प्रतीत्यसमुत्पादहृदयव्याख्यानम् आचार्य नागार्जुनकृतम् इह कश्चित्शुश्रूषमाणः श्रमणः श्रवण धारणोहापोहशक्तिसम्पन्नः शिष्य आचार्यस्य पाद [मूल] मागम्य तथागतशासनमारभ्य एवं पृष्टवान् - भगवनत्र द्वादश येऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः । क्व तेषां सङ्ग्रह इति श्रोतुमिच्छामि । इति । तस्य तेषां धर्माणां तत्त्ववुभुत्सामवेत्य आचार्य इदमुक्तवान् तें क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु[यथावन्] ॥ कारिका १ ॥ तत्र दश च द्वौ च द्वादश । अङ्गान्येव विशेषा अङ्गविशेषाः । रथाङ्गवदङ्गभाव उक्तः । कायवाङमनोमौनान्मुनिः । तेन मुनिनोद्दिष्टाः कथिताः प्रकाशिता इति पर्यायाः । ते च न प्रकृतिनियतिपुरुषपराधीनकर्मईश्वरकालस्वभावयथेच्छाप्रजापतियदृच्छादिकारणप्रसूताः । किं तर्हि प्रतीत्यसम्भूताः । ते द्वादशाङ्गविशेषाः क्लेशकर्मदुःखा अन्योन्यं प्रतीत्य नडकलापयोगेन त्रिषु यथावत्संक्षिप्ताः । यथावदिति अशेषेणेत्यर्थः ॥ व्याख्या १ ॥ पृच्छति । के पुनस्ते क्लेशाः । किं कर्म । किं दुःखं येषु इमे प्रत्ययविशेषाः सङ्ग्रहं गच्छन्ति । आह - आद्याष्टमनवमाः स्युः क्लेशाः । द्वादशाङ्गविशेषाणां[मध्ये] आद्या अविद्या, अष्टमी तृष्णा, नवममुपादानमिमे त्रयः क्लेशसङ्गृहीताः प्रत्यवगन्तव्याः । किं कर्म । कर्म द्वितीयदशमौ च । संस्कारो द्वितीयः भवो दशमः ।[इमा] द्वौ धर्मौ कर्मसङ्गृहीतौ वेदितव्यौ । शेषाः सप्त च दुःखं कर्मक्लेशसङ्गृहीताना [मङ्ग] विशेषाणां ये शेषा[अङ्ग] विशेषाः सप्त च ते दुःख[सङ्गृहीता] वेदितव्याः । तद्यथा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना जातिजरामरणम् । च शब्दः प्रियवियोगाप्रियसंयोगेष्टविघातदुःखानि सञ्चिनोति । त्रिसङ्ग्रहा द्वादश तु धर्माः ॥ कारिका २ ॥ अत्र एते द्वादश धर्माः कर्मक्लेशदुःखा[ख्या] वेदितव्याः ।[अन्यूना] धिकज्ञपनार्थस्तु शब्दः । एतावन्त एवेमे सूत्रान्तनिर्दिष्टा नातः परमस्तीति परिगणितम् ॥ व्याख्या २ ॥ पृच्छति । क्लेशकर्मदुःखाना[मेषां] कुतः किमुत्पद्यत इति व्याख्यातुं प्रार्थये । आह - त्रिभ्या भवति द्वन्द्वं क्लेशाख्येभ्यस्त्रिभ्यः कर्माख्यं द्वन्द्वमुत्पद्यते । द्वन्द्वात्प्रभवन्ति सप्त दुःखाख्याः पूर्वनिर्दिष्टाः । सप्तभ्यः । त्रय उद्भवन्ति क्लेशाख्याः । तेभ्यस्त्रिभ्यः क्लेशेभ्यश्च द्वन्द्वमुत्पद्यते । भूयस्तदेव तु भ्रमति भवचक्रम् ॥ कारिका ३ ॥ भवाः कामरूपारूप्यसंशब्दिताः । [ते च] अनवस्थानाच्चक्रभूताः । तेषु पृथग्जनो लोक एव परिभ्रमति । तुशब्दश्च अनियतज्ञापनार्थः । यथा चक्रमनुपूर्व्यां परिभ्रमति । न तथा त्रिषु भवेषूत्पत्तिः । [किं तर्हि] नियमो नास्तीति ज्ञापयति ॥ व्याख्या ३ ॥ पृच्छति । अथ सर्वदेहेश्वरः सत्त्वाख्यः कर्ता । तेषु तस्य क्रिया कीदृशी । आह - हेतुफलञ्च हि जगत्प्रज्ञप्तिं विहाय अन्यो नास्ति कश्चिदिह सत्त्वः । परमार्थतः कल्पितः । कल्पितश्च नास्ति । कल्पितमात्रविषये(काम) इष्टद्रव्यं सत्न युज्यते । पृच्छति । यद्येवम्, तर्हि अस्माल्लोकात्कः परलोकं सङ्क्रामति । आह । अस्माल्लोकात्परलोकं सूक्ष्मोऽणुरपि न सङ्क्रामति । अथ च शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः ॥ कारिका ४ ॥ आत्मात्मीयरहितेभ्यो धर्मेभ्यः क्लेशकर्माख्येभ्यः पञ्चहेतुभ्यः शून्येभ्य आत्मात्मीयरहिता दुःखतया कथिताः फलकल्पिताः शून्याः सप्त धर्माः प्रभवन्तीत्यर्थः । तद्यथा आत्मात्मीयरहितास्ते नान्योन्यं पुनरात्मीयाः । अथ च स्वभावतोऽनात्मधर्मभ्यः स्वभावतोऽनात्मधर्माः प्रभवन्ति । एवमवगन्तव्यमिति ज्ञापितम् ॥ व्याख्या ४ ॥ अत्र स्वभावतोऽनात्मधर्मेभ्य एव स्वभावतोऽनात्मधर्माः प्रभवन्ति इत्यत्र को दृष्टान्तः । अत्रोच्यते - स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः । एभ्यो दृष्टान्तेभ्यः कल्पितेभ्योऽपि स्वभावतोऽनात्मनश्च परलोकसिद्धिर्वेदितव्या । तद्यथा - गुरुमुखादुश्चरिता यदि शिष्यं सङ्क्रामन्ति । गुरुणोच्चरितास्तद्विराहता अपि स्युरिति न सङ्क्रामन्ति । शिष्येण प्रोक्तमपि नान्यतोऽस्ति । अहेतुभूतत्वात् । यथा गुरुमुखादुच्चरिताः तथा मरणांशिकचित्तमपि । शाश्वत[आख्य] दोषः स्यात्परलोके न सङ्क्रमः । परलोकोऽपि नान्यतो भवति । अहेतुदोषसत्त्वात् । यथा गुरुणोच्चारितहेतोः शिष्येणो[च्चारितः] स एव अन्यो वा इति न निर्णेतुं शक्यते । तथा मरणचित्तं प्रतीत्य औपपत्त्यंशिकं चित्तमपि तदेव तातोऽन्यद्वा इति न वक्तुं शक्यते । तथा । यथा प्रदीपात्प्रदीपः, मुखात्दर्पणे प्रतिबिम्बमुत्पद्यते । मुद्रातः प्रतिमुद्रोत्पद्यते । अर्ककान्तादग्निः बीजादङ्कुरफलानि अम्लरसात्रसवत्पुनः, शब्दात्प्रतिश्रुत्कश्चोत्पद्यते । ते च त एव वा ततोऽन्ये वा इति न ज्ञातुं शक्यते । तथा - स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ ॥ कारिका ५ ॥ तत्र पञ्चस्कन्धा रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः स्कन्धाः । तेषां प्रतिसन्धिर्निषिद्धः । हेतोर्हि फलमन्यदुत्पद्यते । अस्मात्लोकात्परलोकं न कोऽपि भावः सूक्ष्मोऽपि सङ्क्रामति । एवं चक्रभ्रमणं भ्रान्तिविकल्पवासनया समुत्पद्यते । अन्त इति तु विपर्ययः । ततो निवर्तयितव्यम् । अनित्यदुःखशून्यानात्मभावान्न नित्यभावान् व्यामुह्यात् । असति व्यामोहे न रागः । असति रागे न द्वेषः । असति द्वेषे न कर्म करोति । असति कर्मणि नोपादीयते भावः । असत्युपादाने न भवमभिसंस्करोति । असति भवे न जातिः । असत्यां जातौ न कायचित्तयोर्दुःखं भवेत । एवमचिन्त्यात्तद्धेतुपञ्चकान्नान्यत्फलमुत्पद्यते । अयं मोक्षो वेदितव्यः । एवं शाश्वतोच्छेदादिदुर्दृष्टयोऽपनीता भवन्ति ॥ व्याख्या ५ ॥ अत्र द्वौ श्लोकौ भवतः - य उच्छेदं प्रकल्पयत्यतिसूक्ष्मेऽपि वस्तुनि । प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति ॥ कारिका ६ ॥ नापनेयमतः किञ्चित्प्रक्षेप्यं नापि किञ्चन । भूतश्च भूततो दृष्ट्वा भूतदर्शी विमुच्यते ॥ कारिका ७ ॥ आचार्य नागार्जुनकृतं प्रतीत्यसमुत्पादहृदयव्याख्यानं समाप्तम् ।