प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः । तं नमाम्यसमज्ञानमचिन्त्यमनिदर्शनम् ॥ ०१ यथा त्वया महायाने धर्मनैरात्म्यमात्मना । विदितं देशितं तद्वद्धीमद्भ्यः करुणावशात् ॥ ०२ प्रत्ययेभ्यः समुत्पन्नमनुत्पन्नं त्वयोदितम् । स्वभावेन न तज्जातमिति शून्यं प्रकाशितम् ॥ ०३ यद्वच्छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः । मायामरीचिवच्चापि तथा भवसमुद्भवः ॥ ०४ मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः । यद्यजाताः सह स्वप्नैर्न स्यात्तद्दर्शनादिकम् ॥ ०५ हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः । तद्वत्प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ ०६ अस्त्येतत्कृतकं सर्वं यत्किंचिद्बाललापनम् । रिक्तमुष्टिप्रतीकाशमयथार्थप्रकाशितम् ॥ ०७ कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् । कस्य नाशादतीतं स्यादुत्पित्सुः किमपेक्षते ॥ ०८ स्वस्मान्न जायते भावः परस्मान्नोभयादपि । न सन्नासन्न सदसन् कुतः कस्योदयस्तदा ॥ ०९ अजाते न स्वभावोऽस्ति कुतः स्वस्मात्समुद्भवः । स्वभावाभावसिद्ध्यैव परस्मादप्यसंभवह् ॥ १० स्वत्वे सति परत्वं स्यात्परत्वे स्वत्वमिष्यते । आपेक्षिकी तयोः सिद्धिः पारावारमिवोदिता ॥ ११ यदा नापेक्षते किं चित्कुतः किं चित्तदा भवेत् । यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ १२ अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति । नास्तित्वे सति चास्तित्वं यत्तस्मादुभयं न सत् ॥ १३ एकत्वं च तथानेकमतीतानागतादि च । संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ १४ स्वत एव हि यो नास्ति भावः सर्वोऽस्ति कस्तदा । पर इत्युच्यते योऽयं न विना स्वस्वभावतः ॥ १५ न स्वभावोऽस्ति भावानां परभावोऽस्ति नो यदा । भावग्रहग्रहावेशः परतन्त्रोऽस्ति कस्तदा ॥ १६ आदावेव समं जाताः स्वभावेन च निर्वृताः । अनुत्पन्नाश्च तत्त्वेन तस्माद्धर्मास्त्वयोदिताः ॥ १७ निःस्वभावास्त्वया धीमन् रूपाद्याः संप्रकाशिताः । फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः ॥ १८ इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि । जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा ॥ १९ जडत्वमप्रमाणत्वमथाव्याकृततामपि । विपरीतपरिज्ञानमिन्द्रियानां त्वमूचिवान् ॥ २० अज्ञानेनावृतो येन यथावन्न प्रपद्यते । लोकस्तेन यथाभूतमिति मत्वा त्वयोदितम् ॥ २१ अस्तीति शाश्वती दृष्तिर्नास्तीत्युच्छेददर्शनम् । तेनान्तद्वयनिर्मुक्तो धर्मोऽयं देशितस्त्वया ॥ २२ चतुष्कोटिविनिर्मुक्तास्तेन धर्मास्त्वयोदिताः । विज्ञानस्याप्यविज्ञेया वाचां किमुत गोचराः ॥ २३ स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा । भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत्त्वया ॥ २४ उत्पन्नश्च स्थितो नष्टः स्वप्ने यद्वत्सुतस्तथा । न चोत्पन्नः स्थितो नष्ट उक्तो लोकोऽर्थतस्त्वया ॥ २५ कारणात्संभवो दृष्टो यथा स्वप्ने तथेतरः । संभवः सर्वभावानां विभवोऽपि मतस्तथा ॥ २६ रागादिजं यथा दुःखं संक्लेशसंसृती तथा । संभारपूरणान्मुक्तिः स्वप्नवद्भाषिता त्वया ॥ २७ जातं तथैव नो जातमागतं गतमित्यपि । बद्धो मुक्तस्तथा ज्ञानी द्वयमिच्छेन्न तत्त्ववित् ॥ २८ उत्पत्तिर्यस्य नैवास्ति तस्य का निर्वृतिर्भवेत् । मायागजप्रकाशत्वादादिशान्तत्वमर्थतः ॥ २९ उत्पन्नोऽपि न चोत्पन्नो यद्वन्मायागजो मतः । उत्पन्नं च तथा विश्वमनुत्पन्नं च तत्त्वतः ॥ ३० अमेयैरप्रमेयानां प्रत्येकं निर्वृतिः कृता । लोकनाथैर्हि सत्त्वानां न कश्चिन्मोचितश्च तैः ॥ ३१ ते च सत्त्वाश्च नो जाता ये निर्वान्ति न ते स्फुटम् । न कश्चिन्मोचितः कैश्चिदिति प्रोक्तं महामुने ॥ ३२ मायाकारकृतं यद्वद्वस्तुशून्यं तथेतरत् । वस्तुशून्यं जगत्सर्वं त्वयोक्तं कारकस्तथा ॥ ३३ कारकोऽपि कृतोऽन्येन कृतत्वं नातिवर्तते । अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते ॥ ३४ नाममात्रं जगत्सर्वमित्युच्चैर्भाषितं त्वया । अभिधानात्पृथग्भूतमभिधेयं न विद्यते ॥ ३५ कल्पनामात्रमित्यस्मात्सर्वधर्माः प्रकाशिताः । कल्पनाप्यसती प्रोक्ता यया शून्यं विकल्प्यते ॥ ३६ भावाभावद्वयातीतमनतीतं च कुत्र चित् । न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ ३७ यन्न चैकं न चानेकं नोभयं न च नोभयम् । अनालयमथाव्यक्तमचिन्त्यमनिदर्शनम् ॥ ३८ यन्नोदेति न च व्येति नोच्छेदि न च शाश्वतम् । तदाकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ ३९ यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । तथाविधश्च सद्धर्मस्तत्समश्च तथागतः ॥ ४० तत्तत्त्वं परमार्थोऽपि तथता द्रव्यमिष्यते । भूतं तदविसंवादि तद्बोधाद्बुद्ध उच्यते ॥ ४१ बुद्धानां सत्त्वधातोश्च तेनाभिन्नत्वमर्थतः । आत्मनश्च परेषां च समता तेन ते मता ॥ ४२ भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना । तस्मात्प्रतीत्यजा भावास्त्वया शून्याः प्रकाशिताः ॥ ४३ हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः । परतन्त्र इति प्रोक्तः परमार्थस्त्वकृत्रिमः ॥ ४४ स्वभावः प्रकृतिस्तत्त्वं द्रव्यं वस्तु सदित्यपि । नास्ति वै कपितो भावो परतन्त्रस्तु विद्यते ॥ ४५ अस्तीति कल्पिते भावे समारोपस्त्वयोदितः । नास्तीति कृतकोच्छेदादुच्छेदश्च प्रकाशितः ॥ ४६ तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता । वस्तुशून्यं जगत्सर्वं मरीचिप्रतिमं मतम् ॥ ४७ मृगतृष्णाजलं यद्वन्नोच्छेदि न च शाश्वतम् । तद्वत्सर्वं जगत्प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ ४८ द्रव्यमुत्पद्यते यस्य तस्योच्छेदादिकं भवेत् । अन्तवान्नान्तवांश्चापि लोकस्तस्य प्रसज्यते ॥ ४९ ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति । यत्रोभयमनुत्पन्नमिति बुद्धं तदास्ति किम् ॥ ५० इति मायादिदृष्तान्तैः स्फुटमुक्त्वा भिषग्वरः । देशयामास सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ ५१ एतत्तत्परमं तत्त्वं निःस्वभावार्थदेशना । भावग्रहगृहीतानां चिकित्सेयमनुत्तरा ॥ ५२ धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः । अभीक्ष्णमिष्टस्त्रैलोक्ये निष्कपाटो निरर्गलः ॥ ५३ वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः । नैरात्म्यसिंहनादोऽयमद्भुतो नदितस्त्वया ॥ ५४ शून्यताधर्मगम्भीरा धर्मभेरी पराहता । नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ ५५ धर्मयौतुकमाख्यातं बुद्धानां शासनामृतम् । नीतार्थमिति निर्दिष्टं धर्माणां शून्यतैव हि ॥ ५६ या तूत्पादनिरोधादिसत्त्वजीवादिदेशना । नेयार्था च त्वया नाथ भाषिता संवृतिश्च सा ॥ ५७ प्रज्ञापारमिताम्भोधेर्योऽत्यन्तं पारमागतः । स पुण्यगुणरत्नाढ्यस्त्वद्गुणार्णवपारगः ॥ ५८ इति स्तुत्वा जगन्नाथमचिन्त्यमनिदर्शनम् । यदवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् ॥ ५९ ॥ इत्यचिन्त्यस्तवः समाप्तः ॥