मैत्रेयनाथकृता भवसङ्क्रान्तिटीका नमः सर्वज्ञाय भावाभावान्न जन्मास्ति इति । बीजाद्वीज उत्पद्यमाने घटादपि घटोत्पत्तिर्युज्येत । आत्मक्रियानिषेधात्[बीजात्] बीजोत्पत्तिर्न संभवति । पञ्चविधभूतपरिणामधर्मता, प्रतीत्यसमुत्पादधर्मता । एवं सति शुभाशुभमुच्छिन्नभारं केनचित्दृश्येत । तत्तु मूषिकादन्तोद्गीर्णविषमेघगर्जनग्लान [बीज]वन्नोत्पन्नम् । प्रतीत्यसमुत्पादधर्मता । तेन न भावादुत्पत्तिधर्मता ॥ तस्य भावस्यचासतः । जन्मादानं संभवति इति । एवं सति भावास्यासत उत्पत्तौ वन्ध्यासुतः गगनकुसुमं शशशृङ्गञ्च संभवेत् । एवमसंभवातुत्पत्तिर्न संभवति । नह्यग्निमध्ये निक्षिप्तबीजस्य जन्म संभवति । उच्यते तु भावस्य तस्यासतो जन्मोपादानं भवति [इति] । यथा प्रसन्नजलपूर्णसरसि शैवालं पद्मञ्चोत्पद्यते । उत्तरारण्यधरारणिभ्यामग्निरुत्पद्यते । उत्पत्तौ सत्यामपि को दोषः स्यात् । नित्यभावादुत्पन्नात्मकमिष्यते । मैवम् । भ्रान्ति । इन्द्रियैरूपलब्धं यत्तत्तत्त्वेन भवेद्यदि । बालास्तत्त्वविदो जाताः न ज्ञेयतत्त्वकारणम् ॥ [उक्तं] लङ्कावतारसूत्रे । अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते । यदि ते भवेद्यथादृष्टाः सर्वेस्युस्तत्त्वदर्शिनः ॥ अन्यत्र उक्तम् । न चक्षुः प्रेक्षते रूपं लोकस्तु परिमोहतः । प्रवर्तते ह्यक्षमार्गे स्वभावस्तस्य तादृशः ॥ यथा मायामरीचिस्वप्नप्रतिश्रुत्केन्द्रधनुरुदकचन्द्रबिम्बनिर्मितमायानगरविकल्पः । शूरपादैरप्युक्तम् । सदसच्च मृतं जातं तन्निरूद्ध यदस्ति न । भावोत्पादकमेवेति लक्षणं भावदर्शिनाम् ॥ भावदृष्ट्या खलु भ्रान्तं यथा खपुष्पचिन्तनम् । धर्मता हि नभस्तुल्या । इति । आकाशसमभावस्य शून्यत्वेन उत्पत्तिभङ्गदोषमलालेपात्धर्मतामात्रं रूपवेदनादयः । ते गगनसमाः । जननान्तरे प्रतीत्यसमागमेनोत्पद्यन्ते । तच्च सांवृत्लोके । परमार्थस्य न विरोधि । अचिन्त्या मायाधर्मलक्षणता । शालिस्तम्बसूत्रे । [बाह्यः] प्रतीत्यसमुत्पादः कतमैः पञ्चभिः कारणैर्द्रष्टव्यः । [न] स्वयं शाश्वततो नोच्छेदतो न संक्रान्तितो न स्वयंभूहेतुतः न फलविपाकाभिनिर्वृत्तितस्तद्विसदृशानुप्रबन्धत [श्चेति] । कथं [न] स्वयं शाश्वततः । यस्माद्वीजाङ्कुरौ विसदृशौ । न चैवं यद्वीजं स एवाङ्कुर [इति] । एवं हि बीजं निरुद्ध्यते । अङ्कुर उत्पद्यते । कथं नोच्छेदतः । न पूर्वनिरुद्धाद्धीजादङ्कुरो निष्पद्यते । निरुद्धमत्राद्वीजात्तु तत्समये अङ्कुर उत्पद्यते । तुलादण्डनामोन्नामवत् । कथं न सङ्क्रान्तितः । बीजविसदृशो ह्यङ्कुरः । कथं न स्वयंभूहेतुतः । आद्यफलस्यास्वयंभावात् । कथं न फलविपाकाभिनिर्वृत्तितः । फलस्वरूपं सिद्ध्यति । न हि फलेन फलोत्पत्तिरस्ति । कथं विसदृशानुप्रबन्धतः । एवं प्रतीत्य समुत्पन्नैस्तैरुत्पादितं फलम् ॥ स्कन्धोत्पादरीतिरपिउ । अविद्यया संस्कारो विज्ञानं नामरूपं षडायतनं पञ्चस्कन्धाश्च सिद्ध्यन्ति । शून्यैरेव योत्पत्तिस्तद्रूपाणां स्वरूपकम् । प्रतीत्यप्रत्ययोत्पन्नमेवं सिद्ध्या प्रसिद्ध्यति ॥ एवं सा शून्यता स्वयंभूत्वा रूपं समीक्ष्यते । सर्वभावः शून्यता हि शून्यतैवं प्रवर्तते ॥ एवं बाह्य आध्यात्मिकः सर्वो धर्मः शून्यः । स्वभावतो भावो येन हेतुसंभूतः अतः सर्वधर्म आकाशसमः । एवं भावोऽभावः संभवति ॥ न कारणं नापि कार्यमित्यादिना एष लोकः परोऽपि च इति पर्यन्तम् । कारणेन ईश्वरेण कृत इष्यते । कर्मसंभूतः चित्तमात्रं वा इष्यते । एवं नेष्यते चेत्कः शुभाशुभं वहति । तीर्थिकोच्छेदप्रसङ्गः । तस्योत्तर [मुच्यते] । वस्तुतः सत्यं न भवति [लोकः] । कर्मसंभूतोऽपि स्वप्नसदृशः । भाव एवमभावत्वादजोऽसन् तस्य वै चिरम् । प्रतीत्योद्गमकाले तु कर्मणः फलवेदना ॥ आर्यसमाधिराजसूत्रे । न च अस्मि लोकि मृति कश्चि [नरो] परलोक संक्रमति गच्छति वा । न च कर्म नश्यति कदाचि कृतं फलु देति [कृष्णशुभ] संसरतो ॥ लङ्कावतारसूत्रे । देशेमि शून्यतां नित्यं शाश्वतोच्छेदवर्जिताम् । संसारं स्वप्नमायाख्यं न च कर्म विनश्यति ॥ आर्याकाशसमतासमाधिसूत्रे । पूर्वं कृतं तन्न कृतं न कृतं तच्छुभाशुभम् । सुगतस्य पूर्वाकरणात्कृतं तदपि नो भवेत् ॥ बोधिसत्त्वबोधिचित्तं कृतं तदपि नो भवेत् । कृतो निरूढिलाभोऽपि कृतः सोऽपि च नो भवेत् ॥ कर्माणि न प्रणश्यन्ति कल्पकोट्यन्ततोऽपि च । प्रतीत्यागमकाले तु देहिनां फलवेदना ॥ अनुत्पन्नरूपमेव । इति । यदीश्वरेण कथमपि न निर्मितम् । कथं हि लोक उत्पन्नः । वन्ध्यास्त्रीतनयस्यापि कस्तत्र जन्म जनयति । लोकः प्रथमतोऽजातः इत्यादि । आदौ स्वयमनुत्पन्नः प्रतीत्यसमुत्पन्नो भावः । तस्य च जन्म ईश्वरादिना केनापि नावतारितम् । चेतनस्यादावजातत्वेन ईश्वरः स्वयमसिद्धः । प्रतीत्यसमुत्पन्नस्य च जन्म नेश्वरेणावतारितम् । लङ्कावतारसूत्रे । संभवं विभवञ्चैव मोहात्पश्यन्ति बालिशाः । न संभवं न विभवं प्रज्ञायुक्तो विपश्यति ॥ आर्यसमाधिराजसूत्रे । अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता । तस्मादुभे अन्त विवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डितः ॥ मध्यान्ते [?] येन तर्कः कल्पमात्रं तल्लिङ्गं निष्फलं स्थितम् । एवं तु विदुषा प्रोक्तं विकल्पाद्वध्यतेऽधमः ॥ परिक्षमणो मुच्येत जगत्तत्करणेन च । योगी संप्रेक्षते शून्यं यथा तमिस्रदर्शनः ॥ भैषज्ययोगादीक्षेत व्युत्सृजेत्तिमिरं च तत् । अविद्यातिमिराक्रान्तनेत्राः संभवं विभवं दृढम् ॥ गृह्णन्तो वासनावशात्मुक्त्यनर्हाः समीरिताः ॥ अनर्थभ्रान्तलोको हि इत्याद्युक्तम् । कारकवेदयित्रादि न किञ्चिदस्ति । मोक्षार्थाकारके परमार्थभ्रान्तः । अथवा अनर्थं भ्रमन् भवसिन्धुर्मायानगरसदृशः । उक्तमार्यदेवपादैः । भावोऽभावो न द्वितयं सदसन्मिश्रितो न सः । नापि तत्तदभावादि विचारेऽपि चिरं कृते । तत्पदमतिदुर्भाषम् । सदसदुत्पन्नविनष्टयत्किञ्चिद्भाववर्जनधर्मनैरात्म्यदेशना परिवर्तः प्रथमः ॥ अधुना स्कन्धनैरात्म्यं प्रतिपादयन् संवृतिसत्यमाश्रित्याह लोकोत्पत्तिरीतिम् । विकल्पाल्लोकसंभवः इति । शुभाशुभकल्पना विकल्पः । तत्प्रतीत्यसमुत्पन्नो लोकः । शुभाशुभाभ्यां षट्सु जगद्गतिषु स्कन्धनुपादाय लोको नाम, विकल्पेन जनितः । सलिलफलादिविकल्पश्च प्रतीत्य गृह्यते । जन्मोपादानेन चित्तं प्रवर्तने । चित्ते आत्मग्रहः प्रवर्तते । ततोऽन्यदपि प्रवर्तते । तच्च रत्नावल्यामुक्तम् स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि । अहङ्कारे सति पुनः कर्म जन्म ततः पुनः ॥ त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् । अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम् ॥ चित्तात्कायोऽपि जायते । इति । आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ । अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते । काये कृतपरीक्षमात्रे चित्तमात्रमतं परीक्षितपूर्ववत्विद्यत् । बाह्यः स्कन्धः परीक्ष्यते । रूपवेदनासंज्ञाश्च इति । रूपं भौतिकम् । रूपं वर्णाद्यात्मकं सदसदुभयानुभयं हेतुजनितं प्रज्ञप्तिमात्रम् । असत्यतया तर्काक्षमत्वात्फेनसदृशं शून्यता । वेदना सुखदुःखात्मिका । सा च प्रतीत्यसमुत्पन्ना असत्कारणा बुद्बुदोपमा । संज्ञा हि न सद्वस्तु । सा हि नाममात्रम् । मरीचिकासदृशी असती । संस्कारोऽपि असद्वस्तु, भोजनपानतृष्णासुखजनितः । तच्च पृथिव्यादिभूतप्रत्ययेन । स च निर्विकल्पो भावः कदलीसमः । तद्विज्ञानं चित्तमस्वतन्त्रोत्पन्नलक्षणम् । चित्तं विकल्पमात्रं मायोपमं, परमार्थतो नास्ति । [प्रज्ञा] पारमितायामप्युक्तम् । चित्तं सदसदन्यस्वभावरहितं शून्यम् । चितेन चित्ते दृष्टमात्रे न किञ्चिद्दृश्यते, शून्यम् ॥ एवं सति तथागतः जडः स्यात् । मैवम् । चितविज्ञानविकल्पनिवृत्तिकालमात्रे धर्मकायो लभ्यते । बुद्धपदलाभ एव ज्ञानकायः । स च नास्ति स ईदृशो भाव इति । न च एवं स ज्ञेय इति । न च स्थाता । नापि स्थितिः । शवभूतानं प्रमाणकृतां बालानां विकल्पः । तथागतो ह्यतीतानागतप्रत्युत्पन्नज्ञः अभिज्ञाचक्षुषा सर्वं पश्यति ॥ चैत्तं चित्तविकल्पः । परीक्षा तु पूर्ववत् । फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीसमाः । मायोपमं तु विज्ञान [मुक्तमादित्यबन्धुना] ॥ स्कन्धनैरात्म्यविज्ञानैरात्म्यभावो विकल्पः । सिद्धः । यतो नास्ति वन्ध्यादुहितृभर्तृवत् ॥ स्कन्धनैरात्म्यदेशनपरिवर्तो द्वितीयः । नैरात्म्यद्वयं संगृह्य अधुना प्रज्ञोत्पादार्थमाह । चित्ताभावान्न धर्मोऽपि । इत्यादि । धर्मः भावः कृतकाकृतकराशिः । तथ पृथिवीधात्वादिरपि । धर्माणां मूलं चित्तमिति चित्तं निषिद्धम् । चैत्तधर्मतायामुत्तरमाक्षेपोक्तिकथितम् । अन्यत्रोक्तं बुद्धेन । अनक्षरस्य तत्त्वस्य श्रुतिः का देशना च का । श्रूयते देश्यते चार्थः समता साह्यनक्षरा ॥ अपिचोक्तं बुद्धेन । संवृतिचर्यां नश्रित्य परमार्थो न देश्यते । परमार्थं तमज्ञात्वा निर्वाणं न प्रवर्तते ॥ किञ्चोक्तं शास्त्रे । यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे । प्रतीत्य जायते यद्धि तद्जातं स्वभावतः ॥ प्रतीत्योपादाय जातं यत्[तत्] शून्यं हि प्रचक्ष्महे । यः शून्यतां प्रजानाति सोऽप्रमत्तस्तु पण्डितः ॥ [इति] बहूक्तिर्निरर्थिका । एवमद्वयमार्गेण सर्वज्ञानं बुद्धसाधनम् । तस्य मार्गमिमं निश्चित्य ज्ञानार्थं य अद्वयमार्गः स स्वयमद्वयः । अथवा उत्पत्तिविनाशाभावेन सदसन्नित्यानित्यभावाभावादिद्वयप्रतीत्यभावातद्वयज्ञानम् । एवञ्चाद्वयं, तदुभयसंशयानभिधानं प्रज्ञापारमिताज्ञानम् । तत्ज्ञात्वा यः साक्षात्करोति स तत्वज्ञानात्बुद्धो भगवान् । स बुद्धः करुणाबलेन प्रोवाच । यावदविद्यास्तित्वं जन्मपरिग्रहः । अविद्यादितो निवृत्तमत्रं चेत्ज्ञानं तत्त्वज्ञः [स्यात्] इति ॥ अनाधारमिदं सर्वम् । इति । निराधारकरुणाप्रज्ञाचक्षुषा निरात्मकम् । शून्यताकारकवेदकवस्त्वाधाराभावकरुणाप्रज्ञाचक्षुषा निरात्मकम् । शून्यताकारकवेदकवस्तु आधारो नास्ति । इदं सर्वं त्रैधातुकमशेषमसत्शून्यता । स हि परमार्थः । प्रज्ञापारमितायामप्युक्तम् । सुभूतिमवोचत् । रूपं न प्रेक्षते । इत्यादि । द्वादशप्रतीत्यसमुत्पादनिषेधधर्मतायाम् । बुद्धगुणनीतभागीयं धर्मकायं शून्यतावस्तु प्रचक्षते । तेन हि प्रज्ञापारमिता ॥ प्रज्ञादेशनापरिवर्तस्तृतीयः एवं प्रज्ञां देशयित्वा अधुना संवृतावुपायो देश्यते । दानशीलक्षमेत्यादि । सूर्ये उदितमत्रे छायोत्पत्तिवदुपाय उक्तः । प्रथमं दानं मूलमिधीयते । उक्तमन्यत्र । अयं हि सकलो लोकः सुखमेकमभीप्सति । नॄणां भोगविहीनानां सुखाशा लभ्यते कुतः ॥ दानोत्सर्गेण हि भोग उत्पद्यते । तेन दानं मूलमुक्तम् । दानानि चत्वारि । धर्मामिषाभयमैत्रीति । राज्यस्वशिरःपर्यन्तमवरधर्मदानम् । [तथा हि] धनं धान्यं सुवर्णं रजतं मणिः मुक्ता प्रवालः रथः गजः भृत्यः दासः दासीऊ प्रियभार्या दुहितृसुतः प्रधानस्वं, शिरः कर्णः नासा पाणिःपादः चक्षुः स्वमांसं रक्तमस्तिमज्जा मेदः त्वखृदयमात्मीयं वस्तु सर्वं दद्यात् । नन्वेवं सति बोधिसत्त्वचर्या नातिदुष्करा? कुशलोपायो हि बुद्धलाभकरः । बुद्धसुखञ्च निस्तुलं सुखम् । दुःखशतैश्चर्यापि दुःखं न स्यात् । तद्यथा एकपुत्रवधसमये पित्र विक्रियते । चित्तभ्यासमात्रे तु नाशकथं किञ्चिदपि । मयूरस्य शरीरभेदादहिविषममृतं [भवति] । विषञ्च तदभ्यासात्रसायनं भवति । आनन्दविशेषसुखजनकञ्च । यदभ्यस्तं तदमृतं भवति । तेन दुःखं चित्तविकल्पः ॥ शीलोपायः । शीलाभिधा च चर्यास्ति दशाकुशलवर्जिता । प्रातिमोक्षसंवररक्षणम्, सर्वप्राण्युपकारमैत्रचित्तवत्त्वम्, स्वभोगे अलंबुद्धिः, अब्रह्मचर्यवर्जनम्, सत्यवचनमेवं करोमीति, अपारुष्यवचनम्, पराराधनम्, धर्मशो विनयचर्याभाणकस्य सगौरवभाषणम्, परेणात्मग्रहणे अलोभः, कामचित्तानामनुत्पादनम्, यात्राद्य द्भुत [दर्शन]वर्जनम्, आकर्षणशाठ्यविरहः, त्रिषु बुद्धधर्मसङ्घेषु अधिमुक्तिचित्तत्वम्, सर्वेषां सत्त्वानां बुद्धकरणे महोत्साहः ॥ दानशीलादिना चिरमर्जितेऽपि पुण्ये यदि क्षान्तिर्नास्ति । तदा सद्य एव पुण्यं नश्येत् । उक्तञ्च शान्तिदेवेन । सर्वमेतत्सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ इति । तिस्रः क्षान्तयः । दुःखाधिवासनाक्षान्तिः पराभवमर्षणक्षान्तिः धर्मनिध्यानक्षान्तिश्चेति । तत्र प्रथमा कस्याधिवचनम् । एवं- अहं ते अनुत्तरधर्म सम्यक्संबुद्धलाभं करोमि बोधिसत्त्वचर्यविशुद्धिञ्च करोमि । [इत्युक्ते कश्चिदाह]मयोक्तं शृणु । नो चेत्ज्वलन्महावन्हौ प्रविश्य प्रज्वल । दुःखमुत्पन्नं कायो वहतु । तस्यैवमुत्तरं वदामि । एवं सत्यपि अत्यन्तमुत्सहे । अहमनुत्तरधर्म [सम्यक्] संबुद्ध[लाभ]आय बोधिसत्त्वचर्याशोधनाय च त्रिसाहस्रमहासाहस्रलोकधातौ अग्निज्वाला भूत्वा ब्रह्मभवन[पर्यन्तं] स्वतः परिपाचयामि । कःपुनर्वादस्त्वदुक्तवन्हिः ॥ पराभिभवमर्षणक्षान्तिः, परीक्षया [अपकारिषु] अप्रदर्शितकोपः आयुधेन मांसे छिन्नेऽपि अध्यधिकां क्षान्तिं जनयित्वा अहं शत[धा] हस्तच्छेदकमपि शिरसि वहामि तदुपर्यपि मैत्रचित्तयुक्तः । इति ॥ धर्मनिध्यानक्षान्तिः अतिगम्भीरे याने अतिशोभने मुनिधर्मे प्रथमतो लब्धे क्षणमपि किञ्चिदसन्दिग्धचित्तत्वम् । धर्मनिध्यानक्षान्तिविधिस्तु पराभिभवमर्षणक्षान्तिवत् । धर्माभावश्चाधरोऽत्र विशेषः ॥ वीर्यं शान्तिदेवेनोक्तम् । [एवं क्षमो भजेद्वीर्यं] वीर्ये बोधिर्यतः स्थिता । न हि वीर्यं विना पुण्यं यथा वायुं विना गतिः ॥ किं वीर्यं कुशलोत्साहः । इति । वीर्यकरणार्थदर्शी केनचित्प्रियेण वियुक्तः विप्रियेण च सङ्गतः व्याधिजरामरणशोकादिदुःख दुर्गतौ पतितः [अपि] सदा कुशलक्षणकुशलदृष्टिः अष्टस्वक्षनस्थानेषु मोक्षकाले च बोधिचर्यां संपश्यन् कौसीद्यं विहाय दृढीकृत्य विमतिहीनः दुःखप्रहाणाय वीर्यमारभेत ॥ ध्यानम्, प्रज्ञोपायावुभौ [एकी]कृत्य चित्तैकाग्रीकरणं ध्यानम् ॥ प्रज्ञा यथा पूर्वोक्ता ॥ दानपारमितादिकं दातृप्रतिग्रहीतृयत्किञ्चिदनालम्बं शून्यतया प्रेक्षेत । दानपारमितादि प्रज्ञापारमितया व्याप्तम् । यथा सूर्यो द्वीपान् परिवर्त्यं निवर्तते तथा ॥ पारमितासंग्रहः । स्वार्थत्यागो दानम् । परानुग्रहः शीलम् । गतिवर्जनं क्षमा । कुशलोत्साहो वीर्यम् । मलानुपलेपो ध्यानम् । परमार्थसत्यदेशनां प्रज्ञा । सत्त्वेषु करुणाव्याप्तीकरणं प्रज्ञारसः । बुद्धसाधकः पितृमातृदुहितृबन्धु परिवारपत्न्यादिराज्यभूम्यैश्वर्यसौख्यादि [उत्] शिष्टान्नवत्विहाय मोक्षार्थं वनं गच्छेत् । दानादिकन्तु न दुःखम्, बुद्धलाभसुखविषमञ्च ॥ उपायदेशनापरिवर्तश्चतुर्थः उपायप्रज्ञयोस्तिष्ठम् । इति । प्रज्ञा यथा पूर्वोक्ता । कथम्, प्रतीत्यसमुत्पादेन वस्तुप्रज्ञप्तिलक्षणता । उपायः पूर्वोक्तवद्दानादिक्रिया । तावुभावेकीकृत्य देशको गुरुर्नास्ति चेत्, स्वप्नेऽपि [न] उत्पद्यते । एवं सति उपायप्रज्ञे द्वे, तद्भेदाद्वये जाते पुनर्दानादिभेदे बहवो दाषाः स्युरिति चेत् । नाममात्रमिदं सर्वम् । उपायप्रज्ञानिदर्शनं संवृतिमात्रमाश्रित्य सिद्ध्यति । [प्रज्ञा]पारमितायामप्युक्तम् । दनपारमिता नाममात्रम् । प्रज्ञापारमिता नाममात्रम् । त्रैधातुकमपि नाममात्रम् ॥ इति । तदुभयं निराकर्तुमाह । यतोऽभूद्यच्च नाम तत् । इत्यादि । पूर्वं परीक्षितवत्धर्मो नाममात्रमुच्यते । न परमार्थतो भावोऽस्ति । धर्मता न स धर्मोऽस्तीति । इति । नाममात्रतया सिद्धः, वस्तुशून्यता । प्रतीत्यसमुत्पन्नः संवृतिमात्रम् । अभूतं नाम शून्यता । इत्यादि । संवृतौ नाम निमित्तमात्रम् । शब्दविद आहुः । शब्दात्सर्वमुत्पन्नमिति । स स्वयमेव संवृतौ नाममात्रं सिद्धः । विकल्पो यस्तथोदितः । इत्यादि । नाममात्रं शून्यता, परीक्षा पूर्ववत्सुगमा । रूपं तच्चक्षुषेक्षितम् । इत्यादि । चक्षू रूपं पश्यतीत्यादि व्याकरणं भगवता संवृतावुक्तम् । मिथ्याभिमानलोकतः । इत्यादि । अभिमानेन सत्त्वं देशकालमात्रां वाश्रित्य भगवता वराकिसदृशमुक्तम् । परमार्थस्त्ववचनः । परमार्थनिश्चयोपायो मृषोक्तः । दुःखसत्यं दुःखसमुदयसत्यं निरोधसत्यं मार्गसत्यमित्याद्यार्यसत्यानि चत्वारि संवृतौ देशितानि । दर्शनं यत्प्रतीत्यजम् । इत्यादि । नायको भगवतो वचनम् । रूपशब्दादिसमागमकामानां सत्त्वानां प्रकाशयति । येन यान् विविधैरूपायैः सत्त्वान् विनेयान् विनयति, तान्मोचयित्वा नयति; तेन भगवान् [नायकः] । उपचारावनिं सतीम् । इत्यादि । संवृतिमाश्रित्य प्रथभूम्याद्युच्यते । परमार्थभूमिस्तु सूक्ष्मबुद्ध्यपर्यन्ता । कल्पनाविकलशून्यतावेदिप्रज्ञा यस्यास्ति स बुद्धिमान् । स च भगवान् । न चक्षू रूपमीक्षते । इत्यादि । तैमिरिक इव चक्षुः स्वयं चक्षू रूपञ्च न पश्यति । स चित्तधर्मश्च,- चित्तेन चित्ते दृष्टमात्रे चित्तं न दृश्यते । तेन न भवेत् । समाधिराजसूत्रेऽप्युक्तम् । चक्षुःश्रोत्रघ्राणजिव्हाकायमनोरूपशब्दगन्धरसस्प्रष्टव्यधर्मा न सन्ति । इति । तन्निगमयन्नाह । सर्वं दृश्यं यत् । इत्यादि । पूर्वोक्तमुपायप्रज्ञोभयैकीकरणज्ञानादिकमनृतमुच्यते । लोकश्च विजहाति यत् । इति । तदविपरीतं तत्त्वम् । लोकः प्राकृतः यदजानानः यत्- चिन्तापद्मभूतं मनसा अचिन्त्यमिन्द्रियाविषयभूतमज्ञानपटलान्धकारप्रतिरुद्धमदृष्टं- त्यजति । [स] परमार्थः अतितीक्ष्नेन्द्रियर्यज्ञान्दृष्टिगोचरः । आर्यघनव्यूहसूत्रे । तत्त्वमत्यन्तमाश्चर्यं गम्भीरं तदनन्तवत् । तद्धि दुर्लभमित्यस्माल्लोकस्य किल बुद्धिना ॥ ज्ञानं तद्गोचरं नास्ति । संवृतिपरमार्थसत्य [देशना] परिवर्तः पञ्चमः षट्सु जगद्गतिषु भवसङ्क्रान्त्युपायो बुद्धलाभकरोपायः समाप्तः ॥ पण्डितमैत्रेयनाथकृतः ॥