सेकोद्देशः ओं नमः कालचक्राय सुचन्द्र आह - सेकः सप्तविधः शास्तस्त्रिविधोऽनुत्तरस्तथा । लौकिकोत्तरसिद्ध्यर्थं संक्षेपात्कथयस्व मे ॥ १ ॥ भगवानाह - शृणु सुचन्द्र सेकार्थं सप्तधा त्रिविधं परम् । नाडीसंचारमायाममुद्देशात्कथयामि ते ॥ २ ॥ उद्देशस्त्रिविधस्तन्त्रे निर्देशस्त्रिविधो भवेत् । प्रत्युद्देशो महोद्देशः प्रतिनिर्देशकोऽपरः ॥ ३ ॥ उद्देश एव निर्देशस्तन्त्रसंगीतिरुच्यते । प्रत्युद्देशश्च निर्देशः पञ्जिका पदभञ्जिका ॥ ४ ॥ महोद्देशश्च निर्देशष्टीका सर्वार्थसूचिका । अभिज्ञालाभिभिः सा तु कर्तव्या नैव पण्डितैः ॥ ५ ॥ एवं षट्कोटिभिः शुद्धं वज्रयोगैश्चतुर्विधैः । चतुःसम्बोधिभिः स्कन्धधात्वायतनषट्कुलैः ॥ ६ ॥ पटलैः पञ्चभिः शुद्धं लोकधात्वादिकैर्मतैः । सत्याभ्यामादिबुद्धं स्यात्कालचक्राभिधानकम् ॥ ७ ॥ आदौ सप्ताभिषेको यो बालानामवतारणम् । त्रिविधो लोकसंवृत्या चतुर्थः परमार्थतः ॥ ८ ॥ सत्यद्वयेन धर्माणां देशना वज्रिणो मम । लोकसंवृतिसत्येन सत्येन परमार्थतः ॥ ९ ॥ उदकं मुकुटः पट्टो वज्रघण्टा महाव्रतम् । नामानुज्ञासमायुक्तः सेकः सप्तविधो नृप ॥ १० ॥ कायवाक्चित्तसंशुद्धिरभिषेकद्वयं द्वयम् । अनुज्ञा ज्ञानशुद्धिः स्यादन्या धात्वादिशुद्धितः ॥ ११ ॥ उदकं धातुसंशुद्धिर्मौली स्कन्धविशोधनम् । पट्टः पारमिताशुद्धिर्वज्रघण्टा महाक्षरम् ॥ १२ ॥ बुद्धभाषा न विच्छिन्ना अर्केन्द्वेकत्रशोधनम् । विषयेन्द्रियसंशुद्धिः स्याद्वज्रव्रतमच्युतम् ॥ १३ ॥ नाम मैत्र्यादिशुद्धिः स्यादनुज्ञा बुद्धशोधनम् । एते सप्त सेका देया वर्तयित्वा तु मण्डलम् ॥ १४ ॥ कुम्भो गुह्याभिषेकश्च प्रज्ञाज्ञानाभिधानकः । पुनरेव महाप्रज्ञा तस्या ज्ञानाभिधानकः ॥ १५ ॥ क्षरः क्षरस्ततः स्पन्दो निःस्पन्दश्च ततोऽपरः । कायवाक्चित्तसंशुद्ध्या अभिषेकत्रयं क्रमात् ॥ १६ ॥ चतुर्थो ज्ञानसंशुद्धिः कायवाक्चित्तशोधकः । बालः प्रौढस्तथा वृद्धश्चतुर्थस्तु प्रजापतिः ॥ १७ ॥ प्रज्ञास्तनाङ्गसंस्पर्शाद्बोधिचित्तच्युतं सुखम् । पयोधराभिषिक्तः स बालः प्राप्तं यतः सुखम् ॥ १८ ॥ गुह्यास्फालाच्चिराज्जातं बोधिचित्तच्युतं सुखम् । प्रौढो गुह्याभिषिक्तः स गुह्यात्प्राप्तं यतः सुखम् ॥ १९ ॥ गुह्यास्फालाच्चिराज्जातं वज्राग्रे स्पन्दतः सुखम् । प्रज्ञाज्ञानाभिषिक्तः स वृद्धः स्पन्दं गतो यतः ॥ २० ॥ महामुद्रानुरागाद्यज्जातं निःस्पन्दतः सुखम् । महाप्रज्ञाभिषिक्तः स यतो निःस्पन्दतां गतः ॥ २१ ॥ प्रजापतिः स विज्ञेयो जनकः सर्वतायिनाम् । वज्रसत्त्वो महासत्त्वो बोधिसत्त्वोऽद्वयोऽक्षरः ॥ २२ ॥ असौ समयसत्त्वः स्याद्वज्रयोगश्चतुर्विधः । कालचक्र इह ख्यातो योगिनां मुक्तिदायकः ॥ २३ ॥ अस्यैव साधनं कुर्यात्प्रतिभासैरचिन्तितैः । धूमादिभिर्निमित्तैस्तैः प्रज्ञाबिम्बैर्नभःसमैः ॥ २४ ॥ अस्तिनास्तिव्यतिक्रान्तैः प्रत्ययार्थैः स्वचेतसः । परमाणुरजःसंदोहैः सर्वतः परिवर्जितैः ॥ २५ ॥ धूममरीचिखद्योतदीपज्वालेन्दुभास्करैः । तमः कला महाबिन्दुर्विश्वबिम्बं प्रभास्वरम् ॥ २६ ॥ पिहितापिहितनेत्राभ्यां शून्ये यन्नानुकल्पितम् । दृश्यते स्वप्नवद्बिम्बं तद्बिम्बं भावयेत्सदा ॥ २७ ॥ अभावे भावना बिम्बे योगिनां सा न भावना । भावोऽभावो न चित्तस्य बिम्बेऽकल्पितदर्शनात् ॥ २८ ॥ प्रतिसेनां यथादर्शे कुमारी पश्येदवस्तुजाम् । अतीतानागतं धर्मं तत्त्वयोग्यम्बरे तथा ॥ २९ ॥ अस्या भावो न भावः स्याद्वस्तुशून्यार्थदर्शनात् । वस्तुनोऽभावतोऽर्थोऽस्ति मायास्वप्नेन्द्रजालवत् ॥ ३० ॥ असति धर्मिणि ह्येष धर्मोत्पादः प्रदृश्यते । चिन्तामणिरिवानन्तसत्त्वाशापरिपूरकः ॥ ३१ ॥ अदृष्टं प्रतिसेनायां कुमारी चौरादि पश्यति । तत्प्रादेशिकनेत्राभ्यां गत्वा पश्यन्ति साधकाः ॥ ३२ ॥ यदि पश्यति सद्रूपं स्वमुखं किं न पश्यति । यदि पश्यत्यसद्रूपं शशशृङ्गं कथं न च ॥ ३३ ॥ न पश्यत्यन्यचक्षुर्भ्यां स्वचक्षुर्भ्यां न पश्यति । दृश्यमानमजातं तत्कुमार्या जातकं यथा ॥ ३४ ॥ दृष्टे बिम्बे ततः कुर्यात्प्राणायामं निरन्तरम् । उर्ध्वाधस्त्रिषु नाडीषु कायवाक्चित्तरोधनात् ॥ ३५ ॥ चन्द्रार्कराहुविण्मूत्रशुक्रमार्गप्रवाहिषु । तोयाग्निशून्यभूवायुज्ञानधातुकजातिषु ॥ ३६ ॥ चन्द्रसूर्यतमिन्यो याः कायवाक्चित्तनाडिकाः । विण्मूत्रशुक्रवाहिन्यः प्राणेऽपाने क्रमेण ताः ॥ ३७ ॥ <चन्द्रः काय> उपायस्य प्रज्ञाया वाग्दिवाकरः । प्रज्ञाकायस्तु विण्<नाडी विर्भोर्वाङ्मूत्रवा>हिनी ॥ ३८ ॥ उर्ध्वाधश्चित्तनाड्यौ द्वे तमिनीशुक्रवाहिन्यौ । तमिनी चित्तमुपायस्य प्रज्ञायाः शुक्रवाहिनी ॥ ३९ ॥ ऊर्ध्वाधः षट्कुलं ह्येतत्कायवाक्चित्तयोगतः । प्रज्ञोपायाङ्गभावेन संस्थितं सर्वदेहिनाम् ॥ ४० ॥ अरिष्टं कायवाङ्नाड्योरूर्ध्वा<धोऽ>धिकमारुतैः । तमिनीशुक्रवाहिन्योरुत्पत्तिमरणस्थितिः ॥ ४१ ॥ उत्पादे मृत्युकाले च मैथुने शुक्रवाहिनी । तमिनी च वहत्यूर्ध्वे संक्रान्तौ विषुवे रवेः ॥ ४२ ॥ लग्नोदयाभिसंधौ च विषुवं वहति मध्ये । <षट्पञ्चाशत्>सपादञ्च श्वासोच्छ्वासं नराधिप ॥ ४३ ॥ अधिकान् पञ्चसप्तत्या षट्शतांश्च दिवानिशम् । एकविंशत्सहस्रांश्च षट्शतैरधिकांश्च यान् ॥ ४४ ॥ वामा च दक्षिणा नाडी वहत्यूनाननेन तान् । सत्रिपक्षित्रिवर्षाणि शतवर्षे हि मध्यमा ॥ ४५ ॥ वामा सव्योर्ध्वे चन्द्रार्कौ ललनेडा पिङ्गलापरा । तोयतेजःस्वभाविन्यौ पद्मधृग्रत्नधृङ्मते ॥ ४६ ॥ अधो विण्मूत्रवाहिन्यौ पृथ्वीवायुस्वरूपके । मध्यनाडी च वामा च<चक्रधृक्खड्गधृङ्मते> ॥ ४७ ॥ ऊर्ध्वाधो मध्यमा सव्या राहुशुक्रप्रवाहिनी । शून्य<ज्ञानस्वभा>विन्यौ वज्रधृग्वज्रधृङ्मते ॥ ४८ ॥ विण्नाडी चन्द्रमार्गेण रविणा मूत्रवाहिनी । जातौ मृत्यौ विषुवे रागे राहुणा शुक्रवाहिनी ॥ ४९ ॥ या नाभ्यूर्ध्वेऽवधूती सा सुषुम्ना तमोवाहिनी । याधः खगमुखा सा च शङ्खिनी शुक्रवाहिनी ॥ ५० ॥ नाभ्यब्जे हृदये कण्ठे ललाटोष्णीषपङ्कजे । भूतोयाग्निमरुच्छून्यं संहारेण प्रवाहिनी ॥ ५१ ॥ निर्गच्छन्ती विशन्ती<सा>सृष्टिना विशति क्षितौ । कर्णिकात्कर्णिकामध्येऽवधूत्या गतिरागतिः ॥ ५२ ॥ नाभौ गुह्ये च मण्यब्जे कायवाक्चित्तवाहिनी । निर्गच्छन्ती विशन्ती सा संहारसृष्टिरूपिणी ॥ ५३ ॥ शङ्खिनी सर्वजन्तूनामपानानिलवाहिका । एषा स्त्रीणां सुखाच्छुक्रमृतौ रक्तप्रवाहिनी ॥ ५४ ॥ प्रज्ञोपायाङ्गभावेन ऊर्ध्वे सव्यावसव्ययोः । अधो विण्मूत्रवाहस्य रजःशुक्र<प्रवाहयोः> ॥ ५५ ॥ चण्डाली रजसो वाहात्खगमुखा शुक्रवाहतः । ऊध्वे ऋतौ स्मृ<ता स्त्रीणां डोम्बी पुं>सोऽवधूतिका ॥ ५६ ॥ विज्ञानाद्यं सदा वामे नाड्यां मण्डल<पञ्चकम् । भूम्यादि>दक्षिणे नाड्यां मध्ये वहति षष्ठमम् ॥ ५७ ॥ नाभिपद्मदले षष्टि मण्डलानि यथाक्रमम् । वामे च दक्षिणे लग्ने मेषाद्ये वृषभादिके ॥ ५८ ॥ मूले व्<आमे ततः सव्य ऊर्ध्वे>मध्ये <ऽ>निलः क्रमात् । एकैकमण्डलं दण्डाद्भूम्याद्यं नासरन्ध्रयोः ॥ ५९ ॥ नाडिका वहति श्वासान् सषष्टित्रिशतान् क्रमात् । अष्टादशशतश्वासान्नाड्यः पञ्च वहन्ति तान् ॥ ६० ॥ षष्टि नाड्यो दिवारात्रं मण्डलानीति देहतः । दलमध्ये ततः पूर्वे सव्ये वामेऽपरे क्रमात् ॥ ६१ ॥ आकाशाद्यं सदा वामे भूम्याद्यं दक्षिणेऽपरात् । विज्ञानादिभवो वामे संहारः क्ष्मादि दक्षिणे ॥ ६२ ॥ अपरे पूर्वे धरा वायुः प्रज्ञोपायः परस्परम् । अङ्गुष्ठानामिकाद्वाभ्यां यतो वक्त्रेऽभिषिञ्चनम् ॥ ६३ ॥ सव्ये वामे हविस्तोयं प्रज्ञोपायः परस्परम् । मध्यमातर्जनीद्वाभ्यां यतः खड्गो भविष्यति ॥ ६४ ॥ अर्धचन्द्राकृतिर्मुद्रा दंष्ट्रा कर्ती कनीयसी । शून्यमक्षरमूर्ध्वाधः प्रज्ञोपायः परस्परम् ॥ ६५ ॥ दशमण्डलसंयोगे अङ्गुलीनां परस्परम् । करतले पुटिते मूर्ध्नि एकशूकं सकर्तिकम् ॥ ६६ ॥ विषुवत्तन्मध्ये नाड्यां सृष्टिसंहारकारकम् । स्कन्धधातुत्रिवज्राणामेकत्वं मध्यमागतौ ॥ ६७ ॥ चन्द्रार्कनाडिकारुद्धे रुद्धा विण्मूत्रनाडिकाः । राहुनाडीवि(नि)रुद्धे स्याद्रुद्धाधः शुक्रवाहिनी ॥ ६८ ॥ मुक्ते मुक्ता भवन्त्येताः सृष्टिसंहारकारिकाः । संचार एष नाडीनां प्राणापानत्रिमार्गतः ॥ ६९ ॥ वामायां दक्षिणायां वा प्रवहत्यधिको <ऽ>निलः । एकरात्रं तथा पञ्च त्रिवर्षैर्मर<णं>ततः ॥ ७० ॥ पञ्च दिक्तिथयो विंशति तत्त्वान्येकोत्तरं क्रमात् । त्रयस्त्रिंशद्दिनारोहः अरिष्टं दक्षिणे रवौ ॥ ७१ ॥ त्रिद्व्येकसमकैर्मासैः षट्त्रियुग्मेन्दुभिर्दिनैः । तिथिदिक्पञ्चगुणद्व्येकैरायुर्गच्छति देहिनाम् ॥ ७२ ॥ मूलादेकोत्तरेण स्याद्वामे चन्द्रस्य रोहणम् । <दिनैर्मासैर्दिनैर्मासैस्>त्रिदिनानि द्विमासकौ ॥ ७३ ॥ दिनेऽरिष्टं शुभे मासे वृद्धिहानिस्ततस्तयोः । मध्यमारोहणं मृत्योः शताब्दपरिपूर्णतः ॥ ७४ ॥ समविषमदिनैस्तस्य जन्मजातोऽथ मण्डलैः । रोहणं सव्यवामे च पक्षद्वयविनाशनात् ॥ ७५ ॥ अन्यथा मरणं न स्या<त्पक्षद्वयस्य>संस्थितेः । सव्यावसव्यसंचारा<त> पञ्चमण्डलवाहतः ॥ ७६ ॥ अरिष्टलक्षणं ज्ञात्वा प्राणं बिन्दौ निवेशयेत् । अवधूतीपदमाश्रित्य<भावयेत्>पृष्ठअरमाक्षरम् ॥ ७७ ॥ वज्रोत्थानं सदा कुर्याच्चन्द्रार्कगतिभञ्जनात् । अन्यथा नावधूत्यङ्गे विशति प्राणमारुतः ॥ ७८ ॥ अपानोऽधश्च शङ्खिन्यां मरणं तदवेशतः । अरिष्टवञ्चनं ह्येतदानन्दैर्योगिनां भवेत् ॥ ७९ ॥ शुक्रागमनमानन्दमुष्णीषादूर्ण्णापङ्कजे । कण्ठे हृदि परमानन्दं विरमानन्दं ततो भवेत् ॥ ८० ॥ विविधं रमणं नाभौ गुह्यपद्मे यदागतम् । गुह्याद्वज्रमणिं यावत्सहजानन्दमच्युतम् ॥ ८१ ॥ अप्रतिष्ठितनिर्वाणं महारागोऽक्षरः प्रभुः । विरागाद्यच्च्युतं सौख्यं तन्निर्वाणं प्रतिष्ठितम् ॥ ८२ ॥ शुक्रेन्दूदय उष्णीषे पूर्णा गुह्ये सरोरुहे । कला षोडशमा या सा मणिपद्मे वज्रमूर्धगा ॥ ८३ ॥ तदूर्ध्वं च्युतिकालः स्यात्कृष्णप्रतिपदागमे । रविस्तूर्णापदं याति अमावस्यां विरागतः ॥ ८४ ॥ कला षोडशमा तस्य उष्णीषकमले गता । नष्टचन्द्र इहाख्यातो विरक्ती रागसौख्यतः ॥ ८५ ॥ अधश्चन्द्रामृतं याति मरणे सर्वदेहिनाम् । ऊर्ध्वे सूर्यरजो राहुविज्ञानं भावलक्षणे ॥ ८६ ॥ अतश्चन्द्रामृतस्योर्ध्वे कर्तव्यं गमनं नृप । अधोऽर्करजसो राहुविज्ञानस्याक्षरे सुखे ॥ ८७ ॥ ऊर्ण्णाब्जे सर्वबुद्धानां चन्द्रामृतस्य पूर्णिमा । अमार्करजसो गुह्ये कलोष्णीषे मणौ तयोः ॥ ८८ ॥ इति वज्रपदं शास्तुर्विपरीतं सर्वदेहिनाम् । अप्रतिष्ठितनिर्वाणाद्विपरीतं यान्ति धातवः ॥ ८९ ॥ मणौ चित्तं<च>गुह्ये वाक्कायो नाभौ महासुखात् । धर्मसम्भोगनिर्माणाः शुद्धकायात्स्फरन्त्यमी ॥ ९० ॥ अधोपायस्य राजेन्द्र प्रज्ञा<या>ऊर्ध्वतो भवेत् । ललाटे कायवज्रमस्या ग्रीवहृन्नाभिपङ्कजे ॥ ९१ ॥ वाक्चित्तज्ञानवज्राणि निर्माणाद्यात्स्फरन्त्यमी । स्फरणं स्कन्धधातूनां निरावरणतः सुखात् ॥ ९२ ॥ कर्ममुद्रासमापत्त्या ज्ञानमुद्रावलम्बनैः । महामुद्रैकयोगेन वृद्धिं याति तदक्षरम् ॥ ९३ ॥ वृद्धस्य न च स्यात्वृद्धिः क्षीणस्य क्षीणता न च । अस्तंगतस्य नास्तमनमुदितस्योदयं न हि ॥ ९४ ॥ न प्रकाशः प्रकाशस्य पिहितं पिहितस्य न । जातस्यैव न जन्म स्यान्मृतस्य मरणं न च ॥ ९५ ॥ मुक्तस्य न च मुक्तिः स्यादस्थितस्य च चास्थितिः । अभावो न ह्यभावस्य भावो भावस्य नैव च ॥ ९६ ॥ क्षरस्यापि क्षरो न स्यादक्षरस्य न चाक्षरः । स्वभावाभावधर्माणां मायोत्पादः क्षयस्तथा ॥ ९७ ॥ न क्षयं यान्ति भूतानि न जायन्ते स्वभावतः । निःस्वभावमिदं विश्वं भावाभावैकलक्षणम् ॥ ९८ ॥ स्वप्रज्ञालिङ्गितं चित्तं पद्मे वज्रमणौ गतम् । तत्र चन्द्रगतस्पन्दो निःस्पन्दाक्षरभावना ॥ ९९ ॥ कायवाक्चित्तनाडीषु कायवाक्चित्तभावना । समाहारस्त्रिवज्राणां शङ्खिन्यां ज्ञानभावना ॥ १०० ॥ प्रज्ञारागद्रुतानां च बिन्दूनां शिरसः क्रमात् । पूर्णापदं प्रविष्टानां बन्धनं परमार्थतः ॥ १०१ ॥ यथोदितः क्रमाच्चन्द्रः कलाभिर्याति पूर्णताम् । वासनाहरणं पूर्णा<न>चन्द्रच्छेदो न पूरणम् ॥ १०२ ॥ तथोदितं क्रमाज्ज्ञानं भूमिभिर्याति पूर्णताम् । क्लेशाद्याहरणं पूर्णा<न>ज्ञानच्छेदो न पूरणम् ॥ १०३ ॥ यथा मध्यशशाङ्केन पूर्णायां न स्थिरः शशी । संसारवासनाङ्केन तथा चित्तं सुखेऽक्षरे ॥ १०४ ॥ उत्पत्तिः प्रलयः पक्षः<शुक्लः>कृष्णः प्रतिष्ठितः । तयोर्मध्ये तु या पूर्णा सा पूर्णा न प्रतिष्ठिता ॥ १०५ ॥ एकक्षणाभिसम्बुद्धं पूर्णायां निश्चलं भवेत् । यदा वज्रमणौ चितं तत्सर्वक्षणपूरकम् ॥ १०६ ॥ न स्थितिः शुक्लपक्षेऽस्य गमनं नासिते क्वचित् । पक्षद्वयस्य मध्यस्थं पूर्णायां गतमद्वयम् ॥ १०७ ॥ उष्णीषादुदयं तस्य पूर्णा वज्रमणौ भवेत् । सविरागात्कलाहानि<र्>वज्राद्धानेः प्रपूर्णता ॥ १०८ ॥ उष्णीसे ह्युदयो भूयः पूर्णा वज्रमणौ पुनः । सविरागात्कलाहानिर्ज्ञानहानिर्न देहिनाम् ॥ १०९ ॥ महासुखस्वभावो <ऽ>स्य पूर्णाशब्देन गीयते । अन्यभावान्तरं सर्वं सृष्टिसंहारहेतुकम् ॥ ११० ॥ भवाद्गच्छति निर्वाणं तस्मादेति पुनर्भवम् । स्वपक्षाभ्यां यथां चन्द्रोऽयनाभ्यां भास्करो यथा ॥ १११ ॥ पूर्णायां निश्चलस्यास्य भूमिभिः परिपूर्णता । द्व्ययुतद्व्यष्टशतैः श्वासैरक्षरक्षणभक्षितैः ॥ ११२ ॥ पक्षद्वयं व्यतिक्रम्य भूमिभिः परिपूरितम् । द्वादशाकारसत्यार्थं षोडशाकारमक्षरम् ॥ ११३ ॥ भूमिभिर्द्वादशाकारं पूरितं परमाद्वयम् । कलाभिः पूरितं चित्तं षोडशाकारमक्षरम् ॥ ११४ ॥ एकार्थमद्वयं धर्मं परमार्थमविनश्वरम् । पूर्णावस्थां गतं चित्तमासमन्तात्प्रपूरितम् ॥ ११५ ॥ विरागादिमहारागं वज्रानङ्गं महाक्षरम् । परिपूर्णमसंक्लिष्टं पक्षद्वय<स्य>वासनैः ॥ ११६ ॥ यथा नद्युदकं विष्टं समुद्रे तत्पयःसमम् । तथा भावसमूहोऽयमक्षरे तत्समो <ऽ>क्षरः ॥ ११७ ॥ यथा धातुसमूहो <ऽ>यं रसत्वं याति भक्षितः । बीजैर्बीजस्व भावं च फलकाले मानवर्जितम् ॥ ११८ ॥ एवं भावसमूहोऽपि परमाक्षरभक्षितः । परमाक्षरतां याति सर्वाकारस्वरूपधृक् ॥ ११९ ॥ न दंशे वेदनां वेत्ति नान्यत्र चापि दष्टकः । न विषयानिन्द्रियद्वारैः पूर्णावस्थां विषे गते ॥ १२० ॥ एवं न च मणौ योगी नान्यत्र वेत्ति सत्सुखम् । न विषयानिन्द्रियद्वारैश्चित्ते पूर्णकलां गते ॥ १२१ ॥ यथा लोहैकदेशेऽपि संस्थितो हि महारसः । लोहं तीव्राग्निसंतप्तं वेधयेदासमन्ततः ॥ १२२ ॥ तेथैवैकप्रदेशेऽपि संस्थितं सुखमक्षरम् । चित्तं कामाग्निसंतप्तं वेधयेदासमन्ततः ॥ १२३ ॥ यथा च विद्धलोहानां नैव मलो भवेत्क्वचित् । तथा च विद्धचित्तानां न वासना भवेत्क्वचित् ॥ १२४ ॥ हेमत्वं हि गतं लोहमग्निना निर्मलं भवेत् । भूयो भूयस्तथा चित्तं निर्मलं रागवह्निना ॥ १२५ ॥ यथा महामणिस्पर्शाद्याति शीला प्रदीप्तताम् । तथाक्षरसुखस्पर्शात्सुखतां चित्तमेति वै ॥ १२६ ॥ किमत्र बहुनोक्तेन लोकसंवृतिसत्यतः । अवितर्क्यो रससद्भावो लोहस्यावेधनं प्रति ॥ १२७ ॥ वितर्क्यो ज्ञानसद्भावः किं पुनः परमार्थतः । मलागन्तुकलिप्तस्य चित्तस्यावेधनं प्रति ॥ १२८ ॥ नागन्तुको मलश्चित्ते न चित्ताच्चिरकालिकः । न चित्तेन विना जातो न चित्ते संस्थितोऽव्ययः ॥ १२९ ॥ यद्यागन्तुक एव स्याच्चित्तं प्रागमलं तदा । चिरकाली यदा चित्तात्तस्यैव सम्भवः कुतः ॥ १३० ॥ यदि चित्तं विना जातस्तदा खकुसुमं यथा । यदि स्थितः सदा चित्ते न नश्येत्सर्वतस्तदा ॥ १३१ ॥ ताम्रस्य कालिमा यद्वद्रसयोगेन नश्यति । न तस्य सत्त्वता नश्येन्निर्मलत्वेन या स्थिता ॥ १३२ ॥ तद्वच्चित्तमलः शून्यतायोगेन प्रणश्यति । न तस्य ज्ञानता नश्येन्निर्मलत्वेन या स्थिता ॥ १३३ ॥ रसविद्धो यथा लोहो न पुनर्लोहतां व्रजेत् । सुखविद्धं तथा चित्तं न पुनर्दुःखतां व्रजेत् ॥ १३४ ॥ न विरागात्परं पापं न पुण्यं सुखतः परम् । अतोऽक्षरसुखे चित्तं वेशनीयं सदा नृप ॥ १३५ ॥ वक्तुं न शक्यते सौख्यं कुमार्या सुरतं विना । यौवने सुरतं प्राप्य स्वतो वेत्ति महासुखम् ॥ १३६ ॥ एवं न शक्यते वक्तुं समाधिरहितैः सुखम् । समाधावक्षरं प्राप्य स्वतो विन्दन्ति योगिनः ॥ १३७ ॥ अक्षरजसुखज्ञाने सर्वज्ञैरपि शंक्यते । तथा क्वचिन्न कर्तव्यो विरागो मनसोऽसुखात् ॥ १३८ ॥ च्युतेर्विरागसंभूतिर्विरागाद्दुःखसंभवः । दुःखाद्धातुक्षयः पुंसां क्षयान्मृत्युरिति स्मृतः ॥ १३९ ॥ मृत्योः पुनर्भवस्तेषां भवान्मृत्युश्च्युतिः पुनः । एवं विरागसंभूतेः सत्त्वानां नान्यथा भवः ॥ १४० ॥ तस्मात्सर्वप्रयत्नेन च्युतिरागं विवर्जयेत् । येनाक्षरसुखं याति योगी संसारबन्धनात् ॥ १४१ ॥ कामुकोऽपि विरागान्न कामशास्त्रं समीहते । मयोक्ते किं पुनस्तन्त्रे योगी दुःखं समीहते ॥ १४२ ॥ शुक्राक्षरस्वभावेन साधयेत्परमाक्षरम् । आधारे च्युतिमापन्ने आधेयस्य विरागता ॥ १४३ ॥ आधाराधेयसंबन्धो यावन्नाक्षरतां व्रजेत् । चित्तमक्षरताप्राप्तं नाधाराधेयलक्षणम् ॥ १४४ ॥ अक्षरोद्भवकायस्य ऊर्ण्णाचक्रगतस्य तु । आलिकालिसमायोगो हूंकारो नेष्यते नृप ॥ १४५ ॥ बिम्बं शून्योद्भवं हेतुः फलमक्षरजं सुखम् । फलेन मुद्रितो हेतुर्हेतुना मुद्रितं फलम् ॥ १४६ ॥ शून्यता बिम्बधृग्घेतुः करुणाक्षरधृक्फलम् । शून्यताकरुणाभिन्नं बोधिचित्तं तदच्युतम् ॥ १४७ ॥ निर्वाणरहितं बिम्बं संसारातीतमक्षरम् । शाश्चतोच्छेदनिर्मुत्तस्ततोर्योगोऽद्वयोऽपरः ॥ १४८ ॥ अभावो नास्ति बिम्बस्य अभावोद्भूतलक्षणात् । भावो नास्त्यक्षरस्यापि भावसम्भूतलक्षणात् ॥ १४९ ॥ भावाभावसमायोगो वज्रयोगोऽद्वयोऽपरः । रूपारूपविनिर्मुक्तः प्रतिसेनेव दर्पणे ॥ १५० ॥ बिम्बं न भवमायाति नापि निर्वाणमक्षरम् । अन्योन्यालिङ्गितं शान्तं नपुंसकपदं परम् ॥ १५१ ॥ प्रज्ञाहेतोरजातत्वात्प्रज्ञाहेतूद्भवं फलम् । प्रज्ञाहेतोरजातत्वात्प्रज्ञाजातं न हेतुजम् ॥ १५२ ॥ अतो न हेतुजं ज्ञानं प्रज्ञाज्ञानमनुत्तरम् । फलेन हेतुनान्योन्यं न परस्परमुद्रणम् ॥ १५३ ॥ हेतुः फलं च यत्सर्वं तत्प्रतीत्यसमुद्भवम् । अन्योन्यमुद्रितं बिम्बं नोत्पन्नं न च निर्वृतम् ॥ १५४ ॥ प्रज्ञा चात्यन्तनिर्वृता उत्पन्नश्च परोऽक्षरः । हेतुफलविनिर्मुक्तिर्न परस्परमुद्रणम् ॥ १५५ ॥ अजातस्यानिरुद्धस्य यज्ज्ञेयस्येह दर्शनम् । तत्स्वचित्तस्य नान्यस्य बाह्यज्ञेयविभागतः ॥ १५६ ॥ अतो न चात्मनात्मानं मुद्रितुं शक्यते क्वचित् । किं छिनत्ति महाखड्ग आत्मानमात्मधारया ॥ १५७ ॥ बन्ध्यादुहितृसंगेन स्वप्ने सौख्यं यथा भवेत् । गगनोद्भवबिम्बेन सेवितेन तथात्मनः ॥ १५८ ॥ न प्रज्ञा नाप्युपायोऽसौ सहजः प्रज्ञया सह । आपूर्णश्चैव सौख्येन सर्वावरणवर्जितः ॥ १५९ ॥ आकाशवन्निरावरणो विषयेन्द्रियवर्जितः । सर्वतः सर्वभूतस्थ अच्छेद्यो भेदवर्जितः ॥ १६० ॥ स्वयम्भूर्वज्रसत्त्वोऽसौ महार्थः परमाक्षरः । महारागो महासत्त्वः सर्वसत्त्वरतिंकरः ॥ १६१ ॥ बोधिसत्त्वो महाद्वेषः क्लेशक्षयी महारिपुः । समयसत्त्वो महामोहो मूढधीमोहसूदनः ॥ १६२ ॥ वज्रयोगो महाक्रोधः क्रुद्धमारमहारिपुः । कालचक्रो महालोभः क्षरलोभनिषूदनः ॥ १६३ ॥ वज्रमभेद्यमित्याह महार्थं भगवानिह । सत्त्वं त्रिभवस्यैकता तदुक्तं परमाक्षरम् ॥ १६४ ॥ परमाक्षरसुखापूर्णो भूमिभिः परिपूरितः । महारागो महासत्त्वः सर्वसत्त्वरतिंकरः ॥ १६५ ॥ बोधौ व्यवस्थितः सत्त्वो बोधिसत्त्वस्ततोऽचलः । क्लेशादिद्वेषसंघानां महाद्वेषो महारिपुः ॥ १६६ ॥ समयश्चन्द्रामृतं शुक्रमच्युतिस्तस्य भक्षणम् । समयसत्त्वोऽनया वृत्त्या मूढधीमोहसूदनः ॥ १६७ ॥ एकत्वं सर्ववज्राणां प्रज्ञाकायाक्षरैः सह । महाक्रोधो महाशत्रुर्माराणां क्रोधरूपिणाम् ॥ १६८ ॥ महाक्षरसुखोपायात्सत्त्वार्थं न त्यजेत्क्वचित् । सत्त्वान्मोक्तुं महालोभः क्षरलोभनिषूदनः ॥ १६९ ॥ एते ह्युक्ताः षडाकारा अक्षरज्ञानवेदना । विज्ञानरूपसंस्कारसंज्ञाः स्कन्धकुलानि ते ॥ १७० ॥ ज्ञानाग्न्यम्बरपृथिवीवायूदका यथाक्रमम् । मनश्चक्षुःश्रुतिकायनासजिह्वास्तथैव च ॥ १७१ ॥ शब्दरसधर्मधातुकगन्धस्प्रष्टव्यरूपिणः । क्रोधराट्षण्मुखो भीमः षट्कुलैः परिशोधितः ॥ १७२ ॥ कायगुह्येन्द्रियचित्तं त्रिविधं मण्डलं सदा । प्रज्ञोपायत्रिवज्राणां जायते वज्रसत्त्वता ॥ १७३ ॥ इदं सेकस्य साधनं परमाक्षरसाधनम् । नाडीकुलसमायुक्तमुद्देशाच्चन्द्र भाषितम् ॥ १७४ ॥ <इति श्रीसेकोद्देशः समाप्तः>