आचार्यनागार्जुनविरचितः सुहृल्लेखः प्रकृतिसुकृतार्हगुणाढ्य सुगतवचोभ्यः समुदानीताश्च मया । शुभमालक्ष्य कृता वै काश्चिदार्यागीतयस्त्वया च श्रव्याः ॥ १ ॥ दारुमयी ह्यपि प्रतिमा सम्पूज्यते कापि सुगतस्य विद्वद्भिः । तथामनोज्ञं काव्यं सद्धर्माश्रयाच्च ममेदं न निन्द्यम् ॥ २ ॥ महामुनेरतिमधुरं मन्ये वचनं भवतावगतमेव स्यात् । आकल्पितं तु सुधया नन्वतिधवलं न दृश्यते चन्द्रिकया? ॥ ३ ॥ जिनैर्बुद्धधर्मसंघशीलत्यागदेवादिषडनुस्मृतयः । प्रदर्शितास्तास्तु तद्गुणसम्भारैः पृथगनुस्मरणीयाश्च ॥ ४ ॥ दशकुशलाः कर्मपथाः कायवाक्चित्तैः सर्वदाभ्यसनीयाः । मद्यादिभिर्निवृते पुण्यमयैश्चाजीवैः सुप्रसन्नः स्याः ॥ ५ ॥ ज्ञात्वा चलामसारां सम्पत्तिं द्विजभिक्षुदीनमित्रेभ्यः । दानं देयं विधिना जन्मान्तरेषु न दानात्परं मित्रम् ॥ ६ ॥ शीलं सेव्यममिश्रं त्वयानुपहतालंघितानुपलिप्तं च । चराचरप्रतिष्ठं तु गुणाश्रयं भूवच्च राजते शीलम् ॥ ७ ॥ षडिमा दानं शीलं क्षान्तिवीर्यध्यानप्रज्ञाः पारमिताः । अप्रमेयाः संवर्ध्य भवेच्च भवसागरपारगो जिनेन्द्रः ॥ ८ ॥ यत्र पूजा पितॄणां कुलं तदाचार्यब्रह्मभिः समृद्धम् । तत्पूजया च कीर्तिस्तदनन्तरं चाधिगम्यतेऽभ्युदयोऽपि ॥ ९ ॥ हिंसाचौर्ये मदिरा कामातिचारमृषोक्तिनृत्यगीतानि । त्याज्यान्यकालभक्तं मालागन्धादिविशेषोच्चशयनानि ॥ १० ॥ अनुकृत्यार्हच्छीलं कुर्यादुपोषधमष्टाभिरङ्गैश्चेत् । लभते हि पुमान् स्त्री वा सुरम्यकामावचरादिदेवकायम् ॥ ११ ॥ मात्सर्यशाठ्यमायाभिमानासक्तिकौसीद्यरागद्वेषान् । कुलरूपयौवनश्रुतबलादिजं मदं रिपुमिव परिपश्येच्च ॥ १२ ॥ अप्रमादोऽमृतपदं प्रमादो मृत्युपदमिति मुनिनादिष्टम् । कुशलधर्मस्य वृद्धये सदाप्रमादोऽभ्यसनीयस्त्वया चैव ॥ १३ ॥ पूर्वप्रमत्तः कोऽपि मेघान्निर्गतेन्दुरिव ततोऽप्रमादी । स हि नन्दाङ्गुलिमालोदयनाजातशत्रुसदृशः सुशोभेत ॥ १४ ॥ क्षान्तिसमं नैव तपस्ततस्त्वया न क्रोधावसरो देयः । बुद्धेनानुमतं वै पदमवैवर्तिकं क्रोधप्रहाणेन ॥ १५ ॥ अक्रोशीदवधीन्मामजैषीन्मामहार्षीद्वै वित्तं मे । वैरैरेभिः कलहस्त्यजति य एतद्वैरं स सुखं शेते ॥ १६ ॥ जलेऽवनौ पाषाणे चित्रमिव चित्तं त्रिधा खलु सत्त्वानाम् । क्लेशवतां हि प्रथमो धर्माभिलाषिणामन्तिमो ज्यायान् ॥ १७ ॥ वाचस्त्रिधा जनेभ्यः प्रोक्ता जिनेन मधुरसत्यमिथ्याख्या । क्रमशो मधुः पुष्पाशुचितुल्याश्चरमा च परिहर्त्तव्यैतासु ॥ १८ ॥ चतुर्विधा वै पुरुषाः प्रकाशात्प्रकाशे तमसस्तमसि पुनः । तमः प्रकाशाद्गच्छति तमसस्तेजसि पुद्गलो वरः प्रथमः ॥ १९ ॥ जनानां त्वाम्रफलमिव पक्वमपक्वे पक्वेऽपक्वतुल्यं च । अपक्वेऽपक्वं तथा पक्वे पक्वमिव भाति चातुर्विध्यम् ॥ २० ॥ परदारान्न तु पश्येद्दृष्टे च ज्ञेया अवस्थानुरूप्येण । कन्याम्बाभगिनीवदासक्तावप्यशुचिमेव चिन्तयेच्च ॥ २१ ॥ रक्षेच्चञ्चलचित्तं श्रुतिपुत्रनिधिप्राणसदृशं च नितराम् । चित्तं परिहर्त्तव्यं शत्रुसर्पविषायुधाग्निसमात्कामात् ॥ २२ ॥ कामस्त्वनर्थजनकः प्रोक्तः किम्पाकफलसमो जिनेन्द्रेण । पाशैस्तस्य हि बद्धो भवचारके लोकः स प्रहातव्यः ॥ २३ ॥ चलाध्रुवाणि षडक्षाणि जयन्ति समरे वा शत्रूनपि चैके । तयोश्च सुधियः प्रथमं वरमिन्द्रियविजेतारं च मन्यन्ते ॥ २४ ॥ युवतिशरीरं हि पूति यन्नवाशुचिद्वारमशुचिभाण्डसमम् । चर्मावृतदुष्पूरं भूषितमपि भूषणैः पृथग्द्रष्टव्यम् ॥ २५ ॥ कृमिपीडितो हि कुष्ठी सुखलिप्सया च यथा वह्निमाश्रयते । पीडा न याति शान्तिं तथैव हि कामासक्तिरपि बोद्धव्या ॥ २६ ॥ परमार्थं प्रतिवेत्तुं सर्वभावेषु सविधि मनसि निधायैव । स च खलु भावयितव्यो न हि तत्तुल्योऽपरो गुणयुतो धर्मः ॥ २७ ॥ सुकुलीनोऽपि न पूज्यो ज्ञानशीलविमुखो श्रुतिरूपवान् पुमान् । गुणद्वयैतद्युक्तः पूज्यते सोऽन्यगुणैर्हीनोऽपि सततम् ॥ २८ ॥ अष्टसु लोकधर्मेषु लोकवित्समतया प्रवर्तयेच्चित्तम् । हानिलाभयशोऽयशोऽनुशंसानिन्दासुखदुःखेष्वशोच्येषु ॥ २९ ॥ भवद्भिर्ब्राह्मणभिक्षुदेवातिथिमातापितृकुलमहिषीभ्यः । पापं नाचरणियं यतः कतमोऽपि न नरकफलस्य भागी ॥ ३० ॥ न च कृन्तति पापकर्म तत्क्षणमस्त्रपातवत्कमपि पापिनम् । मृत्योर्हि समये किन्तु तत्कर्मणः फलमभिमुखीभवत्येव ॥ ३१ ॥ सप्तधनान्युक्तानि श्रद्धाशीलत्यागामलश्रुतधियः । अपत्रपा ह्री मुनिना मुधैवापरधनानि हि साधारणानि ॥ ३२ ॥ द्यूतक्रीडा कौतुकदर्शनालस्यकुमित्रसङ्गमदिराश्च । निशाविहरणं षडिमे त्याज्या दुर्गतिदा यशोविनाशकाश्च ॥ ३३ ॥ सनरामरशासकेन सन्तोषः सर्वधनप्रधानमुक्तम् । सन्तोषोऽनुष्ठेयः धनं विनैव स धनिकः सति सन्तोषे ॥ ३४ ॥ यथा समृद्धाः पुरुषा दुःखिनो भवन्ति नैव तथाल्पेच्छुकाः । यावत्यः सन्ति फणा आर्य, दुःखकराः, नागस्य तावत्यः ॥ ३५ ॥ पत्नी त्याज्या त्रिविधा प्रकृत्या रिपुसम्बद्धा स्वघातिकेव । पत्युरपमानकर्त्री स्वैरा लघुवस्तुचौर्यरता स्तेयीव ॥ ३६ ॥ भगिनीसमानुकूला मित्रवधृदयङ्गमा च सेवनीया । मातेवोपकारिणी पूज्या सेविकेवाज्ञाकृद्देवीव ॥ ३७ ॥ विहाय रागद्वेषौ भोजनमौषधिवदवगत्य सेवेत । कायस्थित्यै नितरां न च सौन्दर्यगर्वमानार्थं सेव्यम् ॥ ३८ ॥ दिनमखिलं शुभकार्ये यापयेद्रात्रेराद्यन्तौ यामौ च । धीमन्, मध्ये यामे शयीत यतो हि न भवेद्विफला निद्रा ॥ ३९ ॥ मैत्रीकरुणोपेक्षामुदिताश्च सदा सम्यग्भावयितव्याः । अलब्धेऽनुत्तरपदे ध्रुवमेव ब्रह्मलोके सुखावाप्तिः ॥ ४० ॥ कामान् प्रीतिविचारौ सुखञ्च दुःखञ्च विहाय चतुर्भिरेव । ध्यानैर्ब्रह्माभास्वरशुभकृत्स्नबृहत्फलभागिनश्च भवन्ति ॥ ४१ ॥ कुशलाकुशलं च कर्म सदाभिनिवेशाप्रतिपक्षवस्तुगुणैः । पञ्चभिश्चोत्पद्यते तस्माद्यतनीयं कुशलचर्यायाम् ॥ ४२ ॥ यथाल्पक्षारनीरं परिवर्तयत्यल्पजलरसं न गाङ्गम् । पापं तथैव चाल्पं नाशयत्यल्पकुशलं न पूर्णकुशलम् ॥ ४३ ॥ औद्धत्यं कौकृत्यं व्यापादः स्त्यानमिद्धे च कामेच्छा । विचिकित्सेति पञ्चैव कुशलधनहारकाणीमानि ज्ञेयानि ॥ ४४ ॥ उत्तमाः पञ्चधर्माः श्रद्धावीर्ये स्मृतिसमाधिप्रज्ञाश्च । बलेन्द्रियाणि चाग्र्याणि कथ्यन्ते यतनीयमेतेषु तस्माद् ॥ ४५ ॥ व्याधिजरामरणप्रियवियोगवच्च कर्मपरायणाः सर्वे । पुनः पुनस्तु चिन्तया प्रतिपक्षेणैवं प्रहीयते मानः ॥ ४६ ॥ स्वर्गं मोक्षं चेच्छेत्सम्यग्दृष्टिस्तावद्भावनीयैव । कृतानि मिथ्यादृष्ट्या पुरुषैः सुचरितान्यपि विषमविपाकानि ॥ ४७ ॥ अनात्माशुचिर्दुःखी पुद्गलोऽनित्यश्च सम्यग्विज्ञेयः । स्मृत्युपस्थानरहिता विनश्यन्ते च विपर्यासैश्चतुर्भिः ॥ ४८ ॥ उक्तं रूपं नात्मा रूपवांश्च नात्मा रूपे नैवात्मा । न चात्मन्यस्ति रूपं शून्यमेवं स्कन्धचतुष्कमपि ज्ञेयम् ॥ ४९ ॥ स्कन्धा न हि जायन्ते यदृच्छया न प्रकृतीश्वरकालेभ्यः । नाहेतोः स्वभावतो ज्ञेया अज्ञानेन तृष्णया जाताः ॥ ५० ॥ कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ आत्मनि मिथ्यादृष्टिः शीलव्रतपरामर्शो विचिकित्सा च । मुक्तिपुरद्वाराणां बाधकं संयोजनत्रयमवगच्छेत् ॥ ५१ ॥ आत्मापेक्षो मोक्षः परस्मान्न लभ्यते किमपि साहाय्यम् । चत्वार्यार्यसत्यानि वृत्तस्थः श्रुतचिन्ताभिरभ्यस्येच्च ॥ ५२ ॥ अधिशीलचित्तप्रज्ञास्तिस्त्रोऽपि शिक्षाः सदैव शिक्षणीयाः । एतास्वन्तर्भूतानि शतमेकपञ्चाशच्च शिक्षापदानि ॥ ५३ ॥ राजन्, बुद्धेनोक्तः कायगता स्मृतिश्चैकायनो मार्गः । रक्षेदिमं सयत्नं स्मृतिनाशाच्च सर्वधर्मप्रध्वंसः ॥ ५४ ॥ बहुबाधं तु जीवनं वायूद्भूतजलबुद्बुदवदनित्यं च । आश्चर्यं जागर्तेः क्षणमिदं निःश्वासोच्छ्वासनिद्राभ्यः ॥ ५५ ॥ विशरणगलनः पूतिः शोषासारशुचिस्वभावः कायः । रजःसधर्मी चान्ते सदा वियोगशीलो नश्वरो ज्ञेयः ॥ ५६ ॥ पृथ्वीमेरुसमुद्राः सप्तार्कज्वालैर्नावशिष्यन्ते । धूलिमात्रं हि मूर्ताः का कथा दुर्बलवपुषां मानवानाम् ॥ ५७ ॥ इत्थं सर्वमनित्यं ह्यनात्मकमशरणमनाथमनिकेतम् । कदलीतरुरिव राजन् चित्तमपसारयासारसंसारात् ॥ ५८ ॥ महार्णवयुगच्छिद्रे हि कूर्मग्रीवार्पणाच्च मानुषं जन्म । तिर्यगादिसुदुर्लभं सफलीकुरु सद्धर्माभ्यासान्नरेन्द्र ॥ ५९ ॥ केचिद्रत्नालङ्कृतकनकपात्रं च पूरयन्ति पुरीषेण । ततोऽप्यसावतिमूढो यश्च नृजन्म लब्ध्वापि पापमाचरति ॥ ६० ॥ प्रतिरूपदेशवासः सत्पुरुषसमाश्रयः शुभप्रणिधानं च । स्वकीयपूर्वकुशलं ह्येतच्चक्रचतुष्कं हि विद्यते त्वयि ॥ ६१ ॥ कल्याणमित्रसेवा ब्रह्मचर्यपूर्तये देशिता मुनिना । सेव्यः सदा सुपुरुषः शमः प्राप्तो यतो जिनमपेक्ष्य बहुभिः ॥ ६२ ॥ मिथ्यादृक्प्रत्यन्ते नरकप्रेततिर्यक्षूत्पद्यमानः । म्लेच्छो जडश्च सत्त्वो यो ह्युत्पन्नो बुद्धविरहिते ॥ ६३ ॥ दीर्घायुषि देवकुले जनिलब्धश्चाष्टाक्षणा इमे दोषाः । एभी रहितो भूत्वा क्षणं लब्ध्वा जन्मनिवृत्तौ प्रयतेत ॥ ६४ ॥ इष्टविघातव्याधिमृत्युजरादिदुःखावहः संसारः । विरज्य ततः शृणु तावद्दोषानेतस्यावगच्छन्नरदेव ॥ ६५ ॥ मित्रत्वेन च शत्रुः पुत्रत्वेन पिताम्बा च भार्यात्वेन । परिवर्त्योत्पद्यन्ते तस्मान्न नियतं किमपीह संसारे ॥ ६६ ॥ चतुःसमुद्रजलादपि जनैरधिकं जनन्याः स्तन्यं पीतम् । पृथग्जनाननुसृत्य हि पुनस्ततोऽप्यधिकञ्च पास्यन्ति लोकाः ॥ ६७ ॥ आत्मनश्चास्थिपुञ्जं मेरुसमं ततोऽधिकमुच्चैर्जायेत । भूमिमृदा बदराणां गुलिकाभिर्न गणना सम्भवाम्बानाम् ॥ ६८ ॥ लोकपूज्योऽपि शक्रः पतति च पुनः कर्मवशाद्धि संसारे । तद्वच्च चक्रवर्ती राजापि पुनर्भवति हि दासो लोके ॥ ६९ ॥ स्वर्गेऽप्सरसां सौख्यं कुचतटिस्पर्शजं चैव चिरमनुभूय । नरके दुःसहदुःखं पेषणछेदनभेदनयन्त्रैर्भुङ्क्ते ॥ ७० ॥ सुखदे सुमेरुशिखरे चिरमनुभवंश्चरंश्चरणस्पर्शसुखम् । चञ्चलकुक्कुलकुणपैर्गाढं दुःखं चिन्तयेत्सदा मनसा ॥ ७१ ॥ देवाङ्गनासेविते नन्दने रम्ये चोपवने च विहृत्य । असिपत्रवने तेषां हस्तपादकर्णनासाश्च छिद्यन्ते ॥ ७२ ॥ सुवदनदेवसुताभिः स्वर्णोत्पलैर्युतायां मन्दाकिन्याम् । स्नात्वा पुनश्च नरके क्षारोष्णोदकवैतरण्यां हि पतन्ति ॥ ७३ ॥ देवेषु कामसुखं च कामवीतरागसुखं ब्रह्मलोकेषु । प्राप्यावीचौ सततं लभ्यतेऽग्नेरिन्धनीभूय च दुःखम् ॥ ७४ ॥ पदमवाप्य सुर्येन्द्वोः स्वकायप्रभया प्रदीप्य हि संसारम् । तमसि च घने प्रविष्टः प्रसारितमपि च स्वीयकरं न पश्यति ॥ ७५ ॥ एवं मृत्युं ज्ञात्वा ग्राह्यस्त्रिविधपुण्यमयदीपालोकः । अन्यथा रवीन्दुभ्याममर्दनीयेऽन्धतमसि प्रवेष्टव्यम् ॥ ७६ ॥ दुष्टाचरणे लग्नाः सत्त्वाः संजीवकालसूत्रतपनेषु । रौरवावीच्यादौ हि संघाते चापि नरके सदा दुःखम् ॥ ७७ ॥ निष्पीड्यन्ते तिलवत्केचनान्ये चूर्णवत्पेष्यन्ते च । छिद्यन्ते शाणेनान्ये दीर्यन्ते तथा तीक्ष्णपरशुनापि ॥ ७८ ॥ आस्येऽन्येषां तद्वत्पात्यते ज्वलितं तावल्लौहद्रवम् । आरोप्यन्ते केचन सकण्टके तप्तायसे सदा शूले ॥ ७९ ॥ श्वभिः केचन क्रूरैर्लौहदन्तैर्विदीर्यन्ते गर्जद्भिः । उत्थाय करौ विवशा लुञ्च्यन्ते तीक्ष्णनखतुण्डैश्च काकैः ॥ ८० ॥ केचित्कृमिसंस्पर्शाद्मांसादकृष्णमक्षिकायुतपाताच्च । वृद्धं व्रणन्त्वसह्यं भक्ष्यमाणं रुदन्ति चाकुला भूम्याम् ॥ ८१ ॥ दह्यन्तेऽग्निकुण्डेषु तेन तदाननानि च भवन्ति विवृतानि । पच्यन्ते च कटाहे तण्डुलवल्लौहमयेऽधःशिरसस्ते ॥ ८२ ॥ श्वासावरोधसमये पापः कालंकृते च नरकं प्रयाति । श्रुत्वापि नरकदुःखं सहस्रशो वज्रस्वभावात्र बिभेति ॥ ८३ ॥ श्रुत्वा दृष्ट्वा स्मृत्वा पठित्वा चापि चित्राङ्कनं नरकस्य । आकृतिरपि भयजनिका का कथा तदसह्यविपाकानुभवस्य ॥ ८४ ॥ यथा समस्तसुखानां तृष्णाक्षय एव सर्वोत्तमं सुखमिति । तद्वत्सर्वदुःखेष्ववीचिनरकदुःखमत्यसहनीयं तत् ॥ ८५ ॥ इहैकस्मिंश्च दिवसे, त्रिशतशूलघाताद्भवति च यद्दुःखम् । नारकीयदुःखस्य हि तत्राप्नोति समतां न लघुकलां चापि ॥ ८६ ॥ कोटिवर्षपर्यन्तं दारुणातिदुःखेष्वनुभवत्सु सत्स्वपि । यावत्तान्यकुशलानि न क्षीणानि तावत्र जीवनान्मुक्तिः ॥ ८७ ॥ अनिष्टफलबीजानि तु कायवाक्चित्तानां हि दुराचरणानि । भवतैवं यतनीयं शक्त्या येन तदणुमात्रं न शिष्येत ॥ ८८ ॥ तिर्यग्योनिषु नाना दुःखानि भवन्ति च बधबन्धनादीनि । परस्परं भक्षयन्ति शममूलशुभकर्मपरिहर्तारस्ते ॥ ८९ ॥ केचिद्वै हन्यन्ते मुक्तोर्णास्थिमांसचर्मार्थं जीवाः । योज्यन्ते खलु विवशा अन्ये पदमुष्टिकशाङ्कुशैः पशवश्च ॥ ९० ॥ प्रेतयोनौ न क्षयं यातीष्टालाभजनिता दुःखधारा च । दुःखमसह्यं लभते शीतोष्णक्षुत्तृषाश्रमभयजनितं हि ॥ ९१ ॥ सूचीछिद्रवदास्यं केषाञ्चिदुदरमतिविशालं नगवच्च । तच्च पीडितं क्षुधया क्षिप्तमशुचि वस्तु न प्रतिकारक्षमम् ॥ ९२ ॥ केचित्प्रेता नग्नाः शुष्कतालशिखरवदस्थिचर्माणः । नक्तमग्निमुद्गिरतां मुखे पतत्तप्तसिकताशनं तेषाम् ॥ ९३ ॥ निम्नकोटिकैः कैश्चित्पूयरक्ताद्यशुचीनि न च लभ्यन्ते । आक्रम्यान्यमुखोपरि गलनिर्गतलसिकादीनि च खाद्यन्ते ॥ ९४ ॥ चन्द्रो ग्रीष्मे तप्तः शैत्ये शीतो भानुश्च ह्येतेभ्यः । तेषां दृष्टि पाताच्च निष्फलास्तरवो नद्यश्च शुष्यन्ते ॥ ९५ ॥ सततं दुःखभाजस्ते दुश्चरितकर्मपाशसुदृढबद्धा वै । न च म्रियन्ते केचित्पञ्च वा दश सहस्रवर्षाणि सत्त्वाः ॥ ९६ ॥ यच्च लभन्ते प्रेता नानादुःखास्वादमेकविधमित्थम् । प्रीतिरत्र कार्पण्ये मात्सर्यमनार्यमुक्तमतो बुद्धेन ॥ ९७ ॥ स्वर्गे चातिसुखं यत्ततोऽप्यधिकदुःखं ततश्च्युतेर्नूनम् । एवं विचिन्त्य तज्ज्ञैः क्षरत्सुखाय न तृष्णा कार्या स्वर्गे ॥ ९८ ॥ वैवर्ण्यं देहस्य स्वासने न रतिर्म्लायतेऽपि माला च । वसनेष्वपि दौर्गन्ध्यं स्वेदश्चापूर्वो निर्याति देहात्तु ॥ ९९ ॥ लक्षणानि हि पञ्चैव मृत्योर्भवन्ति स्वर्गस्थदेवेषु । भूलोकीयनराणां सदृशान्यपि तानि मृत्युलक्षणैश्च ॥ १०० ॥ देवेभ्यश्च्युतस्य यदि नावशिष्येत्कुशलमणुमात्रमपि । विवशतयोषितव्यं हि ततस्तिर्यक्प्रेतनरकेष्वेकस्मिन् ॥ १०१ ॥ दुःखं स्यान्मानसिकं देवैश्वर्यं प्रतीर्ष्ययासूरेष्वपि । न कुर्वन्ति धीमन्तो जन्मावरणाच्च ते सत्यदर्शनानि ॥ १०२ ॥ संसारेऽस्मिन्नेवं देवनरकप्रेततिर्यग्योनिषु । जन्मग्रहणमयुक्तं बहुबाधं जन्म तत्रेति विज्ञेयम् ॥ १०३ ॥ ज्वलिते शिरसि च वसने तन्निवृत्त्युपायमुपेक्ष्य त्वरितमेव । अपुनर्भवाय यतेत यतस्तस्मान्महत्प्रयोजनं नान्यत् ॥ १०४ ॥ शीलसमाधिज्ञानैर्भूजलतेजोवायुरविविधुरहितं च । अजरामरणमक्षयं प्राप्यं शान्तदान्तविमलं निर्वाणम् ॥ १०५ ॥ प्रस्रब्धिवीर्यप्रीतिधर्मविचयस्मृतिसमाध्युपेक्षाः सप्त । बोध्यङ्गानीमानि प्राप्त्यै निर्वाणस्य कुशलसम्भारः ॥ १०६ ॥ प्रज्ञाभावे ध्यानं ध्यानाभावेऽपि न जायते सा प्रज्ञा । यत्रोभे विद्येते ज्ञेयस्तस्य भवसागरो गोष्पदवत् ॥ १०७ ॥ येऽव्याकृतधर्माश्चादित्यबन्धुना चतुर्दशोपदिष्टाश्च । लोके न चिन्तनीया यतो तैर्नाप्नोति चित्तमेव शान्तिम् ॥ १०८ ॥ एवं प्रोक्तं मुनिनाविद्यया कर्म कर्मणा च विज्ञानम् । तस्माच्च नामरूपं ततः षडायतनानि ततः स्पर्शा वै ॥ १०९ ॥ तत उत्पन्ना वित्तिर्वेदनाश्रयेण जायते खलु तृष्णा । तस्याश्चोपादानं ततो भवोऽपि भवाच्च जायते जातिः ॥ ११० ॥ सत्यां जातौ दुःखव्याधिजरेष्ट वस्त्वलाभभयमरणानि । दुःखस्कन्धो विपुलः सति जातिनिषेधे निषिद्धानीमानि ॥ १११ ॥ गम्भीरोऽनर्घकोशः प्रियः प्रतीत्योत्पादो जिनवचनानाम् । सम्यगिमं यः पश्यति स च पश्यति तत्त्वदर्शिनं बुद्धमेव ॥ ११२ ॥ शमाय भाव्याः सम्यग्दृष्टिसंकल्पवाक्कर्माजीवस्मृति । समाधिव्यायामेत्यार्याष्टाङ्गिकमार्गाश्चैते चारुतया ॥ ११३ ॥ जातिरियं दुःखमेव तृष्णा च तस्य समुदयो महान् ज्ञेयः । निर्वृतिस्तन्निरोधस्तदधिगमाय चाष्टाङ्गिकोऽयं मार्गः ॥ ११४ ॥ यत्नः सदा विधेयश्चतुरार्यसत्यप्रतिवेधायैवम् । क्रोडे श्रियश्च येषां गृहस्थास्तरन्ति क्लेशनदीं ज्ञानात् ॥ ११५ ॥ ये दृष्टार्यसत्याश्च नाविर्भवन्ति तेऽङ्कुरवत्पृथिवीतः । नावतरन्ति च गगनात्तेऽपि पृथग्जनाः क्लेशवशा हि पूर्वम् ॥ ११६ ॥ चित्तं हि धर्ममूलं भगवतोक्तमतस्तदपि साधु दमयेच्च । भो निर्भय, किं बहुना कथनेन यतोऽयमेव हितोपदेशः ॥ ११७ ॥ यन्मयोपदिष्टं तत्सप्रयासैरपि भिक्षुभिर्दुःसाध्यम् । चर्यागुणान् सेवस्व शिक्षामाचर जीवनं च कुरु सार्थम् ॥ ११८ ॥ सर्वेषां कुशलानि तु सर्वार्थमनुमोद्य स्वचर्यात्रयीं च । बुद्धत्वाय परिणाम्य ततस्तदनेन पुण्यराशिना भवता ॥ ११९ ॥ जन्मस्वप्रमेयेषु देवनरलोकयोगिनश्च वशीकृत्य । दुःखिनोऽनुग्राह्यास्त्वसहाया अवलोकितेश्वरचर्याभिः ॥ १२० ॥ चरमं भवं गृहीत्वा व्याधिजरारागद्वेषांश्च प्रहाय । बुद्धक्षेत्रे भगवानमिताभ इव लोकेशोऽमितायुर्भव ॥ १२१ ॥ प्रज्ञाशीलत्यागोद्भूतविमलख्यातिं भुवि खे स्वर्गे च । लोके प्रसार्य शमयन्नरान् युवतिसुखरतदेवांश्च भूमौ ॥ १२२ ॥ क्लेशोपहतसत्त्वस्य जातिभयमरणनाशकं जिनेन्द्राख्यम् । लोकोत्तरमक्लिष्टं शान्ताभयाक्षयनामैव पदमाप्नुहि ॥ १२३ ॥ इति सुहृल्लेख समाप्ता ॥