्यावेदयतः । न चानावृतैकरूप एवायमिति शक्यं वक्तुम् । अर्द्वावरणेऽपि अनावृतस्य पूर्व्ववद्दर्शनप्रसङ्गात् । अवयवदर्शनायत्तोपलब्धेः । तद्दृष्टौ अस्या दृष्टिरिति चेत् । अदृष्टिरेव तर्हि अस्यास्तु । न तु दृष्टयदृष्टी । नन्वस्त्येवावयविदर्शनमवयवावरणेऽपीति कोऽयं प्रसङ्गः । एवन्तर्हि स्थूलः प्राग्वदुपलभ्येत । इदमत्राह कश्चित् । भूयोऽवयवेन्द्रियसन्निकर्षसहायोऽवयवीन्द्रियसन्निकर्षः स्थूलोपलब्धेनिमित्तं, न चार्द्वावरणे भूयसामवयवानामस्तीन्द्रियसन्निकर्षः ततो न स्थूलग्रहणमिति । सोऽप्येवं प्रष्टव्यः । किं स्थूलो नामावयविनोऽन्यः । स एवानेकव्यापी स्थूलः । तत्र यद्यवयव्येव स्थूलः । तदा तद्ग्रहणे कथन्न स्थूलग्रहणमिति चिन्त्यम् । अथ स्थूलत्वाख्यः परिमाणविशेषो गुणः स द्रब्यादन्य एवेति चेत् । एवन्तर्हि परिमाणरहितमेव तत्द्रव्यमुप लभ्यते । न त्वस्यान्येनान्येन परिमाणेन योगः । न चास्यानेकपरिमाणकल्पनापि साध्वी । युगपत्सर्व्वेषामनुपलब्धेः । न च दृश्यस्य दर्शननिवृत्तिर्युक्ता । अवयवस्यैव तत्परिमाणमुपलभ्यत इति चेत् । यद्येवं स एव तर्ह्यवयवः स्वेन परिमाणेन सम्बद्वः प्रत्यक्षोस्त्वावरणकालेनावयवी । स्यादेतदेकार्थसमबायाद्भान्तिनिमित्तादवयव्येवावयवपरिमाणेन सम्बद्वः प्रतिभातीति तदपि न शोभनम् । द्वयोः समपरिमाणयोरवयवावयविनोः प्रतिभासप्रसङ्गः । यस्य हि महतोऽवयवस्य तत परिमाणं स तावत्स्वेन परिमाणेन सम्बद्वः प्रतिभाति । अवयविनश्च तत्परिमाणसम्बद्वप्रतिभासाभ्युपगमे द्वयोः समपरिमाणयोरयवायवविनोः प्रतिभास आसज्यते । न चास्ति यथोक्तः प्रतिभासः परिमाणरहितः । सोऽवयवः प्रतिभास इति चेत् । स्यादेतद्यस्यावयवस्य परिमाणेनावयवी सम्बद्वः प्रतिभाति स स्वं परिमाणं परित्यज्याभातीति । इदमपि परिमाणविरहिणोवयवस्यादृष्टेरशक्यं कल्पयितुम् । एकार्थसमवायाच्च भ्रान्ति निमित्तादल्पतरावयवपरिमाणवानप्यवयवी प्रतिभासेत । न च बाधकमन्तरेण भ्रान्तिरपि शक्या व्यवस्थापयितुम् । अस्ति तर्हि स्थूलोऽवयव एव प्रत्यक्षः । एवमावरणकाल इवानावरणावस्थायामपि स्थूलतरोऽवयवः प्रत्यक्षोऽस्तु । परमध्यावर्त्तिनामवयवानामिन्द्रियसन्निकर्षाभावे स्थूलतमावयविदर्शनानुपपत्तेः स्यान्मतं निखिला वयवदर्शनं न स्थूलप्रत्यक्षकारणम् । किन्तु भूयोऽवयवदर्शनमिति । इदमपि न सम्यक् । अभिमुखावस्थितस्य हि पर्व्वतादेरर्व्वाचीनावयवदर्शनेन तथा स्थूलप्रतिपत्तिर्यथार्व्वाक्परमध्यवर्त्तिनां दर्शने । ततो न यावन्निरवशेषावयवदर्शनं तावत्कथं स्थूलतमार्थप्रतिपत्तिः स्यात् । न चावयवा अर्वाक्परमध्यवर्त्तिनो युगपद्दृश्यन्ते । तत्कथमवयवी स्थूलो दृश्येत । क्रमेण दिशामवयवानां प्रत्यक्षीकरणे प्रत्यक्षः स्थूलोऽवयवीति चेत् । अन्यदा तु कः प्रत्यक्षः इति विमृष्यम् । अवयव इति चेत् । अवयवी अपि परमध्यवर्त्तिनो न युगपद्दृश्यन्त इति कथं सोऽपि प्रत्यक्षः स्यात् । तदेवं नावयवी नावयवाः प्रत्यक्षा इति न किञ्चिदृश्येतेति । तत्सिद्वमावृतानावृतरूपः स्थूलोऽर्थ इति ॥ तथा रागारागाभ्यां विरोधः सम्भावनीयः । तथा ह्येकस्मिन्नुक्ते स्थुलोऽर्थो रक्तारक्ते रूपे युगपत्प्रतिपद्यमानो विरुद्वरूपद्वययोगमात्मनः प्रकाशयति । नन्व वयव एव रक्तोऽवयवी त्वरक्तैकरूप एवेति । यद्येवं रक्तेऽवयवेऽरक्तरूपोऽवयवी दृश्येत । न चैवम् । अथवा रागद्रव्यसंयोगो हि रक्तत्वम् । अवयवस्य च रागद्रव्येण संयोगेऽवयविनोऽपि तेन भाव्यम् । अवश्यं हि कारणसंयोगिना कार्य्यमपि संयुज्यत इति समयात् । यस्त्वाह रक्त एवावयवी । अस्ति हि कुङ्कुमारक्ते पटावयवे कुङ्कुमारक्तः पट इति प्रत्ययः । ततो रागद्रव्यसंयुक्त एवावयवीति तस्यापि वर्णान्तरानवभासः स्यादवयविनः । रागद्रव्यं हि प्रत्यासीदत्निजरूपं वस्तुन स्तिरोधत्ते स्वेन च रूपेण द्रव्यं सम्बन्धति । यथा रक्तोवयवस्तिरोहितसहजरूपो रागद्रव्यसमवायिना रूपेण सम्बन्धी प्रतिभाति । अवयविन्यपि रागद्रव्यसंयोगिनि वर्णान्तरानवभासप्रसङ्गो दुर्व्वारः । तन्न रक्त एवावयवीति शक्यं वक्तुम् । अन्यस्तु संयोगस्याव्याप्यवृत्त्या समाधत्ते । स ह्याह शब्द इवाव्याप्यवृत्तिः संयोगः । तेनैकार्थो रक्तश्चारक्तश्चेति । सोऽप्येवं पर्य्यनुयोज्यः । कथमव्याप्यवृत्तिः । यदि हि स्वाश्रये समवेतो रूपादिवत्व्याप्यवृत्तिरेवायम् । असमवेतश्चावृत्तिरेवाप्यद्रव्येष्तिव गन्धः । एकत्र संयोगस्यभावाभावाव्यापिनो वृत्तिरिति चेत् । स्यादेतद्यथा विरुद्वावपि रूपरसावेकमाश्रयेते । तथा संयोगस्याप्येकत्र भावाभावौ युगपत्स्याताम् । अहो मोहविजृम्भितम् । अभावो हि भावनिवृत्तिरूपो नास्य भावनिवृत्तिं हित्वा रूपान्तरमीक्षते । यश्च यन्निवृत्तिरूपः स कथं तस्मिन् सत्येव भवति । भावे वा तन्निवृत्तिरूपतां जह्यात् । तथा ह्यनलं पश्यन्नपि सलिलार्थी तत्र प्रवर्त्तेत । जलविविक्तस्यानलस्य दशनात् । जलाभावसिद्वेरप्रवृत्तेरिति चेत् । भवत्वनुपलम्भाज्जलाभावसिद्विस्तथापि जलसत्तां सम्भावयन् जलार्थी प्रवर्त्तेत । ननु तत्र यदि जलं स्यादुपलभ्येत किमतः । अतोऽनुपलम्भादभावो जलस्येति । यद्यप्यभ्युपगतैव जलाभावसिद्विः । तथापि तदर्थिनस्तद्भावशङ्कया प्रवृत्तिः स्यात् । युगपदेकत्र संयोगस्य भावाभावौ दृश्येते । तेनैवं कल्पयामो न स्वेच्छया । ननु किमभावोभावप्रतिषेधात्मकः प्रतीयते । अन्यथा वा । तत्र भावनिवृत्तिरूपेऽभावे सिद्वे कथं भावोपलब्धिर्न भ्रान्ता स्यात् । भावाप्रतिषेधात्मकश्च नाभावः । नाममात्रन्तु स्यात् । न च नाममात्रादर्थस्य तथाभावः । रूपरसयोस्तु न परस्परनिवृत्ती रूपमिति कथं तदुदाहरणमिह शोभेत । न च रूपरसयोरेकत्र समवायोऽस्माभिरनु मन्यते । शब्दोऽप्येवमेवाव्याप्यवृत्तिरसिद्वः स कथं प्रकृतसंशयनिवृत्तये कल्प्येतेति । अलं बहुभाषितया ॥ अथवा स्थूलोऽर्थस्तदतद्देशः प्रतीयते । तद्देशयोश्च परस्पराभावाव्यभिचारनिमित्तोऽस्ति विरोधः । अतो विरुद्वधर्म्मसंसर्गः स्थूलस्य । स्यादेतत्कथं तदतद्देशयोः परस्पराभावाव्यभिचारः । उच्यते । इह तावदेकस्मिन् देशे परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरस्य व्यवच्छिद्यते । तदव्यवच्छेदे तत्परिच्छेदाभावप्रसक्तेः । प्रच्युतिवच्च प्रच्युतिमदपि देशान्तरं व्यवच्छिद्यते । यदि हि परिच्छिद्यमानो देशान्तरस्वभावो भवेत्तदा तद्रूप एवोपलब्धो भवेत् । देशान्तररूपन्तु विरहय्य स्वेन रूपेण प्रकाशमानो देशो देशान्तरासंसृष्ट इत्यवसीयते । यथा च देशस्य देशान्तरासंसर्गस्तथा तेनाधारभूतेन देशेन यद्याप्तं रूपं तदपि देशान्तरसंसर्गादविच्छिन्नं भवति । कथं हि तेन देशेन व्याप्तं रूपं तदभाववति देशान्तरे वर्त्तेत । यथा एकेन देशेन व्याप्तो घटो न देशान्तरे वर्त्तते । देशान्तरेऽनुपलम्भादवृत्तिरिति चेत् । विप्रकृष्टे देशान्तरे कथमस्याभावः प्रतिपत्तव्यः । तस्मादिदमकामकेनापि वाच्यम् । यदुत एकदेशव्याप्तं रूपं न देशान्तरे वर्त्तते इति । तस्य तेन ब्यापनप्रसङ्गात् । तदभाववति देशान्तरे वर्त्तमानोऽपि तेन देशेन व्याप्येत । न च व्याप्तिरस्य शक्यावसातुम् । भागान्तरासम्भवात् । एतेन तन्निरस्तम् । यदाह कश्चित् । यथैकोभावस्तदतद्देशं जनयन्नविरुध्यत इति । तदपि न प्रकृतानुरूपम् । तथाहि भावाभावावेव परस्परपरिहारेण विरुद्वौ न वस्तुनी । वस्तुनोस्तु परस्पराभावाव्यभिचारेण विरोधः । तेन यदेव वस्तु वस्त्वन्तरप्रच्युतिमत्तदेव तेन विरुद्वम् । न चैककार्य्यनिवर्त्तनशक्तिः कार्य्यान्तरशक्तयभावाव्यभिचारिणी । अनुपलम्भो हि वस्तुनो वस्त्वन्तराभाबाव्यभिचारं साधयति । एककार्य्यनिर्वर्त्तनशक्तिमति च रूपे गृह्यमाणे कार्य्यान्तर निर्वर्त्तनशक्तिरपि परिच्छिद्यत इति । कथं तदभावः । एकदेशसम्बद्वं तु रूपं देशान्तरसंसर्गिरूपपरिहारेणोपलभ्यमानन्तदभावाव्यभिचारि तेन विरुद्वम् । यथात्यन्त सदृशोर्वस्तुनोर्युगपदुपलभ्यमानयोः सत्यपि चाकारभेदे दूरादनुपलक्ष्यमाणभेदयोर्देशभेदमात्रनिमित्तकं प्रत्यक्षावसितं विरोधमाश्रित्य भेदोऽवस्थाप्यते । यस्त्वाह । यथैकं चक्षुर्विज्ञानं भिन्नेषु चक्षुरादिषु वर्त्तते तदधीनोत्पादतया । तथान्योऽपि भिन्नदेशनिवृत्तिर्न्न भेत्स्यत इति । सोऽपि देशभेदनिमित्ते विरोधेऽवस्थाप्यमाने वस्तुनः कारणभेदनिमित्तंविरो धमासञ्जयन्न नैपुण्यमात्मनो निवेदयति । न हि विज्ञानस्य देशोऽस्ति कश्चित् । अमूर्त्तत्वात् । स्यादेतत् । यथा देशभेदनिमित्तो विरोधस्तथा कारणभेदनिमित्तोऽपि स्यात् । को हि वस्तुतो विशेषः, कारणभेदाद्देशभेदस्येति । उक्तमिह । परस्पराभावाव्यभिचारनिमित्तो वस्तूनामस्ति विरोधः । स देशभेदेऽपि सन्निधीयेते न कारणभेदे । देशभेदवती हि रूपेऽन्योऽन्यपरिहारेणोपलभ्यमाने । परस्पराभावाव्यभिचारिणी भवतो न कारणभेदवती । तदेवं कम्परागावरणभावाभावकृते देशभेदनिबन्धने च चतुर्थे विरुद्वधर्म्मसंसर्गेऽवयविविषये व्यवस्थापिते पक्षधर्म्मत्वं सिद्वं हेतोः । अधुनाव्याप्तिरेवास्य स्वसाध्येन समर्थनीया । इह विरुद्वधर्म्मसंसर्गविरहमात्रनिबन्धनो भेदव्यवहारो वस्तूनां दृष्टः, अहेतोरयोगात् । निमित्तान्तरस्य वादर्शनात् । ततो विरुद्वधर्म्मसंसर्गेऽपि भवन्नभेदव्यवहारो व्यापकं निमित्तवत्त्वं जह्यात् । ततो व्यापकानुपलब्ध्या तस्माद्व्यावृत्तो विरुद्वधर्म्मविरहेण व्याप्यते । तद्विरुद्वश्च विरुद्वधर्म्मसंसर्गः । तेनेयं व्यापकविरुद्वोपलब्धिभूमिका । एवं प्रसाधितेऽस्यास्त्रैरूप्येऽसिद्वविरुद्वानैकान्तिका दोषा नावकाशं लभन्ते । इति ॥ एवं मया बहुषु दुर्म्मतिनिर्म्मितेषु प्रत्युद्वृतेषु खलु दूषणकण्टकेषु । आचार्य्यनीतिपथ एव विशोधितोऽयमुत्सार्य्यमत्सरमनेन जनः प्रयातु ॥ समाप्तञ्चेदमवयविनिराकरणमिति ॥