प्रतीत्यसमुत्पादहृदयकारिका नागार्जुनकृता द्वादश येऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः । ते क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु यथावत् ॥ १ ॥ आद्याष्टमनवमाः स्युः क्लेशाः कर्म द्वितीयदशमौ च । शेषाः सप्त च दुःखं त्रिसङ्ग्रहा द्वादश तु धर्माः ॥ २ ॥ त्रिभ्यो भवति द्वन्द्वं द्वन्द्वात्प्रभवन्ति सप्त सप्तभ्यः । त्रय उद्भवन्ति भूयस्तदेव[तु] भ्रमति भवचक्रम् ॥ ३ ॥ हेतुफलञ्च[हि]सर्वं जगदन्यो नास्ति कश्चिदिह सत्त्वः । शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः ॥ ४ ॥ स्वाध्यायदीपमुद्रादर्पणघोषऽर्ककान्तबीजाम्लैः । स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ ॥ ५ ॥ य उच्छेदं प्रकल्पयत्यतिसूक्ष्मेऽपि वस्तुनि । प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति ॥ ६ ॥ नापनेयमतः किञ्चित्प्रक्षेप्यं नापि किञ्चन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ७ ॥ प्रतीत्यसमुत्पादहृदयकारिका आचार्य नागार्जुनकृता समाप्ता ।