पञ्चक्रमः [१] वज्रजापक्रमः प्रथमः ओं नमो बुद्धाय सर्वबुद्धात्मकं नाथं नत्वा श्रीमन्महासुखम् । वज्रजापक्रमं वक्ष्ये योगतन्त्रानुसारतः ॥ १.१ ॥ उत्पत्तिक्रमसंस्थानां निष्पन्नक्रमकाङ्क्षिणाम् । उपायश्चैष संबुद्धैः सोपानमिव निर्मितः ॥ १.२ ॥ प्राणभूतश्च सत्त्वानां वाय्वाख्यः सर्वकर्मकृत् । विज्ञानवाहनश्चैष पञ्चात्मा दशधा पुनः ॥ १.३ ॥ वायुतत्त्वानुपूर्वेण मन्त्रतत्त्वं समाविशेत् । मन्त्रनिध्यप्तिमागम्य वज्रजापः सुशिक्ष्यते ॥ १.४ ॥ वज्रजापस्थितो मन्त्री चित्तनिध्यप्तिमाप्नुयात् । मयोपमसमाधिस्थो भूतकोट्यां समाविशेत् ॥ १.५ ॥ भूतकोटेः समुत्तिष्ठन्नद्वयज्ञानमाप्नुयात् । युगनद्वसमाधिस्थो न किञ्चिच्छक्षते पुनः ॥ १.६ ॥ अयं निष्पन्नयोगाख्यो महावज्रधरश्च सः । सर्वाकारवरोपेतः सर्वज्ञो जायते ततः ॥ १.७ ॥ अनागतमतीतं च वर्तमानं भवत्रयम् । तत्क्षणात्निखिलं पश्येत्प्रभास्वरविशुद्धितः ॥ १.८ ॥ एतत्तत्त्वं स्थितं तन्त्रे श्रीसमाजे सुमुद्रितम् । व्याख्यातन्त्रानुसारेण बोद्धव्यं गुरुवक्त्रतः ॥ १.९ ॥ तत्र प्रथमतरं वायुतत्त्वोद्देशपदं मूलसूत्रादेवावतार्यते- नासाग्रे सर्षपं चिन्तेत्सर्षपे सचराचरम् । भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम् ॥ १.१० ॥ पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् । नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा ॥ १.११ ॥ इति सन्धाभाषेयमस्य वज्रपदस्य निर्देशमाह चतुर्देवीव्याख्यातन्त्रे- तद्देवि सम्प्रवक्ष्यामि सारात्सारतरं परम् । रहस्यं सर्वबुद्धानां यत्तत्सर्वात्मनि स्थितम् ॥ १.१२ ॥ पश्चज्ञानमयं तत्त्वं सर्षपस्थूलमात्रकम् । तस्य मध्ये स्थितो देवो ह्यव्यक्तो व्यक्तरूपवान् ॥ इति । १.१३ ॥ समाजोत्तरेऽप्यमुमर्थं द्योतयन्नाहः । पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् । निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् ॥ १.१४ ॥ पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् । स्वमन्त्रं हृदये ध्यात्वा चित्तं बिन्दुगतं न्यसेत् ॥ १.१५ । इत्यस्यापि प्रतिनिर्देशमाह वज्रमालानाम्नि व्याख्यातन्त्रे- नासाग्रे सर्षपं नाम प्राणायामस्य कल्पना । प्राणायामस्थिताः पञ्च रश्मयो बुद्धभावतः ॥ १.१६ ॥ ऊर्ध्वं घ्राणाद्विनिष्क्रान्तो वामदक्षिणद्वन्द्वतः । स्तब्धश्चेति चतुर्धास्माद्वेला आध्यात्मिका स्मृता ॥ १.१७ ॥ कण्ठहृन्नाभिगुह्याब्जे गत्यागती विनिर्दिशेत् । विहरेदर्धयामिकां वेलां परिपाट्या यथाक्रमम् ॥ १.१८ ॥ दक्षिणाद्विनिर्गतो रश्मिर्हुतभुङ्मण्डलं च तत् । रक्तवर्णमिदं व्यक्तं पद्मनाथोऽत्र देवता ॥ १.१९ ॥ वामाद्विनिर्गतो रश्मिर्वायुमण्डलसंज्ञितः । हरितश्यामसङ्काशः कर्मनाथोऽत्र देवता ॥ १.२० ॥ द्वाभ्यां विनिर्गतो रश्मिः पीतवर्णो महाद्युतिः । माहेन्द्रमण्डलं चैतद्रत्ननाथोऽत्र देवता ॥ १.२१ ॥ स्तब्धो मन्द्रप्रचारस्तु सितकुन्देन्दुसन्निभः । मण्डलं वारुणं चैतद्वज्रनाथोऽत्र देवता ॥ १.२२ ॥ सर्वदेहानुगो वायुः सर्वचेष्टाप्रवर्तकः । वैरोचनस्वभावोऽसौ मृतकायाद्विनिश्चरेत् ॥ १.२३ ॥ वायुतत्त्वमिदं व्यक्तं पञ्चज्ञानस्वभावकम् । तार्किका न प्रजानन्ति अगम्यं बालयोगिनाम् ॥ १.२४ ॥ इत्येवं वायुत्तत्वं प्रतिपाद्येदानीं मन्त्रतत्त्वस्योद्देशपदं मूलसूत्रादवतार्यते- सर्वतथागतकायवाक्चित्तरहस्यं सर्वतन्त्रहृदयसञ्चोदनं नाम परमगुह्यं स्वकायवाक्चित्तवज्रेभ्यो वाक्पथनिरुक्त्या मन्त्रसमुच्चयमुदाजहार ओमाः हूम् । अर्थानुमजापेन निःस्वभावेन चारुणा । विचारणा त्र्यध्वबुद्धेभ्यो वज्रजापः स उच्यते ॥ १.२५ ॥ भिक्षाशिना न जप्तव्यं न च भैक्षरतो भवेत् । जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत् ॥ १.२६ ॥ इत्युद्देशपदमस्य निर्देशमाह सन्ध्याव्याकरणव्याख्यातन्त्रे तदवतार्यते- प्रत्युवाच ततः श्रीमान्महावैरोचनं विभुम् । विश्वरूपमिदं चित्तं सर्वसत्त्वोपपत्तितः ॥ १.२७ ॥ जातं सन्निःस्वभावोऽपि भावाख्यं तु प्रतीत्यतः । कृत्वा चानुभवं सम्यग्बोधिचित्तं खतुल्यकम् ॥ १.२८ ॥ जगदर्थं विधातुं च तद्देशयोत्तमे जने । साधनोपायितामात्रं ज्ञात्वा तन्त्रे विपञ्चितम् ॥ १.२९ ॥ आचार्या वयमित्येवं वदन्त्यागामिका विभो । यद्वाक्यं ममेत्येवमुक्त्वा क्षिपन्ति बालिशाः । सन्ध्याय बोधिचित्तं ते न विदन्ति यथार्थतः ॥ इति । १.३० ॥ यथेदं भगवान् स्वामी महावैरोचनो विभुः । त्रिष्कृत्वा साधुवचनं वज्रपाणिं वदेदिदम् ॥ १.३१ ॥ कथयमामि प्रभेदेन निर्विकल्पार्थतत्त्वतः । प्रव्याहारोपलम्भाख्यं साङ्केतं पारमार्थिकम् ॥ १.३२ ॥ प्रव्याहारो हि सामान्यं बुद्धरूपोपलम्भकम् । साङ्केतं मन्त्रतत्त्वाख्यं तथता पारमार्थिकम् ॥ १.३३ ॥ एकादिर्नवमध्ये तु दशभिर्यो न बध्यते । तमबद्धं विजानीयात्स वेत्ति परसम्पदम् ॥ १.३४ ॥ स्वरव्यञ्चनवर्णाश्च नवसंख्यानुवर्तिनः । ऽ अबद्धान्योन्यसंयोओगाद्यो वेत्ति स जगद्गुरुः ॥ १.३५ ॥ भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् । पञ्चपञ्चकसंयुक्तं चतुस्त्रयनियोजितम् ॥ १.३६ ॥ सानुस्वारं सदीर्घं न गुणसंयोलोपवत् । ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् ॥ १.३७ ॥ ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः । स्त्री-पुं-नपुंसकास्ते च धात्वादिपरिकल्पिताः ॥ १.३८ ॥ अधोर्ध्वसमायुक्तं ज्ञात्वा बुद्ध्या नियोजयेत् । प्रव्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् ॥ १.३९ ॥ ततः परिणतं रूपं यद्देवतोपलम्भिकम् । साङ्केतिकं त्रितत्त्वस्थं प्रकृतिजापलपक्षणम् ॥ १.४० ॥ अकारोद्देशकं ज्ञानं बुद्धस्य हृदयं भवेत् । ओंकारः संसृजेत्सत्त्वान् बुद्धरूपाग्रकल्पितान् ॥ १.४१ ॥ हूंकारःसंहरेत्सत्त्वानाःकारः स्थापको भवेत् । प्रवेशश्व स्थितिश्चैव व्युत्थानं च क्रमेण च ॥ १.४२ ॥ जपेन्मन्त्रमभिन्नाङ्गं प्रज्ञोपायपदे स्थितः । पाण्डरादिजपः प्रक्तः पञ्चविंशच्छतद्वयम् ॥ १.४३ ॥ चतुर्भिर्गुणितं सम्यक्चतुर्योगशतं नव । नवशतं तु यद्दृष्टं चतुर्विंशत्परिक्रमैः । प्रत्युत्पादाद्भवेत्तत्र द्व्ययुतं शतषोडशम् ॥ १.४४ ॥ इदमेवाध्यात्मिकवेलायां द्योतयन्नाह समाजोत्तरे- विद्यानयविधानेन चतुःसन्ध्याप्रयोगतः । जपेन्मन्त्रमभिन्नाङ्गं लक्षमक्षरसंख्यया ॥ १.४५ ॥ बाह्यजापं त्यजेद्योगी भावनायान्तरायिकम् । मन्त्रार्थो भगवान् वज्री वज्रात्मात्र कथं जपेत् ॥ १.४६ ॥ हस्तिनं लभते सद्यो मृगयेद्धस्तिनः पदम् । मन्त्रमूर्तिः स्वयं साक्षात्किमन्यत्तु गवेषते ॥ १.४७ ॥ अपि च वज्रधृक्कश्चित्त्रिसंयोगान्वितो नरः । आवाहनविसर्जनं स्यात्तथा स्थापनमेव च ॥ १.४८ ॥ आवाहनं प्रवेशेन त्वरितेन विसर्जनम् । वाष्पेण स्थापनं तत्स्याद्विश्वस्तात्सिद्धिरुत्तमा ॥ १.४९ ॥ त्वरिते निबन्धके वाष्पे मन्त्रनियोजना कथिता । कर्णमूले तु शिष्यायाचार्येण सुप्रयत्नतः ॥ १.५० ॥ अथ योगेश्वराणां तु दिव्योपायः प्रदर्शितः । गुह्याक्षरं प्रवक्ष्यामि योगसिद्धिफलप्रदम् ॥ १.५१ ॥ येन चिन्तितमात्रेण योगिनः स्युर्वरप्रदाः । आद्यक्षरप्रयोगेण उच्छवासं कुरुते सदा ॥ १.५२ ॥ अष्टान्तेन समायुक्तमुकारेण सबिन्दुकम् । निश्वासं कुरुते योगी रुचिजाप्तमिहोच्यते ॥ १.५३ ॥ अयुतद्वयं सहस्रं च षट्शतानि तथैव च । अहोरात्रेण योगीन्द्रो जपसंख्यां करोति च ॥ १.५४ ॥ तदेवं गुह्यसन्ध्यायां सूक्ष्मयोगः प्रकाशितः । ध्यानाध्ययनवीतं तु तथापि जाप उच्यते ॥ १.५५ ॥ अनेन वज्रजापेन सेवां कृत्वा यथाविधि । साधयेत्सर्वकार्याणि मायोपमसमाधिना ॥ १.५६ ॥ अत्राह अद्वयसमतामहायोगतन्त्रे- जपित्वा मन्त्रमतुलं साधयेत्साधनात्मकः । सिध्यते तस्य त्रैलोक्यं मासैकेन न संशयः ॥ १.५७ ॥ षड्लक्षाणि जपित्वा तु मन्त्रं ज्ञानसमुद्भवम् । वज्रसत्त्वं नमस्कृत्य पूर्णमास्यां स सिध्यति ॥ १.५८ ॥ न तस्य व्रतमाख्यातं नाक्षसूत्रं न मन्त्रकम् । धारणा होमकर्माणि वर्ज्यन्ते च परापरम् ॥ १.५९ ॥ यकारार्थेन यत्किञ्चित्सिद्धिमिच्छता । रेफादित्रितयेनैव जतत्कार्यं प्रवर्तते ॥ १.६० ॥ अग्निवायव्यमाहेन्द्रवारुणे प्रतिमण्डले । अर्धयामिकवेलायां द्वौ द्वौ कर्मणि तिष्ठतः ॥ १.६१ ॥ पूजाप्रायो भवेत्पूज्यो जापप्रायो विशुध्यति । अग्निहोत्रपरो भूतिं मोक्षं ध्यानपरो लभेत् ॥ १.६२ ॥ ज्ञात्वा इत्थं ततो मन्त्री जगद्बालवदाचरेत् । ततः सिध्यन्ति मन्त्राश्च निर्विकल्पैकधर्मतः ॥ १.६३ ॥ मन्त्रतत्त्वमिदं व्यक्तं वाग्वज्रस्य प्रसाधनम् । ज्ञानत्रयप्रभेदेन चित्तमात्रे नियोजयेद् ॥ इति ॥ १. ६४ ॥ गुरोरवज्ञासुशठोऽप्रसन्नो मन्त्रोद्धतः पुस्तकदृष्टिगर्वः । अश्रद्दधानस्त्वभिषेकहीनो वार्ता क्रमस्यापि च तस्य नोक्ता ॥ १.६५ ॥ यः श्रद्दधानो गुरुभक्तिरक्तः शुश्रूषणायां च सदाभियुक्तः । ग्राह्यः श्रुतिं नैव धनं निरीक्ष्यं गुरुप्रधानोऽय गुरुप्रसादः ॥ १.६६ ॥ गिरीन्द्रमूर्ध्नः प्रपतेत्तु कश्चित्नेच्छेच्च्युतिं तु च्यवते तथापि । गुरुप्रसादाप्तहितोपदेश इच्छेन्न मोक्तं स तथापि मुक्तंः ॥ १.६७ ॥ ॥ वज्रजापक्रमः समाप्तः ॥ कृतिरियं श्रीनागार्जुनपादानामिति । ग्रन्थप्रमाणमस्य षदधिकसप्ततिः ॥ प्रथमः क्रमः ॥ [२] अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः नमः श्रीवज्रसत्त्वाय नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः । एवं स्तुते नमस्तेऽस्तु कः स्तोता कश्च संस्तुतः ॥ २.१ ॥ यथा जलं जले न्यस्तं घृतं चैव यथा घृते । स्वकीयं च स्वयं पश्येज्ज्ञानं यत्रेह वन्दना ॥ २.२ ॥ किन्तु सर्वज्ञगतिभिर्विना तन्नोपलभ्यते । तमःपटलसञ्छन्नं प्रसादाद्द्वीपमाप्नुयात् ॥ २.३ ॥ शून्यं च अतिशून्यं च महाशुन्यं तृतीयकम् । चतुर्थं सर्वशून्यं च फलहेतुप्रभेदतः ॥ २.४ ॥ प्रज्ञोपायसमायोगान्निष्पन्नमुपलब्धकम् । उपलब्धाच्च निष्पन्नात्सर्वशून्यं प्रभास्वरम् ॥ २.५ ॥ हेतुक्रमविशुद्धं तु विज्ञानत्रययोगतः । शून्यत्रयसमायोगाल्लभ्यतेऽनुत्तरं पदम् ॥ २.६ ॥ आलोकश्शून्यं प्रज्ञा च चित्तं च परतन्त्रकम् । तस्येदानीं प्रवक्ष्यामि प्रकृतिस्फरणं स्फुटम् ॥ २.७ ॥ विरागो मध्यमश्चैव अधिमात्रस्तथैव च । मनोगतागतं चैव शोकादितृतीयं तथा ॥ २.८ ॥ सौम्यं विकम्पो भीतश्च मध्यभीतोऽतिभीतकः । तृष्णा मध्यतृष्णा चातितृओस्णोओपादानकं तथा ॥ २.९ ॥ निःशुभं क्षुत्तृषा चैव वेदना समवेदना । अतिवेदना क्षणश्चैव वेत्तिविद्धारणापदम् ॥ २.१० ॥ प्रत्यवेक्षणं लज्जा च कारुण्यं स्नेहतस्त्रयम् । चकितं संशयश्चैव मात्सर्यं चेति कीर्तिताः ॥ २.११ ॥ त्रयस्त्रिंशत्प्रकृतयः स्वसंवेद्याः शरीरिणाम् । संवृतिस्फुटरुपेण निशासंज्ञा प्रदर्शिताः ॥ २.१२ ॥ स्त्रीसंज्ञा तथा प्रोक्ता मन्दाकारा तथैव च । वामसंज्ञा पुनश्चैव चन्द्रमण्डलपङ्कजम् ॥ २.१३ ॥ दृढीकरणहेतुत्वात्सबिन्दुः प्रथमः स्वरः । निशाकरांशुसङ्काश आलोकज्ञानसम्भवः ॥ २.१४ ॥ आलोकाभासमित्युत्कमतिशून्यमुपायकम् । परिकल्पितं तथा प्रोक्तं प्रोक्तं चैतसिकं तथा ॥ २.१५ ॥ रागो रक्तं तथा तुष्टं मध्यतुष्टातितुष्टकम् । हर्षणं चैव प्रामोद्यं विस्मयो हसितं तथा ॥ २.१६ ॥ ह्लादनालिङ्गनं चैव तथा चुम्बनचूषणम् । धैर्यं वीर्यं च मानश्च कर्तृहर्तृबलानि च ॥ २.१७ ॥ उत्साहः साहसं चैव तथा चोत्तमसाहसम् । मध्यमं साहसं राद्रं विलासो वैरमेव च ॥ २.१८ ॥ शुभं च वाक्स्फुटा सत्यमसत्यं निश्चयस्तथा । निरुपादानदातृत्वे चोदनं शूरता तथा । अलज्जा धूर्तदुष्टश्च हठः कुटिल एव च । चत्वारिंशत्प्रकृतयः क्षणिकाश्चातिशून्यज्जाः ॥ २.२० ॥ दिवापुरुषसंज्ञा च खराकारश्च दक्षिणः । सूर्यमण्डलसंज्ञा च वज्रसंज्ञा तथैव च ॥ २.२१ ॥ कला सैव तु विज्ञेया बिन्दुद्वयविभूषिता । दिवाकरांशुइसङ्काशा आलोकाभासयोगजा ॥ २.२२ ॥ आलोकस्योपलब्धिश्च उपलब्धं तथैव च । परिनिष्पन्नकं चैव अविद्या चैव नामतः ॥ २.२३ ॥ महाशून्यपदस्यैते पर्यायाः कथिता जिनैः । मध्यरागक्षणश्चैव विस्मृतिर्भ्रान्तिरेव च ॥ २.२४ ॥ तूष्णींभावश्च खेदश्च आलस्यं दन्धता तथा । अविद्यायाः क्षणाः सप्त विज्ञेयाः सुक्ष्मयोगिभिः ॥ २.२५ ॥ न बीजं विन्दुसंयुक्तं न वायुर्द्वारनिर्गतः । यदालोकोपलब्धं तु तत्परिनिष्पन्नलक्षणम् ॥ २.२६ ॥ एताः प्रकृतयः सूक्ष्माः शतं षष्ट्युत्तरं दिवा । रात्रौ चापि प्रवर्तन्ते वायुवाहनहेतुना ॥ २.२७ ॥ क्षणे लवे मुहूर्त्ते च निमेषे मात्रके तथा । क्षण इत्यच्छटावस्था लवः सर्षपवर्तनम् ॥ २.२८ ॥ आश्वासस्तु मुहूर्त्तं स्यान्निमेषोऽक्षिनिमेषणम् । मात्रा तु हस्ततालं स्यात्क्षणादीनां तु लक्षणम् ॥ २.२९ ॥ संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् । किन्तु तस्य प्रभेदोऽस्ति सन्ध्यारात्रिदिवात्मना ॥ २.३० ॥ आलोकालोकाभासौ च तथालोकोपलब्धकम् । चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते ॥ २.३१ ॥ वायुना सूक्ष्मरूपेण ज्ञानं संमिश्रतां गतम् । निःसृत्येन्द्रियमार्गेम्यो विषयानवलम्बते ॥ २.३२ ॥ आभासेन यदा युक्तो वायुर्वाहनतां गतः । तदा तत्प्रकृतीः सर्वा अस्तव्यस्ताः प्रवर्तयेत् ॥ २.३३ ॥ यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत् । यावत्समीरणोत्पादो नाभासो निश्चलो भवेत् ॥ २.३४ ॥ आभासद्वयहेतुः स्यादात्मभावविकल्पना । उभयांशिकमेव स्याद्यदालोकोपलब्धकम् ॥ २.३५ ॥ सर्वासामेव मायानां स्त्रीमायैव विशिष्यते । ज्ञानत्रयप्रभेदोऽयं स्फुटमत्रैव लक्ष्यते ॥ २.३६ ॥ रागश्चैव विरागश्च द्वरोरन्तरिति त्रयम् । द्वीन्द्रियस्य समापत्त्या वज्रपद्मसमागमात् ॥ २.३७ ॥ ज्ञानद्वयसमायोगः समापत्तिः प्रकीर्तीता । ज्ञानद्वयसमापत्त्या यथोक्तकरणेन तु ॥ २.३८ ॥ यज्ज्ञानं प्राप्यते यत्नात्तदालोकोपलब्धकम् । यस्य वज्राब्जसंयोगः संवृत्या तु न विद्यते ॥ २.३९ ॥ सिध्यते योगसामर्थ्यात्सकृदप्यनुभूतवान् । यथा प्रभेदं विज्ञाय ज्ञानवृत्तिं स्वभावतः ॥ २.४० ॥ लक्षयेत्सततं योगी तामेव प्रकृतिं पुनः । पयोधरा यथा नैके नानासंस्थानवर्णकाः ॥ २.४१ ॥ उद्भूता गगनाभोगाल्लयं गच्छन्ति तत्र वै । एवं प्रकृतयः सर्वा आभासत्रयहेतुकाः ॥ २.४२ ॥ निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् । एषां स्वभावाबिज्ञानदज्ञानपटलावृताः ॥ २.४३ ॥ कृत्वा शुभाशुभं कर्म भ्रमन्ति गतिपञ्चके । आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते ॥ २.४४ ॥ शुभं दानादिकं कृत्वा स्वर्गादिषु महीयते । अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः ॥ २.४५ ॥ पूर्वकर्मविपाकोऽयमिति शोचति मोहतः । प्रकृत्याभासयोगेन येन क्लिश्यन्ति जन्तवः ॥ २.४६ ॥ ज्ञात्वा तमेव मुच्यन्ते ज्ञानिनो भवपञ्जरात् । प्रज्ञास्वभाव एवायं चन्द्रमण्डलकल्पना ॥ २.४७ ॥ चित्तमेव स्वयं पश्येत्स्वमेव शशिबिम्बवत् । अथ चन्द्रं समालम्ब्य वज्रचिन्हं प्रकल्पयेत् ॥ २.४८ ॥ उपायसूचकं ह्येतद्वज्राद्युत्पत्तियोगिनाम् । चन्द्रवज्रादिसंयोगश्चित्तचैतससङ्गमः ॥ २.४९ ॥ प्रज्ञोपायसमायोगाज्जायते देवताकृतिः । चतुर्मुद्राभिरामुद्र्य देवतागर्वमुद्वहन् ॥ २.५० ॥ विचरेत्तु सदा मन्त्री उत्पत्तिक्रमयोगवान् । यथोक्तं श्रीसमाजादौ तत्र तत्र सुविस्तरम् ॥ २.५१ ॥ यावत्स्याद्भावनायोगस्तावत्स्यादादिकर्मिकः । परिनिष्पन्नयोगस्य सूचन क्रियतेऽधुना ॥ २.५२ ॥ शून्यत्रयविशुद्धिर्या प्रभास्वरमिहोच्यते । सर्वशून्यपदं तच्च ज्ञानत्रयविशुद्धितः ॥ २.५३ ॥ ज्ञानशुद्धिपदं तत्त्वं सर्वज्ञत्वमनुत्तरम् । निर्विकारं निराभासं निर्द्वन्द्वं परमं शिवम् ॥ २.५४ ॥ अस्तीति न च नास्तीति न च वाक्यगोचरम् । अतः प्रभास्वराच्चूद्धाज्ज्ञानत्रयसमुद्भवः ॥ २.५५ ॥ द्वात्रिंशल्लक्षणधरो ह्यशीतिव्यञ्चनान्वितः । सर्वाकारवरोपेतः सर्वज्ञो जायते ततः ॥ २.५६ ॥ तथा चोक्तं महायानसूत्रे ललितविस्तरे । अभिसम्बोधिकामोऽयं शाक्यसिंहस्तथागतः ॥ २.५७ ॥ महाशून्येन बुद्धत्वं प्राप्स्यामीत्यभिमानतः । नैरञ्चनानदीतीरे निस्पाद्यास्फानकं गतः ॥ २.५८ ॥ तिलबिम्बीव सम्पूर्णाः खमध्यस्था जिनास्तदा । एकस्वरेण तं प्राहुरच्छटेन जिनौरसम् ॥ २.५९ ॥ अविशुद्धमिदं ध्यानं न चैतदिष्टकावहम् । प्रभास्वरमातु आलम्ब्यमाकाशतलवत्परम् ॥ २.६० ॥ प्रभास्वरपदे प्राप्ते स्वेच्छारूपस्तु जायसे । सवैश्वर्यं तथा प्राप्य वज्रकाये प्रमोदसे ॥ २.६१ ॥ एवं श्रुत्वा तु तं श्ब्दं विसर्ज्यास्फानकं ततः । निशार्धसमये तत्त्वमालम्ब्यैव जिनौरसः ॥ २.६२ ॥ ऋजुकेनैव कायेन वाचाय ऋजुरेव च । साशनो नाशनो नैव न मौनी नाप्यमौनवान् ॥ २.६३ ॥ नोन्मीलितसुनेत्रस्तु न च मीलितलोचनः । स्वच्छं व्यक्तं महाज्ञानं सर्वशून्यं महाद्भुतम् ॥ २.६४ ॥ अथ पश्यति तद्वयक्तं गुरुपादप्रसादतः । अनागतमतीतं च वर्तमानं भवत्रयम् ॥ २.६५ ॥ तत्क्षणान्निखिलं पश्येत्प्रभास्वरविशुद्धधृक् । जलचन्द्रमरीच्यादिमायागुणविभूषितः ॥ २.६६ ॥ अरुणोद्गमकाले तु वज्रोपमसमाधिना । निषद्य बोधिमूले तु सोऽकरोन्मारभञ्चनम् ॥ २.६७ ॥ सम्प्राप्य शाक्यनाथेन तत्त्वज्ञानमनुत्तरम् । जगत्त्रयहितार्थाय तदेवेह प्रदर्शितम् ॥ २.६८ ॥ तत्त्वज्ञानमिति प्रोक्तमभिसम्बोधिदर्शनम् । पञ्चानन्तर्यकर्मा च मन्दपुण्योऽपि यो नरः ॥ २.६९ ॥ गुरुप्रसादादाप्नोति चिन्तामणिरिवापरम् । यथेष्टं कुरुते चर्यां संबुद्धोऽयमनागतः ॥ २.७० ॥ न रागो न विरागश्च मध्यमा नोपलभ्यते । न शून्यं नापि चाशून्यं मध्यमा नोपलभ्यते ॥ २.७१ ॥ सर्वबुद्धसमायोग इदमेव प्रदर्शितम् । त्रिज्ञानाद्व्यतिरिक्तं यत्तत्त्वं सन्ध्याय भाषया ॥ २.७२ ॥ अभावेत्यादिगाथाभिः पटले बोधिचित्तके । श्रीसमाजेऽपि तत्प्रोक्तमभिसम्बोधिलक्षणम् ॥ २.७३ ॥ रागादीनां विशुद्धिर्या परमाद्ये प्रदर्शिता । सर्वशून्यं समुद्दिश्य सापि प्रोक्ता तथागतैः ॥ २.७४ ॥ नानासूत्रेषु तन्त्रेषु यत्तत्त्वमुपदर्शितम् । सर्वशून्यपदं ह्येतन्नान्यत्तत्राभिधीयते ॥ २.७५ ॥ चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः । सारात्सारतरं प्रोक्तमभिसम्बोधिलक्षणम् ॥ २.७६ ॥ जटी नग्नश्च मुण्डी वा शिखिनिःसङ्गवृत्तयः । तैस्तैश्च विविधैर्लिङ्गैरभिसम्बोधिकामिनः ॥ २.७७ ॥ तेषां तत्त्वविहीनानां व्रतचर्यादिकः क्रमः । तत्त्वज्ञानविहीनत्वात्तेन मुक्तिर्न लभ्यते ॥ २.७८ ॥ आदिकर्मिकयोगेन चाष्टमीं भूमिमाप्नुयात् । आलोकत्रयदर्शी च दशभूम्यां प्रतिष्ठितः ॥ २.७९ ॥ सम्प्राप्य ह्यभिसम्बोधिं शुद्धावासमुपागतः । बुद्धक्षेत्रेस्ववैवर्ती सर्वज्ञ इह जन्मनि ॥ २.८० ॥ धर्मोदयाभिसम्बोधिः क्रीडारागादिविस्तरैः । धर्मधात्वाभिसमबोधिर्यथालाभविचेष्टितैः ॥ २.८१ ॥ अनुतराभिसम्बोधिरभिसम्बोधियोगतः । प्रपञ्चाकारादिचर्याभिरभ्यस्यन्तीह योगिनः ॥ २.८२ ॥ आः किमभ्यासयोगेन आदिशुद्धिः स्वभाविका । प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा ॥ २.८३ ॥ य एवं कल्पयन्तीह ज्ञानक्रममपास्य वै । तत्प्रभेदमजानानाः पुनः शैक्षा भवन्ति ते ॥ २.८४ ॥ प्रकृत्याभासभेदज्ञा चतुर्थं तत्त्वमाश्रिताः । त्रिधा नाभ्यस्यते यस्तु न शीघ्रमाप्नुयात्फलम् ॥ २.८५ ॥ यथाग्निर्दारुगर्भस्थो नोत्तिष्ठेन्मथनाद्विना । तथाभ्यासाद्बिना बोधिर्जायते नेह जन्मनि ॥ २.८६ ॥ यः शाठ्यबुद्धिरलसो गुरुनिन्दकश्च प्राप्ताभिषेक इति गर्वितमानसः स्यात् । सर्वज्ञता न सुलभेति विहीनचित्तो दोषान् स पश्यति गुरोर्न गुणान् वराकः ॥ २.८७ ॥ सूश्रूषया विरहितो लघु तत्त्वमिच्छेन्नेति प्रश्स्तवचनं चलयेत्सरोषः । दृष्ट्वा सभासु गुरुमस्य पराङ्मुखस्तु कुर्यात्प्रणाममथ तस्य रहोगतस्य ॥ २.८८ ॥ एवं च दौरात्म्यगतं कुशिष्यं स्वपुत्रमप्यौरसमार्यगर्ह्यम् । वैश्यं तथा पार्थिवमग्रबोधिं कुर्यात्समीपे न हि जातु धीरः ॥ २.८९ ॥ शुभगुणसुसमेतो ज्ञानवान् वीर्ययुक्तो गुरुजनमथ भक्त्या वीक्षते बुद्धतुल्यम् । अधिगतजिनधर्मः शासनेषु प्रसन्नः स इह भवति पात्रं तस्य कुर्यात्प्रसादम् ॥ २.९० ॥ श्रुतबहुतरतन्त्रोऽउयागमेषु प्रवीणो गुरुजनपरिचर्याहान्यलब्धोपदेशः । स्वहितमपि स कर्तुं न प्रभुः शास्त्रचञ्चुर्भवति तदपि शास्त्रं केवलं खेदहेतुः ॥ २.९१ ॥ अथ भवति सभाग्यः प्राप्ततत्त्वोपदेशो जडमतिरसमर्थो मीलनेऽर्थस्य यस्तु । परहितकृतबुद्धिर्देशनायां प्रवृत्तो वचनगुणविहीनः सोऽप्यवज्ञामुपैति ॥ २.९२ ॥ श्रुतबहुतरतन्त्रो ज्ञानवान् षट्पदज्ञः स्मृतिमतिधृतिमेधावीर्यसम्पत्समेतः । गुरुचणसपर्याप्राप्ततत्त्वोपदेशः प्रभवति स हि वक्तुं तन्त्रराजोपदेशम् ॥ २.९३ ॥ श्रुतबहुतरतन्त्रेणायवज्रिप्रसादात्स्फुटविरचितवाचा बोधिमार्गं विभज्य । कुशलमुपचित्तं यच्छाक्यमित्रेण तेन प्रकटपटुविपाकाद्बोधिभाजो भवन्तु ॥ इति । २.९४ ॥ अनुत्तरसन्धिरित्यपरनामा ॥ सर्वशुद्धिविशुद्धिक्रमः समाप्तः ॥ कृतिरियं शाक्यमित्रपादानाम् । ग्रन्थप्रमाणमस्य शतमेकम् । द्वितीयः क्रमः । [३] स्वाधिष्ठानक्रमः तृतीयः नमः श्रीवज्रगुरवे प्रणिपत्य वरं वज्रं वज्रसत्त्वादिनायकम् । स्वाधिष्ठानक्रमश्चैव वक्ष्यते कृपया मया ॥ ३.१ ॥ प्रथमतरं तावदुत्पत्तिक्रमानुसारेण प्राप्ताभिषेकश्चतुर्विधतन्त्राभिप्रायज्ञः प्राप्तकायवाक्चित्तविवेकः श्रुतिधरः सत्यद्वयाधिमोक्षो वज्रगुरुं सम्यगाराध्य, ततः प्रसन्नाय गुरवे महतीं गणपूजां कृत्वा षोडशाब्दिकां मुद्रां महावज्रगुरवे दत्वा, तदनन्तरं गुरुवक्त्रादाप्तस्वाधिष्ठानक्रमोपदेशः, ततो मालोदकसम्बुद्धवज्रघण्टादानदर्पणनामाचार्यानुज्ञा इत्येभिः सह गुह्याभिषेकं लब्ध्वा एभिः शास्तारं गुरुं स्तूयात्ः । शौषीर्यं नास्ति ते काये मांसास्थिरुधिरं न च । इन्द्रायुधमिवाकाशे कायं दर्शितवानसि ॥ ३.२ ॥ नामया नाशुचिः काये क्षुत्तृष्णासम्भवो न च । त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ ३.३ ॥ दकचन्द्रवदग्राह्य सर्वधर्मेष्वनिश्रित । अनहङ्कार निर्मोह निरालम्ब नमोऽस्तु ते ॥ ३.४ ॥ सदा समाहितश्चासि गच्छंस्तिष्ठन् स्वपंस्तथा । ईर्ष्यापथेषु सर्वेषु निरालम्ब नमोऽस्तु ते ॥ ३.५ ॥ विकुर्वसि महाऋद्ध्या मायोपमसमाधिना । निर्नानात्वं समापन्न निरालम्ब नमोस्तु ते ॥ ३.६ ॥ एवं वज्रगुरं सद्भूतगुणेन संस्तुत्य श्रवणार्थमध्येषयेदनया गाथया- सर्वज्ञ ज्ञानसन्दोह भवचक्रविशोधक । अद्य व्याख्यानरत्नेन प्रसादं कुरु मे विभो ॥ ३.७ ॥ त्वत्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं विभो । तस्मात्प्रसीद बुद्धाग्र जगद्वीर महामुने ॥ ३.८ ॥ एवं श्रुत्वा तु तद्वाक्यमध्येषणविशारदम् । शिष्यकारुण्यमुत्पाद्य स्वाधिष्ठानमथारभेत् ॥ ३.९ ॥ स्वाधिष्ठानक्रमो नाम संवृतेः सत्यदर्शनम् । गुरुपादप्रसादेन लभ्यते तच्च नान्यथा ॥ ३.१० ॥ स्वाधिष्ठानक्रमो येन साधकेन न लभ्यते । सूत्रान्ततन्त्रकल्पेषु वृथा तस्य परिश्रमः ॥ ३.११ ॥ स्वाधिष्ठानक्रमं लब्ध्वा सर्वबुद्धामयः प्रभुः । जन्मनीहैव बुद्धत्वं निःसन्देहं प्रपद्यते ॥ ३.१२ ॥ स्वाधिष्ठानसमाधिश्च प्रभास्वरपदं तथा । सत्यद्वयमिति ख्यातं फलहेतुविशेषतः ॥ ३.१३ ॥ स्वाधिष्ठानानुपूर्वेण प्राप्यते हि प्रभास्वरम् । तस्माद्वज्रगुरुः पूर्वं स्वाधिष्ठानं प्रदर्शयेत् ॥ ३.१४ ॥ अस्वतन्त्रं जगत्सर्वं स्वतन्त्रं नैव जायते । हेतुः प्रभास्वरं तस्य सर्वशून्यं प्रभास्वरम् ॥ ३.१५ ॥ येन चित्तेन बालाश्च संसारे बन्धनं गताः । योगिनस्तेन चित्तेन सुगतानां गतिं गताः ॥ ३.१६ ॥ न चात्रोत्पद्यते कश्चिन्मरणं नापि कस्यचित् । संसार एव ज्ञातव्यश्चित्तरूपाकृतिष्ठितः ॥ ३.१७ ॥ वायुयोगाद्विना चित्तस्वरूपं नैव गृह्यते । चित्तात्प्रकृतिहेतुत्वात्कर्मजन्मसमुद्भवः ॥ ३.१८ ॥ तदेव वायुसंयुक्तं विज्ञानत्रितयं पुनः । जायते योगिनां मूर्त्तिर्मायादेहस्तदुच्यते ॥ ३.१९ ॥ तस्मादेव जगत्सर्वं मायोपम इहोच्यते । मायोपमसमाधिष्ठः सर्वं पश्यति तादृशम् ॥ ३.२० ॥ रूपं च वेदना चैव संज्ञा संस्कार एव च । विज्ञानं पञ्चमं चैव चत्वारो धातवस्तथा ॥ ३.२१ ॥ अक्षाणि विषयाश्चैव ज्ञानपञ्चकमेव च । अध्यात्मबाह्यतो भिन्नं सर्वं मायैव नान्यथा ॥ ३.२२ ॥ दर्पणप्रतिबिम्बेन मायादेहं च लक्षयेत् । वर्णानिन्द्रायुधेनेव व्यापित्वमुदकेन्दुना ॥ ३.२३ ॥ दर्पणे विमले व्यक्तं दृश्यते प्रतिबिम्बवत् । भावाभावाविनिर्मुक्तो वज्रसत्त्वः सुचित्रितः ॥ ३.२४ ॥ सर्वाकारवरोपेतो असेचनकविग्रहः । दर्शयेत्तं सुशिष्याय स्वाधिष्ठानं तदुच्यते ॥ ३.२५ ॥ इयमेव हि संलक्ष्या माया निर्दोषलक्षणा । मायैव संवृतेः सत्यं कायः साम्भोगिकश्च सः ॥ ३.२६ ॥ सैव गन्धर्वसत्त्वः स्याद्वज्रकायः स एव हि । वज्रसत्त्वः स्वयं तस्मात्स्वस्य पूजां प्रवर्तयेत् ॥ ३.२७ ॥ आत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च । तस्मात्सर्वप्रयत्नेन ह्यात्मानं पूजयेत्सदा ॥ ३.२८ ॥ मन्त्रमुद्राप्रयोगं च मण्डलादिविकल्पनम् । बलिहोमक्रिर्यां सर्वां कुर्यान्मायोपमां सदा ॥ ३.२९ ॥ शान्तिकं पौष्टिकं चापि तथा वश्याभिचारिकम् । आकर्षणादि यत्सर्वं कुर्यादिन्द्रायुधोपमम् ॥ ३.३० ॥ शृङ्गाराद्युपभोगं च गीतवाद्यादिसेवनम् । कलासु च प्रवृत्तिं च कुर्यादुदकचन्द्रवत् ॥ ३.३१ ॥ रूपे शब्दे तथा गन्धे रसे स्प्रष्टव्य एव च । चक्षुरादिप्रवृत्तिं च मायावदुपलक्षयेत् ॥ ३.३२ ॥ बहुनात्र किमुक्तेन वज्रयाने तु तत्त्वतः । यद्यदालम्बयेद्योगी तद्तद्मायैव कल्पयेत् ॥ ३.३३ ॥ दर्पणे प्रतिबिम्बं च स्वप्नं मायां च बुद्बुदम् । इन्द्रजालं च सादृश्यं यः पश्येद्स प्रभुः स्मृतः ॥ ३.३४ ॥ दृश्यते स्पृश्यते चैव यथा माया जगत्सदा । न चोपलम्भः संवृत्या मायावत्परिकीर्तितः ॥ इति ॥ ३.३५ ॥ यद्यदिन्द्रियमार्गत्वं माया तत्तत्स्वभावतः । असमाहितयोगेन सर्वं बुद्धमयं वहेत् ॥ ३.३६ ॥ सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम् । सर्वबुद्धमयं सिद्धं स्वमात्मानं स पश्यति ॥ ३.३७ ॥ गच्छंस्तिष्ठन्महासत्त्वः सर्वसौखमयः प्रभुः । विहाराहारपानादीनाकाशाल्लभते क्षणात् ॥ ३.३८ ॥ भवेयुर्भवच्छेत्तारः शास्तारः प्रवरे जने । पूज्यन्ते ससुरैः सर्वैः प्रणिपत्य मुहुर्मुहुः ॥ ३.३९ ॥ यथा शास्तरि सम्बद्धे लोकयात्राहितैषिणि । एवमेव महायोगी विश्वज्ञानार्थसङ्ग्रहाद् ॥ ३.४० ॥ नास्ति किञ्चिदसाध्यं वै वज्रसत्त्वेन लक्षितम् । स्वयं प्रत्युसिध्यन्ति सर्वमुद्रा महासुखाः ॥ ३.४१ ॥ क्लेशाः कर्मपथा देहः कर्तारश्च फलं च वै । मरीचिस्वप्नसङ्काशा गन्धर्वनगरोपमाः ॥ ३.४२ ॥ इमं समाधिमज्ञात्वा संवृतावुपलम्भतः । जायन्ते विविधा रोगास्तेषां माया भिषग्जितम् ॥ ३.४३ ॥ स्वाधिष्ठानोपदेशस्तु येन नासाद्यते गुरोः । शाश्वतोच्छेदमालम्ब्य स वैवर्ती भवेत्पुनः ॥ ३.४४ ॥ सर्वपूजां परित्यज्य गुरुपूजां समारभेत् । तेन तुष्टेन तल्लभ्यं सर्वज्ञज्ञानमुत्तमम् ॥ ३.४५ ॥ किं तेन न कृतं पुण्यं किं वा नोपासितं तपः । अनुत्तरकृदाचार्यवज्रसत्त्वप्रपूजनात् ॥ ३.४६ ॥ यद्यदिष्टतरं किञ्चिद्विशिष्टतरमेव च । तत्तद्धि गुरवे देयं तदेवाक्षयमिच्छता ॥ ३.४७ ॥ आचार्यो हरते पापमाचार्यो हरते भयम् । आचार्यस्तारयेत्पारं दुःखार्णवमहाभयात् ॥ ३.४८ ॥ योऽहङ्कार[म]लालिप्तः सद्भूतक्रमधर्षकः । सावज्ञस्तत्त्वधर्मेषु तस्य तत्त्वं न दर्शयेत् ॥ ३.४९ ॥ सत्यवाग्गुरुभक्तश्च विविक्तश्चैकसन्धिओकः । समयाचाररक्षी च क्रमं तस्य प्रदर्शयेत् ॥ ३.५० ॥ ॥ स्वाधिष्ठानक्रमस्तृतीयः समाप्तः ॥ कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य षट्पञ्चाशत् । [४] अभिसम्बोधिक्रमः चतुर्थः नमः श्रीवज्रसत्त्वाय वज्रसत्त्वं नमस्कृत्य सर्वशून्योपदेशकम् । चतुर्थो ह्याभिसम्बोधिक्रमोऽयं वक्ष्यते मया ॥ ४.१ ॥ असौ स्वयम्भूर्भगवानेक एवाधिदैवतः । उपदेशप्रदानात्तु वज्राचार्योऽधिकस्ततः ॥ ४.२ ॥ तत्समाराधनं कृत्वा वर्षं मासमथापि वा । तस्मै तुष्टाय गुरवे पूजां कुर्यात्तु शक्तितः ॥ ४.३ ॥ यथास्वभावतो मुद्रां निवेद्यास्मै सुशिक्षिताम् । गणमण्डलमध्ये तु कुर्यात्पूजां यथाविधि ॥ ४.४ ॥ ततस्तुष्टो महायोगी पञ्चकामोपभोगतः । आलोकस्योदयं कुर्यात्समापत्तिविधानतः ॥ ४.५ ॥ कलशादौ सुसंस्थाप्य बोधिचित्तं प्रयत्नतः । अर्धरात्रे चाभिसिञ्चेत्सुशिष्यं कृपया गुरुः ॥ ४.६ ॥ अभिषेकं तु सम्प्राप्य प्रत्यूषमये पुनः । सम्पूज्याराधयेत्स्तोत्रैर्गुरुं शिष्यं कृताञ्जलिः ॥ ४.७ ॥ त्रैधातुकविनिर्मुक्त आकाशसमतां गतः । नोपरिष्यसि कामेषु निरालम्ब नमोऽस्तु ते ॥ ४.८ ॥ अनिःश्रितोऽसि स्कन्धेषु धातुष्वायतनेषु च । विपर्यासविनिर्मुक्त निरालम्ब नमोऽस्तु ते ॥ ४.९ ॥ अविकल्पितसङ्कल्प अप्रतिष्ठितमानस । अचिन्त्यमनसिकार निरालम्ब नमोऽस्तु ते ॥ ४.१० ॥ अनालयं यथाकाशं निष्प्रपञ्चं निरञ्चनम् । आकाशसमचित्तोऽसि निरालम्ब नमोऽस्तु ते ॥ ४.११ ॥ द्रष्टुकामोऽभिसम्बोधिं सर्वशून्यस्वभाविकाम् । स्तुत्वा कृताञ्जलिः शिष्यो गुरं सञ्चोदयेत्पुनः ॥ ४.१२ ॥ प्रयच्छ मे महानाथ अभिसम्बोधिदर्शनम् । कर्मजन्मविनिर्मुक्तमाभासत्रयवर्जितम् ॥ ४.१३ ॥ प्रयच्छ मे महाचार्य वज्रज्ञानमनुत्तरम् । सर्वबुद्धमहाज्ञानं सर्वताथागतालयम् ॥ ४.१४ ॥ प्रयच्छ मे महावज्र कायवाक्चित्तशोधनम् । अनादिनिधनं शान्तं सर्वक्लेशविशोधनम् ॥ ४.१५ ॥ एवमाराधितो योगी सद्भूतगुणकीर्तनैः । शिष्ये कारुण्यमुत्पाद्य क्रममेवमथारभेत् ॥ ४.१६ ॥ आलोको रात्रिभागः स्फुटरविकिरणः स्याद्दिवालोकभासः । सन्ध्यालोकोपलब्धः प्रकृतिभिरसकृद्युज्यते स्वाभिरेतत् । नो रात्रिर्नापि सन्ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः स स्याद्बोधिक्षणोऽयं वरगुरुकथितो योगिनामेव गम्यः ॥ ४.१७ ॥ नैशं ध्वान्तं विनष्टं व्यपगतमखिलं सान्ध्यतेजस्तु यस्मिन् भास्वान्नोदेति यावत्क्षण इह विमले दर्शयेद्भूतकोटिम् । शिष्यायाचार्यमुख्यो विनिहततिमिरो बाह्यसम्बोधिदृष्ट्या । प्राप्नोत्यध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन ॥ ४.१८ ॥ अनादिभूतं त्वथवादिभूतममध्यभूतं त्वथ मध्यभूतम् । अनन्तभूतं त्वथवान्तभूतं तत्सर्वशून्यं प्रवदन्ति सन्तः ॥ ४.१९ ॥ गमनागमनं च यत्र नास्ति क्षयवृद्धी न चाप्यभावभावौ । अतिविस्मयरूपमरूप्यविस्मयं स्थितिमन्नापि न चापि गत्वरम् ॥ ४.२० ॥ यदस्ति-नास्तिव्यवहारमुक्तं न पुण्यरूपं न च पापरूपम् । न पुण्यपापात्मकमग्रभूतं तत्सर्वशून्यं प्रवदन्ति बुद्धाः ॥ ४.२१ ॥ एवंविधं तत्त्वमवाप्य योगी चराचरात्मा जगदेकबन्धुः । यः पर्यटेज्ज्ञानमयो नृसिंहः कृत्स्नं जगत्सोऽव्ययकायलाभी ॥ ४.२२ ॥ स जिह्यकायोऽप्यविजिह्यकायः सोऽनासनोऽप्यासनबन्धधीरः । समीलिताक्षोऽपि विबुद्धनेत्रः समाहितः सन्न समाहितौऽसौ ॥ ४.२३ ॥ स वाग्युतो वागसमन्वितोऽपि भोगान्वितः सोऽपि विरुपवृत्तिः । स लोकनाथः परभृत्यभूतो यस्तत्त्ववित्क्षीणसमस्तदोषः ॥ ४.२४ ॥ प्राप्तोपदेशकः शिष्यो द्विधा योगमथाभ्यसेत् । पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः ॥ ४.२५ ॥ शिरसः पादतो चापि यावद्धृदयमागतः । भूतकोटिं विशेद्योगी पिण्डग्राह इति स्मृतः ॥ ४.२६ ॥ स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम् । पश्चात्कुर्यात्तथात्मानमनुभेदक्रमो ह्ययम् ॥ ४.२७ ॥ श्वासवातो यथादर्शे लयं गच्छति सर्वतः । भूतकोटिं तथा योगी प्रविशोच्च मुहुर्मुहुः ॥ ४.२८ ॥ गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नुन्मिषन्निमिषन् हसन् । अनेन ध्यानयोगेन सदा तिष्ठति तत्त्ववित् ॥ ४.२९ ॥ सत्त्वार्थोऽपि कदाचित्स्यात्तत्तत्सारूप्यरश्मिना । वायुविज्ञानयुक्तेन स्वाधिष्ठानक्रमेण तु ॥ ४.३० ॥ यथा नदीजलात्स्वच्छान्मीनमुत्तिष्ठते द्रुतम् । सर्वशून्यात्तथा स्वच्छान्मायाजालमुदीर्यते ॥ ४.३१ ॥ पञ्चबुद्धकुलायत्ता महामुद्रादिकल्पना । पञ्चरश्मिसमुच्छ्रेया गगने शक्रचापवत् ॥ ४.३२ ॥ मुद्राबन्धं प्रकुर्याद्वा मन्त्रं चापि जपेद्यदि । सर्वमन्यत्प्रकुर्याच्च सर्वशून्यपदे स्थितः ॥ ४.३३ ॥ सर्वभुक्सर्वपश्चैव सर्ववन्दी च सर्वगः । सर्वकृत्सर्वलिङ्गी च सर्वशून्येन सिध्यति ॥ ४.३४ ॥ प्राप्तोपदेशः सुभगः सुशिष्यो बौधौ हि चित्तं परमार्थनाम । गुरोः सकाशात्पुनराददीत कृताञ्जलिर्धारितपुष्पहस्तः ॥ ४.३५ ॥ सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया स्वचित्तमाद्यनुत्पन्नं शून्यतास्वभावमिति । ततस्तु गुरवे दद्याद्दक्षिणां त्वनुरूपतः । रत्नं गृहं वा हस्त्यश्वं ग्रामं वा शयनासनम् ॥ ४.३६ ॥ दासं दासीं प्रियां भार्यां पुत्रीं चाप्यतिवर्णभाम् । आत्मानं चापि यद्दद्यात्किमन्यदवशिष्यते ॥ ४.३७ ॥ प्राप्ताचार्यप्रसादो विमलदृढमतिः सर्वभावस्वभावः स्वच्छं शुद्धं सुसूक्ष्मं परमशिवमयं बुद्धनिर्वाणधातुम् । निर्द्वन्द्वं निर्विकल्पं सततसुखमयं भावयेत्तत्त्वयोगी पुण्यापुण्याद्विमुक्तः स्वयमिह भगवान् जायते वज्रसत्त्वः ॥ ४.३८ ॥ । परमरहस्यसुखाभिसम्बोधिक्रमश्चतुर्थः समाप्तः ॥ कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य श्लोकाश्चत्वारिंशत् । [५] युगनद्धक्रमः पञ्चमः नमः श्रीवज्रधराय फलहेत्वात्मकं नाथं सर्वद्वन्द्वविवर्जितम् । प्रणम्य लिख्यते सम्यग्युगनद्धक्रमोत्तमः ॥ ५.१ ॥ संसारो निर्वृतिश्चेति कल्पनाद्वयवर्जनात् । एकीभावो भवेद्यत्र युगनद्धं तदुच्यते ॥ ५.२ ॥ सङ्क्लेशं व्यवदानं च ज्ञात्वा तु परमार्थतः । एकीभावं तु यो वेत्तिं स वेत्ति युगनद्धकम् ॥ ५.३ ॥ साकारभावसङ्कल्पं निराकारत्वकल्पनाम् । एकीकृत्य चेरद्योगी स वेत्ति युगनद्धकम् ॥ ५.४ ॥ ग्राह्यं च ग्राहकं चैव द्विधा बुद्धिर्न विद्यते । अभिन्नता भवेद्यत्र तदाह युगनद्धकम् ॥ ५.५ ॥ शाश्वतोच्छेदबुद्धी तु यः प्रहाय प्रवर्तते । युगनद्धक्रमाख्यं वै तत्त्वं वेत्ति स पण्डितः ॥ ५.६ ॥ प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते । युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः ॥ ५.७ ॥ प्रज्ञोपायसमापत्त्या ज्ञात्वा सर्वं समासतः । यत्र स्थितो महायोगी तद्भवेद्युगनद्धकम् ॥ ५.८ ॥ यत्र सोपधिशेषं च तथानुपधिशेषकम् । इत्येवं कल्पना नास्ति तत्तद्धि युगनद्धकम् ॥ ५.९ ॥ यत्र पुद्गलनैरात्म्यं धर्मनैरात्म्यमित्यपि । कल्पनाया विविक्तत्वं युगनद्धस्य लक्षणम् ॥ ५.१० ॥ ज्ञात्वा क्रमेण तत्त्वज्ञः स्वाधिष्ठानप्रभास्वरम् । तयोरेव समाजं यद्युगनद्धक्रमो ह्ययम् ॥ ५.११ ॥ पिण्डग्राहनुभेदाभ्यां प्रवेशस्तथतालये । उत्थानं च ततो यत्र समन्ताद्युगनद्धकम् ॥ ५.१२ ॥ संवृतिं परमार्थं च पृथग्ज्ञात्वा विभागतः । संमीलनं भवेद्यत्र युगनद्धं तदुच्यते ॥ ५.१३ ॥ तथातलम्बनं नैव व्युत्थानं यत्र नैव हि । युगनद्धं भवेत्तच्च योगिनां पदमव्ययम् ॥ ५.१४ ॥ सुप्तः प्रबुद्ध इत्येतदवस्थाद्वयवर्जितम् । युगनद्धं वदेच्छास्ता स्वापबोधविवर्जितम् ॥ ५.१५ ॥ समाधानासमाधानं यस्य नास्त्येव सर्वथा । युगनद्धे स्थितो योगी भावाभावविवर्जितः ॥ ५.१६ ॥ अस्मृतिस्मृतिनिर्मुक्तः सततोदयलक्षणः । विचरेदिच्छया योगी युगनद्धक्रमे स्थितः ॥ ५.१७ ॥ रागारागविनिर्मुक्तः परमानन्दमूर्तिमान् । आसंसारं स्थितिं कुर्याद्युगनद्धविभावकः ॥ ५.१८ ॥ कार्यं च कारणं चैव कृत्वाभिन्नंस्वभावतः । या स्थितिर्योगिनां बुद्धा युगनद्धं वदन्ति तत् ॥ ५.१९ ॥ उत्पत्तिक्रम एकोऽयमुत्पन्नक्रम इत्यपि । एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते ॥ ५.२० ॥ देवता परिशुद्धेयमशुद्धेयं भवेदिति । इति या कल्पनाभिन्ना यत्र तद्युगनद्धकम् ॥ ५.२१ ॥ रूपीति चाप्यरूपीति कल्पनाद्वयवर्जनात् । यःशान्तिं वेत्ति योगीन्द्रः स प्राप्तो युगनद्धकम् ॥ ५.२२ ॥ एवं वै यः स्थितो योगी युगनद्धक्रमे स्थितः । उच्यते स हि सर्वज्ञः तत्त्वदर्शी च विश्वधृक् ॥ ५.२३ ॥ मायाजालाभिसम्बुद्धः संसारार्णवपारगः । कृतकृत्यो महायोगी सत्यद्वयनये स्थितः ॥ ५.२४ ॥ एतदेवाद्वयं ज्ञानमप्रतिष्ठितनिर्वृतिः । बुद्धत्वं वज्रसत्त्वत्वं सर्वैश्वर्यं तथैव च ॥ ५.२५ । वज्रोपमसमाधिस्तु निष्पन्नक्रम एव च । वज्रोपमसमाधिश्चाप्यद्वयं तच्च कथ्यते ॥ ५.२६ ॥ अनुत्पादादयः शब्दा अद्वयज्ञानसूचकाः । अस्यैव वाचकाः सर्वे नान्यत्तत्राभिधीयते ॥ ५.२७ ॥ महामुद्रात्मिकां सिद्धिं सदसत्पक्षवर्जिताम् । अनेनैव गता बुद्धा गङ्गायाः सिकतोपमाः ॥ ५.२८ ॥ घटमानो महायोगी युगनद्धपदे स्थितः । भावयेद्युगनद्धं तु चर्यां चापि तदन्वयाम् ॥ ५.२९ ॥ यथात्मनि तथा शत्रौ यथा भार्या तथात्मजा । यथा माता तथा वैश्या यथा डोम्बी तथा द्विजा ॥ ५.३० ॥ यथा वस्त्रं तथा चर्म यथा रत्नं तथा तुषम् । यथा मूत्रं तथा मद्यं यथा भक्तं तथा शकृत् ॥ ५.३१ ॥ यथा सुगन्धि कर्पूरं तथा गन्धममेध्यजम् । यथा स्तुतिकरं वाक्यं तथा वाक्यं जुगुप्सितम् ॥ ५.३२ ॥ यथा रुद्रस्तथा वज्री यथा रात्रीस्तथा दिवा । यथा स्वप्नं तथा दृष्टं यथा नष्टं तथा स्थितम् ॥ ५.३३ ॥ यथा सौख्यं तथा दुःखं यथा दुष्टस्तथा सुतः । यथावीचिस्तथा स्वर्गस्तथा पुण्यं तु पापकम् ॥ ५.३४ ॥ एवं ज्ञात्वा चरेद्ज्ञानी निर्विशङ्कस्तु सर्वकृत् । प्रच्छन्नव्रतमासाद्य सिध्यन्ते सर्वसम्पदः ॥ ५.३५ ॥ प्रकाश्य पुण्यं यत्प्राप्तं पञ्चक्रममनुत्तरम् । अनेन क्रीडतां लोको युगनद्धसमाधिना ॥ इति ॥ ५.३६ ॥ युगनद्धक्रमः पञ्चमः समाप्तः ॥ कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य श्लोकाः पञ्चत्रिंशत् । ॥ पञ्चक्रमः समाप्तः ॥ प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते । युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः ॥ (पञ्चक्रमः, ५-७) अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धधीरधिवीचिसञ्चयगतप्रालेयपादोपमः । श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥ (सुभाषितरत्नकोशे विद्याकरः) न सत्या नासत्या न च तदुभयी नाप्यनुभयी निरुल्लेखा सर्वाकृतिवरमयी मध्यमकधीः । जिनः शास्ता सैव स्थिर-चलजगत्तत्त्वमपि सा स्वसंवित्तिर्देवी जयति सुखवज्रप्रणयिनी ॥ (अमृतकणिकाभिधायां नामसंगीतिटिकायाम्, रविश्रीः) ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ शुभमस्तु