हरिभद्रसूरिकृता न्यायप्रवेशप्रवृत्तिः । श्रीसर्वज्ञाय नमः ॥ सम्यग्ज्ञानस्य वक्तारं प्रणिपत्य जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थां रचयाम्यहम् ॥ रचितामपि सत्प्रज्ञैर्विस्तरेण समासतः । असत्प्रज्ञोऽपि संक्षिप्तरुचिः सत्त्वानुकम्पया ॥ तत्र च- साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ इत्यादावेव श्लोकः । आहास्य किमादावुपन्यास इति । उच्यते । इह प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न क्वचित्प्रवर्तन्त इत्यतोऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रवृत्त्यर्थमिति । शास्त्रार्थकथनकालोपस्थितपरसंभाव्यमानानुपन्यासहेतुनिराकरणार्थं च न्यायप्रवेशकाख्यं शास्त्रमारभ्यते इत्युक्ते संभवत्येवंवादी परः- नारब्धव्यमिदं प्रयोजनरहितत्वातुन्मत्तकवाक्यवत् । तथा निरभिधेयत्वात्काकदन्तपरीक्षावत् । तथा असंबद्धत्वात्दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डं सर कीटिकेत्यादिवाक्यवत् । तदमीषां हेतूनामसिद्धतोद्भावयिषया प्रयोजनादिप्रतिपादनार्थमादौ श्लोकोपन्यास । अयं चाभिधेयप्रयोजने एव दर्शयति साक्षात्संबन्धं तु सामर्थ्येन । यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेवमेव लेशतो व्याख्याय दर्शयिष्यामः ॥ व्याख्या च पदवाक्यसंगतेति । उक्तं च- शास्रप्रकरणादीनां यथार्थावगमः कुतः । व्याख्यां विहाय तत्त्वज्ञैः सा चोक्ता पदवाक्ययोः ॥ तत्रापि पदसमुदायात्मकत्वाद्वाक्यस्यादौ पदार्थगमनिका न्याय्या । सा च पदविभागपूर्वेत्यतः पदविभागः । साधनं दूषणं च एव साभासं परसंविदे प्रत्यक्षमनुमानं च साभासं तु आत्मसंविदे इति पदानि ॥ अधुना पदार्थ उच्यते । साध्यते अनेनेति सिद्धिर्वा साधयतीति वा साधनम् । तच्च पक्षादिवचनजातम् । वक्ष्यति च । पक्षादिवचनानि साधनम् । विषयश्चास्य धर्मविशिष्टो धर्मी । तथा दूष्यतेऽनेन दूषयतीति वा दूषणम् । तच्च साधनदोषोद्भावनं वचनजातमेव । वक्ष्यति च साधनदोषोद्भावनानि दूषणानि । विषयश्चास्य साधनाभासः न सम्यक्साधनम् । तस्य दुषयितुमशक्यत्वात् । ननु वक्ष्यति साधनदोषोद्भावनानि दूषणानीति तदेतत्कथम् । उच्यते । साधनाभास एव किंचित्साम्येन साधनोपचाराददोषः इत्येतच्च तत्रैव निर्लोठयिष्यामः । चशब्दः समुच्चये । एवकारोऽवधारणे । स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः । तथा आभासनमाभासः । सह आभासेन वर्तते साभासम् । साभासशब्दः प्रत्येकमभिसंबध्यते । साधनं साभासं दूषणं साभासम् । तत्र साधनाभासं पक्षाभासादि । वक्ष्यति च । साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इत्यादि । दूषणाभासं चाभूतसाधनदोषोद्भावनानि । वक्ष्यति च अभूतसाधनदोषोद्भावनानि दूषणाभासानीति ॥ परसंविदे इत्यत्र परे प्राश्निकाः संवेदनं संविदवबोध इत्यर्थः । परेषां संवित्परसंवित्तस्यै परसंविदे परावबोधाय । इयं तादर्थ्ये चतुर्थी । यथा यूपाय दारुः । इति पदार्थः ॥ वाक्यर्थस्त्वयम् । साधनदूषणे एव साभासे परसंविदे परावबोधाय न प्रत्यक्षानुमाने । परसंवित्फलत्वात्तयोः । यथा पार्थ एव धनुर्धरः पार्थे धनुर्धारयति सति कोऽन्यो धनुर्धारयति इति ॥ प्रत्यक्षमित्यत्र अक्षमिन्द्रियं ततश्च प्रतिगतमक्षं प्रत्यक्षं कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः । इदं च वक्ष्यति प्रत्यक्षं कल्पनापोढमित्यादि । तथा मीयते अनेनेति मानं परिच्छेद्यत इत्यर्थः । अनुशब्दः पश्चादर्थे । पश्चान्मानमनुमानम् । पक्षधर्मग्रहणसंबन्धस्मरणपूर्वकमित्यर्थः । वक्ष्यति च त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । चशब्दः पूर्ववत् । साभासमित्यादि । वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासमित्यादि । तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासमित्यादि च । तु शब्दस्त्वेवकारार्थः । स चावधारण इति दर्शयिष्यामः ॥ आत्मसंविदे इति । अततीत्यात्मा जीवः । संवेदनं संवित् । आत्मनः संवितात्मसंवित् । तस्यै आत्मसंविदे आत्मावबोधाय । आत्मा चेह चित्तचैत्तसंतानरूपः परिगृह्यते न तु परपरिकल्पितो नित्त्यत्वादिधर्मा । तत्प्रतिपादकप्रमाणाभावात् । इति पदार्थः ॥ वाक्यार्थस्त्वयम् । प्रत्यक्षानुमाने एव साभासे आत्मसंविदे आत्मावबोधाय न साधनदूषणे आत्मसंवित्फलत्वात्तयोः । आह ननु साधनमपि वस्तुतोऽनुमानमेव ततश्चानुमानमित्याद्युक्ते साधनाभिधानं न युज्यते अस्मिन्वा प्रागुक्ते अनुमानाभिधानमिति । नैष दोषः । स्वार्थपरार्थभेदनाभिधानात् । तत्र साधनं परार्थमनुमानमिदं पुनः स्वार्थम् । अपरस्त्वाह । आदौ साधनदूषणाभिधानमयुक्तं प्रत्यक्षानुमानपुरःसरत्त्वात्तत्प्रयोगस्य । उच्यते । सत्यपि तत्पुरःसरत्वे शास्त्रारम्भस्य परसंवित्प्रधानत्वात्साधनदूषणयोरपि तत्फलत्वात्प्रत्यासत्तेरादावुपन्यासः । परार्थनिबन्धनः स्वार्थ इति न्यायप्रदर्शनार्थमन्ये ॥ कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः ॥ इह च साधनादयोऽष्टौ पदार्थाः अभिधेयतया उक्ताः । परसंवित्त्यात्मसंवित्त्योरत्र प्रयोजनत्वेन संबन्धश्च सामर्थ्यगम्य एव । स च कार्यकारणलक्षणः । कारणं वचनरूपापन्नप्रकरणमेव । कार्यं तु प्रकरणार्थपरिज्ञानम् । तथाहीदमस्य कार्यमिति संबन्धलक्षणा षष्ठी । आह- यद्येवं परसंवित्त्यात्मसंवित्त्योः प्रकरणार्थपरिज्ञानेन व्यवहितत्वादप्रयोजनत्वमिति । न । व्यवहितस्यैव विवक्षितत्वात् । किमर्थं व्यवहितमेव विवक्षितमिति । उच्यते । उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम् । तथा चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव । तथा चोक्तम् । सम्यङ्न्यायपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ आह- यद्येवमिहानुत्तरमेवेदं कस्मान्नोपन्यस्तमिति । उच्यते । अव्युत्पन्नं विनेयगणमधिकृत्य तत्प्रथमतयैव तस्याप्रयोजकत्वात् ॥ अपरस्त्वाह । इदमिह श्रोतणां प्रयोजनमुक्तं कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम् । उच्यते । तस्याप्यनन्तरपरभेदभिन्नमिदमेव । अनन्तरं तावत्सत्त्वानुग्रहः । परंपरं तु परमगतिप्राप्तिरेव । तथा चोक्तम् । सम्यङ्न्यायोपदेशेन यः सत्त्वानामनुग्रहम् । करोति न्यायबाह्यानां स प्राप्नोत्यचिराच्छिवम् ॥ अलं विस्तरेण ॥ इति शास्त्रसंग्रहः । इतिशब्दः परिसमाप्तिवाचकः । एतावानेव । शिष्यतेऽनेन तत्त्वमिति शास्त्रमधिकृतमेव; अर्य(र्थ्य)त इत्यर्थः । शास्त्रस्यार्थः शास्त्रार्थः । तस्य सग्रहः शास्त्रार्थसंग्रहः । संग्रहणं संग्रहः । एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः । शास्त्रतो चास्याल्पग्रन्थस्यापि विश्वव्यापकन्यायानुशासनादिति वृद्धवादः ॥ तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपावधारणायाह ॥ तत्र पक्षादिवचनानि साधनम् । तत्रशब्दो निर्धारणार्थः । तत्र तेषु साधनादिषु साधनं तावन्निर्धार्यते इति । निर्धारणं च जातिगुणक्रियानिमित्तमिति । अत्र गुणनिमित्तं साधनत्वेन गुणेन निर्धार्यते इति । गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन ॥ पच्यते इति पक्षः । पच व्यक्तीकरणे । पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः । साध्य इत्यर्थः । स च धर्मविशिष्टो धर्मी । पक्ष आदिर्येषां ते पक्षादयः । अयं बहुब्रीहिः समासः । अयं च तद्गुणसंविज्ञानश्च भवति । तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि । लम्बौ कर्णौ यस्यासौ लम्बकर्णः । लम्बकर्णत्वं च तस्यैव गुण इत्यर्थः । अतद्गुणसंविज्ञानो यथा पर्वतादिकं क्षेत्रमित्यादि । पर्वत आदिर्यस्य तत्पर्वतादिकं क्षेत्रम् । न पर्वतः क्षेत्रगुणः । किं तर्हि । उपलक्षणमात्रमिति भावना । अयमिह तद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः । यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति । न पुनर्यथा लम्बकर्णः ब्राह्मणादयो वर्णा इति । पक्षादिवचनानि साधनमित्यादिशब्द उपलक्षणार्थः । अस्य चायमर्थः । आदीयतेऽस्मादित्यादिः यथा पर्वतादिकं क्षेत्रमित्यादौ । न पुनरादीयते इत्यादिः यथा ब्राह्मणादयो वर्णा इत्यदाविति । ततः सुस्थितमिदं पक्षः आदिर्येषां ते पक्षादयः ॥ ते च पक्षोपलक्षिता हेतुदृष्टान्ताः । तेषां वचनान्युक्तयः ॥ किं साधनमिति । इह च यदा साध्यतेऽनेनेति साधनं करणाभिधानार्थः साधनशब्दस्तदा पक्षोपलक्षितानि हेतुत्वादिवचनानि साधनम् । यतस्तैः करणभूतैर्विवक्षितोऽर्थः परसंताने प्रतिपाद्यते । यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम् । तत्फलत्वात्पक्षादिवचनानाम् । कार्ये कारणोपचारात् । यथेदं मे शरीरं पौराणां कर्मेति । यदा तु कर्तृसाधनः साधयतीति साधनं तदा पक्षादिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वातिति । तदेवं पक्षादिवचनानि साधनम् । तद्यथा वृक्षा वनं हस्त्यादयः सेना । आह । एकवचननिर्देशः किमर्थमुच्यते । समुदितानामेव पक्षादिवचनानां साधनत्वख्यापनार्थम् । उक्तं च दिङ्नागाचार्येण साधनमिति चैकवचननिर्देशः समस्तसाधनत्वख्यापनार्थः । इत्यलं विस्तरेण ॥ एवं तावत्सामान्येन साधनमुक्तम् । इदं च न ज्ञायते किं कारकमुत व्यञ्जकम् । साधनस्य द्वैविध्यदर्शनात् । तत्र कारकं वीजाद्यङ्कुरादेः । व्यञ्जकं प्रदीपादि तमसि घटादीनाम् । अतो व्यञ्जकत्वप्रतिपादनायाह । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यते इति ॥ अस्य गमनिका । पच्यते इति पक्षः । हिनोतीति हेतुः । हि गतौ । सर्वे गत्यर्थाः ज्ञानार्थाः । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः । स च द्विधा साधर्म्येवैधर्म्यभेदात् । ततश्चैवं समासः । दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ । हेतुश्च दृष्टान्तौ च हेतुदृष्टान्ताः । पक्षस्य हेतुदृष्टान्ताः पक्षहेतुदृष्टान्ताः । तेषां वचनानि पक्षहेतुदृष्टान्तवचनानि । तैः पक्षहेतुदृष्टान्तवचनैः । हिशब्दो यस्मादर्थे । प्रश्नेनियुक्ताः प्राश्निका विद्वांसः । स्वसमयपरसमयवेदिनः । उक्तं च- स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥ तेषां प्राश्निकानामप्रतीतोऽनवगतोऽनवबुद्धोऽर्थः प्रतिपाद्यते । आह । ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतोऽर्थ इति । उच्यते । न तत्परिज्ञानमङ्गीकृत्याप्रतीतः । किंतु वादिप्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत इत्यतोऽप्रतीतोऽर्थः प्रतिपाद्यते । ननु चात्र चातुर्थ्या क्रियया चेति वक्तव्यलक्षणया भवितव्यं तत्किमर्थ षष्ठ्यत्रोच्यते । कारकाणामविवक्षा शेष इति शेषलक्षणा षष्ठी । केषां प्रतिपाद्यते । सामर्थ्याद्येषामप्रतीतः अन्येषामश्रुतत्वात्तेषामेव प्रतिपाद्यते । इतिशब्दस्तस्मादर्थे । यस्मादेवं तस्माद्व्यञ्जकमिदं साधनमप्रतीतार्थप्रतिपादकत्वात्प्रदीपवत् । व्यतिरेके बीजादि ॥ तत्र पक्षादिवचनानि साधनमित्युइक्तम् ॥ अधुना यथोद्देशं निर्देश इतिन्यायमाश्रित्य पक्षलक्षणप्रतिपादनायाह । तत्र पक्षः प्रसिद्धो धर्मी । अस्य गमनिका । तत्रशब्दो निर्धारणार्थः । निर्धारणं च प्रसिद्धधर्मित्वादिगुणतोऽवसेयमिति । पक्ष इति लक्ष्यनिर्देशः । धर्मीति । धर्माः कृतकत्वादयस्तेऽस्य विद्यन्ते इति धर्मी शब्दादिः । कथं प्रसिद्ध इत्यत आह । प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः । तत्र प्रसिद्धं वादिप्रतिवादिभ्यां प्रमाणबलेन प्रतिपन्नम् । विशिष्यतेऽनेनेति विशेषणम् । तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः । तद्भावः प्रसिद्धविशेषणविशिष्टतता । तया प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः । अत्राह । इह धर्मिणस्तावत्प्रसिद्धता युक्ता विशेषणस्य त्वनित्यत्वादेर्न युज्यते । साध्यत्वात् । अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः । नैतदेवम् । सम्यगर्थानवबोधात् । इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिणि समाश्रीयते किंतु धर्म्यन्तरे घटादौ । ततश्च यथोक्तदोषानुपपत्तिः । तथा स्वयमित्यनेनाभ्युपगमसिद्धान्तपरिग्रहः ॥ साध्यत्वेनेप्सित इति । साधनीयः साधयितव्यः साधनमर्हतीति वा साध्यः । तस्य भावः साध्यत्वम । तेन साध्यत्वेन । ईप्सितः अभिमतः इष्ट इच्छाया व्याप्त इत्यर्थः । इह च विशेषणस्य व्यवच्छेदकत्वात्प्रसिद्धो धर्मीत्यनेनाप्रसिद्धविशेषणस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः । प्रसिद्धविशेपणविशिष्टयेत्यनेन त्वप्रसिद्धविशेषणस्य उभयेन चाप्रसिद्धोभयस्य स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्रप्रतितन्त्राधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः । इह तु शस्त्रनिरपेक्षवादिनोर्लोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तस्तं स्वयमित्यनेनाह । ततश्चयदपि स्वयमिति वादिना यस्तदा साधनमाह । एतेन यद्यपि क्वचिच्छास्त्रे स्थ्तिअः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदानेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवतीति यदुक्तं वादिमुख्येन तदपि संगतमेव । साध्यत्वेनेति साध्यत्वेनैव न साधनत्वेनापि । अनेन च साध्यहेतुदृष्टान्ताभासानां पक्षत्वव्युदासः । ईप्सित इत्यनेन च नोक्तमात्रस्यैवेत्युक्तं भवति । इच्छयापि व्याप्तः पक्षः । इत्येतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्यामः । इत्यनेन धर्मविशिष्टो धर्मी पक्ष इत्यावेदितं भवति । ततश्च न धर्ममात्रं न धर्मी केवलः न स्वतन्त्रमुभयं न च तयोः संबन्धः किंतु धर्मधर्मिणोर्विशेषणविशेष्यभाव इति भावार्थः ॥ इह चोक्तलक्षणयोगे सत्यप्यश्रावणः शब्द इत्येवमादीनामपि प्रत्यक्षाविरुद्धानां पक्षत्वप्राप्त्यातिव्याप्तिर्नाम लक्षणदोषः प्राप्नोतीत्यस्तन्निवृत्त्यर्थमाह । प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः । प्रत्यक्षादिभिरविरुद्धः । आदिशब्दादनुक्तानुमानादिपरिग्रहः । इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति । उदाहरणोपदर्शनायाह तद्यथा । अनित्यः शब्दो नित्यो वेति । तद्यथेत्युदाहरणोपन्यासार्थम् । तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति । उक्त सोदाहरणः पक्षः । सांप्रतं हेतुमभिधित्सुराह हेतुस्त्रिरूपः । तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः । स च त्रिरूपः । त्रीणि रूपाणि यस्यासौ त्रिरूपः त्रिस्वभाव इत्यर्थः । एकस्य वस्तुनो नानात्वमपश्यन् पृच्छक आह किं पुनस्त्रिरूप्यम् । किमिति परिप्रश्ने । पुनरिति वितर्के । त्रिरूपस्य भावस्त्रैरूप्यम् । एवं पृच्छकेन पृष्टः सन्नाहाचार्यः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव । अस्य गमनिका । उक्तलक्षणः पक्षतस्य धर्मः पक्षधर्मस्तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र केवलो धर्म्येवऽभिधीयते । अवयवे समुदायोपचारात् । इदमेकं रूपम् । तथा सपक्षे सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्सत्त्वमस्तित्वं सामान्येन भाव इत्यर्थः । इदं द्वितीयं रूपम् । तथा विपक्षे चासत्त्वमिति तृतीयं रूपम् । विपक्षो वक्ष्यमाणलक्षणस्तस्मिन्पुनरसत्त्वमेवाविद्यमानतैव । चशब्दः पुनःशब्दार्थः । स च विशेषार्थ इति दर्शितमेव । आह इहैवावधारणेऽभिधानं किमर्थम् । उच्यते । अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् । सपक्षे त्वेकदेशेऽपि सत्त्वमदुष्टमेवेति । तथा च सत्येकान्ततो विपक्षव्यावृत्ताः सपक्षैकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादयः सम्यग्घेतव एवेत्यावेदितं भवति ॥ सपक्षे सत्त्वमित्यादि यदुक्तं तत्र सपक्षविपक्षयोः स्वरूपमजानानो विनेयः पृच्छति । कः पुनः सपक्षः को वा विपक्ष इति । अयं तु प्रश्नो निगदसिद्ध एव । निर्वचनं त्विदं साध्यधर्मेत्यादि । अस्य गमनिका । इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते । साध्यश्चासौ धर्मश्च साध्यधर्मः । अनित्यत्वादिः । समानः सदृशस्तस्य भावः सामान्यं तुल्यता । साध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामान्यम् । तेन समानोऽर्थः सपक्ष इति । समं तुल्यं मानमस्येति समानः । तुल्यमानपरिच्छेद्य इति भावना । अर्थो घटादिः । न तु वचनमात्रम् । समानः पक्षं सपक्ष इति । अथवा उपचारवृत्त्या धर्मिणि साध्यत्वमधिक्रियते । ततश्च । साध्यस्य धर्मः साध्यधर्मः । शेषं पूर्ववत् । अनुपचरितं तु साध्यम् । धर्मविशिष्टो धर्मीति भावार्थः ॥ सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह । तद्यथा अनित्ये शब्दे साध्ये इत्यादि । तद्यथेत्युदाहरणोपन्यासार्थः । अनित्ये शब्दे साध्ये किम्? । घटादिरनित्यः पदार्थसंघातः सपक्षः । साध्यानित्यात्वसमानत्वात् ॥ अधुना विपलक्षणप्रतिपादनायाह । विपक्षो यत्र साध्यं नास्ति । विसदृशः पक्षो विपक्षः । स कीदृगिति स्वरूपतो दर्शयति । यत्र यस्मिन्नर्थे । साधनीयं साध्यम् । नास्ति न विद्यते । इह च साध्यप्रतिबन्धत्वात्साधनस्य तदपि नास्तीति गम्यते । उदाहरणं दर्शयति । यथा यन्नित्यमित्यादि । तत्र यन्नित्यमिति किमुक्तं भवति? । यदनित्यं न भवति तदकृतकं दृष्टमिति । तत्कृतकमपि न दृष्टं यथाकाशमिति । तत्र हि साध्यभावात्साधनाभावः । सांप्रतं विचित्रत्वादवधारणविधेः विपक्षधर्मत्वादिषु तमुपदर्शयन्नाह । तत्र कृतकत्वमित्यादि । तत्रेति पूर्ववत् । कृतकत्वं प्रयत्नानन्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः । तत्र क्रियते इति कृतकः । अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति । तद्भावः कृतकत्वम् । प्रयत्नान्तरीयकत्वं वा इति । प्रयत्नश्चेतनावतो व्यापारः । तस्य प्रयत्नानन्तरं तत्र भावो जात इति वा प्रयत्नानन्तरीयः । स एव प्रयत्नानन्तरीयकः । तद्भावः प्रयत्नानन्तरीयकत्वम् । वाशब्दः चशब्दार्थः । स च समुच्चये । द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः । सपक्षैकदेशवृत्तिरपि सम्यग्घेतुर्यथा । यमेवेति दर्शनार्थत्वाददुष्टमिति । अयं च हेतुः किं पक्षधर्म एव न तु पक्षस्यैव धर्मः । अयोगव्यवच्छेदमात्रफलत्वादवधारणस्य । यथा चैत्रो धनुर्धर एव । अनेन चासिद्धानां चतुर्णामसाधारणस्य च व्यावृत्तिः । तथा सफल एवास्त्वन्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धरः । अनेन तु साधारणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः । आह । यदि सपक्ष एवास्ति ततश्च तद्व्यतिरेकेणान्यत्र पक्षेऽप्यभावात्धर्मत्वानुपपत्तिः । न अनवधृतावधारणात् । पक्षधर्मत्वस्यावधारित्वात् । आह । यद्येवं विपक्षे नास्ति एवेति तृतीयमवधारणं किमर्थम्? । उच्यते । प्रयोगोपदर्शनार्थम् । उक्तं च । अन्वयव्यतिरेकयोरेकमपि रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपकं स्यादिति । प्रभूतमत्र वक्तव्यं तत्तु नोच्यते । ग्रन्थविस्तरभयात् । गमनिकामात्नमेतत् । अनित्यादौ हेतुरित्यत्रादिग्रहणात्दुःखादिपरिग्रहः । इत्युक्तो हेतुः ॥ सांप्रतं दृष्टान्तमभिधित्सुराह । दृष्टान्त इत्यादि । दृष्टं तत्रार्थमन्तं नयतीति दृष्टान्तः । प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठां नयतीत्यर्थः । स च द्विविधः । द्वे विधे यस्य स द्विविधस्तदेव द्वैविध्यम् । दर्शयति साधर्म्येण वैधर्म्येण च । समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः साधर्म्यं तेन । विसदृशो धर्मो यस्यासौ विधर्मा विधर्मणो भावः वैधर्म्यं तेन । चशब्दः समुच्चये । तत्र साधर्म्येण तावदिति । तावच्छब्दः क्रमार्थः । यत्रेति । अभिधेयहेतोरुक्तलक्षणस्य सपक्ष एवास्तित्वं ख्याप्यते । सपक्ष उक्तलक्षणस्तस्मिंश्चास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन । तच्चेदम् । यत्कृतकं तदनित्यं यथा घटादिः इति सुगमम् । अनेन साधनदृष्टान्ताभासः । वैधर्म्येणापि । यत्र साध्याभावे हेतोरभाव एव कथ्यते । यत्रेत्यभिधेये । साध्यमनित्यत्वादि तस्याभावे हेतोः कृतकत्वादेः । किम्? । अभाव एव कथ्यते प्रतिपाद्यते वचनेन । तच्चेदमुदाहरणं दर्शयति । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति सुगमम् । आह । न सौगतानां नित्यं नाम किंचिदस्ति । तदभावात्कथं वैधर्म्यदृष्टान्त इत्युच्यते? । नित्यशब्देनात्रनित्यत्वस्याभाव उच्यते । अत्रेति प्रयोगे दृष्टान्तवाक्ये वा । किं नित्यशब्देन अनित्यस्वस्याभाव उच्यते? । अनित्यो न भवतीति नित्यः । अकृतकशब्देनापि कृतकत्वस्याभावः उच्यते । इति च वर्तते । कृतकौ न भवतीत्यकृतकः । न तु वस्तु सन्नित्यमकृतकं वास्ति । अत्रैवोदाहरणमाह । यथा भावाभावोऽभावः । यथेत्यौपम्ये । भावः सत्ता तस्याभावो भावाभावः । असावभाव उच्यते । न तु भावादन्योऽभावो नाम वस्तुस्वरूपोऽस्ति एवं नित्यशब्देनात्रेत्यादि दार्ष्टान्तिकेऽपि भावितमेव ॥ उक्ताः पक्षादयः ॥ सह पक्षेण विषयभूतेन हेतुदृष्टान्ता इत्यर्थः । एषां वचनानि । एषामिति पक्षोपलक्षितानां हेतुदृष्टान्तानाम् । वचनानि ये वाचकाः शब्दाः । किम्? । परप्रत्यायनकाले प्रास्निकप्रत्यायनकाले साधनम् । यथा प्रयोगतो दर्शयति । यथा अनित्यः शब्दः इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् । यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् । इति निगदसिद्धम् । यावतेतान्येव त्रयोऽवयवा इत्युच्यन्ते । एतान्येव पक्षहेतुदृष्टान्तानां वचनानि । त्रय इति संख्या । अवयवा इत्युच्यन्ते । पूर्वाचार्याणां संज्ञान्तरमेतत् । यथोक्तं साधनमवयवाः ॥ उक्तं साधनम् । अधुना तदाभास उच्यते । तत्रापि पक्षादिवचनानि साधनमिति पक्षस्योपलक्षणत्वात्प्रथमं पक्ष उक्तः । इहापि पक्षाभास एवोच्यते साधयितुमित्यदि । साधयितुमिष्टोऽपि पक्षादिविरुद्धः पक्षाभासः । सिसाधयिषया वाञ्छितः अपिशब्दात्प्रसिद्धो धर्मीत्यादि तदन्यलक्षणयुक्तोऽपि । किम्? । प्रत्यक्षादिविरुद्धः । विरुध्यते स विरुद्धः । प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तैर्विरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः । किम्? । पक्षाभासः । तस्यात्रोक्तलक्षणः पक्षः आभासनमाभासः आकारमात्रम् । पक्षस्येवाभासो यस्यासौ पक्षाभासः पक्षाकारमात्रम् । न तु सम्यक्पक्ष इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः । प्रत्यक्षविरुद्ध इत्यादि । प्रत्यक्षं वक्ष्यमाणलक्षणम् । इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्यायात् । ततश्च प्रसिद्धर्मधर्मशब्दलोपात्प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः । एवमनुमानविरुद्धः आगमलोकस्ववचनविरुद्धाश्चेति भावनीयमिति । अप्रसिद्धिविशेषणादिशब्दार्थमुदाहरणनिरूपणायामेव वक्ष्यामः । सांप्रतमुदाहरणानि दर्शयति । तत्र प्रत्यक्षविरुद्धः इत्युद्देशः । यथा अश्रावणः शब्दः इत्युदाहरणम् । अत्र शब्दो धर्मी । अश्रावणत्वं साध्यधर्मः । अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्धः । आह । श्रावणत्वं सामान्यलक्षणत्वात्प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः? इति । अत्रोच्यते । भावप्रत्ययेन स्वरूपमात्राभिधानात्सामान्यलक्षणत्वानुपपत्तेरदोष इति । अत्र च बहु वक्तव्यं तत्तु नोच्यते । अक्षरगमनिकामाफलत्वात्प्रयासस्य ॥ अनुमानविरुद्धो यथा । नित्यो घट इति । अत्र घटो धर्मी । नित्यत्वं साध्यधर्मः । स चानुमानप्रसिद्धेनानित्यत्वेन तत्रैव धर्मिणि बाध्यते । अनुमानं चेदम् । अनित्यो घटः कारणाधीनात्मलाभत्वात्प्रदिपवत् ॥ आगमविरुद्धो यथा । वैशेषिकस्य नित्यः शब्द इति साधयतः । वैशेषिकोऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य नित्यत्वं प्रतिजानिते तदागमविरूद्धः । यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम् । उक्तं च बुद्धिमत्पूर्वा वाक्यकृतिर्वेदे तद्वचनादाम्नायस्य प्रामाण्यमित्यादि ॥ लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वात्शङ्खशुक्तिवतिति । अत्र नरशिरःकपालं धर्मित्वेनोपादयिते । शुचित्वं साध्यधर्मः । स च साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धशुचित्वेन निराक्रियत इति । आह । इह हेतुदृष्टान्तोपादानं किमर्थमुच्यते? । लोकस्थितेर्बलीयस्त्वख्यापनार्थम् । नानुमानेनापि लोकप्रसिद्धिर्बाध्यत इत्यर्थः ॥ स्ववचनविरुद्धो यथा । माता मे वन्ध्या इति । इह च माता साध्यधर्मित्वेनोपात्ता । वन्ध्येति च साध्यधर्मः । स च साध्यमानस्तत्रैव धर्मिणि स्ववचनप्रसिद्धेन मातृत्वेन विरुद्ध्यते । विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते वन्ध्याशब्देन तद्विपरीता । ततश्च यदि माता कथं वन्ध्या? वन्ध्या चेत्कथं मातेति? ॥ तथा अप्रसिद्धविशेषणो यथा । बौद्धस्य सांख्यं प्रति विनाशी शब्दे इति । न प्रसिद्धमप्रसिद्धम् । विशिष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम् । ततश्चाप्रसिद्धं विशेषणं यस्मिन् स तथाविधः । एवं शेषेप्यक्षरगमनिका कार्येति । अत्र च शब्द इति निर्देशः । विनाशीति साध्यधर्मः । अयं च बौद्धस्य सांख्यं प्रति अप्रसिद्धिविशेषणः । न हि तस्य सिद्धान्ते किंचिद्विनश्वरमस्ति । यत उक्तम्- तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशप्रतिषेधादित्यादि [यागसूत्र- ३, १३ व्यासभाष्य] । आह । यद्येवं न कश्चित्पक्षाभासो नामास्ति । तथाहि- विप्रतिपत्तौ इष्टार्थसिद्ध्येऽनुमानप्रयोगः । विप्रतिपत्तिरेव चैतद्दोषकर्त्रीति कृतोऽनुमानम् । अत्रोच्यते । न विप्रतिपत्तिमात्रं तद्दोषकर्तृ युक्तिविरुद्धत्वात् । तथाहि- उपपत्तिभिर्दृष्टान्तसाधने कृतेऽनुमानप्रयोगः इष्टार्थसिद्धये भवति । नान्यथा । पुनः साधनापेक्षत्वात् । अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति । अप्रसाधिते तु पक्षाभासः । इति कृत प्रसङ्गेन ॥ तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति । तत्र विशेष्यो धर्मीत्यनर्थान्तरम् । इह चात्मा धर्मी । चेतनत्वं साध्यधर्मः । इति पक्षः सांख्यस्य बौद्धं प्रति अप्रसिद्धविशेष्यः । आत्मनोऽप्रसिद्धत्वात् । सर्वे धर्मा निरात्मान इत्यभ्युपगमात् । आक्षेपपरिहारौ पूर्ववत् ॥ तथा अप्रसिद्धोभयो यथा । वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मा इति । उभयं धर्मधर्मिणौ । तत्रात्मा धर्मी । सुखादिसमवायिकारणत्वं साध्यधर्मः । वैशेषिकस्य हि कारणत्रयात्कार्यं भवति । तद्यथा- समवायिकारणातसमवायिकारणात्निमित्तकारणाच्च । तथाहि- तन्तवः पटस्य समचायिकारणं तन्तुसंयोगोऽसमवायिकारणं तुरीवेमादयस्तु निमित्तकारणम् । इत्थमात्मा सुखदुःखेच्छादीनां समवायिकारणम् । आत्ममनःसंयोगोऽसमवायिकारणम् । स्रक्चन्दनादयो निमित्तकारणम् । इत्येवं वैशेषिकस्य बौद्धं प्रति अप्रसिद्धोभयः । न तस्यात्मा विशेष्यः सिद्धो नापि समवायिकारणं विशेषणम् । सामग्र्या एव जनकत्वाभ्युपगमात् । आक्षेपपरिहारौ पूर्ववत् ॥ तथा प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति । प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो यस्मिन् स तथाविधः । इह शब्दो धर्मी श्रावणत्वं साध्यधर्मः । उभयं चैतत्वादिप्रतिवादिनोः प्रसिद्धम् । एषां वचनानि इत्यादि । एषामिति नवानामपि परमार्शः । वचनानि । प्रतिज्ञादोषा इति संबन्धः कारणमाह । धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम् । स्वं च तद्रूपं च स्वरूपमित्यर्थः । निराक्रियतेऽनेनेति निराकरोतीति वा निराकरणम् । प्रतिषेधनमित्यर्थः । धर्मस्वरूपस्य निराकरणं तत्तथा मुखमिव मुखं द्वारमिति भावः । धर्मस्वरूपनिराकरणमेव मुखं तेन धर्मस्वरूपनिराकरणमुखेन धर्मयाथात्म्यप्रतिषेधद्वारेणेत्यर्थः । प्रतिषिध्यते चाश्रावणः शब्दः । इत्येवमादिषु पञ्चसु प्रत्यक्षादिप्रसिद्धं धर्मयाथात्म्यमिति भावना । तथा प्रतिपादनासंभवतस्त्रयाणाम् । तत्र प्रतिपाद्यतेऽनेन प्रतिपादयतीति वा प्रतिपादनम् । परमप्रत्यायनमिति हृदयम् । तस्यासंभवः प्रतिपादनासंभवः तस्मात्प्रतिपादनासंभवतः । न च दृष्टान्ताद्यप्रतिपत्तौ प्रतिपादनं संभवति । तथा साधनवैफल्यतश्चैकस्य । विफलस्य भावो वैफल्यं साधनस्य वैफल्यं साधनवैफल्यं तस्मात्साधनवैफल्यतः । च समुच्चये । ततश्च एषां वचनानि । प्रतिज्ञादोषाः । प्रतिज्ञापक्ष इत्यनर्थान्तरम् । दोषाभास इति च तुल्यम् । इत्यभिहिताः पक्षाभासाः ॥ सांप्रतं हेत्वाभासानभिधित्सुराह । असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः । असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धानैकान्तिकविरुद्धाः । हेतुवदाभासन्ते इति हेत्वाभासाः । यथोद्देशं निर्देश इति न्यायमङ्गीकृत्यासिद्धप्रतिपिपादयिषयाह । तत्रासिद्धश्चतुःप्रकारः । तत्र एषु असिद्धादिषु । असिद्धः सिध्यति स सिद्धः प्रतीतः न सिद्धः असिद्धः अप्रतीतः । चतुःप्रकारश्चतुर्भेदः । प्रकारान्दर्शयति । तद्यथा । उभयासिद्ध इत्यादि । तद्यथेति पूर्ववत् । उभयोर्वादिप्रतिवादिनोः असिद्ध उभयासिद्धः ॥ अन्यतरस्य वादिनः प्रतिवादिनो वा असिद्ध अन्यतरासिद्धः ॥ संदिह्यते स संदिग्धः । संदिग्धत्वादेवासिद्धः संदिग्धसिद्धः ॥ आश्रयो धर्मी सोऽसिद्धो यस्यासौ आश्रयासिद्धः । च समुच्चये । इतिशब्दः परिसमाप्त्यर्थः ॥ इदानीमुदाहरणान्याह । तत्र शब्दानित्यत्वे इत्यादि । तत्रेति पूर्ववत् । शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्येतस्मिन् चाक्षुषत्वादिति । चक्षुरिन्द्रियग्राह्यश्चाक्षुषस्तद्भावश्चाक्षुषत्वम् । तस्मादित्ययं हेतुरुभयासिद्धः । तथाहि- चाक्षुषत्वं न वादिनः प्रसिद्धं नापि प्रतिवादिनः । श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य ॥ कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः । शब्दनित्यत्वे साध्ये इति । वर्तते कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं वा प्रत्यन्यतरासिद्धः । तथाहि- न तस्य ताल्वोष्ठपुटादिभिः क्रियते शब्दः किंत्वभिव्यज्यत इति ॥ तथा बाष्पादिभावेनेत्यादि । बाष्पो जलादिप्रभवः स आदिर्यस्य रेणुवर्त्यादेः स बाष्पादिस्तस्य भावः सत्ता तेन बाष्पादिभावेन । संदिह्यमानः किमयं धूम उत बाष्प उत रेणुवर्तिरिति संदेहमापद्यमानः । भूतसंघातः सूक्ष्मः क्षित्यादिसमूहः । किम्? । अग्नेः सिद्धिरग्निसिद्धिस्तस्यामग्निसिद्धौ । अग्निरत्र थूमादिति उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः । निश्चितो हि धूमो धूमत्वेन हुतवहं गमयति नानिश्चित इति । तथा द्रव्यमाकाशमित्यादि । आकाश इति धर्मिनिर्देशः । द्रव्यमिति साध्यो धर्मः । गुणाश्चास्य षट् । तद्यथा । संख्या परिमाणं पृथक्त्वं संयोगो विभागः शब्देश्चेति ॥ तत्र गुणानामाश्रयः गुणाश्रयस्तद्भावस्तत्त्वं तस्मात्गुणाश्रयत्वादिति । अयं हेतुराकाशासत्त्ववादिनं बौद्धं प्रत्याश्रयासिद्धः । धर्मिण एवासिद्धत्वात् । तथा च तस्यायं सिद्धान्तः । पञ्च इमानि भिक्षवः संज्ञामात्रं संवृतिमात्रं प्रतिज्ञामात्रं व्यवहारमात्रं कल्पनामात्रम् । कतमानि पञ्च । अतीतः अद्धा अनागतः अद्धा प्रतिसंख्यानिरोधः आकाशं पुग्दल इति । ननु चान्योऽप्यस्ति असिद्धः स च द्विधा । प्रतिज्ञार्थैकदेशासिद्धः । यथा अनित्यः शब्दोऽनित्यत्वात् । अव्यापकासिद्धश्चेति । यथा सचेतनास्तरवः स्वापात् । स कस्मान्नोक्तः । आचार्य आह । अन्तर्भावात् । क्व पुनरन्तर्भाव इति चैतुभयासिद्धे । तस्माददोषः । आह । यद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धोऽन्यतरासिद्धश्चेति । शेषद्वयस्यात्रैवान्तर्भावात् । तथा चान्यैरप्युक्तम्- असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा ॥ इत्यादि । नैतदेवम् । धर्म्यसिद्धिहेतुसंदेहोपाधिद्वारेण भेदविशेषस्य सिद्धेः । विनेयव्युत्पत्तिफलत्वाच्च शस्त्रारम्भस्य । पर्याप्तं विस्तरेणोक्तोऽसिद्धः ॥ सांप्रतमनैकान्तिकः उच्यते । स च षट्प्रकारः षड्विधः । एकान्ते भव ऐकान्तिकः । न ऐकान्तिकौऽनैकान्तिकः । षट्प्रकारा अस्येति षट्प्रकारः षड्विधैत्यर्थः ॥ भेदानेवाह । साधारण इत्यादि । अन्वर्थम् । इत्युदाहरणमेव वक्ष्यामः । तत्र साधारणः प्रभेयत्वान्नित्य इति । तत्रेति पूर्ववत् । द्वयोर्बहूनां वा यः सामान्यः स साधारणः । प्रमीयते इति प्रमेयो ज्ञेय इत्यर्थः तद्भावः प्रमेयत्वं तस्मात्प्रमेयत्वात्प्रमाणपरिच्छेद्यत्वात् । नित्य इत्यत्र शब्दाख्यो धर्मी गम्यते । इदं च सपक्षेतराकाशघटादिभावेन साधारणत्वात्संशयनिमित्तमिति । आह च । तद्धि नित्यानित्येत्यादि । तत्प्रमेयत्वं धर्मः । हि रूपप्रदर्शने । नित्यश्चानित्यश्च नित्यानित्यौ नित्यानित्यौ च तौ पक्षौ च नित्यानित्यपक्षौ । तयोर्नित्यानित्यपक्षयोरित्यर्थः । किम्? । साधारणत्वात्तुल्यवृत्तित्वादनैकान्तिकम् । प्रयोग एव दर्शयति । किं घटवत्प्रमेयत्वादनित्यः शब्दः आहोस्विदाकाशवत्प्रमेयत्वान्नित्य इति प्रकटार्थं दर्शयति । अहो नायं संशयहेतुः । एतत्प्रयोगमन्तरेण प्रागेव संशयस्य भावात् । तद्भावभावित्वानुपपत्तेः । उक्तं च । अनैकान्तिकभेदाश्च नैव संशीतिकारणम् । संदेहे सति हेतूक्ते सद्भावस्याविशेषतः ॥ इत्यादि । नैतदेवम् । संशयस्याविवक्षितत्वात् । तमन्तरेणापि प्रयोगोपपत्तेश्च । क्रियते च विपर्यस्तमतिप्रभृतिप्रतिपत्त्यर्थमपि प्रयोगः । तत्रापि संशयहेतुत्वादनैकान्तिकामिति ॥ असाधारणः श्रावणत्वान्नित्य इत्यादि । साधारणविलक्षणः असाधारणः असामान्यः पक्षधर्मः सन् सपक्षविपक्षाभ्यां व्यावृत्त इत्यर्थः । उदाहरणमाह । श्रावणत्वान्नित्य इति । श्रवणेन्द्रियग्राह्यः श्रावणस्तद्भावः श्रावणत्वं तस्मात् । नित्यः अविनाशी । शब्द इति गम्यते । तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि विपक्षे घटादौ वर्तत इति संशयनिमित्तम् । अत एवाह । तद्धीत्यादि । तत्श्रावणत्वम् । हि रूपप्रदर्शने नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् । संशयहेतुरिति योगः । अन्यत्र वर्तिष्यत इतीदमपि निराकुर्वन्नाह । नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् । यदस्ति तेन नित्येन वा भवितव्यमनित्येन वा नान्यथा । विरोधादतिप्रसंगाच्च । अतः संशयहेतुः संशयकारणम् । कथमित्याह । किंभूतस्येत्यादि । किंप्रकारस्य किं नित्यस्याहोस्विदनित्यस्यास्येति । प्रस्तुतस्य शब्दस्य श्रावणत्वमित्येतदुक्तं भवति । यदि तदन्यत्र नित्ये वानित्ये वोपलब्धं भवति ततस्तब्दलेनेतरत्रापि निश्चयो युज्यते नान्यथा । विपर्यकल्पनाया अप्यन्यनिवारितप्रसरत्वात् । इत्यत्र बहु वक्तव्यम् । अलं प्रसङ्गेन । आक्षेपपरिहारौ पूर्ववत् । एवं शेषेष्वपि भावनीयमिति ॥ सपक्षैकदेशवृत्तिरित्यादि । समानः पक्षः सपक्षः तस्यैकदेशः सपक्षैकदेशः तस्मिन्वृत्तिरस्येति सपक्षैकदेशवृत्तिः । तथा विसदृशः पक्षो विपक्षस्तं व्याप्तुं शीलमस्येति विपक्षव्यापी । उदाहरणमाह । यथा । अप्रयत्नानन्तरीयकः शब्दो नित्यत्वादिति । शब्दो धर्मी । अप्रयत्नानन्तरीयकत्वं साध्यो धर्मः । अनित्यत्वादिति हेतुः । तत्र अप्रयत्नानन्तरीयकः पक्षः । अप्रयत्नानन्तरीयकोऽर्थः । अस्य साध्यविद्युदाकाशादिपदार्थसंघातः किम्? । सपक्षः । तत्रैकदेशे विद्युदादौ वर्ततेऽनित्यत्वं नाकाशादौ । नित्यत्वात्तस्य । तथा अप्रयत्नानन्तरीयकः पक्षोऽस्य घटादिर्विपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नान्तरीयकस्यानित्यत्वात् । यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्घतसाधर्म्येण विद्युद्घतुल्यतयानिकान्तिकम् । भावनिकामाह । किं घटवतनित्यत्वात्प्रयत्नानन्तरीयकः । शब्दः आहोस्विद्विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति । प्रकटार्थम् ॥ विपक्षैकदेशवृतिः सपक्षव्यापी । समासः सुकर एव । उदाहरणमाह । यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम् । नाकाशादौ । तस्मादेतदपि विद्युद्घटसाधर्म्येण पूर्ववदनैकान्तिकमिति सूत्रार्थः । उक्तवैपरीत्येन स्वधिया भावनीयमिति ॥ उभयपक्षैकदेशवृत्तिः । उभयपक्षयोः सपक्षविपक्षयोरेकदेशवृत्तिरस्येति उभयपक्षैकदेशवृत्तिः । उदाहरणमाह । यथा नित्यः शब्दोऽमूर्तत्वादिति ॥ नित्यः पक्षोऽस्याकाशपरमाण्वादिः सपक्षः । तत्रैकदेश आकाशार्दो विद्यतेऽमूर्तत्वं न परमाण्वादौ । अनित्यः पक्षोऽस्य घटसुखादिर्विपक्षः । तत्रैकदेशे सुखादौ विद्यतेऽमूर्तत्वं न घटादौ । तस्मादेतदपि सुखाकाशसाधर्म्येणानैकान्तिकम् । एतदपि सूत्रं निगदसिद्धम् । तथा विरुद्धाव्यभिचारी । अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः । विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः । ततश्चानेन प्रतियोगिसाध्यमपाकृत्य हेतुप्रयोगः कर्तव्य इत्येतदाह । अन्ये तु विरुद्धश्चासावव्यभिचारी च विरुद्धाव्यभिचारीति व्याचक्षते । इदं पुनरयुक्तमेव । विरोधादनेकान्तवादापत्तेश्च । उदाहरणमाह । यथानित्यः शब्दः कृतकत्वाद्घटवत् । नित्यः शब्दः श्रावणत्वात्शब्दत्ववत् । उभयोः संशयहेतुत्वात्द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनित्यः शब्दः कृतकत्वाद्घटवदिति वैशेषिकेणोक्ते मीमांसक आह । नित्यः शब्दः श्रावणत्वात्शब्दत्ववत् । शब्दत्वं हि नाम वेणुवीणामृदङ्गपणवादिभेदभिन्नेषु सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं नित्यमिति । उभयोः संशयहेतुत्वादिति । एकत्र धर्मिणि उभयोः कृतकत्वश्रावणत्वयोः संशयहेतुत्वात्संदेहहेतुत्वा । तथा चैकत्र धर्मिणि कृतकत्वश्रावणत्वाख्यौ हेतु संदेहं कुरुतः किं कृतकत्वाद्घटवदनित्यः आहोस्विच्छ्रावणत्वाच्छब्दत्ववन्नित्यः इति । एवं संदेहहेतुत्वे प्रतिपादिते परश्चोदयति किं समस्तयोः संदेहहेतुत्वमुत व्यस्तयोः । यदि समस्तयोः संदेहहेतुत्वं तदासाधारणान्न भिद्यते । श्रावणत्वं चासाधारणत्वेनोक्तम् । अथ व्यस्तयोस्तदपि न । व्यस्तयोः सम्यग्धेतुत्वात् । अत्रोच्यते । समस्तयोरेव संदेहहेतुत्वम् । ननूक्तमसाधारणान्न भिद्यते । तन्न । यतो भिद्यत एव । परस्परसापेक्षो विरुद्धाव्यभिचारी चेति । एककः असहायोऽसाधारणः । स चानेनांशेनाचार्येण भिन्न उपात्त इति तस्माददोषः । उक्तं च मूलग्रन्थे द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनुद्भाविते तु तदभाव इति । अत्र बहु वक्तव्यम् । तत्तु नोच्यते । संक्षेपरुचिसत्त्वानुग्रहार्थोऽयमारम्भः । इत्युक्तोऽनैकान्तिकः ॥ सांप्रतं विरुद्धमाहः विरुद्धश्चतुःप्रकार इत्यादि । विरुध्यते स विरुद्धः । तथा ह्ययं धर्मस्वरूपादिविपरीतसाधनार्द्धर्मेण धर्मिणा वा विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः । तद्यथा । धर्मस्वरूपविपरीतसाधन इत्यादि । तद्यथेति भेदोपन्यासार्थः । शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः । तत्र धर्मेत्यादि । तत्र धर्मस्वरूपविपरीतसाधनो यथा नित्येति पूर्ववत् । धर्मः पर्याय इत्यनर्थान्तरम् । तस्य स्वरूपमसाधारणामात्मलक्षण धर्मस्वरूपं तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । अधुनोदाहरणमाह । यथा नित्य शब्दः कृतकत्वात्प्रयत्नानन्तरीयकत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावद्विरुद्धः । अत्र धर्मस्वरूपनित्यत्वम् । अयं च हेतुविपरीतमनित्यत्वं साधयति । तेनैवाविनाभूतत्वात् । तथा चाह । विपक्ष एव भावाद्विरुद्धः । आह अयमपक्षधर्मत्वादसिद्धान्न विशिष्यते कथं विरुद्ध इति? । अत्रोच्यते । नावश्यं पक्षधर्म एव विरुद्धता अन्यथाप्याचार्यप्रवृत्तेः । अधिकृतयोगज्ञापकात् । न चायमसिद्धान्न विशिष्यते इति । विपर्ययसाधकत्वेनासिद्धेः । एतत्प्रधानत्वाच्चोपन्यासस्य । अन्यथानैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः । नित्यत्वादिसाधनत्वेन प्रमेयत्वादीनामपि असिद्धत्वात् । इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । धर्मविशेषविपरीतसाधन इत्यस्योदाहरणं यथा परार्थाश्चक्षुरादयः संघातत्वात्शयनासनाद्यङ्गवतिति । कः पुनरेवमाह? । सांख्यो बौद्धं प्रति । इह चक्षुरादयो धर्मिणः । आदिशब्दात्शेषेन्दियमहदहंङ्कारादिपरिग्रहः । पारार्थ्यं साध्यधर्म । अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम् । अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैकल्यप्रसङ्गः । संघातत्वादिति हेतुः । तत्र द्वयोर्बहूनां वा मेलकः संघातस्तस्य भावः संघातत्वं तस्मात्संघातत्वात् । शयनासनाद्यङ्गवदिति दृष्टान्तः । शयनं पल्यङ्कादि । आसनमासन्दकादि । तदङ्गानि प्रतीतान्येव । यथैतदङ्गानि संघातत्वाद्देवदत्तादिपरार्थानि वर्तन्ते एवं चक्षुरादयोऽपीति भावार्थः । अधुना विरुद्धमाह । अयमित्यादि । अयं हेतुः संघातत्वलक्षनो यथा येन प्रकारेण पारार्थ्यं परार्थभावं चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह । उभयत्राव्यभिचारात् । उभयत्रेति परार्थे संहतत्वे च अव्यभिचाराद्गमकत्वादित्यर्थः । तथा चैवमपि वक्तुं शक्यत एव संहतपरार्थाश्चक्षुरादयः संघातत्वात्शयनासनाद्यङ्गवदिति । शयनासणाद्यङ्गानि हि संहतस्य करचरणोरुग्रीवादिमत एवार्थं कुर्वन्ति नान्यस्य । तथोपलब्धेरिति । आह विपक्ष एव भावाद्विरुद्ध इति सामान्यं विरुद्धलक्षणं तत्कथमिहोपपद्यते? इति । उच्यते । असंहतपरविपक्षो हि संहत इति तत्रैव वृत्तिदर्शनात् । किं नोपपद्यते? । आक्षेपपरिहारौ पूर्ववत् ॥ धर्मिस्वरूपविपरीतेत्यादि । धर्मा अस्य विद्यन्ते इति धर्मी । उदाहरणं तु यथा न द्रव्यमित्यादि । कः पुनरेवमाह? । वैशेषिको बौद्धान्प्रति । केन पुनः संबन्धेन? इति । उच्यते । तस्य सिद्धान्तो द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट्पदार्थाः । ततः पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । गुणाश्चतुर्विशतिः । रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखेच्छाद्वेषाः प्रयत्नश्चेति सूत्रोक्ताः । चशब्दात्द्रवत्वं गुरुत्वं संस्कारः स्नेहो धर्माधर्मौ शब्दश्चेति । एवं चतुर्विशति र्गुणाः । पञ्च कर्माणि । तद्यथा उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । गमनग्रहणाब्ध्रमणरेचनस्पन्दनाद्यवरोधः । सामान्यं द्विविधं परमपरं चेति । तत्र परं सत्ता भावो महासामान्यमिति चोच्यते । अपरं द्रव्यत्वादि । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरम् । कथापुनर्युक्त्या? इत्यत्राह । न द्रव्यं भावः एकद्रव्यवत्त्वादिति हेतुः । सामान्यविशेषवदिति दृष्टान्तः । अधुना भावार्थ उच्यते । न द्रव्यं भावः । द्रव्यादन्य इत्यर्थः । एकद्रव्यवत्त्वादित्यत्र एकं च तद्द्रव्यं च एकद्रव्यमस्यास्तीति आश्रयभूतमिति एकद्रव्यवान् । समानाधिकरणाब्दहुव्रीहिः कदाचित्कर्मधारयः सर्वधनाद्यर्थ इति वचनात् । तद्भावस्तत्त्वं तस्मादेकद्रव्यवत्त्वात् । एकस्मिन्द्रव्ये वर्तमानत्वादित्यर्थः । वैशेषिकस्य हि अद्रव्यं द्रव्यमनेकद्रव्यं च द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशकालदिगात्मनः परमाणवः । अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव नास्ति । एकद्रव्यवांश्च भावः । इत्यतो द्रव्यलक्षणविलक्षणत्वात्न द्रव्यं भाव इति । दृष्टान्तः सामान्यविशेषः । स च द्रव्यत्वगुणत्वकर्मत्वलक्षणः । द्रव्यत्वं हि नवसु द्रव्येषु वर्तमानत्वात्सामान्यं गुणकर्मभ्यो व्यावर्तमानत्वाद्विशेषः । एवं गुणत्वकर्मत्वयोरपि भावना कार्येति । ततश्च सामान्यं च तद्विशेषश्च स इति सामान्यविशेषस्तेन तुल्यं वर्तत इति सामान्यविशेषवत् । द्रव्यत्ववदित्यर्थः । ततश्चैतदुक्ते भवति । यथा नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावोऽपीत्यभिप्रायः । आह यदि नाम द्रव्यं न भवति तथापि गुणोभविष्यति कर्म च इत्येतदपि निराचिकीर्षुराह । गुणकर्मसु च भावात् । ततश्च न गुणो भावः गुणेषु भावाद्गुणत्ववत् । यदि च भावो गुणः स्यान्न तर्हि गुणेषु वर्तेत निर्गुणत्वाद्गुणानाम् । वर्तते च गुणेषु भावः । सन् गुण इति प्रतीतेः । तथा न कर्म भावः कर्मसु भावात्कर्मत्ववत् । यदि च भावः कर्म स्यात्न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात्कर्मणाम् । वर्तते च कर्मसु भावः । सत्कर्मेति प्रतीतेः । व्यत्ययोपन्यासस्तु प्रतिज्ञाहेत्वोर्विचित्रन्यायप्रदर्शनार्थम् । इत्येवं वैशेषिकेणोक्ते बौद्ध आह । अयं च हेतुस्त्रिप्रकारोऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा भावस्य धर्मिणोऽभावत्वमपि साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह । उभयत्राव्यभिचारात् । उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात् । तथा च । यतथैद्बक्तुं शक्यते न द्रव्यं भावः एकद्रव्यत्वात्द्रव्यत्ववतेवमिदमपि शक्यते भावो भाव एव न भवति एकद्रव्यत्वात्द्रव्यत्ववत् । न च द्रव्यत्वं भावः सामान्यविशेषत्वात् । एवं न गुणः गुणेषु भावात्गुणत्ववत् । अत्रापि भावो भाव एव न भवति गुणेषु भावात्गुणत्ववत् । न च गुणत्वं भावः सामान्यविशेषत्वादेव । एवं न कर्म भावः कर्मसु भावात्कर्मत्ववतत्रापि भावो भाव एव न भवति कर्मसु भावात्कर्मत्ववत् । न च कर्मत्वं भावः सामान्यविशेषत्वात् । सामान्यविरुद्धलक्षणयोजना तु भावविपक्षत्वात्सामान्यविशेषस्य सुकरैव । आह अयमसिद्धान्न विशिष्यते इति कथं विरुद्धः? । तथाहि । न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम् । तदभावाच्चश्रयासिद्ध एव हेतुरिति । अत्रोच्यते सत्यमेतत् । किंतु परप्रसिद्धोऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात् । एकस्मिन्नपि चानेकदोषजात्युपनिपातनात्तद्भेददर्शनार्थत्वान्न दोष इति । आह एवमविरुद्धभावः सर्वत्र विशेषविरुद्धभावादिति । न । विरोधिनोऽधिकृतहेत्वन्वितदृष्टान्तबलेनैव निवृतेः । तथाप्यनित्यः शब्दः पाक्यत्वाद्घतवत्पाक्यः शब्द इति विरुद्धप्रेरणायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्तरसामर्थ्यात्तन्निवृत्त्या न विरुद्धता । अनिवृत्तौ चाभ्युपगम्यत एव । अशक्या चेह तन्निवृत्तिरेकद्रव्यवत्वस्य तद्व्यतिरेकेणान्यत्रावृत्तेरिति । अत्र बहु वक्तव्यम् । अलं प्रसङ्गेन ॥ धर्मिविशेषविपरीतसाधनो यथा । धर्मी भाव एव तद्विशेषः सत्प्रत्ययकर्तृत्वम् । यत उक्तं सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । तद्विपरीतसाधनो यथा । अयमेव हेतुरेकद्रव्यवत्त्वाख्यः अस्मिन्नेव पूर्वपक्षे न द्रव्यं भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरितमसत्प्रत्ययकर्तृत्वमपि साधयति । तेनापि व्याप्यत्वात् । तथा ह्येतदपि वक्तुं शक्यत एव भावः सत्प्रत्ययकर्ता न भवति एकद्रव्यवत्त्वाद्रव्यत्वत् । न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात् । एवं गुणकर्मभावहेत्वोरपि वाच्यम् । अत एवमुक्तम्- उभयत्राव्यभिचारादिति । भावितार्थमेव । आक्षेपपरिहारौ पूर्ववत् ॥ उक्ता हेत्वाभासाः । सांप्रतं दृष्टान्ताभासानामवसरः । ते उच्यन्ते । तत्र यथा दृष्टान्तो द्विविधः एवं मूलभेदव्यपेक्षया तदाभासोऽपि तथा । आह । दृष्टान्ताभसो द्विविधः । साधर्म्येण वैधर्म्येण च । दृष्टान्त उक्तलक्षणः । दृष्टान्तवदाभास इति दृष्टान्ताभासः । दृष्टान्तप्रतिरूपक इत्यर्थः । तत्र साधर्म्येण तावद्दृष्टान्ताभासः पञ्चप्रकारः पञ्चभेदः तद्यथा । साधनधर्मासिद्ध इत्यादि । तद्यथेति भेदोपदर्शनार्थः । साधनधर्मो हेतुरसिद्धो नास्तीत्युच्यते । ततश्च साधनधर्मोऽसिद्धोऽस्मिन् सोऽयं साधनधर्मासिद्धः । न तु बहुब्रीहौ निष्ठान्तं पूर्वं निपततीति कृत्वासिद्धसाधनधर्मा इति । न वाहिताग्न्यादिषु वचनात् । आहिताग्न्यादेश्चाकृतिगणत्वाद्विकल्पवृत्तेरिति । अन्ये तु साधनधर्मेण रहितत्वादसिद्धः साधनधर्मासिद्धः इति व्याचक्षते । न चैतदतिशोभनम् । एवं साध्योभयधर्मासिद्धयोरपि भावनीयम् । अन्वयादिशब्दार्थं तूदाहरणाधिकारे वक्ष्यामः । स चावसरः प्राप्त एवेति यथाक्रमं निर्दिश्यते । तत्र साधनधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वात् । यथेत्युदाहरणोपन्यसार्थः । नित्यः शब्द इति प्रतिज्ञा पक्षः । अमूर्तत्वादिति हेतुः । अन्वयमाह । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तत्वम् । एतदाभासानामेव प्रक्रान्तत्वात् । नार्थो वैधर्म्येणेति न प्रदर्शितः । अयं च साध्यसाधनधर्मानुगत इष्यते । इह तु साध्यधर्मोऽस्ति न साधनधर्मः । तथा चाह । परमाणौ हि साध्यं नित्यत्वमस्ति । अन्त्यकारणत्वेन नित्यत्वात् । साधनधर्मोऽमूर्तत्वं नास्ति । कुतः । मूर्तत्वात्परमाणुनाम् । मूर्तत्वं च मूर्तिमत्कार्यघटाद्युपलब्धेः सिद्धमिति ॥ साध्यधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वाद्बुद्धिवदिति । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । बुद्धौ हि साधनधर्मोऽमूर्तत्वस्ति साध्यधर्मो नित्यत्वं नास्ति अनित्यत्वाद्बुद्धोरिति सूत्रप्रयोगः सुगम एव । व्याप्तिं दर्शयति । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । आह कथमयं साध्यधर्मासिद्ध? इति । अत्राह । बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति । तदमूर्तत्वप्रतीतेः । साध्यधर्मो नित्यत्वं नास्ति । कुतः? । अनित्यत्वाद्बुद्धेरिति ॥ उभयासिद्धो द्विविधः । कथम्? इत्यत्राह । सन्नसंश्चेति । सन्निति विद्यमानोभयासिद्धः । ततश्च असन्निति अविद्यमानोभयासिद्धः । प्रयोगो मौल एव द्रष्टव्यः । यत आह । तत्र घटवदीति विद्यमानोभयासिद्धः । ततश्च नित्यः शब्दोऽमूर्तत्वाद्घटवदित्यत्र न साध्यधर्मो नित्यत्वलक्षणः नापि साधनधर्मोऽमूर्तत्वलक्षणोऽस्ति अनित्यत्वान्मूर्तत्वाद्घटस्येति । तथाआकाशवदित्यविद्यमानोभयासिद्धः । ततश्च नित्यः शब्दोऽमूर्तत्वादाकाशवदिति । नन्वयमुभयसब्धावात्कथमुभयासिद्ध इत्याशङ्कयाह । तदसत्त्ववादिनं प्रति । आकाशासत्त्ववादिनं बौद्धं प्रति । सांख्यस्येत्यर्थः । सति हि तस्मिन्नित्यत्वादिधर्मचिन्ता नान्यथेति ॥ अनन्वय इत्यादि । अविद्यमानोऽन्वयोऽनन्वयः । अप्रदर्शितान्वय इत्यर्थः । अन्वयोऽनुगमो व्याप्तिरिति अनर्थान्तरम् । लक्षणमाह । यत्रेत्यादि । यत्रेत्यभिधेयमाह । विनान्वयेन विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः । सहभाव एकवृत्तिमात्रम् । प्रदर्श्यते कथ्यते आख्यायते । न वीप्सया साध्यानुगतेषु हेतुरिति । उदाहरणमाह । यथा घटे कृतकत्वमनित्यं च दृष्टमिति । घटः कृतकत्वानित्यत्वयोराश्रय इति । एवं सति आश्रयाश्रयिभावमात्राभिधानादन्यत्र व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः । विपरीतान्वय इत्यादि । विपरीतो विपर्ययवृत्तिरन्वयोऽनुगमो यस्मिन् तथाविधः । उदाहरणमाह । यत्कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति । एवं प्राक्साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति । आह । एवमपि को दोषः? इति । उच्यते । न्यायमुद्राव्यतिक्रमः । अन्यत्र व्याप्तिव्यभिचारात् । यथा ह्यनित्यः शब्दः प्रयत्नान्तरीयकत्वादियत्र यद्यदनित्यं तत्तत्प्रयत्नान्तरीयकम् । अनित्यानामपि विद्युदादीनामप्रयत्नानन्तरीयकत्वात् । इत्यलं प्रसङ्गेन । अयं साधर्म्यदृष्टान्ताभासः समाप्तः ॥ वैधर्म्येणापि । न केवलं साधर्म्येणैव । किम्? । दृष्टान्ताभासः । प्राङ्निरूपितशब्दार्थः । पञ्चप्रकारः । तद्यथा साध्याव्यावृत्त इत्यादि । तत्र साध्यं प्रतीतं तदव्यावृत्तस्मादिति साध्याव्यावृत्तः । आक्षेपपरिहारौ पूर्ववत् । एवं साधनोभयाव्यावृत्तयोरपि वक्तव्यम् । अव्यतिरेकादिशब्दार्थं तूदाहरणाधिकार एव वक्ष्यामः । स चावसरः प्राप्त एव ॥ तत्र साध्याव्यावृत्तः यथा नित्यः शब्दोऽमूर्तत्वात्परमाणुवत् । यथेत्युदाहरणोपन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा । अमूर्तत्वादिति हेतुः । वैधर्म्यदृष्टान्ताभासस्य प्रक्रान्तत्वात्साधर्म्यदृष्टान्तो नोक्तः । अभ्यूह्यश्चाकाशादिः । वैधर्म्यदृष्टान्तस्तु परमाणुः । अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते । यत उक्तम् । साध्याभावे हेतोरभाव एव कथ्यते इत्यादि । न चायं तथेत्याह च । परमाणोर्हि सकाशात् । साधनधर्मो हेतुः । तमेव दर्शयति अमूर्तत्वमिति । व्यावृत्तं निवृत्तम् । कुतः? । मूर्तत्वात्परमाणुनाम् । साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम् । कुतः? । नित्यत्वात्परमाणूनाम् । आह । साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः इह साध्याव्यावृत्त इति किमर्थमुच्यते? । तस्यान्वयप्रधानत्वात् । अन्वयस्य च साधनधर्मपुरःसरसाध्यधर्मोच्चारणरूपत्वात् । व्यतिरेकस्तु उभयव्यावृत्तिरूपः साध्याभावे च हेतोरभाव इति । अतः साध्याव्यावृत्तः ॥ तथा साधनाव्यावृत्तः कर्मवत् । प्रयोगः पूर्ववदेव । वैधर्म्यदृष्टान्तस्तु कर्म । तच्च उत्क्षेपणादि गृह्यते । तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम् । अनित्यत्वात्कर्मणः । साधनधर्मो हेतुः । तमेव दर्शयति अमूर्तत्वमिति । तन्न व्यावृत्तम् । अमूर्तत्वात्कर्मण इति ॥ उभयाव्यावृत्तःाकाशवदिति । नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत् । वैधर्म्यदृष्टान्तस्त्वाकाशमिति । ततो हि आकाशात् । न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वम् । कुतः? । नित्यत्वादमूर्तत्वादाकाशस्येति ॥ अव्यतिरेक इत्यादि । अविद्यमानव्यातिरेकः अव्यतिरेकः अनिदर्शितव्यतिरेक इत्यर्थः । लक्षणमाह । यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते । यत्रेत्यभिधेयमाह । विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्तं दृष्टमित्यादिलक्षणया । तद्विपक्षभावः साध्यसाधनविपक्षभावमात्रम् । निदर्श्यते प्रतिपाद्यते इति यावत् । दृष्टान्तमाह । यथा घटेऽनित्यत्वं च मुर्तत्वं च दृष्टमिति । इत्थं ह्येकत्राभिधेयमात्राभिधानाद्वैधर्म्याप्रतिपादनादर्थापत्त्यापि गम्यते प्रतिपत्तिगौरवादिष्टार्थसाधकत्वमिति ॥ विपरितव्यतिरेक इत्यादि । विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः । तमेव दर्शयति । यदनित्यमित्यादि । प्रस्तुतप्रयोग एव तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदेशयन् यदनित्यं तन्मूर्तं दृष्ट मिति वक्तव्ये यन्मूर्त तदनित्यं दृष्टमिति ब्रवीति । आह । एवमपि को दोषः? इति । उच्यते । अन्यत्र व्यभिचारः । तथा ह्यनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति । व्यतिरेको विद्युता व्यभिचारः ॥ निगमयन्नाह । एषामित्यादि । यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि । किं न साधनम्? । आभासत्वादेव । किं तर्हि? । साधनाभासमिति ॥ उक्तं साधनाभासम् ॥ अधुना दूषणस्यावसरः । तच्चातिक्रम्य बहुतरवक्तव्यत्वात्प्रत्यक्षानुमाने तावदाह । आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे । प्रत्यक्षं वक्ष्यमाणलक्षणमनुमानं च । असमासकरणं विभिन्नविषयज्ञापनार्थम् । स्वलक्षणविषयमेव प्रत्यक्षम् । सामान्यलक्षणविषयमेवानुमानम् । च समुच्चये । द्वे एव प्रमाणे इत्यनेन संख्यानियममाह । तथाहि बौद्धानां द्वे एव प्रमाणे प्रत्यक्षानुमाने । शेषप्रमाणानामत्रैवान्तर्भावात् । अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यते । अधुना प्रत्यक्षणिरूपणायाह । तत्र प्रत्यक्षमित्यादि । तत्रेति निर्धारणार्थः । प्रत्यक्षमिति लक्ष्यनिर्देशः । कल्पनापोढमिति लक्षणम् । अयं लक्ष्यलक्षणप्रविभागः । तत्र प्रतिगतमक्षं प्रत्यक्षम् । कल्पनापोढमिति । कल्पना वक्ष्यमाणलक्षणा सा अपोढा अपेता यस्मात्तत्कल्पनापोढम् । समासाक्षेपपरिहारौ पूर्ववत् । कल्पनयापोढं कल्पनाया वापोढं कल्पनापोढम् । यतिति तत्स्वरूपनिर्देशः । एवंभूतं चार्थे स्वलक्षणमपि भवति । आह । ज्ञानं संवेदनम् । तच्च निर्विषयमपि भवति अत आह अर्थे विषये । स च द्विधा स्वलक्षणसामान्यलक्षणभेदात् । अत आह । रूपादौ स्वलक्षणे इत्यर्थः । इह यदुक्तं कल्पनापोढमिति तत्स्वरूपाभिधानत एव व्याचष्टे नामजात्यादिकल्पनारहितम् । तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् । तत्र नामकल्पना यथा डित्था इति । जातिकल्पना यथा गौरिति । आदिशब्देन गुणक्रियाद्रव्यपरिग्रहः । तत्र गुणकल्पना शुक्ल इति । क्रियाकल्पना पाचक इति । द्रव्यकल्पना दण्डीति । आभिः कल्पनाभी रहितं शब्दरहितम् । स्वलक्षणहेतुत्वात् । उक्तं च । न ह्यर्थे शब्दाः अन्ति तदात्मानो वा येन तस्मिन्प्रतिभासमाने तेऽपि प्रतिभासेरन्नित्यादि । तदक्षमित्यादि । तदित्यनेन यन्निर्दिष्टस्य परामर्शः । अक्षाणीन्द्रियाणि । ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रतिवर्तत इति प्रत्यक्षम् । आह । यथेन्द्रियसामर्थ्याज्ज्ञानमुत्पद्यते तथा विषयसामर्थ्यादपि तत्कस्मादिन्द्रियेणैव व्यपदेशो न विषयेणेति? । अत्रोच्यते । असाधारणत्वादिन्द्रियस्य साधरणत्वाच्चार्थस्येति । तथा हि । इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधरणम् । अर्थस्तु मनोविज्ञानस्यापीति साधारणः । असाधारणेन च लोके व्यपदेशप्रवृत्तिर्यथा भेरीशब्दो यवाङ्कुर इति । उक्तं च भदन्तेन । असाधारणहेतुत्वादक्षैस्तद्यपरिश्यते इत्यादि । आह । मनोविज्ञानाद्यपि प्रत्यक्षमित्युक्तं न च तदनेन संगृहीतमिति कथं व्यापिता लक्षणस्य । उच्यते । कल्पनापोढं यत्तज्ज्ञानर्थे रूपादौ इत्यनेनार्थसाक्षात्कारित्वग्रहणान्मनोविज्ञानदेरपि तदव्यभिचारात्संगृहीतमेव तन्मानसम् । लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः । इति कृतं प्रसङ्गेण । गमनिकामात्रमेतत् ॥ अनुमानमित्यादि । अनुमितिरमुमानम् । तच्च लिङ्गादर्थदर्शनमालिङ्गं पुनस्त्रिरूपमुक्तम् । पक्षधर्मत्वादि । तस्मात्रिरूपाल्लिङ्गाद्यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते किंविशिष्टम्? अग्निरत्र धूमातनित्यः शब्दः कृतकत्वात्तदनुमानमिति । उदाहरणद्वयं तु वस्तुसाधनकार्यस्वभावाख्यहेतुद्वयख्यापनार्थम् । अधुना फलमाह । उभयत्रेत्यादि । उभत्र प्रत्येक्षेऽनुमाने च । तदेव ज्ञानं प्रत्यक्षनुमानलक्षणम् । फलं कार्यम् । कुतः? । अधिगमरूपत्वात् । अधिगमः परिच्छेदस्तद्रूपत्वात् । तथाहि परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृते अन्यज्ज्ञानं फलम् । भिन्नाधिकरणत्वात् । इत्यत्र बहु वक्तव्यमलं प्रसङ्गेन । सर्वथा न प्रत्यक्षानुमानाभ्यामन्यद्विभिन्नं फलमस्तीति । आह । यद्येवं प्रमाणाभावप्रसङ्गः । तब्धावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात् । प्रमाणाभावे च तत्फलस्याप्यभावः इति । तत्र प्रमाणाभावनिराचिकीर्षयाह । सव्यापारवत्ख्यातेः प्रमाणत्वमिति सह व्यापारेण विषयग्रहणलक्षणेन वर्तते इति सव्यापारम् । प्रमाणमिति गम्यते । सव्यापारमस्या विद्यत इति सव्यापारवती । ख्यातिरिति गम्यते । सव्यापारवती चासौ ख्यातिश्च सव्यापारवत्ख्यातिः प्रतीतिः । तस्याः सव्यापारवत्त्याः ख्यातेः प्रमाणत्वमिति । एतदुक्तं भवति । विषयाकारं ज्ञानमुत्पद्यमानं विषयं गृण्हदेवोत्पद्यते इति प्रतीतेः ग्राहकाकारस्य प्रमाणतेति । अन्ये तु संश्चासौ व्यापारः सद्व्यापारः प्रमाणव्यवस्थाकारित्वात्सन्नित्युच्यते । सोऽस्या विद्यत इति सद्यापारवती शेषं पूर्ववत्व्याचक्षते । इत्युक्ते प्रत्यक्षानुमाने ॥ अधुना प्रत्येक्षाभासमाह । कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । एतदेव ग्रहणवाक्यं व्याचिख्यासुराह । यज्ज्ञानं घटः पट इति वा विकल्पयतः शब्दारोपितमुत्पद्यते । अर्थान्तरे सामान्यलक्षणे । तदर्थस्वलक्षणाविषयत्वात् । सामान्यलक्षणविषयत्वादित्यर्थः । उक्तं प्रत्यक्षाभासम् ॥ सांप्रतमनुमानाभासमाह । हेत्वाभासपूर्वकं हेत्वाभासनिमित्तं ज्ञानमनुमानाभासम् । व्यभिचारात् । एतदेव व्याचष्टे । हेत्वाभासो हि बहुप्रकार उक्तः अस्ति वादिभेदेन । तस्माथेत्वाभासात्यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञस्य भवति तदनुमानाभासम् । इत्युक्तं प्रत्यक्षादिचतुष्टयम् ॥ इदानीमुक्तशेषं दुषणमभिधातुकाम आह । साधनदोषोद्भावनानि दूषणानि । प्रमाणदोषप्रकटनानीत्यर्थः । बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञादिदोषाणां दूषणत्वात् । एतान्येव दशयीर्त । साधनदोषो न्यूनत्वम् । सामान्येन विशेषमाह । पक्षदोषः प्रत्यक्षदिविरुद्धत्वम् । प्रत्यक्षादिविरुद्धा प्रतिज्ञेत्येवमादि । हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम् । असिद्धो हेतुरित्येवमादि । एवं दृष्टान्तदोषाः साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनमिति । तस्य प्रत्यक्षविरुद्धहेत्वादेः प्रकाशनं प्राश्निकप्रत्यायनं न तुद्भावनमात्रमेव । दूषणमिति सामान्येन दूषणजात्यनतिक्रमादेकवचनमिति । उक्तं दूषणम् ॥ अधुना दूषाणाभासमाह । अभूतसाधनदोषोद्भावनानि दूषणाभासानि । अभूतमविद्यमानमेव तद्यतः साधनदोषं सामान्यनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातिदूषणाभासानि । एतदेव दर्शयति । संपूर्णे साधने अवयवे न्यूनत्ववचनम् । न्यूनमिदमित्येवंभूतम् । अदुष्टपक्षे पक्ष दोषवचनमित्यादि निगदसिद्धम् । यावदेतानि दुषणाभासानि किम्? । इत्यत आह । नह्येभिः परपक्षो दूष्यते । कुतः? । निरवद्यत्वात्परपक्षस्य । इत्युपरम्यते शास्त्रकरणात् ॥ शास्त्रपरिसमाप्तौ तत्स्वरूपप्रतिपादनायैवाह । पदार्थमात्रमित्यादि । पदार्थमात्रमिति साधनादिपदोद्देशमात्रम । आख्यातं कथितम् । आदौ प्रथमम् । दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्धयर्थम् । यात्र युक्तिरन्वयव्यतिरेकलक्षणा । अयुक्तिर्वा असिद्धादिभेदा । सान्यत्र प्रमाणसमुच्चयादौ । सुविचारिता प्रपञ्चेन निरूपितेत्यर्थः ॥ न्यायप्रवेशकं यद्याख्यायावाप्तमिह मया पुण्यम् । न्यायादिगमसुखदं संलभता भव्यो जनस्तेन ॥ समाप्ता चेयं शिष्यहिता नाम न्यायप्रवेशकटीका ॥ कृतिरियं हरिभद्रसूरेः ॥