हस्तवालप्रकरणवृत्तिः मञ्जुश्रीये ज्ञानसत्त्वाय नमः त्रैलोक्ये व्यवहारमात्रे सति परमर्थाभिमानात्तत्त्वार्थानवगाहिभिः सत्त्वैर्वस्तुस्वभावविवेकद्वारेणाविपर्ययज्ञानसंप्राप्तये शास्त्ररचनेयम् ॥ रज्जौ सर्पमनस्कारो रज्जुं दृष्ट्वा निरर्थकः । तदंशान् वीक्ष्य तत्रापि भ्रान्ता बुद्धिरहाविव ॥ १ (६) ॥ सर्वाण्याश्रितवस्तूनि स्वरुपे सुविचरिते । आश्रितान्यन्यतो यावत्संवृतिज्ञानगोचरः ॥ २ (२४) ॥ निरंशानामचिन्त्यत्वदण्त्योऽप्यवस्तुना समः । भ्रान्तमत्रमतः प्राज्ञैर्न चिन्त्यं परमार्थतः ॥ ३ (४५) ॥ भ्रान्तं तदप्य सम्यक्त्वद्यथा भनं तथास्ति न । अनर्थकं भासमानं तत्सदृशात्मकं भवेत् ॥ ४ ॥ सर्वमेवाश्रितं येन विद्यते सूक्स्मबुद्धिना । त्यजेत्स बुद्धिमन् सुष्थुरागाद्यहिभयं यथा ॥ ५ ॥ लौकिकार्थविचरेषु लोकसिद्धिमनुव्रजेत् । क्लेशन् सर्वसं त्यक्तुमन यतेत परमार्थतः ॥ ६ ॥