नागार्जुन कृत मध्यमकशास्त्रम् । १ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥ १.१ ॥ यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् । देशयामास संबुद्धस्तं वन्दे वदतां वरम् ॥ १.२ ॥ न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्कचन केचन ॥ १.३ ॥ चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १.४ ॥ न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । अविद्यमाने स्वभावे परभावो न विद्यते ॥ १.५ ॥ क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया । प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥ १.६ ॥ उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल । यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् ॥ १.७ ॥ नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते । असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥ १.८ ॥ न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा । कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ १.९ ॥ अनालम्बन एवायं सन् धर्म उपदिश्यते । अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥ १.१० ॥ अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते । नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः ॥ १.११ ॥ भावानां निःस्वभावानां न सत्ता विद्यते यतः । सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ १.१२ ॥ न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् । प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥ १.१३ ॥ अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते । अप्रत्ययेभ्योऽपि कस्मात्फलं नाभिप्रवर्तते ॥ १.१४ ॥ फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः । फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ १.१५ ॥ तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम् । संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः ॥ १.१६ ॥ _______________________________________________________________________ २ गतागतपरीक्षा द्वितीयं प्रकरणम् । गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २.१ ॥ चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः । न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २.२ ॥ गम्यमानस्य गमनं कथं नामोपपत्स्यते । गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥ २.३ ॥ गम्यमानस्य गमनं यस्य तस्य प्रसज्यते । ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २.४ ॥ गम्यमानस्य गमने प्रसक्तं गमनद्वयम् । येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २.५ ॥ द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये । गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २.६ ॥ गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते । गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २.७ ॥ गन्ता न गच्छति तावदगन्ता नैव गच्छति । अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥ २.८ ॥ गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २.९ ॥ पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते । गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ २.१० ॥ गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति । गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥ २.११ ॥ गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते । नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥ २.१२ ॥ न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् । यत्रारभ्येत गमनमगते गमनं कुतः ॥ २.१३ ॥ गतं किं गम्यमानं किमगतं किं विकल्प्यते । अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ २.१४ ॥ गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति । अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥ २.१५ ॥ गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २.१६ ॥ न तिष्ठति गम्यमानान्न गतान्नागतादपि । गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ २.१७ ॥ यदेव गमनं गन्ता स एवेति न युज्यते । अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ २.१८ ॥ यदेव गमनं गन्ता स एव हि भवेद्यदि । एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥ २.१९ ॥ अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते । गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥ २.२० ॥ एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः । न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ २.२१ ॥ गत्या ययोच्यते गन्ता गतिं तां स न गच्छति । यस्मान्न गतिपूर्वोऽस्ति कश्चित्किंचिद्धि गच्छति ॥ २.२२ ॥ गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति । गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥ २.२३ ॥ सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति । नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २.२४ ॥ गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति । तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २.२५ ॥ _______________________________________________________________________ ३ चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् । दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः । इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥ ३.१ ॥ स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति । न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ ३.२ ॥ न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये । सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥ ३.३ ॥ नापश्यमानं भवति यदा किंचन दर्शनम् । दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ ३.४ ॥ पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् । व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् ॥ ३.५ ॥ तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् । द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥ ३.६ ॥ प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः । चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः ॥ ३.७ ॥ द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् । नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम् ॥ ३.८ ॥ व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः । दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥ ३.९ ॥ _______________________________________________________________________ ४ स्कन्धपरीक्षा चतुर्थं प्रकरणम् । रूपकारणनिर्मुक्तं न रूपमुपलभ्यते । रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ ४.१ ॥ रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते । आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥ ४.२ ॥ रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् । अकार्यकं कारणं स्यात्नास्त्यकार्यं च कारणम् ॥ ४.३ ॥ रूपे सत्येव रूपस्य कारणं नोपपद्यते । रूपेऽसत्येव रूपस्य कारणं नोपपद्यते ॥ ४.४ ॥ निष्कारणं पुना रूपं नैव नैवोपपद्यते । तस्मात्रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥ ४.५ ॥ न कारणस्य सदृशं कार्यमित्युपपद्यते । न कारणस्यासदृशं कार्यमित्युपपद्यते ॥ ४.६ ॥ वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः । सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥ ४.७ ॥ विग्रहे यः परीहारं कृते शून्यतया वदेत् । सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ ४.८ ॥ व्याख्याने य उपालम्भं कृते शून्यतया वदेत् । सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ४.९ ॥ _______________________________________________________________________ ५ धातुपरीक्षा पञ्चमं प्रकरणम् । नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ ५.१ ॥ अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित् । असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥ ५.२ ॥ नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे । सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ ५.३ ॥ लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते । लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ ५.४ ॥ तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते । लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥ ५.५ ॥ अविद्यमाने भावे च कस्याभावो भविष्यति । भावाभावविधर्मा च भावाभावमवैति कः ॥ ५.६ ॥ तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् । आकाशमाकाशसमा धातवः पञ्च ये परे ॥ ५.७ ॥ अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः । भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ५.८ ॥ _______________________________________________________________________ ६ रागरक्तपरीक्षा षष्ठं प्रकरणम् । रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः । तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥ ६.१ ॥ रक्तेऽसति पुना रागः कुत एव भविष्यति । सति वासति वा रागे रक्तेऽप्येष समः क्रमः ॥ ६.२ ॥ सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः । भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ ६.३ ॥ नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह । पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ ६.४ ॥ एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः । पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥ ६.५ ॥ पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः । सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥ ६.६ ॥ सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः । सहभावं किमर्थं तु परिकल्पयसे तयोः ॥ ६.७ ॥ पृथङ्न सिध्यतीत्येवं सहभावं विकाङ्क्षसि । सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥ ६.८ ॥ पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति । कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ ६.९ ॥ एवं रक्तेन रागस्य सिद्धिर्न सह नासह । रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ ६.१० ॥ _______________________________________________________________________ ७ संस्कृतपरीक्षा सप्तमं प्रकरणम् । यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी । अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ ७.१ ॥ उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि । संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ ७.२ ॥ उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् । अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥ ७.३ ॥ उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् । उत्पादोत्पादमुत्पादो मौलो जनयते पुनः ॥ ७.४ ॥ उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि । मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ ७.५ ॥ स ते मौलेन जनितो मौलं जनयते यदि । मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥ ७.६ ॥ अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् । यदीममुत्पादयितुमजातः शक्नुयादयम् ॥ ७.७ ॥ प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा । उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥ ७.८ ॥ प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः । किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥ ७.९ ॥ कथमुत्पद्यमानेन प्रदीपेन तमो हतम् । नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ ७.१० ॥ अप्राप्यैव प्रदीपेन यदि वा निहतं तमः । इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ ७.११ ॥ प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि । तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ ७.१२ ॥ अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् । अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ ७.१३ ॥ नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन । उत्पद्यते तथाख्यातं गम्यमानगतागतैः ॥ ७.१४ ॥ उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा । कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ ७.१५ ॥ प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः । तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥ ७.१६ ॥ यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् । उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति ॥ ७.१७ ॥ उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् । उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥ ७.१८ ॥ अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः । अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥ ७.१९ ॥ सतश्च तावदुत्पत्तिरसतश्च न युज्यते । न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥ ७.२० ॥ निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७.२१ ॥ न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति । न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥ ७.२२ ॥ स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७.२३ ॥ जरामरणधर्मेषु सर्वभावेषु सर्वदा । तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ ७.२४ ॥ स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते । उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७.२५ ॥ निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते । तथापि निरुध्यमानं किमजातं निरुध्यते ॥ ७.२६ ॥ स्थितस्य तावद्भावस्य निरोधो नोपपद्यते । नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ ७.२७ ॥ तयैवावस्थयावस्था न हि सैव निरुध्यते । अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ ७.२८ ॥ यदैवं सर्वधर्माणामुत्पादो नोपपद्यते । तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ ७.२९ ॥ सतश्च तावद्भावस्य निरोधो नोपपद्यते । एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ७.३० ॥ असतोऽपि न भावस्य निरोध उपपद्यते । न द्वितीयस्य शिरसच्छेदनं विद्यते यथा ॥ ७.३१ ॥ न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना । उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७.३२ ॥ उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् । संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ ७.३३ ॥ यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥ ७.३४ ॥ _______________________________________________________________________ ८ कर्मकारकपरीक्षा अष्टमं प्रकरणम् । सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् । कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ ८.१ ॥ सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् । सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ ८.२ ॥ करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः । अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ८.३ ॥ हेतावसति कार्यं च कारणं च न विद्यते । तदभावे क्रिया कर्ता करणं च न विद्यते ॥ ८.४ ॥ धर्माधर्मौ न विद्येते क्रियादीनामसंभवे । धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ८.५ ॥ फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ८.६ ॥ कारकः सदसद्भूतः सदसत्कुरुते न तत् । परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥ ८.७ ॥ सता च क्रियते नासन्नासता क्रियते च सत् । कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८.८ ॥ नासद्भूतं न सद्भूतः सदसद्भूतमेव वा । करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८.९ ॥ नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा । करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः ॥ ८.१० ॥ करोति सदसद्भूतो न सन्नासच्च कारकः । कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ ८.११ ॥ प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् । कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥ ८.१२ ॥ एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः । कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ ८.१३ ॥ _______________________________________________________________________ ९ पूर्वपरीक्षा नवमं प्रकरणम् । दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत ॥ ९.१ ॥ कथं ह्यविद्यमानस्य दर्शनादि भविष्यति । भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः ॥ ९.२ ॥ दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च । यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः ॥ ९.३ ॥ विनापि दर्शनादीनि यदि चासौ व्यवस्थितः । अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ ९.४ ॥ अज्यते केनचित्कश्चित्किंचित्केनचिदज्यते । कुतः किंचिद्विना कश्चित्किंचित्कंचिद्विना कुतः ॥ ९.५ ॥ सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते । अज्यते दर्शनादीनामन्येन पुनरन्यदा ॥ ९.६ ॥ सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते । एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते ॥ ९.७ ॥ द्रष्टा स एव स श्रोता स एव यदि वेदकः । एकैकस्माद्भवेत्पूर्वमेवं चैतन्न युज्यते ॥ ९.८ ॥ द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि । सति स्याद्द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥ ९.९ ॥ दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥ ९.१० ॥ दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥ ९.११ ॥ प्राक्च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च । न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ ९.१२ ॥ _______________________________________________________________________ १० अग्नीन्धनपरीक्षा दशमं प्रकरणम् । यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः । अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥ १०.१ ॥ नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः । पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ १०.२ ॥ परत्र निरपेक्षत्वादप्रदीपनहेतुकः । पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥ १०.३ ॥ तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् । केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥ १०.४ ॥ अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनः । न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥ १०.५ ॥ अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि । स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥ १०.६ ॥ अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् । अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥ १०.७ ॥ यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् । कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥ १०.८ ॥ यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् । एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥ १०.९ ॥ योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति । यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥ १०.१० ॥ योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम् । अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥ १०.११ ॥ अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम् । अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥ १०.१२ ॥ आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते । अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः ॥ १०.१३ ॥ इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् । नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥ १०.१४ ॥ अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः । सर्वो निरवशेषेण सार्धं घटपटादिभिः ॥ १०.१५ ॥ आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् । निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥ १०.१६ ॥ _______________________________________________________________________ ११ पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् । पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः । संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥ ११.१ ॥ नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् । तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥ ११.२ ॥ पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् । निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥ ११.३ ॥ पश्चाज्जातिर्यदि भवेज्जरामरणमादितः । अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥ ११.४ ॥ न जरामरणेनैव जातिश्च सह युज्यते । म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥ ११.५ ॥ यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः । प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥ ११.६ ॥ कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च । वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥ ११.७ ॥ पूर्वा न विद्यते कोटिः संसारस्य न केवलम् । सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥ ११.८ ॥ _______________________________________________________________________ १२ दुःखपरीक्षा द्वादशमं प्रकरणम् । स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ १२.१ ॥ स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् । स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ १२.२ ॥ यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि । भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥ १२.३ ॥ स्वपुद्नलकृतं दुःखं यदि दुःखं पुनर्विना । स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ १२.४ ॥ परपुद्गलजं दुःखं यदि यस्मै प्रदीयते । परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥ १२.५ ॥ परपुद्गलजं दुःखं यदि कः परपुद्गलः । विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ १२.६ ॥ स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः । परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥ १२.७ ॥ न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् । परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ १२.८ ॥ स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि । पराकारास्वयंकारं दुःखमहेतुकं कुतः ॥ १२.९ ॥ न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते । बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ १२.१० ॥ _______________________________________________________________________ १३ संस्कारपरीक्षा त्रयोदशमं प्रकरणम् । तन्मृषा मोषधर्म यद्भगवानित्यभाषत । सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १३.१ ॥ तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते । एतत्तूक्तं भगवता शून्यतापरिदीपकम् ॥ १३.२ ॥ भावानां निःस्वभावत्वमन्यथाभावदर्शनात् । अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥ १३.३ ॥ कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते । कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ १३.४ ॥ तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते । युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ १३.५ ॥ तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि । क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥ १३.६ ॥ यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन । न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ १३.७ ॥ शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः । येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥ १३.८ ॥ _______________________________________________________________________ १४ संसर्गपरीक्षा चतुर्दशमं प्रकरणम् । द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः । सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत ॥ १४.१ ॥ एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् । त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥ १४.२ ॥ अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते । द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥ १४.३ ॥ न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते । कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥ १४.४ ॥ अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः । यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥ १४.५ ॥ यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् । तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥ १४.६ ॥ नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते । अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ १४.७ ॥ न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते । संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ १४.८ ॥ _______________________________________________________________________ १५ स्वभावपरीक्षा पञ्चदशमं प्रकरणम् । न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः । हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १५.१ ॥ स्वभावः कृतको नाम भविष्यति पुनः कथम् । अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ १५.२ ॥ कुतः स्वभावस्याभावे परभावो भविष्यति । स्वभावः परभावस्य परभावो हि कथ्यते ॥ १५.३ ॥ स्वभावपरभावाभ्यामृते भावः कुतः पुनः । स्वभावे परभावे वा सति भावो हि सिध्यति ॥ १५.४ ॥ भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ १५.५ ॥ स्वभावं परभावं च भावं चाभावमेव च । ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ १५.६ ॥ कात्यायनाववादे चास्तीति नास्तीति चोभयम् । प्रतिषिद्धं भगवता भावाभावविभाविना ॥ १५.७ ॥ यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता । प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥ १५.८ ॥ प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति । प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति ॥ १५.९ ॥ अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् । तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥ १५.१० ॥ अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् । नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥ १५.११ ॥ _______________________________________________________________________ १६ बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् । संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते । संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः ॥ १६.१ ॥ पुद्गलः संसरति चेत्स्कन्धायतनधातुषु । पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति ॥ १६.२ ॥ उपादानादुपादानं संसरन् विभवो भवेत् । विभवश्चानुपादानः कः स किं संसरिष्यति ॥ १६.३ ॥ संस्काराणां न निर्वाणं कथंचिदुपपद्यते । सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥ १६.४ ॥ न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः । संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ १६.५ ॥ बन्धनं चेदुपादानं सोपादानो न बध्यते । बध्यते नानुपादानः किमवस्थोऽथ बध्यते ॥ १६.६ ॥ बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि । न चास्ति तत्शेषमुक्तं गम्यमानगतागतैः ॥ १६.७ ॥ बद्धो न मुच्यते तावदबद्धो नैव मुच्यते । स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥ १६.८ ॥ निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति । इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥ १६.९ ॥ न निर्वाणसमारोपो न संसारापकर्षणम् । यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥ १६.१० ॥ _______________________________________________________________________ १७ कर्मफलपरीक्षा सप्तदशमं प्रकरणम् । आत्मसंयमकं चेतः परानुग्राहकं च यत् । मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च ॥ १७.१ ॥ चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा । तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ १७.२ ॥ तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् । चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥ १७.३ ॥ वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः । अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥ १७.४ ॥ परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् । चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ १७.५ ॥ तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् । निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति ॥ १७.६ ॥ योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते । ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥ १७.७ ॥ बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः । बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७.८ ॥ यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते । ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥ १७.९ ॥ चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः । कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७.१० ॥ धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश । फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ १७.११ ॥ बहवश्च महान्तश्च दोषाः स्युरपि कल्पना । यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १७.१२ ॥ इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते । बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ १७.१३ ॥ पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च । चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ १७.१४ ॥ प्रहाणतो न प्रहेयो भावनाहेय एव वा । तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥ १७.१५ ॥ प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा । यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥ १७.१६ ॥ सर्वेषां विषभागानां सभागानां च कर्मणाम् । प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः ॥ १७.१७ ॥ कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः । द्विप्रकारस्य सर्वस्य विपक्केऽपि च तिष्ठति ॥ १७.१८ ॥ फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते । अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥ १७.१९ ॥ शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् । कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥ १७.२० ॥ कर्म नोत्पद्यते कस्मात्निःस्वभावं यतस्ततः । यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति ॥ १७.२१ ॥ कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् । अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥ १७.२२ ॥ अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि । अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ १७.२३ ॥ व्यवहारा विरुध्यन्ते सर्व एव न संशयः । पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥ १७.२४ ॥ तद्विपक्वविपाकं च पुनरेव विपक्ष्यति । कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥ १७.२५ ॥ कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः । न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥ १७.२६ ॥ कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः । कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ १७.२७ ॥ अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः । स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ १७.२८ ॥ न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् । अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥ १७.२९ ॥ कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् । असत्यथ फले भोक्ता कुत एव भविष्यति ॥ १७.३० ॥ यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा । निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥ १७.३१ ॥ तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् । तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥ १७.३२ ॥ क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च । गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ १७.३३ ॥ _______________________________________________________________________ १८ आत्मपरीक्षा अष्टादशमं प्रकरणम् । आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः ॥ १८.१ ॥ आत्मन्यसति चात्मीयं कुत एव भविष्यति । निर्ममो निरहंकारः शमादात्मात्मनीनयोः ॥ १८.२ ॥ निर्ममो निरहंकारो यश्च सोऽपि न विद्यते । निर्ममं निरहंकारं यः पश्यति न पश्यति ॥ १८.३ ॥ ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च । निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः ॥ १८.४ ॥ कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः । ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥ १८.५ ॥ आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् । बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ १८.६ ॥ निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे । अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ १८.७ ॥ सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च । नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम् ॥ १८.८ ॥ अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ १८.९ ॥ प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १८.१० ॥ अनेकार्थमनानार्थमनुच्छेदमशाश्वतम् । एतत्तल्लोकनाथानां बुद्धानां शासनामृतम् ॥ १८.११ ॥ संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये । ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते ॥ १८.१२ ॥ _______________________________________________________________________ १९ कालपरीक्षा एकोनविंशतितमं प्रकरणम् । प्रत्युत्पन्नोऽनागतश्च यद्यतीतमपेक्ष्य हि । प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यतः ॥ १९.१ ॥ प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि । प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥ १९.२ ॥ अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः । प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते ॥ १९.३ ॥ एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ । उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ॥ १९.४ ॥ नास्थितो गृह्यते कालः स्थितः कालो न विद्यते । यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम् ॥ १९.५ ॥ भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः । न च कश्चन भावोऽस्ति कुतः कालो भविष्यति ॥ १९.६ ॥ _______________________________________________________________________ २० सामग्रीपरीक्षा विंशतितमं प्रकरणम् । हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि । फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.१ ॥ हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि । फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.२ ॥ हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् । गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ २०.३ ॥ हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् । हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः ॥ २०.४ ॥ हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते । यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् ॥ २०.५ ॥ हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते । हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् ॥ २०.६ ॥ फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः । एककालौ प्रसज्येते जनको यश्च जन्यते ॥ २०.७ ॥ पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि । हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् ॥ २०.८ ॥ निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् । पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥ २०.९ ॥ जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम् । तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः ॥ २०.१० ॥ अथावृतः फलेनासौ कतमज्जनयेत्फलम् । न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम् ॥ २०.११ ॥ नातीतस्य ह्यतीतेन फलस्य सह हेतुना । नाजातेन न जातेन संगतिर्जातु विद्यते ॥ २०.१२ ॥ न जातस्य ह्यजातेन फलस्य सह हेतुना । नातीतेन न जातेन संगतिर्जातु विद्यते ॥ २०.१३ ॥ नाजातस्य हि जातेन फलस्य सह हेतुना । नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ २०.१४ ॥ असत्यां संगतौ हेतुः कथं जनयते फलम् । सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ २०.१५ ॥ हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् । हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम् ॥ २०.१६ ॥ फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते । अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति ॥ २०.१७ ॥ कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते । शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥ २०.१८ ॥ हेतोः फलस्य चैकत्वं न हि जातूपपद्यते । हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ २०.१९ ॥ एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः । पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना ॥ २०.२० ॥ फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति । फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति ॥ २०.२१ ॥ न चाजनयमानस्य हेतुत्वमुपपद्यते । हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ २०.२२ ॥ न च प्रत्ययहेतूनामियमात्मानमात्मना । या सामग्री जनयते सा कथं जनयेत्फलम् ॥ २०.२३ ॥ न सामग्रीकृतं फलं नासामग्रीकृतं फलम् । अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २०.२४ ॥ _______________________________________________________________________ २१ संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् । विना वा सह वा नास्ति विभवः संभवेन वै । विना वा सह वा नास्ति संभवो विभवेन वै ॥ २१.१ ॥ भविष्यति कथं नाम विभवः संभवं विना । विनैव जन्म मरणं विभवो नोद्भवं विना ॥ २१.२ ॥ संभवेनैव विभवः कथं सह भविष्यति । न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥ २१.३ ॥ भविष्यति कथं नाम संभवो विभवं विना । अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥ २१.४ ॥ संभवो विभवेनैव कथं सह भविष्यति । न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥ २१.५ ॥ सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः । न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ २१.६ ॥ क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः । क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ २१.७ ॥ संभवो विभवश्चैव विना भावं न विद्यते । संभवं विभवं चैव विना भावो न विद्यते ॥ २१.८ ॥ संभवो विभवश्चैव न शून्यस्योपपद्यते । संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ २१.९ ॥ संभवो विभवश्चैव नैक इत्युपपद्यते । संभवो विभवश्चैव न नानेत्युपपद्यते ॥ २१.१० ॥ दृश्यते संभवश्चैव विभवश्चैव ते भवेत् । दृश्यते संभवश्चैव मोहाद्विभव एव च ॥ २१.११ ॥ न भावाज्जायते भावो भावोऽभावान्न जायते । नाभावाज्जायतेऽभावोऽभावो भावान्न जायते ॥ २१.१२ ॥ न स्वतो जायते भावः परतो नैव जायते । न स्वतः परतश्चैव जायते, जायते कुतः ॥ २१.१३ ॥ भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् । प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत् ॥ २१.१४ ॥ भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् । उदयव्ययसंतानःफलहेत्वोर्भवः स हि ॥ २१.१५ ॥ उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् । व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥ २१.१६ ॥ सद्भावस्य स्वभावेन नासद्भावश्च युज्यते । निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः ॥ २१.१७ ॥ चरमे न निरुद्धे च प्रथमो युज्यते भवः । चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ २१.१८ ॥ निरुध्यमाने चरमे प्रथमो यदि जायते । निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत् ॥ २१.१९ ॥ न चेन्निरुध्यमानश्च जायमानश्च युज्यते । सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ २१.२० ॥ एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः । त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ २१.२१ ॥ _______________________________________________________________________ २२ तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् । स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः । तथागतः स्कन्धवान्न कतमोऽत्र तथागतः ॥ २२.१ ॥ बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः । स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ २२.२ ॥ प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते । यश्चानात्मा स च कथं भविष्यति तथागतः ॥ २२.३ ॥ यदि नास्ति स्वभावश्च परभावः कथं भवेत् । स्वभावपरभावाभ्यामृते कः स तथागतः ॥ २२.४ ॥ स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः । स इदानीमुपादद्यादुपादाय ततो भवेत् ॥ २२.५ ॥ स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः । यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ २२.६ ॥ न भवत्यनुपादत्तमुपादानं च किंचन । न चास्ति निरुपादानः कथंचन तथागतः ॥ २२.७ ॥ तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा । उपादानेन स कथं प्रज्ञप्येत तथागतः ॥ २२.८ ॥ यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते । स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥ २२.९ ॥ एवं शून्यमुपादानमुपादाता च सर्वशः । प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ २२.१० ॥ शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् । उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ २२.११ ॥ शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् । अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥ २२.१२ ॥ येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः । नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ २२.१३ ॥ स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते । परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ २२.१४ ॥ प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् । ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ २२.१५ ॥ तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् । तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ २२.१६ ॥ _______________________________________________________________________ २३ विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् । संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते । शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ २३.१ ॥ शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये । ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ २३.२ ॥ आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः । तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ २३.३ ॥ कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति । कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ २३.४ ॥ स्वकायदृष्टिवत्क्लेशाः क्लिष्टे सन्ति न पञ्चधा । स्वकायदृष्टिवत्क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥ २३.५ ॥ स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः । प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥ २३.६ ॥ रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् । वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥ २३.७ ॥ रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः । गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ २३.८ ॥ अशुभं वा शुभं वापि कुतस्तेषु भविष्यति । मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ २३.९ ॥ अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि । यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ २३.१० ॥ अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि । यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ २३.११ ॥ अविद्यमाने च शुभे कुतो रागो भविष्यति । अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ २३.१२ ॥ अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः । नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ २३.१३ ॥ अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः । अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ २३.१४ ॥ येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते । उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥ २३.१५ ॥ अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा । भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः ॥ २३.१६ ॥ न चापि विपरीतस्य संभवन्ति विपर्ययाः । न चाप्यविपरीतस्य संभवन्ति विपर्ययाः ॥ २३.१७ ॥ न विपर्यस्यमानस्य संभवन्ति विपर्ययाः । विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः ॥ २३.१८ ॥ अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः । विपर्ययेष्वजातेषु विपर्ययगतः कुतः ॥ २३.१९ ॥ न स्वतो जायते भावः परतो नैव जायते । न स्वतः परतश्चेति विपर्ययगतः कुतः ॥ २३.२० ॥ आत्मा च शुचि नित्यं च सुखं च यदि विद्यते । आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥ २३.२१ ॥ नात्मा च शुचि नित्यं च सुखं च यदि विद्यते । अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते ॥ २३.२२ ॥ एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् । अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ २३.२३ ॥ यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् । कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥ २३.२४ ॥ यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् । कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ २३.२५ ॥ _______________________________________________________________________ २४ आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् । यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः । चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ २४.१ ॥ परिज्ञा च प्रहाणं च भावना साक्षिकर्म च । चतुर्णामार्यसत्यानामभावान्नोपपद्यते ॥ २४.२ ॥ तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च । फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ॥ २४.३ ॥ संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः । अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ॥ २४.४ ॥ धर्मे चासति संघे च कथं बुद्धो भविष्यति । एवं त्रीण्यपि रत्नानि ब्रूवाणः प्रतिबाधसे ॥ २४.५ ॥ शून्यतां फलसद्भावमधर्मं धर्ममेव च । सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥ २४.६ ॥ अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् । शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ २४.७ ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ २४.८ ॥ येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः । ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने ॥ २४.९ ॥ व्यवहारमनाश्रित्य परमार्थो न देश्यते । परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥ २४.१० ॥ विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् । सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥ २४.११ ॥ अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः । धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् ॥ २४.१२ ॥ शून्यतायामधिलयं यं पुनः कुरुते भवान् । दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥ २४.१३ ॥ सर्वं च युज्यते तस्य शून्यता यस्य युज्यते । सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ २४.१४ ॥ स त्वं दोषानात्मनीनानस्मासु परिपातयन् । अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः ॥ २४.१५ ॥ स्वभावाद्यदि भावानां सद्भावमनुपश्यसि । अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥ २४.१६ ॥ कार्यं च कारणं चैव कर्तारं करणं क्रियाम् । उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥ २४.१७ ॥ यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ २४.१८ ॥ अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते । यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते ॥ २४.१९ ॥ यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः । चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ २४.२० ॥ अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति । अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते ॥ २४.२१ ॥ स्वभावतो विद्यमानं किं पुनः समुदेष्यते । तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः ॥ २४.२२ ॥ न निरोधः स्वभावेन सतो दुःखस्य विद्यते । स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥ २४.२३ ॥ स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते । अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥ २४.२४ ॥ यदा दुःखं समुदयो निरोधश्च न विद्यते । मार्गो दुःखनिरोधत्वात्कतमः प्रापयिष्यति ॥ २४.२५ ॥ स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् । परिज्ञानं ननु किल स्वभावः समवस्थितः ॥ २४.२६ ॥ प्रहाणसाक्षात्करणे भावना चैवमेव ते । परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ॥ २४.२७ ॥ स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् । शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः ॥ २४.२८ ॥ फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः । संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः ॥ २४.२९ ॥ अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते । धर्मे चासति संघे च कथं बुद्धो भविष्यति ॥ २४.३० ॥ अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते । अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥ २४.३१ ॥ यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि । न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति ॥ २४.३२ ॥ न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति । किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥ २४.३३ ॥ विना धर्ममधर्मं च फलं हि तव विद्यते । धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥ २४.३४ ॥ धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् । धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥ २४.३५ ॥ सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे । यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥ २४.३६ ॥ न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया । कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः ॥ २४.३७ ॥ अजातमनिरुद्धं च कूटस्थं च भविष्यति । विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् ॥ २४.३८ ॥ असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च । सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥ २४.३९ ॥ यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति । दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ २४.४० ॥ _______________________________________________________________________ २५ निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् । यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः । प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५.१ ॥ यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः । प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ २५.२ ॥ अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् । अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते ॥ २५.३ ॥ भावस्तावन्न निर्वाणं जरामरणलक्षणम् । प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ २५.४ ॥ भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् । नासंस्कृतो हि विद्यते भावः क्वचन कश्चन ॥ २५.५ ॥ भावश्च यदि निर्वाणमनुपादाय तत्कथम् । निर्वाणं नानुपादाय कश्चिद्भावो हि विद्यते ॥ २५.६ ॥ यदि भावो न निर्वाणमभावः किं भविष्यति । निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ २५.७ ॥ यद्यभावश्च निर्वाणमनुपादाय तत्कथम् । निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ २५.८ ॥ य आजवंजवीभाव उपादाय प्रतीत्य व । सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते ॥ २५.९ ॥ प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च । तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ २५.१० ॥ भवेदभावो भावश्च निर्वाणमुभयं यदि । भवेदभावो भावश्च मोक्षस्तच्च न युज्यते ॥ २५.११ ॥ भवेदभावो भावश्च निर्वाणमुभयं यदि । नानुपादाय निर्वाणमुपादायोभयं हि तत् ॥ २५.१२ ॥ भवेदभावो भावश्च निर्वाणमुभयं कथम् । असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ ॥ २५.१३ ॥ भवेदभावो भावश्च निर्वाणे उभयं कथम् । [तयोरेकत्र नास्तित्वमालोकतमसोर्यथा] ॥ २५.१४ ॥ नैवाभावो नैव भावो निर्वाणमिति याञ्जना । अभावे चैव भावे च सा सिद्धे सति सिध्यति ॥ २५.१५ ॥ नैवाभावो नैव भावो निर्वाणं यदि विद्यते । नैवाभावो नैव भाव इति केन तदज्यते ॥ २५.१६ ॥ परं निरोधाद्भगवान् भवतीत्येव नोह्यते । न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ २५.१७ ॥ तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते । न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ २५.१८ ॥ न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् । न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम् ॥ २५.१९ ॥ निर्वाणस्य च या कोटिः कोटिः संसरणस्य च । न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते ॥ २५.२० ॥ परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः । निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः ॥ २५.२१ ॥ शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् । किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् ॥ २५.२२ ॥ किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् । अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः ॥ २५.२३ ॥ सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः । न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः ॥ २५.२४ ॥ _______________________________________________________________________ २६ द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् । पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा । अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥ २६.१ ॥ विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ । संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते ॥ २६.२ ॥ निषिक्ते नामरूपे तु षडायतनसंभवः । षडायतनमागम्य संस्पर्शः संप्रवर्तते ॥ २६.३ ॥ चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च । नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ २६.४ ॥ संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् । स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥ २६.५ ॥ वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते । तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ २६.६ ॥ उपादाने सति भव उपादातुः प्रवर्तते । स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥ २६.७ ॥ पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते । जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ २६.८ ॥ दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते । केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ २६.९ ॥ संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः । अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ २६.१० ॥ अविद्यायां निरुद्धायां संस्काराणामसंभवः । अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥ २६.११ ॥ तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते । दुःखस्कन्धः केवलोऽयमेवं सम्यङ्निरुध्यते ॥ २६.१२ ॥ _______________________________________________________________________ २७ दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् । अभूमतीतमध्वानं नाभूमिति च दृष्टयः । यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ २७.१ ॥ दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि । भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २७.२ ॥ अभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ २७.३ ॥ स एवात्मेति तु भवेदुपादानं विशिष्यते । उपादानविनिर्मुक्त आत्मा ते कतमः पुनः ॥ २७.४ ॥ उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति । स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः ॥ २७.५ ॥ न चोपादानमेवात्मा व्येति तत्समुदेति च । कथं हि नामोपादानमुपादाता भविष्यति ॥ २७.६ ॥ अन्यः पुनरुपादानादात्मा नैवोपपद्यते । गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ २७.७ ॥ एवं नान्य उपादानान्न चोपादानमेव सः । आत्मा नास्त्यनुपादानः नापि नास्त्येष निश्चयः ॥ २७.८ ॥ नाभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ २७.९ ॥ यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् । तथैव च स संतिष्ठेत्तत्र जायेत वामृतः ॥ २७.१० ॥ उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् । अन्येन परिभोगः स्यादेवमादि प्रसज्यते ॥ २७.११ ॥ नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते । कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ २७.१२ ॥ एवं दृष्टिरतीते या नाभूमहमभूमहम् । उभयं नोभयं चेति नैषा समुपपद्यते ॥ २७.१३ ॥ अध्वन्यनागते किं नु भविष्यामीति दर्शनम् । न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ २७.१४ ॥ स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् । अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् ॥ २७.१५ ॥ देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् । देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ॥ २७.१६ ॥ दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः । अशाश्वतं शाश्वतं च भवेतच्च न युज्यते ॥ २७.१७ ॥ अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि । सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि ॥ २७.१८ ॥ कुतश्चिदागतः कश्चित्किंचिद्नच्छेत्पुनः क्वचित् । यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः ॥ २७.१९ ॥ नास्ति चेच्छाश्वतः कश्चित्को भविष्यत्यशाश्वतः । शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ २७.२० ॥ अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् । अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् ॥ २७.२१ ॥ स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव । प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ २७.२२ ॥ पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २७.२३ ॥ पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदथ ॥ २७.२४ ॥ अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् । स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २७.२५ ॥ कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ २७.२६ ॥ उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७.२७ ॥ अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि । सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ २७.२८ ॥ अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः । क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ २७.२९ ॥ सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् । अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ २७.३० ॥