१. साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ इति शास्त्रार्थसंग्रहः ॥ २. वादिना स्वयं साधयितुमिष्टोऽर्थः साध्यः । साध्यते येन तत्साधनम् । ३. हेतोस्त्रिरूपवचनम् । कानि पुनस्तानि त्रिणि रूपाणि । पक्षे सत्त्वमेवेत्येकं रूपम् । सपक्ष एव सत्त्वमिति द्वितीयं रूपम् । विपक्षे चासत्त्वमेव निश्चितमिति तृतीयम् ॥ ४. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धेण विशेषेण विशिष्टः स्वयं साधयितुमिष्टः प्रत्यक्षाद्यविरुद्धः । यथा शब्दो धर्मी अनित्यत्वेन विशेण विशिष्तः साध्यते कृतकत्वादिति हेतुः ॥ ५. कः सपक्षः । साध्यधर्मेण सामान्येन समानः सपक्षो यथा घटादिरिति ॥ ६. को वा हेतोर्विपक्षः । यत्र साध्याभावेन हेतोरभावो नियमेन कथ्यते [ यथाकाशादिरिति ॥ ७. एतदेव च हेतोस्त्रिरूपवचनं परप्रत्यायनाय प्रयुज्यमानं परार्थमनुमानमुच्यते । यथा अनित्यः शब्द इति पक्षवचनं कृतकत्वादिति हेतुवचनम् । घटादिवदिति सपक्षवचनम् । आकाशवदिति विपक्षवचनम् ॥ ८. तत्पुनर्द्विविधं दृष्टम् । साधर्म्येण वैधर्म्येण च । (ह्तु २६२) ९. तत्र साधर्म्येण तावत् । यत्कृतकं तत्सर्वमनित्यं दृष्टम् । यथा घटादिः । कृतकश्च शब्द इति ॥ १०. वैधर्म्येण पुनः । असत्यनित्यत्वे न भवत्येव कृतकत्वं यथाकाशादौ । शब्दस्तु कृतक इति ॥ ११. कः पुनः पक्षाभासः । यः पक्ष इवाभासते । न तु साक्षात्पक्षो भवति । प्रत्यक्षादिभिर्बाधितत्वात् ॥ १२. स तु पक्षाभासः । यथा धूमादिर्धर्मीबुद्धिमता हेतुना जन्यत इति साध्ये । प्रत्यक्षविरुद्धः पक्षाभासः । प्रत्यक्षेण वह्निजन्यस्य धुमस्य दर्शनात् ॥ १३. अनुमानविरुद्धो यथा । वेदवाक्यं धर्म्यपौरुषेयमिति साध्ये । प्रयत्नानन्तरीयकत्वे शब्दस्य पौरुषेयत्वस्य प्रसाधनात् ॥ १४. स्ववचनविरुद्धो यथा । नानुमानं प्रमाणमिति परप्रतिपादनाय वचनमुच्चार्यमाणं परार्थमनुमानमित्युक्तत्वात् ॥ १५. लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत् ॥ १६. प्रतीतिविरुद्धो यथा । कियत्कालस्थायी कृतकोऽनित्य इति । कियत्कालस्थायिनोऽपि कृतकाः सर्वे नित्या इति लोकप्रतीतेः ॥ १७. अप्रसिद्धविशेषणो यथा । वैशेषिकस्य सांख्यं प्रति विनाशी शब्द इति साध्ये ॥ १८. अप्रसिद्धविशेष्यो यथा । सांख्यस्य बौद्धं प्रति आत्मा चेतन इति साधयतः ॥ १९. उभयाप्रसिद्धो यथा । वैशेषिकस्य बौद्धं प्रति <सुखादि>समवायिकारणमात्मेति (ह्तु २६३) ॥ <प्रसिद्धसंबन्धो> यथा वायुरस्थिरस्वभाव इति ॥ २०. उक्ताः पक्षाभासाः ॥ ॥ २१. हेत्वाभासः कीदृशः । यो हेतुरिवाभासते । न पुनः सिद्धो हेतुरिति ॥ २२. हेत्वाभासोऽसिद्धो विरुद्धोऽनैकान्तिकश्चेति त्रिप्रकारः ॥ २३. तत्र पक्षेऽसिद्धत्वादसिद्धसंज्ञको हेत्वाभासः । २४. पक्षसपक्षयोर्नास्ति । विपक्ष एवास्ति स विरुद्धसंज्ञको हेत्वाभासः । साध्यविपर्ययसाधनात् ॥ २५. तत्र यो हेतुः सपक्षविपक्षयोरुभयत्रास्ति नास्ति वा संदिह्यते । अप्रसिद्धसंबन्धो वा सोऽनैकान्तिकसंज्ञको हेत्वाभासः । वादिनः प्रतिवादिनो वा साधयितुमिष्टस्यैकान्तस्यासाधनात् ॥ २६. उभयासिद्धः तद्यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः वादिप्रतिवादिनोरसिद्धः ॥ २७. चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणादिति हेतुः प्रतिवादिनो बौद्धस्यासिद्ध इति प्रतिवाद्यसिद्धः । चैतन्यादिनिरोधस्य बौद्धेनोपगमात् ॥ २८. अचेतनाः सुखादय इति साध्ये । उत्पत्तिमत्त्वादिति हेतुः स्वयं वादिनः सांख्यस्यासिद्धः । इति वाद्यसिद्ध इति ॥ २९. वैशेषिकस्य बौद्धं प्रति क्षमादिकं धर्मी कार्यमिति साधयतः प्रतिक्षणं सदृशापरापरोत्पत्तेरिति स्वयं वादिनोऽसिद्धः । उत्पत्तौ सिद्धायामपि प्रतिक्षणसदृशापरापरोत्पत्तिरित्यसिद्धः ॥ (ह्तु २६४) ३०. पक्षैकदेशासिद्धो यथा । चेतनास्तरवः स्वापादिति हेतुः । दिगम्बरस्य स्वयं वादिनः पक्षैकदेशासिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः ॥ ३१. तथा पृथिव्यादिकं धर्मी बुद्धिमद्धेतुजन्यमिति साध्ये कार्यत्वादिति हेतुर्बौद्धं प्रत्यसिद्धः । प्रत्यक्षानुपलम्भनिबन्धनो हि कार्यकारणभावो बौद्धस्य पृथिव्यादौ न सिद्धः । विहाराहारादिषु सिद्धं चेत्तदा पक्षैकदेशासिद्धः ॥ ३२. संदिग्धासिद्धो यथा यद्ययं धूमोऽग्निरत्रेति साध्ये हेतोरेवानिश्चयात् ॥ ३३. धर्मिसंदेहेऽप्यसिद्धो यथा । इह बहुषु निकुञ्जेषु क्वचिदेकस्मिन्निकुञ्जे मयूर इति साध्ये केकायिकादिति हेतुः ॥ ३४. धर्म्यसिद्धावप्यसिद्धो यथा आत्मा धर्मी सर्वगत इति साध्ये सर्वत्रोपलभ्यमानगुणत्वादिति हेतुः ॥ ३५. दशैतेऽसिद्धसंज्ञका हेत्वाभासाः ॥ ३६. ॥ अनैकान्तिको हेत्वाभासः कीदृश उच्यते ॥ ३७. यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वं हेतुः सपक्स्विपक्षयोः सर्वत्र वर्तमानः साधारणानैकान्तिकः ॥ ३८. तथा शब्दस्य नित्यत्वे श्रावणत्वं हेतुः सपक्षविपक्षयोरप्रवर्तमानात् । असाधारणानैकान्तिकः ॥ ३९. तथा शब्दस्याप्रयत्नानन्तरीयकत्वे साध्येऽनित्यत्वादिति हेतुः । सपक्षैकदेशवृत्तिर्विपक्षव्याप्यनैकान्तिकः ॥ अप्रयत्नानन्तरीय<क>ः शब्दस्य विद्युदाकाशादिः सपक्षः तत्रैकदेशे विद्युदादौ वर्ततेऽनित्यत्वं नाकाशादौ प्रयत्नान्तरीयकः पुनः सर्वो घटादिर्विपक्षः । तत्र सर्वत्र वर्तते ॥ (ह्तु २६५) ४०. तथा प्रयत्नानन्तरीयकत्वे शब्दस्य साध्येऽनित्यत्वं हेतुः घटादौ सर्वत्र विद्यते । अप्रयत्नानन्तरीयकः पुनर्विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्युदादौ वर्तते नाकाशादौ । तस्मादयं विपक्षैकदेशवृत्तिः सपक्षव्यापी हेतुरनैकान्तिकः ॥ ४१. उभयपक्षैकदेशवृत्तिरनैकान्तिको यथा । शब्दे धर्मिणि नित्यत्वे साध्येऽमूर्तत्वादिति हेतुः । परमाण्वाकाशादिः सपक्षोऽस्य । तत्रैकदेशेऽमूर्तत्वमाकाशे प्रवर्तते न परमाणौ मूर्तत्वात्परमाणूनम् । घटसुखादिरनित्यो विपक्षः । तत्रैकदेशे सुखादौ विद्यते न घटादौ ॥ ४२. तथा संदिग्धविपक्षव्यावृत्तिकः सपक्षव्यापी हेतुरनैकान्तिको यथा । कपिलादिधर्म्यसर्वज्ञ इति साध्ये वक्तृत्वादिति हेतुः । रथ्यापुरुषादौ सपक्षेऽस्ति । विपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वाद्वचनमस्ति न वेति संदिग्धम् ॥ ४३. तथा संदिग्धसपक्षवृत्तिर्विपक्षव्याप्ल्हेतुरनैकान्तिको यथा । ऋषभवर्धामानादिधर्मी सर्वज्ञ इति साध्ये केवलिशास्त्रकरणादिति हेतुः सपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वात्केवलिशास्त्रकरणं संदिग्धम् । विपक्षे वराहमिहिरादावसर्वज्ञे विद्यते ॥ ४४. संदिग्धान्वयव्यतिरेकहेतुरनैकान्तिको यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति हेतुः । जीवच्छरीरसंबन्धी प्राणादिर्न सात्मके <अनात्मके> वा प्रवृत्तो निवृत्तो वेति निश्चीयते ॥ (ह्तु २६६) ४५. ततः केवलान्वयी हेतुर्दृष्टान्ताभावात् ॥ ४६. तथा द्वितीयोऽपि केवलव्यतिरेकी नेदं निरात्मकं जीवच्छरीर<म्> अप्राणादिमत्त्वप्रसङ्गादिति । दृष्टान्ताभावादेव नान्वयनिश्चयो नापि व्यतिरेकनिश्चय इति संशयहेतुः ॥ ४७. उक्ता नव एतेऽनैकान्तिकसंज्ञका हेत्वाभासाः ॥ ४८. विरुद्धसंज्ञको हेत्वाभासः कीदृशः ॥ ४९. यथा शब्दो धर्मी नित्य इति साध्यो धर्मः कृतकत्वादाकाशादिवत् । अयं हेतुर्घटादौ विपक्ष एवास्ति न सपक्षे ॥ ५०. तथा शब्दो धर्मी नित्य इति साध्ये प्रयत्नानन्तरीयकत्वादिति हेतुराकाशादौ सपक्षे नास्त्येव । विपक्षैकदेसे घटादौ विद्यते न विद्युदादौ ॥ एतौ द्वौ हेतू धर्मस्वरूपविपरीतसाधनौ ॥ ५१. धर्म<विशेश>विपरीतसाधनो यथा । चक्षुरादय इति धर्मी परार्था इति साध्यो धर्मः संघतत्वादिति हेतुः । मञ्चपीठादिवदिति सपक्षवचनम् । अयं तु हेतुर्यथा चक्षुरादीनां पारार्थ्यं साधयति । तथा संघातत्वं परस्य साधयति । मञ्चपीठादीनां संघातस्य देवदत्तादेः परस्योपकारदर्शनात् ॥ ५२. धर्मिस्वरूपविपरीतसाधनो यथा पृथिव्यादिर्धर्मी बुद्धिमद्धेतुजन्य इति साध्ये साश्रयत्वादिति हेतुः । घटादिवदिति सपक्षवचनम् । अयं हेतुर्यथा बुद्धिमद्धेतुजन्यत्वं साधयति तथा बुद्धिमतः कर्तुः साश्रयत्वमपि साधयति ॥ ५३. धर्मिविषेशविपरीतसाधनो यथा । वैशेषिकस्य मीमांस<क>ं प्रत्यात्मा धर्मी चेतयत इति साध्ये (ह्तु २६७) चेतनाधिष्ठानत्वादिति हेतुरात्मनोऽचेतनस्य यथा चैतन्यं साधयति । तथा हेतुरयमनित्यत्वमपि साधयति । अनित्यत्वाद्विज्ञानस्य ॥ ५४. उक्ताः पञ्चैते विरुद्धसंज्ञका हेत्वाभासाः ॥ ५५. विरुद्धाव्यभिचारी नाम न कश्चिद्धेतुदोषोऽस्तीति न तस्योदाहरणं युक्तम् । तत्रोदाहरणम् । यत्सर्वदेशावस्थितैः स्वयं च स्वसंबन्धिभिर्युगपदभिसंबध्यते तत्सर्वगतम् । यथाकाशमिति । अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर्युगपत्सामान्यमिति पैलुकस्य स्वभावहेतुप्रयोगः । । द्वितीयोऽपि प्रयोगः पैठरस्य । यदुपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते न तत्रास्ति । तद्यथा क्वचिदविद्यमानो घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति ॥ अनुपलम्भो हेतुः पूर्वोक्तश्च स्वभावः परस्परं बाधयतः । संशयजननात् । ५६. न सपक्षादन्यो दृष्टान्तो नाम कश्चिदिति सपक्ष एव साधर्म्यदृष्टान्तः ॥ तत्र दृष्टान्ताभासः कीदृशः । ५७. साधर्म्येण तावत् । ५८. नित्यः शब्दोऽमूर्तत्वात्कर्मवत् । साध्यविकलः कर्मणोऽनित्यत्वात् ॥ ५९. नित्यः शब्दोऽमूर्तत्वात्परमाणुवत् । साधनविकलः परमाणूनां मूर्तत्वात् ॥ ६०. नित्यः शब्दोऽमूर्तत्वाद्घटवद् । साध्यसाधनोभयविकलः ॥ ६१. तथा संदिग्धसाध्यधर्मा दृष्टान्ताभासः । कश्चित्पुरुषो धर्मी रागादिमान् वचनात् । रथ्यापुरुषवत् । (ह्तु २६८) तत्र दृष्टान्ते रथ्यापुरुषे रागादिमत्त्वं संदिग्धः परचेतोवृत्तीनां दुरन्वयत्वात् ॥ ६२. संदिग्धसाधनधर्मा यथा । कश्चित्पुरुषो मरणधर्म इति साध्ये रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते संदिग्धः । वीतरागोऽपि रागीव चेष्टते यतः ॥ ६३. संदिग्धोभयधर्मा दृष्टान्ताभासो यथा कश्चित्पुरुषो धर्मी असर्वज्ञ इति साध्ये रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते साध्यं साधनं संदिग्धम् ॥ ६४. अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्च दृष्टान्टाभासाः ॥ ६५. तत्रानन्वयो यथा । यो वक्ता स रागादिमान् रथ्यापुरुषवत् । वक्तृत्वरागादिमत्त्वयोः कार्यकारणभावप्रतिषेधात् ॥ ६६. अप्रदर्शितान्वयो यथा । अनित्यः शब्दः कृतकत्वादिति । अत्र विद्यमानोऽप्यन्वयो व्याप्त्या न दर्शित इति । वक्तृदोषादयं दृष्टान्ताभासः ॥ ६७. विपरीतान्वयो यथा । यदनित्यं तत्कृतकं घटादिवदित्यत्रानित्यत्वं साध्यम् । साध्येनैव साधनं व्याप्तं कथनीयम् । न तु साधनेन व्याप्तं साध्यं कथ्यते । अथ विपरीतान्वयो दृष्टान्ताभासः ॥ ६८. उक्ता नवैते साधर्म्येण दृष्टान्ताभासाः ॥ ६९. वैधर्म्येण दृष्टान्ताभासा उच्यन्ते । ७०. साध्याव्यतिरेकी दृष्टान्ताभासो यथा । नित्यः शब्दोऽमूर्तत्वात्परमाणुवत् । अत्र परमाणोर्वैधर्म्यदृष्टान्तत्वादमूर्तत्वं साधनधर्मो व्यावृत्तो (ह्तु २६९) मूर्तत्वात्परमाणूनाम् । नित्यत्वं साध्यधर्मो न व्यावृत्तः । परमाणोर्नित्यत्वात् ॥ ७१. साधनाव्यतिरेक्ल्यथा । नित्यः शब्दोऽमूर्तत्वात्कर्मवत् । अत्र नित्यत्वं साध्यधर्मो व्यावृत्तः कर्मणोऽनित्यत्वात् । साधनधर्मो न व्यावृत्तः कर्मणोऽमूर्तत्वात् ॥ ७२. उभयाव्यावृत्तो यथा । नित्यः शब्दोऽमूर्तत्वादाकाशादिवत् । अत्राकाशादौ वैधर्म्यदृष्टान्तात्साध्यं साधनं च न व्यावृत्तम् ॥ ७३. तथा संदिग्धसाध्यव्यतिरेकी संदिग्धसाधनव्यतिरेकी । संदिग्धोभयव्यतिरेकी चेति । ७४. संदिग्धसाध्यव्यतिरेको दृष्टान्ताभासो यथा । असर्वज्ञाः कपिलादयः । सर्वज्ञतालिङ्गभूतकेवलिशास्त्राकरणादिति । अत्र वैधर्म्योदाहरणम् । यः सर्वज्ञः स ज्योतिर्ज्ञानादिकमुपदिष्टवान् यथा ऋषभवर्धमानादिरिति । अत्र वैधर्म्योदाहरणादृषभवर्धमानादेरसर्वज्ञता निवृत्तान वेति संदेहः ॥ ७५. संदिग्धसाधनव्यतिरेको यथा । नात्र त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कपिलकणादादिः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्म्योदाहरणं ये ग्राह्यवचना न ते रागादिमन्तो यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्यो रागादिमत्त्वस्य धर्मस्य व्यावृत्तिः संदिग्धा ॥ ७६. संदिग्धोभयव्यतिरेकी यथा । अवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति । अत्र वैधर्म्योदाहरणं यो वीतरागो न तस्य परिग्रहाग्रहौ संभवतः (ह्तु २७०) यथा ऋषभवर्धमानादेरिति । ऋषभादेर्वैधर्म्यदृष्टान्तातवीतरागत्वं साध्यधर्मः परिग्रहाग्रहयो<ग>ः साधनधर्मो व्यावृत्तो न वेति संदेहः । अपूर्वार्थलाभः परिग्रहः । लब्धस्यापरित्याग आग्रहः । तौ च द्वावपि ऋषभादौ संभव्येते । छत्रचामरदुन्दुभीनां परिग्रहाग्रहश्रवणात् ॥ ७७. अव्यतिरेको वैधर्म्यदृष्टान्ताभासोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति । ७८. अव्यतिरेको यथा । कपिइआदिरवीतरागो वक्तृत्वात् । यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्युपलखण्डादयं व्यावृत्तस्तथापि सर्वो वीतरागो वक्तेति संदेहः ॥ ७९. अप्रदर्शितव्यतिरेको यथा । अनित्यः शब्दः कृतकत्वादाकाशादिवदिति । परमार्थतः संयग्दृष्टान्तोऽप्ययं वक्तृदोषाद्दृष्टान्ताभासः । परार्थानुमाने वक्तुर्गुणदोषयोर्विचार्यमाणत्वात् । तथा हि यन्नित्यं तत्सर्वं नियमेनाकृतकं दृष्टं यथाकाशादिरिति वचनेन विभज्य वक्त्रा व्याप्तिपूर्वको व्यातिरेको न प्रदर्शित इत्यप्रदर्शितव्यतिरेकः ॥ ८०. विपरीतव्यतिरेको यथा । यदकृतकं तन्नित्यं दृष्टमिति । अत्र साधननिवृत्त्या साध्यनिवृत्तिर्व्याप्ता दर्शयितव्या तेन यत्र यत्र साध्यनिवृत्तिस्तत्र तत्र नियमेन साधननिवृत्तिः सिध्यतीति ॥ ८१. उक्ता दृष्टान्ताभासा अष्टादश ॥ ८२. एत एव सर्वे पक्षहेतुदृष्टान्ताभासाः । वादिना साधयितुमिष्टमर्थं न साधयन्तीति साधनाभासा (ह्तु २७१) वादिनो भवन्ति । एवं च प्रतिवादिना दूषणत्वेनोपन्यस्ता दूषणानि भवन्ति । पूर्वपक्षवादिनोऽभिप्रेतार्थसिद्धिप्रतिबन्धात् । साधनस्य न्यूनतोद्भावनमेव दूषणस्य लक्षणं विभज्य पृथगुच्यते । ८३. दूषणाभासः । एतान्येव दूषणानि प्रतिवादिनोक्तानि । यदा पूर्वपक्षवादी मिथ्यादूषणत्वेन प्रतिपादयतीति तदा दूषणाभासा जातय इति पठ्यन्ते । अभूतदोषोद्भावनानि मिथ्योत्तराणि जात्युत्तरणीति वचनात् । याथादुष्टपक्षे पक्षदोषोद्भावनं निर्दोषे हेतौ हेतुदोषख्यापनम् । अदुष्टदृष्टान्ते दृष्टान्तदोषोपादानं दूषणाभास इति न्यायात् । ज् ८४. तत्र प्रतिज्ञाहेतुदाहरणोपनयनिगमनानि पञ्चावयवं परैः साधनमुच्यते । यथानित्यः शब्द इति प्रतिज्ञा कृतकत्वादिति हेतुः । यत्कृतकं तत्सर्वमनित्यं दृष्टं यथा घटादीत्युदाहरणम् । तथा कृतकः शब्द इत्युपनयः । तस्मादनित्य इति निगमनम् । दृष्टान्ते प्रतीतिसमर्थो हेतुर्धर्मिण्युपनीयत इत्युपनयः । प्रतिज्ञायाः पुनर्वचनं निगमनमिति वचनात् । नैतदस्ति । त्रिभिरेवावयवैरन्वयव्यतिरेकपक्षधर्मसंज्ञकैः साध्यार्थसिद्धेः ॥ ८५. तथा हि । वादकाले व्याप्तिपूर्वक एव प्रयोगः कर्तव्यः । यत्कृतकं तत्सर्वमनित्यं दृस्तं यथा घटादिरिति । साध्येन साधनस्य दृष्टान्ते व्याप्तिकथनमन्वय उच्यते ॥ ८६. विपक्षे च साध्यनिवृत्त्या साधननिवृत्तिर्व्यतिरेक उच्यते यथासत्यनित्यत्वे न भवत्येव कृतकत्वं यथाकाशादौ । (ह्तु २७२) ८७. कृतकश्च शब्द इति पक्षधर्मवचनम् । प्रतिज्ञानिगमने पुनः सर्वथा न वक्तव्ये ॥ ८८. तथा साधर्म्यवति प्रयोगेऽन्वयाभिधानसामर्थ्यादेव व्यतिरेकोऽवगन्तव्य इति न पृथगुच्यते । यथा यत्कृतकं तत्सर्वमनित्यं द्रष्टव्यम् । यथा घटादिः । कृतकश्च शब्द इति । साधर्म्यवान् प्रयोगः । तथा वैधर्म्यवति प्रयोगे व्यतिरेकोक्तिसामर्थ्यादेवान्वयः प्रतिपन्न इति नान्वयः पुनरुच्यते । यन्नित्यं तदकृतकं दृष्टं यथाकाशादिः कृतकश्च शब्द इति । वैधर्म्यवान् प्रयोगः ॥ ८९. उक्ताः साधनाभासा दूषनाभसाः ॥ ९०. प्रत्यक्षं कीदृशम् । प्रत्यक्षं कल्पनापोढमभ्रान्तम् । प्रतिगतमाश्रितमक्षं यद्विज्ञानं तत्प्रत्यक्षम् । पञ्चेन्द्रियाश्रयाणि ज्ञानानीति यावत् । अत्यादयः क्रान्ताद्यर्थे द्वितिययेति समासेन प्रत्यक्षशब्दो वाच्यलिङ्गः सिद्धः । प्रत्यक्षो बोधः प्रत्यक्षा बुद्धिः । प्रत्यक्षं ज्ञानमित्युपपन्नं भवति ॥ ९१. चक्षुःश्रोत्रघ्राणजिह्वाकायाख्यानि पञ्चेन्द्रियाणि तदाश्रितानि पञ्च ज्ञानानि प्रमाणानि । तद्ग्राह्या विषया रूपशब्दगन्धरसस्पर्शाख्याः प्रमेयाणि पञ्चैव ॥ ९२. तच्च प्रत्यक्षं नामजात्यादिकल्पनारहितं निर्विकल्पकमभ्रान्तं च यदि भवति । तदा प्रमाणमुच्यते । दर्शितस्यार्थस्याविसंवादनात् ॥ ९३. तत्र नामकल्पना । देवदत्तोऽयमिति यद्ज्ञानम् । जातिकल्पना गौरियमिति ज्ञानम् । विशेषणविशेष्यम् (ह्तु २७३) इति कल्पना नीलोत्पलमिति ज्ञानम् । अन्यदपि सविकैपकं ज्ञानं प्रत्यक्षाभासः । भ्रान्तं चार्थेऽपि तैमिरिकस्य द्विचन्द्रज्ञानम् । शुक्तिकायां रजतज्ञानं स्थाणुरयं पुरुषो वेति ज्ञानम् । अन्यदपि ज्ञानं प्रत्यक्षाभासः प्रदर्शितार्थाप्रापकत्वात् ॥ ९४. तत्र त्रिविधं प्रत्यक्षम् । व्यवहारमपेक्ष्य इन्द्रियज्ञानम् । सर्वचित्तचैत्तानां स्वरूपसंवेदनं स्वसंवेदनम् । भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥ ९५. तस्य विषयः स्वलक्षणमर्थक्रियासमर्थं तु स्वलक्षणमुच्यते । सामान्यं तु नार्थक्रियासमर्थम् । ९६. तदेव च प्रत्यक्षं प्रमाणम् । प्रमाणमर्थप्रतीतिरूपं फलं च तादृशमेव । न प्रमाणफलयोर्भेदः कश्चिदस्ति ॥ ९७. अनुमानं द्विधा स्वार्थं परार्थं च । ९८. तत्र स्वार्थं तावत् । गृहीते च पक्षधर्मे स्मृते च साध्यसाधनभावे पश्चात्प्रतिपत्ता यथार्थं प्रतिपद्यते येन तत्स्वार्थमनुमानम् । ९९. पक्षधर्मश्च त्रिविध एव भवति । कार्यं स्वभावोऽनुपलम्भश्चेति । १००. सिद्धे हि कार्यकारणभावे कार्यं हेतुर्द्रष्टव्यः । यथा यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति चेह धूम इति [ असत्यग्नौ न भवत्येव धूमो यथा सजलप्रदेशे । अस्ति चेह धूम इति । १०१. स्वभावहेतुः । वृक्षोऽयं शिंशपात्वादिति । पूर्वप्रवर्तितशिंशपाव्यवहारवत् । असति वृक्षत्वे न भवत्येव शिंशपात्वम् । यथा स्थण्डिलप्रदेशे । अत्रापि व्याप्यव्यापकभावे निश्चिते सति व्याप्यो हेतुर्द्रष्टव्यः ॥ (ह्तु २७४) १०२. अनुपलम्भहेतुर्यथा । नात्र घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणादिवत् । अत्रापि दृष्यानुपलम्भो दृष्याभवेन व्याप्तो यदा निश्चितस्तदायं हेतुर्गमकः ॥ १०३. अनुमानाभासः कीदृशः । पूर्ववत् । शेषवत् । सामान्यतोदृष्टं चेति परैः कल्पितमनुमानं सर्वमनुमानाभासः ॥ तेषु तादात्म्यतदुत्पत्तिलक्षणस्य प्रतिबन्धाभावात्[ सिद्धे सत्येव हि कार्यकारणभावे व्याप्यव्यापकभावे च साध्यसाधनभावो नान्यथा व्यभिचारसंभवात् ॥ १०४. यथा वृष्टिमानयं मेघो गम्भीरध्वनत्वादिति । गम्भीरध्वनवतोऽपि मेघस्य वृष्टिविघातसंभवात् ॥ १०५. यथोपरि वृष्टो देवो नदीपूरदर्शनात्बन्धभङ्गादिनापि नदीपूरस्य दर्शणात् ॥ १०६. यथा पक्वा एते तण्डुला एकस्थाल्यन्तर्गतत्वाद्दृष्टतण्डुलवत् ॥ १०७. पक्वान्येतान्य्फलानि एकशाखप्रबन्धात् । उपयुक्तफलवत् । अत्र भूयो दर्शनेऽपि साध्यसाधनयोर्व्यभिचारसंभव एव ॥ १०८. यथा यत्पार्थिवं तत्सर्वं लोहलेख्यं दृष्टम् । यथा काष्ठादि) । वज्रमपि पार्थिवम् ॥ १०९. यः प्राणी स सर्वः सग्रीवः । यथा करभादिः कुलीरोऽपि प्राणी ॥ ११०. यथा यद्द्रवद्द्रव्यमार्द्रकृत्तद्दृष्टं यथोदकम् । पारदमपि द्रवद्द्रव्यमिति । एवमन्येऽप्यनुमानाभासा द्रष्टव्या इति ॥ हेतुतत्त्वोपदेशः समाप्तः ॥ कृतिरियं पण्डितराजजितारिपादानाम् ॥