नागार्जुन: भवसङ्क्रान्तिपरिकथा नमः कुमारभूताय मञ्जुश्रिये । भावान्न जायतेऽभावो नाभावादपि जायते । भाव उत्पद्द्यते नित्यं भाबो भ्रान्तिः खपुष्पवत् ॥ १ ॥ सति धर्मे नभस्तुल्ये खतुल्यं जायते परम् । प्रतीत्य सर्व खसमं भावस्तस्मादभाववान् ॥ २ ॥ स्बभावतः कर्म नास्ति हेतुर्नास्ति फलं न च । न विद्द्यत इदं सर्बं लोको नास्ति न भञ्जनम् ॥ ३ ॥ अनुत्पन्नश्च यो भावः परं (स) जनयेत्कथम् । लोकः प्रथमतोऽजातः केनापि न हि निर्मितः । सोमसिंहपुरीतुल्यो लोको भ्रम्यत्यनर्थके ॥ ४ ॥ लोको विकल्पदुत्पन्नो विकल्पश्चित्तसंभवः । चित्तं हि कायाश्रयकं तस्मात्कायो विचार्यते ॥ ५ ॥ रूपं शून्यं वेदना निःस्वभावा संज्ञा नास्ते नास्ति संस्कारभावः । भूतं हित्वा चित्तचैत्ते च नस्तस्तस्मात्कायः कल्पहीनस्वभावः ॥ ६ ॥ चित्त नास्ति न धर्मास्ते न कायो नापि धातवः । अद्वयीकरणं हीदं तत्त्वं विद्वद्भिरुच्यते ॥ ७ ॥ अनालम्बमिदं सर्वमनालम्बं प्रभाषितम् । कृत्वा मतिमनालम्बामनालम्बं समुद्धितम् ॥ ८ ॥ दानशीलक्षमावीर्यध्यानादौ सुनिषेविते । अचिरेणैव कालेन परमां बोधिमाप्स्यति ॥ ९ ॥ उपायप्रज्ञयोस्थित्वा सत्त्वांश्च करुणापयेत् । सर्वज्ञानं शिघ्रमेव लप्स्यते नहि संशयः ॥ १० ॥ नाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम् । नाभिधानात्पृथग्भूतमभिधेयं न विद्यते ॥ ११ ॥ अनामकाः सर्वधर्मा निरात्मानः प्रकीर्तिताः । इमे धर्मा अभूताश्च कल्पनायाः समुद्धिताः । कल्पना सापि शून्येयं यया शून्येति कल्पिताः ॥ १२ ॥ चक्षु पश्यति रूपाणि तत्त्ववक्त्रा यदुच्यते । मिथ्याभिमानलोकस्य सांवृतं सत्यमीरितम् ॥ १३ ॥ सामग्र्या दर्शनं यत्र प्रकाशयति नायकः । प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान् ॥ १४ ॥ न चक्षुः प्रेक्षते रूपं मनो धर्मान्न्वेत्ति च । एतत्तु परं सत्यं लोकस्य विषयो न यत् ॥ १५ ॥ चक्षुर्नास्ति न रूपञ्च दृश्यं नास्ति न मनस्क्रिया । चित्तं स्वप्नसमं भ्रान्तिः सर्वं न सदसन्न च ॥ १६ ॥ आचार्य आर्यनागार्जुनकृत भवसङ्क्रान्तिपरिकथा सम्पूर्णा ॥