क्रियासंग्रहकारिका परीक्षा गुरुशिष्याणां गुरोरध्येषणा ततः । मन्त्रसेवां गुरुः कुर्यात्ततो भूमेः परीक्षणम् ॥ १ ॥ देवतायोगयुक्तः सन्महीपूजां विधाय च । देवतोत्थापनं कृत्वा शोधयेन्मेदिनीं ततः ॥ २ ॥ यवानां रोपणं कृत्वा जाङ्गुली चापि पूजयेत् । सूत्रं संपात्य यत्नेन वास्तुनागं परीक्षयेत् ॥ ३ ॥ इष्टकालक्षणं सम्यग्ज्ञात्वादिग्रहणं ततः । सम्यगायव्ययौ ज्ञात्वा प्रासादस्य च लक्षणम् ॥ ४ ॥ देवदिक्पालवसुधाः सम्पूज्य च यथाविधि । ईतिकारोपणं कृत्वा होमं कुर्यात्प्रमोहनम् ॥ ५ ॥ वनयात्रा ततो द्वारं सम्यगुत्थापयेत्सुधीः । संस्थाप्य च शिरोदारु जुहुयादमृतानलम् ॥ ६ ॥ वज्राचार्यप्रवेशोऽस्मिन् समाधित्रयभावना । परिक्रमार्थसूत्राणां पातनं रजसामपि ॥ ७ ॥ अग्निक्रियाविधानं च पिण्डिकास्थापनं ततः । सव्यक्षणेन निष्पाद्य प्रतिमां स्थापयेत्ततः ॥ ८ ॥ चित्रकर्म वलिः पिण्डी गण्डिकालक्षणं ततः । एतेषां च प्रतिष्ठानं प्रव्रज्याग्रहणं तथा ॥ ९ ॥ लक्षणं धर्मधातूनां ध्वजानामवरोपणम् । जीर्णोद्धारोपसंहारौ पूजयेद्गणमण्डलम् ॥ १० ॥ । क्रियासंग्रहकारिका समाप्ता ॥ । कृतिरियं नागार्जुनपादानाम् ॥