आचार्यकमलशीलप्रणीतो भावनाक्रमः प्रथमः [महायानसूत्राणां य आदिकर्मिकस्य चर्यानियमः । तमधिकृत्य संक्षेपाद्भावनाक्रमस्त्वभिधीयते ॥ अचिरेण सर्वज्ञतां प्राप्तुकामैः संक्षेपतः करुणा, बोधिचित्तम्, प्रतिपत्तिश्चेति त्रिषु स्थानेषु प्रयतितव्यम् । बुद्धत्वस्य अशेषधर्महेतुमूलं करुणैवेति ज्ञात्वा सादावेव भावयितव्या । यथोक्तमार्यधर्मसंगीतिसूत्रे- "अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महसत्त्वो भगवन्तमेतदवोचत्- न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् । एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः । तस्य सर्वबुद्धधर्माः करतलगता भवन्ति । कतम एकधर्मः? यदुत महाकरुणा । महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्माः करतलगता भवन्ति । तद्यथा भगवन् येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुण गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति । तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन्महाकरुणायां सत्यामन्येषां बोधिसत्त्वानां] धर्माणां प्रवृत्तिर्भवति ।" इति । आर्याक्षयमतिनिर्देशे चोक्तम्- "पुनरपरम्, भदन्त शारद्वतीपुत्र, बोधिसत्त्वानां महाकरुणाप्यक्षया । तत्कस्य हेतोः? पूर्वङ्गमत्वात् । (१६६) तद्यथापि नाम, भदन्त शारद्वतीपुत्र, आश्वासाः [प्रश्वासाः] पुरुषस्य जीवितेन्द्रियस्य पूर्वङ्गमाः, एवमेव महायान-सम्भार-समुदागमाय बोधिसत्त्वस्य महाकरुणा पूर्वङ्गमा" इति विस्तरः । आर्यगयाशीर्षे चोक्तम्- "किमारम्भा, मञ्जुश्रीः, बोधिसत्त्वानां चर्या, किमधिष्ठाना च? मञ्जुश्रीराह- महाकरुणारम्भा, देवपुत्र, बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना । "इति विस्तरः । तथा हि तया प्रेर्यमाणा बोधिसत्त्वाः स्वात्मनिरपेक्षा एकान्तेन परोपकारार्थतया अतिदुष्करदीर्घकालिकेऽपि सम्भारोपार्जनपरिश्रमे प्रवर्तन्ते । तथा चोक्तमार्यश्रद्धाबलाधाने- "तत्र [महा]करुणयापि सर्वसत्त्वपरिपाचनार्थं न तत्किञ्चित्सुखोपाधानं यन्न परित्यजति । "इति । अतोऽतिदुष्करे प्रवर्तमानो नचिरेणैव सम्भारान् परिपूर्यावश्यमेव सर्वज्ञपदमधिगच्छति । ततो बुद्धधर्माणां करुणैव मूलम् । महाकरुणापरिग्रहादेव बुद्धा भगवन्तोऽधिगम्य सर्वज्ञपदमशेषस्य जगतोऽर्थ विकुर्वाणास्तिष्ठन्त इति निर्वाणाप्रतिष्ठाने सैव भगवतां महाकरुणा हेतुः । सा च दुःखितसत्त्वालम्बनमनस्कारबहुलीकारतो वृद्धिम् (उपयाति) । सर्वे च ते सत्त्वास्त्रिधातुकावचरास्त्रिविधदुःखतया यथोयोगमत्यन्त दुःखिता एवेति सर्वेष्वेव सत्त्वेषु भावनीयम् । तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घकालिकदाहादिदुःख [नदीषु] निमग्ना एव भगवता वर्णिताः । तथा प्रेता अपि दुःसहतीव्रक्षुत्तृषादिदुःख[अग्नि] (१६७) पीडाभिसंशोषितमूर्तयस्तीव्रदुःखमनुभवन्ति । येन वर्षशतेनाप्यशुचिं खेटपिण्डनं च भोक्तुं न लभन्त इत्यादि वर्णितं भगवता । तिर्यञ्चोऽपि परस्पर[भक्षण]क्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव । तथा हि केचिन्नासिकाभेदनताडाणबन्धनादिभिरतन्त्रीकृतशरीराः परितः परिपीडयमानाः कथमप्यनिच्छन्तोऽपि अतिदुर्वहगुरुभारोद्वहनपरिखिन्नवपुषः परिक्लाम्यन्ति, तथारण्येऽपि निवसन्तोऽनपराधाः केचित्क्वचित्[अर्थ]तोऽन्विष्य हन्यन्ते । नित्यं च भयविव्हलमानसस्ततस्ततः पलायमानास्तिष्ठन्तीत्यपरिमितमेषां दुःखं दृश्यत्त एव । तथा मानुष्येऽपि नारकं दुःखं दृश्यत एव । अत्र ये चौरादयोऽङ्गच्छेदशूलार्पणोद्बन्धनादिभिः कार्यन्त एव तेषां नारकमेव दुःखम् । ये च दारिद्रयद्युपहतास्तेषां प्रेतानामिव तत्क्षुत्तर्षाडिभिर्दुःखम् । ये च भृत्यादयः परायत्तीकृतात्मभावाः, ये च बलिभिराक्रम्य पीडयन्ते तेषां तिरश्चामिव ताडनावरोधनादि दुःखम् । तथा पर्येष्टिकृतमन्योऽन्यद्रोहोपघातादि कृतं प्रियविप्रयोगाप्रियसंयोगकृतं चाप्रमेयमेषां दुःखम् । ये क्वचिदीश्वराः सुखिता इव लप्यन्ते तेऽपि विपर्यवसानसम्पदो विविधकुदृष्टिगहननिमग्ना नारकादिदुःखानुभवहेतुविविध क्लेशकर्माण्युपचिन्वन्तः प्रपातस्थास्तरव इव दुःखहेतौ [अपि] वर्तमानाः परमार्थतो दुःखिता एव । देवा अपि ये तावत्कामावचरास्तेऽपि तीव्रकामाग्निसन्दीप्तमानसा आक्षिप्तचित्ता इवास्वच्छचेतसः क्षणमपि समाधानं चेतसां न लभन्ते । तेषां प्रशमसुखधनदरिद्राणां कीदृशं नाम तत्सुखम्? नित्यच्यवनपतनादिभयशोकोपहताः कथं सुखिता नाम? ये च रूपारूपावचरास्तेऽपि (१६८) यदि नाम कियत्कालं दुःखदुःखतां व्यतीतास्तथाप्यत्यन्तं कामावचराणामनुशयानामप्रहाणात्तेषां पुनरपि नारकादिविनिपातसम्भवाद्विपरिणामदुःखमस्त्येव । सर्वे नाम देवमनुष्याः क्लेशकर्मादिपारतन्त्र्यात्ते संस्कारदुःखतया दुःखिता एव । तदेवं सकलमेव जगद्दुःखग्निज्वालावलीढमित्यवेत्य यथा मम दुःखमप्रियं तथान्येषामप्रियमिति चिन्तयता सर्वेष्वेव सत्त्वेषु कृपा भावनीया । प्रथमं तावद्मित्रपक्षेषु पूर्वोक्ता विविधदुःखानुभवेष्वनुपश्यता भावनीया । ततः सत्त्वसमतया विशेषमपश्यतानादिमति च संसारे न कश्चित्सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयता व्यस्तेषु भावनीया । यदा मित्रपक्षेष्विव व्यस्तेषु [अपि] तुल्या करुणा प्रवृत्ता भवति, तदा शत्रुपक्षेऽपि तथैव सत्त्वसमतादिमनसिकारेण भावनीया । यदा च शत्रुपक्षेऽपि मित्रपक्षवत्समप्रवृत्ता भवति, तदा क्रमशो दशसु दिक्षु सर्वसत्त्वेषु [अपि] भावयेत् । यदा च दुःखितबालप्रियेष्विव दुःखोद्धरणेच्छाकारा स्वरसवाहिनी सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति, तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते । यथा अक्षयमतिसूत्रे च वर्णितम् । अयं च कृपाभावनाक्रमो भगवताभिधर्मसूत्रादौ वर्णितः । तस्यैवं कृपाभ्यासबलात्सकलसत्त्वाभ्युद्धरणप्रतिज्ञयानुत्तरसम्यक्सम्बोधिप्रार्थनाकारमयत्नत एव बोधिचित्तमुत्पद्यते । यथोक्तमार्यदशधर्मसूत्रे- "सत्त्वानत्राणानशरणानद्वीपान् दृष्ट्वा करुणायै चित्तमुपस्थाप्य यावदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति" इति । यदि नाम परसमादापनादिनापि बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तमुत्पद्यते, तथापि कृपावेगतो यत्स्वयमेव बोधिसत्त्वस्य बोधिचित्तमुत्पद्यते (१६९) तद्भगवता आर्यतथागतज्ञानमुद्रासमाधौ विशिष्टतरत्वेन वर्णितम् । तदेतद्बोधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितम् । तथा चोक्तं मैत्रेयविमोक्षे- "तद्यथापि नाम, कुलपुत्र, भिन्नमपि वज्ररत्नं सर्वमतिविशिष्टं सुवर्णालङ्कारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्रयं च विनिवर्तयति । एवमेव, कुलपुत्र, प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालङ्कारमभिभवति । बोधिचित्तनाम न विजहाति, संसारादारिद्रयं च विनिवर्तयति" इति । योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुमसमर्थः, तेनापि बोधिचित्तमुत्पादनीयमेव, उपायपरिग्रहेण महाफलत्वात् । यथा चोक्तमार्यराजाववादकसूत्रे- "यास्मात्त्वं महाराज, बहुकृत्यो बहुकरणियः, असहः सर्वेण सर्वं सर्वथा दानपारमितायां शिक्षितुम्, यावत्प्रज्ञापारमितायां शिक्षितुम् । तस्मात्तर्हि त्वं महाराज एवमेव सम्बोधौ छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततसमितमनुस्मर, मनसिकुरु भावय । सर्वबुद्धबोधिसत्त्वार्य श्रावकप्रत्येकबुद्धपृथग्जनानामात्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानि पिण्डयित्वा, अनुमोदस्व अग्रया अनुमोदनया । अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय । निर्यात्य च सर्वसत्त्वसाधारणानि कुरु । ततः सर्वसत्त्वानां यावत्सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने (१७०) त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय । एवं खलु त्वं महाराज, प्रतिपन्न, सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिस्यसि, [बोधिसम्भारांश्च परिपूरयिष्यासि]" । इत्यादि कमुक्त्वाह- "अथ खलु पुनस्त्वं महाराज, सम्यक्सम्बोधिचित्तकुशलमूलविपाकेन अनेककृत्यो देवेषु उपपन्नोऽभूः । अनेककृत्यो मनुष्येषु उपपन्नोऽभूः । सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि" । इति विस्तरः । यत्पुनः प्रतिपत्तिसारं बोधिचित्तं तदतितरां विपुलं फलमिति सिद्धिम् । अत एव आर्यवीरदत्तपरिपृच्छायामुक्तम्- बोधिचित्ताद्वै यत्पुण्यं तच्च रूपि भवेद्यदि । आकाशधातुं सम्पूर्य भूयश्चोत्तरितं भवेत् ॥ गङ्गाबालुकसंख्यानि बुद्धक्षेत्राणि यो नरः । दद्याद्रत्नप्रपूर्णानि लोकनाथेभ्य एव हि ॥ यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामति । इयं विशिष्यते पूजा यस्या अन्तो न विद्यते ॥ इति । यथा आर्यगण्डव्यूहे वर्णितम्- "बोधिचित्तं कुलपुत्र! बीजभूतं सर्वबुद्धधर्माणाम्" इति विस्तरः । तच्च बोधिचित्तं द्विविधं प्रणीधिचित्तं प्रस्थानचित्तं च । आर्यगण्डव्यूहे वर्णितम्, तथा- "र्दुर्लभास्ते, कुलपुत्र, सत्त्वाः सत्त्वलोके येऽनुत्तरायां सम्यक्सम्बोधौ प्रणिदधति इति । ततोऽपि दुर्लभतमास्ते सत्त्वा येऽनुत्तरां सम्यक्सम्बोधिमभिसम्प्रस्थिताः" इति । सकलजगतो हिताय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना (१७१) तत्प्रणिधिचित्तम् । यतः प्रभृति संवरग्रहणे वर्तमानाः सम्भारेषु दृश्यन्ते तत्प्रस्थानचित्तम् । संवरश्च विज्ञातप्रतिबलसंवरस्थितात्कल्याणमित्रात्परतो ग्राह्यः । असति प्रतिरूपे ग्राहके बुद्धबोधिसत्त्वानामुखीकृत्य यथा मञ्जुश्रीयाम्बरराजभूतेन बोधिचित्तमुत्पादितं तथोत्पादनीयः । एवमुत्पादितबोधिचित्तो बोधिसत्त्वः स्वयमेव दानादि ददाति प्रतिपत्तौ प्रयोक्ष्यते, न हि स्वयमदान्तः परान् दमयतीति मत्त्वा । न चापि विना प्रतिपत्त्या बोधिरवाप्यते । यथोक्तमार्यगयाशीर्षे- "प्रतिपत्तिसाराणां बोधिसत्त्वानां बोधिर्नाप्रतिपत्तिसाराणाम्" इति । आर्यसमाधिराजे चोक्तम्- "तस्मात्प्रतिपत्तिसारो भविष्यामि इत्येवं त्वया कुमार, शिक्षितव्यम् । तत्कस्य हेतोः? प्रतिपत्तिसारस्य हि, कुमार, न दुर्लभा भवत्यनुतरा सम्यक्संबोधिः" इति । सा च प्रतिपत्तिर्बोधिसत्त्वस्य पारमिताप्रमाणसङ्ग्रहवस्त्वादिभेदेन अक्षयमतिरत्नमेघादिसूत्रेषु विस्तरेण वर्णिता । तथा लौकिकशिल्पादिस्थानेष्वपि यावद्बोधिसत्त्वेन शिक्षितव्यम् । किं पुनर्लोकोत्तरेषु ध्यानादिषु । अन्यथा कथं सर्वाकारं सत्त्वार्थं कुर्युः । सा चेयं संक्षेपेण बोधिअत्त्वस्य प्रज्ञोपायरूपा प्रतिपत्तिर्न प्रज्ञामात्रं नोपायमात्रम् । यथा आर्यविमलकिर्तिनिर्देशे- "प्रज्ञारहित उपाय उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनम्" इत्युक्तम् । उपायसहिता प्रज्ञा प्रज्ञासहिता उपायो मोक्षत्वेन वर्णितः । आर्यगयाशीर्षे चोक्तम्- "द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । द्वाभ्यां मार्गाभ्यां समन्वागता बोधिसत्त्वा महासत्त्वाः क्षिप्रमनुत्तरां (१७२) सम्यक्संबोधिमभिसम्भोत्स्यन्ते । कतमौ द्वौ, उपायश्च प्रज्ञा च । "इति । तत्र प्रज्ञापारमितां त्यक्त्वा दानादिपारमितासङ्ग्रहवस्त्वादिकं सर्वमेव क्षेत्रपरिशुद्धिमहाभोग[बहु] परिवारसम्पत्सत्त्वपरिपाकनिर्माणादिकसकलाभ्युदयधर्मसङ्ग्राहकं कुशलमुपाय उच्यन्ते । प्रज्ञा तु तस्यैव चोपायस्याविपरीतस्वभावपरिच्छेदहेतुः । तया हि सम्यगुपायं विविच्याविपर्यस्तो यथावत्स्वपरार्थानुष्ठानाद्विषमिव मन्त्रपरिगृहीतं भुञ्जानो न संक्लिश्यते । तथा चोक्तमत्रैव सुत्रे- "उपायः सङ्ग्रहज्ञानं प्रज्ञा परिच्छेदज्ञानम् ।" इति । आर्यश्रद्धाबलाधाने चोक्तम्- "उपायकौशलं कतमम्? यत्सङ्ग्रहः सर्वधर्माणाम् । प्रज्ञा कतमा? यत्सर्वधर्माणामसम्भदेन कौशलम्" इति । एतौ प्रज्ञोपायौ द्वावपि सर्वकालमेव सेवनीयौ भूमिप्रविष्टैरपि न तु प्रज्ञामात्रं नोपायमात्रम् । यतः सर्वास्वेव दशसु भूमिषु बोधिसत्त्वस्य पारमितासमुदाचारः पठितो दधभूमिकादौ "न च परिशेषासु न समुदाचरति" इति वचनात् । अष्टम्यां च भूमौ बोधिसत्त्वस्य शान्तविहारिणो बुद्धैर्व्युत्त्थानं तद्विरुध्येत । तच्च ततस्तत्र पाठादवगन्तव्यम् । [तथा चोक्तं तत्रैव सूत्रे] "तस्य खलु भो जिनपुत्र, बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्त्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति । एवं चैन ब्रुवन्ति- साधु (१७३) साधु कुलपुत्र । एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय । अपि तु खलु पुनः कुलपुत्र, या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्दिः, सा तव नास्ति । तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व । एतदेव क्षान्तिमुखं मोन्मोक्षीः । अपि तु खलु पुनः कुलपुत्र, किं चापि त्वयैवं शान्तविमोक्षविहारोऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान्नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व । अपि तु खलु पुनः कुलपुत्र, पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च । अपि तु खलु पुनः कुलपुत्र, एषा सर्वधर्माणां धर्मता । उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः । नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति । अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावत्त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्धयप्रमाणतां च । तथैव त्वमप्यभिनिर्हारमुत्पादय । अपि तु खलु पुनः कुलपुत्र, एकस्त्वेष आलोको योऽयं सर्वधर्मानिर्विकल्पालोकः । ईदृशास्तु कुलपुत्र, धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना, प्रमाणमुपनिषदौपम्यं नास्ति, तेसामधिगमाय अभिनिर्हारमुत्पादय । अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावद्दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च । तत्सर्वमनुगणय । यथावत्तया अभिनिर्हारमुत्पादय । "इति हि भो जिनपुत्र, ते बुद्धा भगवन्त (१७४) एवं भूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वोऽप्रमाणज्ञानविभक्तितोऽभिनिर्हारकर्माभिनिष्पदयति ।ऽ आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि । ते चेद्बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुस्तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च ।" इति विस्तरः । यच्च आर्यविमलकीर्तिनिर्देशे गयाशीर्षे चोक्तं तदपि पूर्वोक्तं विरुध्यते, एवं सामान्येनैव तत्राभिधानात् । यत्सर्वधर्मसङ्ग्रहवैपुल्ये चोक्तं तदपि विरुध्यते । एव । तत्रोक्तम्- "सूक्ष्मं हि मञ्जुश्रीः, सद्धर्मप्रतिक्षेपकर्मावरणम् । यो हि कश्चिन्मञ्जुश्रीः, तथागतभाषिते धर्म एकस्मिन् शोभनसंज्ञामुत्पादयति । एकस्मिन्नशोभसंज्ञामुत्पादयति । स सद्धर्मं प्रतिक्षिपति । तेन सद्धर्मं प्रतिक्षिपता तथागतोऽभ्याख्यातो भवति" इति विस्तरमुक्त्वा आह- "योऽयं मैत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति । प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति । तेऽन्या मुपायपारमितां दूषयितव्यां मन्यन्ते । तत्किं मन्यसे, अजित! दुष्प्रज्ञः स काशिराजोऽभूद्येन कपोतार्थ श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह, नो हीदम्, भगवन् । भगवानाह- यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमितासंयुक्तानि कुशलमूलान्युपचितानि । अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह- नो हीदं भगवन् । भगवानाह, त्वं तावदजित, दानापारमितायां षष्टिं कल्पान् समुदागतः । यावत्प्रज्ञापारमितायां षष्टिं कल्पान् समुदागतः, तत्ते मोहपुरुषा एवं वक्ष्यन्ति- एकनयेनैव (१७५) बोधिर्यदुत शून्यतानयेन" इति विस्तरः । वैरोचनाभिसम्बोधौ चोक्तम्-ऽतदेतत्सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकमुपायपर्यवसानम्" इति । तस्मादुभयं सर्वकालमेव बोधिसत्त्वेन सेवनीयम् । एवं हि भगवतामप्रतिष्ठितनिर्वाणं सिध्यति । तथा हि दानादेरूपायस्य रूपकायक्षेत्रपरिवारादिमहाभोगताफलसम्पत्परिग्रहाद्भगवतां न निर्वाणेऽवस्थानम् । प्रज्ञया च सकलविपर्यासप्रहाणाद्न संसारेऽवस्थानं विपर्यासमूलत्वात्संसारस्य । अन्या च प्रज्ञोपायस्वरूपया प्रतिपदा समारोपापवादान्तविवर्जनेन मध्यमा प्रतिपदुद्भाविता । प्रज्ञया समारोपान्तस्य वर्जनादुपायेनापवादान्तस्य वर्जनात् । अत एव आर्यधर्मसङ्गीतावुक्तम्- "लक्षणानुव्यञ्जनरूपकायपरिनिष्पादनाभिरतश्च भवति, न धर्मकायाभिसमयमात्राभिरतः" इति । पुनरुक्तम्- "प्रज्ञोपायजनितस्तथागतानां परप्रत्ययतः संभवोऽनुगन्तव्यः" इति । यत्पुनरुक्तम्- "कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा एव प्रहातव्याः, प्रागेवाधर्माः" इति । तद्विपरीताभिनिवेशप्रहाणतः प्रहातव्या इत्यभिप्रायादुक्तम्, न तु प्रयोजनसम्पदनार्थमपि नाश्रयणियम् । तथा चोक्तम्- "धर्मः प्रग्रहीतव्यो नोद्ग्रहीतव्यः" इति । नोन्मार्गेण प्रग्रहीतव्य इत्यर्थः । यच्चापि क्वचिद्दानादि सांसारिकफलत्वेन वर्णितं तत्प्रज्ञारहितानां दानादीनां पूर्वमुक्तं तावन्मात्रकुशलमूलसन्तुष्टांश्चाधिकृत्योत्तर कुशलमूले प्रोत्साहनार्थम् । अन्यथा [आर्य-]विमलकीर्तिनीर्देशः [आदि पूर्वोक्तः] सर्व एव विरुध्यते । तस्मात्तु द्वावपि प्रज्ञोपायौ सेवनीयाविति स्थितम् । (१७६) तत्र प्रज्ञापरिगृहीता दानादयः पारमिताव्यपदेशं लभन्ते नान्यथेति । अतो दानदिपरिशुद्धये समाधानमास्थाय प्रज्ञोपादानार्थं यत्नं कुर्वीत । तत्र प्रथमं तावत्श्रुतमयी प्रज्ञोत्पादनीया । तया हि तावदागमार्थमवधारयति । ततश्चिन्तामय्या प्रज्ञयानीतनेयार्थं निर्वेधयति । ततस्तया निश्चित्य भूतमर्थं भावयेन्नाभूतम् । अन्यथा हि विपरीतस्यापि भवानाद्विचिकित्सायाश्चाव्यपगमात्सम्यग्ज्ञानोदयो न स्यात् । ततश्च व्यर्थैव भावना स्यात् । यथा तीर्तीकानाम् । उक्तं च भगवता समाधिराजे- नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् । स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ इति । तस्माच्चिन्तामय्या प्रज्ञया युक्तयागमाभ्यां प्रत्यवेक्ष्य भूतमेव वस्तुस्वरूपं भावनीयम् । वस्तूनां स्वरूपं च परमार्थतोऽनुत्पाद एवागमतो युक्तितश्च निश्चितम् । तत्रागमतो यथोक्तमार्यधर्मसङ्गीतौ- "अनुत्पादः सत्यमसत्यमन्ये धर्माः" इति । एतच्च परमार्थानुकूलत्वादनुत्पादः सत्यमित्युक्तम् । परमार्थतस्तु नोत्पादो नाप्यनुत्पादः, तस्य्सर्व्यवहारातीतत्वात् । पुनश्चात्रैव चोक्तम्- "उत्पादनिरोधाभिनिविष्टः कुलपुत्र, लोकसन्निवेशः, (१७७) तस्मात्तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहाराथं व्यवहारवशादुक्तवान्, उत्पद्यते निरुध्यते चेति न चात्र कस्यचिद्धर्मस्योत्पादः" इति । अर्यबुद्धसङ्गीतौ चोक्तम्- "कतमा योनिशः पृच्छा, कतमा योनिः? आह अनुत्पादो योनिः, तस्य पृच्छा योनिशः पृच्छ" । पुनरत्रैवोक्तम्- "चकारमुखः सर्वधर्माश्च्युत्युत्पत्तिविगताः । अभावमुखाः सर्वधर्माः, स्वभावशून्यतामुपादाय" इति । आर्यसत्यद्वयविभागे चानुत्पादसमतया सर्वधर्माणां समता भवति । प्रज्ञापारमितायां चोक्तम्- "रूपं सुभूते, रूपस्वभावेन शून्यम्, यावद्विज्ञानं विज्ञानस्वभावेन शून्यमिति स्वलक्षणशून्यतामुपादाय" इति । हस्तिकक्ष्ये चोक्तम्- न कश्चिल्लभ्यते भावो यस्योत्पादस्य संभवः । असंभवेषु धर्मेषु बालः सम्भवमिच्छति ॥ इति । पितापुत्रसमागमे चोक्तम्- "सर्व एते धर्माः सर्वे समास्त्रैकाल्यसमतया । अतीतेऽध्वनि सर्वधर्माः स्वभावरहिता यावत्प्रत्युत्पन्नेऽध्वनि" इति । एवं तवदागमतः प्रत्यवेक्षणीयम् । युक्त्या हि स्थिरीकृतस्यागमार्थस्यान्यैरपोहितमशक्यत्वात् । अतो युक्त्यापि प्रत्यवेक्षनीयम् । तत्र संक्षेपतो युक्तिरुच्यते । उत्पादो भावानामहेतुको वा स्यात्सहेतुको वा । न तावदहेतुकः कादाचित्कत्वदर्शनात् । कारणानपेक्षा हि विशेषाभावादुत्पादकालवत्सदा सर्वत्रैव च भावाः किं न भवेयुः । अभावकालादविशेषाद्वा उत्पादकालेऽपि नैव भवेयुः । एवं तावन्न निर्हेतुको युक्तः । नापि सहेतुकः । तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतुः कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात् । न (१७८) त्वविकलकारणस्य [फलस्य] क्रमेणोत्पादो युक्तो निरपेक्षत्वात् । नापीश्वरादेः स्वयं समर्थस्य परापेक्षाः । नित्यत्वेन परैरनुपकार्यत्वात् । अनुपकारिणि चापेक्षायोगात् । अत एवेश्वरादीनां सर्वसामर्थ्यशून्यत्वाद्वन्ध्यापूत्रादिवद्निःस्वभावत्वमेव । अर्थक्रियासमर्थत्वाद्वस्तुनः । तेषां क्वचिदपि कार्ये न क्रमेण सामर्थ्यं यथा विचारितम् । नापि यौगपद्येन, तथा हि सर्वकार्यं सकृदुत्पाद्योक्तरकालेऽपि यद्युत्पत्तिसमर्थ एवासौ तदा पुनरपि समर्थस्वभावानुवृत्तौ पूर्ववत्कार्योत्पत्तिप्रसङ्गः । अननुवृत्तौ वा पूर्वस्वभावपरित्यागादनित्यत्वप्रसङ्गः । तस्मान्न नित्यं नाम किञ्चिद्वस्तु विद्यते । अत एवोक्तं भगवता- "असत्समारोपः पुनर्महामते! आकाशनिरोधनिर्वाण[आदि]अकृतकभावाभिनिवेशसमारोपः" इति । तस्मान्न नित्यादेषामुत्पादो युक्तः । नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न् तावत्ततो जन्म युक्तमहेतुकत्वप्रसङ्गात् । नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात् । तथा हि न तावत्समानकालं कारणं स्वभाववत्कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात् । नापि भिन्नकालम्, कालन्तरव्यवधानेनोत्पादेऽतीतादेरेवोत्पत्तिप्रसङ्गात् । अव्यवधानेनाप्युत्पादे सर्वात्माना यद्यव्यवधाणं तदैकस्मिन्नेव क्षणे सर्वक्षणानामनुप्रवेशात्कल्पस्य क्षणमात्रताप्रसङ्गः । यथा परमाणोः सर्वात्मना संयोगो पिण्डस्याणुमात्रताप्रसङ्गः । अथैकदेशनेन, तदा क्षणस्य सावयवत्वप्रसङ्गः । स्वतोऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात्स्वात्मनि च कारित्रविरोधात् । नाप्युभयतः उभयपक्षभाविदोषद्वय [सङ्ग्रह]प्रसङ्गात् । (१७९) तस्मात्परमार्थतोऽनुत्पन्ना एवामी भावाः । संवृत्या तूत्पादस्य विद्यमानत्वान्नागमादिविरोधः । तथा चोक्तं भगवता- भावा विद्यन्ति संवृत्या परमार्थे न भावकाः । निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् ॥ इति । इयं च युक्तिर्भगवतोऽभिप्रेता शालिस्तम्बादौ । स्वतः परत उभाभ्यामहेतोश्च जन्मनिषेधात् । अथवा एवं युक्त्या विचारयेत् । द्विविधा भावा रूपिणोऽरूपिणश्च । तत्रापि तावद्रूपिणो घतादयस्तेऽणुशो विभिन्नरूपत्वाद्नैकस्वभावाः । अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानामसिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्तः, न चैकानेकस्वभावव्यतिरेकेणापरः कश्चिद्भावस्वभावोऽस्तीति निःस्वभावा एवामी परमार्थतः स्वप्नाद्युपलब्धरूपादिवद्रूपिणो भवाः । एतच्च भगवतैव चोक्तमार्यलङ्कावतारे- "गोविषाणां पुनर्महामते, अणुशोऽपि विभिद्यमानं नावतिष्ठते । पुनरप्यणवोऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते" इति । ये चारुपिणस्तेऽपि तथैव विचार्युमाणा निःस्वभावा एव । तथा हि, बाह्यस्य नीलादेरर्थस्याभावात्सामर्थ्यत एव विज्ञानादयोऽरूपिणः स्कन्धा निलादिरूपेण प्रतिभासन्त इत्यभ्युपेयम् । उक्तं च भगवता- "बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहिः ।" इति । ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा (१८०) अमी युक्ताः । न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात् । एकस्य कस्यचित्स्वभावस्यासिद्धावनेकरूपताप्ययुक्तिमती, एकसमूहरूपत्वादनेकस्य । अथवा तत्रालीका एवामी रूपादय आकाराः प्रतिभासन्त इत्युब्युपगम्यते, तदा विज्ञानमप्यलीकं प्राप्नोति । विज्ञानस्य तत्स्वरूपाव्यतिरेकात् । न हि स्वयं प्रकाशमानरूपताव्यतिरेकेणान्यद्विज्ञानस्य रूपमस्ति । स्वयं च न निर्भासन्ते रूपादयः । तेषां च विज्ञानस्वरूपापन्नानामलीकत्वे सर्वमेव विज्ञानमलीकमभ्युपेतं स्यात् । तस्माद्"मायोपमं च विज्ञानम्" इत्युक्तं भगवता । तस्मादेकानेकस्वभावशून्यत्वेन परमार्थतोऽलीका एवामी सर्वभावा इति निश्चितमेतत् । अयं चार्थ उक्तो भगवता लङ्कावतारे- यथैव दर्पणे रूपमेकत्वान्यत्ववर्जितम् । दृश्यते न च तत्रास्ति तथा भावेषु भवता ॥ इति । एकत्वान्यत्ववर्जितमिति, एकत्वान्यत्वरहितमित्यर्थः । पुनश्चोक्तम्- बुद्धया विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलाप्यस्ते निःस्वभावाश्च दर्शिताः ॥ इति । तदेवं चिन्तामय्या प्रज्ञया निश्चित्य भूतमर्थ तस्य प्रत्यक्षीकरणाय भावनामयीं प्रज्ञामुत्पादयेत् । "बहुश्रुतादिमात्रकेणा नार्थः प्रत्यक्षो भवतीति निवेदितमार्यरत्नमेघादिषु । अनुभवश्च प्रतिपत्तृणाम्, न चापि स्फुटतरज्ञानालोकोदयमन्तरेण सम्यगावरणतमोऽपहीयते । भावनाबहुलीकारतश्चाभूते (१८१)ऽप्यर्थे स्फुटरज्ञानमुत्पद्यते । यथा अशुभादिपृथ्वीकृत्स्नादिसमापन्नानां [ज्ञानोद्भवत्वे] किम्पुनर्भूते । तथा च भावनायाः परिस्फुटज्ञानफलत्वेन साफल्यमुक्तमार्यसमाधिराजे- आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः । तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि ॥ इति विस्तरः । तस्मात्तत्त्वं साक्षात्कर्तुकामो भावनायां प्रवर्तते । तत्र प्रथमतरं तावद्योगिना शमथो निष्पादनीयश्चित्तस्थिरीकरणाय । सलिलवच्चञ्चलत्वाच्चित्तस्य, न शमथमाधारमन्तेरण स्थितिरस्ति । न चासमाहितेन चेतसा यथाभुतं शक्यते ज्ञातुम् । उक्तं हि भगवता- "समाहितचित्तो यथाभूतं प्रजानाति" इति । शमथो लाभादिकामनानिरपेक्षस्य सम्यक्प्रवृत्तौ स्थिरस्य दुःखाद्यधिवासनशिलस्यारब्धवीर्यस्य शीघ्रतरं सम्पद्यते । अत एव आर्यसंधिनिर्वोचनादौ दानादय उत्तरोत्तरत्वेन वर्णिताः । तदेवं शीलादिशमथसम्भारेषु स्थितो मनोऽनुकूलदेशे सर्वबुद्धबोधिसत्त्वेषु प्रणामादिकं कृत्वा पापदेशनां पुण्यानुमोदनां विधाय सकलजगदभ्युद्धरणाशयो महाकरुणामेवाभिमुखीकृत्य कायमृजुं प्रणिधाय सुखासनोपविष्टः पर्यङ्कमाभुज्य समाधिमभिनिष्पादयेत् । तत्र प्रथमं तावद्यद्वस्तु विचारयितव्यं यावता प्रकारेण सङ्क्षेपतः सकलवस्तुसङ्ग्रहो भवति तत्र चित्तं बध्नीयत् । सङ्क्षिप्तं (१८२) पुनर्वस्तु रूप्यरूपिभेदेन द्विध भवति । एतच्चादिकर्मिकस्य विक्षेपदोषपरिहारार्थ संक्षिप्तं तावद्युक्तमालम्बयितुम् । यदा तु जितमनस्कारो भवति तदा स्कन्धधात्वादिभेदेन विशोध्य विस्तरशोऽप्यालम्बत एव । तथा सन्धिनिर्मोचनादौ योगिनामष्टादशप्रकारशून्यतालम्बनादिभेदेन नानाप्रकारमालम्बनमुक्तम् । अत्रैव भगवता सत्त्वानुग्रहाद्रूप्यरूप्यादिभेदेन संक्षेपमध्यविस्तारैः वस्तुभेदोऽभिधर्मादौ निर्दिष्टः । तच्च वस्तु अध्यारोपापवादपरिहाराय स्कन्धधात्वादिसङ्ग्रहतो गणयेत् । ततो निश्चित्य सर्वं वस्तुसङ्ग्रहं तत्रैव पुनश्चित्तं प्रबन्धेन प्रेरयेत् । यद त्वन्तरा रागादिना चित्तं बहिर्विक्षिपेत्तदावगम्य विक्षेपतामशुभादिभावनया विक्षेपमुपशाम्य पुनस्तत्रैवोपर्युपरि चित्तं प्रेरयेत् । अशुभदिभावनाक्रमस्तु ग्रन्थविस्तरभयान्न लिखितः । यदा तु चित्तं तत्रानभिरतं पश्येत्, तद समाधेर्गुणदर्शनतोऽभिरतिं तत्र भावयेत् । विक्षेपदोषदर्शनादरतिं प्रशमयेत् । अथ यदा स्त्यानमिद्धाभिभवादाअलम्बनग्रहणाप्रकटतयालीनं चित्तं भवति तदा लोकसंज्ञाभावनया प्रामोद्यवस्तुबुद्धादिगुणमनसिकारात्[वा] लयमुपशाम्य पुनस्तदेवालम्बनं दृढतरं गृण्हीयात् । अथ यदा पूर्वहसितरमिताद्यनुस्मरतोऽन्तरा चित्तमुद्धतं पश्येत्, तदानित्यतादिसंवेगमनसिकारादौद्धत्यं प्रशमयेत्, ततः पुनस्तत्रैवालम्बने चित्तस्यानभिसंस्कारवाहितायं यत्नं कुर्वीत । अथ यदा लयौद्धत्यभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिचित्तं पश्येत्तदाभोगशिथीलीकरणाद्(१८३) उपेक्षते । यदा तु समप्रवृत्ते सत्याभोगः क्रियते, तदा चित्तं विक्षिपेत् । यदा तु तत्रालम्बनेऽनभिसंस्कारवाहि यावदिच्छं चित्तं प्रवृत्तं भवति, तदा शमथो निष्पन्नो वेदितव्यः । एतच्च सर्वशमथानां सामान्यलक्षणम्, चित्तैकग्रतामात्रस्वभावत्वात् । शमथस्य । आलम्बनं तु तस्यानियतमेव । अयं च शमथमार्गो भगवता आर्यप्रज्ञापारमितादौ निर्दिष्टः । यदाह- "तत्र चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समादधाति" इति नवपदैः । तत्र स्थापयति, आलम्बनेन बध्नाति । संस्थापयति, तत्रैवालम्बने प्रबन्धेन प्रवर्तयति । अवस्थापयति, विक्षेपमवगम्य तं परिहरति । उपस्थापयति, विक्षेपं परिहृत्य उपर्युपरि पुनस्तत्रैवालम्बने स्थापयति । दमयति, रतिमुत्पादयति । शमयति, अरतिं व्युपशामयति विक्षेपदोषदर्शनात् । व्युपशमयति, स्त्यानमिद्धादीन् व्युत्थितान् व्युपशमयति । एकोतीकरोति, आलम्बनेऽनभिसंस्कारवाहितायं यत्नं करोति । समादधाति, समप्राप्तं चित्तमुपेक्षते समन्वाहरतीत्यर्थः । एष चैषां पदानामर्थः पूर्वाचार्यैः मैत्रेयेण च व्याख्यातः । संक्षेपेण सर्वसैव समाधेः षड्दोषा भवन्ति । कौषिद्यमालम्बनसंप्रमोषः, लयौद्धत्यम्, अनाभोगः, आभोगतेति । तेषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भवनीयाः । तद्यथा- श्रद्धा, छन्दः, व्यायामः प्रश्रब्धिः, स्मृतिः, सम्प्रजन्यम्, चेतना, उपेक्षा चेति । तत्राद्याश्चत्वारः कौसीद्यस्य प्रतिपक्षाः । तथा हि- समाधेर्गुणेष्वभिसम्प्रत्ययलक्षणया श्रद्धया तत्र योगिनोऽभिलाष उत्पद्यते । ततोऽभिलाषाद्वीर्यमरभेत । तद्वीर्यबलेन कायचित्तकर्मण्यताम् (१८४) आसादयति । ततः प्रश्रब्धकायचेतसः कौसीद्यमावर्तते । अतः श्रद्धादयः कौसीद्यप्रहाणाय भावनीयाः । स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः । सम्प्रजन्यं लयौद्धत्ययोः प्रतिपक्षः । तेन लयौद्धत्ययोः सम्यगुपंलक्षणात् । लयौद्धत्याप्रशमनकाले त्वनाभोगदोषः तत्प्रतिपक्षेण च चेतना भावनीया । लयौद्धत्यप्रशमे सति यदा चित्तं प्रशमवाहि तदाभोगदोषः, तत्प्रतिपक्षस्तदानीमुपेक्षा भावनीया । एभिरष्टाभिः प्रहाणसंस्कारैः समन्वागतः समाधिः परमकर्मण्यो भवति । ऋद्धयादीन् गुणान्निष्पादयति । अत एवोक्तं सूत्र- "[अष्ट]प्रहाण [संस्कार]समन्वागतः ऋद्धिपादं भावयति" इति । एषा च चित्तैकाग्रता उत्तरोत्तरकर्मण्यतासम्प्रयोगादालम्बनादिगुणविशेषयोगाच्च ध्यानारूपिसमापत्तिः विमोक्षादिव्यपदेशं लभते । तथा हि यदोपेक्षावेदनासम्प्रयुक्ता सवितर्कसविचारा सा भवति, तदानागम्या उच्यते [प्रथमध्यानप्रयोगचित्तत्वात्] । यदा च कामतृष्णया पापधर्मैश्च] विविक्ता भवति [वितर्कविचार]प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा प्रथमं ध्यानमुच्यते । अत एव प्रथमध्यानं वितर्कमात्ररहितं ध्यानान्तरमुच्यते । यदा वितर्कविचाररहिता प्रथमध्यानभूमितृष्णया विविक्ता च भवति । प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा द्वितीयं ध्यानमुच्यते । यदा तु द्वितीयध्यानभूमितृष्णया विविक्ता भवति, सुखोपेक्षास्मृतिसम्प्रजन्यसम्प्रयुक्ता भवति, तदा तृतीयं ध्यानमुच्यते । यदा तृतीयध्यानभूमितृष्णया विविक्ता भवति । अदुःखासुखा उपेक्षास्मृत्यभिसम्प्रयुक्ता भवति, तदा चतुर्थं ध्यानमुच्यते । एवमरूप्यसमापत्तिविमोक्षाभिभवायतनादिष्वालम्बनाकारादिभेदेन योज्यम् । (१८५) तदेवमालम्बने चित्तं स्थिरीकृत्य प्रज्ञया विवेचयेत् । यतो ज्ञानालोकोत्पादात्सम्मोहबीजस्यात्यन्तप्रहाणं भवति । अन्यथा हि तीर्थिकानामिव समाधिमात्रेण क्लेशप्रहाणं न स्यात् । यथोक्तं सुत्रे- किञ्चापि भावयेत्समाधिमेतं न चो बिभावेय्य सा आत्मसंज्ञाम् । पुनः प्रकुप्यति किलेषु तस्य यथोद्रकस्येह समाधिभावना ॥ इति । तत्रायमार्यलङ्कावतारे संक्षेपात्प्रज्ञाभावनाक्रमो निर्दिष्टः- चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् । तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत् ॥ चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत् । निराभासस्थितो योगी महायानं स पश्यति ॥ अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता । ज्ञानं निरात्मकं श्रेष्ठं निराभासे न पश्यति ॥ इति । तत्रायमर्थः- प्रथमं योगी ये रूपिणो धर्मा बाह्यार्थतया परैः परिकल्पितास्तेषु तावद्विचारयेत् । किमेते विज्ञानादन्ये, आहोस्विद्विज्ञानमेवैतत्तथा प्रतिभासते, यथा स्वप्नावस्थायामिति । तत्र विज्ञानाद्बहिः परमाणुशो विचारयेत् । परमाणूंश्च भागशः प्रत्यवेक्ष- माणो योगी तानर्थान्न समनुपश्यति । तस्यासमनुपश्यत एवं भवति चित्तमात्रमेवैतत्सर्वं न पुनर्बाह्योऽर्था विपद्यते । तदेवम्- (१८६) "चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् । " रूपिधर्मविकल्पांस्त्यजेदित्यर्थः । तेषामुपलब्धिलक्षणप्राप्तानां विचारयेदनुपलब्धेः । एवं रूपिणो धर्मान् विभाव्यारुपिणो विभावयेत् । तत्र यच्चित्तमात्रं तदप्यसति ग्राह्ये ग्राहको न युक्तो ग्राहकस्य ग्राह्यपेक्षत्वद्ततश्चित्तं ग्राह्यग्राहकविविक्तमद्वयमेव चित्तमिति विचारयेदद्वयलक्षणे- "तथतालम्बने स्थित्वा तदपि चित्तमात्रमतिक्रमेत् । " ग्रहकमाकारमतिक्रमेत । द्वयनिराभास एव अद्वयज्ञाने तिष्ठेदित्यर्थः । एवं चित्तमात्रमतिक्रम्य तदपि द्वयनिराभसं यज्ज्ञानं तदतिक्रमेत । स्वतः परतो भावानां जन्मानुपपत्तेः ग्राह्यग्राहकयोश्चालीकत्वे तदव्यतिरेकात्तस्यापि सत्यत्वमयुक्तमिति विचारयेत् । तत्राप्यद्वयज्ञाने वस्तुत्वाभिनिवेशं त्यजेत्, अद्वयज्ञाननिराभास एव ज्ञाने तिष्ठेदित्यर्थः । एवं सति सर्वधर्मनिःस्वभावताप्रतिपत्तौ स्थितो भवति । तत्र स्थितस्य परमतत्त्वप्रवेशात्निर्विकल्पसमाधिप्रवेशः । तथा चाद्वयज्ञाननिराभासे ज्ञाने यदा स्थितो योगी तदा परमतत्त्वे स्थितत्वात्, महायानं स पश्यति । एतदेव तत्महायानमुच्यते यत्परमतत्त्वदर्शनम् । एतदेव तत्परमतत्त्वदर्शनं यत्सर्वधर्मान् प्रज्ञाचक्षुषा निरूपयतः सम्यग्ज्ञानावलोके सत्यदर्शनम् । तथा चोक्तं सुत्रे- "कतमं परमार्थदर्शनम्? सर्वधर्माणामदर्शनम् ।" इति । अत्रेदृशमेवादर्शनमभिप्रेतं न तु निमीलिताक्षजात्यन्धानामिव प्रत्ययवैकल्यादमनसिकारतो वा यददर्शनम् । (१८७) ततो भावाभिनिवेशदिविपर्यासवासनाया अप्रहीणत्वादसंज्ञिसमापत्त्यादिव्युत्थितस्येव पुनरपि भावाभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेरमुक्त एव योगी भवेत् । भावाभिनिवेशमूलो रागादिः आर्यसत्यद्वयनिर्देशादौ वर्णितः । यत्पुनरुक्तमविकल्पप्रवेशधारण्याम्- "अमनसिकारतो रूपादिनिमित्तं वर्जयति" इति । तत्रापि प्रज्ञया निरूपयतो योऽनुपलम्भः स तत्रामनसिकारोऽभिप्रेतो न मनसिकाराभावमात्रम् । न ह्यसंज्ञिसमापत्त्यादिरिव अनादिकालिको रूपाद्यभिनिवेशो मनसिकारपरिवर्जनमात्रात्प्रहीयते । संशया प्रहाणे तु न पूर्वोपलब्धेषु च रूपादिष्वभिनिवेशमनसिकारपरिवर्जनं शक्यं कर्तुमग्न्यपरिवर्जने दाहापरिवर्जनवत् । तथामी रूपादिमिथ्याविकल्पाः कण्टकादिवदुत्कील्य न हस्तेन चेतसोऽपनेतव्याः । किं तर्हि संशयबीजापगमात् । तच्च संशयबीजं योगिनः समाध्यालोके सति प्रज्ञाचक्षुषा निरूपयतस्तेसां रूपादीनां पूर्वोपलब्धानामुपलब्धिलक्षणप्राप्तानामनुपलम्भाद्, रज्जोः सर्पज्ञानवद्, अपगच्छति नान्यथा । तथा संशयबीजापगमाद्रूपादिनिमित्तमनसिकारः शक्यते वर्जयितुं नान्यथा । अन्यथा ह्यसति समाध्यालोके प्रज्ञाचक्षुषाप्यनवलोके यथा अन्धकूपावस्थितपुरुषस्यावचरकगतघाटादिष्विव योगिनो रूपादिष्वस्तित्वसंशयो नैव निवर्तेत । तदनिवृत्त्या चा प्रहीणतिमिरदोषस्येव योऽयुक्तोऽलीकरूपाद्यभिनिवेशः प्रवर्तेत न केनापि निवर्त्येत । तस्मात्समाधिहस्तेन मनः सन्धाय सूक्ष्मतरप्रज्ञाशस्त्रेण तत्र चेतसि रूपादिमिथ्याविकल्पबीजमुद्धरेत् । एवं सत्युत्खातमूला इव (१८८) तरवो भूमेर्निर्मूलतया मिथ्याविकल्पाः पुनश्चेतसि न विरोहन्ति । अत एवावरणप्रहाणाय शमथविपश्यनायुगनद्धवाही मार्गो भगवता निर्दिष्टः, तयोः अविकल्पसम्यग्ज्ञाने हेतुत्वात् । तथा चोक्तम्- शीलं प्रतिष्ठाय समाधिलाभाः समाधिलाभाच्च हि प्रज्ञाभावना । प्रज्ञया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् ॥ इति । तथा हि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोक उत्पद्यते, तदान्धकारमिवालोके प्रकाशयति आवरणमपहीयते । अत एवानयोश्चक्षुरालोकयोरिव सम्यग्ज्ञानोत्पादं प्रत्यन्योऽन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत्परस्परविरोधः । न हि समाधिरन्धकारस्वभावः । किं तर्हि चित्तैकाग्रतालक्षणः । स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूल एव भवति, न तु विरुद्धस्तस्मात्स्यात्समाहितस्य प्रज्ञया निरूपयतः सर्वधर्माणामनुपलम्भः । स एव परमोऽनुपलम्भः । सा च तादृशी योगिनामवस्थानलक्षणा गतिरनाभोगा, ततः परं दृष्टव्यस्याभावात् । शान्तेति भावाभावादिविकल्पलक्षणस्य प्रपञ्चस्योपशमात् । तथा हि यदा प्रज्ञया निरूपयन्न किञ्चिद्भावस्वभावमुपलभते योगी, तदास्य नैव भावविकल्पो भवत् । अभावविकल्पोऽपि तस्य नास्त्येव । यदि भावः कदाचिद्दृष्टो भवति, एवं सति तन्निषेधेनाभावविकल्पः प्रवर्तते । यदा तु कालत्रयेऽपि भावो योगिना प्रज्ञाचक्षुषा निरूपयता नोपलब्धः, तदा कथं तस्य प्रतिषेधेनाभावविकल्पं कुर्वीत । एवमन्येऽपि विकल्पास्तदा तस्य न समुत्पद्यन्त एव भावाभावविकल्पाभ्यां (१८९) सर्वविकल्पस्य व्याप्तत्वात् । व्यापकाभावे च व्याप्यस्यासम्भवात् । अयमसौ परमनिर्विकल्पो योगः । तत्र स्थितस्य योगिनः सर्वविकल्पानामस्तंगमात्सम्यक्क्लेशावरणं ज्ञेयावरणं च प्रहीयते । तथा हि क्लेशावरणस्यानुत्पन्नानिरुद्धभावेषु भावादिविपर्यासो मूलं कारणमार्यसत्यद्वयनिर्देशादौ वर्णितं भगवता । अनेन च योगाभ्यासेन सर्वभावादिविकल्पानां प्रहाणात्सकलभावादिविपर्यासस्याविद्यास्वभावस्य क्लेशावरणमूलस्य प्रहाणम् । ततो मूलोच्छेदात्क्लेशवरणं सम्यक्प्रहीयते । तथा चोक्तं सत्यद्वयनिर्देशे- "कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराह- परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः । तस्मादसद्विपर्यासात्सङ्कल्पविकल्पः । तस्मात्संकल्पविकल्पादयोनिशो मनसिकारः । तस्मादयोनिशो मनसिकारादात्मसमारोपः । तस्मादात्मसमारोपाद्दृष्टिपर्युत्थानम् । तस्माद्दृष्टिपर्युत्थानात्क्लेशाः प्रवर्तन्ते । यः पुनः देवपुत्र! परमार्थतोऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतोऽविपर्यस्तः । यश्च परमार्थतोऽविपर्यस्तः सोऽविकल्पः । यश्चाविकल्पः स योनिशः प्रयुक्तः । यश्च योनिशः प्रयुक्तः तस्यात्मसमारोपो न भवति । यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवति । यावत्परमार्थतो निर्वाणदृष्टिसर्व दृष्टिपर्युत्थानमपि न भवति । तस्यैवमनुत्पादविहारिणः क्लेशा अत्यन्तं विनीता द्रष्टव्याः । अयमुच्यते क्लेशविनयः । यदा, देवपुत्र! क्लेशान्निराभासेन ज्ञानेन परमार्थतोऽत्यन्तशून्यानत्यन्ताभावानत्यन्तनिर्निमित्तात्प्रजानाति, तदा देवपुत्र! क्लेशाः परिज्ञाता भवन्ति । तत्र (१९०) यथापि नाम, देवपुत्र! य आशीविषस्य गोत्रं प्रजानाति । स तस्याशीविषस्य विषं शमयति । एवमेव देवपुत्र! य क्लेशानां गोत्रं प्रजानाति तस्य क्लेशाः प्रशाम्यन्ति । देवपुत्र आह- कतमन्मञ्जुश्रीः! क्लेशानां गोत्रम् । आह- यावदेषा परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना इदं क्लेशानां गोत्रम्" इति विस्तरः । भावादिविपर्यासेन च सकलविपर्यासस्य व्याप्तत्वात् । तत्प्रहाणे सकलविपर्यासप्रहाणाद्ज्ञेयावरणमप्यनेन सम्यक्प्रहीयते, विपर्यासलक्षणत्वादावरणस्य । ज्ञेयावरणे च प्रहीणे प्रतिबन्धाभावाद्रविकिरणवदपगतमेघाद्यावरणे नभसि सर्वत्राव्याहतो योगि प्रत्यक्षो ज्ञानालोकः प्रवर्तते । तथा हि वस्तुस्वभावप्रकाशरूपं विज्ञानम् । तच्च संनिहितमपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयति । प्रतिबन्धाभावे तु सति, अचिन्त्यशक्तिविशेषलाभात्किमिति सकलमेव वस्तु यथावद्न प्रकाशयेत् । अतः संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत्परिज्ञानात्सर्वज्ञत्वमवाप्यते । अतोऽयमेवावरणप्रहाणो सर्वज्ञत्वाधिगमे च परमो मार्गः । यस्तु श्रावकादीनां मार्गस्तेन विपर्यासाप्रहाणान्न सम्यगावरणद्वयं प्रहीयते । तथा चोक्तमार्यलङ्कावतारे- "अन्ये तु कारणाधीनान् सर्वधर्मान् दृष्ट्वानिर्वाणेऽपि निर्वाणमिति बुद्धयो भवन्ति । धर्मनैरात्म्यादर्शनाद्नास्ति महामते! मोक्ष एषाम् । महामते, श्रावकयानिकाभिसमयगोत्रस्यानिर्याणे निर्याणबुद्धिः । अत्र महामते, (१९१) कुदृष्टिव्यावर्तना योगः करणीयः" इति । अत एव चान्येन मार्गेण मोक्षाभावादेकमेव यानमुक्तं भगवता । केवलम् [बालेन बालस्य] अवतारणाभिसन्धिना श्रावकादिमार्गो देशितः । तथा हि सकन्ध मात्रमेवैतत्, न त्वात्मास्तीति भावयन् श्रावकः पुद्गलनैरात्म्यमवतरति, विज्ञप्तिमात्रं त्रैधातुकमिति भावयन् विज्ञानवादिबाह्यार्थनैरात्म्यमवतरति । अनेन त्वस्यद्वयज्ञानस्य नैरात्म्यप्रवेशात्परमतत्त्वप्रविष्टो भवति । न तु विज्ञप्तिमात्रताप्रवेश एव तत्त्वप्रवेशः । यथोक्तं प्राक् । उक्तं च आर्यलोकोत्तरपरिवर्ते "पुनरपरं भो जिनपुत्र! चित्तमात्रं त्रैधातुकमवतरति, तच्च चित्तमनन्तमध्यतयावतरति" इति । अन्तयोरुत्पादभङ्गलक्षणयोः स्थितिलक्षणस्य च मध्यस्याभावादनन्तमध्यचित्तम् । तस्मादद्वयज्ञानप्रवेश एव तत्त्वप्रवेशः । सा चेयं योगिनामवस्था कुतो विशोधिता? इत्याह- "प्रणिधानैर्विशोधिता" इति । महाकरुणया यत्सर्वसत्त्वार्थकरणाय बोधिसत्त्वेन प्रणिहितम्, ततः प्रणिधानबलादुत्तरोत्तरदानादिकुशलाभ्यासात्सा तथा विशुद्धा जात, येन सर्वधर्मनिःस्वभावताज्ञानेऽपि सकलसत्त्वापेक्षा न व्यावर्तते यावत्संसार एव अननुलिप्ताः संसारदोषैरवतिष्ठन्त इति । कथं पुनरनाभोगा शान्तेत्यत्र कारणमाह- ज्ञानं निरात्मकं श्रेष्ठं निराभासेन पश्यति । इति । यस्माद्यदद्वयलक्षणं ज्ञानमद्वयवादिनां श्रेष्ठं परमार्थेनाभिमतं तदपि निरात्मकं निःस्वभावमद्वयनिराभासेन ज्ञानेन पश्यति योगी । अतोऽपरस्य द्रष्टव्यस्याभावादनाभोगा, सर्वविकल्पाभावत्शान्तेति । (१९२) अत्रेदानीं कोऽसौ योगी विद्यते, यः पश्यतीति चेत्? न परमार्थतः कश्चिदात्मादिः स्वतन्त्रोऽस्ति, योगी नापि कश्चित्पश्यति । किन्तु संवृत्या यथा रूपादीविषयाकारज्ञानोत्पादमात्रेण विज्ञानमेव लोके तथा तथा व्यवह्रियते देवदत्तो यज्ञदत्तं ज्ञानेन पश्यतीति न तु कश्चिदात्मादिरस्ति । तथात्रापि ज्ञानमेवाद्वयज्ञाननिराभासमुत्पद्यमानं तथा व्यपदिश्यते निराभासेन ज्ञानेन पश्यतिति । न हि सर्वधर्माणां परमार्थतो निःस्वभावत्वेऽपि संवृत्या योगिज्ञानमन्यद्वा पृथग्ज्ञानं नेष्टम् । तथा चोक्तमार्यसत्यद्वयनिर्देशे- "परमार्थतोऽत्यन्ताभावश्च संवृत्त्या च मार्ग भावयति" इति । अन्यथा श्रावकप्रत्येकबुद्धबोधिसत्त्व [बुद्ध]पृथग्जनादिव्यवस्था कथं भवेत्, किन्तु यस्य संवृत्यापि कारणं नास्ति स संवृत्यापि नोत्पद्यते । यथा शशविषाणादि । यस्य तु [कारणं] विद्यते स परमार्थतोऽलीकोऽपि समुत्पद्यत एव । यथा- मायाप्रतिबिम्ब [प्रतिध्वनि]आदी । न च मायादेः संवृत्या प्रतीत्यसमुत्पादे परमार्थतो वस्तुत्वप्रसङ्गः, तस्य विचाराक्षमत्वात् । अतः सर्वमेव मायोपमं जगत् । तत्र यथा क्लेशकर्ममायावशात्सत्त्वानां जन्ममाया प्रवर्तेत, तथा योगिनामपि पुण्यज्ञानसम्भारमायावशाद्योगिज्ञानमाया प्रवर्तत एव । तथा चोक्तमार्यप्रज्ञापारमितायाम्- "कश्चित्श्रावकनिर्मितः, कश्चित्प्रत्येकबुद्धनिर्मितः, कश्चिद्बोधिसत्त्वनिर्मितः, कश्चित्तथागतनिर्मितः, कश्चित्क्लेशनिर्मितः कश्चित्कर्मनिर्मितः । अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्नाः" इति । अयं तु विशेषो योगिनां पृथग्जनेभ्यः, ते हि मायाकारवत्तां मायां यथावत्परिज्ञानात्सत्यतो नाभिनिविशन्ते, (१९३) तेन ते योगिन उच्यन्ते । ये तां बालपृथग्जनवत्कौतूहलं स्त्यत्वेनाभिनिविष्टास्ते विपरीताभिनिवेशद्बाल उच्यन्ते इति सर्वमविरुद्धम् । तथा चोक्तमार्यधर्मसङ्गीतौ- मायाकारो यथा कश्चिन्निर्मित-मोक्षमुद्यतः । न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः । संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत्तथा ॥ इति । एवमनेन क्रमेण तत्त्वं भावयेत् । तत्र च लयौद्धत्यादीन् व्युत्थितान् पूर्ववत्प्रशमयेत् । यदा तु सर्वधर्मनिःस्वभावतालम्बने च लयौद्धत्यादिरहितमनभिसंस्कारेण प्रवृत्तं ज्ञानं भवति, तदा शमथविपश्यनायुगनद्धवाही मार्गो निष्पन्नो भवति । तथा यावत्शक्नोति तावदधिमुक्तिबलेन अधिमुक्तिचर्याभूमौ स्थितो भावयेत् । ततो यथेच्छं पर्यङ्कमाभुज्य व्युत्थाय पुनरेवं चिन्तयेत् । यदि नामामी धर्माः परमार्थत एव निःस्वभावा अप्येते संवृत्या स्थिता एव । तथा चोक्तमार्यरत्नमेघे- "कथं बोधिसत्त्वो नैरात्म्यकुशलो भवति? इह कुलपुत्र, बोधिसत्त्वः सम्यक्प्रज्ञया रूपं प्रत्येवक्षते, वेदनां संज्ञां संस्कारान् विज्ञानं प्रत्यवेक्षते । स रूपं प्रत्यवेक्षमाणो रूपस्योत्पादं नोपलभते, विरोधं नोपलभते, समुदयं नोपलभते । एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते । अयं च परमार्थतोऽनुत्पादविहारिण्याः प्रज्ञाया न पुनर्व्यावहारिकेण स्वभावेन" इति विस्तरः । एते च बालबुद्धय एवं निःस्वभावेषु भावेषु (१९४) विपरीताभिनिवेशात्संसारे परिभ्रमन्तो विविधानि दुःखानि प्रत्यनुभवन्ति । महाकरुणामेव आमुखीकृत्य एवमनुविचिन्तयेत्- तथाहं करिष्यामि यथा सर्वज्ञत्वं प्राप्य एतेषां धर्मतामवबोधयेयमिति । ततः सर्वबुद्धबोधिसत्त्वेभ्यः पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्याप्रणिधानमभिनिर्हरेत् । ततः शून्यताकरुणागर्भ एव सकलदानादिपुण्यज्ञानसम्भारोपार्जने प्रवर्तते । तथा चोक्तमार्यधर्मसंगीतौ- "यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते । एवं चास्य भवति- इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शं च सर्वसत्त्वानां निस्पादयितव्यम् । स तया महाकरुणया संचोद्यमानोऽधिशीलमधिचित्तमधिप्रज्ञं च शिक्षात्रयं परिपूर्यानुत्तरं सम्यक्सम्बोधिमभिसम्बुध्यते" इति । अयमेव प्रज्ञोपाययुगनद्धबाही बोधिसत्त्वानां मार्गो यत्परमार्थदर्शनेऽपि संवृतिं नोच्छेदयन्ति । संवृतिं चानुच्छेदयन्तो महाकरुणापूर्वङ्गमा अविपर्यस्ता एव सत्त्वार्थक्रियासु प्रवर्तन्ते । उक्तमार्यरत्नमेघे- "कथं बोधिसत्त्वो महायानकुशलो भवति । इह बोधिसत्त्वः सर्वासु शिक्षासु शिक्षते, शिक्षामार्गं च नोपलभते । यच्च शिक्षते तदपि नोपलभते । यश्च शिक्ष्यते तमपि नोपलभते । न च तद्धेतुकं तन्निदानं तत्प्रत्ययमुच्छेददृष्टौ पतति" इति । आर्यधर्मसंगीतौ चोक्तम्- "कतमा बोधिसत्त्वानां प्रतिपत्तिः? यत्किञ्चिद्बोधिसत्त्वानां कायकर्म, यत्किञ्चिद्वाक्कर्म, यत्किञ्चिन्मनःकर्म, तत्सर्वसत्त्वापेक्षकं प्रवर्तते, महाकरुणापूर्वङ्गमत्वात् । महाकरुणाधिपत्यं सर्वसत्त्वाहितसुखाध्याशयसमुत्थितम्" इति । अयमेवं हिताशयः संज्ञीभवति । सा मया (१९५) प्रतिपत्तिः प्रतिपत्तव्या सर्वसत्त्वानां हितावहा सुखावहा । तस्य स्कन्धेषु मायावत्प्रत्यवेक्षणा प्रतिपत्तिर्न च स्कन्धपरित्यागं स्पृहयतीति । धातुष्वाशीविषवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च धातुपरित्यागं स्पृहयतीति । आयतनेषु शून्यग्रामवत्प्रत्यवेक्षणाप्रतिपत्तिर्न चायतनपरित्यागं स्पृहयतीति । रूपस्य फेनपिण्डवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतरूपकायविठपनां जहाति । वेदनाया बुद्बुद्वत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतध्यानसमाधिसमापत्तिसुखनिष्पदनप्रयोगं नारभते । संज्ञायां मरीचिवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतज्ञाननिष्पादन अप्रतिपत्तिः । संस्काराणां कदलीवत्प्रत्यवेक्षणा प्रतिपत्तिर्न च बुद्धधर्मसंस्काराणामप्रतिपत्तिः । विज्ञानस्य मायावत्प्रत्यवेक्षणा प्रतिपत्तिर्न च ज्ञानपूर्वङ्गमकायवाङ्मनस्कर्मनिष्पादना प्रतिपत्तिः" इति विस्तरः । एवमपर्यन्तेषु सूत्रान्तेषु प्रज्ञोपायरूपा प्रतिपत्तिरनुगन्तव्या । तत्र यदि नाम लोकोत्तरप्रज्ञावस्थायामुपायसेवना न सम्भवति, उपायसेवनाकाले तु बोधिसत्त्वस्य मायाकारवदविपर्यस्तत्वात्लोकोत्तरज्ञानात्प्रयोगपृष्ठभावनि यथावद्वस्तुपरमार्थतत्त्वाभिनिवेशनी प्रज्ञासम्भवत्येवेति, भवत्येव प्रज्ञोपाययुगनद्धवाही मार्गः । आर्यक्षयमतिनिर्देशे च ध्यानाक्षयतया प्रज्ञोपाययुगनद्धवाही मार्गोऽनुगन्तव्यः । एवमनेन क्रमेण बोधिसत्त्वस्य प्रज्ञामुपायं च सततं सत्कृत्य दीर्घकालाभ्यासेन भावयतो द्वादशावस्थाविशेषा भवन्ति । ता एवावस्था उत्तरोत्तरगुणप्रतिष्ठार्थेन भूमयो व्यवस्थाप्यन्ते । अधिमुक्तिचर्याभूमेर्यावद्बुद्धभूमिरिति । तत्र यावत्पुद्गलधर्मनैरात्म्यत्वं न साक्षात्करोति, केवलं दृढतराधिमुक्तिः । मारादिभिरप्यभेद्यो यदाधिमुक्तिबलेन तत्त्वं भवयति, तदा (१९६) दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिर्व्यवस्थाप्यते । अस्यामपि भूमौ वर्तमानो बोधिसत्त्व पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वित आर्यरत्नमेघे पठ्यते । अस्या एव च मृदुमध्याधिमात्राधिमात्रतरावस्थाचतुष्टयेन चत्वारि निर्वेधभागीयानि व्यवस्थाप्यन्ते । तथा हि यदा [बाह्यार्थ विभावयता] ईषत्स्पष्टो ज्ञानालोको भवति तदा उष्मगतनामकं निर्वेधभागीयं भवति । स चात्र महायान आलोकलब्धसमाधिरुच्यते । यदा तु स एव ज्ञानलोको मध्यमस्पष्टो भवति, तदा मूर्धनामकनिर्वेधभागीयं भवति, वृद्धालोकश्च समाधिरुच्यते । यदा तु स्पष्टतरो बाह्यार्थानाभासज्ञानालोको जायते, तदा विज्ञप्तिमात्रावस्थानात्क्षान्तिनामकं निर्वेधभागीयं भवति । एकदेशप्रविष्टश्च समाधिरुच्यते । ग्राह्यकारानुपलम्भप्रवेशात् । यदा तु ग्राह्यग्राहकाकाररहितमद्वयं ज्ञानं विभावयेत्तदाग्रधर्माख्यं निर्वेधभागीयं भवति । आनन्तर्यश्च स समाधिरुच्यते, तदनन्तरमेव तत्त्वप्रवेशात् । अत्र तावदधिमुक्तिचर्याभूमि । इतरास्तु भूमयः संक्षेपत एकादशाङ्गपरिपूरिता व्यवस्थाप्यन्ते । तत्र प्रथमा भूमिः प्रथमं पुद्गलधर्मनैरात्म्यतत्त्वाधिगमाङ्गपरिपूरिता व्यवस्थाप्यते । तथा हि यदाग्रधर्मानन्तरं प्रथमतरं लोकोत्तरं सर्वप्रपञ्चरहितं सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानमुत्पद्यते, तदा बोधिसत्त्वः सम्यक्त्वन्ययाभावक्रान्तितो दर्शनमार्गोत्पादात्प्रथमां भूमिं प्रविष्टो भवति । अत एवास्यां भूमौ प्रथमतोऽनधिगततत्त्वाधिगमाद्बोधिसत्त्वः प्रमुदितो भवति । तत एषा भूमिः प्रमुदितेत्युच्यते । अत्र च द्वादशोत्तरं दर्शनहेयं क्लेशशतं प्रहीयते । (१९७) शेषास्तु भूमयो भावनामार्गस्वभावाः । तासु भावनाहेयास्त्रैधातुकाः षोडश क्लेशाः प्रहीयन्ते । अस्यां च भूमौ बोधिसत्त्वस्य धर्मधातुसमुदागमताप्रबोधात्स्वार्थ इव पराथे प्रवर्तनाद्दानपारमितातिरिक्ततरा भवति । स च बोधिसत्त्वः समधिगततत्त्वोऽपि वा यावन्न् शक्नोति सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारि भवितुं तावत्प्रथमा भूमिः । यदा तु शक्नोति, तदास्याङ्गस्य परिपूरितो द्वितीया भूमिर्व्यवस्थाप्यते । अत एवास्यां भूमौ सूक्ष्मापत्तिस्खलितसमुदाचारात्शीलपारमितातिरिक्ततरा भवति । सर्वदौश्शील्यमलापगमादियं भूमिर्विमलेत्युच्यते । स सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवति । यावन्न शक्नोति सकललौकिकं समाधिं समापत्तुं यथाश्रुतं चार्थमाधर्त्तुं तावद्द्वितीयैव भूमिः । यदा शक्नोति, तदा तस्याङ्गस्य परिपूरितस्तृतीया भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य श्रुतधारण्या सर्वलौकिकसमाध्याभिनिर्हारार्थं सर्वदुःखसहनात्, क्षान्तिपारमितातिरिक्ततरा भवति । तेषां समाधीनां लाभादिय भूमिरप्रमाणं लोकोत्तरं ज्ञानावभासं करोतीति प्रभाकरीत्युच्यते । स प्रतिलब्धलौकिकसकलसमाधिरपि यावन्न् शक्नोति यथाप्रतिलब्धैर्बोधिपक्षैर्धर्मैर्बहुलं विहर्तुं सर्वसमापत्तीनां च चित्तमुपेक्षितुं तावत्तृतीया भूमिः । यदा तु शक्नोति तदा तस्याङ्गस्य परिपूरितश्चतुर्थी भूमिर्व्यवस्थाप्यते । अस्यां भूमौ बोधिसत्त्वस्याभीक्ष्णं कायवाङ्मनोजल्पसमतिक्रमणाअय बोधिपक्षैर्धर्मैर्विहरणात्, विर्यपरमितातिरिक्ततराभवति । इयं च सकलक्लेशेन्धनदाहसमर्थस्य बोधिपक्षधर्मार्चिष उद्गतत्वादर्चिष्मतीत्युच्यते । सोऽभीक्ष्णं बोधिपक्षधर्मविहारी भवति । यावन्न शक्नोति सत्यानि भावयन् संसारानभिमुखं निर्वाणाभिमुखं च चेतो व्यावर्तयितुमुपायसंगृहीतान् (१९८) बोधिपक्षान् धर्मान् भावयितुम्, तावच्चतुर्थी भूमिः । यदा तु शक्नोति तदास्याङ्गस्य परिपूरितः पञ्चमी भूमिर्व्यवस्थाप्यते । अत एवास्यामियमुपायसंगृहीता बोधिपक्षभावना [परिपूरितेन] सुष्ठु दुःखेन जीयते अभ्यस्यता इति सुदुर्जयेत्युज्यते । अस्यां चार्यसत्याकारभावनाबहुलीकाराद्ध्यानपारमिता अतिरिक्ततरा भवति । उपयसंगृहीतबोधिपक्षबहुलविहारी च भवति । यावद्न शक्नोति संसारप्रवृत्तिप्रत्यवेक्षणान्निर्वित्सहया चित्तसन्तत्यानिमित्तविहारं समापत्तुं तावत्पञ्चमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितः षष्ठी भूमिर्व्यवस्थाप्यते । अस्यां च बोधिसत्त्वस्य प्रतीत्यसमुत्पादभावनाविहारात्प्रज्ञापारमितातिरिक्ततरा भवति । अत एव प्रज्ञापारमिताया अतिरिक्ततरत्वात्सर्वबुद्धधर्मेषु अभिमुखोऽस्यां भूमौ वर्तत इति कृत्वा अभिमुखीत्युच्यते । सोऽनिमित्तविहारलाभी भवति । यावन्न शक्नोति निश्छिद्रमनिमित्तविहारं समापत्तुम्, तावत्षष्ठी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितः सप्तमी भूमिर्व्यवस्थाप्यते । अस्यामपि भूमौ बोधिसत्त्वः सर्वनिमित्तं निर्निमित्तेन प्रतिविध्यति निमित्तकृतव्यवहारं च न विरोधयति । अतोऽस्यामुपायपारमितातिरिक्ततरा भवति । इयं च भूमिरनाभोगमार्गोपश्लेषात्सुष्ठु दूरङ्गमाद्दूरङ्गमा । स निश्छिद्रानिमित्ताविहारि भवति । यावन्न शक्नोत्यनाभोगवाहिनमनिमित्तविहारं समापत्तुं तावत्सप्तमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितोऽष्टमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ अनाभोगेन कुशलपक्षयोगात्प्रणिधानपारमितातिरिक्ततरा भवति । अनिमित्ताभोगाप्रकम्प्यत्वादियमचलेत्युच्यते । (१९९) सोऽनाभोगानिमित्तविहारी च भवति । यावन्न शक्नोति पर्यायनिरुक्त्यादिप्रभेदैः सर्वाकारसर्वधर्मदेशनायां वशीभवितुं तावदष्टमी भूमिः । यदा शक्नोति तदास्याङ्गस्य परिपूरितो नवमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य प्रतिसंविद्- विशेषलाभात्प्रज्ञाबलविशेषयोगाद्बलपारमितातिरिक्ततरा भवति । सर्वाकारधर्मदेशनाकौशलतोऽनवद्यमतिविशेषलाभात्साधुमती भूमिरुच्यते । अस्यां च प्रतिसंविच्चतुष्टयलभी भवति । यावन्न शक्नोति बुद्धक्षेत्रपर्षन्निर्माणादि दर्शयितुं परिपूर्णधर्मसम्भोगं सत्त्वपरिपाकं च कर्तुम्, तावद्नवमी भूमिः । यदा तु शक्नोति तदास्याङ्गस्य परिपूरितो दशमी भूमिर्व्यवस्थाप्यते । अस्यां च निर्माणादिना सत्त्वपरिपाचनाय ज्ञानविशेषयोगाद्बोधिसत्त्वस्य ज्ञानपारमितातिरिक्ततरा भवति । इयं च धर्मदेशनामेघैः अनन्तेषु लोकधातुषु धर्मप्रवर्षणाद्धर्ममेघेत्युच्यते । अपरैरपि स्कन्धपरिशुद्धयादिव्यवस्थापनैः भूमीनां व्यवस्थापनमस्ति, ग्रन्थविस्तरभयान्न लिखितम् । स प्रतिलब्ध- निर्माणादिवशितोऽपि यावन्न शक्नोति सर्वस्मिन् ज्ञेये सर्वाकारमसक्तम् । अप्रतिहतं ज्ञानमुत्पादयितुं तावद्दशमी भूमि । यदा शक्नोति तदास्याङ्गस्य परिपूरितो बुद्धभूमिर्व्यवस्थाप्यते । एतच्च भूमिव्यवस्थापनमार्यसंधिनिर्मोचने निर्दिष्टम् । अस्याश्च बुद्धभूमेः सर्वाकारसकलसंपत्प्रकर्ष्डपर्यन्तगमनान्नापरमुत्कृष्टं स्थानान्तरमस्ति [तस्मात्ततः परं नास्ति भूमिव्यवस्था] इति । अस्याश्च बुद्धमूमेर्गुणपक्षप्रभेदो बुद्धैरपि न शक्यते सर्वाकारं वक्तुम् । तस्या अप्रमेयत्वात्, कथं पुनः अस्मत्सदृशैः । यथोक्तमार्यगण्डव्यूहे- (२००) गुणैकदेश-पर्यन्त नाधिगच्छेत्स्वयंभुवः । निरीक्ष्यमाणो बुद्धोऽपि बुद्धधर्मा ह्यचिन्तियाः ॥ इति । एतावत्तु संक्षेपेण वक्तुं शक्यते । [स्वपरार्थसम्पत्तिप्रकर्षपर्यन्तगतः, अशेषदोषापगमनिष्ठां प्राप्य भगवान् बुद्धो धर्मकाये स्थित्वा सम्भोगनिर्माणकायाभ्यामनाभोगरूपेण अशेषजगदर्थ कुर्वन् यावत्संसारं विहरति । तस्मात्प्रेक्षवद्भिः सर्वगुणाकरेषु भगवत्सु श्रद्धा उत्पदनीया, तद्गुणपरिसाधनार्थं सर्वप्रकारेण प्रयतितव्यम् । त्रिकायदिविभागस्तु ग्रन्थविस्तरभयान्न लिख्यते । नयस्यानुसारेण सूत्रस्य चाठ सदुक्त्यास्य मार्गस्य जिनपुत्रकाणाम् । मयानल्पपुण्यं यदाप्तं च तेन परामेतु बुद्धिं जगन्मन्दमाशु ॥ भूपतिश्रीदेवराजवचनेन] कमलशीलेन भावनाक्रमस्य अयं संक्षेपः कृतः । भावनाक्रमः प्रथमः समाप्तः । (२०१) २. भावनाक्रमो द्वितीयः नमो मञ्जुश्रिये कुमारभूताय । महायानसूत्रनयानुप्रविश्यमानानां भावनाक्रमः संक्षेपतः कथ्यते । इह अतीशिघ्रं सर्वज्ञताप्राप्तुकामेन प्रेक्षावता तत्प्रापक-हेतु-प्रत्ययेभ्योऽभियोगः करणीयः । इत्थमियं सर्वज्ञता तु हेतुं विना भवितुं न युज्यते, सर्वस्यापि सर्वदा सर्वज्ञताभावप्रसङ्गत्वात् । निरपेक्षभावे तु कुत्रापि प्रतिघो न स्याद्, यतो हि सर्वेऽपि सर्वज्ञा एव न भवन्ति । किं तर्हि कस्यचित्कदाचित्किञ्चिन्मात्रंमूतत्वात्सर्वं हि वस्तु हेतुसापेक्षमेव । सर्वज्ञतापि कुत्रचित्कदाचित्किञ्चित्संभाव्यते । सर्वस्मिन्नपि काले नास्ति, सर्वस्मिन् स्थाने नास्ति, सर्वमपि नास्ति, तस्मात्सा तु नियतमेव हेतुप्रत्ययसापेक्षा । तद्धेतुप्रत्ययेष्वपि अभ्रान्ता अविकलाश्च सेवितव्याः । भ्रन्तहेत्वनुष्ठाने तु अतिदीर्घकालेनापि न इष्टफल-प्राप्तिः । यथा-शृङ्गात्पयोदोहवत् । सकलहेतुसेवनं विनापि न फलोत्पादः । बीजादिषु कस्यचिदपि अभावे अङ्कुरादिफलानुत्पादात् । तस्मात्तत्फलकामेनाभ्रान्तसकलं हेतुप्रत्ययं सेवनीयम् । के हेतुप्रत्ययाः सर्वज्ञताफलस्य इति? उच्यते, मादृशो जात्यन्धसदृशस्तान् दर्शयितुं न शक्नोति, तथापि भगवतैवाभिसंबुद्धय विनेयजनेभ्यो यथोक्तं तथैव मया भगवद्वचनेनैव कथ्यते । भगवांस्तनवोचत्- "गुह्याधिपते! तत्सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकमुपायपर्यवसानम्" इति । तस्मात्सर्वज्ञतामधिगन्तुकामैः करुणा-बोधिचित्तोपायेषु एतेषु त्रिषु शिक्षितव्यम् । करुणया प्रेर्यमाणा बोधिसत्त्वाः सर्वसत्त्वाभ्युद्धारणर्थमवश्यं प्रतिज्ञास्यन्ति । अतः स्वात्मदृष्टिं निराकृत्य अतिदुष्कराविछिन्न-दीर्घकाल-साधीतपुण्यज्ञानसम्भारेषु (२०२) आदरेण प्रवृत्तिः । तत्र प्रविश्य परिपूर्ण पुण्यज्ञानसम्भारमवश्यं साधयति । सम्भारापरिनिष्पत्तौ सर्वज्ञता करतलगतवद्भविष्यति । तर्हि सर्वज्ञतामूलं तु करुणाया एव भूतत्वात्सा तु प्रथमतरमेव भवनीया । आर्यधर्मसंगीतिसूत्रे- "न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् । एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिबिद्धः कर्तव्यः । तस्य सर्वबुद्धधर्माः करतलगता भवन्ति । कतम एकधर्मः? यदुत महाकरुणा ।" इति । महाकरुणापरिगृहीतत्वाद्भगवन्तो बुद्धाः सकलस्वार्थसम्पत्तिलाभेऽपि सत्त्वधातुपर्यवसानपर्यन्तं तिष्ठन्ति । श्रावकवदतिशान्तेऽपि निर्वाणनगरे न प्रविशन्तिम् । सत्त्वानवलोक्य तच्छान्तनिर्वाणनगरं प्रज्वलदयोगृहवद्दूरं त्यक्तत्वाद्भगवतामप्रतिष्ठितनिर्वाणहेतुस्तु सा महाकरुणा एव । अत्र स करुणाभावनाक्रमः प्रथमप्रवेशादारभ्य अभिधातव्यः । संप्रति उपेक्षाभावनया सर्वसत्त्वेषु अनुरागं द्वेषं च निरस्य समाचित्तता प्रथमं निष्पादयितव्या । सर्वे सत्त्वाः सुखं कामयन्ते, दुःखं तु न कामयन्ते । अनादिमति च संसारे न कश्चित्सत्त्वो यो नाभूत्शतशो मे बन्धुरिति परिचिन्तय- तश्चात्र को विशेषः स्यात्? तर्हि कस्मिंश्चिदनुरागः कस्मिंश्चिच्च द्वेषो भवेत्, तस्मान्मया सर्वेषु सत्त्वेषु चित्तसमतैव कार्या इति । एवं मनसिकारेण मध्यस्थपक्षत आरभ्य मित्रे शत्रौ चचित्तसमतामेव भावयेत् । ततः सर्वसत्त्वेषु चित्तसमतां साधयित्वा मैत्रीं भावयेत् । मैत्रीजलेन चित्तसंतानं सिंचयित्वा विद्यमानसुवर्णभूमिवत्कृत्वा करुणाबीजवपने सुखेन अतिसुविस्तारो भविष्यति । ततश्चित्तसंतानं मैत्र्या वासयित्वा करुणां भावयेत् । (२०३) सा च करुणा सर्वपीडितसत्त्वदुःखावगमेच्छाकारास्ति । लोकत्रयस्य सर्वसत्त्वानां त्रिविधदुःखतया यथायोगमत्यन्तदुःखितत्वात्तदर्थ सर्वसत्त्वेषु सा भावनीया । तथा च ये तावन्नाकारकास्ते विविधचिरन्तनदीर्घकालिकदाहादि-दुखेःषु निमग्ना एव भावतो वर्णिताः । तथा प्रेता अपि प्रायो दुःसहतीव्रक्षुत्तृषुदुःखाग्न्यभिसंशोषितमूर्तयो बहुदुःखमनुभवन्ति इति वर्णिताः । तिर्यञ्चोऽपि परस्परभक्षणक्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव । मनुष्या अपि कामपर्येषणाकार्पण्यादन्योऽन्यद्रोहोपधातकृतं प्रियविप्रयोगाप्रियसंयोगं दारिद्रयाद्युत्पन्नमप्रमेयं दुःखमनुभवन्तो दृश्यन्तो । ये रागादिनाना-संक्लेशपर्यवेष्टितचित्ताः, ये च विविधकुदृष्टिगहननिमग्नास्ते सर्वेऽपि दुःखहेतुत्वात्प्रपतस्था इव अतिदुःखिता एव । देवा अपि सर्वविपरिणामदुःखदुःखिता एव । देवा अपि ये कामवचरास्तेऽपि नित्यच्यवनपतनादिभयश्कोपहताः कथं सुखिता नाम? संस्कारदु खं तु कर्मक्लेशलक्षणं हेतुपरतन्त्रस्वभावं प्रतिक्षणभङ्गुरस्वभावलक्षणं च सकलजगति व्याप्तम् । तस्मात्सकलमेव जगद्दुःखाग्निज्वालान्तरप्रविष्टमवेत्य यथा मम दुःखमप्रियमन्येषामपि तादृशमिति चिन्तयता । अहो बत! दुःखिता ममैते प्रियसत्त्वास्तु कथं तद्दुःखमुक्ताः स्युरिति स्वात्मदुःखवत्कृत्वा तन्निवारणेच्छाकारया करुणया समाध्यवस्थायां सर्वचर्यासु वापि सर्वदा सर्वसत्त्वान् भावयेत् । प्रथमं तावद्मित्रपक्षेषु अनुभूतपूर्वोक्तविविधदुःखेषु अनुपश्यता भावनीया । ततः सत्त्वसमतयाविशेषमपश्यताऽसर्वे सत्त्वास्तु मे बन्धुभूता एवऽ इति परिचिन्तयता मध्यमपक्षेषु भवनीया । यदा तत्र मित्रपक्षेष्विव सा करुणा तुल्या प्रवृत्ता भवति तदा दशसु दिक्षु सर्वसत्त्वेषु भावयेत् । यदा दुःखितप्रियशिशोः मातृवत्स्वात्मनोऽतिप्रियं दुःखत उद्दरणेच्छाकारा स्वरसवाहिनीं सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति तदा सा निष्पन्ना भवति, महाकरुणाव्यपदेशं च लभते । (२०४) प्रथमं तावद्मित्रपक्षे कृता मैत्रीभावना सुखसंयोगेच्छाकारा भवति, क्रमशः व्यस्तेषु शत्रुषु चापि भावनीया । तथाभ्यस्ता च सा करुणा क्रमशः सकलसत्त्वाभ्युद्धरणेच्छां स्वरसेन एव उत्पादयति । अतो मूलकरुणां भावयित्वा बोधिचित्तं भावयेत् । तद्बोधिचित्तं तु द्विविधम्- संवृतं परमार्थ च । तत्र संवृतं तु करुणया सकलसत्त्वाभ्युद्धरणं प्रतिज्ञायऽजगद्धिताय बुद्धो भवेयम्ऽ इति, अनुत्तरसम्यक्सम्बोधिच्छाकारः प्रथमश्चित्तोत्पादः । तथापि शीलपरिवर्तप्रदर्शित-विधिवद्बोधिसत्त्वः संवरस्थितान्यविद्वत्सु चित्तमुत्पादयेत् । तथा संवृतबोधिचित्तमुत्पाद्य परमार्थबोधिचित्तोत्पादार्थं प्रयतितव्यम् । तच्च परमार्थगोचरम्, विमलम्, अचलम्, निर्वातप्रदीपप्रवाहवन्निष्कम्पम् । तत्सिद्धिस्तु सततं सत्कृत्य दीर्घकालं शमथविपश्यनायोगभावनाकरणाद्भविष्यति । आर्यसंधिनिर्मोचने यथा "मैत्रेय! श्रावकाणां बोधिसत्त्वानां तथागतानां वा येऽपि सर्वेऽपि लौकिकलोकोत्तरकुशलधर्माः शमथविपश्यनाफला वेदितव्या इति ।" तद्द्वयोः सर्वसमाधिसंगृहीतत्वात्सर्वयोगिभिः सदा अवश्यं शमथविपश्यने सेवनीये । तत्रैव आर्यसंधिनिर्मोचने भगवता उक्तम्, तद्यथा- "मया श्रावकाणां बोधिसत्त्वानां तथागतानां विविधसमाधयो दर्शिताः, ते सर्वे शमथविपश्यनासंगृहीता वेदितव्याः" इति । केवलं शमथमात्रभावनया न योगिनामावरणप्रहाणम्, क्लेशविक्रान्तिमात्रमेव तावत् । प्रज्ञालोकाभावेऽनुशयहान्यसंभवादनुशयसंहारो न भविष्यति । तस्मात्तत्रैव आर्यसंधिनिर्मोचने उक्तम् "ध्यानेन हि क्लेशानां विक्रान्तिः । प्रज्ञया तु अनुशयं संप्रतिहन्ति इति" । (२०५) आर्यसमाधिराजसूत्रेऽपि- किं चापि भावेय्य समाधिलोके न चो विभावेय्य स आत्मसंज्ञाम् । पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना । नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् । स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ इति उक्तम् । बोधिसत्त्वपिटकेऽपि- "ये बोधिसत्त्वपिटकस्य एतद्धर्मपर्यायाश्रवणे, आर्यविनयधर्मश्रवणं च विना समाधिमात्रेण संतोषग्रहणे तु अहंकारवशादभिमाने पतिताः जन्मजरारोगमरणशोकपरिदेवनादुःखदौर्मनस्यकोपापरिमुक्ताः । षड्गतिसंसारापरिमुक्ताः दुःखस्कन्धतोऽपि अपरिमुक्ताः । तान् संधाय तथागतेन एवमुक्तम्- परस्मादनुकूलश्रोता तु जरामरणमुक्तो भविष्यति" इति । तस्मात्सकलावरणं विहाय विशुद्धज्ञानोद्भवकामेन शमथे स्थित्वा प्रज्ञा भावनीया । एवमार्यरत्नकूटेऽपि भाषितम्- शीलं प्रतिष्ठाय समाधिलाभः समाधिलाभाच्च हि प्रज्ञाभावना । प्रज्ञाया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् ॥ इति । आर्यमहायानश्रद्धाभावनासूत्रेऽपि उक्तम्- "कुलपुत्र! प्रज्ञायामनुपस्थितौ बोधिसत्त्वानां महायानश्रद्धा महायाने कथमपि उत्पत्स्यते (इति) अहं न वक्ष्यामि । कुलपुत्र! अनेन पर्यायेणापि एवं बोधिसत्त्वानां (२०६) या काचिद्महायानश्रद्धा महायाने उत्पत्स्यते सा सर्वा तु अविक्षिप्तचित्तेन धर्मार्थसंचिन्तनात्समुत्पन्ना वेदितव्या । " शमथं विना विपश्यनामात्रेण योगिचित्तं विषयेषु विक्षिप्यते, वायुमध्यस्थितप्रदीपवच्च स्थिरं न भवति । अतो ज्ञानालोकोऽतिस्फुटो न भवति । तस्मादुभयं समं सेवितव्यम् । अतः आर्यमहापरिनिर्वाणसूत्रेऽपि उक्तम्- "श्रावकैस्तु तथागतगोत्रं न दृश्यते । समाधेरधिकत्वात्प्रज्ञायाश्च अल्पत्वात्बोधिसत्त्वास्तु पश्यन्ति, किन्तु अस्फुटम्, प्रज्ञातिरेकात्समाधेश्चाल्पत्वात् । तथागतस्तु सर्वमवलोकयति शमथविपश्यनासमानयुक्तत्वाद्" इति । शमथबलेन च वायुना अक्षोभ्यप्रदीपवद्विकल्पवायुभिश्चित्तं न कम्पते । विपश्यनया तु सकलकुदृष्टिमलप्रहाणत्वादन्यैरभेद्या । चन्द्रप्रदीपसुत्रे यथा- अकम्पियः शमथबलेन भोति शैलोपमो भोति विपश्यनाय । इत्युक्तम् । अतः उभयेन योगकरणं स्थितम् । तत्र आदौ संप्रति तेन योगिना सुखं शीघ्रं च शमथ-विपश्यनासिद्धये शमथविपश्यनासम्भारः सेवनीयः । तत्र शमथसंभारः कतमः? अनुकूलदेशवासः, अल्पेच्छता, सन्तुष्टिः, क्रियाबाहुल्यपरिहारः, शीलविशुद्धिः इच्छादिविकल्पपरित्यागश्च । तत्र पञ्चगुणयुक्तो हि देशोऽनुकूलो ज्ञातव्यः । वस्त्रभोजनादेः अकृच्छ्रेण प्राप्तित्वात्सुलब्धः, दुर्जनशत्र्वाद्यनवस्थितत्वात्सुस्थानम्, नीरोगभूमित्वात्सुभूमिः, मित्रशीलवत्समदृष्टित्वात्सन्मित्रम्, दिवा बहुजनापूरितत्वाद्रात्रौ अल्पशब्दत्वाच्च स्युयुक्तम् । अल्पेच्छता कतमा? चीबरादेरौत्कृष्टमस्य आधिक्यस्य वा अनध्यवसनम् । संतुष्टिः कतमा? (२०७) अबरमात्रचिवराडिलाभेन यः सदा सन्तोषः । क्रियाबाहुल्यपरिहारः कतमः? क्रयविक्रयादिदुष्कर्मपरिहारः, गृहस्थ-प्रव्रजितान्यतमातिसंस्तुतिपरिहरः, ओषधिनिर्माणनक्षत्रगणानादिपरिहारश्च । शीलविशुद्धिः कतमा? संवरद्वयेऽपि प्रकृति-प्रतिक्षेपसावद्यशिक्षापदाभङ्गता, प्रमादभङ्गेऽपि शीघ्रातिशीघ्रं पश्चात्तापेन यथाधर्माचरणम् । श्रावकसंवरे पाराजिकप्रतिविधानेऽयोग्यं कथनं यदस्ति तस्मिन्नपि पश्चात्तापः, पश्चाच्च अकरण-मनसिकारः । यच्चित्तेन यत्कर्मं कृतम्, तच्चित्ते निःस्वभावताप्रतिसंख्यानद्सर्वधर्मनिःस्वभावताभावनात्वात्तत्छीलविशुद्धिरेव वक्तव्या । तत्तु आर्याजातशत्रुकौकृत्यविनोदनादवबोद्धव्यम् । तस्मात्कौकृत्याभावं कृत्वा भावनायामभियोगः कर्त्तव्यः । कामेष्वपि इह जन्मान्तरे च भाविनो विविधदोषान्मनसिकृत्य तेषु विकल्पः परिहर्त्तव्यः । एतावता संसारभावः प्रियोऽप्रियो वापि तत्सर्वं तु विनाशधर्मि अस्थिरं च । निश्चयेन तत्सर्वस्मिन्मयि च अचिरं वियोगे भावे सति मम तस्मिन् कथमध्यवसितादिर्भवेदिति भावनया सर्वे विकल्पाः परिहर्त्तव्याः । विपश्यना-सम्भारः कतमः? सत्पुरुषाश्रयः, बहुश्रुतपर्येषणा, योनिशोमनसिकारश्च । तत्र कीदृशं सत्पुरुषमाश्रयेदिति चेत्- यो बहुश्रुतः प्रसन्नवाक्, कारुणिको निर्वित्सहश्च । तत्र बहुश्रुतपर्येष्टिः कतमा? यत्सादरं भगवद्द्वादशाङ्गधर्मप्रवचननेयार्थनीतार्थातिश्रवणम् । इत्थमार्यसंधिनिर्मोचने- "यथेच्छमार्याख्यानाश्रवणं हि विपश्यनाविघ्नः" इति उक्तम् । तत्रैव "विपश्यना च श्रवणमननाभ्यामुत्पन्नविशुद्धदृष्टिहेतोरूत्पद्यते ।" इत्युक्तम् । आर्यानारायणपरिपृच्छायामपि- "श्रुतिमति प्रज्ञाप्रदुर्भवति । प्रज्ञावतः क्लेशाः प्रशाम्यन्ति ।" इत्युक्तम् । (२०८) योनिशोमनसिकारः कतमः? यस्य नीतार्थसूत्रनेयार्थसूत्रादिसुनिर्णयस्तादृशे बोधिसत्त्वे निःशङ्के सति भावनायामैकान्तिकनिश्चयो भविष्यति । अन्यथा संशयान्दोलितयानस्थितस्तु शृङ्गाटकमध्यगतमनुष्यवत्कुत्रापि ऐकान्तिकनिश्चयो न भविष्यति । योगिना तु सदा मत्स्यमांसादि परिहृत्य अप्रतिकूलं भोजनं नियतमात्रकं भोक्तव्यम् । तथा तेन साञ्चितसकलशमथविपश्यनासम्भारेणबोधिसत्त्वेन भावनायां प्रवेष्टव्यम् । तत्र प्रथमं तावद्योगी भावनाकाले सर्वमितिकरणीयं परिसमाप्यं कृतमूत्रपुरीषः कण्टकस्वरादिरहिते मनोऽनूकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणामामुखीकृत्य दशदिगवस्थितान् सर्वबुद्धभोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वन् पटादौ स्थापयित्वा अन्यत्र वा यथावत्तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्य जगतः पुण्यमनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केन अर्धपर्यङ्केन वा निष्पाद्य नात्युन्मूईलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धमृजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत् । ततः स्कन्धौ समौ स्थापयेत् । शिरो नोन्नतं नावनतमेक-पार्श्वे निश्चलं स्थापयितव्यम् । किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या । दन्तोष्ठं मृदु स्थापनीयम् । जिव्हा चोपरिदन्तमूले स्थापनीया । आश्वास्प्रश्वासास्तु न सशब्दा नापि स्थूला नापि त्वरिताः करणीयाः । किं त्वसंलक्ष्यमाणा मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम् । तत्र प्रथमं तावत्शमथो निस्पादयितव्यः, बाह्यविषयविक्षेपशान्तेः आन्तरालम्बने सततं स्वरसवाहि प्रीतिप्रस्रब्धिवच्चित्त एव स्थितिस्तु शमथ इति उच्यते । तस्यैव शमथस्यालम्बनकाले यस्तत्त्व-विचारः सा विपश्यना । आर्यरत्नमेघे यथा- "शमथश्चित्तैकाग्रता । विपश्यना भूतप्रत्यवेक्षेति" उक्तम् । (२०९) आर्यसंधिनिर्मोचनेऽपि- "भगवन् कथं शमथपरिगवेषणं विपश्यनाकौशलं चास्ति? उच्यते । मैत्रेय! मया धर्मोपचारो व्यवस्थापितः । तद्यथा- ये सूत्रगेयव्याकरण-गाथोदान-निदानावदानेतिवृत्तक-जातक-वैपुल्याद्भूतधर्मोपदेश-वर्गाः बोधिसत्त्वेभ्य आख्यातास्ते बोधिसत्त्वैः संश्रुत्य संधार्य, पाठमभ्यस्य, मनसा सम्परीक्ष्य, दृष्ट्या सुप्रतिविद्धय स एकाकी विविक्तस्थः, अन्तः प्रतिसंलीनः, यथासुचिन्तितान् तानेव धर्मान्मनसिकृत्य, येन चित्तेन मनसिकारस्तच्चिताभ्यन्तरं सततं मनसिकारेण मनसिकारः । तथा प्रविश्य तत्र बहुशः स्थितः तस्यां कायप्रस्रब्धिचित्तप्रस्रब्धिसम्भवश्च योऽस्ति स तु शमथ इति । तर्हि बोधिसत्त्वः शमथपरिगवेषणं करोति । तेन कायप्रस्रब्धिः, चित्तप्रस्रब्धिश्च । ते प्राप्य तत्रैव स्थितः, चित्तविक्षेपं विहाय यथा चिन्तितधर्मः तेषामेव अभ्यन्तरे समाधिगोचरप्रतिबिम्बं प्रत्यवेक्षते, अधिमुच्यते, तादृक्समाधिगोचरप्रतिबिम्बम्, तज्ज्ञेयर्थे विविच्यते प्रविवेचनं परिकल्पनं पर्यवेक्षणं क्षान्तिः, कामो विशिष्टैव्भागो दर्शनम्, अधिगमश्च योऽस्ति, सा तु विपश्यना इति, तथा च बोधिसत्त्वविपश्यना कौशलमित्युक्तम् । " तत्र शमथाभिनिर्हारकामो योगी प्रथमं तावत्सूत्रगेयादिसकलप्रवचनं तु तथतापरायणम्, तथताप्रग्भारम्, तथताप्रवणम इति सर्वं संग्राह्य तत्र चित्तमुपस्थापयेत् । एतावता कियदाकारेण सर्वधर्मसंग्रहभुते स्कन्धादौ तत्र चित्तमुपस्थापयेत् । एतावता यथादृष्ट-यथाश्रुतबुद्धप्रतिमायां चित्तं स्थापितव्यम् । आर्यसमाधिराजे यथा- सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः । यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्व ॥ इति उक्तम् । (२१०) तथा यत्र इच्छालम्बनं तस्मिन् चित्तं स्थापयित्वा तत्रैव उपर्युपरि सततं चित्तं स्थापयेत् । तत्र उपस्थाप्य चित्तमीदृशमेवं परीक्षेत ।ऽकिमालम्बनं सुगृण्हाति लीयते वा अथवा बाह्यविषयव्यसेकाद्विक्षिप्यते इति परीक्षितव्यम् । तत्र यदि स्त्यानमिद्धाभिभवाद्चित्तं लीनं वा लयाभिशङ्का दर्शने तत्काले प्रमोद्य वस्तुनि बुद्धप्रतिमादौ वा अलोकसंज्ञामनसिकरः कर्तव्यः । अथ लयमुपशाम्य यथापि तत्रैव आलम्बने चित्तालम्बनमतिस्फुटदर्शनं भवति तथा करणियम् । यदा तु जात्यन्धवदन्धकारप्रविष्टपुरुषवद्वा विनिमीलिताक्षवद्वा चित्तमालम्बनमतिस्फुटरं न पश्यति तदा लीनं वेदितव्यम् । यदा बाह्यरूपादौ तेषां गुणकल्पनया धावनेन, अन्यमनसिकारेण वा पूर्वानुभूतविषयेच्छया चित्तौद्धत्यं वा औद्धत्यशङ्कादर्शनं वा तदा सर्वे संस्कारा अनित्या दुःखादिमनोसंवेगवस्तु मनसि कर्त्तव्यम् । ततः विक्षेपशान्तिं कृत्वा स्मृतिसम्प्रजन्यरज्जुना मनोनागः तदालम्बनस्तम्भे एव बन्धितव्यः । यदा लयौद्धत्ये न भवतः तदालम्बेन चित्तप्रशमवहितां पश्येत्, तदा आभोगशिथिलिकरणादुपेक्षया तत्काले यावदिच्छं तिष्ठेत् । इत्थं भावितशमथस्य तच्छरीरस्य चित्तस्य च प्रश्रब्धिर्भविष्यति । यथेच्छालम्बने चित्तं स्ववशे भविष्यति । तदा शमथो निष्पन्नो वेदितव्यः । ततः शमथं निष्पाद्य विपश्यनां भावयेत् । ईदृशं च मन्तव्यं भगवतः सर्ववचनं तु सुभषितम्, साक्षात्परम्परया वा तत्त्वप्रत्यक्षव्यञजनं तत्त्वपरायणमेव च । तत्त्वज्ञाने आलोकोभ्दवात्तमोनिरासवत्सर्वदृष्टिजालवियोगो भविष्यति । शमथमात्रेण ज्ञानशुद्धिर्न भविष्यति, आवरण-तमोनिरासश्चापि न भविष्यति । प्रज्ञया च तत्त्वसम्यग्भावनायां ज्ञानविशुद्धिर्भविष्यति । प्रज्ञया एव तत्त्वमवगम्यते प्रज्ञयैव आवरणं सम्यक्प्रहीयते । (२११) तस्मान्मया शमथे स्थित्वा प्रज्ञया तत्त्वं पर्येषितव्यम् । शमथमात्रेण संतोषो न करणीय इति विचारणीयम् । कीदृशं च तत्त्वमिति चेत्? यत्परमार्थतः सर्ववस्तुपुद्गल धर्मात्मशून्यम्, तत्प्रज्ञापरिमितया अधिगम्यते न चान्यथा । आर्यसंधिनिर्मोचने यथोक्तम् "भगवन्! कया पारमितया बोधिसत्त्वः धर्मनिःस्वभावतां गृण्हीयात्? अवलोकितेश्वर! प्रज्ञापारमितया गृह्यते ।" इति । तस्मात्शमथे स्थित्वा प्रज्ञां भावयेत् । तत्रैवं योगी विचारयेत्,ऽपुद्गलः न स्कन्धधात्वायतनव्यतिरिक्त उपलभ्यते । न चापि पुद्गलः स्कन्धादिस्वभवः । ते स्कन्धादयस्तु अनित्याः, अनेकस्वभावत्वात्पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् । नापि तत्त्वान्यत्वाभ्यामनभिलाप्यपुद्गलस्य वस्तुत्वं युक्तम् । वस्तुसतः प्रकारान्तराभावात् । तस्मात्तद्यथा भ्रम एव अयं लोकस्य यदुताहं मेमेति विचारितव्यम् । धर्मनैरात्म्यमपि एवं भवनीयम् । धर्म इति संक्षेपतः पञ्चस्कन्धो द्वादशायतनम्, अष्टादशधातवश्च । तत्र ये च स्कन्धायतनधातुरूपिणः, न ते परमार्थतः चित्ताकारव्यतिरिक्ताः । तत्परमाणुशो विभागे परमाणवोऽपि भागशः स्वभावताप्रत्यवेक्षमाणाः स्वभावनिश्चयग्रहणाभावात् । तस्मादनादिकालिकवितथरूपाद्यभिनिवेशवशात्स्वप्नोपलभ्यमानरूपादिप्रतिभासवद्बालानां चित्तमेव बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति । परमार्थतस्तत्र रूपादिस्तु न चित्ताकारव्यतिरिक्त इति विचारयेत् । तदेवं त्रैधातुकमिदं तु चित्तमात्रमिति चिन्तयेत् । स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते । स एवं विचारयति । चित्तमपि परमार्थः सत्यं भवितुं न युज्यते । यदा हि अलीकस्वभावरूपाद्याकरोपग्रहणे चित्तमेव चित्राकारं प्रतिभासते, तदा सत्यत्वं कुत्र भवेत् । यथा रूपादी (२१२) अलीकं तथा चित्तमपि तदव्यतिरिक्तत्वादलीकमेव । यथा चित्राकारतया रूपादयो नैकानेकस्वभावाः तथा चित्तमपि तदव्यतिरेकेण अनिकानेकस्वभावम् । तस्मात्मायादिस्वभावोपममेव चित्तम् । यथा चित्तमेवं सर्वधर्मा अपि मायास्वभावसदृशा एव इति विचारयेत् । तेन तथा प्रज्ञया चित्तस्वभावे प्रत्येवेक्षमाणे परमार्थतः चित्तमभ्यन्तरेऽपि नोपलभते, बाह्येऽपि नोपलभते, अनुभयोऽपि नोपलभते, अतीतचित्तमपि नोपलभते, अनागतमपि नोपलभते, प्रत्युत्पन्नमपि नोपलभते । नापि चित्तमुत्पाद्यमानं कुतोऽप्यागच्छति, नापि निरुध्यमानं क्वचिदपि गच्छति । चित्तं तु अग्राह्यमनिर्देश्यम्, अरूपं च । अनिर्देश्यमग्रह्यमरूपं च यदस्ति तस्य स्वभावः कीदृशः? तथा आर्यरत्नकूटे यथोक्तम्- "काश्यप! चित्तं तु परिगवेष्यमाणं न लभ्यते । यन्न लब्धं तन्न आलम्ब्यते यच्च नालम्ब्यते । तन्नातीतम्, नानागतम्, न च प्रत्युत्पन्नम् ।" इति विस्तरः । तदेवं परीक्ष्यमाणे चित्तस्य आदिं न समनुपस्यति, अन्तं न समनुपश्यति मध्यं न समनुपश्यति । यथा च चित्तमनन्तमध्यं तथा सर्वधर्मानपि अनन्तमध्यमवगच्छेत् । तेन तदेवं चित्तमनन्तमध्यमवगम्य किमपि चित्तस्वभावं नोपलभते । यदपि चित्तं परीक्ष्यते तदपि शून्यं प्रतिविध्यति । तत्प्रतिविध्यमाने चित्तविठपनास्वभावं रूपादिस्वभावमपि न समनुपश्यति । तेन तथा प्रज्ञया सर्वधर्मस्वभावस्य असमनुदर्शनत्वाद्रूपं नित्यमनित्यं वा, शून्यमशून्यं वा, सास्रवमनास्रवं वा, उत्पन्नमनुत्पन्नं वा, भावोऽभावो वेती न विकल्पयति । यथा रूपं न विकल्पयति तथा वेदनासंज्ञासंस्कारविज्ञानेष्वपि न विकल्पयति । असिद्धे धर्मिणि तस्य विशेषणानामपि असिद्धत्वात्, तत्र कथं विकल्पयेत् । तदेवं प्रज्ञया परीक्ष्यमाणो (२१३) यदा योगिना कस्यचिद्वस्तुनः स्वभावपरमार्थनिश्चयो न गृह्यते, तदा निर्विकल्पसमाधौ प्रविशति । सर्वधर्मनिःस्वभावता अपि अवगम्यते । यः प्रज्ञया वस्तुस्वभावं प्रत्यवेक्ष्य न भावयन्, मनसिकारपरिहारमात्रं भावयति, तस्य विकल्पः कदापि न निवर्तते, न च निःस्वभावतावबोधोऽपि भविष्यति, प्रज्ञालोकाभावात् । एवं सम्यक्प्रत्यवेक्षणात्सम्यग्यथावज्ज्ञानाग्निभावेऽरणिमन्थनाग्निवत्कल्पनावृक्षो दह्यते इति भगवता उक्तम् । तथा उक्तमार्यरत्नमेघे- "स एवमपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाय योगमापद्यते । स शून्यताभावनबहुलो येषु येषु स्थानेषु चित्तं प्रसरति, चित्तमभिरमते, तानि तानि स्थानानि स्वभावतः परिगवेषमाणः शून्यं प्रतिविध्यति । यत्चित्तं तदपि परीक्षमाणः शून्यं प्रतिविध्यति, येनापि चित्तेन परीक्षते तदपि स्वभावतः शून्यं परिगवेष्यमाणं प्रतिविध्यति । स एवमुपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते ।" इति भवति । अनेन तु पर्यवेक्षणपूर्वगामितायाः निर्निमित्तताप्रवेशं दर्शयति । मनसिकारपरिहारमात्रम्, प्रज्ञया वस्तुस्वभावतां च अविचार्य, अविकल्पताप्रवेशमसंभाव्य, अतिस्फुटतरं दर्शयति । तथा तया प्रज्ञया रूपादिवस्तुस्वभावं सम्यग्यथावत्परीक्ष्य ध्यायति, रूपादौ स्थित्वा ध्यानं न करोति । इहलोकपरलोकयोर्मध्ये स्थित्वा ध्यानं न करोति, तद्रूपाद्यनुपलम्भात् । तस्मादप्रतिष्ठितध्यान इति उच्यते । प्रज्ञया स्कलवस्तुस्वभावतां प्रतिवीक्ष्य यस्मादनुपलम्भं ध्यायति- तस्मात्प्रज्ञोत्तरध्यायी इति उच्यते । आर्यगगनगञ्जार्यरत्नचूडादिषु यथा निर्दिष्टम् । स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य दर्शनीयस्य च अभावादुपरतम्, वितर्क-विचारानभिलाप्यैकरसेन मनसा स्वरसवाहिना अनभिसंस्कारतस्तत्त्वमेव (२१४) स्फुटतरं भावयन् तिष्ठेत् । तत्र च स्थितश्चित्तसंतानं न विक्षिपेत् । यदान्तरा रागादीनां चित्तं बहिर्धा विक्षपेत्तदा विक्षेपं विदित्वा शिघ्रमशुभभावनादिविक्षेपमुपशम्य शीघ्रं तथतायां चित्तमुपर्युपरि प्रवेशयेत् । यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनादभिरतिं तत्र भावयेत् । विक्षेपे च दोषदर्शनादरतिं प्रशमयेत् । अथ स्त्यानमिद्धाभिभवाद्यदा स्फुटप्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा पूर्ववत्प्रमोद्यवस्तु मनसिकारेण शीघ्रं लयमुपशमयेत् । पुनः तदेव तत्त्वालम्बनमतिदृढतरं गृण्हीयात् । यदि तदा पूर्वहसितरमितान्यनुस्मृत्य चित्तमन्तरा समृद्धतं पश्येदौद्धत्याभिशङ्कितं वा तदा अनित्यतादिसंवेगवस्तुमनसिकाराद्विक्षेपं शमयेत् । ततः पुनस्तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत । अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिस्फुटतरं तत्रैव तत्त्वे चित्तमुत्पादयते, तदा भोगशिथिलीकरणादुपेक्षणियम् । यदि समप्रवृत्ते चित्ते सति आभोगः क्रियते, तदा चित्तं विक्षेप्यते । लीनेऽपि चित्ते सति, यद्याभोगो न क्रियते, तदा अतिलीनत्वाद्विपश्यनारहितं, चित्तं च जात्यन्धवद्भविष्यति । तस्माच्चित्ते लीने सति भोगं कुवीत । समप्रवृत्ते सति भोगं न कुर्वीत । यदा च विपश्यनां भावेयत्प्रज्ञातिरिक्ततरा भवेत्, तदा शमथस्याल्पत्वात्प्रवातस्थित-प्रदीपवत्प्रचलत्वाच्चित्तस्य न स्फुटरं तत्त्वदर्शनं भवेत् । अतस्तदा शमथौ भावयितव्यः । शमथस्याभ्यधिक्येऽपि प्रज्ञा भावयितव्या । यदा उभयं समप्रवृत्तं तदा अनभिसंस्कारेणैव तावत्स्थातव्यं यावत्कायचित्तपीडा न भवेत् । सत्यां कायादिपीडायां तदन्तरा सकलमेव लोकं मायामरीचिस्वप्नजलचन्द्रोपमप्रतिभासवद्दृष्ट्वा ईदृशं चिन्तनीयम् । अमी सत्त्वास्तु एवं विधधर्मगाम्भिर्यानवबोधतया संसारे संक्लिष्टाः । ततोऽहं करिष्यामि तांस्तां धर्मतामवबोधयेयुः, तथा करिष्यामिऽ इति चिन्तयन्महाकरुणां बोधिचित्ताभिमुखीं कुर्वित । ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् । चित्तेऽतिखेदे सति, तथैव विश्रमेत् । अयं तु शमथविपश्यनायुगनद्धप्रवृत्तिमार्गः सविकल्पनिर्विकल्पप्रतिबिम्बमालम्बते । एवं योगी अनेन क्रमेण घटिकामर्धप्रहरमेकप्रहरं वा यावत्कालेच्छापर्यन्तं तत्त्वं भावयन् तिष्ठेत् । इदं त्वर्थप्रविचयध्यानमार्यलङ्कावतारे (२१५) निर्दिष्टम् । तत इच्छया समाधेरुत्थातुं पर्यङ्कमभित्त्वैवमनुविचिन्तयेत्, अमी धर्माः सर्वे परमार्थतः निःस्वभावाः सन्तोऽपि संवृतौ व्यवस्थिता एव । तथासति कर्मफलसम्बन्धादयः कथं व्यवस्थिताः स्युः? भगवता चोक्तम्- "भावा विद्यन्ति संवृत्या परमार्थे न भावकाः ।" इत्युक्तम् । अमी बालबुद्धयो निःस्वभाववस्तुषु भावादिसमारोपेण विपर्यस्तबुद्धयो भवन्ति । चिरकालं संसारचक्रे परिभ्रमन्ति, ततोऽहं करिष्यामि अनुत्तरपुण्यज्ञानसम्भारं परिपूर्य, ततः सर्वज्ञपदं प्राप्य तान् धर्मतामवबोधयेयम् । एवं विचिन्तयेत् । अथ शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धोबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिमहाप्रणिधानं प्रणिदधीत । ततः शून्यताकरुणागर्भसकलदानादिपुण्यसंभारोपार्जनेऽभियोगः करणीयः । तथा च सति तद्ध्यानसर्वाकारवरोपेतशुन्यताभिनिर्हारः स्यात् । आर्यरत्नचूडे यथोक्तम्- "स मैत्रीवर्मसंनद्धो महाकरुणास्थाने स्थित्वा सर्वाकारवरोपेतशून्यताभिनिर्हारध्यानं करोति । तत्र सर्वाकारवरोपेतशून्यता कतमा? या दानपगति-शीलानपगति-क्षान्त्यनपगति-वीर्यानपगति-ध्यानानपगति-प्रज्ञनापगत्युपायानपगतीत्यादिविस्तरोक्तिरिति ।" बोधिसत्त्वस्तु सर्वसत्त्वपरिपाकं कुर्वीत । क्षेत्रकायबहुपरिवारादिसंपत्तिप्रादुर्भावोपायदानादिकुशलं चावश्यं सेवेत । असति च तथा बुद्धानां क्षेत्रादिसंपत्तिर्योक्ता सा कस्य फलं स्यात् । तस्मात्सर्वाकारवरोपेतं तत्सर्वज्ञज्ञानं तु दानाद्युपायेन परिपूर्यमाणत्वाद्भगवान् तत्सर्वज्ञज्ञानमुपायेन पर्यन्तगतमित्यवोचत् । तस्माद्बोधिसत्त्वेन दानाद्युपायोऽपि सेवितव्यो न तु शून्यता एव । आर्यसर्वधर्मवैपुल्ये (२१६) "योऽयं मैत्रेय! षट्पारमितासमुदागमो बिधिसत्त्वानां सम्बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायामेवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति उच्यन्ते । तेऽन्याः पारमिता दूषयितव्या मंस्यन्ते । तत्किं मन्यसे अजित! दुष्प्रज्ञः स काशिराजोऽभूद्येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह, नो हीदं भगवन् । भगवानाह- यानि मया मैत्रेय! बोधिसत्त्वचर्यां चरता षट्पारमिता-प्रतिसंयुक्तानि कुशलमूलान्युपचितानि, अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह नो हीदं भगवन् । भगवानाह- त्वं तावदजित! षष्टिकल्पान दानापारमितायां समुदागतः, षष्टिकल्पान् शीलपारमितायं षष्टिकल्पान् क्षान्तिपारमितायां षष्टिकल्पान् विर्यपारमितायां षष्टिकल्पान् ध्यानपारमितायां षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः । तत्ते मोहपुरुषा एवं वक्ष्यन्ति । एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्तीत्यादि । " उपायरहिते सति बोधिसत्त्वः प्रज्ञया एव तु श्रावकवत्बुद्धकार्याणि कर्तुं न शक्नोति । उपायसनाथश्च समर्थो भवति । आर्यरत्नकूटे यथोक्तम्- "तद्यथा काश्यप! अमात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति, एवमेव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति ।" इति । बोधिसत्त्वानां मार्गदृष्टेरप्यन्या तीर्थिकानां श्रावकाणां च मार्गदृष्टिरप्यन्या । एवं तीर्थिकमार्गदृष्टिस्तु आत्मादौ विपर्यासयुक्तत्वात्सर्वेण सर्वः प्रज्ञारहितो मार्गः । तस्मात्ते मुक्तिं न प्राप्नुवन्ति । श्रावकाणां तु महाकरुणारहितत्वादुपायायुकता । तस्मात्ते एकान्तनिर्वाणपरायणाः भवन्ति । बोधिसत्त्वमार्गस्तु प्रज्ञोपाययुक्तो मन्यते । तस्मात्ते अप्रतिष्ठितनिर्वाणपरायणा भवन्ति । बोधिसत्त्वानां मार्गस्तु प्रज्ञोपाययुक्तो मन्यते । तस्मात्ते अप्रतिस्ठितनिर्वाणं प्राप्नुवन्ति । प्रज्ञाबलेन तु संसारे न पतति, उपायबलेन च निर्वाणे न पतति । तस्मादार्यगयाशीर्षे- "द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । कतमौ द्वौ- यदुत प्रज्ञा चोपायश्च ।" इत्याख्यातम् । आर्यश्रीपरमाद्येऽपि उक्तम्- (२१७) "प्रज्ञापारमिता तुऽमाताऽ अस्ति, उपायकौशल्यं चऽपिताऽ अस्ति । "आर्यविमलकीर्तिनिर्देशसूत्रेऽपि- "बोधिसत्त्वानां किं बन्धनम्? का च मुक्तिः? अनुपायेन भवगतिपरिग्रहो हि बोधिसत्त्वस्य बन्धनम् । उपायेन भवगतिगमनं मुक्तिः । प्रज्ञारहितभावगतिपरिग्रहो बोधिसत्त्वस्य बन्धनम् । प्रज्ञया भवगतिगमनं तु मुक्तिः । उपायेन अपरिगृहीता प्रज्ञा हि बन्धनम् । उपायेन परिगृहिता प्रज्ञा मुक्तिः । प्रज्ञयापरिगृहीतोपायो बन्धनम् । प्रज्ञया गृहीतोपायः मुक्तिः इति" विस्तरेन उक्तम् । बोधिसत्त्वस्य प्रज्ञामात्रसेवनं तु श्रावकेष्टनिर्वाणपतितत्वाद्बन्धनवद्भविष्यति । अप्रतिष्ठितनिर्वाणेन मुक्तिर्न भविष्यति । तस्मादुपायरहिता प्रज्ञा तु बोधिसत्त्वानां बन्धनमित्युच्यते । तस्माद्वायुपीडितेन अग्निसेवनवद्बोधिसत्त्वेन विपर्यासवायुमात्रप्रहाणत्वात्सोप्याप्रज्ञया शून्यता सेवितव्या, न तु श्रावकवत्साक्षात्करणीया । यथा आर्यदशधर्मसूत्रे चोक्तम्- "कुलपुत्र! तद्यथा यथा कश्चिन्मनुष्यः अग्निपरिचर्यां करोति, स तदग्निसत्कारं करोति, गुरुं करोति, किन्तु सोऽयमिति मया सोऽग्निः सत्कृत्य, गुरूकृत्य मानितश्च इति कृतेऽपि एष द्वाभ्यां हस्ताभ्यां परिगृहीतव्य इति न चिन्तयति । तत्कस्मादिति चेत्तन्निधान्ने मयि कायिकदुःखं चित्तदौर्मनस्यं वा सम्भाव्यते इति चिन्तनात् । तथैव च बोधिसत्त्वेऽपि निर्वाणाशयोऽप्यस्ति, निर्वाण-प्रत्यक्षं न करोति । तत्कस्य हेतोरिति चेत्? तन्निधानादहं बोधिं निर्वर्तेयमिति चिन्तनाद्" इति । केवलमुपायमात्रसेवनेऽपि बोधिसत्त्वः पृथग्जनभूमेरनुत्तीर्णत्वादत्यवबद्ध एव भविष्यति । तस्मात्प्रज्ञासहितमुपायं सेवेत । एवं मन्त्रपरिगृहीतविषवद्बोधिसत्त्वक्लेशेऽपि प्रज्ञापरिग्रहबलेन भाविते सति अमृतिकता । पुनः स्वभावेन अभ्युदयफलं दानादि यदस्ति तत्र किमुत (२१८) वक्तव्यम् । आर्यरत्नकुटे चोक्तं यथा- "तद्यथापि नाम काश्यप! मन्त्रौषधपरिगृहीतं विषं न विनिपातयति एवमेव बोधिसत्त्वानां क्लेशः प्रज्ञापरिगृहितत्वादपि न शक्नोति विनिपातयितुमिति । " तस्माद्येन कारणेन बोधिसत्त्व उपायबलेन संसारमनुत्सृजति तस्माद्निर्वाणे न पतति । यस्मात्प्रज्ञाबलेन सकलालम्बनं प्रहीयते तस्मात्संसारे न पतति, तस्मादप्रतिष्ठितनिर्वाणबुद्धत्वं प्राप्यते । तस्मादार्यगगनगञ्जेऽपि उक्तम्- "तत्प्रज्ञानेन हि सर्वक्लेशाः परिवर्ज्यन्ते । उपायज्ञानेन हि सर्वसत्त्वा न परित्यज्यन्ते ।" इति । आर्यसंधिनिर्मोचनेऽपि- "एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्काराभिसंस्कारविमुखस्य नानुत्तरा सम्यक्संबोधिरुक्ता मयेति ।" तस्माद्बुद्धत्वप्रातुकामेन प्रज्ञोपायौ उभौ सेवितव्यौ । तत्र लोकोत्तरप्रज्ञाभावनावसरे, अतिसमाहितावसरे वा दानाद्युपायसेवनासम्भावनायामपि तत्र प्रयोगतत्पृष्ठलब्धप्रज्ञयोः योऽपि भवति, तदा उपायसेवनं भवत्येव । तस्मात्प्रज्ञापायौ युगपत्प्रवर्तेते । पुनरपरं बोधिसत्त्वानामयं हि प्रज्ञोपाययुगनद्धवाहि मार्गः सर्वसत्त्वावलोकितमहाकरुणया परिगृहीतत्वात्लोकोत्तरमार्गः सेव्यते, उत्थानोपायकालेऽपि मायाकारवदविपर्यस्तमेव दानादि सेव्यते । आर्याक्षयमतिनिर्देशेऽपि यथोक्तम्- "तत्र को हि बोधिसत्त्वोपायः? कश्च प्रज्ञाभिनिर्हार इति? यतः समाधाने सत्त्वावलोकितमहाकरुणावलम्बने चित्तोपस्थापना स एव उपायः । यतः शान्तिप्रशान्तिसमापत्तिः सा तु तत्प्रज्ञा"इति विस्तरः । मारदमनपरिच्छेदेऽपि उक्तम्- "पुनरपरं बोधिसत्त्वानां समुत्कर्षिकप्रयोगस्तु प्रज्ञाज्ञानेन अभियोगं करोति । उपयज्ञानेन सर्वकुशलधर्मसंग्रहो (२१९)ऽपि प्रयुज्यते । प्रज्ञाज्ञानेन नैरात्म्यासत्त्वाजीवापोषापुद्गलेषु च प्रयुज्यते । उपायज्ञानेन यः सर्वसत्त्वपरिपाकोऽपि प्रयोज्यः" इति विस्तरः । आर्यधर्मसंगीतिसूत्रेऽपि- मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यतः । न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः । संनह्यते जगद्धेतोर्ज्ञातपूर्व जगत्तथा ॥ इति । बोधिसत्त्वनां प्रज्ञोपायविधिरेव साध्यमधिकृत्य तत्प्रयोगसंसारे स्थितोऽपि अस्ति, आशयनिर्वाणे स्थितोऽपि स्यादित्युक्तम् । तादृश्यां शून्यतामहाकरुणागर्भानुत्तरसम्यक्संबुद्धौ परिणतदानाद्युपायभावनां कृत्वा, परमार्थबोधिचित्तोत्पादार्थ पूर्ववत्नित्यं काले काले शमथविपश्यनाप्रयोगो यथाशक्ति भावनीयः । आर्यगोचरपरिशुद्धिसूत्रे- सर्वावस्थासु सत्त्वार्थकारिबोधिसत्त्वानामनुशंसा यथा निर्दिष्टा तथा संनिहितस्मृत्या सर्वदा उपाअयकौशलं भावितव्यम् । तादृक्करुणोपायबोधिचित्तभावकः स इह जन्मनि अवश्यं विशिष्टो भवति । तस्मात्स्वप्ने नित्यं बुद्धबोधिसत्त्वदर्शनं भविष्यति । सुस्वप्नान्तराण्यपि दृश्यन्ते । देवा अपि अनुमोदनाद्रक्षां करिष्यन्ति । प्रतिक्षणमपि विपुलपुण्यज्ञानसम्भारसंचयो भविष्यति । क्लेशावरणदौष्ठुल्यमपि क्षीणं भविष्यति । सर्वदैव सुखसौमनस्यमधिकं भविष्यति । बहुजनप्रियो भविष्यति । शरीरेऽपि रोगग्रस्तो न भविष्यति । परमचित्तकर्मण्यतापि प्राप्ता भविष्यति । तस्मादभिज्ञतादिविशिष्टगुणप्राप्तिः । (२२०) अथ ऋद्धिबलेन अनन्तलोकधातून् गत्वा भगवतो बुद्धान् पूजयति । तेभ्यः धर्मोऽपि श्रूयते । मरणसमयेऽपि अवश्यमेव बुद्धबोधिसत्त्वदर्शनं भविष्यति । जन्मान्तरेऽपि बुद्धबोधिसत्त्वानपगतदेशविशिष्टगृहे चापि जन्म भविष्यति । तस्मादनायासपुण्यज्ञानसम्भारः परिपूरयिष्यते । महाभोगो बहुपरिवारश्च भविष्यति । तीक्ष्णप्रज्ञया बहुजनपरिपाकमपि करिष्यन्ति । सर्वजातिषु जातिस्मरणं भविष्यति । तादृशी अपरिमितानुशंसा सूत्रान्तरेषु संभूता अवगन्तव्या । तेन तादृक्करुणोपायबोधिचित्तानि च नित्यमादरेण चिरंभवितानि क्रमशः चित्तसंताने अतिपरिशुद्धक्षणोत्पादेन परिपाकभूतत्वादरणिमन्थनाग्निवत्सम्यगर्थभावनाप्रकर्षपर्यन्तं गमनं भूत्वा लोकोत्तरज्ञानसकलविकल्पजालापगमनं निष्प्रपञ्चधर्मधातुप्रस्फुटावगति, निर्मलनिश्चलनिर्वातस्थितप्रदीपवत्निश्चलप्रमाणभूतः, सर्वधर्मनैरात्म्यस्वभावः तत्त्वसाक्षात्कारी, दर्शनमार्गसंगृहीतः परमार्थबोधिचित्तस्वभाव उत्पद्यते । तदुत्पादाद्वस्तुपर्यन्ततालम्बने प्रविष्टः । तथागतगोत्रे उत्पद्यते, बोधिसत्त्वानपक्षालप्रवृत्तिः, लोकसर्वगतिनिवृत्तिः, बोधिसत्त्वधर्मताधर्मधात्ववबोधस्थितिः, प्राप्तबोधिसत्त्वप्रथमभूमिः इत्यनुशंसा तद्विस्तरः दशभूम्यादिषु अवगन्तव्यः । इदं तथतालम्बनध्यानमार्यलङ्कावतारे निर्दिष्टम् । इदं तु बोधिसत्त्वानां निष्प्रपञ्चनिर्विकल्पतायामेव प्रविशति । अधिमुक्तिभूमौ तु अधिमुक्तिवशात्प्रवृत्तिर्व्यवस्थापिता न तु अभिसंस्कारेण । तज्ज्ञानप्रादुर्भावे तु साक्षात्प्रवेशः । तथा प्रथमभूमिप्रवेशः तदनन्तरं भावनामार्गे लोकोत्तरेण तत्पृष्ठलब्धज्ञानेन द्वाभ्यां च प्रज्ञोपायभावनाक्रमेण भावनाप्रहेयसंचितावरणस्य सूक्ष्मसूक्ष्मतरव्यवदानादुत्तरोत्तरविशिष्टगुणप्राप्तये अधोभूमिपरिशोधनेन तथागतज्ञानपर्यन्तं प्रविश्य, सर्वज्ञतासागरमवतीर्य, कार्यपरिनिष्पत्त्यालम्बनमपि प्राप्नोति । एवं क्रमेण एव चित्तसंतानपरिशुद्धिः आर्यलङ्कावतारेऽपि उक्ता । आर्यसंधिनिर्वोचने (२२१)ऽपि यथोक्तम्- "क्रमेणोत्तरोत्तरभूमिसु सुवर्णवत्चित्तं व्यवदाय, अनुत्तरसंयक्संबोधिपर्यन्तमभिसंबुध्यति" इति । सर्वज्ञतासागरप्रवेशे सति चिन्तमणिवत्सकलसत्त्वोपजीविगुणस्कन्धयुक्तः पूर्वप्रणीधानफलसत्कृतः, महाकरुणास्वभावभूतः, अनाभोगनानोपययुक्तः, अपरिमितनिर्माणैरशेषजगत्सर्वार्थाकरः कृतः । अशेषगुणसंपत्तिप्रकर्षपर्यन्तभुतः, सवासनादोषं सकलमलं निराकृत्य, सत्त्वधात्वन्तपर्यन्तविहारी, इति प्रेक्षावान् भगवति बुद्धे सकलगुणाकरे श्रद्धामुत्पाद्य तद्गुणपरिनिष्पत्त्यर्थं स्वयं सर्वान् प्रयत्नान् कुर्यात् । तस्माद्भगवता एवमुक्तम्- "तदेतत्सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकमुपायपर्यवसानम्" इति । दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः । विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयांसि प्रहृष्टाः ॥ पक्षपाताकुलं तस्माद्दूरीकृतं मनो बुधैः । सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम् ॥ प्रकाश्य यत्प्रापि मया शुभमसमपद्धितम् । पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम् ॥ आचार्यकमलशीलेन मध्ये निबद्धो भावनाक्रमः समाप्तः । भरतीयोपाध्यायेन प्रज्ञावर्मणा महालोकचक्षुषा वन्द्यज्ञानसेनेन चानूद्य सुनिर्णितः । भावनाक्रमः द्वीतीयः समाप्तः ॥ (२२२): ब्लन्क् (२२३) ३. भावनाक्रमस्तृतीयः महायानसूत्रान्तनयप्रवृत्तानां संक्षेपतो भावनाक्रमः कथ्यते । तत्र यद्यपि बोधिसत्त्वानामपरिमितोऽप्रमाणादिभेदेने भगवता समधिरुपदिष्टः, तथापि शमथविपश्यनाभ्यां सर्वे समाधयो व्याप्ता इति । स एव शमथविपश्यनायुगनद्धवाही मार्गस्तावत्कथ्यते । उक्तं च भगवता- निमित्तबन्धनाज्जन्तुरथो दोष्ठुलबन्धनात् । विपश्यनां भावयित्वा शमथं च विमुच्यते ॥ इति । तस्मात्सकलावरण-प्रहाणार्थिन शमथविपश्यने सेवनीये । शमथबलेन स्वालम्बने चित्तमप्रकम्प्यं भवति निवातस्थितप्रदीपवत् । विपश्यनया यथावद्धर्मतत्त्वावगमात्सम्यग्ज्ञानालोकः समुत्पद्यते, ततः सकलमावरणं प्रहीयते, अन्धकारवदालोकोदयात् । अत एव भगवता चत्वार्यालम्बनवस्तूनि योगिनां निर्दिष्टानि । निर्विकल्पप्रतिबिम्बकम्, सविकल्पप्रतिबिम्बकम्, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश्च । तत्र शमथेन यत्सर्वधर्मप्रतिबिम्बकं बुद्धादिरूपं चाधिमुच्यालम्ब्यते तेन निर्विकल्पप्रतिबिम्बकमुच्यते । तत्र भूतार्थनिरूपणाविकल्पाभावान्निर्विकल्पकमुच्यते । यथाश्रुतोद्गृहीतानाञ्च धर्माणां प्रतिबिम्बकमधिमुच्यालम्ब्यत इति कृत्वा प्रतिबिम्बकमुच्यते । तदेव प्रतिबिम्बकं यदा विपश्यनया विचारयति योगी तत्त्वाधिगमार्थं तदा सविकल्पप्रतिबिम्बकमुच्यते, तत्त्वनिरूपणविकल्पस्य विपश्यनालक्षणस्य तत्र समुद्भवात् । तस्यैव च प्रतिबिम्बस्य स्वभावं निरूपयन् (२२४) योगी दर्पणान्तर्गतस्वमुख-प्रतिबिम्बप्रत्यवेक्षणेन स्वमुखगतवैरूप्याणां विनिश्चयवत्, सर्वधर्माणां यथावत्स्वभावावगमात् । यदा वस्तु पर्यन्ततालक्षणां तथतां प्रतिबिध्यति, तदा वस्तुपर्यन्ततावगमात्प्रथमायां भूमौ वस्तुपर्यन्ततालम्बनमुच्यते । ततो भावनामार्गेण परिशिष्टासु भूमिष्वोषधिरसायनोपयोगादिव क्रमेण विशुद्धतरतमक्षणोदयादाश्रयपरावृत्तौ सत्याम्, आवरण-प्रहाणलक्षण-कार्यपरिसमाप्तिर्यदा भवति तदा बुद्धभूमौ तदेव ज्ञानं कार्यपरिनिष्पत्त्यालम्बनमुच्यते । तदेवमनेन किं दर्शितं भवति? शमथविपश्यनाभ्यां समस्तवस्तुपर्यन्तताधिगमो भवति । तेन चावरणप्रहाणलक्षणा कार्यपरिनिष्पत्तिरवाप्यते । तदेव च बुद्धत्वम् । अतो बुद्धत्वाधिगमार्थिना शमथविपश्यने सेवनीये । यस्तु ते न सेवते तस्य नैव वस्तुपर्यन्तताधिगमो नापि कार्यपरिनिष्पत्तिरिति । तत्र शमथश्चित्तैकाग्रता । विपश्यना भूतप्रत्यवेक्षेति संक्षेपादार्यरत्नमेघादौ भगवता शमथविपश्यनयोर्लक्षणमुक्तम् । तत्र योगिना शीलविशुद्धयादौ शमथविपश्यनासंभारे स्थितेन सर्वसत्त्वेषु महाकरुणामुत्पाद्य, समुत्पादित-बोधिचित्तेन श्रुतचिन्ताभावनायां प्रयोक्तव्यम् । तत्र प्रथमं तावद्योगी भावना-काले सर्वमितिकरणियं परिसमाप्य कृतमूत्रपुरीषः कण्टक-स्वरादिरहिते मनोऽनुकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणामामुखीकृत्य, दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पीठादौ स्थापयित्वा अन्यत्र वा यथावत्तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्द्य जगतः पुण्यमनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण (२२५) अर्धपर्येङ्केण वा निषद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धमृजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत् । ततः स्कन्धौ समौ स्थापयेत् । शिरो नोन्नतं नावनतमेकपार्श्वे निश्चलं स्थापयितव्यम् । किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या । दन्तोष्ठं मृदु स्थापनीयम् । जिव्हा चोपरि दन्तमूले स्थापनीया । आश्वासप्रश्वासास्तु न सशब्दा नापि श्थूला नापि त्वरिताः करणीयाः । किं त्वसंलक्षयमाणां मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम् । तत्र प्रथमं तावद्योगी यथादृष्टश्रुते तथागतविग्रहे चित्तं स्थापयित्वा शमथं निष्पादयेत् । तञ्च तथागतविग्रहमुत्तप्तकनकावदातं लक्षणानुव्यञ्जनालंकृतं पर्षन्मण्डलमध्यगतं नानाविधैरुपायैः सत्त्वार्थं कुर्वन्तं प्राबन्धिकेन मनसिकारेण तद्गुणाभिलाषं समुपादाय लयौद्धत्यादीन् व्युपशमय्य तावद्ध्यायेद्यावत्स्फुटतरं पुरोऽवस्थितमिव तं पश्येत् । ततः तस्य तथागतविग्रहप्रतिबिम्बकस्यागतिगतिं निरूपयतो विपश्यनां भावयति । ततश्चैवंविधं विचिन्तयेत् । यथेदं तथागतविग्रहप्रतिबिम्बकं न कुतश्चिदागतं नापि क्वचिद्गमिष्यति तिष्ठदपि स्वभावशून्यमात्मात्मीयरहितं तथा एव सर्वधर्माः स्वभावशून्या आगतिगतिरहिताः प्रतिबिम्बोपमाः, भावादिरूपरहिता इति विचार्योपरतविचारेण निर्जल्पैकरसे मनसा तत्त्वं भावयन् यावदिच्छं तिष्ठेत् । अयं च समाधिः प्रत्युत्पन्नबुद्धसंमुखावस्थितसमाधिर्निर्दिष्टः । अस्य चानुशंसा विस्तरतस्तत्रैव सुत्रे बोधयितव्या । एतावता प्रकारेण सर्वधर्मसंग्रहो भवति, तत्र चित्तमुपनिबध्य लयौद्धत्यादिप्रशमेन शमथं निष्पादयेत् । रूप्यरूपिभेदेन च (२२६) संक्षेपात्सर्वधर्मसंग्रहः । तत्र रूपस्कन्धसंगृहीता रूपिणः । वेदनादिस्कन्धस्वभावा अरूपिणः । तत्र बाला भावादिग्रहाभिनिवेशाद्विपर्यस्तधियः संसारे परिभ्रमन्ति । तेषां विपर्यासापनयनाय, तेषु च महाकरुणामामुखीकृत्य, निष्पन्नशमथो योगी तत्त्वाधिगमाय ततो विपश्यनां भावयेत् । भूतप्रत्यवेक्षणा च विपश्यनोच्यते । भुतं पुनः पुद्गलधर्मनैरात्म्यम् । तत्र पुद्गलनैरात्म्यं या स्कन्धानामात्मात्मीयरहितता । धर्मनैरात्म्यं या तेषामेव मायोपमता । तत्रैवं योगी निरूपयेत् । न तावद्रूपादिव्यतिरिक्तः पुद्गलोऽस्ति । तस्या प्रतिभासनात् । रूपादिष्वेवाहमिति प्रत्ययोत्पत्तिश्च । न चापि रूपादिस्कन्धस्वभावः पुद्गलः । तेषां रूपादीनामनित्यानेकस्वभावत्वात् । पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् । नापि तत्त्वान्यत्वाभ्यामनभिलाप्यपुद्गलस्य वस्तुत्वं युक्तम् । वस्तुसतः प्रकारान्तराभावात् । तस्मादलीकविभ्रम एवायं लोकस्य यदुताहं ममेति निश्चयं प्रतिपन्नस्य । ततो रूपिणोऽपि धर्मान् धर्मनैरात्म्याधिगमाय विचारयेत्- किमेते चित्तव्यतिरेकेण परमार्थसन्तः स्थिताः आहोस्विच्चित्तमेव रूपादिनिर्भासं स्वप्नावस्थायां प्रतिभासवत्प्रतिभासत इति । स तान् परमाणुशो निरूपयन्, परमाणूंश्च भागशः प्रत्यवेक्षमाणो नोपलभते । तथा चानुपलभमानस्तेषु अस्तिनास्तित्वविकल्पान्निवर्तयति । चित्तमात्रञ्च त्रैधातुकमवतरति नान्यथा । अथ चोक्तं लङ्कावतारे- अणुशो विभजति द्रव्यं न चैव रूपं विकल्पयेत् । चित्तमात्रव्यवस्थानं कुदृष्ट्या न प्रसीदति ॥ इति । (२२७) तस्यैवं भवति चित्तमेवानादिकालिकवितथरूपाद्यभिनिवेशवशात्स्वप्नोपलभ्यमानरूपादिप्रतिभासवद्बालानां बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति । तस्माच्चित्तमात्रमेव त्रैधातुकम् । स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते । स एवं विचारयति, चित्तमपि परमार्थतो मायावदनुत्पन्नम् । यद हि अलीकस्वभावरूपाद्याकारोपग्रहेण चित्तमेव चित्राकारं प्रतिभासते, तदास्यापि रूपादिवत्तदव्यतिरेकात्सत्यत्वं कुत्र भवेत्? यथा चित्राकारतया रूपादयो नैकानेकस्वभावास्तथा चित्तमपि तदव्यतिरेकेण नैकानेकस्वभावम् । नापि चित्तमुत्पाद्यमानं कुतश्चिदागच्छति । नापि निरुध्ययानं क्वचिद्गच्छति । नापि स्वपरोभयतः परमार्थेनास्योत्पादो युक्तः । तस्मान्मायोपममेव चित्तम् । यथा चित्तमेवं सर्वधर्मा मायावत्परमार्थतोऽनुत्पन्नाः । येनापि चित्तेन प्रत्यवेक्षते योगी तस्यापि स्वभावं परीक्षमाणो नोपलभते । तदेवं यत्र यत्रालम्बने योगिनश्चित्तं प्रसरेत्तस्य तस्य स्वभावं परीक्षमाणो [तत्स्वभावमपि नोपलभते]ऽसौ यद नोपलभते तदा सर्वमेव वस्तु विचार्य कदलीस्कन्धवदसारमवगम्य, ततश्चित्तं विवर्तयति । ततो भावादिविकल्पोपरतौ सर्वप्रपञ्चविगतमानिमित्तं योगं प्रतिलभते । तथा चोक्तमार्यरत्नमेघे- "स एवमपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाया योगमापद्यते । स शून्यताभावनाबहुलो येषु येषु स्थानेषु चित्तं प्रसरति चित्तमभिरमते तानि तानि स्थानानि स्वभावतः (२२८) परिगवेषमाणः शून्यं प्रतिविध्यति [यत्चित्तं तदपि परीक्षमाणं शून्यं प्रतिविध्यति] येनापि चित्तेन परीक्षते तदपि स्वभावतः परिगवेष्यमाणं शून्यं प्रतिविध्यति । स एवमुपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते ।" तदेव अनेनैवं दर्शितं भवति । यस्तु नोपपरीक्षते तस्य नास्ति निर्निमित्ततायां प्रवेश इति । स एवं धर्माणां स्वभावमुपपरीक्षमाणो यद नोपलभते, तदास्तीति न विकल्पयति नास्तीति न विकल्पयति । योऽसौ नास्तीति कल्प्यते तस्य बुद्धौ सर्वदैवाप्रतिभासनात् । यदि हि भावः कदाचिद्दृष्टो भवेत्, तदा तस्य प्रतिषेधान्नास्तीति कल्पयेत् । यदा कालत्रयेऽपि योगिना प्रज्ञया निरूपयता भावो नोपलब्धः तदा कस्य प्रतिषेधान्नास्तीति कल्पयेत् । एवमन्ये विकल्पास्तस्य तदानीं न सन्ति एव, भावाभावविकल्पाभ्यां सर्वस्य विकल्पस्य व्याप्तत्वात् । एवं व्यापकाभावाद्ब्याप्यस्याप्यभावः । एवं सति निष्प्रपञ्चनिर्विकल्पतामवतीर्णो भवति, रूपादिषु चानिश्रितो भवति । प्रज्ञया च निरूपयतः सकलवस्तुस्वभावानुपलम्भात्प्रज्ञोत्तरध्यायी भवति । स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य चाभावाद्, उपरतविचारेण निर्विकल्पैकरसेन मनसा स्वरसवाहिना, अनभिसंस्कारतः तदेव तत्त्वं स्फुटतरमवधारयन् योगी तिष्ठेत । तत्र च स्थितश्चित्तबन्धं न विक्षिपेत् । यदान्तरा चित्तं बहिर्धा विक्षिप्तं पश्येत्तदा तत्स्वभावप्रत्येवेक्षणेन विक्षेपं प्रशमय्य, पुनस्तत्रैव चित्तमुपर्युपरि प्रेरयेत् । यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनादभिरतिं तत्र थावयेत् । विक्षेपे च दोषदर्शनादरतिं प्रशमयेत् । अथ स्त्यानमिद्धाभिभवाद्यद प्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा प्रमोद्यवस्तु बुद्धरूपादिकमालोकसंज्ञां वा मनसिकृत्य लयमुपशमयेत्, ततस्तदेव तत्त्वं दृढतरं (२२९) गृण्हीयात् । यदा तु जात्यन्धवदन्धकारप्रविष्टपुरुषवद्विनिमीलिताक्षवत्स्फुटतरं तत्त्वं नावधारयेद्योगी, तदा तस्य लीनं चित्तं वेदितव्यं विपश्यनारहितं च । अथ यथा पूर्वानुभूतविषयस्पृहया चित्तमन्तरा समुद्धतं पश्येद्, औद्धत्याभिशङ्कितं वा, तदानित्यतादि संवेगवस्तुमनसिकारादौद्धत्यं शमयेत् । ततः पुनः तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत । यदा च विक्षिप्तपुरुषवद्वानरवद्वानवस्थितवृत्ति चित्तं भवेत्, तदौद्धत्यं बोद्धव्यं शमथरहितं च । अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहि स्फुटतरं तत्रैव तत्त्वे चित्तमुत्पाद्यते तदाभोगशिथिलीकरणादुपेक्षणियम् । तदा च शमथविपश्यनायुगनद्धवाही मार्गोनिष्पन्नो वेदितव्यः । यदा च विपश्यना भावयेत्प्रज्ञातिरिक्ततरा भावयेत्, तदा शमथस्याल्पत्वात्प्रवातस्थितप्रदिपवत्प्रचलत्वाच्चित्तस्य न स्फुटतरं तत्त्वदर्शनं भवेत् । अतस्तदा शमथो भावयितव्यः । शमथस्याभ्याधिक्ये मिद्धावष्टबधपुरुषस्येव स्फुटतरं तत्त्वदर्शनं न स्यात् । तस्मात्तदा प्रज्ञा भावयितव्या । यदा समप्रवृत्ते द्वे अपि भवतो युगनद्धवाहिबलीवर्दद्वयवत्तदानभिसंस्कारेणैव तावत्स्थातव्यं यावत्कायचित्तपीडा न भवेत् । संक्षेपतः सर्वस्यैव समाधेः षड्दोषा भवन्ति । कौसीद्यम्, आलम्बनसंप्रमोषः, लयः, औद्धत्यम्, अनाभोगः, आभोगश्चेति । एषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भावनीयाः । श्रद्धा, छन्दः, व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति । तत्राद्याश्चत्वारः कौसीद्यप्रतिपक्षाः । तथा हि- समाधिगुणेष्वभिसंप्रत्ययलक्षणया श्रद्धया योगिनोऽभिलाषः समुत्पद्यते । ततोऽभिलाषवान् वीर्यमारभते । ततो वीर्यारम्भणात्कायचित्तयोः कर्मण्यतां भावयति । ततः प्रस्रब्धकायचेतसः (२३०) कौसीद्यं व्यावर्तते । ततः [श्रद्धादयः कौसीद्यप्रहाणाय भवन्ति] तदर्थ ते भावनीयाः । स्मृतिरालम्बन-संप्रमोषस्य प्रतिपक्षः । संप्रजन्यं लयौद्धत्ययोः प्रतिपक्षः । तयोस्तेन समुपेक्ष्य परिवर्जनात् । लयौद्धत्याप्रशमनकाले तु अनाभोगदोषः ततस्तत्प्रतिपक्षेण चेतना भावनीया । लयौद्धत्यप्रशमे सति, यदा प्रशमबाहि चित्तं भवेत्, तदाभोगदोषः । तस्य प्रतिपक्षस्तदानीमुपेक्षा भावनीया । यदि समप्रवृत्ते चित्ते आभोगः क्रियते, तदा चित्तं विक्षिप्यते । लीनेऽपि चित्ते सति यद्याभोगो न क्रियते, तदा विपश्यनारहितत्वाद्, अन्धपुरुषवच्चित्तं लीनं स्यात् । तस्मात्लीनचित्तं निगृण्हीयाद्, उद्धतं प्रशमयेत्, पुनः समाप्राप्तमुपेक्षेत । ततो यावदिच्छ योगी तावदनभिसंस्कारेणैव तत्त्वं भावयंस्तिष्ठेत् । सत्यां तु कायादिपीडायां पुनः पुनरन्तरा सकलमेव लोकं व्यवलोक्यमायाजल चन्द्रोपमप्रतिभासं [वत] अवतरेत् । तथ चोक्तमविकल्पप्रवेशे- लोकोत्तरेण ज्ञानेनाकाशसमतलान् सर्वधर्मान्पश्यति । पृष्ठलब्धेन पुनर्मायामरीचिस्वप्नो दकचन्द्रोपमान् पश्यतीति । तदेवं मायोपमं जगदवगम्य, सत्त्वेषु महाकरुणामामुखीकृत्यैवमनुविचिन्तयेत् । एवंविधं धर्मगाम्भोर्यमनवगच्छन्तोऽमी बालबुद्धय आदिशान्तेष्वेव धर्मेषु भावादिसमारोपविपर्यस्ता विविधकर्मक्लेशानुपचिन्वन्ति । ततः संसारे परिभ्रमन्ति, ततोऽहं करिष्यामि यथैतानेवंविधं धर्मागाम्भीर्यमवबोधयेयमिति, ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् । चित्तखेदे सति, तथैव विश्रम्य पुनरवतरेत् । एवमनेन क्रमेण घटिकाम् [अर्थप्रहरम्] एकप्रहरं वा यावन्तं कालं शक्नोति तावन्तं कालं तिष्ठेत् । (२३१) तत इच्छया समाधेः उत्थातुं पर्यङ्कमभित्त्वैवमनुविचिन्तयेत् । यदि नामामी धर्माः सर्व एव परमार्थतोऽनुत्पन्नास्तथापि मायवत्प्रतिनियतविविधहेतुप्रत्ययसामग्रीवशेन विचित्रा एवाविचाररमणीयाः प्रवर्तन्ते, तेन नोच्छेददृष्टिप्रसङ्गः । नाप्यपवादान्तस्य, यतश्च प्रज्ञया विचार्यमाणा नोपलभ्यन्ते, तेन न शाश्वतदृष्टिप्रसङ्गो नापि समारोपान्तस्य । तत्र ये प्रज्ञाचक्षुर्विकलतया विपर्यस्तमतया आत्माभिनिविष्टा विविधानि कर्माणि कुर्वन्ति ते संसारे परिभ्रमन्ति । ये पुनरेकान्तेन संसारविमुखा महाकारुण्यविकलतया च न [सत्त्वार्थं] दानादिपारमिताः परिपूरयन्ति आत्मानं दमयन्ति ते सत्त्वा उपायविकलतया श्रावकप्रत्येकबुद्धबोधौ पतन्ति । ये तु अस्वभावं जगदवगम्य महाकारुण्यबलेन सकलजगदभ्युद्धरणकृतनिश्चया मायाकारवदविपर्यस्तधियो विपुलपुण्यज्ञानसंभारं समुपायन्ति ते तथागतं पदं प्राप्यासंसारमशेषस्य जगतः सर्वाकारं हितसुखानि संपादयन्तः तिष्ठन्ति । ते च ज्ञान[सम्भार]बलेन [समस्त]क्लेशप्रहाणान्न संसारे पतन्ति सर्वसत्त्वापेक्षया च समुपार्जितविपुलाप्रमेयपुण्यसंभारवशेन न निर्वाणे पतन्ति, सर्वसत्त्वोपजीव्याश्च भवन्ति । तस्मान्मया सकलसत्त्वहितसुखाधानार्थिनाप्रतिष्ठितनिर्वाणमधिगन्तुकामेन विपुलपुण्यज्ञान-संभारोपार्जनेऽभियोगः [सदा] करणियः । तथा चोक्तमार्यतथागतगुह्यसुत्रे- "ज्ञानसम्भारः सर्वक्लेशप्रहाणाय संवर्तते । पुण्यसम्भारः सर्वसत्त्वोपजीवितायै संवर्तते । तस्मात्तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन पुण्यसम्भारे ज्ञानसंभारे च सर्वदाभियोगः करणीयः" इति । आर्यतथागतोत्पत्तिसंभसूत्रे चोक्तम्- "स खलु पुनरेष तथागतानां (२३२) संभवो नैकेन कारणेन भवति । तत्कस्य हेतोः? समुदागतैस्तावद्भो जिनपुत्राप्रमेयशतसहस्रदशकारणैस्तथागताः समुदागच्छन्ति । कतमैर्दशभिर्यदुताप्रमेयपुण्यज्ञानसम्भारातृप्तिसमुदागमकारणेनेति" विस्तर । आर्यविमलकीर्तिनिर्देशे चोक्तम्- "शतपुण्यनिर्जाताः सर्वकुशलधर्मनिर्जाता अप्रमाणकुशलमूलकर्मनिर्जाताः कायास्तथागतस्येति" विस्तरः । तदेवं कृत्वा शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिप्रणिधानं प्रनिदधीत । ततः शून्यताकरुणागर्भानुत्तरसंबोधिपरिणामितसकलदानादिपुण्यसंभारोपार्जनाभियुक्तो भवेत् । यस्तु मन्यते, चित्तविकल्पसमुत्थापितशुभाशुभकर्मवशेन सत्त्वाः स्वर्गादिकर्म फलमनुभवन्तः संसारे संसरन्ति । ये पुनर्न किञ्चिच्चिन्तयन्ति नापि किञ्चित्कर्म कुर्वन्ति ते परिमुच्यन्ते संसारात् । तस्मान्न किञ्चिच्चिन्तयितव्यम् । नापि दानादिकुशलचर्या कर्तव्या । केवलं मूर्खजनमधिकृत्य दानादिकुशलचर्या निर्दिष्टेति । तेन सकलमहायानं प्रतिक्षिप्तं भवेत् । महायानमूलत्वाच्च सर्वयानानां तत्प्रतिक्षेपेण सर्वमेव यानं प्रतिक्षिप्तं स्यात् । तथा हिऽन किञ्चिच्चिन्तयितव्यमितिऽ ब्रुवत भुतप्रत्यवेक्षालक्षणा प्रज्ञा प्रतिक्षिप्ता भवेत् । भूतप्रत्यवेक्षा-मूलत्वात्सम्यग्ज्ञानस्य तत्प्रतिक्षेपा ल्लोकोत्तरापि प्रज्ञा प्रतिक्षिप्ता भवेत् । तत्प्रतिक्षेपात्सर्वाकारज्ञता प्रतिक्षिप्ता भवेत् । नापि दानादिचर्या कर्तव्येति वदता चोपायो दानादिः स्फुटतरमेव प्रतिक्षिप्तः । एतावदेव च संक्षिप्तं महायानं यदुत प्रज्ञोपायश्च । यथोक्तमार्यगयाशीर्षे- "द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । कतमौ द्वौ? यदुत (२३३) प्रज्ञा चोपायश्च ।" आर्यतथागतगुह्यसूत्रे चोक्तम्- "इमौ च प्रज्ञोपायौ बोधिसत्त्वानां सर्वपारमितासंग्रहाय संवर्तेते" इति । ततश्च महायानं प्रतिक्षिपता महत्कर्मावरणं कृतं स्यात् । तस्माद्[महायानं प्रतिक्षिपतः, अल्पश्रुतस्य, आत्मदृष्टिं परामृशतः,] अस्यानुपासितविद्वज्जनस्यानवधारित-तथागत-प्रवचननीतेः स्वयं विनष्टस्य परानपि नाशयतो युक्त्यागमदूषितत्वात्, विषसंसृष्टवचनं सविषभोजनमिव आत्मकामेन धीमता दूरत एव परिहर्तव्यम् । तथा ह्यनेन भूतप्रत्यवेक्षां प्रतिक्षिपता धर्मप्रविचयाख्यं प्रधानमेव बोध्यङ्गं प्रतिक्षिप्तं स्यात् । विना च मूतप्रत्यवेक्षया योगिनः कथमनादिकालाभ्यस्तरूपादिभावाभिनिवेशस्य चित्तं निर्विकल्पतां प्रविशेत्? सर्वधर्मेष्वस्मृत्यमनसिकारेण प्रविशतीति चेत्, तदयुक्तम् । न हि विना भूतप्रत्यवेक्षयानुभूयमानेष्वपि सर्वधर्मेष्वस्मृतिरमनसिकारो वा शक्यते कर्तुम् । यदि च नामामी धर्मा मयास्मर्तव्या नापि मनसिकर्तव्या इत्येवं भावयन्नस्मृतिमनसिकारौ तेषु भावयेत्तदा सुतरामेव तेन ते स्मृता मनसिकृताश्च स्युः । अथ स्मृतिमनसिकाराभावमात्रमस्मृत्यमनसिकारावभिप्रेतौ, तदा तयोरभावः केन प्रकारेण भवतीति एतदेव विचार्यते । न चाभावः कारणं युक्तम्, येन ततो [निर्निमित्तामनसिकारात्] निर्विकल्पता भवेत् । [तन्मात्रतोऽविकल्पतायां] संमुर्च्छितस्यापि स्मृतिमनसिकाराभावान्निर्विकल्पताप्रवेशप्रसङ्गः । न च भूतप्रत्यवेक्षां विनान्य उपायोऽस्ति येन प्रकारेणास्मृत्यमनसिकारौ कुर्यात् । सत्यपि चास्मृत्यमनसिकारसम्भवे, विना भूतप्रत्यवेक्षया निःस्वभावता धर्माणां कथमवगता भवेत्? न हि स्वभावत एवं धर्माः (२३४) शून्याः स्थिता इत्येवं विना तत्प्रत्यवेक्षया तच्छून्यताप्रतिवेधो भवेत् । नापि विना शून्यताप्रतिवेधेन आवरणप्रहाणं संभवति सर्वत्र सर्वेषां मुक्तिप्रसङ्गात् । किं च तस्य योगिनो यदि सर्वधर्मेषु मुषितस्मृतितया मूढतया वा स्मृतिमनसिकारौ न प्रवर्तेते, तदात्यन्तमूढः कथमसौ योगी भवेत् । विना च भूतप्रत्यवेक्षया तत्रास्मृतिममनसिकारं चाभ्यस्तता मोह एवाभ्यस्तो भवेत् । तत एव सम्यग्ज्ञानालोको दूरीकृतः स्यात् । अथासौ न मुषितस्मृतिर्नापि मूढः, तदा कथं तत्रास्मरणममनसिकारं कर्तु शक्नुयाद्विना भूतप्रत्यवेक्षया । न हि स्मरन्नेव न स्मरति, पश्यनेव न पश्यतीति युक्तमभिधातुम् । अस्मृत्यमनसिकाराभ्यासाच्च कथं पूर्वनिवासानुस्मृत्यादि-बुद्धधर्मोदयो भवेत्, विरोधात्, न ह्युष्णविरुद्धं शीतमासेवमानस्य उष्णस्पर्शसंवेदनं भवेत् । किं च समाधिसमापन्नस्य योगिनो यदि मनोविज्ञानमस्ति, तदावश्यं तेन किंचिदालम्बयितव्यम् । न हि पृथग्जनानां सहसा निरालम्बनं ज्ञानं भवेत् । अथ नास्ति, तदा कथं निःस्वभावता धर्माणामवगता भवेत्? केन च प्रतिपक्षेण क्लेशावरणं प्रहीयते? न च चतुर्थध्यानालाभिनः पृथग्जनस्य चित्तनिरोधः संभवति । तस्मात्सद्धर्मे यावस्मृत्यमनसिकारौ पठितौ तौ भूतप्रत्यवेक्षापूर्वाकौ द्रष्टव्यौ । अस्माद्भूतप्रत्यवेक्षयास्मृतिर्मनसिकारश्च शक्यते कर्तुम्, नान्यथा । तथा हि यदा निरूपयन् सम्यक्प्रज्ञया योगी कालत्रये परमार्थतः समुत्पन्नं न कंचिद्धर्म पश्यति, तदा तत्र कथं स्मृतिमनसिकारौ कुर्यात् । यो हि कालत्रयेऽप्यसत्त्वान्नानुभूतः परमार्थतः स कथं स्मर्येत, मनसि वा क्रियेत । ततोऽसौ सर्वप्रपञ्चोपशमं निर्विकल्पं ज्ञानं प्रविष्टो भवेत् । तत्प्रवेशाच्च शून्यतां प्रतिविध्यति तत्प्रतिवेधाच्च प्रहीणसकलकुदृष्टिजालो भवति । (२३५) उपाययुक्तः प्रज्ञासेवनतश्च सम्यक्संवृतिपरमार्थसत्यकुशलो भवति । अतोऽनावरणज्ञानलाभात्सर्वानेव बुद्धधर्मानधिगच्छति । तस्मान्न विना भूतप्रत्यवेक्षया सम्यग्ज्ञानोदयो नापि क्लेशावरणप्रहाणाम् । तथा चोक्तं मञ्जुश्रीविकुर्वितसूत्रे- "कथं दारिके बोधिसत्त्वो विजितसंग्रामो भवति? आह, यो मञ्जुश्रीः विचाय विचाय सर्वधर्मान्नोपलभते" इति । तस्माद्विस्फारितज्ञानचक्षुः प्रज्ञाशस्त्रेण क्लेशारीन्निर्जित्य, निर्भयो विहरन् योगी, न तु कातरपुरुष इव विनिमीलिताक्षः । आर्यसमाधिराजेऽप्युक्तम्- नैरात्म्यधर्मान् यदि प्रत्येवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् । स हेतु निर्वाणपहलस्य प्राप्तये योऽन्यहेतुर्न स भोति शान्तये ॥ इति । सुत्रसमुच्चये चोक्तम्- "आत्मना विपश्यनायोगमनुयुक्तो विहरति परांश्च विपश्यनायां नाभियोजयतीति मारकर्मेति ।" विपश्यना च भूतप्रत्यवेक्षास्वभावा आर्यरत्नमेघ-सन्धिनिर्मोचनादौ, आर्यरत्नमेघे च- "विपश्यनां निरूपयतो निःस्वभावताप्रतिवेधदनिमित्तप्रवेश उक्तः ।" आर्यलङ्कावतारे चोक्तम्- "यस्मात्, महामते, बुद्धया विचार्यमाणानां स्वसामान्यलक्षणं भावानां नावधार्यते । तेनोच्यन्ते निःस्वभावाः सर्वधर्माः" इति । तत्र तत्र सूत्रे या भगवता नानाप्रकारा प्रत्यवेक्षा निर्दिष्टा सा विरुध्यते, यदि भूतप्रत्यवेक्षा न कर्तव्या । तस्मादेवं युक्तं वक्तुं वयमल्पप्रज्ञा अल्पवीर्याश्चन शक्नुमो बाहुश्रुत्यं पर्येषितुमिति । न हि तत्प्रतिक्षेपो युक्तो भगवता (२३६) बहुधा बाहुश्रुत्यस्य वर्णितत्वात् । तत्पुनर्ब्रह्मपरिपृच्छायामुक्तम्- "ये त्वचिन्त्येषु धर्मेषु [चिन्तन]विप्रयुक्ताः तेषामयोनिश इति । तत्रापि ये परमार्थतोऽनुत्पन्नानां धर्माणामुत्पादं परिकल्प्यानित्यदुःखदिरूपेण श्रावकादिवच्चिन्तां प्रकुर्वन्ति, तेषां समारोपापवादान्तेन चिन्तां प्रवर्तयतामयोनिशः तद्भवतीति तत्प्रतिषेधाय यदुक्तं न भूतप्रत्यवेक्षायाः स प्रतिषेधः तस्याः सर्वसूत्रेष्वनुज्ञानात् । तथा च तत्रैव ब्रह्मपरिपृच्छायामुक्तम्- "चित्तशूरो बोधिसत्त्व आह-यश्चित्तेन सर्वधर्माश्चिन्तयति तत्र चाक्षतोऽनुपहतः स तेनोच्यते बोधिसत्त्वः" इति । तत्रैवोक्तम्- "कथं वीर्यवन्तो भवन्ति, यद सर्वज्ञताचित्तं विचीयमानानोपलभन्ते" इति । पुनः तत्रैवोक्तम्- "मतिमन्तश्च ते भविष्यन्ति योनिशो धर्मान् प्रत्यवेक्षणतयेति" । पुनः तत्रैवोक्तम्- "प्रविचिन्वन्ति ते धर्मान् यथा मायामरीचिकेति" । तदेवं यत्र यत्राचिन्त्यादिप्रपञ्चः श्रूयते, तत्र तत्र श्रुतचिन्तामात्रेणैव तत्त्वाधिगमं ये मन्यन्ते, तेषामभिमानप्रतिषेधेन प्रत्यात्मवेदनीयत्वं धर्माणां प्रतिपादयते । अयोनिशश्च चित्तप्रतिषेधः क्रियत इति बोद्धव्यम्, न भूतप्रत्यवेक्षायाः प्रतिषेधः । अन्यथा बहुतरं युक्त्यागमविरुद्धं स्यात् । यथोक्तं प्राक् । किञ्च यदेव श्रुतचिन्तामय्या प्रज्ञया विदितं तदेव भावनामय्या प्रज्ञया भावनीयं नान्यत् । संदिष्ट-धावनभूम्यश्वधावनवत् । तस्मात्भूतप्रत्यवेक्षा कर्तव्या । यदि नामासौ विकल्पस्वभावातथापि योनिशो मनसिकारस्वभावत्वात्ततो भूत निर्विकल्पज्ञानोदय इति कृत्वा तज्ज्ञानार्थिना सा सेवनीया । निर्विकल्पे च भुतज्ञानाग्नौ (२३७) समुत्पन्ने, सति, काष्ठद्वयनिघर्षसंजातवन्हिना तत्काष्ठद्वयदाहवत्सापि पश्चात्तेनैव दह्यत एवेत्युक्तमार्यरत्नकूटे । यच्चाप्युच्यते- न किंचित्कुशलादिकर्म कर्तव्यमिति । तत्रैवैवं वदता कर्मक्षयान्मुक्तिरित्याजीवक वादाभ्युपगमो भवेत् । न हि भगवत्प्रवचने कर्मक्षयान्मुक्तिरिष्यते । किं तर्हि, क्लेशक्षयात् । अनादिकालोपचित्तस्य हि कर्मणो न शक्यते क्षयः कर्तु तस्यानन्तत्वात् । अपायादिषु च तत्फलं भुञ्जानस्यापरस्यापि कर्मणः प्रसूतेः क्लेशेषु चाविकलेषु तत्करणतया स्थितेषु कर्मणो निरोद्धुमशक्यत्वात् । प्रदीपानिरोधे तत्प्रभाया अनिरोधवत् । न चापि तस्य विपश्यनापवादिनः क्लेशक्षयः संभवतीत्युक्त प्राक् । अथ क्लेशक्षयार्थ विपश्यना सेवनीयेति मन्यते, तदा क्लेशक्षयादेव मुक्तिः सिध्यतीति कर्मक्षये तर्हि व्यर्थः श्रमः । अकुशलकर्म न कर्तव्यमिति युक्तमेतत्, कुशलं तु किमिति प्रतिषिध्यते । संसारावाहकत्वात्प्रतिषिध्यत इति चेत्, तदयुक्तम् । यदेव आत्मादिविपर्याससमुत्थापितं कुशलं तदेव संसारावाहकं भवति । न तु बोधिसत्त्वानां महाकरुणासमुत्थापितमनुत्तरसंबोधिपरिणामितमपि । तथा आर्यदशभूमके एत एव दशकुशलकर्मपथाः परिणामनादिपरिशुद्धिविशेषेण श्रावकप्रत्येकबुद्धबोधिसत्त्वबुद्धत्ववाहका भवन्तीति निर्दिष्टम् । आर्यरत्नकूटे च, सर्वमहानदीनां महासमुद्रे प्रविष्टानां पयः स्कन्धवद्बोधिसत्त्वानां नानामुखोपचितं कुशलमूलं सर्वज्ञतापरिणामितं सर्वज्ञतैकरसं भवति इति वर्णितम् । (२३८) या च बुद्धबोधिसत्त्वानां रूपकायक्षेत्रपरिशुद्धिः प्रभापरिवारमहाभोगतादिसंपत्तिः दानादिपुण्यसम्भारफलसत्त्वेन तत्र तत्र सूत्रे वर्णिता भगवता सापि विरुध्यते । कुशलचर्याप्रतिषेधे च प्रातिमोक्षसंवरादिरपि प्रतिक्षिप्तः स्यात् । ततो व्यर्थमेव तस्य शिरोमुण्डितकाषायधारणादि प्रसज्येत । कुशलकर्माभिसंस्कारवैमुख्ये च सति संसारवैमुख्यं सत्त्वार्थक्रियावैमुख्यं च सेवितं भवेत् । ततो बोधिः तस्य दूरे भवेत् । उक्तं ह्यार्यंसंधिनिर्मोचने- "एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्कारा भिसंस्कारविमुखस्य नानुत्तरासम्यक्संबोधिरुक्ता मयेति । "आर्योपालिपरिपृच्छादौ च- "संसारे वैमुख्यं बोधिसत्त्वानां परदौःशील्यमिति वर्णितम् । संसारपरिग्रहः तु परमं शीलम् ।" उक्तमार्यविमलकीर्तिनिर्देशे च- "उपायाद्भवति संसारगमनं बोधिसत्त्वानां मोक्षः । उपायरहिता च प्रज्ञा बन्धः, प्रज्ञारहितश्चोपायो बन्धः । प्रज्ञासहित उपायो मोक्षः, उपायसहिता प्रज्ञा मोक्षः" इति वर्णितम् । आर्यगगनगञ्जे उक्तम्- "संसारपरिखेदो बोधिसत्त्वानां मारकर्म इति ।" सूत्रसमुच्चये च- "असंस्कृतं च प्रत्यवेक्षते संस्कृतैश्च कुशलैः परिखिद्यत इति मारकर्म इति । बोधिमार्ग प्रजानाति पारमितामार्ग च न पर्येषत इति मारकर्मेति ।" यत्पुनः तत्रैवोक्तम्- "दानचित्ताभिनिवेशाद्यावत्प्रज्ञाचित्ताभिनिवेशां मारकर्मेति तत्र न दानादिनां सेवाप्रतिषेधः किं त्वहंकारममकारचित्ताभिनिविष्टस्य ग्राह्यग्राहकचित्ताभिनिविष्टस्य चौपलम्भिकस्य यो विपरीताभिनिवेशो दानादौ तस्य प्रतिषेधः । विपरीताभिनिवेशसमुत्त्थापिता हि दानादयोऽपरिशुद्धा भवन्तीति कृत्वा मारकर्मेत्युक्तम् । अन्यथा ध्यानमपि न सेवनीयं स्यात् । तथा च कथं मुक्तिः भवेत्? (२३९) अत एवौपलम्भिकस्य सत्त्वनानात्वसंज्ञाया यद्दानादि तदपरिशुद्धमिति प्रतिपादनाय आर्यगगनगञ्जेऽपि- "सत्त्वनानात्व [विपरीतकर्म]संज्ञिनो दानादि मारकर्मेत्युक्तम्" । यच्चापि [त्रि]स्कन्धपरिणामनायामुक्तम्- "सर्वमेव दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञासमतामजानतोपलम्भयति, तेन पर्येष्टितदानेन परामृष्टशीलेन शीलं रक्षितम् । आत्मपरसंज्ञिना क्षान्तिर्भावितेत्यादि तत्प्रतिदेशयामीति ।" तत्राप्यौपलम्भिकस्य नानत्वसंज्ञिनो विपरीताभिनिवेशसमुत्थापिता दानादयोऽपि शुद्धा भवन्तीति एतावन्मात्रं प्रतिपादितम् । न तु सर्वथा दानादीनां सेवनप्रतिषेधः । अन्यथा सर्वस्यैव दानादेरविशेषेण प्रतिदेशना कृता स्यात्, नोपलम्भविपर्यासपतितस्यैव । यच्चापि ब्रह्मपरिपृच्छायामुक्तम्- "यावती चर्या सर्वा परिकल्प्या । निष्परिकल्प्या च बोधिरित्यादि ।" तत्राप्युत्पादादिविकल्पचर्यायाः प्रकृतत्वात्तस्याः परिकल्पत्वमुक्तम् । अनिमित्तविहारे चानभिसंस्कारवाहिनः स्थितस्य बोधिसत्त्वस्य व्याकरणं भवति, नान्यस्येत्येतावन्मात्रं प्रतिपादितम् । सर्वेषां च दानादीनां परमार्थतोऽनुत्पन्नत्वं च परिदीपितम्, न तु चर्या न कर्तव्येत्यभिहितम् । अन्यथा हि दीपङ्करावदाने ये बुद्धा भगवता पर्युपासिता येषां तु कल्पमपि भगवता भाषमाणेन न शक्यं नामपरिकीर्त्नं कथं तेषां भगवता बोधिसत्त्वावस्थायां चर्याप्रतिषेधो न कृतः । दीपङ्करेणापि तदानीं भगवतश्चर्याप्रतिषेधो न कृत एव । किं तु यदा शान्तानिमित्तविहारेऽष्टम्यां भूमौ स्थितोऽसौ दृष्टस्तदासौ व्याकृतो भगवता, तत्र तस्य चर्या (२४०) अप्रतिषिद्धा । सा चानिमित्तविहारपरमता बोधिसत्त्वानामष्टाम्यां भूमौ दशभूमिकैर्बुद्धैः प्रतिषिद्धाऽमा भूदेतदेव तेषां परिनिर्वाणम्ऽ इति कृत्वा यदि तु सर्वथा चर्या न कर्तव्या भवेत्पूर्वोक्तं सर्व विरुध्येत । यच्च तत्रैव ब्रह्मपरिपृच्छायामुक्तम्- "दानं च ददाति तच्चाविपाकाभिकाङ्क्षी, शीलं च रक्षति तच्चासमारोपितः" इत्यादि । चतुर्भिः ब्रह्म! धर्मैः समन्वागता बोधिसत्त्वा अवैवर्त्तिका भवन्ति बुद्धधर्मेषु । कतमैश्चतुर्भिः अपरिमितसंसारपरिग्रहेण अपरिमितबुद्धोपस्थानपूजयेत्यादि सर्वं विरुध्येत । नापि मृद्विन्द्रियेणैव चर्या कर्तव्या न तु तीक्ष्णेन्द्रियेणेति युक्तं वक्तुम् । यतः प्रथमां भूमिमुपादाय यावद्दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां दानादिचर्या उत्पद्यते, न च परिशिष्टासु न समुदाचरतीति वचनात् । नहि भूमिप्रविष्टा अपि मृद्विन्द्रियायुक्ताः । आर्योपलिपरिपृच्छायाम्- "अनुत्पत्तिकधर्मक्षान्तिप्रतिष्ठितेनैव त्यागमहात्यागातित्यागाः कर्तव्याः" इति वर्णितम् । सूत्रसमुच्चये च- "षट्पारमितादिप्रतिपत्तिमान् बोधिसत्त्वस्तथागतर्द्धिगतिकः" इति वर्णितम् । न च तथागतर्द्धिगतेरन्या शीघ्रतरा गतिरस्ति । नापि षट्पारमितादशभूमिव्यतिरेकेणान्यो बोधिसत्त्वानां मार्गोऽस्ति यः शीघ्रतरवाहीस्यात् । क्रमेणैव च चित्तसंततेः कनकशुद्धिवत्शुद्धिर्भवतीति सूत्रे वर्णितम् [आर्यलङ्कावतारदशभूमिकादौ चोक्तं]- तथतायां यदा स्थितो बोधिसत्त्वो भवति, तदा प्रथमायां भूमौ प्रविष्टो भवति । ततः क्रमेणैव पूर्वभूमीः परिशोध्य तथागतभूमिं प्रविशतीति । अतो नास्ति भूमिपारमिताव्यतिरेकेण [युगपत्] बुद्धत्वपुरप्रवेशे अन्यन्मुखं नापि भगवता क्वचित्सूत्रादौ देशितम् । (२४१) ध्यान एव षट्पारमितान्तर्गमात्तत्सेवनादेव सर्वपारमिताः सेविता भवन्त्यतो न दानादयः [अन्यपारमिताः] पृथक्सेवितव्या इति चेत्तदयुक्तम् । एवं हि बुद्धे गोमयमण्डलेऽपि षट्पारमितान्तर्गमान्मण्डलकमेव कर्तव्यं स्यान्न ध्यानाद्याः । श्रावकस्यापि निरोधसमाधिसमापन्नस्य निमित्तादेव असमुदाचारात्तदा षट्पारमितापरिपूरिप्रसङ्गः । ततश्च न श्रावकेभ्यो बोधिसत्त्वानां भेदः प्रतिपादितो भवेत् । सर्वावस्थायामेव तु बोधिसत्त्वेन षट्पारमिताः परिपूरयितव्या इति संदर्शनार्थे एकैकपारमितान्तर्भावः सर्वपारमितानां भगवता सन्दर्शितः । न पुनरेकैव पारमिता सेवनीयेति । तथा चोक्तं सर्वधर्मवैपुल्ये- "योऽप्ययं मैत्रेय! षट्पारमितासमुदागमो बोधिसत्त्वानां संबोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायामेवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति । तेऽन्याः पारमिता दूषयितव्या मंस्यन्ते । तत्किं मन्यसे, अजित! दुष्प्रज्ञः स काशिराजोऽभूत्, येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह- नो हीदं भगवन्! भगवानाह- यानि मया मैत्रेय! बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचितानि । अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह, नो हीदं भगवन्, भगवानाह- त्वं तावदजित! षष्टिकल्पान् दानापारमितायां समुदागतः । एवं यावत्षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः । तत्ते मोहपुरुषा एवं वक्ष्यन्ति । एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्ति" इत्यादि । केवलं शून्यातामेव सेवमानाः श्रावकवन्निर्वाणे पतन्ति । अतः उपायसहिता प्रज्ञा सेवनीया । अत एवाचार्यनागार्जुनपादैः सूत्रसमुच्चयेऽभिहितम्- "न चोपायकौशलरहितेन बोधिसत्त्वेन गम्भीरधर्मतायामभियोक्तव्यम्" इति । अत्र (२४२) आर्यविमलकीर्तिनिर्देशादिज्ञापकस्तैरूपन्यस्तः, न चाचार्यनागार्जुनपादीयं वचनम् । युक्तयागमोपेतं त्यक्त्वा भगवद्वचनं च परित्यज्य अन्यस्य मूर्खजनस्य वचनं प्रेक्षावता ग्रहीतुमयुक्तम् । आर्यरत्नकूटे च- "सकलदानादिकुशलोपेततया सर्वाकारवरोपेतशून्यता सेवनीयेत्युक्तं न तु केवला ।" आर्यरत्नकूटे चोक्तम्- तद्यथा काश्यपामात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति एवमेव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति । अत एव केवलां शून्यतां सेवमानस्य मा भून्निर्वाणप्रवेश इति । भगवता आर्यतथागतगुह्यसूत्रे" चोक्तम्- "नैकान्तनिरालम्बनं चित्तमात्रसेवनं कर्तव्यमपि तु उपायकौशल्यमपि सेवनीयमिति प्रदर्शनार्थमुक्तम्- तद्यथापि नाम, कुलपुत्र! अग्निरुपादानाद्ज्वलति । अनुपादानः शाम्यति । एवमेवारम्बणतश्चित्तं ज्वलति, अनारम्बणं शाम्यति । तत्रोपायकुशलो बोधिसत्त्वः प्रज्ञापारमितापरिशुद्धारम्बणोपशममपि जानाति । कुशलमूलारम्बणं च न शाम्यति । क्लेशारम्बणं च नोत्थापयति । पारमितारम्बणं चोत्थापयति । शून्यतारम्बणं च प्रत्यवेक्षते सर्वसत्त्वमहाकरुणारम्बणं च प्रेक्षते इति हि कुलपुत्र! उपायकुशलः प्रज्ञापारमितापरिशुद्धो बोधिसत्त्वोऽनारम्बने वशितां प्रतिलभते" इति विस्तरमुक्त्वा पुनश्च वदत्येवं हि- "नास्ति तत्किंचिदारम्बणं बोधिसत्त्वस्य यत्सर्वज्ञज्ञानाभिनिर्हाराय न संतिष्ठते । यस्य बोधिसत्त्वस्य सर्वारम्बाणानि बोधिपरिणामितानि, अयं बोधिसत्त्व उपायकुशल सर्वधर्मान् बोध्यनुगतान् पश्यति । तद्यथापि नाम कुलपुत्र, नास्ति तत्त्रिसाहस्रमहासाहस्रे लोकधातौ यत्सत्त्वानामुपभोगाय न स्यात् । (२४३) एवमेव, कुलपुत्र नास्ति तत्किंचिदारम्बणं यदुपायकुशलो बोधिसत्त्वो बोधाय चोपकारीभूतं न पश्यति" इति विस्तरः । एवमनन्तसूत्रान्तेषु बोधिसत्त्वानां प्रज्ञोपायप्रतिपत्तिर्निर्दिष्टा । तत्र यदि नाम स्वयं न शक्यते दानादिद्पुण्यसंभारवीर्यमारब्धुं तथापि अन्येषामेवमुपदेशो दातुं न युक्तश्चेति स्वपरद्रोहः कृतः स्यात् । तदेवं युक्त्यागमाभ्यां प्रतिपादितं यथा बोधिसत्त्वेनावश्यं भूतप्रत्यवेक्षा कर्तव्या सकलदानादिपुण्यसम्भारश्चोपार्जयितव्यः । ततः प्रेक्षावताल्पश्रुतानामाभिमानिकानां वचनं विषमिवावधूयार्यनागार्जुनादिविद्वज्जनवचनामृतनुगतेन सकलसत्त्वेषु महकारुणामुपजनय्य मायाकारवदविपर्यस्तेनानुत्तरसंबोधिपरिणामितसकलदानादिकुशलचर्यायामशेषजगदुद्धरणे चाभियुक्त्ने अभावितव्यम् । यथोक्तमार्यधर्मसंगीतौ- मायाकारो यथा कश्चिन्निर्मितं मोक्तुमुद्यतः । न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा संबोधिपारगः । सन्नह्यन्ति जगद्धेतोः ज्ञातपूर्वे जगे तथा ॥ इति तस्यैवम् । प्रज्ञामुपायं च सततं सत्कृत्याभ्यस्यतः क्रमेण [चित्तं] संततिपरिपाकादुत्तरोत्तरविशुद्धतरतमक्षणोदयाद्भूतार्थभावनाप्रकर्षपर्यन्तगमेन सकलकल्पनाजालरहितं स्फुटतरं धर्मधात्वधिगमं विमलं निश्चलनिवातदीपवल्लोकोत्तरज्ञानमुत्पद्यते । तदा च वस्तुपर्यन्ततालम्बनं प्रतिलब्धं भवति । दर्शनमार्गं च प्रविष्टो भवति । प्रथमा च भूमिः प्राप्ता भवति । ततस्तदुत्तरा भूमीः परिशोधयन् क्रमेण कनकवदशेषावरणापगमे सति असक्तमप्रतिहतं ज्ञानं प्रतिलभ्य बुद्धभूमिमशेषगुणाधारां प्राप्तो भवति । कार्यपरिनिष्पत्तिं चालम्बनं प्रतिलभते । तस्माद्बुद्धत्वाधिगमार्थिना मध्यमपद्धतौ तावदभियोगः करणीय इति । (२४४) प्रकाश्य यत्प्रापि मया शुभमसमपद्धितम् । पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम् ॥ दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः । विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयसि प्रहृष्टाः ॥ पक्षपाताकुलं तस्माद्दूरीकृतं मनो बुधैः । सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम् ॥ आचार्यकमलशीलेन अन्ते निबद्धो भावनाक्रमः समाप्तः । तृतीयः भावनाक्रमः समाप्तः ।