आर्यमैत्रेयप्रणीता मध्यान्तविभागकारिका लक्षणपरिच्छेदः प्रथमः लक्षणं ह्यावृतिस्तत्त्वं प्रतिपक्षस्य भावना । तत्रावस्था फलप्राप्तिर्यानानुत्तर्यमेव च ॥ १.१ ॥ अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते । शून्यता विद्यते त्वत्र तस्यामपि स विद्यते ॥ १.२ ॥ न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते । सत्त्वादसत्त्वात्सत्त्वाच्च मध्यमा प्रतिपच्च सा ॥ १.३ ॥ अर्थसत्त्वात्मविज्ञप्तिप्रतिभासं प्रजायते । विज्ञानं नास्ति चास्यार्थस्तदभावात्तदप्यसत् ॥ १.४ ॥ अभूतपरिकल्पत्वं सिद्धमस्य भवत्यतः । न तथा सर्वथाभावात्तत्क्षयान्मुक्तिरिष्यते ॥ १.५ ॥ कल्पितः परतन्त्रश्च परिनिष्पन्न एव च । अर्थादभूतकल्पाच्च द्वयाभावाच्च देशितः ॥ १.६ ॥ उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते । नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते ॥ १.७ ॥ उपलब्धेस्ततः सिद्धा नोपलब्धिस्वभावता । तस्माच्च समता ज्ञेया नोपलम्भोपलम्भयोः ॥ १.८ ॥ अभूतपरिकल्पश्च चित्तचैत्तास्त्रिधातुकाः । तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः ॥ १.९ ॥ एवं प्रत्ययविज्ञानं द्वितीयं चौपभोगिकम् । उपभोगपरिच्छेदप्रेरकास्तत्र चैतसाः ॥ १.१० ॥ छादनाद्रोपणाच्चैव नयनात्संपरिग्रहात् । पूरणात्त्रिपरिच्छेदादुपभोगाच्च कर्षणात् ॥ १.११ ॥ निबन्धनादाभिमख्याद्दुःखनात्क्लिश्यते जगत् । त्रेधा द्वेधा च संक्लेशः सप्तधाभूतकल्पनात् ॥ १.१२ ॥ लक्षणं चाथ पर्यायस्तदर्थो भेद एव च । साधनञ्चेति विज्ञेयं शून्यतायाः समासतः ॥ १.१३ ॥ द्वयाभावो ह्यभावस्य भावः शून्यस्य लक्षणम् । न भावो नापि चाभावओ न पृथक्त्वैकलक्षणम् ॥ १.१४ ॥ तथता भूतकोटिश्चानिमित्तं परमार्थता । धर्मधातुश्च पर्यायाः शून्यतायाः समासतः ॥ १.१५ ॥ अनन्यथाविपर्यासतन्निरोधार्यगोचरैः । हेतुत्वाच्चार्यधर्मणां पर्यायार्थो यथाक्रमम् ॥ १.१६ ॥ संक्लिष्टा च विशुद्धा च समला निर्मला च सा । अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यते ॥ १.१७ ॥ भोक्तृभोजनतद्धेहप्रतिष्ठावस्तुशून्यता । तच्च येन यथा दृष्टं यदर्थं तस्य शून्यता ॥ १.१८ ॥ शुभद्वयस्य प्राप्त्यर्थ सदा सत्त्वहिताय च । संसारात्यजनार्थं च कुशलस्याक्षयाय च ॥ १.१९ ॥ गोत्रस्य च विशुद्धयर्थं लक्षणव्यञ्जनाप्तये । शुद्धये बु[द्ध]धर्माणां बोधिसत्त्वः प्रपद्यते ॥ १.२० ॥ पुद्गलस्याथ धर्माणामभावः शून्यतात्र हि । तदभावस्य सद्भावस्तस्मिन् सा शून्यतापरा ॥ १.२१ ॥ संक्लिष्टा चेद्भवेन्नासौ मुक्तास्स्युः सर्वदेहिनः । विशुद्धा चेद्भवेन्नासौ व्यायामो निष्फलो भवेत् ॥ १.२२ ॥ न क्लिष्टा नापि वऽआक्लिष्टा शुद्धाशुद्धा न चैव सा । प्रभास्वरत्वाच्चित्तस्य क्लेशस्यागन्तुकत्वतः ॥ १.२३ ॥ ॥ इति लक्षणपरिच्छेदः प्रथमः ॥ आवरणपरिच्छेदो द्वितीयः व्यापि प्रादेशिकोद्रिक्तसमादानविवर्जनम् । द्वयावरणमाख्यातं नवधा क्लेशलक्षणम् ॥ २.१ ॥ संयोजनान्यावरणमुद्वेगसमुपेक्षयोः । तत्त्वदृष्टेश्च सत्कायदृष्टेस्तद्वस्तुनोऽपि च ॥ २.२ ॥ निरोधमार्गरत्नेषु लाभसत्कार एव च । सङ्क्लेशस्य परिज्ञाने शुभादौ दशधापरम् ॥ २.३ ॥ अप्रयोगोऽनायतनेऽयोगविहितश्च यः । नोत्पत्तिरमनस्कारः सम्भारस्याप्रपूर्णता ॥ २.४ ॥ गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता । प्रतिपत्तेश्च वैधुर्यं कुदुष्टजनवासता ॥ २.५ ॥ दौष्ठुल्यमवशिष्टत्वं त्रयात्प्रज्ञाविपक्वता । प्रकृत्या चैव दौष्ठुल्यं कौसीद्यं च प्रमादिता ॥ २.६ ॥ सक्तिर्भवे च भोगे च लीनचित्तत्वमेव च । अश्रद्धानधिमुक्तिश्च यथारुतविचारणा ॥ २.७ ॥ सद्धर्मेऽगौरवं लाभे गुरुताकृपता तथा । श्रुतव्यसनमल्पत्वं समाध्यपरिकर्मिता ॥ २.८ ॥ शुभं बोधिः समादानं धीमत्त्वाभ्रान्त्यनावृती । नृत्यत्रासोऽमत्सरित्वं वशित्वञ्च शुभादयः ॥ २.९ ॥ त्रीणि त्रीणि च एतेषां ज्ञेयान्यावरणानि हि । पक्ष्यपारमिताभूमिष्वन्यदावरणं पुनः ॥ २.१० ॥ वस्त्वकौशलकौसीद्यं समाधेर्द्वयहीनता । अरोपणाथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता ॥ २.११ ॥ ऐश्वर्यस्याथ सुगतेः सत्त्वात्यागस्य चावृतिः । हानिवृद्ध्योश्च दोषाणां गुणानामवतारणे ॥ २.१२ ॥ विमोचनेऽक्षयत्वे च नैरन्तर्ये शुभस्य च । नियतीकरणे धर्मसम्भोगपरिपाचने ॥ २.१३ ॥ सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च । निष्परिग्रहतार्थ च सन्तानाभेद एव च ॥ २.१४ ॥ निस्सङ्क्लेशविशुद्ध्यर्थेऽनानात्वार्थ एव च । अहीनानधिकार्थे च चतुर्धावशिताश्रये ॥ २.१५ ॥ धर्मधातावविद्येयमक्लिष्टा दशधावृतिः । दशभूमिविपक्षेण प्रतिपक्षास्तु भूमयः ॥ २.१६ ॥ क्लेशावरणमाख्यातं ज्ञेयावरणमेव च । सर्वाण्यावरणानीह यत्क्षयान्मुक्तिरिष्यते ॥ २.१७ ॥ ॥ इत्यावरणपरिच्छेदो द्वितीयः ॥ तत्त्वपरिच्छेदस्तृतीयः मूललक्षणतत्त्वमविपर्यासलक्षणम् । फलहेतुमयं तत्त्वं सूक्ष्मौदारिकमेव च ॥ ३.१ ॥ प्रसिद्धं शुद्धिविषयं सङ्ग्राह्यं भेदलक्षणम् । कौशल्यतत्त्वं दशधा आत्मदृष्टिविपक्षतः ॥ ३.२ ॥ स्वभावस्त्रिविधोऽसच्च नित्यं सच्चाप्यतत्त्वतः । सदसत्तत्त्वतश्चेति स्वभावत्रयमिष्यते ॥ ३.३ ॥ समारोपापवादस्य धर्मपुद्गलयोरिह । ग्राह्यग्राहकयोश्चापि भावाभावे च दर्शनम् ॥ ३.४ ॥ यज्ज्ञानान्न प्रवर्तेत तद्धि तत्त्वस्य लक्षणम् । असदर्थो ह्यनित्यार्थ उत्पाददव्ययलक्षणः ॥ ३.५ ॥ समलामलभावेन मूलतत्त्वे यथाक्रमम् । दुःखमादानलक्ष्माख्यं सम्बन्धेनापरं मतम् ॥ ३.६ ॥ अभावश्चाप्यतद्भावः प्रकृतिः शून्यता मता । अलक्षणञ्च नैरात्म्यं तद्विलक्षणमेव च ॥ ३.७ ॥ स्वलक्षणञ्च निर्दिष्टं दुःखसत्यमतो मतम् । वासनाथ समुत्थानमविसंयोग एव च ॥ ३.८ ॥ स्वभावद्वयनोत्पत्तिर्मलशान्तिद्वयं मतम् । परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृतावयम् ॥ ३.९ ॥ मार्गसत्यं समाख्यातं प्रज्ञप्तिप्रतिपत्तितः । तथोद्भावनयौदारं परमार्थन्तु एकतः ॥ ३.१० ॥ अर्थप्राप्तिप्रपत्त्या हि परमार्थस्त्रिधा मतः । निर्विकाराविपर्यासपरिनिष्पत्तितो द्वयम् ॥ ३.११ ॥ लोकप्रसिद्धमेकस्मात्त्रयाद्युक्तिप्रसिद्धकम् । विशुद्धगोचरं द्वेधा एकस्मादेव कीर्तितम् ॥ ३.१२ ॥ निमित्तस्य विकल्पस्य नाम्नश्च द्वयसङ्ग्रहः । सम्यग्ज्ञानसतत्त्वस्य एकेनैव च सङ्ग्रहः ॥ ३.१३ ॥ प्रवृत्तितत्त्वं द्विविधं सन्निवेशकुपन्नता । एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता ॥ ३.१४ ॥ एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने । आधिपत्यार्थनित्यत्वे क्लेशशुद्ध्याश्रयेऽपि च ॥ ३.१५ ॥ योगित्वामुक्तमुक्तत्वे आत्मदर्शनमेषु हि । परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते ॥ ३.१६ ॥ अनेकत्वाभिसङ्क्षेपपरिच्छेदार्थ आदितः । ग्राहकग्राह्यतद्ग्राहबीजार्थश्चापरो मतः ॥ ३.१७ ॥ वेदितार्थपरिच्छेदभोगायद्वारतोऽपरम् । पुनर्हेतुफलायासानारोपानपवादतः ॥ ३.१८ ॥ अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः । सम्प्राप्तिसमुदाचारपारतन्त्र्यार्थतोऽपरम् ॥ ३.१९ ॥ ग्रहणस्थानसन्धानभोगशुद्धिद्वयार्थतः । फलहेतूपयोगार्थनोपयोगात्तथापरम् ॥ ३.२० ॥ वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः । तच्छमप्रतिपक्षार्थयोगादपरमिष्यते ॥ ३.२१ ॥ गुणदोषाविकल्पेन ज्ञानेन परतः स्वयम् । निर्याणादपरं ज्ञेयं सप्रज्ञप्तिसहेतुकात् ॥ ३.२२ ॥ निमित्तात्प्रशमात्सार्थात्पश्चिमं समुदाहृतम् ॥ ॥ इति तत्त्वपरिच्छेदस्तृतीयः ॥ प्रतिपक्षभावनावस्थाफलपरिच्छेदश्चतुर्थः दौष्ठुल्यात्तर्षहेतुत्वाद्वस्तुत्वादविमोहतः । चतुस्सत्यावताराय स्मृत्युपस्थानभावना ॥ ४.१ ॥ परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा । तदपायाय वीर्यं हि चतुर्धा सम्प्रवर्तते ॥ ४.२ ॥ कर्मण्यता स्थितेस्तत्र सर्वार्थानां समृद्धये । पञ्चदोषप्रहाणाष्टसंस्कारासेवनान्वया ॥ ४.३ ॥ कौसीद्यमववादस्य सम्मोषो लय उद्धवः । असंस्कारोऽथ संस्कारः पञ्च दोषा इमे मताः ॥ ४.४ ॥ आश्रयोऽथाश्रितस्तस्य निमित्तं फलमेव च । आलम्बनेऽसम्मोषो लयौद्धत्यानुबुद्ध्यना ॥ ४.५ ॥ तदपायाभिसंस्कारः शान्तौ प्रशठवाहिता । रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः ॥ ४.६ ॥ आलम्बनेऽसम्मोषाविसारविचयस्य च । विपक्षस्य हि संलेखात्पूर्वस्य फलमुत्तरम् ॥ ४.७ ॥ द्वौ द्वौ निर्वेधभागीयाविन्द्रियाणि बलानि च । आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम् ॥ ४.८ ॥ चतुर्थमनुशंसाङ्गं निःक्लेशाङ्गं त्रिधा मतम् । निदानेनाश्रयेणेह स्वभावेन च देशितम् ॥ ४.९ ॥ परिच्छेदोऽथ सम्प्राप्तिः परसम्भावना त्रिधा । विपक्षप्रतिपक्षश्च मार्गस्याङ्गं तदष्टधा ॥ ४.१० ॥ दृष्टौ शीलेऽथ संलेखे परविज्ञप्तिरिष्यते । क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता ॥ ४.११ ॥ अनुकूला विपर्यस्ता सानुबन्धा विपर्यया । अविपर्यस्तविपर्यासाननुबन्ध च भावना ॥ ४.१२ ॥ आलम्बनमनस्कारप्राप्तितस्तद्विशिष्टता । हेत्ववस्थावताराख्या प्रयोगफलसंज्ञिता ॥ ४.१३ ॥ कार्याकार्यविशिष्टा च उत्तरानुत्तरा च सा । अधिमुक्तौ प्रवेशे च निर्याणे व्याकृतावपि ॥ ४.१४ ॥ कथिकत्वेऽभिषेके च सम्प्राप्तावनुशंसने । कृत्यानुष्ठान उद्दिष्टा धर्माधातौ त्रिधा पुनः ॥ ४.१५ ॥ अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्थतः । पुद्गलानां व्यवस्थानं यथायोगमतो मतम् ॥ ४.१६ ॥ भाजनत्वं विपाकाख्यं बलन्तस्याधिपत्यतः । रुचिर्वृद्धिर्विशुद्धिश्च फलमेतद्यथाक्रमम् ॥ ४.१७ ॥ उत्तरोत्तरमाद्यञ्च तदभ्यासत्समाप्तितः । आनुकूल्याद्विपक्षाच्च विसंयोगाद्विशेषतः ॥ ४.१८ ॥ उत्तरानुत्तरत्वाच्च फलमन्यत्समासतः । ॥ इति प्रतिपक्षभावनादिपरिच्छेदश्चतुर्थः ॥ ५ यानानुत्तर्यपरिच्छेदः पञ्चमः आनुत्तर्यंप्रपत्तौ हि पुनरालम्बने मतम् । समुदागम उद्दिष्टं प्रतिपत्तिस्तु षड्विधा ॥ ५.१ ॥ परमाथ मनस्कारे अनुधर्मेऽन्तवर्जने । विशिष्टा चाविशिष्टा च परमा द्वादशात्मिका ॥ ५.२ ॥ औदार्यमायतत्वञ्च अधिकरोऽक्षयात्मता । नैरन्तर्यमकृच्छ्रत्वं वित्तत्वञ्च परिग्रहः ॥ ५.३ ॥ आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता । ततश्च परमार्थेन दश पारमिता मताः ॥ ५.४ ॥ दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता । प्रणिधानं बलं ज्ञानमेताः पारमिता दश ॥ ५.५ ॥ अनुग्रहोऽविघातश्च कर्म तस्य च मर्षणम् । गुणवृद्धिश्च सामर्थ्यमवतारविमोचने ॥ ५.६ ॥ अक्षयत्वं सदा वृत्तिर्नियतं भोगपाचने । यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया ॥ ५.७ ॥ बोधिसत्त्वस्य सततं प्रज्ञया त्रिप्रकारया । धातुपुष्टयैप्रवेशाय चार्थसिद्ध्यै भवत्यसौ ॥ ५.८ ॥ संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः । लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः ॥ ५.९ ॥ प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत् । अमेयपुण्यस्कन्धं हि चरितं तद्दशात्मकम् ॥ ५.१० ॥ विशेषादक्षयत्वाच्च परानुग्रहतोऽशमात् । अविक्षिप्ताविपर्यासप्रणता चानुधार्मिकी ॥ ५.११ ॥ व्युत्थानं विषये सारस्तथास्वादलयोद्धवः । सम्भावनाभिसन्धिश्च मनस्कारेऽप्यहंकृतिः ॥ ५.१२ ॥ हीनचित्तञ्च विक्षेपः परिज्ञेयो हि धीमता । व्यञ्जनार्थमनस्कारेऽविसारे लक्षणद्वये ॥ ५.१३ ॥ अशुद्धशुद्धावागन्तुकत्वेऽत्रासितानुन्नतौ । संयोगात्संस्तवाच्चैव वियोगादप्यसंस्तवात् ॥ ५.१४ ॥ अर्थसत्त्वमसत्त्वञ्च व्यञ्जने सोऽविपर्ययः । द्वयेन प्रतिभासत्वं तथा चाविद्यमानता ॥ ५.१५ ॥ अर्थे स चाविपर्यासः सदसत्त्वेन वर्जितः । तज्जल्पभावितो जल्पमनस्कारस्तदाश्रयः ॥ ५.१६ ॥ मनस्कारेऽविपर्यासो द्वयप्रख्यानकारणे । मायादिवदसत्त्वञ्च सत्त्वञ्चार्थस्य तन्मतम् ॥ ५.१७ ॥ सोऽविसारेऽविपर्यासो भावाभावाविसारतः । सर्वस्य नाममात्रत्वं सर्वकल्पाप्रवृत्तये ॥ ५.१८ ॥ स्वलक्षणेऽविपर्यासः परमार्थे स्वलक्षणे । धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ॥ ५.१९ ॥ सामान्यलक्षणन्तस्मात्स च तत्राविपर्ययः । विपर्यस्तमनस्काराविहानिपरिहाणितः ॥ ५.२० ॥ तदशुद्धिर्विशुद्धिश्च स च तत्राविपर्ययः । धर्मधातोर्विशुद्धत्वात्प्रकृत्या व्योमवत्पुनः ॥ ५.२१ ॥ द्वयस्यागन्तुकत्वं हि स च तत्राविपर्ययः । संक्लेशश्च विशुद्धिश्च धर्मपुद्गलयोर्न हि ॥ ५.२२ ॥ असत्त्वात्त्रासतामानौ नातः सोऽत्राविपर्ययः । पृथक्त्वैकत्वमन्तश्च तीर्थ्यश्रावकयोरपि ॥ ५.२३ ॥ समारोपापवादान्तो द्विधा पुद्गलधर्मयोः । विपक्षप्रतिपक्षान्तः शाश्वतोच्छेदसंज्ञितः ॥ ५.२४ ॥ ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा । विकल्पद्वयतान्तश्च स च सप्तविधो मतः ॥ ५.२५ ॥ भावाभावे प्रशाम्येऽथ शमने त्रास्यतद्भये । ग्राह्यग्राहेऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च ॥ ५.२६ ॥ अजन्मसमकालत्वे स विकल्पद्वयान्तता । विशिष्टा चाविशिष्टा च ज्ञेया दशसु भूमिषु ॥ ५.२७ ॥ व्यवस्थानन्ततो धातुः साध्यसाधनधारणा । अवधारप्रधारा च प्रतिवेधः प्रतानता ॥ ५.२८ ॥ प्रगमः प्रशठत्वञ्च प्रकर्षालम्बनम्मतम् । अवैकल्याप्रतिक्षेपोऽविक्षेपश्च प्रपूरणा ॥ ५.२९ ॥ समुत्पादो निरूढिश्च कर्मण्यत्वाप्रतिष्ठिता । निरावरणता तस्याप्रश्रब्धिसमुदागमः ॥ ५.३० ॥ शास्त्रं मध्यविभागं हि गूढसारार्थमेव च । महार्थञ्चैव सर्वार्थं सर्वानर्थप्रणोदनम् ॥ ५.३१ ॥ ॥ इति यानानुत्तर्य परिच्छेदः पञ्चमः ॥ समाप्ता मध्यान्तविभागकारिकाः