महायानसूत्रालंकारः ओम् नमः सर्वबुद्धबोधिसत्वेभ्यः प्रथमोऽधिकारः अर्थज्ञोऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलैर्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् ॥ १.१ ॥ घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ १.२ ॥ यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सूक्तप्रकृतिगुणयुक्तोऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम् ॥ १.३ ॥ आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् । धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतोऽर्थो न च[र्थतश्च] ज्ञेयः ॥ १.४ ॥ राजेव दुराराधो धर्मोऽयं विपुलगाढगम्भीरः । आराधितश्च तद्वद्वरगुणधनदायको भवति ॥ १.५ ॥ रत्नं जात्यमनर्थं[र्घं]यथाऽपरीक्षकजनं न तोषयति । धर्मस्तथायमबुधं विपर्ययात्तेषयति तद्वत् ॥ १.६ ॥ आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः । भावाभावेऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात् ॥ १.७ ॥ प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्ममन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ १.८ ॥ वैकल्यतो विरोधादनुपायत्वात्त्थाप्यनुपदेशात् । न श्रावकयानमिदं भवति महायानधर्माख्यम् ॥ १.९ ॥ आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यथीनं हीनमेव तत् ॥ १.१० ॥ स्वकेऽवतारात्स्वस्यैव विनये दर्शनादपि । औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता ॥ १.११ ॥ निश्रितोऽनियतोऽव्यापी सांवृतः खेदवानपि । बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत् ॥ १.१२ ॥ औदार्यादपि गाम्भीर्यात्परिपाकोऽविकल्पना । देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ १.१३ ॥ तदस्थानत्रासो भवति जगतां दाहकरणो महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्धसमयम् । अगोत्रोऽसन्मित्रोऽकृतमतिरपूर्वाऽचितशुभस्रसत्यस्मिन् धर्मे पतति महतोऽर्थाद्गत इह ॥ १.१४ ॥ तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात्विचित्रस्याख्यानाद्ध्रुवकथनयोगाद्बहुमुखात् । यथाख्यानं नार्थाद्भगवति च भावातिगहनात्न धर्मेऽस्मिंस्रासो भवति विदुषां योनिविचयात् ॥ १.१५ ॥ श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ञानं प्रभवति च तत्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः ॥ १.१६ ॥ अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् । कस्माद्गभीरार्थविदां न मोक्ष इत्येतदुत्त्रासपदं न युक्तम् ॥ १.१७ ॥ हीनाधिमुक्तः सुनिहीनधातोर्ही नैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशितेऽस्मिन् धर्मेऽधिमुक्तिर्यदि नास्ति सिद्धम् ॥ १.१८ ॥ श्रुतानुसारेण हि बुद्धिमत्तं लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम् । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः ॥ १.१९ ॥ यथारुतेऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतिघातमेव] ॥ १.२० ॥ मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि] ह्ययुक्तरूपः । प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा ॥ १.२१ ॥ महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः _____________________________________________________________ द्वितीयोऽधिकारः शरणगमनविशेषसंग्रहश्लोकः । रत्नानि यो हि शरणप्रगतोऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन ॥ २.१ ॥ यस्मादादौ दुष्कर एष व्यवसायो दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः । सिद्धो यस्मात्सत्त्वहिताधानमहार्थस्तस्मादग्रे यान इहाग्रशरणार्थः ॥ २.२ ॥ सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम् ॥ २.३ ॥ शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सोऽप्रमेयाम् । स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्धं]धर्मम् ॥ २.४ ॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः _____________________________________________________________ तृतीयोऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता । आदीनवोऽनुशंसश्च द्विधौपम्यं चतुर्विधा ॥ ३.१ ॥ धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः । फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते ॥ ३.२ ॥ उदग्रत्वेऽथ सर्वत्वे महार्थत्वेऽक्षयाय च । शुभस्य तत्रिमित्तत्वात्गोत्राग्रत्वं विधीयते ॥ ३.३ ॥ प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् । सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ ३.४ ॥ कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः । समाचारः सुभस्यापि गोत्रेलिङ्गं निरुप्यते ॥ ३.५ ॥ नियतानियतं गोत्रमहार्यं हार्यमेव च । प्रत्यैर्गोत्रभेदोऽयं समासेन चतुर्विधः ॥ ३.६ ॥ क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ ३.७ ॥ चिरादपायगमनमाशुमोक्षश्च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना ॥ ३.८ ॥ सुवर्णगोत्रवत्ज्ञेयममेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ ३.९ ॥ सुरत्नगोत्रवत्ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात् ॥ ३.१० ॥ ऐकान्तिको दुश्चरितेऽस्ति कश्चित्कश्चित्समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभोऽस्ति कश्चिन्निहीनशुक्लोऽस्त्यपि हेतुहीनः ॥ ३.११ ॥ गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात् ॥ ३.१२ ॥ सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रिया फलत्वाद्भवति समुदग्र[समूलमुदग्र]गोत्रमेतत् ॥ ३.१३ ॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः _____________________________________________________________ चतुर्थोऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाय महोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः ॥ ४.१ ॥ चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥ ४.२ ॥ करुणामूल इष्टोऽसौ सदासत्त्वहिताशयः । धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा ॥ ४.३ ॥ उत्तरच्छन्दयानोऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थोऽधिवासना ॥ ४.४ ॥ शुभवृद्ध्यनुशंसोऽभौ पुण्यज्ञानमयः स हि । सदापारमितायोगनिर्याणश्च स कथ्यते ॥ ४.५ ॥ भूमिपर्यवसानोऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः ॥ ४.६ ॥ मित्रबलाधेतुबलान्मूलबलाच्छू तबलाच्छुभाभ्यासात् । अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात् ॥ ४.७ ॥ सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य ॥ ४.८ ॥ धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य ॥ ४.९ ॥ जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ ४.१० ॥ धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ ४.११ ॥ औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीघाघिकाखेदात् ॥ ४.१२ ॥ आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि । आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम् ॥ ४.१३ ॥ निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ ४.१४ ॥ पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्योऽपरोच्छ्रायः [ज्ञेयः] ॥ ४.१५ ॥ भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्योऽचलेन्द्रनिभः ॥ ४.१६ ॥ भैषज्यराजसदृशो महासुहृत्संनिभोऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशोऽपरो ज्ञेयः ॥ ४.१७ ॥ गन्धर्वमधुरघोषवदन्यो राजोपमोऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः ॥ ४.१८ ॥ यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः । आनन्दशब्दसदृशो महानदीश्रोत[स्रोतः]सदृशश्च ॥ ४.१९ ॥ मेघसदृशश्च कथतश्चित्तोत्पादो जिनात्मजानां हि । तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् ॥ ४.२० ॥ परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम् ॥ ४.२१ ॥ सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन, द्वयम् ॥ ४.२२ ॥ यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् । परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति ॥ ४.२३ ॥ मायोपमान्वीक्ष्य स सर्वधर्मानुधानयात्रामिव चोपपत्तीः । क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकालेऽथ विपत्तिकाले ॥ ४.२४ ॥ स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च । विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम् ॥ ४.२५ ॥ परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतोऽस्य रम्यताम् । कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे ॥ ४.२६ ॥ महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतोऽतिलज्जना ॥ ४.२७ ॥ शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर्नहि शोभतेऽग्रसत्त्वः । स्वपरवविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्तुम् ॥ ४.२८ ॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः _____________________________________________________________ पञ्चमोऽधिकारः प्रतिपत्तिलक्षणे श्लोकः । महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ ५.१ ॥ परत्रलब्ध्वात्मसमानचित्ततां स्वतोऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनोऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ ५.२ ॥ परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ ५.३ ॥ निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनताऽवतारणा । विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ ५.४ ॥ गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ ५.५ ॥ जनानुरूपाऽविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा । क्षमा च दान्ता च सुदूरगाऽक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा ॥ ५.६ ॥ महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः ॥ ५.७ ॥ जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम् ॥ ५.८ ॥ यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर्हिताय सत्त्वेष्वभिसंस्करोति तत् ॥ ५.९ ॥ सदाऽस्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ ५.१० ॥ भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव । विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन ॥ ५.११ ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः _____________________________________________________________ षष्ठोऽधिकारः परमार्थलक्षणविभागे श्लोकः । न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चावहीयते । न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम् ॥ ६.१ ॥ न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान्न चान्यद्भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः ॥ ६.२ ॥ कथं जनो विभ्रममात्रमाश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ ६.३ ॥ प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयतेऽन्यकारितम् । तमः प्रकारः कतमोऽयमीदृशो यतोऽविपश्यन्सदसन्निरीक्षते ॥ ६.४ ॥ त चान्तरं किंचन विद्यतेऽनयोः सदर्थवृत्त्या शमजन्मनोरिह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ ६.५ ॥ संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः । धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति ॥ ६.६ ॥ अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन ॥ ६.७ ॥ नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् । द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठतेऽतद्गतिधर्मघातौ ॥ ६.८ ॥ अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महगदेनेव विषं निरस्यते ॥ ६.९ ॥ मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ । स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ ६.१० ॥ महायानसूत्रालंकारे तत्वाधिकारः षष्ठः _____________________________________________________________ सप्तमोऽधिकारः प्रभावलक्षणविभागे श्लोकः । उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः ॥ ७.१ ॥ ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ ७.२ ॥ येनार्यदिव्याप्रतिमैर्विहारैर्ब्राह्मैश्च नित्यं विहरत्युदारैः । बुद्धांश्च सत्त्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम् ॥ ७.३ ॥ मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् । संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः ॥ ७.४ ॥ रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्रासयते समारान् ॥ ७.५ ॥ समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये । सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम् ॥ ७.६ ॥ ज्ञानवशित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तान्क्षिपतेऽन्यधातौ ॥ ७.७ ॥ शक्तो भवत्येव च सत्वपाके संजातपक्षः शकुनिर्यथैव । बुद्धात्प्रशंसां लभतेऽतिमात्रामादेयवाक्यो भवति प्रजानाम् ॥ ७.८ ॥ षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षाऽभिभुवस्तथाऽष्टौ । दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः ॥ ७.९ ॥ स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः ॥ ७.१० ॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः _____________________________________________________________ अष्टमोऽधिकारः बोधिसत्त्वपरिपाके संग्रहः श्लोकः । रूचिः प्रसादः प्रशमोऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ ८.१ ॥ सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.२ ॥ गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसोऽध्यभेद[द्य?]ता । जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.३ ॥ सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायोऽथ शुभाभिरामता । जीनात्मजे क्लेशविनोदनायतन्मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.४ ॥ कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ ८.५ ॥ धृतिः प्रकृत्या प्रतिसंख्यभावना सुदःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ ८.६ ॥ विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा । स्मृतेर्महाबुद्धयुदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ ८.७ ॥ शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ ८.८ ॥ सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ ८.९ ॥ शुभाचयोऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.१० ॥ इति नवविधवस्तुपाचितात्मा परपरिपाचनयोग्यतामुपेतः । शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतोऽग्रबन्धुभूतः ॥ ८.११ ॥ व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता [मुशन्तिपक्वताम्] ॥ ८.१२ ॥ विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्यनुपाचनापरा । सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ ८.१३ ॥ हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः ॥ ८.१४ ॥ तथाजनो नात्मनि वत्सलो मतः कुतोऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः ॥ ८.१५ ॥ न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते ॥ ८.१६ ॥ सदाप्रकृत्याध्यविहिंसकः स्वयं रतोऽप्रमत्तोऽत्र परं निवेशयन् । परंपरानुग्रहकृत्द्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ ८.१७ ॥ परेऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् । उपायचित्तैरपकारमर्षणैः शुभे समादापयतेऽपकारिणः ॥ ८.१८ ॥ पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः स[त्त्व]गणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् ॥ ८.१९ ॥ वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयतेऽत्र शासने । निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ ८.२० ॥ स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान् । ततश्च ते तज्जिनशासनादराद्विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ ८.२१ ॥ इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः । तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या ॥ ८.२२ ॥ महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः _____________________________________________________________ नवमोऽधिकारः सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस्तयोरेव निर्देशभूतः । अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ ९.१ ॥ सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ ९.२ ॥ कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद्बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता ॥ ९.३ ॥ सर्वधर्माश्च बुद्धत्वं धर्मो नैव न कश्चन । शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते ॥ ९.४ ॥ धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् । शुभस्यनिमित्तत्वाल्लब्धमेघोपमं मतम् ॥ ९.५ ॥ बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् । भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ ९.६ ॥ परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा । सर्वदुश्चरितेभ्यश्च जन्ममरणतोऽपि च ॥ ९.७ ॥ उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः । सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम् ॥ ९.८ ॥ शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ ९.९ ॥ बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति स सत्त्वान्प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद्बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम् ॥ ९.१० ॥ आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ ९.११ ॥ क्लेशज्ञेयवृतीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्तिस्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात् ॥ ९.१२ ॥ स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघा[भवा]भिरामेऽन्यजने तु का कथा ॥ ९.१३ ॥ प्रवृत्तिरूद्धित्तिरवृतिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते ॥ ९.१४ ॥ यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्वगणेषु सर्वगम् ॥ ९.१५ ॥ यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथ दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते ॥ ९.१६ ॥ यथाग्निर्ज्वलतेऽन्यत्र पुनरन्यत्रशाम्यति । बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ ९.१७ ॥ अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः । तथा जिणे विनाभोगं देशनायाः समुद्भवः ॥ ९.१८ ॥ यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् । बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ ९.१९ ॥ यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । तथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः ॥ ९.२० ॥ यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा । तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ ९.२१ ॥ पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला । नशुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ ९.२२ ॥ शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात्गता आत्ममहात्मताम् ॥ ९.२३ ॥ न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ ९.२४ ॥ दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ ९.२५ ॥ बुद्धानाममले धातौ नैकता बहुता न च । आकाशवददेहत्वात्पूर्वदेहानुसारतः ॥ ९.२६ ॥ बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ ९.२७ ॥ पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच्च महादित्योपमा मता ॥ ९.२८ ॥ अमेया रश्मयो यद्वद्व्यमिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकमालोकयन्ति च ॥ ९.२९ ॥ तथैवानास्रवे धातौ बुद्धानामप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरामता ॥ ९.३० ॥ यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः । भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ ९.३१ ॥ यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ ९.३२ ॥ यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् । सकृत्ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ ९.३३ ॥ यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानामावृतिः सत्वदुष्टता ॥ ९.३४ ॥ यथा पांशुवशाद्वस्रे रङ्गचित्राविचित्रता । तथाऽवेधवशान्मुक्तौ ज्ञानचित्राविचित्रता ॥ ९.३५ ॥ गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु । बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा ॥ ९.३६ ॥ सर्वेषामविशिष्टापि तथता शुद्धिमागता । तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः ॥ ९.३७ ॥ श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते ॥ ९.३८ ॥ बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ ९.३९ ॥ अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते । यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते ॥ ९.४० ॥ पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुनद्वादशशतोदये ॥ ९.४१ ॥ मनसोऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ ९.४२ ॥ सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ ९.४३ ॥ विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ ९.४४ ॥ प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले]पदे ॥ ९.४५ ॥ मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यबिहारेऽथ दाराऽसंक्लेशदर्शने ॥ ९.४६ ॥ आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ ९.४७ ॥ इत्येमेयपरावृत्तावमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाद्बुद्धानाममलाश्रये ॥ ९.४८ ॥ शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितैरपक्वः पक्वो वा [न]च पुनरशेषं ध्रुवमिह ॥ ९.४९ ॥ तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवर्ती महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् । लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा]सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि ॥ ९.५० ॥ क्वचिद्धर्माञ्चकं [धर्म्यं चक्रं] बहुमुखशतैर्दर्शयति यः क्वचिज्जन्मान्तर्धिं क्वचिदपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत्न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते ॥ ९.५१ ॥ न बुद्धानामेवं भवति ममपक्वोऽयमिति चाप्रपाच्योऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशिः समन्तात्त्रयमुखम् ॥ ९.५२ ॥ यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते । तथा धर्मार्कोऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते ॥ ९.५३ ॥ यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयोऽप्रमेयोऽसंख्येयो न च स पुनरेति व्ययमतः । तथैकस्माद्बुद्धाद्[पाका]भवति सुमहान् परिपाक[पाक]निचयोऽप्रमेयोऽसंख्येयो न च पुनरेति[पुनरुपैति] व्ययमतः ॥ ९.५४ ॥ यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत् ॥ ९.५५ ॥ सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ ९.५६ ॥ क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च । सर्वतस्तथताज्ञानभावना समुदागमः सर्वसत्वद्वयाधानसर्वथाऽक्षयता फलम् ॥ ९.५७ ॥ कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ ९.५८ ॥ स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः । धर्मधातुर्विशुद्धोऽयं बुद्धानां समुदाहृतः ॥ ९.५९ ॥ स्वाभाविकोऽथ सांभोग्यः कायो नैर्माणिकोऽपरः । कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः ॥ ९.६० ॥ सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः । क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः ॥ ९.६१ ॥ समः सूक्ष्मश्च तच्छिष्टः[च्छ्लिष्टः] कायः स्वाभाविको मतः । संभोगविभुताहेतुर्यथेष्टं भोगदर्शने ॥ ९.६२ ॥ अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ ९.६३ ॥ शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायोऽयं महामायो[महोपायो] विमोचने ॥ ९.६४ ॥ त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निर्दर्शितः ॥ ९.६५ ॥ आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्याऽस्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ ९.६६ ॥ आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ ९.६७ ॥ आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा ॥ ९.६८ ॥ सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत् ॥ ९.६९ ॥ सत्त्वेषु समताज्ञानं भावनाशुद्धितोऽमलं [मतम्] । अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते ॥ ९.७० ॥ महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् ॥ ९.७१ ॥ प्रत्यवेक्षणकं ज्ञाने [नं]ज्ञेयेष्वव्याहतं सदा । धारणीनां समाधीनां निधानोपममेव च ॥ ९.७२ ॥ परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ ९.७३ ॥ कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम् ॥ ९.७४ ॥ कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा ॥ ९.७५ ॥ धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः ॥ ९.७६ ॥ गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः । अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ ९.७७ ॥ याऽविद्यमानता सैव परमा विद्यमानता । सर्वथाऽनुपलम्भश्च उपलम्भः परो मतः ॥ ९.७८ ॥ भावना परमा चेष्टा भावनामविपश्यताम् । प्रतिलम्भः परश्चेष्टः प्रतिलम्भं च पश्यताम् ॥ ९.७९ ॥ पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः । मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते ॥ ९.८० ॥ पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर्निरूप्यते ॥ ९.८१ ॥ भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ ९.८२ ॥ समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च । मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ ९.८३ ॥ भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः ॥ ९.८४ ॥ बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रेककार्याश्च महोपभोग्याः सदा महासत्वगणस्य ते हि ॥ ९.८५ ॥ इतिनिरूपमशुक्लधर्मयोगाधितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयाकरत्वात्शुभमतिरर्हति बोधिचित्तमाप्तुम् ॥ ९.८६ ॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः _____________________________________________________________ दशमोधिकारः उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च ॥ १०.१ ॥ जाता जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ १०.२ ॥ हार्या कीर्णाऽव्यावकीर्णा विपक्षैर्हीनोदारा आवृताऽनावृता च । युक्ताऽयुक्ता संभृताऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः ॥ १०.३ ॥ अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बाल्यमयोनिशोमनस्क्रिया ॥ १०.४ ॥ प्रमादोऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश्च तथाऽपरिजयो मतः ॥ १०.५ ॥ अनुद्वेगस्तथोद्वेग आवृतिश्चाप्ययुक्तता । असंभृतिश्च विज्ञेयाऽधिमुक्तिपरिपन्थता ॥ १०.६ ॥ पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं च विशेषगमनं तथा ॥ १०.७ ॥ धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा । क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः ॥ १०.८ ॥ कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ १०.९ ॥ तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्तया विविधया । महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात् ॥ १०.१० ॥ मनुष[ष्य] भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्त्वा लयं नातोऽधिवासयेत् ॥ १०.११ ॥ यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः ॥ १०.१२ ॥ सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते ॥ १०.१३ ॥ इति विपुलगतौ महोघ[महार्य]धर्मे जनिय[परिजनयन्?] सदा मतिंमान्महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च ॥ १०.१४ ॥ महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः _____________________________________________________________ एकादशोऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः पिटकत्रयं द्वयं वा [च?] संग्रहतः कारणैर्नवभिरिष्टम् । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति ॥ ११.१ ॥ सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति ॥ ११.२ ॥ आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् । अभिमुखतोऽथाभीक्ष्ण्यादभिभवगतितोऽभिधर्मश्च ॥ ११.३ ॥ आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव ॥ ११.४ ॥ आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं[द्वयम्?] । [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः] ॥ ११.५ ॥ मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः ॥ ११.६ ॥ धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः ॥ ११.७ ॥ त्रिधातुकः कृत्यकरः ससंबाधाश्रयोऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरोऽपरः ॥ ११.८ ॥ हीनपूर्णाश्रयो द्वेधा सजल्पोऽजल्प एव च । ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः ॥ ११.९ ॥ संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तधा चैव परिज्ञा पञ्चधाऽस्य च ॥ ११.१० ॥ चत्वारः सप्तत्रिंशच्च आकारा भावनागताः । मार्गद्वयस्वभावोऽसौ द्व्युनुशंसः प्रतीच्छकः ॥ ११.११ ॥ प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ ११.१२ ॥ तत्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ्चाप्रपञ्चात्मकम् । ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतं यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता ॥ ११.१३ ॥ न खलु जगति तस्माद्विद्यते किंचिदन्यज्जगदपि तदशेषं तत्र संमूढबुद्धि । कथमयमभिरूढो लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद्विहाय ॥ ११.१४ ॥ यथा माया तथाऽभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत्द्वयभ्रान्तिर्निरुच्यते ॥ ११.१५ ॥ यथा[ऽ]तस्मित्र तद्भावः परमार्थस्तथेष्यते । यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता ॥ ११.१६ ॥ तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते ॥ ११.१७ ॥ तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् । परावृत्तावपर्यस्तः कामचारी तथा पतिः [यतिः] ॥ ११.१८ ॥ तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥ ११.१९ ॥ न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च मायादिषु विधीयते ॥ ११.२० ॥ तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ ११.२१ ॥ न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च रूपादिषु विधीयते ॥ ११.२२ ॥ समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते । हीनयानेन यानस्य प्रतिषेधार्थमेव च ॥ ११.२३ ॥ भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते । अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा ॥ ११.२४ ॥ मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ ११.२५ ॥ बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ ११.२६ ॥ तथा भावात्तथाऽभावाद्भावाभाव[वा?]विशेषतः । सदसन्तोऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ ११.२७ ॥ तथाऽभावात्तथाऽ भावात्तथाऽभावादलक्षणाः । मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ ११.२८ ॥ मायाराजेव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः ॥ ११.२९ ॥ मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोमपा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट्षट्द्वौ च पुनश्च षट्द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः ॥ ११.३० ॥ अभूतकल्पो न भूतो नाभूतोऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ ११.३१ ॥ स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ ११.३२ ॥ आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ ११.३३ ॥ चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलोऽस्ति ॥ ११.३४ ॥ यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ॥ ११.३५ ॥ लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता ॥ ११.३६ ॥ सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः ॥ ११.३७ ॥ यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं ॥ ११.३८ ॥ यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या । असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ ११.३९ ॥ त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ ११.४० ॥ अभावभावता या च भावाभावसमानता । अशान्तशान्ताऽकल्पा च परिनिष्पन्नलक्षणम् ॥ ११.४१ ॥ निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ ११.४२ ॥ समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् । समं विशिष्टमन्यूनानधिकं लक्षणा मता ॥ ११.४३ ॥ पदार्थदेहनिर्भासपरावृत्तिरनास्रवः । धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ ११.४४ ॥ चतुर्धा वशिता वृत्तेर्मनसश्चोद्ग्रहश्च च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञानेऽथ कर्मणि ॥ ११.४५ ॥ अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्यामेकैका वशिता मता ॥ ११.४६ ॥ विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः । ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ ११.४७ ॥ आधारे संभारादाधाने सति हि नाममात्रंपश्यन् । पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः ॥ ११.४८ ॥ चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् । प्रवर्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता ॥ ११.४९ ॥ स्वयं स्वेनात्मनाऽभावात्स्वभावे चानवस्थितेः । ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते ॥ ११.५० ॥ [निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पादोऽनिरोधश्चादिशन्तिः परिनिर्वृतिः] ॥ ११.५१ ॥ आदौ तत्वेऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे । संक्लेशेऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता ॥ ११.५२ ॥ धर्म नैरात्म्यमुक्तीनां तुल्यत्वात्गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता ॥ ११.५३ ॥ आकर्षणार्थमेकेषामन्यसंधारणाय च । देशितानियतानां हि संबुद्धैरेकयानता ॥ ११.५४ ॥ श्रावकोऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश्चावीतरागोऽप्यसौ मृदुः ॥ ११.५५ ॥ तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ ११.५६ ॥ प्रणिधानवशादेक उपपत्तिं प्रपद्यते । एकोऽनागामितायोगान्निर्माणैः प्रतिपद्यते ॥ ११.५७ ॥ निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ ११.५८ ॥ सोऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते ॥ ११.५९ ॥ विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः । इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम् ॥ ११.६० ॥ हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ ११.६१ ॥ चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा ॥ ११.६२ ॥ प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ ११.६३ ॥ शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् । परिपाकेऽथ पूजायां सेवायामनुकम्पना ॥ ११.६४ ॥ अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ ११.६५ ॥ दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद्[?]द्वयोः ॥ ११.६६ ॥ चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् । योगेऽभिलाषोऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ ११.६७ ॥ सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ ११.६८ ॥ समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका । परगुणप्रतिकारस्त्रयाशास्तिर्निरन्तरः ॥ ११.६९ ॥ बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] । तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना ॥ ११.७० ॥ प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ ११.७१ ॥ आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा] ॥ ११.७२ ॥ एते शुभमनस्कारा दशपारमितान्वयाः । सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि ॥ ११.७३ ॥ पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे । सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम् ॥ ११.७४ ॥ असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ ११.७५ ॥ रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] । ऐश्वर्येऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम् ॥ ११.७६ ॥ अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ ११.७७ ॥ इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्वः । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः ॥ ११.७८ ॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः _____________________________________________________________ द्वादशोऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्वेभ्यो दुःखितेभ्यः सततमवसृजन्त्युच्चदानप्रकारैः । प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ १२.१ ॥ धर्मो नैव च देशितो भगवता प्रत्यात्मयवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वर्की धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणेऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता ॥ १२.२ ॥ तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती । दृष्टोऽर्थः श्रुतमात्रकाद्यदि भवेत्स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत्स्याद्देशनापार्थिका ॥ १२.३ ॥ आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात्सर्वा[र्वतःा]काशादुच्चरणताऽपि............ ॥ १२.४ ॥ विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां ॥ १२.५ ॥ मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ १२.६ ॥ अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] । [यथार्हा निराभिषा च परिमिताक्षया तथा] ॥ १२.७ ॥ उद्देशान्निर्देशात्तथैव यानानुलोमनात्श्लाक्ष्ण्यात् । प्रातीत्यद्याथार्हान्नैर्याण्यादानुकूल्यत्वात् ॥ १२.८ ॥ व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां । षष्ट्यङ्गी साचिन्त्या घोषोऽनन्तस्तु सुगतानां ॥ १२.९ ॥ वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु ॥ १२.१० ॥ शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया ॥ १२.११ ॥ कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् । संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम् ॥ १२.१२ ॥ खेदोऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि । तदभावाद्बुद्धानां निरूत्तरा देशना भवति ॥ १२.१३ ॥ कल्याणो धर्मोऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः ॥ १२.१४ ॥ परैरसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते ॥ १२.१५ ॥ अवतारणसंधिश्च संधिर्लक्षणतोऽपरः । प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि ॥ १२.१६ ॥ श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः ॥ १२.१७ ॥ असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ १२.१७* ॥ ॥ इति ॥ समताऽर्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः ॥ १२.१८ ॥ बुद्धे धर्मेऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः ॥ १२.१९ ॥ सत्त्वानामावरणं तत्प्रतिपक्षोऽग्रयानसंभाषा । सर्वान्तरायदोषप्रहाणमेषां ततो भवति ॥ १२.२० ॥ यो ग्रन्थतोऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् ॥ १२.२१ ॥ कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ १२.२२ ॥ बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च ॥ १२.२३ ॥ इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः । भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः ॥ १२.२४ ॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः _____________________________________________________________ त्रयोदशोऽधिकारः प्रतिपत्तिविभागे षट्श्लोकाः । द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ १३.१ ॥ अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते ॥ १३.२ ॥ पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते ॥ १३.३ ॥ ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः ॥ १३.४ ॥ कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाय[हानाय] भवनायां प्रयुज्यते ॥ १३.५ ॥ व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु ॥ १३.६ ॥ सुलाभोऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ १३.७ ॥ बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान् ॥ १३.८ ॥ स्वालम्बना सुसं भारा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव ?] देशिता । सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता ॥ १३.९ ॥ रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं । समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता ॥ १३.१० ॥ धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः ॥ १३.११ ॥ धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्मात्संक्लेशनिर्देशे स संविद्[संधिर]धीमतां मतः ॥ १३.१२ ॥ यतस्तानेव रागादीन्योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः ॥ १३.१३ ॥ न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ १३.१४ ॥ न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारेऽप्यन्तरायं करोति ॥ १३.१५ ॥ धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ १३.१६ ॥ यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यतेऽथ च । अभूतकल्पेऽपि तथैव सर्वथा द्वयं सदा नास्ति च दृश्यतेऽथे च ॥ १३.१७ ॥ यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः । मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि ॥ १३.१८ ॥ मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृतेऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ १३.१९ ॥ बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात्सदा हितकरं मतम् ॥ १३.२० ॥ सत्वेषु हितकारित्वान्नैत्यापत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा[सर्वथा] ॥ १३.२१ ॥ यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति । तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपेऽपि देहिषु ॥ १३.२२ ॥ मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं । अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं ॥ १३.२३ ॥ यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते ॥ १३.२४ ॥ अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते ॥ १३.२५ ॥ यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्वाहेठे प्रपद्यते ॥ १३.२६ ॥ अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ १३.२७ ॥ मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता ॥ १३.२८ ॥ इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण ॥ १३.२९ ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः _____________________________________________________________ चतुर्दशोऽधिकारः अववादानुशासनीविभागे श्लोका एकपञ्चाशत् । कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा ॥ १४.१ ॥ तथा संभृतसंभारो ह्यादिशुद्धौ जिनात्मजः । सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते ॥ १४.२ ॥ धर्मस्रोतसि बुद्धेभ्योऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ १४.३ ॥ ततः सूत्रादिके धर्मे सोऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः ॥ १४.४ ॥ ततः पदप्रभेदेषु विचरेदनुपूर्वशः । विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः ॥ १४.५ ॥ अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः । ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः ॥ १४.६ ॥ एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत् ॥ १४.७ ॥ ज्ञेयः शमथमार्गोऽस्य धर्मनाय च पिण्डितं । ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा ॥ १४.८ ॥ युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः ॥ १४.९ ॥ श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः । सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः ॥ १४.१० ॥ निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः ॥ १४.११ ॥ प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् । ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात् ॥ १४.१२ ॥ अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् । अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा ॥ १४.१३ ॥ ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान्[रां] तदभ्यासात्पुनर्यतिः ॥ १४.१४ ॥ ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस्तान् [स्तां] स विवर्धयन् ॥ १४.१५ ॥ वृद्धिदूरंगमत्वेन मौर्ली स लभते स्थितिं । तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां ॥ १४.१६ ॥ ध्यानेऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति । पूजार्थमप्रमेयाणां बुद्धायां श्रवणाय च ॥ १४.१७ ॥ अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ १४.१८ ॥ ततोऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो यानि निरुत्तरं ॥ १४.१९ ॥ कृत्स्नादौस्वल्प[दौष्ठुल्य] कायो हि द्रवतेऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ १४.२० ॥ अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ १४.२१ ॥ प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमानेवं हेतुपरिग्रहं ॥ १४.२२ ॥ ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः । मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति ॥ १४.२३ ॥ धर्म[र्मा]लोकस्य वृध्द्यर्थं वीर्यमारभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रेऽवतिष्ठते ॥ १४.२४ ॥ सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति । प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ ॥ १४.२५ ॥ ततो ग्राहकविक्षेपः केवलोऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः ॥ १४.२६ ॥ यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं ॥ १४.२७ ॥ द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ १४.२८ ॥ सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते । अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ १४.२९ ॥ धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा । सर्वसत्वेषु लभते सदात्मसमचित्ततां ॥ १४.३० ॥ निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्वेषु समचित्तोऽसौ यथान्येऽपि जिनात्मजाः ॥ १४.३१ ॥ त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति ॥ १४.३२ ॥ तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ १४.३३ ॥ अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ १४.३४ ॥ अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश्च तदप्रणिहितस्य हि ॥ १४.३५ ॥ तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ १४.३६ ॥ संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं । विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां ॥ १४.३७ ॥ विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ १४.३८ ॥ यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन । दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव ॥ १४.३९ ॥ स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं । जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः ॥ १४.४० ॥ यत्प्रेम या वत्सलता प्रयोगः सत्वेष्वखेदश्च जिनात्मजानां । आश्चर्यमेतत्परमं भवेषु न चैव सत्वात्मसमानभावात् ॥ १४.४१ ॥ ततोऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ १४.४२ ॥ निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद्यथाव्यवस्थानं सत्वानां परिपाचकं ॥ १४.४३ ॥ भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनामेत्य बोधिसत्वौऽभिषिक्तकः ॥ १४.४४ ॥ वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ १४.४५ ॥ सर्वाकारज्ञतां चैव लभतेऽनुत्तरं पदं । यत्रस्थः सर्वसत्वानां हिताय प्रतिपद्यते ॥ १४.४६ ॥ कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः ॥ १४.४७ ॥ अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः । निगृह्य केशेष्विव दोषगह्वरात्निकृष्य बोधौ स बलान्निवेश्यते ॥ १४.४८ ॥ स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ १४.४९ ॥ बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासनेऽस्मिम् ॥ १४.५० ॥ इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगोऽग्रसत्वः ॥ १४.५१ ॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः _____________________________________________________________ पञ्चदशोऽधिकारः उद्दानम उपायसहितकर्मविभागे चत्वारः श्लोकाः अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने । प्रतिपत्तिस्तथा सम्यगववादानुशासनं ॥ १५.१ ॥ यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ १५.२ ॥ सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर्बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ १५.३ ॥ यथा विषाच्छस्त्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं । निहिनयानद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं ॥ १५.४ ॥ न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततोऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात् ॥ १५.५ ॥ महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः _____________________________________________________________ षोडशोऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः संख्याविभागे ष्ट्श्लोकाः सांख्याथ तल्लक्षणमानुपूर्वी निरुत्तिरभ्यासगुणश्च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणोऽन्योन्यविनिश्चयश्च ॥ १६.१ ॥ भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः ॥ १६.२ ॥ सत्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ १६.३ ॥ अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् ॥ १६.४ ॥ भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च । योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं ॥ १६.५ ॥ विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः । सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः ॥ १६.६ ॥ शिक्षात्रयमधिकृत्य च षष्ट्पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका ॥ १६.७ ॥ दानं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ १६.८ ॥ शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ १६.९ ॥ क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ १६.१० ॥ वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकमपि सत्वाविपाचकं त्रेधा ॥ १६.११ ॥ ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ १६.१२ ॥ प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ १६.१३ ॥ पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि ॥ १६.१४ ॥ दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात्क्षयात्क्रुद्धेः । वरयोगमनोधारणपरमाथ[र्थ]ज्ञानतश्चोक्तिः ॥ १६.१५ ॥ भावनोपधिमाश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासामेव कथ्यते ॥ १६.१६ ॥ प्रतिपादनमर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ १६.१७ ॥ अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये । दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत् ॥ १६.१८ ॥ षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ १६.१९ ॥ संकेतधर्मतालब्धं सवंरस्थेषु विद्यते । शीलमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२० ॥ मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् । पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत् ॥ १६.२१ ॥ तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२२ ॥ द्वयोरर्थं स कुरूते आत्मनश्च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ १६.२२* ॥ ॥ इति ॥ उत्साहः कुशले सम्यक्श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ १६.२३ ॥ अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः । वीर्यमेव परिज्ञाय पण्डितः समुदानयेत ॥ १६.२४ ॥ स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तयेऽभिज्ञाविहारवशवर्तकम् ॥ १६.२५ ॥ धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः । ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२६ ॥ सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः ॥ १६.२७ ॥ धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः । प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२८ ॥ सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ १६.२९ ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३० ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ १६.३१ ॥ न च सक्ता न च सक्ता न च सक्ता सत्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ १६.३२ ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३३ ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३४ ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्त न च सक्ता बोधिसत्त्वानाम् ॥ १६.३५ ॥ त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर्लोकेऽज्ञयं स्थापितम् ॥ १६.३६ ॥ आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.३७ ॥ क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तिमतो न च भयान्नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षया स्थापिता ॥ १६.३८ ॥ वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतोऽपि परतः प्राप्तुं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.३९ ॥ ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.४० ॥ ज्ञातं बुद्धसुतैः सतत्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृतौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृतौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.४१ ॥ औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम् ॥ १६.४२ ॥ दर्शनपूरणतुष्टिं याचनकेऽतुष्टिमपि समाशास्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ १६.४३ ॥ प्राणान्भोगान्दारान्सत्वेषु सदान्य[त्य]जनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयेत्र कथम् ॥ १६.४४ ॥ निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः ॥ १६.४५ ॥ समहितकामः सकृपः परदुःखोत्पादनेऽतिभीरूश्च । सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् ॥ १६.४६ ॥ सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च । अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम् ॥ १६.४७ ॥ उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे । लभते यदा कृपालुः क्षमितव्यं ..........[किं कुतस्यस्य] ॥ १६.४८ ॥ परपरसंज्ञापगमात्स्वतोऽधिकतरात्सदा परस्नेहात् । दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं ॥ १६.४९ ॥ अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद्वोधिसत्वानाम् ॥ १६.५० ॥ आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं । दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ १६.५१ ॥ आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परं मतम् ॥ १६.५२ ॥ आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५३ ॥ [आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५४ ॥ आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५५ ॥ आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परा मता ॥ १६.५६ ॥ एकसत्वसुखं दानं बहुकल्पविघातकृत् । प्रियं स्यद्वोधिसत्वानां प्रागेव तद्विपर्ययात् ॥ १६.५७ ॥ यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरैः शतशो विसृज्यते ॥ १६.५८ ॥ शरीरामेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणेऽवरे कथा । तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः ॥ १६.५९ ॥ प्रतिग्रहैरिष्टनिकामलब्धर्न तुष्टिमायाति तथार्थिकोऽपि । सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या ॥ १६.६० ॥ संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचकोऽपि । सर्वास्तिदानादधनोऽपि धीमानात्मानमन्वेति यथास्तिमन्तं ॥ १६.६१ ॥ सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथाथी दायकाल्लाभहेतोः । विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान्यथैति ॥ १६.६२ ॥ स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सोऽन्यः ॥ १६.६३ ॥ प्राधान्यतत्कारणकर्मभेदात्प्रकारभेदाश्रयभेदतश्च । चतुर्विबन्धप्रतिपक्षभेदात्वीर्यं परिज्ञेयमिति प्रदिष्टम् ॥ १६.६४ ॥ वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतोऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः ॥ १६.६५ ॥ वीर्यावदवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः । वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ १६.६६ ॥ पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत् ॥ १६.६७ ॥ संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ १६.६८ ॥ निकृष्टमध्योत्तमवीर्यमन्यत्यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात्वीर्यं तदल्पार्थमहार्थमिष्टम् ॥ १६.६९ ॥ न वीर्यवान्भोगपराजितोऽस्ति नो वीर्यवान् क्लेशपराजितोऽस्ति । न वीर्यवान् खेदपराजितोऽस्ति नो वीर्यवान् प्राप्तिपराजितोऽस्ति ॥ १६.७० ॥ अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च । षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ १६.७१ ॥ दानं समं प्रियाख्यानमर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिरिष्यते ॥ १६.७२ ॥ उपायोऽनुग्रहकरो ग्राहकोऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः ॥ १६.७३ ॥ आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना ॥ १६.७४ ॥ चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनादपि [दिना] ॥ १६.७५ ॥ हीनमध्योत्तमः प्रायो वन्ध्योऽवन्ध्यश्च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः ॥ १६.७६ ॥ पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते ॥ १६.७७ ॥ संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च येऽधुना । सर्वे त एवं तस्माच्च वर्त्म तत्सत्वपाचने ॥ १६.७८ ॥ इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता ॥ १६.७९ ॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः _____________________________________________________________ सप्तदशोऽधिकारः बुद्धपूजाविभागे सप्त श्लोकाः । संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । गाढप्रसन्नचित्तस्य संभारद्वयपूरये ॥ १७.१ ॥ अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजा ॥ १७.२ ॥ सत्वानामप्रमेयानां परिपाकाय चापरा । उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः ॥ १७.३ ॥ अनुकम्पाक्षमाभ्यां च समुदाचारतोऽपरा । वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः ॥ १७.४ ॥ आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ १७.५ ॥ हेतुतः फलतश्चैव आत्मना च परैरपि । लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा ॥ १७.६ ॥ परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता ॥ १७.७ ॥ बुद्धेषु पूजा परमा स्वचित्तात्धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ १७.८ ॥ आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ १७.९ ॥ मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं । प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ १७.१० ॥ सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च । धर्मे तथाज्ञाशय एव धीमान्मित्रं प्रगच्छेत्समये नतश्च ॥ १७.११ ॥ सत्कारलाभेषु गतस्पृहोऽसौ प्रपत्तये तं परिणामयेच्च । यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतोऽस्य धीरः ॥ १७.१२ ॥ यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ । इति मानत्रयकौशलात्ज्ञानं । सत्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ १७.१३ ॥ धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवेसत्स मित्रम् । हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान् ॥ १७.१४ ॥ श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनोऽनुयोगात् । गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत्धीमान् ॥ १७.१५ ॥ सन्मित्रसेवा परमा स्वचित्ताद्धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ १७.१६ ॥ ब्राह्मा विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे ॥ १७.१७ ॥ सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत्तथतायां च धीराणाम् ॥ १७.१८ ॥ तस्याश्च तथतार्थत्वात्क्षान्तिलाभाद्विशुद्धितः । कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि ॥ १७.१९ ॥ ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः । अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ १७.२० ॥ असमाहितस्वभावा मृदुमध्या हीनभूमिका येऽपि । हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः ॥ १७.२१ ॥ ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान्पूरयते सत्वांश्च विपाचयति तेन ॥ १७.२२ ॥ सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण । तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तोऽपि ॥ १७.२३ ॥ व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च । युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति ॥ १७.२४ ॥ क्लेशैर्हन्त्यात्मानं सत्वानुपहन्ति शीलमुपहन्ति । सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता] ॥ १७.२५ ॥ साधिकरणोऽशयस्वी परत्र संजायतेऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद्दुःखमाप्नोति ॥ १७.२६ ॥ एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति ॥ १७.२७ ॥ न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्वानां । मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां ॥ १७.२८ ॥ प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् । दुर्गमार्गसमारूढान्महाबन्धनसंयुतान् ॥ १७.२९ ॥ महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्वान्दुर्बलान् करुणायते ॥ १७.३० ॥ हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं । स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य ॥ १७.३१ ॥ विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिकोऽग्रबुद्धिः ॥ १७.३२ ॥ दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदमायत्यपि वा कृपालुः ॥ १७.३३ ॥ कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात्चतुर्विधेयं करूणात्मकानां ॥ १७.३४ ॥ न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः ॥ १७.३५ ॥ करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्वपरिपाकः । करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र] (पश्चिमान्त)फलः ॥ १७.३६ ॥ मूलं करुणा न भवेद्दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव ॥ १७.३७ ॥ चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्माननुगच्छन्सत्वान्परिपाचयेन्नैव ॥ १७.३८ ॥ करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया ॥ १७.३९ ॥ पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ १७.४० ॥ कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु । दुःखेऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं ॥ १७.४१ ॥ अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां । कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः ॥ १७.४२ ॥ स्नेहो न विद्यतेऽसौ योऽनिरवद्यो न लौकिको यश्च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ १७.४३ ॥ दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं । उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः ॥ १७.४४ ॥ स्नेहो न सोऽस्त्यरिहतां लोके प्रत्येकबोधिबुद्धानां । प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात् ॥ १७.४५ ॥ दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां । संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं ॥ १७.४६ ॥ किमतः परमाश्चर्यं यद्दुःखं सौख्यमभिभवति सर्व । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ १७.४७ ॥ कृपया सहितं दानं यद्दानसुखं करोति धीराणां । त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति ॥ १७.४८ ॥ दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं । परहितहेतोर्दुःखं किं कारूणिकैर्न समुपेतम् ॥ १७.४९ ॥ करूणा दानं भोगाः सदा कृपालोर्विवृद्धिमुपयान्ति । स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात् ॥ १७.५० ॥ वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव ॥ १७.५१ ॥ दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् । सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम् ॥ १७.५२ ॥ स्वं दानं कारूणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा मामप्ययुतसौख्यम् ॥ १७.५३ ॥ सफलं दानं दत्तं तन्मे सत्वेषु तत्सुखसुखेन । फल तेष्वेव निकामं यदि मे कर्तव्यता तेऽस्ति ॥ १७.५४ ॥ भोगेद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरोऽस्मि यतः ॥ १७.५५ ॥ सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं । ननु ते तेन ज्ञेयं न मत्फलेनार्थिताऽस्येति ॥ १७.५६ ॥ दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं । क्षणमपि दानेन विना दानाभिरतो भवति नैव ॥ १७.५७ ॥ अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं । प्रतिकारनिर्व्यपेक्षः परत्र फलदोऽस्य कामं ते ॥ १७.५८ ॥ निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ १७.५९ ॥ सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं । बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् ॥ १७.६० ॥ न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ १७.६१ ॥ कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ १७.६२ ॥ करुणा बोधिसत्वानां सुखाद्दुःखात्तदन्वयात् । करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः ॥ १७.६३ ॥ करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः ॥ १७.६४ ॥ मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतोऽधिमोक्षाच्च । आशयतोऽपि विभुत्वादविकल्पादैक्यतश्चापि ॥ १७.६५ ॥ इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्किर्यामिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं ॥ १७.६६ ॥ महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः [ सप्तदशः] समाप्तः _____________________________________________________________ अष्टादशोऽधिकारः लज्जाविभागे षोडश श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ १८.१ ॥ षणां पारमितानां निषेवणालस्यतो भवति लज्जा । क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां ॥ १८.२ ॥ असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्वधिका ॥ १८.३ ॥ लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः । प्रतिघोपेक्षामानः सत्वानुपहन्ति शीलं च ॥ १८.४ ॥ कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति । श्राद्धात्मा[मा]नुषसंघाच्छास्त्रा चोपेक्ष्यते तस्मात् ॥ १८.५ ॥ सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतोऽयशो लभते । दृष्टे धर्मेऽन्यत्र क्षणरहितो जायते भूयः ॥ १८.६ ॥ प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन । दुःखं विहरति तस्मान्मनसोऽप्यस्वस्थतामेति ॥ १८.७ ॥ एते सर्वे दोषा हिमत्सु भवन्ति नो जिनसुतेषु । देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ १८.८ ॥ संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् । सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ १८.९ ॥ स विपक्षप्रतिपक्षै रहितोऽरहितश्च जायते सततं । इत्येतमानुशंसं ह्रीमानाप्नोति जिनपुत्रः ॥ १८.१० ॥ दोषमलिनो हि बालो ह्रीविरहात्सुवसनैः सुगुप्तोऽपि । निर्वसनोऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ १८.११ ॥ आकाशमिव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः । ह्रीभूषितश्च शोभति संपर्कगतो जिनसुतानाम् ॥ १८.१२ ॥ मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ १८.१३ ॥ सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च । सर्वेषु च प्रवृत्तिर्ह्रीविहितं ह्रीमतो लिङ्गम् ॥ १८.१४ ॥ ह्रीभावना प्रधाना स्वचित्ततो धर्मतोऽधिमोक्षाच्च । आशयतोऽपि विभुत्वादकल्पनादैक्यतश्चापि ॥ १८.१५ ॥ धृतिश्च बोधिसत्वानां लक्षणेन प्रभेदतः । दृढत्वेन च सर्वेभ्यस्तदन्येभ्यो विशिष्यते ॥ १८.१६ ॥ वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्वो हि त्रयाद्यस्मात्प्रवर्तते ॥ १८.१७ ॥ लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं । कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये ॥ १८.१८ ॥ प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे ॥ १८.१९ ॥ विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ १८.२० ॥ निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते । असमा च तदन्येभ्यः सोऽग्रे धृतिमतां यतः[मतः] ॥ १८.२१ ॥ कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते । शलभैः पक्षवातैश्च समुदैश्च सुमेरुवत् ॥ १८.२२ ॥ अखेदो बोधिसत्त्वानामसमस्त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीघृतिनिश्रितः ॥ १८.२३ ॥ तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः । अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु ॥ १८.२४ ॥ वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ १८.२५ ॥ शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्वपाकाय सद्धर्मस्य च धारणे ॥ १८.२६ ॥ कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ १८.२७ ॥ सा पुनः किमर्थमित्याह सत्वानां भाजनत्वाय । कस्मिन्नर्थे भाजनत्वाय सद्धर्मप्रतिपत्तये ॥ १८.२८ ॥ सत्यद्वयाद्यतश्चेष्टो लोकानामुदयोऽसकृत् । द्वयादस्तंगमस्तस्मात्तज्ज्ञो लोकज्ञ उच्यते ॥ १८.२९ ॥ शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते ॥ १८.३० ॥ आर्षश्च देशनाधर्मो अर्थोऽभिप्रायिकोऽस्य च । प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च ॥ १८.३१ ॥ प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च । साभिलाष[प]स्य च प्राप्तेः प्रतिषेधोऽत्र देशितः ॥ १८.३२ ॥ अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् । निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां ॥ १८.३३ ॥ असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः ॥ १८.३४ ॥ देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना ॥ १८.३५ ॥ धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद्द्वयोः । परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ १८.३६ ॥ प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते ॥ १८.३७ ॥ संभारो बोधिसत्वानां पुण्यज्ञानमयोऽसमः । संसारेऽभ्युदयायैकः अन्योऽसंक्लिष्टसंसृतौ ॥ १८.३८ ॥ दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः ॥ १८.३९ ॥ संतत्या भावनामेत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः ॥ १८.४० ॥ प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणामुपचीयते ॥ १८.४१ ॥ चतुर्दशभिराकारैः स्मृत्युपस्थानभावना । धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते ॥ १८.४२ ॥ निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च । आलम्बनमनस्कारप्राप्तितश्च विशिष्यते ॥ १८.४३ ॥ आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितोऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ १८.४४ ॥ सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः । समृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते ॥ १८.४५ ॥ संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ १८.४६ ॥ अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्वानां परिपाके च अभिषेके च धीमतां ॥ १८.४७ ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः ॥ १८.४८ ॥ छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ १८.४९ ॥ ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च ॥ १८.५० ॥ निश्रयाच्च प्रभेदाच्च उपायदभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ १८.५१ ॥ ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः । उपायश्चाभिनिर्हारः षड्विधश्च विधीयते ॥ १८.५२ ॥ व्यावसायिक एकश्च द्वितीयोऽनुग्रहात्मकः । नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः ॥ १८.५३ ॥ दर्शनस्याववादस्य स्थितिविक्रीडितस्य च । प्रणिधेर्वशितायश्च धर्मप्राप्तेश्च निर्हृतिः ॥ १८.५४ ॥ बोधिश्चर्या श्रुत चात्र[ग्रं]शमथोऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ १८.५५ ॥ भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ १८.५६ ॥ भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्वानां समतावगमात्पुनः ॥ १८.५७ ॥ स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये । सर्वकल्पनिमित्तानां भङ्गाय विचयोऽस्य च ॥ १८.५८ ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय । आशु चाशेषबोधाय वीर्यस्य प्रवर्तते । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ १८.५९ ॥ सर्वावरणनिर्मोक्षात्प्रश्रब्ध्या सुखमेति च । चिन्तितार्थसमृद्धिश्च समाधेरूपजायते ॥ १८.६० ॥ उपेक्षया यथाकामं सर्वत्र विहरत्यसौ । प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन [विहारेण] सदोत्तमः ॥ १८.६१ ॥ एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते । सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः ॥ १८.६२ ॥ निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं । चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम् ॥ १८.६३ ॥ यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते । यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ ॥ १८.६४ ॥ कर्मत्रयविशुद्धिश्च प्रतिपक्षस्य भावना । ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च ॥ १८.६५ ॥ चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि । सम्यक्स्थितिमुपाश्रित्य शमथोऽथ विपश्यना ॥ १८.६६ ॥ सर्वत्रगा च सैकाशां नैकांशोपनिषन्मता । प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते ॥ १८.६७ ॥ परिशुद्धौ विशुद्धौ च शमथोऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ १८.६८ ॥ पूरये बुद्धधर्माणां सत्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं ॥ १८.६९ ॥ उपाये बोधिसत्त्वानामसमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते ॥ १८.७० ॥ विपाकेन श्रुताभ्यासात्धारण्यपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ १८.७१ ॥ अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ १८.७२ ॥ धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ १८.७३ ॥ चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणामसमं सर्वभूमिषु ॥ १८.७४ ॥ हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् । आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः ॥ १८.७५ ॥ चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं ॥ १८.७६ ॥ नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ १८.७७ ॥ समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः । निर्विकल्पोऽपि विमुखो रतियुक्तश्च सर्वदा ॥ १८.७८ ॥ परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ १८.७९ ॥ समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं । देशितं बोधिसत्त्वेभ्यः सत्वानां हितकाम्यया ॥ १८.८० ॥ असदर्थोऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम् ॥ १८.८१ ॥ अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः । अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः ॥ १८.८२ ॥ परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्वानुवृत्तितः ॥ १८.८३ ॥ आद्यस्तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ १८.८४ ॥ भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ १८.८५ ॥ चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः । चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात् ॥ १८.८६ ॥ स्थितस्यासंभवादन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरेऽपि च ॥ १८.८७ ॥ गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् । अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ १८.८८ ॥ भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद्वृद्धिहानितः ॥ १८.८९ ॥ तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत् ॥ १८.९० ॥ इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः ॥ १८.९१ ॥ प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद्विपर्यासात्संक्लेशात्क्लिष्टहेतुतः ॥ १८.९२ ॥ एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ । स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः ॥ १८.९३ ॥ द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं । एकत्वान्यत्वतोऽवाच्यो न युक्तो निष्प्रयोजनः ॥ १८.९४ ॥ लक्षणाल्लोकदृष्टाच्च शास्त्रतोऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि ॥ १८.९५ ॥ द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः । नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते ॥ १८.९६ ॥ स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ १८.९७ ॥ दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं ॥ १८.९८ ॥ अकर्तृत्वादनित्यत्वात्सकृत्रित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ १८.९९ ॥ तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ १८.१०० ॥ सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ १८.१०१ ॥ संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ १८.१०२ ॥ आत्मदृष्टिरनुत्पाद्या अभ्यासोऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलोऽस्ति वा ॥ १८.१०३ ॥ प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । एकत्वान्यत्वतोवाच्यस्तस्मादसौ । स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः । द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं । एकत्वान्यत्वतोऽवाच्यो न युक्तो निष्प्रयोजनः । लक्षणाल्लोकदृष्टाच्च शास्त्रतोऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि । द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः । स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ॥ तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकम् । अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ आत्मदृष्टिरनूत्पाद्या पूर्वमेवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्मादात्मदृष्टेर् अभ्यासोऽनादिकालिकः । यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत । एवं सति स्यात् अयत्नमोक्षः सर्वेषां एवमेभिर्गुणैर्नित्यं बोधिसत्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ १८.१०४ ॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः[अष्टादशः] समाप्तः _____________________________________________________________ एकोनविंशत्यधिकारः आश्चर्य विभागे त्रयः श्लोकाः । स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ १९.१ ॥ वीर्यारम्भो ह्यनास्वादो धानेषु सुख एव च । निष्कल्पना न प्रज्ञायामाश्चर्यं धीमतां ग[म]तं ॥ १९.२ ॥ तथागतकुले जन्मलाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते ॥ १९.३ ॥ वैराग्यं करुणां चैत्य भावनां परमामपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ १९.४ ॥ न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां ॥ १९.५ ॥ अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि ॥ १९.६ ॥ ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्वानां तास्वेव समचित्तता ॥ १९.७ ॥ स्थापना भाजनत्वे च शीलेष्वेव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ १९.८ ॥ आवर्जना शासनेऽस्मिंश्छेदना संशयस्य च । सत्वेषु उपकारित्वं धीमतामेतदिष्यते ॥ १९.९ ॥ समाशयेन सत्वानां धारयन्ति सदैव ये । जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च ॥ १९.१० ॥ दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः ॥ १९.११ ॥ श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् । अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् ॥ १९.१२ ॥ बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् । पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः ॥ १९.१३ ॥ अनर्हदेशनां ये च सत्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम् ॥ १९.१४ ॥ अववादं च यच्छन्ति मारानावेदयन्ति हि । पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः ॥ १९.१५ ॥ संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ १९.१६ ॥ सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः ॥ १९.१७ ॥ सर्वदोद्यमवन्तो ये सत्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ १९.१८ ॥ द्वयसंपत्तिदातारस्तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः ॥ १९.१९ ॥ अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः । सर्वया[नो]पदेष्टारः सिद्वयोगानियोजकाः ॥ १९.२० ॥ सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः ॥ १९.२१ ॥ सत्वकृत्यार्थमुद्युक्ताः संभारान्पूरयन्ति ये । संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च ॥ १९.२२ ॥ लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च । पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः ॥ १९.२३ ॥ असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः ॥ १९.२४ ॥ षट्सु पारमितास्वेव वर्तमाना हि देहिनः । भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः ॥ १९.२५ ॥ वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ १९.२६ ॥ त्रासहानौ समुत्पादे संशयच्छेदनेऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ १९.२७ ॥ दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये ॥ १९.२८ ॥ विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ १९.२९ ॥ भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका । आस्वादनं विकल्पश्च धीराणां हानिहेतवः ॥ १९.३० ॥ स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ १९.३१ ॥ प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथ वृत्तिः शान्तवाक्कायता तथा ॥ १९.३२ ॥ सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्वानामभूतत्वाय देशिताः । विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ १९.३३ ॥ ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ १९.३४ ॥ धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं ॥ १९.३५ ॥ नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः ॥ १९.३६ ॥ क्षेत्रेणं नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्या च सद्धर्मस्य तदिष्यते ॥ १९.३७ ॥ संपत्युत्पत्तिनैयम्यपातोऽखेदे च धीमतां । भावनायाश्च सातत्ये समाधानाच्युतावपि । कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा ॥ १९.३८ ॥ पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च । सर्वभूमिषु धीराणामवश्यकरणीयता ॥ १९.३९ ॥ कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ १९.४० ॥ अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं हि धीमतां सर्वभूमिषु ॥ १९.४१ ॥ धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ १९.४२ ॥ विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ १९.४३ ॥ पुनः सत्वव्यवस्थानं सप्तधा तथताश्रयात् । चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ १९.४४ ॥ योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर्विचयोऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ १९.४५ ॥ आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि । समुदागमभेदाच्च त्रिविधं यानमिष्यते ॥ १९.४६ ॥ आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः । प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ १९.४७ ॥ सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ १९.४८ ॥ प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश्चित्तचैत्तास्तु बध्यन्तेऽत्र सबीजकाः ॥ १९.४९ ॥ पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं । सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम् ॥ १९.५० ॥ तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ १९.५१ ॥ तथतालम्बनं ज्ञानमनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ १९.५२ ॥ तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः । तत्त्वं तु बोधिसत्वानां सर्वतः ख्यात्यपास्य तत् ॥ १९.५३ ॥ अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षोऽसौ कामचारतः ॥ १९.५४ ॥ अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् । अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत् ॥ १९.५५ ॥ परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ १९.५६ ॥ बोधिसत्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च । चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च ॥ १९.५७ ॥ सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ १९.५८ ॥ आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ १९.५९ ॥ उदागममहत्वं च महत्वं बुद्धकर्मणः । एतन्महत्वयोगाद्धि महायानं निरुच्यते ॥ १९.६० ॥ गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च ॥ १९.६१ ॥ सत्वानां परिपाकश्च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना] ॥ १९.६२ ॥ आधिमोक्षिक एकश्च शुद्धाध्याशयिकोऽपरः । निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते । बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ १९.६३ ॥ कामेष्वसक्तस्स्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च । धर्मेऽचलस्तत्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः ॥ १९.६४ ॥ अनुग्रहेच्छोऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च । धीरोऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः ॥ १९.६५ ॥ आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः । योगी निमित्ते कुशलोऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः ॥ १९.६६ ॥ दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः ॥ १९.६७ ॥ दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः ॥ १९.६८ ॥ धर्मेरतोऽधर्मरतः [धर्मेऽरतोऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः ॥ १९.६९ ॥ भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः ॥ १९.७० ॥ विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशाल[विसार]लज्जस्तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः ॥ १९.७१ ॥ इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः ॥ १९.७२ ॥ बोधिसत्वो महासत्वो धीमांश्चैवोत्तमद्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ १९.७३ ॥ विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा ॥ १९.७४ ॥ सुतत्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः । उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः ॥ १९.७५ ॥ आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च । सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्वः ॥ १९.७६ ॥ अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७७ ॥ अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७८ ॥ निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात्क्रमदर्शनस्य । बोधाद्भृशं संशयहानिबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७९ ॥ लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च । निर्जल्पबुद्धिर्हतमानमानी ह्यपक्कसंपक्कमतिश्च धीमान् ॥ १९.८० ॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः _____________________________________________________________ विंशतितमःेकविंशतितमश्चाधिकारः लिङ्गविभागे द्वौ श्लोकौ अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां ॥ २०.१ ॥ परिग्रहेऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं ॥ २०.२ ॥ बोधिसत्वा हि सततं भवन्तश्चक्रवर्तिनः । प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु ॥ २०.३ ॥ आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु ॥ २०.४ ॥ अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्वाद्धि यतिस्तस्माद्विशिष्यते ॥ २०.५ ॥ परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च । निर्वाणेच्छा च धीराणां सत्वेष्वाशय इष्यते । अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु ॥ २०.६ ॥ प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः । गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु ॥ २०.७ ॥ कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा । समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता ॥ २०.८ ॥ लक्षणात्पुद्गगलाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च ॥ २०.९ ॥ शून्यता परमात्मस्य कर्मानाशे व्यवस्थितिः । विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम् ॥ २०.१० ॥ ततश्च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्वानां परिपाचना ॥ २०.११ ॥ उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टाऽनिमित्तैकान्तिकः पथः ॥ २०.१२ ॥ अनिमित्तेऽप्यनाभोगः क्षेत्रस्य च विशोधना । सत्वपाकस्य निष्पत्तिर्जायते च ततः परम् ॥ २०.१३ ॥ समाधिधारणीनां च बोधेश्चैव विशुद्धता । एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम् ॥ २०.१४ ॥ विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ २०.१५ ॥ उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्वपाके कुशलो महर्द्धिः । संपूर्णकायश्च निदर्शने च शक्तोऽभिषिक्तः खलु बोधिसत्वः ॥ २०.१६ ॥ धर्मतां प्रतिविध्येह अधिशीलेऽनुशिक्षणे । अधिचित्तेऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ २०.१७ ॥ धर्मतत्वं तदज्ञानज्ञानाद्या वृत्तिरेव च । प्रज्ञाया गोचरस्तस्माद्द्विभूमौ तद्व्यवस्थितिः ॥ २०.१८ ॥ शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् । अनिमित्तससंस्कारो विहारः प्रथमं फलम् ॥ २०.१९ ॥ स एवानभिसंस्कारो द्वितीयं फलमिष्यते । क्षेत्रशुद्धिश्च सत्वानां पाकनिष्पत्तिरेव च ॥ २०.२० ॥ समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्येतत्चतुर्भूमिसमाश्रितम् ॥ २०.२१ ॥ धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ २०.२२ ॥ विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधादावरणात्प्रतिघातावृतेरपि ॥ २०.२३ ॥ अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः ॥ २०.२४ ॥ निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ २०.२५ ॥ भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात्बुद्धानां विषयादपि ॥ २०.२६ ॥ अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते । अलीनत्वमदीनत्वमपरप्रत्ययात्मता ॥ २०.२७ ॥ प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ २०.२८ ॥ नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर्विकल्पैर्हतः । नो विक्षिप्तमतिः सुखैर्न च हतो दुःखैर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ २०.२९ ॥ सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् । जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मनः ॥ २०.३० ॥ शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमतामनुशंसो हि सर्वथा सर्वभूमिषु ॥ २०.३१ ॥ पश्यतां बोधिमासन्नां सत्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ २०.३२ ॥ दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते । महाधर्मावभासस्य करणाच्च प्रभाकरी ॥ २०.३३ ॥ अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः ॥ २०.३४ ॥ सत्वानां परिपाकश्च स्वचित्तस्य च रक्षणा । धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते ॥ २०.३५ ॥ आभिमुख्याद्द्व्यस्येह संसारस्यापि निर्वृतेः । उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ २०.३६ ॥ एकायनपथश्लेषाद्भूमिर्दूरंगमा मता । द्व्यसंज्ञाविचलनादचला च निरुच्यते ॥ २०.३७ ॥ प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमति मता । धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत् ॥ २०.३८ ॥ विविधे शुभनिर्हारे रत्या विहरणात्सदा । सर्वत्र बोधिसत्वानां विहारभूमयो मताः ॥ २०.३९ ॥ भूयो भूयोऽमितास्वासु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ २०.४० ॥ भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् । प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः ॥ २०.४१ ॥ महायानेऽधिमुक्तानां हीनयाने च देहिनां । द्वयोरावर्जनार्थाय विनयाय च देशिताः । चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः ॥ २०.४२ ॥ अनुकम्पकसत्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमोऽस्तुते ॥ २०.४३ ॥ सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमोऽस्तुते ॥ २०.४४ ॥ अशेषं सर्वसत्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमोऽस्तुते ॥ २०.४५ ॥ अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमोऽस्तु ते ॥ २०.४६ ॥ आश्रयेऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमोऽस्तुते ॥ २०.४७ ॥ उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ । निः सारे चैव सत्वानां स्वववाद नमोऽस्तु ते ॥ २०.४८ ॥ सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात्प्रसादस्य विधायक नमोऽस्तु ते ॥ २०.४९ ॥ आदानस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमोऽस्तु ते ॥ २०.५० ॥ उपाये शरणे शुद्धौ सत्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमोऽस्तु ते ॥ २०.५१ ॥ ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थेऽन्यतीर्थ्यानां निराधृष्य नमोऽस्तु ते ॥ २०.५२ ॥ वि[नि]गृह्यवक्ता पर्षत्सु द्व्यसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमोऽस्तु ते ॥ २०.५३ ॥ चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमोऽस्तु ते ॥ २०.५४ ॥ सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततमसंमोषः नमोऽस्तु ते ॥ २०.५५ ॥ सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमोऽस्तु ते ॥ २०.५६ ॥ चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमोऽस्तु ते ॥ २०.५७ ॥ त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत । सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमोऽस्तु ते ॥ २०.५८ ॥ निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमोऽस्तु ते ॥ २०.५९ ॥ निष्पन्नपरमार्थोंऽसि सर्वभूमिविनिःसृतः । सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः ॥ २०.६० ॥ अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे । मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः ॥ २०.६१ ॥ महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमोऽधिकारः समाप्तश्च महायानसूत्रालंकार इति